धर्मशर्माभ्युदयम्
पण्डितदुर्गाप्रसादः
१८९९

काव्यमाला महाकविश्रीहरिचन्द्रकृतं धर्मशर्माभ्युदयम् । प्रथमः सर्गः । श्रीनाभिसूनोश्चिरमङ्घ्रियुग्मनखेन्दवः कौ मुदमेधयन्तु । यत्रानमन्नाकिनरेन्द्रचक्रचूडाश्मगर्भप्रतिबिम्भमेणः ॥ १ ॥ चन्द्रप्रभं नौमि यदीयभासा नूनं जिता चान्द्रमसी प्रभा सा । नो चेत्कथं तर्हि नदङ्घ्रिलग्नं नखच्छलादिन्दुकुटुम्बमासीत् ॥ २ ॥ दुरक्षरक्षोदधियेव धात्र्यां मुहुर्महर्घष्टललाटपट्टाः । यं स्वर्गिणोऽनल्पगुणं प्रणेमुम्तनोतु नः शर्म स धर्मनाथः ॥ ३ ॥ सप्रत्यपापाः सा इति प्रतीत्यै वह्नाविवाहाय मिथः प्रविष्टाः । यत्कायकान्तौ कनकोज्ज्वलायां सुरा विरेजुम्तमुपैमि शान्तिम् ॥ ४ ॥ भूयादगाधः स विवोधवार्धिवीरस्य रत्नत्रयलब्धये वः । स्फुरत्पयोबुद्बुदविन्दुमुद्रामिदं यदन्तस्त्रिजगत्तनोनि ॥ ५ ॥ १ अस्य कायस्थवशमुक्तामणदिगम्बग्नमतानुयायिन भाद्रदेवसूनो श्रीहरिचन्द्रम हाकवे समन्य सभ्य न ज्ञायते हरिचन्द्रद्वय तावत्प्रमिदम--'पदबन्धोज्ज्वलो हारी कृतवर्णक्रमस्थिति । भट्टारहरिचन्द्रस गयबन्धो नृपायते ॥' इति हर्षचरितारम्भ बाणभटेन वर्णित प्रथम , विश्वप्रकाशकोषकतुर्महे वरम्य पूर्वपुरुषश्वरकसहिताटीकाकार साहमाइनृपते प्रधानवयो द्वितीय अनयोरेवायमायेकनरम्नृतीयो वेति सदेह कि त्वयमपि (मंगमा युदयकर्ता) स्वकवित्वाच्या माघादिप्राचीनमहाकविकक्षामारो- हति, तस्मानार्वाचीन करिमनयां प्रथमे जवनिकान्तर एकत्र विदूषकोक्तिव्याजेन राजशेखरोऽपि हरिचन्द्रकवि म्मरति एकविशतिमन्मके चास्मिन्महाकाव्ये नगरार्ण- वशलनुपुष्पावचयजलविहारादिकाव्यवणनीयवानुवर्णनपुर मर चतुर्विंशतिजन तीर्थकरेषु पञ्चदशतीर्थकरस्य धमनाथस्य जन्मप्रभृति निर्वाणान्त चरित वर्णितमम्नि २ को प्रथि व्याम , मुद हर्षम् , (अय च) कौमुद कुमुदसमृहम् ३ वर्तत इति शेष ४ अष्टम तीर्थ- करम् ५ षोडश तीर्थ करम ६ चतुर्विंशतितम तीर्थकरम् ७ सम्यग्दर्शनम्, सम्यग्ज्ञा- गम्, सम्यक्चारित्र चति जिनमते गनत्रयमुच्यते रत्नलब्धये ममुद्रमेवा समुचितव २ काव्यमाला। निर्मार्जिते यत्पदपङ्कजानां रजोभिरन्तः प्रतिबिम्बितानि । जना स्वचेतोमुकुरे जगन्ति पश्यन्ति तान्नौमि मुदे जिनेन्द्रान् ॥ ६ ॥ रत्नत्रयं तज्जननार्तिमृत्युसर्पत्रयीदर्पहरं नमामि । यदूषणं प्राप्य भवन्ति शिष्टा मुक्तेर्विरूपाकृतयोऽप्यभीष्टाः ॥ ७ ॥ त्वद्भक्तिनम्रं जनमाश्रयावः साक्षादिति प्रष्टुमिवोपकर्णम् । चन्द्राश्मताटङ्कपदात्पदार्थौ यस्याः स्थितौ ध्यायत भारतीं ताम् ।।८।। जयन्ति ते केऽपि महाकवीनां स्वर्गप्रदेशा इव वाग्विलासाः । पीयूषनिप्यन्दिषु येषु हर्ष केषां न धत्ते सुरसार्थलीला ॥ ९ ॥ लब्धात्मलाभा बहुधान्यवृद्ध्यै निर्मूलयन्ती घेननीरसत्वम् । सा मेघसंघातमपतेपङ्का शरत्सतां संसदपि क्षिणोतु ॥ १० ॥ वियत्पथप्रान्तपरीक्षणाद्वा तदेतदम्भोनिधिलङ्का नाद्वा । मात्राधिकं मन्दधिया मयापि यद्वर्ण्यते जैनचरित्रमत्र ।। ११ ।। पुराणपारीणमुनीन्द्रवाग्भिर्यद्वा ममाप्यत्र गतिर्भवित्री । तुङ्गेऽपि सिध्यत्य॑धिरोहिणीभिर्यद्वामनस्यापि मनोभिलाषः ॥ १२ ॥ श्रीधर्मनाथस्य तत स्वशक्त्या किंचिच्चरित्रं तरलोऽपि वक्ष्ये । वक्तुं पुनः सम्यगिदं जिनस्य क्षमेत नो वागधिदेवतापि ॥ १३ ॥ अर्थे हृदिस्थेऽपि कविर्न कश्चिन्निग्रन्थिगीर्गुम्फविचक्षणः स्यात् । जिह्वाञ्चलस्पर्शमपास्य पातुं श्वा नान्यथाम्भो धनमप्यवैति ।। १४ ।। हृद्यार्थवन्ध्या पदबन्धुरापि वाणी बुधानां न मनो धिनोति । न रोचते लोचनवल्लभापि स्नुहीक्षरत्क्षीरसरिन्नरेभ्यः ॥ १५ ॥ वाणी भवेत्कस्यचिदेव पुण्यैः शब्दार्थसंदर्भविशेषगर्भा । इन्दुं विनान्यस्य न दृश्यते द्युत्तमोधुनाना च सुधाधुनी च ॥ १६ ॥ १ चन्द्रकान्तमणिनिर्मितकर्णभूषणविशेषव्याजात् २ सुर सार्थलीला देवसमूह. कीडा, (पक्षे) मुरमा अर्थलीला ३ बहुधा अन्यवृद्धथै , (पक्षे) बहु धान्यबद्धथै ४ घन नीरसत्यमत्यन्तरसशुन्यत्वम् , (पक्षे) घन-नीर सत्त्व मेघजलास्तित्वम् ५ मे अघस घात पापसमूहम् , (यक्षे) मेघ सघातम् ६ निष्पापा, विगतकर्दमा च ७ किंचिद- धिकम् ८ "नि श्रेणिस्त्यधिरोहिणी' इत्यमर ९ 'धुत्'शब्द किरणवाचक १ सर्ग.] धर्मशर्माभ्युदयम् । श्रव्येऽपि काव्ये रचिते विपश्चित्कश्चित्सचेताः परितोषमेति । उत्कोरकः स्यात्तिलकश्चलाक्ष्याः कटाक्षभावैरपरे न वृक्षाः ॥१७॥ परस्य तुच्छेऽपि परोऽनुरागो महत्यपि स्वस्य गुणे न तोपः । एवंविधो यस्य मनोविवेकः किं प्रार्थ्यते सोऽत्र हिताय साधुः ॥ १८ ॥ साधोर्विनिर्माणविधौ विधातुश्च्युताः कथंचित्परमाणवो ये । मन्ये कृतास्तैरुपकारिणोऽन्ये पाथोदचन्द्रद्रुमचन्दनाद्याः ॥ १९ ॥ पराङ्मुखोऽप्येष परोपकारव्यापारभारक्षम एवं साधुः । किं दत्तपृष्ठोऽपि गरिष्ठधात्रीप्रोद्धारकर्मप्रवणो न कूर्मः ॥ २० ॥ निसर्गशुद्धस्य सतो न कश्चिच्चेतोविकाराय भवत्युपाधि । त्यक्तस्वभावोऽपि विवर्णयोगात्कथं तटस्य स्फटिकोऽस्तु तुल्यः ॥२१॥ खल विधात्रा मृजना प्रयत्नातिकिं सज्जनम्योपकृतं न तेन । ऋुते तमांसि द्युमणिर्मणिर्वा विना न काचैः स्वगुणं व्यनक्ति ।। २२ ।। दोषानुरक्तस्य खलस्य कम्याप्युलूकपोतस्य च को विशेषः । अह्नीव सत्कान्तिमिति प्रबन्धे मलीमसं केवलमीक्षते यः ॥ २३ ॥ न प्रेम नम्रेऽपि जने विधत्से मित्रेऽपि मैत्रीं खल नातनोषि । तदेष किं नेप्यति न प्रदोषस्त्वामञ्जसा सायमिवावसानम् ॥ २४ ।। श्रव्य भवेत्काव्यदूषणं यन्न निर्गुणं क्वापि कदापि मन्ये । गुणार्थिनो दूषणमाददानस्तत्सज्जनाद्दुर्जन एव साधुः ॥ २६ ।। अहो खलस्यापि महोपयोगः स्नेहद्रुहो यत्परिशीलनेन । आ कर्णमापूरितपात्रमेताः क्षीरं क्षरन्त्यक्षतमेव गावः ॥ २६ ॥ आः कोमलालापपरेऽपि मा गा प्रमादमन्तः कठिने खलेऽस्मिन् । शेवालशालिन्युपले छलेन पातो भवेत्केवलदुःखहेतुः ॥ २७ ॥ आदाय शब्दार्थमलीमसानि यहुर्जनोऽसौ वदने दधाति । तेनैव तस्याननमेव कृष्णं सतां प्रबन्धः पुनरुज्ज्वलोऽभूत् ।। २८ ।। १ दोषः , (पक्षे) रात्रिः, २ प्रकृष्टो दोषः, रजनीमुखं च, ३ दुर्जनः , तैलरहितस्तिलसपादिपिण्याकश्च काव्यमाला। गुणानधस्तान्नयतोऽप्यसाधुपद्मस्य यावद्दिनमस्तु लक्ष्मी । दिनावसाने तु भवेद्गतश्री राज्ञ सभासनिधिमुद्रितास्यः ॥ २९ ॥ उच्चासनस्थोऽपि सत्ता न किचिन्नीच स चित्तेषु चमत्करोति । स्वर्णाद्रिशृङ्गाममधिष्ठितोऽपि काको वराक. खलु काक एव ॥ ३० ॥ वृत्तिर्मरुद्वीपवतीव साधो खलस्य वैवस्वतसोदरीव । तयोः प्रयागे कृतमज्जनो न प्रबन्धबन्धुर्लभता विशुद्धिम् ॥ ३१ ॥ अथास्ति जम्बूपपदः पृथिव्या द्वीपप्रभान्यकृतनाकिलोकः । यो वृद्धया मध्यगतोऽपि लक्ष्म्या द्वीपान्तराणामुपरीव तस्थौ ॥ ३२ ॥ क्षेत्रच्छदै पूर्व विदेहमुख्यैरध स्थितस्फारफणीन्द्रदण्ड । चकास्ति रुक्माचलकर्णिको य. सद्म श्रिय पद्म इवाब्धिमध्ये ॥३३॥ द्वीपेषु य कोऽपि करोति गर्व मयि स्थितेऽप्यस्तु स मे पुरस्तात् । इतीव येन ग्रहकङ्कणाङ्को हस्तो व्युदस्तस्त्रिदशाद्रिद्रम्भात् ॥ ३४ ॥ पश्यन्तु संसारतमस्यपारे सन्तश्चतुर्वर्गफलानि सर्वे । इतीव यो द्विद्विदिवाकरेन्दुव्याजेन धत्ते चतुर प्रदीपान् ॥ ३५ ॥ अवाप्य सर्पाधिपमौलिमैत्री छत्रद्युति तन्वति यत्र वृत्ते । धत्ते समुत्तेजितशातकुम्भकुम्भप्रभा काचन काञ्चनाद्रि. ॥ २६ ॥ सम्यक्त्वपाथेयमवाप्यते चेदृजुस्तदम्मादपवर्गमार्ग । इतीव लोके निगदत्युदस्तशैलेन्द्रहम्नाङ्गुलिसज्ञया य ॥ ३७ ॥ पातु बहिर्मारुतमङ्कसुप्तलक्ष्मीलसत्कुङ्कुमपङ्कपीत. । यदन्तरुद्भिद्य महीमहीनामभ्युत्थितो नाथ इवास्ति मेरु ॥ ३८ ॥ चकास्ति पर्यन्तपतत्पतगे यत्राम्बर दीप इवोपरिष्टात् । कयापि शृङ्गाग्रघनाञ्जनाना जिघृक्षया पात्रमिव प्रदत्तम् ॥ ३९ ।। द्यावापृथिव्यो पृथुरन्तरे य कृतस्थिति स्थूलरथाङ्गकान्त्यो । युगानुकारिध्रुवमण्डलश्रीरूर्ध्वों रथस्याक्ष इवावभाति ॥ ४० ॥ १ चन्द्रस्य च २ मरुना देवाना द्वीपवती नदी (गङ्गा) ३ यमुना मुनासगमरूपे तीर्थविशेषे ५ जैनमते सूर्यचन्द्रा नक्षत्राणि च द्विगुणानि सन्ति 'द्वा हो रवीन्दू भगणौ च तद्वदेकान्तरौ ताबुदय व्रजेताम् । यदब्रुवन्नेवमनम्बराद्या ब्रवी. म्यतस्तान्प्रति युक्तियुक्तम् ॥' इति सिद्धान्तशिरोमणी गोलाध्याये श्रीभास्कराचार्य ४ गङ्गाय१ सर्ग] धर्मशर्माभ्युदयम् । तद्दक्षिणं भारतमस्ति तस्य क्षेत्रं जिनेन्द्रागमवारिसेकात् । स्वर्गादिसंपत्फलशालि यत्र निप्पद्यते पुण्यविशेषसस्यम् ॥ ४१ ॥ यत्सिन्धुगङ्गान्तरवर्तिनोञ्चै शैलेन भिन्न विजयार्धनामा । भारेण लक्ष्म्या इव दुर्वहेन बभूव षट्खण्डमखण्डशोभम् ॥ ४२ ॥ तत्रार्यखण्ड त्रिदिवात्कथंचिच्च्युतं निरालम्बतयेव खण्डम् । ललामवन्मण्डयति स्वकान्त्या देशो महानुत्तरकोशलाख्यः ॥ १३ ॥ अनेकपद्माप्सरस. समन्ताद्यस्मिन्नसंख्यातहिरण्यगर्भा। अनन्तपीताम्बरधामरम्या ग्रामा जयन्ति त्रिदिवप्रदेशान् ॥४४॥ यन्त्रप्रणालीचषकैरजस्रमापीय पुण्ड्रेक्षुरसासवौघम् । मन्दानिलान्दोलितशालिपूर्णा विधूर्णते यत्र मदादिवोवीं ॥ ४५ ॥ विस्तार्य तारा रभसान्निशि द्यौ पुन पुनर्यद्दिवसे प्रमार्ष्टि । उत्पुण्डरीकै किल यत्सरोमि स्व लब्धसाम्य तदमन्यमाना ॥ ४६॥ उत्पालिकाभ्रूस्तिमितैस्तडागचक्षु सहस्ररिव विस्मयेन । यद्वैभव भूरपि वीक्ष्य धत्ते रोमाञ्चमुद्यत्कलमच्छलेन ॥ ४७ !! जनै प्रतिग्रामसमीपमुच्चै कृता वृषाढ्यैर्वरधान्यकूटा । यत्रोदयास्ताचलमध्यगस्य विश्रामशैला इव भान्ति भानोः ॥ १८ ॥ नीरान्तरात्तप्रतिमावतारास्तरङ्गिणीना तरवस्तटेषु । विभान्ति यत्रोर्ध्वगतार्कतापात्कृतप्रयत्ना इव मज्जनाय ॥ ४९ ॥ सम्यस्थलीपालकबालिकानामुल्लोलगीतश्रुतिनिश्चलाङ्गम् । यत्रैणयूथ पथि पान्थसार्था. सल्लेप्यलीलामयमामनन्ति ॥ ५० ॥ आस्कन्धमृज्वी तदनल्पपत्रप्रसूनशाखावलया द्रुमाली । मयूरपत्रग्रथितातपत्र श्रीर्यस्य देशाधिपतित्वमाह ॥ ११ ॥ १ अनेकानि पद्मयुक्तानि जलतडागानि येषु वर्गे च पद्मा लक्ष्मी , अप्सरसो रम्भाद्या २ असख्यात हिरण्य सुवर्ण गर्भे येषाम् हिरण्यगर्भश्व ब्रह्मा ३ पीतम- म्बर यस्तादृशैर्धामभी रम्या असत्यैर भ्रकपनासादै शोभमाना इत्यर्थ . खग च पीता- म्बरस्य विष्णोर्धाम ४ तडागस्य समन्ताज्जलबन्धनार्थ निर्मितो मृत्कूट . ५. वृषो धर्मस्तयुक्ता पुरुषा मार्गमध्ये पान्थविश्रमार्थ स्थलानि कुर्वन्ति २ ६ काव्यमाला। यत्रालिमाला स्थलपङ्कजानां सौरभ्यलोभादमितो भ्रमन्ती । विभाति लोलाध्वगलोचनानां बन्धाय सिद्धायसशृङ्गलेव ॥ १२ ॥ यं तादृशं देशमपास्य रम्यं यत्क्षारमब्धि सरितः समीयुः । बभूव तेनैव जडाशयानां तासां प्रसिद्धं किल निम्नगात्वम् ।। ५३ ।। भूकण्ठलोठन्नवपुण्डरीकसम्बन्धुरा गोधनघोरणी या । सा यस्य दिङ्मण्डलमण्डनाय विस्तारिणी कीर्तिरिवावभाति ॥ १४ ॥ कल्पद्रुमान्कल्पितदानशीलाज्जेतुं किलोचालपतत्रिनादै । आहूय दूराद्वितरन्ति वृक्षा फलान्यचिन्त्यानि जनाय यत्र ॥ ५५ ॥ तत्रास्ति तद्रत्नपुरं पुरं यद्द्वारस्थलीतोरणवेदिमध्यम् । अलकरोत्यर्कतुरंगपङ्क्ति. कदाचिदिन्दीवरमालिकेव ॥ १६ ॥ मुक्तामया एव जना. समस्तास्तास्ता स्त्रियो या नैवपुष्परागा. । . वज्र द्विषा मूर्ध्नि नृपोऽपि यस्य वितन्वते नाम विनिश्चितार्थम् ॥१७॥ भोगीन्द्रवेश्मेदमिति प्रसिद्धया यद्वप्रवेष. किल पति शेषः । तथाहि दीर्घान्तिकदीर्घिकास्य निर्मुक्तनिर्मोकनिभा विभाति ॥ ५८ ।। समेत्य यस्मिन्मणिबद्धभूमौ पौराङ्गनाना प्रतिबिम्बदम्भात् । मन्ये न रूपामृतलोलुपाक्ष्यः पातालकन्याः सविध त्यजन्ति ।। ५२ ।। प्रासादशृङ्गेषु निजप्रियार्त्या हेमाण्डकप्रान्तमुपेत्य रात्रौ । कुर्वन्ति यत्रापरहेमकुम्भभ्रम घुगङ्गाजलचक्रवाका ॥ ६ ॥ शुभ्रा यदभ्रंलिहमन्दिराणा लमा ध्वजाग्रेषु न ता पताका । कि तु त्वचो घट्टनत सिताशोर्नों चेत्किमन्तर्व्रणकालिकास्य ।। ६१ ॥ कृताप्यधो भोगिपुरी कुतोऽभूर्दैहीनभूषेत्यतिकोपकम्प्रम् । यज्जेतुमेतामिव स्वातिकाम्भश्छायाछलात्क्रामति नागलोकम् ॥ ३२ ॥ सक्रान्तबिम्बः सवदिन्दुकान्ते नृपालये प्राहरिकैः परीते । हृताननश्री. सुदृशा चकास्ति काराधृतो यत्र रुदन्निवेन्दुः ॥ १३ ॥ १ नीरोगा , मौकिकप्रचुराध २ पुष्परागो मणिभेद , (स्त्रीपक्षे तु) वपुषि शरीरेऽरागा रागरहिता न ३. वनमशनि', होरकश्च ४ बहूभूषणयुक्ता, (पक्षे) लहीनामिन सर्पराज, ५ परिखा. १ सर्ग.] धर्मशर्माभ्युदयम् । विभाति रात्रौ मणिकुट्टिमोर्वी संजातताराप्रतिमावतारा । दिदृक्षया यत्र विचित्रभूतरुत्तानिताक्षीव कुतूहलेन ॥१४॥ दृङ्किर्निमेषा द्युसदा पतन्ती दोषाय मा भूदिति यस्य रात्र्या । उत्तार्यते मूर्ध्नि जितामरस्य नीराजनापात्रमिवेन्दुबिम्बम् ॥ १५ ॥ दन्दह्यमानागुरुधूमवर्तिप्रवर्तिते व्योम्नि घनान्धकारे । सौधेषु यत्रोर्ध्वनिविष्टहेमकुम्भप्रभा भाति तडिल्लतेव ॥ १६ ॥ यत्रोच्चकैश्चैत्यनिकेतनाना कूटस्थलीकृत्रिमकेसरिभ्य । रात्रिदिवं भीत इवान्तरिक्षे भ्राम्यत्युपात्तैकमृगो मृगाङ्कः ॥६॥ यत्रोच्चहर्म्येषु पतत्सपद्मव्योमापगापूरसहस्रशङ्काम् । वितन्वते काञ्चनकुम्भशोभासंभाव्यमाना सितवैजयन्त्य ॥ १८ ॥ यत्राश्मगर्भोज्ज्वलवेश्मभित्तिप्रभाभिराक्रान्तनभस्तलाभिः । दिवापि वापीपुलिने वराकी रात्रिश्रमाताम्यति चक्रवाकी ॥ १९ ॥ मरुच्चलत्केतुकराङ्गुलीमि. संतर्जितानीव सिषेविरे यत् । अतुच्छशाखानगरच्छलेन चतुर्दिगन्ताधिपपत्तनानि ॥ ७० ॥ रत्नाण्डकै शुभ्रसहस्रकूटान्याभान्ति यस्मिञ्जिनमन्दिराणि । तद्रष्टुमुर्वीतलनिर्गताहिभर्त्रा कृतानीक वपूषि हर्षात् ॥ ७१ ॥ उदेति पातालतलासुधाया सिरासहस्रं सरसीषु यत्र । मन्ये ततस्तासु रसाधिकत्वं मुञ्चत्युपान्तं न च भोगिवर्गः ॥ ७२ ॥ मन्थाचलामूलविलोडितान्तर्लब्धैकसत्कौस्तुभदृष्टसार. । रत्नाकरः स्याज्जलधिः कुतस्तत्सेवेत नैतत्परिस्वामिषाच्चेत् ॥ ७३ ।। इतीव भा.स्तम्भितकौस्तुभाना स्तूपान्निरूप्य ज्वलता मणीनाम् । आक्रीडशैलानिव यत्र लक्ष्म्या प्रत्येति दुरापणिकोऽपि लोकः ।।७४ ॥(युग्मम्) पदे पदे यत्र परार्थनिष्ठा रसस्थिति कामपि नाटयन्त्य । वाच कवीनामिव कस्य नोच्चैश्चेतोमुदं कन्दलयन्ति वेश्या ।। ७५ ॥ १. अश्मगों हरिन्मणि काव्यमाला। संगीतकारम्भरसन्मृदङ्गा कैलासभासो वलभीनिवेशाः । वृन्दानि यत्र ध्वनदम्बुदानामनम्बुशुभ्राणि विडम्बयन्ति ।। ७६ ॥ रणझणत्किङ्किणिकारवेण संभाष्य यत्राम्बरमार्गखिन्नम् । मरुच्चलत्केतनतालवृन्तैर्हर्म्यावली वीजयतीव मित्रम् ॥ ७७ ॥ हारावलीनिर्झरहारि तुगमवाप्य कान्तास्तनशैलदुर्गम् । यत्र त्रिनेत्रादपि निर्विशङ्क. शङ्के स्मरो भूत्रयदुर्धरोऽभूत् ॥ ७८ ॥ केशेषु भङ्गस्तरलत्वमक्ष्णो सरागता केवलमोष्ठयोश्च । मुक्त्वा तदास्यं सुदृशा न यत्र दोषाकरच्छायमवैमि किंचित् ॥ ७९॥ रात्रौ तम.पीतसितेतराश्मवेश्माग्रभाजाभसिताशुकानाम् । स्त्रीणा मुखैर्यत्र नवोदितेन्दुमालाकुलेव क्रियते नभःश्री ॥ ८ ॥ मद्वाजिनो नोर्ध्व॑धुरा रथेन प्राकारमारोढुममुं क्षमन्ते । इतीव यल्लङ्घयितुं दिनेश श्रयत्यवाचीमथ चाप्युदीचीम् ॥ ८१ ॥ नीलाश्मलीलावलभीषु जालव्यालम्बमानैर्निशि चन्द्रपादै । प्रतारिता यत्र न मुग्धवध्वो हारावचूलेष्वपि विश्वमन्ति ॥ ८२ ।। उपर्युपारूढयधूमुखेन्दूनुदीक्ष्य मन्दाक्षमुपैति नूनम् । यत्रोच्चसौधोच्चयचूलिकाभ्यो नम्रीभवन्निन्दुरत' प्रयाति ॥ ८३ ।। प्रालेयशैलेन्द्रविशालशालश्रोणीसमालम्बितवारिवाहम् । विराजते निर्जरराजधानीमुड्डीय यजेतुमिवात्तपक्षम् ॥ ८४ ॥ अगुरुरिति सुगन्धिद्रव्यभेदे प्रसिद्धि सततमविभवोऽपि प्रेक्ष्यते मेष एव । फलसमयविरुद्धा यत्र वृक्षानपास्य क्वचिदपि न कदाचिकेनचित्केऽपि दृष्टा ॥ ८५ ।। अन्तस्थितप्रथितराजविराजमानो य प्रान्तभूवलयिता पृथुसालबन्ध । १ लोकत्रयजित्वर २ श्रोणी मध्यभाग ३ अविभवो विभवरहित , (पक्षे) अविर्भपस्तदुत्पन्न ४ बृक्षपक्षे विभि पक्षिभी रुद्धा २ सर्ग] धर्मशर्माभ्युदयम् । प्रत्यर्थिनाशपिशुन. परिपूर्णमूर्ते- रिन्दोरुदारपरिवेष इवावभाति ॥ ८६ ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये प्रथम सर्ग । द्वितीय सर्ग । अभूदथेक्ष्वाकुविशालवशभू स तत्र मुक्तामयविग्रहः पुरे । नृपो महासेन इति स्वमेव य कुल द्विपन्मूर्धमदोऽप्यभूपयत् ॥ १॥ गतेऽपि दृग्गोचरमत्र शत्रव. स्त्रियोऽपि कंदर्पमपत्रपा दधु । किमद्भुत तद्धतपञ्चसायके यदद्रवन्सगरसगता क्षणात् ॥ २ ॥ न केवल दिग्विजये चलच्चमूभरभ्रमद्भूवलयेऽस्य जङ्गमै । श्रिताहितत्राणकलङ्कशङ्कितैरिव स्थिरैरप्युदकम्पि भूधरैः ॥ ३ ॥ तदङ्गरूपामृतमक्षिभाजनैर्यदृच्छयासेचनक पपु स्त्रिय । प्रमातुमन्तस्तदपारयन्मनाड्युदश्रुदम्भान्निरगादिवाङ्गत. ॥ ४ ॥ कुलेऽपि कि तात तवेदृशी स्थितिर्यदात्मजा श्रीर्न सभास्वपि त्यजेत् । तदङ्कलीलामिति कीर्तिरीर्ष्यया ययावुपालब्धुमिवास्थ वारिधिम् ॥ ५ ॥ तदा तदुत्तुङ्गतुरगमक्रमप्रहारमज्जन्मणिशङकुसंहताम् । न भूरिबाधाविधुरोऽप्यपोहितु प्रगल्भतेऽद्यापि महीमहीश्वर ॥६॥ विभान्त्यमी शत्रुनिमज्जनोत्थितास्तदादि तस्यासिजलस्य बिन्दवः । न तारका व्योम्नि कुतोऽन्यथा भवेज्झप कुलीरो मकरश्च तास्वपि ॥ ७ ॥ वितीर्णमस्मभ्यमनेन सयुगे पुनः कुतो लब्धमितीव कौतुकात् । स कस्म पृष्ठं न नतारिभूभुज कराग्रसस्पर्शमिषाद्वयलोकयत् ॥ ८ ॥ न मन्त्रिणस्तन्त्रजुषोऽपि रक्षितुं क्षमा स्वमेतद्भुजगादसे. क्वचित् । इतीव भीता शिरसि द्विषो दधुस्तदनिचञ्चन्नस्वरत्नमण्डलम् ॥ ९ ॥ १ शत्रव क दर्पमभिमानम्, पत्र वाहन पान्तीति पनपा , न पत्रपा अपनपा . वाहनरहिता इत्यर्थ , स्त्रियश्चापगतत्रपा सत्य कद काम दधु २ सहरसं गता, सगर-सगता ३ 'तदासेचनक तृप्तेर्नास्त्यन्तो यस्य दर्शनातू ४. भुज प्राप्तात् , (पक्षे) सात् १० काव्यमाला। अतुच्छमच्छाधमहो महस्विना पयोदकाले तदसौ समुद्यते । नवाम्बुधाराविनिपातजर्जरैर्न राजहंसैन पलायितं जवात् ॥ १० ॥ समुल्लसत्खङ्गलतापहस्तितक्लमं धरित्री समवाप्य तद्भुजम् । विषाग्निगर्भैः श्वसितैरिवाकुला मुमोच मैत्री फणिचक्रवर्तिन ॥ ११ ॥ नियोज्य कर्णोत्पलवज्जयश्रिया कृपाणमस्योपगमे समिद्गृहे । प्रतापदीपा शमिता विरोधिनामहो सलज्जा नवसंगमे स्त्रियः ।। १२ ।। असक्तमाकारनिरीक्षणादपि क्षणादभीष्टार्थकृतार्थितार्थिन । कुतश्चिदातिथ्यमियाय कर्णयोर्न तस्य देहीति दुरक्षरद्वयम् ॥ १३ ॥ उपासनायास्य बलाभियोगत. प्रकम्पमाना' कुलपर्वता इव । समाययुरि मदाम्बुनिर्झरा क्षितीश्वरोपायनमत्तदन्तिनः ॥ १४ ॥ निपीतमातङ्गघटाग्रशोणिता हठावगूढा सुरतार्थिभिर्भटै. । किल प्रतापानलमासदत्समित्समृद्धमस्यासिलतात्मशुद्धये ॥ १५ ॥ ततः श्रुताम्भोनिधिपारदृश्वनो विशङ्कमानेव पराभव तदा । विशेषपाठाय विधृत्य पुस्तकं करान्न मुञ्चत्यधुनापि भारती ॥ १६ ॥ बभुस्तदस्त्राहतदन्तमण्डलात्समुच्छलन्तो हुतभुक्कणा क्षणम् । सरक्तवान्ता वरवैरिवारणव्रजस्य जीवा इव संगराजिरे ॥ १७ ॥ श्रुत च शीलं च बलं च यत्त्रयं स सर्वदौदार्यगुणेन संदधत् । चतुष्कमापूरयति स्म दिग्जयप्रवृत्तकीर्ते प्रथम सुमङ्गलम् ॥ १८ ॥ तदीयनिस्त्रिशलसद्विधुंतुदे बलाद्गिलत्युद्यतराजमण्डलम् । निमज्ज्य धारासलिले स्वमुच्चकैर्ददुर्द्विजेभ्य प्रविभज्य विद्विषः ॥ १९ ॥ उदर्कवक्त्रा वनितास्वभावतो विभाव्य विसम्ममधारयन्निव । व्यशिश्रणद्वैरिकुलाद्बलाहृता स्वसंमतेभ्यो बहिरेव स श्रियम् ॥ २० ॥ विदारितारिद्विपगण्डमण्डलीसमुल्ललल्लोलशिलीमुखच्छलात् । कचेषु खड्ग क्रमकिंकरीमिव क्रुधा चकर्षास्य जयश्रियं रणे ॥ २१ ॥ १ माताघटा हस्तिसमूह; (पक्षे) मातङ्गघटश्चण्डालकुम्भ २ देवत्वार्थिभि (पक्षे) निधुवनाधिभि ३ समिति युद्धे समृद्धम्, (पक्षे) समिद्भि काष्ट . मूहम् , चन्द्रविम्ब च. ५. आत्मानम् , धन च ६. पक्षिभ्य , प्राह्मणेभ्यश्च ४ नृपस२ सर्ग.] धर्मशर्माभ्युदयम् । जगत्त्रयोत्तंसितभासि तद्यशःसमग्रपीयूषमयूस्खमण्डले । विज़म्भमाणं रिपुराजदुर्यशो बभार तुच्छेतरलाञ्छनच्छबिम् ॥ २२ ॥ वमन्नमन्द रिपुवर्मयोगत. स्फुलिङ्गजालं तदसिस्तदा बभौ । वपन्निवासृग्जलसिक्तसगरक्षितौ प्रतापद्रुमबीजसंततिम् ॥ २३ ॥ अवाप्तवान्छाभ्यधिकार्थसंपदोन्नतेषु सक्रान्त इवानुजीविषु । मदस्य लेशोऽपि न तस्य कुत्रचिन्महाप्रभुत्वेऽपि जनैरदृश्यत ।। २४ ॥ द्विषत्सु कालो धवल क्षमाभरे गुणेषु रक्तो हरित प्रतापवान् । जनेक्षणे पीत इति द्विषा व्यधादनेकवर्णोऽपि विवर्णतामसौ ॥ २५ ॥ प्रतापवह्नौ किल दीपिते ककुष्करीन्द्रभस्त्राकरफूत्कृतानिले । स काचनाभा कटक जगत्पुटे दधानमावर्तयति स्म विद्विषाम् ॥ २६ ॥ अवापुरेके रिपव पयोनिधे. परे तु वेला बलिनोऽस्य भूभुजः । ततोऽस्य मन्ये न कुतोऽप्यपूर्यत प्रचण्डदोर्विक्रमकेलिकौतुकम् ॥ २७ ॥ भयातुरत्राणमयीमनारत महाप्रतिज्ञामधिरूढवानिव । न भूरिशङ्काविधुरे रिपावपि क्वचित्तदीयासिरचेष्टताहितम् ॥ २८ ॥ स कोऽपि चेदेकतमेन चेतसा क्षमेत संचिन्तयितु फणीश्वर । तदा तदीयारसनासहस्रभृद्गुणानिदानीमपि किं न वर्णयेत् ॥ २९ ॥ निशासु नूनं मलिनाम्बरस्थिति प्रगल्भकान्तासुरते द्विजक्षति । यदि क्विप' सर्वविनाशसस्तव. प्रमाणशास्त्रे पेरमोहसंभव ॥ ३० ॥ धनुर्धराणा करवालशून्यता हिरण्यरेतस्यविनीतता स्थिता । अभूज्जगद्विभ्रति तत्र केवलं गुणच्युतिर्मार्गण एव निश्चलम्॥३१॥(युग्मम्) निरञ्जनज्ञानमरीचिमालिनं जिनेन्द्रचन्द्र दधत प्रमोदतः । न तस्य चेतस्यखिलक्षमापत्तेस्तमोऽवकाशः क्षणमप्यलक्ष्यत ॥ ३२ ॥ , १. कृष्णवर्ण , यमच २ शुक्ल , वृषभश्व, ३ हरिद्वणं , इन्द्राच्छ ४. पीतवर्ण सादरमवलोकितश्च ५ वर्णरहितत्वम्, नीचत्व च ६ काचन अनिर्वचनीया शो- भाम: सुवर्णकान्ति च ७. सैन्यम्, कङ्कण च ८ व्याकरणप्रसिद्धस्य प्रत्ययविशे- पस्य ९ परम-उद्द, पर-मोह १. हिरण्यरेता अग्नि स एव अविना तद्वाहनभूतेन मेषेण नीयते नान्य. कश्वनाविनीत. शीलरहित काव्यमाला। महानदीनोऽप्यजडाशयो जगत्यनष्टसिद्धिः परमेश्वरोऽपि सन् । बभूव राजापि निकारकारणं विभावरीणामयमद्भुतोदयः ॥ २३ ॥ तरङ्गिताम्भोधिदुकूलशालिनीमखर्वपूर्वापरपर्वतस्तनीम् । वरोरुदेशे स निधाय कोमलं कर बुभोजैकवधूमिव क्षितिम् ॥ ३४ ॥ अथास्त पत्नी निखिलावनीपतेर्बभूव नामा चरितैश्च सुव्रता । खितेऽवरोधे प्रचुरेऽपि या प्रभोरभूत्सुधाशोरिव रोहिणी प्रिया ॥ ३५ ॥ सुधासुधारश्मिमृणालमालतीसरोजसारैरिव वेधसा कृतम् । शनैः शनैर्मोग्ध्यमतीत्य सा दधौ सुमध्यमा मध्यममध्यम वय ॥ १६ ॥ स्मरेण तस्याः किल चारुतारस जनाः पिबन्त. शरजर्जरीकृता. । स पीतमात्रोऽपि कुतोऽन्यथागलत्तदङ्गत स्वेदजलच्छलाद्बहि ॥ ३७॥ इत प्रभृत्यम्ब न ते मुखाम्बुजश्रियं हरिप्येऽहमितीव चन्द्रमा । प्रतीतयेऽस्या सकुटुम्बको नखच्छलेन साध्व्याश्चरणाग्रमस्पृशत् ॥ ३८ ॥ प्रयाणलीलाजितराजहसक विशुद्धपाष्णि विजिगीषुवत्स्थितम् । तदद्रिमालोक्य न कोपदण्डभाग्भियेव पद्म जलदुर्गमत्यजत् ॥ ३९ ॥ सुवृत्तमप्याप्तजडोरुसंगम तदीयजङ्घायुगल विलोमैताम् । तथा दधावप्यनुयायिनं जन चकार पञ्चेषुकदर्थित यथा ॥ ४० ॥ उदश्चदुच्चै स्तनवप्रशालिनस्तदङ्गकदर्पविलासवेश्मन । वरोरुयुग्म नवतप्तकाश्चनप्रपञ्चितस्तम्भनिभ व्यराजत ॥ ४१ ॥ जड गुरूकृत्य नितम्बमण्डल स्मरेण तस्या. किल शिक्षितं कियत् । तथाप्यहो सर्वतोऽमुना बुधाधिपानामपि खण्डितो मदः ॥ ४२ ॥ गभीरनाभिहृदमज्जदुद्धरस्मरप्रभिन्नद्विपगण्डमण्डलात् । समुच्चलन्तीव मधुव्रतावलिर्बभौ तदीयोदररोममञ्जरी ॥ १३ ॥ सुहृत्तमावेकत उन्नतौ स्तनौ गुरुर्नितम्बोऽप्ययमन्यत स्थित. । कथं भजे कान्तिमितीव चिन्तया ततान तन्मध्यमतीव तानवम् ॥ १४ ॥ १ महान्-अदीन', महा-नदी-इन २. अष्टसिद्धिरहित , (पक्षे) न नष्टा सिद्धिर्यस्य स ३ चन्द्रोऽपि ४. रात्रीणाम्, (पक्षे) भरीणा शत्रूणा विभी खामिनि ५. लोमर- हितत्वम् , वैपरीत्य च २ सर्ग.] धर्मशर्माभ्युदयम् । सती च सौन्दर्यवती च पुंवरप्रसूश्च साक्षादियमेव भूत्रये । इतीव रेखात्रयमक्षतस्मयो विधिश्चकारात्र बलित्रयच्छलात् ॥ १५ ॥ गुरोर्नितम्बादिह कामिक गत स नाभितीथै प्रमथेशनिर्जित । समुल्लसल्लोमलतारुरुच्छवि स्मरस्त्रिदण्डं त्रिवलिच्छलाद्दधौ ॥ ४६॥ कृतौ न चेत्तेन विरश्चिना सुधानिधानकुम्भौ सुदृशः पयोधरौ । तदङ्गलमोऽपि तदा निगद्यता स्मर परासु कथमाशु जीवित ॥ ४७ ॥ सुरस्रवन्तीकनकारविन्दिनीमृणालदण्डाविव कोमलौ भुजौ । करौ तदग्रे शुचिकङ्कणाङ्कितो व्यराजतामब्जनिभौ च सुभ्रुव ॥ १८ ॥ सपाञ्चजन्य कररुक्मकङ्कणप्रभोल्बण. स्याद्यदि कैटभद्विषः । स्फुरत्रिरेखं किल कण्ठकन्दलं तदोपमीयेत न वा नतभ्रुवः ॥ १९ ॥ कपोलहेतो खलु लोलचक्षुषो विधिर्व्यधात्पूर्णसुधाकर द्विधा । विलोक्यतामस्य तथाहि लाञ्छनच्छलेन पश्चात्कृतसीवनव्रणम् ॥ ५० ॥ प्रवालबिम्बीफलविद्रुमाढय, समा बभूवुः प्रभयैव केवलम् । रसेन तस्यास्त्वधरस्य निश्चित जगाम पीयूषरसोऽपि शिष्यताम् ॥ ५१ ।। अनादरेणापि सुधासहोदरीमुदीरयन्त्यामविकारिणी गिरम् । ह्रियेव काठत्वमियाय वल्लकी पिकी च कृष्णत्वमधारयत्तराम् ॥ १२ ॥ ललाटलेखाशकलेन्दुनिर्गलसुधोरुधारेव घनत्वमागता । तदीयनासा द्विजरत्नसहतेस्तुलेव कान्त्या जगदप्यतोलयत् ॥ १३ ॥ जितास्मदुत्तसमहोत्पलैर्युवा क्व याथ इत्यध्वनिरोधिनोरिव । उपात्तकोपे इव कर्णयो सदा तदीक्षणे जग्मतुरन्तशोणताम् ।। ५४ ॥ इमामनालोचनगोचरा विधिविधाय सृष्टे कलशार्पणोत्सुक । लिलेख वक्त्रे तिलकाङ्कमध्ययोर्र्भ्रुवोर्मिपादोमिति मङ्गलाक्षरम् ॥ ५५ ॥ उदीरिते श्रीरतिकीर्तिकान्तिभि श्रयाम एतामिति मौनवान्विधि । लिलेख तस्या तिलकाङ्कमध्ययोर्भ्रुवोर्मिषादोमिति संगतोत्तरम् ॥ १६ ॥ कपोललावण्यमयाम्बुपत्वले पतत्सतृष्णाखिलनेत्रपत्रिणाम् । ग्रहाय पाशाविव वेधसा कृतौ तदीयकर्णौ पृथुलासचुम्बिनौ ॥ १७ ॥ काव्यमाला। स्मरेण कालागुरुपत्रवल्लिवल्ललाटलेखामिषतो नतभ्रुवः । अशेषसंसारविशेषकैर्गुणैर्जगत्रये पत्रमिवावलम्बितम् ॥ ५८ ॥ अनिन्द्यदन्तद्युतिफेनिलाधरमवालशालिन्युरुलोचनोत्पले । तदास्यलावण्यसुधोदधौ बभुस्तरङ्गभङ्गा इव भङ्गुरालका' ॥ ५९॥ तदाननेन्दोरधिरोहता तुला मृगाङ्क चित्तेऽपि न लज्जितं त्वया । यतोऽसि कस्तत्र पयोधरोन्नतौ स मूढ यत्राभ्यधिकं व्यराजत ॥६० ॥ समग्रसौन्दर्यविधिद्विषो विधेर्घृणाक्षरन्यायवशादसावभूत् । तदास्य जाने निपुणत्वमीदृशीमनन्यरूपा कुरुते यदापराम् ॥ ६१ ॥ सरस्वतीवार्थमनिन्द्यलक्षणा गुणान्विता चापलतेव धन्विनम् । विभेव भास्वन्तमतीव निर्मला तमेकभूपालमलंचकार सा ॥ १२ ॥ अथैकदान्त पुरसारसुन्दरीशिर स्रज तामवलोक्य तत्पति । इति स्थिरोत्तानिननेत्रमर्थिनामचिन्त्यचिन्तामणिरप्यचिन्तयत् ॥ १३ ॥ चकार यो नेत्रचकोरचन्द्रिकामिमामनिन्द्या विधिरन्य एव सः । कुतोऽन्यथा वेदनयान्वितात्ततोऽप्यभूदमन्दद्युति रूपमीदृशम् ॥ ६ ॥ द्रुमोत्पलात्सौरभमिक्षुकाण्डत' फलं मनोज्ञा मृगनाभित प्रभाम् । विधातुमस्या इव सुन्दरं वपु कुतो न सारं गुणमाददे विधि ॥ १५ ॥ वपुर्वयोवेषविवेकवाग्मिताविलासवंशव्रतवैभवाढिकम् । समस्तमप्यत्र चकास्ति तादृश न यादृशं व्यस्तमपीक्ष्यते क्वचित् ।। ६६ ॥ न नाकनारी न च नागकन्यका न च प्रिया काचन चक्रवर्तिनः । अभूद्भविष्यत्यथवास्ति साध्विमा यदङ्गकान्त्योपमिमीमहे वयम् ॥१७॥ असारससारमरुस्थलीभ्रमक्लमार्त्तहृन्नेत्रपतत्रिणा मुदे । मृगीदृश' सिक्त इवामृतप्लवैरहो प्रवृद्धो नवयौवनद्रुमः ॥ ६८ ॥ फल तथाप्यत्र यथर्तुगामिन, सुताह्रयं नोपलभामहे वयम् । अनन्यसक्तावनिभारस्विन्नवन्निरन्तर तेन मनो दुनोति न. ॥ ६९ ॥ सहस्रधा सत्यपि गोत्रजे जने सुतं विना कस्य मन. प्रसीदति । अपीद्धताराग्रहगर्भितं भवेदृते विधोर्ध्यामिलमेव दिङ्मुखम् ॥ ७० ॥ १ सरखती, पीडा च २. कर्णिकारपुष्पान्, ३ श्यामलम् १५ १ सर्ग.] धर्मशर्माभ्युदयम् । न चन्दनेन्दीवरहारयष्टयो न चन्द्ररोचींषि न चामृतच्छटाः । सुताङ्गसंस्पर्शसुखस्य निस्तुलां कलामयन्ते खलु षोडशीमपि ।। ७१ ॥ असावनालोक्य कुलाङ्कुरं मम स्वभोगयोग्याश्रयभङ्गशङ्किनी । विशोषयत्युच्छसितैरसंशयं मदन्वयश्रीः करकेलिपङ्कजम् ।। ७२ ।। नभो दिनेशेन नयेन विक्रमो वनं मृगेन्द्रेण निशीथमिन्दुना। प्रतापलक्ष्मीबलकान्तिशालिना विना न पुत्रेण च भाति न' कुलम् ॥७३॥ क यामि तत्कि नु करोमि दुष्करं सुरेश्वरं वा कमुपैमि कामदम् । इतीष्टचिन्ताचयचक्रचालितं क्वचिन्न चेतोऽस्य बभूव निश्चलम् ॥ ७४ ॥ इत्थ चिन्तयतोऽथ तस्य नृपतेः स्फारीभवच्चक्षुषो निर्वातस्तिमितारविन्दसरसीसौन्दर्यमुद्रामुष । कोऽप्युद्यत्पुलकाङ्कुर प्रमदजै. सिक्तश्च नेत्राम्बुभि- र्बीजावाप इवाप वाञ्छिततरोरुद्यानपाल स तम् ॥ ७९ ॥ अथ स दण्डधरेण निवेदितो विनयतः प्रणिपत्य सभापतिम् । दुरितसविदनध्ययनं सुधीरिति जगाद सुधास्रपिताक्षरम् ॥ ७६ ।। राकाकामुकवद्दिगम्बरपथालंकारभूतोऽधुना बाह्योद्यानमवातरङ्गहपथात्कश्चिन्मुनिश्चारण । यत्पादप्रणयोत्सवात्किमपरं पुष्पाङ्कुरच्छद्मना वृक्षैरप्यनपेक्षितात्मसमयै क्ष्मापाल रोमाञ्चितम् ॥ ७७ !! क्रीडाशैलप्रस्थपद्मासनस्थस्तत्त्वाभ्यासै स प्रचेता इतीदम् । नामाख्यात पार्श्वर्तिव्रतीन्द्रै कुर्वन्नास्ते तत्र ससूत्रितार्थम् ॥ ७८ ॥ इत्याकस्मिकविस्मया कलयतस्तस्मात्क्लमच्छेदिनी ज्योत्स्नावद्यतियामिनीशविषया वार्तामवार्त्तोंत्सवाम् । दृग्भ्यामिन्दुमणीयितं करयुगेणाम्भोजलीलायित पारावारजलायित च परमानन्देन राज्ञस्तदा ।। ७९ ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये द्वितीय सर्ग । १ प्रतीहारेण काव्यमाला ॥ तृतीय सर्ग । अथोत्थाय नृपः पीठाद्भानुः पूर्वाचलादिव । साधो प्रचेतसस्तस्य दिश प्राप्य ननाम सः ॥ १ ॥ स तस्मै वनपालाय ददौ तोषतरो फलम् । मनोरथलताबीजप्राभृतस्येव निष्क्रयम् ॥ २ ॥ आज्ञामिव पुरि क्लेशनिष्कासनपटीयसीम् । मुनीन्द्रवन्दनारम्भभेरी प्रादापयन्नृप ॥ ३ ॥ व्यानशे ककुभस्तस्या कादम्बिन्या इव ध्वनिः । उत्कयन्निर्भरानन्दमेदुरान्पौरकेकिन ॥ ४ ॥ चन्दनस्थासकैर्हास्य लास्यमप्युल्लसद्धवजैः । पुष्पोत्करैश्च रोमाञ्च पुरमायाददे तदा ॥ ५ ॥ अमान्त इव हर्म्येभ्यस्तदा गमनसमदात् । पौरा प्रथितनेपथ्या स्वेभ्य स्वेभ्यो विनिर्ययौ ॥ ६ ॥ बहिस्तोरणमागत्य रथाश्वेभनिषादिन । दूता इवार्थससिद्धेस्तमुदैक्षन्त पार्थिवा ॥ ७ ॥ दिगम्बरपदप्रान्त राजापि सह कान्तया । प्रतस्थे रथमाम्थाय प्रभया भानुमानिव ॥ 11 नृपा सचारिण सर्वे तमाविष्कृतसात्त्विकम् । मुनीन्द्रवहनारूढ रस भावा इवान्वयु ॥ ९ ॥ सज्जालकानसौ तत्र मैत्तवारणराजितान् । गृहानिव नृपान्प्रेक्ष्य पिप्रिये प्रान्तवर्तिन ।। १०॥ प्रागेव जग्मुरुद्यान सेवाक्षणविचक्षणा । फलपुष्पाहरास्तस्य मूर्तिमन्त इवर्तवः ॥ ११ ॥ सज्ज. १ प्रचेतोनामकस्य यते , (पक्षे) प्रचेतसो वरुणस्य दिश पश्चिमाम् २ मलकान्, सत् जालकान् जालको गवाक्ष ३ 'उक्तो मतवारणस्तु प्रभिन्नकटकु- भरे । क्लीव प्रसादवीथीना बुन्दवृक्षतावपि ॥' इति मेदिनी ३ सर्ग.] ७ धर्मशर्माभ्युदयम् । परस्पराङ्गसंघट्टप्रष्टहारावचूलकै । पथि दु सचरो मार्गा मार्ग पाशैरिवाभवत् ॥ १२ ॥ दृष्ट्या कुवलयस्यापि जेता दर्शितविग्रहः । नेत्रोत्सवाय नारीणा नारीणा सोऽभवन्नृपः ॥ १३ ॥ सोऽङ्गलावण्यसक्रान्तपौरनारीनरेक्षण. । गन्धर्वैरावृत साक्षात्सहस्राक्ष इवाबभौ ॥ १४ ॥ बभुम्तस्य मुखाम्भोजपर्यन्तभ्रान्तषट्पदा । अन्तर्मुनीन्दुसधानान्निर्यद्ध्वान्तलवा इव ॥ १५ ॥ बिभ्रर्त्सविभ्रमश्चारुतिलकामलकावलिम् । उल्लसत्पत्रवल्लीको 'दीर्घ नेत्रधृताञ्जन ॥ १६ ॥ युक्तोऽप्युत्तालपुनागै सालसगममादधत् । कामाराम इवाराम पौररामाजनो ययौ ॥ १७ ॥ 'युग्मम्) पुरब्रीणा स वृद्वाना प्रतीच्छन्नाशिष शनै । इष्टसिद्धेरिव द्वार पुर प्राप महीपति ॥ १८ ॥ 'यतिभावपर कान्ति विभ्रदभ्यधिका नृप । निश्चक्राम पुराच्छोक कवीन्द्रस्य मुखादिव ।। १९ ।। शाखानगरमालोक्य पुर. प्रान्ते स पिप्रिये । तनूजमिय कान्ताया बहुलक्षणमन्दिरम् ॥ २० ॥ न- १ मृगममूह २ भुमण्डलस्य, उत्पलस्य च ३ दशितशरीर , कृतयुद्धश्च भरीणाम् ५ अश्वै , दवयोनिविशेषच ६ पक्षिणा श्रमणेन सहित , हाव विशेषसहितश्र. • चारुतिलकयुक्ता चूणकुन्तलपलिम , (पक्षे) तिलक आमलकश्च नविशेषा ८ कम्तृ- र्यादिरसेन स्तनकपोलादिषु कृता रचना पत्रवली, (पक्षे) उनसन्त्य किसलययुक्ता लना यस्मिन्स ९ दीर्घलोचनन्यस्त कज्जल , (पक्षे) दीघेण मूलेन वृना अजना वृक्षति- १० वृक्षविशेष , पुरुषश्रेष्टेश्च ११ सालस गमम् , साल सगमम मालो वृक्षविशेष १२ नगरस्य १३. यति सन्यासी, (पक्षे) पाठविच्छेदम्बलम् १४ - लक्षण, बहु-लक्षण क्षण उत्सव ३ शेषा यत्र काव्यमाला। प्रागेव विक्रमश्लाघ्यो भवानीतनयोऽप्यभूत् । व्यक्त पुनर्महासेनो महासेनावृतस्तदा ॥ २१ ॥ उच्चैस्तनशिखोल्लासिपत्रशोभामदूरतः । वनाली वीक्ष्य भूपाल प्रेयसीमित्यभाषत ॥ २२ ॥ कान्तारतरवो नैते कामोन्मादकृत परम् । अभवन्न प्रीतये सोऽप्युद्यन्मधुपराशय ॥ २३ ॥ अनेकविटपस्पृष्टपयोधरतटा स्वयम् । वढत्युद्यानमालेयर्मकुलीनत्वमात्मनः ॥ २४ ॥ उल्लसत्केसरो रक्तपलाश. कुञ्जराजित । कण्ठीरव इवाराम क न व्याकुलयत्यसौ ॥ २५ ॥ सैन्यकोलाहलोत्तिष्ठद्विहंगावलयो दुमा । अम्मदागमनोत्क्षिप्तपताका इव भान्त्यमी ॥ २६ ।। सचरञ्चञ्चरीकाणा धोरणिस्तोरणस्रजम् । विडम्बयति कान्तारे हरिन्मणिमयीमियम् ॥ २७ ।। पल्लवव्यापृतास्याना सूरम्यन्दनवाजिनाम् । फेनलेशा इवाभान्ति द्रुमाग्रकुसुमोत्कराः ॥ २८ ॥ त्वगत्तुङ्गतुरगोमेस्तीरग सैन्यवारिधे । पुञ्जिताबालशेवालशोभामन्येति काननम् ॥ २९ ॥ १ भवानी-तनय (कातिकेय ) स च वे पक्षिण स्ववाह्नमयूरस्य कर्मण पादन्या- सेन वाध्य (पक्षे) भव-आनीत-नय २ महासेन इति कार्तिकेयस्य नामान्तरम (पक्षे) महती सेना यस्य ३ उच्चै -स्तनशिग्वा (कुचाप्रभाग), उच्चैम्नन-शिखा ४ उद्यन्म उपराशय समुछसद्भमरश्रेणय कामोन्मादकृतो मदनोद्दीपका कान्तार तरयो वनक्षा पर न प्रीतयेऽभवन् सोऽपि कान्ता-रत-रव कान्ताया सुरतकालीन मणित न प्रीतयेऽभवत् कीदश कान्तारतरव कामोन्मादेन कृत, उद्यत्-मधु पर आशयश्च षिगस्पृष्ट कुचा, वृक्षस्पृष्टमेघा च ६ नीचकुलोपनत्वम्, अभूमिलीनत्व च उन्नत. त्वमिति यावत् ७ केसरो वृक्षविशेष , (पक्षे) उल्लस स्कन्धोत्पत्रकेश ८ रक्तवर्णा प- लाशा म्मिन् , (पक्षे) रक्क रुधिरं पल मास चाश्नाति ९ कुल राजित ; कुअर-अजित ३ सर्ग) 8 धर्मशर्माभ्युदयम् । उत्क्षिप्तसहकाराग्रमञ्जरीरुक्मदण्डिकः । उत्सारयल्लवङ्गैलालाञ्चिकर्पूरचम्पकान् ॥ ३० ॥ कासारसीकरासारमुक्ताहारविराजितः । प्रेर्यमाणो मुहुर्वेल्लल्लताहस्ताग्रसज्ञया ॥ ३१ ।। अयमस्माकमेणाक्षि चन्दनामोदसुन्दर । मरुदभ्यर्णतामेति वेत्रीवोद्यानभूपते ॥ ३२ ॥ (विशेषकम्) तन्वाना चन्दनोद्दामतिलक वदने किल । करोत्यक्षतदूर्वाभिर्मङ्गल मे वनस्थली ॥ ३३ ॥ एता प्रवालहारिण्यो मुदा भ्रमरसगता । मरुन्नर्तकतालेन नृत्यन्तीव वने लता ॥ ३४ ।। निरूपयन्निति प्रीत्या प्रियाया. प्राप्य काननम । तत्क्षणादक्षमत्याक्षीदौद्धत्यमिव पाथिव ॥ ३३ ।। तत्कालोत्सारिताशेपराजचिह्नो व्यराजत । गुरून्नभिव्रजन्नेष विनयो मूर्तिमानिव ।। ३६ ॥ नक्षत्रैरुन्नतैर्युक्त सकान्त केलिकाननम् । कराम कुडलीकृत्य रोजा घनमिवाविशत् ॥ ३७ ।। ददर्शाशोकमस्तोकस्तबकैस्तत्र पाटलम् । रागैश्छन्नमिवासन्नमुनीना मुक्तमानसै ॥ ३८ ॥ अधस्तात्तम्य विस्तीर्णे स्फाटिकोपलविष्टरे। तप, प्रगुणितागण्यपुण्यपुञ्जमिव स्थितम् ॥ ३९ ।। दत्तनेत्रोत्सवारम्भमाश्रित मुनिसत्तमै । ऋक्षैरिव धरोत्तीर्ण क्षण नक्षत्रनायकम् ॥ ४० ॥ १ प्रतीहार २ चन्दनवृक्षणोद्दाम तिलक वृक्षविशेषम् , (पक्षे) चन्दनम्योदाम तिला विशेषकम् : अक्षताभिर्दूर्वाभि , अक्षतैरभग्नतण्डुलयुक्ताभिर्दभिश्च ४ प्रवाल पनवे , विद्रुमश्च ५ त्रमर-सगता , भ्रमरस-गता ६ अक्ष रयम्, आयव्ययादिव्यवहाा- ७ नक्षत्र क्षत्रिय , (पक्षे) उडुभि ८ वद्धा अलि , सचिनकिरणच रामा चन्द्र चिन्ता वा अन्तरस्तावकाशेन ज्ञानसिन्धुमहोर्मिभिः । मलेन लिप्तबाह्याङ्गे दर्शयन्तमनादरम् ॥ ४१ ॥ अत्यन्तनिःसहैरङ्गैर्मुक्ताहारपरिग्रहैः । व्यक्तयन्तमिवासक्ति मुक्तिकान्तानुबन्धिनीम् ॥ ४२ ॥ नासावशाग्रविन्यस्तम्तोकसकोचितेक्षणम् । भावयन्तमथात्मानमात्मन्येवात्मनात्मन ॥ ४३ ॥ दर्शनज्ञानचारित्रतपसामेकमाश्रयम् । क्षमागार गतागार मुनिमैक्षिष्ट पार्थिव ॥ ४४ ॥ (कुलकम् ) अथास्पद नभोगाना स्वर्णशैलमिव स्थिरम् । गुरु प्रदक्षिणीकृत्य स राजा विशदाशुक ॥ ४५ ॥ इलामूलमिल-मौलिर्नत्वा भूमौ न्यविक्षन् । न पर विनयश्रीणामाश्रय. श्रेयसामपि ॥ ४६॥ (युग्मम्) मङ्गलारम्भसरम्भप्रध्वनद्दुन्दुभिध्वनिम् । विडम्बयन्नथोवाच वाचमाचारवानिति ॥ ४७ ॥ त्वत्पादपादपच्छाया चिन्तासतापशान्तिदाम् । सप्रति प्राप्य मुक्तोऽस्मि भवभ्रमपरिश्रमात् ।। ४८ ।। यदभूदस्ति यद्यच्च भावि स्व जन्म तन्मया । निर्णीत पुण्यवन्नाथ त्वदालोकनमात्रत ॥ ४९ ॥ तपोन्वितेन सूर्येण सदोषेणेन्दुनापि किम् । यो भवानिव दृष्टोऽपि न भिनत्त्यान्तर तम ॥१०॥ चित्रमेतज्जगन्मिने नेत्रमैत्री गते त्वयि । यन्मे जडाशयस्यापि पङ्कजात निमीलति ॥ ११ ॥ त्वयि । १ मुक्त-आहार, मुक्ता-हार २ न-भोगानाम् , (पक्षे) नभोगाना देवानाम् ३ गी. पनिम् , यनि च ४ स्वच्छवस्त्र , निर्मल किरणश्च ५ मूथ, मुहृदि च ६ मन्दबुद्धे जलाशयम्य तडागादेश्च ७ पापसमूह , कमल च ३ सर्ग:] धर्मशर्माभ्युदयम् । युष्मत्पदप्रयोगेण पुरुष स्याद्यदुत्तम । अर्थोऽय सर्वथा नाथ लक्षणस्याप्यगोचर. ॥ ५२ ॥ तथा मे पोषिता कीर्तिस्त्वद्दर्शनरसायनै । यथास्ता त्रिदशावासे मात्यनन्तालयेऽपि न ॥ १३ ॥ निर्निमेषं गलद्दोष निर्व्यपेक्षमपक्ष्मलम् । ज्ञानचक्षुः सदोन्निद्र न स्खलत्येव ते क्वचित् ॥ १४ ॥ सिद्धमिष्टं त्वदालोकाज्ज्ञात च ज्ञानिना त्वया । तत्युन. प्रोच्यतेऽम्माभि शसितु जाड्यमात्मन ॥ ५२ ।। इय प्राणप्रिया पत्नी समयेऽपि स्थिता सती । निष्फलेव क्रियात्यर्थमनपत्या दुनोति माम् ॥ ११ ॥ अदृष्टमति स्पष्टमिष्टार्थग्रमवामपि । इमामह मही मन्ये केवल भाग्मात्मनः ॥ १७ ॥ चतुर्थ पुरुषार्गय स्पृह्यालोर्ममाधुना । अदर्शनाथते मोहान्नन्दनस्याप्यदर्शनम् ॥ १८ ॥ दशामन्त्या गतस्यापि पुसन्तावन्न शम्यते । प्रदीपम्येव निर्वाण यावन्नान्य प्रकाशयेत् ।। ५९ ।। त्कलत्रे कदानैव रसलीलालवालके । सपत्स्यते ममोद्भिन्नमनोरथतरो फलम् ॥ ६० ॥ श्रुत्वेति प्रत्युवाचेद मुनिर्भूपालकर्णयो । लग्नदन्तद्युनिव्याजात्सुधाधारा इवोद्विग्न् ।। ६१ ॥ नेदृक्चिन्ताक्लमस्यामि वस्तुतत्त्वज्ञ भाजनम् । नेत्राधृष्य क्वचित्तेजस्तमसा नाभिभूयते ॥ ६२ ॥ अयमया लक्षणस्य १ भवदीय चरणारविन्दसबन्धन पुरुषो जन उत्तमो भवति चाकरणशास्त्रस्याप्यगोचर व्याकरणे हि युप्मत्पदयोगेन म-यम पुरुषो भवति, न नृत्तम २ स्वंग, त्रिदशमिते आवास गृहे च ३ पाताले, असख्याते रहे च अनिश कीर्ति स्वर्ग पाताले च न मातीति भाव यश्चातिपुष्टोऽसख्याते चपि सदनपु न मा । तम्य त्रिदश मितेवावासेगु मान दृगपाम्नमेव ४ मोक्ष , नाशश्च काव्यमाला। धन्यस्त्व गुणपण्यानामापणस्त्वं महीपते । त्वमेव सश्रय. श्रीणा सरितामिव सागरः ॥ ६३ ॥ त्वत्कीर्तिजदुकन्याया इतो लोकत्रयातिथे । अन्त. प्रपत्स्यते राजव्राजहंसश्रिय शशी ॥६४।। न पर क्षत्रिया सर्वे त्वामनु त्रिदिवेश्वरा । नह्युदात्तस्य माहात्म्य लड्घयन्तीतरे स्वरा ॥ ६५ ।। क्षोदीयानहमस्मीति मात्मानमवजीगण । भवितासि त्वमचिराज्जगत्रयगुरोर्गुरु ॥ ६६ ।। गुणैर्घनोन्नते नून भवदावाग्निदीपित । त्वज्जन्मना जन शान्तिमभृतेनायमेष्यति ।। ६७ । या चैषा भवत पत्नी सुव्रता सुव्रताख्यया । हेपयिष्यति सा वेला रत्नकुक्षितयोदधे. ॥ ६८ ।। संसारसारसर्वस्व भूत्रयस्यापि भूषणम् । इदमेनोविषच्छेदि स्त्रीरत्नमिति बुध्यताम् ॥ ६९ ।। क्षुद्रतेज मवित्रीभि. स्त्रीभिदिग्भिग्विात्र किम् । धन्येय या जगञ्चक्षुर्द्योभि प्राचीव धास्यति ॥ ७० ॥ ,ण्मासादूर्ध्वमेतस्या सरस्या प्रतिमेन्दुवत् । चतुर्दशाधिको गर्भे दिवस्तीर्थकृदेष्यति ॥ ७१ ।। कृतार्थाविति मन्येथामात्मानौ तद्युवामिह । नह्यन्यो भविना लाभ सुतादेवविधात्पर ॥ ७२ ॥ जन्म वा जीवितव्य वा गृहमेधाथवा द्वयो । आ कल्प युवयोरेव यास्यति श्लाध्यतामित. ॥ ७३ ॥ इत्थ ग्रन्थिमिव प्रमथ्य कृतिना तेनोरुचिन्ताभर वागर्थाविव तौ प्रसादमधिक त प्रापितौ दपती । अन्तर्गूढगभीरभावपिशुन यं भावयन्तश्चिरा- जातास्ते प्रमदेन पीनपुलकप्रोल्लासिन सज्जना ॥ ७४ ॥ १ त्वत्पुत्रेण २. पश्चदशस्तीर्थकरो धर्मनाथ ३. गार्हस्थ्यम् ४ सर्ग] धर्मशर्माभ्युदयम् । २३ अथ तथाविधभाविसुतोदयश्रवणत. प्रणत पुनरप्यसौ । प्रमदगद्गवागिति वाग्मिना पतिरुवाच वचासि मुनि नृप. ।। ७५ ।। स्वर्गं सप्रति क पुनात्ययमथो कुत्राम्य जन्मन्यभू- लाभस्तीर्थकरत्वदानसुहृद मम्यक्त्वचिन्तामणे । इत्थ वाग्भववैभवन्यतिकर त्व ब्रूहि जन्मार्णवो- त्तीर्णस्याम्य भविष्यतो जिनपते. शुश्रूषुरेषोऽस्न्यहम् ॥ ७६ ।। इति प्रीतिप्राय बहलपुलकस्यास्य सकल कलङ्कातङ्कानामपशकुनमाकर्ण्य वचनम् । मुनि स्पष्ट द्रष्टु तदपरभवोदारचरित प्रकर्षेणाकापटिवधिनयनोन्मीलनविधिम् ॥ ७७ ।। ति महाकविश्रीहरिचन्द्रविर्गचते धर्मशर्माभ्युदये महाकाव्य् : तृतीय सर्ग । । चतुर्थ सर्ग अथापनिद्रावधिबोधचक्षु स्वहस्तमुक्ताबदवेक्ष्यमाण । जिनस्य तस्यापरजन्मवृत्तं वृत्तान्तसाक्षीव मुनिर्बभाषे ॥ १ ॥ यत्पृष्टमिष्ट भवतार्थसिद्धयै तत्पाथिवाकर्णय वर्ण्यमानम् । कथा कथचित्कविना श्रुता वा जैनी यनश्चिन्तितकामधेनु ॥२॥ स घातकीरखण्ड इति प्रसिद्धे द्वीपेऽस्ति विस्तारिणि पूर्वमेरु । नभो निरालम्बमवेक्ष्य केनाप्युज्जृम्भित स्तम्भ इवेक्ष्यते य ॥ ३ ।। विभूषयन्पूर्वविदाहमस्य मीतासरिद्दक्षिणकुलवर्ती । एकोऽप्यनेकेन्द्रियहर्षहेतुत्साभिधानो विषयोऽस्ति रम्य ॥ ४ ॥ राजन्ति यत्र म्फुटपुण्डरीकप्रकाशिन शाद्वलशालिवप्रा । च्युता निरालम्बतया कथचिदाकाशदेशा इव चारुतारा ॥ ५ ॥ उद्गायतीव भ्रमदिक्षुयन्त्रचीत्कारनादै. श्रुतिसुन्दरैर्य, । प्रनृत्यतीवानिललोलसन्यै स्वसपदुत्कर्षमदेन मत्त ॥ ६ ॥ १ रत्नत्रयम्यव सम्या वमिति मज्ञान्तरम रत्नत्रय च सम्यग्दर्शनजानचारित्रल- २ म्फुरितावधिज्ञाननेत्र सणम २६ काव्यमाला। युक्त तदाच्छिद्य वशीकृतेऽस्मिन्गोमण्डले तेन वृषोन्नतेन । रक्ताक्षता ब्रिभ्रदियाय रोषाद्वैरी वन यन्महिषीभिरेव ॥ ३०॥ यत्पुण्डरीकाक्षमपि व्यपास्य स्मराकृतेस्तस्य वशं गता श्री। सेर्प्य विरूपाक्ष इतो व्यधासीदेहार्धनद्धा किल शैलपुत्रीम् ॥ ३१ ॥ दोषोच्चयेभ्यश्चकित स विद्वान्गता पुनस्ते प्रपलाय्य तस्मात् । इत्यस्य विस्तारियशश्छलेन विरुद्धमद्यापि दिशो हसन्ति ॥ ३२ ॥ सकज्जलाश्रुव्यपदेशनिर्यद्भृङ्गावली वैरिविलासिनीनाम् । राज्ञा कृत तेन रसाब्धिलोलहृत्पद्मसकोचमवोचदुच्चै ॥ ३३ ॥ उत्खातखङ्गप्रतिविम्बिताङ्गो रराज राजा समरप्रदोषे । जयश्रियासावभिसारणाय नीलेन सवीत इवाशुकेन ॥ ३४ ॥ अनारत वीररसाभियोगैरायासितेव क्षणमम्य यून । विलासिनी भ्रूलतिकाग्ररङ्गच्छायासु विश्राममियाय दृष्टि ॥ ३५ ॥ सरागमुर्व्या मृगनाभिदम्भादपारकर्पूरपदेन कीर्त्या । रत्यापि दन्तच्छदरुक्छलेन स एकहेल सुभगोऽवगूढ ॥ ३६ ।। असत्पथस्थापितदण्डलब्धस्थामातिवृद्धो विहितस्थितिर्य । स एव रक्षार्थमशेषलक्ष्म्या. क्षात्रोऽस्य धर्मोऽजनि सौविदल ॥ ३७॥ प्रयच्छता तेन समीहितार्थान्नून निरस्तार्थिकुटुम्बकेभ्य । व्यर्थीभवत्यागमनोरथस्य चिन्तामणेरेव बभूव चिन्ता ॥ ३८ ॥ दूरात्समुत्तसितशासनोरुसिन्दरमुद्रारुणभालमूला । यस्य प्रतापेन नृपा कचाग्रकृष्टा इवाजग्मुरुपासनाय ॥ ३९ ॥ विधाय कान्तारसमाश्रितास्तान्हारावसक्तान्विदुषो द्विषश्च । क्रीडन्स लीलारसलालसाभिरासीच्चिर चञ्चललोचनाभिः ॥ ४० ॥ अथैकदा व्योम निरभ्रगर्भक्षणाक्षपाया क्षणदायिनाथम् । अनाथनारीव्यथनैनसेव स राहुणा प्रेक्ष्यत गृह्यमाणम् ॥ ४१ ॥ १ भूवलये, वेनुसमूहे व २ षोऽनवान, धर्मश्च ३ महिषत्वम् , अरुणनेत्रव ब ४ सैरिभीमि , कृताभिषेकाभि पत्नीभिश्च ५ कमलतुल्यनेत्रम् , विष्णु च ६ विकृतनेत्र , शिवश्च ७ कझुकी ८ कान्ता, रस-आश्रितान्, कान्तार-पम - श्रितान् ९ हार-अवमतान् , हा राव-सक्तान् १० पूर्णिमारात्री ११ चन्द्रम् ४ सर्ग] धर्मशर्माभ्युदयम् । २७ किं सीधुना स्फाटिकपानपात्रमिदं रजन्या परिपूर्यमाणम् । चलाद्विरेफोच्चयचुम्ब्यमानमाकाशगङ्गास्फुटकैरव वा ॥ ४२ ॥ ऐरावणस्याथ करात्कथचिच्युत सपङ्को बिसकन्द एष । कि व्योमि नीलोपलदर्पणाभे सश्मश्रु वक्र प्रतिबिम्बित मे !! ४३ ॥ क्षण वितर्क्येति स निश्चिकाय चन्द्रोपरागोऽयमिति क्षितीश । दृङ्मीलनाविकृतचित्तखेदमचिन्तयञ्चैवमुदारचेता ॥४४॥ (विशेषकम्) हा हा महाकष्टमचिन्त्यधाम्नि किमेतदत्रापतितं हिमाशौ । यद्वा किमुल्लङ्घयितु कथचिकेनापि शक्यो नियतेर्नियोग ॥ ४५ ॥ सुधाद्रवैर्मन्मथमात्मबन्धुमुज्जीव्य नेत्राग्निशिखावलीढम् । क्रुधेव तद्वैरविनिष्क्रयार्थ स्थाणोरसौ मूर्ध्नि पद विधत्ते ॥ ४६ ॥ कुतश्विर जीवति वाडवाग्नौ वर्तेत वार्धि सह जीवनेन । अनेन चेच्चारुवसुप्रपञ्चैर्नीयेत न प्रत्यहमेव वृद्धिम् ॥ ४७ ॥ सुधाकरेणाप्यजरामस्त्व नीता मुरा एव मयात्र नान्ये । इतीव पूर्णोऽप्यनिलज्जमान पुन पुन कार्श्यमसौ व्यनक्ति ॥ १८ ॥ सुदुर्वरध्वान्तमलिम्लुचानामुत्सार्य सेनामनिवार्यतेजा । रंतर्गलग्रन्थिमिवावलाना मान भिनत्त्येष चिरात्कराग्रे ॥ ४९ ॥ इत्येष नि शेषजगल्ललामलीलायमानप्रसरद्गुणोऽपि । राजा दशा प्रापदिहेदृशी चेत्को नाम तत्स्यात्सुखपात्रमन्य ॥ ५० ॥ उपागमे तद्विपदामवश्य पश्यामि किचिच्छरणं न जन्तो । अपाग्यपाथोनिधिमध्यपातिपोताच्युतस्येव विहगम्य ॥ ११ ॥ नीरोपिनाया अपि सर्वदास्या पश्यामि नार्द्र हृदय कदाचित् । युक्त तत पुसि कलामयेऽपि स्थिरो न लक्ष्म्या प्रणयानुबन्ध ॥५२॥ अल्पीयसि स्वस्य फले यदेषा विस्तारिता श्री परिवारहेतो । गुडेन सवेष्टय ततो मयात्मा मैकोटकेभ्य किमु नार्पितोऽयम् ॥ ५३॥ २ मत्कोटक पिपीलकसदृशो गुडादिमधुरपदार्थभक्षको 'मकोडा' इति प्रसिद्ध कीरविशेष १ चन्द्र २८ काव्यमाला। अहेरिवापातमनोरमेषु भोगेषु नो विश्वसिम कथंचित् । मृग सतृष्णो मृगतृष्णिकासु प्रतार्यते तोयधिया न धीमान् ॥५४॥ अन्याङ्गनासंगमलालसाना जरा कृतेर्ष्येव कुतोऽप्युपेत्य । आकृष्य केशेषु करिष्यते न पदप्रहारैरिव दन्तभङ्गम् ॥ ५५ ॥ क्रान्ते तवाङ्गे वलिभि समन्तान्नश्यत्यनङ्ग किमसावितीव । वृद्धस्य कर्णान्तगता जरेय ह्रसत्युदञ्चत्पलितच्छलेन ॥ ५६ ॥ रंसाढ्यमप्याशु विकासिकाशसकाशकेशप्रसर तरुण्यः । उदस्थिमातङ्गजनोदपानपानीयवन्नाम नर त्यजन्ति ।। ५७ ॥ आकर्णपूर्णं कुटिलालकोर्मि रराज लावण्यसरो यदङ्गे। वलिच्छलात्सारणिधोरणीभि प्रवाह्यते तज्जरसा नरस्य ॥ १८ ॥ अंसभृत मण्डनमङ्गयष्टेर्नष्ट क मे यौवनरत्नमेतत् । इतीव वृद्धो नतपूर्वकाय पश्यन्नधोधो भुवि बम्भ्रमीति ॥ ५९ ॥ इत्थ पुर प्रेष्य जरामधृष्या दृतीमिवापप्रसरोग्रदष्ट्र । यावन्न कालो ग्रसते बलान्मा तावद्यतिप्ये परमार्थसिद्वयै ॥ १० ॥ इत्येष सचिन्त्य विनिश्चितार्थो वैराग्यवान्प्रातरमात्यबन्धून् । पप्रच्छ राजा तपसे यियासु कि वा विमोहाय विवेकिना स्यात् ॥६१।। त प्रेक्ष्य भूप परलोकसिद्धयै साम्राज्यलक्ष्मी तृणवत्त्यजन्तम् । मन्त्री सुमन्त्रोऽथ विचित्रतत्त्वचित्रीयमाणामिति वाचमूचे ॥ ६२ ।। देव त्वदारब्धमिद विभाति नभ प्रसूनाभरणोपमानम् । जीवाख्यया तत्त्वमपीह नास्ति कुतस्तनी तत्परलोकवार्ता ॥ ६३ ॥ २ १ "वर्ण सित शिरसि वीक्ष्य शिरोरुहाणा स्थान जरापरिभवस्य तदेव पुमाम् । आरोपितास्थिशकल परिहत्य यान्ति चाण्डालकूपमिव दूरतर तरुण्य ॥' इति भर्तृह- रिशोकसमानार्थोऽय शेक अय प्रथम पाद कुमारसभव(१:३१)शोकस्य प्रथम पादश्च समान एव ३ खपुष्पशेखरतुल्यम् ४ चार्वाकमतमेतत् 'तत्र पृथि- व्यादीनि भूनानि चत्वारि तत्वानि । तेभ्य एव देहाकारपरिणतेय किण्वादिभ्यो मदशक्तिवचैतन्यमुपजायते । तेषु विनष्टेषु सत्सु स्वय विनश्यति । तच्चैतन्यविशिष्टदेह एवात्मा । देहातिरिक्त आत्मनि प्रमाणाभावात् ।' इत्यादि सर्वदर्शनसाहे द्रष्टव्यम्. ४ सर्गः] धर्मशर्माभ्युदयम् । न जन्मन प्राङ् न च पञ्चताया परो विभिन्नेऽवयवे न चान्तः । विशन्न निर्यन्न च दृश्यतेऽस्माद्भिन्नो न देहाविह कश्चिदात्मा ॥६॥ कि स्वत्र भूवह्निजलानिलाना संयोगत कश्चन यन्त्रवाहः । गुडान्नपिष्टोदकधातकीनामुन्मादिनी शक्तिरिवाभ्युदेति ॥ १५ ॥ विहाय तदृष्टमदृष्टहेतोर्वृथा कृथा पार्थिव मा प्रयत्नम् । को वा स्तनाग्राण्यवधूय धेनोर्दुग्ध विदग्धो ननु दोग्धि शृङ्गम् ॥६६॥ श्रुत्वेत्यवादीन्नृपतिर्विधुन्वन्भानुस्तमासीव स तद्वचांसि । अपार्थमर्थं वदत सुमन्त्र नामापि ते नूनमभूदपार्थम् ॥ ६ ॥ जीव स्वसवेद्य इहात्मदेहे सुखादिवह्बाधकविप्रयोगात् । काये परस्यापि स बुद्धिपूर्वव्यापारदृष्टेः स्व इवानुमेयः ॥ ६८ ॥ तत्कालजातस्य शिशोरपास्य प्राग्जन्मसंस्कारमुरोजपाने । नान्योऽस्ति शास्ता तदपूर्वजन्मा जीवोऽयमित्यात्मविदा न वाच्यम् ॥१९॥ ज्ञानैकसवेद्यममूर्तमेन मूर्ता परिच्छेत्तुमल न दृष्टि । व्यापार्यमाणापि कृताभियोगैभिनत्ति न व्योम शितासियष्टि ॥ ७० ॥ सयोगतो भूतचतुष्टयस्य यज्जायते चेतन इत्यवादि । मरुज्ज्वलत्पावकतापिताम्भ.स्थाल्यामनेकान्त इहास्तु तस्य ॥ ७१ ।। उन्मादिका शक्तिरचेतना या गुडादिसबन्धभवा न्यदर्शि । सा चेतने ब्रूहि कथं विशिष्टदृष्टान्तकक्षामधिरोहतीह ॥ ७२ ॥ तस्मादमूर्तश्च निरत्ययश्च कर्ता च भोक्ता च सचेतनश्च । एक कथचिद्विपरीतरूपादवैहि देहात्पृथगेव जीव ॥ ७३ ॥ निसर्गतोऽप्यूर्ध्वगति प्रसह्य प्राकर्मणा हन्त गतीर्विचित्राः । स नीयते दुर्धरमारुतेन हुताशनस्येव शिखाकलापः ॥ ७४ ॥ तदात्मन. कर्मकलङ्कमूलमुन्मूलयिष्ये सहसा तपोभिः । मणेरनर्घम्य कुतोऽपि लग्न को वा न पङ्कं परिमार्ष्टि तोयै ॥ ७५ ॥ १ जीव २. बाधकप्रमाणाभावात्. ३ लन्यपाने ४ व्यभिचार . ५ 'द्राकर्मणा' इति पाठ ३. काव्यमाला। दत्त्वा स तस्योत्तरमित्यबाधं ददौ सुतायातिरथाय राज्यम् । यन्निर्व्यंपेक्षा परमार्थलिप्सोर्धात्रीं तृणायापि न मन्यते धीः ॥ ७६ ॥ अथैनमापृच्छय सबाष्पनेत्रं पुत्रं प्रपित्सुर्वनसंनिवेशम् । प्रजा स भास्वानिव चक्रवाकीराक्रन्दिनीस्तत्प्रथमं चकार ॥ ७ ॥ त्यक्तांवरोधोऽपि सहावरोधैर्नक्षत्रमुक्तानुपदोऽपि राजा । प्रापद्वन पौरहृदि स्थितोऽपि को वा स्थिति सम्यगवैति राज्ञाम् ||७८॥ तद्वाहन श्रीविमलादिमादौ नत्वा गुरु भूपशतैरुपेतः । तत्रोग्रकर्मक्षयमूलशिक्षा दीक्षा स जैनीमभजज्जितात्मा ॥ ७९ ॥ तथा समुद्रामधिबिभ्रदुर्वी धुन्वन्नरातीनपि विग्रहस्थान् । मुंक्तोत्तमालकरण प्रजापो वनेऽपि साम्राज्यपदं बभार || ८०॥ ध्यानानुबन्धस्तिमितोरुदेहो मित्रेऽपि शत्रावपि तुल्यवृत्ति । व्यालोपगूढः स वनैकदेशे स्थितश्चिर चन्दनवञ्चकासे ॥ ८१ ॥ पूषा तपस्यल्परुचि सदोष शशी शिखावानपि कृष्णवर्मा । गुणोदधेस्तस्य ततो न कश्चित्तम समुन्मूलयत समोऽभूत् ।। ८२ ॥ निरामयश्रीसंदनाननीनं तीव्र तपो द्वादशधा विधाय । धन्योऽथ सन्यासविसृष्टदेह. सर्वार्थसिद्धि स मुनिर्जगाम ॥ ८३ ।। तत्र त्रयस्त्रिंशदुदन्वदायुर्देवोऽहमिन्द्र स बभूव पुण्यै । निर्वाणतोऽयर्वागधिकावधीना मूर्त. सुखानामिव य समूह. ॥ ८४ ॥ सा तत्र मुक्ताभरणाभिरामा यन्मुक्तिरामा निकटीबभूव । मन्ये मनस्तस्य ततोऽन्यनारीविलासलीलारसनिर्व्यंपेक्षम् ॥ ८५ ।। तस्य प्रभामामुररत्नगर्भा विभ्राजते रुक्मकिरीटलक्ष्मी । अव्याजतेजोनिवहस्य देहे द्राधीयसी प्रज्वलतः शिखेव ॥ ८६ ॥ २ नक्षत्रैर्मुक्कानुपदो राजा चन्द्र इति विरोध , (पक्षे) न-क्षत्रमुक्तानुपद ३ आ समुद्रा पृथ्वीं बिभ्रत् , (पक्षे) स उवी मुद्रा बिन्नन् मुद्रा योगशास्त्रादिप्रसिद्धा ४ शरीरस्थान्कामकोवादीन् , (पक्षे) युद्धस्थान् ५ मु- तानि त्यकानि उत्तमभूषणानि येन, (पक्षे) मौक्तिकमयोत्तमाभरण' , अनि ७ प्र- बानगृहम् ८ त्रयस्त्रिंशज्जलधिमितायु १ बन्धनम्, राज्ञामन्त पुर च ६ सर्गः] धर्मशर्माभ्युदयम् । रेखात्रयाधिष्ठितकण्ठहारिहारावली तस्य विभोर्विभाति । सुदर्शनस्यात्यनुरक्तमुक्तिमुक्ता कटाक्षप्रसरच्छटेव ॥ ८७ ।। नून सहस्रांशुसहस्रतोऽपि तेजोऽतिरिक्त न च तापकारि । शृङ्गारसाम्राज्यमनन्यतुल्य न चाभवत्तस्य मनोविकारि ॥ ८ ॥ नव वयो लोचनहारि रूपं प्रभूतमायु पदमद्वितीयम् । सम्यक्त्वशुद्धाश्च गुणा जगत्सु किं किं न लोकोत्तरमस्ति तस्य ।।८।। तस्य त्रियामाभरणाभिरामान्वक्तुं गुणान्वाञ्छति य समग्रान् । आप्लावयन्तं जगती युगान्ते मुग्धस्तितीर्षत्युदधि स दोर्भ्याम् ॥१०॥ शरद्दलादूर्ध्वमितश्च्युत सन्नस्या स गर्भे भवत. प्रियाया । शुक्तेरिव स्वातिभवोदबिन्दुर्मुक्तात्मकोऽऽवतरिष्यतीह ॥ ११ ॥ इति निशम्य स सम्यगुदीरिता यमवतान्यभवस्थितिमर्हतः । ससुहृदुत्पुलकस्तिलको भुव स्फुटकदम्बकदम्बकवद्बभौ ॥ १२ ॥ अथोचितसपर्यया मुनिमनिन्द्यविद्यास्पद पपूज्य सपरिग्रहो विधिवदेनमानम्य च । यथासमयमेष्यता सुमनसामिवातिथ्यवि. द्विधातुमयमर्हणा द्रुतमगादगार नृप ॥ २३ ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये चतुर्थ सर्ग । पञ्चम सर्ग। नत्र कारयितुमुत्सवं मुदा यावदेष सदमि न्यविक्षत । तावदम्बरतटावतारिणी प्रैक्षतामरविलासिनीर्नृप. ॥ १ ॥ तारका के नु दिवोदितद्युतो विद्युतोऽपि न वियत्यनम्बुदे । क्वाप्यनेधसि न वह्न्यो महस्तत्किमेतदिनि दत्तविस्मया ॥ २ ॥ कंधरावधि तिरोहिता घनै क्वाप्यभिन्नमुखमण्डलश्रिया । यामिनीरिपुजिगीषयोद्यत सोमसैन्यमनुकुुर्वती क्षणम् ॥ ३ ॥ १ मासघट्टात् २ पूर्वजन्मवार्ताम् काव्यमाला। रत्नभूषणरुचा प्रपञ्चिते वासवस्य परित. शरासने । अन्तरुद्धुरतडित्विषो जनैः स्वर्णसायकततीरिवक्षिताः ॥ ४ ॥ कान्तिकाण्डपटगुण्ठिता पुरा व्योममित्तिमनु वर्णकद्युतिम् । तन्वतीस्तदनुभाविताकृतीस्तूलिकोल्लिखितचित्रविभ्रमम् ॥ ५ ॥ शीतदीधितिधियाभिधावितै. सैहिकेयनिकुरम्बकैरिव । सौरभादभिमुखालिमण्डलैर्भ्राजितानि वदनानि बिभ्रतीः ॥३॥ स्वानुभावधृतभूरिमूर्तिना पद्मरागमणिनूपुरच्छलात् । भानुना क्षणमिह प्रतीक्ष्यतामित्युपात्तचरणा समन्मथम् ॥ ७ ॥ निष्कलकगलक्रन्दलीलुठत्तारहारलतिकापदेशतः । संगता इव चिरेण गौरवादन्तरिक्षसरितावगूहिताः ॥ ८ ॥ पारिजातकुसुमावतसकस्पर्शमन्थरमरुत्पुर सरा । पश्यतोऽथ नृपते सभान्तिक ता समीरणपथादबातरन् ॥९॥ (कुलकम्) पीवरोच्चकुचमण्डलस्थितिप्रत्ययानुमितमध्यभागया । दुर्वहोरुजघना जगल्लघूकुर्वतीरतुलरूपसंपदा ॥ १० ॥ तत्र कोकनदकोमलोपलस्तम्भमिन्दुमणिमण्डपं पुर । ता. प्रतापधृतमद्भुतोदय भूपतेर्यश इव व्यलोकयन् ॥ ११ ॥ तत्प्रतिक्षणसमुल्लसद्यशोराजहसनिकुरम्बकैरिव । कामिनीकरविवर्तनोच्छलच्छुभ्रचामरचयैर्विराजितः ॥ १२ ॥ दाक्षिणात्यकविचक्रवर्तिना हृच्चमत्कृतिगुणाभिरुक्तिभिः । पूरितश्रुतिशिरो विधूर्णयन्नेतुमन्तरिव तद्रसान्तरम् ॥ १३ ॥ सुखरश्रुतिमुदाररूपका रागिणी पृथगुपात्तमूर्छनाम् । गीतिमिन्दुवदनामिवोज्ज्वला भावयन्मुकुलितार्घलोचनः ॥ १४ ॥ एणनाभिमभिवीक्ष्य कक्षयो. क्षिप्तमीततिमिरानुकारिणम् । रत्नकुण्डलमिषेण भानुना सेन्दुना किमपि संश्रितश्रुति ॥ १५ ॥ अङ्गवङ्गमगधान्ध्रनैषधैः कीरकेरलकलिङ्गकुुन्तलैः । विभ्रमादपि समुत्क्षिपन्भ्रुवं भीतभीतमवनीश्वरै श्रितः ॥ १६ ।। ५ सर्गः] धर्मशर्माभ्युदयम् । १३ तत्र हेममयसिंहविष्टरे काञ्चनाचल इवोच्चकै स्थितः । सप्रमोदमुदितेन्दुसंनिभस्ताभिरैक्षि सदसि क्षितीश्वरः ॥१७॥(कुलकम्) कर्मकौशलदिदृक्षयात्र न प्राप्त एष पुरतोऽपि कि प्रभुः । सत्स्वपोहितुमित प्रभृत्यथो दौस्थ्यमर्थपतिरभ्युपस्थितः ॥ १८ ॥ एकका इह निशम्य तच्छलाद्बाधितु मनसिजोऽथवा गत । अन्यथास्य वसुधामिमामतिक्रामति युतिरमानुषी कुतः ॥ १९ ॥ तर्कयन्त्य इति ता परस्पर सप्रमोदमुपसृत्य भूपतिम् । जीव नन्द जय सर्वदा रिपूनित्यमन्दमुदचीचरन्वच. ॥ २० ॥ (त्रिभिर्विशेषकम्) ता स यत्नपरकिकरार्पिष्वासनेषु नृपतिर्न्य॑वीविशत् । वारिदात्ययदिनोपबृहितेप्वम्बुजेष्विव विरोचनो रुच ॥२१॥ ता क्षितीश्वरनिरीक्षणक्षणे रेजुरङ्कुरितरोमराजय । अङ्गमग्नविषमेषुमार्गणव्यक्तपुङ्खलबलाञ्छिता इव ॥ २२ ॥ निर्मलाम्बरविशेषितत्विषस्त स्फुरच्छ्रवणहस्तभूषणा । कान्तिमन्तममराङ्गना नृप तारका इव विधु व्यभूषयन् ॥ २३ ॥ सोऽथ दन्तकरकुन्दकुङ्मलस्रग्विभूषितसभ सभापति । आतिथेयवितथीकृतक्लमा इत्युवाच सुरसुन्दरीर्वच ॥ २४ ॥ यद्गुणेन गुरुणा गरीयसी स्वर्बिभर्ति गणना जगत्स्वपि । मन्दिराणि किमपेक्ष्य ता स्वय भूभुजामपि नृणामुपासते ॥ २५ ।। कि तु सा स्थितिरथातिधृष्टता व्याजमेतदथवातिभाषणे । त्वादृशेऽपि यदुपागते जने कि प्रयोजनमिहेति जल्प्यते ॥ २६ ॥ भारतीमिति निशम्य भूपते श्रीरुवाच सुरयोषिदीरिता । दन्तदीधितिमृणालनालकै. कर्णयोर्निदधती सुधामिव ।। २७ ।। मा वदस्त्वमिति भूपते भवद्दास्यमेव भुवि न प्रयोजनम् । वासरैस्तु कतिभि. पुरंदरोऽप्यत्र कर्मकरवद्यतिष्यते ॥ २८ ॥ १. वनम्, (पक्षे) आकाश . २ आकाशपक्षे श्रवणहस्तौ नक्षत्रे. काव्यमाला। निर्जरासुरनरोरगेषु ते कोऽधुनापि गुणसाम्यमृच्छति । अग्रतस्तु सुतरा यतो गुरुस्त्वं जगत्रयगुरोर्भविष्यसि ॥ २९ ॥ उक्तमागमनिमित्तमात्मनः सूत्रवत्किमपि यत्समासतः । तस्य भाष्यमिव विस्तरान्मया वर्ण्यमानमवनीपते शृणु ॥ ३० ॥ यच्चतुष्टयमनन्ततीर्थतोऽनर्धहायनमुदन्वतामगात् । तस्य पल्य (१) दलमन्तिम तथा भारतेऽभवदधर्मदूषितम् ॥ ३१ ॥ तेन धर्मपरिवर्तदस्युना शुद्धदर्शनमणौ हृते छलात् । वीक्षमाण इव केवलीश्वर वासवोऽनिमिषलोचनोऽभवत् ॥ ३२ ॥ अद्य भूप भवतोऽस्ति या प्रिया सुव्रता तदुदरे जिनोऽन्तरम् । अर्धवत्सरमतीत्य धर्म इत्ये यतीत्यवधितो विवेद स ॥ ३३ ॥ तत्प्रयाथ जननीं जिनस्य ता भाविनी चिरमुपाध्वमादरात् । इत्थमादिशदशेषनाकिना नायक समुपहूय न क्षणात् ॥ ३४ ॥ आगतोऽयमिह तत्तवाजया प्रेयसी नृप निशान्तवर्तिनीम् । ध्यातुमिच्छति सुराङ्गनाजन कौमुदीमिव कुमुद्वतीगण ॥ ३५ ॥ संवदन्तमिति भारती मुनेर्वाक्यप्रपञ्चमवधार्य स श्रियः । उत्सव द्विगुणितादरो द्वयेऽप्याशु धाम्नि पुरि च व्यदीधपत् ॥ ३६ ॥ ताश्च कञ्चुकिपुर सरास्ततस्तेन तूर्णमवरोधमन्दिरम् । भास्वताग्रचरसमदा रुचश्चन्द्रमण्डलमिव प्रवेशिता ॥ ३७ ॥ तत्र भूरिविबुधावतंसकप्रीतिपूरिगुणपूरपूरिताम् । अङ्गसौरभविसर्पिषट्पदा पारिजाततरुमञ्जरीमिव ॥ ३८ ॥ सभ्रमभ्रमितलोललोचनप्रान्तवान्तशुचिरोचिषा चयैः । अद्भुतं धवलितालयामपि ध्यामलीकृतविपक्षयोषितम् ॥ ३९ ॥ कामसिद्धिमिव रूपसंपदो जीवितव्यमिव यौवनश्रिय । चक्रवर्तिपदवीमिव द्युतेश्चेतनामिव विलासवेषयो. ॥ ४० ॥ १ मासषट्कोनजलधिमितवर्षाणाम् २ जिनम् ३ इन्द्र ४. मलिनीकृत धर्मशर्माभ्युदयम् । ५ सर्ग] तामनेकनरनाथसुन्दरीवृन्दवन्दितपदा द्युयोषित । हारिहेमहरिविष्टरे स्थिता मानुषेशमहिषी व्यलोकयन् ॥ ३१॥ (कुलकम्) तामुदीक्ष्य जितनाकनायिकाकायकान्तिमबलामिलापते । ताभिरप्रतिमकालसचितोऽप्युज्झित. सपदि चारुतामद ॥ ४२ ॥ श्रीरशेपसुखदा प्रियवदा भारती रतिरभेद्यकिकरी । सौम्यदृष्टिरपि कर्णमोटिका कालिका च रचितालकावलि ॥ ४३ ॥ शीलवृत्तिरपराजिता जने सा वृषप्रणयिनी मन स्थिति । ह्रीप्रसत्तिधृतिकीर्तिकान्तयः स्पर्धयेव कुलमण्डनोद्यता' ।। ४४ ॥ देव्य इत्यलमिमामुपासते प्रागपि प्रगुणिता गुणै स्वयम् । तन्निदेशरसपेशल हरेर्ब्रूहि कर्म किमु कुर्महेऽधुना ॥ ४५ ।। (कुलकम्) इत्युदीर्य च मिथ प्रणम्य च स्व निवेद्य च तदिन्द्रशासनम् । स्व स्त्रियस्त्रिभुवनेशमातर ता निषेवितुमिहोपचक्रिरे ।। ४६ ॥ अश्मगर्भमयमूर्ध्वमुद्धृत छत्रमिन्दुमणिदण्डमेकया । भ्राजते स्म सुदृशोऽन्तरुत्तरज्जाह्ववौघमिव मण्डलं दिव ॥ १७ ॥ कापि भूत्रयजयाय वल्गतो वल्गु तूणमिव पुष्पधन्वन । पुष्पचारु कबरीप्रसाधन मूर्ध्नि पार्थिवमृगीदृशो व्यधात् ॥ ४८ ॥ अङ्गरागमपि कापि सुभ्रुव साध्यसपदिव निर्ममे दिव । यामिनीव शुचिरोविष परा चारुचामरमचालयच्चिरम् ॥ ४९ ॥ मूर्ध्नि रत्नपुरनाथयोषित. सा कयापि रचितालकावलि । या मुमोष मुखपद्मसनिधौ गन्धलुब्धमधुपावलिश्रियम् ॥ १० ॥ एणनाभिरसनिर्मितैकया पत्रभङ्गिमकरी कपोलयो । अभ्यधत्त सुतनोरगाधतामुल्लसल्लंवणिमाम्बुधेरिव ॥ ५१ ॥ निष्कलङ्गमणिभूषणोच्चयै सा कयापि सुमुखी विभूषिता । तारतारकवतीन्दुसुन्दरी शारदीव रजनी व्यराजत ॥ ५२ ॥ १ मनोहरे सुवर्णसिंहासने २ भूपते ३ चामुण्डा वण्यसिन्धो. ४ हारन्मणिमयम् ५ लाकाव्यमाला। तावदेव किल कापि वल्लकीवेणुहारि हरिणेक्षणा जगौ । यावदर्थपतिकान्तयोदिता नाशृणोदमृतवाहिनीं गिरम् ॥ ५३ ।। एकया गुरुकलत्रमण्डले धृष्टकामुक इवाधिरोपितः । रागचञ्चलकराग्रलालित कूजति स्म हतमानमानक ॥ ५४॥ वल्गितभ्र नवविभ्रमेक्षण वेपितस्तनमुदस्तहस्तकम् । चारु चित्रपदचारमेकया नर्तितस्मरमनर्ति तत्पुर ॥ १५ ॥ यद्यदिष्टतममुत्तम च यज्ज्ञातपूर्वमिह यच्च किंचन । तत्तदाभिरभिकर्मकौशलं स्पर्धयेव विधिवद्वयधीयत ॥ ५९॥ सर्वतोऽपि मुमनोरमार्पितालकृतिर्गुणविशेषशालिनी । भारतीव सुकवेरभूत्तदा शुद्धविग्रहवती नृपप्रिया ॥ ५७ ॥ रात्रिशेषसमये किलैकदा सा सुखेन शयिता व्यलोकयत् । स्वप्नसततिमिमा दिवोऽर्हंतस्तीर्थपद्धतिमिवोत्तरिष्यतः ॥ १८ ॥ संचरत्पदभरेण निर्भर भज्यमानदृढकूर्मकर्परम् । कल्पगन्धवहलोलमुद्धुर राजतादिमिव गन्धसिन्धुरम् ॥ १९ ॥ शृङ्गसंततिकदर्थितग्रह शारदाभ्रमिव शुभ्रविग्रहम् । भूत्रयोत्सवविधायिन वृषं मूर्तिमन्तमिव बिभ्रत वृषम् ॥ ६ ॥ गर्जितम्लपितदिग्गजावलीगण्डमण्डलमदाम्बुनिर्झरम् । एणकेतनकुरङ्गलिप्सयेवान्तरिक्षरचितक्रमं हरिम् ॥ ११ ॥ रावरोषदलिताम्बुदावलीलग्नलोलरुचिसचयामिव । कधरामुरुकडारकेसरोल्लासिनीं दधतमुद्धतं हरिम् ॥ ६२ ।। (इति पाठान्तरम्) स्फारकान्तिलहरीपरम्पराप्लावितप्रकृतिकोमलाकृतिम् । तत्क्षणभ्रमदमन्दमन्दरक्षुब्धवारिधिगतामिव श्रियम् ॥ १३ ॥ संभृतभ्रमरसङ्गिविभ्रमं स्रग्द्वयं शुचि विकासिकौसुमम् । व्योम्नि दिग्गजमदाविल द्विधा जाह्ववौघमिव वायुना कृतम् ॥ १४ ॥ १. नृपपठ्या २ पट ३ धर्मम् ५ सर्ग.] धर्मशर्माभ्युदयम् । उपदग्धमधिरोप्य लाञ्छनच्छद्मनात्मभुवमङ्कमात्मनः । ओषधीरसनिषेवणैरिवोज्जीवयन्तमुदितौषधीश्वरम् ॥१५॥ कौमुदीरसविलासलालसं मीनकेतुनृपते. पुरोधसम् । कामिनीषु नवरागसंभ्रमाद्वैतवादिनमतिग्मतेजसम् ॥ १६ ॥ (इति पाठान्तरम्) सर्वथाहमपदोष एव कि ध्यामलो जन इति प्रतिज्ञया । लब्धशुद्धिमुडुदिव्यतण्डुलैश्चचितैरिव कृतोत्सव रविम् ॥ ६ ॥ स्तम्भितभ्रमितकुञ्चिताञ्चितम्फारितोदलितवेल्लितादिमिः । प्रक्रमैर्विहरदम्बुधौ युग मीनयोर्नयनयोरिव श्रिय ॥१८॥ प्राग्रसातलगतस्य तत्क्षणान्निर्यत सुकृतमत्तदन्तिन । कुम्भयोरिव युग समौक्तिक शातकुम्भमयपूर्णकुम्भयो ॥ १९ ॥ अभ्युपात्तकमलै केवीश्वरै सश्रुत कुवलयप्रसाधनम् । द्रावितेन्दुरसरागिसोदर सच्चरित्रमिव निर्मल सर ॥ ७० ॥ पीवरोच्चलहरिव्रजोडुरं सज्जनक्रमकरं समन्ततः । अब्धिमुग्रतरवारिमज्जितक्ष्माभृत पतिमिवावनीभुजाम् ॥ ७१ ।। स्वस्वदीधितिपरिग्रहग्रगामवेष्टितमिवाद्रिशेखरम् । चित्ररत्नपरिवेषमुच्चकैश्चारुहेमहरिणारिविष्टरम् ॥ ७२ ॥ अश्मगर्भमणिकिङ्किणीचयै. सानुभावमकृताश्रयैरिव । दिव्यगन्धहृत्तलोलषट्पदैः सस्वनै सुरविमानमन्वितम् ॥ ७३ ॥ मत्तवारणविराजित स्फुरद्वज्रहेतिभरतोरणोल्वणम् । लोलकेतुपृतनाकदम्बक नाकिनामिव विमानमम्बरे ॥ ७४ ॥ (इति पाठान्तरम्) १ महादेवभस्मीकृतम् २ जलपक्षिश्रेष्ठ ३ पीबरोच्चल-हरिनजोद्धरम् , (पो) पीवगेच्च लहरि व्रजोद्भुरम् ४ सजन-क्रमकरम् , (पक्षे) सब-नक्रमकरम् ५ उग्र- तर-वारि, (पक्षे) उप्र-तरवारि ६. क्षमाभृतो राजान पर्वताश्च ७ मत्सवारणो वर- ण्डक , (पक्षे) मत्तगज ८ हीरकप्रभाभरनिमिततोरणेन, (पक्षे) पविरूपायुधातिशयत स्रनामोल्म्बणम् काव्यमाला। अन्तरूर्ध्वप्रणिविस्फुरत्फणास्थालकोल्बणमणिप्रदीपकै । निष्फलीकृतरिरंसुभोगिनीफूत्कृतोद्यममहीन्द्रमन्दिरम् ।। ७५ ॥ क्व प्रयासि परिभूय मेदिनीं दौस्थ्यमत्पुर इतीव रोषतः । चित्ररत्नचयमुल्लसत्करैः स्फारितोरुहरिचापमण्डलम् ।। ७६ ॥ तीर्थर्कंतुरहमिन्द्रमन्दिरादेष्यत पथि समृद्धिभावत । अग्निमग्निकणसततिच्छलादुत्क्षिपन्तमिव लाजसंचयम् ॥ ७७ ।। प्रेक्ष्य तत्क्षणविनिद्रलोचना सा विहाय तलिनं सुभूषणा । पत्युरन्तिकमुपेत्य सुव्रता स्वप्नसङ्घमखिलं तमब्रवीत् ॥ ७८ ॥ बन्धुर तमवधार्य तस्य सद्वन्धुरन्तकरमेनमा फलम् । व्याजहार स रदाग्रदीधितिव्याजहारमुरसि प्रकल्पयन् ।। ७९ ॥ त निशम्य हृदि मौक्तिकावलीं दन्तजैर्द्विगुणयन्मरीचिभि । प्रीतिकन्दलितरोमकन्दलीसुन्दराकृतिरवीवदन्नृप ॥ १० ॥ (इति पाटान्तरम् ) देवि धन्यचरिता त्वमेव या स्वप्नमततिमपश्य ईदृशीम् । श्रूयता सृकृतकन्दलि क्रमाद्वर्ण्यमानमनपायि तत्फलम् ॥ ८१ ॥ वारणेन्द्रमिव दानबन्धुर सौरभेयमिव धर्मधुर्धरम् । केसरीशमिव विक्रमोदित श्रीस्वरूपमिव सर्वसेवितम् ॥ ८२ ॥ मात्यवत्प्रथितकीर्तिसौरभ चन्द्रवन्नयनवल्लमप्रभम् । भानुवद्भुवनबोधकोविद मीनयुग्मवदमन्दसमदम् ॥ ८३ ॥ कुम्भयुग्ममिव मङ्गलास्पदं निर्मल सर इव क्लमच्छिदम् । तोयराशिमिव पालितस्थितिं सिहपीठमिव दर्शितोन्नतिम् ॥ ८४ ।। देवतागमकर विमानवद्गीततीर्थमुरगस्य हर्म्यवत् । सद्गुणाढ्यमिह रत्नराशिवत्प्लुष्टकर्मगहन च वह्निवत् ॥ ८५ ॥ लप्स्यसे सपदि भूत्रयाधिप तीर्थनाथममुना त्वमात्मजम् । जायते व्रतविशेषशालिना स्वप्नवृन्दमफल हि न कचित् ॥ ८६ ॥ १ शय्याम् १९ १ सर्ग:] धर्मशर्माभ्युदयम् । इत्थं तदर्थकथया ह्रदि कुल्ययेव श्रोत्रान्तरप्रहितया हृदयेश्वरेण । देवी प्रमोदसलिलैरभिषिच्यमाना वप्रावनीव विलसत्पुलकाङ्कुराभूत् ॥ ७ ॥ स श्रीमानहमिन्द्र इत्यभिधया देवस्त्रयस्त्रिशतो- दन्वद्भि प्रमितायुषो व्यपगमे सर्वार्थसिद्धेष्च्युत । चन्द्रे विभ्रति रेवतीप्रणयता वैशाखकृष्णनयो- दश्या गर्भमवातरत्करितनु' श्रीसुत्रतायास्तदा ॥ ८ ॥ आगत्यासनकम्पकल्पित चमत्कारा, सुरा सर्वतो जम्भारातिपुर सरा सपदि ता गर्भे जिनं बिभ्रतीम् । स्तोत्रैस्तुष्टुवुरिष्टभूषणचयैरानर्चुरुच्चैर्जगु- र्भक्त्या नेमुरनतिपुर्नवरसैस्तत्कि न यत्ते व्यधु. ॥ ८९ ॥ अहमिह मेहमीहे यावदुच्चैर्विधातु कथमिव पुरुहूतोत्पादित तावदीक्षे । इति मनसि विलक्ष त क्षितीश सरल- त्रिदशकुसुमवृष्टिच्छमना द्यौरहासीत् ॥ ९ ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये पञ्चम सर्ग । ,ष्ट सर्ग । सा भारतीव चतुरातिगभीरमर्थ वेलेव गूढमणिमण्डलमम्बुराशे । पौरदरी दिगिव मेरुतिरोहितेन्दु गर्भं तदा नृपवधूर्दधती रराज ॥ १ ॥ तामादरादुदरिणीं रहसि प्रहृष्टा दृष्टि. प्रतिक्षणमुदैक्षत भूमिभर्तु । १ क्षेत्र भूमिरिव २ उत्मवम् ४. काव्यमाला। दैवादवाप्य तपनीयनिधानकुम्भीं साशङ्करङ्ककुलमूलकुटुम्बिनीव ॥ २ ॥ अन्तर्वपु प्रणयिनः परमेश्वरस्य निर्यद्यशोभिरिव सा परिरभ्यमाणा । स्वल्पैरहोभिरभितो घनसारसार- क्लृप्तोपदेहमिव देहमुवाह देवी ॥ ३ ॥ तृष्णाम्बुधेरपरपारमुपागत च निर्बन्धन च तनयं जनयिष्यतीयम् । तेनावरुद्धकलकेलिशकुन्तमुक्ति मुक्त्वान्यवस्तुषु बबन्ध न दोहदानि ॥४॥ वृद्धि परामुदरमाप यथायथास्या श्यामानन स्तनभरोऽपि तथातथाभूत् । यद्वा नितान्तकठिना प्रकृति भजन्तो मध्यस्थमध्युदयिन न जडा सहन्ते ॥ ५॥ तस्या कपोलफलके स्फटिकाश्मकान्तौ कदर्पदर्पण इव प्रतिविम्बिताङ्ग । रात्रावलक्ष्यत जनैर्यदि लाञ्छनेन श्रीकण्ठकण्ठजरठच्छविना मृगाङ्क ॥६॥ एकेन तेने बलिना स्वबलेन तस्या भक्त्वा बलित्रयमवर्धत मध्यदेशः । तेनैव समदरसेन सुहृत्तदाभू- दत्यन्तपीवरतर कुचकुम्भभार ॥ ७॥ उत्स्वातपकिलबिसाविव राजहसौ शुुभौ सभृङ्गवदनाविव पद्मकोषौ । १ भूमितलाद्देवानुकूल्येन लब्धमुवर्णकलशा मा कश्चिद्धार्षीदिति भयाकुला दरिद्रगु- हिणीव २ तेन गर्भस्थेन ४१ ६ सर्ग] धर्मशर्माभ्युदयम् । तस्या' स्तनौ हृदि रसै. सरसीव पूर्णे संरेजतुर्गवलमेचकचूचुकाग्रौ ॥ ८ ॥ गर्भे वसन्नपि मलैरकलङ्किताङ्गो ज्ञानत्रयं त्रिभुवनैकगुरुर्बभार । तुङ्गोदयाद्रिगहनान्तरितोऽपि धाम कि नाम मुञ्चति कदाचन तिग्मरश्मि ॥९॥ काले कुलस्थितिरिति प्रतिपद्य विद्वा- न्कर्तु यदैच्छदिह पुसवनादिकर्म । स्व.स्पर्धयेव तदुपेत्य पुरंदरेण प्रागेव निर्मितमुदैक्षत स क्षितीश. ॥ १० ॥ सा गर्भनिर्भरतया सकलाङ्गसाद- मासाद्य निष्क्रियतनुस्तरुणेन्दुगौरी । आलोकिता स्फटिककृत्रिमपुत्रिकेव भर्तुस्तदा मदयति स्म मनो मृगाक्षी ॥ ११ ॥ वज्रानलादि न ससर्ज न चोज्जगर्ज साश्चर्यमैलविल इत्यपरोऽम्बुवाह । अष्टौ च सप्त च जिनेश्वरजन्मपूर्वा- न्मासान्व्यधत्त नृपधामनि रत्नवृष्टिम् ॥ १२ ॥ पुष्पं गते हिमरुचौ तपसो वलक्ष- पक्षाश्रिता तिथिमथ त्रिजयामवाप्य । प्राचीव भानुमभिनन्दितसर्वलोक सासूत सूत्रितनय तनय मृगाक्षी ।। १३ ॥ शातोदरी शयनसनिहितेन तेन प्रोत्तप्तकाञ्चनसकाशरुचा चकाशे । कदर्पदर्पजयिना नयनानलेन कामद्विष शिरसि चान्द्रमसी कलेव ॥ १४ ॥ १ गवल माहिष शृङ्गम् २ ऐलविल कुबेर ३ त्रयोदशीम् काव्यमाला। अष्टोत्तरा दशशती शुभलक्षणाना बिभ्रत्स पुण्यविपणि. सहसापि दृष्टः । स्वर्गादृतेऽपि परमोत्सवनिर्निमेषाः काश्चित्रमत्र न चकार चकोरनेत्राः ॥ १५ ॥ गच्छन्नधश्चिरतर जिनजन्मदत्त. हस्तावलम्ब इव निर्मलपुण्यराशिः । अप्रेरितोऽपि भवनामरमन्दिरेषु नि संख्यशङ्खनिवह सहसोज्जगर्ज ॥ १६ ॥ रे रे भवभ्रमणजन्मजरान्तकाद्याः सद्य प्रयात शममेष जिनोऽवतीर्ण । इत्थ प्रशासदिव डिण्डिमचण्डिमोच्चै स्व व्यन्तरानकशतध्वनिरात्ततान ॥ १७ ॥ एको न केवलमनेकपमण्डलस्य गण्डाच्छिखण्डिगलकज्जलकान्तिचौर । ज्योतिर्गृहग्रहिलसिहसहस्रनादै- रुत्कंधर स जगतोऽपि मदो निरस्त ॥ १८ ॥ तत्काललास्यरसलालसमोक्षलक्ष्मी- विक्षिप्तपाणिमणिकङ्कणरावरम्यै. । जन्मन्यनल्पतरकल्पनिवासिवेश्म- घण्टास्वनै. स्वयमपूरि जगज्जिनस्य ।। १९ ।। बालस्य तस्य महसा सहसोद्यतेन प्रध्वसितान्धतमसे सदने तदानीम् । सेवागताम्बरमुनीनिव सप्त काचि- द्दीपान्व्यबोधयत केवलमङ्गलार्थम् ॥ २० ॥ जन्मोत्सवप्रथमवार्तिकमात्मजस्य तस्य प्रमोदभरदुर्ललितो नरेन्द्र। , व्यन्तरो देवयोनिभेद. १ सर्गः] १३ धर्मशर्माभ्युदयम् । नोर्वीशमौलिमणिमालिकयाज्ञयैव लक्ष्म्या पुनर्नियतमात्मसमीचकार ॥ २१ ॥ ते गन्धवारिविरजीकृतराजवर्त्म- न्यभ्राददभ्रघृणयो मणयो निपेतु । यैस्तत्क्षणोप्तसुकृतद्रुमबीजपुञ्ज- निर्यत्प्ररोहनिकराकृतिरन्वकारि ॥ २२ ॥ उत्क्षिप्तकेतुपटपल्लवितान्तरिक्ष चिक्षेप तीक्ष्णरुचिरत्र पुरे न पादान् । मन्ये पतत्रिदशपुष्परसप्रवाह- सदोहपिच्छिलपथच्छलपातभीत ॥ २३ ॥ संवाहयन्निव मनाक्चिरबन्धमुक्ता- स्त्वङ्गद्विसस्थुलपदा प्रतिपक्षवन्दी । मन्दारदाममधुसीकरभारवाही मन्दोऽतिमन्दगतिरत्र बभूव वायु ॥ २४ ॥ तौर्यों ध्वनि प्रतिगृह लयशालि नृत्त गीत च चारुमधुग नवत्तोरणश्री । इत्याधनेकपरमोत्सवकेलिपात्र द्रागेकगोत्रमिव भूत्रितय बभूव ॥ २५ ॥ शुभ्रं ऽभवद भूदपकण्टका भू- र्भक्त्येव भानुरभिगम्याचिर्बभूव । आरोग्यवानजनि जानपदोऽपि लोक- स्तत्कि न यत्सुखनिमित्तमभूत्तदानीम् ॥ २६ ॥ स्नाता इवातिशयशालिनि पुण्यतीर्थे तस्मिन्रजोव्यपगमात्सहसा प्रसन्ना । एष्यन्निजप्रणयिना त्रिदिवात्तदानीं सयोगयोग्यसमया ककुभो बभूवुः ॥ २७ ॥ काव्यमाला। रङ्गावलिध्वजपटोच्छ्रयतोरणादि- व्यग्रे निधीश्वरपरिग्रहचक्रवाले । उद्वेल्लनोल्लसितरत्नरुचा हसद्भि- र्निर्यामिकैरिव चिराचलितं निधानै ॥ २८ ॥ जाते जगत्रयगुरौ गरिमाम्बुराशि- नीरान्तरान्तरितविश्वमहिम्नि तत्र । कोऽन्यस्य राज्यमहिमेति किल प्रभाव- शक्त्या हत हरिहयासनमाप कम्पम् ॥ २९ ।। तत्कम्पकारणमवेक्षितुमक्षमाणि ज्ञात्वा शतान्यपि दशोज्वललोचनानाम् । अत्यन्तविस्मयरसोत्सुकचित्तवृत्ति- रिन्द्रोऽवधि समुदमीलयदेकनेत्राम् ॥ ३० ॥ तेनाकलय्य जिनजन्म जवेन पीटा- दुत्थाय तद्दिशि पदान्यपि सप्त गत्वा । देवो दिवस्तमभिवन्द्य मुदाभिषेक्तु प्रस्थानदुन्दुभिमदापयत क्षणेन ॥ ३१ ॥ उन्निद्रयन्निव चिराय शयालुधर्म तस्य ध्वनिर्भरितभूरिविमानरन्ध्र । हर्म्याणि मेदुरतरोऽपि सुरासुराणा द्राक्पारितोषकमिवार्थयितु जगाम ॥ ३२ ॥ ते पोडशाभरणभूषितदिव्यदेहा स्वस्वोरुवाहनजुष सपरिग्रहाश्च । हृल्लग्नजैनगुणसततिकृप्यमाणा- श्वेलुर्बलादिव दशाणि दिशामवीशा ॥ ३३ ।। स्वर्दन्तिन तदनु दन्तसर सरोज- राजीनटल्लंडहनाकवधूनिकायम् । १ लडह मुन्दर ६ सर्गः] धर्मशर्माभ्युदयम् । उत्फुल्ललोचनरुचा निचयैर्विचित्र सचित्रयन्निव दिवस्पतिरारोह ॥ ३४ ॥ ऐरावणश्चटुलकर्णझलझलाभि- रुड्डीनगण्डमधुपावलिरावभासे ।। यात्रोद्यत पथि जिनस्य पदे पदेऽसौ निर्मुच्यमान इव पापलवैस्त्रुटद्भिः ॥ ३५ ॥ गच्छन्ननल्पतरकल्पतरुप्रसून- पात्रीपवित्रकरकिकरचक्रवालै । सोढु तदीयविरहार्तिमशक्नुवद्भि क्रीडावनैरिव रराज स पृष्ठलग्नै. ॥ २६ ॥ अन्योन्यघट्टनरणन्मणिभूषणाग्रा वाचालितोच्चकुचकुम्भभरा सुराणाम् । उल्लासिलास्यरसपेशलकास्यताल. लीलाश्रिता इव रसाल्ललना प्रचेलु ॥ ३७ ।। गायन्नटन्नमदनुव्रजदप्यमन्द वृन्द तदा दिविषदा मिलदासमन्तात् । देव पृथक्पृथगुणात्तविशेषभावै- स्तुल्य सहस्रनयनो नयनर्ददर्श ॥ ३८॥ उद्दामरागरससागरमग्नहूहू- हाहादिकिनरतरङ्गितगीतसक्त । सत्रासहेतुषु नदत्स्वपि तूर्यलक्षे- ष्वन्तर्न शीतकिरण हरिणो बबाधे ॥ ३९ ॥ क्रूर कृतान्तमहिषन्तरणे स्तुरगा- द्योति. कुरङ्गरिपव. (१) पवनस्य चैण । १ ‘गजकर्णगतिझलझलेत्युच्यते' इति कामन्दकीयनीतिसारटीका (१।४५) काव्यमाला। सर्वे सम ययुरमी जिनमार्गलग्ना के वा त्यजन्ति न परस्परवैरभावम् ॥ ४० ॥ पुष्पैः फलैः किसलयैर्मणिभूषणैश्च तैस्तैर्विचित्रवरचीवरसंचयैश्च । कर्तु जिनेन्द्रचरणार्चनमुत्तरन्त. कल्पद्रुमा इव वियत्यमरा विरेजुः ॥ ४१ ।। अन्योन्यसचलनघट्टितकर्कशोर - क्षुण्णोरुहारमणयो नटना सुराणाम् । तारापथात्करिघटाचरणप्रचार- सचूर्णितोडुनिचया इव ते निपेतु ॥ ४२ ॥ सूर्यापगामिभिरिभैर्मरुता कराग्र- व्यापारिताभिरभितापिनि गण्डमूले । गण्डूषवारिविसरप्रसरच्छटाभि- र्दध्रे क्षण श्रवणचामरचारुलक्ष्मी ॥ ४३ ॥ रक्तोत्पल हरितपत्रविलम्बि तीरे त्रिस्रोतस स्फुटमिनि त्रिदशद्विपेन्द्र । बिम्ब विकृप्य सहसा तपनस्य मुञ्च- न्धुन्वन्कर दिवि चकार न कस्य हास्यम् ।। ४४ ॥ तारापथे विचरता सुरसिन्धुराणा सृत्कारनिर्गतकराम्बुकणा इवारात् । तारा सुरैर्ददृशिरेऽथ मिथोऽङ्गसङ्ग- त्रुट्यद्विभूषणमणिप्रकरानुकारा ॥ ४५ ॥ त्रैविक्रमक्रमभुजंगमभोगमुक्ता निर्मोकरज्जुरिव दृष्टविषातिरेका । १ दृष्टजलाधिक्या च ६ सर्ग:] धर्मशर्माभ्युदयम् । ४७ व्योमापगा द्युपुरगोपुरदेहलीव देवैर्व्य॑लोकि घटिता स्फटिकोपलेन ।। ४६ ॥ रेजे जिन स्नपयितु पतता सुराणा शुभ्रा विमानशिखरध्वजपङ्क्तिरभ्रे ! आनन्दकन्दलितरूपशत पतन्ती ज्ञात्वा निजावसरमम्बरनिम्नगेव ।। ४७ ॥ नाते जिने भुवनशास्तरि संचरन्त स्वर्दन्तिनो नभसि नीलपयोदखण्डम् । नाथादृत्ते प्रथममिन्दुपुरप्रतोल्या दत्त कपाटमिव लोहमय बभञ्जु ॥ ४८ ॥ अव्याहतप्रसरवातविवर्तमान- नीलान्तरीयविवरस्फुरितोरुदण्डा । बाह्यच्छविव्यपनयार्पितगर्भशोभा रंम्भेव कस्य न मनो हरति स्म रम्भा ।। ४९ ॥ यावज्जिनेश्वरपुर हरिराजधान्या स्वर्गौकसा नभसि धोरणिरापतन्ती । लोकस्य शास्तरि जिने दिवमारुरुक्षो- र्नि श्रेणिकेव सुकृतेन कृता रराज ॥ ५० ॥ वल्गद्धनोरुलहरीनिवान्तराल- हेलोल्लसन्मकरमीनकुलीरषोतान् । ये यानपात्रपटलप्रतिमैर्विमान- रुत्तेरम्बरमहाम्बुनिधेरमर्त्या. ॥ ११ ॥ द्वारि द्वारि नभम्तलान्निपतितैस्तूपैर्मणीना मुनि- क्रीडापीतपयोधिभूतलमिव व्यालोकयद्यद्यपि । एकस्यैव जगद्विभूषणमणेस्तस्यार्हतो जन्मना मेने रत्नपुर तथापि मरुता नाथस्तदा सार्थकम् ॥ १२ ॥ १ अन्तरीयमधोवत्रम् २ कदलीव ३ समूह काव्यमाला। पुरमिव पुरुहूतः प्राञ्जलिस्त्रिः परीत्य त्रिभुवनमहनीयं हर्म्यमस्यातिरम्यम् । समुपनयनबुद्ध्या विश्वविश्वाधिपत्य श्रियमिव सहसान्तः प्रेषयामास कान्ताम् ॥ १३ ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये षष्ठ सर्ग । सप्तम सर्ग । प्रविश्य सद्मन्यथ सुव्रताया समर्प्य मायाप्रतिरूपमङ्के । शची जिन पूर्वपयोधिवीचे समुज्जहारेन्दुमिवोदित द्यौः ॥ १ ॥ अवाप्य तत्पाणिपुटाग्रमैत्री प्रकाशमाने जिनयामिनीशे । करारविन्दद्वितय तदानी बिडौजस कुडलता जगाम ॥ २ ॥ प्रमोदबापष्पाम्बुकरम्बितेन दृशा सहस्रेण सहस्रनेत्र । अपश्यदम्याकृतिलक्षणाना सकष्टमष्टाम्यधिक सहस्रम् ॥ ३ ॥ अपारयन्नप्रतिरूपमङ्ग जिनस्य तस्येक्षितुमीक्षणाभ्याम् । सहस्रनेत्राय तदा समूह सुरासुराणा स्पृहयाबभूव ॥ ४ ॥ तमादरादर्भकमप्यदभ्रैर्गुणैर्गरीयासमशेषलोकात् । कृतप्रणामाय पुरदराय समर्पयामास पुलोमपुत्री ॥५॥ ससभ्रमेाँभ्रमुवल्लभस्य न्यधायि मूर्ध्नि त्रिदिवेश्वरेण । जयेति वाच मुहुरुच्चरद्भि कराञ्जलि स्वस्य सुरैरशेपै. ॥ ६ ॥ स तत्र चामीकरचारुमूर्ति. स्फुरत्प्रभामण्डलमध्यवर्ति । अनम्बुधारावरतुङ्गशृङ्गे नवोदितश्चन्द्र इवावभासे ॥ ७ ॥ तदङ्घ्रियुग्मस्य नखेन्दुकान्तिर्द्युदन्तिनो मूर्धनि विस्फुरन्ती । बभौ तदाक्रान्तिविभिन्नकुम्भम्थलोच्छलन्मौक्तिकमण्डलीव ॥ ८ ॥ अथाभिषेक्तु सुरशैलमूर्ध्नि तमुद्वहस्तीर्थकर कराभ्याम् । पथा ग्रहाणा स गजाधिरूढश्चचाल सौधर्मपति ससैन्य. ॥ ९ ॥ ध्वनत्सु तूर्येषु हरिप्रणीता स्तुतिस्तदाश्रावि सुरैर्न जैनी । १ निखिलजगत्प्रभुत्वम् २ शचीम् ३ .शची ४. ऐरावतस्य ५ इन्द्र . ७ सर्गः] १९ धर्मशर्माभ्युदयम् । मुहुस्तदारम्भचलाधरौष्ठप्रवाललीलाभिरवेदि किं तु ॥१०॥ अखण्डहेमाण्डकपुण्डरीकव्रजस्य दम्भात्रिदशोद्धृतस्य । सुवर्णकुम्भान्स्वशिरोभिरुद्वहनियाय तस्य स्नपनाय शेषः ॥ ११ ॥ विधूयमानामरमण्डलीभि प्रभोरुपान्ते सितचामराली । रराज रागोत्सुकमुक्तिमुक्तकटाक्षविक्षेपपरम्परेव ॥ १२ ॥ प्रदह्यमानागुरुधूमलेखाकरम्बित व्योम बभौ तदानीम् । जिनस्य जन्माभिषवोत्सवार्थमिवागताशेषभुजगलोकम् ॥ १३ ॥ तमिन्दुशुभ्रध्वजनिर्मलोर्मिः सितातपत्रस्फुटफेनपुञ्जः । सुरासुराणा निवहोऽभिषेक्तुं रराज दुग्धाब्धिरिवानुगच्छन् ॥ १४ ॥ बभौ पिशङ्ग कनकोज्वलाभि प्रभाभिरस्याभ्रमुजीवितेशः । प्रभु तमायान्तमवेत्य भक्त्या स संमुखायात इवाद्रिराज ॥ १५ ॥ सुधाप्रवाहैरिव हारिगीतैस्तरङ्गिते व्योममहाम्बुराशौ । भुजभ्रमोल्लासितलास्यलीलाछलात्प्लवन्ते स्म मरुत्तरुण्य ॥ १६ ॥ दिवोऽपि सदर्शितविभ्रमाया सितैकवेणीमिव वृद्धमूर्ते । स निर्जराणामधिप पतन्ती मुमोच दूरेण सुरस्रवन्तीम् ॥ १७ ॥ स चित्रमन्तर्हितभानुकान्त्या प्रभोरमुष्योपरि मेघखण्डम् । सहेमकुम्भम्य बभार शोभा मयूरपत्रातपवारणभ्य ॥ १८ ॥ प्रयाणवेगानिलकृष्यमाणा घना विमानानि तदानुजग्मु । तदग्रवेदीमणिमण्डलाशुस्फुरन्मरुच्चापजिघृक्षयेव ॥ १९ ॥ स वारिधेरन्तरनन्तनालस्फुरद्धरित्रीवलयारविन्दे । उपर्यटत्वट्पदकर्णिकाम् ददर्श मेरु सपयोदमिन्द्र ॥ २० ॥ अधः कृतरतावदनन्तलोक श्रिया किमुच्चैस्त्रिदशालयो मे । इत्यस्य रोषादरुणा़ञ्जनेत्र भुवा-युदस्तास्यमिवेक्षणाय ॥ २१ ॥ परिस्फुरत्काञ्चनकायमाराद्विभावरीवामरयोर्भ्रमेण । विडम्बयन्त नवदपतीभ्यां परीयमाणानलपुञ्जलीलाम् ॥ २२ ॥ १ अय वशस्थवृत्तपादोऽत्र प्रमादापतित इति भानि २ देवानना ४ एतदुत्तरार्धमस्फुटम् ३ गहाम् काव्यमाला॥ रवीन्दुरम्योभयपार्श्वमन्तधृतेन्द्रनीलद्युति हेमकायम् । सचक्रशङ्खस्य पिशङ्गवस्त्रा त्रिविक्रमस्याकृतिमुद्वहन्तम् ।। २३ ॥ घनानिलोत्थैः स्थलपङ्कजाना परागपूरैरुपबृहिताग्रम् । मुहुर्जिनस्याफ्ततोऽतिदूरादुदश्चितग्रीवमिवेक्षणाय ॥ २४ ॥ दिगन्तरेभ्यो द्रुतमापतद्भिर्घनैर्घनाखण्डलचापचित्रै । उपान्तरत्नप्रकरोपहारैरह्धरैरिवाद्रीन्द्रमुपास्यमानम् ॥ २५ ॥ सिताब्दरुद्धार्धहिरण्यदेह शिर स्फुरत्पाण्डुशिलार्धचन्द्रम् । कपालमालाललितोडुपङ्क्तया धनार्धनारीश्वरमूर्तिशोभम् ॥ २६ ॥ अमी भ्रमन्तो विततस्थलान्मे ग्रहा ग्रहीष्यन्ति सुवर्ण कोटी । इतीव तेषा प्रसर निरोद्धु धनानुपान्ते दधत सचापान् ॥ २७ ॥ नितम्बिनी सततमेव भास्वत्कराभिमृष्टोच्चपयोधराग्रा । समासजन्त सरिता प्रवाहैस्तटी क्षरत्स्वेदजलैरिवार्द्रा ॥२८॥ असह्यहेतिप्रसरैः परेषा प्रभञ्जनात्याप्तहिरण्यलेशै । महस्विसैन्यै कटकेप्वटद्भिनिषेवित साधु महीधरेन्द्रम् ॥ २९ ॥ मरुद्धनद्वशमनेकताल रसालसंभावितमन्मथैलम् । धृतस्मरातङ्कमिवाश्रयन्तं वन च गान च सुराङ्गनानाम् ॥ ३० ॥ तटैरुदञ्चन्मणिमण्डलाशुच्छटैरुदृढोच्छिखबर्हिशद्वाम् । सचेतसोऽपि प्रथयद्भिरुच्चै प्रतारितानेकविडालपोतम् ।। ३१ ।। विशालदन्त घनदानवारि प्रसारितोत्दामकैराग्रदण्डम् । उपेयुषो दिग्गजपुगवस्य पुरो दधान प्रतिमल्ललीलाम् ॥ ३२ ॥ भावन्तो देदीप्यमाना ये करा हस्ता , (पक्ष) मास्वत सूर्यस्य करा किरणा ३ मरुतो देवा , महद्वायुश्व वशो वशीनामक वाद्यम्, बेणुश्च ४ ताल कालक्रियामानम्, वृक्षभेदश्च ५ रसेन अलस मन्थरम् भाविता मन्मथस्य कामस्य एला गीतबन्धविशेषो येन, (पक्षे) रसालैराने सभाविता मन्मथा मदनसज्ञका वृक्षविशेषा एलालताश्च यस्मिन् ६ मणिकिरणेषु मयूरभ्रान्त्युत्पादनेन वञ्चिताने- कमार्जारशिशुम् दन्तोऽद्रिकटक , रदश्च ८ धन-दान-वारिम्, (पक्षे) धन-दानव- अरिम् १ शुण्डादण्डम्, किरणाप्रदण्ड व १ पर्वत ७ ७ सर्ग] धर्मशर्माभ्युदयम् । अधिश्रियं नीरदमाश्रयन्तीं नवान्नुदन्तीमतिनिष्कलाभानू । स्वनैर्भुजंगाशिखिना दधान प्रगल्भवेश्यामिव चन्दनालीम् ॥ ३३ ॥ गजभ्रमान्मुग्धमृगाधिनाथैर्विदार्यमाणान्नस्वरप्रहारैः । तडिच्छलानिर्गलदस्रधारान्दधानमा मेखलमम्बुवाहान् ॥ ३४ ॥ जिनागमे प्राज्यमणिप्रभाभिः प्रभिन्नरोमाञ्चमिव प्रमोदात् । समीरणान्दोलदबालतालैर्भूजैरिवोल्लासितलास्यलीलम् ॥ ३५ ॥ अकृत्रिमैश्चैत्यगृहैर्जिनाना कृत पवित्रोऽयमिति प्रयत्नात् । सुरेश्वरेणानमता प्रदत्तप्रतिष्ठयेवोच्छिरस महत्त्या ॥ ३६ ॥ विलङ्घय पन्थानमथामराणा पति स निष्कम्पचमूध्वजाग्रः । नितान्तवेगेन तमुत्सुकत्वात्किलागत संमुखमाससाद ॥३७॥ (कुलकम्) उपयुषोऽनन्तपथाध्वनीनाननेनसम्ताञ्शिरसा प्रतीच्छन् । निरन्तगया विबुधानुवृत्ते फल व्यनक्ति स्म तदामगराद्रि ॥ ३८ ॥ हरेर्द्विपो हारिहिरण्यकक्ष क्षरन्मदक्षालितशैलशृङ्ग । बभौ तडिद्दण्डविहारसार शरत्तडित्वानिव तत्र वर्षन ॥ ३९ ॥ सलीलमैरावणवामनाद्यैर्घृतानि यैरेव गजैर्जगन्ति । स्थिर दधत्तानपि मूर्ध्नि मेरुर्धराधराख्यामधरीचकार ॥ ४० ॥ सविक्रम क्रामति हास्तिके यन्त्रनाम नो नाम मनाग्गिरीन्द्र । असशयं सा जिनभक्तिरेव स्थिरा चकाराम्य महाचलत्वम् ॥ ४१ ।। मदेन मूर्धन्यमणिप्रभाभिर्विनिर्गतान्तस्तमसेव गण्डात् । निरुद्धदृष्टिप्रसरा सुराणा शनै शनैर्गन्धगजा प्रसस्नुः ॥ ४२ ॥ हिरण्यभूभृद्विरदैस्तदानी मदाम्बुधारास्नपितोत्तमाङ्ग । स दृष्टपूर्वोऽपि सुरासुराणामजीजनत्कज्जलशैलशङ्काम् ॥ ४३ ॥ १ लक्ष्मीयुक्त नीरद दन्तरहितमप्याश्रयन्नीं निकलाभमतिकान्तान्दरिद्रानिति यावत् एतादृशानवास्तरुणानपि भुजगान्विटाशिखिना चूलाधारिदासविशेषाणा खनै कटुभाषणे करणभूतैर्नुदली निकासयन्तीम्, इति वेश्यापक्षे, चन्दनालीपक्षे तु नीरद मेघम्, शिखिना मयूराणा वनरनिमलिनकान्नीन्भुजगावदन्तीम् २ निष्पापान ६२ काव्यमाला। मदाञ्जनेनालिखिता गजेन्द्रैः सहेषमुत्क्षिप्तखुराग्रटङ्काः । या किलाहार्यशिलासु जैनीमिहोत्किरन्ति स्म यशःप्रशस्तिम् ॥४४॥ कशाञ्चनै किचिदवाञ्चितास्याः पुरःप्रविष्टापरकायमश्वा । इह प्लुतोल्लङ्घनवल्गनाद्यैर्मुदेव लास्यं पुरतोऽस्य चक्रुः ॥ ४५ ॥ कृतश्रमा ये नववीथिकामु तुरगमा साधितपञ्चधारा । इहोच्चनीचं चरणैस्त एव विलङ्घय चान्ये नभसीव जग्मुः ।। ४६ ॥ दृद्वैस्तुरगाग्रखुरप्रहारैरिहोच्छलन्तो ज्वलनस्फुलिङ्गा । बभुर्विभिद्येव मही विभिन्नफणीन्द्रमौलेरिव रत्नसघा. ॥४७॥ समन्ततः काञ्चनभूमिभागास्तथा रथैश्चक्षुदिरे सुराणाम् । यथा विवस्वद्रथनेमिधारापथेऽरुणस्यापि मतिभ्रमोऽभूत् ।। ४८ ।। नितम्बमाघ्राय मदादुदञ्चच्छिर समाकुञ्चितफुल्लघोणम् । अनुव्रजन्तं चमरी महोक्षमिहारुणत्कष्टमहो महेश ॥ ४९ ॥ द्युयोषिता कर्षितकुन्तलाग्रा स्तनोरुजवाजघन स्पृशन्त । शनैरंभीका इव सविचेरुस्तरङ्गिणीतीरसरोजवाता ॥ ५० ॥ वियोगनामापि न सोढुमीश दिव स्वमुद्यानमिवावतीर्णम् । हरिः प्रपेदे सुमनोभिराम वन म तत्र पृथु पाण्डुकाख्यम् ॥ ५१॥ अथो जिनेन्द्रानुचरा' सुराणामपास्तविस्तीर्णकुथच्छलेन । विचित्रकर्माचरणैरशेषैश्चिरादमुच्यन्त मतगजेन्द्राः ॥ १२ ॥ स वारितो मत्तमरुद्द्विपौघ. प्रसह्य कामश्रमशान्तिमिच्छन् । रजस्वला अप्यभजस्रवन्तीरहो मन्दान्धस्य कुतो विवेक ॥ १३ ॥ गजो न वन्यद्विपदानदिग्ध पपौ पिपासाकुलितोऽपि तोयम् । स्वजीवितेभ्योऽपि महोन्नतानामहो गरीयानभिमान एव ॥ १४ ॥ करी करोत्क्षिप्तसरोरुहास्योच्छलन्निलीनालिकुलच्छलेन । कचेष्विवाकृृष्य हठेन यान्ती बुभोज वामामपि ता स्रवन्तीम् ॥५५॥ १ अहार्य पर्वत २ वरगाकर्षणे ३ अश्वस्य पञ्चविधा गतिर्धारेत्युच्यते ४ क्षुण्णा ५ कामुका . ६ वारितो जलात्, (पक्षे) वारितो निषिद्ध ७ सर्ग:] धर्मशर्माभ्युदयम् । अबालशेवालदलान्तरीयं व्युदस्य मध्यं स्पृशति द्विपेन्द्रे । तटाग्रभूमिर्जधनस्थलीव जलैरुदप्लावि वनापगायाः ॥१९॥ पयस्युदस्तोरुकरं मिमङ्कोर्द्विपाधिपस्योत्पतितं कपोलात् । उपर्यलोना वलयं चकासे सदण्डनीलातपवारणाभम् ॥ १७ ॥ विलासवत्या सरित. प्रसङ्गमवाप्य विस्फारिपयोधराया. । गजो ममज्जात्र कुतोऽथवा स्यान्महोदयः स्त्रीव्यसनालसानाम् ॥ १८ ॥ दलानि संभोगभरार्पितानि नखक्षतानीव सरोरुहिण्या । दधन्नदाम्भस्तलिनात्कथचिदवातरल्लब्धरसो महेभ ॥ १९ ॥ वनेऽत्र सप्तच्छदगन्धदत्तप्रतिद्विपभ्रान्तिविधूतवीतीन् । प्रयुज्य सामैव शनैर्गजेन्द्रान्विनिन्युरालानपद नयज्ञा ॥ ६ ॥ निषादिने साधुनयप्रयुक्ता स्वय स्वकायाकलनाय वारीम् । ददुर्महेभा क्रियते कथं वा जडात्मकैरात्महितप्रवृत्ति. ॥ ११ ॥ स्वलीनपर्याणमपास्य कृच्छ्रात्सुरैर्मुखारोपितवध्रनद्धा । र्हैयानमाहेषितदत्तकर्णा विनिन्यिरेऽश्वा भुवि वेल्लनाय ॥ १२ ॥ इतस्तनो लोलनभाजि वाजिन्यभिच्युता. फेनलवा विरेजु । तदङ्गसङ्गत्रुटितोरुहारप्रकीर्णमुक्ताप्रकरा इवोर्व्या ।। ६३ ॥ नदान्मिलच्छैवलजालनीला निरीयुराक्रम्य पयस्तुरगा । दिनोदये व्योम समुत्पतन्त पयोधिमध्यादिव हारिदश्वा. ॥ ६४ ॥ इह क्षरन्निर्झरवारिहारिण्यनल्पकल्पद्रुणि कल्पनाथ । निवेशयामास यथायथ स स्थलाम्बुशाखाचरवाहनानि ।। ६५ ।। तदादि भूमौ शिशुवक्रमान्या सकौतुक क्रामति नाकिचके । बभार दृग्दोषनिषेधयित्री यमश्छवि कज्जललाञ्छनस्य ॥ १६ ॥ भूदेव्या शिरसीव कुन्तलतुलालम्बिद्रुमश्यामले लीलोत्तसितकेतकीकिसलयस्योन्मुद्रयन्तीं द्युतिम् । २ वीतिरङ्कुशकमणि' ३ निजबन्धनरज्जम् ४ हयानना किनर्य ५ सूर्यरथाश्वा ६ इन्द्र ५. बालकस्यापि मुखादिषु दृष्टिदोष निवारणार्थ कजर- बिन्दु कुर्वन्ति. १ शय्यात ६ काव्यमाला। शृङ्गे वर्णगिरे स धूर्जटिजटाजूटाग्रपिङ्गत्विषि प्रेङ्खत्पाण्डुशिला कलामिव विधो कल्पाधिपः प्रैक्षत ॥१७॥ संसारार्तिमिव व्यतीत्य पदवीं शुक्लेन दिग्दन्तिना ध्यानेनेव महीभृतस्त्रिभुवनस्येवास्य मूर्ध्नि स्थितम् । ता कैवल्यशिलामिवार्धरजनीप्राणाधिनाथाकृति प्राप्यार्हन्निरतो व्रतीव सम भूदाखण्डलो निर्वृते ॥ ६८ ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये सप्तम सर्ग । अष्टम सर्ग । अथ सरभसमस्या न्यस्तविस्तीर्णभास्व- न्मणिमयहरिपीठे निर्भरोत्साहयोग । शरममिव हिमाद्रेरभ्रमातङ्गकुम्भा- ज्जिनपतिमवतार्य स्थापयामास जिष्णु ॥ १ ॥ मदनभिदमधास्यनूनमेन न मूर्ध्ना यदि कथमपि शेषस्तच्छिलापद्मवेष । अपि मृदुलमृणाली कोमलस्तद्दुरापा स कथमितरथाप्स्यत्क्षाभरोद्धारकीर्तिम् ॥२॥ किमतनुतरपुण्यै स्विद्यशोभि स्वय वा निजसमयसमेतैरूर्मिभि क्षीरसिन्धो । इति सुरपरिपाट्या शङ्कमानै शिलाया शिरसि सितमयूखै श्लिष्यमाण स रेजे ॥ ३ ॥ अनुगुणमनुभावस्यानुरूप विभूते समुचितमनुवृत्तेर्देशकालानुकूलम् । अविकलमकलङ्क निस्तुल तस्य भर्तु स्नपनविधिममर्त्या. प्रारभन्ते स्म तस्मिन् ॥ ४ ॥ १ अर्धचन्द्राकृतिम् २ मुक , सतुष्टश्च ८ सर्ग] धर्मशर्माभ्युदयम् । अवकरनिकुरम्बे मारुतेनापनीते कुरुत धनकुमारा' साधु गन्धोदवृष्टिम् । तदनु च मणिमुक्ताभङ्गरङ्गावलीमि. र्विरचयत चतुष्क सत्वर दिक्कुमार्यः ॥ ५ ॥ स्वयमयमिह धत्ते छत्रमीशाननाथ- स्तदनुगतमृगाक्ष्यो मैडलान्युत्क्षिपन्तु । जिनसविधममर्त्या नर्तिता बालवाल- व्यजनविधिसनाथा सन्तु सानत्कुमारा ॥ ६ ॥ वलिफलकुसुमस्रग्गन्धधूपाक्षताद्यै प्रगुणयत विचित्राण्यन्नपात्राणि देव्य । सलिलमिह पयोधेरेप्यति व्यन्तराद्या. षटुपटहमृदङ्गादीनि तत्सज्जयन्तु ॥ ७ ॥ प्रवणय वरवीणा वाणि रीणासि कस्मा- त्किमपरमिह ताले तुम्बरो त्व वरोऽसि । इह हि भरत रङ्गाचार्य विस्तार्य रङ्ग त्वरयसि नटनार्थ कि न रम्भामदम्भाम् ॥ ८ ॥ समुचित्तमिति कृत्य जैनजन्माभिषेके त्रिदशपनिनियोगाद्राह्यन्नाग्रहेण । कलितकनकदण्डोद्दण्डदोर्दण्डचण्ड सुरनिवहमवादीद्वारपाल कुबेर ॥ ९॥ (कुलकम बहलमलयजन्मोन्मिश्रकर्पूरपायु- प्रसरपरिमलान्धा श्रेणय षट्पदानाम् । जिनपतिमभिषेक्तु वाञ्छता त्रुट्यदेनो- निगलवलयतुल्या निर्लुठन्ति स्म तस्मिन् ॥ १० ॥ अयमतिशयवृद्धो निम्नगानामधीश कथमिममधिरोहत्वम्बुनाथो नगेन्द्रम् । १ हे बालमेघा २ मङ्गलान्यष्टी दर्पणदुर्वादध्यक्षतादीनि ३ रीणा खिन्ना काव्यमाला। इति तमुपरि मेरोनेंतुमुत्क्षिप्य देवा. कलितकनकककुम्भामारभन्ते स पङ्क्तिम् ॥ ११ ॥ अभिनवमणिमुक्ताशङ्खशुक्तिमवाल- प्रभृतिकमतिलोलैर्दर्शयन्नूर्मिहस्तै । जडजठरतयेक्षि व्याकुलो मुक्तकच्छ स्थविरवणिगिवाग्रे स्वर्गिभि क्षीरसिन्धु ॥ १२ ॥ उपचितमतिमात्रं वाहिनीना सहस्त्रै पृथुलहरिसमूहै। क्रान्तदिक्चक्रवालम् । अकलुषतरवारिकोडमजन्महीघ्रं नृपमिव विजिगीषु मेनिरे ते पयोधिम् ॥ १३ ॥ अनुगतभुजगेन्द्रान्मन्दराद्रीनिवोच्चै- र्दधतममलमुक्तामालिन स्वर्णकुम्भान् । सुरनिकरमुपेत वारिधिर्वीक्ष्य भूयो ऽप्यतिमथनभियेव व्याकुलोर्मिश्चकम्पे ॥ १४ ॥ उदधिनिहितनेत्रान्वीक्ष्य वाग्विभ्रमाणा निधिरमृतभुजस्तान्पालक केलिपात्रम् । विहितमुदमवोचद्वाचमेतामनुक्तो ऽप्यवसरमुखरत्व प्रीतये कस्य न स्यात् ॥ १५ ॥ नियतमयमुदञ्चद्वीचिमालाछलेनो- च्छलति जलदमार्गे ज्ञातजैनाभिषेक । तदनु जडतयोचैर्नाधिरोदु समर्थ. पतति पुनरधस्तात्सागर किं करोतु ॥ १६ ॥ प्रशमयितुमिवार्ति दुर्वहामौर्ववह्ने- र्यदधिरजनि चान्द्री शीलयामास भास । १ पूर्णागाधमध्यभावेन स्थूलोदरत्वेन च दृष्ट २ नदीनाम् , सेनानां च ३ पृथु लहरिसमूहै , (पक्षे) पृथुल-हरिसमूहै हरयोऽवा ४ अकलुषतरं वारि जलम् , (पक्षे तरवारि खा धर्मशर्माभ्युदयम् । १७ ८ सर्ग] तदयमिति मतिर्में क्षीरसिन्धुर्जनाना. मजनि हृदयहारी हारनीहारगौर. ॥ १७ ॥ द्विरदतरुतुरगश्रीसुधाकौस्तुभाद्याः कति कति न ममार्था हन्त धूतैर्गृहीता । इति मुहुरयमुर्वी ताडयन्नूर्मिहस्तै र्ग्रहिल इव विरावै. सागरो रोरवीति ॥ १८ ॥ पवनजववशेनोत्पत्य दूर पतन्तो जलधिजलतरङ्गा. कम्बुकिरिमीरभास । उपरि विततमुक्तासग्रहोत्तालबुद्धया झटिति कलिततारामण्डला वा विभान्ति ॥ १९ ॥ घनतरतरुणाढ्ये नात्र देशे न केना- प्यतिगुरुगिरिणा वा दुर्निवारप्रचारा. । स्वयमिममभिसस्रुर्यत्समस्ता स्रवन्त्यो निरूपममिदमस्मादस्य सौभाग्यमब्धे. ॥ २० ॥ अयमुपरि सविद्युत्तोयमादातुमब्धे- र्य॑तिषजति तमालश्यामलो वारिवाह । तुहिनकिरणकान्तं कान्तया श्लियमाण शिशयिषुरिव शौरि शेषपर्यङ्कपृष्ठम् ॥ २१ ॥ स्फुटकुमुदपराग सागरो मातर नः क्षितिमहह कदाचित्प्लावयिष्यत्यशेषाम् । इति किल जलवेग रोद्भुमाबद्धमाला कथमपि तटमस्य क्ष्मारुहो न त्यजन्ति ॥ २२ ॥ रतिविरतिषु वेलाकानने किंनरीभि. पुलकितकुचकुम्भोत्तम्भमासेव्यतेऽस्मिन् । १ उन्मत २ का इजायें ३ प्रचुरतरवृक्षेण समृद्धन, (पक्ष) बहुभिस्तरुणरायन ४ विकसितकुमुदवच्छेत , (प) कुमुत् भूमेहर्षस्तनापरागो बद्धमत्सर 58 काव्यमाला। चपलकलभलीलाभिन्नकङ्कोलकैला- परिमल मिलितालिध्वानधीर. समीर ॥ २३ ॥ अयमिह जटिलोर्मिर्भाति कङ्केल्लिवल्ली- किसलयललिताभिर्विद्रुमाणा लताभि । ज्वलिततनुरिवान्तर्वाडवाग्ने शिखाना विततिभिरतिगार्ध्योत्साहबहीयसीभि ॥ २४ ॥ इह हि मिलितरङ्गत्प्रौढसिन्धुप्रियायाः पुलिनजघनरङ्गोत्सङ्गसङ्गात्पयोधि । सरभसमुपकूजत्कुक्कुहकाणदम्भा- न्मसृणमणितलीलोल्लासम यस्यतीव ॥ २५ ॥ सकलजगदधृष्यस्यैकगाम्भीर्यभाजो बहुलहरियुतस्य प्रोल्लसत्कङ्कणस्य । इति निगदति तस्मिन्नाकिलोकस्य तस्या- प्यजनि सलिलराशेरन्तर नैव किचित् ॥ २६ ॥ सुरसमितिरसख्यै क्षीरपाथोधिनीर यदुरुकनककुम्भैरुच्चुलम्याचकार । चुलुककलितवार्धे स्मारयामास नश्य- द्वरुणनगरनारीम्तेन कुम्भोद्भवस्य ॥ २७ ॥ स्वपनविधिनिमित्तोपात्तपानीयपूर्णा सपदि दिवमुदीयु शातकुम्भीयकुम्भा । दृषद इव तदन्ये यच्च रिक्ता निपेतुः प्रकटमिह फल तज्जैनमार्गानुवृत्ते ॥ २८ ॥ अनुगतभुजमालालीलयारम्यमाणे- र्मणिघटपरिवर्तावर्तनै क्षीरसिन्धो । १ अतितृष्णासयोगदीर्घतमामि २ कुकहो जलपक्षिविशेष ३ 'मणित रति जिनम' ४ बहु लहरि, (पक्ष) बहुल-हरि ५ कङ्कण करभूषणम्, नलग ६ देवसमूह (सर्ग धर्मशर्माभ्युदयम् । उदकमुपनयद्भिदेववृन्दैस्तदानी- मभिनवमभिनीत चार्घटीयन्त्रचक्रम् ॥ २९ ॥ धनसुषिरततानामुद्भुरानद्धनादे तिरयति रवमुच्चैर्भिन्नभूमीध्ररन्ध्रे । प्रसरति नवनाट्यप्रक्कणत्किङ्किणीना- ममरसहचरीणा मङ्गलोद्गाररावे ॥ ३० ॥ कलुषमिह विपक्ष दर्शनादेव जित्वा स्वगुणगरिमहेलाक्रान्तसिहासनस्य । प्रथमममरनाथा भूत्रयस्येव राज्ये कनककलशतोयैश्चकुरम्याभिषेकम् ॥ ३१ ॥ (युग्मन्) जरठविशदकन्दप्रोज्ज्वलाया शिलाया प्रचलदरुणमुग्धस्निग्धपाणिप्रवाल । अमृतमधुरनीरै सिच्यमान. स देवै- रभिनव इव रेजे पुण्यवल्लीप्ररोहः ॥ ३२ ॥ हिमगिरिमिव मेरु नीरपूरैः मृजद्रि स्रपयितुमपि पृथ्वीमाशु पृथ्वी समर्थै । शिशुरपि जिननाथश्चुक्षुभे नो मनाग- प्यहह सहजधैर्य दुर्निवार्य जिनानाम् ।। ३३ ।। यदधरितसुधौधैरर्दृत स्नानतोयै सममसमसमृद्धचानेनिजु श्रद्वयाङ्गम् । जगति खलु जगया सर्वसाधारणाया तदसुलभममर्त्या भेजिरे निर्जरत्वम् ॥ ३४ ॥ नटदमरवधूना दृक्कटाक्षच्छटाभा. कनकरुचिकपोले तीर्थकर्तु, स्फुरन्ती. । १ वाटीयन्त्रमरप इति प्रसिद्धम् २ 'तत वीणादिक वाद्यमानद्ध मुरजादिकम् । चशादिक तु सुषिर कास्यतालादिक घम् ।। इत्यमर ३ अने निजुरक्षालयन् काव्यमाला। स्नपनसलिलशेषाशङ्कया मार्जयन्ती व्यधित हरिपुरध्री कस्य न स्मेरमास्यम् ॥ ३५ ॥ विशदमणिमयाभ्या वज्रसूचीविभिन्न- श्रवणयुगमिताभ्या कुण्डलाभ्या स रेजे । किमपि समधिगन्तुं तत्त्वविद्यारहस्यं सुरगुरुभृगुपुत्राभ्यामिव ज्ञानसिन्धु ॥ ३६ ॥ त्रिगुणवलितमुक्तातारहारापदेशा- दुरसि वरणमाला प्रक्षिपन्त्यस्तदानीम् । अहमहमिकयोर्वी श्रीश्च मुक्तिश्च तिस्र स्वयमपि वृणते स्म प्रेमवत्यस्तमेकम् ॥ ३७ ॥ निरुपममणिमाला तन्मुखेन्दोरुपान्ते विगलदमृतधाराकारमुन्मुद्रयन्ती । शशिनममलकान्त्याक्रम्य बन्दीकृताना विततिरिव विरेजे तत्प्रियाणामुडूनाम् ॥ ३८ ॥ मणिमयकटकाग्रप्रोतरत्नग्रहश्री स घनकनककाञ्चीमण्डलाभोगरम्य । त्रिदशरचितभूषाविभ्रमो हेमगौर कनकगिरिरिवान्यो मेरुशृङ्गे रराज ॥ ३९ ॥ ध्रुवमिह भविताय धर्मतीर्थस्य नेता स्फुटमिति स मघोना धर्मनाम्नाभ्यधायि । न खलु मतिविकासादर्शदृष्टाखिलार्था कथमपि विततार्थो वाचमाचक्षते ते ॥ ४० ॥ किमपि मृदुमृदङ्गध्वानविच्छेदमूर्छ. च्छुतिसुखसुषिरास्यप्रस्वनोल्लासिलास्ये । परिणमति सुुधात्माधीनगन्धर्वगीते व्यतिकरपरिरम्भे तत्र तौर्यत्रिकस्य ।। ४१ ॥ ५ प्राप्ताभ्याम्. ८ सर्ग:] धर्मशर्माभ्युदयम् । दलितकमठपृष्ठं चारुचारीप्रयोगै- र्भ्रमितभुजनिरस्तसस्तविस्तारितारम् । प्रकटघटितलिङ्गाकारमावर्तवृत्त्या प्रमदविवशमिन्द्रैस्तत्पुरस्तादनर्ति ॥ ४२ ॥ (युग्मम्) इति निरुपमभक्ति शक्तिमप्यात्मनीनां स्नपनविनययुक्त्या व्यक्तयन्त सुरेन्द्राः । स्तुतिभिरवितथाभि. स्तुत्यमेन समस्ता शिरसि निहितहस्ताः स्तोतुमारेभिरे ते ॥ ४३ ॥ अखिलमलिनपक्ष पूर्वपक्षे निधाय प्रथममुदितमात्रस्यापि संपूर्ण मूर्तेः । जिनवर तव कान्त्या यत्कलामात्रशेषः प्रतिपदमृतभानुः स्पर्धते तन्मुधैव ॥ ४४ ॥ मुनिभिरमलबोधैरप्यशक्यासु कर्तु स्तुतिषु तव गुणानामप्रगल्भप्रमेव । वरद मुहुरमन्दानन्दसदोहदम्भा- स्खलति गलगुहान्तनिर्भर भारती नः ॥ ४५ ॥ स्पृशति किमपि चेतश्चुम्बकग्रावगत्या त्वयि जिन जनताया' स्वस्वकार्योद्यताया । किमु कुतुकमपूर्वं नाथ यत्पूर्वजन्म- ब्रजवृजिनघनाय शृङ्खला निर्गलन्ति ॥ ४६॥ अमितगुणगणानां त्वद्गताना प्रमाण भवति समधिगन्तु यस्य कस्यापि वाञ्छा । प्रथममपि स तावद्व्योम कत्यङ्गुलानी- त्यनघ सुगमसंख्याभ्यासमङ्गीकरोतु ॥ ४७ ।। मनुज इति मुनीना नायक नाकिनाम- ष्यवगणयति यस्त्वा निर्विवेक. स एक. । काव्यमाला । सकलविदकलङ्क. क्षीणसंसारशङ्क- श्चकितजनशरण्य. कस्त्रिलोक्या त्वदन्यः ॥ ४८ ॥ न खलु तदपि चित्र यत्त्वयोदेष्यतापि प्रथममयमकारि प्राप्तपुण्यो जनोऽत्र । प्रतिशिखरि वनानि ग्रीष्ममध्येऽपि कुर्या- किमु न जलदकाल. प्रोल्लसत्पल्लवानि ॥ ४९॥ तव वृषमधिरूढो योऽपि तस्य धुलोक स खलु कियति दूरे यो जनेनापि लभ्यः । यदि चतुरगमाप्त प्राप्तवास्तदुराप तदपि जिन जनोऽय जन्मकान्तारतीरम् ॥१०॥ सर इव मरुमार्गे स्वच्छतोय तृषार्तै. स्तरुरिव रविरश्मिव्याकुलैरत्र सान्द्र । निधिरिव चिरदु स्थै शर्मणेऽस्माभिरेक कथमपि भवभीतैर्नाथ दृष्टोऽमि दिष्टया ।। ५१।। स्वगुणगरिमदौ स्थ्य रोदसी रन्ध्ररोषा- द्वयतिषजति जिनेश त्वद्यशश्चन्द्रगौरम् । कया कयममन्दा मन्दिरोद्योतशक्ति प्रकटयति घटान्तर्वर्तिरूप प्रदीप. ।। ५२ ॥ गुणपरिकरमुच्चै कुर्वनैव त्वयैते क्षणि उषदोषा रोषिताम्तद्विपक्षा । अथ न कथममीषा नेक्ष्यते त्वद्भयेन त्वदनुगतजनेऽपि प्रायश प्रीतिलेश ॥ १३ ॥ इह पिहितपदार्थे सर्वथैकान्तवल्ग- न्निबिडतमतमोभिर्विश्ववेश्मन्यकस्मात् । १ प धर्मम् , (पक्षे) वृषभम् २ य जनेन, (पक्षे) योजनेन क्रोशचतुष्टयात्मकेन ३ चतुरग चारित्रभारम् , (पक्षे) तुरगम् ९ सर्ग.] धर्मशर्माभ्युदयम् । त्वमसि स खलु दीपः केवलालोकहेतु शलभसुलभलीला लप्स्यते यत्र काम ॥ १४ ॥ अलमलममृतेनास्वादित त्वद्वचश्चे- त्किममरतरुलक्ष्म्या त्वय्यपि प्रार्थ्यमाने । जिन जगदतमस्क कुर्वति त्वत्प्रबोधे किमहिमरुचिना वा कार्यमत्रेन्दुना वा ॥ ५५ ॥ दुरितमुदित पाकोद्रेकात्पुराकृतकर्मणा झटिति घटयत्यर्हद्भक्ते. स्वशक्तिविपर्ययम् । उपजलतरुच्छायाछन्ने जने जरठीभव. द्युमणिकिरणैर्मीष्मो ग्रीष्मो न कि शिशिरायते ॥ ५६ ॥ इत्याराध्य त्रिभुवनगुरु तत्र जन्माभिषेके भक्त्या मातु पुनरपि तमुत्सङ्गभाजं विधाय । भूयो भूयस्तदमलगुणग्रामवार्ताभिरुद्य- ल्लोमानस्ते त्रिदशपतय स्वानि धामानि जग्मु ॥ १७ ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्येऽष्टम सर्ग । नवम सर्ग । सिक्त सुरैरित्थमुपेत्य विस्फुरज्जंटालबालोऽथ स नन्दनद्रुम । छाया दधत्काञ्चनसुन्दरी नवा सुखाय वप्गु. सुतरामजायत ॥ १ ॥ चित्र किमेतज्जिनयामिनीपतिर्यथा यथा वृद्धिमनश्वरीमगात । सीमानमुल्लङ्घय तथा तथाखिल प्रमोदवार्धिर्जगदप्यपूरयत् ॥ २ ॥ लप्स्यामहे तीर्णभवार्णव पुनर्विवेकिनं कैनमितीव त प्रभुम् । बाल्याङ्गसस्कारविशेषसत्किया किमप्यहपूविकया सिषेविरे ॥ ३ ॥ लोकस्त्रिलोक्या सकलोऽपि सप्रभ प्रभावसभावितमेकमर्भकम् । ज्योतिर्ग्रहाणामिव मण्डलो ध्रुवं ध्रुव समन्तादनुवर्तते स्म तम् ॥ ४ ॥ १ अटाला जटायुक्ता बाला केशा यस्य, (पक्षे) जटा मूलम् , आलचालमावाल २ काचन अनिर्वचनीयाम् , (पक्षे) काञ्चनवन्मुन्दरीम ३ पितु, मालाकागदेश्व काव्यमाला। तैस्तैस्त्रिसंध्यं मणिभूषणैः प्रभु तमेकमेवोपचचार वासवः । को वा दुरापा समवाप्य संपदं विचक्षण. क्षेमविधौ विमुह्यति ॥ ५ ॥ औत्सुक्यनुन्ना शिशुमध्यसशय चुचुम्ब मुक्तिनिभृतं कपोलयोः । माणिक्यताटङ्ककरापदेशतस्तथाहि ताम्बूलरसोऽत्र संगत ॥ ६ ॥ प्राच्या इवोत्थाय स मातुरङ्कत. कृतावलम्बो गुरुणा महीभृता । भून्यस्तपाद. सवितेव बालकश्चचाल वाचालितकिङ्किणीद्विजः ॥ ७ ॥ रिङ्खन्पदाक्रान्तमहीतले बभौ स्फुरन्नखाशुप्रकरेण स प्रभु । शेषस्य बाधाविधुरेऽस्य धावता कुटुम्बकेनेव निषेवितक्रमः ॥ ८ ॥ बभ्राम पूर्व सुविलम्बमन्थरप्रवेपमानाग्रपद स बालक । विश्वभरायां पदभारधारणप्रगल्भतामाकलयन्निव प्रभु ॥९॥ पुत्रस्य तस्याङ्गसमागमक्षणे निमीलयन्नेत्रयुग नृपो बभौ । अन्त कियगाढनिपीडनाद्वपु प्रविष्टमस्येति निरूपयन्निव ॥ १० ॥ उत्सङ्गमारोप्य तमङ्गजं नृप परिष्वजन्मीलितलोचनो बभौ । अन्तर्विनिक्षिप्य सुखं वपुर्गृहे कपाटयो संघटयन्निव द्वयम् ॥ ११ ॥ चित्रं प्रचिक्रीड यथा यथा करप्रकीर्णपासुप्रकरै कुमारकै । आदर्शवन्निर्मल एव सोऽभवत्तथा तथान्त फलितावनीत्रय ॥ १२ ॥ क. पण्डितो नाम शिखण्डमण्डने मराललीलागतिदीक्षकोऽथवा । नैसर्गिकज्ञाननिययधेर्जगद्गुरोर्गुरुश्च शिक्षासु बभूव तस्य क. ॥ १३ ॥ शस्त्रेषु शास्त्रेषु कलासु चाभवन्मनीषिणा यश्चिरसचितो मद । ज्ञानापणे तत्र पुर. स्थितेऽगलच्छरीरत स्वेदजलच्छलेन सः ॥ १४ ॥ बाल्य व्यतिक्रम्य समुन्नति क्रमाद्दधत्समस्तावयवानुवर्तिनीम् । लक्ष्मीं स नि शेषकलाजुषस्तदा पुपोष पीयूषमयूखमालिन ॥ १५ ॥ मध्यदिनेनेव सहस्रदीधितेर्महाध्वराग्नेर्हविषेत्र भूयसा । बाल्यव्यपायेन किमप्यपूर्वज्जिनस्य नैसर्गिकमप्यभून्महः ॥ १६ ॥ तस्योद्धताद्रिर्दशकंधरो मुदे वहन्न येनैक्षि महीमहीश्वरः । नाश्चर्यकृत्तस्य बभूव तद्य स येन दृष्टस्त्रिजगद्धुरंधरः ॥ १७ ॥ ९ सर्ग] धर्मशर्माभ्युदयम् । १५ चक्राज्ञशङ्खादिविलोकनोत्थया स्वकान्तसंकेतनिवासशङ्कया । मन्ये न लक्ष्मीर्नवपल्लवारुण तदङ्घ्रिपङ्करुहयुग्ममत्यजत् ॥ १८ ॥ उद्यत्पदाङ्गुष्ठनखाशुदण्डिकाप्रकाण्डगर्भ युगमस्य जङ्घयो । कार्तस्वरस्तम्भविशेषशालिनी जहास दोला नवधर्मसपद ॥ १९ ॥ अत्यन्तमव्याहत्तवेगवीर्ययोर्जगत्रयीनेत्रमनोगजेन्द्रयो । स्तम्भाविवोरूदृढबन्धहेतवे व्यधायिषाता ध्रुवमस्य वेधसा ॥ २० ॥ कण्ठीरवेणेव नितान्तमुन्नत नितम्बबिम्ब परिणाहि बिभ्रता । एनोमयी तेन जनस्य दर्शनात्प्रमत्तमातङ्गघटाविघट्टिता ॥ २१ ॥ तप्तो ध्रुवं प्राग्जिननाभिपल्वले विवेश दानोद्धुरधर्मसिन्धुरः । समुल्लसल्लोमलतापदेशतो मदाम्बुधारा कथमन्यथा तटे ॥ २२ ॥ लक्ष्मीरिहान्त पुरसुन्दरी चिर गुणै सह स्थास्यति सौविदल्लकैः । जानन्नितीवास्य मनोहित विधिर्व्य॑धाद्विशाल हृदयं दयावत. ॥२३॥ तस्यैकमुच्चैर्भुजशीर्षमुद्वहन्सहेलमालम्बितभूत्रयो भुज । भूभारनिर्युक्तशिर सहस्रक फणीश्वर दूरमधश्चकार स ॥ २४ ॥ रेखात्रयेणेव जगत्त्रयाधिका निरूपयन्त निजरूपसपदम् । तत्कण्ठमालोक्य ममज्ज लज्जया विशीर्यमाण किल कम्बुरम्बुधौ॥२५॥ यन्निस्तुलेनापि तदाननेन्दुना व्यधात्तुलारोहणमुग्रपातकम् । अद्यापि हेमद्युतिरुद्यतस्ततो भवत्यसौ श्वित्रविपाण्डुर शशी ॥ २६ ॥ स्निग्धा बभुर्मूर्धनि तस्य कुन्तला, कलिन्दकन्याम्बुतरङ्गभङ्गुरा । फुल्लाननाम्भोरुहि सारसौरभे निलीननि.शब्दमधुव्रता इव ॥ २७ ॥ वज्राजसारैरिव वेधसा कृतं तमास्पद विक्रमसौकुमार्ययो । उर्व्या. कर ग्राहयितु न केवल बभूव वध्वा अपि वप्तुराग्रह ॥२८॥ त यौवराज्ये नयशीलशालिन व्यधात्तनूजं नवयौवन नृपः । प्रागेव लोकत्रयराज्यसपदा निधानमेन न विवेद भूपतिः ॥ २९ ॥ तस्मिन्गुणैरेव नियम्य कुर्वति प्रकाममाज्ञावशवर्तिनः परान् । आसीन्नृपोऽन्त.पुरसारसुन्दरीविलासलीलारसिक स केवलम् ॥ ३० ॥ १ पितु ७ काव्यमाला। शृङ्गारवत्या दुहितु खयवरे प्रतापराजेन विदर्भभूभुजा । दूत कुमारानयनार्थमीरित समाययौ रत्नपुरप्रभोर्गृहम् ॥ ३१ ॥ भर्तु प्रतीहारनिवेदितस्तत प्रविश्य संसद्गृहमाहितानति. । भ्रूभेददत्तावसर स कर्णयो क्षरत्सुधासारमुवाच वाचिकम् ॥ ३२ ॥ कि चाग्रतस्तेन निरीक्ष्य भूपते कुमारमाकारविनिर्जितस्मरम् । तद्रूपशोभासुभगोऽम्य दर्शितो जगन्मनोलुण्ठनलम्पटः पट. ॥ ३३ ॥ पीयूषधारागृहमत्र नेत्रयोर्निरीक्ष्य कन्याप्रतिबिम्बमद्भुतम् । कि तथ्यमित्थ भवितेति चिन्तयन्पुरो नृप श्लोकमिम व्यलोकयत्३४ अस्याः स्वरूप कथमेणचक्षुषो यथावदन्यो लिखितुं प्रगल्भताम् । धातापि यस्याः प्रतिरूपनिर्मिती घुणाक्षरन्यायकृताकृतेर्जड ॥ ३५ ॥ ततोऽधिक विस्मितमानसो नृप सुतस्य तस्याश्च विलोक्य विग्रहम् । तच्चारुरूपासवपानघूर्णितोत्तमाङ्गसूचितमित्यचिन्तयत् ।। ३६ ।। य. स्वप्नविज्ञानगतेरगोचरश्चरन्ति नो यत्र गिर कवेरपि । यं नानुबध्नन्ति मन प्रवृत्तय स हेलयार्थो विधिनैव साध्यते ।। ३७ ॥ क्वाय जगल्लोचनवल्लभो युवा क्व कन्यकारत्नमतर्क्यमीदृशम् । तत्सर्वथा दुर्घटकर्मनिर्मितिप्रगल्भ्यमानाय नमोऽस्तु वेधसे || ३८ ॥ नून विहायैनमिय स्वयवरे वरार्थिनी नापरमर्थयिष्यति । इन्दु सदानन्दविधायिन विना किमन्यमन्वेति कदापि कौमुदी ॥३९॥ यत्कन्यकायामुपवर्ण्यते बुधै कुल च शील च वयश्च किंचन । सर्वत्र सबन्धविधानकारण प्रियस्य तत्प्रेम गुणैर्विशिष्यते ॥ ४० ॥ प्रत्यङ्गलावण्यविलोकनोत्सुक कृतस्पृहोऽस्या युवराजकुञ्जर । दृष्टयापि रागोल्बणया विभाव्यते करो यथान्तर्मददर्पदुःसह. ॥४१॥ इत्थं विचिन्त्यैष कृतार्थनिर्णयो नृपः सुत दारपरिग्रहक्षमम् । प्रस्थापयामास ससैन्यमादराद्विदर्भभूवल्लभपालितां पुरीम् ॥ ४२ ॥ राजा च दूतेन च तेन चोदितस्ततो ध्वजिन्या च मुदा च संयुत । रूपेण चास्यास्त्वरितस्मरेण च प्रभु प्रतस्थे स विदर्भमण्डलम् ॥४३॥ ९ सर्गः] धर्मशर्माभ्युदयम् । शोभा स बिभ्रत्करवालशालिनी सुवर्णसारं कैटकं प्रकाशयन् । भव्य च भीम च तदा प्रसाधनं बभार नारीहितपूरणक्षमम् ॥ ४४ ॥ दन्तीन्द्रमारुह्य स दानभोगवान्पथि प्रवृत्तश्च गुरोरनुज्ञया । शोभामसप्राप्तसहस्रचक्षुषः पुरदरस्यानुचकार सुन्दरीम् ।। ४५ ॥ धुन्वन्निवोर्वी दलयन्निवाम्बरं गिलन्निवाशाश्चलयन्निवाचलान् । प्रस्थानशसी पटहध्वनिस्तदा समुज्जजृम्भे जगदाक्षिपन्निव ॥ ४६ ।। ओंकारवत्प्रस्तुतमङ्गलश्रुते, समुस्थिते व्योमनि शङ्खनि स्वने । कण्ठेऽपतद्दयुप्रसवच्छलात्प्रभो स्वयवरस्रङ्निहितैव कान्तया ॥४७॥ राज्ञा प्रयुक्ता स्वयमाहितौजसः समर्पितालंकृतयः क्षितीश्वरा । त साधुशब्दा इव साध्यसिद्धये मनश्चमत्कारिणमर्थमन्वयुः ॥ ४८ ॥ भद्राश्च मन्दाश्च मृगाश्च केऽपि ये नदीगिरीन्द्रोभयवर्त्मचारिण । ते तस्य सकीर्णसमन्विता पुरो बभूवुरैरा रावतवराजा गजाः ॥ ४९ ॥ काम्बोजवानायुजबाह्विका हया. सपारसीका पथि चित्रचारिण । शैलूपसभ्या इव दृष्टिनर्तकीमनर्तयन्नृत्यविचक्षणा प्रभो ॥ ५० ॥ ता नेत्रपेया विनिशम्य सुन्दरी सुंधामलङ्कामयमान उत्सुक । क्रामन्नपाची हरिसेनया वृतो बभौ स काकुत्स्थ इवास्तदूषण. ॥११॥ कल्पद्रुचिन्तामणिकामधेनवस्तटेऽपि मग्ना खलु दानवारिधे । स्तोत्रैरजस्र कथमन्यथार्थिनो धनार्थमस्यैव यशाप्ति तुष्टुवुः ॥ १२ ॥ रत्नावनीबिम्बितचारुमूर्तयो विरेजिरे तस्य चमूचरा. प्रभोः । विज्ञाय सेवावसर रसातलाद्विनि सरन्तो भवनामरा इव ॥ १३ ॥ लावण्यकासारतरङ्गसीकरत्रजैरिवोद्वत्तभुजानपात्तिभि । लाजैस्तमानर्चुरुदग्रमन्मथद्रुमप्रसूनैरिव पौरयोषितः ॥ १४ ॥ १. खड्ग , (पक्षे) कराश्च वालाश्च(') २ शोभनवर्णा ब्राह्मणादय , ३ सेना, भूषणविशेषश्च ४ न भरीणामिति च्छेद , (पक्षे) नारीणाम् ५ सुधा मल. कामयमान , (पक्षे) सुधाम-लङ्का-अयमान ६ दक्षिण दिशम् अश्वसेनया, वा- नरसेनया च. ८. दूरीकृतदोष , नाशितदूषणाख्यराक्षसच. कनक च काव्यमाला। जीवेति नन्देति जयेति चोच्चकैरुदीरिताशीर्जरतीभिरात्मनः । सिद्धेरिव द्वारमवाप तत्क्षणं पुरस्तदानीं युवराजकुञ्जर. ॥ ५५ ॥ अग्रे प्रसर्पञ्चतुरङ्गविस्तृता कृशा च मध्ये विशिखावरोधतः । पश्चादतुच्छामपि ता पताकिनीं प्रियामिव प्रेक्ष्य स पिप्रिये प्रभु. ५६ हर्म्यरिवोत्तम्भितकुम्भशोभितैरुपात्तनानावलभीमतैर्गजै । निर्यान्तमुत्केव वियोगविक्लवा तमन्वगात्सालसमुन्नतै. पुरी ॥ ५७ ।। रम्याननेन्दोर्घृतकाननश्रियः श्रितस्य सद्भि सदनाश्रयस्य च । वेगेन भर्तु पथि गच्छतोऽन्तर महत्तदा तस्य पुरस्य चाभवत् ॥१८॥ श्रेणीव रेणूद्गमनिष्ठितावनिम्फुटीभवच्छेषफणामणित्विषाम् । सर्पत्सु सैन्येषु रराज दन्तिना मदस्रुतिस्तत्क्षणपातलोहिनी ॥ ५९॥ कम्पाद्भुव क्षुभ्यदशेषवारिधिस्तदा भविष्यज्जगतोऽप्युपप्लव । अस्या व्यधाम्यन्भरभङ्गुराकृतेर्गजा न चेद्दानजलाभिषेचनम् ॥३०॥ प्रायोऽपदस्पृष्टमहीतला. खुरैर्वियद्गमान्यासरस हया व्यवुः । तन्मत्तमातङ्गचमूभराद्भुवो विभावयामासुरमी विपर्ययम् ॥ ६१ ॥ लीलाप्रचारेषु यथा यथा व्यधुर्नखाग्रभागोल्लिखन तुरगमाः । उत्सर्पिपासुप्रकरच्छलादभूत्तथा तथोर्व्या पुलकाङ्कुरोद्गमः ॥ १२ ॥ अन्त'स्खलल्लोहखलीननिर्गलद्विलोललाला जलफेनिलानना । चेलु पिबन्त पवनातिरंहसो द्विषद्यशासीव तुरगपुगवा ॥ ६३ ॥ तस्योत्क्रमालक्ष्यत पार्थयोर्द्वयो समुल्लसल्लोलपृथुप्रकीर्णका । ध्यानान्नभोवर्त्म॑गतेरसशयादुदीर्णपक्षेव तुरगमावलि ॥ ६४ ।। तस्य ब्रजबीरतुरगसनिधौ मयूरपत्रातपवारणव्रजः । वीचीचयोल्लासितशैवलावलीविलासमासादयति स्म तोयधे ॥६५॥ १ रध्या २ सेनाम् ३ उपात्ता नाना बलस्य बलेन वा भीमता भयकरत्व ये, (पक्षे) वलभी चन्द्रशाला तया मते ४ सालवत्समुन्नतै , (पक्षे) सालसमिति क्रिया- विशेषणम् ५ वनम् , (पक्षे) कुत्सित मुखम् ६ सतामनाश्रयस्य, (पक्षे) सदनाना गृहाणामाश्रयस्थ ९ सर्गः धर्मशर्माभ्युदयम् । दुष्प्रेक्ष्यतामस्य बलाभियोगतो रजोभिरुत्सर्पिभिरम्बरे गते । रक्तोऽपि दोषैकमयादिवोच्चकैर्न दिक्षु चिक्षेप दिवाकरः करान् ॥६६॥ आसिन्धुगङ्गाविजयार्धसिहलादभिद्रवदुर्वहवाहिनीभृतः । त्रस्यद्धरित्रीधरवज्रपञ्जरो बलोदधिस्तस्य बभूव दुर्धरः ॥ १७ ॥ तापापनोदाय सदैव भूत्रयीविहारस्वेदादिव पाण्डुरद्युतिम् । कीर्तर्वयस्यामिव भर्तुरग्रतो विलोक्य गङ्गां बहु मेनिरे नराः ॥ ६८ ॥ शभोर्जटाजूटदरीविवर्तनप्रवृत्तसस्कार इव क्षितावपि । यस्या प्रवाह पयसा प्रवर्तते सुदुस्तरावर्ततरङ्गभङ्गुर ॥ १९ ॥ पर्यन्तकान्तारसमीरविस्फुरत्तरङ्गविस्फारितफेनलाञ्छिता । प्रालेयशैलोरगराजरेचितप्रलम्बनिर्मोकनिभा विभाति या ॥ ७० ॥ विष्णोरिवाङ्गेर्नखरश्मिरञ्जिता करैरिवेन्दोर्भवमूर्ध्नि लालिता। भिन्ना हिमाद्रेस्तुहिनैरिवोच्चकैश्चकास्ति या क्षीरसहोदरद्युतिः ॥ ७१ ।। काञ्चीव रत्नोच्चयगुम्फिता क्षितेर्दिवच्युतेवामलमौक्तिकावलि । कृष्टा सशब्द पुरुहूतदन्तिनो विराजते राजतशृङ्खलेव या ॥ ७२ ॥ सूर्यस्य तापेन दिवानिशं ज्वलन्महौषधीनामकृश कृशानुभि । तप्तस्य नीहारगिरेरिव द्रवश्वकास्ति यस्या शुचिरम्भसा प्लवः ॥७३॥ तीरेऽपि यस्यास्त्रिजगजुषश्चरन्स सार्वभौमोऽपि निमज्जति ध्रुवम् । बुद्धयेव नावा घटितोरुकाष्ठया ततार तृष्णामिव ता स जाह्नवीम् ॥७४॥ हेलोत्तरत्तुगमतङ्गजावलीकपोलपालीगलितैर्मदाम्बुभिः । गङ्गाजल कज्जलमञ्जुलीकृत कलिन्दकन्योढकविभ्रम दधौ । ७५ ॥ एके भुजैर्वारणसेतुभि परे चमूचरा. केचन नौभिरायताम् । अह्वाय जह्नोस्तनया यदृच्छया पुर प्रतिज्ञामिव तामतारिषु. ॥ ७६ ॥ उत्साहशीलाभिरल जडात्मिका त्रिमार्गगासंख्यपथप्रवृत्तिभि । तद्वाहिनीभि' प्रसभं दिवौकसा कथं न पश्चात्क्रियते स्म वाहिनी ॥७७॥ नागै. समुत्सर्पिभिराक्षिपन्नगान्पुरीरशेषा पटवेश्मभिर्जयन् । उत्केतनैर्भूरिवनानि तर्जयन्नदीश्चभुभि. स विडम्बयन्नगात् ॥ ७८ ॥ ७० काव्यमाला। प्रमितिविधुरा ये मिथ्यात्वं पंथ. प्रतिपेदिरे पिढधुरपि ये कूटारम्भैर्दिगम्बरदर्शनम् । प्रगुणबलवास्तास्तानुच्चै. प्रमथ्य गिरीश्वरा- न्स्वमिह सुगम कुर्वन्मार्गं जगाम जिनेश्वर ॥ ७९ ॥ इत्युच्चैस्तैनवप्रभूषणवतीर्नारी पुरीर्वा श्रय- न्कान्तारङ्गमितानरीनिव नगेष्वालोकयन्किनरान् । देशानप्यतिलङ्घयन्समकरान्सिन्धुप्रवाहानिव प्राप प्रेमवतीमिवात्तमंदना देव स विन्ध्यस्थलीम् ॥ ८० ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये नवम सर्ग । दशम सर्ग । अथाधिपेनार्थयितु दिनाना रथस्य पन्थानमिवोपरिष्टात् । पादाग्रनम्रेण निषेव्यमाण धराधर विन्ध्यमसौ ददर्श ॥ १ ॥ समुन्नमत्कूटपरम्पराभिराक्रान्तमन्त पृथुकदराभि । भुवोऽर्धमर्ध नभसो गृहीत्वा मन्ये यमुच्चैर्विदधे विधाता ॥ २ ॥ स्रष्टा दधात्येव महानदीना महानदीना शिखरोन्नति य । स्वर्गादिहागत्य सदानभोगै सदा नभोगैरनुगम्यमानः ॥ ३ ॥ 'मुनेर्महिम्नामभितो निरोद्भुरध्वानमन्वेष्टुमिवोत्सुको य । शृङ्गाग्रलग्नोडुचयच्छलेन नक्त समुन्निद्रसहस्रनेत्र ॥ ४ ॥ प्रस्थैरदुस्थै कलिनोऽप्यमान, पादैरमन्दै प्रसृतोऽप्यगेन्द्र । युक्तो वनैरप्यवन श्रिताना य प्राणिना सत्यमगम्यरूप ॥५॥ १ अतिशयेनाप्रमाणा , (पक्षे) प्रमाणपञ्चकोपलक्षिततर्कशास्त्र विह्वला २ मार्गम्य, जिनदर्शनस्य च ३ शिखरारम्भे , अनुचितप्रारम्भश्च ४ दिगाकाशावलोकनम् , जिनदर्शन च ५ सुसन सैन्यवान्, चतुर्दशगुणस्थानशक्तिमाश्च ६ पर्वतेन्द्रान् , समर्थान्नैयायिकप्रभृतिवादिनश्च इत्यादर्शपुस्तकस्थ टिप्पणम् ७ उच्चै -स्तनवप्र, (पक्षे) उच्चै स्तन-वप्र-इति च्छेद ८ इवार्थे ९ कान्ता-रङ्ग-इतान्, (पक्षे) कान्तार- गमितान् १० सम-करान् , (पक्षे) स-मकरान् ११ काम , (पक्षे) वृक्षविशेष १२ महा नदीनाम् , महान्-अदीनाम् १३ दानभोगा-या सहित १४ अगस्यस्य १० सर्गः] धर्मशर्माभ्युदयम् । विहाय मानं स्मरवासभूमाविहायमानं सहसा सुरस्त्री । रसालसारं विपिनं निरीक्ष्य रसालसा रन्तुमिथेष कान्तम् ॥ ६ ॥ पञ्चाननोक्षिप्तकरीन्द्रकृत्तिर्गुहान्वितो दत्तशिवाप्रमोद । अहिपहारोल्बणनीलकण्ठो यो रौद्रभावं क्वचिदातनोति ॥ ७ ॥ पुनागनारङ्गलवङ्गजम्बूजम्बीरलीलावनशालि यस्य । शृङ्ग सदापारनभोविहारश्रान्ताः श्रयन्ते सवितुस्तुरगाः ॥ ८ ॥ प्रियायुत सानुनि कुञ्जर गा निकुञ्जरङ्गा गतमीक्षमाण । मुनीश्वरोऽपि स्मरति प्रियाया रतिप्रियायासवशेन यत्र ॥ ९॥ वप्रक्रीडाप्रहतिषु दृढ़र्यंत्र मत्तद्विपाना दन्ताघातैर्झटिति जलदाभोगभाजो नितम्बात् । पक्षच्छेदव्रणगणगतोद्दामदम्भोलिधारा- शल्यानीव स्फुरदुरुतडिद्दण्डखण्डानि पेतुः ।। १० ॥ मम यदि लवणोदानन्दिसोमोद्भवाया सममपरमपत्य स्यादह तत्कृतार्था । इति किल निशि सूते यस्य सोमोद्भवाना सितकरमणिभित्तिर्वाहिनीना शतानि ॥ ११ ॥ यत्राम्बुजेषु भ्रमरावलीनामेणावली संत्तमरावलीना । पपौ सरस्याशुतर गतान्त न वारि विस्फारितरङ्गतान्तम् ॥ १२ ॥ निर्मुक्तगर्भभरनिर्भरदुबलासु कादम्बिनीयु कटकाग्रविलम्बिनीषु । भग्नामनेकमणिभासुररश्मिजालै- र्य पूरयत्यनुदिन हरिचापलक्ष्मीम् ॥ १३ ॥ स दृष्टमात्रोऽपि गिरिर्गरीयास्तस्य प्रमोदाय विभोर्बभूव । गुणान्तरापेक्ष्यमभीष्टसिद्धचै नहि स्वरूप रमणीयताया. ॥ १४ ॥ १ इह-अयमान आगच्छन्तम् २ नर्मदाया ३ समीचीनशब्दश्रवणे भासता. ४ प्राप्तसमीपम्. काव्यमाला। सुहृत्तमः सोऽथ सभालु हत्तमःप्रभाकरश्छेत्तुमिति प्रभाकर । धेरे क्षणं व्यापृतकधरेक्षण तमीश्वर प्राह जगत्तमीश्वरम् ॥ १५ ॥ पूर्वापराम्भोधितटीतरङ्गमालाग्ररङ्गत्कटकोऽयमद्रि । त्वत्सैनिकाक्रान्ततनुश्चकास्ति नम्रीभवन्नन्य इव क्षितीग. ॥ १६ ॥ अशेषसुरसुन्दरीनयनवल्लभोऽयं दध- न्मदान्धधनमुन्दरभ्रमरुचिः सहस्राक्षताम् । महावहनभक्तितो मुकुलिताग्रभास्वत्कर पुरस्तव पुरदरद्युतिमुपैति पृथ्वीधर ॥ १७ ॥ अनेकधातुच्छविभासुरा बलान्निवतिता' कुम्भभुवार्कमण्डलात् । अनेकधातुच्छविभा सुराबला न का श्रयत्यम्य वनाकुलास्तटी. ॥ १८ ॥ बिम्ब विलोक्य निजमुज्ज्वलरत्नमित्तौ क्रोधात्प्रतिद्विप इतीह ददौ प्रहारम् । तद्भग्नदीर्घदशन पुनरेव तोषा- ल्लीलालस स्पृशति पश्य गजः प्रियेति ।। १९ ।। पलाय्य निर्यन्मदवारिधारा गिरेरुपान्ते करिण प्रयान्त । त्वत्तूर्यनादैस्त्रुटितोरुमूला विभान्ति कूटा इव निर्लुठन्त ॥ २० ॥ न वप्रे नवप्रेमबद्धा भ्रमन्ती स्मरन्ती स्मर तीव्रमासाद्य भर्तु । क्षणादीक्षणादीश बाप्प वमन्ती दशा का देशाङ्कामिहान्वेति न स्त्री ॥२१॥ प्रकटितोरुपयोधरबन्धुरा सरमचन्दनसौरभशालिनी । मदनबाणगणाङ्कितविग्रहो गिरिरय भजते सुभगास्तटी ॥ २२ ॥ इयं गिरेर्गैरिकरागरञ्जिता विराजते गह्वरवारिवाहिनी । पविप्रहारत्रुटितोरुपक्षतिक्षताद्गलन्तीव नवास्रधोरणि ॥ २३ ॥ १ हृदयान्वकारदूरीकरणे सूर्य २ एतनामक ३ पर्वते जगञ्चन्द्रम् ५ पृथ्वीछन्दोऽपि ६ अनेक-धातु-च्छवि-भासुरा अगस्त्येन ८ अनेकधा- अतुच्छ विभा ९ देवागना १० दशमी कामदशाम् मरणमित्यर्थ ११ मदन- बाण पुष्पविशेष, कामशरश्च १० सर्गः धर्मशर्माभ्युदयम् । निर्जयता निजरत्नरुचा भा मन्दरसानुगतारमणीनाम् । सा न कदाप्यमुना ध्रियते या मन्दरसानुगता रमणीनाम् ॥ २४ ॥ रोद्धु पुनर्ग्रहपथं लघु हारिदश्वै- रश्वैरुपद्रुतनिकुञ्जलताप्रवाल। शृङ्गादुदग्रजलदैरयमुन्नमद्भिः प्रोल्लवयन्निव मुनेः समयं विभाति ॥ २५ ॥ दिवाकरोत्तापिततापनोपलात्स्मरारिभालादिव निर्गतो गिरे । समूलमारात्कुसुमेषु सुन्दर क्षणादधाक्षीन्मदन हुताशन ॥ २६ ॥ द्रुपङ्क्तिभि प्राशुमनोरमाभिगिरौ हरत्याशु मनोऽर्रमाभि । पिकध्वनीना कमितारमन्ते सुरस्त्रियः सोत्कमिता रमन्ते ॥ २७ ॥ विस्तारं पथि पुरतोऽधिकं दधाना वक्रत्व विषमविषा प्रदर्शयन्ती । एतस्मात्प्रसरति शैलेवामलूरात्कन्येय सरिदुरगीव मेकलस्य ॥ २८ ॥ उन्मीलन्नवनलिनीवनप्रसून भात्येतद्गतमलमम्बु नर्मदाया । निभिन्नं शिखरशतैरमुष्य पुष्यन्नक्षत्र पतितमिवान्तरिक्षखण्डम् ॥ २९ ।। मुदा पुलिन्दीभिरिहेप्यते भवान्कान्तारसानुग्रहभूरिभान्वित । अय महीध्रोऽप्यधिरुह्यते भिया कौन्तारसानुग्रहभूरिभान्वितः ॥ ३० ॥ सत्सूत्रमत्र तरुतीरनिकुञ्जवेदी- विद्यामठे कलरवक्रमपाठकेषु । अश्रान्तमेव निगदत्सु वधूद्वितीय । को नाम कामनिगमाध्ययन न धत्ते ॥ ३१ ॥ भियेव धात्र्या स्थलपङ्कजाक्ष्या निरीक्ष्यमाणं वनसैरिभाणाम् । क्रीडत्युदश्चद्धनपङ्कशृङ्गं गिरे. शिशूनामिव वृन्दमग्रे ॥ ३२ ॥ मन्दर-सानुग-तार-मणीनाम् २ मन्द-रस अनुगता ३ सूर्यसबन्धिभि ४ कुसुमेघु इति सप्तमी, (पक्षे) कुसुममयैरिषुभिर्वाण सुन्दरम् ५ वृक्षविशेषम् , काम ६ बरं शीघ्रम् ७ कामुकम् ८. सोत्कण्ठ प्राप्ता ९ पर्वतरूपवल्मीकात् नर्मदा कान्ता-रस-अनुग्रहभू-इभान्वित भूरि-भ-अन्वित . १ ११ १२ कान्तार-सानु प्रहकाव्यमाला। त्वत्सैनिकास्तुल्यमदुर्महाभयं निस्त्रिशचक्रेषुवराहवा नरा । नश्यत्सु सिंहादिषु तेन निर्भया निस्त्रिंशचक्रेषु वराहवानराः ॥३३॥ यो नारङ्ग सरल इति यो यश्च पुंनागनामा ज्ञात्वा वृक्ष. सरसपयसा पोषितः पालितश्च । गूढ सोऽपि प्रथयति निधि यत्प्ररोहाग्रहस्तै- स्तत्कि युक्त गिरिरयमिति व्याकुलो रोरवीति ॥ ३४ ॥ जराधवलमौलिभि प्रचुरसौविदल्लैरिव प्रफुल्लतरुभिर्वृता प्रणयिनामुनोत्सङ्गिता । परिष्वजति चन्दनावलिरियं भुजंगान्यत- स्ततोऽतिगहन स्त्रियश्चरितमत्र वन्दामहे ॥ ३९ ॥ र्मन्दाक्षमन्दा क्षणमत्र तावन्नेव्यापि न व्यापि मनोमवेन । रामा वरा मावनिरन्यपुष्टबध्या नेवध्वानवशा न यावत् ॥ ३६ ॥ कुपितकेसरिचक्रचपेटया करटिकुम्भतटादभिपातिता । इह विभान्ति तरुस्खलनच्युतस्फुरदुडुप्रकरा इव मौक्तिका ॥ ३७॥ प्रणयिनि नवनीवीग्रन्थिमुद्भिद्य लज्जा- विधुरसुरवधूना मोचयत्यन्तरीयम् । अधिरजनि गुहायामत्र रत्नप्रदीपे करकुवलयघाता सार्ध्वपार्थीभवन्ति ॥ ३८ ॥ नवो धनी यो मदनायको भवेन्न बोधनीयो मदनाय को भवे । स सुभ्रुवामत्र तु नेत्रविभ्रमैर्विबोध्यते सत्तिलकोऽपि कानने ॥ ३९ ॥ उद्भिद्य भीमभवसततितन्तुजाल मार्गेऽपवर्गनगरस्य नितान्तदुर्गे । निस्त्रिश खन्न १ निस्त्रिश-चक्र-इषु-वर-आहवा २ हिंस्रसमूहेषु ३ वराह- वानरा ४. लज्जाव्याकुला ५ नवीनापि ६ व्याप्ता ७ लक्ष्मीस्थानम् किलया ९ नवीनकूजिताधीना १. निष्फला भवन्ति ११ तरुण १२ ससारे १३ वृक्षविशेष स च नारीकटाक्षपातेन विकसितो भवतीति प्रसिद्धि . १० सर्गः] धर्मशर्माभ्युदयम् । लब्ध्वा भवन्तमभयं जिन सार्थवाहं प्रस्थातुमुत्थितवतामयमग्रभूमि. ॥ ४० ॥ वनेऽत्र पाकोल्बणदाडिमीफलप्रकाशमाकाशमणिं नवोदितम् । जिघृक्षवोऽमी निपतन्ति वानरा अनूरुदण्डाग्रनिवारिता अपि ॥४१॥ कटके सरोजवनसंकटके हरिणानपास्य सविधे हरिणा । करटङ्कैर्दलयता करट करिण क्षता स्फुटमिहाकरिण ॥ ४२ ॥ क्वेदं नभ क्व च दिश क्व च पुष्पवन्तौ क्वैताः प्रकामतरलद्युतयश्च तारा । मन्येऽमुना नगनिशागतिना गिलित्वा सर्व स्वमेव विहित ननु पीनपीनम् ॥ ४३ ॥ दूरेण दावानलशङ्कया मृगास्त्यजन्ति शोणोपलसंचयद्युती । इहोच्छलच्छोणितनिर्झराशया लिहन्ति च प्रीतिजुष. क्षणं शिवा ॥४४॥ स्मरति स्म रतिप्रियाद्यत क्षणमीक्षणमीलित रतम् । परमाप रमात्र तत्तमस्तरमास्तरसा वियोगिनी ॥ ४५ ॥ अत्रोच्चरुक्मशिखरी गिरिरत्र रौप्यः साक्षादिह स्फटिकसारशिलोच्चयोऽपि । अस्मिन्वनैर्हिममयोऽत्र च चित्रकूटो रत्नैरनेकगिरिभिर्घटितोऽयमेक ॥ ४६ ॥ अनेन पूर्वापरदिग्विभागयो प्रमाणदण्डायितमत्र भारते । अय कुबेरान्तकगुप्तयोर्दिशोरलङ्घ्यसीमेव पृथु स्थितोऽन्तरे ॥ ४७ ॥ ढक्का नदन्तीह भवत्यरीणा नवाशु भङ्गाय तिरोहितानाम् । यशस्तवोच्चै शुचि किनरेन्द्रे न वा शुभ गायति रोहितानाम् ॥४८॥ प्रङ्खन्मरुच्चलितचम्पकचारुपुष्पै- रर्घ च निर्झरजलैश्च वितीर्य पाद्यम् । १ सूर्यम २ अद्रिनितम्बे ३ सिंहेन ४ कुम्भम् ५ आकर खनिरेषामस्ति योनित्वेन ते आकरजा इत्यर्थ ६ चन्द्रसूयौ. ७ पर्वतरात्रिचरेण ८ मूळलक्षण- मन्धकारम् ९ मृगविशेषाणाम् काव्यमाला। त्वय्यागते मणिशिलाकृतविष्टरार्थ. शैलः करोति सकलामयमातिथेयीम् ।। ४९ ॥ उद्दामसामोद्भवचीत्कृताना प्रत्यारवैर्भूरिदरीमुखोत्थैः । त्वत्सैन्यसंमर्दभवोरुदु स्वान्मुहुर्मुहु पूत्कुरुतेऽयमद्रिः ॥ ५० ॥ कृतार्थीकृतार्थीहित त्वा हितत्वात्सदान सदा नन्दिन वादिन वा । विभालम्बिभालं सुधर्मा सुधर्मापितख्यापितख्याति सा नौति सानौ ॥११॥ प्राभाकरीरिति गिरो विनिशम्य सम्य- ग्देवेऽपि ता परिषदं प्रति दत्तनेत्रे । एकोऽवतीर्य शिखरादथ किनराणा- मिन्द्र प्रणम्य विनयाज्जिनमित्यवादीत् ॥ ५२ ॥ दिक्सैव पुण्यजननी विषय. स धन्य सेव्यानि तानि नगपत्तनकाननानि । यान्यर्हता भगवता भवता कथचि. दध्यासितान्यपरमस्ति किमत्र तीर्थम् ॥ १३ ॥ भव्यस्तवस्याद्यमलकृतीनामनर्घरत्नत्रयमाश्रितोऽपि । भव्य स्तवस्याद्यमल कृतीना प्राप्याङ्घ्रिपड्केरुहयो. क्षणेन ॥ ५४॥ अत्र प्रचारो न विपल्लवाना विपल्लवाना यदि वा तरूणाम् । आवासमस्मद्गृहसनिधाने हसन्निधानेशपुरी ददातु ॥ ५५ ॥ कुशोपरुद्धा द्रुतमालपल्लवा वरोप्सरोभिर्महितामकल्मषाम् । नृपेषु रामस्त्वमिहोररीकुरु प्रसीद सीतामिव काननस्थलीम् ॥ ५६ ॥ ५ सामोद्भवा हस्तिन २ पूत्करणमार्तव्याहरणमिति नलचम्पुटीका ३ अया- कृताश्च तेऽर्थिनोऽथाकृतार्थिन कृतम कृतार्थिनामीहित येन तत्सबोधनम वा त्वाम् विभालम्बी सप्रभो भालो यस्य सुधर्मा देवसभा शोभनधमेणापिता प्रापिता सती ख्यापिता प्रकटीकृता ख्याति कीर्तिर्यत्र भवनकर्मणि तत्तथाभूतम् नौति स्तौति - विपदशानाम् ५ विगत किसलयानाम् ६. कुशैस्तृणविशेषै, (पक्षे) तन्नाना पुत्रेण ७ दु-तमालपल्लवाम् , (पक्षे) द्रुत-आलपत् लवाम् लवोऽपि सीताया पुत्र ८ अप्सरसो देवागना , (पक्षे) अद्भिर्युक्तानि सरासि ९ रमणीय , (पक्षे) दाशरथि ७७ ११ सर्गः] धर्मशर्माभ्युदयम् । इत्याकर्ण्य स तस्य किंनरपतेर्भक्तिप्रगल्भां गिरं श्रान्तं सैन्यमवेत्य वीक्ष्य करिणा संभोगयोग्या भुवम् । देवो यावदचिन्तयन्निधिभृता तावत्क्षणान्निर्मित शालामन्दिरमन्दुराट्टवलभीपाकारसार पुरम् ॥ १७ ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये दशम सर्ग । एकादश सर्ग । अथ स तत्र निधीश्वरनिर्मिते प्रविशति स्म पुरे परमेश्वर । समुदितोऽपि चतुर्विधसेनया विहितमोहतमोहतिरद्भुतम् ॥ १ ॥ सुहृदमात्यगणाननुजीविनो नयनिधिर्विनिवेश्य यथायथम् । स्वयमिहोज्ज्वलरत्ननिकेतने स पदमाप दमान्वितमानसः ॥ २ ॥ बलभरोच्छलितै. पिहितप्रभोऽभजत मृण्मयतामिव यैर्जन । मुकुरवत्स तु तैरपि पासुभिर्नरैमणी रमणीयतरोऽभवत् ॥ ३ ॥ न धनधर्मपय पृषतोदयो न च तनुत्वमजायत यत्प्रभो । तदभिनत्पटुता न जगज्जनोत्सवपुषो वपुषोऽध्वपरिश्रम ॥ ४ ॥ तदपि रूढिवशात्कृतमज्जनो विहितयात्रिकवेषविपर्ययः । अयमुवाह रुचि नयनप्रिया न च न काचन काञ्चनदीधिति ॥५॥(युग्मम् ) नभसि दिक्षु वनेषु च संचरन्नृतुगणोऽथ गुणाढ्यमियाय तम् । समुपभोक्तुमिवैतदुपासनारसमय समय स्वमवन्निव ॥ ६ ॥ हिममहामहिमानमपोहितु सरसतामनुशासितुमड्गिनाम् । दधदनिन्द्यगुणोपनतामृतुक्रमधुर मधुरञ्चति काननम् ॥ ७ ॥ कतिपयैर्दशनैरिव कोरकै. कुरबकप्रभवैविहसन्मुखः । शिशुरिव स्खलितस्खलित मधुः पदमदादमदालिनि कानने ॥ ८॥ मलयशैलतटीमटतो रवेर्धूवमभूत्प्रणयी मलयानिल । पुनरमुष्य यतो दिशमुत्तरीमपरथाप रथाग्रवर कथम् ॥ ९ ॥ १ विहिता मोहरूपतमसो इतिर्येन २. नरश्रेष्ठः ३ अलकरोति ४ अपरथा-आप. द काव्यमाला। कलविराजिविराजितकानने नवरसालरसालसषट्पदः । सुरभिकेसरकेसरशोभितः प्रविसिसार स सारबलो मधुः ॥ १० ॥ अहह निर्दहति स्म वियोगिनां सुभगमगमनङ्गहुताशनः । मुहुरुदीरितरोचिरय चलत्कमलया मलयानिललीलया ॥ ११ ॥ तदभिधानपदैरिव षट्पदै. शवलिताम्रतरोरिह मञ्जरी। कनकमल्लिरिव स्मरधन्विनो जनमदारमदारयदञ्जसा ॥ १२ ॥ समधिरुह्य शिर कुसुमच्छलादयमशोकतरोर्मदनानलः । पथि दिधक्षुरिवैक्षत सर्वत समवधूतवधूतरसोऽध्वगान् ॥ १३ ॥ युवतिदीर्घकटाक्षनिरीक्षित पुलकितस्तिलक. कुसुमच्छलात् । अकृत लास्यमिवास्य जगत्पतेरुपवने पवनेरितपल्लव ॥ १४ ॥ शशिमुखीवदनासवलालसे बकुलभूरुहि पुष्पसमाकुले । धृतिमधत्त परा मधुपावलि किमसमा न समानगुणे रतिः ॥ १५ ॥ उचितमाप पलाश इति ध्वनि द्रुमपिशाचपति' कथमन्यथा । अजनि पुष्पपदादद्दलिताध्वगो नृगलजङ्गलजम्भरसोन्मुख (१) ॥१६॥ गहनकुञ्जलतान्तरितक्रमा सहचरी निभृत. प्रतिपालयन् । विधुरितोऽपि पपौ स पिपासया कुसुमलीनमली न मधु क्षणम् ॥१७॥ रसविलासविशेषविदो नरा कथममी विलय न ययुः क्षणात् । विकसितास्तरवोऽपि विचेतना मृगदृशोऽहं दशोर्व्यतिषङ्गत ॥ १८ ॥ मलयमारुतचूतपिकध्वनिप्रभृतिसायकसंचयमर्पयन् । मधुरसौ विदधे स्मरधन्विनं कमपि नाकिपिनाकिजयोर्जितम् ।। १९ ॥ श्वसिति रोदिति मुह्यति कम्पते स्खलति ताम्यति यत्सहसाध्वगः । तदयमक्षतपक्षशिलीमुखैः किमधुना मधुना हृदि नाहतः ॥ २० ॥ विनिहतोऽयमनाथवधूजनो विधुरिता धुरि ता मुनिपङ्कयः । सुरभिणा समभेदि नतभ्रुवामिह स मानसमानमतङ्गजः ॥ २१ ॥ १ कोकिल . २. वृक्षविशेष ३ प्रकटितज्याल. ४ स्त्रीरहित जनमदारयत् ५ अगणितवधूकोपान् ६. समोधनम् ११ सर्ग.] धर्मशर्माभ्युदयम् । ७९ इति विशङ्कय मधोर्वनवासिनः प्रहरतः परितोऽपि पराभवम् । प्रणयिनीकुचकचकमुच्चकैरुरसि कोरसिको न दधे जन.॥२२॥(कुलकम्) प्रचलवेणिलताञ्चलताडितोन्नतनितम्बतटस्तरुणीजनः । स्मरनिषादकशाभिरिवाहतश्चिरमतोऽरमतोद्धुरदोलया ॥ २३ ॥ स्मरवशीकरणौषधचूर्णवन्निदधतोपरि सौमनसं रजः । किमपरं मधुना वशिनोऽपि ते मुनिजना निजनामवशीकृता ॥ २४ ॥ स्वयमगाद्वसतिं कलिमत्यजदृशमदत्त मुखे प्रियकामिनाम् । इति बहूनि चकार वधूजन स किल कोकिलकोविदशिक्षया ॥२५॥ मधुनिवृत्तिजुषा शुचिसगमाद्धृतमुदामिव काननसपदाम् । विचकिलप्रसवावलिरन्वगादिह सिता हसितानुकृति मुखे ॥ २६ ॥ सकलदिग्विजये वरमल्लिकाकुसुमसंगतभृगरवच्छलात् । इह निनाय जन स्मरभूपतेर्न न वशं नवशङ्खभवो ध्वनि ॥२७॥ युवतिदृष्टिरिवासवपाटला स्मरनृपस्य बभौ नवपाटला । प्रणदिता मधुपैरिव काहला प्रियतमायतमानपराजये ॥ २८ ॥ वपुषि चन्दनमुज्ज्वलमल्लिका शिरसि हारलता गलकन्दले । मृगदृशामिति वेषविधिर्नृणामनवमो नवमोहमजीजनत् ॥ २९ ॥ इह तृषातुरमर्थिनमागत विगलिताशमवेक्ष्य मुहुर्मुहु । हृदयभूस्त्रपयेव भिदा गता गतरसा तरसा सरसी शुचौ ॥ ३० ॥ इह शुना रसना वदनाबहिर्निरगमन्नवपल्लव चञ्चलाः । हृदि स्वरांशुकरप्रकरार्पिता किमकृशा नु कृशानुशिखा' शुचौ ॥३१॥ खल इव द्विजराजमपि क्षिपन्दलितमित्रगुणो नवकन्दल । अजनि कामकुतूहलिना पुना रसमय समयः स धनागम ॥ ३२ ॥ इह घनैर्मलिनैरपहस्तिता कुटजपुष्पमिषादुडुसतति । गिरिवने भ्रमरारवपूत्कृतैरवततार ततारतिरम्बरात् ॥ ३३ ॥ १ वाद्यविशेष २ चन्द्रम्, (पक्षे) ब्राह्मणश्रेष्ठम् ३ सूर्य , (पक्षे) मुहृत् कुर , (पक्षे) कलह ५ तिरस्कृता ६ प्रसूतखेदा ४ अ ८० काव्यमाला। भृशमधार्यत नीपनभस्वता सह पयोधरनम्रनभ श्रिया । गलितहारनिभोदकधारया प्रथमसंगमसंगरविभ्रम ॥ ३४ ॥ भुवनतापकमर्कमिवेक्षितु कलितकान्तचलद्युतिदीपिका । दिशि दिशि प्रससार कृषीवता सह मुदारमुदारधनावलिः ॥ ३५ ॥ जलधरेण पय पिताम्बुधैर्ध्रुवमपीयत वाडवपावकः । कथमिहेतरथा तडिदाख्यया रुचिररोचिररोचत वह्निजम् ।। ३६ ॥ नभसि निर्गतकोमलमालतीकलिकया स्मरतोमरतीक्ष्णया । हृदयविद्ध इवालिगण पुरा चलति का लतिकाः स्म निरीक्षितुम् ॥ ३७॥ निभृतभृङ्गकुलाकुलकेतकीतरुरुदीर्णसितप्रसवाङ्कुरः । भृशमशोभत मत्त इव स्मरद्विरदनो रँदनोदितभूत्रय ॥ ३८ ॥ त्वयि विभावपि भावपिधायिनि ध्रुवमनाथवतीमिव ता सखीम् । रिपुरिवैष विषं जलदो ददत्समद हन्ति दहन्ति च विद्युतः ॥ ३९ ॥ समधिगम्य पय सरसामसावसहतापहता पतिवञ्चिता । यदतनोत्तनुतापितपूत्तर तदयि तद्दयितस्य न पातकम् ॥ ४० ॥ स्वयमनम्बुजमेव सरोऽभवद्वयधित सा तु वनान्तमपल्लवम् । यदि तया मृतयैव सुखं स्खलन्निनदया न दयास्ति वनेऽपि ते॥४१ ॥ न रमते स्मयते न न भाषते स्वपिति नात्ति न वेत्ति न किंचन । सुभग केवलमस्मितलोचना स्मरति सा रतिसारगुणम्य ते ॥ ४२ ॥ इति कयापि दयापरयापरः प्रणयपूर्वमिहाभिहितो युवा । मुदमिवोदवहन्न च चारुतामदममन्दममन्थरमन्मथ ॥४३॥ (कुलकम्) तृणकुटीरनिभे हृदि योषिता ज्वलति तीव्रवियोगहुताशने । स्वजनवच्छिखिभेकगणो नदन्नकृत पूत्कृतपूरमिवाकुल' ॥ ४४ ॥ प्रलपता कृपयैव वियोगिना किमपि दाहमहाज्वरशान्तये । शरदियं सरसीषु निरन्तर व्यतनुतातनुतामरसं पयः ॥ ४५ ॥ १ मुदा अर-उदारधनावलि २ श्रावणे ३ दन्तक्षुण्णलोकत्रय ४ शरीरता- पतक्रिमिविशेष यच्चकार ११ सर्ग: धर्मशर्माभ्युदयम् । ८१ इयमुदस्य करै परिचुम्बत सरसिजास्यमभून्न घनादरा । शरददत्त सुधाकरलालनासुखरता स्वरतापमतो रवेः ॥ ४६ ॥ किमपि पाण्डुपयोधरमण्डले प्रकटितामरचापनखक्षता । अपि मुनीन्द्रजनाय ददौ शरत्कुसुमचापमचापलचेतसे ॥ ४७ ॥ विघटिताम्बुपटानि शनै शनैरिह दधु पुलिनानि महापगा । नवसमागमजातह्रियो यथा स्वजघनानि घनानि कुलस्त्रिय ॥ ४८ ॥ म्फुरदमन्दतडिद्दयुतिभासुर शरदि शुभ्रमुदीक्ष्य पयोधरम् । कपिशकेसरकेसरिशङ्कया प्रतिनदन्ति न दन्तिगणा. क्षणम् ॥ ४९ ॥ कलमरालवधूमुखखण्डितं विपुलवप्रजले कमलाकरम् । निकटमप्यवधीरयति स्म साभिनवशालिवशालिपरम्परा ॥ ५० ॥ अयमनङ्गगजस्य मदाम्भसः परिमलो न तु शारदभूरुह । इयमैयस्त्रिपदी त्रुटिताभित कमलिनीमैलिनीविततिर्न तु ॥ ५१ ।। हृदयहारिहरिन्मणिकण्ठिकाकलितशोणमणीव नभःश्रिय । ततिरुदैक्षि जनै शुकपत्रिणा भ्रमवतामवतारितकौतुका ।। ५२ ॥ मरुति वाति हिमोदयदु सहे सहसि संततशीतभयादिव । हृदि समिद्धवियोगहुताशने वरतनोरतनोद्वसति स्मर ॥ १३ ॥ पतितमेव तदा हिममङ्गिना वपुषि कीर्तिहर शरदत्यये । शरणमुद्धतयौवनकामिनीस्तनभरो न भरोपचितो यदि ॥ ५४॥ बहलकुङ्कुमपङ्ककृतादरा मेदनमुद्रितदन्तपदाघरा. । तुहिनकालमतो घनकञ्चुका निजगदुर्जगदुत्सवमङ्गना ॥ ५५ ॥ अपि जगत्सु मनोभवतेजसा प्रवणयन्त्यतिरेकमनेकश' । हिममयानि तदा सवितुर्महोमहिमहानिमहानि वितेनिरे ॥ १६ ॥ स महिमोदयतः शिशिरो व्यधादपहृतप्रसरत्कमला प्रजा । इति कृपालुरिवाश्रितदक्षिणो दिनकरो न करोपचय दधौ ॥ १७ ॥ १ अभिनवशालिवशा-अलिपरम्परा २ सप्तच्छदवृक्षस्य ३ लोहसला. ४ श्र- मरीणि ५ सिक्थक . ६. मह महिम-हानिम्-अहानि ८२ काव्यमाला। विघटयन्नखिलेन्द्रियपाटव भृशमुरीकृतधर्मदिगाश्रयः । वपुषि बिभ्रदसौ तपसा मह कृशमिन शमिन समता दधौ ॥१८॥ मृगदृशामिह सीत्कृतकम्पिताधरपुटस्फुटदन्तसमद्युत । विदधिरे नवकुन्दलता दलत्सुमनसो मनसो धृतिमङ्गिनाम् ॥ १९ ॥ मुरभिपत्रवत कुसुमेप्वभून्मरुबकस्य जनो विगतस्पृह । सुभगरूपजुषो मृगचक्षुष प्रथितमान्यतमान्यगुणेष्विव ॥ ६ ॥ इह हि रोध्ररजासि यशासि वा विशदभासि जगज्जयशालिन । विदधिरे न मनोभवभूपते सममनन्तमनन्तरितं भुवा ॥ ६१ ॥ करणबन्धविवर्तनसाक्षिणी समधिगम्य निशा सुरतक्षमा. । तपसि कामिगणस्तरुणीजनैररमतारमतामसमानसै ॥ १२ ॥ अथ दिदृक्षुममु रमणीयतामृतुगणस्य सम समुपेयुषः । अभिदधे जिनमित्यमराधिपो विनयतो नयतोषितभूत्रयम् ॥ १३ ॥ ऋतुकदम्बकमायतीव व. श्रवणगोचरता युगपद्गतै । भ्रमरकोकिलहसकलापिना रसकलै सकलैरपि नि स्वनै. ॥ ६४ ॥ सेना सुराणाममना मितारम्भवत्ययाना मधुना च येन । सेना सुराणा मम नामितारं भवत्ययानामधुना चयेन ॥ १५ ॥ प्रभावितानेकलतागताया प्रभाविताने कलता गता या। प्रभावितानेकलतागताया सा स्त्री मधौ कि स्पृहणीयपुण्या ॥ ६ ॥ वीक्ष्याङ्गना सत्तिलकान्सरागा विलासमुद्रायतनेऽत्र कान्ते । गुणास्त्वयीवाभवदस्तशत्राविला समुद्रायतनेत्रकान्ते ॥ १७ ॥ पदप्रहारै पुरुषेण दध्रे मद समुद्यत्तरुणीहतेन । रुत तदश्रावि वने पिकीनामद समुद्यत्तरुणीह तेन ॥ ६८ ॥ १ प्रथित-मान्यतम अन्यतमगुणेषु २ अमनस्का ३ मनोविरहान्मितारम्भवती ४ गमनरहिता ५ कामदेवेन सह इ काम ६ स्तुतिमुखरा ७ नामिता-अरम् ८ अयाना भाग्याना चयेन ९. अवलोकितबहुविधवल्लीवृक्षविस्तारा १. मनोज्ञता- ११ प्रभी इता-न १२. हे इकलत, इ कामस्तद्वत्कलता मनोज्ञता यस्य तत्सोधनम्. १३ अप्राप्तशुभविधि १४ भूमि १५. समुद्रा आयतनेत्रकान्ते १६ समुत्-यत् तरुणि-(वृक्ष)-इह त्वामद्य केकिध्वनितापदेशात्सुराजमानेन स मानवेन । धनागमः स्तौत्यमृतोदयार्थी सुराजमानेनस मा नवेन ॥ १९ ॥ कलापि नो मन्दरसानुगास्ते पयोदलेशोपहिता हिमांशोः । कलापिनो मन्दरसानुगास्ते संभाव्यते तेन शरत्प्रवृत्तिः ॥ ७० ॥ गुणलतेव धनुर्भ्रमरावली शरदि तामरस गमिताधिकम् । ततिरतोऽप्सरसा कुसुमेषुणा शरदितामरसङ्गमिताधिकम् ॥ ७१ ॥ इति वचनमुदार भाषमाणे मुदार प्रशमितवृजिनस्य स्वर्गिनाथे जिनस्य । मतिरिह धनगाना रन्तुमासीन्नगाना ततिषु कुसुमलीना वीक्ष्य पालीमलीनाम् ॥ ७२ ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्य एकादश सर्ग । द्वादश सर्ग । दिदृक्षया काननसपदा पुरादथायमिक्ष्वाकुपतिर्विनिर्ययौ । विधीयतेऽन्योऽप्यनुयायिना गुणै समाहित कि न तथाविध प्रभु ॥१॥ बभूव यत्पुष्पवतीमृतुक्षणे वनस्थलीं सेवितुमुत्सुको जन । अचिन्तितात्मक्रमविप्लवो महान्मनोनुराग खलु तत्र कारणम् ॥ २ ॥ विकासिपुष्पद्रुणि कानने जनाः प्रयातुमीपुः सह कामिनीगणै । स्मरस्य पञ्चापि न पुष्पमार्गणा भवन्ति सह्याः किमसंख्यता गताः ॥ ३ ॥ बभौ तदारक्तमलक्तद्रवैर्वधूजनस्याङ्घ्रिसरोरुहद्वयम् । पथि स्थलाम्भोरुहकोटिकण्टकक्षतक्षरच्छोणितसचयैरिव ॥ ४॥ गतागतेषु स्खलित वितन्वता नितम्बभारेण सम जडात्मना । भुजौ सुवृत्तावपि कङ्कणक्वणैः किलाङ्गनाना कलह प्रचक्रतु ॥५॥ गुरुस्तनाभोगभरेण मध्यतः कृशोदरीयं झटिति त्रुटिष्यति । इतीव काची कलकिङ्किणीक्वणैर्मृगीदृशः पूत्कुरुते स्म वर्त्मनि ॥ ६ ॥ नितम्बसंवाहनबाहुलालनश्रमोदभारापनयादिभिर्धनै । चटूनि चक्रे मुहुरेणचक्षुषा विचक्षणो दक्षिणमारुतः पथि ॥ ७ ॥ प्रवालशालिन्यनपेतविभ्रमा नितान्तमुच्चैस्तनगुच्छलाञ्छिता । सलीलमुद्यत्तरुणावलम्बिता वन ययौ कापि लतेव जङ्गमा ॥ ८॥ नितम्बबिम्बप्रसराहतक्रमः कुचस्थलीताडनमूर्छितश्च य । विलासिनीना मलयाद्रिमारुः स जीव्यते स्म श्वसितानिलै पथि ॥९॥ प्रियस्य कण्ठार्पितबाहुबन्धना पथि स्खलन्ती विनिमीलनादृशो । प्रकाशयन्तीव मनोभवान्धता जगाम काचिद्वनमेणलोचना ॥ १० ॥ यथाभवन्नूपुरपाणिकङ्कणक्वणप्रगल्भो मणिकिङ्किणीरव । उपेयुषीणा वनमेणचक्षुषा तथा पुरो लास्यमधत्त मन्मथः ॥ ११ ॥ उदञ्चति भ्रूलतिका मुहुर्मुहु प्रकम्पते तन्वि यदोष्ठपल्लव । अवैमि तेन स्मितपुष्पशातनो विजृम्भते ते हृदि मानमारुत ॥ १२ ॥ जगज्जनानन्दविधायिनि क्षणे वृथा त्वयारम्भि मृगाक्षि विग्रह । मनखिनीना सुलभाभिमानता महानृतुप्रक्रम एष दुर्लभ ॥ १३ ॥ अथापराद्ध दयितेन कुत्रचिद्विनोपपत्त्येति तवाकुल मन । परस्पर प्रेम समुन्नति गत भयानि भामिन्यपदेऽपि पश्यति ॥ १४ ॥ अनन्यनारीप्रणयिन्यपि त्वया यदागसा चिह्नमदर्शि स श्रमः । रसेन यस्त्वामभितोऽपि वीक्षते कथ स ते विप्रियमाचरिष्यति ॥ १५ ॥ अपास्तपीयूषमयूखशोभया प्रभातकान्त्येव वियुक्तया त्वया । अनुज्झितस्नेहभर स सप्रति प्रपद्यते दीप इवाभिपाण्डुताम् ॥ १६ ॥ कृतेर्ष्ययेव त्वयि दत्तचेतसो गत क्षुधेव क्वचिदस्य निद्रया। मुखस्य ते दास्यमिवागतोऽधुना शशी स शीतोऽपि ददाह तद्वपु ॥१७॥ ध्रुवं वियोगे कुसुमेषुमार्गणैस्तवापि भिन्नं हृदयं विभाव्यते । अमी समुल्लासितसारसौरभाः स्फुरन्ति निःश्वाससमीरणाः कुतः ॥ १८॥ तदस्तु सधिर्युवयो प्रसीद नः प्रतप्तयोरायसपिण्डयोरिव । सखीभिरित्थ गदितानुकूलयांचकार कान्तं किल कापि कामिनी ॥१९॥ (कुलकम्) विभिद्य मानं कलकोकिलखने मनोनुरागं मिथुनेषु तन्वति । कुतूहलादेव स केवलं तदा धनुर्धनीते स्म जगजयी स्मरः ॥२०॥ त्रिनेत्रसङ्ग्रामभरे पलायितः स्मरस्य विश्वासपदं कथं मधुः । उमार्पितप्रत्यय एष मन्यते विलासिनीर्जीवितदानपण्डिता॥ २१॥ विवर्णता लोकबहि स्थिति पिका मधु प्रभुद्रोहिणमाश्रिता ययु । नतभ्रुवां पादयुगस्य पङ्कज समाश्रितच्छायमभूत्पदं श्रियः ॥ २२ ॥ तरुन्निषगानिव बिभ्रतामुना स्मरस्य पौष्पाः कति नार्पिता: शराः । परं तथाप्येष जगज्जये वधूकटाक्षमेवेषुममन्यत क्षमन् ॥ २३ ॥ वसन्तलीलामलयानिलादिभिः सम मनोभू समयेन युज्यते । निरन्तर तस्य समम्तदिग्जये सहायभाव सुदृशो वितन्वते ॥ २४ ॥ इति प्रसङ्गादुपलालिता प्रिय स्वशक्तिमाकर्ण्य मधुप्रधर्षिणीम् । स्वरूपगर्वोद्धुरकधरा स्खलत्पदप्रचारं पथि जग्मुरङ्गनाः ॥ २५ ॥ (कुलकम्) प्रभोदयाह्लादितलोकलोचनो विलासिनीभिः परिवारितस्तत । शशीव ताराभिरलंकृतो घनं वनं विवेशोत्तरकोशलेश्वरः ॥ २६ ॥ गिरीशलीलावनमित्युपश्रुतेभ्रमन्निह प्लोषमयादिव स्मर । न कान्तिपीयूषनिधानकुम्भयोर्मुमोच कान्ताकुचयोरुपान्तिकम् ॥२७॥ ध्रुवं त्रिनेत्रानलदाहत‌‌ प्रभृत्युदर्चिषि द्वेषमुपागतः स्मर । यदत्र सान्द्रद्रुमदीर्घदुर्दिने बने निवासैकरसो बभूव सः ॥ २८ ॥ इहाबभौ मारुतधूतकेतकीपरागपासुप्रकरः समन्ततः । अनङ्गदावानलमीलितात्मना वियोगमाजामिव भस्मसंचयः॥ २९ ॥ इतस्ततः कज्जलकोमला दधौ पुरो भ्रमन्ती भ्रमराङ्गनावलिः । जगज्जिगीषोर्वियमेषुभूभुजः कराप्रवल्गनिशितासिविभ्रमम् ॥ ३० ॥ विजित्य बाणैर्मदनस्य कुर्वतः समस्तमेकातपवारणं जगत् । अभङ्गुरा षट्पदबन्दिनो वने जगुस्तदानीं बिरुदावलीमिव ॥ ३१ ॥ परागपुञ्जा यदि पुष्पजा अमी न पासुतल्पा स्मरमत्तदन्तिन । अलिच्छलात्पान्थवधाय धावत कथं तदन्तस्त्रुटिताङ्घ्रि शृङ्खला ॥३२॥ ददत्प्रवालौष्ठमुपात्तयौवनो मधु. प्रसूनाशुककर्षणोत्सुक. । लतावधूनामिह संगमे जनैरदर्शि कूजन्निव कोकिलस्वनैः ॥ ३३ ॥ शिखण्डिना ताण्डवमत्र वीक्षितुं तवास्ति चेच्चेतसि तन्वि कौतुकम् । समाल्यमुद्दामनितम्बचुम्बिन सुकेशि तत्सवृणु केशसंचयम् ॥ ३४ ॥ जलेषु ते वक्रसरोजनिर्जितो जनै स्फुटच्चारुसरोरुहाकर । अदर्शि सबीड इवोदरे क्षिपन्कृपाणपुत्रीमिव षट्पदावलिम् ॥ ३५ ॥ सविभ्रम वीक्ष्य तवेक्षणद्वय गत च वाचालितरत्ननूपुरम् । महोत्पलैर्वारि निमीलित दिवि हियेव हसैश्च पलायित जवात् ॥३६ ।। यदि स्फुरिष्यन्ति तवाधरद्युते पुर कियत्कालमशोकपल्लवा' । तदाधिगत्यान्तरमुद्यतत्रपा ध्रुव गमिष्यन्ति विवर्णताममी ॥ ३७॥ भव क्षण चण्डि वियोगिनीजने दयालुरुन्मुद्रय सुन्दरी गिरम् । अमी हताशाः प्रथयन्तु मूकता कृतान्तदृता इव लक्षिताः पिकाः ॥३८॥ उदीरयन्नित्यमृतप्रपा गिर विचित्रचाटूक्तिविचक्षणः क्षणात् । प्रसर्पदानन्दतिरोहितक्रुध चकार कश्चित्तरुणो मनस्विनीम् ॥ ३९ ॥ (कुलकम्) अगोचर चण्डरुचेरपि द्युता निकुञ्जलीलासदनेषु पुञ्जितम् । प्रभाभिरुद्भासितवीरुषस्तमो विनिन्यिरे भग्नमग्नदीपिका ॥ ४०॥ परिभ्रमन्त्य कुसुमोच्चिचीषया विरेजिरे तत्र सरोजलोचना । जिनेन्द्रमभ्यर्चयितु सपर्यया कृतप्रयत्ना वनदेवता इव ॥ ४१ ॥ उदग्रशाखाकुसुमार्घमुद्भुजा व्युदस्य पार्ष्णिद्वयमञ्चितोदरी । नितम्बभूस्रस्तदुकूलबन्धना नितम्बिनी कस्य चकार नोत्सवम् ॥४२॥ करै प्रवालान्कुसुमानि लोचनैर्नखाशुभिस्तत्र विजित्य मञ्जरी । बधूजनस्यास्य जिघृक्षतो भयात्किलाचकम्पे पवनाहतं वनम् ॥ १३ ॥ प्रमत्तकान्ताकरसंगमादमी सदागमाभ्यासरसोज्ज्वला अपि । क्षणान्निपेतुः सुमनोगणा यतो ह्रियेव विच्छायमभूत्ततो वनम् ॥३४॥ किमन्यदन्ये पिकपञ्चमादयो यशासि पुण्यैरलभन्त सेवकाः । समर्प्यते कार्यमनङ्गभूपतेः पुनस्तदेकेन वसन्तशाखिना ॥ ४५ ॥ इतीव काचिन्नवचूतमञ्जरीं प्रियस्य वश्यौषधिमाददे मुदा । स्वमेव तद्दर्शनमात्रकर्मणा विवेद मुग्धा न वशीकृतं पुरा || ४६ ॥ (युग्मम्) लताग्रदोलाञ्चनलीलया मुहुर्नतोन्नतस्फारनितम्बमण्डला । श्रमं प्रचक्रे पुरुषायितक्रियाप्रकर्षहेतोरिव कापि कामिनी ॥ ४७ ॥ स्वमूनि चूडामणिरश्मिकार्मुके निवेशयन्ती नवनीपगोलकम् । पिकाय मर्मव्यथकाय कानने निबद्धलक्ष्येव वधूरलक्ष्यत ॥ ४८ ॥ कयाचिदुज्जृम्भितचारुचम्पकप्रसूनमाला जगृहे न पाणिना । स्मरान्तकग्रस्तवियोगिनीच्युता विडम्बयन्ती कलधौतमेखलाम् ॥४९॥ उदग्रशाखाञ्चनचञ्चलाङ्गुलेः भूजस्य मूल स्पृशति प्रिये छलात् । स्मित वधूनामिव वीक्ष्य सत्रपैरमुच्यतात्मा कुसुमैर्दुमाग्रत ॥ ५० ॥ मिथ प्रदत्तैर्नवपुष्पदामभिर्बभुस्तदानी मिथुनानि सर्वत । अवन्ध्यपातप्रसरै प्रकोपतश्चितानि बाणैरिव पुष्पधन्वना ॥ ५१ ।। विपक्षनामापि कुरङ्गचक्षुषा बभूव मन्त्रो ध्रुवमाभिचारिकः । प्रियैस्तदुच्चारणपूर्वमर्पिता प्रसूनमाला यदियाय वज्रताम् ।। ५२ ॥ रतावसाने लतिकागृहाद्वधूर्विनियंती खिन्नकपोलमण्डला । प्रवीजयन्ति स्म समीरणेरितैः प्रवाललीलाव्यजनैर्महीरुहाः ॥ ५३ ।। स्रजो विचित्रा हृदि जीवितेश्वरैः समाहिताश्चारुचकोरचक्षुषाम् । तदन्तरेऽन्तर्विशतो मनोभुवश्चकासिरे वन्दनमालिका इव ॥ १४ ।। स्मितं विलासस्य कटाक्षविभ्रम रतेरनङ्गस्य सुधारसच्छटा । यशांसि तारुण्यनृपस्य मेनिरे विलासिनीना शिरसि स्रजो जनाः||१५|| प्रसूनशून्येऽपि तदर्थिनी तरौ नियोजयन्ती करपल्लव मुहु । निरीक्षणात्पत्युरनङ्गविह्वला स्मितं सखीना विदधे सुलोचना ॥ १६ ॥ तदा यदासीत्तनुरामणीयक प्रसूनमालाभरणैर्मृगीदृशाम् । अवैति तद्वर्णयितुं तदा स्मरो यदा कवित्वं लभते प्रसादतः ॥ १७ ॥ कृतेऽपि पुष्पावचये समन्ततो लतासु लीलार्पितपाणिपल्लवा । स्फुरन्नखाशुप्रकरेण तत्क्षण वितेनिरे पुष्पविभङ्गिमङ्गना ॥ ५८ ॥ प्रसूनलक्ष्मीमपहृत्य गच्छता वधूजनाना भयलोलचक्षुषाम् । वनेन मुक्ता विषमेषुशालिना शिलीमुखास्तत्र निपेतुरन्तिके ॥ ५९ ॥ समुल्लसत्संमदवाष्पबिन्दुभिर्निलीयमानैरिव लोचनैर्नृणाम् । वपुर्जलार्द्र श्रमभारभङ्गुरास्तदा वहन्ति स्म कुरङ्गलोचना ॥ ६ ॥ शुभ्राम्भोजविशाललोचनयुगोपान्तेषु विभ्रन्नवा सद्यः प्रस्फुटशुक्तिसपुटतटीनिष्क्रान्तमुक्ताकृतिम् । मूले च स्तनकुम्भयोरनुकृतश्च्योतत्सुधाम्भोलव. स्त्रीणा जीवितमन्मथ समजनि स्वेदोदबिन्दुव्रज ॥११॥ वनान्मकरकेतनप्रणयिनः करोल्लासित- स्फुरत्कमलकेलयस्तुलितपूर्णचन्द्रानना । अशेषकुसुमोच्चयश्रमजलार्द्रदेहास्ततो जवाज्जनितविस्मयाः श्रिय इव स्त्रियो निर्ययु ॥१२॥ तादृक्कान्ताचरणकमलस्पर्शजाग्रत्स्मरस्य प्रस्वेदाम्बुद्रव इव पुरो विन्ध्यधात्रीधरस्य । उद्दामोर्मिप्रसरपुलको धर्ममर्मव्यथाया दृष्ट सैन्यैरसिरिव महान्नर्मदाम्भःप्रवाह ॥६३ ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये द्वादश सर्ग । द्विगुणितमिव यात्रया बनाना स्तनजघनोद्वहनश्रमं वहन्त्यः । जलविहरणवाञ्छया सकान्ता ययुरथ मेकलकन्यका तरुण्यः ॥ १॥ जलभरपरिरम्भदत्तचित्ताः श्रमसलिलप्रसरच्छलेन रागात् । प्रथममिव समेत्य संमुखं ताः सपदि जलै परिरेभिरे तरुण्यः ॥ २ ॥ क्षितितलविनिवेशनात्प्रसर्पन्नखमणिशोणमयूखमङ्घयुग्मम् । श्रमनिवहविलम्बमानजिह्वाप्रसरमिवाध्वनि सुभ्रुवा बभासे ।। ३ ॥ प्रियकरकलित विलासिनीना नवशिखिपत्रमयातपत्रवृन्दम् । मृदुकरपरिमर्शनात्तसौख्य वनमिव पृष्ठगत रराज रागात् ॥ ४ ॥ इह मृगनयनासु साम्यमक्ष्णो प्रथममवेक्ष्य विशश्वसु कुरङ्ग्य । तदनु निरुपमैर्भुवो विलासैर्विजितगुणा इव ताः प्रणश्य जग्मुः ॥ ५॥ वदनमनु मृगीदृशो द्रुमाग्रात्पतदलिमण्डलमाशु गन्धलुब्धम् । क्षितिगतशशिनो भ्रमेण राहोरवतरतो गगनाद्द्युति जहार ॥ ६ ॥ दिनकरकिरणैरुपर्यधस्तात्तुलितकुकूलकृशानुभिः परागैः । पुटनिहितसुवर्णवद्वधूभिः स्वतनुरमन्यत हन्त तप्यमाना ॥ ७ ॥ वनविहरणखेदनिःसह ते वपुरतिपीनपयोधर बभूव । इति किल स मुदस्य कोऽपि दोर्भ्या युवतिमनाकुलितो जगाम रागी ॥८॥ मिलदुरसिजचक्रवाकयुग्मा' प्रथयति भास्वति यौवने प्रकाशम् । स्फुटरवकलहसकास्तरुण्यः सरित इव प्रतिपेदिरे नदीं ताम् ॥ ९ ॥ अधिगतकरुणारसेव रेवा श्रमभरमन्दरुचो विलोक्य तन्वी । जललवनिचितारविन्ददम्भात्सपदि सबाष्पकणेक्षणा बभूव ॥ १० ॥ प्रकटय पुलिनानि दर्शयाम्भोभ्रमणमुदञ्चय निर्भर तरङ्गान् । धनजघनगभीरनाभिनृत्यद्भ्रुकुटि तुला न तथाप्युपैषि तन्व्या ॥ ११ ॥ नयनमिव महोत्पलं तरुण्या सरसिजमास्यनिभ च मन्यसे यत् । तदुभयमपि विभ्रमरुभाभ्या जितमिह वल्गसि किं वृथोद्वहन्ती ॥ १२ ॥ इति मुहुरपरैर्यथार्थमुक्ता क्षणमपि न स्थिरता दधौ ह्रियेव । गिरिविवरतलान्यधोमुखी सा परमपराब्धिवधूर्द्रुत जगाम॥१३॥(कालापकम्) प्रकटितपुलकेव सा स्रवन्ती विदलितशैवलराजिमञ्जरीभि । सरलिततरलोर्मिबाहुदण्डा प्रणयभरादिव दातुमङ्कपालिम् ॥ १४ ॥ स्मितमिव नवफेनमुद्वहन्ती प्रथममनल्पसरोजकल्पितार्धा । कलविहगरवैरिवालपन्ती व्यतनुत पाद्यमिवाम्बुभिर्वधूनाम् ॥१५॥ (युग्मम् ) उपनदि पुलिने प्रियस्य मुक्तामणिमयभूषणभाजि वक्षसीव । स्वयमुपरि निपत्य कापि रागान्मुहुरिह लोलयति स्म चञ्चलाक्षी ॥ १६ ॥ प्रणिहितमनसो मृगेक्षणाना चटुलविवर्तितनेत्रविभ्रमेषु । प्रविदधुरधिकस्पृहा ह्रदिन्या चलशफरीस्फुरिते क्षण युवा न ॥ १७ ॥ उपनदि नलिनीवनेषु गुञ्जत्यलिनि निमीलितलोचन कुरङ्ग । तटगतमपि नो ददर्श सैन्य नहि विषयान्धमति किमप्यवैति ॥ १८ ॥ कथमपि तटिनीमगाह्मानाश्चकितदृश प्रतिमाछलेन तन्व्यः । इह पयसि भुजावलम्बनार्थ समभिमृता इव वारिदेवताभिः ॥ १९ ॥ अधिगतनदमप्यगाधभावै सलिलविहारपरिच्छदं वहन्त्य । प्रणयिभिरथ धार्यमाणहस्ता प्रविविशुरम्भसि कातरास्तरुण्य ॥ २० ॥ अविरलपलितायमानफेन बलिनमिवोर्मिभिरङ्गमुद्वन्ती । जतुबहलवधूपढप्रहारैरजनि सरिजरती रुषेव रक्ता ॥ २१ ॥ ध्वनिविजितगुणोऽप्यनेकधाय रटति पुर कथमत्रपो मराल । इति समुचितवेदिनेव तन्व्या स्थितमिह वारिणि नूपुरेण तूष्णीम् ॥२॥ प्रसरति जललीलया जनेऽस्मिन्विसवदनो दिवमुत्पपात हस । नवपरिभवलेखभृन्नलिन्या प्रहित इवाशुमते प्रियाय दूतः ॥ २३ ॥ पृथुतरजघनैनितम्बिनीना स्खलितगति पयसामभूत्प्रवाह । अधिगतवनितानितम्बमार कथमथवा सरसः पुर प्रयाति ॥ २४ ॥ अपहृतवसने जडेन लौल्याज्जघनशिलाफलके नितम्बवत्या । करजलिपिपदात्तदाविरासीद्विषमशरस्य जगज्जयप्रशस्ति ॥ २५ ॥ कथमधिकगुण कर मृगाक्षी क्षिपति मयीह वनान्तमाश्रितायाम् । इति विदितपराभवेव लक्ष्मी सपदि सरोजनिवासमुत्ससर्ज ॥ २६ ॥ निवसनमिव शैवल निरस्य स्पृशति जने नवसङ्गभाजि मध्यम् । वदनमिव पिधातुमुद्यतोर्मि प्रसरकराथ सरिद्वधूश्चकम्पे ॥ २७ ।। पृथुतरजघनैर्विलोड्यमाना युवतिजनै कलुषत्वमाश्रयन्ती । स्वपुलिनमुपसर्पिभि पयोभिः सरिदुपगोपयति स लज्जितेव ॥ २८॥ प्रतियुवति निषेव्य नाभिरन्ध्रेष्वभिनवविन्ध्यदरीप्रवेशलीलाम् । अभजत गुरुगण्डशैलयुक्त्या स्तनकलशाग्रविघट्टनानि रेवा ॥ २९ ॥ वरतनुजघनाहतैर्गभीरप्रकृतिभिरप्यतिचुक्षुभे पयोभि । इह विकृतिमुपैति पण्डितोऽपि प्रणयवतीपु न किं जडस्वभाव ॥ ३० ॥ समसिचत मुहुर्मुहु कुचाग्र करसलिलैर्दयितो विमुग्ववध्वाः । मृदुतरहृदयस्थलीग्ररूढस्मरनवकल्पतरोग्विाभिवृद्ध्यै ॥ ३१ ॥ स्तनतटपरिघट्टितै पयोभि सपदि गले परिरेभिरे तरुण्यः । अधिगतहृदया मनखिनीना किमु विलसन्मकरध्वजा न कुर्यु ॥ ३२ ॥ हृदि निहितघटेव बद्धतुम्बीफललुलिताङ्गलतेव कापि तन्वी । इह पयसि सविभ्रम तरन्ती पृथुलकुचोच्चयशालिनी रराज ॥ ३३ ॥ तटमनयत चारुचम्पकाना स्रजमबलागलविच्युत्ता तरङ्गै । निजदयितरिपोरिवौर्ववह्ने प्रचुरशिखापरिशङ्कया स्रवन्ती ॥ ३४ ॥ प्रियतमकरकल्पितेऽङ्गरागे प्रथममगान्न तथा क्लम सपत्नी । अनुनदि सलिलैर्यथापनीते नखपदमण्डनवीक्षणान्मृगाक्ष्या ॥ ३५ ॥ नवनखपदराजिरम्बुजाक्ष्या हृदि जलबिन्दुकरम्बिता बभासे । वरसरिदुपढौकितप्रवालव्यतिकरदन्तुररत्नकण्ठिकेव ॥ ३६ ॥ सरभसमधिपेन सिच्यमाने पृथुलपयोधरमण्डले प्रियाया । श्रमललिलमिषात्सखेदमश्रूण्यहह मुमोच कुचद्वय सपत्न्या ॥ ३७ ।। प्रियकरसलिलोक्षितातिपीनस्तनकलशोत्थितसीकरैस्तरुण्याः । प्रतियुवतिरथर्वसारमन्त्राक्षरनिकरैरिव ताडिता मुमूर्छ ॥ ३८ ॥ अहमिह गुरुलज्जया हतोऽस्मि भ्रमर विवेकनिधिस्त्वमेक एव । मुखमनु मुमुखी करौ धुनाना यदुपजन भवता मुहुश्चुचुम्बे ॥ ३९ ॥ इति सरसिरुहभ्रमात्प्रियाणामनुसरते वदनानि षट्पदाय । रतिरसरसिकोऽपि लज्जमान किमपि हृदि स्पृहयाबभूव कामी ४० (युग्मम्) प्रियकरसलिलैमनस्विनीना न्यशमि हृदि प्रबलोऽपि मन्युवह्नि। अविरलमलिनाञ्जनप्रवाहो नयनयुगान्निरगादिवास्य धूमः ॥ १ ॥ अपहृतवसने जलैर्नितम्बे निहितदृशं करकेलिपङ्कजेन । प्रियमुरसि विनिघ्नती स्मरस्य स्फुटमकरोत्कुसुमायुधत्वमेका ॥ ४२ ॥ मुखतुहिनकरेऽपि संहतेन स्तनयुगलेन तुला कुतोऽधिरूढे । इति जघनहत पयो वधूना रजनिवियोगिविहगमौ निरासे ॥ १३ ॥ सरभसमिह यत्तटात्पतन्त्यः प्रविविशुरन्तरशङ्कितास्तरुण्यः । घनघुलक इवाशयो जलाना तदुदितबुहुदबिन्दुभिर्बभूव ॥ ४४ ॥ प्रियकरविहितामृताभिषेकैरुरसि हरानलदग्धविग्रहोऽपि । प्रतिफलितचल‌द्द्विरेफदम्भादजनि सजीव इव स्मरस्तरुण्याः ॥ ४५ ॥ निपतितमरविन्दमङ्गनाया श्रवणतटादतिदुर्लभोपभोगात् । मधुकरनिकरस्वनैर्विलोले पयसि शुचेव समाकुल रुरोद ॥ ४६ ॥ अविरललहरीप्रसार्यमाणैस्तरलदृशश्चकितेव केशजालैः । स्तनकलगतटान्ममज्ज पत्रान्तरमकरी सरितः पयस्यगावे ।। ४७ ।। अभजत जघन जघान वक्षस्तरलतरङ्गकरैश्चकर्ष केशान् । विट इव जलराशिरगनाना सरभसपाणिपुटाहतश्चकूज ॥ ४८ ॥ मुखमपहृतपत्रमङ्गनाना प्रबलजलैवलोक्य शङ्कितेव । सरिदकृत ुनस्तदर्थमूर्मिप्रसरकरार्पितशेवलप्ररोहैः ॥ ४९ ॥ सपदि वरतनोरतन्यतान्तर्य इह परिष्वजता जडेन रागः । स किल विमलयोर्युगे तदक्ष्णो स्फटिक इव प्रकटीबभूव तस्याः ॥१०॥ निरलकमपवस्त्रमस्तमाल्य क्षततिलक च्युतयावकाधरौष्ठम् । सह दयिततमैर्निषेव्यमाण सुरतमिवाम्बु मुदेऽभवद्वधूनाम् ॥ ११ ॥ श्रवणपथरतापि कामिनीना विशदगुणाप्यपदूषणापि दृष्टिः । अभजत जडसगमेन राग धिगधिकनीचरताश्रय जनानाम् ॥ १२ ॥ धुतकरवलयस्वनं निशम्य प्रतियुवतेरलिखण्डिताधरायाः । अविहितकथया कयापि सेर्ष्ये विवलितकधरमैक्षि जीवितेशः ॥ १३ ॥ अकलुषतरवारिभिविभिन्नाखभिनवपत्रलतासु कामिनीनाम् । नखपदविततिर्दधौ कुचान्तर्भुवि परिशेषितरक्तकन्दलीलाम् ॥ १४ ॥ अविरतजलकेलिलोलकान्तास्तनकलशच्युतकुङ्कुमैस्तदानीम् । कृतबलविलेपनेव रेवा पतिमकरोत्सरितामतीव रक्तम् ॥ १५ ॥ अहमुदयवता जनेन नीचै पपनिरतापि यदृच्छयोपभुक्ता । इति सरलितवीचिबाहुदण्डा प्रमदभरादिव वाहिनी ननर्त ॥ ५६ ॥ दिनमबलमथो गृहान्प्रयाथ क्षणमहमप्यमय भजामि कान्तम् । इति करुणरुतेन चक्रवाक्या समभिहिता इव ता प्रयातुमीषु ॥ १७ ॥ इति कृतजलकेलिकौतुकास्ता सह दयितै सुदृशस्ततोऽवतेरु । कलुषितहृदयस्तदा नदोऽपि प्रकटमभूदिव तद्वियोगदु खैः ॥ ५८ ।। जलविहरणकलिमुत्सृजन्त्या कचनिचय क्षरदम्बुरम्बुजाक्ष्या । परिविदितनितम्बसङ्गसौख्य पुनरपि बन्धभियेव रोदिति स्म ॥ ५९ ॥ मुखशशिविमुखीकृतावतारे सतमसि पक्ष इवोच्चये कचानाम् । अविरलजलबिन्दवस्तदानीमुडुनिकरा इव रेजिरे बधूनाम् ॥ ६० ॥ प्रणयमथ जलाविलाशुकाना मुमुचुरुदारदृश क्षणात्तदानीम् । ध्रुवमवगणयन्ति जाड्यभीत्या स्वयमपि नीरसमागत विदग्धा ॥ ११ ॥ अतिशयपरिभोगतोऽम्बुलीलारसमयतामिव सुभ्रुवोऽभिजग्मुः । सितसिचयपदाद्यदुत्तरङ्ग पुनरपि भेजुरिमा पयःपयोधिम् ॥ १२ ॥ मरुदपहृतककणापि काम करकलितामलकङ्कणा तदानीम् । कचनिचयविभूषितापि चित्र विकचसरोजमुखी रराज काचित् ॥ १३ ॥ अनुकलितगुणस्य सौमनस्य प्रकटमभूत्कुसुमोच्चयस्य तेन । अहमहमिकया स्वयं वधूभिर्यदयमधार्थत मूर्ध्नि सभ्रमेण ।। ६४ ॥ समुचितसमयेन मन्मथस्य त्रिभुवनराज्यपदे प्रतिष्ठितस्य । मृगमदतिलकच्छलान्मृगाक्षी न्यधित मुखे नवनीलमातपत्रम् ॥ ६५ ॥ अभिनवशशिनो भ्रमेण मा भून्मम बदनेन समागतो मृगस्य । श्रवणगतमितीव कापि पाशद्वयमकरोन्मणिकुण्डलच्छलेन ॥ ६६ ॥ मृगमदधनसारसारपङ्कस्तबकितकुम्भनिभस्तनी सखीनाम् । हृदि मदनगजेन्द्रमात्तधूलीमदमिव काचिददर्शयत्कृशाङ्गी ॥ १७ ॥ लवणिमरसपूर्णनाभिवापीमनु जलयन्त्रघटीगुणोपमानम् । निरवधि दधती कयापि मुक्तामणिमयहारलता न्यधायि कण्ठे ॥ ६८ ॥ अभिमुखमभिदह्यमानकृष्णागुरुघनधूमचयच्छलेन तन्व्य । स्मरपरवशवल्लभाभिसारोत्सुकमनसः परिरेभिरे तमासि ॥ ६९ ॥ रतिरमणविलासोल्लासलीलासु लोला किमपि किमपि चित्ते चिन्तयन्त्यस्तरुण्यः । प्रविरचितविचित्रोदारशृङ्गारसारा सह निजनिजनाथैः स्वानि धामानि जग्मुः ॥ ७० ॥ इत्थं वारिविहारकेलिगलितश्रोणीदुकूलाञ्चला वीक्ष्यैता परयोषितः सुकृतधूधुर्यो जगदबान्धव । तद्दोषोपचयप्रमार्जनविधौ दत्ताशय साशुको- ऽप्यब्धि स्नातुमिवापर दिनमणिस्तत्कालमेवागमत् ॥ ७१ ।। इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये त्रयोदशः सर्गः । चतुर्दश सर्ग । स्व सप्तधा स्यन्दनसप्तिदम्भात्कृत्वा समाराधयतोऽथ वृद्ध्यै । ध्वान्तस्य भानु कृपयेव दातु प्रस्तावमस्ताचलसमुखोऽभूत् ॥ १ अपास्य पूर्वामभिसर्तुकामो गुप्ता दिश पाशधरेण सूर्यः । विलम्बमानापसरन्मयूखै पपात पाशैरिव कृष्यमाण ॥ २ ॥ स्वैराभिसारोत्सवसनिरोधात्क्रोधोद्भुराणामिव बन्धकीनाम् । अर्कस्तदा रक्तकटाक्षलक्षच्छटाभिराताम्ररुचिर्बभूव ॥ ३ ॥ ता पूर्वगोत्रस्थितिमप्यपास्य यद्वारुणीं नीचरतः सिषेवे । स्वसनिधानादपसार्यते स्म महीयसा तेन विहायसार्कः ॥ ४ ॥ यथा यथा चण्डरुचिः प्रतीच्यां संतापमुत्सृज्य बभूव रक्त । स्पर्धानुबन्धादिव कामिनोऽपि तथा तथा प्रेमवतीष्वरज्यन् ॥ ५ ॥ प्राप्त पुन प्रत्यगमोषधीषु न्यासीचकारात्मरुचोऽत्र कच्चित् । शेषा रवि स्थापयितु दिनान्ते यियासुरस्ताचलमाजगाम ॥ ६ ॥ मूर्ध्नीव लीलावनकुन्तलाढ्ये तिष्ठन्भुवो भानुरिहास्तशैले। चूडामणित्व प्रययौ दिनान्तेऽप्यहो महत्त्व महतामचिन्त्यम् ॥ ७ ॥ अस्ताद्रिमारुह्य रवि पयोधौ कैवर्तवत्क्षिप्तकराग्रजालः । आकृष्य चिक्षेप नभस्तटेऽसौ क्रमात्कुलीर मकर च मीनम् ॥ ८ ॥ आविर्भवद्धान्तकृपाणयष्ट्या छिन्नेव मूले दिनवल्लिरुच्चै । स्रस्ताशुमत्पक्वफला पतन्ती सद्यो जगद्व्याकुलमाततान ॥९॥ बिम्बेऽर्धमाने सवितु पयोधौ प्रोद्वृत्तपोतभ्रममादधाने । लोलाशुकाष्ठाग्रविलम्बिताह सायात्रिकेणाम्बुनि मङ्क्तुमीषे ॥ १० ॥ भूयो जगद्भूपणमेव कर्तु तप्त सुवर्णोज्जवलभानुगोलम् । कराग्रसदशधृत पयोवेश्चिक्षेप नीरे विधिहेमकार ॥ ११ ॥ आवर्तगर्तान्तरसौ पयोधेर्न्यधीयत स्यन्दनवाहवेषै । आकृष्य शूरोऽपि तम समूहैरहो दुरन्तो बलिना विरोध ॥ १२ ॥ प्रवासिना तद्विरहाक्षमेव सूर्येण पत्यारुणकान्तिदम्भात् । दत्त्वालये पत्रकपाटमुद्रा ययौ सहाम्भोजवनस्य लक्ष्मीः ॥ १३ ॥ दिशा समानेऽपि वियोगदुःखे पूर्वैव पूर्व यदभूद्विवर्णा । तेनात्मनि प्रेम रवेरतुल्य प्रवासिनोऽनक्षरमाचचक्षे ॥ १४ ॥ कामस्तदानी मिथुनानि शीघ्र प्रत्येकमेक प्रजहार बाणै । न लक्ष्यशुद्धिर्निबिडान्धकारे भविष्यतीत्याहितचेतसेव ॥ १५ ॥ अन्योन्यदत्त बिसखण्डमास्ये रथाङ्गनाम्नोर्युगल प्रयत्नात् । साय वियोगाद्रुतमुत्पतिप्णोर्जीवस्य वज्रार्ग लवद्वभार ॥ १६ ॥ लब्ध्वा पयोमज्जनपूर्वमब्धे रम्याशुकप्रावरण दिनान्ते । मित्रेण दूराध्वचरेण मुक्त वर्त्माम्बर ध्वान्तमलीमस तत् ॥ १७ ॥ निर्मज्ज्य सिन्धौ सवितुर्दिनान्ते वृथोडुरत्नोद्धरणाय यत्न । यत्तत्करस्पर्शमवाप्य जग्मुर्भूयोऽपि रत्नाकरमेव तानि ॥ १८ ।। मित्र क्वचित्कूटनिधिर्निधत्ते वसूनि हृत्वेत्युदितापवाद । सध्यामथोदीरितरागरक्ता शस्त्रीमिवान्तर्निदधेऽस्तशैल ॥ १९ ॥ प्रदोषचास्यचपेटयोच्चैरुन्मुक्तमुक्तोज्ज्वलतारकौघः । ध्वस्तो नभ प्रौढगजस्य भास्वत्कुम्भोपरश्चेन्दुमिषादुदस्त ॥ २० ॥ अथास्तसध्यारुधिराणि पातु विस्तारिताराभरदन्तुरास्य । वेतालवत्कालकरालमूति समुज्जिजृम्भे सहसान्धकारः ॥ २१ ॥ अस्ताचलात्कालवलीमुखेन क्षिप्ते मधुच्छत्र इवार्कबिम्बे । उड्डीयमानैरिव चञ्चरीकैनिरन्तरं व्यापि नभस्तमोभि ॥ २२ ॥ अन्य जलाधारमित प्रविष्टे कुतोऽपि हसे सहिते सहायै । नभ सरोऽच्छेदगरीयसीमिश्छन्न तम शैवलमञ्जरीमि ॥ २३ ॥ अस्त गते भास्वति जीवितेशे विकीर्णकेशेव तम समुहैः। ताराश्रुबिन्दुप्रकरैर्वियोगदुःखादिव द्यौ रुदती रराज ॥ २४ ॥ तेजोनिरस्तद्विजराजजीव गते जगत्तापिनि तिग्मरश्मौ । तद्वासहर्म्य तमसा विशुधे द्यौगोमयेनेव विलिम्पति स्म ।। २५ ॥ नून महो ध्वान्तभयादिवान्तश्चित्त निलीन परिहृत्य चक्षु । यचेतसवेक्षणनिर्व्यपेक्षमद्राक्षुरुचावचमत्र लोका. ॥ २६ ॥ आज्ञामतिक्रम्य मनोभवस्य यियासता सत्वरमध्वगानाम् । पुनस्तदा नीलशिलामयोच्चप्राकारबन्धायितमन्धकारैः ।। २७ ॥ लब्ध्वा समृद्धि रतये वाभावान्मलीमसाना मलिना भवन्ति । यत्पासुला दस्युनिशाचराणामभून्मुदे केवलमन्धकार ॥२८॥ तथाविधे सूचिमुखामभेये जातेऽन्धकारे वसतिं प्रियस्य । हृत्कक्षलमस्मरदावहिविज्ञातभार्गव जगाम काचित् ॥ २९ ॥ संचार्यमाणा निशि कामिनीभिर्गृहागृहं रेजुरमी प्रदीपाः । तेजोगुणद्वेषितया प्रवृद्धस्तमोमिरान्ध्य गमिता इवोच्चैः ॥ ३० ।। दधुर्वधूभिर्निशि साभिलाषमुल्लासितप्राशुशिखा प्रदीपाः । प्रत्यालयं क्रुध्यदनगमुक्तप्रोत्तप्तनाराचनिकायलीलाम् ॥ ३१ ॥ पूर्वाद्रिभित्त्यन्तरितोऽथ रागात्वज्ञापनायोपपति किलेन्दुः । पुरंदराशाभिमुख करागृश्चिक्षेप ताम्बूलनिभा खकान्तिम् ॥ ३२ ॥ ऐरावणेन प्रतिदन्तिबुद्धया क्षते तमोध्यामलपूर्वशैले । प्राची तटोत्थैरिव धातुचूर्णैरिन्दो करात्रैश्छुरिता रराज ॥ ३३ ॥ उदंशुमत्या कलया हिमाशो कोदण्डयष्टयापितबाणमेव । भेत्तुं तमस्तोमगजेन्द्रमासीदाबद्धसधान इवोदयाद्रि ॥ ३४ ॥ व्यापारितेनेन्द्रककुम्भवान्या ह्त्वार्यचन्द्रेण तमोलुलायम् । कीलालधारा इव तम्य शोणा प्रसारिता दिक्षु रुच क्षणेन ॥ ३५ ॥ अदितेन्दो शुकचञ्चरक्त वपु स्तनाभोग इवोदयाद्रौ । प्राच्या' प्रदोपेण समागताया क्षन नखस्येव तदात्रभासे ॥ ३६ ॥ इन्दुर्यदन्यासु कला. क्रमेण तिथिष्वशेषा अपि पौर्णमास्याम् । धत्ते स्म तद्वेद्मि गुणान्पुरधीप्रेमानुरूप पुरुषो व्यनक्ति ॥ ३७ ॥ उद्धर्तुमुद्दामतमिस्रपङ्काद्वयोमापि कारुण्यनिधि पिशङ्गः । भूद्धारलीलाकिणकालिकाङ्ग सिन्धो. शशी कूर्म इवोजगाम ॥ ३८ ॥ मुखं निमीलन्नयनारविन्द कलानिधौ चुम्बति राज्ञि रागात् । गलत्तमोनीलदुकूलबन्धा श्यामाद्रवचन्द्रमणिच्छलेन ॥ ३९ ॥ एकत्र नक्षत्रपति. स्वशक्त्या निशाचरोऽन्यत्र दुनोति वायु. । निमील्य नेत्राजमत. कथचित्पत्युर्वियोग नलिनी विषेहे ।। ४०॥ लेभे शशी शोणरुचं किरातैयों बाणविद्वेण इवोदयाद्रौ । अग्रेऽवदातद्युतिरङ्गनाना धौत स हर्षाश्रुजलैरिवासीत् ॥ ४१ ॥ रात्रौ नभश्चत्वरमापतन्तमुवेलदुल्लोलभुज पयोधि । तनूनमिन्दु सुतवत्सलत्वादुत्सङ्गमानेतुमिवोल्ललास ॥ ४२ ॥ तथानुवानेन जगन्महोभिः कृतस्तनीयाशिनान्धकार । मन्ये यथास्यैव कलङ्कदम्भादनन्यगामी शरण प्रपेदे ॥ ४३ ॥ कुमुद्वतीविभ्रमहासकेलि कर्तु प्रवृत्ते भृशमोपधीशे । प्रभावभाजा ज्वलति स्म रात्रौ महीपबीना ततिरीर्ण्ययेव ॥ ४ ४ ।। दिवार्कतप्तै कुमुदै सुहृत्त्वात्प्रकाश्यमाने हृदये मिनाशु । उत्वाततत्पक्षमरोजमूलो रुच रेजे लसमानरश्मि ॥ ४५ ॥ विलासिनीचित्तकरण्डिकाया जगनमाखिन्न इवाति सुप्त' । उन्धाप्यते स्म द्रुतमशुदण्डैः सताङ्य चन्द्रेण रते जग ।। ४६ ।। शशी जगत्ताडनकुण्ठिताना निगानपट्ट स्मरमार्गणानाम् । उत्तेजिताम्नान्यदनेन भूयो व्यापारयामास जगत्लु काम. ॥ ४७ ॥ कर्पूरपूरैरिव चन्दनाब्वैर्मालाकलापैरिव मालतीनाम् । द्यौर्दक्षिणेनेव सम परिच्या प्रसाधिता चन्द्रममा करा], ॥ १८ ॥ वपुः सुधाशो स्मरपार्थिवस्य मानातपच्छेदि सितानपत्रम् । अनेन कामास्पदमानिनीना छाया परा कापि मुखे यदासीत् ॥४९॥ किमप्यहो धाष्ट–मचिन्त्यमस्य पश्यन्तु चन्द्रस्य कलङ्कभाज. । यदेष निर्दोषतया जितोऽपि तस्थौ पुरस्तात्तरुणीमुखानाम् ॥ ५० ॥ यन्मन्दमन्दं बहलान्धकारे मनो जगामाभिमुख प्रियम्य । तन्मानिनीनामुदिते मृगाङ्के मार्गोपलम्भादिव धावति स्म ॥ ११ ॥ तावत्सती स्त्री ध्रुवमन्यपुसो ह्स्ताग्रसस्पर्शसहा न यावत् । स्पृष्टा करा]. कमला तथा हि त्यक्तारविन्दाभिससार चन्द्रम् ॥५२॥ उपात्ततारामणिभूषणाभिरायाति पत्यौ निलये कलानाम् । कान्ताजनो दिग्भिरिवोपदिष्ट प्रचक्रमेऽथ प्रतिकर्म कर्तुम् ॥ ५३ ॥ जनैरमूल्यस्य कियन्ममेदं हैम तुलाकोटियुगं निबद्धम् । इत्यम्बुजाक्ष्या नवयावकार्दै रुषेव रक्तं पदयुग्ममासीत् ।। ५४ ॥ त्रिनेत्रभालानलदाहबिभ्यत्कदर्पलीलानगरस्य हैमम् । प्राकारमुच्चैर्जघनस्य पार्श्वे बबन्ध काचिद्रशनाछलेन ॥ १५ ॥ पयोधराणामुदय प्रसर्पद्धारानुबन्धेन विलासिनीनाम् । विशेषत कस्य मलीमसास्यो न दीप्रभावोन्नतिमाततान ॥ १६ ॥ चन्द्रोदयोजृम्भितरागवाधर्वेलाग्रकल्लोलमिवोल्ललन्तम् । श्वासै सकम्प निशि मानिनीना मेने जनो यावकरक्तमोष्ठम् ॥१७॥ कायस्थ एव स्मर एष कृत्वा दृग्लेखनी कज्जलमञ्जुला य । शृङ्गारसाम्राज्यविभोगपत्र तारुण्यलक्ष्म्या सुदृशो लिलेख ॥ ५८ ।। लक्ष्ण यदेवावरणाय दधे नितम्बिनीभिर्नवमुल्लसन्त्या । क्रोधादिवोच्छृङ्खलया तदङ्गकान्त्यात्मनान्तनिदधे दुकूलम् ।। ५९ ॥ आरोप्य चित्रा वरपत्रवल्ली श्रीखण्डसार तिलक प्रकाश्य । नारगपुनागनिषेवणीया कयापि चक्रे नक्काननश्री ॥६० ॥ आदाय नेपथ्यमथोत्सुकोऽय कान्ताजन कान्तमतिप्रगल्भा । मूर्ती इवाज्ञा स्मरभूमिभर्तुरलङ्घनीया प्रजिघाय दूती ॥११॥ गच्छ त्वमाच्छादितदैन्यमन्यव्याजेन तस्यापसदम्य पार्श्वे । जास्वाशय ब्रूहि किल प्रसगात्तथा यथास्मिल्लधिमा न मे स्यात् ॥६२॥ यद्वा निवेद्य प्रणय प्रकाश्य दु ख निपत्य कैमयोरपि त्वम् । प्रिय तमत्रानय दृति यस्मात्क्षीणो जन कि न करोत्यकृत्यम् ॥१३॥ नाची खदोष यदि वाधिगच्छत्यालि त्वमेवात्र तत. प्रमाणम् । इत्याकुला काचिदनगतापादभिप्रिय सदिदिशे वयस्याम् ॥६४॥(कुलकम्) दृष्टापराधो दयित श्रयन्ते प्राणाश्च मे सत्वरगत्वरत्वम् । तदत्र यत्कृत्यविधौ विदग्धा दूति त्वमेवेति जगाद काचित् ॥ ६५ ॥ त्वद्वासवेश्माभियुखे गवाक्षे प्रतिक्षण चक्षुरनुक्षिपन्ती । स्वद्रूपमालिख्य मुहु पतन्ती त्वत्पादयो. सा गमयत्यहानि ॥ १६ ॥ स्त्रीत्वादरुद्धप्रसरो यथास्यां शरैरमोधै प्रहरत्यनङ्ग । साशङ्कवत्केवलपौरुषस्थे तथा न दृप्ते त्वयि कि करोति ॥ १७ ॥ यत्कम्पते नि श्वसितैः कवोष्ण गृह्णाति यल्लोचनमुक्तमम्भ । अवैम्यनङ्गज्वरजर्जर तत्त्वद्विप्रयोगे हृदय मृगाझ्या ॥ ६८ ॥ आविर्वभूवु स्मरसूर्यतापे हारावलीमूलजटा यथाङ्गे । खन्नामलीना गलकन्दलीय तथाधिक शुष्यति चञ्चलाक्ष्या ॥६९ ॥ स्तुत्वा दिने रात्रिमहश्च रात्री स्तौति स्म सा पूर्वमपूर्वतापात् । सप्रत्यहो वाञ्छति तत्र तन्वी स्थातु न यत्रास्ति दिन न रात्रि ॥७०॥(युग्मम् ) प्रगल्भता शीतकर स्फुरन्तु कर्णात्पलानि प्रसरन्तु हसा । त्वद्विप्रलम्भज्वरभाजि तस्या वीणाप्यरीणा रणतु प्रकामम् ॥ ७१ ॥ इत्थं घने व्यञ्जितनेत्रनीरे प्रदर्शिते प्रेम्णि सखीजनेन । क्षणान्मृगाक्षी हृदयेश्वरस्य इसीव सा मानसमाविवेश ।। ७२ ॥ (कुलकम् ) प्रकाशितप्रेमगुणैर्वचोभिराक्रम्य बद्धा हृदये सखीभि । आकृष्यमाणा इव निर्विलम्ब ययुर्युवान सविध वधूनाम् ॥ ७३ ।। आ सचरन्नम्भसि बारिराशे श्लिष्ट' किमौर्वामिशिखाकलापैः । खिचण्डचण्डद्युतिमण्डलामप्रवेशसकान्तकठोरताप ॥ ७४ ॥ अथाङ्कदम्भेन सहोदरत्वात्सोत्साहमुत्सङ्गितकालकूट । अङ्गानि यन्मुर्मुरवह्निपुञ्जभाजीव मे शीतकर करोति ॥ ७५ ॥ इत्थ वियोगानलदाहमङ्गे निवेदयन्ती सुमुखी सखीनाम् । समेयुषस्तत्क्षणमद्वितीयामजीजनत्कापि रति प्रियस्य ।। ७६ ॥ (विशेषकम् ) आयाति कान्ते हृदय विधेयविवेकवैकल्यमगान्मृगाक्ष्याः । तत्कालनिखिशमनोभवास्त्रसघातपातैरिव धूर्णमानम् ॥ ७७ ॥ बाष्पाम्बुसंप्लावितपक्ष्मलेखं चक्षु क्षणात्स्फारिततारक च । कि प्रेम मान यदि वा मृगाक्ष्याः प्रियावलोके प्रकटीचकार ॥ ७८ ॥ समुच्छ्रसन्नीवि गलहुकूलं स्खलल्पद सकणकङ्कणं वा । प्रियागमे स्थानकमायताझ्या विसिसिये प्रेक्ष्य सखीजनोऽपि ॥ ७९ लावण्यमझे भवती बिभर्ति दाहश्च मेऽभूद्वयवधानतोऽपि । तद्रूहि शृङ्गारिणि सप्रतीद कुतस्त्वया शिक्षितमिन्द्रजालम् ॥ ८ ॥ जाड्यं यदि प्राप्यमुरोजयोस्ते तद्वेपथुर्मानिनि मे कुतस्त्य । इत्युच्चरश्चाटुवचासि कश्चित्प्रियामकार्षीच्युतमानवेगाम् ॥ ८१ ॥(युग्मम्) मानस्य गाढानुनयेन तन्व्या निर्वासितस्यापि किमस्ति शेषः । इतीव बोद्धं हृदि चन्दना व्यापारयामास कर विलासी ॥ २ ॥ सभ्रूभग करकिसलयोल्लासलीलाभिनीत- प्रत्यग्रार्था प्रतिविदधती विस्मयस्मेरमास्यम् । सा दपत्योरजनि मदनोजीविनी कापि गोष्ठी यस्या मन्ये श्रवणमयता जग्मुरन्येन्द्रियाणि ॥ ८३ ॥ चन्द्रे सिञ्चति चान्दनैरिव रसैराशा महोमि क्षणा- दुन्मीलन्मकरन्दसौरभमिव प्रादाय दृतीवचः । सोत्कण्ठ समुपेत्य कैरवमिव प्रोल्लासि कान्तामुख खस्था केऽपि मधुव्रता इव मधून्यापातुमारेभिरे ।। ८४ || इति महाकविश्रीहरिचन्द्रविरचिते वर्मशर्मा युदये महाकान्ये चतुर्दश मर्ग । पञ्चदश सग । भर्गभालनयनानलदग्ध मन्मथ यदधिजीवयति स्म । कोऽपि कल्पतरुमध्वमृत तत्पातुमारभत किनरलोक ॥ १ ॥ शीतदीधितिविकासि सुगन्ध पत्रवदशनकेसरकान्तम् । स्त्रीमुख कुमुदवन्मधुपाना पातुमत्र मधुभाजनमासीत् ॥ २ ॥ यावदाहितपरिस्रुति पात्रे चित्तमुत्तरलित मिथुनानाम् । तावदन्तरिह बिम्बपदेन द्रागमजि वदनैरतिलौल्यात् ॥ ३ ॥ दन्तकान्तिशवल सविलासा साभिलाषमपिवन्मधु पात्रे । श्लिष्यमाणमिव सोदरभावाद्व्यक्तरागममृतेन तरुण्यः ॥ ४ ॥ यामिनीप्रथमसंगमकाले शोणता यदभजविजनाथः । तन्मधूनि ललनाकरपात्रे सोऽपि नूनमपिबत्प्रतिमूर्त्या ॥ ५ ॥ श्वासकीर्णनवनीरजरेणुच्छद्मना चषकसीधु पिबन्ती । कान्तपाणिपरिमार्जनशिष्ट मानचूर्णमपि कापि मुमोच ॥ ६ ॥ निष्ठितासवरसे मणिपात्रे पाणिशोणमणिकङ्कणभासः । कापिशायनधियाशु पिबन्ती काप्यहम्यत सखीभिरभीक्ष्णम् ॥ ७ ॥ यौवनेन मदनेन मद्देन त्व कृशोदर सदाप्यसि मत्ता । तद्वृथायमधुना मधुधारापानकेलिकलनास्वभियोगः ॥८॥ पुण्डरीककमलोत्पलसारैर्यत्रिवर्णमकरोत्किल वेधा । कि तु कोकनटकान्तिचिकीर्षुर्नत्रयुग्ममधुना मधुपानात् ।। ९ ॥ अङ्गसादमवसादितधैर्यो यो ददाति मतिमोहनमुच्चै । सोऽपि सस्पृहतया रमणीभि सेव्यते कथमहो मधुवार. ॥ १० ॥ सीवुपानविविना किल कालक्षेपमेव कलयन्मदनान्ध । कामिनी रहसि कोऽपि रिरसुश्चाटुचारुपदमित्थमवादीन् ॥११॥ (कुलकम) उठुलास विनिमीलितनेत्र यन्मृगीशि मधूनि पिबन्त्याम् । तन्निपीतचपके स्फुरिताक्ष्या लज्जयेव गतमब्जमधस्तात् ॥ १२ ॥ मद्यमन्यपुरुषेण निपीत पीयते कथमिवेति जिहासु । चन्द्रबिम्बपरिचुम्बितमेतत्कामिना बहिरहस्यत काचित् ॥ १३ ॥ कि न पश्यति पति तव पार्श्वे धृष्ट एष सखि शीतमयूख । आसवान्तरवतीर्य यदुच्चै पातुमाननमुपैति पुरस्तात् ॥ १४ ॥ त्वन्प्रदष्टमथवा कथमने दर्शयिष्यति मुख स्ववधूनाम् । इत्युतीक्ष्य चषके शशिबिम्ब काप्यगद्यत सनर्म सखीभिः ॥१५॥ (युग्मम्) स्त्रीमुखानि च मधूनि च पीत्वा द्वित्रिवेलमपर. कुतुकेन । अन्तर महदिह प्रतिपद्य प्रीतिमासवरसेषु मुमोच ॥ १६ ॥ बिम्बितेन शशिना सह नूनं पीवरोरुभिरपीयत मद्यम् । यत्तदीयहृदयान्तरलीनैर्निर्गत सपदि मन्युतमोमि. ॥ १७ ॥ कामहेतुरुदितो मधुदाने गोत्रभेदमकरोत्पुरतोऽन्यः । समताप्यपुरुषोत्तमबुद्धचा श्रीर्यवर्तत ततो बनितायाः ॥ १८ ॥ हीविमोहमपनीय निरस्यन्नन्तरीयमपि चुम्बितवक्र । सस्पृह प्रणयवानिव भेजे कामिनीभिरसकृन्मधुवार ॥ १९ ॥ जग्मतुर्मुहुरलक्तकतिक्तौ यद्विदशपदवीमधरोष्ठौ । तेन मद्यमधिक स्वढते स्म स्मेरमन्मथवते मिथुनाय ॥ २० ॥ क्षालितोऽपि मधुना परिपीतोऽप्याननेन दशनैर्दलितोऽपि । खा मुमोच न रुचि मिथुनाना यत्ततः कथमभूदधरोऽयम् ॥ २१ ॥ त्यज्यता पिपिपिपिप्रिय पात्र दीयता मुमुमुखासव एव । इत्यमन्थरपदस्खलितोक्ति प्रेयसी मुदमदादयितस्य ॥ २२ ॥ कापिशायनरसैरभिषिच्य प्रायश सरलता हृदि नीते । भ्रलतासु रचनासु च वाचा सुभ्रुवा घनमभूत्कुटिलत्वम् ॥ २३ ॥ प्रोल्लसन्मृगदृशा मदनो हृद्यालवाल इव सीबुरसेन । भूलताविलसितैरिह साक्षात्कस्य हास्य कुसुम न चकार ॥ २४ ॥ तोषितापि रुषमाहितरोषाप्याप तोषमबला मधुपानात् । सर्वथा हि पिहितेन्द्रियवृत्तिर्वाम एव मदिरापरिणाम ॥ २५ ॥ भ्रलता ललितलास्यमकस्मात्स्मेरमास्यमवशानि वचासि । सुभ्रुवा चरणयो स्खलितानि क्षीवता भृशमनक्षरमूचुः ॥ २६ ॥ भिन्नमानदृढवज्रकवाटेनास्यता जवनिकामिव लज्जाम् । तत्क्षणाञ्चितशरासनचण्ड सीधुना प्रकटितो विषमेषु ॥ २७ ॥ प्रावृता शुचिपटैरतिमृद्वीः स्पर्शदीपितमनोमवभावा । प्रेयसी समगुणा इह शय्या. कामिनो रतिसुखाय विनिन्यु. ॥ २८ ॥ कान्तकान्तदशनच्छददेशे लग्नदन्तमणिदीधितिरेका । आबभावुपजनेऽपि मृणालीनालकैरिव रस प्रपिबन्ती ॥ २९ ॥ प्रेयसा धृतकरापि चकम्पे चुम्बितापि मुखमाक्षिपति स्म । व्याहृतापि बहुधा सकृदूचे किचिदप्रकटमेव नवोढा ॥ ३०॥ उत्तरीयमपकर्षति नाथे प्रावरिष्ट हृदयं स्वकराभ्याम् । अन्तरीयमपरा पुनराशु भ्रष्टमेव न विवेद नितम्बात् ॥ ३१॥ कामिना द्रुतमपास्य मुखान्तर्धानवस्त्रमित्र कञ्चकमस्याः । व्यञ्जित' पृथुपयोधरकुम्भो दु सहो मदनगन्धगजेन्द्रः ॥ ३२ ॥ पीनतुङ्गकठिनस्तनशैलैराहतोऽपि न मुमूर्छ युवा यत् । तत्र नूनमधरामृतपानप्रेम कारणमवैम्यबलाया ॥ ३३ ॥ वक्षसा पृथुपयोधरभार निष्पिपेष हृदयं दयितायाः । कोऽपि कर्तुमिह चूर्णमिहान्तीनदुर्ललितकोपकणानाम् ॥ ३४ ॥ श्लिष्टमिष्टवनितावपुरादौ नापनेतुमपरः प्रशशाक । प्रीतिभिन्नपुलकाङरशङ्कुप्रोतविग्रह इवाग्रहतोऽपि ॥ ३५ ॥ श्लिष्यतापि जघनस्तनमुच्चैरन्तरे प्रणयिनाहमपास्तम् । सुभ्रुवो वलिमिषादिह मध्य भूविभङ्गमतनिष्ट रुषेव ॥ ३६ ॥ योषिता सरसपाणिजरेखालकृतो घनतर. स्तनभार । आवभौ प्रणयिसगमहर्षाच्छासवेगभरभिन्न इवोचै ॥ ३७॥ कर्कशस्तनयुगेन न भग्नास्त्वन्नखा हृदि न वा व्यथितस्त्वम् । इत्युदारनवयौवनगर्वा कापि कान्तमधि गर्वमहासीत् ॥ ३८ ॥ सुप्त इत्यतिविविक्ततया खं सप्रकाश्य निलय. कुतुकेन । ऐक्षतेव सुतनो रतचित्र बोधितैकतरदीपकनेत्रः ॥ ३९ ॥ नात्र काचिदपरा परिणेतुः प्रीतिधाम वसतीति पुरधी । ईर्ण्ययेव परिरब्धवतोऽन्तर्द्रष्टुमस्य हृदय प्रविवेश ।। ४० ॥ कुन्तलाञ्चनविचक्षणपाणि प्रोन्नमय्य वदनं वनिताया । कोऽपि लोलरसनाश्चललीलालालनाचतुरमोष्ठमधासीत् ।। ४१ ॥ पीवरोच्चकुचतुम्बकचुम्बिन्यापुपोष कमितु करदण्डे । वल्लकीत्वमनुताडिततन्त्रीकाणकूजितगुणेन पुरध्री ॥ ४२ ॥ अगसंग्रहपरः करपातं मध्यदेशमभितो विदधान । योषितः स्म विजिगीषुरिवान्य क्षिप्रमाक्षिपति काञ्चनकाञ्चीम् ॥४३॥ स्पर्शभाजि न पर करदण्डे कामिन प्रकटकण्टकयोगः । ईषदुच्छसितकोमलनाभीपङ्कजेऽपि सुदृशोऽद्भुतमासीत् ॥ ४४ ॥ संचरनित इतो नतनाभीकूपके निपतितः प्रियपाणिः । मेखलागुणमवाप्य मदान्धोऽप्यारुरोह जघनस्थलमस्याः ॥ ४५ ॥ नीविबन्धभिदि वल्लभपाणौ सुभ्रुव कलकलो मणिकाच्या । नोदितालिसुरतोत्सवलीलारम्भसभ्रमपटु. पटहोऽभूत् ।। ४६ ॥ नीविबन्धमतिलड्वय कराने कामिन' प्रसरतीह यथेच्छम् । भर्त्सना स्मितमलीकतरा इत्याख्यदक्षतमनगवतीनाम् ॥ ४७ ॥ पाणिना परिमृशन्नबलोरुस्तम्भमञ्चितकलापगुणेन । कश्चिदाकलितमारमहेभ मोचयन्निव रतेपु रराज ॥ १८ ॥ भ्रूकपोलचिबुकाधरचक्षुश्शूचुकादिपरिचुम्बनदक्ष । कोऽपि कोपितवधूप्रतिपिद्धा सान्त्वयन्निव रति विरराज ॥ ४९ ॥ सीत्कृतानि कलहंसकनाट पाणिकङ्कणरणत्कृतमुच्चैः । ओष्ठखण्डनमनोभवसूत्रे भाग्यता ययुरमूनि वधूनाम् ॥ ५० ॥ गण्डमण्डलभुवि स्तनशैले नाभिगह्वरतले च विहृत्य । सश्रमा इच दृशो दयितस्यानङ्गवेश्मनि विशश्रमुरासाम् ॥ ५१ ।। नोत्पपात पतिता नवकामिन्यूरुमूलफलके खलु दृष्टि । कामिन. प्रमदकारिणि रकस्येव गूढमणिभाजि निधाने ॥ १२ ॥ पूर्वशैलमिव तुङ्गकुचाग्र प्रेयसि श्रयति लोचनचन्द्रे । प्लावित मनसिजार्णवनीरैः सुझुवो जघनमण्डलमुच्चैः ॥ १३ ॥ प्रेसति प्रियतमे निरवद्यातोद्यवाद्यपटुकूजितकण्ठे । चित्रलास्यलयवल्गु नितम्बो वल्गति स्म सुरते वनिताया ॥ ५४॥ ओष्ठखण्डननखक्षतिवक्षस्ताडनस्तनकचग्रहणायैः । मत्सरादिव मिथो मिथुनाना कामकेलिकलहस्तुमुलोऽभूत् ॥ ५५ ॥ सोत्सवैः करणसपरिवतैश्चाटुभिश्च मणितैः स्तनितैश्च । पूर्वसंस्तुतमपि च्युतलज कामिना रतमपूर्वमिवासीत् ॥ ५ ॥ अश्रुगद्गदगिरामिह तावद्योषिता रतविधी करुणोक्तिः । तानि शुष्करुदितान्यपि यूना भेजिरे श्रवणयोरमृतत्वम् ॥ १७ ॥ आहतानि पुरुपायितमुच्चैर्धाष्टर्चमीगुपमर्दसहत्वम् । कामिनि क्षणमवेक्ष्य वधूनामन्यतैव सुरते प्रनिपेदे ॥ १८ ॥ भन्मपाणिवलया च्युतमाल्या भिन्नतारमणिहारलतापि । ताम्यति स्म मुरते न कयचित्प्रेमकार्मणवशेव कृशाङ्गी ॥ ५२ ॥ स्पष्टधार्यमविरोवितवान्छ मञ्जकृजितमनादृतदेहम् । चित्रचाटुरुचि यत्प्रणयिन्याम्नप्रियस्य रतये रनमासीत् ।। ६० ॥ पीलितेक्षणपुटै रतिसौख्य योषितामनुभवद्रिभीष्टैः । निर्निमेपनयनैकविभोग्य तत्रिविष्टपमुख लघु मेने ॥ ११ ॥ सवितेनुरबिक मिथुनाना प्रीतिमप्यवमतात्मसुखानि । प्रेमनिर्भरपरस्परचित्ताराधनोत्सवरनानि रतानि ॥ ६२ ॥ भूरिमयरसपानविनोदैर्गाढशून्यहृदयानि तदानीम् । कान्यपि म मिथुनानि न वेगात्प्राप्नुवन्ति रतकेलिसमाप्तिम् ॥ १३ ॥ उत्थितान्यपि रतोत्मवलीलाकौशलापहृतनेत्रमनासि । युक्तमेव मिथुनानि रतान्तेऽन्योन्यवस्नवरिवर्तमकाएं ॥ ६४ ॥ प्रेयसीपृथुपयोधरकुम्भे वल्लभस्य शुशुभे नखपति । चारुतामणिनिधाविव मुद्रावर्णपद्धतिरनगनृपस्य ॥ ६५ ॥ सप्रविश्य वलभीषु गवाक्षर्वीक्ष्य चोन्नतपयोधरमगम् । कामतप्त इव कामधुनीनामाचचाम पवन श्रमवारि ॥ ६६ ॥ पश्यति प्रियतभेऽवनतास्या कान्तदष्टदशनच्छदबिम्बम् । ऐक्षतेब हृदय त्रपमाणा स्त्री पुन सरशरव्रणचिह्नम् ॥ ६७ ॥ गन्तुमारभत कोऽपि रतान्ते गृह्यमाणवसनान्तरदृष्टम् । ऊरुदण्डमवलम्ब्य तरुण्या सश्रमोऽपि रतवर्मनि भूयः ॥ ६८ ॥ चुम्बनेन हरिणीनयनानामोष्ठतो मिलितयावकरागम् । ईय॑येव दयितेक्षणयुग्मं चुम्बति स्म समयेऽपि न निद्रा ॥ १९ ॥ इत्थ विलोक्य मधुपानविनोदमत्त- कान्तारतोत्सवरतान्स्पृहयेव लोकान् । चन्द्रोऽपि कैरवमधूनि समं रजन्या पीत्वास्तशैलरतिकाननमंमुखोऽभूत् ।। ७० ॥ उति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये पजस्श सर्ग, । पोडश सर्ग । सेवायै समयविदागत सुराणा मदोह शुभितपयोधिमन्द्रनाद । धर्माय त्रिभुवनभानवेऽभ्युदेतु यामिन्या. परिणतिमि श्रमाचचक्षे ॥ १ ॥ रथ्यानु त्वदमलकीर्तिकीर्तनेषु प्रारब्धेवभिनवमागधैरिदानीम् । व्योमानात्पतति मुनामरप्रयुक्त युग्पाणा प्रकर इवैष तारकौघः ॥ २ ॥ सभोग प्रविन यता कुमुद्वतीभिश्चन्द्रेण द्विगुणित आत्मन कलङ्गः । तन्नून रतिपरमम्बरान्तलम यात्येन समवगणय्य यामिनीयम् ॥ ३ ॥ गाढम्त्रीभुजपरिरम्भनिर्भरोद्यन्निद्राणि स्फुटपटहारवैश्च भूयः । वर्तन्ते विघटितसपुटानि यूना भृकुसप्रगुणगुणानि लोचनानि ॥ ४ ॥ दृग्दोपव्यपनयहेतवे सगर्वा निर्वाणोल्मुकमिव कपर पुरस्तात् । वक्त्रेन्दोरुपरि तवावतार्य दूर द्यौरेपा क्षिपति सलक्ष्म चन्द्रबिम्बम् ॥ ५ ॥ ते भावा. करणविवर्तनानि तानि प्रौढि सा मृदुमणितेषु कामिनीनाम् । एकैक नदिव रताद्भुत स्मरन्तो धुन्वन्ति श्वसनहता. शिरासि दीपा ॥६॥ यद्दोपोपचिततमोऽपि ते कथासु प्रारब्धास्वमरवरैविलीयतेऽस्मिन् । तन्मन्ये नव गुणकीर्तनानि नाम साधर्योदयमपि न द्विपा सहन्ते ॥ ७॥ राजान जगति निरस्य सूरसूतेनाकान्ते प्रसरति दुन्दुभेरिदानीम् । यामिन्या. प्रियतमविप्रयोगदु खैर्हत्सधे स्फुटत इवोद्भट प्रणाद. ॥ ८ ॥ चेतस्ते यदि चपल पुरानुशेते तन्मानिन्यमुमधुनापि मानयेशम् । आकर्ण्य ध्वनितमितीव ताम्रचूडस्यानम्र प्रियमुषसि प्रपद्यतेऽन्या ॥९॥ संदष्टे प्रियविधिनावरीकृतेऽस्मिञ्शीताशौ हिमपवनातपान्थवक्त्रैः । सीत्कारं प्रवितनुते विधूतहस्ता मुग्धापि क्षणरजनी विवृत्तलक्ष्मीः ॥ १०॥ विध्वस्ता निजवसति विलोक्य कोपान्निष्क्रान्ता किल कमलेयमोषधीशात् । नि श्रीक तमिव शुचावलोकयन्ती व तेजस्त्यजति च पतिरोषधीनाम् ॥११॥ सभोगश्रमसलिलैरिवागनानामङ्गेषु प्रशममित मनोभवाग्निम् । उन्मीलज्जलजरज.कणान्किरन्त प्रत्यूपे पुनरनिला. प्रदीपयन्ति ॥ १२ ॥ युष्माभि प्रकटितकामकौशलाभि साध्वेतन्निधुवनयुद्धमत्र सोढम् । इत्युक्त्वा स्पृशति मुदेव भृङ्गनादै. प्रत्यूषानिललहरी वधू सखीव ॥१३॥ प्रागल्भ्य विहितममीभिरत्ययेऽहा नाथस्य प्रतिगृहमित्यसौ रुषेव । प्रत्यूष पवनकरण धूमकेशेप्वाकृष्य क्षपयति सप्रति प्रदीपान् ॥ १४ ॥ मृनीचोद्गतपलितायमानरश्मौ चन्द्रेऽस्मिन्नमति विभावरीजरत्या । अन्योन्य विहगरवैरिवोल्लसन्त्यो दिग्वध्वो विदधति विप्लवाट्टहासान्॥१५॥ आसज्योद्धृतचरणापरार्धमेता कण्ठाग्र मुकुलितलोचनास्तरुण्य । प्रस्थातु शयनतलोत्थितानभीष्टान्याचन्ते प्रकटितचाटु चुम्बनानि ॥ १६ ॥ पद्मिन्यामहनि विधाय कोषपान चिक्रीडुनिशि यदमी कुमुदतीभि, । तद्वनै परमुदीरयन्ति भृङ्गा कृष्णत्वं निजचरितैरपि प्रकामम् ॥ १७ ॥ पर्यस्ते दिवसमणी न काचिदासीद्वाधा वस्तिमिरपिशाचगोचराणाम् । इत्याशा पतितमिद्रवाश्रु लोकान्वात्सल्याविहगरुतैरिवालपन्ति ॥ १८ ॥ भात्येषा सुभगतम क्षपापवृत्तौ विच्छाया नभसि निशाकरस्य कान्ति । एत ते मुखमुकुर प्रमाद्यं लक्ष्म्या प्रक्षिप्ता खगुणदिदृक्षयेव भूतिः ॥१९॥ तन्नून प्रियविरहार्तचक्रवाक्याः कारुण्यानिशि रुदित घन नलिन्या । यत्प्रातर्जललवलान्छितारुणानि प्रेक्ष्यन्ते कमलविलोचनानि तस्या ॥२०॥ सस्तोडुक्रमपरिणामिपाण्डुपत्रे व्योमाग्रे द्रुम इव सश्रये खगानाम् । उन्मीलत्किसलयविभ्रम भजन्ते जम्भारे ककुभि विभाकरस्य भास ॥२१॥ भस्मास्थिप्रकरकपालकश्मलोड य सध्यावसरकपालिनावकीर्ण । तं भाखत्युदयति चन्द्रिकोडचन्द्रव्याजेनावकरमपाकरोति कालः ॥ २२ ॥ नि शेष हृतजनजातरूपवृत्तेर्वान्तस्य प्रविरचितोऽमुनावकाशः । इत्युच्चैर्गगनमुदस्तमण्डलामो विच्छिन्नश्रवणकरं करोति भानुः ॥ २३ ॥ आरम्भोच्छलिततुरगकुञ्जरश्रीः क्षुण्णोद्यन्मकरकुलीरमीनरक्तः । देवार्थ विदधदहीनरश्मिरधेरुन्मजत्ययमहिमाशुमन्दराद्रिः ॥ २४ ॥ पाथोधेरुपजलतैलमुत्थितार्चिान्तच्छिद्भजति रवि प्रदीपलक्ष्मीम् । यस्यामात्युपरि पतङ्गपातभीत्या विन्यस्त मरकतपात्रवद्विहायः ॥ २५ ॥ दीपेनाम्बरमणिना रथाश्वदूर्व संयोज्यारुणघुसृण खमेव पात्रम् । नक्षत्राक्षतनिकर पुर क्षिपन्ती प्राचीय प्रगुणयतीव मङ्गल ते ॥ २६ ॥ पाथोधेरधिगतविद्रुमाशुभिर्वा सिद्धस्त्रीकरकलितार्धकुङ्कुमैर्वा । लोकानामयमनुरागकन्दलैर्वा प्रत्यूषे वपुररुण बिभर्ति भानु ॥ २७ ॥ उत्तिष्ठ त्रिजगदधीश मुञ्च शय्यामात्मानं बहिरुपदर्शयाश्रितानाम् । तिग्माशुद्धतमधिरोहतु त्वदीयैस्तेजोभिर्विजित इवोदयाद्रिदुर्गम् ॥ २८ ॥ आयातो दुरधिगमामतीत्य वीथीमासीन' क्षणमुद्रयाद्रिभद्रपीठे । प्रारब्धाभ्युदयमहोत्सवो विवम्यान्दिक्वान्ता करधुसृणैर्विलिम्पतीव ।। २९ ॥ मार्तण्डप्रखरकराग्रपीड्यमानादेतस्मादमृतमिव च्युतं सुधाशो । मथ्नन्त्यो दधि कलशीषु मेघमन्द्र प्रध्वानै शिखिकुलमुत्कयन्ति गोप्यः॥३० यामिन्यामनिशमनीक्षितेन्दुबिम्ब व्यावृत्ते प्रणयिनि भास्करे मुदेव । सोल्लास मधुकरकज्जलैरिदानी पद्मिन्य सरसिजनेत्रमजयन्ति ॥ ३१ ॥ सिन्दूरद्युतिमिह मूनि कुडमाना वक्रेन्दौ वसनगता कुसुम्भशोभाम् । बिभ्राणा नवतरणित्विषोऽपि साध्वीवैधव्येऽभिजनवधूर्विदूषयन्ति ॥ ३२ ॥ खच्छन्द विधुमभिसार्य यत्प्रविष्टा प्रात श्री कमलगृहे निरस्य मुद्राम् । भूयोऽपि प्रियमनुवर्तते दिनेशं क. स्त्रीणा गहनमवैति तच्चरित्रम् ॥ ३३ ॥ प्रस्थातु तव विहितोद्यमस्य भर्तुः प्रोत्सर्पद्वदनविलोलनीलपत्र । प्राच्याय समुचितमङ्गलार्थमग्रे सौवर्ण कलश इवाशुमानुदस्त ॥ ३४ ॥ तहारि द्विरदमदोक्षिते मिथोऽङ्गसंघट्टच्युतमणिमण्डिते नृपाणाम् । राज्यश्रीश्चलतुरगानि तूर्यनादालोलद्धजकपटेन नृत्यतीव ॥ ३५ ॥ मार्तण्डप्रखरकराग्रटङ्कघातप्रक्षुण्णस्थपुटतमस्तुषारकूटा। उद्योगप्रगुणचमूचरस्य योग्या. प्रस्थातु तव ककुभोऽधुना बभूवुः ॥३६॥ आयाति प्रबलतरप्रतापपात्रे नेत्राणा दिवसकृति त्वयीव मैत्रीम् । सतापः प्रकटतरो भवत्विदानी शत्रूणामिव तपनाश्मना गणेषु ॥ ३७ ॥ इत्थ स त्रिदशननस्य मन्दराद्रिक्षुब्धाम्भोनिनदसमा निशम्य वाणीम् । उत्तस्थौ सितवसनोमिरम्यतल्पाढुग्धाब्धे पवनतरनितादिवेन्दुः ॥ ३८ ॥ उत्तिष्ठन्नुदयगिरेरिवेन्दुरस्माद्देवेन्द्रान्मुकुलितपाणिपङ्कजाग्रात् । सोऽद्राक्षीदथ नमतो नगोपमेभ्य पीठे-यो मुवि सरितामिव प्रवाहान् ३९ कारुण्यद्रविणनिधे निधेहि दृष्टि सेवार्थी भवतु जनश्चिरात्कृतार्थ । यचिन्ताम्यधिकफलान्यसौ ददाना ता चिन्तामणिगणनामपाकरोति ॥४०॥ इत्युच्चैनिंगदति वेत्रिणामधीशे श्रीधर्म समुचितविन्नरामरेन्द्रान् । भृदृष्टिस्मितवचसामसौ प्रसाद प्रत्येकं सदसि यथार्हमाचचक्षेठ १(कुलकम्) नि.शेष भुवनविभुविभानकृत्य कृत्वाय कृतसमयानुरूपवेष । आरुह्य द्विरदमुद्रग्रदानमुच्चै प्रत्यग्र मुकृतमिवाथ सप्रतस्थे ॥ ४२ ॥ भास्वन्तं द्युतिरिव कीर्तिवद्गुणाढ्य सोत्माह मुभटमिवोत्युका जयश्री । दुर्धर्षा भुवनविसर्पिणी दुगपा त सेना त्रिभुवननाथमन्वियाय ॥ ४३ ॥ अक्षिप्तप्रलयनटोद्भटाहास प्रेडनि पटुपटहारवै प्रयाणे । एकत्रोच्छलितरजश्छलेन सर्वा समक्ता इव ककुभो भयाभूवु ॥४४॥ मेण्ठेन द्विपमपनीतबन्धमन्यं प्रेक्ष्यैतत्प्रमथनमासलाभिलाष । प्रश्चोतद्द्विगुणमदाम्बुधारमुच्चैरालानढुवरमिभो हठादभाड्डीत् ॥ ४५ ॥ तिष्ठन्ती मृदुलभुजगरागमूर्धन्युद्वोढु दृढपदमक्षमा क्षमा ते । कर्णान्ते ऽभिहित इतीव भगदूतैर्नागेन्द्र पथि पदमन्थर जगाम ॥ ४६ ॥ भ्रश्यन्त्याश्चरणभरात्करावलम्ब ये दातु भुव इव लम्बमानहस्ता । कर्णान्तध्वनदलिकोपकूणिताक्षास्ते जग्मु पथि पुरतोऽस्य वारणेन्द्रा ॥४७॥ सचेलु प्रचलितकर्णताललीलावातोमिव्यतिकरशीतलै. समन्तात् । सघट्टभ्रमभरमूर्छिता इवाशा सिञ्चन्त. पृथुकरसीकरै करीन्द्राः ॥ ४८ ।। अश्रान्त श्रिय इव चारुचामराणा य पश्चाद्विचरति लोलवालधीनाम् । कामद्भिर्भुवमभितो जवेन वाहै स व्यक्त कथमिव लड्वितो न वायु. ॥४९॥ अन्योन्यस्खलनवशादय.खलीनपोद्गच्छज्वलनकणच्छलेन सान्द्रम् । कान्तारे विदधति भूरिवेगबाधा गन्धर्वा निदधुरिव क्रुधा दवामिम् ॥१०॥ आक्रान्ते चटुलतुरगपुंगवाड्रिक्षुण्णोविलयरजोभिरन्तरिक्षे । दिङ्मोहात्पतित इव कचित्तदानीं तिग्माशुर्न नयनगोचरोबभूव ॥ ११ ॥ उत्फालै तमवटम्थलीरलयास्तद्वाहैर्गतिरभसेन लङ्घयद्भि । सर्वत्र वमनकुरगपुगवोत्था सम्रान्तिमनसि समादधे न केषाम् ॥ ५२ ॥ उबल्गत्तुरगतरङ्गिताग्रसेनासचारक्षतशिखरोच्चयच्छलेन । विन्ध्यारे. प्रथमकृताध्वसनिरोधस्योलून शिर ट्व सैनिकै प्रकोपात् ॥१३॥ उत्खाताचलशिखरै पुर परागेणाश्वीयै स्फुटमवटेषु पूरितेषु । सा बुद्धि खलु रथिनो यदस्य पश्चात्तस्थाने सुगमतरो बभूव मार्ग ॥५४॥ प्राग्भाग द्विरदमयादुदग्रदन्त प्रोत्सृज्य प्रकटितघर्घरोरुनाद. । उत्कूदन्विकटपदैरितम्नतोऽग्रे दासेर पटुनटकौतुक चकार ।। ५५ ।। सर्बाशाद्विपमदवाहिनीपु सेनासचारोच्छलितरज स्थलीकृतासु । उड्डीनैर्ऋमरकुलैरिवावकीर्ण व्योमासीदविरलदुर्दिनच्छलेन ॥ १६ ॥ आनाकुलशबरीवितीर्णगुजापु षु ज्वलितदवानलभ्रमेण | कारुण्यामृतरसर्पिणी स गच्छंश्चिक्षेप प्रभुरसकृदनेषु दृष्टिम् ॥ १७ ॥ ससर्पलभररुद्धसिन्धुवेग प्रोद्दामद्विरदतिरस्कृतागृङ्गम् । आक्रम्य बजविजिनोरुकन्दलीक विन्ध्याद्रि । विमुगुणैरवश्वकार॥१८॥ सर्पल्लु द्विरदबलेषु नर्मदाया. संजात सपदि .य प्रतीपगामि । वाहिन्यो मदजलनिर्मितास्त्वमीषामुत्सङ्ग द्रुतमुददेरयापुरेव ॥ ५९ ।। मद्दन्तद्वयवलमीनिवासलीलालोलेय नियतमनन्यगा तु लक्ष्मी.। सामर्पप्रसरमितीव चिन्तयन्तो दन्तीन्द्राः मरिति वभ रम्बुजानि ॥ १० ॥ आ स्कन्ध जलमवगाह्य दीर्घदन्तैरामूलोद्धृतसरलारविन्दनाला. । आलोड्याखिलमुदर तरङ्गवत्या. कृष्टान्ना वलय इव द्विपा विरेजु ॥ ६१॥ उन्मीलन्नबनलिनीमराललीलालकारव्यतिकरसुन्दरी समन्तात् । आनन्दोढयमितदेहीमिवार्थश्रीसिद्धे सरितमलङ्घयत्स रेवाम् ॥ १२ ॥ एकान्त सुरसवरार्थमाश्रयन्ती प्रक्ष्योचैरतनुपयोधरामलक्ष्मी । स्त्रीरत्नोत्सुकमनसापि तेन विन्ध्यारण्यानी गुणगुरुणा स्थिर सिषेवे ॥३३॥ उत्तुद्रुमवलभीषु पानगोष्ठीव्यासक्तैर्मधुपकुलैनिलीनमुक्तम् । बिभ्राणा मधु मधुर प्रसूनपात्रे गजेब द्रुतमटवी बलै प्रमुक्ता ॥ १४ ॥ वाहिन्यो हिममलिला. सशाद्वला भूर्यत्रोचैर्द्विरदभरक्षमा द्रुमाश्च । समिद्धयै द्रुतमटतो बभूवुरध्वन्यावासा कतिचिदमुष्य तत्र तत्र ॥६५॥ द्राधीयासमपि जवान्नितान्तदुर्ग गव्यूतिप्रमितमिव व्यतीत्य मार्गम् । सोत्कण्ठ हृदयमसौ दधत्त्रियाया वैदर्भ विषयमथ प्रभु प्रपेदे ॥ ६६ ॥ आरूढस्तुरगमिभ मुखासन वा प्रोलचच द्रुतमसम सुखेन मार्गम् । देशेऽस्मिन्महति पुनर्वसुप्रधाने व्योम्नीव घुमणिरगादसौ रथस्थ ॥ १७ ॥ प्रध्वानरनुकृतमन्द्रमेघनादै पाण्डित्यं दवति शिखण्डिताण्डवेषु । ग्रामीणैधन इव वीक्षिते सहर्ष वज्रीव प्रभुरविक रथे रराज ।। ६८ ॥ क्षेत्रश्रीरधिकतिलोत्तमा सुकेश्य कामिन्यो दिशि दिशि निष्कुटा सरम्भाः । इत्येन अथितमशेषमैप्सरोमि. वीदप्यधिकममस्त देशमीश ॥ ६९ ।। विस्फारैरविदितविभ्रमै स्वभावागामेयीनयनपुटैर्निपीयमानम् । लावण्यामृतमधिकाधिक तथापि श्रीधर्मा भुवनविभुर्वभार चित्रम् ॥ ७० ॥ पुण्डेक्षुव्यतिकरशालिशालिवप्रे प्रोन्मीलद्विशदसरोरुहच्छलेन । अन्येषा श्रियमिव नीता हसन्ती देशश्रीगुणगुरुणा मुदा लुलोके ॥७॥ कूष्माण्डीफलभरगर्भचिर्भटेभ्यो वृन्ताकस्तबकविनम्रवास्तुकेम्य । संकीर्णे मिथ इव दृष्टिरम्य लमा निष्क्रान्ता कथमपि शाकवाटकेम्य ॥७२॥ देशनीहृतहृदयेक्षण क्षणेन प्रोल्लइय क्लममिव वर्त्म नातिदूरे । तत्रोवींमणिमयकुण्डलानुकारिताकार पुरमथ कुण्डिन ददर्श ॥ ७३ ॥ वार्तादौ तदनु रजस्ततः प्रणादो भेरीणामतनुबलान्वितस्य भर्तुः । एतस्याभिमुखगमोत्सुक तदानीं सानन्दं पुरि विदधे विदर्भराजम् ।। ७४ ॥ सोल्लासं कतिपयवेगवत्तुरगैरेत्यास्मिन्नभिमुखमशुमानिवासीत् । अस्योद्यद्गुणगरिमप्रकर्षमेरो. पादान्ते प्रणतिपरः प्रतापराज ॥ ७९ ॥ देवोऽपि प्रणयवशीकृतः कराभ्यामुत्क्षिप्य क्षितिमिलितोत्तमाङ्गमेनम् । यद्गम्यं क्षणमपि नो मनोरथाना तद्बाहो. पृथुतरमन्तर निनाय ।। ७६ ॥ श्लाघ्य मे कुलमखिलं दिगप्यवाची धन्येयं समजनि सततिः कृतार्था । कीर्तिश्च प्रसरतु सर्वतोऽद्य पुण्यैरातिथ्यं भुवनगुरौ त्वयि प्रयाते ॥ ७७ ॥ सोऽप्यन्तर्मनसि महानयं प्रसादो देवस्येत्यविरतमेव मन्यमानः । उन्मीलद्धनपुलकाङ्कुर प्रमोदादित्यूचे विनयनिधिर्विदर्भराज ॥ ७८ ॥ कि ब्रूम. शिरसि जगत्रयेऽपि लोकराज्ञेय स्रगिव पुरापि धार्यते ते । स्वीकारस्तदखिलराज्यवैभवेषु प्राणेष्वप्ययमधुना विधीयता न ॥ ७९ ॥ अत्यन्त किमपि वचोभिरित्युदारै सप्रेम प्रवणयति प्रतापराजे । देवोऽयं सरलतर स्वभावमस्य प्रेक्ष्येति प्रियमुचित मुदाचचक्षे ॥ ८॥ सर्वस्वोपनयनमत्र तावदास्ता जाता. सस्त्वदुपगमाद्वय कृतार्था । नास्माक तव विभवे परस्वबुद्धिों वास्ते वपुषि मनागनात्मभावः ॥ ८१ ॥ आलापैरिति बहुमानयन्समीपे गच्छन्तं तमुचितसत्क्रियाप्रतीतः । ताम्बूलार्पणमुदित विदर्भराज स्वावासं प्रति विससर्ज धर्मनाथ ॥ ८२ ॥ आनन्दोच्छसितमना पुरोपकण्ठे योग्यायामथ वैरदाप्रतीरभूमौ । आवासस्थितिमविरोधिनी विधातुं सेनाया पतिमयमादिदेश देव ॥८॥ स यावत्सेनानीरलमलभताज्ञामिति विभोः पुरं पूर्वस्थित्या सपदि धनदस्तावदकरोत् । सुरस्कन्धावारद्युतिविजयिनो यस्य विशिखा- समासन्न शाखानगरमिव तत्कुण्डिनमभूत् ॥ ८४ ॥ द्वारि द्वारि पुरे पुरे पथि पथि प्रत्युलसत्तोरणा पौरा. पूर्णमनोरथा रचयत प्रत्यारशावलिम् । पुण्यैनिदशेन्द्रशेखरमणिः सोऽयं जगद्वल्लभः प्राप्तो रत्नपुरेश्वरस्य तनयः श्रीधर्मनाभ प्रभु ।। ८५ ॥ यास्तूर्यारवहारिंगीतमुखरा' पात्राणि दध्यक्षत- सग्दूर्वादलभाजि विधति करे सोत्तसवेषा, स्त्रियः । श्रीशृङ्गाखतीचिरार्जिततप सौभाग्यशोभा इव श्रेयः प्राप्य समागम वरमिमं धन्या. प्रतीच्छन्तु ता ॥ ८ ॥ अद्योक्षिप्य कर ब्रवीम्यहमित. शृण्वन्तु रे पार्थिवा का शृङ्गारवती कथापि भवता प्राप्ते जिने संप्रति । वार्ता तावदमी ग्रहप्रभृतयः कुर्वन्तु भाप्राप्तये देवो यावदुदेति नाखिलजगचूडामणिर्भास्कर ।। ८७ ॥ इस्थ विदर्भवसुधाधिपराजधान्या द्राग्दण्डपाशिकवच शकुन निशम्य । तिष्ठन्स तत्र तगरे धनदोपनीते सिद्धिं विभुढयति स्म हृदि खकार्य ॥ ८८ ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्मा युइये महाकाव्ये षोडश सर्म । सप्तदश सर्च । अथायमन्येधुरुदारवेष प्रतापरानाप्तजनोपहूत । देशान्तरायातनरेन्द्रपूर्णा स्वयंवरारम्भभुवं प्रपेदे ॥ 11 मुक्तामयी कुङ्कुमपक्किलाया रङ्गावलियंत्र पतिवराया । सौभाग्यमाग्योदयभूरुहाणामुप्तेव रेजे नवबीजराजि ॥२॥ यश सुधाकूर्चिकयेव तत्र शुभ्र नभोवेश्म स कर्तुमुच्छ । मञ्चोच्चयान्कुण्डिनमण्डनेन प्रपञ्चित्तान्भूमिमुजा ददर्श ॥३॥ शृङ्गारसारङ्गविहारलीलाशैलेषु तेषु स्थितभूपतीनाम् । वैमानिकाना च मुदागतानां देवोऽन्तर किंचन नोपलेभे ॥ ४ ॥ नि.सीमरूपातिशयो ददर्श प्रदह्यमानागुरुधूपवा । मुखं न केषामिह पार्थिवानां लज्जामषीकूचिकयेव कृष्णम् ॥ ५ ॥ अयं स कामो नियतं अमेण कमप्यधाक्षीद्विरिशस्तदानीम् । इत्यद्भुतं रूपमवेक्ष्य जैनं जनाधिनाथा प्रतिपेदिरे ते ॥६॥ अथोऽङ्गिना नेत्रसहस्रपात्र निर्दिष्टमिष्टेन स मञ्चमुच्चैः । सोपानमार्गेण समारुहोह हैम मरुत्वानिव जैयन्तम् ॥ ७ ॥ सिहासने शृङ्ग इवोदयाद्रेस्तत्र स्थितो रत्नमये कुमार । स तारकाणामिव भूपतीना प्रभा पराभूय शशीव रेजे ॥ ८॥ उल्लासितानन्दपय पयोधौ पीयूषधानीव विशेषरम्ये । कासा न नेत्राणि पुराङ्गनाना दृष्टेऽपि तन्दुमणीबभूवु ॥९॥ इक्ष्वाकुमुख्यक्षितिपालकीर्ति पठत्स्वथो मङ्गलपाठकेषु । दृप्तस्मरास्फालितकार्मुकज्यानिर्घोषवन्मूर्छति तूर्यनादे ॥१०॥ करेणुमारुह्य पतिवरा सा विवेश चामीकरचारुकान्ति । विस्तारिमञ्चान्तरमन्तरिक्षं कादम्बिनी लीनतडिल्लतेव ॥११॥(युग्मम्) सा वागुरा नेत्रकुरङ्गकाणामनगमृत्युंजयमन्त्रशक्तिः । शृङ्गारभूवल्लभराजधानी जगन्मन कार्मणमेकमेव ॥ १२ ॥ लावण्यपीयूषपयोधिवेला संसारसर्वस्वमुदारकान्ति । एकाप्यनेकैर्जितनाकनारी नृपैः सकाम ददृशे कुमारी ॥१३॥(युग्मम्) एता धनुर्यष्टिमिवैष मुष्टिप्रायैकमध्या समवाप्य तन्वीम् । नृपानशेषानपि लाघवेन तुल्यं मनोभूरिषुभिर्जधान ॥ १४ ॥ यद्यत्र चक्षुः पतितं तदने तत्रैव तत्कान्तिजले निममम् । शेषाङ्गमालोकयितु सहस्रनेत्राय भूपा स्पृहयाबभूवु ॥ १५ ॥ पयोधरश्रीसमये प्रसर्पद्धारावलीशालिनि सप्रवृत्ते । सा राजहसीव विशुद्धपक्षा महीभृता मानसमाविवेश ॥ १६ ॥ स्वभावशोणौ चरणौ दधत्या न्यते पदेऽन्त स्फटिकावदातम् । उपाधियोगादिव भूपतीना मनस्तदानीमतिरक्तमासीत् ॥ १७ ॥ अहो समुन्मीलति धातुरेषा शिल्पक्रियायाः परिणामरेखा । जगट्ठय मन्मथवैजयन्त्या यया जयत्येष मनुष्यलोकः ॥ १८ ॥ धनुर्लता भूरिषवः कटाक्षा. स्तनौ च सर्वस्वनिधानकुम्भौ । सिहासनं श्रोणिरतुल्यमस्याः किं किं न योग्यं सरपार्थिवस्य ॥ १९ ॥ मड्डु जले वाञ्छति पद्ममिन्दुळमागण सर्पति लङ्घनार्थम् । क्लिश्यन्ति लक्ष्म्या. सुदृशा हृताया. प्रत्यागमार्थ कति न त्रिलोक्याम्र कुतः सुवृत्त स्तनयुग्ममस्या नितम्बमारोऽपि गुरु कथ वा । येन द्वयेनापि महोन्नतेन समाश्रित मध्यमकारि दीनम् ॥ २१ ॥ यद्वर्ण्यते निर्वृतिधाम धन्यैर्भुव तदस्या स्तनयुग्ममेव । नो चेत्कुतस्त्यक्तकलङ्कपका युक्ता गुणैरत्र वसन्ति मुक्ता ॥ २२ ॥ इत्यङ्गशोभातिशयेन तस्याश्चमत्कृताश्चेतसि चिन्तयन्त । मनोभवास्त्रैरिव हन्यमाना. शिरासि के के दुधुवुन भूपाः ॥ २३ ॥ मन्त्रान्निपेटुस्तिलकान्यकार्पर्ध्यान दधुश्चिक्षिपुरिष्टचूर्णम् । इमा वशीकर्तुमनन्यरूपा कि कि न चक्रुर्निभृतं नरेन्द्राः ॥ २४ ॥ शृङ्गारलीलामुकुरायमाणान्यासन्नृपाणा विविधेशितानि । कन्यानुरागि प्रतिबिम्ब्यमान व्यक्त मनोऽलक्ष्यत यत्र तेषाम् ॥ २५ ॥ कदर्पकोदण्डलतामिवैको ध्रुव समुलिप्य सम सुहृद्भि । करप्रयोगाभिनयप्रवाला विलासगोष्ठी रसिकश्चकार ॥ २६ ॥ स्कन्धे मुहुर्वक्रितकंधरोऽन्यः कस्तूरिकायास्तिलक ददर्श । अभ्युद्धरत्युद्धरवैरिवार्धर्वसुधरापङ्कमिवात्र लग्नम् ॥ २७ ॥ लीलाचलत्कुण्डलरत्नकान्त्या कर्णान्तकृष्टं धनुरैन्द्रमन्य । अदर्शयच्चन्द्रधिया गतस्य सङ्ग मृगस्येव मुखे निषेद्भुम् ॥ २८ ॥ व्यराजतान्यो निजनासिकाने निधाय जिघन्करकेलिपद्मम् । सदस्यलक्ष्य कमलाश्रितेव श्रियानुरागात्परिचुम्ब्यमान, ॥ २९ ।। कश्चित्कराभ्या नखरागरक्त सलीलमावर्तयति स्म हारम् । स्मरास्त्रभिने हृदयेऽस्रधाराश्रम जनाना जनयन्तमुच्चै ॥ ३० ॥ ताम्बूलरागोलणमोष्ठबिम्बं प्रमार्जयशोणकराङ्गुलीमिः । पिबन्निवालक्ष्यत दन्तकान्तिच्छलेन शृङ्गारसुधामिवान्यः ।। ११ ।। अथ प्रतीहारपदे प्रयुक्ता श्रुताखिलक्ष्मापतिवृत्तवंशा। प्रगल्भवागित्यनुमालवेन्द्रं नीत्वा सुभद्राभिदधे कुमारीम् ॥ ३२ ॥ अवन्तिनाथोऽयमनिन्धमूर्तिरमध्यमो मध्यमभूमिपाल । ग्रहा ध्रुवस्येव समग्रशक्तर्यस्यानुवृत्ति विदधुर्नरेन्द्राः ॥ ३३ ॥ त्रुट्यत्सु वेलाद्रितटेषु नश्यत्युदादिकुञ्जरचक्रवाले । यस्य प्रयाणे पटहप्रणादै स्पष्टाहासा इव रेजुराशाः ॥ ३४ ॥ निक्षत्रियादेव रणानिवृत्तो विनार्थिनं कामपुषश्च दानात् । अभूत्करः केवलमस्य कान्तापृथुस्तनाभोगविभोगयोग्य ॥ ३५ ॥ अस्येदमावर्जितमौलिमालाभृगच्छलेनाङ्गियुगं नरेन्द्राः । के के न भूपृष्ठलुठल्ललाटभ्रष्टोद्भटभृकुटय प्रणेमुः ॥ ३६ ॥ एन पति प्राप्य दिवाप्यवन्तीप्रासादशृङ्गाग्रजुषस्तवायम् । सिप्रातटोद्यानचकोरकान्तानेत्रोत्सवायास्तु चिर मुखेन्दुः ॥ ३७ ॥ तत सुभद्रावचनावसाने श्रीमालवेन्द्रादवतारिताक्षीम् । नीत्वा नरेन्द्रान्तरमन्तरज्ञा पतिवरा ता पुनरित्यवोचत् ॥ ३८ ॥ दुष्कर्मचिन्तामिव यो निषेद्धं विवेश चित्ते सतत प्रजानाम् । विलोक्यता दुर्नयवह्निपाथः सोऽयं पुरस्तान्मगधाधिनाथः ॥ ३९ ॥ मुख समुत्सारितकण्टकस्य बश्राम कीर्तिर्भुवनत्रयेऽस्य । विशालवक्षःस्थलवासलुब्धा दूरान्नृपश्री पुनराजगाम ॥ ४० ॥ महीभुजा तेन गुणैर्निबद्ध गोमण्डलं पालयता प्रयत्नात् । अपरि पूरै पयसामिवान्तर्ब्रह्माण्डमाण्ड विगदैर्यगोभि ॥ ११ ॥ ज्ञातप्रमाणस्य यशोऽप्रमाण वृद्धास्य जज्ञे तरुणस्य लक्ष्मीः । देवात्ततोऽतुल्यपरिग्रहस्य त्वमेव कल्याणि भवानुरूपा ॥ ४२ ॥ विदारयन्ती विषमेपुशक्त्या मर्माणि तस्मादहितस्वरूपात् । आकृष्यमाणापि तया प्रयत्नात्पराङ्मुखी चापलतेव साभूत् ।। ४३ ॥ स्फुरत्प्रतापस्य ततोऽनभर्तुः सूर्याशुराशेरिव सनिकर्षम् । कुमुद्वतीं सा सरसीव कृच्छ्रान्निनाय चैनामिति चाभ्यधत्त ॥ ४४ ॥ अङ्गोऽप्यनङ्गो हरिणेक्षणाना राजाप्यसौ चण्डरुचिः परेषाम् । भोगैरहीनोऽपि हतद्विजित को वा चरित्र महतामवैति ॥ ४५ ॥ वक्रेषु विद्वेषिविलासिनीनामुदश्रुधाराप्रसरच्छलेन । भेजु. कथचिन्न पुनः प्ररोहमुत्खातमूला इव पत्रवल्लयः ॥ ४६ ॥ संख्येषु साक्षीकृतमात्मसैन्य खड्गोऽपि वश्यप्रतिभूरुपात्त । कृतार्थवत्पत्रपरिग्रहेण दासीकृतानेन विपक्षलक्ष्मी. ॥ ४७ ॥ गङ्गामुपास्ते श्रयति त्रिनेत्रं खं निर्जरेभ्य प्रविभज्य दत्ते । अस्याननेन्दुद्युतिमीहमानो व्योमापि धावन्नधिरोहतीन्दु ॥४८॥ यद्यस्ति तारुण्यविलासलीलासर्वखनिवेशमनोरथस्ते । तस्कामिनीमानसराजहस मूर्त्यन्तरानगममुं वृणीष्व ॥ ४२ ॥ ग्रीष्मातेजोभिरिव स्मरास्त्रैस्तप्ताप्युदञ्चत्कमलेऽपि तत्र । सा पल्वले निर्मलमानसस्था न राजहसीच रति बबन्ध ॥ १० ॥ सपूर्णचन्द्राननमुन्नतास विशालवक्ष स्थलमम्बुजाक्षम् । नीत्वा कलिङ्गाधिपति कुमारी दौवारिकी सा पुनरित्युवाच ॥ ११ ॥ खिन्न मुहुश्चारुचकोरनेने प्रौढप्रतापार्कविलोकनेन । नेत्रामृतस्यन्दिनि राज्ञि साक्षानिक्षिप्यता निर्वृतयेऽत्र चक्षु ॥ ५२ ॥ अनारतं मन्दरमेदुराङ्गै प्रमथ्यमानोऽस्य गजै. पयोधिः । शुशोच दु.खान्मरणा-युपाय ग्रस्त त्रिनेत्रेण स कालकूटम् ।। ५३ ॥ चकर्ष निर्मुक्तशिलीमुखा यत्करेण कोदण्डलता रणेषु । जगत्रयालकरणैकयोग्यमसौ यश पुष्पमवाप तेन ॥ १४ ॥ चेतश्चमत्कारिणमत्सुदार नव रसैरर्थमिवातिरम्यम् । खमेनमासाद्य पति प्रसन्ना श्लाध्यातिमात्रं भव भारती वा ॥ ५५ ॥ भूतिप्रयोगैरतिनिर्मलाशात्तस्मात्सुवृत्तादपि राजपुत्री । आदर्शबिम्बादिव चन्द्रबुद्धया न्यस्त चकोरीव चकर्ष चक्षुः ॥ १६ ॥ नरप्रकर्षोपनिषत्परीक्षाविचक्षणा दक्षिणभूमिभर्तुः । नीत्वा पुरस्तादवरोधरक्षा विदर्भभूपालसुता बभाषे ॥ १७ ॥ लीलाचलत्कुण्डलमण्डितास्य पाण्ड्योऽयमुड्डामरहेमकान्तिः । आभाति शृङ्गोभयपक्षसर्पत्सूर्येन्दुरुच्चैरिव काञ्चनाद्रिः ॥ १८ ॥ निर्मूलमुन्मूल्य महीधराणा वशानशेषानपि विक्रमेण । तापायनोदार्थमसौ धरियामेकातपत्रं विदधे स्वराज्यम् ॥ १९ ॥ अनेन कोदण्डसखेन तीक्ष्णैर्वाणैरसंख्यैः सपदि क्षताङ्ग । अभाजन वीररसस्य चक्रे को वा न सख्येषु विपक्षवीर ॥६० ॥ गृहीतपाणिस्त्वमनेन यूना तन्वि खनि.श्वाससहोदराणाम् । श्रीखण्डसारा मलयानिलाना सखीमिवालोकय जन्मभूमिम् ॥६१ ॥ ककोलकैलालवलीलवड्गरम्येषु वेलाद्रितटेषु सिन्धो । कुरु स्पृहा नागरखण्डवल्लीलीलावलम्बिकमुकेषु रन्तुम् ॥ १२ ॥ दिनाधिनाथस्य कुमुद्वतीव पीयूषभानोर्नलिनीव रम्या । सा तस्य कान्ति प्रविलोक्य दैवान्नानन्दसदोहवती बभूव ।। ६३ ॥ महीभुजो ये जिनधर्मबाह्या सम्यक्त्ववृत्त्येव तया विमुक्ता । सद्योऽपि पानालमिव प्रवेष्टुं बभूवुरत्यन्तमधोमुखास्ते ॥ ६४ ॥ कर्णाटलाटद्रविडान्ध्रमुख्यैर्महीधरै कैरपि नोपरुद्धा । रसावहा प्रौढनदीव सम्यग्रत्नाकरं धर्ममथ प्रपेदे ॥ ६ ॥ यचक्षुरस्याः श्रुतिलईनोत्क यद्वेष्टि च भ्रू स्मृतिजातधर्मम् । अद्वैतवाद संगतस्य हन्ति पैदक्रमो यच्च जेडद्विजानाम् ।। ६६ ॥ प्रजापतिश्रीपतिवाक्पतीना तत. समुद्यद्वृषलान्छनानाम् । मुक्त्वा परेषामिह दर्शनानि सर्वाङ्गरक्तेयमभूजिनेन्द्रे ॥६७॥ (युग्मम्) तथाहि दृष्टयोभयमार्गनिर्यन्मुदश्रुधारान्वितया मृगाक्षी । प्रसारितोद्दामभुजाग्रयेव सोत्कण्ठमालिङ्गति नूनमेनम् ॥ ६८ ॥ विभावयन्तीत्यथ मन्मथोत्थं विकारमाकारवशेन तस्याः । अर्हद्गुणग्रामकथासु किंचिद्विस्तारयामास गिर सुभद्रा ॥ ६९ ॥ गुणातिरेकप्रतिपत्तिकुण्ठीकृतामरेन्द्रप्रतिभस्य भर्तुः । यद्वर्णनं मद्वचसाप्यमुष्य भानो. प्रदीपेन निरीक्षण तत् ॥ ७० ॥ इक्ष्वाकुवशप्रभव प्रशास्ति महीं महासेन इति क्षितीशः । तस्यायमारोपितभूमिभारः श्रीधर्मनामा विजयी कुमारः ॥ ७१ ॥ मासान्निशान्ते दश जन्मपूर्वानस्याभवत्पञ्च च रत्नवृष्टिः । यया न दारिद्यरजो जनाना स्वप्नेऽपि दृग्गोचरता जगाम ॥ ७२ ॥ जन्माभिषेकेऽस्य सुरोपनीतैर्दुग्धान्धितोयैः प्रविधीयमाने । संप्लाव्यमान कनकाचलोऽपि कैलासशैलोपमता जगाम ॥ ७३ ॥ लावण्यलक्ष्मीजितमन्मथस्य कि ब्रूमहे निर्मलमस्य रूपम् । वीश्यैव यद्विस्मयतो बभूव हरिद्विनेत्रोऽपि सहस्रनेत्र ॥ ७४ ।। वक्ष स्थलात्माज्यगुणानुरक्ता युक्त न लोलापि चचाल लक्ष्मी । बद्धा प्रबन्धैरपि कीर्तिरस्य बभ्राम यद्भत्रितयेऽद्भुतं तम् ॥ ७५ ।। बुद्धिर्विशाला हृदयस्थलीव सुनिर्मल लोचनवचरित्रम् । कीर्तिश्च शुभ्रा दशनप्रभेव प्रायो गुणा मूर्त्यनुसारिणोऽस्य ।। ७६ ॥ सुरागनानामपि दुर्लभ यत्पदाम्बुजद्वन्द्वरजोऽपि नूनम् । तस्याकमासाद्य गुणाम्बुराशेस्त्रैलोक्यवन्द्या भव सुन्दरि त्वम् ॥ ७७ ॥ इत्य तयोक्ते द्विगुणीभवन्त रोमाञ्चमालोकनमात्रभिन्नम् । सा दर्शयामास तनौ कुमारी जिनेश्वरे मूर्तमिवाभिलाषम् ।। ७८ ॥ भाव विदित्वापि तथा करेणु सख्या सहास पुरतः क्षिपन्त्या । चेलाञ्चल सा चलपाणिपद्मा प्रोत्सृज्य लजा द्रुतमाचकर्ष ॥ ७९ ॥ श्रीधर्मनाथस्य मनोज्ञमूर्ते. प्रवेपमानाप्रकरारविन्दा । सवाहिता वेत्रभृता कराभ्या चिक्षेप कण्ठे वरणस्रज सा ।। ८० ॥ नि सीमसौभाग्यपयोधिवेला वीचीव वक्ष पुलिने जिनस्य । समुल्लसन्ती परिपूर्णमस्याः सा पुण्यचन्द्रोदयमाचचक्षे ॥ ८१ ॥ उन्मुद्रितो यत्नवतापि नून धानाधुना स्त्रीनररनकोष । यदस्य युग्मस्य समानमन्यन्नादर्शि रूप न च दृश्यतेऽत्र ॥ २ ॥ इत्थं मिथ पौरकथाः स शृण्वन्पुर सरीभूतविदर्भराज. । स्वकर्मवृत्त्येव नरेन्द्रपुञ्या सम तदात्मेव पुरं विवेश ॥ ८३ ॥ वधूवृतं वीक्ष्य वर तमन्ये नृपा यथावासमपास्तभास । विभान्वित भास्करमाकलय्य जग्मु समूहा इव तारकाणाम् ॥ ८४ ॥ वयवर द्रष्टुमुपागताना ध्वजाशुकै?मसदामु । विचित्रवस्त्रार्पणतत्परेव रेजे विदर्भाधिपराजधानी ॥ ८५ ॥ अथाभवन्नम्बुदनादमन्द्र ध्वनत्लु तूर्येषु पुराङ्गनानाम् । उत्कण्ठितान्त करणानि कामं शिखण्डिनीनामिव चेष्टितानि ॥ ८६ ॥ करेऽन्दुक कङ्कणमड्रिमागे मुखे च लाक्षारसमायताक्षी । तमुत्सुका वीक्षितुमीक्षणे च सचारयामास कुरगनाभिम् ॥ ७॥ एतैत हे धावत पश्यताये जगन्मनोमोहनमस्य रूपम् । इत्थं तमुद्दिश्य पुराङ्गनाना कोलाहल कोऽपि समुज्जगाम ॥ ८ ॥ अट्टालशालापणचत्वरेषु रथ्यासु च व्याकुलकेशपाशा । दृष्टु तमम्भोजदृशो भ्रमन्त्य स्वमूचिरे कामपिशाचवश्यम् ॥ ८९ ॥ मुक्तामये खच्छरुचौ गुणाढ्ये तस्मिन्मनोज्ञे हृदयावतीर्णे । असूययेव त्रुटितोऽपि हार स्पष्टो वधूभिर्न जनावकीर्णे ॥ ९० ॥ पत्राङ्कुरै कापि कपोलमेक सभाव्य नेत्र च तथाञ्जनेन । उद्घाटितैकस्तनमण्डलागात्तमर्धनारीश्वरता वहन्ती ॥ ११ ॥ यियासतस्तस्य नरेन्द्रहर्म्यमत्यद्भुत रूपमवेक्ष्य मार्गे । पुर प्रयाणप्रतिषेधनाय शिरासि मन्ये दुधुवुस्तरुण्य ॥ ९२ ॥ रुद्ध जनैर्नेत्रपथेऽत्र काचिदुचैस्तरा निर्भयमारुरोह । आरूढचेतोभवपौरुषाणा किमस्त्यसाध्य हरिणेक्षणानाम् ॥ १३ ॥ अङ्गेषु जातेष्वपि तद्विलोकादुद्भिनरोमोच्चयकञ्चुकेषु । दृढप्रहारो विषमेषुवीरो मर्माणि बाणैरभिनद्वधूनाम् ॥ ९४ ॥ कोलाहल कापि मुधा विधाय तस्य स्खमालोकपथ निनाय । द्रष्टु दृढोपायमनङ्ग एव चक्षुस्तृतीय सुदृशामुदेति ॥ ९९ ॥ निर्व्याजपीयूषसहोदरोऽपि तदङ्गलावण्यरसप्रवाह । नेत्रार्धभागेन निपीयमानो न तृप्तयेऽभून्नगराङ्गनानाम् ॥ ९६ ॥ आलिङ्गय बालाय समर्पयन्ती मुखेन काचित्क्रमकस्य खण्डम् । न केवलं तत्प्रणयानुवृत्तिमूचे निजा चुम्बनचातुरी च ॥ १७ ॥ तस्य प्रभोध(वरता गतस्य समन्तत. सर्पति कान्तिजाले । बन्धाय सद्यो रसवाहिनीना पपात लोला शफरीव दृष्टिः ॥ ९८॥ उद्यद्भुजालम्बितनासिकाना स्थिता गवाक्षे विगलनिमेषा । गौरी क्षणं दर्शितनाभिचका चक्रे भ्रम काश्चनपुत्रिकाया ॥ ९९ ॥ कामान्धमेव द्रुतमाकुलाभि क्षिप्त मनस्तत्र विलासिनीभिः । तेनेतरालम्बनविप्रयोगाद्वयावृत्तियोग्यं न पुनर्बभूव ।। १०० ॥ किमेणकेतु किमसावनङ्ग कृष्णोऽथवा कि किमसौ कुबेर । लोकेऽथवामी विकलाङ्गशोभा कोऽप्यन्य एवैष विशेषितश्री ॥१०॥ शृङ्गारवत्याश्चिरसचिताना रेखामतिकामति का शुभानाम् । लब्धो यया नूनमसावगम्यो मनोरथानामपि जीवितेश. ॥ १०२ ॥ पीयूषधाराभिरिवागनानामित्थ स वाग्भि परिपूर्णकर्ण । उत्तोरणं द्वारमुदारकीर्ति संबन्धिन. प्राप शनै. कुमार ॥१०३॥(कुलकम्) तत्रायमुत्तीर्य करेणुकाया. सुवासिनीसाधितमङ्गलश्री। विवेश यक्षाधिपदत्तहस्त प्रशस्तमुच्चै श्वशुरस्य सौधम् ॥ १०४ ॥ निर्वर्तिताशेषविवाहदीक्षामहोत्सवोऽसौ श्वशुरेण सम्यक् । वध्वा सम तत्र चतुष्कमध्ये सिहासन हैममलंचकार ।। १०५॥ अत्रान्तरे वेत्रिनिवेद्यमानमग्रे पितृप्रेषितमेकदूतम् । ददर्श सम्यक्स निवेदितार्थ तदर्पितं लेखमपि व्यधत्त ॥ १० ॥ अथायमाहूय पति चमूना सुषेणमित्यादिशति म देवः । खराजधानी प्रति संवृतार्थ पित्राहमत्यथितयोपहूतः ॥ १०७ ॥ ततोऽतिवेगेन मनोवदामुं बध्वा समं रनपुर समीहे । त्व कायवत्कार्यमशेषयित्वा शनै ससैन्यो भवितानुगामी ॥ १.८॥ उक्त्वा तमित्यनुचर श्वशुरानुमत्या यावप्रभुः खपुरयानसमुत्सुकोऽभूत् । तावद्धनाधिपतिरम्बरपुष्पकल्प भक्त्या विमानमुपढौकयति स्म तस्मै ॥ १०९ ॥ तत्रारुह्य वितीर्णविस्मयरुचा शृङ्गारवत्याधिक पूषेव प्रविकासितास्यकमलो दिश्युत्तरस्या नजन् । सद्य प्राप सखेदमाढ्यदिव व्यालोलसौधध्वजै- देवो रत्नपुरं पुरदरगुरु. श्रीधर्मनाथ प्रभु ॥ ११ ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये सप्तदश सर्गः । अष्टादश सर्ग। अथ श्रुताशेषसुखप्रवृत्तिना मुद महासेननृपेण बिभ्रता । प्रवर्तितानेकमहोत्सव पुर सम कलत्रेण विवेश स प्रभु ॥ १ ॥ स चन्द्रमाश्चन्द्रिकयेव कान्तया तयान्वितोऽत्यन्तमनोरमाकृति । कुमुद्तीनामिक पौरयोषिता चकार हक्कैरवकाननोत्सवम् ॥ २ ॥ अलंकृतं मङ्गलसविधानकै प्रविश्य हर्म्य हरिविष्टरस्थितौ । तदान्वभूतामनुभाविनाविमौ महत्तरारोपितमक्षतक्रमम् ॥ ३ ॥ यदल्पपुण्यैर्मनुजैर्दुरासदं सदैव यच्चाननुभूतपूर्वकम् । वधूवरालोकनलोलनेत्रयोर्वभूव पित्रो सममेव तत्सुखम् ॥ ४ ॥ स नन्दनालोकनजातसंमद सुरागलीलालसनिर्जराङ्गनम् । अमन्यत खर्गपुरोपमं नृप प्रसक्तसगीतकहारि तदिनम् ॥ ५ ॥ अथैष शृक्षारवतीमिवापरा सकौतुकेनैव करेण मेदिनीम् । तमादराद्राहयितुं नरेश्वर स्थितं सदस्यात्मजमित्यभाषत ॥ १ ॥ नियम्य यद्राज्यतृणेऽपि पालित तवोदयायानगहनैकसत्त्ववत् । विबन्धनं तद्विषयेषु नि स्पृहं मनो वनायैव ममाद्य धावति ॥ ७ ॥ प्रतापटकैः शेतकोटिनिष्ठुरैः किरीटरत्नोपलपट्टिकावजे । स्फुरनिजाज्ञाक्षरमालिकामयी मया प्रशस्तिनिहिता महीभुनाम् ॥८॥ यशो जगन्मण्डलमण्डनीकृतं कृताः कृतार्था कृतिनोऽपि संपदा । त्वया च जाता धुरि पुत्रिणा वयं किमस्त्यपर्याप्तमतोऽत्र जन्मनि ॥९॥ ततोऽवशिष्टं पुरुषार्थमर्थतश्चतुर्थमेवार्थयतीह मे मनः । अथान्यदप्यस्ति विधेयमादरात्त्वमेव तत्साधु विचारयोचितम् ॥ १०॥ उपेत्य वात्येव जरातिजर्जर करोति यावन्न वपु कुटीरकम् । निकेतनं तावदुपैतुमक्षय द्रुत यतिष्ये जिननाथवर्त्मना ॥ ११ ॥ अपत्यमिच्छन्ति तदेव साधवो न येन जातेन पतन्ति पूर्वजा । इति त्वयापत्यगुणैषिणा पतन्नुपेक्षणीयो न भवामि सस्तौ ।। १२ ॥ ततोऽनुमन्यस्व नयज्ञ साधये समीहित त्वद्भुजदण्डशायिनि । चिरं धरित्रीवलये फणावतामपेतभार सुखमेधता पति ॥ १३ ॥ तवापि शिक्षा भुवनत्रयीगुरोबिभाति भानोरिव दीपदीधिति. । इति प्रपद्यापि यदुच्यते मया ममत्वमोह खलु तत्र कारणम् ॥१४॥ भृश गुणानर्जय सद्गुणो जनै क्रियासु कोदण्ड इव प्रशस्यते । गुणच्युतो बाण इवातिभीषण प्रयाति बैलक्ष्यमिह क्षणादपि ॥ १५॥ उपात्ततन्त्रोऽप्यखिलाङ्गरक्षणे न मन्त्रिसानिध्यमपेतुमर्हसि । श्रिया पिशाच्येव नृपत्वचत्वरे परिस्खलन्कश्छलितो न भूपति ॥१६॥ न बद्धकोष स तथा यथाम्बुज विकोषमाकामति षट्पदोच्चयः । परामिभूतिप्रतिबन्धनक्षम नृपो विदध्यादिति कोषसंग्रहम् ॥ १७ ॥ अनुज्झितस्नेहभर विभूतये विधेहि सिद्धार्थसमूहमाश्रितम् । स पीडित स्नेहमपास्य तत्क्षणांत्खलीभवन्केन निवार्यते पुनः ॥१८॥ स मन्दरागोपहत पयोनिधिर्मुमोच लक्ष्मी सगजामपि क्षणात् । इतीव जानन्निजसंनिधौ जनान्न मन्दरागाननिशं विधास्यसि ॥ १९ ॥ गतत्रपो यस्त्रपुणीव सन्मणि नियोजयेद्योग्यमयोग्यकर्मणि । विवेकवन्ध्य स महीपति. कथ भवेदनौचित्यविदाश्रयः सताम् ॥२०॥ अचिन्त्यचिन्तामणिमर्थसपदा यशस्तरो स्थानकमेकमक्षतम् । अशेषभूभृत्परिवारमातर कृतज्ञता तामनिशं त्वमाश्रय ॥ २१ ॥ स्थितेऽपि कोपे नृपति पराश्रयी प्रपद्यते लाघवमेव केवलम् । अशेषविश्वभरिकुक्षिरच्युतो बलि भजन्कि न बभूव वामनः ॥ २२ ॥ अनाहतोपक्रमकर्णधारका श्रयन्ति ये नीतिमिमा तरीमिव । विरोधिदुर्वातविदर्भिता विपन्नदी न दीना परिलइयन्ति ते ॥२३॥ महोभिरन्यानिह कूपदेशवजडाशया-शोपय भीषणै क्रमात् । यथा न लक्ष्म्या घटवोटयेव ते कृपाणधारासलिलं विमुच्यते ॥२४॥ अपेक्ष्य काल कमपि प्रकर्षत स्फुरन्त्यमी धामधना अपि द्रुतम् । हिमेन तेनापि तिरस्कृति कृतामहो सहस्ये सहते न कि रवि ॥२५॥ विशुद्धपाणि प्रकृतीरकोपयञ्जयाय यायादरिमण्डलं नृपः । बहिर्व्यवस्थामिति बिभ्रदान्तराञ्जयी कथ स्यादनिरुध्य विद्विषः ॥२६॥ ततो जयेच्छुर्विजिगीषुरान्तरान्यतेत जेतु प्रथमं विरोधिन । कथ प्रदीप्तानवधीर्य वहिना गृहानिहान्यत्र कृती व्यवस्यति ॥ २७ ।। यथावदारम्भविदो महीपतेर्गुणाय पाहुण्यमपि प्रजायते । असशय स्यादविमृश्यकारिणो मणि जिघृक्षोरिव तक्षकात्क्षय ॥२८॥ विधेयमार्गेषु पदे पदे स्खलन्नराधिनाथो मदमोहिताशय. । न शारदेन्दुद्युतिकुन्दसोदर यशोशुक सस्तमवैति सर्वतः ॥ २९ ॥ हिनस्ति धर्म हृदयाभिनन्दिनीं तदर्पिता यो विलसन्नपि श्रियम् । स दुर्जनानामकृतज्ञचेतसा धुरि प्रतिष्ठा लभतामचेतनः ॥ ३० ॥ सुखं फलं राज्यपदस्य जन्यते तदत्र कामेन स चार्थसाधन । विमुच्य तौ चेदिह धर्ममीहसे वृथैव राज्यं वनमेव सेव्यताम् ॥ ३१॥ इहार्थकामाभिनिवेशलालसः स्वधर्ममर्माणि भिनत्ति यो नृपः । फलाभिलाषेण समीहते तरुं समूलमुन्मूलयितुं स दुर्मतिः ॥ ३२ ॥ इहेहते यो नतवर्गसपद तथोपवर्गप्रतिपत्तिमायतौ ! अपास्तबाध स निषेवते क्रमात्रिवर्गमेव प्रथम विचक्षणः ॥ ३३ ॥ नृपो गुरूणा विनयं प्रकाशयन्मवेदिहामुत्र च मङ्गलास्पदम् । स चाविनीतस्तु तनूनपादिव ज्वलन्नशेष दहति स्वमाश्रयम् ॥ ३४ ॥ धन ददानोऽपि न तेन तोषकृत्तथा यथा साम समीरयन्नृपः । तदर्थसिद्धावपरैरुपायकैर्न सामसाम्राज्यतुलाधिरुह्यते ॥ ३५ ॥ त्वमत्र पात्राय समीहितं ददत्प्रसिद्धिपात्र परमं भविष्यसि । अभिन्नतृष्णे जलधौ कमर्थिनो न बंद्धपीताद्यपवादमादधुः ॥ ३६ ॥ नितान्तघोर यदि न प्रसर्पते कृत कदर्यद्रविणेन पातकम् । अदृष्टलोकव्यवहारमन्वहं विपच्यते किं वसुधातलोष्मणा ।। ३७ ॥ मुमन्त्रबीजोपचय. कुतोऽप्यसौ परप्रयोगादिह भेदमीयिवान् । सुरक्षणीयो निपुणै फलार्थिभिर्यत स भिन्नो न पुनः प्ररोहति ॥३८॥ पथि प्रवृत्त विषमे महीभृता नितान्तमस्थाननिवेशिनो भ्रमात् । स्वमन्धमाख्याति निपातयत्यपि प्रसह्य दण्ड खल दण्डधारकम् ॥३९॥ धिनोति मित्राणि न पाति न प्रजा बिभात भृत्यानपि नार्थसपदा । न य. स्वतुल्यान्विदधाति बान्धवान्स राजशब्दप्रतिपत्तिभाकथम्।।४०॥ विचारयैतद्यदि केऽपि बान्धवा महाकविभ्योऽपि परे महीभुजः । यदीयसूक्तामृतसीकरैरसौ गतोऽपि पञ्चत्वमिहाशु जीवति ॥ ४१ ।। इहोपमुक्ता कतमैर्न मेदिनी परं न केनापि जगाम सा समम् । फलं तु तस्या सकलादिपार्थिवस्फुरद्गुणग्रामजयोर्जित यशः ॥ ४२ ॥ किमुच्यतेऽन्यद्गुणरत्नभूषणैर्विभूषयात्मानमनन्यसनिभै । खभावलोला अपि यैर्विलोभिता श्रियो न मुश्चन्ति कदाचिदन्तिकम् ४३ इति प्रमोदादनुशास्य भूपतिस्तदैव दैवज्ञनिवेदितेऽहनि । बलादनिच्छन्तमपि न्यवीविशत्स धर्ममुच्चैरभिषेकपट्टके ॥ ४४ ॥ अथैष मूर्छत्सु मृदङ्गझल्लरीखनेषु रगत्यपि मगलध्वनौ । चकार चामीकरकुम्भवारिभिर्महाभिषेकं स्वयमस्य भूपति ॥ ४५ ॥ सभूषणे तत्परिधाप्य वामसी निवेशितस्यास्य मृगाधिपासने । स्वयं दधत्काञ्चनदण्डमञ्जसा पुर प्रतीहारनियोगमादवे ॥ ४६ ॥ प्रसीद दृष्ट्या स्वयमेष नैषधो नमत्यवन्तीपतिरेष सेवते । इदं पुर. प्राभृतमङ्गभूपतेरयं स कीरो विनयेन भापते ॥ १७ ॥ सितातपत्रं द्रविडो विभत्यसौ सचामरौ केरलकुन्तलाविमौ । इति प्रियैरप्यपदानुवर्तिन पितुर्वचोभि. शुचमेव सोऽवत् ॥ ४८ ॥ प्रभाकरे गच्छति वृद्धिमेकत कलानिधौ राज्ञि विवृत्तिमन्यत । रराज राज्य रजनीविरामवत्तदा न नक्षत्रविशेषशोभितम् ॥ ४९ ॥ पुरा त्रिलोक्यामपि मन्दरे सुरै कृतेऽभिषेके किमिद पुन पुन । इति स्फुरद्दन्तरुचेत्र निर्मल नभोऽहास पटहस्त्रनैर्व्यधात् ॥ ५० ॥ कृताभिषेको न परं स गामिमा प्रसूनगन्धोदकरत्नवृष्टिभिः । दुदोह कामान्दिवमप्यसशय किमस्त्यसाध्य सुकृतात्मनामपि ॥ ११ ॥ स पञ्जरेभ्य कलकेलिपक्षिणो विपक्षबन्दीश्च विमोचयन्नृप । मनोरथादप्यधिक ददत्तदा प्रवर्तयामास न कस्य समदम् ॥ ५२ ॥ जनेषु गायत्सु जगौ प्रतिखनैर्ननर्त नृत्यत्स्वपि लोलकेतुभिः । अवाप्य सहर्षमिवोत्सवे प्रभोर्मुदा न किं किं विदधे तदा पुरम् ॥१३॥ इति व्यतिक्रम्य दिनानि कानिचिन्महोत्सवेऽस्मिारठीभवत्यपि । स पुत्रमापृच्छ्य तपश्चिकीर्षया ययौ महासेनमहीपतिवनम् ॥ १४ ॥ अथ श्लथीभूतविमोहबन्धनोऽप्यसौ वियोगापितुरन्वतप्यत । अवेत्य संसारगतिं तत स्वयं प्रबुद्धमार्गः समचिन्तयत्प्रजाः ॥ १५ ॥ प्रजा प्रशस्या खलु ता स्मरन्त्यमु जिनेश्वर या प्रविधूतकल्मषम् । स्तुम कथ तत्सुकृतानि चिन्तन चकार यासा स्वयमेव स प्रभु ॥१६॥ क्वचिन्न चक्रे करवालकर्षणं न चापराग विदधे कमप्यसौ । स कोमलेनैव करेण लालयन्वशीचकारैकवधूमिव क्षितिम् ॥ १७ ॥ गुणार्णव नम्रनरामरोरगस्फुरत्किरीटोचयचुम्बितक्रमम् । पति तमासाद्य मही महीयसी बभूव लोकद्वितयादपि ध्रुवम् ॥ १८ ॥ न चापमृत्युनं च रोगसंचयो बभूव दुर्भिक्षभय न च कचित् । महोदये शासति तत्र मेदिनीं ननन्दरानन्दजुपश्चिर प्रजा ॥ १९ ॥ ववौ समीर सुखहेतुरगिना हिमादिवोष्णादपि नाभवद्भयम् । प्रभो प्रभावात्सकलेऽपि भूतले स कामवर्षी जलदोऽप्यजायत ॥६॥ ध्रुव भुजस्तम्भनियन्त्रिता गुणैरनेन गाढ करिणीकृतांचला। कुतोऽन्यथा भूभृदुपायनच्छलात्समाययु काममदोद्धता गजा ।। ६१ अजस्रमासीद्धनसपदागमो न वारिसपत्तिरदृश्यत कचित् । महौजसि त्रातरि सर्वत. सता सदा पैराभूतिरभूदिहाद्भुतम् ।। ६२ ॥ न नीरसत्त्वं सलिलाशयाहते दधावध पङ्कजमेव सद्गुणान् । अभूदधर्मद्विपि तत्र राजनि त्रिलोचने यद्यजिनानुरागिता ॥ ६३ ॥ प्रसह्य रक्षत्यपि नीतिमक्षतामभूदनीतिः सुखभाजन जन । भयापहारिण्यपि तत्र सर्वत को नाम नासीत्प्रभयान्वित क्षितौ ॥१४॥ त्रिसध्यमागत्य पुरदराज्ञया सुराङ्गना दर्शितभूरिविधमा । वितन्वते स्म स्मरराजशासन सुखाय सगीतकमस्य वेश्मनि ॥१५॥ वक्राब्जेन जयश्रिय विकसता क्रोडीकृता दर्शय- न्ह स्तोदस्तजयध्वजेन विदधद्वयक्तामथैना पुन । एक प्राप सुषेणसैन्यपतिना सप्रेषित संसद तस्यानेकनृपप्रवर्तितसमिद्वृत्तान्तविद्वार्तिक ॥ ६६ ॥ प्रणतशिरसा तेनानुज्ञामवाप्य जगत्पते कथयितुमुपक्रान्ते मूलादिहाजिपराक्रमे । श्रवणमयतामन्यान्यापुस्तदेकरसोदया- दपरविषयव्यावृत्तानीन्द्रियाणि सभासदाम् ॥ १७ ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाच्येऽष्टादशः सर्गः।

एकोनविंशः सर्गः । आहवक्रममामूलमथ दूत पुर प्रभो । आह वंक्रममामूलमिति विद्वेषिभूभुजाम् ॥ १॥ कार्यशेषमशेषज्ञोऽशेषयित्वा स निर्ययौ । यावत्संबन्धिनो देशात्सुषेण सह सेनया ॥ २ ॥ तावदगादय. क्षोणीभुजो दागधियातया । वामयास्यानुजग्मुस्ते भुजोदारा धिया तया ॥ ३ ॥ (युग्मम्) अथ तै प्रेषितो दूत. पृथ्वीनाथैयुयुत्सुभिः । साक्षाद्गर्व इवागत्य तमचोचच्चभूपतिम् ॥ ४ ॥ त्व क्षमो भुवनस्यापि तेनेनेन प्रभास्वतः । तैवानूना चमूचक्रे तेनेऽनेन प्रभा स्वतः ॥ ५ ॥ तवानूरोरिवाकाशे प्रभुभक्तिर्न बाधिका । अग्रेसरी पुन कि न वारिराशौ निमज्जत ॥ ६ ॥ चतुरङ्गा चमूं त्यक्त्वा चतुरं गा गत कथम् । प्रभयाधिकरक्षा स प्रभयाधिगतोऽवति ।। कार्मणेनैव तेनोढा सा शृङ्गारवतीति य । साशङ्कस्तु कृत पत्या राजवर्ग प्रणश्यता ॥८॥ नवमायोधन शक्यानवमायो धन ददत् । समनागबल कर्तु स मनागवलत्त्वया ॥ ९ ॥ (युग्मम्) लक्ष्मीजिघृक्षया तुभ्य राजक नापराध्यति । कि तु रीत्येव वैदर्भ्या गौडीयोयाभ्यसूयितम् ॥ १०॥ मारसारसमाकारा राकामा सरसा रमा 1 सा गता हसना तेन न तेनासहतीगसा ॥ ११ ॥ (प्रतिलोमानुलोमपाद) त्वामिहायुङ्क्त विश्वस्तभूतलोपकृतिक्षमः । न वापरंधिकृन्नाथः केवलं भूतिहेतवे ॥ १२ ॥ अस्य मानाधिकैः सेना अस्यमाना नवाजितः । अस्यमानाहतेरेता अस्यमानावितु क्षमः ॥ १३ ॥ परलोकभयं विभ्रत्प्रभुभक्ति प्रपद्यसे । भवित्तासि ततो नून स्ववशोद्धरणक्षम ॥ १४ ॥ अरमभीतियुक्तस्ता कष्टं स्कन्दोऽपि रक्षति । अरमभीतियुक्तस्ता दूरे पाम्यति वाहिनी ॥ १५ ॥ अवला ता पुरस्कृत्य त्यक्तोऽसि सबलोऽमुना । निराश्रयस्ततो धीर राजवर्ग त्वमाश्रय ॥ १६ ॥ प्रार्थयैताश्चतुर्वर्ग रथवाजिप्रदानतः । लप्स्यसे पञ्चतामुच्चैरथवाजिप्रदानत ॥ १७ ॥ परमस्नेहनिष्ठास्ते परदानकृतोद्यमा । समुन्नति तवेच्छन्ति प्रधनेन महापदाम् ॥ १८ ॥ राजानस्ते जगत्ख्याता बटुशोभनवाजिन । वने कस्तत्क्रुधा नासीद्बहुशोभनवाजिन ॥ १९ ॥ सकृपाणा स्थित बिभ्रत्संधामनिधनं तव । दाता वा राजसदोहो द्राक्कान्तारसमाश्रयम् ॥ २० ॥ सहला सह सौरभैर्धाविताधाविता रणे । दु सहेऽदु सहेऽल ये कम्य नाकम्य नार्जनम् ॥ २१ ॥ तेपा परमतोषेण सदातिरसं गतः । स्वोन्नति पतिता बिभ्रत्सद्महीनो भविष्यसि ॥२२॥ (युग्मम् ) बहुशस्त्रासमाप्यैषां बहुशस्त्रासमाहतेः । को वा न रमते प्राप्ताको वानरमते गिरौ ॥ २३ ॥ किएँ दासतया स्थातुमीहसे वापि भूभृति । असख्य कर्म तत्कुर्वल्लप्स्यसे कम्बलोत्सवम् ॥ २४ ॥ बहुधामरणेऽच्छाबहुधा मरणेच्छया । परभीरहित पश्येत्परभीरहित परम् ॥ २५ ॥ बन्धाय वाहिनीशस्य तवैते मेदिनीभृत । आयान्ति कटकैर्जुष्टा. सनागहरिखजिभि ॥ २६ ॥ मुरलो मुरलोपीव कुन्तल. कुन्तलश्च कै । मालवो मॉलवोद्रीवैयिते वार्य ते रणे ॥ २७ ॥ उद्दामद्विरदेनाद्यो (१) कलिङ्गेन वृषध्वजः । शिरोपितार्धचन्द्रेण कार्यस्त्वमगजाश्रित ॥ २८ ॥ अनेकपापरक्तो वा लभ सेनाशम गत । अनेकपापरतो वा लभसे नाशमङ्गतः ॥ २९ ॥ हितहेतु वचस्तुभ्यमभ्यधामहमीदृशम् । विरोधिन्यपि यत्साधुन विरुद्धोपदेशक ॥ ३०॥ अधिक दरमेत्याहो अधिकदरमुन्नतान् । समासादयशा शैलान्समासादय वा नृपान् ॥ ३१ ॥ इति राजगणे तस्मिन्नधिकोपकृतिक्षमे । गतिद्वयमुदाहृत्य प्रणिधिविरराम सः ॥ ३२॥ रैरोडरीरोरुररुरत्काकुकं केकिकतिक । चञ्चच्चञ्चचिचोचे तततातीति तं ततः ॥ ३२ ॥ (चतुरक्षरः) अन्तरत्यन्तनिर्मूढपदाभिप्रायभीषणा । वाग्भुजङ्गीच ते मृद्वी कस्य विश्वासकहहि ॥ ३४ ॥ दुर्जनः सत्सभा प्रष्टामीहते न स्वभावतः । किमुलूकस्तमोहन्त्री भास्वत सहते प्रभाम् ॥ ३५ ॥ (गूढचतुर्थपाद) सीमा सौभाग्यभाग्य शोभासभावितस्पर । अहो पाष्टर्य जगन्नाथ कार्मणीत्युच्यते खलै' ॥ ३६॥ प्रभाप्रभावभाग्येन भाग्येन स वधूकरम् । तेने तेनेऽपतन्माला तन्मालाप वृथा कृथा ॥ ३७ ॥ गुणदोषानविज्ञाय भर्तुर्भक्ताधिका जना । स्तुतिमुच्चावचामुच्चैः का न का रचयन्त्यमी ।। ३८ ॥ धर्मे बुद्धि परित्यक्त्वोपरत्रानेकपापदे । सदय कुरुते कस्ता परत्रानेकपापदे ॥ ३९ ॥ आस्ता जगन्मणेतावद्भानोरन्यैर्महस्विभि । अनूरोरपि कि तेज संभूय परिभूयते ॥ ४० ॥ मम चापलता वीक्ष्य नवचापलता दधत् । अयमाजिरसाद्गन्तु कि यमाजिरमिच्छति ॥ ४१ ॥ सौजन्यसेतुमुद्भिन्दन्यत्त्वया नैव चारित. । तन्न कोधार्णवौघेन प्लावनीयो नृपव्रज. ॥ ४२ ॥ विपद्विधास्यतेऽत्राहकारिभिः कारिभिर्मम । एकाकिनापि रुध्यन्ते हरिणा हरिणा न किम् ॥ ४३ ॥ जयश्रियमथोद्वोढुं त्वत्प्रतापामिसाक्षिकाम् । वित्तमाजौ ददद्भूतं सुषेणो विससर्ज स. ॥ ४४ ॥ रागिताजिवरा कापि नेतेनातनतामसा । सामताततना तेने पिकारावजिता गिरा ॥ १५ ॥ (अनुलोमप्रतिलोमार्ध) तथाप्यनुनयैरेष शाम्यति म न दुर्जन । और्वस्तनूनपान्नीरैनीरधेरिव भूरिभिः ॥ १६ ॥ युद्धानका स्म तद्भीमा सदानघ नदन्ति नः । बबृहिरे जयायोच्चैः सदानधनदन्तिन ॥ ४७ ॥ उद्भिन्नोद्दामरोमाञ्चकञ्चुकेषु मुदस्तदा । अन्तरङ्गेषु शूराणा सनाहा न बहिर्ममु ॥ १८ ॥ निजदोरदनोदीर्णश्रीरता घनताविमा । तरसारवलं चेरुरिभा भूतहृतो भृशम् ॥ ४९ ॥ (पातिलोम्येनानन्तरलोक) संभृतो हँतभूमारिरुचेऽल बरसाग्न. । भावितानघतारश्रीन दीनो दरदोऽजनि ॥ ५० ॥ शक्केऽनुकूलपवनप्रेसितै स्यन्दनध्वजै । निक्कणकिङ्किणीकाणैयोंछु जहुविरे द्विष ॥११॥ नवप्रियेषु बिभ्राणा सङ्गरागमनायका । क योषितोऽभवन्नोत्का सगरागमनाय काः ॥ १२ ॥ सदृशावत्यनीकेऽत्र त्वत्प्रतापप्रदीपके । वधायैव निपेतुस्ते पतंगा इव शत्रवः ।। ५३ ।। गगोरगगुरूपाङ्गगौरगोगुरुरुपगु । रागागारिंगरैरज्ञैरग्रेऽङ्ग गुरुगीरगात् ॥ १४ ॥ (द्वयक्षर) अङ्गमुत्तुगमातङ्गमायान्तं प्रत्यपद्यत । वात्येव वारिदानीकं सा सुषेणस्य वाहिनी ॥ ५५ ॥ अतस्तमानसे सेना सैदाना सारवा रणे । अतस्तमानसेसेना सदानासारवारणे ॥ १६ ॥ (समुद्गक) कुम्भभूरिव निर्मग्रसपक्षानेकभूधरम् । उचुलुम्पाचकारोच्चै स क्षणादगवारिधिम् ॥ १७ ॥ निस्त्रिशदारितारातिहृदयाचलनिर्गता। न करिम्कन्धवन्नामृडदी दीनैरतीर्यत ॥ ५८ ।। (निरौष्ठ्य.) खेहपूर इब क्षणे तत्रोद्रेक महीभुज । अस्त यियासवोऽन्येऽपि प्रदीपा इव भेजिरे ॥ १९ ॥ हेमवर्माणि सोऽद्राक्षीद्भाविना भानिनासिना । द्विबलान्यासकेनेव निचितानि चिताग्निना ॥ ६ ॥ तद्धनोत्क्षिप्तदुरितरवारिमहोर्मय । अरिक्ष्माधरवाहिन्यो रणक्षोणी प्रपेदिर ॥ ११ ॥ समुत्साहं समुत्साहकारमाकारमादधत् । ससारार मराारारम्भवतो भवतो बलम् ।। ६२ ॥ कोदण्डदण्डनिर्मुक्तकाण्डच्छन्ने विहायसि । चण्डाशुश्चण्डभीत्येव संवत्रे करसचयम् ॥ ६३ ॥ सारसेनारसे नागा, समरे समरेखया । न न दाननदाश्चरुवाजिनो वाजिनोद्धता. ॥ १४ ॥ उद्दण्ड यत्र यत्रासीत्पुण्डरीकं रणाम्बुधौ । निपेतुस्तव योधाना तत्र तत्र शिलीमुखाः ॥ १५ ॥ के न वानवाणैस्ते सेनया सेनया हता । मानवा माननाधान्धा सत्वरा सत्वराशय. ।। ६६ ॥ बाणैर्बलमरातीना सदापिहितसौरभैः । अपूरि सुरमुक्तैश्च त्वङ्काल कुसुमोत्करै ॥ ६७ ॥ मूर्धान दुधुवुस्तत्र कङ्कपत्रक्षता भटा । प्रमोरासमाप्तौ वा प्राणाना रो मुक्रमम् ॥६८॥ (अतालव्य ) त्रुट्यविकण्टपीटास्थिटात्कारभरभैरवे । पेतुर्भयान्वितास्तत्र पत्रिणो न पतत्रिण ॥ १९ ॥ शरघाताद्गीनरसितैरुत्पलायितम् । रक्ताच्चौ तत्करैश्छिन्नैरसितैरुत्पलायितम् ॥ ७० ॥ वेतालास्ते तृषोत्तालाः पश्यन्त शरलाघवम् । पाणिपात्रस्थमप्यत्र कीलालं न पपुयुधि ॥ ७१ ॥ त्वलैर्वेिषमारातिमारातिस्फुटविक्रमै । अखग व्योम कुर्वाणै. कुर्वाणैस्तस्तरे तदा ।। ७२ ॥ ससारसारलक्ष्म्येव चैदा स्वीकृतस्य ते । ईमेया वर्धितोत्साहा तत्र शत्रुपरम्परा ।। ७३ ।। पराजिताशु भवतः सेनया यतमानया । पराजिता शुभवतसेनया यतमानया ॥ ७४ ॥ (युग्मम्) ततो भमे चलेऽन्यस्मिन्पुलकस्फारसैनिकः । एकहीं सहोत्तस्थे मालवेन्द्रेण कुन्तल ॥ ७ ॥ सुषेणस्तङ्कलद्वयूह सन्नाहवपुष तत.। हर्षेण वीक्ष्य सौवर्णसंनाहवपुष ततः ॥ ७६ ॥ चतुरङ्गबले तत्र परिसर्पति शात्रवे । सैन्यमाश्वासयामास व्याकुलं ख चम्पतिः ॥ ७७ ॥ स वाजिसिन्धुरग्रामान्सभ्रमादभिवाचित । जवादसि स्फुरद्धामा बिम्रन्नादमवात्तत ||७८ ॥ (गोमूत्रिका) सगज सरथ साश्व सपदाति समन्ततः । क्रामन्नभिमुख क्रोधात्तीव्रतेजाः शितायुधः ॥ ७९ ॥ (युग्मम्) सैमारेभे समारेभे समारे भे रणे रिपुः । स दानेन सदानेन सदानेन व्यपोदितुम् ॥ ८ ॥ अम्भोधिरिव कल्पान्ते खड्ग कल्लोलभीषण । स्खलितो न स भूपालैस्तत्र वेलाचलैरिव ॥ ८१ ॥ कैङ्कः कि कोककेकाकी कि काक, केकिकोऽककम् । कोक कुकैकक. कैक क केकाकाकुकाङ्ककम् ॥ ८२ ॥ (एकाक्षरः) अनेकधातुरगाढ्यान्कुञ्जराजिदुरासदान् । रिपुशैलानसिमिन्दजिष्णोर्चज्रमिवावभौ ॥ ८३ ॥ जघान करवालीयघातेनारेबल बली । न नाप्ता ते निरालम्बा करे तेनावनिर्वर ॥८४ || (अर्धभ्रम ) तेन सभामधीरेण तव नाथ पदातिना । एकहेलमनेकेभ्य शत्रुभ्यो निशितासिना ॥ ८ ॥ भर याममयारम्भरञ्जिता ददताजिरम् । याता क्षमा माक्षता या मदमाररमादम ॥ ८६ ॥ (युग्मम्) (सर्वतोभद्रम्) धामा धाराजलेनेव दृष्टमातङ्गसगमाम् । अभ्युक्ष्याभ्युक्ष्य जग्राह तत्कृपाणो रिपुश्रियम् ॥ ७ ॥ देवेन्दो विवदद्वादिवाददावदवाम्बुद । दिव ददहुदावेद दुवृन्द विदैववत् ॥ ८८ ॥ (अक्षर) पीत्वारिशोणित सद्य' क्षीरगौर यशो वमन् । इन्द्रजाल तदीयासि काममाविश्वकार स' ॥ ८९ ॥ स प्रसादेन देवम्य रसादेकपटे बलम् । सपदेऽजयदेव द्विट्कम्पदेन सदेवनम् ॥ ९० ॥ (मुरजबन्ध) तेन मालवचोलाङ्गकुन्तलव्याकुले रणे । भानुनेव नम कीर्णे कि कि नो तेजसा कृतम् ॥ २१ ॥ कानना कानने नुन्ना नाकेऽनीकाङ्ककानिन । के के नानीकिनीनेन नाकीनकाकिना ननु ॥ ९२ ॥ (यक्षर) सागरे भुवि कान्तारे सगरे वा गरीयमि । त्वद्भक्ति कस्य नो दत्ते कामधेनुरिवेहितम् ॥ ९३ ॥ देवनाथमनारय भावनास्तम्भनादृते । त्वयीनासीत्स नास्तद्विड्नयी नाथमनास्तत ॥९४॥ (मुरजबन्ध) खड्गत्रासावशिष्टेऽथ प्रणष्टे विद्विषा बले । सुषेण शोधयामास रणभूमि महाबल ॥ ९५ ॥ गजवाजिजवाजिजयानुगत. स रसात्तरसात्तयशोविभवः । क्रमवन्तमवन्तमिला श्रयितु स्वयमेन्ययमेत्य भवन्तमितः ॥ ९६ ॥ चन्द्राशुचन्दनरसादपि शीतमङ्ग पीयूषपूरमसकृद्धमतीव दृष्टिः । क्वायं पुनर्वसति वैरिमहीशवश- सप्लोषणो भुवनभूषण ते प्रताप ॥ ९७ ॥ चक्रेऽरिसततिमिहाजिषु नष्टपद्मा- तिख्यातिमेकचकिताकृतिधारिणी य । तिग्मासिरिष्टमतवत्स तवावति क्षमा कि तत्परं धरणिमित्र कृतिब्रवीमि || ९८ ॥ कः शर्मदं वृजिनभीतिहर जितात्मा हर्षाय न स्मरति तेऽभिनवं चरित्रम् । संपद्गुणातिशयपस्त्य रुच तवैति कः कान्तिमानतिमुधाद्रवरोचमानाम् ॥ ९९ ॥ (इति श्लोकद्वयनिर्वतितषोडशदलकमलचित्रे कविकाव्यनामाङ्कः । यथा--कर्णिकाक्षरेण मह प्रथमदलाबदलाग्रेषु हरिचद्रकृतधर्मजिनप- तिचरितमिति' इति ।) हतमोहतमोगतेस्तव क्षणदेनेक्षणदेशशोभिन । समया समयात्स्वय तत' कमला न्वा कमलाभमैक्षत ॥ १० ॥ आतङ्कार्तिहरस्तपद्युमणिसद्भरिप्रभाजिद्वयु- ईष्टव्य हृदि चिरत्नममम शौच च पीनोन्नते । देहेऽधस हित त्वमन्दमहदि क्षुदेऽप्यतो दर्शने वल्गुर्मद्वेमहस्य रम्यमपर क्षीणव्यपाय पदम् ।। १०१ ॥ दम्भलोभभ्रमा आदिरुद्धा गुणैर्द्रष्टुमप्यक्षमादेव वक्र तव । वयित्वा ययु सुश्रुत त्वा तथा ते भजन्ते यथा नेश भक्तानपि ॥१०२॥ (अत्र श्लोकद्वयविनिर्मिते चक्रचित्रे प्रथमतृतीयषष्ठाष्टमाक्षररेखाम्रमेण कविनामाङ्कश्लोक. । यथा- 'आर्द्रदेवसुतेनेदं काव्य धर्मजिनोदयम् । रचितं हरिचन्द्रेण परम रसमन्दिरम् ॥') स्फुटमिति कथयित्वा सत्कृति प्राप्य दूते गतवति निजगेह तत्सुषेण ससैन्यः । अहितविजयलब्ध वित्तमानीय भक्त्या- नतिचिरमुपनिन्ये धर्मनाथाय तस्मै ॥ १०३ ।। लभ्या श्रीविनिहत्य संगरभुवि क्षुद्रद्विषोऽभ्युन्नता धिक्ता धर्मपरिच्युतामरमिति स्वीकारमन्दस्पृहः । तद्भर्माभरुचं दधद्वरमरिद्रव्य सदायो ददे देवोऽस्तालसमाधिभित्कृतधियां ताम्यन्महस्वी मुदे ॥ १०४ ।। (अत्र चक्रबन्धचित्रे तृतीयषष्ठाक्षररेखाम्रमेण काव्यकविनामाङ्कः । यथा-श्रीधर्माभ्युदयः । हरिचन्द्रकाव्यम् ।) इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्य एकोनविश सर्ग. । विश सग । इत्यब्दाना पञ्चलक्षाणि यावत्क्षीणक्षुद्रारातिरुद्यत्प्रभावः । देव पारावारवेलावनान्तं प्राज्यं धर्मः पालयामास राज्यम् ॥ १ ॥ रात्रौ तुङ्गे स्फाटिके सौधशृङ्गे तामास्थानीमेकदा स प्रतेने । चन्द्रज्योत्स्नान्तर्हितेऽस्मिन्प्रभावादाकाशस्था या सुधर्मेव रेजे ॥ २ ॥ जीर्ण कालाजातरन्ध्र नु पश्यन्देवस्तारादन्तुर व्योमभागम् । ज्वालालीला बिभ्रती कल्पवहेरहायोल्का निष्पन्तन्ती ददर्श ॥ ३ ॥ आविष्कतु स्फारमोहान्धकारच्छन्नं मुक्तेर्मार्गमत्यन्तदुर्गम् । आदौ दिष्टया व्यजिता या ज्वलन्ती वर्तिर्दीपस्येव शोभामभाषर्षीत् ॥ ४ ॥ व्यादायास्यं विस्फुरत्तारतारादन्तश्रेणीमीष्ममत्तुं जगन्ति । कालेनैका ब्योमि विस्तार्यमाणा जिहेवाशु श्रद्धया या चकासे ॥ ५ ॥ कान्ति. कालव्यालचूडामणे कि पिङ्गा स्थाणो?ममूर्तेर्जटा वा । ज्वाला कि वास्यैव भालाक्षवहेर्दाहायेन्दोर्धाविता कामबन्धोः ॥ ६ ॥ भूयोऽनेन त्रैपुर कि नु दाह कर्तु मुक्तस्तप्तनाराच एष । इत्याशङ्काव्याकुलं लोकचेतो या सर्पन्ती व्योमि दूरादकार्षीत् ॥ ७ ॥ कर्तु कार्य केवल स्वस्य नासौ देवो विश्वस्यापि धाता तपस्या (१) । इत्यानन्दात्तस्य नीराजनेव व्योम्ना रेजे या समारभ्यमाणा ॥ ८॥ तामालोक्याकाशदेशादुदञ्चजोतिर्वालादीपिताशा पतन्तीम् । इत्थ चित्ते प्राप्तनिर्वेदखेदो मीलच्चक्षुश्चिन्तयामास देवः ॥९॥ देव कश्चिज्योतिषा मध्यवर्ती दुर्गे तिष्ठन्नित्यमेषोऽन्तरिक्षे । यातो दैवादीदृशी चेदवस्था क स्याल्लोके नियंपायस्तदन्य. ॥ १० ॥ आयु'कर्मालानभने प्रसर्पन्नापद्वीथीदीर्घदोर्दण्डचण्डः । प्राणायामाराममूलनि भिन्दन्कैरुत्सित सह्यते कालदन्ती ॥ ११ ॥ यत्ससक्त प्राणिना क्षीरनीरन्यायेनोचैरङ्गमप्यन्तरङ्गम् । आयुश्छेदैर्याति चेत्तत्तदास्था का बाह्येषु स्त्रीतनृजादिकेषु ॥ १२ ॥ प्रत्यावृत्तिर्न व्यतीतस्य नून सौख्यस्यास्ति भ्रान्तिरागामिनोऽपि । तत्तत्कालोपस्थितस्यैव हेतोर्बघ्नात्यास्था समृतौ को विदग्ध ॥ १३ ॥ वातान्दोलत्पमिनीपल्वाम्भो विन्दुच्छायाभडुर जीवितव्यम् । तत्संसारासारसौख्याय कस्माजन्तुस्ताम्यत्यब्धिवीचीचलाय ॥ १४ ॥ सारङ्गाक्षीचञ्चलापासनेत्रश्रेणीलीलालोकसक्रामित नु । व्यालोलत्व तत्क्षणादृष्टनष्टा धत्ते नृणा हन्त तारुण्यलक्ष्मीः ॥ १५॥ हालाहेलासोदरा मन्दरागप्रादुर्भूता सत्यमेवात्र लक्ष्मीः । नो चेच्चतोमोहहेतु कथं सा लोके रागं मन्दमेवादधाति ॥ १६ ॥ विण्मूत्रादेर्धाम मध्यं बधूना तन्नि प्यन्दद्वारमेवेन्द्रियाणि । श्रोणीबिम्ब स्थूलमासास्थिकूट कामान्धाना प्रीतये धिक्तथापि ॥ १७ ॥ मेदोमज्जाशोणितै पिच्छलेऽन्तस्त्वक्प्रच्छन्ने स्नायुनद्धास्थिसधौ । साधुर्देहे कर्मचण्डालगेहे बध्नात्युद्यत्पूतिगन्धे रति क ॥ १८ ॥ इन्द्रोपेन्द्रब्रह्मरुद्राहमिन्द्रा देवा केचिद्ये नरा. पन्नगा वा । तेऽप्यन्येऽपि प्राणिना क्रूरकालव्यालाक्रान्तं रक्षितु न क्षमन्ते ॥ १९ ॥ बाले वर्षीयासमाढ्य दरिद्र धीर भीरु सज्जन दुर्जन च । अनात्येक कृष्णवर्मेव कक्ष सर्वग्रासी निविवेक. कृतान्त ॥ २० ॥ स्वच्छामेवाच्छाद्य दृष्टि रजोभिः श्रेयोरत्न जाग्रतामप्यशेषैः । दोषैर्येषा दस्युरूपैरुपात्त ससारेऽस्मिन्हा हतास्ते हताशा ॥ २१ ॥ वित्त गेहादगमुच्चैश्चितानेावर्तन्ते बान्धवाश्च श्मशानात् । एक नानाजन्मवल्लीनिदान कर्म द्वेवा याति जीवेन सार्थम् ॥ २२ ॥ छेत्तु मूलात्कर्मपाशानशेषान्सद्यस्तीक्ष्णैस्तद्यतिप्ये तपोभि । को वा कारागाररुद्ध प्रबुद्ध शुद्धात्मान वीक्ष्य कुर्यादुपेक्षाम् ॥ २३ ॥ इत्थ यावत्प्राप्य वैराग्यभाव देवश्चित्ते चिन्तयामाम धर्म. । ऊचुः स्वर्गादित्युपेत्यानुकूल देवान्तावकेऽपि लौकान्तिकास्ते ॥ २४ ॥ नि शेषापन्मूलभेदि त्वयेद देवेदानी चिन्तित साधु साधु । एतेनैक केवलं नायमात्मा ससाराब्धेरुद्धृता जन्तवोऽपि ॥ २५ ॥ नष्टा दृष्टिनष्टमिष्ट चरित्रं नष्टं ज्ञान साधुधर्मादि नष्टम् । सन्त पश्यन्त्वत्र मिथ्यान्धकारे त्वत्त सर्व केवलज्ञानदीपात् ॥ २६ ॥ तैरानन्दादित्थमानन्धमान स्वर्दन्तीन्द्रारूढ जम्भारिमुख्याः । आसेदुस्त दुन्दुभिध्वानवन्तस्ते चत्वारो निर्जराणा निकाया ।। २७ ।। दत्त्वा प्राज्यं नन्दनायाय राज्य देवोऽतुच्छप्रीतिरापृच्छय बन्धून् । दत्तम्कन्धं याप्ययानं सुरेन्द्ररारुह्यागात्सालपूर्व वनं म ॥ २८ ॥ सिद्धान्नत्वा तत्र षष्ठोपवासी मौलो मूलानीव कर्मद्रुमाणाम् । मुष्टिग्राहै पञ्चभि. कुन्तलाना वृन्दान्युच्चैरुच्चखान क्षणेन ॥ २९ ॥ केशास्तस्याधत्त माणिक्यपात्रे क्षीराम्भोधिप्रापणायामरेन्द्र । भ; मूर्धादाय मुक्तान्कथचित्को वा विद्वान्नाददीतादरेण ॥ ३० ॥ प्रालेयाशौ पुष्यमैत्री प्रयाते माघे शुक्ला या त्रयोदश्यनिन्द्या । धर्मस्तस्यामात्तदीक्षोऽपराह्ने जातः क्षोणीभृत्सहस्रेण सार्धम् ॥ ३१ ॥ तत्र त्यक्तालकृतिर्मुक्तवासा रूप बिभ्रज्जातमात्रानुरूपम् । देवो भेजे प्रावृषेण्याम्बुवाहश्रेणीमुक्तवर्णशैलोपमानम् ॥ ३२ ॥ गीत वाद्य नृत्यमप्यात्मशत्तया कृत्वा चेतोहारि जम्भारिमुख्या । देवा सर्वे प्राप्तपुण्यातिरेका नत्वार्हन्त स्वानि धामानि जग्मुः ॥ ३३ ॥ स्कन्धावारे पाटलीपुत्रनामि क्षोणीभर्तुर्धन्यसेनस्य गेहे । क्षीगन्नेनाचारवित्पाणिपात्रे कृत्वा पञ्चाश्चर्यकृत्पारण स ॥ ३४ ॥ पुण्यारण्ये प्राशुके क्वापि देशे नासाप्रान्तन्यस्तनि स्पन्दनेत्र । कार्योत्सर्ग बिभ्रदान्तचित्तो लोके लेप्याकारशङ्कामकार्षीत्॥३५॥(युग्मम्) अव्यासीनो ध्यानमुद्रामतन्द्र स्वामी रेंज लम्बमानोरुबाहु । ये निर्मना श्वभ्रगर्भान्धकृप व्यामोहान्धारतानिवोद्ध काम ।। ३६ ॥ मुक्ताहार संवदोपत्यकान्तारब्धप्रीति वीकृतानन्तवासा । देवो धुन्वन्विग्रस्थानरातीकान्तारेऽपि प्राप सौराज्यलीलाम् ॥ ३७ ।। देवोऽक्षामक्षान्तिपाथोदपाथोधारासारै सारसपत्फलाय । सिञ्चन्नुच्चै सयमारामचक्र चक्रे क्रोधोद्दामदावाग्निशान्तिम् ॥ ३८ ॥ भिन्दन्मान मार्दवेनार्जवन च्छिन्द्रन्माया नि स्पृहत्वाम्नलोभ' । मूलादेबोच्छेत्तुकाम रा चके कर्मारीणामाश्रवद्वारगेवम् ॥ ३९ ॥ कुर्वन्गुर्वी वाङान कायगुप्ति रक्षन्साक्षात्स्व समित्यसभाभि (4) वध्नन्नक्षाण्येष दीधैर्गुणोधैश्चित्र मोक्षायैव बद्धोद्यमोऽभूत् ॥ ४० ॥ नस्यारण्ये ध्याननि कम्पमूतर्वक्रस्येवामोदमानातुकामा । बद्वावासाश्चन्दनस्यव तम्धु स्वस्था स्वर स्कन्धबन्धे भुजगा ॥ ४१ ॥ दृष्ट्वात्मानं पुद्गलाद्भिन्नरूप देवो देहे न स्वबुद्धि बबन्ध । तेनात्याक्षीत्तोयशीतातपातै श्रेयोनिष्ठः काष्ठबहूरमेनम् ॥ ४२ ॥ विघ्न निघ्नन्नाक्षिपन्नेष दोषाञ्जज्ञे खामी भाजन यत्क्षमाया' । सैषा काचिच्चातुरी तस्य भर्तुश्चित्तेऽस्माक चित्रमद्यापि दत्ते ॥ ४३ ॥ आससार साहचर्यव्रतस्थ दु स्थीकुर्वनरागमागन्तुकेऽपि । योगे मैत्री पक्षपातं च मोक्षे विचित्र ख चरित्र स ऊचे ॥ ४४ ॥ तस्याशेष कर्षतो धीवरस्य स्फारीभूत मानसान्मोहजालम् । तत्पाशान्त पीड्यमानैकमीनो मन्ये त्रासान्निर्ययौ मीनकेतु. ॥ ४५ ॥ कल्पान्तोद्यवादशद्वादशात्मश्रेणीतेज पुञ्जतीव्रतेऽस्मिन् । दृग्व्याघातत्रस्तचित्तेव चक्षुनों चिक्षेप प्रत्यह मोहलक्ष्मीः ॥ ४६ ॥ चके कार्य संयमस्तस्य देहे तन्वानोऽपि ज्योतिरत्यन्तरम्यम् । माणिक्यस्येवावनीमण्डनार्थ शाणोल्लेख. सम्यगारभ्यमाण. ॥ ४७ ।। एक पात्र सौकुमार्यस्य तीने तेजःपुञ्जे तापसे वर्तमानः । चण्डज्योतिर्मण्डलातिथ्यभाजो भेजे लक्ष्मी क्षीणपीयूषरश्मे ॥ ४८ ।। भर्गादीना भमगर्वातिरेक क. श्रीधर्मे मीनकेतुर्वराक । अध्यारूढप्रौढिरमौ न कुर्याद्रनज्योति स्तम्भमम्भोनिषेक ॥ ४९ ॥ भ्रूचापेनाकर्णमाकृष्य मुक्ता खर्गस्त्रीभिस्तत्र दीर्घा कटाक्षा । हृत्सतोषाविर्भवद्वारबाणे बाणा कामस्येव वैफल्यमीयु ॥ ५० ॥ भोगे रोगे काञ्चने वा तृणे वा मित्रे शत्रौ पत्तने वा चने वा। देवो दृष्टि निर्विशेषा दधानोऽप्येक सीमासीद्विशेषज्ञताया ॥ ११ ॥ तथ्य पथ्यं चेदभाषिष्ट किचिसिद्ध शुद्ध चेदभुतान्यदत्तम् । मुक्त्वा नक्त चेदयासीत्स पश्यन्सर्वे किचित्तस्य शास्त्रानुरोधि ॥ १२ ॥ तस्यावश्य वायुरेकेन्द्रियोऽपि प्रत्यासत्तौ प्राप न प्रातिकूल्यम् । तक्कि चित्र तत्र पञ्चेन्द्रियाणा सिहादीना यन्न दु शीलभाव. ॥ १३ ॥ अन्तर्वार्दीप्यमानैस्तपोनिज्वालैर्नीत्वा दुर्जराण्याशु पाकम् । भुञ्जानोऽसौ कर्मवल्ली फलानि श्लाघ्य. स्वल्पैरप्यहोभिर्बभूव ॥ ५४ ॥ निर्व्यामोहो निर्मदो निष्प्रपञ्चो नि सङ्गोऽयं निर्भयो निर्ममश्च । देशे देशे पर्यटन्सयतानां केषा नासीन्मोक्षशिक्षकहेतु ॥ १५॥ छद्मस्थोऽसौ वर्षमेक विहृत्य प्राप्तो दीक्षाकाननं शालरम्यम् । देवो मूले सप्तपर्णद्रुमम्य ध्यान शुष्क सम्यगालम्ब्य तस्थौ ॥ १६ ॥ माधे मासे पूर्णमास्या सपुष्पे कृत्वा धर्मो घातिकर्मव्यपायम् । उत्पादान्तध्रौव्यवस्तुस्वभावोद्भासि ज्ञान केवल स प्रपेदे ॥ ५७ ॥ भित्त्वा कर्मध्वान्तमभ्युद्गतेऽस्मिन्दत्तानन्दे केवलज्ञानचन्द्रे । तत्कालोद्यदुन्दुभिध्वानदम्भाद्योमाम्भोधिर्गाढमभ्युजगर्ज ॥ १८ ॥ जातं चेतो व्योमवन्नीरजस्कं नृणा पूर्वाद्या इवाशा' प्रसेदु । प्राप द्वेषीवानिलोऽप्यानुकूल्यं कि कि नासीनिष्कलङ्क तदानीम् ॥ ५९ ॥ तन्माहात्म्योत्कर्षवृत्त्येव हर्ष बिभ्राणासौ साधुगन्धोदवृष्ट्या । तत्कालोद्यत्सस्यसपच्छलेन क्षोणी तत्राधत्त रोमाञ्चमुच्चै ॥१०॥ नित्योपात्तानङ्गसङ्ग्रामलीलासाहाय्येन व्यञ्जितात्मापराधम् । भीत्येवास्य क्रूरकदर्पशत्रो सेवा चक्रे चक्रमस्मिन्नृतूनाम् ॥ ११ ॥ भाषाभेदैस्तैश्चतुर्भिश्चतुर्धा ससारस्यापारदु खा प्रवृत्तिम् । वक्तुं चातुर्वर्ण्यसघस्य हेतोर्मन्ये देवोऽसौ चतुर्वक्र आसीत् ॥ १२ ॥ तस्य क्षीणाशातवेद्योदयत्वान्नाभूद्भुक्तिनोंपसर्ग कदाचित् । नि पन्दाया ज्ञानदृष्टेरिवापु, पक्ष्मस्पन्द स्पर्धया नेक्षणानि ॥ ६ ॥ वृद्धि प्रापुर्नाङ्गजा वा नखा वा तस्यावश्य योगनिद्रास्थितस्य । का वार्ता वा कर्मणामान्तराणा येषा रेखा नाममात्रावशेषा ॥ ६४ ॥ पादन्यासे सर्वतो न्यस्यमानप्रेसत्सद्माम्भोजलीलाशयेव । सेवानम्रप्राणिसचारलक्ष्या पादाभ्यर्ण नास्य लक्ष्मीर्मुमोच ॥१५॥ नो दौभिक्ष्य नेतयो नोपसर्गा नो दारिद्य नोपधातो न रोगा. ! तन्माहात्म्यायोजनानां शते द्वे नाभूत्किचित्वापि कर्माप्यनिष्टम् ॥ १६ ॥ नादैर्घण्टासिंहशङ्खानकाना कल्पज्योतिर्भावनव्यन्तरेन्द्रा । कर्तु सेवा ते प्रचेलुर्गुणौधैर्हत्सलग्ने कृप्यमाणा इवास्य ॥ ६ ॥ खर्गात्तत्रागच्छतामन्तराले रेजे पति. कापि वैमानिकानाम् । शुभीकर्तु कीर्तिसपत्सुधाभिर्योमेवोचैर्मश्चकाध्यासितानाम् ॥ ६८ ॥ तस्मिन्काले ता सभा धर्मनाथस्येन्द्रादेशाद्वयोनि चके कुबेर । यस्या नानारत्नमय्या प्रमाण पञ्च प्राहुर्योजनान्यागमज्ञा ॥ ६९ ॥ नेदीयस्या. प्रेयसा विप्रलम्भव्याख्यादक्षा तेन वेणी विमोच्य । धूलीजालच्छद्मना पार्श्वतोऽस्या क्षिप्त मुद्राकङ्कण मुक्तिलक्ष्म्या. ॥ ७० ॥ ते प्रत्याश वायुवेल्लङ्घजाया मानस्तम्भास्तत्र चत्वार आसन् । क्रोधादीना ये चतुर्णा निरासे ससलक्ष्म्यातर्जनीकार्यमीयु ॥ ७१ ।। तत्पर्यन्ते रत्नसोपानरम्या वाप्यो रेजुलाश्चननश्चतत्र । प्रौढेनार्हतेजसा यत्र रात्रौ कोक शोक नाप कान्तावियोगात् ।। ७२ ।। आस्य तस्या सालकान्त दधत्या शोभामङ्गे ससद वा दिदृशो । तचत्वारि स्फाटिकखच्छनीराण्यापुर्लीलादर्पणत्वं सरांसि ।। ७३ ॥ मन्दान्दोलद्वातलीलाचलोमिस्नेभ्योऽप्यने खातिका तोयपूर्णा । जैनव्याख्याज्ञातससारदु खत्रस्यनिष्कान्ताहिगर्भव रेजे ॥ ७४ ॥ अन्तीनैकैकनिष्कम्पभृङ्गप्रेतत्पुष्पा पुष्पवाटी तदूर्ध्वम् । दत्ताश्चर्या भूत्रयस्यापि भर्तुर्दष्टु लक्ष्मी स्फारिताक्षीव रेजे ॥ ७९ ॥ साल शृङ्गालम्बिनक्षत्रमालस्तस्या प्रान्ते नायमासीद्विशाल । भ्रष्ट कि तु प्रोतरल तदानीमिन्द्रक्षोभात्कुण्डल वर्गलक्ष्म्याः ॥ ७६ ।। भृगाराद्यैर्मङ्गलद्रव्यवृन्दै शङ्खध्वानै सुप्रधाननिधान । द्वारे द्वारे नि स्पृहस्यापि भर्तुविश्वैश्वर्य व्यज्यते स प्रभूतै ॥ ७ ॥ तस्यैवोच्चैर्गोपुराणा चतुर्णामन्तढे वे रेजतुर्नाट्यशाले । यत्रावर्ण शासन मीनकेतोरेणाक्षीणा लास्यमासीजनेषु ॥ ७८ ॥ द्वौ द्वौ मार्गे धूपकुम्भावभूता यद्वक्रेभ्यो निर्गता धूमराजिः । मुक्त्वा देह ज्ञातुरभ्रे भ्रमन्ती भर्तुः कर्मश्यामिकेवावभासे ॥ ७९ ॥ कृत्वा रूप दशपोतप्रमाण भीत्या कोणे कापि लोके स्थितस्य । पापस्येवोत्सारणार्थ सुगन्धो धूमस्तस्मिन्धूपजन्मोजिजुम्मे ॥ ८ ॥ कीडोद्यानान्यत्र चत्वारि ताभ्यामासन्नू+प्रोल्लसत्पल्लवानि । इन्द्रोद्यान तच्चतुर्यागवृक्षव्याजाज्जेतु यैरुदस्ता स्वहस्ता ॥ ८१ ॥ प्रेडदोलामीनसेव्याम्बुधारारायन्त्रैस्तैलतामण्डपैश्च । स्वैरक्रीडल्लोकचित्तक्षणैणास्तेऽप्यारेजु काञ्चनाक्रीडशैला ॥ ८२ ।। नानारत्नस्तम्भगोभैरथासीत्सालकारा तोरणै स्वर्णवेढी। रात्रावन्नविम्बितेन्दुग्रहोचैरास्थानीव श्रेयसो या विरेने ।। ८३ ॥ ऊर्ध्व तस्याम्तायेहसोक्षमुख्या टिक्सख्यानान्ता व वैजयन्त्यः । यासु व्योमोटेलनाकृष्टगगाभ्रान्ति चक्रु स्यूतमुक्ताफलाभा ॥ ८४ ॥ कर्णाकार गोपुगणा चतुष्क बिभ्रत्मालम्तत्पर काञ्चनोऽन्य । धर्मव्याख्यामाहती श्रोतुमिच्छन्मन्ये भेरु कुण्डलीभूय तस्थौ ॥ ८५ ॥ बान्छातीत यच्छतोऽप्यस्य पार्च वान्छामात्रत्यागिन. कल्पवृक्षा । तस्मिन्नच्चैस्नम्थुरुद्धृत्य शाग्वा का वा लज्जा हन्त निश्चेतनानाम् ।। ८६ ।। ऊर्ध्व तेभ्योऽभूञ्चतुर्गापुरामा विश्वानन्दोज्जीविनी वज्रवेदी । रेजे पतिस्तादृशाना दशाना रत्नज्योनियायसी तोरणानाम् ॥ १७ ॥ स्तूपास्तेषामन्तरन्तनवोच्चस्ते प्रत्येक रेजुरर्चामनाया । तत्रैवामन्सन्मुनीना मनोज्ञा नानाससन्मण्डपान्तुगतुङ्गा ।। ८८ || रुद्धकूरानङ्गहेतिप्रचारस्तत्प्राकार म्फाटिक प्रादरासीन् । तस्याप्यन्तश्चन्द्रकान्तप्रतिष्ठा कोष्ठास्तत्र द्वादशा मन्गरिष्ठा ॥ ८९ ॥ वीतग्रन्था कल्पनार्याऽप्यथार्या ज्योतिर्भीमा हिं स्त्रियो भावनाश्च । भौमज्योति. कल्पदेवा मनुष्यास्तिर्यग्यूथान्येषु तस्थु क्रमेण ॥ ९ ॥ ऊर्ध्व तेभ्यो वल्लभ लोचनाना स्थान दिव्य गन्धकुट्याख्यमामीत् । अन्तस्तस्योद्दाममाणिक्यदीप रेजे रम्य काञ्चन सिहपीठम् ॥ ११ ॥ रत्नज्योतिर्भासुरे तत्र पीठे तिष्ठन्देव शुप्रभामण्डलस्थ । क्षीराम्भोधे सिच्यमानः पयोभिर्भूयो रेजे काश्चनाद्राविवोच्चै ॥१२॥ गायन्नादेनेव भृङ्गागनाना नृत्यल्लोले- पल्लवानामिवौधै । कि ब्रूमोऽन्यत्तस्य वृत्तं गुणौवैर्जज्ञे रक्तो यस्य वृक्षोऽप्यशोक ॥ ९३ ॥ वृष्टिः पौष्पी सा कुतोऽभून्नभस्त संभाव्यन्ते नात्र पुष्पाणि यस्मात् । यद्वा ज्ञात द्रागनङ्गस्य हस्तादहद्धीत्या तत्र बाणा निपेतुः ॥ १४ ॥ आविर्भूतं यद्भवद्भूतभावि ज्ञानाकार तुल्यमिन्दुत्रयेण । अव्याबाधामातपत्रत्रय तत्तस्यावोचद्भूत्रयैश्वर्यलक्ष्मीम् ॥ ९५ ॥ छाया कायस्यास्य सेवोपसर्पदास्वच्चक्रणेव भामण्डलेन । क्षिप्ता नान्तश्चेत्कथ तत्प्रपेदे तीवा चेतस्तापसपत्प्रशान्तिम् ॥ ९६ ॥ रेजे मुक्तिश्रीकटाक्षच्छटामा पार्श्व पतिश्चामराणा जिनस्य । ज्ञानालोके निष्फलानामिवेन्दो सामुच्चैर्दण्डनियन्त्रितानाम् ॥ ९७ ॥ अप्युगीवै. श्रूयमाणा कुरझै. कर्णान्यर्णस्फारपीयूषधारा । आ गव्यूतिद्वन्द्वमभ्युल्लसन्ती दिव्या भाषा कस्य नासीत्सुखाय ।। ९८ ।। केय लक्ष्मी केश निःस्पृहत्व केद ज्ञान क्वास्त्यनौद्धत्यमीक् । रेरे ब्रूत द्राकुतीर्था इतीव ज्ञाने भर्तुर्दुन्दुभिव्योम्यवादीत् ॥ ९९ ।। लास्योल्लासा वाद्यविद्याविलासा गीतोद्गारा कर्णपीयूषधारा । स्थाने स्थाने तत्र ते ते बभूवुश्छायाप्यस्मिन्दुर्लभासीद्यदीया ॥ १० ॥ इति निरुपमलक्ष्मीरष्टभि प्रातिहार्य- रतिशयगुणशाली केवलज्ञानभानुः । समवसरणमध्ये धर्मतत्त्व विवक्षु सुरपरिषदि तस्थौ धर्मनाथो जिनेन्द्र ॥ १०१ ॥ इति महाकविश्रीहरिचन्द्रविरचिते वर्मशर्माभ्युदये महाकाव्ये विशतितम सर्ग । एकविश सर्ग । तत्त्व जगत्रयस्यापि बोधाय त्रिजगद्गुरुम् । तमापृच्छदथातुच्छज्ञानपण्यापणं गणी ॥ १ ॥ ततो भूतभवद्भाविपदार्थव्यक्तिसाक्षिणी । निःशेषदोषनिर्मुक्ता त्यक्तमिथ्यापथस्थितिः ॥ २ ॥ विपक्षगर्वसर्वखदूरोच्चाटनडिण्डिम । अपारपापसंभारभूधरोपद्रवाशनि ॥ ३ ॥ स्थाद्वादवादसाम्राज्यप्रतिष्ठाप्रसवश्रुति । अतुल्यधर्ममल्लोस्करास्फोटस्फुटाकृति ॥ ४ ॥ भूविभ्रमकरन्यासश्वासौष्ठम्पन्दवर्जिता । वर्णविन्यासशून्यापि वन्तुबोधविधायिनी ॥ ५ ॥ पृथक्पृथगभिप्रायवचसामपि देहिनाम् । तुल्यमेकाप्यनेकेषा स्पष्टमिष्टार्थसाधिका ॥ ६ ॥ मर्वाद्भुतमयी सृष्टि सुधावृष्टिश्च कर्णयो । प्रावर्तत ततो वाणी सर्वविद्येश्वगद्विभो ।। ७ ।। (कुलकम् ) जीवाजीवाश्रवा बन्धसवरावपि निर्जराः । मोक्षश्चेतीह तत्त्वानि सप्त स्युर्जिनशासने ॥ ८॥ वन्धान्त विनो पुण्यपापयो. पृथगुक्तित । पदार्था नव जायन्ते तान्येव भुवनत्रये ॥९॥ अमूर्तश्चेतनाचिह्न कर्ता भोक्तातनुप्रभः । ऊर्ध्वगामी स्मृतो जीव स्थित्युत्पत्तिव्ययात्मक ॥ १० ॥ मिद्धससारिभेदेन द्विप्रकार म कीर्तित । नरकादिगतमेंदात्ससारी म्याच्चतुर्विध ॥ ११ ॥ नारक सप्तधा सप्तपृथ्वीभेदेन भिद्यते । अधिकाधिकसक्लेशप्रमाणायुर्विशेषत ॥ १२ ॥ रत्नशर्करावालुकापङ्कधूमतम प्रभा । महातम. प्रभा चेति सप्तैता. श्वभ्रभूमयः ॥ १३ ॥ तत्राद्या त्रिंशता लबिलानामतिभीषणा । द्वितीया पञ्चविशत्या तृतीया च तिथिप्रमै ॥ १४ ॥ चतुथी दशभिर्युक्ता पञ्चमी त्रिभिरुल्बणै. । पष्ठी पञ्चोनलक्षण सप्तमी पञ्चभिक्लैिः ॥ १५ ॥ एव नरकलक्षाणामशीतिश्चतुरुत्तरा । विज्ञेया तासु दुःखाना न सख्या निपुणैरपि ॥ १६ ॥ पडङ्गलास्त्रयो हस्ताः सप्त चापानि विग्रहे । इयत्येव प्रमा ज्ञेया प्राणिना प्रथमक्षितौ ॥ १७ ॥ द्वितीयादिष्वतोऽन्यासु द्विगुणद्विगुणोदय । उत्सेध स्याद्धरित्रीषु यावत्पञ्चधनु शती ॥ १८ ॥ प्रमरढु खसतानमन्तातुमिवाक्षमम् । वर्धयत्यङ्गमेतेषामधोऽधो धरणीप्वत ॥ १२ ॥ एक आये द्वितीये च त्रयः सप्त तृतीयक। चतुर्थे पञ्चमे च स्युर्दश सप्तदश क्रमात् ॥ २० ॥ षष्ठे द्वाविशतिर्जया त्रयस्त्रिशच्च सप्तमे । आयुर्दु खापवरके नरके सागरोपमा ॥ २१ ॥ आये वर्षसहस्राणि दशायुरधम तत । पूर्वस्मिन्यद्यदुत्कृष्ट निकृष्ट तत्तदग्रिमे ॥ २२ ॥ कदाचिदपि नैतेषा विधिरेधयतीहितम् । दुखिनामनभिप्रेतभिवायुर्वर्धयत्यसौ ॥ २३ ॥ रौद्रध्यानानुबन्धेन बह्वारम्भपरिग्रहाः । तत्रापपादिका जीवा जायन्ते दु खखानय ॥ २४ ॥ तेषामालिङ्गिताङ्गाना सतत दु खसपदा । न कदापि कृतेष्येव सुखश्रीर्मुखमीक्षते ॥ २५ ॥ साश्रुणी लोचने वाणी गद्गदा विहल मन । स्यात्तदेषा कथं दु खं वर्णयन्ति दयालव ॥ २६ ॥ सूतवद्भिन्नमप्यङ्गं यन्मिलत्यापदे पुन । दुखाकरोत्ति मच्चित्तं तेन वार्तापि तादृशाम् ॥ २७ ॥ मधुमासासवासक्त्यावगणय्य जिनागमम् । कौलादिदाम्भिकाचार्यसपर्याकारि यत्त्वया ॥ २८ ॥ तस्येद भुज्यता पक्क फलमित्यसुरामराः । उत्कृत्योत्कृत्य तन्मास तन्मुखे प्रक्षिपन्त्यमी ॥ २९ ॥ पाययन्ति च निस्त्रिशा' प्रतप्तकललं सुहु । नन्ति बन्नन्ति मनन्ति ऋकचैारयन्ति च ॥ ३० ॥ खण्डनं ताडन तत्रोत्कर्तन यन्त्रपीडनम् । कि कि दुष्कर्मण पाकात्सहन्ते ते न दु सहम् ॥ ३१ ॥ कृता श्वभ्रगतेभेदात्तत्स्वरूपनिरूपणा । व्यावय॑ते कियानस्या भेदस्तिर्यग्गतेरपि ॥ ३२ ॥ तिर्यग्योनिदिधा जीवस्त्रसस्थावरभेदतः । सा द्वित्रिचतु पञ्चकरणा स्युश्चतुर्विधाः ॥ ३३ ॥ स्पर्शसाधारणेष्वेषु नूनमेकैकमिन्द्रियम् । वर्धते रसनं घ्राण चक्षु श्रोत्रमिति क्रमात् ॥ ३४ ॥ वर्षाणि द्वादशैवायुर्मान द्वादशयोजनम् । विवृणोति प्रकर्षण जीवो द्वीन्द्रियविग्रहः ॥ ३५ ॥ दिनान्येकोनपञ्चाशदायुस्यक्षे शरीरिणि । पादोनयोजन मान निना. प्राहु प्रकर्षत ! ३६ ॥ आयुर्योजनमानस्य चतुरक्षस्य देहिन । घण्मासप्रमित प्रोक्तं जिनै केवललोचनै ॥ ३७॥ सहस्रमेकमुत्सेधो योजनानां प्रकीर्तित । पूर्वकोटिमित चायु पञ्चेन्द्रियशरीरिणाम् ॥ ३८ ॥ पृथिवीमारुताप्तजोवनस्पतिविभेदत । अद्वितीयेन्द्रिया' सर्वे स्थावरा पञ्चकायिकाः ।। ३९ ॥ द्वाविशतिः सहस्राणि वर्षाणामायुरादिमे । द्वितीये त्रीणि सप्त स्यात्तृतीयेऽपि यथाक्रमम् ॥ ४ ॥ चतुर्थे त्रीण्यहान्येव पञ्चमस्य प्रकर्षतः । पञ्चेन्द्रियाधिकोत्सेधस्याब्दानामयुतं मतम् ॥ ४१ ॥ आर्तध्यानवशाज्जीवो लब्धजन्मात्र जायते । शीतवर्षातपक्लेशवधबन्धादिदु खभाक् ॥ ४२ ॥ इति तिर्यग्गते दो यथागममुदीरित. । मानवाना गते' कोऽपि प्रकार कथ्यतेऽधुना ॥ ४३ ।। द्विःप्रकारा नरा भोगकर्मभूभेदत स्मृताः। देवकुर्वादयस्त्रिंशत्प्रसिद्धा भोगभूमय ॥ ४४ ॥ जघन्यमध्यमोत्कृष्टभेदात्तास्त्रिविधाः क्रमात् । द्विचतु षड्धनुर्दण्डसहस्रोत्तुङ्गमानवा. ॥ ४५ ॥ तावेकद्वित्रिपल्यायु विनो भुञ्जते नरा । दशाना कल्पवृक्षाणा पात्रदानार्जित फलम् ॥ ४ ॥ कर्मभूमिभवास्तेऽपि द्विधार्यम्लेच्छभेदतः । भारताद्या पुन. पञ्चदशोक्ता कर्मभूमय ॥ ४७ ।। धनु पञ्चशतैस्तासु सपादै प्रमितोदया । उत्कर्षतो मनुष्या. स्यु पूर्वकोटिप्रमायुष ॥ १८ ॥ उत्सर्पिण्यवसर्पिण्यो. कालयोर्वृद्धिहासिनी । भरतैरावते स्याता विदेहस्त्वक्षतोदय ॥ ४९ ।। सागरोपमकोटीना कोटिभिर्दशभिर्मिता । आगमज्ञैरिह प्रोक्तोत्सर्पिणी चावसर्पिणी ॥ ५० ॥ सुखमासुखमा प्रोक्ता सुखमा च ततो बुधैः । सुखमादु खमान्यापि दु खमासुखमा क्रमात् ॥ ११ ॥ पञ्चमी दुखमा षष्ठी दुखमादुःखमा मता । प्रत्येकमिति भिद्यन्ते ते पोढा कालभेदत. ॥ १२ ॥ चतस्रः कोटयस्तिस्रो द्वे च पूर्वादिषु क्रमात् । तिसृष्वम्भोधिकोटीना मानमुक्तं जिनागमे ॥ १३॥ ऊना सहखैरब्दाना वाचत्वारिंशता तत । चतुर्थ्यम्भोधिकोटीना कोटिरेका प्रकीर्तिता ॥ ५४ ॥ पञ्चमी वत्सराणा स्यात्सहस्राण्येकविशति । नत्प्रमाणैव तत्त्वज्ञैन षष्ठी प्रतिष्ठिता ॥ ५५ ॥ घोढा षट्कर्मभेदेनते गुणस्थानभेदत । म्युश्चतुर्दश धात्रीर्या म्लेच्छा. पञ्च प्रकीर्तिता. ॥ १६ ॥ म्वभावमार्दवत्वेन वल्पारम्भपरिग्रहा । भवन्त्यत्र नरा पुण्यपापामिप्रक्षयक्रमा ॥६७ ।। नारीगर्भेऽतिबीभत्से कफामासृङालाविले ।। कुम्भोपाकाधिकासाते (१) जायते कृमिवन्नर ॥ १८ ॥ वर्णितेति गतिर्नृणा देवानामपि सपति । कियन्यपि मगनन्दोजीविनी वर्णयिग्यते ॥ ५९ ॥ भावनव्यन्तरज्योतिर्वैमानिकविभेदत । देवाश्चतुविधास्तेषु भावना दशधोदिता ॥६॥ असुराहिसुपर्णानिविद्युद्वातकुमारकाः । दिग्द्वीपस्ननिताम्भोधिकुमाराश्चेति भेदत ॥ ६ ॥ नत्रासुरकुमाराणामुत्सेध पञ्चविशति । चापानि दश शेषाणामप्युदन्वत्परायुषाम् ।। ६२ ॥ दशसप्तधनुर्माना व्यन्तरा. किनरादया । शिष्टास्तेऽष्टविधा येषामायु. पल्योपम परम् ।। ६३ ॥ ज्योतिष्का पञ्चधा प्रोक्ता सूर्यचन्द्रादिभेदतः । येषामायु.प्रमाण च व्यन्तराणामिवाधिकम् ॥ ६४ ॥ वर्षाणामयुतं भौमभावनानामिहावमम् । पल्यस्यैवाष्टमो भागो ज्योतिषामायुरीरितम् ॥ १५ ॥ वैमानिका द्विधा कल्पसंभूतातीतभेदतः । कल्पजास्तेऽच्युतादर्वाक्कल्पातीतास्ततः परे ॥ ६ ॥ सौधर्मेशाननामानौ धर्मारम्भमहोद्यमौ । सनत्कुमारमाहेन्द्रौ ब्रमब्रह्मोत्तरावपि ॥ १७ ॥ ततो लान्तवकापिष्ठौ शुक्रशुक्रोत्तरौ परौ । शताराख्यसहस्रारावानतप्राणतावपि ॥ ६८ ॥ अथारणाच्युतौ कल्पा षोडशेति प्रकीर्तिताः । इढानी तेषु देवानामायुर्मानं च कथ्यते ॥ ६९ ॥ हस्ता सप्त द्वयोर्मानं षडूर्व नाकिषु द्वयोः । चतुर्णी पञ्च चत्वारस्तदूर्वं तावता क्रमात् ॥ ७० ॥ त्रयः सार्धा द्वयोरूर्वमूर्ध्वमाझ्या द्वयोम्बय । इति षोडशकल्पानामूल अवेयकेप्वपि ॥ ७१ ॥ अधस्थेषु करौ साधं द्वौ मध्येपूर्ध्वगेपु च । त्रिषु सार्धकरास्तेन्य. परे हस्तप्रमा सुरा ॥ ७२ ॥ सौधर्मेशानयोरायु स्थितिौं सागरौ मतौ । सनत्कुमारमाहेन्द्रकल्पयो सप्तसागरा. ॥ ७३ ।। दशैव कल्पयोर्जेया ब्रह्मब्रह्मोत्तराख्ययो । निर्णीता लान्तवे कल्पे कापिष्ठे च चतुर्दश ॥ ७४ ।। षोडशैव तत. शुक्रमहाशुक्राभिधानयोः । अष्टादश शतारे च सहस्रारे च निश्चिता ॥ ७९ ॥ वर्णिता विशतिर्नूनमानतप्राणताख्ययो । उक्ता द्वाविशति प्राज्ञैरारणाच्युतयोरपि ॥ ७६ ॥ सर्वार्थसिद्धिपर्यन्तेवतो त्रैवेयकादिषु । एकैको वर्धते तावद्यावत्रिशत्रयाधिका ॥ ७७ ॥ अकामनिर्जराबालतप सपत्कयोगतः । अत्रौपपादिका भूत्वा प्रपद्यन्ते सुरा. सुखम् ॥ ७८।। विलासोल्लाससर्वख रतिकोषसमुच्चयम् । शृङ्गाररससाम्राज्यं भुञ्जते ते निरन्तरम् ॥ ७९ ॥ इति व्यावर्णितो जीवश्चतुर्गत्यादिभेदतः । संप्रत्यजीवतत्त्वस्य किचिद्रूप निरूप्यते ॥ ८० ॥ धर्माधर्मों नम. काल' पुद्गलश्चेति पञ्चधा । अजीव कथ्यते सम्यग्जिनस्तत्त्वार्थदर्शिभिः ॥ ८१ ॥ षड्दव्याणीति वर्ण्यन्ते सम जीवन तान्यपि । विना कालेन तान्येव यान्ति पञ्चास्तिकायताम् ।। ८२ ॥ धर्म स तात्त्विकैरुक्तो यो भवेद्गतिकारणम् । जीवादीना पदार्थाना मत्स्यानामुदक यथा ॥ ८३ ॥ छायेव धर्मतप्तानामश्वादीनामिव क्षिति । द्रव्याणा पुद्गलादीनामवर्म स्थितिकारणम् ॥ ८४ ॥ लोकाकाशमभिव्याप्य स्थितावेतावनिष्क्रियौ । नित्यावप्रेरकौ हेतू मूर्तिहीनावुभावपि ।। ८५ ॥ पुद्गलादिपदार्थानामवगाहैकलक्षण । लोकाकाश. स्मृतो व्यापी शुद्धाकाशो बहिस्ततः ॥ ८६ ॥ धर्माधर्मकजीवा स्युरसख्येयप्रदेशका । व्योमानन्तप्रदेश तु सर्वज्ञै प्रतिपाद्यते ॥ ८७ ॥ जीवाटीना पदार्थाना परिणामोपयोगतः । वर्तनालक्षणः कालोऽनंशो नित्यश्च निश्चयात् ।। ८८|| कालो दिनकरादीनामुदयास्तत्कियात्मक । औपचारिक एवासौ मुख्यकालस्य सूचक ।। ८९ ॥ रूपगन्धरसस्पर्शशब्दवन्तश्च पुद्गला. । द्विधा स्कन्धाणुभेदेन त्रैलोक्यारम्भहेतव ॥ ९ ॥ भूमितैलतमोगन्धकर्माणुप्रकृति क्रमात् । स्थूलास्थूलादिभेदाः स्युस्तेषा षोढा जिनागमे ॥ ११ ॥ भाषाहारशरीराख्यप्राणापानादिमूर्तिमत् । यत्किंचिदस्ति तत्सर्व स्थूलं सुक्ष्म च पुद्गलम् ॥ १२ ॥ यथागममजीवस्य कृता रूपनिरूपणा । इदानीमाश्रवस्यापि कोषमुन्मुद्रयाम्यहम् ॥ ९३ ॥ शरीरवाङ्मनःकर्मयोग एवाश्रवो मतः । शुभाशुभविकल्पोऽसौ पुण्यपापानुषङ्गतः ॥ ९४ ॥ गुरुनिह्नवदोषोक्तिमात्सर्यासादनादय । आश्रयत्वेन विज्ञेया दृग्ज्ञानावृत्तिकर्मणो ॥९५ ॥ दुःखशोकभयाक्रन्दसतापपरिदेवनैः । जीवो बध्नात्यसद्वेद्यं स्वपराभयसश्रयैः ॥ ९६ ॥ क्षान्तिशौचदयादानसरागसयमादयः । भवन्ति हेतव सम्यगसद्वेद्यस्य कर्मणः ॥ ९७ ।। केवलिश्रुतसंघार्हद्धर्माणामविवेकत । अवर्णवाद एवाद्यो दृष्टिमोहस्य संभव ॥९८ ।। कषायोदयतस्तीव्रपरिणामो मनस्विनाम् । चारित्रमोहनीयस्य कर्मण कारण परम् ॥ ९९ ।। श्वभ्रायुषो निमित्तानि बह्वा औरम्भपरिग्रहा । मायार्तध्यानतामूलं तिर्यग्योनिभवायुष ॥ १०० ॥ नरायुषोऽपि हेतु स्यादल्पारम्भपरिग्रह । सरागसंयमत्वादिनिदान त्रिदशायुष ।। १०१॥ स्याद्विसवादन योगवक्रता च निरत्यया । हेतुरशुभस्य नाम्नतदन्यस्य तदन्यथा ॥ १०२ ।। षोडशदृग्विशुद्ध्याद्यास्तीर्थकृन्नामकर्मण । स्वप्रशसान्यनिन्दाद्या नीचैर्गोत्रस्य हेतव ॥ १०३ ।। विपरीता पुनस्ते स्युरुच्चैर्गोत्रस्य साधका । अन्तराय सदानादिविघ्ननिर्वर्तनोदयः ॥ १०४ ॥ रहस्यमिति निर्दिष्ट किमप्या‌श्रवगोचरम् । बन्धतत्त्वप्रबोधोऽयमधुना विधिनोच्यते ॥ १०५॥ सकषायतया दत्ते जीवोऽसंख्यप्रदेशगान् । पुद्गलान्कर्मणो योग्यान्बन्ध स इह कथ्यते ॥ १०६ ॥ मिथ्यादृक्च प्रमादाश्च योगाश्चाविरतिस्तथा । कषायाश्च म्मृता जन्तो पञ्च बन्धस्य हेतवः ॥ १०७ ॥ प्रकृतिस्थित्यनुभागप्रदेशाना विभेदत । चतुर्विध प्रणीतोऽसौ जैनागमविचक्षणैः ॥ १०८ ॥ अष्टौ प्रकृतय प्रोक्ता ज्ञानावृतिदृगावृती । वेद्य च मोहनीयायुर्मगोत्रान्तरतराययुक् ॥ १०९॥ तद्भेदा पञ्च नव द्वावष्टाविशतिरप्यन । चत्वारो द्विचत्वारिंशद्द्वौ पञ्चापि स्मृता क्रमात् ।। ११० ॥ आदितस्तिसृणा प्राज्ञैरन्तरायस्य च स्मृता । सागरोपमकोटीना त्रिशत्कोट्य परा स्थिति ॥ १११ ॥ सप्ततिर्मोहनीयस्य विंशतिर्नामगोत्रयोः । आयुषस्तु त्रयस्त्रिंशद्विज्ञेया सागरोपमा ॥ ११२ ।। अवरावेदनीयस्य मुहूर्ता द्वादश स्थितिः । नाम्नो गोत्रस्य चाष्टौ स्याच्छेषास्त्वन्तर्मुहूर्तकम् ॥ ११३ ॥ भाव्यक्षेत्रादिसापेक्षो विपाक कोऽपि कर्मणाम् । अनुभागो जिनैरुक्तः केवलज्ञानभानुभिः ॥ ११४ ॥ ये सर्वात्मप्रदेशेषु सर्वतो बन्धभेदतः । प्रदेशा कर्मणोऽनन्ताः स प्रदेश स्मृतो बुधै ॥ ११ ॥ इत्येष बन्धतत्त्वस्य चतुर्धा वर्णितः क्रम । पदैः संह्रियते कैश्चित्संवरस्यापि डम्बर ॥ ११६ ॥ आश्रवाणामशेषाणा निरोधः सवरः स्मृतः । कर्म संव्रियते येनेत्यन्बयस्यावलोकनात् ॥ ११७ ॥ आश्रवद्वाररोधेन शुभाशुभविशेषतः । कर्म संत्रियते येन संवरः स निगद्यते ॥११६॥ (इति पाठान्तरम्) धर्मात्ममितिगुप्तिभ्यामनुप्रेक्षानुचिन्तनात् । असावुदेति चारित्रादरिषद्कजयादपि ॥ ११९ ॥ किमन्यविस्तरैरेतद्रहृस्य जिनशासने । आश्रवः संसृतेर्मूलं मोक्षमूल तु सस्वर ।। १२०॥ सवरो विवृतः सैष संप्रति प्रतिपाद्यते । जर्जरीकृतकर्माय पञ्जरा निर्जरा मया ॥ १२१॥ दुर्जर निर्जरत्यात्मा यया कर्म शुभाशुभम् । निर्जरा सा द्विधा ज्ञेया सकामाकामभेदतः ॥ १२२ ॥ सा सकामा स्मृता जैनैर्या व्रतोपक्रमै कृता । अकामा स्वविपाकेन यथा श्वभ्रादिवासिनाम् ॥ १२३ ॥ सागारमनगार च जैनेरुक्तं व्रतं द्विधा । अणुमहाव्रतभेदेन तयोः सागारमुच्यते ॥ १२४ ॥ अणुव्रतानि पञ्च स्युस्त्रिप्रकार गुणव्रतम् । शिक्षाव्रतानि चत्वारि सागाराणा जिनागमे ॥ १२५ ॥ सम्यक्त्व भूमिरेषा यन्न सिध्यन्ति तदुज्झिता । दूरोत्सारितससारार्त्यातपा व्रतपादपाः ॥ १२६ ॥ घर्माप्तगुरुतत्त्वाना श्रद्धान यत्सुनिर्मलम् । शङ्कादिदोषनिर्मुक्त सम्यक्त्व तन्निगद्यते ॥ १२७ ।। तत्र धर्म स एवाप्तैर्य प्रोक्तो दशलक्षण । आप्तास्त एव ये दोषैरष्टादशभिरुज्झिता ॥१२८॥ गुरुः स एव यो ग्रन्थैर्मुक्तो बारिवान्तरै । तत्त्व तदेव जीवादि यदुक्त सर्वदर्शिभिः ॥ १२९ ॥ शङ्काकाङ्क्षा विचिकित्सा मूढदृष्टि प्रशंसनम् । संस्तवश्चेत्यतीचारा, सम्यग्दृष्टेरुदाहृताः ॥ १३० ।। अदेवे देवबुद्धिर्या गुरुधीरगुरावपि । अतत्त्वे तत्त्वबुद्धिश्च तन्मिथ्यात्वं विलक्षणम् ॥ १३१ ॥ मधुमासासवत्याग पञ्चोदुम्बरवर्जनम् । अमी मूलगुणा सम्यग्दृष्टेरष्टौ प्रकीर्तिता ॥ १२ ॥ द्यूतं मास सुरा वेश्या पापर्धि स्तेयवृत्तिता । परदाराभियोगश्च त्याज्यो धर्मधुरधरै ॥ १३३ ॥ मोहादमूनि यः सप्त व्यसनान्यत्र सेवते । अपारे दुखकान्तारे ससारे बम्भ्रमीति स ॥ १३४ ॥ मुहूर्तद्वितया भूयस्तोयमगालितम् । शीलयेन्नवनीत च न देशविरति. क्वचित् ॥ १३५ ॥ दिनद्वयोपित तक दधि वा पुष्पितौदनम् । आमगोरससंपृक्त द्विदल चाद्यान्न शुद्धधीः ॥ १३६ ।। विद्ध विचलितस्वाद धन्यमन्यद्विरूढकम् । तैलमम्भोऽथवाव्य वा चर्मपात्रापवित्रितम् ॥ १३७ ।। आर्द्रकन्द कलिई वा मूलक कुसुमानि च । अनन्तकायमज्ञातफल सधानकान्यपि ।। १३८ ॥ एवमादि यदादिष्ट श्रावकाध्ययने सुधी । तज्जैनी पालयन्नाज्ञां क्षुत्क्षामोऽपि न भक्षयेत् ।। १३९ ।। पामभीरुर्निशामुक्ति दिवा मैथुनमप्यसौ । मनोवाक्कायसशुद्धया सम्यग्दृष्टिविबर्जयेत् ॥ १४॥ वर्तमानोऽनया स्थित्या सुसमाहितमानम' । भवत्यधिकृतो नून श्रावकसतपालने ॥ १४१ ॥ हिसानृतवच स्तेयस्त्रीमैथुनपरिग्रहात् । देशतो विरति या पञ्चधाणुव्रतस्थिति ॥ १४२ ॥ दिग्देशानर्थदण्डेभ्यो यत्रिधा विनिवर्तनम् । पोतायते भवाम्भोधौ त्रिविध तद्गुणवतम् ॥ १४३ ॥ शोधनीयन्त्रशस्त्रामिमुसलोलुखलार्पणम् । ताम्रचूडश्वमार्जारशारिकाशुकपोषणम् ॥ १४४ ॥ अङ्गारशकटारामभाटकास्फोटजीवनम् । तिलतोयेक्षुयन्त्राणां रोपणं दावदीपनम् ॥ १४५॥ दन्तकेशनखास्थित्वग्रोम्णा निन्धरसस्य च । शणलाङ्गललाक्षाय वेडादीना च विक्रयः ॥ १४६ ॥ वापीकूपतडागादिशोषण कर्षणं भुव । निलान्छन भक्षरोध पशूनामतिभारणम् ॥ १४७ ॥ वनकेलिर्जलक्रीडा चित्रलेप्यादिकर्म वा । एवमन्येऽपि बहवोऽनर्थदण्डा प्रकीर्तिता. ॥ १४८ ॥ 14 सामाजिकमधाद्य स्थाच्छिक्षात्रतमगांरिणाम् । आतरौद्रे परित्यज्य त्रिकाल जिनवन्दनात् ॥ १४९ ॥ निवृत्तिर्भुक्तभोगाना या स्यात्पर्वचतुष्टये । पोपधाख्य द्वितीय तच्छिक्षात्रतमितीरितम् ॥ १५० ॥ भोगोपभोगसंख्यान क्रियते यदलोलुपै. । तृतीय तत्तदाख्य स्याह खदावानलोदकम् ।। १५१ ।। गृहागताय यत्काले शुद्ध दान यनात्मने । अन्ते सल्लेखना वान्यतच्चतुर्थ प्रकीर्त्यते ।। १५२ ॥ व्रतानि द्वादशैतानि सम्यग्दृष्टिभिति य । जानुदप्तीकृतागाधभवा भोधि स जायते ॥ १५३ ॥ यथागममिति प्रोक्त व्रतं देशयतात्मनाम् । अनागारमत किचिह्नमस्त्रैलोक्यमण्डनम् ॥ १५ ॥ अनागार व्रतं द्वेधा बाह्याभ्यन्तरभेदत । षोढा बाह्य जिन. प्रोक्त तावत्सख्यानमान्तरम् ॥ १५५ ॥ वृत्तिसख्यानमौदर्यमुपवाप्तो रसोधनम् (८) । रह स्थितितनुक्लेशौ षोढा बाझमिति व्रतम् ॥ १५६ ॥ स्वाध्यायो बिनयो ध्यानं व्युत्सर्गो व्यावृत्तिस्तथा । प्रायश्चित्तमिति प्रोक्तं तप. षड्डिधमान्तरम् ।। १५७ ।। यास्तिसो गुप्तयः पञ्च ख्याता समितयोऽपि ताः । जननात्पालनात्पोषादष्टौ तन्मातरः स्मृताः ॥ १५८ ॥ निरूपितमिद रूप निर्जरायाः समासत. । इयमक्षीणसौख्यस्य लक्ष्मीर्मोक्षस्य वर्ण्यते ॥ १५९ ।। अभावाद्वन्धहेतूना निर्जरायाश्च यो भवेत् । निःशेषकर्मनिर्मोक्षः स मोक्ष कथ्यते जिनै ॥ १६०॥ ज्ञानदर्शनचारित्रैरुपायै परिणामिनः । भव्यस्यायमनेकाइविकलैरेव जायते ॥ १६१ ॥ तत्त्वस्यावगनिनि श्रद्धानन्तस्य दर्शनम् । पापारम्भनिवृत्तिस्तु चारित्र वर्ण्यते जिनै ॥ १६२ ।। ज्वालाकलापवद्वहेरूर्वमेरण्डबीजवत् । ततः स्वभावतो याति जीवः प्रक्षीणबन्धन ॥ १६३ ॥ लोकाग्र प्राप्य तत्रैव स्थिति वध्नाति शाश्वतीम् । ऊर्ध्व धर्मास्तिकायस्य विप्रयोगान्न यात्यसौ ॥ १६४ ॥ तत्रानन्तमसमाप्तमच्यावाधमसन्निभम् । प्राग्देहात्किचिदूनोऽसौ सुख प्रामोति शाश्वतम् ।। १६५ ।। इति तत्त्वप्रकाशेन नि शेषामपि ता सभाम् । प्रभुः प्रह्लादयामास विवखानिव पद्मिनीम् ॥ १६६ ॥ अथ पुण्यैः समाकृष्टो भव्याना निस्पृहः प्रभुः । देशे देशे तमश्छेत्तु व्यचरद्भानुमानिव ॥ १६७ ॥ दत्तविश्वावकाशोऽयमाकाशोऽतिगुरुः क्षितेः । गन्तुमित्यादृतस्तेन स्थानमुच्चैथियासुना ॥ १६८ ॥ अनपायामिव प्राप्तु पादच्छाया नभस्तले । उपकण्ठे लुलोठास्य पादयोः कमलोत्करः ॥ १६९ ॥ यत्तदा विदधे तस्य पादयोः पर्युपासनम् । अद्यापि भाजन लक्ष्म्यास्तेनायं कमलाकरः ।। १७० ॥ १५ तिलकं तीर्थकृल्लक्ष्म्यास्तस्य प्राह पुरो भ्रमत् । धर्मचक्र जगच्चक्रे चक्रवर्तित्वमक्षतम् ॥ १७१ ।। विश्वप्रकाशकस्यास्य तेजोभिर्व्यर्थता गतः । सेवार्थ सचचाराग्रे धर्मचक्रच्छलाद्रविः ॥ १७२ ॥ यत्रातिशयसंपन्नो विजहार जिनेश्वरः । तत्र रोगग्रहातङ्कशोकशङ्कापि दुर्लभा ॥ १७३ ।। निष्कलामा बभूवुस्ते विपक्षा इव सज्जनाः । प्रजा इव भुवोऽप्यासन्निष्कण्टकपरिग्रहाः ॥ १७४ ॥ के विपक्षा वराकास्ते प्रातिकूल्यविधौ प्रभोः । महाबलोऽपि यद्वायुः पाप तस्यानुकूलताम् ॥ १७५ ॥ हेमरम्य वपुः पञ्चचत्वारिंशद्धनुर्मितम् । बिभ्रद्देवै श्रितो रेजे स्वर्णशैल इवापरः ।। १७६ ॥ द्वाचत्वारिशदेतस्य सभाया गणिनोऽभवन् । नवैव तीक्ष्णवुद्धीना शतानि पूर्वधारिणाम् ॥ १७७ ॥ शिक्षकाणा सहस्राणि चत्वारि सप्तभि शतैः । सह पनि शतैस्त्रीणि सहस्राण्यधिबोधिनाम् ॥ १७८ ॥ केवलज्ञानिना पञ्चचत्वारिशच्छत्तानि च । मन पर्ययनेत्राणा तावन्ति क्षपिताहसाम् ॥ १७९ ।। सप्तैव च सहस्राणि विक्रयद्धिमुपेयुषाम् । शतैरष्टाभिराश्लिष्टे द्वे सहस्रे च वादिनाम् ॥ १८ ॥ अर्जिकाणा सहस्राणि षट्चतुर्भिः शतै सह । श्रावकाणा च लक्षे द्वे शुद्धसम्यक्त्वशालिनाम् ॥ १८१ ॥ श्राविकाणा तु चत्वारि लक्षाणि क्षपितैनसाम् । निर्जराणा तिरश्चा च सख्याप्यत्र न बुध्यते ॥ १८२ ॥ इत्याश्वास्य चतुर्विधेन महता संघेन सभूषितः सैन्येनेव विपक्षवादिवदनाकृष्टामशेषा महीम् । दृप्यन्मोहचमूं विजित्य विजयस्तम्भायमानं तदा । सम्भेदाचलमाससाद विजयश्रीर्ध‌र्मनाथः प्रभुः ॥ १८३ ॥ तत्रासाद्य सितांशुभोगसुमगा चैत्रे चतुर्थी तिथि यामिन्या स नवोत्तरैर्यमवता साकं शतैरष्टभि । सार्धद्वादशवर्षलक्षपरमारम्यायुष प्रक्षये ध्यानध्वस्तसमस्तकर्मनिगलो जातस्तदानीं क्षणात् ।। १८४ ॥ अभजदथ विचित्रैर्वाक्प्रसूनोपचारैः प्रभुरिह हरिचन्द्राराधितो मोक्षलक्ष्मीम् । तदनु तदनुयायी प्राप्तपर्यन्तपूजो- पचितसुकृतराशिः स्व पद नाकिलोक. ।। १८५ ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्य एकविंश सर्ग ।

प्रन्थकर्तु प्रशस्ति । श्रीमानमेयमहिमास्ति स नोमकानां वशः समस्तजगतीवलयावतसः । हस्तावलम्बनमवाप्य यमुल्लसन्ती वृद्धापि न स्खलति दुर्गपथेषु लक्ष्मी ॥ १ ॥ मुक्ताफलस्थितिरलंकृतिषु प्रसिद्ध- स्तत्रार्द्रदेव इति निर्मलमूर्तिरासीत् । कायस्थ एव निरवद्यगुणग्रह स- नेकोऽपि यः कुलमशेषमलचकार ॥ २ ॥ लावण्याम्बुनिधिः कलाकुलगृह सौभाग्यसद्भाग्ययोः क्रीडावेश्म विलासवासवलभी भूषास्पद संपदाम् । शौचाचारविवेकविस्मयमही प्राणप्रिया शूलिनः शर्वाणीव पतिव्रता प्रणयिनी रथ्येति तस्याभवत् ॥ ३ ॥ अर्हत्पदाम्भोरुहचञ्चरीकस्तयोः सुतः श्रीहरिचन्द्र आसीत् । गुरुप्रसादादमला बभूवुः सारस्वते स्रोतसि यस्य वाचः ॥ ४ ॥ भक्तेन शक्तेन च लक्ष्मणेन निर्व्याकुलो राम इवानुजेन । यः पारमासादितबुद्धिसेतुः शास्त्राम्बुराशेः परमाससाद ॥ ५ ॥ पदार्थवैचित्र्यरहस्यसपत्सर्वस्खनिर्वेशमयात्प्रसादात् । वाग्देवतायाः समवेदि सभ्यैर्य पश्चिमोऽपि प्रथमस्तनूजः ॥ ६ ॥ स कर्णपीयूषरसप्रवाह रसध्वनेरध्वनि सार्थवाह । श्रीधर्मशर्माभ्युदयाभिधानं महाकवि काव्यमिद व्यधत्त ॥ ७ ॥ एष्यत्यसारमपि काव्यमिद मदीय- मादेयता जिनपतेरनधैश्चरित्रै । पिण्डं मुद स्वयमुदस्य नरा नरेन्द्र- मुद्राङ्कित किमु न मूर्धनि धारयन्ति ॥ ८ ॥ दक्षैः साधु परीक्षितं नवनवोल्लेखार्पणेनादरा- द्यच्चेतः कषपट्टिकासु शतशः प्राप्तप्रकर्षोदयम् । नानाभगिविचित्रभावघटनासौभाग्यशोभास्पद तन्न काव्यसुवर्णमस्तु कृतिना कर्णद्वयीभूषणम् ॥ ९ ॥ जीयाज्जैनमिद मतं शमयतु क्रूरानपीय कृपा भारत्या सह शीलयत्वविरत श्री साहचर्यव्रतम् । मात्सर्य गुणिषु त्यजन्तु पिशुना सतोषलीलाजुष सन्तः सन्तु भवन्तु च श्रमविदः सर्वे कवीना जना ॥१०॥ समाप्तोऽयं ग्रन्थः।

"https://sa.wikisource.org/w/index.php?title=धर्मशर्माभ्युदयम्&oldid=309251" इत्यस्माद् प्रतिप्राप्तम्