धनुर्वेदः
[[लेखकः :|]]


श्रीगणेशगीर्भ्यां नमः । (१.१)
लम्बोदरं महाकायं लम्बौष्ठं गजकर्णकम् । (१.२)
विघ्नघ्नं पार्व्वतीपुत्रं नमामि गणनायकम् ॥ (१.३)

विना शस्त्रधरं नान्यो धनुर्व्वेदस्य पारगः । (२.१)
अतः स्वप्ने निशि प्राप्ते शिवतत्त्वविचारणम् ॥ (२.२)

अतः मन्देहदोलायां रोपणीयं न मानसम् । (३.१)
ग्रन्थे ऽस्मिन् चापचतुरैर् वीरचिन्तामणौ क्वचित् ॥ (३.२)

यस्याभ्यासे प्रसादेन निष्पद्यन्ते धनुर्धराः । (४.१)
जेतारः परसैन्यानां तस्याभ्यासो विधीयताम् ॥ (४.२)

एकोऽपि यत्र नगरे प्रसिद्धः स्याद्धनुर्द्धरः । (५.१)
ततो यान्त्यरयो दूरं मृगाः सिंहगृहादिव ॥ (५.२)

आचार्य्येण धनुर्देयं ब्राह्मणेन परीक्षिते । (६.१)
शठे धूर्त्ते कृतघ्ने च मन्दबुद्धौ न दीयते ॥ (६.२)

ब्राह्मणाय धनुर्देयं खड्गं वै क्षत्रियाय च । (७.१)
वैश्याय दापयेत्कुन्तं गदां शूद्राय दापयेत् ॥ (७.२)

धनुश्चक्रं तु कुन्तं च खड्गं च छुरिकां गदाम् । (८.१)
सप्तमं बाहूयुद्धं स्यादेवं युद्धानि सप्तधा ॥ (८.२)

आचार्य्यः सप्तयुद्धैः स्याच्चतुर्भिर्भार्गवस्तथा । (९.१)
द्वाभ्यां चैव भवेद्योद्धा एकेन गणको भवेत् ॥ (९.२)

हस्तः पुनर्वसुः पुष्यो रोहिणी चोत्तरात्रयम् । (१०.१)
अनुराधाश्विनी चैव रेवती दशमी तथा ॥ (१०.२)

जन्मस्थे च तृतीये च षष्ठे वै सप्तमे तथा । (११.१)
दशमैकादशे चन्द्रे सर्वकर्माणि कारयेत् ॥ (११.२)

तृतीया पञ्चमी चैव सप्तमी नवमी तथा । (१२.१)
त्रयोदशी द्वादशी च तिथयश्च शुभा मताः ॥ (१२.२)

सूर्यवारः शुक्रवारो गुरुवारस्तथैव च । (१३.१)
एतद् वारत्रयं धन्यं प्रारम्भे शस्त्रकर्मणि ॥ (१३.२)

एभिर् दिनैश्च शिष्याय गुरुःशस्त्राणि दापयेत् । (१४.१)
संतर्प्य दानहोमाभ्यां सुरान् शास्त्रविधानतः ॥ (१४.२)

ब्राह्मणान् भोजयेत्तत्र कुमारीश्चाप्यनेकशः । (१५.१)
तापसानर्चयेद्भक्त्या ये चान्ये शिवयोगिनः ॥ (१५.२)

अन्नपानादिभिश्चैव वस्त्रालङ्कारभूषणैः । (१६.१)
गन्धमाल्यैर् विचित्रैश्च गुरुं तत्र प्रपूजयेत् ॥ (१६.२)

कृतोपवासः शिष्यस्तु कृताञ्जलिपरिग्रहः । (१७.१)
बद्ध्वाञ्जलिपुटस्तत्र याचयेद्गुरुतो धनुः ॥ (१७.२)

अङ्गन्यासस् ततः कार्यः शिवोक्तः सिद्धिम् इच्छता । (१८.१)
आचार्य्येण च शिष्यस्य पापघ्नो विघ्ननाशनः ॥ (१८.२)

शिखास्थाने न्यसेदीशं बाहुयुग्मे च केशवम् । (१९.१)
ब्रह्माणं नाभिमध्ये तु जङ्घयोश्च गणाधिपम् । (१९.२)
अङ्गन्यासे च मन्त्रः । (१९.३)
ओं हौं शिखामध्ये शङ्कराय नमः । (१९.४)
ओं हौं बाह्वोः केशवाय नमः । (१९.५)
ओं हौं नाभिमध्ये ब्रह्मणे नमः । (१९.६)
ओं हौं जङ्घयोर्गणपतये नमः ॥ (१९.७)

ईदृशं कारयेन्न्यासं येन श्रेयो भविष्यति । (२०.१)
अन्येऽपि दुष्टसत्त्वाश्च न हिंसन्ति कदाचन ॥ (२०.२)

शिष्याय मानुषं चापं धनुर्व्वेदाभिमन्त्रितम् । (२१.१)
काण्डात्काण्डेति मन्त्रेण दद्याद्वेदविधानतः ॥ (२१.२)

प्रथमं पुष्पवेधं च प्हलहीनेन पत्रिणा । (२२.१)
ततः प्हलयुतेनैव मत्स्यवेधं च कारयेत् ॥ (२२.२)

मांसवेधं ततः कुर्यादेवं वेधो भवेत्त्रिधा । (२३.१)
पूर्ववेधैः कृताः पुंसा शराः स्युः सर्वसाधकाः ॥ (२३.२)

वेधने चैवमाकृष्य शरपातो यदा भवेत् । (२४.१)
पूर्वदिग्भागम् आश्रित्य सदा स्याद्विजयी सुखी ॥ (२४.२)

दक्षिणे कलहो घोरो विदेशगमनं पुनः । (२५.१)
पश्चिमे धनधान्यं च सर्वं चैवोत्तरे भवेत् ॥ (२५.२)

ऐशान्यां पातनं दुष्टं विदिशोऽन्याश्च शोभनाः । (२६.१)
सर्वपुष्टिकराश्चैव सिद्धिदाः शस्त्रकर्मणि ॥ (२६.२)

एवं वेधत्रयं कृत्वा शङ्खदुन्दुभिनिस्वनैः । (२७.१)
ततः प्रणम्य गुरवे धनुर्बाणान् निवेदयेत् ॥ (२७.२)

प्रथमं पौरुषं चापं युद्धचापं द्वितीयकम् । (२८.१)
निजबाहुबलोन्मानं किंचिदूनं शुभं भवेत् ॥ (२८.२)

वरं प्राणाधिको धन्वी नतु प्राणाधिकं धनुः । (२९.१)
धनुषा पीड्यमानस्तु धन्वी लक्ष्यं न पश्यति ॥ (२९.२)

अतो निजबलोन्मानं धनुः स्याच्छुभकारकम् । (३०.१)
देवानामुत्तमं चापं ततो न्यूनं च मानवम् ॥ (३०.२)

सार्द्धपञ्चमहस्तन्तु श्रेष्ठं चापं प्रकीर्तितम् । (३१.१)
तद् विज्ञेयं धनुर् दिव्यं शङ्करेण धृतं पुरा ॥ (३१.२)

तस्मात् परशुरामेण ततो द्रोणेन धीमता । (३२.१)
द्रोणाद्गृहीतं पार्थेन ततः सात्यकिना धृतम् ॥ (३२.२)

कृतयुगे महादेवः त्रेतायां चैव भार्गवः । (३३.१)
द्वापरे द्रोणविप्रश्च दैवं चापमधारयत् ॥ (३३.२)

चतुर्विंशाङ्गुलो हस्तश् चतुर्हस्तं धनुर् भवेत् । (३४.१)
तद् भवेन्मानुषं चापं सर्वलक्षणसंयुतम् ॥ (३४.२)

त्रिपर्वं पञ्चपर्वं च सप्तपर्वं च कीर्तितम् । (३५.१)
नवपर्वं च कोदण्डं चतुर्द्धा शुभदायकम् ॥ (३५.२)

चतुःपर्वं च षट्पर्वम् अष्टपर्वं च वर्जयेत् । (३६.१)
केषांचिच्च भवेच्चापं वितस्तिनवसंमितम् ॥ (३६.२)

अतिजीर्णम् अपक्वं च ज्ञातिधृष्टं तथैव च । (३७.१)
दग्धं छिन्नं न कर्तव्यं बाह्याभ्यन्तरहस्तकम् ॥ (३७.२)

गुणहीनं गुणाक्रान्तं काण्डदोषसमन्वितम् । (३८.१)
गलग्रन्थि तलग्रन्थि न कर्तव्यं सदा बुधैः ॥ (३८.२)

अपक्वं भङ्गमायाति अतिजीर्णं तु कर्कशम् । (३९.१)
ज्ञातिधृष्टं तु सोद्वेगं कलहो बान्धवैः सह ॥ (३९.२)

दग्धेन दह्यते वेश्म छिद्रं बुद्धिविनाशनम् । (४०.१)
बाह्ये लक्ष्यं न लभ्येत तथैवाभ्यन्तरेऽपि च ॥ (४०.२)

हीने तु संधिते बाणे संग्रामे भङ्गकारकम् । (४१.१)
आक्रान्ते तु पुनर्लक्ष्ये लक्ष्यं न प्राप्यते दृढम् ॥ (४१.२)

गलग्रन्थि तलग्रन्थि धनहानिकरं धनुः । (४२.१)
एतैर् दोषैर् विनिर्मुक्तं सर्वलक्षणकारकम् ॥ (४२.२)

शार्ङ्गं तु वै धनुर्दिव्यं तद्विष्णोः परमायुधम् । (४३.१)
वितस्तिसप्तमं मानं निर्मितं विश्वकर्मणा ॥ (४३.२)

न स्वर्गे न च पाताले न भूमौ कस्यचित्करे । (४४.१)
तद्धनुर्न वशं घाति मुक्त्वैकं पुरुषोत्तमम् ॥ (४४.२)

पौरुषेयं तु यत् कार्यं बहुयत्नेन योजितम् । (४५.१)
वितस्तिभिः सप्तभिश्च मितं सर्वार्थसाधकम् ॥ (४५.२)

प्रायो ज्ञेयं धनुः शार्ङ्गं गजारोहस्य साधनम् । (४६.१)
रथिनां च पदातीनां वांशं चापं प्रकीर्तितम् ॥ (४६.२)

गुणानां लक्षणं वक्ष्ये यादृशं कारयेद्गुणम् । (४७.१)
धनुःप्रमाणं निःसन्धिः कार्यस्त्रिगुणतन्तुभिः ॥ (४७.२)

वर्तितः स्याद् गुणः सूक्ष्मः सर्वकार्यसहो युधि । (४८.१)
पट्टसूत्रैः गुणः कार्यः कनिष्ठामानसंमितः ॥ (४८.२)

अभावे पट्टसूत्रस्य हारिणी स्नायुरिष्यते । (४९.१)
गुणार्थम् अथ संग्राह्याः स्नायवो महिषीगवाम् ॥ (४९.२)

तत्काले हतगोकर्णचर्म वा छागलस्य वा । (५०.१)
विलोमतन्तुरूपेण कुर्याद्वा गुणमुत्तमम् ॥ (५०.२)

पक्ववंशत्वचा कार्यो गुणस्तु स्थविरो दृढः । (५१.१)
पट्टसूत्रेण संनद्धः सर्वकार्यसहो युधि ॥ (५१.२)

प्राप्ते भाद्रपदे मासे त्वगर्कस्य प्रशस्यते । (५२.१)
तस्यास्तत्र गुणः कार्यः पवित्रः स्थावरो दृढः ॥ (५२.२)

वृत्तार्कसूत्रतन्तूनां हस्ता अष्टादशाः स्मृताः । (५३.१)
तद्वृत्तं त्रिगुणं कार्यं प्रमाणोऽयं गुणस्य च ॥ (५३.२)

प्हलं तु शुद्धलोहस्य सधारं तीक्ष्णमस्तकम् । (५४.१)
योजयेद् वज्रलेपेन सारपक्षानुसारतः ॥ (५४.२)

आरामुखं क्षुरप्रं च गोपुच्छं चार्धचन्द्रकम् । (५५.१)
सूचीमुखं च भल्लं च वत्सदन्तं सुवल्लभम् ॥ (५५.२)

कर्णिकं काकतुण्डं च तथा चान्येऽप्यनेकशः । (५६.१)
प्हलानि देशदेशेषु भवन्ति बहुरूपतः ॥ (५६.२)

आरामुखेनैव चर्म क्षुरप्रेण च कार्मुकम् । (५७.१)
सूचीमुखेन कवचम् अर्धचन्द्रेण मस्तकम् ॥ (५७.२)

भल्लेन हृदयं वेध्यं द्विभल्लेन तथैव च । (५८.१)
लोहं च काकतुण्डेन लक्ष्यं गोपुच्छकेन च ॥ (५८.२)

अन्यद्गोपुच्छकं ज्ञेयं शुद्धकांस्यैर् विनिर्मितम् । (५९.१)
मुखेन चापि कण्ठेन वेधम् अङ्गुलिसंमितम् ॥ (५९.२)

प्हलस्य पायनं वक्ष्ये दिव्यौषधिविलेपनम् । (६०.१)
येन दुर्वेध्यवर्माणि भेदयेत्तरुपत्त्रवत् ॥ (६०.२)

पिप्पली सैन्धवं कुष्ठं गोमूत्रेण च पेषयेत् । (६१.१)
अनेन लेपयेच्छस्त्रं लिप्तं चाग्नौ प्रतापयेत् ॥ (६१.२)

अविष्पातं बलाविद्धं पीतमग्नौ तथौषधम् । (६२.१)
ततो निर्वापितं लोहं तत्र वेधे विशिष्यते ॥ (६२.२)

पञ्चभिर् लवणैः पिष्टं मधुसिक्थैः ससर्षपैः । (६३.१)
एभिः प्रलेपयेच्छस्त्रं लिप्तं चाग्नौ प्रतापयेत् ॥ (६३.२)

शिखिग्रीवाप्तवर्णाभं तप्तशीर्षं तथौषधम् । (६४.१)
ततस्तु विमलं ज्ञेयं पाययेच्छस्त्रम् उत्तमम् ॥ (६४.२)

सर्वलोहास्तु ये बाणा नाराचास्ते प्रकीर्तिताः । (६५.१)
पञ्चभिः पृथुलैः पक्षैर्युक्ताः सिध्यन्ति कर्हिचित् ॥ (६५.२)

नालिका लघवो बाणा नालयन्त्रेण चोदिताः । (६६.१)
युज्यन्ते दूरपातेषु दुर्गे युद्धेषु ते मताः ॥ (६६.२)

स्थानान्यष्टौ विधेयानि योजयेद्भिन्नकर्मणा । (६७.२)
सृष्ट्यः पञ्च समाख्याता व्यायाः पञ्च प्रकीर्तिताः ॥ (६७.३)

अग्रतोवामपादेन दक्षिणं जानु कुञ्चितम् । (६८.१)
आलीढे तु प्रकर्तकं तथा चैवानु कुञ्चितम् ॥ (६८.२)

दक्षिणं तु पुरस्ताद्वा दूरपाते विशिष्यते । (६९.१)
पादौ न विस्तरौ कार्यौ समौ हस्तप्रमाणतः ॥ (६९.२)

विशेषस्थानकं ज्ञेयं कूटलक्ष्यस्य भेदने । (७०.१)
समे पाते समौ पादौ निष्कम्पं च सुसंगतौ ॥ (७०.२)

असमे च पुरोभागे हस्तमात्रेण तं विदुः । (७१.१)
आकुञ्चितोरू द्वौ तत्र जानुभ्यां धरणीगतौ ॥ (७१.२)

व्यद्रवद्भुवम् आस्थाय स्थानकं दृढभेदनम् । (७२.१)
सव्यजानुगतं भूमौ दक्षिणं च सुकुञ्चितम् ॥ (७२.२)

सव्यं जानु नतं भूमौ दक्षिणं न च कुञ्चितम् । (७३.१)
अग्रतो यत्र दातव्यं तं विद्याद् गरुडं क्रमम् ॥ (७३.२)

पद्मासनं प्रसिद्धं तु उपविश्य यथाक्रमम् । (७४.१)
धन्विनाम् अत्र विज्ञेयं स्थानकं शुभलक्षणम् ॥ (७४.२)

पताका गुणमुष्टिश्च सिंहकर्णस्तथैव च । (७५.२)
मत्सरी काकतुण्डी च योजनीया यथाक्रमम् ॥ (७५.३)

दीर्घा तु तर्जनी यत्र ह्याश्रिताङ्गुष्ठमूलकम् । (७६.१)
पताका सा च विज्ञेया नालिका दूरमोक्षणे ॥ (७६.२)

तर्जनीं मध्यमामध्यम् अङ्गुष्ठो विशते यदि । (७७.१)
गुणमुष्टिस्तु सा ज्ञेया स्थूले नाराचमोचणैः ॥ (७७.२)

अङ्गुष्ठमध्यदेशं तु तर्जन्यग्रं शुभं स्थितम् । (७८.१)
सिंहकर्णः स विज्ञेयः दृढलक्ष्यस्य वेधने ॥ (७८.२)

अङ्गुष्ठनखमूले तु तर्जन्यग्रं सुसंस्थितम् । (७९.१)
मत्सरी सा च विज्ञेया सूक्ष्मलक्ष्यस्य भेदने ॥ (७९.२)

अङ्गुष्ठाग्रे तु तर्जन्या मुखं यत्र निवेशितम् । (८०.१)
काकतुण्डी च सा ज्ञेया स्थूललक्ष्येषु योजिता ॥ (८०.२)

सन्धानं त्रिविधं प्रोक्तम् अध ऊर्ध्वं समं यदा । (८१.१)
योजयेत् त्रिप्रकारं हि कार्येष्वपि यथाक्रमम् ॥ (८१.२)

अत्यन्तदूरपातित्वं समे लक्ष्यं सुनिश्चितम् । (८२.१)
दृढास्कोटं प्रकुर्वीत ऊर्ध्वं सन्धानयोजितम् ॥ (८२.२)

कैशिकः शरमूले च शरशूङ्गे च सात्त्विकः । (८३.२)
श्रवणे वत्सकर्णश्च ग्रीवायां भरतो भवेत् ॥ (८३.३)

अंसके स्कन्धनामा च व्यायाः पञ्च प्रकीर्तिताः । (८४.१)
कैशिकश्चित्रयुद्धेषु अधोलक्ष्येषु सात्त्विकः ॥ (८४.२)

वत्सकर्णश्च विज्ञेयः भरतो दृढभेदने । (८५.१)
दृढभेदे च दूरे च स्कन्धनामानम् उद्दिशेत् ॥ (८५.२)

लक्ष्यं चतुर्विधं ज्ञेयं स्थिरं चैव चलं तथा । (८६.१)
चलाचलं द्वयचलं इति भेदा यथाक्रमम् ॥ (८६.२)

आत्मानं सुस्थिरं कृत्वा लक्ष्यं चैव स्थिरं बुधः । (८७.१)
वेधयेत् त्रिप्रकारं तु स्थिरवेधी स उच्यते ॥ (८७.२)

चलं तु वेधयेद्यस्तु आत्मना स्थिरसंस्थितः । (८८.१)
चलवेधीति स प्रोक्त आचार्येण शिवेन वै ॥ (८८.२)

धन्वी तु चलते यत्र स्थिरलक्ष्ये समाहितः । (८९.१)
चलाचलं भवेत्तत्र स्वप्नमेयम् उदीरितम् ॥ (८९.२)

उभावेव चलौ यत्र लक्ष्यं वापि धनुर्धरः । (९०.१)
तद् विज्ञेयं द्वयचलं श्रमेणैव हि साधकः ॥ (९०.२)

श्रमेणाचलितं लक्ष्यं दूरं च बहुभेदनम् । (९१.१)
श्रमेण कठिना मुष्टिः शीघ्रसाधनकारिणी ॥ (९१.२)

श्रमेण चित्रवेधित्वं श्रमेण प्राप्यते जयः । (९२.१)
तस्माद् गुरुसमीपे तु श्रमः कार्यो विजानता ॥ (९२.२)

प्रथमं वामहस्तेन यः श्रमं कुरुते नरः । (९३.१)
तस्य चापक्रियासिद्धिर् जायते शीघ्रमेव च ॥ (९३.२)

वामहस्तेन संसिद्धे पश्चाद्दक्षिणम् आरभेत् । (९४.१)
उभाभ्यां च श्रमं कुर्यान्नाराचैश्च शरैस्तथा ॥ (९४.२)

वामेनैव श्रमं कुर्यात् सुसिद्धे दक्षिणे करे । (९५.१)
विशाखस्थानके चैव तथा व्याये च कैशिके ॥ (९५.२)

उदिते भास्करे लक्ष्यं पश्चिमायां निवेशयेत् । (९६.१)
अपराह्णे च कर्तव्यं लक्ष्यं पूर्वदिगाश्रितम् ॥ (९६.२)

उत्तरेण सदा कार्यं प्रशस्यमवरोधकम् । (९७.१)
संग्रामेण विना कार्यं न लक्ष्यं दक्षिणामुखम् ॥ (९७.२)

षष्टिकाण्डान्तरे लक्ष्यं ज्येष्ठलक्ष्यं प्रकीर्तितम् । (९८.१)
चत्वारिंशन्मध्यमं च विंशतिश्च कनिष्ठकम् ॥ (९८.२)

शराणां कथितं ह्येतन्नाराचानाम् अथो शृणु ॥ (९९.१)

चत्वारिंशत् षोडशैव नाराचानां भवेत्ततः । (१००.१)
चतुःशतैश्च काण्डानां यो हि लक्ष्यं समभ्यसेत् । (१००.२)
सूर्योदये चास्तकाले स ज्येष्ठो धन्विनां भवेत् ॥ (१००.३)

त्रिशतैर्मध्यमश्चैव द्विशताभ्यां कनिष्ठकः । (१०१.१)
लक्ष्यं च पुरुषोन्मानं कुर्याच्चन्द्रकसंयुतम् ॥ (१०१.२)

ऊर्ध्ववेधी भवेच्छ्रेष्ठो नाभिवेधी तु मध्यमः । (१०२.१)
यः पादवेधी लक्ष्यस्य स कनिष्ठतमो भवेत् ॥ (१०२.२)

अतः परं प्रवक्ष्यामि शराणां लक्षणं शुभम् । (१०३.१)
स्थूलं चैवाति सूक्ष्मं च ह्यपक्वपक्वभूमिजम् ॥ (१०३.२)

आद्रवं यद् विशीर्णं च वर्जयेद् ईदृशं शरम् । (१०४.१)
पूर्णग्रन्थि सुपक्वं च पाण्डुरं समयाहृतम् ॥ (१०४.२)

कठिनं वर्तुलं काण्डं गृह्णीयात्सुप्रदेशजम् । (१०५.१)
द्वौ हस्तौ मुष्टिहीनौ च दैर्घ्ये स्थौल्ये कनिष्ठिकाः ॥ (१०५.२)

विधेयाः शरमाणे तु चन्द्रेणाकर्षयेत्ततः । (१०६.१)
कङ्कहंसशशादानां मत्स्यादक्रौञ्चकोकिलाः । (१०६.२)
गृध्राणां च कुरङ्गानां पक्षा एतेषु शोभनाः ॥ (१०६.३)

एकस्यैव शरस्यैव चतुःपक्षांश्च कारयेत् । (१०७.१)
षडङ्गुलप्रमाणेण पक्षभेदं न कारयेत् । (१०७.२)
दशाङ्गुलमिताः पक्षाः शार्ङ्गचापस्य मार्गणे ॥ (१०७.३)

योज्या दृढाश्चतुःसंख्याः संनद्धाः स्नायुः तन्तुभिः । (१०८.१)
शराश्च त्रिविधा ज्ञेयाः स्त्रीपुंसकनपुंसकाः ॥ (१०८.२)

अग्रे स्थूला भवेन्नारी पश्चात्स्थूलो भवेन्नरः । (१०९.१)
समं नपुंसकं ज्ञेयं तल्लक्ष्यार्थं प्रशस्यते ॥ (१०९.२)

दूरपातं युवत्याश्च पुरुषो भेदने दृढम् । (११०.१)
नपुंसको लक्ष्यभेदी शराणां लक्षणं विदुः ॥ (११०.२)

अष्टमी च तथामा च वर्जनीया चतुर्दशी । (१११.१)
पूर्णिमा च दिनं यावद्वर्जयेच्चापकर्मसु ॥ (१११.२)

अकालगर्जितो देवो दुर्दिनं वा यदा भवेत् । (११२.१)
पूर्वकाण्डहते लक्ष्ये अनध्यायं प्रचक्षते ॥ (११२.२)

श्रमं च कुर्वतो यत्र भुजङ्गो यदि दृश्यते । (११३.१)
अथवा भज्यते चापं यदैव श्रमकर्मणि ॥ (११३.२)

त्रुट्यते वा गुणो यत्र प्रथमे बाणमोक्षणे । (११४.१)
श्रमं तत्र न कुर्वीत शस्त्रे मतिमतां वरः ॥ (११४.२)

क्रियाकपालान् वक्ष्यामि श्रमसाध्यान् सुविश्रुतान् । (११५.१)
येषां विज्ञानमात्रेण सिद्धिर्भवति नान्यथा ॥ (११५.२)

प्रथमं चापमारोप्य तूलिकां वल्लयेत् ततः । (११६.१)
स्थानकं तु ततः कुर्याद् बाणोपरि करं न्यसेत् ॥ (११६.२)

तोलनं धनुषः स्थैर्यं कर्तव्यं वामपाणिना । (११७.१)
आदानं तु ततः कृत्वा सन्धानं तु ततः परम् ॥ (११७.२)

लक्ष्यादाकृष्य चापेन भूमिवेधं न कारयेत् । (११८.१)
नमस्कुर्युः शिवं विघ्नराजं गुरुवरं रणे ॥ (११८.२)

याचितव्या गुरोराज्ञा बाणस्याकर्षणं प्रति । (११९.१)
प्राणवायुं प्रयतेन बाणेन सह पूरयेत् ॥ (११९.२)

कुम्भकेन समाकृष्य हुंकारेण विसर्जयेत् । (१२०.१)
इत्यभ्यासक्रिया कार्या धन्विना सिद्धिमिच्छता ॥ (१२०.२)

षण्मासात् सिध्यते मुष्टिः शराः संवत्सरेण तु । (१२१.१)
नाराचास्तस्य सिध्यन्ति यस्य तुष्येन्महेश्वरः ॥ (१२१.२)

पुष्पवद्धारयेद् बाणं सर्पवत् पीडयेद्धनुः । (१२२.१)
धनवच्चिन्तयेल्लक्ष्यं यदीच्छेत्सिद्धिमात्मनः ॥ (१२२.२)

क्रियामिच्छन्ति चाचार्या दूरम् इच्छन्ति भार्गवाः । (१२३.१)
राजानो दृष्टिम् इच्छन्ति लक्ष्यम् इच्छन्ति चेतरे ॥ (१२३.२)

जनानुरञ्जनं येन लक्ष्यघातात् प्रजायते । (१२४.१)
हीनेनापीषुणा तस्मात् प्रशस्तं लक्ष्यवेधनम् ॥ (१२४.२)

विशाखस्थानके स्थित्वा समं सन्धानमाचरेत् । (१२५.१)
गोपुच्छमुखबाणेन सिंहकर्णेन मुष्टिना ॥ (१२५.२)

आकर्षेत् कैशिकव्याये शिखामाचालयेत्ततः । (१२६.१)
पूर्वापरौ समौ कार्यौ समांसौ निश्चलौ करौ ॥ (१२६.२)

चक्षुषी स्पन्दयेन्नैव दृष्टिं लक्ष्ये नियोजयेत् । (१२७.१)
मुष्टिनाच्छादितं लक्ष्यं शरस्याग्रे नियोजयेत् ॥ (१२७.२)

मनोमुष्टिगतं ध्यात्वा ततः काण्डं विसर्जयेत् । (१२८.१)
स च लक्ष्येषु कर्तव्यो लक्ष्ये योधो जितश्रमः ॥ (१२८.२)

आदानं चैव तूणीरात् सन्धानं कर्षणं तथा । (१२९.१)
क्षेपणं च त्वरायुक्तो बाणस्य कुरुते तु यः ॥ (१२९.२)

नित्याभ्यासवशात् तस्य शीघ्रसाधनता भवेत् ॥ (१३०.०)

प्रत्यालीढे कृते स्थाने अधः सन्धानमाचरेत् । (१३१.१)
मुष्ट्या पताकया बाणं स्त्रीसंज्ञं दूरपातनम् ॥ (१३१.२)

दर्दुरवद् उपस्थाय ह्यूर्ध्वं सन्धानमाचरेत् । (१३२.२)
स्कन्धव्यायेन वज्रस्य मुष्ट्या पुंमार्गणे न च । (१३२.३)
अत्यन्तसौष्ठवं बाह्वोर् जायते दृढभेदिता ॥ (१३२.४)

सूचीमुखा मीनपुच्छा भ्रामरी च तृतीयका । (१३३.१)
शराणां गतयस्तिस्रः प्रशस्ताः कथिताः बुधैः ॥ (१३३.२)

सूचीमुखा गतिस्तस्य सायकस्य प्रजायते । (१३४.१)
पत्रं विलोकितव्यं च अथवा हीनपत्रकम् ॥ (१३४.२)

कर्कशे न तु चापेन यत् कृष्येद्धीनमुष्टिना । (१३५.१)
मत्स्यपुच्छा गतिस्तस्य सायकस्य प्रकीर्तिता ॥ (१३५.२)

भ्रामरी कथिता ह्येषा सद्भिश्च श्रमकर्मणि । (१३६.१)
ऋजुत्वे न विना याति क्षेप्यमानस्तु सायकः ॥ (१३६.२)

वामगा दक्षिणा चैव ऊर्ध्वगाधोगता तथा । (१३७.१)
चतस्रो गतयः प्रोक्ताः बाणस्खलनहेतवः ॥ (१३७.२)

कम्पते गुणमुष्टिस्तु मार्गणस्य तु पृष्ठतः । (१३८.१)
संमुखीस्याद् धनुर्मुष्टिस्तदा वामे गतिर्भवेत् ॥ (१३८.२)

ग्रहणं शिथिलं यस्य ऋजुत्वेन विवर्जितम् । (१३९.१)
पार्श्वे तु दक्षिणं याति सायकस्य न संशयः ॥ (१३९.२)

ऊर्ध्वं भवेच्चापमुष्टिर् गुणमुष्टिरधो भवेत् । (१४०.१)
समुक्तो मार्गणो लक्ष्यादूर्ध्वं याति न संशयः ॥ (१४०.२)

आकर्षणे चैव बाणस्य चापे मुष्टिरधो भवेत् । (१४१.१)
गुणमुष्टिर् भवेदूर्ध्वं तदाधोगामिनी गतिः ॥ (१४१.२)

लक्ष्यबाणाग्रदृष्टीणां संहतिस्तु यदा भवेत् । (१४२.१)
तदानीम् उज्झितो बाणो लक्ष्यान्न चलति ध्रुवम् ॥ (१४२.२)

निर्दोषः शब्दहीनश्च सममुष्टिद्वयोज्झितः । (१४३.१)
भिनत्ति दृढभेद्यानि सायको नात्र संशयः ॥ (१४३.२)

आकृष्टस्तेजितो यश्च विशुद्धो गाढमुज्झितः । (१४४.१)
नरो नागाश्च कायेषु न स तिष्ठति मार्गणः ॥ (१४४.२)

यस्य तृणसमा बाणा यत् संधानसमं धनुः । (१४५.१)
यस्य प्राणसमा मौर्वी स धन्वी धन्विनां वरः ॥ (१४५.२)

अयश्चर्मघटश्चैव मृत्पिण्डश्च चतुष्टयम् । (१४६.१)
यो भिनत्ति न तस्येषुर् वज्रिणापि च बाध्यते ॥ (१४६.२)

सार्धाङ्गुलप्रमाणेन लोहपात्राणि कारयेत् । (१४७.१)
तानि भित्त्वैकबाणेन दृढघाती भवेन्नरः ॥ (१४७.२)

चतुर्विंशतिचर्माणि यो भिनत्तीषुणा नरः । (१४८.१)
तस्य बाणो गजेन्द्रस्य कायं निर्भिद्य गच्छति ॥ (१४८.२)

भ्राम्यज्जले घटो वेध्यः चक्रे मृत्पिण्डकं तथा । (१४९.१)
भ्रमन्तं भेदयेद्यस्तु दृढभेदी स उच्यते ॥ (१४९.२)

अयस्तु काकतुण्डेन चर्म चारामुखेन हि । (१५०.१)
मृत्पिण्डं च घटं चैव विध्येत्सूचीमुखेन वै ॥ (१५०.२)

बाणभङ्गकरावर्त्तं काष्ठच्छेदनम् एव च । (१५१.१)
बिन्दुकं चैव युगकं यो वेत्ति स जयी भवेत् ॥ (१५१.२)

लक्ष्यस्थाने धृतं काण्डं संमुखं छेदयेत्ततः । (१५२.१)
किंचिन्मुष्टिं विधाय स्वां तिर्यग् द्विप्हलकेषुणा ॥ (१५२.२)

संमुखं बाणम् आयान्तं तिर्यग्बाणं न संचरेत् । (१५३.१)
प्राप्तं शरेण यश्छिन्द्याद् बाणच्छेदी स उच्यते ॥ (१५३.२)

काष्ठे ऽश्वकेशं संयम्य तत्र बद्ध्वा वराटिकाम् ॥ (१५४.१)
हस्तेन भ्राम्यमाणं च यो हन्ति स धनुर्धरः ॥ (१५५.०)
पञ्चविद्धं न्यसेच्छस्त्रं शुद्धं बन्धुकपुष्पवत् । (१५६.१)
हास्तिकं बिन्दुकं यस्तु चित्रभेदी स उच्यते ॥ (१५६.२)

लक्ष्यविद्धं काष्ठं क्षिप्रं दूरमूरूर्द्ध वपुः स्थितम् । (१५७.१)
स्वयं प्राप्तशरं पृष्ठे ऊर्ध्वपुच्छमुखेन हि ॥ (१५७.२)

यो हन्ति शरयुग्मेन शीघ्रसंधानयोगतः । (१५८.१)
सः स्याद्धनुर्भृतां श्रेष्ठः पूजितः सर्वपार्थिवैः ॥ (१५८.२)

लक्ष्यस्थाने न्यसेत् काष्ठं साद्रं गोपुच्छसन्निभम् । (१५९.१)
यः छिन्द्यात्तं क्षुरप्रेण काष्ठवेधी स यायते ॥ (१५९.२)

लक्ष्यस्थाने न्यसेत् कांस्यं पात्रं हस्तद्वयान्तरे । (१६०.१)
ताडयेच्छर्कराभिस्तं शब्दः संजायते यदा ॥ (१६०.२)

यत्रोपलभ्यते शब्दः सम्यक् तं तत्र चिन्तयेत् । (१६१.१)
कर्मेन्द्रियमनोयोगाल्लक्ष्यं निश्चयतां नयेत् ॥ (१६१.२)

पुनः शर्कया भिन्नं ताडयेच्छब्दहेतवे । (१६२.१)
ततो बाणेन तं हन्यात् तदवधानेन धीमता । (१६२.२)
एतच्च दुष्करं कर्म भाग्यात् कस्यापि सिध्यति ॥ (१६२.३)

अथ श्रमविधिं कुर्याद् यावत् सिद्धिः प्रजायते । (१६३.१)
श्रमे सिद्धे च वर्षासु नैव ग्राह्यं धनुष्करे ॥ (१६३.२)

पूर्वाभ्यासस्य शस्त्राणाम् अविस्मरणहेतवे । (१६४.१)
मासद्वयं श्रमं कुर्यात् प्रति वर्षं शरदृतौ ॥ (१६४.२)

जाते चाश्वयुजे मासि नवमी देवता दिने । (१६५.१)
पूजयेद् ईश्वरीं चण्डीं गुरुं शास्त्राणि वाजिगः ॥ (१६५.२)

विप्रेभ्यो दक्षिणान्दद्यात् कुमारीः पूजयेत्ततः । (१६६.१)
देव्यै पशुबलिं दद्याद्गीतवादित्रमङ्गलैः ॥ (१६६.२)

शूलेन पाहि नो देवि पाहि खड्गेण चाम्बिके । (१६७.१)
घण्टास्वनेन नः पाहि चापज्यानिःस्वनेन च ॥ (१६७.२)

प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे । (१६८.१)
भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरि ॥ (१६८.२)

सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते । (१६९.१)
यानि चात्यर्थघोराणि तै रक्षास्मान् तथा भुवम् ॥ (१६९.२)

ततस्तु साधयेन्मन्त्रान् वेदोक्तान् आगमोदितान् । (१७०.१)
अस्त्राणां कर्मसिद्ध्यर्थं जपहोमविधानतः ॥ (१७०.२)

ब्राह्मं नारायणं शैवमैन्द्रं वायव्यवारुणे । (१७१.१)
आग्नेयं वापि चास्त्राणि गुरुदत्तानि साधयेत् ॥ (१७१.२)

मनोवाक्कर्मभिर् व्याप्तं लब्धास्त्रेण शुचिष्मता । (१७२.१)
अपात्रम् असमर्थं च दहन्त्यस्त्राणि पुरुषम् ॥ (१७२.२)

प्रयोगं चोपसंहारं यो वेत्ति स धनुर्धरः । (१७३.१)
सामान्ये कर्मणि प्राज्ञो नैवास्त्राणि प्रयोजयेत् ॥ (१७३.२)

हस्तार्के लाङ्गलीकन्दं गृहीत्वा तस्य लेपतः । (१७४.१)
शूरस्यापि रणे पुंसो दर्पं हरति तत्क्षणात् ॥ (१७४.२)

गृहीत्वा योगनक्षत्रैरपामार्गस्य मूलकम् । (१७५.१)
लेपमात्रेण वीराणां सर्वशस्त्रनिवारणम् ॥ (१७५.२)

अधःपुष्पी शङ्खपुष्पी लज्जालुः गिरिकर्णिका । (१७६.१)
नीलिनी सहदेवी च पत्रमौञ्जार्कयोस्तथा ॥ (१७६.२)

विष्णुक्रान्ता च सर्वासां जटा ग्राह्या रवेर्दिने । (१७७.१)
बद्ध्वा भुजे विलेपाद् वा काये सर्वास्त्रापवारकः ॥ (१७७.२)

सर्वव्याघ्रादिसत्त्वाणां भूतादीणां न जायते । (१७८.१)
भीतिस्तस्य न तिर्यग्भ्यो मातरोऽष्टौ शरीरके ॥ (१७८.२)

गृहीतं हस्तनक्षत्रे चूर्णं छुछुन्दरी भवेत् । (१७९.१)
तत्प्रभावाद्गजः पुंसां संमुखेनैति निश्चितम् ॥ (१७९.२)

छुछन्दरीश्रीप्हलस्य चूर्णम् आलिप्य गात्रके । (१८०.१)
आघ्राय गन्धं द्विरदश्चातिमत्तो मदं त्यजेत् ॥ (१८०.२)

पुष्यार्कोत्पाटिते मूले पूगेन मुखसंस्थिते । (१८१.१)
देहं स्प्हुटति नोतीक्ष्णं मण्डलाग्रे रणे नॄणाम् ॥ (१८१.२)

गाम्भार्या उत्तरं मूलं मुखस्य संमुखागतम् । (१८२.१)
शस्त्रौघं वारयेत्तत्र पुष्यार्के विधिनोद्धृतम् ॥ (१८२.२)

शुभ्रायाः शरपुङ्खाया जटा नीली जटा तथा । (१८३.१)
भुजे शिरसि वक्त्रे वा स्थिता शस्त्रनिवारिका ॥ (१८३.२)

भूताहिचोरभीतिघ्नी गृहीत्वा पुष्यभास्करे ॥ (१८४.०)
प्रथमं क्रियते स्नानं श्वेतवस्त्रावृतो भवेत् ॥ (१८५.१)

शस्त्राणि चापि सम्पूज्य रक्षामन्त्रं जपेत्ततः । (१८६.१)
सेनापतिं गजारोहान् अश्वारोहांश्च सर्वतः ॥ (१८६.२)

मुख्यान् अन्यानपि धनैर् वस्त्रैश्च परिधापयेत् । (१८७.१)
पूर्वं सारथिमारोप्य रथे सज्जेत् ततः स्वयम् ॥ (१८७.२)

चतुःशतैश्च काण्डाणां तूणीरं परिपूरयेत् । (१८८.१)
शङ्खं चक्रं गदां शक्तिं मुद्गरं परिघं तथा ॥ (१८८.२)

नाराचं परशुं कुन्तं पट्टिशादीनि संन्यसेत् । (१८९.१)
नरस्थानगजाष्टस्य स्वयं समरम् आरोहेत् ॥ (१८९.२)

कटिबद्धैकतूणीरः खड्गशक्तिधनुर्धरः । (१९०.१)
ततो ऽर्जुनस्य नामाणि विष्णुस्मरणपूर्वकम् ॥ (१९०.२)

जपेत्ततः प्रतिष्ठेत चतुरङ्गबलैर् युतः ॥ (१९१.०)
मङ्गलं भगवान् विष्णुर्मङ्गलं गरुडध्वजः । (१९२.१)
मङ्गलं पुण्डरीकाक्षो मङ्गलायतनं हरिः ॥ (१९२.२)

लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः । (१९३.१)
येषाम् इन्दीवरश्यामो हृदयस्थो जनार्दनः ॥ (१९३.२)

अर्जुनः प्हाल्गुनो जिष्णुः किरीटी श्वेतवाहनः । (१९४.१)
बीभत्सुर् विजयः कृष्णः सव्यसाची धनञ्जयः ॥ (१९४.२)

इत्यर्जुनस्य नामाणि संस्मरेत् प्रयतो नरः ॥ (१९५.०)
खद्वयं सुरर्द्धीन्दुनेत्रैर् अक्षौहिणी मता । (१९६.१)
अक्षौहिणी प्रदिष्टा च रथाणां वर्मधारिणाम् ॥ (१९६.२)

संख्यागणिततत्त्वज्ञैः सहस्राण्य् एकविंशति । (१९७.१)
उपर्यष्टौ शतान्याहुः तथा भूपश्च सप्ततिः ॥ (१९७.२)

गजाणां च परिमाणमेतदेव विनिर्दिशेत् । (१९८.१)
पञ्चषष्टिसहस्राणि षट्शतानि दशोपरि ॥ (१९८.२)

हयाणां च परिमाणम् एतद् एव सुनिश्चितम् । (१९९.१)
ज्ञेयं लक्षं पदातीनां सहस्राणि तथा नव ॥ (१९९.२)

शतानि त्रीणि पञ्चाशच्छूराणां शस्त्रधारिणाम् । (२००.१)
पञ्चषष्टिसहस्राणि तथाश्वाणां शतानि च ॥ (२००.२)

दशोत्तराणि गायन्ति संख्यातत्त्वविदो जनाः ॥ (२०१.०)
महाक्षौहिणी कार्या रथाकोटिभताः स्मृताः ॥ (२०२.१)
सप्तत्रिंशच्च लक्षाणि गीयन्ते तत्त्ववेदिभिः । (२०३.१)
द्वादशैव सहस्राणि तथा शतचतुष्टयम् ॥ (२०३.२)

प्रोक्तानि नवतिस् तद्वदेवमेव गजा मताः । (२०४.१)
अश्वाश्चतुःकोटिमिता लक्षं चैकादशैव तु ॥ (२०४.२)

सप्तत्रिंशत्सहस्राणि तथा शतचतुष्टयम् । (२०५.१)
सप्तभिश्चैव संख्याताः प्रोच्यन्ते पत्तयस्तथा ॥ (२०५.२)

षट्कोट्यो ऽशीतिलक्षाणि पञ्चाधिकशतान्यपि । (२०६.१)
द्विषष्टिं च सहस्राणि तथा शतचतुष्टयम् ॥ (२०६.२)

अग्रे रथा गजाः पृष्ठे तत्पृष्ठे च पदातयः । (२०७.१)
पार्श्वयोश्च हयाः कार्या व्यूहसंख्याविधिः स्मृतः ॥ (२०७.२)

अर्धचन्द्रं च चन्द्रं च शकटं मकरं तथा । (२०८.१)
कमलं श्रेणिकां गुल्मं व्यूहान् एवं प्रकल्पते ॥ (२०८.२)

ये राजपुत्राः सामन्ताः आप्ताः सेवकजातयः । (२०९.१)
रक्षणीयाः प्रयत्ने न सदैव हितकारिणः ॥ (२०९.२)

यस्मिन् रणे यः पुरुषः प्रधानः स सर्वयत्नेन हि रक्षणीयः । (२१०.१)
तस्मिन् विनष्टे किल सर्वभूते सर्वेऽपि योधास्त्वबला भवन्ति ॥ (२१०.२)

संग्रामसारभूतं च शास्त्रज्ञम् अनुवासि चेत् । (२११.१)
अपि च स्वश्रियै सैन्यं वृथेयं मुण्डमण्डली ॥ (२११.२)

अपि पञ्चशताः शूरा गृह्णन्ति महतीं चमूम् । (२१२.१)
अथवा पञ्च षट्सप्त विजयन्ते ऽनुवर्तिनः ॥ (२१२.२)

धनुःसंहतिशुद्धात्मा राजानो मुखदुर्बलाः । (२१३.१)
आ कर्णपलिता योधाः संग्रामे जयवादिनः ॥ (२१३.२)

परस्परानुरक्ता ये योधाः शार्ङ्गधनुर्धराः । (२१४.१)
युद्धज्ञास्तु रथारूढास्ते जयन्ति रणे रिपून् ॥ (२१४.२)

एकः कापुरुषादीर्णो दारयेन्महतीं चमूम् । (२१५.१)
तद्दीर्णम् अनुदीर्यन्ते योधाः शूरतमा अपि ॥ (२१५.२)

दुर्निवारतया चैव समग्रां महतीं चमूम् । (२१६.१)
अपामिव महावेगस् त्रासयेत् कुशलानपि ॥ (२१६.२)

अपि भग्नेषु सैन्येषु विद्रुतेषु निवर्तते । (२१७.१)
पदे पदेऽश्वमेधस्य लभते प्हलमक्षयम् ॥ (२१७.२)

द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ । (२१८.१)
परिव्राड् योगयुक्तश्च रणे चाभिमुखो हतः ॥ (२१८.२)

यत्र यत्र हतः शूरः शत्रुभिः परिवेष्टितः । (२१९.१)
अक्षयं लभते लोकं यदि दैन्यं न भाषते ॥ (२१९.२)

मूर्छितं नैव विकलं नाशस्त्रं नान्ययोधिनम् । (२२०.१)
पलायमाणं शरणं गतं चैव न हिंसयेत् ॥ (२२०.२)

भीरुः पलायमाणोऽपि न हन्तव्यो बलीयसा । (२२१.१)
कदाचिच्छूरतां याति शरणे कृतविस्मृतः ॥ (२२१.२)

सम्प्रूज्य महतीं सेनां चतुरङ्गां महीपतिः । (२२२.१)
व्यूहयित्वा परान् शूरान् स्थापयेज्जयलिप्सया ॥ (२२२.२)

अल्पायां वा महत्यां वा सेनायामिति निश्चयः । (२२३.१)
हर्षो योधगणस्यापि जयलक्षणम् उच्यते ॥ (२२३.२)

अन्वेवं वायवो यान्ति दक्षिणे च वयांसि च । (२२४.१)
अनुसर्वेऽपि पिशिता यस्य यान्ति रणे जयः ॥ (२२४.२)

अपूर्णं चैव मन्तव्यं सम्पूर्णेनैव सिध्यति । (२२५.१)
तस्माद्धैर्यं प्रकर्तव्यं हन्तव्या परवाहिनी ॥ (२२५.२)

जीवल्लक्ष्मी मृते स्वर्गः कीर्तिश्च धरणीतले । (२२६.१)
तस्माद्धैर्यं विधातव्यं हन्तव्या परवाहिनी ॥ (२२६.२)

इति श्रीमत्सदाशिवप्रोक्तो धनुर्वेदः समाप्तः ॥ (२२७.०)

स्रोतः सम्पाद्यताम्

"https://sa.wikisource.org/w/index.php?title=धनुर्वेदः&oldid=61798" इत्यस्माद् प्रतिप्राप्तम्