द्वैतद्युमणिपरिशिष्टम्

द्वैतद्युमणिपरिशिष्टम्
[[लेखकः :|]]

द्वैतद्युमणिपरिशिष्टम्
<106 पृष्ठे 11 पंक्ति 12 पंक्त्योर्मध्ये>
(द्वै. द्यु.)
ननु सुखदुःखनिवृत्तिभेदाभ्यां परमेष्टभेदसाधनमेवैतद्ग्रन्थाभिप्रेतम्। अत इष्टसाधनभेद पूरणेन व्याख्यानमयुक्तमिति चेन्। पूर्वमिष्टमात्रविषयकत्वेनैव पुरुषार्थताया उक्तत्वेन परमेष्टस्याप्रसक्तत्वात्। न च तत्रापि परमेष्टविषयकत्वेनैव परमफलत्वमुक्तमिति वाच्यम्। तर्हि यद्धि यस्येष्टमिति प्रक्रमविशेधात्। न च तत्रापीषृपदेन परमेष्टमेवोच्यत इति तर्हि `यद्यस्य परमेष्टं तं प्रति तदेव वाच्यम्। नान्यत्' इत्युक्तं स्यात्। लोकरीतेरेवेदानीं प्रतिपाद्यतया लौकिकानाञ्च सुखदुःखप्राप्तिनिवृत्त्योरेव परमेष्टत्वेन तयोरेव सुखं दुःखनिवृत्तिश्चेत्यादिवाक्येनोपदेश्यत्वं तादृशवाक्यस्यैवोपादेयत्वञ्च स्यात्। न तु यजेत पचेतेत्यादिवैदिकलौकिकवाक्यानां तत्साधनीभूतेष्टबोधकानाम्। तेषां परमेष्टाविषयकत्वात्। न हि तथा कश्चिदङ्गीकरोति।
ननु तत्रेष्टसाधनमपि उपलक्षणया गृह्यते। तथा च `यद्धि यस्य परमेष्टं' साक्षात् परम्परया वा तत्साधनं तयोरन्यतरदेव बोधनीयम्। नान्यदित्यर्थः। न चोत्तरत्रेष्टस्यैवोपादानं कुत इति वाच्यम्। उभयोर्मध्ये प्रकृते ईश्वरबोधकवाक्यस्य कांश्चित्प्रतीष्टबोधकत्वेन तावदुपादेयत्वं वक्तुं इष्टश्च रमापतिरित्युक्तम्। परमेष्ट इत्येवार्थः। एवमपि प्रवृत्त्याद्यजनकत्वात्कथं वाक्यस्य साफल्यमिति चोद्यपरिहारायेष्टानुभवस्येत्युक्तम्।
एतद्वाक्यमेके व्याचक्षते। अत्रानुभवपदेन स्वसम्बन्धिवर्तमानेष्टविषयकज्ञानमात्रं विवक्षितम्। तेनानुभवपदेन स्मृत्यन्यज्ञानविवक्षायां `यन्न दुःखेन सम्भिन्नम्' इत्यादिवाक्यजज्ञानस्यापि पुरुषार्थत्वापत्तिः। साक्षात्कारविवक्षायां वेदजन्येश्वरबोधस्य साक्षात्काररूपत्वाभावेन पुरुषार्थात्वानुपपत्तिरिति दूषणानवकाश इति।
तत्रेदं चिनत्यते। एवमपि चैत्रस्य भोजनादिसाध्यसुखोत्पत्तिवेलायां दुःखाभावदशायाञ्च मैत्रेण प्रयुक्तेन `चेत्र त्वयि सुखं वर्तते। त्वयीदानीं दुःखाभावो वर्तते' इति वाक्येन जायमानस्य चैत्रनिष्ठबोधस्य चैत्रं प्रति पुरुषार्थत्वापत्तिः। न चेष्टापत्तिः। तादृशवाक्यप्रयोक्तरि मैत्रे `ममेष्टसम्पादकोऽयम्' इति उपकारान्तरकर्तरीव चैतस्य `अयंचैत्रोपकर्ता' इति लोकानाञ्च प्रत्ययापत्तेः। न च सोऽस्ति। प्रत्युत `त्वया किं वक्तव्यम्। वर्तत एव' इत्युपहासकर्तारो भवन्ति। किञ्च स्वसम्बन्धीत्यत्र सम्बन्धत्वेन सम्बन्धनिवेशे परकीयसुखस्य किञ्चित्परम्परा(1)सम्बन्धतया परसुखादिविषयकज्ञानस्यापि पुरुषार्थत्वापत्तिः। परकीयसुखं न स्वेष्टमिति वाच्यम्। तर्हि तद्व्यावृत्तये स्वसम्बन्धीत्यस्य वैयर्थ्यापत्तिः।
{1. सम्बन्धेन स्वसम्बद्धतया इति पाठेन भाव्यमिति भाति।}
किञ्च दुःखविशेषात्यन्ताभावस्यस्वस्मिन्नन्यत्र च विद्यमानस्यैकत्वेन चैत्रनिष्ठदुःखाभावानुभवस्य मैत्रं प्रति पुरुषार्थत्वापत्तिः। ज्ञानेऽपि स्वनिष्ठत्वस्य निवेशे मैत्रनिष्ठस्य चैत्रनिष्ठोक्तदुःखाभावविषयकशाब्दस्य तथात्वं स्यात्। विशिष्य स्वसमवेतत्वस्य स्वस्वामिकत्वस्य वा निवेशे दुःखाभावसाक्षात्कारासंग्रहः। स्वासमवेतत्वात् स्वास्वामिकत्वाच्च दुःखाभावस्य। सिद्धान्ते समवायाभावात्। समवेतत्वस्य वृत्तित्वमात्ररूपत्वे उक्तदोषाभावेऽपि यथाश्रुते निष्कर्षे च सुखसाक्षात्कारस्यैवासंग्रहः. सुखादेरन्तःकरणधर्मत्वात्। स्वस्वामिकत्वकल्पे ईश्वरज्ञानस्यैवासंग्रहः। तस्येतरास्वामिकत्वादिति।
वस्तुत (2)इष्टानुभवस्य इष्टपदं परमेष्टपरमेव। एवकारः प्रवृत्त्यादिजनकत्वादिविशेषणाविशेषितत्वबोधकः। अनुभवपदं ज्ञानपरमेव। पुरुषार्तत्वात् परमफलत्वात् प्रवत्त्याद्यजनकस्यापि परमेष्टज्ञानस्य कस्यचित्फलरूपताया दृष्टत्वेनासम्भावितत्वाभावात् `ईश्वरानुभवोऽपि फलरूपः' इति वक्तुमुपक्रान्तत्वेन तादृशज्ञानसामान्यस्य फलरूपत्वनियमे एतद्वाक्यतात्पर्यकल्पने बीजाभावेन सुखादिशाब्दबोधादौ व्यभिचारानवकाशः। न हीत्यादिवाक्यद्वयं तस्यैवोपपादकम्। तथा च परमेष्टस्यैव प्रक्रान्तत्वादत्र सुखदुःखहान्यन्यतरानात्मकत्वेन परमेष्टत्वमेवाक्षिप्यते।
{2. इष्टानुभवस्येत्यत्र इष्टस्यानुभवः षष्ट्या विषयत्वमर्थः। इष्टपदं इति पाठेन भाव्यमिति भाति।}
नः इत्यादिना मूलकृदभिप्रेतं परमेष्टत्वमुपपादयित्वा इष्टसाधनत्वादिना मध्यमभक्तान् प्रति वेदप्रामाण्यमुपपादयिष्यतीति पूर्वोत्तरग्रन्थसामञ्जस्ये किमर्थं इष्टपदस्येष्टसामान्यपरत्वमाश्रित्य पूरणसंवलितं व्याख्यानमिति चेन्न। भवद्व्याख्यानेऽपीष्टसाधनस्य पूरणं प्राप्तमेव। परन्तु नानावाक्यस्थेष्टपदस्य परमेष्टलाक्षणिकत्वमधिकम्। अपि चेष्टसाधनसमकक्षतया परमेष्टस्य वाक्येन बोधनीयताकथनमयुक्तमेव। लोके स्वसुखसाधनादावेव प्रश्नप्रतिवचनयोरेव दर्शनात् `मत्सुखं कीदृशम्' इति प्रश्नस्य `त्वत्सुखमेतादृशम्' इत्युत्तरस्य चादर्शनात्।
किञ्चोत्तरत्रेष्टानुभवस्येत्यादिवाक्यैरीश्वरशाब्दस्य फलरूपत्वबोधनाय सुखसाक्षात्कारस्य फलरूपत्वकथनमसङ्गतम्। उदासीनतृणादिप्रत्यक्षस्य प्रामाण्यादेः सर्वसिद्धत्वात्तत्र यथावस्थितार्थबोधकत्वमात्रं प्रामाण्यं शब्दस्य तु परार्थत्वात्सफलत्वघटितमेव प्रामाण्यमिति प्रत्यक्षवैलक्षण्येन पूर्वपक्षस्य प्रवृत्तत्वेन सुखसाक्षात्कारस्य फलरूपत्वेनेश्वरशाब्दस्य फलरूपत्वासिद्धेः। इष्टज्ञानत्वसाम्यमात्रेण तथात्वे सुखशाब्दस्यापि तथात्वं प्रमेयत्वसाम्येन घटादेरपि तथात्वं स्यात्। सुखशाब्दसाक्षात्कारयोः साक्षात्कारत्वशाब्दत्वाभ्यामेव फलाफलरूपत्वे ईश्वरशाब्दस्यापि कुतो नाफलत्वम्। प्रवृत्त्याद्यजनकप्रत्यक्षादेरिच्छाविषयत्वाभावेन प्रवृत्त्याद्यजनकज्ञानसामान्यस्येच्छाविषयत्वाभावनियमे परेण स्वीकृते प्रत्यक्षविशेषादौ व्यभिचारोद्भावनस्य सङ्गतत्वेनास्मदीयैतद्वाक्यव्याख्यायामनुपपत्त्यभावात्। ईश्वरावबोधस्य फलत्वन्तु तस्य परमेष्टत्ववत्प्रमाणेनैव सिद्ध्यति। किञ्च भवद्व्याख्याने मूलस्थेष्टपदं परमेष्टपरमेव। तथा च मध्यमभक्तान् प्रति वेदसार्थक्यस्यानुक्तत्वेन मूलस्य न्यूनतापातः। तस्माद्युक्तमेव पूरणसंवलितं व्याख्यानम्। इष्टपदन्त्विष्टसामान्यपरमेवेति।
</106 पृष्ठे 11 पंक्ति 12 पंक्त्योर्मध्ये>

<128 पृष्ठे 19 20 पंक्त्योर्मध्ये>
ननु विमतेः पक्षतावच्छेदकत्वानङ्गीकारे मूले मुक्त इत्यादिपक्षनिर्देशं विहाय विमतमिति पदप्रयोगस्यानर्थक्यं स्यात्। न च विमतिवाक्यस्य सर्वत्रावश्यकताबोधनार्थं तदिति युक्तम्। तदावश्यकतायाः विप्रतीपत्तिसाध्यसंशयस्य पक्षतारूपत्वाभावाद्युपपादनेन न्यायामृते निरस्तत्वेन तस्य सिद्धान्तत्वाभावात्।
यत्तु `विप्रतिपत्तिरावश्यिक्येव। विप्रतिपत्त्या संशयेन तदभावरूपफलेच्छया न्यायवाक्यरूपविचारावसरेण विप्रतिपत्तेर्विचाराङ्गत्वात्। ननु वादिनोः स्वस्वपक्षनिश्चयवत्त्वध्रौव्येण मध्यस्थादीनामपि विद्वत्त्वात् कुत्र संशयो जायते। किञ्च मूर्खस्य विचारे नियमने स्वस्याकीर्तिः स्यादिति तत्परिहाराय उभयोः समविद्यत्वपरीक्षाया मध्यस्थेन कर्तव्यतया तेन तदुभयनिष्ठान्यतरपक्षनिश्चयस्यापि निश्चितत्वेन तत्सम्भावनाऽपि नास्तीति कथं संशयो भवत्विति बुद्ध्या मध्यस्थो विप्रतिपत्तिवाक्यं प्रयुञ्जीतेति चेन्न। तत्काले संशयानुपधानेऽपि विप्रतिपत्तेः संशयस्वरूपयोग्यत्वरूपकारणत्वेन सम्बन्धितया विप्रतिपत्तिरूपैकसम्बन्धिज्ञाने सत्यपरसम्बन्धिरूपसंशयस्मरणे सति प्रतियोगिज्ञानानन्तरं तदभावरूपफलज्ञानोदयेन तदिच्छया तन्निर्वाहकविचारे प्रवृत्तिनिर्वाहकतया विप्रतिपत्तेर्विचाराङ्गत्वस्याभिमतत्वात्।
न च तत्र संशयाभावस्तदा वर्तत एवेति कथं तदिच्छेति वाच्यम्। कालान्तरे व्यासङ्गादिना तदुच्छेदशङ्कया कालान्तरेऽपि संशयाभावोऽनुवर्ततामिति बुद्ध्या स्वजन्यानुभवाधीनसंस्कारदार्ढ्यादिद्वारा तन्निर्वाहकविचार इच्छासम्भवात्। न च तत्वनिर्णयमात्रफलकवादकथायां विप्रतिपत्तेरनावश्यकत्वं प्रत्यक्षालोकादिग्रन्थसम्मत्या नैयायिकादिसिद्धमेव। जल्पे तु स्वस्वविजयार्थमेव विचारे प्रवृत्तिसम्भवेन फलान्तरानुसन्धानं नापेक्षितमिति वाच्यम्। एवमपि सभ्यसभापत्यादीनां स्वकीयफलानुसन्धानं विना तत्र मनःप्रणिधानायोगेनोक्तरीत्या विप्रतिपत्तेस्तदर्थकत्वात्। न च पूर्वोक्तरीत्या कुत्रापि फलानुपधाने स्वरूपयोग्यताऽपि नास्ति। कल्पकाभावादिति वाच्यम्। सभ्यानां सर्वेषां विद्वत्त्वनियमाभावात्सभाबहिर्भावेण कदाचित्तज्जातीयवाक्येन संशयस्यान्येषां सम्भवेन च फलानुपधानासिद्धेः।
न चैवमज्ञानविपर्ययनिवृत्तिरूपफलप्रतियोग्यज्ञानादिजनकवाक्यमप्यावश्यकं स्यादिति वाच्यम्। अज्ञानस्यानादितया तज्जनकवाक्यासिद्धेः। संशयनिवृत्तेरज्ञाननिवृत्तिमूलकत्वेन पृथग्यत्नानपेक्षणाच्च। सर्वेषामेकदर्शननिविष्टत्वनियमाभावेन सर्वनिरसनीयैककोटेरभावेन इदमित्थमेवेत्याकारकस्य विपर्ययवाक्यस्य दर्शयितुमशक्यत्वात्। किञ्च विप्रतिपत्तेर्नैतावन्मात्रं प्रयोजनम्। अन्यदपि वर्तते। विप्रतिपत्तिवाक्ये प्रयुक्ते सर्वैः कोटिद्वयस्य श्रुतत्वात्तदपलापपूर्वकं वादिनोरन्यतरेण विषयान्तरग्रहणपूर्वकं स्वजयः स्थापयितुं नैव शक्यते। अन्यथा जयपराजयव्यवस्थाऽभावप्रसङ्गात्। एवं मध्यस्थेन स्वयमेवैकैकं प्रत्येकैकपक्षदाने तत्समर्थनाशक्तेन वादिना अन्यतरस्मिन्पक्षपातः स्वस्मिन्नसूयादिकं व्यवह्रियेत। अतो विप्रतिपत्तिवाक्येनोभाभ्यां कोटिश्रवणानन्तरं स्वयमेव पक्षविशेषग्रहणे पक्षान्तरसमर्थनाशक्तत्वशङ्का लोकानां स्यादित्यभिप्रायवद्भ्यां वादिभ्यां त्वयैव कश्चन पक्षो देय इत्युक्त्यनन्तरमेव तथाकरणे स्वस्य दोषाभावात्। अत एतदुभयप्रयोजनार्थमपि विप्रतिपत्तिरावश्यिकी। एतेन साधारणधर्मादिप्रतिबन्दिदानं परास्तम्। तस्मात्स्वकर्तव्यनिर्वाहाय समयवन्धादिवद्विप्रतिपत्तिर्दर्शनीयैव। परमवयवेषु नाग्रह'इति।
तन्न। `शब्दो गुणत्वेन नैयायिकाभ्युपगमविषयो द्रव्यत्वेन तु मीमांसकानाम्। अतो यथाकामन्यतरपक्षाऽश्रयणं कार्यम्' इत्याकारकेण संस्कृतेन तत्समार्थकभाषारूपवाक्येन वा मध्यस्थोक्तेन पूर्वोक्तसर्वप्रयोजननिर्वाहात् एकस्मिन्धर्मिणि विरुद्धकोटिद्वयशाब्दधीजननयोग्यत्वादिनानाकुसृष्ट्यादियुक्तवाक्यविशेषरूपविप्रतिपत्तेरनावश्यकताया न्यायामृतोक्ताया एतादृशशतोक्तिभिरप्यपरिहारात्। न हि न्यायामृते सर्वथाऽनुपयोग उक्तः। किन्त्वनावश्यकत्वमात्रम्। न हि कथापूर्वं मध्यस्थादिभिर्भाषया व्यवहारे किञ्चिद्बाधकम्। प्रत्युत प्राकृतादीनामपि सुज्ञानाय तस्यैवोचितत्वञ्च।
अपि च सभापतिप्रेरितेनान्येनैवोक्तरीत्या वादिप्रतिवादिभ्यां पक्षपरिग्रहादिकं कारयित्वा अनन्तरं मध्यस्थो नियमितः। तत्र मध्यस्थस्य विप्रतिपत्तिदर्शनानवकाशाच्च। यत्र सर्वविषयेषु तत्काले मध्यस्थकल्पितवाक्यस्यान्यदाप्युच्चारनियमाभावात्संशयाजननं तेषु स्वरूपयोग्यत्वकल्पकाभावाच्च। क्वचित्तस्य सत्त्वेपि ज्ञानस्यैव स्वस्योपयोगेन सर्वेषां तज्ज्ञाननियमाभावेन सर्वेषां संशयस्मारकत्वायोगश्च। केषाञ्चित्सम्भवेऽपि भाविविचारत्य संशयनिवृत्तिनिर्वाहकत्वानुपस्थित्या तत्र सभापत्यादीनां मनःप्रणिधानस्य ततोऽनिर्वाहाच्च। यत्र सभापत्यादीनामन्यतरकोटिनिश्चय एव तत्र स्वकर्तव्यसन्मानोपयोगितदुत्कर्षज्ञानार्थमेव नःप्रणिधानोपपत्तेश्च। वादिनोः प्रामाणिकत्वे निश्चितेऽसाधकतास्थलीयन्याये उदाहरणप्रयोगस्येव समयविशेषबन्धस्याप्यकर्तव्यतया दृष्टान्तस्य नियमेन सार्वत्रिकतयाऽसम्मतेश्च। वाक्यविशेषस्य क्षेमसाधारणमज्ञाननिर्वाहकत्वमपि भवतीति फलस्मरणोपयोगितामात्रेण तत्प्रदर्शनप्रतिबन्द्यपि युक्तैव। तसमादवयवेष्विव विप्रतिपत्तावप्यावश्यकत्वाग्रहस्त्याज्य एवेत्यतः।
</128 पृष्ठे 19 20 पंक्त्योर्मध्ये>

<129 पृष्ठे 11-12 पंक्त्योर्मध्ये>
ननु किञ्चिद्धर्मोपहिते तदुपलक्षिते वा चैतन्ये सर्वाधिष्ठानभूते भेदस्यापि सत्त्वेन न मन्मते पक्षतावच्छेदकोपहिते तदुपलक्षिते वा भेदकोटिकविप्रतिपत्तिः सम्भवति। न च त्वन्मते घटश्चिन्नेत्यादिप्रतीतिसिद्धभेदस्य घटावच्छिन्नचित्यारोपितत्वेन चिति तादात्म्यसम्बन्धेन भेदसत्त्वेऽपि चिच्चिन्नेति प्रतीतिवारणाय `नञुल्लेख्यप्रतीतौ विशेषणतासम्बन्धो भासते। तेन सम्बन्धेन तु चिति (3)स भेदो नास्ति' इति वक्तव्यम्। एवञ्च भेदान्तराणामपि तादात्म्यसत्त्वेऽपि न विशेषणतासम्बन्धेन वृत्तित्वम्। प्रकृते च मुक्तत्वोपलक्षिते तत्सम्बन्धसंसर्गकभेदकोटिकविप्रतिपत्तिर्युक्ता। चिद्धटो नेति प्रतीतिसिद्धभेदो यद्यपि शुद्धचिति विशेषणतासम्बन्धेन वर्तत इत्यापाततः प्रतिभाति तथापि स स्वोपहित एव वर्तते। अन्यथा शुद्धत्वहानिप्रसङ्गात्। एंव अन्येषामपि भेदानामिति शुद्धचिति भेदस्यासिद्धतया मुक्तत्वोपलक्षितायां चिति भेदकोटिकविप्रतिपत्तिसम्भवेन तत्र तत्साधने कथं सिद्धसाधनतावकाश इति वाच्यम्। अनुमितेर्वा विप्रतिपत्तिघटकवाक्यस्य वा यदि मुक्तत्वरूपधर्मपुरस्कारेण विशेष्यावगाहिता तदा मुक्तत्वोपहितस्यैवानुमितौ भानान्न शुद्धचिति भेदसिद्धिः। विप्रतिपत्तिघटकवाक्येन च तदुपहितभेदस्याङ्गीकृतत्वात्तन्निषेधरूपकोटिप्रतिपादनानुपपत्तिः। यदि चोपलक्षणीभूतधर्मस्य धर्मान्तरोपलक्षकत्वं क्वचिच्च स्वरूपोपलक्षकत्वञ्चाङ्गीकृतम्। तस्यायं निष्कर्षः फलीभूतबोधे भासमानधर्मान्तरोपस्थापकः सन् फलीभूतवोधे स्वयमभासमानः क्वचिद्भवति। क्वचिच्च फलीभूतबोधे भासमानस्वरूपमात्रोपस्थापकः सन् तत्र स्वयमभासमानः स्वरूपोपलक्षणमित्युच्यते इति। एतदुदाहरणादिकन्त्वाकरे व्यक्तम्। एवञ्चेहापि यदि मुक्तत्वं धर्मान्तरमुपस्थाप्य स्वयं निवर्तते तदा विप्रतिपत्तिवाक्येन धर्मान्तरविशेषितचिति भेदनिषेधः कृतः स्यात्। स चानुपपन्नः। मुक्तत्वोपहित इव धर्मान्तरोपहितेऽपि भेदाङ्गीकारात्। एवं सिद्धार्था प्रतिज्ञा स्यात्। धर्मान्तरोपहिते भेदस्याभ्युपगतत्वात्। यदि च स्वरूपमात्रेपलक्षणं स्यात् तदा मुक्तो न भिन्न इति वाक्यं वा नञ्‌घटितोक्तवाक्यं वा (4)स्वरूपमात्रावगाहिनं भेदाभाववान् इत्याकारकं वा भेदवान् इत्याकारकं वा बोधं जनयेत्। तथा च कथं तद्वाक्ययोर्विप्रतिपत्तिवाक्यत्वम्। तदुभयजन्यबोधस्य तदधीनबोधान्तरस्य वा संशयरूपत्वाभावेन तज्जनकत्वाभावात्। निर्धर्मितावच्छेदककसंशयाभावात्। अनुमितिरपि कथमक्तविधमुक्तत्वोपलक्षितचिदवगाहिनी स्यात्। तस्या निर्धर्मितावर्च्छेदककत्वाद्यभावात्।
 {3. चित्प्रतियोगिकः. 4. धर्मितावच्छेदकव्यवच्छेदाय मात्रपदम्।}
अथ मन्यसे `मुक्तत्वोपलक्षिते भानं नाम मुक्तत्वसामानाधिकरण्यमात्रस्य प्रकारांशे भानम्। प्रकारसम्बन्धे मुक्तत्वावच्छिन्नत्वभानन्तु तदुपहिते भानम्। प्रकृते च किञ्चिदुपहितचित्येव भेदस्य भवदङ्गीकृतत्वेन मुक्तत्वेनोपलक्षितायां शुद्धचिति भेदाभावकोटिका विप्रतिपत्तिर्युक्ता' इति। तदप्ययुक्तम्। मुक्तत्वाश्रयत्वस्य मुक्तत्वोपहित एव सत्त्वेन तेन रूपेण शुद्धचितौ विप्रतिपत्तिवाक्येन भासमानत्वेन तदुपहितस्यैव भानेन तत्र विप्रतिपत्त्ययोगस्योक्तत्वात्। यदि चोपहितधर्माणां शुद्धवृत्तित्वस्याभ्युपगमान्मुक्तत्वं शुद्धचिति वर्तत इति ब्रवीषि तदा भेदोऽपि तत्र वर्तत एवेति कथं तत्र तत्कोटिका विमतिः स्यात्। किञ्च शुद्धचिति कथमपि भेदो नास्तीत्यभ्युपेत्य मुक्तत्वोपलक्षितायां भेदाभावकोटिका विप्रतिपत्तिः मुक्तत्वोपलक्षिते भेदसाधने शुद्धचिति भेदमात्रसिद्ध्या आत्मनः कृतार्थतेति यदि मनुषे तर्हि आत्मत्वसंसारित्वादिधर्मेषु कस्यचित्पक्षतावच्छेदकत्वानुसरणे विप्रतिपत्तेश्चिति भेदसिद्धिसम्भवेन सिद्धसाधनतादोषेणैव तन्निराकरणपूर्वकं संसारान्मुक्तत्वस्य पक्षतावच्छेदकत्वानुसरणासङ्गतिः।
यदि च शुद्धत्वादिधर्मा इव शुद्धचित्येव जडानृतादिव्यावृत्तयोऽपि वर्तन्त इति विवरणमतमाद्रियते तदा शुद्धचित्येव भेदाभ्युपगमान्न विप्रतिपत्तिः। न तत्साधनेनानुमानस्य कृतार्थत्वम्। सिद्धसाधनानुद्धारात्। नापि मुक्तत्वविशिष्टे भेदतदभावकोटिका विप्रतिपत्तिः। मन्मते चरमक्षणस्य चरमसाक्षात्कारस्य वाऽऽवरणध्वंसरूपमुक्तितया तद्विशिष्टे भेदस्य निर्विवादत्वात्। तदुत्तरावस्थाविशिष्टत्वरूपमुक्तत्वविशिष्टे विप्रतिपत्तिरपि न युक्त। मन्मते तदुत्तरावस्थाया एवालीकत्वात्।
यदि चाऽवरणध्वंसोपलक्षिता चिदेव मुक्तिस्तदाश्रयस्याभावात्तस्याः पक्षतावच्छेदकत्वायोगः।
यदि चोभयसिद्धमुक्तत्वाश्रयेऽनवच्छिन्नविशेषणतया भेदकोटिका विप्रतिपत्तिस्तेनैव सम्बन्धेन भेदस्य साध्यतापि मुक्तौ नश्यमानभेदस्य चित्यनविच्छिन्नविशेषणतया वृत्त्यभावान्न विप्रतिपत्त्ययुक्तिः सिद्धसाधनता वा। न च पक्षनिष्ठाया दृष्टान्तनिष्ठाया वा भेदीयविशेषणताया मुक्तत्वनिगडमुक्तत्वादिधर्मावच्छिन्नत्वाद्बाधो दृष्टान्तासिद्धिश्चेति शङ्क्यम्। कालविधया या विलक्षणावच्छेदकता तदनिरूपकत्वस्यैव निवेशनीयत्वादिति मन्यसे तदप्ययुक्तमेव। आसंसारं चिन्निष्ठानामनृतादिभेदानां यावत्कालमनुवर्तमानानां विशेषणतायाः कालिकव्याप्यवृत्तितया कालानवच्छिन्नताया एव मदङ्गीकृतत्वेन विप्रतिपत्त्यनुपपत्तिसिद्धसाधनतयोरनुद्धारात्। न च मुक्तिकालासम्बन्धिनां भेदानां कथं कालिकव्याप्यवृत्तित्वमिति वाच्यम्। भेदैः सह ब्रह्मज्ञानेन कालस्यापि निवृत्तत्वेन मुक्तौ कालस्यैवाभावात्। न च मुक्तौ कालनभ्युपगमे व्याहतिः स्यादिति वाच्यम्। विप्रतिपत्त्यभावे सिद्धसाधनतोद्भावने च परीक्षितापरीक्षितपराभ्युपगममात्रस्य बीजतया तत्सदसत्त्वविचारस्येदानीमनवसरपराहतत्वात्। किञ्चैतत्कल्पे आत्मत्वसंसारित्वादिचिद्वृत्तिधर्मसामान्यस्यापि पक्षतावच्छेदकत्वसम्भवे तत्परित्यागानुपपत्तिरूपपूर्वोक्तदोषानिस्तारश्च।
ननु भेदस्य मिथ्यात्वसिद्धये भेदाभावोऽपि त्वयाऽङ्गीकृत इति तस्य कोटिता युक्तेति चेन्न। तस्येदानीमावृतत्वेन लौकिकानां भेदाभ्युपगमविरोधिग्रहाविषयस्य तस्य ज्ञानेन मध्यस्थसंशयाद्यनिर्वाहेण विप्रतिपत्तिकोटित्वायोगात्। भेदसाधनेऽपि तत्कोटेरस्मदमिमताया एव साधितत्वेन सिद्धसाधनानुद्धाराच्च। तस्माच्छुद्धभेदकोटिकमुक्तधर्मिकविप्रतिपत्तेरेवायोगात्कथं तत्काले भेदसाधनेन सिद्धसाधनत्वाभाव इति समाधानम्' इति ।
अत्रोच्यते। `मुक्तानां परमा गतिः' `मुक्ता- प्राप्य परं विष्णुं तद्देहं संश्रिता अपि' `मम साधर्म्यमागताः। सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च।' इत्येवमादीनि कानिचिद्वाक्यानि, तथा `एतमानन्दमयमात्मानमुपसंक्रम्य' `परमं साम्यमुपैति' इत्यादिकानि श्रुतिवाक्यानि च मुक्तविषयतयाऽवगम्यमानानि श्रूयन्ते। तथा `परमं ब्रह्म वेद ब्रह्मैव भवति' `ब्रह्मैव सन्ब्रह्माप्येति' `यत्र त्वस्य सर्वमात्मैवाभूत्' इत्यादीनि श्रुतिवाक्यानि, तथा
आमुक्तेर्भेद एव स्याज्जीवस्य परमस्य च।
मुक्तस्य तु न भेदोऽस्ति भेदहेतोरभावतः ।।
विभेदजनकेऽज्ञाने नाशमात्यन्तिकं गते।
आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति।।
यावन्मोक्षन्तु भेदः स्याज्जीवस्य परमस्य च।
ततः परं न भेदोऽस्ति भेदहेतोरभावतः।।
इत्यादीनि च स्मृतिवाक्यानि मुक्तविषयतया प्रतीयन्ते। तत्र पूर्ववाक्येषु बहुवचनश्रवणेन साधर्म्येण प्राप्यप्रापकभावादिश्रवणेन मक्तानां परस्परं परमात्मना च भेदोऽवगम्यते। यत्र त्वस्येत्यादिवाक्येषु यत्रेत्यनेन मुक्त्यवस्था नाशमात्यन्तिकं गते इत्यनेन ततः परमित्यनेन च परममुक्त्युत्तरः कालः प्रतीयते। तथा सर्वमात्मैवाभूदित्यनेन भेदो नास्तत्यनेन च भेदसामान्यनिषेधः प्रतीयते। तदुभयवाक्यदर्शनेन बलाबलनिर्णयाभावदशायां `भेदप्रतिपादकानामर्थान्तरपरत्वेन प्रामाण्याभावादभेदपराणि प्रमाणानि' इति त्वदीयेषु भास्करानुसारिषु वदत्सु `भेदनिषेधपराणां न स्वार्थपरत्वं किन्त्वन्यार्थपरत्वम्' इति तत्ववादिषु वदत्सु लौकिकानां मध्यस्थप्रभृतीनां वा `मुक्तो भिन्नो न वा' इति संशयो जायते न वा। नेति वदन् सर्वानुभवसिद्धापलापी न वैदिको नापि लौकिक इत्युपेक्षणीय एव स्यात्। आद्ये संसारध्वंसविशिष्टस्य तदुत्तरकालविशिष्टस्य च भेदतन्निषेधकवाक्याभ्यां धर्मितया स्फुरणएन तत्रैव संशयोदयेन तत्रैवान्यतरजिज्ञासायां तादृशविमतिविषयतावच्छेदकमुक्तत्वमुक्तिकालावच्छिन्नत्वादिविशिष्टे भेदसाधने सिद्धसाधनानवकाशात्।
ननु बन्धध्वंसविशिष्टे भेदस्तु मयाभ्युपगम्यते। तदुत्तरकालस्यानभ्युपगमात्तदवच्छिन्नस्य पक्षता त्वप्रसिद्ध्या न युक्तेत्युक्तमेवेति चेन्न। तथात्वे विशिष्टे भेदाङ्गीकारे मम साधर्म्यमागता इति वाक्यस्य परमं साम्यमिति वाक्यस्य च `साधर्म्यं परमसाम्यञ्च अमेद एव' इति, एवं `सोऽश्नुते सर्वान्कामान् सह ब्रह्मणा विपश्चिता' इति वाक्यस्य
सोऽश्नुते सकलान् कामान् क्रमेण च सुरर्षभाः।
विदितब्रह्मरूपेण जीवन्मुक्तो न संशयः।।
इत्यादिस्कान्दवाक्यमुदाहृत्य ब्रह्मस्वरूपेण सर्वभोगानुभवपरतया व्याख्यानं `आनन्दमयमात्मानमुपसंक्रम्य' इत्यत्र अनतिक्रमार्थकत्वेन उपेत्यस्य व्याख्यानं व्यर्थमापद्येत। न च भेदान्तराङ्गीकारेऽपि ब्रह्मभेदस्यानङ्गीकारात् तत्परतया प्रतीयमानानां वाक्यानां युक्तं व्याख्यानमिति वाच्यम्। अज्ञानस्यैवात्यन्तिकनाशे ब्रह्मभेदस्येव भेदान्तरस्यापि स्थित्ययोगात्। भेदान्तरविशिष्टस्य ब्रहमतादात्म्यायोगाच्च। स्वरूपैक्यविवक्षा तु संसारदशायामप्यविशिष्टत्वेन मुक्तौ विशिष्य न घटते।
किञ्चोक्तवाक्ये ब्रह्मभेदप्रतिपादने किं तव गतम्। ब्रह्मैव भवतीत्यादिवाक्यानां प्रामाण्यमिति चेत्तर्हि मुक्तस्य तु न भेदोऽस्तीत्यादिवाक्यप्रामाण्यविघातकस्य भेदान्तरस्य कथमङ्गीकारः। न च तद्वाक्यानां भेदनिषेधद्वारा चिन्मात्रे वा स्वसमानविषयकेत्यादिनियमान्तरे वा तात्पर्यम्। तात्पर्यविषयीभूतार्थाविरोधात्तदङ्गीकार इति वाच्यम्। तर्हि ब्रह्मैव भवतीत्यादिवाक्यानामपि तथैव गतिरिति कुत उक्तश्रुतीनां व्याख्यानान्तरम्। तस्मान्मुक्तत्वविशिष्टे भेदो नास्तीत्येव यथाश्रुतं तव मतम्। यथा नेह नानेत्यादिवाक्यानां द्वैतसामान्याभावप्रतिपादनद्वारा चिन्मात्रपरत्वं, तत्त्वमसीत्यादिवाक्यानां लक्षणया अभेदबोधद्वारा चिन्मात्रपरत्वं, तद्द्वारकचिद्बोधस्य द्वैतधीविरोधित्वं स्वीक्रियते, तदर्थं द्वारीभूतबोधेऽपि तद्वाक्यानां तात्पर्यं, तद्विषयघटितव्यावहारिकप्रामाण्यं, तेषां तादृशावान्तरबोधे तात्पर्यसिद्धये मिथ्यात्वानुमानानां अभेदानुमानानां प्रवृत्तिः, `नेह नानेत्यादिश्रुत्यर्थे विबदमानं प्रति साध्यान्तरमाह' इति त्वदीयोक्तेः। तद्वन्मुक्तभेदनिषेधकवाक्यानामपि मुक्तत्वविशिष्टे भेदनिषेधे तात्पर्यं, वा फलतः सर्वनिषेधकनियमे वा तात्पर्यं स्वीकार्यम्। अवान्तरतात्पर्यविषयीभूतार्थे व्यावहारिकप्रामाण्यनिर्वाहाय मुक्तत्वविशिष्टे भेदाभावः, यत्र त्वस्येत्युक्तमुक्त्यवस्था, ततः परमित्यादिनोक्तः भेदसामान्यानवच्छेदको ज्ञाननिवृत्त्यवच्छेदकश्च कालः सर्वोऽपि बद्धपुरूषाज्ञानकल्पितो व्यवहारदशायामङ्गीकार्यः। उक्तञ्चाद्वैतचन्द्रिकायां जडत्वहेतुनिरूपणे `बद्धपुरुषकल्पितस्य मुक्तिकालस्याभ्युपगमात्' इति।
इत्थञ्च यथा श्रुत्यवान्तरतात्पर्यविषयीभूतानिर्वचनीयत्वरूपमिथ्यात्वसत्यत्वकोटिकविप्रतिपत्त्या त्वया अनिर्वचनीयत्वेनाभ्युपगते जगति आवयोस्तत्तत्साधनमुपपद्यते तथा आवरणध्वंसविशिष्टे तदवच्छेदककालावच्छिन्ने तदुत्तरकालावच्छिन्नेवोक्तरीत्या त्वन्मतेनापि सिद्धेरुक्तयुक्त्या भेदाभेदकोटिका विप्रतिपर्त्तियुक्तैव। परन्तु विप्रतिपत्तिविशेष्यीभूतं विसिष्टं वस्तु भवतोऽनिर्वचनीयं मम भास्करस्य वा सत्यम्। तत्र भेदसाधनमात्रेणास्मदिष्टसिद्धिः। सोपपत्तिकभेदश्रुतिविरोधेन तन्निषेधकश्रुतीनां मन्मतरीत्या मिथ्यात्वश्रुतीनामिवार्थान्तरपरत्वे द्वारीभूतबोधासिद्ध्या त्वदभिमतनिष्कृष्टार्थस्याप्यसिद्ध्या त्वत्पराजयोऽपि जात इति चैतन्ये भेदोऽभ्युपेयते। किञ्चिद्विशिष्टे मया भेदोऽभ्युपगम्यत इति त्वत्प्रलापस्य क्वोपयोगः।
यद्वा अस्तु भवदभ्युपगमो यथा तथा। तथापि उक्तश्रुतिविगानेन सन्देहे त्वन्मतच्छायामात्रानुसरणएन च भेदकोटिनिषेधकतया च शङ्कायां प्राप्तायां भेदनिषेधकश्रुतीनां पराभिमतवाक्यार्थविघटनद्वारा शिष्याणां तत्वनिर्णयाय सामान्यतस्तद्वाक्यस्थनञर्थप्रतियोगिसमर्पकपदघटितन्यायप्रयोगः कृतः। इत्थञ्च यथाश्रुतश्रुत्यनुरोधेन विप्रतिपत्तौ यथाश्रुतपरमेव विमतो भिन्न इति न्यायवाक्यम्। श्रुतीनां त्वदभिमतनिष्कृष्टार्थादरे तु सोऽर्थो यद्युक्तनियमरूपः, नियमस्य लोकरीत्या सिद्धत्वेऽपि आत्मसाक्षात्कारात्माज्ञाननिवृत्त्योः कार्यकारणभावबोधकश्रुतीनामिव लौकिकार्थस्यैवानुवादकत्वसम्भवात्। असिद्धत्वे तद्बोधायैव प्रवृत्तिसम्भवात्। तदा तत्वज्ञानाधि करणक्षणः स्ववृति यत्तत्वज्ञानं तत्समानविषयक्समानाधिकरणाज्ञानत्प्रयुक्दृश्याधिकरणकालपूर्व्वाभाववान्नवेत्येवविप्रतिपत्तौ तद्भावकोऽटिसाधकानुमाने मूलवाक्यस्य तात्पर्यमस्तु। उभयथाऽपि न भवतः सिद्धसाधनताया अवकाशः।
न च भावरूपाज्ञानस्यत्वन्मतेऽप्रसिद्ध्या अभावकोट्यप्रसिद्धिः। प्रकृतेरेवाज्ञानत्वेन त्वया परिभाषितत्वान्न तदसिद्धिरित्युच्यते। तदापि तस्य स्वविषयकताया भवताऽनङ्गीकृतत्वाद्भावकोट्यप्रसिद्धिरेवेति वाच्यम्। नैयायिकादीन्प्रति विप्रतिपत्तिवेलायां प्रतियोग्यप्रसिद्ध्या अभावरूपत्वदभिमतकोट्यप्रसिद्धिपरिहाराय मां प्रति सिद्धसाधनतापरिहाराय च तत्वज्ञानस्य साक्षात्स्वविरोधितत्प्रयुकतदृश्याधिकरणकालपूर्वत्वाभावनियमः स्वीकार्यः। विरोधित्वं स्वजन्यनाशप्रतियोगित्वम्। तच्च प्रागभावस्य प्रतियोगिनाश्यत्वमते प्रागभावे प्रसिद्धमित्यादिरीत्या(5) कथञ्चिन्निर्बाह्यम्। तथा च सुलभैव मम भावकोटिप्रसिद्धिः।
{5. प्रागभावप्रयुक्तत्वं ज्ञायमानस्यानुमितिकारणतामते प्रागभावसत्ताकालीनतल्लिङ्गकानुमितौ सम्पाद्यम्। प्रागभावस्य प्रतियोगिनाश्यत्वमेव। न तु तज्जनकत्वमिति मतमनुसर्तव्यम्। अन्यथा तत्वज्ञानस्य स्वविरोधिप्रागभावप्रयुक्तत्वान्नियमभङ्गापत्तेरित्याशयः।}
यद्वा (6)आत्मसाक्षात्कारत्वावच्छेदेन भेदत्वेन वा दृश्यत्वेन वा भेदं निवेश्य तदधिकरणकालपूर्ववृत्तित्वकोटिका सामानाधिकरण्येन तदभावकोटिका विप्रतिपत्तिः। तत्र भावकोटिस्तत्ववादिनां। अभावकोटिर्मायावादिनाम्। कस्मिंश्चित्साक्षात्कारे तत्सिद्धिमात्रेण तदभिमतार्थसिद्धेः. हेतुवाक्यस्यापि दुःखरूपबन्धध्वंसाधिकरणकालवृत्तित्वस्य वा ध्वंसाधिकरणकालवृत्तित्वस्य वा स्वध्वंसाधिकरणकालवृत्तित्वसम्बन्धेन स्वाधिकरणकालवृत्तित्वसम्बन्धेन वा बन्धस्य ध्वंसस्य वा हेतुत्वे तात्पर्यम्। तत्वज्ञानस्य सर्वदृश्योच्छेदरूपतया तत्वज्ञानक्षणमादाय चरमसाक्षात्कारे अन्यत्र दुःखान्तरध्वंसमादाय पक्षतावच्छेदकावच्छेदेन हेतुरनपवादः।
{6. आत्मासाक्षात्कारत्वावच्छेदेनाऽत्मसाक्षात्कारधर्मिकेत्यर्थः।}
यदि च चरमतत्वज्ञानस्य स्वातिरिक्तसर्वदृश्योच्छेदरूपत्वं तद्द्वितीयक्षणस्य तदवच्छिन्नस्य स्वस्य (तत्वज्ञानस्य) वा तत्वज्ञानध्वंसत्वमिति मतेन तत्वज्ञानस्य क्षणद्वयवृत्तित्वमास्थीयते तदा दृश्यत्वेन भेदनिवेशघटितसाध्यस्य तत्वज्ञानद्वितीयक्षणवृत्तितदेवोपादाय सिद्धसाधनतापरिहाराय स्वाधिकरणकालपूर्ववृत्तितत्वज्ञानाधिकरणक्षणसामान्यकत्वसम्बन्धेन दृश्यं दृश्याधिकरणक्षणपूर्वक्षणवृत्तित्वं वा साध्यम्।
यदि च अवच्छेदकावच्छेदेन साध्यसिद्धावप्यंशतः सिद्धसाधनता दोष एव। अन्यथा यथाश्रुतरीतौ आत्मत्वावच्छेदेन मुक्तत्वावच्छेदेन वा साध्यासिद्ध्या निगडमुक्तत्वादिकमादाय सिद्धसाधनतावारणसम्भवे संसारान्मुक्तपर्यन्तं पक्षतानुसरणं व्यर्थं स्यात्। तथा च निष्कृष्टकल्पेऽपि तन्मतानुसरणमेवोचितम्। इत्थञ्चात्मसाक्षात्कारस्य तत्त्वेनैव निविष्टत्वात् पक्षकोटिनिविष्टैतत्कालिकात्मप्रत्यक्षमादाय सिद्धसाधनतेत्युच्यते तदा स्वसमानाधिकरणदुःखप्रागभावासमानकालीनसाक्षात्कारत्वेन वा स्वोपादानभूतमनःपरिणामप्रागभावकालिकं यद्यत् तत्तद्भेदवत्साक्षात्कारत्वेन वा चरमसाक्षात्कारस्यैव पक्षत्वान्न सिद्धसाधनतादेरवकाशः।
अत्र पूर्वकल्पे एतत्कल्पे वा बहुजीववादेन सिद्धसाधनतावारणाय स्वसामानाधिकरण्यं दृश्ये भेदे वा निवेश्य परिष्कार्यम्। स्वसमानाधिकरण्यञ्च स्वसाक्षिनिष्ठत्वम्। अतः सिद्धान्ते आत्मनिष्ठभेदादेः साक्षात्काराश्रयमनस्यवृत्तित्वेऽपि न क्षतिः।
एतेन `आत्मसाक्षात्कारस्यानवच्छिन्नात्मनिष्ठविषयताकत्वेन पक्षत्वे तत्ववादिना तादृशज्ञानानभ्युपगमात्पक्षासिद्धिः। `दृष्ट्वैव तं मुच्यते' इत्यादिश्रुतितात्पर्यविषयज्ञानत्वेन पक्षत्वे तत्ववादिमते अपरोक्षज्ञानानन्तरमपि भगवत्प्रसादविलम्बेन मुक्तिविलम्बात्संसारकालीनतादृशज्ञाने उक्तसाध्यसत्त्वेऽपि मुक्तौ कालस्य भेदस्याप्यसिद्ध्या स्वपक्षासिद्धि' इति परास्तम्। मुक्त्यव्यवहितप्राक्क्षणवृत्तीनामेव पक्षत्वात्। संसारकालीनस्वरूपज्ञानवारणाय जन्यत्वमात्रमुपादेयम्।
यदि चोक्तश्रुतीनां तदनुग्राहकयुक्तीनाञ्चोक्तनियमपरत्वमपि नाङ्गीकुरुषे तर्हि भवान् तासां यादृशार्थे तात्पर्यं यत्प्रयोजनकत्वं मनुतेऽस्मदीयन्यायस्यापि तद्विरोध्यर्थसाधनं (7)तद्विरोधिप्रयोजनकत्वञ्चानुमतमिति न कथ़ञ्चिदपि सिद्धसाधनतादेरवकाश इति दिक्।
{7. श्रुत्यादीनां भेदभ्रमनिवर्तकतया अखण्डार्थबोधनिर्वाहकत्वे अनुमानस्याप्यभेदभ्रमनिवर्तकत्वद्वारा सखण्डार्थबोधकत्वं स्यात्। अविशेषादिति भावः।}
केचित्तु `यदि स्वाभ्युपगमेनैव वैयात्यात्सिद्धसाधनतां ब्रवीषि तर्हि त्वन्मते तस्या अपि मिथ्यात्वात्तदाभावो वर्तत इति सन्तोष्टव्यम्। न च प्रतियोगिव्यधिकरणसिद्धसाधनत्वाभावोऽपेक्षित इति वाच्यम्। तस्यापि मन्दारोपितस्यसत्त्वात्। न च तत्र व्यावहारिकत्वं प्रातिभासिकान्यत्वं वाऽपोक्षितमिति वाच्यम्। तस्यापि मन्दबुद्धिकल्पितस्य सत्त्वात्' इत्याहुः।
वस्तुतस्तु यथा परमते शुक्तिरूप्यादावनिर्वचनीयत्वसिद्ध्यनन्तरमेव विमतं मिथ्येत्यनुमानस्य प्रवृत्तिः। ग्रन्थे प्रथमतस्तदनुक्तिपूर्वमेतदनुमानोक्तिस्तु तदसङ्गतत्वभ्रमनिरासायैतदनुमानसङ्गतत्वप्रदर्शनार्थं। तथैवैतदनुमानस्याप्यनिर्वचनीयपदार्थस्य जगदनिर्वचनीयत्वस्य च निराकरणोत्तरं मुक्तभेदमात्रे उक्तरीत्या विप्रतिपत्त्या प्रवृत्तिः. उत्तरत्र शिष्यान् प्रति तदपि बोधयितुं कथञ्चिदेतदनुमानसङ्गतत्वेनासङ्गतिशङ्कापरिहाराय ग्रन्थः प्रवृत्तः। परोपि स्वग्रन्थेऽनिर्वचनीयसिद्ध्युपसंहारे वक्ष्यति `एवमनिर्वचनीये सिद्धे सिद्धसाधनम्' इति। ततश्चानिर्वचनीयवादिरीत्या चिन्मात्रे भेदमादाय न सिद्धसाधनतावकाशः। तर्ह्यात्ममात्रपक्षीकरणेपि व्यावहरिकभेदेन परेण सिद्धसाधनोद्भावनस्य कर्तुमशक्यत्वात्पूर्वोक्तासङ्गतिरिति न शङ्क्यम्। तथात्वेऽपि मुक्ते भेदे विवादे आत्ममात्रे भेदसाधनस्यानाकांक्षिताभिधानरूपासङ्गतेः। सिद्धसाधनतापि सिद्धान्ते तन्मुखेनैव दोष इति युक्तमुत्पश्यामः।
केचित्तु `विनश्यदवस्थापन्नबन्धाधिकरणक्षणावच्छिन्नात्मन्यद्वैतवादिनां चरमक्षणत्वेन योऽभिमतस्तदवच्छिन्नात्मपर्यवसिते स्वाधिकरणकालप्रागभावाधिकरणक्षणावच्छिन्नत्वविशिष्टविशेषणतासम्बन्धेन भेदः साध्यतया भिमतः। उक्तानुमानं मुक्तौ कालं भेदञ्च विना न पर्यवस्यतीति कालभेदोभयसिद्धिः' इत्याहुः।
तच्चिन्त्यम्। अद्वैतवाद्यभिमतचरमक्षणस्यैव स्वाभिमतचरमक्षणत्वे मानाभावादद्वैतवादिनां यदीदानीन्तनक्षण एव चरमत्वेन ग्रहविषयस्तदा तदवच्छिन्ने उक्तसम्बन्धेन साध्यसिद्धावपि स्वमते मुक्तौ भेदासिद्धिः। न चेष्टापत्तिः। एतत्कथाया वादरूपत्वस्योक्तत्वेन तत्वनिर्णयाभावे तद्रूपत्वासिद्ध्येष्टापत्तेरयोगात्। अन्यथा वितण्डात्वापत्तेः।
किञ्चाद्वैतवादिनापि बद्धपुरुषकल्पितस्योक्तसाध्यस्योक्तपक्षेऽङ्गीकारात्सिद्धसाधनस्यापरिहारश्च। यथाश्रुतार्थदशायामेवोक्तपक्षानुसरणे `संसारान्मुक्तो विवक्ष्यते' इति टीकाविरोधो मुक्तत्वहेतोः कण्ठत एव मूलोक्तस्य यथाश्रुत एव परित्यागश्च स्फुटः। तस्माद्विमतपदोपरि भारेणैवास्मदुक्तरीत्या सिद्धसाधनता परिहरणीया। किं सिद्धान्तानभिमतोक्तसम्बन्धघटितसाध्यादरेणेत्यलम्।
केचित्तु `अज्ञानरूपबन्धध्वंसरूपमुक्तत्वमेवोपलक्षणविधया पक्षतावच्छेदकम्। यथा विशेषणविधयोद्देश्यतावच्छेदकत्वे उद्देश्यतावच्छेदकविधेययोः समानकालिकत्व भासते तथोपलक्षणविधयाऽवच्छेदकत्वस्थले उद्देश्यतावच्छेदकोत्तरकालिकत्वं विधेये भासत इत्यभ्युपगम्यते। न च समानकालिकत्वाभानमात्रेण विशिष्टोपलक्षितस्थलयोर्वैलक्षण्यसम्भवात्तद्भानमप्रामाणिकमिति वाच्यम्। उपलक्षितस्थले भासमानोत्तरकालिकत्वाभानमात्रेण विशेषणतया भानस्थले वैलक्षण्यसम्भवे तत्र समानकालिकत्वभाने मानाभाव इति युक्तेस्तौल्यात्। न च तत्रावच्छेद्यावच्छेदकभावो भासत इति वाच्यम्। समानकालिकत्वातिरिक्तावच्छेद्यावच्छेदकभावे मानाभावात्। न चोपलक्षितस्थले धर्मितावच्छेदकोत्तरकालिकत्वभाने भाविरक्तरूपविवक्षया रक्तोपलक्षितघटबोधतात्पर्येण रक्तो घटस्थिष्ठति इतीदानीन्तनवाक्यजज्ञानस्याप्रमात्वापत्तिः। इष्टापत्तेः। उक्तञ्च त्वदीयैरेव
`निवृत्तिरात्मा मोहस्य ज्ञानत्वेनोपलक्षितः।'
इति वार्तिकविवरणावसरे भाविज्ञानमुपादायाऽत्मन इदानी अज्ञाननिवृत्तिव्यवहारवारणाय `स्वपूर्वकाले स्वस्योपलक्षणत्वं नास्त्येव। न हि पाककरणपूर्वकाले तस्योपलक्षणत्वतात्पर्येण पाचक इति प्रयोगः' इति। यदि तादृशोऽपि प्रयोगः प्रामाणिकस्तदा समानकालिकत्वोत्तरकालिकत्वयोरभानमात्रमिति वा तत्र तत्प्रागभावकालीनत्वरूपमुपलक्षणत्वं वा भासत इत्यभ्युपेयम्।
नियामकविशेषस्तु शब्दस्थले तथा तथा तात्पर्यग्रहरूपः। अन्यत्र बाधाद्यभावपरामर्शेन्द्रियसन्निकर्षादिरूपः। यथा चोक्तपक्षतावच्छेदकोपलक्षिते भेदावगाहिन्यामनुमितौ मुक्त्युत्तरकालिकत्वं भेदे भासते। अतो न सिद्धसाधनताऽवकाशः। न च तत्र पूर्वकालिकत्वमेव कुतो न भासत इति वाच्यम्। शक्यार्थबाधग्रहोत्तरमेव लक्षणाप्रतिसन्धानस्येवानुभवबलेन सवत्रोत्तरकालिकत्वघटितोपलक्षणत्वबाधनिर्णयोत्तरमेव पूर्वकालिकत्वघटितोपलक्षणत्वं भासते। प्रकृते च बाधाभावात्पूर्वकालिकत्वं न भासते। किन्तूत्तरकालिकत्वमेव भासते' इत्याहुः।
यच्च `प्रमाणानां पारमार्थिकसत्तावगाहित्वस्वाभाव्याद्भेदे पारमार्थिकत्वं भासते। अतो न सिद्धसाधनुत्वमनमानस्य' इति तत्तु आत्मत्वाद्यवच्छिन्नपक्षपरित्यागे बीजाभावप्रसङ्गाच्चिन्त्यमिति।
नापि तत्वज्ञानस्येत्यादिभवदुक्तनियमोऽप्युपपन्नः। तथा हि, किं सुक्तिज्ञानादिसाधारणरूपेणायं नियमः किं वोक्तश्रुत्यादिकमवलम्ब्यात्मतत्वज्ञानमात्रस्य। नाद्यः। किमिदं तत्वज्ञानत्वं प्रमात्वमिति चेत् तदेव निर्वाच्यम्। तद्वति तदवगाहित्वं तदिति चेत् `इदं रजतम्' इत्यादिज्ञानानामपि तादात्म्यसम्बन्धेन रजतादिमत्स्वेव रजताद्यवगाहित्वात्प्रमात्वापत्त्या तत्र व्याप्यसत्त्वेन स्वसमानविषयकाज्ञानरूपव्यापकाप्रसिद्ध्या व्यभिचारात्। निष्प्रकारकात्मज्ञानासंग्रहश्च। नाप्यबाधितार्थविषयकत्वम्। किञ्चित्कालाबाधितार्थविषयकत्वस्य शुक्तिरूप्यादिज्ञानसाधारण्यात्। सर्वथाप्यबाधितार्थविषयकत्वस्य शुक्तिज्ञानेप्यभावात्। न च व्यवहारकालाबाध्यार्थावगाहित्वं ब्रह्मज्ञानेतराबाध्यत्वपर्यवसितम्। तत् सर्वथाऽबाध्यस्यात्मनो व्यवहारकालाबाध्यत्वमपि वर्तत इति न तज्ज्ञानासंग्रह इति वाच्यम्। देहात्मतादात्म्यस्य ब्रह्मसाक्षात्कारपूर्वमसञ्जातबाधभ्रमविषयस्यापि पदार्थस्य तथात्वापत्त्या तद्‌भ्रमे व्यभिचारात्।
नपि तूलाज्ञानाजान्यविषयत्वं तत्। तूलाज्ञानत्वं यदि ब्रह्मज्ञानेतरबाध्यत्वं पूर्वोक्तपदार्थभ्रमजनकाज्ञानानामपि (8)तथात्वापत्त्या तज्जन्यपदार्थावगाहिभ्रमेपि प्रमात्वापत्त्या तत्राज्ञाननिवर्तकत्वापातेन व्यभिचारात्। तूलाज्ञानत्वमविद्यात्वव्याप्यजातिरिति चेत् अविद्यात्वजातावेव मानाभावेन तद्व्याप्यजातौ सुतरां मानाभावात्। तूलाज्ञाननिष्ठस्य वैजात्यस्याङ्गीकारेपि इदं रजतमिति भ्रमोत्तरं यत्र नेदं रजतमिति बाधो जातः पुनर्व्दितीयदिवसे इदं रजतमिति भ्रमो जायते तत्र प्रथमदिवसोत्पन्नबाधप्रमायां व्यभिचारः। द्वितीयदिवसे जायमानभ्रमानुरोधेन तत्राज्ञानान्तरस्यावश्यकत्वात्तस्य स्वसमानविषयकत्वात्स्वसामानाधिकरण्याच्च। एवं स्वाप्नभ्रमोत्तरात्मप्रबोधे द्वितीयदिवसीयस्वप्नभ्रमजनकस्वसमानविषयकस्वसमानाधिकरणाज्ञान(9) कालेपि वर्तमाने व्यभिचारश्च। न हि पूर्वोत्तरदिवसीयस्वाप्नभ्रमजकाज्ञानानां विषयवैलक्षण्यमस्ति। मानाभावात्। दुर्निरूपत्वाच्च। किञ्च स्वप्ने दत्तमौक्तिकादीनां कदाचित्प्रबोधानन्तरमप्युपलभ्यमानत्वेनोक्तनियमे व्यभिचारः। न च तेषां न स्वप्नहेत्वज्ञानप्रयुक्तत्वम्। किन्तु मूलाज्ञानप्रयुक्तत्वमेवेति वाच्यम्। बाह्यसामग्रीनैरपेक्ष्येण जातानां मूलाज्ञानहेतुकत्वे मानाभावात्।
{8. अतथात्वापत्त्या इति पाठेन भाव्यमिति भाति। 9. पूर्वकालेपि इति पाठेन भाव्यमिति भाति।}
किं चाज्ञानस्य ज्ञानसमानविषयकत्वं यदि ज्ञानविषयविषयकत्वं तदा ज्ञानं वृत्तिर्वा तत्प्रतिबिम्बितचेतन्यं वा। नाद्यः। एतत्पक्षे विषयता किमाकाराख्या गौणी उत तादात्म्यरूपा मुख्या। नाद्यः। शुक्तित्वादिप्रकारकसाक्षात्कारीयाऽकाराख्यगौणविषयतायाः शक्त्यादावेव सत्त्वेन तदवच्छिन्नचिद्विषयकाज्ञानीयाकाराख्यविषयतायास्तत्रासत्त्वेन तयोः समानविषयकत्वानुपपत्तेः। न द्वितीयः। वृत्तितादात्म्यस्य शुक्त्यवच्छिन्नचित्यनङ्गीकारेण तद्दोषतादवस्थ्यात्। नापि वृत्तिप्रतिबिम्बितचिदादिरूपा। तदीयतादात्म्यरूपविषयतायाश्चित्यभावेन चिद्विषयकाज्ञानस्य तत्समानविषयकत्वायोगात्। अथ समानविषयकत्वं स्वप्रकारताविशिष्टा याऽवच्छेदकता तन्निरूपितावच्छेदकताकविषयताकत्वम्। अवच्छेदकतायां प्रकारतावैशिष्ट्यं च स्वसामानाधिकरण्यस्वसजातीयत्वोभयसम्बन्धेन। साजात्यं च स्ववृत्त्यवच्छिन्नत्वानवच्छिन्नत्वान्यतररूपेण। एवं च शुक्तित्वप्रकारकज्ञानीयशुक्तित्वनिष्ठप्रकारतायाः शुक्तिनिष्ठचैतन्य्वृत्त्यज्ञानविषयतावच्छेदकतानिरूपितशुक्तित्वनिष्ठावच्छेदकतायामुभयसम्बन्धेन सत्त्वाच्छुक्तित्वविशिष्टावच्छिन्नचिन्निष्ठविषयताकाज्ञानशुक्तिज्ञानयोः समानविषयकत्वमिति चेत् तर्हि ब्रह्मज्ञानस्य निष्प्रकारकत्वेन चिन्निष्ठमूलाज्ञानसम्बन्धस्यानवच्छिन्नत्वेन च तत्र व्यापकाप्रसिद्ध्या व्यभिचारः। व्याप्यकोटौ सप्रकारत्वनिवेशे ब्रह्मज्ञानस्य सोयं देवदत्त इत्यादिवाक्यजन्यबोधानां चासंग्रहः। पर्वतस्तेजस्वीति ज्ञानस्य वह्नित्वविशिष्टवह्निमत्पर्वतरूपविशिष्टविषयावच्छिन्नचिद्विषयकाज्ञानस्योक्तसमानविषयकत्वापत्त्या निवर्त्यनिवर्तकभावप्रसङ्गः।
किञ्चाभानापादकाज्ञानस्य विषयावच्छिन्नचिदाश्रितस्य प्रमात्राश्रितज्ञानसामानाधिकरण्यानुपपत्तिः। चक्षुरादिना बहिर्निर्गतान्तःकरणवृत्तेर्विषयावच्छिन्नचिदाश्रितत्वमङ्गीकृत्य सामानाधिकरण्यं यदि ब्रूषे तदा चैत्रीयाज्ञानस्य मैत्रज्ञानसामानाधिकरण्यापत्त्या तन्निवेशस्याव्यावर्तकता। अज्ञानस्य चैत्रादिनिरूपितत्वं स्वीकृत्य सामानाधिकरण्यस्थाने स्वाश्रयनिरूपितत्वं निवेश्यते तदा (10)प्रमातृगताज्ञानस्य सामानाधिकरण्येनैवोपपत्त्या निष्प्रामाणिकस्यप्रमातृनिरूपितत्वस्याभावेन तस्य निवृत्त्यसिद्धिः। तत्र नियमान्तरस्वीकारेऽपि एकस्यैव पुरुषस्य सजातीयबहुभ्रमजनकनानाऽज्ञानस्थले पूर्वोक्तदोषो दुर्वारः।
{10. प्रमातृगतज्ञानसामानाधिकरण्येनौवोपपत्त्या इति पाठेन भाव्यमिति भाति।}
एतेन `ज्ञानाज्ञानयोराकाराख्यविषयतैकैव। जडेपि सा स्वीक्रियते। तथा च स्वनिरूपितविषयतानिरूपकत्वमेव समानविषयकत्वम्' इत्यपि परास्तम्। उक्तव्यभिचारस्य दुर्वारत्वात्।
यत्तु `तत्तज्ज्ञानानां तत्तदज्ञाननाशकत्वोपगमात् तत्वज्ञानानां स्वनिवर्त्यत्वमज्ञाने निवेश्य पूर्वोक्तनियमाभ्युपगमान्न कुत्रापि व्यभिचारः' इति। तदसत्। स्वसामानाधिकरण्यस्वसमानविषयकत्वयोर्वैयर्थ्यापत्तेः। किञ्च दृश्यषु अज्ञानप्रयुक्तत्वं कीदृशं नियमे निविष्टम्। तदुपादानकत्वं वा साक्षात्तज्जन्यत्वं वा साक्षात्परम्परासाधारणजन्यत्वं वा स्वरूपसम्बन्धविशेषात्मकं वा। नाद्यः। अनादिदृश्यानां कालरूपाविद्याचित्सम्बन्धजीवब्रह्मविभागादीनां मुक्तावभावस्योक्तनियमबलादसिद्धेः। अत एव न द्वितीयः। आत्मापरोक्षानन्तरमाविद्यकपदार्थविलयेन संस्कारोपादानकपदार्थानामभ्युपगमात्तमादाय मुक्तौ दृश्यसामान्योच्चेदासिद्ध्या पक्षद्वयेऽप्युक्तनियमाङ्गीकारवैयर्थ्यस्य दुर्वारत्वाच्च। द्वितीयपक्षे ज्ञायमानस्य लिङ्गस्यानुमितिकारणतामते चैत्रीयशुक्त्यज्ञानलिङ्गकमैत्रीयानुमितेश्चैत्रीयशुक्तिसाक्षात्कारोत्तरमपि सत्त्वाद्व्यभिचारश्च। न तृतीयः। पूवोक्तदोषानिस्तारात्। सर्पभ्रमोत्थभयादीनां परम्परया रज्ज्वज्ञानजन्यानां रज्जुसाक्षात्कारानन्तरमपि सत्त्वाद्व्यभिचाराच्च। नापि चतुर्थः। अनादिदृश्यानां साक्षाद्वा परम्परया वा जन्यत्वाभावेपि स्वरूपसम्बन्धरूपप्रयुक्तत्वस्यानादिसाधारणस्य कथञ्चिदभ्युपगमेन तेषां सङ्ग्रहेपि तृतीयपक्षोक्तव्यभिचारस्य दुर्वारत्वात्। भयादीनामपि `रज्ज्वज्ञानान्ममेदं सर्वमनिष्टमभूत्' इति प्रतीतिसाक्षिकस्वरूपसम्बन्धरूपप्रयुक्तत्वानपायात्। अविद्यासंस्कारोपादानकपदार्थेष्वविद्याप्रयुक्तत्वे मानाभावेन तदुच्छेदासिद्ध्यापत्तेश्च।
यत्तु `अनादिदृश्यानामविद्याप्रयुक्तत्वमविद्यानाशाधीननाशप्रतियोगित्वम्। उक्तभयादीनां तन्नास्तीति न व्यभिचारः' इति। तत्तुच्छम्। शुद्धाद्वैतपक्षस्यैवेदानीमादृततया तत्राविद्यानाशादनादिदृश्यनाशोपगमे नाशस्य नाशाभ्युपगमेऽद्वैतहानिः। आत्मनस्तद्रूपत्वकल्पनेऽपि तत्र कल्पितनाशत्वानुच्छेदे स एव दोषः। नाशस्य नाशान्तरकल्पनेऽप्रामाणिकनाशधाराकल्पनायामनवस्था। `आद्यक्षणावच्छिन्नतत्वज्ञानस्याज्ञाननाशत्वं द्वितीयक्षणावच्छिन्नस्य तस्यैव साद्यनादिसाधारणस्रवदृश्योच्छेदत्वेन जन्यत्वमित्यङ्गीकारस्य तत्वज्ञानस्याज्ञानानाशकत्वप्रसङ्गेन हेयत्वम्' इति स्वयमेवाभिधायोक्तनियमतात्पर्यकत्वस्य श्रुत्यादीनामादृततया तत्रानादिदृश्यनाशेष्वज्ञाननाशकारणत्वप्रक्रियाया एव त्यक्तत्वात्तादृशनियमशरीरेऽज्ञाननाशप्रयुक्तनाशप्रतियोगित्वरूपप्रयुक्तत्वस्य निवेशयितुमशक्यत्वात्। तस्माल्लेकरीत्यैवात्र नियम इति न युज्यते।
नाप्यात्मसाक्षात्कारस्थल एव श्रुत्यादिबलात् नयम इति प्राग्विकल्पितद्वितीयपक्षः साधुः। अत्राप्यविद्यासंस्काराङ्गीकारपक्षेण नियमवैयर्थ्यदोषस्य दुर्वारत्वात्।
अपि चायं नियमो नानाज्ञानभेदेन जीवनानात्वपक्ष एव वाच्यः। एकाज्ञानैकजीवपक्षे आत्मसाक्षात्कारक्षणस्य क्षणपूर्वत्वाभावमात्रस्वीकारेण सामञ्जस्ये नियमस्य तत्र व्यभिचारवारकाणां स्वसमानाधिकरणेत्यादिविशेषणानां च वैयर्थ्यात्। एवञ्च नानाज्ञानपक्षे नानाजीवानामेव जगदुपादानतया शुकस्य तत्वसाक्षात्कारेण स्वाज्ञानपरिकल्पितनिखिलजगत्सम्बन्धाभावसिद्धावपि मैत्रादिपरिकल्पितकालादिसम्बन्धशरीरादिसम्बन्धानां प्रपञ्चस्येश्वरमायाकल्पितत्वपक्षे तत्कल्पितानाञ्च तत्रानपगमात्कथं तत्र मुक्तिसिद्धिरुक्तनियमेन। स्वाविद्यैव स्वस्य किञ्चित्सम्बन्धं सम्पादयति। तदपगमे तु केनापि स्वस्य सम्बन्धाभावान्मुक्तत्वं घटत इत्युच्यते यदि तर्हि मुक्ते कथं भेदाङ्गीकारेण तव सिद्धसाधनोद्भावनावकाशः। किञ्च लोकसाधारणे असाधारणे वा एकजीववादे बहुजीववादे वा सर्वेषु पक्षेषु तत्वसाक्षात्कारक्षणस्य दृश्याधिकरणक्षणपूर्वत्वाभावो नाम दृश्याधिकरणक्षणवृत्तिध्वंसप्रतियोगित्वाभावो वा दृश्याधिकरणक्षणप्रागभावानधिकरणत्वं वा। आद्ये चरमक्षणस्य नित्यतया पर्यवसानम्। द्वितीयेपि क्षणान्तरानुत्पत्त्या पर्यवसानम्। न च तस्य नित्येत्वे तस्य क्षणत्वानुपपत्तिरिति वाच्यम्। त्वयापि चरमक्षणस्योत्तरत्र नाशानङ्गीकारेण तवापि तद्दोषतादवस्थ्यात्। तत्वज्ञानोत्तरं दृश्यानां ब्रह्मवत्कालासम्बद्धानामेव सत्तासम्भवे पक्षद्वयेपि मुक्तौ दृश्यमात्रोच्छेदासिद्धेश्चेत्यन्यत्र विस्तरः। तसमादुक्तनियमेन मुक्तौ कालानभ्युपगमे व्याहतिपरिहारोऽसङ्गत एवेति।
यदपि परेण प्रलपितं `मुक्तिकालावच्छिन्नभेदसाधने उक्तरीत्या साध्याप्रसिद्धिः. पारमार्थिकभेदसाधनमप्यत एवायुक्तम्। स्वज्ञानाबाध्यभेदसाधने स्वपदेन पक्षोक्तौ साध्याप्रसिद्धिः। पक्षीभूतशुद्धचिन्मात्रज्ञानाबाध्यभेदाप्रसिद्धेः। दृष्टान्तोक्तौ दृष्टान्तीभूतनिगडमुक्तज्ञानाबाध्यस्य व्यावहारिकभेदस्यमुक्तेऽङ्गीकृतत्वात्सिद्धसाधनमेव। मण्डनमते चरमदृश्यध्वंसस्य मुक्तिकालत्वसम्भवात्तस्य पक्षतावच्छेदकत्वेन तदवच्छिन्ने भेदसाधने न सिद्धसाधनम् इति तु न युक्तम्। तन्मतेऽनृतादिव्यावृत्तेरपि मुक्तिकाले सत्त्वात्सिद्धसाधनस्य दुर्वारत्वात्' इति। तदेतदनुक्तोपालम्भनरूपत्वादश्रद्धेयमेव।
न चैतेषां पक्षाणां सम्भावितत्वेन शङ्कनमित्यपि युक्तम्। उक्तसाध्यादरे आत्मत्वावच्छिन्नस्य पक्षत्वेपि सिद्धसाधनत्वप्रसक्त्यभावेन तत्पक्षोपेक्षणस्य निर्बीजत्वापातेन `भेदस्य पारमार्थिकत्वानौपाधिकत्वाभ्यामविशेषितत्वात्' इति टीकावाक्येनान्योपलक्षणपरेणोक्तकल्पानां ग्रन्थकृदनभिर्पेतत्वावगमात्।
किञ्च स्वज्ञानाबाध्यभेदस्य साध्यतापक्षे यत्स्वशब्दार्थविकल्पेन दूषणमभिहितं तदयुक्तमेव। तथा हि, अनुगतरूपेण साध्यस्यानुपस्थापकत्वेन पक्षदृष्टान्तयोः साध्यबोधाभावेन परामर्शद्वारा मध्यस्थानुमितेरनिर्वाहात्तादृशन्यायप्रयोगोऽसङ्गत इति भवतामभिप्रायः। उत तादृशन्यायप्रयोगस्थले अन्यत्र निर्वाहेपि प्रकृते सोऽसङ्गत इति। नाद्यः। तत्वज्ञानस्य स्वसमानाधिकरणेत्यादित्वदीयनियमबोधकवाक्यस्य एकमात्रोपस्थापकतापत्त्या सर्वस्थलीयसर्वसाधारणव्याप्तिबोधकत्वाभावेनासङ्गतत्वापत्तेः। `स्वज्ञानाबाध्यदृश्यत्ववत्त्वात्' इति त्वयैव दृश्यत्वहेतुपरिष्कारस्यकृतत्वेन तत्राप्येकव्यक्तेरेव स्वपदेनोपस्थापनात्तस्यैकव्यक्तावेव सत्त्वेन भागासिद्ध्यापत्त्या तस्याप्यसङ्गतत्वापत्तेश्च। स्वप्रागभावातिरिक्तेत्यादिन्यायप्रयोगस्य स्वान्यूनसत्ताकेत्यादिव्यवहारस्य त्वद्‌ग्रन्थेष्वेव बहुलमुपलम्भाच्च। न द्वितीयः। प्रकृत एव तद्वैषम्ये बीजाभावात्।
अथ तत्रानुगतरूपावच्छिन्नसाध्यहेत्वादीनां बोधो मानसः न्यायवाक्याधीनशाब्दबोधोत्तरकाले मध्यस्थस्य जायते। न्यायवाक्यस्यापि तत्रैव तात्पर्यमधिगच्छति। ततः परामर्शद्वारा मध्यस्थानुमितिनिर्वाहो जायत इति यदि ब्रवीषि तदा तद्वाक्यान्मध्यस्थपरामर्शद्वाराऽनुमितिमध्यस्थसंशयोच्छेदादिकं सर्व सम्पद्यत इत्यावयोः सम्मतम्। तदुपपत्तिप्रकारस्तु भवताऽनुगतधर्मं विना व्यवहारानिर्वाहं वदतोक्तरीत्याऽनुगतधर्मस्फूर्त्या निरूपितः। अनुगतधर्मं विना सर्वनिर्वाहवादिना मया त्वन्यथैव निरूप्यते।
तथा हि, यथा वह्नित्वस्यानुगतत्वे वह्नित्वेनैकवह्निज्ञानानन्तरं सकलवह्न्यादिज्ञानद्वारा सकलधूमनिष्ठव्याप्त्यादिज्ञानद्वारा विशिष्टपरामर्शनिर्वाहस्तथा तदननुगमेपि तद्धर्माभिव्यंग्यविलक्षणसादृश्यज्ञानसहकृतेन्द्रियेण सकलवह्न्यादिज्ञानद्वारा विशिष्टपरामर्शनिर्वाहस्त्वाकरे दर्शित एव। यथा वह्निपदप्रवृततिनिमित्तं वह्नित्वं द्रव्यपदप्रवृत्तिनिमित्तं द्रव्यत्वं चैकस्मिन्वर्तते तेषां व्यक्त्यभेदेपि परस्परमसङ्कीर्णतापि सर्वत्र जात्यादीनां भेदाभेदवादिनां यथा भेदेनैव तथास्माकं क्वचिद्भेदेन क्वचिद्विशेषेणेत्यन्यदेतत्। तथा च वस्तुषु स्वशब्दप्रवृत्तिनिमित्तधर्माणां विलक्षणत्वात्तदभिव्यंग्यसादृश्येन सकलसाध्यनिरूपितानां व्याप्तीनां प्रकृतहेतुषु ग्रहेण विशिष्टपरामर्शादिनिर्वाहे क्वानुपपत्तिः। परन्तु अनुगतधर्माऽग्रहवादेन एव स्वशब्दघटितन्यायप्रयोक्त्रा श्रोत्रा च विविच्य वक्तुमशक्येऽप्रामाणिकसंसर्गताके नानापदार्थघटिते कस्मिंश्चित्पदार्थे संसर्गतां परिकल्प्य तद्घटिसाध्यतावच्छेदकादेः श्रोतुर्मानसबोधविषयकत्वकल्पनं वक्तुस्तत्र तात्पर्यकल्पनमप्रामाणिकमनुभवविरुद्धं गुरु च। यथाश्रुतवाक्यबोध्यधर्मज्ञानद्वारोक्तरीत्याऽनुमितिर्वाहप्रकार एव लघीयान्। अधिकमन्यत्रानुसन्धेयम्। एवं च स्वशब्दार्थघटितसाध्यहेत्वादिस्थले स्वार्थानुमितिपरार्थानुमित्योरानुभाविकत्वेन तदुपपादनप्रकारस्य पुरुषमतिवैचित्र्येण वैचित्र्येपि तादृशानुमानप्रयोगः सङ्गतः एव। परन्तूषपादनक्रमे सौष्ठवविचारः परमवशिष्यते। स चेदानीमनुपयुक्तः। विचारान्तरत्वापत्तेः। अन्यथा (11)भेदत्वामात्रस्यसाध्यत्वेऽप्येतादृशदूषणसम्भवेन तत्र तदनुक्त्वा स्वत्वघटितसाध्य एव तदुक्तेस्तवासङ्गतत्वापातात्।
{11. भेदबत्त्व इति पाठेन भाव्यमिति भाति।}
अनुगतधर्माऽग्रहमात्रेण भवदुक्तस्वत्वविकल्पादेर्दूषणत्वे नैयायिकमीमांसकादीनां कथोच्छेदप्रसङ्गात्। नैयायिकेन पर्वतो वह्निमानित्युक्ते मीमांसकेनोच्यते। किं पर्वतवह्न्यादिपदानि जातिवाचीनि किं व्यक्तिवाचीनि। आद्ये बाधादिकमपसिद्धान्तश्च। द्वितीये तेषां मां प्रत्यबोधकत्वमिति। तत्रैतावदेव वक्तव्यम्। उक्तवाक्येन मध्यस्थानुमित्यादेरानुभाविकत्वेनोक्तदूषणमसङ्गतमिति। तत्सर्वं प्रकृतेप्यविशिष्टमेवेति।
एतेन न्यायामृतोदाहृतस्वशब्दार्थघटितसाध्येषु त्वदाचार्याणां स्वशब्दार्थविकल्पपूवकदूषणान्यसाधून्येव। अपि चान्यत्र यथा भवतानुगमः क्रियते तथा प्रकृतेऽपि शक्यते कर्तुम्। तथा हि, स्वविषयताशालिज्ञानबाध्यत्वसम्बन्धावच्छिन्नस्वनिष्ठप्रतियोगिताकाभाववत्त्वस्ववृत्तित्वोभयसम्बन्धेन तादृशाभाववत्त्वविशिष्टाधेयतासम्बन्धेन वा किञ्चिद्विशिष्टभेदवत्त्वं साध्यम्। अतो नाप्रसिद्धविशेषणत्वसिद्धसाधनत्वादयः। तव मते अनुगतधर्मो नास्तीत्यस्य दत्तमुत्तरम्। पररीत्येत्यपि वक्तुं शक्यत्वाच्चेति सर्वं समञ्जसम्।
यत्तु केचित्त्विति मतान्तरमुत्थाप्य निगडमुक्तिसाधारणमुक्तिकालावच्छिन्नभेदसाधने सिद्धसाधनता। परममुक्तिकालावच्छिन्नभेदस्त्वप्रसिद्ध इति दूषणेन मुक्तिकालावच्छिन्नभेदसाधनदूषणं तदप्यनुक्तदूषणमेवेति नास्माकं काचित्क्षतिरित्यलम्।
</129 पृष्ठे 11-12 पंक्त्योर्मध्ये>

<144 पृष्ठे 18-19 पंक्तिमध्ये>
(द्वै. द्यु.)
अनुयोगितासम्बन्धेन बन्धेनैव रूपेणाभावस्य हेतुत्वं सुवचमित्यसत्। बन्धधर्मितावच्छेदकतयाऽभावत्वस्य निवेशेऽभावत्वमात्रस्य व्याप्यतावच्छेदकतयेतरांशस्य वैयर्थ्यात्। तस्यानिवेशे निर्धर्मितावच्छेदककतादृशभानस्याव्युत्पन्नत्वात्। अन्यथा `अभावो न घटीयः' इति बाधकालेऽपि एकत्र द्वयमिति रीत्या अभावत्वघटयोरवगाहिनो बोधस्य घटो नास्तीत्यादिवाक्यादापत्तेः। अनुयोगितासंसर्गस्थले प्रकारतावच्छेदकधर्मावच्छिन्नप्रतियोगितानिरूपितानुयोगिताया एव संसर्गताभाननियमात् बन्धसामान्यात्यन्ताभावस्य प्राप्त्या निगडमुक्ते साधनवैकल्यात्। ध्वंसप्रागभावाधिकरणेऽत्यन्ताभावानङ्गीकारे ईश्वरातिरिक्तपक्षेषु भागासिद्ध्यापत्तेश्च।
न च स्वसंसर्गाभावाधिकरणतासम्बन्धेन बन्धस्य हेतुत्वेऽपि बन्धत्वं न जातिर्न वाऽखण्डोपाधिः। मानाभावात्। किन्तु दुःखप्रयोजकत्वमेव। तत्र प्रयोजकत्वस्यैवोक्तसम्बन्धेन व्याप्यतावच्छेदकत्वे इतरांशवैयर्थ्यमिति वाच्यम्। बन्ध इत्यनुगतप्रतीतिसाक्षिकबन्धत्वजात्यङ्गीकारेऽस्मन्मते बाधकाभावात्। स्वोत्पत्तिप्रयोजकप्रतियोगिकसंसर्गाभाववत्त्वसम्बन्धेन दुःखस्य हेतुतायाः कर्तुं शक्यत्वाच्च।
ननु पूर्वं सामान्यव्याप्त्यभ्युपगमपक्षे संसाररूपत्वस्य दुःखे विशेषणत्वायोगात्कथं हेतुतेति चेन्न। संसारजन्यदुःखत्वेनैव हेतुत्वात्। साध्यमपि स्ववृत्तिर्या संसारजन्यदुःखसंसर्गाभावाधिकरणतेत्यादिरीत्या निवेश्य परिष्कर्तव्यम्। व्याप्तिरपि यो यत्प्रयोज्यदुःखस्य स्वप्रयोजकप्रतियोगिकसंसर्गाभाववत्त्वसम्बन्धेन सम्बन्धीत्यादिरीत्या वक्तव्येति न कोऽपि दोषः।
न चैतादृशपरम्परासम्बन्धस्य ग्रन्थकृता कुत्राप्यनुक्तत्वादनभिप्रेतमिदमिति वाच्यम्। तत्वप्रकाशिकादौ नारायणपदार्थनिर्वचनप्रस्तावे `नारा वेदाः। प्रतिपाद्यतया तदयनत्वाद्वा नारायणः। नारा मुक्ताः। प्राप्यतया तदयनत्वाद्वा' इत्यादिना सम्बन्धत्वेन ग्रहणात्। विषयितादिवद्वृत्त्यनियामकत्वेऽपि व्याप्यतावच्छेदकत्वे विरोधाभावादुक्तं युक्तमेव।
यदि च गुरोरपि धर्मस्य व्याप्यतावच्छेदकत्वमविरुद्धम्। स्वरूपसम्बन्धरूपव्याप्यतावच्छेदकतायां मानाभावाद्दूषितत्वाच्च। किन्तु स्वावच्छिन्नसमानाधिकरणेत्यादिरीत्या पारिभाषिकमेव। तच्च नीलधूमत्वादेरविरुद्धम्। नीलधूमादिति न्याये अप्रयोगस्तु वक्तुर्निग्रहादेव। धूमपदेन बोध्यमाने हेतौ नीलरूपविशेषणबोधेच्छया तत्प्रयोगे तस्य निष्प्रयोजनत्वेनानाकांक्षितबोधनेनाधिक्यात्। वक्तुः प्रयोजनभ्रमं विना तदिच्छाऽसम्भवेन तस्य भ्रान्त्युन्नायकत्वेन निग्रहस्थानत्वात्। यत्र हेतुबोधकैकपदप्रयोगे कर्तव्ये तत्र प्रमेयत्वादित्युक्तौ विषयत्वादित्युक्तौ वा विशेषाभावः तत्प्रतिपाद्यस्य च व्याप्यत्वे च विशेषाभावश्च तत्र न निग्रहः। अतः प्रमेयत्वादिति हेतुवाक्यं साध्वेव। न च काकदन्तज्ञानविषयधूमत्वावच्छिन्नबोधतात्पर्यकैकप्रातिपदिकात्मकहेतुवाक्यं साधु स्यादिति वाच्यम्। तादृशपदसत्त्वे इष्टापत्तेः। न च पूर्वं तस्य प्रक्रान्तत्वे तद्बोधकं तस्मादिति हेतुवाक्यं साधु स्यादिति वाच्यम्। रसर्वनामपदघटिततादृशन्यायप्रयोगस्यासाम्प्रदायिकत्वादेव तथा व्यावहाराभावात्। लोके च तस्य पूर्वं बुद्धिस्थत्वे तथा प्रयोगस्येष्टत्वात्। न चैतादृशस्थले लघुशरीरहेतुबोधतात्पर्यं विहाय गुरुशरीरहेतुबोधेच्छा वक्तुरनुचितेति प्रमेयत्वादिति वक्तुर्निग्रहः स्यादिति वाच्यम्। एकत्र पक्षे गुरुलघुपर्काराणामुक्तेः सम्प्रदायसिद्धत्वात्। अन्यथा धमप्रागभावादित्यस्याप्यवक्तव्यतापातेन तेषां हेतुत्वाङ्गीकाराभावप्रसङ्गात्। दीधितिकृत्प्रभृतिभिरङ्गीकृतत्वेन तत्रेष्टापत्तेः कर्तुमशक्यत्वात्।
ननु हेत्वाधिक्यवद्धेतुविशेषणाधिक्येऽपि निग्रहो युक्त इति चेत्। सत्यम्। हेत्वाधिक्यं नाम हेत्वन्तरबोधकशब्दान्तरप्रयोग एव। वस्तुतो विद्यमानस्य त्यक्तुमशक्यत्वात्। एकप्रातिपदिकेन युगपद्धेतुतावच्छेदकद्वयावच्छिन्नस्य बोधयितुमशक्यत्वाच्च। तथा च हेत्वाधिक्यं नियमेन निग्राहकम्। हेतुविशेषणाधिक्यन्तु न तथा। विशिष्टवाचकैकप्रातिपदिकप्रयोगे शब्दान्तरप्रयोगप्रयुक्ताधिक्यविरहात्। पृथक्पदेनोपादान एव तदाधिक्यप्रसक्तेः। तस्मात्प्रमेयत्वनीलधूमादीनां विशेषो युक्त एवेति यद्यभिप्रायः सोऽपि मम सम एव। अत्रापि मुक्तत्वपदेनोक्तहेतौ पदान्तरेण विशेषणान्तरादानेनाऽधिक्यरूपनिग्रहाभावेनोक्तहेतुवाक्यं युक्तमिति।
इदमिहावधेयम्। बन्धसंसर्गाभावाधिकरणत्वस्य वक्ष्यमाणसंसारसंसर्गाभावाधिकरणत्वस्य वा व्यभिचारावारकविशेषणघटितत्वेऽपि हेतुत्वं युक्तमेव। विशेषणानामप्रयोजकताशङ्कानिरासद्वारा व्याप्तिनिश्चयोपयोगित्वेन तद्धटितस्य व्याप्यतावच्छेदकत्वात्। अधिकरणत्वमात्रस्याभावाधिकरणत्वस्य संसर्गाभावाधिकरणत्वस्य वा भेदं विना प्रागवस्थेत्याद्युक्तसाध्यं विनाप्युपपत्तेः। भेदं विना स्वस्वरूपभूतप्रमेयत्वाद्यधिकरणताया घटादौ स्वस्वरूपभूतस्वाधिकरणतायाश्च घटसंसर्गाभावादौ दृष्टत्वेन प्रकृते भेदं विना तदभावापादनायोगात्। प्रागवस्थेत्यादि साध्ये तु सुतरामप्रयोजकत्वम्। कथञ्चिद्भेदमात्राङ्गीकारेणोक्तहेतूपपत्तावुक्तविशेषणसहितभेदाङ्गीकारे बीजाभावात्। बन्धरूपस्य वा संसाररूपस्य वा प्रतियोगिनोऽभावांशे विशषणत्वे तु तस्य स्वप्रतियोगिना सह विरोधस्फूर्त्यो विरोधस्यैककाले एकाधिकरणे अवर्तमानत्वरूपस्य तत्कालीनप्रतियोग्यधिकरणस्वाधिकरणयोर्भेदानङ्गीकारे उच्छेदप्रसङ्गरूपतर्कस्योत्थानेन व्याप्तिनिश्चयात्। एवं पक्ष एव (12)साध्यं मास्त्वित्यप्रयोजकत्वशङ्कायां वादिरीत्या प्राप्तायां मुक्तामुक्तयोरिति वक्ष्यमाणरीत्याऽनुकूलतर्कं विना (13)तन्निरासायोगेन तादृशानुकूलतर्कोत्थानार्थमपि हेतुविशेषणमावश्यकम्। (14)भेदमात्रानङ्गीकारे बद्धाबद्धव्यवस्थानुपपत्त्या बन्धाभावसंसाराभावरूपहेतूच्छित्तिवत्संसर्गाभावाधिकरणत्वानुपपत्तौ बीजाभावात्। भेदरहितेऽपि कस्यचिच्छशविषाणादेः सृष्ट्याद्यकालीनतृणव्यक्त्यादेरभावमादायाप्युपपत्तेः। प्रागवस्थीयभेदानङ्गीकारे भेदनाशस्याभ्युपगन्तव्यत्वेन पूर्वं स्वभिन्नैः संसारिभिः सहैक्यप्राप्त्या मुक्तामुक्तव्यवस्थोच्छेदेन मुक्तत्वाभावः। भेदान्तरोत्पत्त्यङ्गीकारे गौरवमित्यनुकूलतर्कः प्रसरत्येव।

{12. व्यभिचारशङ्कायां इति पाठान्तरम्।
13. व्याप्तिनिश्चयायोगेन इति पाठान्तरम्।
14. एवमपि पक्षान्तर्भावेण व्यभिचारनिरासद्वारा व्याप्तिग्रहौपयिकत्वमक्षुण्णमेव इति पाठान्तरम्।}
ननु स्वनिष्ठध्वंसरूपसंसारसंसर्गाभावत्य भेदापगमेनेदानीन्तनसंसारिभिः सहैक्येनाप्युपपत्त्या संसारिण्यपि संसारान्तरसंसर्गाभावमादाय मुक्तत्वव्यवहाराभावेन च तस्य मुक्तत्वरूपत्वाभावेन तदुच्छेदापादनासम्भवात्संसारसंसर्गाभावकूटं हेतुः। अत एव उभयाभावादिघटितसंसाराभावकूटस्य भेदं विनाऽप्युपपत्त्या अप्रयोजकत्वं स्यादतः संसर्गेति संसारसंसर्गविरोध्यभावनिवेशलाभाय सार्थकम्। अभावकूटन्तु न हेतुः। अन्यदीयसंसारध्वंसादीनामपि कूटान्तर्गतत्वेन तादृशकूटाधिकरणस्यैवाप्रसिद्ध्यापत्तेः। किन्तु यावन्तः संसाराः (15)तत्तत्प्रतियोगिकाभावकूटमेव हेतुरिति युक्तम्। (16)घटादिहेतौ उक्तकूटसत्त्वाद्दृष्टान्तस्यापि न साधनवैकल्यम्। अविवक्षितबन्धाभावपक्षे तु कथम्। तत्रापि स्वनिष्ठनष्टैकबन्धव्यक्तिप्रतियोगिकस्य कस्यचिदभावस्योक्तरीत्या साध्यं विनाऽप्युपपत्त्याऽपयोजकत्वात्। न हि मेदानङ्गीकारे तादृशबन्धव्यक्तितदभावयोर्विरोध उच्छिद्यते। न वा साध्याभावे पक्षे तदुच्छेदः प्राप्नोति। बन्धसंसर्गाभावकूटस्य तु हेतुता न घटते। निगड़मुक्ते अन्ततः संसाररूपबन्धस्य सत्त्वेन तदभावकूटाभावेन साधनवैकल्यापत्तेरिति चेन्न।

{15. तत्तत्प्रतियोगिकात्यन्ताभावकूटमेवेत्यर्थः।
16. घटादिदृष्टान्ते इति पाठेन भाव्यमिति भाति।}
स्वनिरूपकाभावविरोधिसत्ताकालीनबन्धाभावाधिकरणताया हेतुत्वेन विवक्षितत्वात्। उक्तहेत्वधिकरणे भेदासत्त्वे विरोधोच्छेदापत्तिरूपानुकूलतर्कावतरणेन व्याप्तेः सुग्रहत्वात्। पूर्वकालीनभेदानाशेन तयोरैक्येप्येषैवानुपपत्तिर्भेदान्तरकल्पने च गौरवमित्यनुकूलतर्कः साध्यान्तरे द्रष्टव्यः।
न चैवमप्यभावे बन्धप्रतियोगिकत्वं व्यर्थम्। एतादृशाभावान्तराधिकरणताया अपि भेदं विनाऽनुपपद्यमानत्वेन व्याप्तिग्रहसम्भवादिति वाच्यम्। बन्धपदस्य दुःखप्रयोजकजडपरत्वे सर्वस्यापि तथात्वेन चिन्मात्रव्यावृत्तौ बीजाबावेन बन्धपदस्यैवोक्तार्थतात्पर्यग्राहकत्वाभ्युपगमात्। यद्वा प्रतियोगिविशेषेणाभावस्याविशेषितत्वे तादृशाभावस्वरूपसन्देहेन झडिति हेतुतावच्छेदकविशिष्टहेतुस्वरूपानिश्चयेन व्याप्तिनिश्चयायोगात्तद्विशेषणम्। दत्ते च विशेषणेऽभावविशेषस्य झडिति स्फूर्त्या भवत्येव व्याप्तिग्रहः। यथा समवायेन संयोगसामान्याभावे साध्ये संयोगीययावद्विशेषाभावेषु समवायसम्बन्धावच्छिन्नत्वं निवेश्य सामान्यमुखव्याप्तिशरीरे समवायावच्छिन्नप्रतियोगिकत्वं हेतुकोटौ निवेश्यते। अन्यथा विशेषाभावकूटमात्रस्य समवायसम्बन्धावच्छिन्नप्रतियोगिताकसामान्याभावेन व्यभिचाराभावेऽपि विशेषाभावकूटमात्रस्य क्वचिदधिकरणेऽवृत्तित्वसन्देहेन व्याप्तिनिश्चयानुपपत्तेस्तद्वत्प्रकृतेऽपि। स्पष्टञ्चैतत्सिद्धान्तलक्षणगदाधरीये। विरोधस्य सम्बन्धविशेषघटितत्वलाभाय संसर्गपदम्। पक्षूभते मुक्ते तादृशहेतुश्च संसारध्वंसो वा तदत्यन्ताभावो वा। पुरुषान्तरनिष्ठसंसारध्वंसस्यापि पुरुषान्तरवृत्तिसंसारेण सहैकाधिकरणावृत्तित्वरूपविरोधशालित्वात्।
व्यभिचारावारकस्यापि व्याप्तिनिश्चयोपयोगिनो विशेषणस्य सार्थक्यं `परमाणुर्दशभागवान् युगपद्दशदिक्संयोगात्' इत्यनुमाने अन्यथासिद्धिनिरासकतया सौधसमयचरणटीप्पण्यां यादवाचार्यैरुपपादितम्। एवमद्वैतचन्द्रिकायां गुर्व्या लघ्व्याञ्च सत्यतासाधकानुमानभङ्गे उपपादितम्। गदाधरेणापि तर्कग्रन्थे `संयोगान्यसम्बन्धावच्छिन्नवह्निनिष्ठजनकत्वानिरूपकत्वे संयोगान्यसम्बन्धावच्छिन्नवह्निनिरूपितजन्यत्वशून्यत्वे च सति संयोगसम्बन्धावच्छिन्नवह्निनिष्ठजनकतानिरूपितजन्यताशून्यः स्यात् धूमस्तर्हि वह्निजन्यो न स्यात्' इति तर्के आपादककोटौ प्रथमसत्यन्तस्य व्यभिचारावारकस्यापि व्याप्तिग्रहौपयिकतया सार्थक्यमभिधाय मिश्रसम्मतिरभिहिता। ग्रन्थकारैरपि
साध्यसाधनवैकल्यं दृष्टान्तस्य विशेषणे।
वैयर्थ्यमेकासिद्धौ तु विशिष्टासिद्धिरेव हि।।
इति भक्तिपादीयानुव्याख्याव्याख्यावसरे व्याप्तिग्रहानौपयिकविशेषणस्यैव वैयर्थ्यमभिहितम्। न व्यभिचारावारकत्वमात्रेण। अतो नेदमलौकिकम्। इत्थञ्चोक्तरीत्या विशेषणसार्थक्यसम्भवेऽपि यत्प्रतिबन्द्या उत्तरप्रदानं तदुक्तरीत्यैवेतत्समाधानं मूले वक्ष्यमाणानुकूलतर्कानुरोधेन शिष्यैरेव सुग्रहमित्याशयेन वा परस्य स्वयमपि प्रमेयत्वादित्यादिहेतुवाक्यं प्रयुज्य परं प्रत्येतदाशङ्कनमनुचितमिति प्रदर्शनाय वा समाधिसौकर्याय वेति ज्ञेयम्।
एतेन पररीतिमात्रे निर्भरकरणमयुक्तम्। स्वयमपि उक्तानुव्याख्यानव्याख्यायां व्यर्थविशेषणस्य व्याप्यत्वासिद्धिसम्पादकत्वेनाङ्गीकृतत्वात्। परपक्षे यदा तस्याधिक्येनैव दूषकत्वं तदा तत्पक्ष एव निर्भरकरणे स्वमतपरित्यागे अपसिद्धान्तापत्तेः। यद्यपि आधिक्यसम्पादकतयाऽपि तत्पदम् `अथ वा' इति व्याख्यातं तथाऽपि तत्पूर्वकल्पापरित्यागेनैव। अन्यथा वस्तुनि विकल्पासम्भवेन पूर्वकल्पस्य भ्रममूलकत्वप्रसङ्गात्। स्वमतनिरूपणप्रस्तावे पररीत्या तद्व्याख्यानमित्यास्यायुक्तत्वात्। न हि तन्मात्रान्तर्गतविशेषणातिरिक्तविशेषणस्य पदान्तरेणोपादाने व्याप्यत्वासिद्धिरिति वक्तुं युक्तम्। तथा सति नीलधूमस्यैकस्यैव भिन्नपरुषप्रयुक्ताभ्यां नीलधूमात् तस्मदिति पदाभ्यामेककाले व्याप्यत्वाव्याप्यत्वयोर्विरुद्धयोरापातात्। न च दोषत्वस्य पुरुषकालविशेषघटितत्वाद्व्यवस्थेति वाच्यम्। अज्ञानासिद्ध्यादेरेव तथात्वात्। अस्य व्याप्यत्वासिद्धित्वपक्षेऽव्याप्तिरूपहेतुविरोधान्तर्गततया (17)अर्थद्वारा वचनदोषत्वेन तत्पुरुषं प्रति तादृशस्यैवार्थस्य दुष्टत्वे वक्तव्येऽन्यं प्रति तादृशस्यैवार्थस्यादुष्टत्वे नियामकाभावात्' इति निरस्तमिति।
{17. अर्थद्वारा वचनदोषत्वं नामार्थनिष्ठदोषस्य वचनजन्यबोधेऽप्रामाण्यसम्पादकत्वम्। यथा धूमवान्वह्नेरित्यत्र हेतुनिष्ठदोषस्य व्यभिचारस्य हेतुवाक्यजन्यबोधे वह्नौ लिङ्गत्वप्रकारकत्वांशेऽप्रामाण्यसम्पादकत्वम्। तथा च नीलधूमादित्यस्य तस्मादित्यस्य च समानाकारबोधसम्पादकतया तत्रैव प्रामाण्यमप्रामाण्यञ्च द्वयं विरुद्धमिति भावः।}
</144 पृष्ठे 18-19 पंक्तिमध्ये>

<148 पृष्ठे 17-18 पंक्त्योर्मध्ये>
न चोत्तरत्र सामान्यरूपेण प्रयुक्ते विशेषरूपेण विकल्प्य दूषणस्यातिप्रसञ्जकत्वमाशङ्क्य सामान्यरूपासम्प्रतिपत्तेरुक्तविकल्पे बीजत्वोक्तिर्विरुद्ध्येत। सामान्यरूपसत्त्वेऽप्युक्तरीत्या भ्रमविषयव्यावर्तकविशेषणदानप्रयुक्तविकल्पतत्पक्षदोषाणां सङ्गतेरिति वाच्यम्। यतः दृश्यत्वत्वं तावद्धेतुतावच्छेदकं न भवति। आत्मनि भ्रमप्रतिपन्नदृश्यत्वमादाय त्वद्रीत्याऽनैकान्त्यापातात्। अतस्तद्व्यावृत्तं हेतुतावच्छेदकं त्वया वाच्यमित्याशयेन यदि व्यावहारिकसत्त्वरूपानिर्वाच्यत्वविशिष्टदृश्यत्वत्वं तन्ममासिद्धम्। यदि पारमार्थिकत्वघटितं तत्तवासिद्धम् इति दूषणेऽभिहितेऽस्मदभिमतव्यावहारिकसद्रपानिर्वचनीये त्वदभिमते पारमार्थिके च विद्यमानं भ्रमप्रतिपन्नव्यावृत्तं किञ्चित्सामान्यं हेतुतावच्छेदकं स्यात्तावताऽन्यतरासिद्धिव्यभिचारपरिहारसम्भवे भवदीयविकल्पोऽसङ्गत इत्याशयेन शङ्किते पारमार्थिकं मिथ्यापरपर्यायव्यावहारिकपदबोध्यं व्यावहारिकञ्चाङ्गीकृत्योभयत्रैकं सामान्यं ममासम्प्रतिपन्नमेव। दृश्यत्वत्वं व्यभिचारितावच्छेदकत्वेन त्वयैव स्वीकृतम्। अतो विकल्पो युक्त एवेत्याशयेन तादृशसामान्यनिराकरणं युक्तमेव। अतो न कश्चिद्दोषः।
अवशय्भित्थमेव तदभिप्रायो वाच्यः। अन्यथा जगति तावद्दृश्यत्वं भवताङ्गीकृतम्। तत्सत्यं मिथ्या वाऽम्त। तत्र दृश्यत्वरूपधर्मस्त्वयाङ्गीकृत एव। स च मिथ्यासत्योभयवृत्तित्वेन त्वया नाभ्युपगम्यताम्। तथा च तत्रानिर्विचनीयत्वसत्यत्वरूपविशेषणप्रक्षेपं विहाय दृश्यत्वत्वमात्रेण तस्य हेतुत्वेऽभिप्रेते उक्तविकल्पोऽसङ्गत एव। अन्यथा मीमांसकनैयायिकयोः (18)वर्णेषु शब्दे नित्यत्वानित्यत्वरूपस्वपक्षसाधनाय पक्षीकरणायोगप्रसङ्गः। मीमांसकैर्वर्णस्य द्रव्यत्वमुच्यते। नैयायिकैस्तु गुणत्वम्। द्रव्यात्मकवर्णे गुणात्मकवर्णे च वर्णत्वरूपसामान्यधर्मो वर्तत इत्युभाभ्यामपि न स्वीकृतम्। इत्थञ्चैकेन वर्णस्य पक्षीकारे परेण द्रव्यात्मकवर्णस्य पक्षत्वे मम पक्षाप्रसिद्धिः। गुणात्मकवर्णस्य पक्षत्वे तु तवाप्रसिद्धिः इत्यादिदूषणप्रसङ्गात्। अत एवोक्ताभिप्रायो युक्तः। न च धूमादिति हेतावपि आभासेन व्यभिचारवारणाय तत्र तद्वारकविशेषणस्यावश्यकत्वेऽन्यतरासिद्ध्यादिदूषणस्य तत्रापि सम्भवात्तत्र सम्प्रतिपत्तिरयुक्तेति वाच्यम्। उक्तरीत्या दूषणं परमते सर्वत्रापि वर्तत एव। परन्तु धूमत्वसामान्याङ्गीकर्त्रोर्विचारे एतद्देशसंलग्नत्वादिना विकल्पो न कर्तव्य इत्यत्रैव सम्प्रतिपत्तिस्तत्रोक्तेत्यलमप्रस्तुतविचारेण। प्रकृतमनुसरामः।
{18. वर्णात्मकशब्दे इति पाठेन भाव्यमिति भाति।}
</148 पृष्ठे 17-18 पंक्त्योर्मध्ये>

<172 पृष्ठे 6 पङ्क्तौ।। रजतात्यन्ताभाव इति।।>
ननु अत्यन्ताभावप्रतियोगित्वार्थकत्वे समभिव्याहृतरजतपदार्थे निपातार्थत्वेन तस्याश्रयतयाऽन्वये रजतमत्यन्ताभावप्रतियोगीत्यर्थो लभ्यते। अत्यन्ताभावविशेष्यकबोधस्तु कथम्। समभिव्याहृतरजतादिपदार्थस्याधेयतया व्युत्पत्तिवैचित्र्येण (19)प्रतियोगित्वेऽन्यथाभ्युपगमेपि प्रतियोगित्वविशेष्यकबोध एव स्यान्नाभावविशेष्यकः। तस्य वाच्यतावच्छेदककोटिनिविष्टत्वात्। किं चासत्तुच्छालीकमिथ्यापदानि पर्यायाणीत्यविवादम्। तेषामप्यत्यन्ताभावप्रतियोग्यर्थत्वे तत्पर्यायस्य मिथ्यापदस्यात्यन्ताभावप्रतियेगित्वार्थकत्वानुपपत्तिः। तेषामप्यत्यन्ताभावप्रतियोगित्वार्थकत्वे शशविषाणमलीकमिति सामानाधिकरण्यानुपपत्तिः। मिथ्येत्यस्याव्ययतया तत्र भेदान्वयेप्यत्र तत्रेव भेदान्वयायोगात्। अभेदान्वयस्य बाधितत्वात्। शशविषाणे शशविषाणस्य वा मिथ्या अलीकमित्यादिव्यवहारापातश्च। षष्ठीसप्तम्यर्थभूतसम्बन्धाधेयत्वयोरुक्तमिथ्यालीकशब्दार्थे सम्भवात्। न च मिथ्यालीकादिशब्दानामत्यन्ताभावप्रतियोग्येवार्थः। समभिव्याहृतशशविषाणादिपदार्थानामभेदेनैवान्वयित्वमिति वाच्यम्। वाच्यार्थासत्त्वशङ्कायां तस्यैव सत्त्वे वक्तव्ये `अत्यन्ताभावप्रतियोगित्वलक्षणस्यासत्त्वस्य सत्त्वात्' इत्यनेन वाच्यस्य (20)तस्य सत्त्वोक्तिवैयर्थ्यप्रसङ्गात्। न च तदपि विशेषणतया वाच्यमिति वाच्यम्। सिद्धान्ते विशेषणे वृत्तिनिमित्तताङ्गीकारेण शक्तेरनङ्गीकृतत्वादिति चेन्न।
{19. प्रतियोगित्वे अन्वयाभ्युपगमेऽपि इति पाठेन भाव्यमिति भाति।
20. तत्र इति पाठेन भाव्यमिति भाति।}
तद्विषयिताशालिबोधजनकत्वं यत्स्वाभाविकं तदेव पदे शक्तिरित्युच्यते। सा च शक्तिर्ज्ञातैवोपयुज्यते। तादृशविषयितानिरूपकाणि सर्वाणि शक्यान्येव। अत एवान्वयेऽपि शक्तिरिति सिद्धान्तः। अशक्यस्य शाब्दबोधे भानाङ्गीकारे प्रवृत्तिनिमित्तवदन्वयस्यापि तथैव भानसम्भवेन योग्येतरान्विते शक्त्यङ्गीकारवैयर्थ्यप्रसङ्गात्। परन्तु शाब्दबोधानुकूलशक्तिज्ञानं `घटत्वविशिष्टो घटपदशक्यः' इत्याकारम्। न तु `घटत्वघट घटपदशक्यौ' इत्याकारम्। अतः शाब्दबोधानुकूलज्ञानविषयीभूतशक्त्यंशेऽविशेष्यत्वात्तत्राशक्यत्वव्यवहारः। एवञ्च तादृशाप्रतियोगित्वांशे विशेषणतया वाच्यत्वसत्त्वादुक्तटीका सङ्गतैव । न च मिथ्यादिपदानामुक्तप्रतियोग्यर्थकत्वे `मिथ्यापदवाच्यं नास्ति' इति प्रतीतिप्रसङ्गः। `वाच्यसामान्यं नास्ति'इति प्रतीतेस्तादृशप्रतियोगित्वरूपवाच्यसत्त्वेन बाधितत्वात्। अत एव तादृशप्रतियोगित्वरूपवाच्यस्य सत्त्वमुक्तम्। `विशेष्यतया वाच्यं नास्ति' इति प्रतीतिस्त्विष्टैव। न चासतः कथं वाच्यत्वमिति वाच्यम्। विषयितानिरूपकत्वरूपोक्तवाच्यत्वस्य तत्र सत्त्वे बाधकाभावात्। अर्थवत्सूत्रेपि शक्तिमत्त्वरूपार्थवत्त्वमेव विवक्षितम्। न तु सद्विशेष्यकबोधजनकत्वम्। तथात्वेऽलीकादिपदानां पदत्वव्याघातप्रसङ्गात्। मिथ्यापदस्य तु प्रतियोगी अभावश्च पृथगेवार्थ इत्यङ्गीकृत्य प्रतियोगिनि समभिव्याहृतपदार्थस्याभेदेनान्वयमङ्गीकृत्याभावप्राधान्येन बोधः मिथ्याशब्दस्थलेऽनुभवादेव स्वीक्रियते। मिथ्यालीकशब्दयोः पर्यायत्वोक्तिस्त्वनतिभिन्नार्थत्वात्। यद्यभावप्रधानकबोधः पाश्चात्य एव (21)दर्शित इत्युच्यते तदा न कोपि दोषः।
{21. दर्शितस्थले इति पाठेन भाव्यमिति भाति।}
मायावादिनस्तु `असतो निरुपाख्यत्वं शब्दशक्त्यविषयत्वम्' इति वदन्तोऽसतः शक्त्यगोचरतामाहुः। तन्न। अलीकादिपदानां तेषामपदत्वापत्तेः। न च तान्यनिर्वचनीयवाचीनीति वाच्यम्। `शशविषाणमलीकम्' इति वाक्यस्य सर्वमते प्रमाणस्यापलापापत्तिः। न च तद्वाक्यं विकल्पजनकमेवेति न बोधकत्वघटितप्रामाण्यं मत्सम्मतमिति वाच्यम्। (22)पदार्थसम्बन्धज्ञानरहितपुरुषे विकल्पस्याप्यनुत्पत्त्या तदर्थमप्यलीकपदस्यासति शक्तिग्रहस्यावश्यकत्वात्। अनिर्वचनीये शक्तिज्ञानेनासद्भानाङ्गीकारे घटे शक्तिज्ञानेन पटभानप्रसङ्गात्। अन्यदधिकमुत्तरत्र निराकरिष्यते। असत्प्रतीतिमनङ्गीकुर्वतां नैयायिकादीनां अलीकादिपदानां पदत्वव्याघातः स्फुट एव। कथञ्चित्सदर्थकत्वकल्पना अनुभवविरुद्धेत्युपरम्यते।
</172 पृष्ठे 6 पङ्क्तौ।। रजतात्यन्ताभाव इति।।>

<172 पृष्ठे 11-12 पंक्त्योर्मध्ये>
अप्रामाणिकप्रतियोगिकात्यन्ताभावनियमवादिनस्तु यत्र भूतले घटस्यसर्वथा न सम्बन्धस्तद्भूतले घटो नास्तीत्यादिवाक्यं तद्भूतलवृत्तित्वविशिष्टघटप्रतियोगिकात्यन्ताभावं बोधयति `न त्वेतद्भूतले घटाभावः' इति तदा तद्वाक्याभिलाप्यं प्रत्यक्षमपि तादृशाकारमेव। भूतलवृत्तित्वस्य तज्ज्ञानेऽभावांशेऽभानेपि क्षतिविरहात्। प्रत्यक्षस्थले घटस्मरणोत्तरं भूतलवृत्तित्वेन घटस्य भानानन्तरं विशिष्टस्यासत एवाभावांशे भानम्। न च कारणीभूतज्ञानस्यानाहार्यत्वे तादृशज्ञानविषयप्रतियोगिकनिषेधभानानुपपत्तिः। एतन्मते तादृशज्ञानस्यात्रैव विरोधित्वात्। अन्यथा भूतले घट इति वाक्यादिना निश्चितवतोऽपि तादृशाभावबुद्धिप्रसङ्गात्। कारणीभूतज्ञानस्याऽहार्यत्वे तत्र बाधग्रहापेक्षा तत्रापि कारणतया पुनराहार्यग्रहान्तरापेक्षेत्यनवस्थैवेति वाच्यम्। `भूतलवृत्तिर्घटः' इतिरूपस्य कारणीभूतज्ञानस्य तत्र सत्त्वानवगाहितया प्रतिबन्धकत्वाभावात्। सत्त्वावगाहिधिय एव प्रतिबन्धकत्वात्प्रतिबध्यत्वाच्च। तस्याऽहार्यत्वाभावेन बाधग्रहान्तरानपेक्षकतया अनवस्थाया अभावाच्च।
ननु सत्त्वानवगाहिज्ञानं भ्रमः प्रमा वा। प्रमैवेति ब्रूमः। न च तदभाववति तत्प्रकारस्य कथं प्रमात्वमुच्यत इति वाच्यम्। स्वनिश्चिताभावकप्रतिवादिवाक्यार्थं ज्ञात्वा अनुवादकस्य भ्रान्तत्वेन प्रेक्षावद्व्यवहृत्यगोचरतया तत्र सत्त्वावगाहितया विधिरूपत्वेन व्यवह्रियमाणज्ञानस्यैव (23)भ्रमत्वाङ्गीकारात्। अत एवोक्तमाचार्यैः। `असतः सत्वेन प्रतीतिः सतोऽसत्त्वेन प्रतीतिरित्यन्यथाप्रतीतेरेव भ्रान्तित्वात्' इति। न चानुवाद स्थलेऽनुवादकर्तृज्ञानस्याऽहार्यभ्रमत्वात्तस्य स्वबुद्धिपूर्वं जातत्वात्तमादाय न तस्य भ्रान्तत्वव्यवहारगोचरतेति वाच्यम्। बुद्धिपूर्वं स्वाङ्गविकृतिकर्तरि विकृताङ्ग इति व्यवहारगोचरत्वाद्बुद्धिपूर्वकभ्रमसम्पादकत्वे सुतरां भ्रान्तव्यवहारगोचरत्वस्य दुर्वारत्वात्। निर्दोषत्वेन प्रमितेषु योग्यादिष्वनुवादकत्वदर्शनेन तन्निष्ठज्ञानस्य दोषाजन्यत्वेन भ्रमत्वानुपपत्तेः।
{23. प्रमात्वाङ्गीकारात् इति पाठान्तरम्}
अत एव तत्र तज्ज्ञानप्रयोजकेच्छाया एव दोषत्वमिति निरस्तम्। भ्रमस्य तत्कारणदोषस्य च तत्र तत्र भ्रान्तत्वादिव्यवहाररूपप्रमाणं विना कल्पकाभावात्। अन्यथा तत्पुरुषनिष्ठतत्कालीनानन्तवायुसंयोगादिव्यक्तीनां समानाधिकरणतया दोषविधया कारणत्वस्य कल्पनाया विनिगमनाविरहादापत्तिरिति गौरवापत्तेः। न च तज्ज्ञानजनकत्वेन क्लृप्तेच्छाया एव दोषत्वं कल्प्यते। न तु वायुसंयोगस्य। तस्य जनकत्वस्याक्लृप्तत्वादिति वाच्यम्। इच्छाया दोषविधया विलक्षणकारणताया अक्लृप्ततया विनिगमकाभावस्यदृढत्वात्। तज्ज्ञानकारणत्वेन क्लृप्ततत्क्षणतददृष्टतत्सन्निकर्षानादाय विनिगमकाभावस्य दुर्वारत्वाच्च। दोषाजन्यत्वेति तस्य भ्रमत्वाङ्गीकारे तत्पारिभाषिकं स्यात्।
न च प्रमात्वमपि कथं अर्थाव्यवस्थापकत्वादिति वाच्यम्। सत्त्वावगाहिप्रमाया एवार्थनिश्चायकत्वेन सत्त्वानवगाहितयाऽर्थाव्यवस्थापकत्वेपि भ्रमभिन्नत्वमात्रेण परेषां निर्विकल्पकस्येव परमात्वोपपत्तेः। न च `यथार्थज्ञानं प्रमा' इति तल्लक्षणात् अस्य चायथार्थत्वात्कथं प्रमात्वम्। भ्रमभिन्नत्वमात्रेण प्रमात्वोपचारेपि संशयविपर्ययप्रमातिरिक्तज्ञानाङ्गीकारप्राप्त्याऽपसिद्धान्तः स्यादिति वाच्यम्। यथार्थत्वं प्रमायां नासदविषयकत्वरूपम्। `शशविषाणमसत्' इति प्रमायामव्याप्तेः। किन्तु भ्रमभिन्नत्वमेव। विभाजकवाक्यस्थप्रमादिपदस्यापि तत्परत्वेनापसिद्धान्ताभावात्। न च सत्त्वासत्त्वान्यतरावगाहित्वस्य प्रतीतौ नित्यत्वेन तदौदासीन्येन प्रतीत्यनुपपत्या कथमस्याः प्रतीतेः सम्भव इति वाच्यम्। प्रामाण्यस्वतस्त्वश्येव तस्यौत्सर्गितकतया तस्मिन्नसत्त्वग्रहसामग्र्याः कार्यकालवृत्तितया विरोधित्वाङ्गीकारेण द्वितीयक्षण एव निषेधप्रतियोगित्वरूपासत्त्वबुद्ध्युत्पत्त्योक्तज्ञानाधिकरणक्षणस्य सत्त्वग्रहसामग्र्यनधिकरणत्वात्। न च सत्त्वग्रहाभावेपि उक्तज्ञानोत्पत्तिक्षण एव तत्रासत्त्वभानापत्तिः। तस्य सत्त्ववत् ज्ञानोत्पादकसामग्रीमात्रग्राह्यत्वाभावेनासत्त्वग्राहकसामग्रीं विना प्रथमतस्तद्ग्रहायोगात्। न चोक्तज्ञानस्य भ्रमत्वाभावे आरोपकारणत्ववचनं योगिप्रश्नकारणीभूतसंशयस्याऽहार्यत्ववचनं च प्राचां विरुद्ध्यते। तस्य भ्रमविशेषत्वादिति वाच्यम्। सत्त्वानवगाहित्वेन विपरीतज्ञानाप्रतिबध्यतया च तदुक्तिसङ्गतेः।
न च `शशशृङ्गे सत्त्वं नास्ति' इति धीः शशशृङ्गे सत्त्वज्ञानपूर्विकैव वाच्या। एवं `घटे असत्त्वं नास्ति' इति धीर्घटेऽसत्त्वज्ञानपूर्वकैव वाच्या। तथा च तादृशनिषेधज्ञानवतां भ्रान्तव्यवहारगोचरत्वापत्तिः। असतः शशविषाणादेः सत्त्वेन सतो घटादेरसत्त्वेन च प्रतीतेः सत्त्वात्। तत्र भासमानसत्त्वांशेऽपि सत्त्वावगाहित्वमिति भ्रमत्वपरिष्कारे `शुक्तिरजतसत्त्वे सत्त्वं नास्ति' इति ज्ञानकारणीभूतज्ञानमादाय पूर्वोक्त एव दोषः। तत्र भासमानसत्त्वेऽपि सत्त्वान्तरावगाहित्वं निवेश्य परिष्कारे तत्र तत्र सत्त्वनिषेधज्ञानकारणीभूतज्ञानमादायोक्तदोषवारणायोत्तरत्रापि तथा तथा परिष्कारावश्यकत्वे भ्रमेऽनवस्थितविषयताकल्पनापत्तिस्तद्धटितभ्रमत्वस्य दुर्ग्रहत्वापत्तिश्चेति वाच्यम्। यतो घटादौ यत्र सत्त्वं भासते तत्र सत्त्वं स्वांशे स्वरूपतो भासते। तदेव ज्ञानं घटांशे सत्त्वांशे चासत्त्वावगाहिनीं धियं विरुणद्धि। घटस्य सत्त्वं तत्सत्त्वस्यापि सत्त्वं तस्यापि सत्त्वमित्यादिनानाविधव्यवहारं जनयति। एवं `शशविषाणमसत्' इति प्रत्ययेऽप्यसत्त्वे सत्त्वं प्रतीयत एव। ज्ञानसामान्यसामग्र्याः सत्त्वावगाहिताया अपवादाभावे नियतत्वात्। तत्र भासमानसत्त्वे स्वयमेव सत्त्वं स्वरूपतो भासते। अतस्तत्र नासत्त्वसंशयाद्यापत्तिः। घटाभावस्य स्वात्मकघटाभावाधारत्वत्रानमात्रस्य `घटाभावे घटाभावः' `घटाभाववृत्तिघटभावे घटो नास्ति' इत्यादिव्यवहारनिर्वाहकत्ववत् त्रिकालबाध्यत्वसामान्याभावरूपसत्त्वस्य स्वांशेऽवगाहिज्ञानस्य सत्त्वे सत्त्वं तत्सत्त्वे सत्त्विमित्यादिव्यवहारनिर्वाहकत्वमुपपन्नम्। एवं यथा द्रव्यादिषट्‌कानयोन्याभावस्याभावत्वरूपतामते `घटो नास्ति घटाभावः' इत्यादिप्रत्ययेषु अभावे भासमानं षट्‌कान्योन्याभाव (24)रूपभावत्वं स्वरूपत एव भासत इत्यभ्युपेयते। अन्यथा तादृशान्योन्याभाववत्त्वेन भाने तच्छरीरे पुनरभावत्वस्यनिविष्टतयाऽनवस्थितविषयताप्रसङ्गादभावत्वेनाभावस्य दुर्ग्रहत्वापत्तेश्च। तथा बाध्यत्वाभावरूपसत्त्वस्य स्वांशे स्वरूपतो भानमविरुद्धम्। इत्थञ्च भ्रमलक्षणेति `असतः सत्त्वावगाहित्वम्' इत्यत्रानवच्छिन्नस्वविषयतानिरूपितसत्त्वविषयतानिरूपितासन्निष्ठविषयतायाः `सतो असत्त्वेनावगाहित्वम्' इत्यनेन स्वरूपतः स्वविषयतानिरूपितसत्त्वविषयतानिरूपिता याऽसत्त्वविषयता तद्रूपप्रकारतानिरूपितसन्निष्टविषयतायाश्च निवेशः। न च `इदं रजतम्' इति भ्रमस्थानेऽसद्रजते भासमानसत्त्वस्याप्यसत्त्वेन तस्य निःस्वरूपत्वेन कथं स्वांशे स्वरूपतो भानमिति वाच्यम्। शुक्त्याद्यधिष्ठसत्त्वभासकसामग्र्याः सत्त्वेन तत्संसर्गमात्रस्य भ्रमे रजतादावारोपिततत्त्वाङ्गीकारेण सत्त्वस्यासत्त्वाभावात्। यद्वा रजताद्यसत्त्वेपि भ्रमसामग्रीबलाद्रजतमित्यादिव्यवहारनिर्वाहिका विषणिता भ्रमे स्वीक्रियते यथा तथा तद्बलादेव रजतं सत् तत्सत्वं सदित्यादिव्यवहारनिर्वाहिका विषयिता प्रमायामिव स्वीक्रियते। भ्रमलक्षणेपि सैव निविष्टेति न काप्यनुपपत्तिः. अधिकमुत्तरत्र वक्ष्यते।
{24. रूपाभावत्वम् इति पाठेन भाव्यमिति भाति।}
एवं च `शुक्तिरजते सत्त्वं नास्ति' `घटेऽसत्त्वं नास्ति' इति निषेधकारणीभूतोक्तप्रतियोग्यारोपरूपज्ञाने निरवच्छिन्नसत्त्वविषयत्वास्वीकारान्न तस्य भ्रमत्वापत्तिः। तज्ज्ञानस्य ताद्वशविषयत्वाभावे नियामकन्तु तादृशविषयिताशालिबुद्धिं प्रति तद्वस्तुनिषेधबोधकसामग्र्यादीनां यथासम्भवं प्रतिबन्धकत्वं पूर्वोक्तमवोह्यं सूक्ष्मदर्शिभिरिति दिक्।
एवञ्च `भूतले न घटः' इत्यत्र प्रथमप्रत्यक्षे शाब्दे च सर्वत्र `भूतलवृत्तिघटप्रतियोगिकोऽत्यन्ताभावः' इत्येवाकारः। अनन्तरञ्च `घटाभाववद्भूतलम्' इति द्वितीयं ज्ञानम्। तत्र घटादिपदानां भूतलवृत्तिघटादौ लक्षणाया निरूढायाः स्वीकारात् `भूतलवृत्तिघटाभाववद्भूतलम्' इति शाब्दाकारः। प्रत्यक्षं भूतलवृत्तिघटाभाववद्भूतलम्' इत्याकारकमेव। `भूतले घटो नास्ति' इत्यादौ भूतलवृत्तिघटस्य भूतलाधिकरणकघटकर्तृकसत्ताया वा अभाव एव प्रथमं ज्ञायते। `अस्त्यत्र घटाभावः' इत्यत्र तु घटतत्कर्तृकसत्तयोरत्यन्ताभेदात् तादृशघटाभावत्वेन बोध्यते।
यत्र भूतले घट उत्पत्स्यते नष्टो वा तत्र भूतले घटो नास्तीति प्रतीतिः प्रात्यक्षिकी भूतलसंसृष्टघटप्रतियोगिकं ध्वंसं प्रागभावं तत्संसर्गपतियोगिकं ध्वंसं प्रागभावञ्चावगाहते। संसर्गप्रागभावे ध्वंसे वा संसृष्टप्रतियोगिकत्वं स्वीक्रियते। विशिष्टस्योत्पत्तिनाशाङ्गीकारपक्षे तत्प्रतियोगिकप्रागभावध्वंसयोरावश्यकतया पृथक् तत्स्वीकारे गौरवात्। नीलोपहितघटयोस्तादात्म्यार्थं भेदाभेदस्वीकारनये नीलप्रतियोगिकभेद एव नीलोपहितप्रतियोगिकत्ववदुक्तस्थले स्वीकारे बाधकाभावाच्च। इत्थञ्च `अत्र भूतले न घटः' इत्यत्र भूतलसंसृष्टत्वविशिष्ट घटप्रतियोगिकप्रागभावध्वंसयोरभनेऽपि न क्षतिः।
`भूतले घटो नास्ति' इत्यादौ तु भूतलाधिकरणकघटवृत्तिसत्तायाः संसर्गरूपाया ध्वंसः प्रागभावो वा भासते। आख्यातार्थस्य नञर्थप्रकारतावच्छेदकतया भानाभ्युपगमे तु तादृशास्तित्वविशिष्टघटस्यैव तौ भासेते।
`इदानीमेतद्भूतले घटो नास्ति' इत्यत्र एतत्कालावच्छिन्नैतद्भूतलसंसृष्टत्वविशिष्टघटस्यासत्त्वेनाप्रामाणिकप्रतियोगिकात्यन्ताभाव एव भासते। एतन्मते च नञुल्लेखप्रयोजकविशेष्यतानिरूपितप्रकारताप्रयोजकविषयत्वं तत्समानाधिकरणविषयत्वमात्रं वा प्रतियोगिता। न त्वाधेयतासंसर्गावच्छिन्नप्रकारत्वाप्रयोजकत्वादिकं देयम्। अधिकरणस्य प्रथमप्रतीतावभावांशे भानानङ्गीकारेण तत्रातिव्याप्तेरभावात्। नियमेन `घटाभाववद्भूतलम्' इति द्वितीयप्रतीत्यङ्गीकारेण तदधिकरणे तादृशसंशयानुदयादिकं सर्वमुपपद्यते।
केचित्तु `भूतले घटो नास्ति' `भूतले न घटः' इत्यादिप्रत्यक्षशाब्दबोधादिकं पूर्वमतोक्तरीत्यैव। परन्तु कारणीभूतज्ञानन्तु `भूतले घटोऽस्ति' `भूतले घटः' इत्याकारकमारोपरूपं नापेक्ष्यते। मूलकृट्टीकाकृच्चरणैस्तत्कारणतायाः कुत्राप्यनुक्तत्वान्निर्युक्तिकत्वाच्च। क्वचिट्टिप्पण्यादौ तदुक्तिर्मतान्तरानुसारेणानिर्भिरेणैव। विशृङ्खलघटभूतलाद्युपस्थित्यैव `भूतलवृत्तिघटप्रतियोगिकाभावः' इति `भूतलाधिकरणकघटकर्तृकसत्ताभावः' इत्याद्याकारकज्ञानं जायते। तावताऽप्यप्रामाणिकस्य विशिष्टस्याभावांशे भानादभावस्याप्रामाणिकप्रतियोगिकत्वोपपत्तिः।
नन्वेवं तर्ह्यभावज्ञान एवाप्रामाणिकबावनेन कारणीभूतज्ञानेन कथमत्रोक्तं प्रतियोगित्वलक्षणं तत्र सम्भवतीति चेन्न। निषेधत्वावगाहिज्ञाने तदतिरिक्तधर्मान्तरभानस्यानुभवविरुद्धत्वेनाभावांशे नञुल्लेखप्रतीतौ सत्त्वादेरभानेन तत्र सत्त्वाधिकरणविशेषवृत्तित्वादिसन्देहानुत्पत्तेरनुभवसिद्धाया निर्वाहाय तद्द्वितीयक्षणे सत्त्वाद्यवगाहिप्रतीत्यन्तरं नियमेनाङ्गीकर्तव्यम्। तथा च `भूतले घटो नास्ति' इति ज्ञानोत्तरं नियमेन ज्ञानस्य `भूतलवृत्तिघटाभाववद्भूतलम्' इत्याकारकस्य द्वितीयस्याभावज्ञानपदेन धर्तव्यतया तदुपयुक्तं यत् `भूतले घटो नास्ति' इति ज्ञानं तद्विषयताया विशिष्टाप्रामाणिके सत्त्वात्तत्र लक्षणोपपत्तिः। `अभावज्ञानोपयोगिज्ञानविषयत्वम्' इत्यत्राभावज्ञानोपयोगीत्येतत् द्वितीयज्ञानोपयोगिप्रथमज्ञानस्य परिचायकम्। तथा च नञुल्लेखप्रयोजकविषयत्वमेव प्रतियोगित्वम्। तत्र पूर्वज्ञानीयां नञुल्लेखप्रयोजकीभूतनिषेधत्वविषयतानिरूपितामभाववविषयतामादायातिव्याप्तिवारणाय तद्भिन्नत्वार्थकं अभावनिष्ठविशेष्यतानिरूपितप्रकारतारूपत्वार्थकं वा विशेषपदमपि सार्थकम्। तादृशविषयतारूपप्रतियोगितायाः संसर्गत्वं वा प्रतियोगिपदप्रवृत्तिनिमित्तत्वं वेति सर्वाऽपि पूर्वोक्तरीतिरनुसन्धेया। एतेन प्राचां प्रामाणिकेष्वपि घटादिषु शास्त्रे बहुशः प्रतियोगित्वव्यवहारोऽपि निर्व्यलीकः। `भूतले घटो नास्ति' इति प्राथमिकज्ञानजनकस्य `घटः' इति विशृङ्खलज्ञानस्य विषयतारूपामुख्यप्रतियोगितामादाय भ्रातृसुते सुतत्वव्यवहारस्येवामुख्यस्य तादृशव्यवहारस्यसम्भवात् भूतलादौ तादृशव्यवहारस्य वारणाय विशेषपदं तदन्यत्वाद्यर्थकम्। न च भूतलादौ गौणव्यवहारकरणे बीजाभाव इति वाच्यम्। तदिच्छाया एव नियामकत्वात्। आरोपे सतीति न्यायेनोक्तशङ्काया एवायोगाच्च।
एवञ्च `शुक्तिरजते सत्त्वं नास्ति' `घटे असत्त्वं नास्ति' इति ज्ञानोत्पत्तये `शुक्तिरजते सत्त्वम्' `घटे असत्त्वम्' इति ज्ञानस्य पूर्वमनपेक्षणात् न तज्ज्ञानवतो भ्रान्तत्वमस्माकमापद्यते। निषेधांशेऽप्रकारतया सतोऽसत्त्वावगाहित्वस्यासतः सत्त्वावगाहित्वस्यैव भ्रान्तित्वरूपत्वात्।
न च भूतलघटादीनां विशृङ्खलज्ञानेन भूतलवृत्तित्वविशिष्टघटत्वावच्छिन्नप्रतियोगिताकाभावबुद्धिः कथमुपपद्यताम्। प्रतियोगितावच्छेदकविशिष्टप्रतियोगिज्ञानरूपकारणाभावात्। अन्यथा `वह्निर्महानसीयश्च' इति विशृङ्खलज्ञानोत्तरं `महानसीयवह्निर्नास्ति' इति घटनिर्विकल्पकोत्तरं `घटो नास्ति' इति धियश्चापत्तेरिति वाच्यम्। वक्ष्यमाणरीत्या प्रतियोगितावच्छेदकत्वादिप्रक्रियाया अप्रामाणिकतयोक्तनियमासिद्धेः। `वह्निर्न महानसीयः' इति निश्चयवतामपि `महानसीयवह्निर्नास्त्येव' इत्यादिप्रतीतेरपलपितुमशक्यतयाऽभावबुद्धौ प्रतियोग्यंशे साक्षात्परम्परया भासमानधर्मपुरस्कारेण प्रतियोगिज्ञानस्यानावश्यकत्वम्। `वह्निर्महानसीयश्च' इति विशृङ्खलज्ञानोत्तरमसंसर्गाग्रहवतां `वह्निर्महानसीयः' इति ज्ञानोदयद्वारा `महानसीयवह्निर्नास्ति' इति बुद्धिर्जायते तृतीयक्षण इति त्वया स्वीक्रियते। तत्र द्वितीयक्षण एव `महानसीयवह्निर्नास्ति' इति बुद्धिर्जायत इति मया स्वीक्रियते। क्षणविलम्बस्य शपथनिर्णेयत्वात्तादृशज्ञानान्तराकल्पनाप्रयुक्तलाघवाच्च। यत्र तु (25)`महानसीयवह्निः' इति विशृङ्खलज्ञानोत्तरं `महानसीयवह्निः' इति ज्ञानसम्भवेऽपि अनुभवसिद्धाया `महानसीयवह्निर्नास्ति' इति बुद्ध्यनुत्पत्तेरुपपत्तिर्यद्बलेन भवतोपपाद्यते मयाऽपिरि तेनैवोपपाद्यते। अनयैव रीत्या घटनिर्विकल्पकोत्तरं घटो नास्तीति बुद्ध्यापत्तिरपि निरस्ता। सिद्धान्ते निर्विकल्पकाभावाच्चेत्याहुः।
{25. `महानसीयो वह्निश्च' इति, इति पाठेन भाव्यमिति भाति।}

ननु `शशविषाणं नास्ति' इति प्रतीत्याऽसत्प्रतियोगिकाभाववत् `अत्र भूतले घटो नास्ति' इति प्रतीत्या प्रामाणिकघटप्रतियोगिकोऽभावः भूतलवृत्तित्वेन प्रतीयत इति कुतो न स्वीक्रियते। तत्र तत्र विद्यमानटीकावाक्यानि अप्रामाणिकप्रतियोगिकत्वनियमवत्प्रतीयमानानि कथञ्चित् योजयितुं शक्यानीति न तद्विरोधोऽपि। न चात्यन्ताभावपदेनाभावे आत्यन्तिकत्वं प्रतीयते। आत्यन्तिकत्वञ्च देशकालपरिच्छेदराहित्यमेव। ततश्चात्यन्ताभावस्य सत्प्रतियोगिकत्वेऽभावस्य प्रतियोगिना सह विरोधात्प्रतियोग्यधिकरणदेशावृत्तित्वप्राप्त्या देशपरिच्छेदस्य प्राप्त्या आत्यन्तिकत्वं भज्यत इति असत्प्रतियोगिकत्वनियमः स्वीक्रियत इति वाच्यम्। दोषवत्स्वपि जीवेषु भगवतीवाप्रामाणिकदोषात्यन्ताभावसत्त्वेन निर्दोषत्वलक्षणस्यातिव्याप्तिमाशङ्क्य `प्रतियोग्यारोपे यत्प्रधानं तेनापि साकमभावस्य विरोधात्' इत्यादिग्रन्थेनाप्रामाणिकप्रतियोगिकस्याप्यभावस्य देशप्ररिच्छेदमङ्गीकृत्यैव वंशपल्ल्याचार्यैरतिव्याप्तेः परिहृतत्वेन आचार्यैरपि `प्राक्प्रध्वंससदात्वेन' इति `पूर्वापरसदात्वेन' इति चात्यन्ताभावस्य कालावधिराहित्यमात्रस्योक्तत्वेन देशपरिच्छेदराहित्यस्याऽत्यन्तिकपदार्थत्वाभावेन तन्निर्वाहायासत्प्रतियोगिकत्वनियमाङ्गीकारायोगात्। युक्त्यन्तरस्याभावादिति चेन्न। यतो अभावानां स्वप्रतियोगिविरोधस्तावत्सम्मतः। स च नैकाधिकरणावृत्तित्वरूपः। प्रागभावध्वंसयोरभावात्। किन्त्वेककालावृत्तित्वम्। इत्थञ्चात्यन्ताभावस्यापि तदेव स्वीकर्तव्यम्। वैषम्ये बीजाभावात्।
तथा च प्रयोगः। अत्यन्ताभावः स्वनिष्ठनञुल्लेखप्रयोजकविषयतानिरूपितप्रकारताश्रयविशिष्टाधिकरणकालावृत्तिरभावत्वात्। प्रागभावादिवदिति। अत्यन्ताभावत्वञ्च सार्वकालिकाभावत्वम्। पक्षतावच्छेदकावच्छेदेन साध्यसिद्धिरुद्देश्या। एवञ्च तादृशरूपावच्छिन्नपक्षे तादृशप्रकारतारूपप्रतियोगिताश्रयाधिकरणकालावृत्तित्वसिद्धौ तादृशविशिष्टरूपप्रतियोगिनः कालासम्बद्धत्वमेव सिद्ध्यतीति सर्वात्यन्ताभावानामप्रामाणिकप्रतियोगिकत्वनियमः सिद्ध्यति। घटात्यन्ताभावः पटात्यन्ताभावो नेति नञुल्लेखप्रयोजकभेदत्वरूपधर्मावच्छिन्नविशेष्यतानिरूपितप्रकारताश्रयीभूतपटात्यन्ताभावरूपविशिष्टरूपप्रतियोग्यधिकरणकालवृत्तित्वमादाय बाधस्य तद्रीत्यैव दृष्टान्ते साध्यवैकल्यस्य चापत्तिवारणाय नास्तीत्युल्लेखप्रयोजकविषयतेत्येव निवेशः। सा च भेदत्वातिरिक्तेन प्रागभावत्वादिविलक्षणेन परमते संसर्गाभावत्वपदव्यवह्नयमाणेन धर्मेणैवावच्छिन्ना भवतीति न तादृशभेदत्वावच्छिन्नविषयतामादायोक्तदोषः। न च हेतोरप्रयोजकता। अभावत्वसाम्ये प्रमाणं विनात्यन्ताभावविशेषस्यनिरुक्तप्रतियोगिना दैशिकविरोधस्यान्ययोः शशविषाणाद्यत्यन्ताभावानाञ्च कालिकविरोधस्य कल्पने गौरवरूपतर्कस्यैव बाधकत्वात्।
अपि चात्यन्ताभावस्य दैशिकविरोधस्यावश्यकत्वे प्रतियोग्यधिकरणकाले प्रतियोग्यधिकरणदेशावृत्तित्वस्यैकस्यैव सामयिकात्यन्ताभावस्यस्वीकरणेनैव घटोत्पत्तेः पूर्वं परतश्च घटो नास्तीत्यादिप्रतीतिप्रामाण्याद्युपपत्तौ ध्वंसप्रागभावाङ्गीकारस्यैव निर्बीजत्वापातः। न च `अत्र घटो भविष्यति' `अत्र घटो ध्वस्तः' इति प्रतीतिबलात्तदुभयाङ्गीकारः। `एतद्देशवृत्तित्वविशिष्टघट एतदुत्तरकालसम्बन्धी' इति भविष्यतीति प्रत्ययेनावगाहनात् न चोत्तरत्वादिकमपि प्रागभावध्वंसानङ्गीकारे निर्वक्तुमशक्यम्। पूर्वत्वोत्तरत्वयोरखण्डयोः काले स्वतो विद्यमानयोः किञ्चिन्निरूपितयोः सैद्धान्तिकशिरोमणिभिर्यादवाचार्यैस्तत्वसंख्यानटिप्पण्यामुक्तत्वेन तयोः प्रागभावध्वंसाघटितत्वात्। न चोत्पन्नस्य पुनरुत्पत्त्यादिपरिहाराय प्रागभावाङ्गीकार इति वाच्यम्। उत्पत्तिर्हि तत्क्षणपूर्वक्षणासम्बद्धस्य क्षणसम्बन्धः। तत्र सामग्री क्षणसम्बन्धमात्रस्य निर्वाहिका। न तु तत्पूर्वक्षणासम्बन्धस्यापि सामग्री। पूर्वमपि स्वतो विद्यमानस्य सामग्रीनियम्यत्वाभावात्। एवञ्च दण्डादिरूपा घटसामग्री घटस्य क्षणसम्बन्धमापादयेत्। न तु विशिष्टक्षणसम्बन्धरूपोत्पत्तिमपीति कुतः प्रागभावाङ्गीकारः।
न च तद्धटध्वंसोत्तरं तद्दण्डादिघटितसामग्रीबलात्तद्धटस्य क्षणसम्बन्धापत्तिवारणाय तत्प्रागभावस्य कारणत्वमावश्यकम् इति प्रागभावसिद्धिरिति वाच्यम्। प्रागभावस्वीकारेऽपि तद्दण्डादिरूपसामग्रीबलात्क्षणचतुष्टयानन्तरमुत्पत्स्यमानघटस्येदानीमेवापत्तिपरिहाराय तत्क्षणस्य तत्क्रियाया वा कस्यचिदननुगतस्य कारणस्यावश्यं सामग्रीकोटिनिविष्टतया तद्बलादेवोक्तापत्तिवारणेन प्रागभावासिद्धिः। न च त्यज्यतां प्रागभावो ध्वंसोऽपि। सामयिकाभाव एव स्वीक्रियतां प्रामाणिकप्रतियोगिकः। किमर्थं प्रागभावादीनां पृथक्सिद्ध्यर्थमप्रामाणिकप्रतियोगिकत्वाङ्गीकारोऽतिलाघवादिति वाच्यम्। सिद्धान्तिना तु मैवं वक्तुं शक्यम्। अपसिद्धान्तादिप्रसङ्गात्। तटस्थशङ्कायास्त्विदमुत्तरम्। लाघवमात्रं नार्थव्यवस्थापकम्। तथात्वे एकस्मिन्नेव गुणे रूपत्वरसत्वादिकं परिकल्प्य रूपत्वेन चक्षुर्ग्राह्यत्वं रसनाग्राह्यत्वं कल्पनीयं स्यात्। लाघवात्। अपि च जगत्येकमेव नीलादिकं स्यात्। लाघवात्। व्यक्तिनाशे पाके वा तत्सम्बन्धापगमस्य वक्तुं शक्यत्वात्। तथा च सर्वव्यवस्थोच्छेदप्रसङ्गः। `कामाच्च नानुमानापेक्षा' इति सूत्रविरोधश्च स्यात्। अतः
प्रत्यक्षयोरागमयोर्विरोधे निश्चयाय तु।
अनुमाद्या न स्वतन्त्राः प्रमाणपदवीं ययुः।।
इति पुरुषोत्तमतन्त्रवचनानुसारेण प्रमाणानां परस्परविप्रतिपत्तौ सत्यां लाघवरूपतर्कादिकं अन्यतरसहकारीभूयार्थव्यवस्थापकम्। प्रकृते च
पूर्वापरसदात्वेन त्रिविधोऽभाव इष्यते।
भावाभावस्वरूपत्वान्नान्योन्याभावता पृथक्।।
इति आचार्योदाहृतभगवत्कृततत्वविवेकवाक्यादिना प्रसिद्धवायुपुराणस्थशाण्डिल्यतत्वगतवाक्यादिना तत्सहकृतेन `नष्टो घटः' `भविष्यति घटः' इति प्रत्यक्षेण च प्रागभावप्रध्वंसात्यन्ताभावानां पृथक्प्रमितानां लाघवमात्रेण नापलापः कर्तुं शक्यः।
एतेन भेदवदत्यन्ताभावादीनामपि धर्मिस्वरूपत्वं परिकल्प्य सप्रतिंयोगिकत्वादिव्यवस्था सर्वा वोढुं शक्येति व्यर्थमन्योन्याभावमात्रस्य धर्मिस्वरूपत्वपरिकल्पनमिति कस्यचिद्दूषणम्, एवं दीधितिकारीयं प्रागभावखण्डनञ्चेत्येवमादीन्यपहस्तितानि। अस्माभिः केवलयुक्त्या कस्याप्यर्थस्यानङ्गीकारात्। पूर्वोदाहृततत्वविवेकवायुपुराणवाक्यादिना भेदमात्रस्य वस्तुस्वरूपत्वावेदकेन
भेदस्तु सर्ववस्तूनां स्वरूपं नैजमव्ययम्।
इत्यादिना तैत्तिरीयभाष्याद्युदाहृतप्रमाणेन सिद्धार्थे उक्तचोद्यानवकाशात्।
यस्तूक्तवचनेष्वेव विप्रतिपद्यते तं प्रत्येतत्साधनोपायाभावेऽपि अस्मदङ्गीकारस्योक्तप्रमाणमूलकस्य क्षत्यभावात्। अन्यथा बौद्धं प्रति तदसिद्धप्रमाणभावेन वेदेन सन्ध्यावन्दनयज्ञादिकर्तव्यतायाः साधयितुमशक्यत्वात् स्वमतेऽपि तत्परित्यागप्रसङ्गात्। भेदग्रहेऽन्योन्याऽश्रयाऽदिपरिहारस्तु धर्मिस्वरूपत्वनिर्भरं विनाऽपि `धर्मित्वप्रतियोगित्वतद्भेदा युगपत्' इत्यनुव्याख्यानसुधायां समयपादे नैयायिकमतप्रदर्शनेन किञ्चेत्यादिना विष्णुतत्वनिर्णयटीकायाञ्च टीकाकारैः प्रदर्शित इति नाद्वैतवादिभिः सह विचारे तर्न्निभरस्योपयोगः। तथा च प्रागभावादीनां त्रयाणामपि प्रतियोगिना सह कालिक एव विरोध उतात्यन्ताभावविशेषस्य दैशिक एवेत्यत्र स्फुटनिर्णायकविशेषप्रमाणाभावाल्लाघवादिसहकृतानुमानाद्यवसर इति।
अपि च स्वरसतो यादृशशब्दात् यादृशबोधो जायते तदभिलाप्यप्रत्ययस्याप्युत्सर्गतस्तदाकारत्वं नियतम्। एवञ्च भूतले घटो नास्तीत्यत्र भूतलाधिकरणकसत्तावद्धटाभावो बोध्यत इति तदभिलाप्यप्रतीतेस्तादृशविशिष्टघटप्रतियोगिकाभावो विषयो वाच्यः। यत्र भूतले घटः प्रसिद्धस्तद्धटितविशिष्टप्रतियोगिकः प्रागभावो ध्वंसो वा भवति। न चैवं सति शुद्धप्रतियोगिकप्रागभावध्वंसौ न सिद्ध्येतामिति वाच्यम्। यत्र घटस्तत्संसर्गश्चोभाव (26)प्युत्पननौ नष्टौ वा तत्र `घटस्तत्संसर्गश्च उत्पत्स्यते, भविष्यति, घटस्तत्संसर्गश्च नष्टः' इत्यादिप्रत्ययान्तरानुरोधेन (27)सिद्धविशेषणविशेष्यप्रतियोगिकप्रागभावध्वंसानामेव विशिष्टप्रतियोगिकत्वेन भानमङ्गीक्रियत इति तस्य शुद्धप्रतियोगिकत्वसिद्धिः। वस्तुतस्तु चैत्रो रूपीति चैत्रत्वविशिष्टे रूपावगाहिप्रतीत्यैव शुद्धेऽपि रूपित्वं सिद्ध्यति। अन्यथा शुद्धस्यारूपित्वं स्यात्। एवं विशिष्टे प्रतियोगित्वावगाहिप्रतीत्या शुद्धेऽपि प्रतियोगित्वं विषयीक्रियत एव।
{27. शुद्ध इति पाठेन भाव्यमिति भाति।}
यद्वा माऽस्तु तद्धर्मविशिष्टे प्रतियोगित्वावगाहित्वम्। तद्धर्मोपलक्षित एव तदवगाहित्वमस्तु। यत्र विशेष्यांशे तदा भासमानाभावप्रतियोगित्वं बाधितं तत्र विशिष्टे तत्र विशेषणीभूतघटभूतलसंसर्गे वा प्रतियोगित्वं भासते। यत्र भूतले घटः सर्वथा नास्ति तत्र घटो नास्तीति प्रतीतिर्जायते। तत्र तद्भूतलवृत्तिघटस्यासतः प्रतियोगित्वेन भानमिति अत्यन्ताभावस्यसर्वस्याप्यसत्प्रतियोगिकत्वं सिद्धम्। न च यत्र `घटाबाववद्भूतलम्' इति प्रतीतिर्जायते तत्रैतद्भूतलासंसृष्टस्यैव घटस्य प्रतियोगितया भानात्सत्प्रतियोगिकाभावोऽपि स्वीक्रियतामिति वाच्यम्। यत्रोक्तप्रतीतिः प्रात्यक्षिकी तदा तस्या `अत्र भूतले घटो नास्ति' इति प्राथमिकप्रतीतेरावश्यकतया तत्रोक्तरीत्याऽसत एव प्रतियोगितया भानात्तद्विषयीभूतार्थावगाहिन्या द्वितीयप्रतीतेरप्यसत्प्रतियोगिकाभावविषयकत्वावशय्कत्वे घटादिपदस्याभिलापकवाक्यस्थस्य भूतलवृत्तिघटादौ लक्षणाऽऽश्रयणीया। यत्र `घटाभाववदिदम्' इत्यानुमानिकः प्रत्ययः शाद्बो वा तत्राधिकरणे `अत्र घटो नास्ति' इति प्रत्ययस्य कदाचित्कस्यचिदपि दुरपह्नवतयोक्तानुमानिकाद्यभावप्रत्ययस्यापि तद्विषयत्वमिति रीत्योपपत्तेः।
न च `भूतले घटो नास्ति' इति वाक्यात् `घटाभावो भूतलाधिकरणकसत्ताश्रयः' `भूतलवृत्तिघटाभावः सत्ताश्रयः' इति वा बोधः स्वीक्रियत इति तदभिलाप्यप्रतीतेरपि तत्समानविषयकतया घटप्रतियोगिकत्वावगाहितया नासत्प्रतियोगिकत्वसिद्धिरिति वाच्यम्। नञो नियतत्वेन तदुपस्थाप्ये आख्याताद्यर्थस्यान्वयायोगादुक्तरीत्या बोधस्य वक्तुमशक्यत्वात्। अन्यथा `भूतलवृत्तिघटाभावो दृश्यो भवति' इत्याद्यर्थे उक्तवाक्यप्रयोगवत् `भूतले घटो न दृश्यो भवति' इति `भूतले घटो न प्रमेयः' इत्यादिप्रयोगस्य प्रसङ्गः। `भ्रतले घटौ न स्तः' `भूतले घटा न सन्ति' इत्यादौ आख्यातस्य द्विचनबहुवचनानुपपत्तेश्च। अभावस्यैकत्वेन द्वित्वाद्यनुपपत्तेः। न हि तत्र अभावद्वयं त्रयं वा बोध्यते। तथात्वाङ्गीकारे एकद्विघटाधिकरणे तादृशप्रत्ययानुदयापत्तेः। न च तर्हि `घटकर्तृकसत्ताभावो भूतलवृत्तिः' इति वा `भूतलवृत्त्यभावीय प्रतियोगी घट सत्ताश्रयः' इति वाबोधः स्वीक्रियताम्। तावताऽपि प्रामाणिकप्रतियोगिकत्वाक्षतेरिति वाच्यम्। आद्यकल्पे भूतलपदोत्तरं सप्तम्यनुपपत्तेः। तस्याः धात्वर्थनिरूपिताधिकरणार्थकत्व एवानुशिष्टत्वात्। अतः सत्तायामेवान्वयस्य वक्तव्यतया भूतलाधिकरणकघटकर्तृकसत्ताभावबोध एवाङ्गीकार्य इति सिद्धमप्रामाणिकप्रतियोगिकाभावविषयत्वम्। द्वितीयकल्पस्त्वयुक्त एव। तथात्वे `सर्वत्र शशविषणं नास्ति' इति (28)वाक्यादस्याप्रामाण्यप्रसङ्गात्। शशविषाणे सत्ताया बाधितत्वात्। नैयायिकमतेऽपि `भूतले गगनं नास्ति' इति वाक्यस्याप्रामाण्यप्रसङ्गात्। `ह्नदवृत्त्यभावप्रतियोगी वह्निः पर्वतवृत्तिः' इति बोधतात्पर्येण `हदे पर्वते वह्निर्नास्ति' इति प्रयोगप्रसङ्गाच्च। तस्मादुक्तरीत्यैव बोधो युक्तः।
{28. वाक्यादावप्रामाण्य इति पाठेन भाव्यमिति भाति।}
किञ्च `भूतले घटोऽस्ति किम्' इति पृष्टे `न' इत्युत्तरयति. तत्र किंपदातिरिक्तप्रश्नभागार्थान्वितार्थबोधकत्वस्योत्तरवाक्ये क्लृप्ततया तद्वाक्यबोध्यविशिष्टप्रतियोगिकाभावबोधस्य तद्वाक्ये क्लृप्तत्वादन्यत्रापि तथैव बोध आवश्यकः। `नेदं चैत्रस्य' इत्यादौ चैत्रसम्बन्धविशिष्टेदंपदार्थम्य असत्त्वेन तदभावो बोध्यते। न च षष्ठ्यर्थचैत्रसम्बन्धाभाव एवेदमर्थे प्रत्याय्यताम्। घटो नास्तीत्यादाविवात्र बाधकाभावात्. तथा च प्रामाणिकप्रतियोगिकाभावसिद्धिरिति वाच्यम्। चैत्रसम्बन्धार्थकसर्वनामतत्पदघटितेन `तदत्र नास्ति' इति वाक्येन बोध्या भावातिरिक्तप्रामाणिकप्रतियोगिकाभावान्तरस्य तद्वाक्येन बोधने गौरवेणोक्तरीत्याऽसत्प्रतियोगिकाभावविषयकबोधजनकत्वस्यैवाङ्गीकारात्। एवं `चैत्रो न पचति' इत्यस्यात्यन्ताभावबोधकत्वेऽप्येषैव गतिरूह्या।
नन्वेवं पूर्वोक्तयुक्तिभिः `घ़टः पटो न भवति' इत्यनेनापि पटकर्तृकभवनाश्रयघटाभावबोधोत्पत्त्यापत्त्या तस्य घटस्याप्रामाणिकतयोक्तवाक्यस्यात्यन्ताभावबोधकत्वमेव स्यात्। न भेदबोधकत्वम्। तथा च `नान्योन्याभावता पृथक्' इति तत्वविवेकमूलव्याख्यावसरे भावशब्दस्य कर्तृघञन्तत्वमभ्युपेत्यान्योन्यं न भवतीति व्युत्पत्त्या `अन्योन्याभावशब्देन भेदवान् बोध्यते. तदुत्तरभावप्रत्ययेन पुनरन्योन्याभावो बोध्यते' इति टीकाकृद्व्याख्यानं विरुद्ध्येतेति चेन्न। यतो `घटः पटो न भवति' इत्यत्र नञर्थे भेदे पटस्य प्रतियोगितयान्वयः। तस्य च भवनरूपासाधारणधर्मे अभेदेनान्वयः। सर्वत्र नामार्थयोरभेदान्वयनये `घटो न पटः' इत्यत्र भेदवल्लाक्षणिकनञर्थस्य इतरपदार्थे अभेदान्वयस्याङ्गीकृतत्वेन प्रकृते नञर्थस्य भेदस्य भवने अभेदान्वये क्षतिविरहात्। तथा च पटभेदात्मकासाधारणधर्माश्रयो घट इति बोधः। घटस्वरूपभेदस्य घटासाधारणत्वमनपवादम्।
यद्वा भवनं स्वरूपसत्ता(29) घटभेदस्वरूपा घटनिष्ठा भवतीति न दोषः। अथवा `घटः पटो न भवति' इत्यत्र पटस्यैव स्वरूपसत्तारूपभवने आश्रयतयाऽन्वयः। तथा च `पटकर्तृकभवनाश्रयभिन्नो घटः' इति बोधः आख्यातस्याश्रयरूपकर्त्रर्थकत्वपक्षे आख्यातार्थप्रतियोगिकभेदावगाही जायते।
{29. पट इति पाठेन भाव्यमिति भाति।}
अथ वाऽस्मिन्नेव पक्षे पटस्य धात्वर्थभवनान्विताख्यातार्थाश्रये अभेदेनान्वयः. तथा च `पटरूपभवनकर्तृभेदवान् घटः' इति बोधो जायते।
अथ वा पटान्वितधात्वर्थभवनरूपसत्ताया नञर्थाभावरूपभेदे तस्याख्यातार्थे कर्तरि आश्रयरूपे तस्य घटे अन्वयः। `न कलञ्जं भक्षयेत्' इत्यादौ `कलञ्जभक्षणाभावविषयकं कार्यम्' इति बोधाभ्युपगन्तॄणां गुरूणां मत इव धात्वर्थाख्यातार्थयोरन्तरा नञर्थभानाभ्युपगमसम्भवात्। `नामूढस्येतरोत्पत्तेः' `नानुपमृद्य प्रादुर्भावात्' इत्यादौ पञ्चमीप्रकृतिप्रतियोगिकाभावस्य पञ्चम्यर्थान्वयस्याभियुक्तैरङ्गीकृतत्वाच्च। एतत्कल्पे पटकर्तृकसत्ताभावस्तद्भेदरूप एव भवतीति सर्वपक्षेष्वपि भेदबोधकतानिर्वाहः।
ननु कुत एवमाश्रीयते। पटकर्तृकसत्तावद्धटनिषेधः किं न स्यात् `भूतले घटो नास्ति' इत्यादाविवेति चेन्न। तत्र घटकर्तृकसत्ताभावस्य भूतले बोधने भूतल इति सप्तम्यनुपपत्तेर्नञर्थे आख्यातार्थान्वये पूर्वोक्तानुपपत्तेरिव उक्तरीत्या बोधाङ्गीकारे प्रथमाद्यनुपपत्तेरभावात्। न च `घटः पटो भवति किम्' इति पृष्टे `न' इति ब्रूते। तत्र पटकर्तृकभवनविशिष्टघटनिषेधबोधकत्वं तद्वाक्यस्य पूर्वं भवदुक्तरीत्यैव तवावश्यकम्। एवं `घटे पटतादात्म्यं नास्ति' इत्यभिलापानुरोधात् तादृशप्रतीतेर्घटनिष्ठपटतादात्म्याभावविषयकत्वस्य क्लृप्तत्वात्तदनुसारेण `घटः पटो न भवति' इति प्रतीतेरपि `नेदं चैत्रस्य' इत्यादावुक्तरीत्या घटनिष्ठपटतादात्म्याभावविषयकत्वमेव वाच्यमिति कुतोऽस्याः भेदविषयकत्वप्रत्याशेति वाच्यम्। `घटः पटात्पृथक्' इति शब्दाभिलाप्यप्रतीतेर्निषेधविषयकत्वेनानुभवसिद्धाया अत्यन्ताभावविलक्षणभेदविषयकत्वमावश्यकम्। एवं `घट एवायम्' इत्येतावन्मात्राकारप्रत्ययस्यापि स्वरूपभेदरूपविलक्षणविषयकत्वं दुरपह्नवम्। `घटः पटो न' इत्यत्रापि `नास्ति' इत्यादिप्रत्यये भासमानानुयोगिताविलक्षणभेदत्वादिरूपानुयोगिताविशिष्टविषयकत्वमनुभवसिद्धम्। न चाभिलापकवाक्ये `भवति' इत्यस्याध्याह्रियमाणत्वात्पटभवनविशिष्टघटरूपासत एवात्यन्ताभावरूपनिषेधप्रतियोगित्वेन भानं तत्रेति वाच्यम्। सार्वजनीनानुभवविरोधात्।

प्रसज्यप्रतिषेधोऽयं क्रियया सह यत्र नञ्।
पर्युदासः स विज्ञेयो यत्रोत्तरपदेन नञ्।।
इति कारिकयाऽभियुक्तैः `घटः पटो न' इत्यादावुत्तरपदरूपपटपदार्थान्वितस्वार्थरूपभेदबोधकत्वेन नञः पर्युदाससंज्ञकत्वोक्त्या अत्र क्रियाध्याहारं विनैव बोधस्योक्तत्वात्. प्रसज्यप्रतिषेधात्मकसंसर्गाभावबोधस्थले क्रियाया आवश्यकत्वोक्त्या तत्राश्रुतक्रियाध्याहारस्यावश्यकत्वात्। `अघटं भूतलम्' `निर्मक्षिकम्' इत्यादौ क्रियां विनाऽत्यन्ताभावबोधकत्वं तादृशसमासविधायकशास्त्रबलादेव सिद्ध्यति। तत्रासत्प्रतियोगिकाभावभाननिर्वाहः पूर्वोक्तरीत्या लक्षणया बोध्यः। एवञ्चोक्तप्रतीतिभिरभेदस्यापि क्लृप्तत्वेन `घटः पटो (30)भवति' इति वाक्यस्य तदभिलाप्यप्रत्ययस्य च तद्विषयकत्वकल्पने गौरवाभावात्। `घटः पटो न' इति वाक्यजन्यबोधस्य यत्कार्यं मध्ये ज्ञानान्तरं विना `घटः पटात्पृथक्' इति व्यवहारादि तज्जनकत्वादिना `घटः पटो न भवति' इति वाक्यजन्यबोधस्य तत्समानविषयकत्वस्य निष्प्रत्यूहतयोक्तरीत्याऽन्योन्याभावबबोधकत्वं निराबाधमिति युक्तैव तत्वविवेकटीका। `घटः पटो भवति किम्' इत्युत्तरवाक्यस्थनञ्‌पदसमभिव्याहृतेन पटभवनिविशिष्टघटनिषेधो बोध्यतां नाम क्वचित्। न ह्येतावताऽनन्तरमुक्तयुक्त्या सिद्धमुक्तवाक्यस्यान्योन्याभावविषयकत्वं हीयते। `घटे पटतादात्म्यं नास्ति' इत्यस्माद्धटवृत्तिपटतादात्म्यरूपासत्प्रतियोगिकात्यन्ताभावस्य बोधः। तल्लिङ्गकभेदानुमितेर्मानसज्ञानस्य वोत्पत्त्यैव `घटः पटात्पृथक्' इति व्यवहारादिकार्यमङ्गीक्रियते। तादात्म्याभावस्य भेदव्याप्यताग्रहरहितानां तदनुदयादिति सर्वमनवद्यम्।
{30. न भवति इति पाठेन भाव्यमिति भाति।}
केचित्तु प्रामाणिकप्रतियोगिकस्यात्यन्ताभावस्याङ्गीकारे तद्वद्भेदस्यैव तदत्यन्ताभावरूपताया नैयायिकैरङ्गीकृतत्वेन प्रकृतयोर्भेदे मानाभावेन च तत्रैव पर्यवसानादव्याप्यवृत्त्यत्यन्ताभावस्य सिद्धान्तेऽनङ्गीकारात् सोऽत्यन्ताभावो भेद एव। शुद्धात्यन्ताभावस्तु केवलान्वयी अप्रामाणिकप्रतियोगिक एवेति शुद्धात्यन्ताभावस्याप्रामाणिकप्रतियोगिकत्वनियमस्य न काचत्क्षतिः। अत्यन्ताभावस्य शुद्धत्वन्तु यादृशयादृशप्रतियोगिकात्यन्ताभावत्वविशिष्टाधिकरणं यद्यत् तत्तत्स्वरूपभूतभेदनिष्ठात्यन्ताभावत्वनिरूपिका या या तादृशतादृशप्रतियोगिता तत्तदन्यप्रतियोगितानिरूपकात्यन्ताभावत्ववत्त्वम्। यादृशी घटात्यन्ताभावीयघटनिष्ठप्रतियोगिता तन्निरूपकात्यन्ताभावत्वविशिष्टाधिकरणानि घटवद्भिन्नानि नानाधिकरणानि तत्तदात्मकभेदास्तु तत्तत्स्वरूपभूतघटवद्भेदाः तन्निष्ठात्यन्ताभावत्वं घटात्यन्ताभावत्वं, प्रामाणिकप्रतियोगिकात्यन्ताभावस्य भेदरूपताया उपपादितत्वात्। तन्निरूपिकाः या याः प्रतियोगिताः प्रामाणिकघटादिनिष्ठा एव। तत्तदन्या शशविषाणादिरूपाऽसन्निष्ठा भवति। तस्या यादृशपदेनोपादानासम्भवात्। तथा हि, शशविषाणादिनिष्ठप्रतियोगिता यादृशी चेत् तन्निरूपकात्यन्ताभावत्वविशिष्टाधिकरणं यद्यत् भूतलादिकं तत्तदात्मकभेदास्तु पदार्थान्तरप्रतियोगिकभेदाः। तन्निष्ठं यदत्यन्ताभावत्वं (31)शशविषाणाभावत्वं (32)तस्य धर्मिस्वरूपत्वाभावेन तदात्मकभेदरूपत्वाभावात्। किन्तूक्तरीत्या घटात्यन्ताभावत्वमेव। तन्निरूपकत्वं न शशविषाणादिनिष्ठप्रतियोगिताया इति। अत्र यद्यदधिकरणमितिवीप्सानादरे शशविषाणनिष्ठप्रतियोगिताऽपि तादृशी भवत्येव। शशविषाणाभावस्य स्वस्मिन्नपि सत्त्वात् शशविषाणनिष्ठप्रतियोगिताकात्यन्ताभावत्वविशिष्टाधिकरणं शशविषाणाभावोऽपि। तदात्मको भेदस्तन्निष्ठघटभेदः। तन्निष्ठमत्यन्ताभावत्वं शशविषाणात्यन्ताभावत्वम्। तन्निरूपकत्वात्। अतस्तदादरः। यादृशप्रतियोगिताकाभावाधिकरणमित्येतावता पूर्तावत्यन्ताभावत्वाश्रयेत्युक्तिरन्यात्यन्ताभावप्रतियोगिता यादृशपदेनोपादेयेति सूचनाय। न त्वतिप्रसङ्गपरिहारायेति ज्ञातव्यम्।
{31. न शशविषाणाभावत्वं इति पाठेन भाव्यमिति भाति।
32. शशविषाणात्यन्ताभावस्येत्यर्थः।}
यद्वा व्यतिरेकिभिन्नत्वमेव शुद्धत्वम्। तत्तद्धर्मिस्वरूपभेदात्मकानां प्रामाणिकप्रतियोगिकात्यन्ताभावानां व्यतिरेकित्वात्तेन तद्वारणम्।
एतेन `भेदान्यत्वं चेच्छुद्धत्वं तदा शशविषाणाभावादीनामपि स्वनिष्ठघभेदस्वरूपत्वादसग्रह एव स्वाश्रयत्वेन स्वाश्रयस्वरूपभेदात्मकत्वात्' इति परास्तम्। उक्तिनिर्वचनद्वयेऽपि दोषाभावात्। न च घटत्वात्यन्ताभावस्य पटात्मकभेदस्वरूपत्वे पटस्वरूपस्वाधिकरणात्मकत्वापत्त्याऽत्यन्ताभावस्याधिकरणस्वरूपत्वखण्डकसुधातत्वसंख्यानटीकादिविरोधः। तत्राभावत्वेनैव रूपेण प्रस्तुततया शुद्धात्यन्ताभावघटतत्संसर्गध्वंसप्रागभावादिपरत्वात्।
ननु व्यधिकरणसम्बन्धावच्छिन्नप्रतियोगिताकरूपात्यन्ताभावादीनां तदवच्छिन्नभेदाप्रसिद्ध्या तदनात्मकानां केवलान्वयिनां शुद्धात्यन्ताभावत्ववतां प्रामाणिकप्रतियोगिकानामसत्प्रतियोगिकत्वाभावाद्व्यभिचारः। न च तेन सम्बन्धेन तद्वद्भेदोऽपि तदत्यन्ताभावरूपः केवलान्वयीति नोक्तशुद्धत्वं तस्येति वाच्यम्। प्रतीतिबलात्तद्वद्रूपासत्प्रतियोगिकभेदाङ्गीकारेऽपि तद्वान्नेत्यप्रतीतेरसद्विशेषे तद्वद्भेदानङ्गीकारादिति चेन्न। सम्बन्धस्य प्रतियोगितावच्छेदकत्वादेरग्रे खण्डनीयतया तस्य संयोगप्रतियोगित्वविशिष्टरूपप्रतियोगिकत्वस्यैव स्वीकारेण तस्यासत्त्वेन व्यभिचारविरहात्।
न चाकाशे `इह पक्षी' इति प्रतीतिसिद्धप्रामाणिकप्रतियोगिकाभावो व्याप्यवृत्त्यभावानङ्गीकारे अंशव्यवस्थया विद्यमानस्तदंशात्मकभेदस्वरूपो न वाच्यः। तदंशे अंशान्तरप्रतियोगिकभेदाभावात्। अतोऽतिरिक्त एवेति शुद्धत्वप्राप्त्या व्यभिचार इति वाच्यम्। तदंशे विद्यमानपक्षिसंयोगनिष्ठयादृशप्रतियोगिता घटात्मकभेदस्वरूपात्यन्ताभावनिरूपिका सैवांशान्तरनिष्ठभेदानात्मकाभावनिरूपिकेति तत्तदन्यप्रतियोगितानिरूपकत्वाभावात्प्रतियोग्यधिकरणांशावृत्तित्वेन व्यतिरेकित्वाच्च तत्र शुद्धत्वाभावात्। तत्रत्याभावस्यांशभेदस्थानीयतद्धिशेषात्मकत्वाङ्गीकारान्निरक्तौ भेदविशेषयोरुभयोरपि निवेश्यतया वा दोषाभावात्' इत्याहुः।
अथ सर्वेषामत्यन्ताभावानां केवलान्वयितया समनियतत्वेनैक्यापत्तिः। निर्दोषत्वादेः भगवल्लक्षणत्वानुपपत्तिः। जीवादावतिव्याप्तेः। घटाधिकरणेऽपि भूतले घटो नास्ति इति वाक्यस्य प्रामाण्यञ्च स्यात्। घटवति भूतले घटाभावो नास्ति इति वाक्यं प्रमाणञ्च न स्यात्। सत्त्वासत्त्वयो परस्परविरहात्मकत्वाद्युक्तिरपि न सङ्गच्छेत इति चेन्न।
समनियतत्वेऽप्यैवयसाधकप्रमाणं विना लाघवमात्रेणैक्यसिद्धेरयोगात्। अन्यथाऽभिधेयत्वज्ञेयत्वादीनां पञ्चाशद्वर्णाव्याकृताकाशादीनां देशकालसमनियतानामप्यैक्यं स्यात्। तेषां भावत्वान्नैवमिति चेत्तर्ह्यभावत्वादेवैषामपि भेदोऽस्तु। तेषां कत्वादिरूपविलक्षणधर्मेणानुभूयमानानां `ककारो मया श्रुतो न गकारः' इति भेदोपलम्भान्नैवमिति चेत्तर्हि `शशविषाणं नास्ति' इति वाक्यं श्रुत्वा ततः कञ्चित्कालं विलम्ब्य `नरविषाणं नास्ति' इति श्रुतवता `पूर्वं शशविषाणाभावः श्रुतो न नरविषाणाभावः' `इदानीमयं श्रुतो न सः' इत्यादिरूपेण भेदोपलम्भात्तत्तज्ज्ञानकार्यीभूतसंशयादिप्रतिबन्धादीनां वैलक्षण्यानुभवाच्च स्ववृत्तितत्तत्प्रतियोगिकत्वरूपविलक्षणधर्मशालिनामभावानामपि भेदोऽस्तु।
नापि निर्दोषत्वस्य भगवल्लक्षणत्वानुपपत्तिः। स्ववृत्तिदोषाभाववत्त्वस्य भगवल्लक्षणत्वाभ्युपगमात्। अत एव मन्दारमञ्जर्यां `स्वप्रागभावाप्रतियोगित्वमनादित्वम्' इति परिष्कृतम्। ननु स्वशब्दस्य समिव्याहृतपरत्वेनेश्वरलक्षणवाक्यस्यस्वशब्देनेश्वरस्य बोधनेऽपीश्वरवृततिदोषाभावस्यैव लक्षणत्वप्राप्त्या तस्य जीवेऽतिव्याप्तिर्दुर्वारैवेति चेन्न। मन्दारमञ्जर्युक्तलक्षणस्याप्येवमेव प्रत्याख्यानप्रसङ्गात्। तत्रापि स्वशब्देनानादेर्बोधनेऽप्यनादिप्रतियोगिकप्रागभावप्रतियोगित्वाभावस्य वाऽनादिनिष्ठं यत्प्रागभावप्रतियोगित्वं तदभावस्य वा। लक्षणत्वेन प्राप्ततया तस्य सादिष्वतिव्याप्तेर्दुर्वारत्वात्। `स्वप्रागभावप्रतियोगित्वाभाववदिदम्' इति वाक्यजन्यप्रमाविषयीभूतं यद्विशिष्टं तस्य तादात्म्येन लक्षणत्वं तद्वाक्याभिप्रेतमिति चेदत्रापि `स्ववृत्तिदोषाभाववानयम्' इति वाक्यजन्यप्रमाविषयीभूतविशिष्टस्यैव तादात्म्येन लक्षणत्वाभ्युपगमान्नोक्तदोषः। न च दोषाभाववदिति वाक्यस्योभयाभावादिबोधकत्वस्यापि सम्भवेन तादृशप्रमाविषविशिष्टो जीवोऽपि भवतीति वाच्यम्। दोषत्वावच्छिन्नप्रकारकग्रहविरोधित्वेन प्रमाया विशेषणीयत्वात्। उभयाभावादिग्रहस्याविरोधित्वात्। `अत्र दोषो नास्ति' इति प्रमाव्यवहितोत्तरक्षणोत्पन्ना या `दोषाभाववानयम्' इति वाक्याभिलाप्यप्रमा तद्विषयीभूतविशिष्टस्य लक्षणत्वे तात्पर्याद्वा न कश्चिद्दोषः। अनादित्वलक्षणमप्येवमेव परिष्कर्तव्यम्। अन्यथोक्तोभयाभावप्रमामादायासङ्गतेः।
केचित्तु `दोषो नास्ति'इति प्रमीयाभावनिष्ठविशेष्यतानिरूपितप्रतियोगितासंसर्गावच्छिन्नप्रकारतानिरूपिताऽधेयतासंसर्गावच्छिन्नप्रकारतावत्त्वमेव निर्दोषत्वमभिप्रेतम्। `ईश्वरे दोषो नास्ति' इति प्रमीयतादृशप्रकारतामादायेश्वरे लक्षणसमन्वयः। प्रतियोगितया भासमानदोषसम्बन्धवत्तया भासमानस्य तादृशसंसृष्टरूपेणासत्त्वेऽपि शुद्धस्याप्यग्रे भानस्य व्यवस्थापनीयतया तस्यापि भानाभ्युपगमात्। तदनङ्गीकारे तु तादृशप्रकारतानिर्वाहकविषयताश्रयत्वमेव लक्षणमस्तु। पूर्वमीश्वरोपस्थितिं विनोत्तरज्ञाने तादृशप्रकारतायाः प्रतियोगिसंसृष्टतया भासमानेऽसत्यनिर्वाहात्। प्रतीतिबलादेव पूर्वोपस्थितीयेश्वरविषयतायास्तादृशप्रकारताप्रयोजकत्वाभ्युपगमात्। `जीवे दोषो नास्ति' इति धियः प्रमात्वाभावादेव तत्रोक्तरीत्या लक्षणागमनात्। एवमनादि (33)लक्षणत्वस्यापि स्वनिष्टं यत्प्रागभावप्रतियोगित्वं तदभाव इत्यर्थकत्वे उक्तरीत्यैव परिष्कारः। स्वस्य यः प्रागभाव इत्यादिरीत्यार्थकरणे तु तादृशाभावविषयतानिरूपितप्रतियोगितासंसर्गावच्छिन्नप्रकारतानिरूपितप्रागभावप्रकारतानिरूपितप्रकारतातत्प्रयोजकविषयताश्रयत्वमिति रीत्या परिष्कर्तव्यम्। प्रतियोगिकोटौ भासमानस्य सर्वस्यासत्त्वात्कथं प्रकारता प्रागभावीया भवतीत्याशङ्का तु तच्छब्दोल्लेखादिप्रयोजकत्वमेव तथात्वमित्यग्रे वक्ष्यमाणदिशा वारणीया। एवमन्यत्रापि द्रष्टव्यमित्याहुः।
{33. लक्षणस्यापि इति पाठेन भाव्यमिति भाति।}
एवं नापि घटवति भूतले `अत्र घटो नास्ति' इति वाक्यस्य प्रामाण्यम्। तद्वाक्येन तद्भूतलसंसृष्टघटप्रतियोगिकात्यन्ताभावबोधस्य व्यवस्थापितत्वेन घटाधिकरणसंसृष्टघटप्रतियोगिकत्वस्य तद्वाक्येनात्यन्ताभावे बोधनीयस्य बाधितत्वात्। नापि `घटाभाववदिदम्' इति वाक्यस्य प्रामाण्यापादनं युक्तम्। उभयाभावादिबोधतात्पर्यकतादृशवाक्यप्रामाण्यस्य त्वयाऽङ्गीकृतत्वेन ममापीष्टत्वात्। सामान्याभावबोधतात्पर्यस्थले समभिव्याहृताधिकरणसंसृष्टघटादौ लाक्षणिकत्वस्य घटादिपदानां पूर्वमुक्तत्वात्तादृशवाक्यस्याप्युक्तरीत्या बाधितार्थकत्वात्।
`निरनिष्टो निरवद्यः' इत्यादिवाक्यानां जीवविषयकतया प्रामाण्यं स्यादित्यप्यनेनैव निरस्तम्। तद्वाक्यस्य जीवविषयकत्वे जीववृत्तिदोषाभाववत्त्वस्यैव जीवे बोधकताया एव बलादापत्त्या तस्य बाधितत्वात्।
न च `निरनिष्ट इतयादिवाक्यबोध्यो योऽभावस्तद्वान् जीवः' इति वाक्यस्य प्रामाण्यं स्यात्। तद्वाक्यबोध्यस्येश्वरवृत्तिदोषप्रतियोगिकाभावस्य जीवेऽपि सत्त्वात् इति वाच्यम्। तस्य केवलान्वयित्ववादिनामिष्टत्वात्। अन्यथा केवलान्वयित्वोक्तेरेवासङ्गतिप्रसङ्गात्। एवं घटवति भूतले `घटाभावो नास्ति' इति वाक्यमपि प्रमाणं भवत्येव। घटपदस्य तद्भूतलसंसृष्टघटपरतया `अत्र घटाभावः' इत्यप्रमाणवाक्यानुसारेण क्लृप्ततया `अत्र घटाभावो नास्ति' इति वाक्येनापि `एतद्भूतलसंसृष्टो य एतद्भूतलसंसृषट्घटप्रतियोगिकोऽभावस्तदत्यन्ताभावः' इति बोधो जायते। स च प्रमैव। यत्र भूतले घटोऽस्ति तद्भूतलसंसृष्टघटप्रतियोगिकात्यन्ताभावस्यासत्त्वेनैतद्भूतलसंसृष्टस्य तस्य सुतरामसत्त्वेन तत्प्रतियोगिकात्यन्ताभावस्य तद्बोधविषयस्य सत्त्वात्। भूतलान्तरसंसृष्टघटप्रतियोगिकात्यन्ताभावरूपकेवलान्वयिवस्तुबोधकतत्पदघटितम् `अत्र स नास्ति' इति वाक्यमप्रमाणमेव। एतद्भूतलवृत्तित्वविशिष्टतदभावव्यक्तेः सत्त्वेन तदत्यन्ताभावस्य बाधितत्वात्।
एवं भावाभावयोः परस्परविरहात्मकत्वोक्तिरपि मतान्तररीत्या। स्वमते तु `अत्र घटो नास्ति' इति प्रतीत्युत्तरं यद्धटाभाववदिति यथार्थज्ञानं तद्विषयीभूतं यद्विशिष्टं तद्व्याप्यत्वं घटाभावस्य घटविरहरूपत्वम्। एवम् `अत्र घटाभावो नास्ति' इत्यादिरीत्या घटस्य घटाभावविरहरूपत्वम्। व्याप्यता च नञुल्लेख्यस्वप्रमोत्तरप्रमाविषयतया बोध्या। अतो न तस्य केवलान्वयित्वेऽपि व्याप्यताभङ्गः। एवंक्रमेण तत्पारिभाषिकमेव। यद्वा स्वप्रधानकारोपविषयप्रतियोगिकत्वमभावस्य भावविरहात्मकत्वम्। स्वविषयताप्रयोज्यप्रतियोगितासंसर्गावच्छिन्नप्रकारतानिरूपितप्रमीयविषयताश्रयत्वं पर्यवसितमभावे। भावे तु तादृशप्रतियोगिप्रकारताप्रयोजकविषयताऽश्रयत्वमिति रीत्या पारिभाषिकम्। प्रागभावादिस्थले प्रतियोगिनः सत्त्वादेव प्रतियोगिविषयता अभावप्रमीयप्रति योगिप्रकारताप्रयोजिका। अत्यन्ताभावस्थले तु सत्यभूतप्रधानविषयतैव केचिदित्युक्तमतरीत्या प्रयोजिका। तत्र घटत्वरूपसामान्यधर्मावच्छिन्नविषयता प्रयोजिका चेत् सामान्यप्रधानकोऽभावः सामान्याभावपदव्यवहार्यः। विशेषधर्मावच्छिन्नप्रधानकस्तु विशेषाभावो भवतीति तद्व्यवस्थापि घबते। `शशे विषाणं नास्ति' इति प्रतीतिसिद्धोऽभावो विषाणप्रधानकः। `सर्वत्र शशविषाणं नास्ति' इति प्रतीतिसिद्धोऽबावः। शसविषाणप्रधानक एव। असतोऽपि तादृशविषयताश्रयत्वरूपं प्रकृताभिमतप्रधानत्वं युक्तम्। भावाभावयोरुक्तविरहात्मकत्वं भावाभावबोधकवाक्यप्रामाण्यादौ कथञ्चिदुपयुज्यत इति तदुक्तिरपि सार्थकैव। एवमन्यदपि ऊह्यमित्यलं विस्तरेण।
वंशपल्लीस्थाचार्यास्तु निर्दोषत्वं दोषारोपपूर्वकप्रतीतिविषयाभाववत्त्वमिति परिष्कृत्य प्रतियोग्यारोपे यत्प्रधानं तेनापि साकमसत्तियोगिकाभावस्यापि विरोधमङ्गीकृत्य जीवेऽतिव्याप्तिं परिहृतवन्तः। तेषां मते सर्वेषामत्यन्ताभावानामसत्प्रतियोगिकत्वाविशेषेऽपि `घटवति भूतले घटो नास्ति' `घटाभाववदिदम्' इति वाक्याप्रामाण्यादिव्यवस्थाबलात् सत्प्रधानकोऽभावो व्यतिरेकी प्रधानभूतसद्विरोधी। असत्प्रधानकस्तु केवलान्वयी। तरङ्गिण्युक्तसत्त्वासत्त्वयोः परस्परविरहात्मकत्वपरिष्कारोऽप्येतन्मतरीत्या निर्वाह्यः। एवमप्रामाणिकप्रतियोगिकाभावनियमे एवमन्येऽपि क्षुद्रोपद्रवाः सूक्ष्ममतिभिः परिहरणीया इत्यलमिति वदन्ति।
सत्यनाथश्रीचरणाः पुनरभिनवताण्डवादौ प्रामाणिकप्रतियोगिकमप्यत्यन्ताभावं सिद्धान्ते व्यवस्थापयन्तस्तन्नियमं तत्यजुः। तन्मते सर्वाऽपि व्यवस्था सुलभैव। व्यवस्थापनप्रकारस्तत्कृतग्रन्थ एवानुसन्धेयः। ग्रन्थगौरवभयान्नेह प्रपञ्च्यत इति।
</172 पृष्ठे 11-12 पंक्त्योर्मध्ये>

<194 पृष्ठे 2-3 पंक्त्योर्मध्ये>
तर्ह्यनुभवकलहोऽयं निरवधिः इति चेत् युक्त्याऽपि बाधितत्वात्। तथा हि, साध्याभावत्वेनावगाहित्वेन कारणत्वानङ्गीकारे वस्तुतो यः साध्याभावः तद्व्यापकाभावप्रतियोगित्वज्ञानस्य कारणत्वं वाच्यम्। तथात्वे रूपाभावाभावात्मकतया तद्रूपस्य तद्रूपव्यापकाभावप्रतियोगिघटत्ववत्त्वाज्ञानात् घटे रूपाभावानुमितिः स्यात्। एवं भावसाध्यकस्थलेऽपि वह्न्यभावस्य तद्व्यक्तित्वेनावगाहिनः तद्व्यक्तिव्यापकाभावप्रतियोगिधूमवत्ताज्ञानात् पर्वते वह्निरित्यनुपस्थितसाध्यमुख्यविशेष्यकानुमित्यापत्तिश्च। अभावसाध्यकस्थलेऽनुमितिं स्वीकृत्य भावसाध्यकस्थले तदनङ्गीकारे तु अर्धजरतीयन्यायापत्तेः। न च भावप्रतियोगिकाभावनिष्ठतद्व्यक्तित्वं प्रतियोगिविशेषप्रतियोगिकत्वातिरिक्तं दुर्वचमिति वाच्यम्। रूपादाविव प्रतियोग्यघटितस्यैव तद्व्यक्तित्वस्य तत्र सत्त्वात्। अन्यथा प्रलये सर्ववह्निनाशे अभावनिष्ठतद्व्यक्तित्वस्यापि नाशप्रसङ्गेन तद्व्यक्तिरूपत्वाभावेनेतरतादात्म्यं निःस्वरूपत्वं वा स्यात्। चैत्रेण `ह्नदे यत्किञ्चिद्वर्तते' इत्युक्तौ तत्कालीनचैत्रोच्चारितयत्किञ्चित्पदात्पर्यविषयतया वह्न्यभावावगाहिनः `तादृशयत्किञ्चित्पदतात्पर्यविषयीभूतव्यापकाभावप्रतियोगि' इत्यादिपरामर्शादुक्तानुमित्यापत्तेर्दुर्वारत्वाच्च। एवमभिधेयत्वाभावनिरूपितव्यतिरेकिपरामर्शाद्भ्रमात्मकाभिधेयत्वाभावानुमितिर्व्यतिरेक्याभासाज्जायते। सा न स्यात्। तत्र साध्यस्यैवाप्रसिद्ध्या तदभावस्य वास्तवस्याभावेन तत्र कारणतावच्छेदकविरहात्।
न च वास्तवसाध्याभावघटितकारणान्तराङ्गीकारेऽपि प्रतियषेधाकारपरामर्शस्य कारणताया अपरित्यागात् निरूप्यनिरूपकभावापन्नविषयिताशालिभ्रमात्मकपरामर्शादेव व्यतिरेक्याभासलिङ्गाकानुमित्युपपत्तिरिति वाच्यम्। उक्तकारणान्तराङ्गीकर्तुर्भवतो मते `धूमव्यापकाभावप्रतियोगिवह्न्यभाववान् ह्नदः' इति ज्ञानाद्ध्रदे धूमाभावानुमितेरिव `अभिधेयत्वव्यापकाभावप्रतियोगिघटत्वाभाववान् पटः' इति भरमात् `पटेऽभिघेयत्वाभावः' इत्यनुमितेर्दुष्परिहरतया तत्स्थलीयपरामर्शे भवदुक्तकारणावच्छेदकाभावाद्व्यतिरेक्याभासत्वानुपपत्तेरित्यभिप्रायात्।
एतेन `साध्यीभूताभावप्रतियोगितावच्छेदकावच्छिन्ननिरूपितव्यापकत्वावगाहिज्ञानस्य कारणत्वम्' इति प्रत्युक्तम्। उक्तस्थले साध्यीभूताभावस्यैवाप्रसिद्धेः। न च तद्धर्मावच्छिन्नविषयतानिरूपिताभावत्वावच्छिन्नविधेयताकानुमितौ तद्धर्मावच्छिन्ननिरूपितव्यापकतावच्छेदकत्वेन गृहीतधर्मावच्छिन्नप्रतियोगिताकाभावनिर्णयत्वेन परामर्शस्य तादृशज्ञानद्वयसाधारण्येनापि हेतुता स्वीक्रियते। अत एव व्यतिरेकिग्रन्थे दीधितिकृता तथैवोक्तम्। इत्थञ्च न कोऽपि पूर्वोक्तदोषः प्रसरतीति वाच्यम्। `ह्नदो धूमाभाववान् धूमत्वावच्छिन्नव्यापकतावच्छेदकधर्मावच्छिन्नाभाववत्त्वात्। यो यद्धर्मावच्छिन्नव्यापकतावच्छेदकधर्मावच्छिन्नप्रतियोगिताकाभाववान् स तद्धर्मावच्छिन्नाभाववान्' इति सामान्यव्याप्तिज्ञानेन वा यत्त्वतत्त्वाननुगमविद्वेषे तु `यो यद्विशेषाभावकूटवान् स तत्सामान्याभाववान्' `यो यद्धेतुः स तद्व्याप्तः' `यद्यन्मङ्गलं तत्तसमाप्तिसाधनम्' `यो यस्य सुतः स तदीयं धनमाददीत' इत्यादौ यत्त्वतत्त्वहेतुत्वसाध्यत्वमङ्गलत्वसमाप्तित्वादेरनुगतत्वाभावेऽपि तत्रानुभवसिद्धानुमितिनिर्वाहाय सामान्यव्याप्तिस्थानाभिषिक्तव्याप्त्यन्तरावगाहिज्ञानेनानुमितिस्वीकारेण प्रकृतेऽपि तथैवानुमितिस्वीकारसम्भवेनोक्त विधव्यतिरेकिपरामर्शस्य फलोपधायकत्वानङ्गीकारात्। न च वह्नित्वावच्छिन्नाभावलिङ्गकत्वं न स्यात्। अपि तु धूमव्यापकतावच्छेदकवह्नित्वावच्छिन्नाभावलिङ्गकत्वमेव स्यात्। न चेष्टापत्तिः। तद्रूपावच्छिन्नास्फूर्तिदशायामेव वह्नित्वावच्छिन्नाभावलिङ्गकानुमित्युदयात्। तदर्थमेव चोक्तव्यतिरेकव्याप्तेरङ्गत्वमपि स्वीक्रियत इति वाच्यम् `धूमव्यापकवह्न्यभाववान्' इति परामर्शस्य भवदभिमतस्यैव मत्सिद्धलिङ्गस्फूर्तिरूपतया तदस्फूर्तेरेवासिद्धेः। परन्तु त्वया तदुत्तरक्षण एव `ह्नदे धूमाभावः' इत्याकारामनुभवविरुद्धामनुमितिं स्वीकृत्य ततो `धूमाभाववान्' इत्यनुमित्यन्तरं स्वीक्रियते। साध्यप्रसिद्धिवेलायां साध्यविशेष्यकानुमितिवारणाय साध्यप्रसिद्धेः साध्यविशेष्यकानमितिप्रतिबन्धकत्वम् इत्यादिकमप्रामाणिकं बहु कल्प्यते। मया तु क्षणद्वयविलम्बेन तादृशसामान्यव्याप्त्यादिस्फूर्त्या सर्वानुभवसिद्धसाध्यप्रकारकानुमितिरेव स्वीक्रियते। भवदभिमतसूक्ष्मकाल एवानुमित्युत्पत्तेः शपथैकनिर्णेयत्वात्। तत्रास्मन्मतमेव युक्तम्। अस्मदभिमतान्वयव्याप्तिविशिष्टलिङ्गान्तरस्य कालान्तरे ज्ञानस्थलेऽनुमित्यनुरोधेनोभयक्लृप्ततत्सामग्रीबलादेव क्षणद्वयादिविलम्बेनानुमितिमात्राङ्गीकारेण निर्वाहे अप्रामाणिकस्य कल्पितसाध्यविशेष्यकानुमितिनिर्वाहाय सामग्र्यन्तरकल्पनस्य साध्यप्रसिद्ध्यादिप्रतिबन्धकत्वकल्पनस्यातिगुरुत्वेन हेयत्वात्।
एवञ्च `वह्निर्धूमव्यापकः' `वह्न्यभाववांश्चायम्' इति ज्ञानद्वयस्थलेऽपि सम्भवदुत्पत्तिकधूमव्यापकवह्न्यभावरूपहेतुज्ञानं स्वीकृत्यैवानुमितिरुपपादनीया। अत्यथाऽन्वयिस्थलेऽपि ज्ञानद्वयानन्तरं विशिष्टपरामर्शोऽप्यकल्पनीयः स्यात्। उक्तलाघवादेव वृक्षतादात्म्याद्यनुमितिसम्भवे तादात्म्येन वृक्षस्य व्यापकतामनिच्छन्तः प्राचीनाः वृत्त्यनियामकसम्बन्धेन व्यापकतां न स्वीकुर्वन्ति। तस्मात्साध्याभावत्वेन साध्याभावावगाहिव्यतिरेकिपरामर्शस्यैवानुमितिहेतुत्वं सयुक्तिकमिति साधूक्तं `प्रतिषेधाकारबुद्धेरनिवारणात्' इति।
यद्वा अन्यत्र व्यतिरेकिणि परोक्तमभ्युपगम्य प्रकृतानुमानविषय एवैतद्रीत्यसम्भवप्रतिपादकमिदं वाक्यम्। तथात्वे चाभावेत्यादिना तन्निर्वाह्यस्य प्रतिषेधाकारानवगाहिपरामर्शकारणत्वस्य परिग्रहः। तथा चाभावसाध्यकस्थले जलादिरूपप्रतियोगिनो जलत्वेनावगाहिनः `तादात्म्येन जलव्यापकाभावप्रतियोगिगन्धवान् घटः' इति परामर्शात् `घटे जलभेदः' इत्याद्यनुमितिसम्भवेऽपि प्रकृतानुमाने सहसद्विलक्षणत्वरूपसाध्याभावत्वेन साध्याभावावगाहिपरामर्शस्यावश्यकताया वारणायोगादित्यर्थः। कुत इति चेत् यतः सदसद्विलक्षणत्वं नाम सद्विलक्षणत्वविशिष्टासद्विलक्षणत्वम्। तादृशविशिष्टसाध्याभावस्तु न सत्त्वासत्त्वरूपः. विशिष्टाभावस्य सदसदुभयत्रैकस्यैव प्रतीत्या सत्त्वासत्त्वयोः परस्परासमानाधिकरणत्वेन तदैक्यायोगात्।
नन्वभावस्यैवैक्यप्रतीतिरभावत्वैक्यमवलम्बते। रूपाणां रूपाभावाभावात्मकत्वेऽपि घटपटवृत्तिरूपाभावैक्यप्रतीतिवदिति चेन्न। तथात्वेऽपि सदसद्विलक्षणत्वाभावव्यापकीभूतेत्यादिरीत्या ज्ञानङ्गीकारे प्रतिषेधाकारत्वमागतमेव। तादात्म्येन `सद्व्यापकीभूताभावप्रतियोगिबाध्यत्ववान्' एवम् `असद्व्यापकीभूताभावप्रतियोगिबाध्यत्ववान्' इति समूहालम्बनादनुमित्यङ्गीकारेऽनुमितिरपि समूहालम्बनरूपैव स्यात्। न सद्विलक्षणत्वविशिष्टासद्विलक्षणत्वरूपसाध्यविधेयिका। तत्र तु (34)असद्वैलक्षण्यस्य शुक्तिरूप्ये सिद्धतयांशे सिद्धसाधनताया दुर्वारत्वात्। एतदर्थमेव `मिथ्यैव रजतम्' इति प्रत्यक्षमुभयसम्प्रतिपन्नसद्विलक्षणत्वावगाहिताकमुपन्यस्तं प्राक्।
{34. सद्वैलक्षण्यस्य इति पाठेन भाव्यमिति भाति।}

न (35)चैकत्र द्वयमिति रीत्या बाध्यत्वे तादृशप्रतियोगित्वद्वयावगाहिपरामर्शा(36) देकत्र द्वयमित्यादिरीत्यैव सद्विलक्षणत्वासद्विलक्षणत्वावगाहिनी अनुमितिः स्यात्। तत्समानाकारकज्ञानस्य पूर्वमसिद्धतया न सिद्धसाधनमिति वाच्यम्। तादृशज्ञानानामप्रामाणिकत्वात्। प्रामाणिकत्वे वाऽनुमितिपरामर्शयोस्तादृशरूपेण कार्यकारणभावे मानाभावाद्विधेयतावच्छेदककोटावधिकावगाहित्वाभावेनांशे सिद्धसाधनतैव। एतदप्युक्तम्। प्रतिषेधाकारबुद्धेः शुक्तेरूप्ये सद्विलक्षणत्वबुद्धेः अनिवारणात्। अशे सिद्धसाधनत्वस्येत्यर्थः।
{35. चैकं न इति पाठेन भाव्यमिति भाति।
36. देकं न इति पाठेन भाव्यमिति भाति।}

यदि सदसदुभयव्यापकीभूताभावप्रतियोगीत्यादिपरामर्शाच्चोभयत्वावच्छिन्नभेदावगाहीनी अनुमितिः स्यात्तदा शुक्तिरजतस्योभयात्मकत्वानङ्गीकारात्स्फुटं सिद्धसाधनतैव। सदसदन्यतरव्यापकीभूतेत्यादिपरायर्शादरेऽनुमितेरप्यन्यतरत्वावच्छिन्नभेदावगाहित्वेनेष्टसिद्धिरित्युक्तावपि सद्भेदविशिष्टासद्भेदावच्छिन्नप्रतियोगिताकभेदवत्त्व रूपान्यतरत्वस्योक्तसद्भेदविशिष्टासद्भेदरूपप्रतियोगितावच्छेदकाद्यप्रसिद्ध्या तद्धटितव्याप्तिग्रहस्य प्रतिषेधविषयिण्याः व्याप्तिग्रहो न घटत इत्याकाराया बुद्धेः त्वया वारयितुमशक्यत्वात्।
अथ तद्भेदैतद्भेदैतदुभयत्वावच्छिन्नप्रतियोगिताकाभाव एवान्यतरत्वम्। तद्गहशच् प्रत्येकं तादृशभेदग्रहादपि सम्भवतीति उच्यते। तदापि तादृशोभयं नास्ति इति प्रतिषेधाकारबुद्धेस्तयोर्विरोधग्रहमूलायाः शशविषाणघटादिष्विव शुक्तिरूप्यादिषु पक्षेष्वपि उक्तानुमानप्रवृत्तेः प्रागेव लोकानामवारणात् बाध्यत्वरूपहेतोरभावस्य तद्व्यापकत्वप्रतिषेधबुद्धेरवारणमेव। एतेन सदसदुभयत्ववृत्तिस्वरूपसम्बन्धावच्छिन्नावच्छेदकताकप्रतियोगिताकभेदोऽनुमितिविषयः। अतो न सिद्धसाधनता। कारणीभूतपरामर्शश्च तत्सम्बन्धेनोभयत्वाश्रयस्य तादात्म्येन व्याप्यतावगाही हेत्वभावस्य व्यापकत्वावगाही इति निरस्तम्। सत्त्वासत्त्वयोर्लोकानां परस्परविरुद्धत्वरूपप्रतिषेधाकारबुद्धेरनुमानप्रवृत्तेः प्रागनिवारणात्। सत्त्वाभावप्रयुक्तासत्त्ववत्त्वेन गृह्यमाणत्वात्। तादात्म्येन तदुभयत्वाश्रयतया गुह्यमाने शुक्तिरूप्यादौ बाध्यत्वरूपहेतुग्रहेण हेत्वभावस्य पक्षादिप्रविभागात्पूर्वमेव व्यापकत्वप्रतिषेधबुद्धेरवारणात् इदमयुक्तमिति।
</194 पृष्ठे 2-3 पंक्त्योर्मध्ये>

<203 पृष्ठे 11-12 पंक्त्योर्मध्ये>
अयमूहप्रकारः। अत्रनिविष्टसत्पदर्थो यद्यबाध्यत्वविशिष्टस्तदा (37)तत्तादात्म्यमबाध्यत्वतादात्म्यमेव। तथा च बाध्यत्वे सत्यबाध्यत्वमेवोक्तं स्यात्। इत्थञ्च कथं न स्वव्याहतिः। यदि च सदिति प्रतीमयानस्तदा तत्तादात्म्यं सत्त्वेन प्रतीयमानत्वं तदा अर्तान्तरता। असत्ख्यातिवादिनाऽपि शुक्तिरजतादेः सदिति प्रतीतिगोचरताङ्गीकारात्। अथ तादात्म्यं सम्बन्धविशेषः। तथा चाबाध्यतादात्म्यं नाबाध्यत्वरूपमिति कथं व्याहतिरिति चेन्न। तादृशसम्बन्धः कश्चन नीलघटयोः यादृशतादात्म्यं तज्जातीयादन्यस्तच्छब्दबोध्यश्चेत्तस्य चाबाध्याधिष्ठानकभ्रमविषयत्वादेतज्ज्ञा(त्व अबाध्यज्ञा)ननिवर्त्यज्ञानविषयत्वादेः कस्यचित्सम्बन्धस्य सत्यपि सम्भवेन तत्साधनमात्रेणासद्व्यावृत्त्ययोगः। प्रसिद्धतादात्म्यसाजात्ये तस्य भेदाभेदसापेक्षत्वेनाबाध्येन सहाभेदस्यापि प्राप्त्याऽबाध्यत्वावच्छिन्नात्यन्तभेदात्मकबाध्यत्वं तत्र कथं स्यात्। अन्यथा `नीलो घटः' इति प्रतीतिवत् `बाध्योऽबाध्यः' इति प्रतीतिप्रसङ्गः। तद्धर्मावच्छिन्नेन सहात्यन्तभेदग्रहस्यैव तादात्म्येन तद्धर्मावच्छिन्नग्रहं प्रति विरोधित्वेनाबाध्यतादात्म्येन विद्यमानस्य बाध्यत्वस्याबाध्यात्यन्तभेदरूपत्वाभावात्। न चाबाध्यभेदस्य तादात्म्यापेक्षयाऽधिकसत्ताकत्वान्न विरोध इति वाच्यम्। स्वार्थानुमित्याऽनिर्वचनीयत्वसिद्धेः प्रागुक्तसत्ताकभेदानुपस्थित्या विरोधशान्त्ययोगात्। जगति उक्तभेदतत्तादात्म्ययोः व्यावहारिकत्वस्यैव वक्तव्यतया विरोधशान्त्ययोगाच्च।
{37. ततादात्म्यमबाध्यतादात्म्यमेव इति पाठेन भाव्यमिति भाति।}

न च शुक्तितादात्म्यं रजते नाबाध्यत्वावच्छिन्नप्रतियोगिताकं किन्त्विदन्त्वाद्यवच्छिन्नप्रतियोगिताकमेव। अबाध्यत्वावच्छिन्नप्रतियोगिताकात्यन्तभेदरूपबाध्यत्वस्य सत्त्वान्न `अबाध्यो बाध्यः' इति व्यवहारापत्तिः। अनिर्वचनीयत्वशरीरेऽपि अबाध्यत्वाश्रयनिरूपिततादात्म्यनिवेशान्न कोऽपि दोष इति वाच्यम्। येन केनापि रूपेण तेन सहात्यन्तभेदवति केनापि रूपेण तेन सह भेदाभेदयोस्तदधीनतादात्म्यस्य च सर्वानुभवविरुद्धत्वात्। अन्यथा करकादितात्पर्यकजलपदघटितजलं पेयमिति वाक्यजानमानजज्ञानप्रामाण्यप्रसङ्गः। करकादित्वेन पेयत्वेनात्यन्तभेदसद्भावेऽपि त्वद्रीत्या जलत्वावच्छिन्नेन सह तादात्म्यस्याबाधात्। उक्तञ्च त्वयाऽपि वाचस्पतिकारिकाव्याख्यावसरे `युगपद्भिन्नदेशकालवृत्तिनोः कटककुण्डलयोर्हेमत्वादिनाऽपि नाभेदः' इति। न चैकहेमव्यक्त्युपादानकयोः कटककुण्डलयोर्हेमत्वादिनाऽभेदः तत्कटकत्वेन तत्कुण्डलत्वेनात्यन्तभेदोऽपि तत्रैवोक्त इति येन केनापि रूपेणात्यन्तभिन्नस्य येन केनापि रूपेणाभेदो नास्तीत्येतदयुक्तमेवेति वाच्यम्। तत्रापि `एतत्कुण्डलं हेमत्वेन तत्कटकम्' इत्यप्रत्ययेन हेमत्वेनापि रूपेण तत्कुण्डलप्रतियोगिकाभेदस्य तत्कटकेऽनङ्गीकारात्। तदुपादानवृत्तिहेमत्वाश्रयणेन सहैवाभेदस्याङ्गीकृतत्वात्। अत एव `अत्यन्तभिन्नैकघटनिष्ठरूपरसादिव्यवस्थैवमेव' इत्यभिहितं तत्रैव।
न चैवमेव सदुपादानकस्य रजतस्य सता सह तादात्म्यमस्त्विति वाच्यम्। तेन सहात्यन्तभिन्नत्वेन प्रतीयमाने तदुपादानकत्वस्य मृदात्यन्तभिन्नत्वनोपलभ्यमाने पटादावदृष्टत्वेनाबाध्यत्वानाश्रये रजते तदुपादानकत्वायोगात्। किञ्च बाध्यत्वस्यैव हेतूकृतत्वेन तेन बाध्यत्वविशिष्टसत्तादात्म्यसाधने विशेषणांशस्य साध्यशरीरे नातिप्रयोजनकत्वम्। विशिष्टसाध्यत्वे विशेषणपरित्यागेनाबाध्यतादात्म्यरूपसत्तादात्म्यसाधने वा बाध्यत्वहेतोर्विरोधश्च। न चार्थक्रियाकारित्वमेव सत्त्वम्। तदवच्छिन्नतादात्म्यं साध्यत इत्यपि युक्तम्। बाध्यस्यार्थक्रियाकारिभिन्नत्वेनैवावगतस्य तत्तादात्म्यसाधने बाधाद्विरोधाच्च। असत्ख्यातिवादिना सैगतेन बाध्यस्याप्यर्थक्रियाकारित्वाभ्युपगमेन तस्यैव जगत्यनिर्वचनीयत्वरूपत्वाङ्गीकारे सौगतवैलक्षण्यासिद्ध्या तत्सिद्ध्यर्थं अन्यस्यैवानिर्वचनीयत्वस्य जगति निर्वक्तव्यतया तत्साधकानुमाने दृष्टान्तभूते शुक्तिरजतादौ तादृशस्यैव वक्तव्यत्वाच्च।
नपि `सर्वं सत्प्रमेयम्' इत्याकारा काचन बुद्धिस्तत्तद्विषयतादात्म्यम्। तत्साधने तस्या बुद्धित्वेनैव परिचये `सर्वं सत्' इत्याकारस्य शुक्तिरजतादिसर्वविषयस्य भ्रमस्यापि परिचितत्वेन तद्विषयीभूतस्य तादात्म्यस्य शुक्तिरजतादेरसत्त्वपक्षेऽपि सत्त्वेन सिद्धसाधनापरिहारात्। तादृशाकारज्ञानेषु `इयं प्रमैव, अयं भ्रम एव' इति निर्धारणायोगेन विशिष्य व्यक्तिविशेषस्य निवेशयितुमशक्यत्वात्। तादृशाकारभ्रमत्वेन परिचये तद्विषयतायाः शुक्तिरूप्येऽङ्गीकारात्सिद्धसाधनता नापि तादृशी काचन प्रमा व्यक्तिः। (38)तत्त्वेन परिचयः। घटात्यन्तभिन्नत्वेन गृह्यमाणे घटत्वप्रकारकप्रमाविषयात्यन्तभेदग्रहस्यौचित्यावर्जित्स्य सार्वलौकिकस्य सार्वकालिकस्य दुरपह्नवताया इव अत्रापि `असदेव रजतम्' इति रूपेणात्यन्तसद्भिन्नत्वेन गृह्यमाणरजते सत्त्वप्रकारकप्रमाविषयात्यन्तभेदस्य तादृशप्रमाव्यक्तिविशेषविषयात्यन्तभेदस्य च यो ग्रहस्तस्य दुरपह्नवतया तादृशरजते तादृशप्रमाविषयतादात्म्यसाधने बाधस्य बाध्यत्वहेतोरविरोधस्य च दुर्वारत्वात्। अन्यथा `नीलः' इति प्रमाविषयभिन्ने वा `सर्वं नीलम्' इति प्रमाविशेषविषयात्यन्तभेदवत्त्वेन वा निश्चितेऽपि घटे नीलतादात्म्यसिद्धिप्रसङ्गः। न चानिर्वचनीयवादिनामयं विरोधो न सम्मत इति वाच्यम्। अनिर्वचनीयप्रतीतेः प्रागुक्तविरोधस्य सर्वलोकसिद्धस्य स्वेच्छामात्रेण परिहर्तुमशक्यतया स्वार्थानुमितेरेवायोगस्योक्तत्वात्।
{38. प्रमात्वेन तादृशव्यक्तित्वेन चेत्यर्थः।}
परार्थानुमाने तूक्तप्रकारः सर्वथा न सङ्गच्छते। यदि सा व्यक्तिः `इदं रजतम्' इति ज्ञानप्रकाररजतविषयकत्वेन स्वपरसम्मता तदा तादृशव्यक्तेः प्रमात्वमेव मां प्रत्यसम्मतमिति मं प्रति तत्परिचयायोगः। यदि तदविषयकत्वेन मतद्वयसिद्धं ज्ञानमुपादीयते तदा बाध एव। यदि मध्यस्थस्य प्रतिवादिनश्च शुक्तिरजताद्यविषयत्वेन सम्मतं स्वमतमात्रेण तद्विषयकत्वेन सम्मतं ज्ञानमुपादीयते तदा तद्विषयात्यन्तभिन्नत्वेन गृह्यमाणे तत्तादात्म्यानुमितिः मध्यस्थस्य वादिनो वा न घटत एव। यदि चोभयमतेऽपि प्रमात्वेन शुक्तिरजतविषयकत्वेन च सम्मतं `सर्वं सत्प्रमेयम्' इति ज्ञानमुपादीयते तदा तद्व्यक्तेः प्रमात्वेन सम्मतिः शुक्तिरजते सत्त्वसम्मतिं विना न घटत इति तत्र सत्तादात्म्यसाधनस्य वैयर्थ्यमेवेति द्रष्टव्यम्।
किञ्च यदि सदित्याकारकप्रमेत्यस्य सत्पदघटितवाक्याभिलाप्यप्रमेत्यर्थः तदा (39)शुक्तिभ्रमेण लक्षणया आधुनिकसङ्केतेन च सत्पदेनासतोऽपि बोधसम्भवात्तद्विषयतादात्म्यसाधने सिद्धसाधनत्वादिकमेव। यदि (40)शुक्तिभ्रमाद्यनधीनतादृशवाक्यसाध्यप्रमोच्यते तदा `सर्वं सत्प्रमेयम्' इति वाक्येन शक्तिभ्रमादिकं विनाऽपि जायमानायाः समीचीनत्वादिप्रकारकप्रमाया अपि ग्रहणापत्त्या तद्विषयतादात्म्यसाधने (41)अर्थान्तराद्यनिस्तारात्। न हि समीचीनत्वादौ कोशसिद्धे शक्तिर्नास्ति। अबाध्यत्वावच्छिन्ने वर्तत इति राज्ञामाज्ञास्ति। अबाध्यत्वप्रकारकप्रमातात्पर्यकतादृशवाक्यसाध्यप्रमात्वेन तदुपादाने अबाध्यत्वप्रकारकप्रमात्वेन तदुपादानस्य सम्भवे शिरोवेष्टनन्यायापातः। तत्परित्यागे तथैवोपादाने अबाध्यभिन्नत्वेन निश्चीयमाने तत्प्रमाव्यक्तिविषयतादात्म्यसाधने पूर्वोक्तरीत्या बाधादिरेव।

{39. शक्तिभ्नमेण इति पाठेन भाव्यमिति भाति।
40. शक्ति इति पाठेन भाव्यमिति भाति।
41. अर्थान्तरानिस्तारात् इति पाठान्तरम्।}
ननु सत्ताजातिमत्तादत्म्यं साध्य इति चेन्न। द्रव्यत्वरजतत्वादिमत्तादात्म्येनापि गृह्यमाणे रजते असत्त्वसदधिष्ठानकत्वादि (42)संशयनिवृत्तेरिव तन्मते उक्तसत्तादात्म्यज्ञानेनापि तदनिवृत्तेश्तुल्यत्वेनार्थान्तरानिस्तारात्। द्रव्यतादात्म्यज्ञानादेरपि तन्निवर्तकत्वे `रजतं द्रव्यम्' इति व्यवहारादिबलसिद्धतादृशज्ञानबलेनोक्तसंशयस्य निवृत्ततया अनुत्पन्नतया वा सत्तादात्म्यसाधनस्याकिञ्चित्करत्वापातः। द्रव्यतादात्म्यज्ञानस्योक्तसंशयाविरोधित्वं सत्तादात्म्यज्ञानस्यैव विरोधित्वमित्यत्र नियामकाभावः। द्रव्यत्वादिजातेरिव सत्ताजातेरपि प्रत्यक्षगृहीततया तत्तादात्म्यसाधनायोगः।
{42. संशयानिवृत्तेरिव इति पाठेन भाव्यमिति भाति।}
एतेन सदित्याकारप्रतीतौ स्वरूपतः प्रकारो यः तदवच्छिन्नतादात्म्यं साध्यते। समीचीनत्वादिकन्तु न तथेति परास्तम्। तादृशधर्मो यदि सत्ता तदाऽर्थान्तरम्। यद्यबाध्यत्वं तदा बाध एवेत्यादिपूर्वोक्तदोषानिस्तारात्। कालसम्बद्धतादात्म्यमप्यर्थान्तरबाधादिना निरस्तम्।
अस्तु वा सत्तादात्म्यं यादृशतादृशं `इदं सत्' इति प्रतीतिसिद्धम्। तत्साधनस्योपयोगो वक्तव्यः। बौद्धाभिहितासत्ख्यातिनिरासार्थमिति चेन्न। `शशविषाणं सत्' इति प्रतीतिबलेन शशविषाणादिरूपासत्यपि सत्तादात्म्यस्यावर्जनीयतया तस्यासत्त्वव्यावर्तकत्वायोगात्। `अनिर्वचनीयसत्तादात्म्यमसति न' इति विशेषोपपादनं, `शशविषाणादिव्यवहारे हेतुर्विकल्प एव। शुक्तिरजतादिव्यवहारहेतुश्च ज्ञानम्। अतः प्रतीतिसिद्धसत्तादात्म्यमेव निवेश्यते। अतोऽसद्व्यावृत्तिः इति भाषणम्, `शशविषाणं सदित्यादिप्रतीतौ कालसम्बन्ध एव प्रतीयते। न तु सतादात्म्यम्' इति विशेषकथनं, `शशविषाणं सदित्यादिप्रतीतावनिर्वचनीयमेव प्रतीयते। असच्च सर्वथा निरुपाख्यमेव। अतो न सत्तादात्म्यवत्' इति जल्पनं, `शशविषाणमिति वाक्याद्व्यधिकरणप्रकारकमेव ज्ञानं जायते' इति भाषणञ्चेत्येवमादीनि दुर्भाषणान्यर्थापत्त्यादिनिरासप्रस्तावे निरसिष्यन्ते।
इति द्वैतद्युमणिपरिशिष्टं सम्पूर्णम्
</203 पृष्ठे 11-12 पंक्त्योर्मध्ये>