धर्मसमुच्चयः
[[लेखकः :|]]


भिक्षुणा अवलोकितसिंहेन समुद्भावितः

धर्मसमुच्चयः

प्रथममुदानम्

(जितधर्मकायवर्गाः परिवर्तो ह्यनित्यता ।
अप्रमादः कामतृष्णे स्त्री च मद्येन ते दश ॥ ) ॥

(१) जितवर्गः

मङ्गलाचरणम्

॥ ओं नमो बुद्धाय ॥

प्रहीणसर्वास्रव निर्मलश्रीर्यः क्लेशजम्बालनिमग्नलोकम् ।
कृपागुणेनोदहरत्समेन प्रणम्यतेऽस्मै त्रिभवोत्तमाय ॥ १.१ ॥

ग्रन्थकारप्रतिज्ञा

सद्धर्म स्मृत्युपस्थानसूत्रवैपुल्यसागरात् ।
गाथाः समुद्धरिष्यामि लोकलोचनतत्पराः ॥ १.२ ॥

मोक्षस्यायतनानि षट्

अप्रमादस्तथा श्रद्धा वीर्यारम्भस्तथा धृतिः ।
ज्ञानाभ्यासः संताश्लेषो मोक्षस्यायतनानि षट् ॥ १.३ ॥

नव शान्तिसम्प्राप्तिहेतवः

दानं शीलं दमः क्षान्तिर्मैत्रीभूतेष्वहिंसता ।
करुणामुदितोपेक्षा शान्तिसम्प्राप्तिहेतवः ॥ १.४ ॥

नरकस्याग्रहेतवः

चापल्यं पापसंश्लेषः क्रूरता वितथं वचः ।
मिथ्यादृष्टिः प्रमादश्च नरकस्याग्रहेतवः ॥ १.५ ॥

प्रेतेषु षटुद्भवकारणानि

मात्सर्यमीर्ष्या कटुवाक्यता हि प्रमादसेवा विरतिः शुभाच्च ।
तत्त्वेष्वभिद्रोहरतं मनश्च प्रेतेषु पन्थान इहोद्भवन्ति ॥ १.६ ॥

तिर्यग्योनौ उद्भवसाधनानि

अज्ञानसेवा जड (ता) च बुद्धेः सद्धर्मनाशः प्रियमैथुनत्वम् ।
आहारशक्तिः प्रबला च निद्रा तिर्यग्गतौ च प्रवदन्ति हेतुम् ॥ १.७ ॥

कर्मफलम्

अशुभं त्रिविधं कृत्वा कायवाङ्मनसां महत् ।
उत्तरोत्तरसम्बद्धं कर्मणा सम्प्रदृश्यते ॥ १.८ ॥
बालानामपि सम्बद्धमुत्तरोत्तरमेव तत् ।
शुभञ्च त्रिविधं कृत्वा साधवो यान्ति निर्वृतिम् ॥ १.९ ॥
तस्मात्कर्मफलं मत्वा प्रमादस्य च वर्जनम् ।
श्रेयसे क्रियते बुद्धेरेतत्सुखमनुत्तमम् ॥ १.१० ॥
दानशीलवतो नित्यं सर्वसत्त्वानुकम्पिनः ।
सिद्धयन्ति सर्वशस्तुल्यास्तस्माच्छीलपरो भवेत् ॥ १.११ ॥

कस्य कार्यसिद्धिः भवति?

मैत्रीकरुणायुक्तस्य गताकांक्षस्य देहिनः ।
परानुग्रहयुक्तस्य कार्यसिद्धिर्ध्रुवं स्थिता ॥ १.१२ ॥
सन्तुष्टस्याप्रमत्तस्य सर्वसत्त्वहितैषिणः ।
रागद्वेषविमुक्तस्य कार्यसिद्धिर्ध्रुवं स्थिता ॥ १.१३ ॥
मित्रामित्रप्रहीणस्य समचित्तस्य देहिनः ।
अपायगतिभिन्नस्य कार्यसिद्धिर्ध्रुवं स्थिता ॥ १.१४ ॥
एवं च तस्य धीरस्य धर्मदानरतस्य च ।
मात्सर्येर्ष्याप्रमुक्तस्य कार्यसिद्धिर्ध्रुवं स्थिता ॥ १.१५ ॥
संवरस्थस्य शान्तस्य गुरुपूजारतस्य च ।
कार्याकार्यविधिज्ञस्य कार्यसिद्धिर्ध्रुवं स्थिता ॥ १.१६ ॥
अशठस्यातिदक्षस्य प्रियवाक्यस्य नित्यशः ।
ध्यानाध्ययनशक्तस्य कार्यसिद्धिर्ध्रुवं स्थिता ॥ १.१७ ॥
देशकालविधिज्ञस्य साध्यासाध्यं विजानतः ।
शक्योपायविधिज्ञस्य कार्यसिद्धिर्ध्रुवं स्थिता ॥ १.१८ ॥

क्रोधादिविजयसाधनमुखेन धर्मतास्वरूपनिरूपणम्

अक्रोधेन हतः क्रोधः क्षमया क्रूरता जिता ।
धर्मेण निर्जितोऽधर्मः प्रभया विजितं तमः ॥ १.१९ ॥

सत्यादेः प्रशंसा

मृषावाक्यं सत्यहतं पैशुन्यं च समाधिना ।
पारूष्यं मार्दव जितमबद्धं बन्धना जितम् ॥ १.२० ॥
प्राणातिपातो मैत्र्या च स्तेयं दानैः सदा जितम् ।
अयोनिशोमनस्कारो योनिजेन सदा जितः ॥ १.२१ ॥
अविद्या विद्यया जिता दिवसेन तथा क्षपा ।
शुक्लपक्षेण च कृष्णपक्षो (हि) सर्वशो जितः ॥ १.२२ ॥
मिथ्याकामेष्वविजितो बुद्धया तत्त्वविचारया ।
आर्याष्टाङ्गेन मार्गेण योनिजेन सदा जितः ॥ १.२३ ॥
वैशारद्यैश्चतुर्भिश्च कदर्य जितमेव तत् ।
विस्मृतिश्च हता स्मृत्या क्षणेनात्मानमेव च ॥ १.२४ ॥
अरण्यवासनियतैर्जिता रागवशा नराः ।
मेरुणा पर्वता जिता (वृक्षेण) वनमालिका ॥ १.२५ ॥
समुद्रेण जिता सर्वे तीर्था (हि) जलसम्भवाः ।
आदित्यतेजोविजिता सर्वे च ग्रहतारकाः ॥ १.२६ ॥
नित्या जिता अनित्येन दारिद्रयं दानसम्पदा ।
शाठ्यं न मार्दव जितं सत्येनानृतिको हतः ॥ १.२७ ॥
भूतेन निर्जितोऽभूतो वह्निना तरुसम्पदः ।
पिपासा विजिता तोयैर्जिघित्सा भोजनैस्तथा ॥ १.२८ ॥

वीर्यप्रशंसा

सिंहेन विजिताः सर्वे मृगाः सत्त्वाधिकाश्च ये ।
सन्तापेन महेच्छा च जिता नित्यं प्रकीर्त्यते ॥ १.२९ ॥
दया प्रशस्यते नित्यमदया नैव शस्यते ।
वीर्येण निर्जितं सर्व कौसीद्यं मोहवर्धनम् ॥ १.३० ॥

तत्त्वदर्शिपुरुषप्रशंसा ज्ञानाधिकैः सदा दान्तैः पुरुषैस्तत्त्वद(र्शि)भिः ।
विजिताः क्रूरकर्माणो मिथ्यावादाधिका नराः ॥ १.३१ ॥
बुद्धेन निर्जिताः सर्वे तीर्थ्याः कुटिलवादिनः ।
असुरा विजिता देवैर्धर्मतेयं व्यवस्थिता ॥ १.३२ ॥

॥ इति जितवर्गः प्रथमः ॥


(२) धर्मोपदेशवर्गः

गुरुः कीदृग्भवेत्?

यो हि देशयते धर्म क्षेमं निर्वाणगामिनम् ।
स सर्वबन्धनच्छेत्ता गुरुर्भवति देहिनाम् ॥ २.१ ॥
छित्त्वा मोहमयं पाशं यो हि देशयते शिवम् ।
सन्मार्गदेशकः प्रोक्तो दुर्मार्गविनिवारकः ॥ २.२ ॥
धर्मस्य प्रवरत्वं येन धर्मेण मनुजास्तरन्ति भवसागरम् ।
सद्धर्मप्रबरः प्रोक्तो न धर्मो लौकिको हि सः ॥ २.३ ॥
क्षेत्राणीमानि चत्वारि विद्यन्ते यस्य देहिनः ।
तस्येदं सफलं जन्म कथितं मार्गदेशकैः ॥ २.४ ॥
सकलेन्द्रियतां प्राप्य लब्ध्वा बुद्धस्य शासनम् ।
यो न धर्मरतो मर्त्यः स पश्चादनुतप्यते ॥ २.५ ॥
यमसायुज्यं व्यासक्तमनसां नित्यं नित्यं कामगवेषिणाम् ।
पुत्रदारप्रसक्तानामन्तकोऽभ्येति देहिनाम् ॥ २.६ ॥
चित्तस्य वशीकरणं सङ्कल्पदोषमनसं तैस्तैर्दोषैः समाकुलम् ।
चित्तं नयत्युपायेन चित्तबद्धा हि देहिनः ॥ २.७ ॥
दुर्दमस्यातिचण्डस्य सिद्धिप्रेप्सोर्विशेषतः ।
न चित्तस्य वशं गच्छेत्शत्रुभूतं हि तन्नृणाम् ॥ २.८ ॥
सश्रुतेन सुदिष्टेन भावितेनाप्यनेकशः ।
धर्मेण शाम्यते चित्तं जालिनेव यथा हयः ॥ २.९ ॥
सद्धर्मश्रवणफलं सद्धर्मश्रवणं कृत्वा पापाद्विरमते पुमान् ।
श्रेयसे प्रतिपत्तिं च नित्यमेवोपपद्यते ॥ २.१० ॥
सद्धर्मश्रवणं कृत्वा मनः प्रहलादमृच्छति ।
कुशलं चास्य सुमहत्सन्धाने सम्प्रतीक्षते ॥ २.११ ॥
श्रुत्वा भवति धर्मात्मा श्रुत्वा पापं न कुर्वते ।
श्रुत्वा कर्मफलं ज्ञात्वा निर्वाणमधिगच्छति ॥ २.१२ ॥
श्रुत्वा वेदयते धर्म श्रुत्वा बुद्धः प्रसीदति ।
श्रुत्वा धर्मं विमोक्षाय यतते पण्डितो नरः ॥ २.१३ ॥
धर्मलक्षणतत्त्वज्ञः श्रुत्वा भवति मानवः ।
तस्माच्छ्रुत्वा प्रयत्नेन बुद्धिः कार्या प्रयत्नतः ॥ २.१४ ॥
श्रुत्वा संसारविमुखां कथां सुगतदेशिताम् ।
प्रहाय तृष्णां विविधां प्रयाति पदमव्ययम् ॥ २.१५ ॥
चतुर्विधां प्रत्ययितां धर्माणां चोदमव्ययौ ।
श्रुत्वा तां ज्ञायते सर्वा पुमान् श्रद्धाविभावितः ॥ २.१६ ॥
स्कन्धायतनधातूनां यदेतल्लक्षणद्वयम् ।
श्रुत्वा तज्ज्ञायते सर्व तस्मात्धर्मपरो भवेत् ॥ २.१७ ॥
प्रबला ये त्रयो दोषाः सर्वसंसारबन्धनाः ।
ते प्रणश्यन्त्यशेषेण सद्धर्मश्रवणेन वै ॥ २.१८ ॥
प्रवृत्तेर्लक्षणं कृत्स्नं निवृत्तेश्चाप्यशेषतः ।
श्रुतिमांस्तत्प्रजानाति तस्माच्छ्रुतमनुत्तमम् ॥ २.१९ ॥
मृत्युकालोपपन्नस्य वेदनार्तस्य देहिनः ।
न व्यथा श्रुतमालम्ब्य स्वल्पापि हृदि जायते ॥ २.२० ॥
सम्यग्ज्ञानेन ये दग्धाः क्लेशवृक्षाः समन्ततः ।
न तेषामुद्भवो भूयः कदाचिदुपलभ्यते ॥ २.२१ ॥
अप्रमादविदग्धं हि श्रुतं सर्व सुखोदयम् ।
श्रेयसश्व श्रुतं मूलं तस्माच्छ्रुतपरो भवेत् ॥ २.२२ ॥
सद्धर्मश्रवणं श्रुत्वा वृद्धांश्चोपास्य पण्डितः ।
प्रयात्यनुत्तमं स्थानं जरामरणवर्जितम् ॥ २.२३ ॥
धर्मेण वर्तते श्रुत्वा दुःखान्मुच्येत वै यथा ।
श्रुत्वा भवति मैत्र्यात्मा तस्माच्छ्रेयः परं श्रुतम् ॥ २.२४ ॥
कायवाङ्मनसां बुद्धिः श्रुत्वा भवति देहिनाम् ।
तस्मात्सद्बुद्धिकामो यस्तेन श्रोतव्यमादरात् ॥ २.२५ ॥
श्रुत्वा भावं समाश्रित्य दृढवीर्यपराक्रमम् ।
तरन्ति पुरुषास्तूर्ण त्रिभव विपुलं महत् ॥ २.२६ ॥
श्रुत्वा यः पुरुषः सर्वैर्धनवानभिजायते ।
अश्रुतार्थधनैर्युक्तं दरिद्रं प्राहुस्तं बुधाः ॥ २.२७ ॥

सद्धर्मनाशफलम्

सद्धर्मधननष्टस्य गुरुणा वर्जितस्य च ।
विफलं जीवितं चेष्टं पापैरुपहतस्य च ॥ २.२८ ॥

प्रमादादीनामनिष्टफलसाधनत्वम्

प्रमादिनः कुसीदस्थ पापमित्रस्य देहिनः ।
जीवितं निष्फलं दृष्टं बीजमुप्तं यथोसरे ॥ २.२९ ॥

शास्त्रप्रामाण्यम्

श्रुतदृष्टिविनिर्मुक्तमर्थमाहुर्विचक्षणाः ।
न चक्षुर्भ्यां विनिर्मुक्तमर्थमित्यभिधीयते ॥ २.३० ॥
धर्मसेवनाग्रहः यो हि धर्म परित्यज्य अधर्ममनुतिष्ठति ।
स भैषज्यं परित्यज्य व्याधिमेवोपसेवते ॥ २.३१ ॥
सेवतां सेवतां पुंसां धर्मो भवत्यनेकशः ।
वर्षाणां समवायेन यथोद्यानं प्रवर्धते ॥ २.३२ ॥
इह वज्रासने भूमिर्न संसारेऽन्यथा भवेत् ।
बोधिचित्तसमुत्थानं बोधिप्राप्तिस्तथोत्तमा ॥ २.३३ ॥
धर्मचारी प्रशान्तात्मा कायोत्थायी समाहितः ।
अवश्यं शुभभागीस्यात्स प्रमादेन वञ्चितः ॥ २.३४ ॥
ज्ञानसेवनाग्रहः तस्माज्ज्ञानगुणान्मत्वा ज्ञानं सेवेत पण्डितः ।
नह्यज्ञानेन संयुक्तं पुमान् कश्चित्प्रतिभवेत् ॥ २.३५ ॥
धर्मानुसारिणी श्रद्धा धर्मानुसारिणी श्रद्धा यथा याति सुखावहा ।
सातिदुर्गतिसन्यक्ता व्यसनेषु महद्बलम् ॥ २.३६ ॥
प्रदीपकल्पा तमसि व्याधितानामिवौषधम् ।
अर्थानां नेत्र भूता सा दरिद्राणां महद्बलम् ॥ २.३७ ॥
भवाद्यैर्ह्रियमाणानां पूर्वभूता सुखावहा ।
प्रमादमदमत्तानां सा प्रमादविघातिका ॥ २.३८ ॥
शान्तपदप्राप्तेः फलं स हि यत्तत्पदं शान्तं निर्वाणमुनिभिर्वृतम् ।
तत्प्रापयत्यखेदेन सम्यग्ज्ञानपुरःसरम् ॥ २.३९ ॥

॥ इति धर्मोपदेशवर्गः द्वितीयः ॥


(३) कायजुगुत्सावर्गः

कायस्य स्वरूपनिरूपणम्

सत्कारैर्वृहणैर्मासैरपि शय्यासनादिभिः ।
न स्वीकर्तुमयं कायः कदाचित्केनचित्कृतः ॥ ३.१ ॥

कायस्य रिपुत्वम्

कृतघ्नस्याविदक्षस्य नित्यं रन्ध्रप्रहारिणः ।
कः कायस्य रिपोरर्थ पापं कुर्याद्विचक्षणः ॥ ३.२ ॥
रोगानी तमनर्थानां बहूना भाजनं तथा ।
अशुच्यङ्गस्य निकरं कायमित्यभिधीयते ॥ ३.३ ॥

अविज्ञेयं मरणं जीवितञ्च क्षणिकम्

उपस्थितमविज्ञेयं मरणं तत्त्वचिन्तकैः ।
जीवितं च क्षणादूर्ध्वं न गच्छति निरूप्यते ॥ ३.४ ॥

कायस्य हेयत्वम्

आयुष्कर्मार्थनिर्माणमेतं कायं त्यज्ययम् ।
अपि विद्धस्तथा शेते काष्ठलोष्ठसमो भुवि ॥ ३.५ ॥
क्षणे क्षणेऽपि कायोऽयं जीर्यते न निवर्तते ।
तथा यौवनमदैर्बाला मुहयन्ते (मुग्धचेतसः) ॥ ३.६ ॥
धनधान्यमदैर्मत्ताः कुर्वन्त्यहितमात्मनः ।
तन्नाशमुपयात्येवं स च पापेन दहयते ॥ ३.७ ॥

अधार्मिकनिन्दा

न मनुष्या मनुष्यास्ते येभ्यो धर्मो न रोचते ।
न मार्गे च स्थितास्तत्त्वे निर्वाणपुरगामिके ॥ ३.८ ॥

मनुष्ययोनेः भवसागरतरणोपायः

कथं प्राप्य हि मानुष्यं श्रेयसामालयं महत् ।
न ज्ञानप्लवमारूहय तरन्ति भवसागरात् ॥ ३.९ ॥
जीवनस्य क्षणिकता

विद्युदालातसदृशं गन्धर्वनगरोपमम् ।
सदा तद्याति रभसं जीवितं सर्वदेहिनाम् ॥ ३.१० ॥
शरीरे न मदं कुर्यात्क्षणिके भङ्गुरे सदा ।
इत्वरे चपलेऽसारे जरामरणभीरुके ॥ ३.११ ॥
ध्यायिनान्नगतं ह्येतत्शोकानामालयो महान् ।
शुभाशुभानां क्षेत्रं च शरीरमवधीयते ॥ ३.१२ ॥

सफलजीवनरहस्यम्

ज्ञानशीलदयादानैर्यस्य गात्रं विभूषितम् ।
तस्य सत्त्वैकसारस्य शरीरं सफलं मतम् ॥ ३.१३ ॥

धातुज्ञानात्मोक्षः

धातूनां मारकात्सर्वमिदं मुक्तं कलेवरम् ।
शरीरधातु विचयात्साक्षाद्भवति नेतरात् ॥ ३.१४ ॥
शरीरधातुं यो मुक्त्वा धातुष्वन्येषु रज्यते ।
स धातुकत्वशिक्षातो दुःखेनैव प्रमुच्यते ॥ ३.१५ ॥
हिरण्यधातुर्न तथा दुःखशान्त्यै हि वर्तते ।
शरीरधातुतत्त्वज्ञो यथा दुःखात्प्रमुच्यते ॥ ३.१६ ॥
दुःखाद्दुःखोदयस्तेन दुःखी न परिरक्ष्यते ।
प्रवीणो राजचौरादिभयैः सर्वैरूपद्रुतम् ॥ ३.१७ ॥
तस्मादनर्थकं नित्यं दूरतस्तं विवर्जयेत् ।
वर्जनात्सुखितो दुष्टसङ्ग्रहाद्दुःखितः पुमान् ॥ ३.१८ ॥
शरीरधातुतत्त्वज्ञो धातुलक्षणतत्त्ववित् ।
ध्यानाध्ययनसंसक्तो दहति क्लेशपर्वतान् ॥ ३.१९ ॥
तस्माच्छरीरजान् धातून् पण्डितः प्रत्यवेक्षते ।
तेषां स्वलक्षणं ज्ञात्वा मोक्षो भवति देहिनाम् ॥ ३.२० ॥

॥ इति कायजुगुप्सावर्गस्तृतीयः ॥


(४) परिवर्तवर्गः

कस्य कालः परिवर्तते

कामैरेवावितृष्णस्य तृष्णया तृषितस्य च ।
चञ्चलेन्द्रियचित्तस्य कालोऽयं परिवर्तते ॥ ४.१ ॥
अनित्यध्येयता यस्य सुखसक्तस्य देहिनः ।
स्त्रीदर्शनेन मत्तस्य कालोऽयं परिवर्तते ॥ ४.२ ॥
जातिमरणवश्यस्य मोहितस्य च तृष्णया ।
बालस्य तु जनस्यास्य कालोऽयं परिवर्तते ॥ ४.३ ॥
गतिचारकबद्धस्य उद्वेगवशगस्य च ।
प्रमादविषमूढस्य कालोऽयं परिवर्तते ॥ ४.४ ॥
औद्धत्यादिप्रसक्तस्य गात्रशोभारतस्य च ।
लाभैरतृप्तमनसः कालोऽयं परिवर्तते ॥ ४.५ ॥
पञ्चबन्धनबद्धस्य षड्भिर्व्यामोहितस्य च ।
त्रैलोक्यविधिमूढस्य कालोऽयं परिवर्तते ॥ ४.६ ॥
विनिपातानभिज्ञस्य वितर्कोपहतस्य च ।
जनस्य सक्तमनसः कालोऽयं परिवर्तते ॥ ४.७ ॥
तत्कालरमणीयेषु परिणामहितेषु च ।
कामेषु सक्तमनसः कालोऽयं परिवर्तते ॥ ४.८ ॥
पूर्वदुःखानभिज्ञस्य दिव्यसौख्यरतस्य च ।
विप्रयोगानभिज्ञस्य कालोऽयं परिवर्तते ॥ ४.९ ॥
कर्मजालेन बद्धस्य मनस्येव विचेष्टिनः ।
सत्पथात्परिभ्रष्टस्य कालोऽयं परिवर्तते ॥ ४.१० ॥
भवदोषानभिज्ञस्य तृष्णया मूढचेतसः ।
मोहान्धकारमग्नस्य कालोऽयं परिवर्तते ॥ ४.११ ॥
कामैकपाशबद्धस्य निःसहायस्य देहिनः ।
देवीगणविमूढस्यं कालोऽयं परिवर्तते ॥ ४.१२ ॥
इन्द्रियाद्व्यपकृष्टस्य सत्पथभ्रामितस्य च ।
त्रैधातुकरसज्ञस्य कालोऽयं परिवर्तते ॥ ४.१३ ॥
संवरासंवरज्ञस्य व्यापादबहुलस्य च ।
नष्टसम्बुद्धमार्गस्य कालोऽयं परिवर्तते ॥ ४.१४ ॥
हिताहितवहिर्गस्य कार्याकार्यजडस्य च ।
क्रीडाबाल सदृशस्य कालोऽयं परिवर्तते ॥ ४.१५ ॥
नदीप्रस्त्रवणोच्चेषु वनोपवनभूमिषु ।
(सं)क्रीडातत्परस्यास्य कालोऽयं परिवर्तते ॥ ४.१६ ॥
विमानगिरिपृष्ठेषु धर्माकरवनेषु च ।
रमतः कामभोगेषु कालोऽयं परिवर्तते ॥ ४.१७ ॥
कर्मधर्म विपाकेषु निरासक्तस्य देहिनः ।
केवलाहारसक्तस्य कालोऽयं परिवर्तते ॥ ४.१८ ॥

शरीरस्थितस्यापि शरीरानभिज्ञता

कर्मणायुः परिश्रान्तं त्रैधातुकमिदं सदा ।
भ्रमन्ति चक्रवन्नित्यं न च विन्दन्ति बालिशाः ॥ ४.१९ ॥

जगतः दोषानभिज्ञता

विनिपातोच्छ्रु यमयं यो नामारोहते जगत् ।
न च दोषावधेयत्वं प्रकुर्वन्ति विमोहिताः ॥ ४.२० ॥

धीरस्य कामपरिवर्जनं सौख्यहेतुः

एतत्(तु) परमं सौख्यं यत्कामपरिवर्जनम् ।
वीतकांक्षस्य धीरस्य गतशोकस्य तापिनः ॥ ४.२१ ॥

मुनीनां चरमपदप्राप्तिफलम्

तदादिमध्यनिधने कल्याणं क्षेममुत्तमम् ।
यद्प्राप्यमुनयः श्रान्ताश्चरन्ति विगतज्वराः ॥ ४.२२ ॥

दुःखहेतवः कामाः

सत्कामजं भवेत्सौख्यं विनिपातगतं तु तत् ।
न हि कामविशेषं च किञ्चिद्दुःखविपाकजम् ॥ ४.२३ ॥
तस्मात्कामेषु मतिमान्न लुभ्येत्कथञ्चन ।
ते हि संसारदुःखानां हेतुभूताः सुदारुणाः ॥ ४.२४ ॥
वनोपवनशैलेषु पद्माकरवनेषु च ।
विभ्रान्तास्तृष्णया बालाः पतन्ति सह दैवतैः ॥ ४.२५ ॥

शुभकर्मासक्तेः उपदेशः

काञ्चनेषु (च) शैलेषु वैदूर्यशिखरेषु च ।
क्षीयते हि शुभं कर्म यतस्व सह दैवतैः ॥ ४.२६ ॥
कल्पवृक्षेषु रम्येषु नदीप्रस्त्रवणेषु च ।
चरतस्तैः शुभं क्षीणं यतस्व सह दैवतैः ॥ ४.२७ ॥
भूमिभागेषु रम्येषु रत्नाकरवनेषु च ।
न शुभं ते सदा चीर्ण यतस्व सह दैवतैः ॥ ४.२८ ॥
पञ्चात्मकेन वीर्येण मनःप्रहलादकारिणा ।
हतस्य गतकालस्य यतस्व सह दैवतैः ॥ ४.२९ ॥

देवानां हितानभिज्ञता

कामं संसक्त मनसैर्नित्यं विषयतत्परैः ।
न ज्ञायते हितं देवैर्यदमन्त्राहितं भवेत् ॥ ४.३० ॥

देवनिन्दा

अल्पशिष्टमिदं पुण्यं च्यवनं समुपस्थितम् ।
गन्तव्यमन्यत्र सुरैः सुकर्मफलभोजिभिः ॥ ४.३१ ॥
ये नित्यं शुभसंसक्ताः कुर्वन्ति वा शुभं सदा ।
तेषां विसदृशो हेतुर्मूर्खाणां हि विवर्तते ॥ ४.३२ ॥

के मृत्युं प्रतीक्षन्ते

भुक्त्वा मृत्युं प्रतीक्षन्ते ते जनाः काममोहिताः ।
शुभशीलतमोऽज्ञानाः सर्वदा न परायणाः ॥ ४.३३ ॥
भुक्त्वा मृत्युं प्रतीक्षन्ते ते जनाः काममोहिताः ।
ये न कर्मविपाकस्य ज्ञानं रोषवधे रताः ॥ ४.३४ ॥
भुक्त्वा मृत्युं प्रतीक्षन्ते ते जनाः काममोहिताः ।
प्रज्ञापयन्ति न समा स्तृष्णाग्निपरिवारिताः ॥ ४.३५ ॥
भुक्त्वा मृत्युं प्रतीक्षन्ते ते जनाः काममोहिताः ।
विप्रयोगकृतं दुःखं ये न पश्यन्ति दारुणम् ॥ ४.३६ ॥
भुक्त्वा मृत्युं प्रतीक्षन्ते ते जनाः काममोहिताः ।
स्त्रीजनासक्तहृदया न विन्दन्ति पुनर्भवम् ॥ ४.३७ ॥
भुक्त्वा मृत्युं प्रतीक्षन्ते ते जनाः काममोहिताः ।
विपत्तिव्याधिशोकेभ्यो नोद्विजन्ति कथञ्चन ॥ ४.३८ ॥
भुक्त्वा मृत्युं प्रतीक्षन्ते ते जनाः काममोहिताः ।
ये पापमित्रसंसर्ग प्रकुर्वन्ति महारूषम् ॥ ४.३९ ॥
भुक्त्वा मृत्युं प्रतीक्षन्ते ते जनाः काममोहिताः ।
भावितं चेतसा यैर्न न च तत्त्वप्रवेशिता ॥ ४.४० ॥
भुक्त्वा मृत्युं प्रतीक्षन्ते ते जनाः काममोहिताः ।
येन सर्वास्ववस्थासु संसारभयभीरवः ॥ ४.४१ ॥
भुक्त्वा मृत्युं प्रतीक्षन्ते ते जनाः काममोहिताः ।
कार्याकार्येषु ये नित्यं न सुभाषितचेतसः ॥ ४.४२ ॥
भुक्त्वा मृत्युं प्रतीक्षन्ते ते जनाः काममोहिताः ।
ये न तत्त्वधियो नित्यं सर्वभूतहिते रताः ॥ ४.४३ ॥
भुक्त्वा मृत्युं प्रतीक्षन्ते ते जनाः काममोहिताः ।
ये शरीर सुखार्थेन धर्म हिंसन्ति मोहिताः ॥ ४.४४ ॥

पण्डितलक्षणम्

एकान्तमनसा नित्यं शुभं कार्यं प्रयत्नतः ।
अशुभं च सदा वर्ज्यमेतत्पण्डितलक्षणम् ॥ ४.४५ ॥

विनिपातसाधनानि

क्षयं यातं च यत्शीलं स्पृष्ट्वा यः समुपागतः ।
प्रमादावञ्चितोऽवश्यं विनिपातो भविष्यति ॥ ४.४६ ॥

विषयिणः परिवर्तनशीलता न तु विषयाणाम्

गता गच्छन्ति यास्यन्ति देवेशाश्चैव सर्वतः ।
तिष्ठन्ति शिखरे रम्ये नानारत्नविभूषिते ॥ ४.४७ ॥
वैदूर्यशिखरा रम्यास्तथान्ये वनमालिनः ।
विषयास्तादृशा एव जनस्तु परिवर्तते ॥ ४.४८ ॥
वनोपवनरम्याणि भूमिभागानि सर्वशः ।
तिष्ठन्त्यविकलान्येव जनस्तु परिवर्तते ॥ ४.४९ ॥
वैदूर्यमयनालानि काञ्चनानि विशेषतः ।
पद्माकराणि तान्येव जनस्तु परिवर्तते ॥ ४.५० ॥
सरांसि सरितो रम्याः पक्षिसङ्घैर्निरन्तरम् ।
तथैवाविकला ह्येते जनस्तु परिवर्तते ॥ ४.५१ ॥
विमानानि रथाश्चैव हर्म्याणि च तथैव च ।
तिष्ठन्त्यविकला ह्येते जनस्तु परिवर्तते ॥ ४.५२ ॥
परिवर्तनं लोकस्य विषयैर्वञ्चितस्य च ।
तथापि नामलोकस्य नोद्वेगो हृदि जायते ॥ ४.५३ ॥
अभ्यासेन खरी भूतं चित्तं संसारचारिणम् ।
येन मन्ये महद्दुःखं हृदये नैव वर्तते ॥ ४.५४ ॥
शूलिकेन यथा बद्धाः पशवो गृहपञ्जरे ।
एकैकशो विनश्यन्ति शेषाणां नास्ति सम्भ्रमः ॥ ४.५५ ॥
सुखाय कामिनामेव इयं भूमिरवस्थिता ।
च्युताश्चैवोपपन्नाश्च तथामी बालिशाः सुराः ॥ ४.५६ ॥

विषयोन्मुखानां मरणानभिज्ञत्वम्

प्रमादाय हताः सत्त्वा मृत्युः क्षणिकदुःखदः ।
नावबुद्धयन्ति मरणं पशुवद्वीतसम्भ्रमाः ॥ ४.५७ ॥
ते पश्चाद्दीर्घमनसः कालस्य वशमागताः ।
पश्चात्तापमयो वह्निर्धक्ष्यते निष्प्रतिक्षयः ॥ ४.५८ ॥
दारुणं निष्प्रतीकारमवश्यं रूपदेहिनाम् ।
मरणं कालवशगं तद्विदित्वागमं चरेत् ॥ ४.५९ ॥

विप्रयोगान्ताः सर्वे संयोगाः

समागमाः प्रियालोके वियोगाश्चाप्रियाः सदा ।
संयोगो विप्रयोगान्तो धर्मतेयं सनातना ॥ ४.६० ॥
क्षणे लवे मुहूर्ते च दिवारात्रौ तथाध्वनि ।
मरणं चिन्तयेद्धीरस्तस्य नास्ति प्रतिक्रिया ॥ ४.६१ ॥

गतकल्मषा एव शान्तिमधिगच्छन्ति

स्मृतिमग्न्यां प्रशंसन्ति येषां मरणसंभवा ।
श्रेयसैकपरां शान्ति प्रयान्तिं गतकल्मषाः ॥ ४.६२ ॥
मृत्योरर्थमनुस्मृत्य दोषोऽयं कस्य सम्मतः ।
निर्दोषं हि मनः सर्वं शान्तं भवति नित्यशः ॥ ४.६३ ॥

तथागतैः अप्रमादपरं श्रेष्ठमुक्तम्

अप्रमादपरं श्रेष्ठमिदमुक्तं तथागतैः ।
यन्मृत्योः स्मरणं नित्यमशुभानां च वर्जनम् ॥ ४.६४ ॥

॥ इति परिवर्तवर्गश्चतुर्थः ॥


(५) अनित्यतावर्गः

सुखं क्षयान्तम्

क्षयान्तं हि सुखं सर्व न सुखं विद्यते ध्रुवम् ।
संसृजेन्न सुखं तस्मात्यदीच्छेत्सुखमात्मनः ॥ ५.१ ॥

मृत्युः सर्वानपि आकर्षति

गच्छतां तिष्ठतां चैव हसतां क्रीडतामपि ।
अविसह्यो महावेगो मृत्युर्नश्यति दारुणः ॥ ५.२ ॥
न तत्स्थ मिहामुत्र यत्रासौ प्रतिपद्यते ।
तथापि नाम संमूढा जनयित्वा वशंगतः ॥ ५.३ ॥
(न बालं न युवानं वा) न स्थविरमेव वा ।
गृहस्थमगृहस्थं वा यदासौ नापकर्षति ॥ ५.४ ॥
सुखितं दुःखितं वापि गुणवन्तं तथैव च ।
व्रतस्थमव्रतस्थं वा यदासौ नापकर्षति ॥ ५.५ ॥
दुःशीलं शीलवन्तं च (दानिनं च तथोत्तमम्) ।
राजानं चोत्तमं चापि यदासौ नापकर्षति ॥ ५.६ ॥
दैवं वा नारकं वापि तिर्यञ्च प्रतजं तथा ।
प्रमत्तमप्रमत्तं वा यदासौ नापकर्षति ॥ ५.७ ॥
कामधातूपपन्नं वा रूपधातौ स्थितञ्च यः ।
आरुप्यधातूपपन्नं वा यदासौ नापकर्षति ॥ ५.८ ॥
कर्मपाशो जरादण्डो व्याधिदण्डो महावनम् ।
रक्तोपमो मृत्युरयं सत्त्वानादाय गच्छति ॥ ५.९ ॥
एवंविधे प्रतिभये मृत्यौ परमदारुणे ।
(उपस्थिते प्रवर्तन्ते) सुराः कामविमोहिताः ॥ ५.१० ॥

पतनान्तं सर्वसुखं सन्त्यजेत्

यद्दुःखं च्यवमानस्य देवलोकात्सुरस्य च ।
नरके यद्भवं दुःखं विप्रयोगपुरःसरम् ॥ ५.११ ॥
विषमाक्षिकसंयुक्तं यथान्नं चापि (शोभनम्) ।
(ततो) देवगतं सौख्यं पतनान्तं विसर्जयेत् ॥ ५.१२ ॥
क्षीणपुण्यस्य दीनस्य स्वदारैर्वर्जितस्य च ।
यद्दुःखं च्यवमानस्य तस्यौपम्यं न विद्यते ॥ ५.१३ ॥
सुकृतक्षीणमन्दस्य द्विपस्येव गतत्त्विषः ।
शाम्यति देवस्य यद्दुःखं महद्दुःखं प्रजायते ॥ ५.१४ ॥

देवस्यापि च्यवनम्

तृष्णाविषयवृद्धस्य शोकोपहतचेतसः ।
मन्दवाग्देहचेष्टस्य देवस्य च्यवनाद्भयम् ॥ ५.१५ ॥

दुःखस्य विषयतरत्वम्

यथा यथा सुखास्वादाः कामा परमवञ्चकाः ।
(तथा) तथा भवत्येव तेषां दुःखं महत्तरम् ॥ ५.१६ ॥
यतमानस्य यद्दुःखं देवलोकान् प्रजायते ।
तस्यान्तरेण नरकं कलां नार्हति षोडशीम् ॥ ५.१७ ॥
च्यवनान्तं देवलोकं मरणान्तं तदा भुवि ।
दृष्ट्वा दुःखं (भवत्येव श्रेयसे क्रियतां मनः) ॥ ५.१८ ॥

सौख्यं पतनान्तम्

पतनान्तं सदा सौख्यं नास्ति लोकस्य नित्यजाः ।
तद्बुद्ध्वा कारणं सर्व श्रेयसे क्रियतां मनः ॥ ५.१९ ॥

सर्व दुःखान्तम्

सर्वे क्षयान्ता निचया पतनान्ता समुच्छ्रयाः ।
संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् ॥ ५.२० ॥
जातस्य मरणं नित्यं न तस्यास्तीति नित्यता ।
न भूतारावितानेन त्रिषु धातुषु दृश्यते ॥ ५.२१ ॥
गर्भमेके विनश्यन्ति तथैके सूतिकागृहे ।
परिसर्पणकाश्चैके तथैव (च विनश्वराः) ॥ ५.२२ ॥

मरणं ध्रुवम्

उदयास्तं च गमनं भास्करस्य प्रदृश्यते ।
तथा जातस्य सर्वस्य स्थितं मरणमग्रतः ॥ ५.२३ ॥

सर्व सुखं क्षयान्तम्

क्षयान्तं हि सुखं सर्व यो न विन्दति मोहधीः ।
स पश्चान्मरणे प्राप्ते (दुःखाय जनिभाग्भवेत्) ॥ ५.२४ ॥
कुशलं कार्य(करणं कुशली च) प्रियः सदा ।
सुखं हि धर्माचरणं कथयन्ति मनीषिणः ॥ ५.२५ ॥
अनित्यमध्रुवं सर्व परिणामे कटुः सदा ।
संसारः कथितो बुद्धेर्हेतुस्तत्त्वविचारणे ॥ ५.२६ ॥
देवाः सुखप्रमत्ता ये तेषां सुखमशाश्वतम् ।
च्यवमानस्य च यद्दुःखं देवलोकात्सुरस्य हि ॥ ५.२७ ॥
तस्योपमानं नैवास्ति नरकान्नरकं हि तत् ।
किमेते नावबुध्यन्ते पतनान्तं सदा सुखम् ॥ ५.२८ ॥

अजरामरवल्लोकं पश्यन्ति सुखमोहिताः ।

च्युत्युपपत्तिमल्लोकः संख्या तस्य न विद्यते ।
न चोद्विजन्ति पुरुषास्तृष्णया परिवञ्चिताः ॥ ५.२९ ॥

अभियाति सदा जन्म त्वरितं याति यौवनम् ।

संयोगो विप्रयोगश्च सहजः परिदृश्यते ।
विमूढा नानुपश्यन्ति विषयैः परिवञ्चिताः ॥ ५.३० ॥

तृष्णाविवशा देवाः च्यवन्ति

च्यवन्ति देवाः विवशास्तृष्णया परिमोहिताः ।
सा भूमिस्तानि पद्मानि वनानि विविधानि च ॥ ५.३१ ॥

सर्वपदार्थानामापातरमणीयत्वम्

शिखराग्राणि रम्याणि रत्नवन्ति महान्ति च ।
सरांसि नद्यो विविधा रत्नपाषाणभूषिताः ॥ ५.३२ ॥
वृक्षा विचित्रकुसुमाः पङ्क्तिभिर्विविधैः स्थिताः ।
हर्म्याग्राणि च रम्याणि रत्नवन्ति महान्ति च ॥ ५.३३ ॥
कल्पवृक्षा हेममया केचिद्वैदूर्य निर्मलाः ।
राजतास्तपनीयाश्च विमिश्रा वररोहिणः ॥ ५.३४ ॥
भ्रमरैरूपगीताश्च विभान्ति कमलाकराः ।
विभूषणानि रम्याणि देवार्हाणि च सर्वतः ॥ ५.३५ ॥

सर्व क्षणिकम्

सर्वमेतत्तथैवास्ति जनस्तु परिवर्तते ।
मायाबुद्बुदफेनाभं गन्धर्वनगरोपमम् ॥ ५.३६ ॥
सुखं सर्वस्य देवस्य तृष्णया वञ्चितस्य हि ।
स विनाश्य जनं सर्व भ्रामयित्वा भवार्णवे ॥ ५.३७ ॥

तृष्णैव दुःखमूलम्

तृष्णा विषाग्निसदृशा लोकानामत्र तिष्ठति ।
अवितृप्ता कामभोगैरपि तप्ता सुखोद्भवा ॥ ५.३८ ॥
कालानलेन निर्दग्धा क्व ते देवगणाः गताः ।
सर्वथाधिगता येयं तृष्णा लोकवितन्विनी ॥ ५.३९ ॥
यया विमोहिता देवाः कालस्य वशमागताः ।
देवासुरा नरा यक्षा नरके यान्ति जङ्गमाः ॥ ५.४० ॥

कालपाशयोजितं त्रैधातुकमिदम्

गच्छन्ति विवशाः सर्वे कालपाशं दुरासदम् ।
त्रैधातुकमिदं सर्व कालपाशेन योजितम् ॥ ५.४१ ॥

तृष्णाविमोहिताः मरणं न पश्यन्ति

न च पश्यन्ति विवशास्तृष्णामोहेन मोहिताः ।
अनेन हि यथा देवाः शतशोऽथ सहस्त्रशः ॥ ५.४२ ॥
गताः कालाग्निनिर्दग्धा विषयैर्धनसंभवैः ।
परस्य दृश्यते मरणमात्मनो नैव दृश्यते ॥ ५.४३ ॥
पश्चात्ते व्यसने प्राप्ते विन्दन्ते दुःखमात्मनः ।
प्रमादकलुषं चेतो विषयाभिरतं सदा ॥ ५.४४ ॥
न विन्दन्ति ध्रुवं मृत्युं देहिनां सहजस्थितम् ।
सुखोत्तरमनाशस्य प्रमादाभिरतस्य च ॥ ५.४५ ॥
मृत्युसैन्यमुपैतीदं प्रमाथि विषसन्निभम् ।
न मन्त्रौषधकर्माणि न देवा नासुरास्तथा ॥ ५.४६ ॥

कालपाशबद्धस्य न कोऽपि त्राता

कालपाशेन बद्धस्य त्रातारो न भवन्ति ते ।
रजसा गुण्ठितं वक्त्रमात्मनो नैव विन्दति ॥ ५.४७ ॥

तृष्णाया हेयत्वे हेतुः

प्राप्तेश्च्यवनभूतोऽयं मृत्युः पश्चाद्भविष्यति ।
लोलुपस्य सदा यत्नैरवितृप्तस्य तृष्णया ॥ ५.४८ ॥
सहसाभ्येति मरणं यन्नदृष्टं सुखार्थिनाम् ।
अयं तवाग्रहो दुःखं मृत्युना प्रेषितो महान् ॥ ५.४९ ॥
अस्मादनन्तरं मृत्युर्भविष्यति सुदारुणः ।
महागिरिवरादस्मात्वनोपवनभूषितात् ॥ ५.५० ॥

बद्धानरा विषयगा स्वकर्मफलभोगिनः ।

क्रीडाविहारिणस्तावत्क्वचित्तृष्णासुखं न हि ।
तर्ष्यया तृष्णया मूढाः पतन्ति विवशा भुवि ॥ ५.५१ ॥
धूमस्यानन्तरं वह्निर्यथा भवति नित्यशः ।
तथा च्यवनलिङ्गस्य पृष्ठतश्च्यवनं स्थितम् ॥ ५.५२ ॥
जात्या जात्या ध्रुवं मृत्युश्चारोग्ये सति रुक्स्थिता ।
सम्पत्तौ व्यसनप्राप्तियौवने सहजा जरा ।
सर्वैः प्रियैर्वियोगश्च न संयोगो ध्रुवं स्थितः ॥ ५.५३ ॥

धर्मतायाः महत्त्वम्

धर्मतेयं सदालोके सम्यग्बुद्धेन देशिता ।
उभयस्य क्षयो नाशो जनस्यो परिवर्तते ॥ ५.५४ ॥
जातौ सत्यां यथा मृत्युरवश्यं स्थित एव हि ।
क्षीयते सुकृतं कर्म आयूंषि क्षणिकानि हि ॥ ५.५५ ॥

संवरादिकं भजध्वम्

संवर धर्मविनये भजध्वं पुरुषोत्तमाः ।
अभ्येति यौवनं सर्वं जीवितं चानुगच्छति ॥ ५.५६ ॥

सर्वस्य नाशशालित्वम्

नश्यन्ति सर्वदा सर्वा मा प्रमादे मनःकृथा ।
न नित्यं लभ्यते स्वर्गो न नित्यं क्षणसम्पदा ॥ ५.५७ ॥
यस्य यावन्नाभिपतनं तावत्क्षिप्रं (प्र)युज्यताम् ।
(तस्य जाते हि पतने तत्प्रयोगो वृथा भवेत्) ॥ ५.५८ ॥
अयं स हि द्रुमवनो नानारत्नविभूषितः ।
लतागह्वरसंच्छन्नः पद्माकरविभूषितः ॥ ५.५९ ॥
जाम्बूनदमयैश्शुद्धैः प्रासादैः रत्नचित्रितैः ।
नानाविधैः प्रस्त्रवणैर्लताभिरुपशोभितः ॥ ५.६० ॥
कर्मसाक्षीजनस्यास्य भित्वा गगनमुच्छ्रितः ।
कल्पाग्निविरतो मेरुः सर्वथा न भविष्यति ॥ ५.६१ ॥
किं पुनर्ये सुरास्तत्र फेनबुद्बुदसन्निभाः ।
उत्पद्यन्ते विनश्यन्ति प्रमादमदमोहिताः ॥ ५.६२ ॥
सुखदुःखमनन्तं च स्वेच्छाकामफलोद्भवम् ।
देवलोकाद्यथा देवाः पतन्ति नरके पुनः ॥ ५.६३ ॥

तद्दुःखं परमं कटु

शरीरमानसैदुःखैर्विद्यमानेषु सर्वतः ।
न तच्छक्यं प्रमत्ते स्यात्तद्दुःखं परमं कटु ॥ ५.६४ ॥
वियोगदुःखं दुःखनामग्रतः परिपठ्यते ।
तच्चदेवगतौ नित्यमग्रतः सम्प्रवर्तते ॥ ५.६५ ॥
सर्वप्रियैर्मनापैश्च विप्रयोगो भविष्यति ।
न च देवाः प्रपश्यध्वं मरणान्तं हि जीवितम् ॥ ५.६६ ॥
च्युतिकाले तु सम्प्राप्ते विह्वलेन्द्रियचेतसा ।
जानीध्वं तत्परं दुःखं यदवश्यं भविष्यति ॥ ५.६७ ॥

सर्वं क्षणिकम्

अकालचक्रप्रतिमं गन्धर्वनगरोपमम् ।
त्रिभवे संभवं सर्व फेनबुद्बुदसन्निभम् ॥ ५.६८ ॥
यः फेनराशौ संमूढः कुर्याच्छादनसंस्तरम् ।
स मूढः संस्कृते कुर्यादभिस्वादं भ्रमात्मकम् ॥ ५.६९ ॥

मृत्युमहिमा

न देवा न नरा यक्षा नासुरा गरुडास्तथा ।
त्रायन्ते मृत्युसमये कर्मणा परितप्यताम् ॥ ५.७० ॥
यावन्नायाति समये मृत्युराजः सुदारुणः ।
तावत्तु सुकृतं कार्य मा पश्चात्परितप्यथ ॥ ५.७१ ॥
यद्भूतकामजं सौख्यं प्राकृतं विषयोद्भवम् ।
मृत्युकाले समुत्पन्ने तिष्ठन्ति न बुधर्षमा ॥ ५.७२ ॥
किं करिष्यन्ति सौख्यानि किं स्त्रियः किञ्चबान्धवाः ।
मृत्युना ह्रियमाणस्य देवलोकात्समन्ततः ॥ ५.७३ ॥
स्थिरास्ता भूमयः सर्वा वनोपवनभूषिताः ।
मृत्युरज्ज्वा विबद्धश्च त्वन्तु कालेन नीयसे ॥ ५.७४ ॥
आकाशे जलदा यद्वद वायुना समुदीरिताः ।
संश्लिष्टाश्च वियुज्यन्ते संसारे प्राणिनस्तथा ॥ ५.७५ ॥
ऋतौ ऋतौ यथा पुष्पमागतैर्दृश्यते नरैः ।
व्यतीते तु ऋतौ सर्वे प्रतियान्ति यथागताः ॥ ५.७६ ॥
यथा काले समुत्पन्ने मोदन्ते सुकृतैः सुराः ।
व्यतीते तु शुभे काले प्रतियान्ति यथागताः ॥ ५.७७ ॥
ऋतौ ऋतौ यथा वृक्षे पर्णजायतेऽनेकशः ।
व्यतीते तु शुभे काले शीर्यते तत्समन्ततः ॥ ५.७८ ॥
यथा पर्णोपमादेतन्न सौख्यमभयं भवे ।
शीर्यते सततं सौख्यं नासौख्यं विद्यते ध्रुवम् ॥ ५.७९ ॥
प्राबृट्काले यथा वर्षमाकाशे न निवर्तते ।
तथा सौख्यमिदं सर्व गच्छति न निवर्तते ॥ ५.८० ॥
बर्हिणां च यथा नादो वायुना समुदीरितः ।
श्रूयते तत्प्रणाशाय तथा सौख्यमिदं स्मृतम् ॥ ५.८१ ॥
यथा हि ज्वलने क्षिप्तं ध्रुवं कालं प्रदहयते ।
तथा वहन्युपमः कालः काष्ठवच्चरतां स्मृतः ॥ ५.८२ ॥
आगताश्च गताश्चैके शतशोऽथ सहस्त्रशः ।
संवेगो न भवत्येषा तृष्णया मोहितास्तथा ॥ ५.८३ ॥
यथा यथा महासौख्यं स्वयं भोगो यथा यथा ।
तथा तथा महद्दुःखं पतनान्तोद्भवं ध्रुवम् ॥ ५.८४ ॥

जात्यादि दुःखपरम्परा

जातिर्दुःखा जरा दुःखा मरणं दुःखमेव च ।
प्रियैश्च सह विश्लेषो दुःखस्यैषा परम्परा ॥ ५.८५ ॥

मृत्युना न बिभेत्

एकस्य पतनं दृष्ट्वा कथं नोद्विजते जनः ।
ममापि पतनं ह्येतत्सर्वपापैर्भविष्यति ॥ ५.८६ ॥
यः पश्यति भयं दूरात्प्रतिपत्तौ च वर्तते ।
(स)म्प्राप्ते मृत्युसमये न विभेति गतव्यथः ॥ ५.८७ ॥
विभुज्यमानो दौनैश्च मृत्युः स्वजनबान्धवैः ।
यद्दुःखं मृत्युसमये तन्न शक्यं प्रभाषितुम् ॥ ५.८८ ॥
पतनान्तं हि मरणं पतमानो यथा गिरिः ।
निष्प्रत्यनीकं बलवत्पुरुषानपकर्षति ।
संश्लिष्यते महावेगः सम्प्रहारी च सर्वदा ॥ ५.८९ ॥
तं ज्ञात्वा मा प्रमादेषु स्तुबध्वं देवसत्तमाः ।
संश्लेषयति विश्लेषं यौवने च सदा जरा ॥ ५.९० ॥
जीविते च सदा मृत्युः पदमेतत्सदा स्थितम् ।
अनित्येनाग्निनावश्यं दग्धब्यो यत्र गोचरः ॥ ५.९१ ॥
कल्पान्ते किं पुनर्देवा ये फेनकदलीसमाः ।
न तदस्ति भवेत्किञ्चिद्यद्ज्ञानं संस्कृतं चलम् ॥ ५.९२ ॥
यन्नित्यं (च) सुखं वा स्यादेतत्स्थानं न विद्यते ।
उपस्थितमिव ज्ञेयं मरणं सर्वजन्तुभिः ॥ ५.९३ ॥
यस्मात्तस्य प्रतीकारः सर्वोपायैर्न शक्यते ।
रूपं क्षणिकमेतेषां वयोऽपि क्षणिकं तथा ॥ ५.९४ ॥
क्षीयते च तथा सौख्यं न च बुद्धयन्त्यमेधसः ।
यदा तत्सर्वमेतेषामनेकं शुभलक्षणम् ॥ ५.९५ ॥
जन्मतः कालचक्रेण परिपाटया विनाशितम् ।
तथैवैतत्पुरा नष्टमनेकशतलक्षणम् ॥ ५.९६ ॥
तथैतदपि जन्मैषां मृत्युराजो हरिष्यति ।
प्रमादमनसां ह्येषां नित्यं सुखविहारिणाम् ॥ ५.९७ ॥
निधनाय कालपाशोऽयमभ्येति सुखनाशकः ।
सुखारोग्यबलप्राणप्रियविश्लेषकारकः ॥ ५.९८ ॥
बलवन्मृत्युराजोऽसौ समीपमुपसर्पति ।
यः समीपगतो ह्येषां प्रमत्तानामनेकशः ॥ ५.९९ ॥

सुखनाशः सुनिश्चितः

जीवितं सह सौख्येन त्वरितं नाशयिष्यति ।
दीर्घकालमिदं ध्वस्तं प्रमादापहताः सुराः ॥ ५.१०० ॥
नावबुद्धयन्ति मोहान्धाः सौख्येन प्रतिबोधिताः ।
यदा हीनप्रभाह्येते विह्वलेन्द्रियचेतसः ॥ ५.१०१ ॥
यमलोकं पतिष्यन्ति तदा ज्ञानस्य तत्फलम् ।
जीयते बत कालोऽयं क्षणिकं च यथा सुखम् ॥ ५.१०२ ॥
तथापि रक्तमनसो नावबुद्धयन्त्यचक्षुषः ।
रम्याद्रम्यतरं यान्ति नित्यं सुखविहारिणः ॥ ५.१०३ ॥
प्रयास्यन्ति यथा हयेते मृत्युराजो हरिष्यति ।
जरा जातिविपत्तीनां यो न मूढो विषीदति ॥ ५.१०४ ॥
स पश्चात्मृत्युसमये तप्यते (हीनचेतसा) ।
सुखं देवेषु सम्प्राप्य (तदेतद्) गुणसम्मतम् ॥ ५.१०५ ॥
कृतहुतं विनाशान्तं क्षणिकं जीवितं चलम् ।
यथा हि यद्विनाशान्तं तथैषामपि जीवितम् ॥ ५.१०६ ॥
अचिरेणापि कालेन भविष्यति न संशयः ।
यावन्नायाति मरणं यावद्बुद्धिरनाविला ॥ ५.१०७ ॥

मनसा धर्मरतिः कार्या

तावद्धर्मरतं धार्य मनोबलेन धीमता ।
सर्वजीवितनाशाय सर्वसौख्यक्षयाय च ॥ ५.१०८ ॥

प्रियवियोगः निश्चितः

सर्वप्रियवियोगाय मृत्युराश्रयमेति च ।
तस्मिन्नाप्ते महाध्याने मृत्युः परमदारुणः ॥ ५.१०९ ॥
नान्यत्त्राणमृते धर्मात्तस्माद्धर्मरतो भवेत् ।
उपपन्नस्य देवस्य या प्रीतिरुपपद्यते ॥ ५.११० ॥
नासौ च्यवनदुःखस्य कलामर्हति षोडशीम् ।
मृत्युकाले समुत्पन्ने न कश्चित्कस्यचित्तथा ॥ ५.१११ ॥

सर्वस्य नाशत्वम्

न च गच्छन्तिमप्येकं पदमेकं हि गच्छति ।
यदा जातं तदारम्य नरो मृत्युपरायणः ॥ ५.११२ ॥
नानामोहपरीतस्तु भयमेतन्न विद्यते ।
यदा ते च्यवनं प्राप्ते भवभोगकरं परम् ॥ ५.११३ ॥
तदा विन्दति मूढात्मा यद्भयं मृत्युजं महत् ।
विषयोरगसन्दष्टा तृष्णा विषविमोहिता ॥ ५.११४ ॥
न विन्दन्ति सदा देवाश्च्यवनान्ते महद्भयम् ।
च्यवन्ति च तथा दुःखमुत्पादयन्ति देहिनाम् ॥ ५.११५ ॥
यथोपपत्तिश्च्यवनं देवानां सम्प्रजायते ।
कर्मवायुसमुद्भ्रान्तं प्रयोगेण च दुःखितम् ॥ ५.११६ ॥
पुरुषं नयते मृत्युरवशं (सुखवञ्चितम्) ।
न मातरो न पितरो न मित्राणि न बान्धवाः ॥ ५.११७ ॥
सहायतां व्रजन्तीयं पुरुषं कालचोदितम् ।
असहायो जनश्चायं जनः प्रकृतिवञ्चितः ॥ ५.११८ ॥

मन एव पाशबन्धनम्

केवलं तु मनःपाशैर्बन्धनैर्बध्यते जनः ।
न जनः स्वजनश्चेह त्राता भवति कस्यचित ॥ ५.११९ ॥
गृहीत इव केशेषु मृत्युना धर्ममाचरेत्
मृत्युकाले समुत्पन्ने स्वजनोऽपि यथा जनः ।
यस्त्वं पश्यसि देवानां सुखमेतन्महोदयम् ॥ ५.१२० ॥
तत्प्रसह्यमहादेवो मृत्युराजो हरिष्यति ।
त्वरितं याति जन्मेदं न च विन्दति बालिशः ॥ ५.१२१ ॥
पश्चात्तु व्यसने प्राप्ते प्रतिविन्दन्ति दुःखिनः ।
यदि दुःखाद्भयं त्वरितं यदि मृत्युभयश्च यः ॥ ५.१२२ ॥
धर्मे हि क्रियतां बुद्धिरेवं सुखमवाप्स्यथ ।
विनाशान्तं सदा सौख्यमनित्यं सर्वतश्चलम् ॥ ५.१२३ ॥

देवत्वं पतनान्तम्

सर्वदेवकृतं सौख्यं न च विन्दन्ति मोहिताः ।
अभूत्वा च च्यवन्त्येते भूत्वावश्यं हि चञ्चलाः ॥ ५.१२४ ॥
देवाः पतनभावाय धर्मतेयं व्यवस्थिता ।
प्रमत्ताः कामभोगेषु ये देवाश्चलमानसाः ॥ ५.१२५ ॥
न पश्यन्ति सुरास्तीव्रं व्यसनान्तं हि जीवितम् ।
यदैव जायते देवस्तदैव मरणाय सः ॥ ५.१२६ ॥

श्रेयसे मतिः कर्त्तव्या

दिवसान्ते यथा रात्रिरवश्यं प्रतिपद्यते ।
दिवसं जीवितं प्रोक्तं रात्रिः स्थान्मरणोपमा ॥ ५.१२७ ॥
तस्मात्तदुभयं ज्ञात्वा श्रेयसे क्रियतां मनः ।
तदेतदर्थ नृणां हि स्त्रीरागवशवर्तिनाम् ॥ ५.१२८ ॥
तदिष्टं मृत्युसैन्येन प्रसहयमवमर्दितम् ।
भावाभावादिभिर्मूढान् वञ्चयित्वा स्त्रियो नरान् ॥ ५.१२९ ॥
प्रयान्ति मृत्युसमये स्वकर्मफलभोगिनः ।
पद्मोपवनशैलेषु नदीनां निर्झरेषु च ॥ ५.१३० ॥
बहुशः क्रीडनं कृत्वा कूपायाभिगताः प्रियाः ।
अवश्यम्भावि मरणमवश्यं च वियोगिता ॥ ५.१३१ ॥
तथापि नाम पुरुषा नित्यं रागवशानुगाः ।
सुखितं दुःखितं वा(पि) जीर्णमन्यत्र यौवनम् ॥ ५.१३२ ॥

मृत्युराजोऽवमर्दति

दुष्कुलीनं कुलीनं वा मृत्युराजोऽवमर्दति ।
सुरूपं वा विरूपं वा बलवन्तं तथाबलम् ॥ ५.१३३ ॥
सनाथं नष्टनाथं वा मृत्युराजोऽवमर्दति ।
राजानं वा तथा मृत्युः गृहिणं वा तथा यतिम् ॥ ५.१३४ ॥
क्रूरं वा मृदुकं वापि मृत्युराजोऽवमर्दति ।
निर्धनं वा दरिद्रं वा सगुणं निर्गुणं तथा ॥ ५.१३५ ॥
स्त्रियं वा पुरुषं वापि मृत्युराजोऽवमर्दति ।
प्रवासिनं गृहस्थं वा जले वापि स्थलेस्थितम् ॥ ५.१३६ ॥
स्थितं वा गिरिशृङ्गेषु मृत्युराजोऽवमर्दति ।
जागरन्तं तथा सुप्तं भुञ्जानं वा तथा स्थितम् ॥ ५.१३७ ॥
प्रमाथी सर्वलोकस्य मृत्युराजोऽवमर्दति ।
भूमिस्थं (वा) विमानस्थं विदेशस्थं तथा गृहे ॥ ५.१३८ ॥
क्रकचः कालचक्रोऽयं मृत्युराजोऽवमर्दति ।
भाग्यवन्तं तथा धन्य निस्त्रिशं (चैव) धर्मिकम् ॥ ५.१३९ ॥
रोगिणं स्वस्थदेहं वा मृत्युराजोऽवमर्दति ।
चण्डं सुशीलिनं चापि कदर्य धनिनं तथा ॥ ५.१४० ॥
प्रमत्तमप्रमत्तं वा मृत्युराजोऽवमर्दति ।
नारकेयं तथा प्रेतं तिर्यञ्चो मनुजं तथा ॥ ५.१४१ ॥
अनिवृत्तबलोत्साहो मृत्युराजोऽवमर्दति ।
कामधातौ च ये देवा रूपधातौ च ये स्थिताः ॥ ५.१४२ ॥
तान् सर्वान् हि प्रतिबलान्मृत्युराजोऽवमर्दति ।
आरूप्येषु च ये देवाः समापत्तिनिवेशकाः ।
तान् सर्वानपि वै देवान्मृत्युराजोऽवमर्दति ॥ ५.१४३ ॥

सर्व विनाशान्तम्

यद्जातं संस्कृतं किञ्चिद्तद्विनाशान्तमेव हि ।
तन्नास्ति संस्कृतं किञ्चिद्यस्य नाशो च विद्यते ।
मृत्योर्बलमिदं ज्ञात्वा कामदोषं च सर्वतः ॥ ५.१४४ ॥
तृष्णया वञ्चनं चापि विरमध्वं भवार्णवात् ।
तदैतद्व्यसनं मत्वा मृत्योरपि चलाचलम् ॥ ५.१४५ ॥

सुदान्तं क्रियतां चित्तम्

सुदान्तं क्रियतां चित्तं येनेदं भ्राम्यते जगत् ।
वनोपवनशैलेभ्यो विमानेभ्यश्च सर्वतः ॥ ५.१४६ ॥
सर्वदेवाः पचिष्यन्ति कालाग्निविनिपातिताः ।
प्रमादमनसो मूढा भूयो विषयजिहिमताः ॥ ५.१४७ ॥
तृष्णापाशेन सम्बद्धा देवाः यास्यन्ति दुर्गतिम् ।
रभसं जीवितं सौख्यं प्रयाति खलु देहिनाम् ॥ ५.१४८ ॥
न च विन्दन्ति विबुधा जात्यन्धा इव सत्पथम् ।
जलबुद्बुदसंकाशं जीवितं सर्वदेहिनाम् ॥ ५.१४९ ॥
नदीतरङ्गचपलं यौवनं व्यतिवर्तते ।
अनित्या (हि)कटाक्षेक्षाप्रदुःखास्तुषिताः सुराः ॥ ५.१५० ॥

रागस्य हेयत्वम्

निर्वायत्यवशो दीनो दीपः स्नेहक्षयादिव ।
कर्मक्षयपरिक्षिप्तो द्वादशारो महाबलः ॥ ५.१५१ ॥
धर्मचक्रो भवत्येष निपाती स्यान्न चञ्चलः ।
विचित्रविषयारम्या अनेकसुखमण्डिताः ॥ ५.१५२ ॥

कालग्रासाः सर्वे भवन्ति

तुषिताः पतन्ति विवशाः कालस्य वशमागताः ।
कालस्य वशमापन्ना यथा रोहन्ति पादपाः ॥ ५.१५३ ॥
ते पुनः कालमासाद्य भवन्ति विगतत्विषः ।
यथा कालं समापद्य भवन्ति सुखिताः सुराः ॥ ५.१५४ ॥
पुनस्तमैव संसृत्य पतन्ति विवशा हि ते ।
कर्मकालं समासाद्य लोकोऽयं परिवर्तते ॥ ५.१५५ ॥
सुखं व्रजति दुःखं हि कालस्य वशमागतः ।
यद्वृत्तं प्राक्शुभं कर्म तच्च दुष्टमहोदयम् ॥ ५.१५६ ॥
तदिदं भुञ्जते स्वर्गं क्षीयते च ततः पुनः ।
सहेतुकस्य सर्वस्य क्षणिकस्य विशेषतः ॥ ५.१५७ ॥
अनित्यतापरामर्शो नासौ भवति सर्वतः ।
ये भावाः संस्कृता नित्याः सर्वे ते विप्रलोभिनः ॥ ५.१५८ ॥
विप्रलोभ्य जनं याति धर्मतेयं व्यवस्थिता ।
शीघ्रस्रोता यथा नद्यस्तथा सौख्यं शरीरिणाम् ॥ ५.१५९ ॥
क्षणिकं जीवितं सर्व न च विन्दन्ति बालिशाः ।
जरा व्याधिश्च मृत्युश्च विपत्तिः कर्मसंक्षये ॥ ५.१६० ॥
भवन्त्येतानि देवानां नित्यानां कामचारिणाम् ।
नायुर्ध्रुवं भवत्येव न सौख्यं त्रिषु धातुषु ॥ ५.१६१ ॥
न (च) विन्दन्ति विवशा देवाः कामेन मोहिताः ।
वर्षधारा यथाकाशे दुःस्था भवति सर्वतः ॥ ५.१६२ ॥
तथा सौख्यमिदं सर्व वर्षधारोपमं सदा ।
वायुना पांसवो यान्ति अन्योन्य परिघट्टिताः ॥ ५.१६३ ॥
भ्राम्यते गगनेऽवश्यस्तथा श्लेषः शरीरिणाम् ।
सुचिरमपि संरम्यं नित्यता नास्ति देहिनाम् ॥ ५.१६४ ॥
अचिन्त्यार्थे सौख्यमिदं न च विन्दन्ति बालिशाः ।
वातेरितं तु यत्सौख्यं विनाशान्तं भविष्यति ॥ ५.१६५ ॥

सुखस्य दुःखमिश्रितत्वम्

विनाशं नैव बुध्यन्ति कामिनश्चित्तवञ्चिताः ।
दुःखमिश्रं सुखमिदं प्रच्छन्नमिव विद्यते ॥ ५.१६६ ॥
पद्ममालापरिच्छिन्नो विषपूर्णो यथा घटः ।
ओदनं विषसम्मिश्रं मरणान्तं (हि) तत्तथा ॥ ५.१६७ ॥
तथा सौख्यमिदं सर्व तस्मात्तत्परिवर्जयेत् ।
आदौ मध्ये तथा चान्ते नरकाय भविष्यति ॥ ५.१६८ ॥

उत्पादस्थितिभङ्गानि सर्वाणि वस्तूनि

उत्पादस्थितभ्ङ्गान्तं सर्व संस्कृतमुच्यते ।
सर्व च संस्कृतं सौख्यं ननु भट्टारमेव तत् ॥ ५.१६९ ॥
भट्टारञ्च विलासश्च (सु)व्ययक्षणिकं तथा ।
सुखं च जीवितं सर्व तस्मात्तत्परिवर्जयेत् ॥ ५.१७० ॥
आदौ मध्ये तथा चान्ते श्रेयस्येव मनः सदा ।
सुदान्तः शुद्धचितस्य मृत्युकाले न सीदति ॥ ५.१७१ ॥

मरणस्यावश्यम्भावित्वम्

अवश्यम्भावि मरणं प्रियस्य च वियोगता ।
न च चिन्तयतः काले विषये विप्रलोभिनः ॥ ५.१७२ ॥
जरामरणचक्रं तमविषह्यं सुदारुणम् ।
पादपान् देवगान् सत्त्वान्न च बुद्धयन्त्यचक्षुषः ॥ ५.१७३ ॥

सर्वस्य जातस्य च्यवनं भवति

च्यवमानस्य देवस्य विकलेन्द्रियचेतसः ।
यद्दुःखं सुकरं तस्य नौपम्यमिह विद्यते ॥ ५.१७४ ॥
यथा यथा महत्सौख्यं तृष्णोपहतचेतसः ।
तथा तथा महद्दुःखं च्यवमानस्य दुःसहम् ॥ ५.१७५ ॥
कृत्वा हि संस्कृतं कर्म न ज्ञात्वा कर्मणः स्थितिः ।
मृत्युकाले समुत्पन्ने पश्चात्तापेन दहयते ॥ ५.१७६ ॥

मृत्योः पूर्वमेव स्वहितमाधेयम्

यावन्नाप्येति मरणं यावच्च क्षणसम्पदः ।
तावत्स्वहितमाधेयमेष मार्गः सुखावहः ॥ ५.१७७ ॥
च्यवनं देवलोकेषु मरणं नरभूमिषु ।
विदित्वा कः पुमानास्थां कुर्यात्सोपद्रवे भवे ॥ ५.१७८ ॥

सर्व विनाशि

तैलवर्तिप्रणाशेन दीपनाशो यथा ध्रुवम् ।
कर्मक्रिया तथा कस्य विनिपातः सुरालयात् ।
भित्तिनाशो यथावश्यं चित्तनाशो ध्रुवंस्थितः ॥ ५.१७९ ॥
कर्मनाशात्तथा सौख्यमवश्यं विनिपद्यते ।
क्षीणपुण्याः निपत्यन्ते देवाः सर्वे सुरालयात् ॥ ५.१८० ॥
अनित्यतैषां सर्वेषां सत्त्वानां विनिपातिका ।
मृत्युः पिवति भूतानि जरा पिवति यौवनम् ॥ ५.१८१ ॥
व्याधिः पिवति चारोग्यं न च लोकोऽवबुध्यते ।
उपपन्नाः सुबहुशः प्रतीताश्चाप्यनेकशः ॥ ५.१८२ ॥
जायते जीर्यते चायं च्यवने चोपपद्यते ।
न क्षणोऽस्ति मुहूर्तो वा परिवर्तस्तथापि वा ॥ ५.१८३ ॥
यत्र मृत्युर्विलम्बेन न च लोकोऽवबुध्यते ।
उपपन्नास्तु बहुशः प्रतीताश्चाप्यनेकशः ॥ ५.१८४ ॥
यन्न मृत्युविलम्बः स्यान्न च लोकोऽवबुध्यते ।
अनित्यं जीवितं सर्व न विलम्बि च यौवनम् ॥ ५.१८५ ॥
सर्वभूतान्यनित्यानि न च लोकोऽवबुध्यते ।
अन्ते क्रमेण नश्यन्ति भावाः क्षणविलम्विनः ॥ ५.१८६ ॥
सम्बद्धाः कर्मसूत्रेण न च लोकोऽवबुध्यते ।
देवकोटिसहस्त्राणि वनोपवनसेविनाम् ॥ ५.१८७ ॥
निमीलितानि कालेन न च लोकोऽवबुध्यते ।
पङ्काभावचरा देवाः प्रमत्ता भोगतृष्णया ॥ ५.१८८ ॥
यास्यन्ति विलयं सर्वे न च लोकोऽवबुध्यते ।
फेनबुद्बुदसङ्काशं स्वप्नद्रव्योपमं सुखम् ॥ ५.१८९ ॥
क्षयं प्रयाति शीघ्रं च न च लोकोऽवबुध्यते ।
सर्वस्य सर्वथा सर्वो विनाशो नियतो भवे ॥ ५.१९० ॥
न च बालस्य संसारान्निर्वेदमुपपद्यते ।
न सर्वः सर्वथा सर्व सर्वोपायैः प्रयत्नशः ।
संत्राता भवने प्राप्ते मृत्युकाले सुदारुणे ॥ ५.१९१ ॥

मृत्युरित्यभिधीयते

व्युच्छेत्ता सर्वसौख्यानां दुःखनामाकरो महान् ।
विश्लेषः सर्वबन्धानां मृत्युरित्यभिधीयते ॥ ५.१९२ ॥
भयोपनेता भूतानां दुःखानामुदधिः समः ।
व्यामोहकर्त्ता बुद्धीनां मृत्युरित्यभिधीयते ॥ ५.१९३ ॥
सञ्छेत्ता जीवितानामिन्द्रियाणां च नाशकः ।
अमृश्यः सर्वभूतानां मृत्युरित्यभिधीयते ॥ ५.१९४ ॥
अधृष्यः सर्वभूतानामजेयः सर्वकर्मणाम् ।
विनाशः सर्वसत्त्वानां मृत्युरित्यभिधीयते ॥ ५.१९५ ॥
अवश्यम्भावि तत्त्वानामन्तकं सर्वदेहिनाम् ।
निकायभागनाशोऽयं मृत्युरित्यभिधीयते ॥ ५.१९६ ॥
सदेव यक्षगन्धर्वपिशाचोरगरक्षसाम् ।
कालचक्रविनाशी (च) मृत्युरित्यभिधीयते ॥ ५.१९७ ॥
असंयमी प्रमाथी च बह्निवत्सर्वदेहिनाम् ।
क्रूरश्चाविनिवर्त्त्यश्च मृत्युरित्यभिधीयते ॥ ५.१९८ ॥
स्कन्धायतननाशश्च आरुप्यस्याथ चेतसः ।
कालधर्मो महावेशो मृत्युरित्यभिधीयते ॥ ५.१९९ ॥
श्रेयसे मतिः करणीया न तु प्रमादे
स एव धा(त)वे शीघ्रं विनिपाताय देहिनाम् ।
श्रेयसे क्रियतां यत्नो मा प्रमादेः मनः कृथाः ॥ ५.२०० ॥

गतं जीवनं नायाति

यथा (हि शीघ्र) गमनं पक्षिणां पवनस्य वा ।
तथा शीघ्रतरं याति जीवितं सर्वदेहिनाम् ॥ ५.२०१ ॥
गतो निवर्तते वायुर्निवर्तन्ते च पक्षिणः ।
जीवितं यन्निरुद्धं तु तस्य नागमनं पुनः ॥ ५.२०२ ॥
द्रुतं क्षीयन्ति कर्माणि द्रुतमभ्येति चान्तकः ।
अवश्यम्भावि विश्लेषं न च विन्दन्ति देवताः ॥ ५.२०३ ॥
अनिर्वायो महावेगश्चतुःसत्यनिवर्हणः ।
अवश्यम्भावि बलवानेष मृत्युरुपैति च ॥ ५.२०४ ॥
श्रुति प्रमादिनो देवाः सुखेन परिवञ्चिताः ।
न विन्दन्ति महद्दुःखं यदवश्यं भविष्यति ॥ ५.२०५ ॥
संस्कृतस्य हि सर्वस्य समयस्य विशेषतः ।
विनाशो भवति (चा)सौ धर्मतेयं भवे भवे ॥ ५.२०६ ॥
जरायौवननाशाय प्राणनाशाय चान्तकः ।
विपत्तिभूतनाशाय स्थिता (वै) नाशहेतवः ॥ ५.२०७ ॥
एवंविधे महाघोरे व्यसने (वै) महद्भये ।
प्रमादिनो हि यद्देवाः नूनमेते च चेतनाः ॥ ५.२०८ ॥
अनागतभयं यो हि पश्यति ज्ञानचक्षुषा ।
स पण्डित इति ज्ञेयो विपरीतस्तु बालिशः ॥ ५.२०९ ॥

कर्मक्षये सुखस्य नाशः

विमूढमनसः सर्वे वञ्चिताः स्वेन चेतसा ।
कर्मक्षये तु नश्यन्ति दीपा स्नेहवशादिव ॥ ५.२१० ॥
अनेकविषयाणां च इदं सौख्यमनुत्तमम् ।
भुक्त्वा कर्मक्षयो भूत विनिपातो भविष्यति ॥ ५.२११ ॥

अनित्यत्वानवगमादधर्मरतिः
जलतरङ्गचपलं जीवितं याति देहिनाम् ।
न च बुद्बुदनिःसारमवगच्छन्ति बालिशाः ॥ ५.२१२ ॥
फेनराशिश्चिरं तिष्ठेदुपायैः कतिभिर्ननु ।
न तु देवाश्चिरं तिष्ठन्त्यनित्यो भावनमिति ॥ ५.२१३ ॥

लोभवशादेव मृत्योरुपेक्षा

कृष्यते भूरियं सर्वा मनुजैः फलकांक्षिभिः ।
न च संदृश्यते मृत्युर्लाभसक्तैरपण्डितैः ॥ ५.२१४ ॥
क्षणे क्षणे विवर्धन्ते लोभाशा मोहिते जने ।
न च विन्दन्ति संसाराः क्षीयमाणाः क्षणे क्षणे ॥ ५.२१५ ॥

दण्डत्रयमुपसंहरति

जरादण्डोऽयमभ्येति यौवनान्तकरो नृणाम् ।
आरोग्यशक्तिनाशाय व्याधिदण्डोऽयमागतः ।
दण्डत्रयमिदं घोरं ससुरासुरनाशकम् ॥ ५.२१६ ॥
अभ्येति न च मूढोऽयं लोकं पश्यति बालिशः ।
परस्परं प्रलोभाच्च स्वजनं स्नेहचञ्चलम् ॥ ५.२१७ ॥
मोहबद्धाः मृत्युं वियोगं च नावगच्छन्ति
गच्छत्यन्योन्यसंश्लिष्टो मोहबद्धे जने जनः ।
पुत्रपौत्रप्रपौत्राणां वशगाश्चापि ये नराः ॥ ५.२१८ ॥

कर्मस्कन्धस्य दुःखावहत्वम्

सर्वे तेन भविष्यन्ति त्वं तु सङ्गेन बाध्यसे ।
जीवितान्तकरः शत्रुर्न विशङ्को महाबलः ॥ ५.२१९ ॥
सोऽविलम्बी महावेगो मृत्युरेषोऽभ्युपैति च ।
चलाचलविधिर्ज्ञेयः कर्मस्कन्धैर्निदर्शितः ॥ ५.२२० ॥

देवादीनां क्षयो भवति

देवनागाः (स)गन्धर्वा पिशाचोरगराक्षसाः ।
न शक्ताश्च्यवने क्षान्तं बलं तस्य तथागतम् ॥ ५.२२१ ॥

तत्त्वदर्शको दुर्गतिं नाधिगच्छति

चलाचलविधिर्ज्ञेयः कर्मणा तत्त्वदर्शकः ।
अलिप्तः पापकैर्धर्मैर्न स गच्छति दुर्गतिम् ॥ ५.२२२ ॥

इति अनित्यतावर्गः पञ्चमः


(६) अप्रमादवर्गः

प्रमादरतस्य न मोक्षः

यः प्रमादरतो जन्तुर्नासौ मोक्षाय कल्पते ।
प्रमादविषमूढस्य निर्वाणं दूरमेव तत् ॥ ६.१ ॥

न प्रमादे मनः कार्यम्

न प्रमादेषु बध्येत्प्रमादः शत्रुरुत्तमः ।
प्रमादपरमा देवाः पतन्ति नरके पुनः ॥ ६.२ ॥
स्वभावतामिमां ज्ञात्वा धर्माणामुदयव्ययम् ।
न प्रमादे मनः कार्य प्रमादविषमुत्तमम् ॥ ६.३ ॥
प्रमादाप्रमादयोः परस्परविरोधित्वम्
अप्रमादोऽमृतपदं प्रमादो मृत्युनः पदम् ।
अप्रमत्ता न भ्रियन्ते प्रमत्तास्तु सदात्मृताः ॥ ६.४ ॥
यथा विषं तथा वह्निः प्रमादः प्राणिनां तथा ।
प्रमादोन्मादिताः सत्वाः दुःखाद्दुःखं प्रयान्ति ते ॥ ६.५ ॥
अप्रमत्ताः सदामर्त्याः सर्व प्रक्रमसंस्कृताः ।
प्रयान्ति परमां शान्ति प्रमादो यत्र नास्ति हि ॥ ६.६ ॥
यः प्रमादे रतो जन्तुर्न शुभान्यनुचेष्टते ।
तस्य धर्मविमूढस्य कुतः स्वर्गो भविष्यति? ॥ ६.७ ॥
प्रमादं वर्जयेद्यस्मात्प्रमादं विषमुत्तमम् ।
अप्रमत्ता न भ्रियन्ते प्रमत्तास्तु सदात्मृताः ॥ ६.८ ॥
सौभाग्यं प्राप्य यो मर्त्यः प्रमादेषु च वर्तते ।
न पण्डित इतिख्यातो विपरीतस्तु नान्यथा ॥ ६.९ ॥
न प्रमादस्य कालो हि हर्षस्य न कथञ्चन ।
व्यामोहजननाच्चेतो मृत्युकाले महाबले ॥ ६.१० ॥

प्रमादमुखेन प्रमादवर्णनम्

हर्षो धूमः प्रमादोऽग्निर्देवान् दहति नैकशः ।
विषयैर्मोहिता मूढा न च विन्दन्त्यचक्षुषः ॥ ६.११ ॥
अव्युच्छिन्नानि पश्यन्ति संस्काराणि च देहिनाम् ।
यथा हि विषयैर्मूढा नावगच्छन्ति यद्द्विषः ॥ ६.१२ ॥
तस्मात्प्रमादं विषवत्कथयन्ति मनीषिणः ।
सुखं न दृश्यते पूर्व प्रमादोमन्दबुद्धिभिः ॥ ६.१३ ॥
(यथा) प्रमादोपकृताः प्रयान्ति नरकं पुनः ।
फले प्राप्ते प्रमादोऽयं पश्चात्सन्तप्यते व्यथा ॥ ६.१४ ॥

प्रमादोऽनर्थकरः

सर्वानर्थकरो दृष्टः प्रमादः पण्डितैः नरैः ।
तथा च कुशलं प्रायो यः प्रमादं न सेवते ॥ ६.१५ ॥
दुःखं यस्य भवेदिष्टं स प्रमादं निषेवताम् ।
न प्रमादपरः कश्चित्कदाचित्सुखमाप्नुयात् ॥ ६.१६ ॥

प्रमादशून्यानामच्युतपदप्राप्तिः

प्रमादविरताः सन्तो गच्छन्ति पदमच्युतम् ।
ना प्रमादपरः कश्चिन्नरके दुःखितान्नयेत् ॥ ६.१७ ॥
यदि देवाः सहन्तीमं रमन्ते मन्दमेधसः ।
तिरश्चां हि सुराणां च विशेषो नैव विद्यते ॥ ६.१८ ॥

प्रमादवशात्देवलोकाद्पतन्ति

प्रत्येकं कर्मवैचित्र्यं प्रमादपरमाः सुराः ।
नावगच्छन्ति पतनं देवलोकाद्भविष्यति ॥ ६.१९ ॥
सन्निकृष्टं सदा दुःखं पतनं वा भविष्यति ।
देवलोकोत्तरा देवा यथा स्यात्सुखमात्मनः ॥ ६.२० ॥
देवलोकं समासाद्य यः प्रमादेषु रक्षते ।
स क्षीणशुभकर्मान्तं च्यवनान्ते विबुध्यते ॥ ६.२१ ॥
मा प्रमादपरोभूयाः प्रमादो नोचितः सुरैः ।
प्रमादैर्दोषविहताश्च्यवन्ति त्रिदशालयात् ॥ ६.२२ ॥

प्रमादवशगः पुरुषः नाशमेति

दह्यते पुरुषः सर्वः प्रमादेन विमोहितः ।
स पश्चाद्विगते तस्मिन् प्रत्यादेशेन रक्ष्यते ॥ ६.२३ ॥
दोषोद्भवामिमां भूमिं प्रमादावृत्तशाद्वलम् ।
विचरन्ति सदा मूढाः सुराः सत्कृतमोहिताः ॥ ६.२४ ॥
चञ्चला विषमास्तीव्रा प्रमादाः कामहेतवः ।
न तेषां विश्वसेद्वीरो यस्मात्स्वप्नोपमा हि ते ॥ ६.२५ ॥

कामः नारकस्य हेतुरिति

न स्वप्नो नरके हेतुः कामाः स्वप्नस्य हेतुकाः ।
तस्मात्काममिमं मुक्त्वा नित्यं सुचरितं चरेत् ॥ ६.२६ ॥

अप्रमादात्सर्व प्राप्तुं शक्नोति

यत्रावाप्तं पदं कृत्स्नं सुरैः कामविमोहितैः ।
तत्प्राप्यते पदं वीरैरप्रमादपरैर्नरैः ॥ ६.२७ ॥

प्रमादमूलसंसारः

प्रमादमूलसंसारो देवानामालयस्तथा ।
ये प्रमादविषैर्मत्तास्ते मग्ना भवसङ्कटे ॥ ६.२८ ॥
तमः प्रमादमूलञ्च अविद्या हयपकारिका ।
अन्धकारेण ये मूढास्तेषां चक्षुर्न विद्यते ॥ ६.२९ ॥

प्रमादः मोहात्मकः

तेजसा हि तथा मूलैरग्निना न च कथ्यते ।

मोहानां प्रवरस्तद्वत्प्रमादः परिकीर्त्यते ॥ ६.३० ॥
प्रमादानलतप्तेन मनसा तद्विचेष्टते ।
मुहयन्ते येन ते बालाः प्रयान्ति नरकं पुनः ॥ ६.३१ ॥

प्रमादोन्मादितः सुखमेवानुभवति

प्रमादोन्मादिता देवास्त्रिविधा ये चलात्मकाः ।
वियोगदुःखं विस्मृत्य संयोगे सुखकांक्षिणः ॥ ६.३२ ॥

पतनान्तमेव जीवनम्

उपस्थिते महादुःखे पतनान्ते हि जीविते ।
पश्चाद्वहन्ति विरसं पतनान्तं सुखं चलम् ॥ ६.३३ ॥
संयोगो विप्रयोगान्तः पतनान्तः सुखं सदा ।
जरान्तं यौवनं सर्व कर्मान्तः सर्वदेहिनाम् ॥ ६.३४ ॥

संसारः कर्मनाटकसम्बद्धः

शुभाशुभेन बद्धा हि कर्मणा सर्वदेहिनः ।
नटवन्नटयन्त्येते गत्यां गत्यां पृथक्पृथक् ॥ ६.३५ ॥
कर्मनाटकसम्बद्धः संसारो भ्रमते सदा ।
न तत्र विश्वसेद्धीमाननित्या कर्मणां गतिः ॥ ६.३६ ॥

प्रमादः परमोदोषः

सर्वपापानि विषवत्प्रमादः परिबर्ज्यताम् ।
प्रमादेन तु ये मुक्ता (स्ते) तीर्णास्ति भवार्णवात् ॥ ६.३७ ॥
प्रपातपतितो दोषी कदाचिदपि जीवति ।
न प्रमादप्रपतितः कदापि सुखवान् भवेत् ॥ ६.३८ ॥
प्रमादः परमो दोषः कदाचित्सर्वकर्मसु ।
न रात्रौ न दिवा तस्य शुभं भवति कर्हिचित् ॥ ६.३९ ॥
यत्सुखं लौकिकं किञ्चिद्यच्च लोकोत्तरं मतम् ।
नश्यते तत्प्रमादेन तस्मात्तत्परिवर्जयेत् ॥ ६.४० ॥

अप्रमादोऽमृतपदम्

अप्रमादोऽमृतपदं प्रमादो मृत्युनः पदम् ।
अप्रमादेन ते देवाः देवानां श्रेष्ठतां गताः ॥ ६.४१ ॥
प्रमादमूलः संसारः अप्रमादश्च (सद्) गतिः ।
तस्माद्प्रमादविरतः सुखी भवति सर्वदा ॥ ६.४२ ॥

दुःखाद्विभेति चेत्प्रमादं परित्यजेत्

इच्छते यत्सुखं नित्यं यश्च दुःखाद्विभेति (वै) ।
स (हि) प्रमादाद्विरमेत्प्रमादो विषवन्नृणाम् ॥ ६.४३ ॥
प्रमादनिद्राविहता प्रमादविषमोहिताः ।
प्रपातं हि प्रपद्यन्ते जनाः शुक्ल कृतात्मकाः ॥ ६.४४ ॥

अप्रमादः परं श्रेयः

अप्रमादः परं श्रेयो न प्रमादः कथञ्चनः ।
अप्रमादेन सुखिनः प्रमादेन (सु)दुःखिताः ॥ ६.४५ ॥

प्रमादमूढाः नरकं व्रजन्ति

प्रमादमूढा हि नरा भूयो मद्येन मोहिता ।
धिक्प्रमादविमूढास्ते चरन्ति नरकं पुनः ॥ ६.४६ ॥
प्रमादवागुराबद्धा विषयार्णवसंस्थिताः ।
तृष्णाविषयसम्बद्धो देवः क्रीडत्यनेकशः ॥ ६.४७ ॥
जातमात्रस्य देवस्य तत्क्षणं क्षीयते सुखम् ।
न विन्दन्ति विवशाः प्रमादावृत्तचेतसः ॥ ६.४८ ॥
प्रमादवशः कामवशगोऽतृप्त एव तिष्ठति
प्रमादोद्भ्रान्तमनसो नित्यं विषयतत्पराः ।
अतृप्ताः कामभोगेषु सुखेन सुखिता हि च ॥ ६.४९ ॥
कामानलेन सन्दग्धाः विप्रमादेन मोहिताः ।
न विन्दन्ति बलं सर्व विनाशान्तं हि जीवितम् ॥ ६.५० ॥
अनेकानि सहस्त्राणि सुराणां नियुतानि च ।
कामानलेन सन्दग्धाः प्रमादेन विमोहिताः ॥ ६.५१ ॥

प्रमादयुताः पतन्ति

ह्रियते पुरुषः सर्वः प्रमादेन विमोहितः ।
स पश्चाद्व्यसने प्राप्ते बुध्यते तस्य तत्फलम् ॥ ६.५२ ॥
विषवत्प्राणहृद्दृष्टः प्रमादस्तत्त्वदर्शिभिः ।
अग्निवद्दह्यते नित्यं शस्त्रवच्च निकृन्ततिः ॥ ६.५३ ॥
मित्रवद्दृश्यते पूर्व पश्चाद्भवति शत्रुवत् ।
वहिशः सर्वदेवानां प्रमादः सम्प्रवर्तते ॥ ६.५४ ॥
देवासुरमनुष्याणां नागानां च विशेषतः ।
प्रमादः कारणं दृष्टं सर्वान्नर्थान् करोति सः ॥ ६.५५ ॥
यः प्रमादहतो नित्यं नासौ कल्याणमर्हति ।
कल्याणवर्जितः पुरुषो नरकानुपकर्षति ॥ ६.५६ ॥
विविधा कृतयस्तिर्यग्प्रमादपरिवञ्चिताः ।
मैथुने भोजने चैव येषां बुद्धिः सदारताः ॥ ६.५७ ॥
यदा सुचरितं कर्म चान्तीभूतं दिवौकसाम् ।
भविष्यति तदाभूयः क्व यास्यन्ति प्रमादिनः ॥ ६.५८ ॥
प्रमादवारिणां दुःष्टाः कर्मवायुभिराहताः ।
पतन्ति वृक्षवद्देवा गत्यां गत्यां पृथक्पृथक् ॥ ६.५९ ॥

सुराणामपि संवेगजनितः शोको जायते

शतशो न हुतश्चैव दिवि जाता दिवौकसः ।
न च संवेगजनितो हृदि शोकः प्रजायते ॥ ६.६० ॥
प्रमादकलुषं पीत्वा मोहात्पानं दिवौकसः ।
पतन्ति नरकं तीव्रं वह्निना परिवारितम् ॥ ६.६१ ॥

सुदुर्लभस्य मानुषस्य जन्मनः साफल्यवैफल्ये

सुलब्धं मानुषं जन्म ये लब्ध्वा अप्रमादिनः ।
कुर्वन्ति सुकृतं कर्म देवलोकोपगामिनः ॥ ६.६२ ॥
दुर्लभं मानुषं कर्म लब्ध्वापि ये प्रमादिनः ।
ते प्रमादात्परिभ्रान्ताः पतन्ति नरके नराः ॥ ६.६३ ॥

मृत्युसमये प्रमादी तपत्येव

प्रमादरतसत्त्वो यः कृपया परिवर्तते ।
स पश्चान्मृत्युसमये तप्यते स्वेनचेतसा ॥ ६.६४ ॥

प्रमादस्य दाहकत्वम्

न तथा दह्यते वह्निर्न च शस्त्रं विकृन्तति ।
पञ्चेन्द्रियसमुद्भूतं प्रमादो दह्यते तथा ॥ ६.६५ ॥
सुखरूपं तथा दुःखं मित्ररूपं तथा रिपुः ।
प्रमादिनां हि तन्नित्यं तस्मात्तं परिवर्जयेत् ॥ ६.६६ ॥
प्रमादतृष्णया मिश्रो रागस्तदनुवर्धकः ।
त्रयस्ते रिपवः क्रुष्टाः नाशयन्ति सुखं नृणाम् ॥ ६.६७ ॥
ये प्रमादरता नित्यं न च धर्मरता बुधाः ।
ते मृत्युसमये प्राप्ते यमदूतैः पराकृताः ॥ ६.६८ ॥

विषवत्प्रमादं मत्वा तत्परित्यागिनःधन्या

प्रमादं विषवद्ये तु परिरक्षन्ति पण्डिताः ।
ते मृत्युसमये प्राप्ते भवन्ति सुखभागिनः ॥ ६.६९ ॥
प्रमादः परमो मृत्युरप्रमादः परं सुखम् ।
तस्मात्सुखार्थिनाः नित्यं मा प्रमादे मतिं कृथाः ॥ ६.७० ॥

धात्वायतन सम्मोहः श्रेयसां विध्न

धात्वायतनसम्मोहः श्रेयसां विघ्नकारकः ।
सन्यासः सर्वकर्माणां प्रमादः सम्प्रवर्तते ॥ ६.७१ ॥
दोषयन्त्रविलग्नाय मायाद्वारस्य दूतकः ।
सम्मोहस्याग्रणी पापः प्रमादः सम्प्रवर्तते ॥ ६.७२ ॥

प्रमादरताः मृत्युमुखं प्रति गच्छन्ति

ये प्रमादरता बालास्ते मृत्योर्हस्तमास्थिताः ।
प्रमादसेवका ये तु ते सर्वे निधनंगता ॥ ६.७३ ॥

प्रमादिनो देवा अपि क्षीणपुण्याः भवन्ति

पुण्यक्षयाय देवानां प्रमादेन विहिंसिताः ।
पतन्ति सुखसंमूढास्त्राणं तेषां तदा कुतः ॥ ६.७४ ॥

सद्धर्माचरणं भूतदयैव

एको धर्मस्तथाश्रेयः कृपया संयतः पृथुः ।
क्षान्तिश्चापि सदा युक्ता दया भूतेषु सर्वदा ॥ ६.७५ ॥
बलभूता भवन्त्येते मृत्युकाले महाभये ।
तस्मात्प्रमादरहितैः सेवनीयाः प्रयत्नतः ॥ ६.७६ ॥

विद्याविधिज्ञस्यैव प्राणिनः शान्तिर्जायते

अविद्यावर्तनं श्रेयो विद्याया रक्षणं सदा ।
विद्याविधिज्ञो यः (सत्वः) प्रमादस्तस्य शाम्यति ।
पुरुषार्थो नियतो (ह्यत्र) यत्प्रमादस्य वर्जनम् ॥ ६.७७ ॥
अप्रमादरतस्यैव पुरुषार्थसिद्धिर्भवति
अप्रमादरतस्यैव पुरुषार्थः सतां मतः ।
प्रमादो बन्धनं प्रायो मुक्तिस्तस्याप्रमादतः ॥ ६.७८ ॥

प्रमादसेवनाद्बन्धनम्

मोक्षबन्धनयोरेतल्लक्षणं स्यात्सतां मतम्
एवं मत्वा सदा देवो यः प्रमादेन रक्षति ।
स पश्चान्मृत्युसमये ज्ञास्यते तस्य तत्फलम् ॥ ६.७९ ॥

सन्तोष एव निर्वाणसाधनम्

यथा यथा हि सन्तोषः सेव्यते यतिभिः सदा ।
तथा तथा हि निर्वाणमनिके तस्य वर्तते ॥ ६.८० ॥
विरागः सर्वकामेषु निर्वाणे च प्रवर्तताम् ।
नासौ मारस्य विषयः कदाचित्सम्प्रवर्तते ॥ ६.८१ ॥

ज्ञानेनैव दुःखप्रहाणम्

नराणां पश्य मनसो नित्यं व्यापारमेव च ।
उद्योगश्च सदाज्ञानं स कथं दुःखमेष्यति ॥ ६.८२ ॥

कः बन्धनमुक्तो भवति?

अतीतभयसम्पन्नः प्रत्युत्पन्ने च बुद्धिमान् ।
अनागतविधिज्ञो यः स मुक्तः क्लेशबन्धनात् ॥ ६.८३ ॥
अप्रमादरतो नित्यमविश्वासे च कातरः ।
संज्ञानसेवी विमलो निर्वाणस्यान्तिके स्थितः ॥ ६.८४ ॥

महत्सुखं प्रमादेन नश्यति

प्रमादेनापि नश्यन्ति देवाः प्राप्यमहत्सुखम् ।
किं पुनर्येन वा मूढाः प्रमादवशसेविनः ॥ ६.८५ ॥
मृतः स नरो भवति यः प्रमादविहारवान् ।
जीविते च प्रमत्तोऽयं सततं ज्ञानधारणे ॥ ६.८६ ॥

प्रमादाप्रमादयोरन्तरम्

अप्रमादप्रमादाभ्यामिदमन्तरमिष्यते ।
मृत्युं च वर्जयेद्दोषं प्रमादं दुःखमूलकम् ॥ ६.८७ ॥
नित्यं प्रमुदिता देवाः नित्यं प्रमुदिता वयम् ।
पक्षिणां च सुराणां च विशेषो नोपलभ्यते ॥ ६.८८ ॥
न धर्माचरणं दृष्टं मोक्षचर्या न यात्यसौ ।
तथैव यदि देवानां ते गताः पक्षिभिः समा ॥ ६.८९ ॥
ये प्रमादविनिर्मुक्ता ये च धर्मरताः सदा ।
ते देवाः सत्पथा लोके न प्रमादविहारिणः ॥ ६.९० ॥
यदि क्रीडारता देवाः प्रमादचरिताः सदा ।
देवानां च खगानां च विशेषो नोपलभ्यते ॥ ६.९१ ॥

धर्मपतितः जात्या न शोभते

कर्मणां तु विशेषेण जातिर्धर्मैर्विशिष्यते ।
न धर्मपतितः कश्चिद्जात्या भवति शोभनः ॥ ६.९२ ॥
येन निन्दन्ति संसारमिमं सर्वक्षयात्मकम् ।
ते सुरापिसमा नित्यं पक्षिभिर्मूढबुद्धिभिः ॥ ६.९३ ॥
येषामेवस्थिता बुद्धिरमता धर्मगोचरे ।
ते देवाः सम्मत्ता लोके न प्रमादविचारिणः ॥ ६.९४ ॥
ये जन्महेतुप्रभवं दुःखं बुध्यन्ति शोभनम् ।
ते देवा न तु ये सक्ताः कामेषु हितकारिषु ॥ ६.९५ ॥
वियुज्यमाना बहुशो भृत्यस्वजनबान्धवैः ।
ये नोद्विजन्ति संसारे ते देवाः पक्षिभिः समाः ॥ ६.९६ ॥

मद्यपानाधिकः प्रमादः

मद्यपानाधिको दृष्टः प्रमादस्तत्त्वदर्शिभिः ।
जीर्यते मद्यपानं हि प्रमादो नैव जीर्यते ॥ ६.९७ ॥

प्रमादमत्तो गतिपञ्चके भ्रमते

प्रमादोपहतोलोको भ्रमते गतिपञ्चके ।
तस्मात्प्रमादमत्तो हि सर्वोपायैर्विशिष्यते ॥ ६.९८ ॥

प्रमादः मद्यादपि हीनतरः

एकाहं परमं मद्यं प्रमादयति देहिनः ।
प्रमादः कल्पकोटिभिर्भ्रमतोऽपि न जीर्यते ॥ ६.९९ ॥
ये प्रमादैर्विरहितास्ते गताः पदमव्ययम् ।
ये तु प्रमादवशगास्ते भवन्ति खगा नराः ॥ ६.१०० ॥
हितार्थिना मनुष्येण प्रमादोवर्ज्य एव हि ।
यस्मात्प्रमादवशगाः क्लेशा बुद्धेन देशिताः ॥ ६.१०१ ॥

देवानां कृतेऽपि प्रमादो हेय एव

खगा यदि प्रमादेन कुर्वन्ति लघुचेतसः ।
कस्माद्देवाः प्रमादं(तं) न जहंति विशेषतः ॥ ६.१०२ ॥
यस्तु दूरात्प्रमादेन भयं नावैति दुर्मतिः ।
सोऽवश्यं व्यसने प्राप्ते पश्चात्तापेन दह्यते ॥ ६.१०३ ॥
पतनं देवलोकात्ते दानै रक्षन्ति दारुणम् ।
तद्विचिन्त्य प्रमादस्ते न संसेव्यः कथञ्चन ॥ ६.१०४ ॥
ये प्रमादरता नित्यं न ते सौख्यस्य भागिनः ।
प्रमादो दुःखमूलश्च मूलमेकं सुदारुणम् ॥ ६.१०५ ॥
पद्मकोटिसहस्त्राणि नियुतान्यर्बुदानि च ।
असंख्यानि च देवानां प्रमादेन वितन्विताः ॥ ६.१०६ ॥

अप्रमादः परं मित्रं प्रमादश्च शत्रुः

अप्रमादः परं(मित्रं) नित्यं हितकरं नृणाम् ।
प्रमादस्तु परं शत्रुस्तस्यन्मित्रपरो भवेत् ॥ ६.१०७ ॥
शुभस्यान्तकरो हयेष विषवद्दारुणं परम् ।
दुर्गतीनां परं मार्गः प्रमाद इति कथ्यते ॥ ६.१०८ ॥
प्रमादेन प्रमत्ता ये विषयैश्चापि रञ्जिताः ।
नरास्ते मूढमनसो नित्यं दुःखस्य भोगिनः ॥ ६.१०९ ॥

ज्ञानशून्याः भयदुःखमविगण्य पशुभिः समाः भवन्ति

येषां भयं न दुःखं (च) न च ज्ञानावलोकनम् ।
पशुभिस्ते समाविष्टा न पुरा सुखकांक्षिणः ॥ ६.११० ॥
आहारमैथुनरतिः पशूनां हृदि वर्तते ।
सा रतिर्यदि देवानां ते गताः पशुभिः समाः ॥ ६.१११ ॥

प्रमादः मृत्योः पर्याय एव

क्रीडन्त्यतिशयं ह्येते मृत्योर्गम्ये पुरःस्थिता ।
सम्प्राप्ते मृत्युसमये फलं दास्यन्ति (दारुणम्) ॥ ६.११२ ॥
विषवत्परिहेयो(ऽयं) सर्वैरपि (सुदुःसहः) ।
मृत्योः पर्यायनामैष प्रमादो हृदि देहिनाम् ॥ ६.११३ ॥
प्रमादेन हतान् पूर्वं पश्चान्मृत्युः प्रमर्दति ।
धर्मजीवितसौख्यानां तमेकांशं प्रकथ्यते ॥ ६.११४ ॥

अप्रमाद एव स्वर्गमार्गः

अप्रमाद इति ख्यातः स्वर्गमार्ग प्रदेशकः ।
अर्थानथौ समावेतौ पश्चान्मोक्षस्तथैव (च) ॥ ६.११५ ॥

अप्रमादः गुणः प्रमाद एव दोषः

अप्रमादः प्रमादश्च गुणदोषसमाविभौ ।
तत्रैव मूढमनसो विजानन्ति च देहिनः ॥ ६.११६ ॥

शत्रुणा सह रक्षन्ति ज्ञाने परिहरन्ति च ।
प्रमादविषवृक्षस्य शाखास्तिस्त्रः प्रतिष्ठिताः ॥ ६.११७ ॥
जरा व्याधिश्च मृत्युञ्च नित्यं तस्योपरिस्थिताः ।
जरादयो न बाध्यन्ते पुरुषं सत्क्रियान्वितम् ॥ ६.११८ ॥

अप्रमादी सदा भयनिर्मुक्तः सन् सुखीतिष्ठति

संसारे तिष्ठते धीमानप्रमादरतः सदा ।
निकृन्तन्ति सदा दोषा न प्रमादं परिष्वजेत् ॥ ६.११९ ॥
सदा भयविनिर्मुक्तः सुखं प्राप्नोत्यनुत्तमम् ।
(अ) प्रमादाच्च यत्सौख्यं शाश्वतं स भयं हि तत् ॥ ६.१२० ॥
यत्तु तस्माद्विनिर्मुक्तं तत्सौख्यं ध्रुवमच्युतम् ।
शतशो मनुजा (हयत्र) प्रमादेन विमोहिताः ॥ ६.१२१ ॥
तथापि नाम वशगास्ते प्रमादे प्रतिष्ठिताः ।
चत्वारो हि विपर्यासाः प्रमादस्योपरिस्थिताः ॥ ६.१२२ ॥
प्रमादविरहात्तेपि नश्यन्ति लोकशत्रवः ।
यदनेकविकल्पोऽयमनेकभयसङ्कटः ॥ ६.१२३ ॥
प्रमादरहिताः देवाः सन्तोऽच्युतं सुखमश्नुते
संसारो भ्रमते दुःखे तत्प्रमादस्य चेष्टितम् ।
एकः प्रमादविरहात्प्राप्यते सुखमच्युतम् ॥ ६.१२४ ॥
प्रमादेन विनश्यन्ति सर्वधर्मा हतास्त्रवाः ।
देवानां च प्रमादोऽयमुपर्युपरि वर्तते ॥ ६.१२५ ॥
कथं प्रमादसम्मूढाः देवा यास्यन्ति निर्वृतिम् ।
तदे(त)त्सौम्यमनसा चिन्तयित्वा विकल्पयेत् ॥ ६.१२६ ॥
तथा मे हित मास्थेयं यथा यत्स्यात्(सुखावहम्) ।
ये देवा यच्च तत्सौख्यं पश्यन् यदपिकिञ्चन ॥ ६.१२७ ॥

संस्कृतस्यैव ध्रुवपदप्राप्तिर्भवति

तत्सर्व (हि) ध्रुवं गत्वा संस्कृतस्यैष सम्भवः ।
अवश्यं ते विनश्यन्ति ये भावाः संस्कृताश्चलाः ॥ ६.१२८ ॥

प्रमादवशाद्देवा अपि दुःखभागिनः भवन्ति

प्रमादनिरता (देवा)नित्यं दुःखस्य भागिनः ।
प्रमादापहतजनो यस्तेषां कुरुते मतिः ॥ ६.१२९ ॥
संवियोगे समुत्पन्ने दुःखेन परितप्यते ।
विषयेषु सकामेषु तृष्णावनगतेषु च ॥ ६.१३० ॥
तेन ते वञ्चिता देवाः प्रमादवशवर्तिनः ।
मूलमेतदनर्थानां यत्प्रमादानुसेवनम् ॥ ६.१३१ ॥

प्रमादवर्जनं क्षेमकरम्

तस्यैतद्वर्जनं धन्यं सर्वक्षेमकरं महत् ।
सत्वा नैवापन्नसुखा दुःखैश्चापि समन्विताः ॥ ६.१३२ ॥
तथा बुद्धिरनुष्ठेया यथा मत्स्या जलानुगाः ।
स्वर्गे प्रमादवशगा स्त्रीविधेयाश्च ते सुराः ॥ ६.१३३ ॥

प्रमादिनो दुःखभागिनो भवन्ति

ते स्त्रीवह्निविनिर्दग्धा नित्यं दुःखस्य भागिनः ।
तस्मात्प्रयत्नशो देवैरङ्गना परिवर्जनम् ॥ ६.१३४ ॥
कर्त्तव्यं कामलोलस्य मनसा धृतिवर्धनम् ।
कार्याकार्येविमूढस्य धर्माधर्मे तथैव च ॥ ६.१३५ ॥
पुरुषस्यात्मभङ्गस्य निर्वाणं दूरमेव तत् ।
गुरुताभावतत्त्वज्ञो निपुणो धर्मगोचरः ॥ ६.१३६ ॥

धर्मिण एव सुखमाप्नुवन्ति

धर्माकांक्षी फलाकांक्षी तादृशं लभते सुखम् ।
निधौतमघकल्माषाः नित्यं धर्मानुवर्तिनः ॥ ६.१३७ ॥

प्रमादविमोहिता एव दुःखमाप्नुवन्ति

सुखिनस्ते सदा दृष्टा न प्रमादविहारिणः ।
प्रमादापहतः पूर्व प्रमादेन विमोहितः ॥ ६.१३८ ॥

मद्येन देवोऽपि प्रमादमेति

देवो वा पुरुषश्चापि न सुखस्यान्तिके हि सः ।
मृतः स पुरुषो नित्यं यो मद्येन प्रमाद्यति ॥ ६.१३९ ॥
मद्यदोषाधृताः सर्वे भवन्ति नरके नराः ।
असंसर्गचरो दोषो मद्यमित्यभिधीयते ॥ ६.१४० ॥
मद्येन मोहिता नित्यं देवाः नरकगामिनः ।
असम्भूतेषु रक्षन्ते न सम्भूते कथञ्चनः ॥ ६.१४१ ॥
मदात्स्वाकारमलिना देवाः कामैर्विमोहिताः ।
कामेन मोहिता देवा मद्येनापि तथैव च ॥ ६.१४२ ॥

प्रमादी तत्त्वं न पश्यति

न तत्त्वमत्र पश्यन्ति जात्यन्धा इव सत्पथम् ।
प्रमादाकुलितं चित्तं न तत्त्वमनुपश्यति ॥ ६.१४३ ॥
प्रमादश्चाग्निवत्तस्मात्परिवर्ज्यः समन्ततः ।
प्रमादेन विनश्यन्ति कुशला धर्मयोनयः ॥ ६.१४४ ॥

प्रमादविषसेवनं नाशायैव जायते

मार्ग च विषसंस्पृष्टं सर्वथा नैव पश्यति ।
दशधर्मा विनश्यन्ति प्रमादविषसेविनाम् ॥ ६.१४५ ॥
ध्यानानि चैव चत्वारि प्रणश्यन्ति प्रमादिनः ।
अप्रमादं प्रशंसन्ति बुद्धाः कामविवर्जिताः ॥ ६.१४६ ॥

अप्रमत्ता जरामुक्ता भवन्ति

प्रमादञ्च जुगुप्सन्ति जरामरणपञ्जरम् ।
अप्रमत्ता जरामुक्ता प्रमत्ता दुःखभोगिनः ॥ ६.१४७ ॥

प्रमाद एव बन्धनम् ।

प्रमादो बन्धनं हयेतद्दुःखितं मन्दबुद्धिनाम् ।
अप्रमादेन कुशला देवानां समितिङ्गताः ॥ ६.१४८ ॥
तस्मात्ते पतिता भूयो ये प्रमादानुसेविनः ।
प्रमत्तपुरुषः सर्व संसारान्नैव मुच्यते ॥ ६.१४९ ॥
प्रमादपाशपाशेन येन बद्धा हि देहिनः ।
अकार्य कार्यसदृशं कार्य कुर्वन्ति सर्वदा ॥ ६.१५० ॥

अप्रमादिनः कल्याणपरम्परामाप्नुवन्ति

अप्रमादान्नरः सर्व विपरीतं (हि) पश्यति ।
न लौकिकेषु कार्येषु कुतो न श्रैयसेषु च ॥ ६.१५१ ॥
प्रमादं न प्रशंसन्ति पण्डिता बुद्धिपारगाः ।
यथा शुभं परिक्षीणं भविष्यति दिवौकसाम् ॥ ६.१५२ ॥

प्रमादफलं हानिकरम्

तदा प्रमादस्य फलं ज्ञास्यन्ति कटुकं हि तत् ।
कामसंसक्तमनसां तस्यान्ते सुखसेविनाम् ॥ ६.१५३ ॥
भविष्यति सुखं तस्माद्विनिपातोदयो महान् ।
विषयाभिमुखेप्सूनां नित्यमाशागतात्मनाम् ॥ ६.१५४ ॥
स्त्रीदर्शनसुमत्तानां विनिपातो भविष्यति ।
(नित्यं कामान्) निषेवन्ते प्रमादरागसेविनः ॥ ६.१५५ ॥
ताः सर्वा मृत्युसमये परित्यक्ष्यन्ति योषितः ।
च्यवमानं सुरं सर्वे न कश्चिदनुगच्छति ॥ ६.१५६ ॥

मोक्षाभिलाषिणः दुष्कृतं त्यजन्ति

कर्मणा पृष्ठतः सर्व गच्छन्तमनुयाति च ।
युक्तं च (हि) सदा सेव्यं वर्जनीयं च दुष्कृतम् ॥ ६.१५७ ॥

प्रमादं च मदं जहयात्प्रमाद (वि)रतो भवेत् ।
प्रमादो भवमूलोऽयं प्रमादस्तु न शान्तये ॥ ६.१५८ ॥

प्रमादाप्रमादौ विचिन्त्य धीरः सुखमेधते

अप्रमादप्रमादाभ्यामिदमुक्तं स्वलक्षणम् ।
तद्विचिन्त्य सदा धीरः सुखं सुचरितं चरेत् ॥ ६.१५९ ॥

धर्मचारी कदापि दुःखं नाप्नोति

न धर्मचारी पुरुषः कदाचिद्दुःखमृच्छैति ।
संसरन्त्यथ संसारे प्राणिनः स्वेन कर्मणा ॥ ६.१६० ॥

प्रमादो विनिपाताय

किमर्थमिहलोकोऽयं प्रमादेन विहन्यते ।
प्रमादः श्रेयसां नाशः प्रमादो बन्धनं परम् ॥ ६.१६१ ॥
प्रमादो विनिपाताय प्रमादो नरकाय च ।
दुःखस्य हेतुरेवैकः प्रमादः परिकीर्तितः ॥ ६.१६२ ॥

अप्रमादरतो निर्वाणमधिगच्छति

तस्मात्सुखार्थी पुरुषः प्रमादं परिवर्जयेत् ।
यैः प्रमादः परित्यक्तः प्राप्तं तैः पदमच्युतम् ॥ ६.१६३ ॥
अप्रमादरतो यो हि निर्वाणस्यैव सोऽन्तिके ।
अप्रमादपदं हयेतन्निर्वाणस्याग्रतः पदम् ॥ ६.१६४ ॥

प्रमत्तः सदैव दुःखितो भवति

प्रमादो विनिपाताय हेतुरेषः प्रकीर्तितः ।
प्रमत्तः पुरुषः सर्वः सोन्माद इव लक्ष्यते ॥ ६.१६५ ॥
लघुत्वं याति लोकेऽस्मिन् प्रत्यवायेषु पच्यते ।
प्रमत्तः पुरुषः शक्तो विपरीतेषु वर्तते ॥ ६.१६६ ॥
हेतौ कर्मविपाके च मृत्यूत्पत्तौ तथैव च ।
प्रमादाग्निश्च यं तीक्ष्णो नरकानुपकर्षति ।
तस्मान्नरकमोक्षार्थ प्रमादं विनिवर्जयेत् ॥ ६.१६७ ॥
ये प्रमादं विनिर्जित्य नित्यं ज्ञानरता नराः ।
ते क्लेशबन्धनं छित्वा पदं याताः सुखोदयम् ॥ ६.१६८ ॥
कर्मसूत्रैर्निबद्धाश्च चित्तदोलां समाश्रिताः ।
भ्रमन्ति विभवे सत्त्वा मा प्रमादेषु रक्षथः ॥ ६.१६९ ॥
सुखी भवति दुःखी वै दुःखितश्चापि सुखितः ।
भर्तापि तृप्तो भवति मा प्रमादेषु रक्षथः ॥ ६.१७० ॥
माता पिता वा भवति भार्या मातृत्वमेव च ।
परिवर्तो महानेषु मा प्रमादेषु रक्षथः ॥ ६.१७१ ॥
प्रमादाज्जायते रागो रागाद्द्वेषः प्रपद्यते ।
स दोषपथमापन्नो नरकानुपधावति ॥ ६.१७२ ॥

प्रज्ञारुढः प्रमादशून्यः सन् शिवं पन्थानमाप्नोति

प्रज्ञाप्रासादमारोह योगक्षेममनुत्तमम् ।
एष पन्थाः शिवः श्रेष्ठो यः प्रमादविवर्जितः ।
तेन मार्गेण सततं निर्वाणं यान्ति पण्डिताः ॥ ६.१७३ ॥
विरोधो मार्गसम्पत्तौ चित्तसन्तानदूषकः ।
आछेत्ता धर्मसेतूनां प्रमादः परिकीर्तितः ॥ ६.१७४ ॥

प्रमादोपहताः नाशं यान्ति

स्मृति सन्दूषकं दृष्टं मोक्षाय वृत्तिनाशकः ।
दुर्गतीनां परं नेता प्रमादः सम्प्रवर्तते ॥ ६.१७५ ॥
अनेक पुरुषः क्षिप्तो नात्मनो विन्दते हितम् ।
नावाच्यं न च कार्याणां विन्दतेऽमृतकोपमः ॥ ६.१७६ ॥
त एते पशुभिस्तुल्या देवविग्रहधारिणः ।
प्रमादोपहता मूढा नृत्यन्ति च हसन्ति च ॥ ६.१७७ ॥
उत्पन्नाविच्युताः मार्गात्क्षान्तिं ये नाशयन्ति च ।
नृभवार्णवभूता ये ते प्रमादानुधाविनः ॥ ६.१७८ ॥
जनकः सर्वदोषाणां बन्धनं पापकर्मणाम् ।
प्रमोषः सर्वधर्माणां प्रमादारिः प्रवर्तते ॥ ६.१७९ ॥

सर्वेषां शुभकर्माणां प्रमादः शत्रुरेव

नाध्यात्मिकानि कर्माणि न बाहयानि कथञ्चन ।
प्रमादोपहतो जन्तुर्जानीते नष्टमासनः ॥ ६.१८० ॥
क्रीडायां व्यग्रमनसो नृत्यगान्धर्वलालसाः ।
अतृष्णार्विषयैर्दिव्यैर्नक्ष्यन्ति विबुधालयाः ॥ ६.१८१ ॥
भयस्थाने हसन्त्येते प्रमादेन विमोहिताः ।
मार्गामार्ग न विन्दन्ति जात्यन्धेन सुराः समाः ॥ ६.१८२ ॥

कामधातावेव प्रमत्ताः भ्रमन्ति

कामधातौ भ्रमन्येते चक्रवद्गति पञ्चके ।
ध्यानेभ्यो यद्धि पतनं तत्प्रमादस्य चेष्टितम् ॥ ६.१८३ ॥

प्रमादचेष्टितं कर्मपतनाय जायते

आरूप्येभ्यश्च यत्स्थानं चतुर्थं प्राप्यलौकिकात् ।
भ्रमन्ति भ्रमदोलायां तत्प्रमादस्य चेष्टितम् ॥ ६.१८४ ॥

प्रमादबन्धनैर्बद्धं तृष्णापाशैश्च यन्त्रितम् ।
त्रैधातुकमिदं कृत्स्नं न च बुद्धयन्त्य चेतसः ॥ ६.१८५ ॥
यत्प्रयान्ति धर्मस्थानं तृष्णाभयदर्शिताः ।
न भूयः खेदमायाति तत्प्रमादस्य चेष्टितम् ॥ ६.१८६ ॥

प्रमादवशात्दुःखमेवाप्नोति जनः

प्रियविश्लेषजं नृणां यद्दुःखं हृदि जायते ।
सेवनाद्यत्प्रमादस्य कथयन्ति तथागता ॥ ६.१८७ ॥
अनर्था हि त्रयो लोके यैरिदं नश्यते जगत् ।
व्याधिर्जरा च मृत्युश्च प्रमादालस्य सम्भवाः ॥ ६.१८८ ॥
प्ररोहन्ति यथा भूमौ सवौषधितृणादयः ।
तथा प्रमादिनां क्लेषाः प्रवर्तन्ते पृथग्विधाः ॥ ६.१८९ ॥

प्रमादस्य विषाङ्कुरः

स्त्रीश्लेषो मद्यपानं च क्रीडा च विषयैः सह ।
चापल्यमयकौसीद्यं प्रमादस्य विषाङ्कुरः ॥ ६.१९० ॥

प्रमादाप्रमादयोर्लक्षणम्

प्रमादः परमं दुःखप्रमादः परं सुखम् ।
समासाल्लक्षणं प्रोक्तमप्रमादप्रमादयोः ॥ ६.१९१ ॥

अतः प्रमादो न सेव्यः

तस्मात्प्रमादो न नरेण सेव्यः, स दुर्गतीनां प्रथमाग्रमेव ।
विहाय तं दुःखसहस्त्रयोनिं, प्रयान्ति बुद्धा भवपारग्रयम् ॥ ६.१९२ ॥

॥ इति अप्रमादवर्गः षष्ठः ॥


(७) कामजुगुप्सावर्गः

कामस्य नरकहेतुत्वम्

न कामेषु रतिं कुर्यात्कामाः परमवञ्चकाः ।
संसारबन्धना घोराः सर्वे नरकहेतवः ॥ ७.१ ॥
यः संरक्षति कामेषु तस्य दुःखमनन्तकम् ।
न कामोरगदष्टस्य सुखमस्ति कथञ्चन ॥ ७.२ ॥

रागादिवशगानां चेष्टितम्

वरं निशितधारेण क्षुरेण स्वयमात्मनः ।
संक्षोदिता भवेज्जिह्वा न चोक्तं कामगंव(चः) ॥ ७.३ ॥
रागेण वञ्चिताः सत्त्वा द्वेषेण परिपीडिताः ।
मोहस्य वशमापन्ना भाषन्तेऽमधुरं वचः ॥ ७.४ ॥

रागवशगः सदा दुःखतममनुभवति

अल्परागान्निरुद्धो यः कुरुते दुष्कृतं बहु ।
स रागवशगो मूढो दुःखाद्दुःखमवाप्नुयात् ॥ ७.५ ॥

कामपरिणतिमाह

अतृप्तिरस्मात्कामास्ते न सुखा नापि शाश्वताः ।
परिणामे महातीव्रास्तस्मात्तान् परिवर्जयेत् ॥ ७.६ ॥
रागाभिभूताः पुरुषा नरकालयवर्तिनः ।
न रागवशगा ये तु न तेषां नरकाद्भयम् ॥ ७.७ ॥

कामविषं परित्याज्यम्

चण्डाचण्डिसमुत्थाश्च चण्डाश्च परिणामतः ।

कामा विषाग्निप्रतिमाः परिवर्ज्याः प्रयत्नतः ॥ ७.८ ॥
परिवर्जितकामस्य नित्यं मोक्षरतस्य च ।
नश्यन्त्यकुशला धर्मास्तमः सूर्योदये तथा ॥ ७.९ ॥

कामानलः नरके पातयति

इन्द्रियाणीन्द्रियार्थज्ञो मोहयित्वा पृथग्विधाः ।
नरके पातयन्त्येते कामाः बालमनोहराः ॥ ७.१० ॥

रागाग्नेः महिमा

पञ्चेन्द्रियप्रसक्तस्य विषयैः पञ्चभिस्तथा ।
मुहूर्तमपि रागाग्निर्विषयैर्नैव तृप्यति ॥ ७.११ ॥
संश्लेषाज्जायते वह्निर्विश्लेषान्नैव जायते ।
संश्लेषादपि विश्लेषो (रागा) ग्निर्जीर्यते नृणाम् ॥ ७.१२ ॥
दूरान्न दाहको वह्निर्विषयस्तस्य नास्ति सः ।
दूरान्तिकसमो घोरो रागाग्निरतिदाहकः ॥ ७.१३ ॥
सङ्कल्पकाष्ठप्रभवः स्पृहाकुटिलवेगवान् ।
तृष्णा घृतप्रसक्तोऽयं रागाग्निरपि दाहकः ॥ ७.१४ ॥
दग्ध्वा शरीरमेतद्धि ज्वलनः सम्प्रशाम्यते ।
नामरूपविनिर्मुक्तो रागाग्निर्नैव शाम्यते ॥ ७.१५ ॥
उद्वेजयति भूतानि वह्निः परमदाहकः ।
रागाग्निरतितीक्ष्णोऽपि नोद्वेगं कुरुते नृणाम् ॥ ७.१६ ॥
पञ्चेन्द्रियसमुत्थोऽयं विषयैः पञ्चभिर्वृतः ।
तृष्णासमीरणबलाद्रागाग्नि(र्दहति) प्रजाः ॥ ७.१७ ॥
वितर्कारणिसम्भूतो विषयैः परिवर्धितः ।
काष्ठवद्दह्यते तेन न च दृश्यो जनस्य सः ॥ ७.१८ ॥
यथा यथा हि प्रबलो रागाग्निस्तप्यते महान् ।
तथा तथा (च) रागान्धैः स्वसुखं परिसेव्यते ॥ ७.१९ ॥
अग्निः प्रकाशको भवति रागाग्निस्तमसावृतः ।
तस्माच्छिशिरवद्धीमान् रागाग्निं परिवर्जयेत् ॥ ७.२० ॥

विषयपरिणाममाह

विषयाभिरतो जन्तुर्न सुखी स्यात्कथञ्चन ।
विषयाः विषयैर्दष्टाः परिणामे च दारुणाः ॥ ७.२१ ॥
नाद्ये नान्ते न मध्ये च नास्मिंल्लोके न चापरे ।
सुखदा विषया कामं भवन्तीह कथञ्चन ॥ ७.२२ ॥
बालिशस्य हि सर्वस्य तृष्णाक्रीडनसंभवैः ।
न तृप्तो विषयैरग्निर्ज्वलनस्य यथेन्धनैः ॥ ७.२३ ॥
अतृप्तोः विषयैः सर्वो जनोऽयं परिवञ्चितः ।
मृत्युनाभ्यासनिरत एतैर्दोषैर्विदह्यते ॥ ७.२४ ॥

काममोहान्धानां स्थितिमाह

सुखानां कामचाराणां मोहस्य खलु चेष्टितम् ।
तदेव यदि देवानां खगैः स्युस्ते समाः सुराः ॥ ७.२५ ॥
कल्पान्तेष्वभिसन्तप्तः शस्यते सरितां पतिः ।
न दृष्टिस्तृप्यते रूपैः कल्पकोटिशतैरपि ॥ ७.२६ ॥
स्यात्समुद्रस्य चर्याप्तिः सलिलैर्वशगादिभिः ।
न तु दृष्टिः समुद्रस्य रूपार्थैस्तृप्तिरस्ति हि ॥ ७.२७ ॥
अवितृप्तस्य कामेभ्यः किं सुखं परिकल्प्यते ।
तृप्तिर्यास्ति वितृष्णस्य गतशोकस्य देहिनः ॥ ७.२८ ॥
माद्यन्ते बहुमोहान्धा न च बुद्धयन्ति बालिशाः ।
मन्देन क्षणिका यद्वत्मलयेन्धनपादपाः ॥ ७.२९ ॥

कामा असाराः वञ्चकाश्च भवन्ति

स्वप्नप्रमोषधर्माणो गन्धर्वनगरोपमाः ।
रिक्तास्तुच्छा असाराश्च कामाः परमवञ्चकाः ॥ ७.३० ॥
(का) मा मोहेन (च) समाः किं पाकसदृशोपमाः ।
कामा लोकहितकरा वह्निवत्परिकीर्तिताः ॥ ७.३१ ॥
कामस्यादीनवं ज्ञात्वा येन तत्फलमोहिताः ।
तेन तद्दर्शकाः प्रीता गतकांक्षस्य (देहिनः) ॥ ७.३२ ॥
(अ)न्यथा चिन्त्यमानानां यथा प्राप्ता पुनस्तथा ।
सर्वतः पापकर्तारः कामा लोके विषोपमाः ॥ ७.३३ ॥
कामैरतृप्तमनसस्ते ते देवाश्च्युताः पुनः ।
पतन्ति नरके मूढाः कामेन परिवञ्चिताः ॥ ७.३४ ॥

नारीं निन्दयति

नदीतरङ्गचपला विद्युल्लेखसमाश्च ते ।
मीनावर्तबला नार्यः कामलोकविषास्पदाः ॥ ७.३५ ॥
विचिन्तिता विवर्धन्ते वर्द्धिता वह्निसन्निभाः ।
आदौ चान्ते तथा कामास्तस्मात्कामान् विवर्जयेत् ॥ ७.३६ ॥

कामसेवनफलम्

यथा यथा हि सेव्यन्ते विवर्धन्ते तथा तथा ।
वह्निज्वालासमासृष्टाः कामाः कटुविपाकिनः ॥ ७.३७ ॥

कामवर्जनफलमाह

एवं दोषं सदा ज्ञात्वा धीरः कामान् विवर्जयेत् ।
परिवर्तितकामस्य सुखं भवति नैष्ठिकम् ॥ ७.३८ ॥

कामाग्निः देवान्नपि पातयति

असङ्ख्यानि सहस्राणि देवानां नियुतानि च ।
पतन्ति कामदहनं नरकं वह्निभैरवम् ॥ ७.३९ ॥
यथाग्निविषशस्त्राणि वर्जयन्ति सुखार्थिनः ।
तथा कामाः सदा वर्ज्या हेतवो नरकस्य ते ॥ ७.४० ॥
न दृष्टो न श्रुतः कश्चिद्यः कामवशगः पुमान् ।
न कामैर्विप्रलब्धः स्यान्न च दुःखेन पीडितः ॥ ७.४१ ॥
तस्मादलमलं कामैर्मा चैतेषु मनः कृथाः ।
सर्वे सर्वास्ववस्थासु कामा वह्निविषोपमाः ॥ ७.४२ ॥
अनादिर्मति संसारे शत्रवश्चित्तसम्भवाः ।
अहन्त्वात्तु भवेत्प्रीतिर्न सा कामैः कथञ्चन ॥ ७.४३ ॥
सकल्मषा कटुफला दुःखात्कामोद्भवा रतिः ।
या तु कामविनिर्मुक्ता सा रतिः परि(भाषिता) ॥ ७.४४ ॥

योगिनः परमा गतिः

तां समाश्रित्य गच्छन्ति योगिनः परमां गतिम् ।
न तु कामकृता प्रीतिर्नयते पदमच्युतम् ॥ ७.४५ ॥

कामजरतिं निन्दति

आपातमधुरा रम्या विपाके ज्वलनोपमा ।
रतिर्भवति कामाग्निजन्या नरकगामिनी ॥ ७.४६ ॥
आपातरम्या मधुरा मध्ये रम्या च सर्वदा ।
शान्तमन्ते च विमलं नयते पदमच्युतम् ॥ ७.४७ ॥
आद्यन्तमध्यकल्याणी नित्यं मातेव शोभना ।
तां व्युदस्य कथं बाला रक्षन्ते (कामजां रतिम्) ॥ ७.४८ ॥

कामकृता रतिः निरतं तपति

मध्यादिनिधने दुःखा नित्यं दोषादिभिर्वृता ।
कथं सा सेव्यते बालैर्या न दृष्टा सुखावहा ॥ ७.४९ ॥
विषमञ्जरिवद्रम्या स्पर्शे ज्वलनसम्भवा ।
तथा कामकृता प्रीतिः परिणामे विषोपमा ॥ ७.५० ॥
हूयमानो यथा वह्निर्ज्वलनेन प्रशाम्यति ।
दाहेन च प्ररोहः स्यात्तद्वत्कामकृता रतिः ॥ ७.५१ ॥
पतङ्गः पश्यति ह्यग्नि दाहदोषं न पश्यति ।
तथा कामकृतां प्रीतिं पश्यन्त्यकृतबुद्धयः ॥ ७.५२ ॥
यस्तु रागकृतो दाहः पच्यते कामिनां सदा ।
पतङ्गसदृशं दाहं सर्वथा नै(व) पश्यति ॥ ७.५३ ॥

कामप्रमादात्पतनं ध्रुवमेव

तस्मात्काम(विषं) त्यक्त्वा नित्यं जीवथ हे सुराः ।
भवन्तु मा वृथा जन्मप्रमादेन प्रपातनम् ॥ ७.५४ ॥
संक्षीणशुभकर्माणो नित्यं कामैर्विमोहिताः ।
तं हित्वा नरकं यान्ति काममोहेन वञ्चिताः ॥ ७.५५ ॥

काममोहितः विषवृक्षमयं पुष्पं पिबति

विषवृक्षमयं पुष्पं पीयते भ्रमरैर्यथा ।
तथा विषात्मकमिदं सुखं भुङ्क्ते हि मोहितः ॥ ७.५६ ॥
जीवेयुः पामराः केचित्विषं पीत्वापि दुर्भगाः ।
न कामविषपीतस्य जीवितं दुर्लभं भवेत् ॥ ७.५७ ॥
यथा हि नरके वह्निर्ज्वलयत्य विचारिणम् ।
तथा काममयो वह्निर्दहतीह दिवौकसः ॥ ७.५८ ॥

कामाग्निः हिंसक एव

श्रुतिपाशमयो वह्निः प्रेतानेष दहत्यति ।
दहने हिंसको वह्निर्नृणां पर्येषणात्मकः ॥ ७.५९ ॥
एवमग्निसमं तावत्परिहार्य समन्ततः ।
सर्वलोकमशेषेण दह्यते काममोहितः ॥ ७.६० ॥

विषयासक्तं मनः व्यसने पातयति

विषयेषु सदाचित्तं धावन्तं चञ्चलं महत् ।
न त्याज्यं व्यसने मूढ यद्पश्यसि भविष्यति ॥ ७.६१ ॥
कामेषु रक्ष ते चित्तं व्यसनेनावबुध्यते ।
व्यसनौघे समुत्पन्ने तत्पश्चात्परितप्यते ॥ ७.६२ ॥

काममोहिताः महद्भयमपि न पश्यन्ति

वृथा काममदैर्मत्ता देवाः प्रकृतिदुर्बलाः ।
भ्रमन्ति भ्रमिताः कामैर्न पश्यन्ति महद्भयम् ॥ ७.६३ ॥
विश्वसन्ति हि ये देवाः कामेष्वहितकारिषु ।
व्यतिरेकेषु ते पश्चात्प्रतिबुध्यन्त्यमेधसः ॥ ७.६४ ॥

कामाः परमवञ्चका भवन्ति

न च पश्यन्ति (वि)बुधाश्चित्तेन परिवञ्चिताः ।
क्षणिका मधुरा जाताः कामाः परमवञ्चकाः ॥ ७.६५ ॥

काम प्रति न विश्वसेत्

शतशश्च सहस्त्रैश्च कोटिशः पद्मशस्तथा ।
लब्धा नष्टा पुनः कामा न तेषां विश्चसेत्पुमान् ॥ ७.६६ ॥

कामैर्मोहितः पतङ्गसमो नरकाग्निना दह्यते

विषयाद्बन्धनं तीव्रं सर्वे नरकहेतवः ।
तस्मादत्यन्ततस्त्यक्त्वा श्रेयसे क्रियतां मनः ॥ ७.६७ ॥
रागेण रञ्जिताः पूर्वं द्वेषेण च तिरस्कृताः ।
मोहेन मोहिताश्चैव तेऽश्रुताकृतकारिणः ॥ ७.६८ ॥
कामार्थैरेष्यते बालः पुनः कामैर्विमोहितः ।
स पतङ्गसमो मूढः दह्यते नरकाग्निना ॥ ७.६९ ॥

कामवशगाः सुरलोकादपि पतन्ति

अवश्यम्भावि पतनं सुरलोकात्समन्ततः ।
न ज्ञात्वा कामवशगो स्यादिह कथञ्चन ॥ ७.७० ॥
कामेन वञ्चिताः सत्त्वाः कामेन च विमोहिताः ।
कामपाशापकृष्टास्ते पतन्ति नरके सदा ॥ ७.७१ ॥

कामं त्यक्त्व स्वहिते मनः कर्त्तव्यम्

तदेतद्व्यसनं सत्त्वाः स्वहिते क्रियतां मनः ।
मनसापि स्वदान्तेन नानुतप्यन्ति देहिनः ॥ ७.७२ ॥
मनोविषेण ये दष्टाः कामवेगेन सर्वदा ।
ते मूढा मृत्युवशगाः कामानलहता नराः ॥ ७.७३ ॥
न तृप्तिरस्ति कामानां तृष्णया हितकारिणाम् ।
तृष्णापि तृप्तिजनिका मनो नैव हि तृप्यति ॥ ७.७४ ॥

ज्ञानदीपेनैजेन्द्रियाणां विषयेभ्यस्तृप्तिर्जायते

न जातु विषयैस्तृप्तिरिन्द्रियाणां भविष्यति ।
यदि न ज्ञानदीपेन क्षपयिष्यन्ति (ते नराः) ॥ ७.७५ ॥

नारीसेवनेन नाशः सुनिश्चितः

योषितः सेव्यमाना हि वितर्कशतमालिकाः ।
प्रवर्धति यथा वह्निर्वायुना समुदीरितः ॥ ७.७६ ॥

कामाग्निदीप्ताः कदापि शान्तिं नाप्नुवन्ति

तं मत्वा वेगरभसा नित्यं कामोऽग्निदीपितः ।
कामान् हापयति ज्ञानी बुद्धतत्त्वविचिन्तकः ॥ ७.७७ ॥
ये नित्यं भ्रान्तमनसो नित्यं विषयतत्पराः ।
रमन्ते विबुधाः सर्वे तत्सर्वं मोहचेष्टितम् ॥ ७.७८ ॥
सेव्यमानो हि विबुधैर्विषयाग्निर्विवर्धते ।
पाशेनानेन संयुक्तो वह्निर्वायुसमीरितः ॥ ७.७९ ॥

रागविवशा अमरा अपि पतन्ति

अमराः रागविवशा नित्यं विषयतत्पराः ।
देवलोकात्पतन्त्येते मोहरागेण वञ्चिताः ॥ ७.८० ॥
रमन्ते विषयैरेते तत्र तल्लीनमानसाः ।
न च विन्दन्ति यद्दुःखं विप्रयोगो भविष्यति ॥ ७.८१ ॥

वियोगजं दुःखं कष्टप्रदमेव

यदेतत्सुखमेवादौ दिव्यं पञ्चगुणान्वितम् ।
वियोगजस्य दुःखस्य कलां नार्हतिषोडशीम् ॥ ७.८२ ॥
कामानां तद्विघातो हि जनेनैवोपयुज्यते ।
सतृष्णस्य तथा तृप्तिः कामेभ्यो नैव जायते ॥ ७.८३ ॥

कामानुसेविनः दुःखं कदापि शान्तिं नाधिगच्छति

अनपेक्षितचित्तस्य नित्यं कामानुसेविनः ।
दीर्घरात्रानुशयिकं दुःखं नैव प्रशाम्यते ॥ ७.८४ ॥
त्वरितं रक्ष्यते मूढो व्यसनेनैव बुध्यते ।
पश्चात्तु व्यसने प्राप्ते जानीते यस्य तत्फलम् ॥ ७.८५ ॥
आस्वादभद्रका ह्येते कामाः परमदारुणाः ।
दूतकान्नरकस्यैतान् चरन्त्यहितकारिणः ॥ ७.८६ ॥

विषयाग्निदग्धाः नरकं यान्ति

यस्तेषां विश्वसेत्मर्त्यो ज्ञानचक्षुर्विगर्हितः ।
विषयाग्निरभ्रतुल्यः स याति नरकं नरः ॥ ७.८७ ॥
अल्पास्वादाल्पहृदया नित्यं पुरुषवञ्चकाः ।
गन्धर्वनगरप्रख्याः कामा आस्वादभद्रकाः ॥ ७.८८ ॥

विषयमोहिताः देवा अपि दुर्गति यान्ति

(यथा) दीपप्रभा(भस्म) सञ्छन्नेव पुनः पुनः ।
न च बिन्दत्यमनसो देवा विषयमोहिताः ॥ ७.८९ ॥
विषयेणातिरभसा नित्यं कामवशानुगाः ।
न विदन्ति महद्दुःखं यदवश्यं भविष्यति ॥ ७.९० ॥
रमणीयानि कामानि यस्यैवं जायते मतिः ।
स पश्चाद्व्यसने प्राप्ते मूढोऽसौ विप्रलप्यते ॥ ७.९१ ॥
न कामेन मदान्धस्य विषयैर्मोहितस्य च ।
नैत्यिकं भवति शर्म्म यत्सुखानामनुत्तमम् ॥ ७.९२ ॥

आध्यात्मिकसुखापेक्षया कामसुखं हीनतमम्

यच्च कामसुखं लोके यच्च तृष्णोद्भवं सुखम् ।
एकस्याध्यात्मिकस्येदं कलां नार्हतिषोडशीम् ॥ ७.९३ ॥

कामी कदापि सुखं नाश्नुते

न सुखी वर्तते तावद्य यस्य कामो हृदि स्थितः ।
स सर्वदुःखभागार्हो नरकानुपधावति ॥ ७.९४ ॥
न तृप्तिर्विद्यते कामैरपि (भोगः) शतं नृणाम् ।
यत्र सौख्यं न तत्रास्ति तृप्तिर्विषयसेविनाम् ॥ ७.९५ ॥
सेव्यमानाः सदा कामा वर्धन्ते च मुहुर्मुहुः ।
ते वर्धिता विषसमा भवन्ति विनिपातिनः ॥ ७.९६ ॥
विपत्तिकुशला घोरा नित्यं पतनहेतवः ।
न च तेषां परित्यागं कुर्वन्ति विषयोत्सवाः ॥ ७.९७ ॥
यस्य दृष्टिसमुद्रस्य रूपैस्तृप्तिर्न विद्यते ।
तथा शर्ममनोज्ञैश्च रसतृप्तिर्न विद्यते ॥ ७.९८ ॥
गन्धैरपि सदा घ्राणं न तृप्तिमधिगच्छति ।
स्पर्शाः सम्मुखसंस्पर्शाः सेव्यन्ते नैव तृप्यते ॥ ७.९९ ॥
शब्दैः कान्तैः सुमधुरैः श्रोत्रमेति न तर्पणम् ।
मनोऽपि तृप्तिविश्वस्तं वर्धमानं न तृप्यति ॥ ७.१०० ॥

इन्द्रियाणि कामभूमिषु पातयन्ति

षडेन्द्रियाणि चपलान्याधृतानि रतौ पुनः ।
भ्रमन्ति मुषिता नित्यं कामभूमिष्वनेकशः ॥ ७.१०१ ॥
न तृप्तिरस्ति देवानां गजानां वै तृणैर्यथा ।
अनलस्य स्वभावोऽयं तस्य तृप्तिर्न विद्यते ॥ ७.१०२ ॥
षडेते वह्नयस्तीव्रा वितर्कानिलमूर्छिताः ।
भ्रमन्ति मुषिता नित्यं कामभूमिष्वनेकशः ॥ ७.१०३ ॥

इन्द्रियदग्धा नरकं यान्ति

तैरयं दह्यते लोको न च विन्दत्यबुद्धिमान् ।
आस्वादभद्रका हयेते नरकस्य च हेतवः ॥ ७.१०४ ॥

काममोहितः सुखवञ्चितो भवति

कामा विषयलोभास्ते लेलिहाना यथोरगाः ।
विलोचनवरो हयेष न च कामैर्विमोहितः ॥ ७.१०५ ॥

कामवशीनरः नेत्रहीना मूढतरः

सुखानुसारिणः कामो नरकानुपधावति ।
न नेत्रहीनो नरके पात्यते सत्क्रियान्वितः ॥ ७.१०६ ॥
तस्माद्वरं विचक्षुः स्यान्न तु कामवशो नरः ।
अशक्यवञ्चिता मूढाः कामैरहितकारिभिः ॥ ७.१०७ ॥

कामचारिणां ज्ञानादिकं दुर्लभम्

अनिर्विद्यन्ति कामेभ्यो मोहिताः स्वेन चेतसा ।
न ज्ञानं नापि विज्ञानं विद्यते कामचारिणाम् ॥ ७.१०८ ॥

कामः मृत्युभवनं नयति

यद्दुःखकामजं हत्वा पुनः कामवशानुगाः ।
मित्ररूपा च ये कामाः किम्पाकफलसन्निभाः ।
नयन्ति मृत्युभवनं दुर्गतीश्च पुनः पुनः ॥ ७.१०९ ॥
अनिवर्त्त्य यथा तोयमापगानामनेकशः ।
तथा सौख्यगतं नृणां सर्वथा न विवर्तते ॥ ७.११० ॥
वनोपवनभोगेषु सुखप्राप्तेष्वनेकशः ।
यो न तृप्यति कामेषु स नरोऽधमगामिकः ॥ ७.१११ ॥
प्रमादो पहतो जन्तुः कामास्वादेषु तत्परः ।
रूपेषु रक्ष्यते नित्यं परिणामे च विद्यते ॥ ७.११२ ॥
घनच्छायास्वरूपाणि कर्ममिश्राणि यानि वै ।
तानि चैव कथं देवाः शक्ष्यन्ते कामगोचरे ॥ ७.११३ ॥

कामाः कदापि न सेव्याः

यदि नित्या भवेयुर्न कामास्ते स्युर्विषोपमाः ॥ ७.११४ ॥

कामतृष्णादुःखकरी

तथापि कामतृष्णा या न सा जाति विलक्षणा ।
प्रागेव नित्यं दुःखाय शून्यमात्मानमेव च ॥ ७.११५ ॥
तेषु दुःखविपाकेषु कथं रक्षन्त्यबुद्धयः ।
कामास्वादेषु रक्ष्यन्ते बालिशाः मन्दबुद्धयः ।
आदीनवं न बुद्धयन्ते किम्पाकफलसन्निभम् ॥ ७.११६ ॥
रूपशब्दादिबद्धोऽयं तृष्णाविप्रकृतो जनः ।
दीप्यते विवशो नित्यं, कुकर्मफलमोहितम् ॥ ७.११७ ॥
आस्वादयित्वा पुरुषाः कामान् विषफलोपमान् ।
तृष्णया तृप्तमनसः पतन्ति नरके पुनः ॥ ७.११८ ॥
यथाभिवर्षते तोयं वर्धन्ते सरितो यथा ।
तथा कामाभिवर्षेण देवानां वर्धतेऽनलः ॥ ७.११९ ॥

कामसुखस्य नान्तो विद्यते

जलसम्भवमीनोऽपि दृश्यते तृष्णयातुरः ।
एवं सुखाभिवृद्धा च न वितृप्यति देवता ॥ ७.१२० ॥
आकाशस्य यथा नान्तो विद्यते नापि संशयः ।
एवं कामेषु नास्त्यन्तः कामिनां नास्ति संक्षयः ॥ ७.१२१ ॥
सलिलादिभिरतृप्तस्य सागरस्योर्मिमालिनः ।
न तु कामैरतृप्तस्य तृप्तिरस्ति कथञ्चन ॥ ७.१२२ ॥
अप्राप्तैर्विषयैर्देवा न वितृप्यन्ति बालिशाः ।
विषयैर्नैव तृप्यन्ति सुखलालसतत्पराः ॥ ७.१२३ ॥

कामस्तापाय, न तु शान्त्यै

संप्राप्ते व्यसने तीव्रे च्यवमानेप्यनेकशः ।
तप्यते विषये तस्मात्परं कामो न शक्यते ॥ ७.१२४ ॥
विलोक्य पुरुषानेते कामविश्वासघातिनः ।
त्यजन्ति व्यसने प्राप्ता विपद्यन्ते हि ते नराः ॥ ७.१२५ ॥
अतृप्तस्य सुखं नास्ति विषयैश्चापि तृप्यते ।
ये वा तृइप्तिकरा दृष्टास्तान् बुद्ध्वा (तु) विवर्जयेत् ॥ ७.१२६ ॥

विषयान्परित्यज्य शान्तिः सेव्या

सुखमूला सदा शान्तिरसुखा विषया मताः ।
तस्माच्छान्तिसुखा देवा वर्जयित्वा विषयोरगान् ॥ ७.१२७ ॥
बधबन्धनरोगादि विषयेभ्यो महद्भयम् ।
सम्भ्रान्तिरिह संसारे विषयैरेव जायते ॥ ७.१२८ ॥
संयोगा विप्रयोगान्ताः शतशोऽथ सहस्त्रशः ।
जातौ जातौ सदा दृष्टाः सौगतैस्तत्त्वदर्शिभिः ॥ ७.१२९ ॥

अनेक सुखसंसारः विषयात्मक एव

अनेकसुखसंसारो विषयेषु हि विद्यते ।
विषयैश्च भवेत्सर्व जातौ जातौ प्रजायते ॥ ७.१३० ॥
कष्टैर्यैरनकामैर्न शक्यतेऽमूढचेतसा ।
पुनस्तानेव मोहान्धाः सेवन्तेऽकृतबुद्धयः ॥ ७.१३१ ॥

विषयशत्रुसेविनः बालिशाः भवन्ति

वर्जते हि सदा शत्रुवञ्चनाशङ्कया नरः ।
विषयाः शत्रुभूता हि न वश्यन्ते कथञ्चन ॥ ७.१३२ ॥
कामबद्धाः सदा मोहबालिशा वा भवन्ति ते ।
न त्यजन्ति कथं मूढा मोहिताः स्वेन कर्मणा ॥ ७.१३३ ॥
यथा बह्निभयात्कश्चिद्वह्निमेवोपसेवते ।
तथा विषयसंमूढो विषयानुपसेवते ॥ ७.१३४ ॥
स्नायुसङ्ग्रथितः पाशो दृष्टिरम्यो यथा भवेत् ।
तथा विषयरम्योऽयं पाशः परमदारुणः ॥ ७.१३५ ॥

कामसुखं नाशाय भवति

किंपाकस्य यथास्वादो मधुराग्रो महोदयः ।
पश्चाद्भवति नाशाय सुखं तद्वदिदं नृणाम् ॥ ७.१३६ ॥
प्रदीपस्य शिखां यावत्पतङ्गो मोहमूर्छितः ।
पतते दह्यते चैव तथेदं सुखमिष्यते ॥ ७.१३७ ॥
अज्ञात्वा हि तथा बाला रम्यदेहसुखेच्छया ।
स्पृशन्ति ज्वलनं तद्वत्सुखमेतद्भविष्यति ॥ ७.१३८ ॥

तृष्णाविघात एव सुखाय जायते

यथा रम्यो वनमृगस्तृष्णार्त उपधावति ।
न च तृष्णाविघातोऽस्य तदिदं सुखमिष्यते ॥ ७.१३९ ॥
न तृप्ता न च तृप्यन्ति न च तृप्तिर्भविष्यति ।
विषयैः सर्वदेवानां तस्मात्कामो न शान्तये ॥ ७.१४० ॥

विषयैः प्रमत्ताः दुःखमनुभवन्ति

प्रत्युत्पन्नसुखाः कामा नान्तकल्याणकारकाः ।
रञ्जिता विषयैर्देवा विक्षिप्तमनसः सदा ॥ ७.१४१ ॥
नानासौख्यप्रमत्तस्य विषयैर्वञ्चितस्य च ।
सम्प्राप्ते मृत्युकाले च न शमायास्य विद्यते ॥ ७.१४२ ॥
अनुक्रमेण मरणमभ्येति तच्च विद्यते ।
विषयापहतैर्देवैः कामव्यासक्तबुद्धिभिः ॥ ७.१४३ ॥

कामा अहितकारिणो भवन्ति

जानीयादद्य मे देवा यद्दुःखं विप्रयोगजम् ।
मुहूर्तमपि कामेषु न कुर्यात्तत्र संस्थितिम् ॥ ७.१४४ ॥

रागाग्निना दग्धो विमोहितो जायते

अनित्यात्मभयाः कामा नित्यं चाहितकारिणः ।
तथा विमोहितान् कालः पुनस्ताननुसेवते ॥ ७.१४५ ॥
रागाग्निना प्रदहयन्ते नित्यं देवाः प्रमोहिताः ।
दह्यमानाः पुनस्तत्त्वं प्रशंसन्ति पुनः पुनः ॥ ७.१४६ ॥

रथचक्रवत्सदा भ्रान्ता विषयविमोहिताः भवन्ति

विषयेषु न रक्ष्यन्ते तेषां दुःखमिव स्थितम् ।
त्रैधातुकमिदं सर्व भ्राम्यते रथचक्रवत् ॥ ७.१४७ ॥

गन्धर्वनगरसदृशाः कामाः भवन्ति

सत्त्वा अविद्यया मुग्धा नित्यं दुःखस्य भोगिनः ।
विद्युदालातचक्रेण समाः कामाः प्रकीर्तिताः ।
स्वप्ने गन्धर्वनगरसदृशा विप्रलम्भिनः ॥ ७.१४८ ॥

पञ्चस्कन्धमतिर्दुःखितस्तिष्ठति

अनित्यदुःखशून्येषु न कुर्यान्मतिमात्मवान् ।
पञ्चस्कन्धासुरैः प्रोक्तः शुभै रिक्तः स्वभावतः ॥ ७.१४९ ॥
अन्यथा विषवद्विज्ञः कामेषु च प्रसह्यते ।
स बुधः पारगः शान्तः सत्त्वानामनुकम्पकः ॥ ७.१५० ॥
निर्वाणोन्मुख एव दोषाच्छान्तिमधिगच्छति
हित्वा क्लेशमयं पाशं निर्वाणस्यान्तिके स्थितः ॥ ७.१५१ ॥

कामविभ्रान्तस्य शान्तिकथा वृथा

प्रभवेन्न च दोषेषु कामचर्यारतस्य च ।
विभ्रान्तमनसस्तस्य कुतः शान्तिर्भविष्यति? ॥ ७.१५२ ॥
विभ्रान्तं पश्यतु मनो विषयेषु प्रधावति ।
सद्धर्मपथविभ्रान्तो नरकेषूपपद्यते ॥ ७.१५३ ॥
अशक्तप्राप्तविभ्रष्टे किं कामैर्विद्युतोपमैः ।
किंपाकविषशस्त्राग्निसन्निभैर्दुःखहेतुभिः? ॥ ७.१५४ ॥

कामाग्निः विषयसेवनेन वर्धते

यथा यथा हि सेव्यन्ते वर्धन्ते ते तथा तथा ।
अवितृप्तिकरा ह्येते वह्निदाहस्य हेतवः ॥ ७.१५५ ॥
कामान् वर्जयित्वैव सुखमश्नुवते जनाः
दाहदोषेण सम्भ्रान्ताः ये सुराः सुखकाङ्क्षिणः ।
वर्जयित्वाशिवान् कामास्ततः सौख्यं भविष्यति ॥ ७.१५६ ॥

कामाः विद्युद्गुणोपमाः चञ्चलाः

वञ्चयित्वा जनं मूढं शाटी कृत्येव बन्धनम् ।
प्रत्ययो नेत्रचपलः कामा विद्युद्गुणोपमाः ॥ ७.१५७ ॥
उपर्युपरि कामा यैः सेव्यन्ते कामतृष्णया ।
ते रागवह्निना दग्धा दाहाद्दाहमवाप्नुयात् ॥ ७.१५८ ॥
अतिमूढतमा ह्येते ये सुराः काममोहिताः ।
अथवा ये न गच्छन्ति यत्सुखात्सुखमुत्तमम् ॥ ७.१५९ ॥
निर्वाणगामिनो नास्ति विना मुक्त्या कुतः सुखम्? ।
तस्मात्कामान्न सेवेत कष्टः कामसमागमः ॥ ७.१६० ॥
इन्द्रियाणि न तृप्यन्ते विषयै रागसेविनः ।
अतृप्तौ च कुतः शर्म सर्वथा सम्प्रवेशते ॥ ७.१६१ ॥
तस्याग्रमुभयाद्वेत्ति संसाराद्दुःखसागरात् ।
कामान् तृष्णाविषयगान् परित्यजति पापकान् ॥ ७.१६२ ॥

कामोदयव्ययौ सम्यगवधेयौ

एतानि गिरिकूटानि रम्याणि विविधैर्द्रुमैः ।
ध्यायन्ते तानि संश्रित्य कामानामुदयव्ययौ ॥ ७.१६३ ॥

शीलेन श्रद्धया च इष्टसाधनं कर्त्तव्यम्

न कामबन्धनेस्तृप्ताः कामजं निधनं हि तत् ।
न शीलश्रद्धे येनेष्टे लभ्यतेऽशिवकारणम् ।
कामजं निधनं ह्येतत्संसाराटविदेशकम् ॥ ७.१६४ ॥

पापानि परित्यज्य सुखावहः शान्तिमार्गः सेवनीयः

यत्र कामविसंयुक्तं बन्धनं वनमुच्यते ।
यत्र भासयते पापाद्यत्र शान्तिः सुखावहा ।
तत्केवलं महाज्ञानं कथ्यते निधनं धनम् ॥ ७.१६५ ॥

कामतृष्णाभ्यां विमुक्तः शिवमाप्नोति

ये प्रसक्ता न कामेषु तृष्णया न प्रलोभिताः ।
ते शिवं स्थानमापन्ना न कामाग्निप्रवेशकाः ॥ ७.१६६ ॥

अवितृप्ताः नराः नश्यन्त्येव

तृप्तिर्नास्ति सदा कामैर्न कामाः शान्तये स्मृताः ।
तृष्णासहायसंयुक्ता ज्वलन्ति ज्वलनोपमाः ॥ ७.१६७ ॥
अवितृप्ता विनश्यन्ति नरा देवास्तथोरगाः ।
ते केवलं प्रणष्टा हि नरकाग्नि प्रदर्शकाः ॥ ७.१६८ ॥

तृष्णामोहितस्य मृत्युरधिपतिः

वितर्कापहतस्यास्य विषयैर्वञ्चितस्य च ।
तृष्णया मोहितस्यैष मृत्यू राजा भविष्यति ॥ ७.१६९ ॥

कामासक्ताः पथ्यापथ्यं न विजानन्ति

संसक्तकामभोगेषु पथ्यापथ्यं न विद्यते ।
जना विमोहिताः सर्वैविषयैः कामसंज्ञकैः ॥ ७.१७० ॥

कामवशानुगाः विषयैरेव बध्यन्ते

विषयैरेव कृष्यन्ते ये सुरा मूढचेतसः ।
ये (तु) बुद्धगुणैर्युक्ता न ते कामवशानुगाः ॥ ७.१७१ ॥

ऽधीरऽ परिभाषा

प्रत्युत्पन्नेषु कामेषु सदोषेषु विशेषतः ।
यो न मुह्यति सौख्येषु सऽधीरऽ इति कथ्यते ॥ ७.१७२ ॥

कामपतितानां सुराणां स्थितिमाह

स्वप्नकायविचित्रेषु ज्वालामालोपमेषु च ।
गन्धर्वपुरतुल्येषु कामेषु पतिताः सुराः ॥ ७.१७३ ॥
तृष्णाजनकभूतेषु विनाशान्तकरेषु च ।
कान्तारेषु विशालेषु कामेषु पतिताः सुराः ॥ ७.१७४ ॥
इत्त्वरेषु त्रिछिद्रेषु नदीवेगोपमेषु च ।
चञ्चलेष्वतिदुर्गेषु (कामेषु) पतिताः सुराः ॥ ७.१७५ ॥
पवनोद्धृतवेगोर्मिजलचन्द्रे चलेषु च ।
अतातचक्रलोकेषु कामेषु पतिताः सुराः ॥ ७.१७६ ॥
समं विद्युल्लताचक्रमृगतृष्णोपमेषु च ।
फेनवच्चाप्यसारेषु कामेषु पतिताः सुराः ॥ ७.१७७ ॥
कदलीगर्भतुल्येषु गजकर्णोपमेषु च ।
नदीतरङ्गवेगेषु कामेषु पतिताः सुराः ॥ ७.१७८ ॥
किंपाकफलतुल्येषु वह्निसन्निभजातिषु ।
मायारश्मिनिभेष्वेषु कामेषु पतिताः सुराः ॥ ७.१७९ ॥

ज्ञानाङ्कुशेन कामो वर्जनीयः

ज्ञानाङ्कुशेन वार्यन्ते विषयास्तत्त्वदर्शिभिः ।
येऽमुक्ताश्चपलास्तीव्राः सर्वानर्थकरा मताः ॥ ७.१८० ॥

विषया एव नरकपातहेतवः

विषयाशा च मूढानां सङ्कल्पहृतचेतसाम् ।
मृत्युपाशोऽयमभ्येति जीविताशा(वि)बन्धकः ॥ ७.१८१ ॥
पचन्ति निरये कामाः प्राणिनं लघुचेतसम् ।
न च विन्दन्ति मूढा ये मोहेन परिवञ्चिताः ॥ ७.१८२ ॥
विषयाश्चपलाः सर्वे गन्धर्वनगरोपमाः ।
दुःखसंवर्तका ह्येते नरकाः पञ्चहेतवः ॥ ७.१८३ ॥

सङ्कल्पजो रागः नरकं पातयति

सङ्कल्पाज्जायते रागः रागात्क्रोधः प्रवर्तते ।
क्रोधाभिभूतः पुरुषो नरकानुपसेवते ॥ ७.१८४ ॥

कामपरित्यागपूर्वकं निर्वाणप्राप्तये यतेत

तस्मात्कामं परित्यज्य क्रोधं निर्वास्य पण्डितः ।
मोहं चापि परित्यज्य निर्वाणाभिमुखो भवेत् ॥ ७.१८५ ॥

निर्वाणपथिकानां कृते शत्रुवदेव कामः परिवर्जनीयः

शत्रुवद्विषया ज्ञेया निर्वाणं चैव मित्रवत् ।
पुमान् विश्रान्तविषयो निर्वाणमधिगच्छति ॥ ७.१८६ ॥

काममलैरलिप्त एव विमलप्रकाशमाप्नोति

अलोलुपः काममलैरलिप्तः प्रहीणदोषो हतवाणतृष्णः ।
संक्षीणदोषो विमलप्रकाशः प्रयाति शान्तिं स्वफलोपभोगी ॥ ७.१८७ ॥

सुखार्थी कामं परित्यज्यैव शान्तिमधिगच्छति
यः कामपङ्कोद्धृतवानदोषः
सर्वेषु सत्त्वेषु सदा सुखार्थी ।
स निर्मलोऽशान्तमनोविमुक्तः
प्राप्नोति निर्वाणसुखं प्रसह्य ॥ ७.१८८ ॥

इति कामजुगुप्सावर्गः सप्तमः ।


(८) तृष्णावर्गः

तृष्णाग्निरेव नरकभूतः

भवोताराय तृष्णाग्निर्ज्वलनः शीत उच्यते ।
नरके नारके योऽग्निस्तृष्णाग्निस्त्रिषु धातुषु ॥ ८.१ ॥
कल्पभूतो ह्ययं वह्निः योऽयं नरकसम्भवः ।
बहुज्वालाकुलो वह्निः तृष्णाहेतुसमुद्भवः ॥ ८.२ ॥
कर्मक्षयाद्विमुच्यन्ते नरकात्पापकारिणः ।
त्रिषु धातुषु दह्यन्ते नरास्तृष्णावशानुगाः ॥ ८.३ ॥
अनादिमति संसारे तृष्णाग्निरतिबन्धकः ।
तृष्णाग्निर्नरकं तस्मान्नाग्निर्नरकसम्भवः ॥ ८.४ ॥

तृष्णाग्निः शरीरं मनश्च दहति

गात्रदाहं परं कुर्यान्नारकेयो हुताशनः ।
शारीरं मानसं दाहं तृष्णाग्निः कुरुते नृणाम् ॥ ८.५ ॥

तृष्णाग्निः सामान्याग्निना विशिष्यते

तस्माद्विशिष्यते वह्निः तृष्णाहेतुसमुद्भवः ।
नारकेयोऽसमश्चैव तृष्णाग्निर्नितरां स्मृतः ॥ ८.६ ॥

अयमग्निः त्रिकालसम्भवः

त्रिस्थानगः त्रिहेतुश्च त्रिकर्मपरिदीपकः ।
त्रिकालसम्भवो ज्ञेयस्तृष्णाग्निपरकस्तथा ॥ ८.७ ॥

तृष्णाग्निः सदैव सर्वत्र दाहकः

रागाग्निर्दह्यते स्वर्गे द्वेषाग्निस्तिर्यगे तथा ।
मोहाग्निर्दह्यते पापे तृष्णाग्निः सर्वदा स्थितः ॥ ८.८ ॥

तृष्णाग्नेः स्वरूपनिरूपणम्

मानेर्ष्याधूमविशिखः सङ्कल्पे धनसम्भवः ।
लोभाग्निर्दहते लोकं नाग्निः कामसमुद्भवः ॥ ८.९ ॥

तृष्णाग्निर्विषयसेवनेनैव वर्धते
लोभाशीविषदष्टा ये तेषां शर्म न विद्यते ।
सेवितो भावितो लोभो भूय एवाभिवर्धते ॥ ८.१० ॥

लोभसमो रिपुर्भुवि नास्ति

यथा यथेन्धनं प्राप्यानलो वर्धत्यनेकशः ।
शक्यः पालयितुं(वह्नि) र्लोभवह्निर्न(शक्यते) ॥ ८.११ ॥
चक्रवद्भ्रमते लोको लोभेन परिवञ्चितः ।
अनादिनिधने लोके नास्ति लोभसमो रिपुः ॥ ८.१२ ॥
विशन्ति सागरजले लोभेन परिवञ्चिताः ।
शस्त्रसङ्घातगहनं युद्धं संप्रविशन्ति च ॥ ८.१३ ॥
लोभहेतोर्हि भूपाला नाशयन्ति परस्परम् ।
शस्त्रासिभैरवप्रोता युद्धयन्ते धनतृष्णया ॥ ८.१४ ॥
तृष्णाविषविनिर्मुक्ता लोभाङ्गारविवर्जिता ।
समलोष्टकाञ्चना ये निर्वाणस्यान्तिके हि ते ॥ ८.१५ ॥

लोभाग्निः सर्वापेक्षया विषमः

अतीवानुपपन्नस्य धनलोभेन दह्यते ।
न वह्निर्विषमस्तत्र लोभाग्निर्यत्र वर्तते ॥ ८.१६ ॥

लोभशान्तिं विना निर्वाणकथा वृथा

लोभाधारप्रयत्नेन हन्यात्तान् रभसा बुधः ।
अनिर्वापितलोभस्य निर्वाणं दूरतः स्थितम् ॥ ८.१७ ॥

भवसुखपरित्यागी भवजं दुःखं नाप्नोति

भवाभिलाषिणीं नान्दीं नाभिनन्दन्ति ये नराः ।
न तेषां भवजं दुःखं स्वप्ने समुपविद्यते ॥ ८.१८ ॥
तृष्णाबद्धान् जनान्मृत्युः शम्बूक इव कर्षति
मत्स्यान् यथा जालबद्धान् शम्बूकः परिकर्षति ।
तृष्णाबद्धांस्तथा सत्त्वान्मृत्युः समुपकर्षति ॥ ८.१९ ॥

तृष्णाविषं कुत्रापि न मुञ्चति

सविषैः सायकैर्विद्धो मृगो यत्र (प्र)धावति ।
तत्र तत्र विषं याति तथा तृष्णाविषं नृणाम् ॥ ८.२० ॥
प्रवाहप्रवहन्नद्या गतिर्गत्यऽनुधाविनी ।
यथा निर्दहते बालान् शुष्केन्धनमिवानलः ॥ ८.२१ ॥
आपातरम्या(विषया) विपाकज्वलनोपमाः ।
तस्मात्तृष्णा विमोक्तव्या यदि सौख्यं हि रोचते ॥ ८.२२ ॥
यथा हि वडिशग्रस्ता मीना मृत्युवशानुगाः ।
तथा प्रतप्ता विषयान् परिधावन्ति दुःखिताः ॥ ८.२३ ॥

तृष्णाग्निः नरकादपि महान्

नरकं नारकेयं च तृष्णानिहितं महत् ।
पतन्ति निधना मर्त्याः परदारोपजीविनः ॥ ८.२४ ॥

तृष्णाप्रेरितो मुनिरपि दुःखमनुभवति

न चेष्टितमनोपापतृष्णया प्रेरितो मुनिः ।
षडिन्द्रियसमुद्भूतो विषयेन्धनदाहकः ॥ ८.२५ ॥

देवानपि तृष्णाग्निर्दहत्येव

तृष्णाग्निर्दहते देवं कायाग्निर्न कथञ्चन ।
सुखावृताः सुखरताः सुखे(न) परिवञ्चिताः ॥ ८.२६ ॥
तृष्णापरिवञ्चितः पतनमपि नावगच्छति
पतनं नावगच्छन्ति तृष्णया परिवञ्चिताः ।
ज्वालामालाकुलः सर्वः संसारस्तृष्णयावृतः ॥ ८.२७ ॥
तृष्णाग्निना वशीभूता जना गच्छन्ति दुर्गतिम् ।
तृष्णाग्निभिः परिवृतः सुरलोकः समन्ततः ॥ ८.२८ ॥

तृष्णाग्निः सदैव वर्धते

दह्यते विवशो रक्तः कामभोगवशीकृतः ।
यथा यथेन्धनं प्राप्य ज्वलनं संप्रवर्धते ॥ ८.२९ ॥
तथा तथा सुखं प्राप्य तृष्णाग्निर्वर्धते नृणाम् ।
परिवर्तयते पुंसः काष्ठाग्निर्दाहदीपकः ॥ ८.३० ॥
तृष्णाग्निर्दहते लोकं परिहातुं न शक्यते ।
ये विशालां नदीं तीर्णा सङ्कल्पकृतभैरवीम् ॥ ८.३१ ॥

तृष्णापाशशून्यः परमां शान्तिमाप्नोति

ते गताः परमां शान्तिं यान् हि तृष्णा न बाधते ।
तृष्णापाशविमुक्ता ये सङ्गदोषविवर्जिताः ॥ ८.३२ ॥
निर्मुक्तपापकल्माषा वीतशोका हि ते बुधाः ।
कल्पकोटिसहस्राणि तृष्णया वञ्चिता नराः ॥ ८.३३ ॥

तृष्णया वञ्चितो लोकस्तृष्णामेवोपास्ते

(न)ते त्यजन्ति(विषयान्) मायामोहवशंगताः ।
तृष्णया वञ्चितो लोकस्तृष्णामेवोपसेवते ॥ ८.३४ ॥
लवणोदं तृषातोयं यथा पिबति नारिकः ।
न तेन (तुष्यति) जन्तुर्मुहुश्च परिशुष्यति ॥ ८.३५ ॥

दुःखकरीं तृष्णां न सेवेत

विषयेष्वेव तृष्णार्तश्चेष्टते पुरुषोऽधमः ।
तस्मात्तृष्णां न सेवेत सा हि तृष्णा दुरासदा ॥ ८.३६ ॥

तृष्णावशो नैव प्रमुच्यते

तृष्णावशो हि पुरुषः संसारान्नैव मुच्यते ।
अनुत्तमानि सौख्यानि भुक्त्वा देवेषु जन्तवः ॥ ८.३७ ॥

तृष्णापाशविकृष्टाः नरकं पतन्ति

तृष्णापाशविकृष्टास्ते पतन्ति नरकं पुनः ।
अस्वतन्त्रादिकल्याणं नित्यदुःखमयं कटु ॥ ८.३८ ॥

तृष्णया कदापि तुष्टिर्न भवति

तृष्णायाः सेवनान्मुक्तः सन्मार्गमधिगच्छति ।
सतृष्णस्य कुतस्तुष्टिर्विषयेषु भविष्यति ॥ ८.३९ ॥
सा तृप्तिर्या वितृष्णस्य वीतशोकस्य देहिनः ।
एवं वितर्कविहिताः प्रमादेन च वञ्चिताः ॥ ८.४० ॥

तृष्णया देवानपि नरकं यान्ति

तृष्णयाः तोषिता देवाः पतन्ति नरकं पुनः ।
विडम्बनेयं परमा यत्सुरा नरकं गताः ॥ ८.४१ ॥
क्रीडकाः परमा भूत्वा कामस्य वशमागताः ।
न चोद्विजन्ति संसारान् प्राणिनश्चित्तमोहिताः ॥ ८.४२ ॥

तृष्णया दुःखतरं पदमाप्नोति

दुःखाद्दुःखतरं यान्ति तृष्णया परिवञ्चिताः ।
यथा यथा सुखस्याप्तिर्वर्धते जालिनी तथा ॥ ८.४३ ॥
जालिनीवह्निदग्धस्य नरकानुपकर्षति ।
सतृष्णस्य वितर्का ये तेषां संख्या न विद्यते ॥ ८.४४ ॥

विषयगामिनः तृष्णया मृत्युमुखमेव प्रविशन्ति

अवितर्कवितर्कन्तु मृत्युराजो विकर्षति ।
वितर्ककामवशगास्तृष्णाविषयगामिनः ॥ ८.४५ ॥

कामास्वादप्रमत्ताः विषयिणो दुःखिनस्तिष्ठन्ति

सुखस्य भोगिनं दृष्ट्वा न विद्वद्भिस्तथेष्यते ।
कामास्वादप्रमत्तानां प्राणिनां विषयार्थिनाम् ॥ ८.४६ ॥

देहिनः तृष्णया दहयन्ते

जालिनी बाधते नित्यं यथा बध्नन्ति देहिनः ।
पञ्चालम्बनमेतत्तु तृष्णया नैव दहयते ॥ ८.४७ ॥

तृष्णाविमुक्ता विमला भवन्ति

तृष्णाविमुक्तविमला न पापपुरगामिनः ।
सङ्कल्पदोषा कुटिला त्रिदोषरजसोद्भवाः ॥ ८.४८ ॥

तृष्णया संसारसागरे परिवर्ते पतन्ति जनाः

प्रमादजलगम्भीराः स्त्रीरागकृतसेवनाः ।
गीततूर्यस्वराः शीघ्रं सुरापानाच्च चञ्चलाः ॥ ८.४९ ॥
सञ्छन्नविषया सर्वे मनः क्षिप्ततरङ्गिणः ।
तृष्णानदीषु विषमे वहन्ति न च गोचरे ॥ ८.५० ॥
गाहन्ते ते च सम्मूढाः सुरा रागेण वञ्चिताः ।
त्रिदोषकाष्ठसंभूताः प्रमादानिलवेगतः ॥ ८.५१ ॥
तृष्णानलः सुरगणान् दहते न च ते विदुः ।
न क्षणो नापि हि लवो न मुहूर्त कथञ्चन ॥ ८.५२ ॥
या न तृष्णावशगतैः सुरैः समुपभुज्यते ।
तृष्णाभूमिरियं काष्ठा वितर्कजलसम्भृता ॥ ८.५३ ॥

तृष्णासर्पदग्धः कालवशीकृतो भवति

यस्मिन् क्रीडन्ति विवशाः देवाः कामवशानुगाः ।
चित्तादिना प्रचण्डेन तृष्णाविषविसर्पिणा ॥ ८.५४ ॥
दष्टानुपञ्चशीर्षेण किं वृथा विलपस्यथ ।
तृष्णानदी विशालेयं पञ्चतीर्थसमुद्भवा ॥ ८.५५ ॥
तृष्णामोहेन्द्रजालेन विप्रकीर्णेन सर्वदा ।
तथा प्रपञ्चिता देवा यथा न शुभभागिनः ॥ ८.५६ ॥

तृष्णाविषयघृतसिक्तो वर्धत एव

नेन्द्रियाणि सदा कामैस्तृप्यन्ति हि कथञ्चन ।
संवर्धते तथा तृष्णा घृतसिक्तो यथानलः ॥ ८.५७ ॥

तृष्णया विविधासु योनिषु जनाः भ्रमन्ति

नानाविधैः सुखैरेषा जालिनी लोकनाशिनी ।
नरकप्रेततिर्यक्षु भ्रामयन्ती नरान् सदा ॥ ८.५८ ॥

वीततृष्णः निर्मुक्तबन्धनः परमां गतिमाप्नोति

मृत्यूपपत्तिदोलायां श्लिष्यन्ते बालिशाः जनाः ।
सुशीलावीततृष्णाश्च गतास्ते परमां गतिम् ॥ ८.५९ ॥
निर्मुक्तबन्धना धीरा गतशोका गतव्यथाः ।
सुखं प्राप्नुवन्ति नित्यं ये न तृष्णावशानुगाः ।
जन्मदुःखमयैः पाशैर्न ते विध्यन्ति सूरयः ॥ ८.६० ॥

तृष्णाविसृष्टिः ज्ञानाय प्रवर्तयति

येषां सर्वास्ववस्थासु ज्ञानेषु विहितं मनः ।
अनिमित्ते मनो येषां विसृष्टा ये च तृष्णया ।
ते वीतमलकान्ताराः पारं प्राप्ताः सुखोदयम् ॥ ८.६१ ॥

तृष्णामोहप्रमत्ताः भवे भवे भ्रमन्ति

तृष्णामोहप्रमत्ता ये रतिसौख्यास्तथैव च ।
मोहितास्ते देवगणा भ्रमिष्यन्ति भवे भवे ॥ ८.६२ ॥

अहर्निशं तृष्णा तापयति

कुट्टनव्यवहारा ये परिचित्तापहारिणः ।
अविद्याबहुला ये वा नित्यं दाहाभिकाङ्क्षिणः ।
न रात्रौ न दिवा तेषां हृदयं सुप्रसीदति ॥ ८.६३ ॥

लोभाभिभूताः तुषाग्निकल्पा भवन्ति

लोभाभिभूतमनसां परिवित्ताभिकाङ्क्षिणाम् ।
तेषां तुषाग्निकल्पानां विश्वसेन्न स्वभावतः ॥ ८.६४ ॥

विषयेन्धन सर्पाद्भयमेवोचितम्

बिभेति हि नरः सर्वः सर्पादिव विषेन्धनात् ।
लोभेन विषयेणैवाभिभूतास्ते नरा भृशम् ॥ ८.६५ ॥

तृष्णावशगाः विविधां योनिं लभन्ते

ते मृता नरकं यान्ति प्रेतयोनिं तथैव च ।
तस्मादपि विनिर्मुक्ता नरकाद्वह्निसम्मुखात् ॥ ८.६६ ॥

आकाङ्क्षिणः नित्यं दुःखभागिनो भवन्ति

पञ्चजन्मशतान्येते भवन्ति परिकाङ्क्षिणः ।
विवर्णा दीनवदना नित्यं दुःखस्य भागिनः ।
भवन्ति मनुजाः सर्वे लोभोपहतचेतसः ॥ ८.६७ ॥

विवेकसम्पन्नाः परमां गतिं लभन्ते

प्रहीणलोभा ये सन्ति नित्यं ज्ञानाभिकाङ्क्षिणः ।
बुद्धिमन्तः सदा सन्तः ते गताः परमां गतिम् ।
निर्वाणहृदया वीतलोभमोहाः सदा नराः ॥ ८.६८ ॥

लोभाकृष्टस्य विनिपातः

लोभाशीविषदष्टस्य विनिपातो ध्रुवं स्थितः ।
क्रियमाणो ध्रुवं लोको वर्धते स मुहुर्मुहुः ॥ ८.६९ ॥
शुष्केन्धनं समादाय यथा वह्निः प्रवर्धते ।
धनतृष्णारताः सत्त्वाः धनोपार्जनतत्पराः ॥ ८.७० ॥
मृत्युकाले समुत्पन्ने त्यजन्ति विवशा धनम् ।
यच्च तत्सम्भवं योगात्तत्सर्व न विनश्यति ॥ ८.७१ ॥

लोभात्मा घोरं नरकं याति

तेन वित्तेन लोभात्मा नीयते नरकं भृशम् ।
अन्यैस्तद्भुज्यते वित्तं स तु पापेन लिप्यते ॥ ८.७२ ॥
प्रयान्ति नरकं घोरं पश्चात्तापेन दह्यते ।
अनर्थो ह्यर्थरूपेण सुखरूपेण वा सुखम् ॥ ८.७३ ॥

लोभत्यागं प्राज्ञः कुर्यात्

अमित्रं मित्ररूपेण लोभोऽयं हृदि वर्तते ।
न लोभं संश्रयेत्प्राज्ञो लोभाग्निर्दह्यते सदा ॥ ८.७४ ॥

लोभदग्धाः नरकगामिनो भवन्ति

तेन दग्धा भृशं सत्त्वाः पश्चान्नरकगामिनः ।
लोकसाधारणा ह्येते विभवाः सुखवर्जिताः ॥ ८.७५ ॥

तृष्णाभयविमुक्तिरेव श्रेयस्करी

तेषामर्थे कथं पाप क्रियते मन्दबुद्धिभिः ।
तृष्णाभयविमुक्तस्य निराशस्य हि सर्वतः ॥ ८.७६ ॥
वीतकाङ्क्षस्य धीरस्य नित्यं पदमवस्थितम् ।
सम्पत्तौ धाबते लोको विपत्तौ नावबुध्यते ॥ ८.७७ ॥

सम्पत्तिः क्षयान्ता

विपदन्ता हि सम्पत्तिः क्षयान्तं दिवसं यथा ।
यथा तिष्ठति सम्पत्तिः विपत्तिः पापिका तथा ॥ ८.७८ ॥

कामभोगैर्देवा अपि नरकं यान्ति

अवितृप्तस्य कामेभ्यस्तृष्णया परिदह्यते ।
यस्येष्टाः सम्पदो नित्यं सुखं चाभिमतं सदा ॥ ८.७९ ॥
जनि नाशयते तासां तृष्णा नष्टा सुखावहा ।
ते देवा नरकं यान्ति कामभोगैस्तथार्पिताः ॥ ८.८० ॥
अनलाचेष्टितं सर्व तद्वदन्ति तथागताः ।
मनुष्या यच्च नरकं प्रया(न्ति) शतशस्तथा ॥ ८.८१ ॥

विमुग्धाः यति जीवनं नावगच्छन्ति

चेष्टितं तद्विशालायाः योषिकाया विदुर्बुधाः ।
विमोहिता न विन्दन्ति त्वरितं स्वल्पजीवितम् ॥ ८.८२ ॥

तृष्णया सुकृतानि विनश्यन्ति

सुकृतानि च नश्यन्ति तृष्णा नैव विनश्यति ।
भवे भवे गता सत्वाः न विन्दन्ति शुभाशुभम् ॥ ८.८३ ॥
शुभस्य फलमेवेष्टं यत्सुराः परिभुञ्जते ।
अशुभस्य तथा दृष्टमसुखं विनिपातजम् ॥ ८.८४ ॥

शुभाशुभप्रहीणा एव जरामरणरहिता भवन्ति

शुभाशुभप्रहीणा ये सङ्गदोषविवर्जिताः ।
ते गताः परमं स्थानं जरामरणवर्जितम् ॥ ८.८५ ॥

तृष्णानदीपरिक्षिप्तः जनः किमपि नावगच्छति

पञ्चारं भवचक्रं तत्तृष्णानाभिपुरःसरम् ।
नदीरागपरिक्षिप्तं न च लोकोऽवबुध्यते ॥ ८.८६ ॥
दोषावर्ततरा ज्ञेया सङ्कल्पमकराकुलाः ।
तृष्णानदी विशालेयं न च लोकोऽवबुध्यते ॥ ८.८७ ॥

तृष्णा त्रिषु कालेषु वञ्चिका

त्रिकाले वञ्चनी तृष्णा नित्यमज्ञानकारिणी ।
न तस्यां विश्वसेद्धीमान् संसारबन्धना हि सा ॥ ८.८८ ॥

तृष्णा लोकबन्धनभूता

मित्रवद्दृश्यते काले शत्रुवच्च निकृन्तति ।
न तस्यां विश्वसेत्प्राज्ञः सा हि लोकस्य बन्धनम् ॥ ८.८९ ॥
शक्यं हि बन्धनं छेत्तुमायसं दारुवत्तथा ।
न तृष्णाबन्धनं छेत्तुं नित्यं कामगवेषिभिः ॥ ८.९० ॥
यस्येष्टो बन्धभेदोऽयं यस्येष्टं सुखमव्ययम् ।
स तृष्णया विमुक्तः (स्यात्)प्रज्ञाशो (धनकृद्) भवेत् ॥ ८.९१ ॥

ज्ञानेन तृष्णावृक्षस्य छेदनं कर्त्तव्यम्

ज्ञानालोकः सुखालोको दुःखं तृष्णातमःस्मृतम् ।
तस्मादालोकमास्थाय तमो नुदति पण्डितः ॥ ८.९२ ॥
ज्ञानखड्गेन तीक्ष्णेन तृष्णावृक्षं निकृन्तति ।
निकृत्तवृक्षः (स) नरः सुखं प्राप्नोत्यनुत्तमम् ॥ ८.९३ ॥
दोषेण बहुला ह्येषा नदी प्रस्रवणाकुला ।
दोषा नेतानहित्वा (न) भवान्मुञ्चति पण्डितः ॥ ८.९४ ॥

प्रज्ञानावमाश्रित्य तृष्णानद्याः पारं गच्छति

तृष्णानदीं त्रिपथगां प्रमादावर्तदुस्तराम् ।
प्रज्ञानावं समाश्रित्य पारं गच्छन्त्यनामयम् ॥ ८.९५ ॥
महेच्छतामहच्छत्रं येन चायान्ति बालिशाः ।
तस्मान्महेच्छता बध्या त्वयेयं ज्ञानचक्षुषा ॥ ८.९६ ॥

महेच्छैव हृदयव्रणभूता

महेच्छताव्रणस्तीव्रो हृदये यस्य जायते ।
न रात्रौ न दिवा तस्य सुखं भवति लोभिनः ॥ ८.९७ ॥
सङ्कल्पे तु न सम्भूतः तृष्णावायुसमीरितः ।
महेच्छतामयो वह्निर्दहते हृदयं नृणाम् ॥ ८.९८ ॥

लोभेनात्मनोऽहितं कुर्वन्ति जनाः

लोभेनावेष्टितमनाः पुरुषो लघुचेतसा ।
जीवितान्यपि साराणि जहाति धनतृष्णया ॥ ८.९९ ॥
पापानि हि च कर्माणि कुर्वन्ति पुरुषाः क्षितौ ।
धनलाभेन तत्सर्व प्रवदन्ति मनीषिणः ॥ ८.१०० ॥
ये साहसं न कुर्वन्ति विशन्ति ज्वलनं च यत् ।
तत्सर्व लोभदोषेण कुर्वन्त्यहितमात्मनः ॥ ८.१०१ ॥
शस्त्रानिलानि दुःखानि विविधानि च (सर्वतः) ।
विशन्ति (वै) नरा मूढा लोभस्तत्र हि कारणम् ॥ ८.१०२ ॥
हृदयस्थो मनोवह्निर्नित्यं बह्विच्छतां नृणाम् ।
अल्पेच्छतया (हि) हृच्छान्तिर्भवतिलाभिनः ॥ ८.१०३ ॥
यथाग्निरिन्धनेनैव प्रशान्तिमधिगच्छति ।
तथा वह्विच्छतां नृणां धनैर्वृद्धिः प्रजायते ॥ ८.१०४ ॥

अल्पेच्छतैव सुखम्

भूपाला (हि) धनैस्तृप्ताः कोटिशो निधनं गताः ।
यास्यन्ति चान्ये निधनं तस्मादल्पेच्छता सुखम् ॥ ८.१०५ ॥

तृष्णाविहीन एव सुखमाप्नोति

दुःखं वह्विच्छता नृणां लक्षणं सुखदुःखयोः ।
(हेया सर्वप्रयत्नेन) इदमुक्तं परीक्षकैः ।
एष पन्थाः शिवः श्रेष्ठो येन तृष्णा वशीकृता ॥ ८.१०६ ॥

॥ इति तृष्णावर्गोऽष्टमः ॥


(९) स्त्रीजुगुप्सावर्गः

स्त्रिय एवानर्थमूलम्

स्त्रियो मूलं (हि) पापस्य धननाशस्य सर्वथा ।
स्वहिते ये न निरताः कुतस्तेषां भवेत्सुखम् ॥ ९.१ ॥
अनर्थकर्मरतयः शाठ्येर्ष्याबहुलास्त्रियः ।
लोकद्वयविनाशाय पुरुषाणामवस्थिताः ॥ ९.२ ॥
नित्यं सरागकुशला नित्यं तद्वचनाः पराः ।
अन्यच्च हृदये तासां कथयन्त्यन्यदेव वा ॥ ९.३ ॥
आपातमधुराः सूक्ष्माः विपाके वज्रचेतसः ।
नोपकारेण सत्कारं स्मरन्ति लघुचेतसः ॥ ९.४ ॥

स्त्रियो विद्युत्स्वभावहृदया अतिचञ्चलाः

नाशयित्वा प्रियशतं स्मरन्त्येकं हि विप्रियम् ।
विद्युत्स्वभावहृदयाः स्त्रियः पापस्य भूमयः ॥ ९.५ ॥

स्त्रीणां नाशसाधकत्वप्रदर्शनम्

स्त्रीहेतुनाशमिच्छन्ति पुरुषा वक्रचेतसः ।
स्त्रीविनाशो विनाशो द्रागिह लोके परत्र च ॥ ९.६ ॥

स्त्रीदर्शनमेवाग्निवद्दहति

एवं तु सर्वविषयाः स्त्रीदर्शनमिहैकजम् ।
अभिभूय सर्वविषयान्नार्यग्निज्वलनं महत् ॥ ९.७ ॥

स्त्रीदोषप्रदर्शनपूर्वकं नारीजुगुप्सासमीक्षणम्

संश्लेषादपि विश्लेषः स्मरणात्कथनादपि ।
स्त्रीणां दाहसमुत्थोऽयं वह्निरन्तर्जहासकः ॥ ९.८ ॥
रागेण सह जायन्ते नित्यं वै दारुणाः स्त्रियः ।
दानेन सह जायन्ते यथा लोके हुताशनाः ॥ ९.९ ॥
न भवेत्तादृशो दाहो योऽयं वह्निसमुद्भवः ।
यादृशः स्त्रीमदो ह्यस्ति देहिनां हृदयोद्भवः ॥ ९.१० ॥
सर्वलोकविनाशाय सर्वधर्मक्षयाय च ।
हेतवो नरकस्यैताः स्त्रियः प्रोक्ता महर्षिभिः ॥ ९.११ ॥
मुखतो मधुरामर्षा हृदयेन विषोपमाः ।
अनवस्थितसौहार्दा नासां कश्चित्प्रियो नरः ॥ ९.१२ ॥
मुहूर्तेन प्रियस्तासां मुहूर्तेन तथाप्रियः ।
अनवस्थितसौहार्दाश्चञ्चला क्षणिकोपमाः ॥ ९.१३ ॥
वञ्चनाहेतुकुशला नित्यं कार्यपरायणाः ।
नित्यं संयोगमनसो नित्यं मानपरायणाः ॥ ९.१४ ॥
देवानां च मनुष्याणां पिशाचोरगराक्षसाः ।
न बन्धभूता यादृश्यः स्त्रियः कालविषोपमाः ॥ ९.१५ ॥
नोपकारं स्मरन्त्येता न कुशलं नापि विक्रमम् ।
अनवस्थितचित्ताश्च वायुवेगसमाः स्त्रियः ॥ ९.१६ ॥
भवन्ति सम्पदो यत्र रक्ष्यन्ते यत्र योषितः ।
व्यसनेषु विरक्तास्तु त्यजन्ति पुरुषं ध्रुवम् ॥ ९.१७ ॥
यं यं गच्छन्ति पुरुषं रक्ष्यन्ते तत्र योषितः ।
शीघ्रं शीघ्रं नरं ह्येतास्त्यजन्ति पुरुषं स्थितम् ॥ ९.१८ ॥
यथा हि भ्रमरी पुष्पं शुष्कं त्यजति सर्वदा ।
तथा वित्तेन रहितं पुरुषं त्यजति प्रिया ॥ ९.१९ ॥
निस्त्रिंशहृदयाः क्रूराश्चञ्चलास्तमसावृताः ।
स्त्रियः पुरुषनाशाय जाताः केनापि हेतुना ॥ ९.२० ॥
देवानां बन्धनं नाम यथा स्त्रीबन्धनं मतम् ।
स्त्रीबन्धननिबद्धास्तु पतन्ति नरकं पुनः ॥ ९.२१ ॥
एतदग्रं हि रागाणां यो रागः स्त्रीसमुद्भवः ।
स्त्रीरागदग्धमनसं पश्चाद्दहति पावकः ॥ ९.२२ ॥
प्रत्यक्षाण्यपि कर्माणि रागैश्चापहतः पुमान् ।
न वेत्ति मूढहृदयः स्त्रीरागेण विमोहितः ॥ ९.२३ ॥
विश्वास्य विषये पुरुषं बद्ध्वा प्रियमनेकशः ।
त्यजन्ति वित्तनाशेन त्वचं यद्वद्भुजङ्गमाः ॥ ९.२४ ॥
सर्वोपायभृता नार्यः सर्वशः परिपालिताः ।
न शक्याः स्ववशीकर्त्तुं स्त्रियः परमदारुणाः ॥ ९.२५ ॥
आसां सर्वस्वभावानां नारीणां चलचेतसाम् ।
न यायाज्जातु विश्वासं पुमान् धीरेण चेतसा ॥ ९.२६ ॥
स्त्रीविधेयास्तु ये मर्त्या नित्यं कामगवेषिणः ।
पश्चिमदर्शनं तेषां सुरलोके भविष्यति ॥ ९.२७ ॥
पञ्चाङ्गिकेन तूर्येण विप्रलुब्धाः समन्ततः ।
विन्दन्ति व्यसने दुःखं यदवश्यं भविष्यति ॥ ९.२८ ॥
इमास्ताश्चञ्चला नार्यो यासां रागः कृतस्त्वया ।
ता भवन्तं परित्यज्य पुनरन्यं ततो गताः ॥ ९.२९ ॥
द्विधा हि प्रकृतिर्यासां (योषितां) सहचारिणी ।
भूयोऽभियन्ति पुरुषं व्यसनेषु त्यजन्ति च ॥ ९.३० ॥
मृगवन्मोहयन्त्येताः पुरुषं रागमोहितम् ।
पश्चात्(तु) व्यसने प्राप्ते त्यजन्ति लघुचेतसः ॥ ९.३१ ॥
नोपकारं न सत्कारं न प्रियाणि न सन्ततिम् ।
स्मरन्ति योषितस्तीव्रा व्यसने समुपस्थिते ॥ ९.३२ ॥
म्लानं पुष्पं यथा त्यक्त्वा भ्रमरोऽन्यत्र धावति ।
तथा हि व्यसने प्राप्ते त्यजन्ति खलु योषितः ॥ ९.३३ ॥
अनपेक्षितसौहार्दाश्चञ्चलाश्च रणप्रियाः ।
भवन्ति योषितः सर्वा विषमिश्रं यथा मधु ॥ ९.३४ ॥
मोहयन्ति नरान् कामैर्वाक्यैश्चापि विशेषतः ।
न तेषां विश्वसेद्धीमान् पुरुषो धीरमानसः ॥ ९.३५ ॥
आभिर्विमोहिताः किं वा रंजिताः पुरुषाः स्वतः ।
न कुर्वन्ति हितं वाक्यं यथा मुष्णिकगामिकम् ॥ ९.३६ ॥
देवासुरनरान् यक्षान् पिशाचोरगराक्षसान् ।
इन्द्रजालमया नार्यो वञ्चयन्ति विशेषतः ॥ ९.३७ ॥
एतदग्रञ्च पाशानां यदिदं स्त्रीमयं दृढम् ।
अनेन बद्धाः पुरुषा भ्रमन्ति भवचारके ॥ ९.३८ ॥
न कश्चित्पाशपाशोऽयं हृत्पाशो योषितः परम् ।
हृत्पाशबन्धनैर्बद्धाः पुरुषा दुःखमोहिताः ॥ ९.३९ ॥
दहयते छिद्यते पाशस्स्त्रीमयस्तु न दहयते ।
नरकप्रेततिर्यक्षु गच्छन्तमनुगच्छति ॥ ९.४० ॥
मूर्तिमान् बध्यते कायः पाशेन महता तथा ।
अमूर्तिगं चित्तमिदं स्त्रीपाशेन तु बध्यते ॥ ९.४१ ॥
(न) दृश्यते पाशमन्यं येन बध्नन्ति योषितः ।
अभिज्ञेयमप्रमाणं स्त्रीमयं बन्धनं महत् ॥ ९.४२ ॥
अनेनापातरम्येण (दुःख) मोक्षेण सर्वदा ।
पाशेन बद्धाः पुरुषा न मुच्यन्ते भवार्णवात् ॥ ९.४३ ॥
षडिन्द्रियाणि बध्नाति पाशो यः स्त्रीमयो महान् ।
पाशस्तु कायमेवैकं कश्चित्बध्नाति वा न वा ॥ ९.४४ ॥
बन्धनं न दृढं हीदं मोक्षवार्य षडायसम् ।
संरक्तचित्तभोगे हि मन्दबुद्धेर्नरस्य च ॥ ९.४५ ॥
स्नायुयन्त्रेण बद्धासु विस्तृतकर्मभूमिषु ।
तीक्ष्णरक्तासिना युक्तो मरणार्थमिहागतः ॥ ९.४६ ॥

स्त्रीणां दौर्गुण्यम्

वञ्चनाच्छलकूटासु रभसा नु विशेषतः ।
चञ्चलो भ्रान्तचित्तासु भ्रान्तस्त्वङ्गक्षणारिषु ॥ ९.४७ ॥
विभ्रान्तो भ्रान्तकथितैर्भूषणानां तथा स्वनैः ।
हरन्ति पुरुषं क्षिप्रं वञ्चनाकुशलाः स्त्रियः ॥ ९.४८ ॥
नानाविधेषु पुष्पेषु यथा चरति षट्पदः ।
नानाविधेषु मर्त्येषु तथेमाश्चञ्चलाः स्त्रियः ॥ ९.४९ ॥
यथा मधुरिका पीत्वा पुष्पमन्यत्र गच्छति ।
तथा पुरुषमापीयः प्रयान्ति रभसं स्त्रियः ॥ ९.५० ॥
अर्थादानेषु कुशलाः क्रुद्धा नित्यं दुरासदाः ।
वञ्चयित्वा नरं शीघ्रमन्यत्र संप्रयान्ति ताः ॥ ९.५१ ॥
साध्यमायाप्रहरणाः कालकूटविषोपमाः ।
स्त्रियः पुरुषघातिन्यश्चातुर्येषु व्यवस्थिताः ॥ ९.५२ ॥
वाय्वाकाशानला यद्वन्न शक्ता ग्रथितुं नरैः ।
तथोपायशतैर्नार्यो (न) शक्ता रक्षितुं नरैः ॥ ९.५३ ॥
अनर्थव्याधिमृत्यूनां दुष्कृतानाञ्च कर्मणाम् ।
हेतुभूताः परं नार्यो मोक्षचर्याबधस्य च ॥ ९.५४ ॥
यदनेकप्रकारेषु शठेषु पापकर्मसु ।
(पतन्ति) मनुजा लोके तत्र हेतुः परस्त्रियः ॥ ९.५५ ॥
न बालयौवनेनैव वार्धक्येनैव शाम्यति ।
चापल्यं सहजं स्त्रीणां भास्करस्य यथा प्रभा ॥ ९.५६ ॥
अनित्यं सौहृदं तासां दीप्तानामर्चिषां कणैः ।
वैरञ्च शाश्वतं तासामश्मनां च यथा व्रणैः ॥ ९.५७ ॥
धनहीने विरज्यन्ते धनयुक्ता भवन्ति च ।
यावदर्थ स्त्रियस्तावदर्थहीने कुतः स्त्रियः? ॥ ९.५८ ॥
न सेवाभिश्चदानेन नोपकारैः पृथग्विधैः ।
स्वीकर्त्तुं न स्त्रियः शक्याः ज्वलनोपमचेतसः ॥ ९.५९ ॥
यथा नरोऽनुकूलश्च छन्दकर्त्ता यथा यथा ।
तथा तथा स्त्रियस्तस्य वञ्चनाकुशलाः परम् ॥ ९.६० ॥
पुष्पच्छत्रो यथा सर्पो भस्मच्छत्रो यथा नलः ।
रूपच्छन्नं तथा चित्तमासां भवति योषिताम् ॥ ९.६१ ॥
विषवृक्षे यथा पुष्पं दृष्टिरम्यं न शान्तये ।
विषवृक्ष (समा) नार्यः परिवर्ज्याः समन्ततः ॥ ९.६२ ॥
नारीणां दर्शनाकांक्षी विषयेसु च तत्परः ।
नरो न सुखभोगाय (हय) स्मिल्लोके न चापरे ॥ ९.६३ ॥
नाग्निना न च शस्त्रेण न बलेन न जन्तुभिः ।
स्त्रीमयं बन्धनं हेतुः शक्यते न दुरासदम् ॥ ९.६४ ॥
दोषजालमिदं (सूत्रं)स्त्रीमयं चरते भुवि ।
यस्त्रीविवर्जितो धीमानस्मिल्लोके महीयते ॥ ९.६५ ॥
यथा भूतैर्मनुष्याणां स्वकर्मोत्थापने न च ।
तथा स्त्रियो हि रक्षन्ति विषमार्थ त्यजन्ति च ॥ ९.६६ ॥
गतार्थविभवं भूयो वर्जितं स्वेन कर्मणा ।
देवं समीक्ष्य चपलाः स्त्रियो नैव प्रभाविकाः ॥ ९.६७ ॥

स्त्रीसुखं क्षणभङ्गुरम्

क्षणभङ्गमिदं सौख्यमधिगतमवस्थितम् ।
चत्वार्येतानि दुःखानि सेवितानि नृभिः सदा ॥ ९.६८ ॥

स्त्री विषाग्निसदृशा

तस्मात्तानि विवर्ज्यानि विषाग्निसदृशानि हि ।
यः कश्चिच्चपलो जन्तुर्यश्च दोषोद्भवः सदा ॥ ९.६९ ॥
तस्मात्परिसमाविष्टाः स्त्रियः कारणवत्सलाः ।
न सूर्यस्तमसो हेतुर्नाग्निः शीतस्य कारणम् ॥ ९.७० ॥
न स्त्रीणां सौहृदं चित्ते स्वल्पमप्यवतिष्ठते ।
यथा स्थिरा भूमिरियं यथा वायुः सदा चलः ॥ ९.७१ ॥
स्त्रियः दोषमेव स्मरन्ति

तथा स्त्रीणां कृतं नास्ति दोषमय्यः सदा स्मृताः ।
चिरप्रयत्नाः पुरुषैः लोभिता बहुशः स्त्रियः ॥ ९.७२ ॥
त्यजन्ति व्यसने प्राप्ते शुष्कं सर इवाशुगाः ।
नोर्ध्वगाः सरितो दृष्टा नाश्मनो गतिरिष्यते ॥ ९.७३ ॥
गिरीणां गमनं नास्ति स्त्रीणां नैवास्ति सौहृदम् ।
वपुकर्ति सदा नृणां धर्मार्थयशसां तथा ॥ ९.७४ ॥
योनिश्चानर्थजालस्य दोषाणामुद्भवस्य च ।
भवेद्वज्रमयी मृद्वी त्यजेद्(रात्रौ यथा) रविम् ॥ ९.७५ ॥
न स्त्री त्यजेदसाध्यानि जन्मापेक्षा विशेषतः ।
नोपचारक्रिया दानप्रियवाक्यापलापनैः ॥ ९.७६ ॥
स्वीकर्तुं न स्त्रियः शक्या ज्वलनोपमचेतसः ।
सुखेषु समतां यान्ति व्यसनेषु त्यजन्ति च ॥ ९.७७ ॥
उपकारांश्च विस्मृत्य दोषमेकं स्मरन्ति ताः ।
वनोपवनशैलेषु भुक्त्वा सुखमनेकशः ॥ ९.७८ ॥

स्त्री लोकस्य बन्धनम्

संप्राप्ते व्यसने तीव्रे स्त्रिय परिभवन्ति हि ।
लोकस्य बन्धनं नार्यो वञ्चनाकृतिवर्धिकाः ॥ ९.७९ ॥
अधमाः विनिपातानां दोषाणां चास्पदं (बहु) ।
सर्वलोकविनाशाय वशीकुर्वन्ति तृष्णया ॥ ९.८० ॥
यथा स्त्रीबन्धनमिदं दुर्विषह्यं कृतं महत् ।
यदिदं बन्धनं लोके कामरागमयं महत् ॥ ९.८१ ॥

स्त्रीवर्जनमेव श्रेयष्करम्

तथा चान्यप्रयत्नेन विचार्य उपलभ्यते ।
वशीकुर्वन्ति ता (नार्यः) कामवाणैरनेकशः ॥ ९.८२ ॥
स्वल्पैः पराजितं कृत्वा कामस्य वशगाः स्त्रियः ।
रागेर्ष्याशाठ्यभूमीनां विद्युच्चञ्चलचेतसाम् ॥ ९.८३ ॥
लोभाहङ्कारयोनीनां न विश्वास्याः कथञ्चन ।
शस्त्राग्निसदृशास्तीक्ष्णाः कामपाशपरात्मनः ॥ ९.८४ ॥
स्वभ्रप्रपातविषमं गंभीरसमचेतसाम् ।
पराभिद्रोहमायेन्द्रजालतद्गतमानसान् ॥ ९.८५ ॥
अकालमृत्युवज्राग्निकालकूटसमात्मनाम् ।
अनेकदोषसम्भारनन्दितानामनेकशः ॥ ९.८६ ॥
यदि शीललवः कश्चित्स्त्रीणां मनसि वर्तते ।
चिरेण दहते वह्निः स स्पृष्टाः पवनेरितः ॥ ९.८७ ॥
स्त्रीदर्शनसमुच्छ्रेयमात्रं दहति पावकः ।
तस्मात्स्त्रियो विवर्ज्याः स्युः यदिच्छेत्सुखमुत्तमम् ॥ ९.८८ ॥
एतत्सर्व परं लोके नारीणां वर्जनं सदा ।
यदृच्छाजालिनीहेतुं यः इच्छेद्भूतिमात्मनः ॥ ९.८९ ॥
य इच्छति निवृत्तिं तु स नरः स्त्रीं विवर्जयेत् ।
सुखासक्तस्तथार्थो (च) कुसीदश्चञ्चलः शठः ॥ ९.९० ॥
पापसेवी सुमृष्टाशी नरो भद्रं न पश्यति ।
उद्युक्तो वीर्यवान् धीरो धार्मिकः स्त्रीं विवर्जयेत् ।
दक्षो हेतुफलश्रद्धो नरः कल्याणवान् भवेत् ॥ ९.९१ ॥

॥ इति स्त्रीजुगुप्सावर्गो नवमः ॥


(१०) मद्यजुगुप्सावर्गः

मद्यपानवर्णनसाधनप्रदर्शनम्

मद्यपानं न सेवेत मद्यं हि विषमुत्तमम् ।
नश्यन्ति कुशला धर्मा मद्यपाननिषेवणात् ॥ १०.१ ॥
यः सेवते सदा मद्यं तस्य बुद्धिरसंस्थिता ।
बलबुद्धी न धर्मोऽस्ति तस्मान्मद्यं विवर्जयेत् ॥ १०.२ ॥
नाशानामुत्तमं नाशं मद्यमुक्तं मनीषिभिः ।
तस्मान्मद्यं न सेवेत (मद्यं) नाशयते नरम् ॥ १०.३ ॥
अनिष्टाः पापका धर्मा मद्यपाननिषेवणात् ।
भवन्ति तस्माद्विषवन्मद्यपानं विवर्जयेत् ॥ १०.४ ॥
धनक्षयं पापकरं कौसीद्यकरमुत्तमम् ।
मद्यपानस्थिता दोषाः तस्मात्तत्परिवर्जयेत् ॥ १०.५ ॥
रागस्योद्दीपनं मद्यं क्रोधस्यापि तथैव च ।
मोहस्योद्दीपकं भूयस्तस्मान्मद्यं विवर्जयेत् ॥ १०.६ ॥
मद्यमूलमनर्थस्य हासस्य नरकस्य च ।
सर्वेन्द्रियविनाशानां हेतुभूतं ह्यनर्थकम् ॥ १०.७ ॥
अतिहर्षाभिधानस्य शोकस्य च भयस्य च ।
वाग्दोषस्यातिदम्यस्य पारुष्यस्यास्पदं हि तत् ॥ १०.८ ॥
मद्येनाक्षिप्तमनसः पुरुषाः पशुभिः समाः ।
कार्याकार्य न विन्दन्ति तस्मान्मद्यं विवर्जयेत् ॥ १०.९ ॥
मद्यक्षिप्तो हि पुरुषो जीवन्नपि मृतो मतः ।
य इच्छेज्जीवितं सौख्यं स मद्यं वर्जयेत्सदा ॥ १०.१० ॥

मद्यं सर्वदोषास्पदम्

सर्वदोषास्पदं मद्यं सर्वानर्थकरं सदा ।
सर्वपापेषु सोपानं तमसामालयो महान् ॥ १०.११ ॥

मद्येन प्रेतलोके नरके वा पतनम्

मद्येन नरकं यान्ति प्रेतलोकं तथैव च ।
तिर्यक्षु यान्ति पुरुषा मद्यदोषेण वञ्चिताः ॥ १०.१२ ॥
विषादपि विषं मद्यं नरकान्नरकं तथा ।
व्याधीनां च परं व्याधिर्मद्यमुक्तं मनीषिभिः ॥ १०.१३ ॥

मद्येन हानिप्रदर्शनम्

बुद्धीन्द्रियविनाशाय धर्मरत्नं क्षयाय च ।
योऽतिरेकपरं मद्यं ब्रह्मचर्यबधाय च ॥ १०.१४ ॥
मद्येन लघुतां यान्ति पार्थिवा शास्त्रचक्षुषः ।
किं पुनः प्राकृता मर्त्या मद्यपानविलम्बिताः ॥ १०.१५ ॥

मद्यस्य विनाशकरत्वम्

कुठारः सर्वधर्माणां ह्रीविनाशकरं परम् ।
मद्यं निषेवितं मर्त्यैर्विनाशायोपकल्प्यते ॥ १०.१६ ॥

मद्येन ज्ञानाज्ञानविवेकशून्यप्रदर्शनम्

न ज्ञानं नापि विज्ञानं न कार्याणि न च क्रियाम् ।
जानीते पुरुषः सर्व मद्येन हृतचेतसा ॥ १०.१७ ॥

मद्यसेवनस्य परितापसाधनम्

अकस्मात्तप्यते जन्तुरकस्मात्परितप्यते ।
भवत्यकस्मात्पापी (च) यो मद्यमनुसेवते ॥ १०.१८ ॥

मद्यस्य बुद्धिसम्मोहजनकत्वम्

बुद्धिसम्मोहजनकं लोकद्वयविनाशकम् ।
वह्निश्च मोक्षधर्माणां मद्यमेकं व्यवस्थितम् ॥ १०.१९ ॥

मद्यस्य किम्पाकत्वम्

अभ्यासे मधुरं मद्यं विपाके परमं कटु ।
किम्पाकादपि किम्पाकं मद्यमुक्तं परीक्षकैः ॥ १०.२० ॥

नरकस्य साधनं मद्यम्

न मद्ये विश्वसेद्धीमान्नरं वक्ष्यति मामिति ।
शीतस्पर्श विपाकोष्णं मद्यं नरकगामिकम् ॥ १०.२१ ॥
सम्पत्तौ व्यसनं मद्यं देवानां तु विशेषतः ।
यथा यथा सुखा प्रीतिस्तन्नाशे व्यसनं तथा ॥ १०.२२ ॥
मद्यपानमदोन्मत्ताः सत्त्वा मोहवशानुगाः ।
साक्ष्यमोहमयं पानं पिबन्ति रसतृष्णया ॥ १०.२३ ॥
मद्यं मोहमयं पान पीत्वा कालेन चोदिताः ।
नाकात्प्रत्यक्षनरकं तस्मात्मद्यं न संस्पृशेत् ॥ १०.२४ ॥

दर्शनात्पानाच्च मद्यपानं मोहजनकम्

दर्शनात्स्पर्शनात्पानात मद्यं मोहयते नरम् ।
तस्मात्स मद्यपानं च दूरतः परिवर्जयेत् ॥ १०.२५ ॥
दर्शनाज्जायते लोभः स्पर्शनाद्गन्धसम्भवः ।
गन्धाद्रसाभिलाषश्च रसनादधमा मतिः ॥ १०.२६ ॥

मनीषिणः मद्यसेवनात्पतन्ति

नैकसर्वाधमं न्यासं कथयन्ति मनीषिणः ।
नामरूपनिषेधाय यथा मद्यं निषेवितम् ॥ १०.२७ ॥

मद्यपानफलसूचनम्

वाग्भ्रामयति मस्तिष्कं चक्षुषीध्वनिरेव च ।
सम्भ्रान्तिविमतिर्मूढो न किञ्चित्प्रतिपद्यते ॥ १०.२८ ॥

स्त्रियोऽपि मद्यपायिनमुपहसन्ति

स्त्रियोऽप्युपहसन्तीमं पुरुषं पतितं भुवि ।
निश्चेष्टं काष्ठसदृशं निश्चलं पतितं भुवि ॥ १०.२९ ॥

मद्यपानं मरणादपि निकृष्टतरम्

सम्भावितस्य मरणं मद्यपानं प्रकीर्त्यते ।
हालाहलादभ्यधिकं कारावासाधिकं च तत् ॥ १०.३० ॥

मद्यपानवर्जनं श्रेयस्करम्

आदीनवाश्च षट्त्रिंशन्मद्यपानादवस्थिताः ।
तस्मादादीनवो ज्ञेयः स हि तद्वर्जयेत्सदा ॥ १०.३१ ॥

मद्यपानं विदुषोऽपि जन्तोः मलिनीकरणाय भवति

अतिजातस्य विदुषो मलिनीकरणं महत् ।
काशपुष्पसमं जन्तुं कुरुते लघुसत्त्वरम् ॥ १०.३२ ॥

विषयानलदग्धः कार्याकार्यशून्यो भवति

प्रमादौह्यति मग्नानां विषयैरपहृष्यते ।
मद्यपानेन भूयश्च मनोव्यामोहकारिणा ॥ १०.३३ ॥
विषयानलदग्धस्य कार्याकार्यमजानतः ।
वनोपवनलब्धस्य मद्यपानस्य किं पुनः ॥ १०.३४ ॥

मद्यपानं मोहाय पापाय जायते

रसेन शोभनं मद्यं परिणामेन दारुणम् ।
परिणामफलं पापं नरकेषूपपद्यते ॥ १०.३५ ॥
पीतं जनयते मोहं मोहात्पापेषु रक्ष्यते ।
संरक्तहृदयो बालो नरकानुपधावति ॥ १०.३६ ॥

मद्यपानमधमत्वसाधनम्

प्रकर्ष जनयत्यादौ विपाके दैन्यमुत्तमम् ।
तृट्छेदं कुरुते चासौ पश्चाद्दाहं सुदारुणम् ॥ १०.३७ ॥
तद्बुद्धिं नाशयत्यादौ पश्चान्नाशयते सुखम् ।
तस्मात्स पुरुषो धीरो यो मद्यं नानुसेवते ॥ १०.३८ ॥

मद्यनिषेविणो विहगसदृशा भवन्ति

विहगैः सदृशं यान्ति पुरुषा मद्यसेविनः ।
तुल्यं व्यामोहजनकं मद्यं मोहमहाविषम् ॥ १०.३९ ॥

विमोहिता दुर्गतिमधिगच्छन्ति

यैर्मद्यं विषवद्दृष्टं तैर्दृष्टं पदमुत्तमम् ।
यैस्तु तद्विरसं पीतं पीतं ताम्र (क) लोहितम् ॥ १०.४० ॥
निष्प्रतीकारकर्माणि यः करोति विमोहितः ।
मद्यपानसमाविष्टः सोऽन्ते गच्छति दुर्गतिम् ॥ १०.४१ ॥

मद्यपानसेविनां नाशो भवति

एकत्र सर्वपापानि मद्यपान (निषेवणम्) ।
यस्मान्नाशयते (मद्यं) चित्तमूलश्च संवरः ॥ १०.४२ ॥

मद्यपायी नष्टधर्मो भवति

नैकाङ्गिता हि चित्तस्य न धर्माणां विचारणा ।
यः पा(प)निरतो भिक्षुर्भवेन्मद्यनिषेवणात् ॥ १०.४३ ॥
मद्येनाक्षिप्तमनसो कुशलस्य च घातकः ।
नष्टधर्मस्य सत्त्वस्य नायं लोको न चापरः ॥ १०.४४ ॥
ईर्य्यापथं न जानाति न कालं नापि देशनाम् ।
सद्धर्मतो विरुद्धश्च तुच्छं किमपि भाषते ॥ १०.४५ ॥
स्वयं तावन्न जानाति किमिदं कथ्यते मया ।
वाक्पारुष्यं कथं चान्यं परिज्ञास्यत्यशोभनम् ॥ १०.४६ ॥
लाघवं याति लोकस्य धर्माच्च परिहीयते ।
निधन पुरुषैर्दृष्टं मद्यज्वलनसेवनात् ॥ १०.४७ ॥

मद्यपानं कुत्सां सम्पादयति

नाशो भवत्यतीते हि वर्तमाने सुहृज्जने ।
अनागते कुत्सितानां मद्यं त्रैकाल्यनाशकम् ॥ १०.४८ ॥

मद्यं धर्मप्रदूषकमेव

नामरूपविनाशाय चित्तनाशाय देहिनाम् ।
उत्पन्नदोषजनकं मद्यं धर्मप्रदूषकम् ॥ १०.४९ ॥

मद्यवर्जनं धर्माय पानञ्च मृत्युर्न भवति

समाहिता धर्मशीलाः पुरुषा मद्यवर्जकाः ।
ते यान्ति परमं स्थानं यत्र मृत्युर्न विद्यते ॥ १०.५० ॥

॥ इति मद्यजुगुप्सावर्गो दशमः ॥

अथ द्वितीयमुदानम्

(चित्तञ्च वाक्तथा कर्म संयोजनन्तु पापकम् ।

नरकप्रेततिर्यक्क्षुत्कौसीद्यानि विदुर्दश ॥ )


(११) चित्तवर्गः

चित्तं राजवत्प्रवर्तते

अगाधं विषमं तीव्रं सर्वसत्त्वगतं महत् ।
चित्तं सर्वस्य जगतो राजवत्सम्प्रवर्तते ॥ ११.१ ॥

चित्तधारिणस्तज्ज्ञाः परमां गतिं प्राप्नुवन्ति

अदृश्यं सम्प्रति भयं कर्म नारकचञ्चलाः ।
ये चित्तधारिणस्तज्ज्ञास्ते गताः परमां गतिम् ॥ ११.२ ॥
एतन्नयति व्युत्थानमेतन्नयति दुर्गतिम् ।
तदेवाद्यन्तममलं निर्वाणमधिगच्छति ॥ ११.३ ॥
मनः पूर्वमङ्गमा धर्मा मनः श्रेष्ठा मनोमयाः ।
मनसा सुप्रसन्नेन भाषते वा करोति वा ॥ ११.४ ॥

चित्तवशगस्य चित्तमनुधावति

यो न चित्तस्य वशगश्चित्तं तस्यान्तगं सदा ।
स निर्णाशयति क्लेशान् तमः सूर्योदयो यथा ॥ ११.५ ॥

चित्तदग्धाः नाशं यान्ति

चित्तं शत्रुः परं शत्रुर्न शत्रुरपरः स्मृतः ।
चित्तदग्धाः सदा सत्त्वाः कालदग्धा यथा जडाः ॥ ११.६ ॥
यश्चित्तवशमापन्नो बालो मूढोऽजितेन्द्रियः ।
तेन दुःखे समो नास्ति निर्वाणं तस्य दूरतः ॥ ११.७ ॥

चित्तवशगः नरः नरकमधिगच्छति

आवर्ज्यः शत्रुरपरो न चित्तानि (निगूहते) ।
एष बध्नाति पुरुषो नृपतेर्यमशासने ॥ ११.८ ॥
विषयेषु रता नित्यं न स धर्मः कथञ्चन ।
सद्धर्मपथसम्मूढो नरकं नयते महत् ॥ ११.९ ॥
दुर्दमानां परं चित्तमनीनामग्निरुत्तमः ।
दुर्दान्तं शीघ्रगन्तृ च नरकं नयते ध्रुवम् ॥ ११.१० ॥
ये चित्तस्य वशं याता यातास्ते नरकं पुरा ।
यैस्तु तद्वार्यते शीघ्रं न ते दुःखानुगामिनः ॥ ११.११ ॥

चित्तानुरूपं सुखं दुःखञ्च भवति

यथा यथा (नृणां) चित्तं परिणामस्तथा तथा ।
कल्पानां शुभकर्त्तुश्च पापकर्त्तुश्च पापकम् ॥ ११.१२ ॥
चित्तायत्तं भवेत्कर्म कर्मायत्तं मनो भवेत् ।
चित्तकर्म समुत्थाय संसारः परिकीर्तितः ॥ ११.१३ ॥
दुष्टेन चेतसा कर्म यः करोति पुमानिह ।
पच्यते नरके तेन जालिन्या स विडम्बितः ॥ ११.१४ ॥

चित्तकर्म एवं संसारः

चित्ताधीनं भवेत्पापं संसारः परिकीर्तितः ।
चित्तप्रत्ययजं ह्येतथेतुप्रत्ययसम्भवम् ॥ ११.१५ ॥
चित्तेन वञ्चिताः सत्त्वा पापस्य वशमागताः ।
गच्छन्ति नरकं पापात्कारणाग्रमहाभया(त्) ॥ ११.१६ ॥
न भवेत्चित्तवशगोऽपि तु धर्मवशो भवेत्
न गच्छेत्चित्तवशतां गच्छेद्धर्मवशे सदा ।
धर्मचारी सुखी नित्यं पापचारी न शर्मभाक् ॥ ११.१७ ॥

चित्तायत्तं सर्व फलम्

चित्तायत्ता क्रिया सर्वा चित्तायत्तं फलं स्मृतम् ।
विचित्तं हि फलं चित्तं तथा फलमधिस्मृतम् ॥ ११.१८ ॥
चित्तेन चिन्तितं सर्व लोकश्चित्तभवानुगः ।
न हि तद्विद्यते स्थानं यन्न चित्तवशानुगम् ॥ ११.१९ ॥

शुभस्य निर्वाणसाधनत्वम्

मोक्ष बन्धनयोर्मूलं हेतुभूतं परं मतम् ।
शुभेन मुच्यते जन्तुरशुभेनाशु बध्यते ॥ ११.२० ॥
चित्तवशगाः कदापि निर्वाणं नाधिगच्छन्ति
जालिन्या मोहिताः सत्त्वाश्चित्तस्य वशमागताः ।
निर्वाणं नापि गच्छन्ति जात्यन्धा इव सत्पथम् ॥ ११.२१ ॥
पञ्चेन्द्रियाणि जितवान् पापं भुङ्क्ते न कर्हिचित् ।
एकचित्तं तथा कर्म कुरुते विविधे भवे ॥ ११.२२ ॥
पञ्चरङ्गोज्ज्वलं चित्तं यथा दृश्यं प्रशस्यते ।
पञ्चेन्द्रियविचित्रं हि तथा कर्म भवे भवेत् ॥ ११.२३ ॥

चित्तकर्त्तानेकधा भवति

चित्तकर्ता हि पुरुषो दृश्यैर्भवति नैकधा ।
चित्तं चित्तकरं शून्यं सर्वथा नैव दृश्यते ॥ ११.२४ ॥

चित्तं शोभनमशोभनं च कर्म करोति

शोभनाशोभनं चित्रं यथा भित्तिः कृतिस्तथा ।
शोभनाशोभनं कर्म तथा चित्तं करोति हि ॥ ११.२५ ॥

चित्तानुगं कर्म

दिवारात्रौ यथा चित्तं स्थितं भवति चित्रगम् ।
दिवारात्रौ तथा कर्म भवे समनुवर्तते ॥ ११.२६ ॥
अकृत्वा सुकृतं कर्म चित्तवृत्त्यनुगा नराः ।
पतन्ति विवशाः पापे चित्तारिपरिवञ्चिताः ॥ ११.२७ ॥
कर्मचित्तकरो ह्येष यत्र यत्र नियुज्यते ।
चरचित्तेन महता तच्चित्तं च करोत्ययम् ॥ ११.२८ ॥
परिणामविशेषेण यत्र यत्र नियोक्ष्यते ।
प्रेष्यन्ते तत्र चित्तेन त्रिधा तु गतिचारिणः ॥ ११.२९ ॥

चित्तस्य दमनं सुखावहम्

चित्ताधिनानि वर्तन्ते सर्वकर्माणि देहिनाम् ।
तस्माच्चित्तं सदा दान्तं नयते पदमच्युतम् ॥ ११.३० ॥
दुर्विषह्यस्य लघुना यत्र यत्र निपातिनः ।
चित्तस्य दमनं साधु चित्तं दान्तं सुखावहम् ॥ ११.३१ ॥
येन चित्तं सदा दान्तं तेन दोषाः सदा जिताः ।
जितदोषस्य धीरस्य दुःखं नैव प्रपद्यते ॥ ११.३२ ॥

चित्तस्य लघुचेष्टितमेव दुःखम्

यच्च स्वकं भवेद्दुःखं यच्च दुःखं परत्र च ।
तत्सर्वमविषह्यस्य चित्तस्य लघुचेष्टितम् ॥ ११.३३ ॥

चित्तमेव सर्वेषां प्रभुः

ससुरासुरनागानां पिशाचोरगरक्षसाम् ।
प्रभुरेकः परं चित्तं राजा(हि)त्रिभवस्य तत् ॥ ११.३४ ॥

चित्तभ्रान्तदुःखमश्नुते

चित्तं नयति देवेषु चित्तञ्च नरभूमिषु ।
चित्तं नयत्यपाये(षु) चित्तं भ्रामयति प्रजाः ॥ ११.३५ ॥
चित्ताद्भ्रान्तस्य नष्टस्य विषयैर्मोहितस्य च ।
तृष्णया दह्यमानस्य स्थितं दुःखमनुत्तमम् ॥ ११.३६ ॥

चित्तस्य दमनात्सुखानुभूतिर्भवति

एकचारि सदामूढं दुर्विषह्यं महाबलम् ।
सम्प्रदारि सदादृश्यं चपलं शीघ्रगामिनम् ॥ ११.३७ ॥
एवं विधं हि ये चित्तं दमयन्ति मनीषिणः ।
ते मारबन्धनातीताः पारं प्राप्ताः सुखोदयम् ॥ ११.३८ ॥

चपलं चित्तं नरकायोपकल्प्यते

सङ्कल्पकुटिलं तीव्रमगाधं चपलं हि तत् ।
चित्तं तमःश्रितं शुभ्रं नरकायोपकल्प्यते ॥ ११.३९ ॥

दोषनिर्मुक्तोऽच्युतं पदं प्राप्नोति

तदेवं दोषनिर्मुक्तं नेन्द्रियार्थवशानुगम् ।
अलिप्तं पापकैर्धर्मैर्नयते पदमच्युतम् ॥ ११.४० ॥

शुद्धं चित्तं शुद्धे कर्मणि प्रवर्तते

हेतुप्रत्ययजं चित्तं योगवाहि परं च तत् ।
परिणामवशाच्छीघ्रं तथा तत्सम्प्रवर्तते ॥ ११.४१ ॥

चित्तानधीनत्वे कर्म चञ्चलं भवति

एकं करोति कर्माणि विविधानि चलं च तत् ।
एकानेकं चरं सूक्ष्मं क्षणादूर्ध्व न तिष्ठति ॥ ११.४२ ॥

संसारस्य मायोपमत्वप्रतिपादनम्

दुर्विज्ञेयः सदा तस्य निःशरीरस्य सर्वदा ।
कोऽसौ नयति लोकान्तमथ केन च गच्छति ॥ ११.४३ ॥
गतश्च तिष्ठति कुत्र शरीरकर्मकारकम् ।
दृश्यानि तस्य कर्माणि सञ्चयो न च दृश्यते ॥ ११.४४ ॥
दमनं दुष्करं तस्य यस्य भूतिर्न विद्यते ।
सर्वसत्त्वगतं घोरं लघुकारि च चाक्षुषम् ॥ ११.४५ ॥
पापात्पापतरं दृष्टं मायोपममिदं भवेत् ।
पुण्यात्पुण्यतरं दृष्टं सम्यग्मार्गसमाश्रितम् ॥ ११.४६ ॥

मायोपमत्वसमर्थनम्

न गतिर्ज्ञायते तस्य गमनं नैव दृश्यते ।
नीयते च क्षतं सर्व जात्युत्तरसमानि च ॥ ११.४७ ॥
शस्त्रेण छिद्यते नेदं ज्वलनेन च दहयते ।
छिद्यते दह्यते चैव जनः सर्वमचक्षुषा ॥ ११.४८ ॥
दृढं यत्कर्मरज्ज्वादि नरं बध्नाति दुःखितम् ।
जात्यन्तरसहस्त्राणि नयते न च दृश्यते ॥ ११.४९ ॥

दान्तमेव चित्तं सुखावहम्

मुहूर्तेन शुभं भूतं मुहूर्तेनाशुभं च तत् ।
शुभाशुभाभ्यां रचितं(चित्तं) दान्तं सुखावहम् ॥ ११.५० ॥
षड्भिर्द्वारैः प्रसूतेषु विषयेष्वतिलोलुपम् ।
चित्तं नयति लोकान्तं व्यसनं न च बुध्यते ॥ ११.५१ ॥

विप्रसन्नचित्तस्य श्रेयस्करत्वेऽनुत्तमं सुखं भवति

विप्रसन्नं यथा तोयं विप्रसन्नं यथा नभः ।
विप्रसन्नं तथा चित्तं नीयते सुखमुत्तमम् ॥ ११.५२ ॥
जनाः सातिशया (दृष्टा) वितर्कविषयोद्भवात् ।
पौरवाश्चित्तराज्ञस्ते भवन्ति सहचारिणः ॥ ११.५३ ॥

चञ्चलं मनः संसारे गतिं कारयति

धावति यत्र च मनस्तत्र धावन्त्यज्ञानिनः ।
परस्परबलान्नी (ता) भ्रमन्ति त्रिभवार्ण(व)म् ॥ ११.५४ ॥

विशेषचित्तेनोत्तमा गतिर्भवति

चित्तवैशद्य भावानां विशेषः कर्मणास्तथा ।
न कर्मगुणहीनस्य विशेष उपलभ्यते ॥ ११.५५ ॥

सुसमाहितचित्तस्य प्रशंसा

सुसमाहितचित्तः स नित्यं धर्मानुदर्शकः ।
न दोषवशमायाति यथा दिव्यस्तमोनुदः ॥ ११.५६ ॥

गृहस्थस्य सम्यग्दृष्टित्वे निर्वाणप्राप्तिर्भवति

सम्यग्दृष्टेश्चाधिमात्रा यस्य चेतसि वर्तते ।
गृहस्थोऽपि स मे ज्ञेयो मुक्तः संसारबन्धनात् ॥ ११.५७ ॥

विज्ञा देवलोकं गच्छन्ति

कल्याणनिर्मलं यच्च ततो दोषेण बाध्यते ।
विज्ञो (न) मलमाप्नोति देवलोके स जायते ॥ ११.५८ ॥

विनीतचित्ताः सुखगामिनो भवन्ति

विषयद्वारचपलं नदीकुटिलगामिनम् ।
यैर्विनीतमिदं चित्तं ते सुराः शुभभागिनः ॥ ११.५९ ॥

अधर्ममार्गः कल्याणाय न भवति

अधर्मपथमाश्रित्य जनाः पापवशानुगाः ।
चिरं भ्रमन्ति संसारे चित्तेन परिखेदिताः ॥ ११.६० ॥

चित्तं क्षणे क्षणे परिवर्तते

क्षणे क्षणे चित्तमिदं नैकशः परिवर्तते ।
लघुस्वभावचपलं मायागन्धर्वसन्निभम् ॥ ११.६१ ॥

चञ्चलचित्तो बद्धो भवति

तस्य बन्धनमेवेष्टं ज्ञानविज्ञानसम्मतम् ।
दूरवृत्तिर्महावेगः परिधावत्यनेकधा ॥ ११.६२ ॥

धृत्या चित्तधारिणः सुखमश्नुते

ह्रियमाणं सदा चित्तमिन्द्रियार्थे दुरासदम् ।
सन्धारयति यो धृत्या स धीरः पारगामिकः ॥ ११.६३ ॥
धृतिमज्ञानमोहं च विषयोत्तानमानसम् ।
सन्धारयति यो धीमान् स लोके पण्डितो नरः ॥ ११.६४ ॥

शुभचित्तं कामावरोधकं भवति

यो यथा कुरुते चित्तं तथा कामान् स पश्यति ।
शुभेन कामशमनं नाशुभेन प्रवर्धनम् ॥ ११.६५ ॥

अप्रशान्तमतिर्दुःखमाप्नोति
शान्तचित्तंमनाः कामानस्यतीह विषास्त्रवत् ।
अप्रशान्तमतिः सर्पमणिवत्तान् स पश्यति ॥ ११.६६ ॥

चित्तवशगो न शुभां गतिमाप्नोति

इन्द्रियाणीन्द्रियार्थाश्च चित्ताधीना भवन्त्यमी ।
चित्त संश्लेषयोगेन परिणामः प्रवर्तते ॥ ११.६७ ॥

धीरप्रशंसा

तस्यैव व्यवधानेन धीरश्च प्रतिबुध्यते ।
रूपसामान्यतो दृष्टं परिणामः कथं पृथक् ॥ ११.६८ ॥

चित्तस्वरूपनिरूपणम्

यथा रूपं तथा सर्व विषयाश्चित्तहेतवः ।
चित्तं दान्तं सदा शान्तं दोषमिश्रविगर्हितम् ॥ ११.६९ ॥

एकमेकं यथा शालि गन्धरूपे पृथग्विधे ।
संश्लेषो याति नानात्वं तथाचित्तं प्रवर्तते ॥ ११.७० ॥
क्रियां हि तत्र कुरुते यत्र (चित्तं) प्रधावति ।
चित्तसंवाहनं तद्वाक्यं लोकोऽयं सम्प्रवर्तते ॥ ११.७१ ॥
विषयाद्भ्रान्तमनसश्(चा)तिवेगो महाबलः ।
चित्तं(शान्त)करं दान्तं शिवं भवति देहिनाम् ॥ ११.७२ ॥

दान्तेन चेतसा तत्त्वदर्शनं भवति

तेनादान्तेन शीघ्रेण सर्वपापविहारिणा ।
भ्राम्यते त्रिभवः सर्वः न च तत्त्वं स पश्यति ॥ ११.७३ ॥

समीरणरणोद्भ्रान्तो लोकः संसारे भ्रमति

समीरणरणोद्भ्रान्तो यथा भ्रमति सागरः ।
चित्तेश्वरसमायुक्तो लोकोऽयं भ्राम्यते सदा ॥ ११.७४ ॥

चित्तं शुभं सुखमेधीत

शुभोपनीतं चित्तं(हि) शुभेष्वेवापनीयते ।
तथा शुभानुचरितमश्नुते तेषु धावति ॥ ११.७५ ॥

योगवाहिचित्तं प्रत्ययं लभते

योगवाहि नृणां चित्तं वाय्वम्बुसममेव च ।
प्रत्ययश्च यथा लभ्यस्तथा तत्परिधावति ॥ ११.७६ ॥
चित्तं प्रधावति परिवर्तते च

शीघ्रं प्रधावते चित्तं शीघ्रञ्च परिवर्तते ।
शीघ्रं नयति देवेश (भुवने) दायभूमिषु ॥ ११.७७ ॥

चित्तस्य कर्त्तृत्वम्

कर्त्तृत्वं सर्वधर्माणां भर्त्तृत्वं सर्वकर्मणाम् ।
नेतृत्वं सर्वकर्माणां चित्तत्वमिति लक्ष्यते ॥ ११.७८ ॥

चित्तं न विश्वसेत्

न विश्वसेद्धि चित्तस्य नित्यं छिद्रप्रहारिणः ।
दुर्लभस्यापि वश्यस्य चपलस्य विशेषतः ॥ ११.७९ ॥

चित्तगतिवर्णनम्

मुहूर्तेन शुभं याति मुहूर्तेन तथाशुभम् ।
भवत्यव्याकृतं शीघ्रं गतिरस्य न विद्यते ॥ ११.८० ॥

नायतिर्ज्ञायते तस्य गमनं नैव विद्यते ।
अभूतः सम्भवस्तस्य भूत्वा च प्रतिगच्छति ॥ ११.८१ ॥

रूपरहितं चित्तम्

नाकारो विद्यते तस्य सञ्चयोऽपि न विद्यते ।
ग्रहणं तस्य नैवास्ति निःशरीरस्य सर्वतः ॥ ११.८२ ॥

प्रत्ययसाधनवर्णनम्

हेतुप्रत्ययसामग्रया प्राप्तः सञ्जायते पुनः ।
मणिसोमप्रत्ययो (हि) प्रत्ययो ज्ञायतेऽनलः ॥ ११.८३ ॥

चित्तमिन्द्रियरूपादीन् प्रति धावति

तथैवेन्द्रियरूपादीन् प्रतिविज्ञानसम्भवः ।
नैकस्य ज्ञायते चित्तं समवाय्यनुलक्ष्यते ॥ ११.८४ ॥

चित्तं दुर्निवार्यम्

तदेवं विषयं मत्वा दुर्निवार्य च सर्वतः ।
सद्धर्ममतिरास्थेया न कामेषु कथञ्चन ॥ ११.८५ ॥

चित्तमति चपलम्

चण्डातिचपलं तीव्रमविषह्यं महावलम् ।
चित्तं करोति कर्माणि यन्न पश्यन्ति बालिशाः ॥ ११.८६ ॥

दुःखप्रवर्तकं चित्तम्

सर्वस्य कर्मणश्चित्तं हेतुभूतं भवे भवे ।
भवेत्प्रवर्तकं दुःखं येन धावति बालिशः ॥ ११.८७ ॥

चित्तदोषो महादोष एव

वातादयो न दोषाः स्युर्दोषा रागादयो मताः ।
वातादिभिरपायेषु मानवो नोपपद्यते ॥ ११.८८ ॥
चित्तदोषो महादोषो नित्यं(पाप) विदर्शकः ।
तस्मात्तेषां समाश्रेयो न वातादिगमादिह ॥ ११.८९ ॥

रागानुगं चित्तं दुष्टं भवति

वातादयः प्रणश्यन्ति देहनाशाच्छरीरिणाम् ।
(रागादयो) न तस्य स्युर्जन्मान्तरशतैरपि ॥ ११.९० ॥
तस्माद्रागस्य वशगं न विधेयं कदाचन ।
आभ्यन्तिकं परं श्रेयः प्राप्यते रागसङ्क्रमात् ॥ ११.९१ ॥

मन एव चिकित्सको भवति

यश्चित्तवैद्यः स भिषग्न शरीरभिषग्भृशम् ।
मनश्चिकित्सको ज्ञेयो न तथा लौकिको मतः ॥ ११.९२ ॥

स्वचित्तकर्मणा दग्धो नरके पतति

कर्मचिन्त्यं समं चिन्त्यं न चित्तेन प्रपद्यते ।
स्वचित्तकर्मणा दग्धो नरकानुपधावति ॥ ११.९३ ॥

ध्यानादेव चित्तं शुद्धं भवति

यच्छ्रेयः समचित्तस्य न तत्(क्वाप्युप)पद्यते ।
संरक्ष्यं हृदयं मूढः प्रयातमनुधावति ॥ ११.९४ ॥

चित्तवशगो दुःखमाप्नोति

ध्यानाद्ध्येयेन कूटेन यः पुमान् वनमाश्रितः ।
तं मुक्त्वा चित्तकः सोऽयं संप्रहृष्यति बालिशः ॥ ११.९५ ॥
ये बालाश्चित्तपाशेन चित्तकर्मविचारिणः ।
नीयन्ते ह्यवशा घोरं नरकं कर्ममोहिता ॥ ११.९६ ॥

चित्तवैविध्यनिरूपणम्

सुचित्तमपि यच्चितं न तच्चित्तं सतां मतम् ।
कर्मचित्तं महाचित्तं त्रिधातुगतचित्रितम् ॥ ११.९७ ॥
सत्त्वा चित्रैरुपायैर्हि भ्रमन्ति गतिपञ्चके ।
तत्सर्व कर्मसाचिव्यं चित्रकर्तृ विचित्रितम् ॥ ११.९८ ॥

चित्तवशगो बद्धो भवति

चित्तचित्रकरेणेदं कर्मजातं विचित्रितम् ।
येन सर्वमिदं बद्धं जगद्भ्रमति मोहितम् ॥ ११.९९ ॥
वर्षातपरजोधूमैश्चित्तं नश्यति भूभुजैः ।
कल्पकोटिसहस्त्रेण चित्रं चित्तं विनश्यति ॥ ११.१०० ॥
नाशं प्रयाति बसुधा सागरश्चापि शुष्यति ।
चित्तेनापि कृतं चित्रं तस्यानुभवने स्थिते ॥ ११.१०१ ॥

प्रमत्ते चित्ते नानागतिर्भवति

नानागतिसमावृत्ता नानाकर्मसमानुगाः ।
नानाचित्तवशाः सत्त्वा भ्रमन्ति गतिपञ्चके ॥ ११.१०२ ॥
बालिशा (नां)नृणां चित्तं विषयं(प्रति)धावति ।
न चिनोत्यशुभं कर्म येन धावति दुर्गतिम् ॥ ११.१०३ ॥

चञ्चलं चित्तं सदा विषमं भवति

तस्माच्चित्तं सदा रक्ष्यं चञ्चलं विषमं खरम् ।
नित्यं विषयसंसक्तं तृष्णाविषसमावृत्तम् ॥ ११.१०४ ॥

विषयानुरक्तं चित्तं व्यसने पातयति

धावते विषयं चैतद्व्यसनं नावबुध्यते ।
पश्चात्तु व्यसने प्राप्ते फलं विन्दति कर्मणः ॥ ११.१०५ ॥

समाहितचित्तः सुखमश्नुते

अपायभीरुता तस्य तस्य चित्तं समाहितम् ।
समाहितेन चित्तेन सुखात्सुखमवाप्नुते ॥ ११.१०६ ॥

निर्जितचित्तः सुखमाप्नोति

विषमं चपलं तीव्रमविषह्यं महाबलम् ।
यैश्चित्तं निर्जितं धीरैस्ते लोके सुखिनो मताः ॥ ११.१०७ ॥

॥ इति चित्तवर्ग एकादशः ॥


(१२) वाग्वर्गः

निर्वाणाभिलाषुकः पारुष्यं वर्जयेत्

पारुष्यं वर्जयेत्धीमान् सम्यग्वाग्भीरतो भवेत् ।
माधुर्याभिरतो जर्न्तुनिर्वाणस्यान्तिके स्थितः ॥ १२.१ ॥
वाचं पश्यन् सदाभाषेन्मलिनां च विवर्जयेत् ।
वाङ्मनेनाभिभूता ये ते यान्ति नरकं नराः ॥ १२.२ ॥
एकधर्मव्यतीतस्य मृषावादस्य देहिनः ।
प्रतीर्णप्रतिलोकस्य नाकार्य पापमस्तिह ॥ १२.३ ॥

मृषावाग्न प्रयोक्तव्या

मृषावाचं न भाषेत सर्वा प्रत्ययकारिकाम् ।
यथा बध्यति संसारे सुगतिं नैव पश्यति ॥ १२.४ ॥
साधुप्रत्ययतेनीहा सर्वविद्वेषकारिका ।
कान्तारः सर्वाधर्माणां मृषावाच प्रवर्तते ॥ १२.५ ॥
जातमात्रस्य मर्त्यस्य कठारी जायते मुखे ।
पश्चात्छिनत्त्यात्मानं वाचा दुर्भाषितं वदन् ॥ १२.६ ॥
सर्वा कार्यपताका सा सर्वपापप्रसूतिका ।
तमसां योनिरेका सा यां वाचं भाषते मृषा ॥ १२.७ ॥
सत्येन हीनाः पुरुषाः सर्वसाधुविवर्जिताः ।
तृणवद्यान्ति लोकेऽस्मिन् प्रत्यपायेषु दुःखिताः ॥ १२.८ ॥
न वदेदनृतं धीरः कष्टा ह्यनृतवादिता ।
पूतिगन्ध्यसुखी चापि पश्चात्तापेन तप्यते ॥ १२.९ ॥

सत्यमहिमा

सत्यं च न विवर्जेत तस्य धर्मो न विद्यते ।
विनिवर्तितधर्मस्य स्थितं दुःखमनेकजम् ॥ १२.१० ॥

सत्यं सर्वधर्माणां प्रदीपभूतम्

प्रदीपः सर्वधर्माणां साधूनां रत्नवत्प्रियम् ।
स्वर्गस्य च परं वर्त्म सत्यमुक्तं गतज्वरैः ॥ १२.११ ॥
सत्यं न हि दिवं याति मोक्षस्यासत्यवादिनः ।
सत्यहीना हि पुरुषाः पशुतुल्याः प्रकीर्तिताः ॥ १२.१२ ॥
जघन्यानां जघान्यास्ते येषां न विद्यते ।
सत्यं धर्मस्य सोपानं ज्योतिषामाकरो महान् ॥ १२.१३ ॥
पन्थाश्च मोक्षधर्माणां धनानां धनमुत्तमम् ।
पापकैश्च (परि)त्राणां सत्यमुक्तं मनीषिभिः ॥ १२.१४ ॥

सत्यभूषितं वाग्भूषणस्यापि भूषणम्

ज्योतिषां परमं ज्योतिश्चक्षुश्चक्षुष्मतामपि ।
द्रविणेन विना सत्यं भूषणस्यापि भूषणम् ॥ १२.१५ ॥
निधानमतुलं सत्यमहार्य (सर्वसाधकम्) ।
गच्छन्ति (सत्या यिणः) पुरुषाः परमां गतिम् ॥ १२.१६ ॥
न तथा भासते राजा नानालङ्कारभूषितः ।
सत्येन भूषितो धीमान् शोभते देववद्यथा ॥ १२.१७ ॥
न माता न पिता चाथ मित्राणि न च बान्धवाः ।
त्राणमेवं यथा श्रुत्वा तस्मात्सत्यपरो भवेत् ॥ १२.१८ ॥

अनृतनिन्दा

वह्नीनां परमो वह्निर्विषाणां परमं विषम् ।
दुर्गतीनां च सोपानमनृतं परिकीर्तितम् ॥ १२.१९ ॥
विषाग्नितुल्यसंस्पर्श वर्तयेदनृतं पुमान् ।
अनृतेन हि यो देव दग्धैत्यभिधीयते ॥ १२.२० ॥

सत्यासत्ययोः परस्परविरोधित्वम्

तस्मात्सर्वाभिसारेण (न वदेद) नृतं पुमान् ।
सर्व भयादिकं कष्टमनृतं कीर्तितं बुधैः ॥ १२.२१ ॥
वह्नीनां परमो वह्निर्निर्दहेदपि सागरम् ।
किं पुनर्यो मृषावादी काष्ठलोष्ठसमाकृतिः ॥ १२.२२ ॥
सत्यं त्यक्त्वा मृषावादं यो नरः प्रतिपद्यते ।
रत्नं त्यक्त्वा स पापात्मा पाषाणं प्रतिपद्यते ॥ १२.२३ ॥
यस्यात्मा न भवेत्द्विष्टो यस्य वा नरकं प्रियम् ।
मृषावादं स्वदेहाग्निमबुद्धिः स निषेवते ॥ १२.२४ ॥

सदेदं सत्यवचनं भूषणं सर्वदेहिनाम् ।

सत्यं त्यक्त्वा मृषावादे कस्माद्यान्ति कुबुद्धयः ॥ १२.२५ ॥
सत्यं गुणानामग्र्यं वै दोषाणामनृतं स्मृतम् ।
गुणांस्त्यक्त्वा कथं मूढो दोषेषु परिधावति ॥ १२.२६ ॥
बीजं सर्वस्य दुःखस्य मृषावादः प्रकीर्तितः ।
तथा सत्यं सुखस्यैव तस्मान्नानृतको भवेत् ॥ १२.२७ ॥
सत्यवादी हि पुरुषः प्रियः सर्वस्य देहिनः ।
चक्षुर्दोषैमृषावादी तस्मान्नानृतको भवेत् ॥ १२.२८ ॥
देवकल्पाः सदा कृष्टाः पुरुषाः सत्यवादिनः ।
नारकेयास्तथा मूढा जना ह्यनृतचेतसः ॥ १२.२९ ॥
कल्याणानां परं सत्यं दोषाणामनृतं तथा ।
दोषवर्जी गुणद्वेषी पुरुषः पुरुषोत्तमः ॥ १२.३० ॥
सुखोदयं सुखोदर्कं सुखेन परिपच्यते ।
सुखेन लभते सत्यं(सत्यं) निर्वाणगामिकम् ॥ १२.३१ ॥
दुःखोदयं कटुफलं दुःखेन सह पच्यते ।
अनृतं सर्वदुःखान्तं कः पुमान्न विवर्जयेत् ॥ १२.३२ ॥
नान्यदेशागतं सत्यं नान्यस्मात्प्रार्थ्यते हि तत् ।
सर्वतीर्थोत्तमं सत्यं न तीर्थसलिलावृतम् ॥ १२.३३ ॥
दीपानां च परो दीपः सत्यं बुद्धेन देशितम् ।
औषधानां परं तच्च सदा दुःखनिषूदनम् ॥ १२.३४ ॥
अमृतञ्च विषञ्चैव जिह्वापाशे स्थितं नृणाम् ।
अमृतं सत्यमित्युक्तं विषं तूक्तं मृषावचः ॥ १२.३५ ॥
यस्यानृतमभिप्रेतं तस्य सत्यं ध्रुवं स्थितम् ।
विषन्तु यस्याभिमतं तस्येष्टं स्यान्मृषावचः ॥ १२.३६ ॥
विषेण निश्चितं नाशो मृषावादेन निश्चितः ।
मृतवत्स पुमानस्ति यो मिथ्यात्वभिभाषते ॥ १२.३७ ॥
नात्मनो हि हितं पथ्यं (पर)स्य न कथञ्चन ।
पश्चात्तु परदुःखाय तत्कथं सेव्यते नृभिः ॥ १२.३८ ॥
देशे देशे मया दृष्टं जन्ममृत्युसहस्रकम् ।
परः सहस्त्रं जनयेन्नाशयेदनृतं वचः ॥ १२.३९ ॥
अभिजातस निष्कर्षो द्विजातीनां च भूषणम् ।
दर्शनं मोक्षमार्गस्य सत्यमित्यभिधीयते ॥ १२.४० ॥
तृष्णानदी हयमाराणां सतां सत्येन कर्मणाम् ।
पूर्ववत्सत्यमित्युक्तं परं सुगतदेशिकम् ॥ १२.४१ ॥
अनादिनिधने लोके तृष्णापारङ्गता (नराः) ।
नास्त्यत्राणं यथा सत्यमिति धर्मविदो विदुः ॥ १२.४२ ॥

अभिध्यापाशो न सेवनीयः

सत्यवध्या सदा क्लेशा वज्रवध्या यथा नगाः ।
हता(स्ते) पुरुषा (ज्ञेया येऽ) भिध्या परिवञ्चिताः ॥ १२.४३ ॥
परचित्तसमेनेदं रूपाद्यैः परिवञ्च्यते ।
अभिध्यामानसं पाशं सेवितं न विचक्षणैः ॥ १२.४४ ॥
दह्यतेऽविकृत आत्मा तैलदीप्तिरिवानलः ।
अभिध्यादग्धमनसः कारणं नोपलभ्यते ॥ १२.४५ ॥

व्यापादः सत्त्वान्मोहयत्येव

यस्मात्तत्सर्वदा वर्ज्यं कटुकाशाविषोदयम् ।

व्यापादमोहिताः सत्त्वा नित्यं तद्गतमानसाः ॥ १२.४६ ॥
न शान्तिमधिगच्छन्ति सर्पा इव बिलेशयाः ।
अथ कूरस्वभावा ये व्यापादपरमा नराः ॥ १२.४७ ॥
न तेषां विद्यते सौख्यमादित्येन यथा तमः ।
न धर्मे नार्थनिकरो न धर्मा न च बान्धवाः ॥ १२.४८ ॥
रक्षन्ति पुरुषान् सर्वान् व्यापादाहतचेतसः ।
तमसामाकरो ह्येष व्यापाद इह कथ्यते ॥ १२.४९ ॥
व्यापादयति जनकं व्यापादः परिकीर्तितः ।
अव्यापादः परं श्रेयो न व्यापादः कथञ्चन ॥ १२.५० ॥
अव्यापादपरा ये तु ते यान्ति पदमच्युतम् ।
नियतातथवादी योऽधर्मवादी न धार्मिकः ॥ १२.५१ ॥
स चौरः सर्वलोकस्य न चौरः प्राकृतः स्मृतः ।
धर्मवादी नरो यस्तु चरते धर्ममेव यः ॥ १२.५२ ॥
स याति शाश्वतं स्थानं यत्र गत्वा न शोच्यते ।
मिथ्यावचोहत (पुमान्) लौकिकः सम्प्रकीर्त्यते ॥ १२.५३ ॥
लोकोत्तरैः कल्पशतैः कदाचित्कथ्यते न वा ।
तस्मात्लोकोत्तरं वाक्यं लौकिकं न कथञ्चन ॥ १२.५४ ॥
संसारबन्धनं दृष्टं लौकिकं विषवद्वचः ।
तृष्णारतः सदा पुण्यान्मुच्यतेति सुनिश्चितम् ॥ १२.५५ ॥
लोकोत्तरो (नरो) धन्यो विद्वद्भिः समुदाहृतः ।
हितं तत्त्वं च यो मूढो न गृह्णाति गुरोर्वचः ॥ १२.५६ ॥

सत्यवादी सदा देवताभिः पुरस्कृतः

स पश्चाद्व्यसने प्राप्ते तप्यते स्वेन चेतसा ।
सत्यवादी सदा दान्तो देवताभिः पुरस्कृतः ॥ १२.५७ ॥
प्रियो भवति लोकस्य पश्चाद्देवेषु मोदति ।
प्रियो भवति लोकस्य पश्चाद्स्वान्तेन(वर्धते) ।
दर्शनीयं मुखं चास्य देवलोकेषु जायते ॥ १२.५८ ॥
अभूतवादी पुरुषः सर्वसत्त्वोपपातकः ।
तमोनिचयसङ्काशो जीवन्नपि मृतः समः ॥ १२.५९ ॥
कथं न जिह्वा पतिता वाक्यसंस्तुतिकत्तृका ।
मृषा वदति यो वाचं सद्भूतगुणनाशिकाम् ॥ १२.६० ॥
मुखे सन्निहितो ब्यालो मुखे सन्निहितोऽफलः ।
(मुखे)सञ्ज्वलितो वह्निर्यो वाचा भाषते मृषा ॥ १२.६१ ॥
जिह्वा सङ्ग्रथितैः पाशैः नरकस्याग्रहेतुकैः ।
छेत्ता च धर्महेतूनां मृषावादः प्रवर्तते ॥ १२.६२ ॥
न तस्य माता न पिता बुद्धो नापि सम्वरः ।
यः पापबुद्धिः पतितो मृषावादं प्रभाषतेः ॥ १२.६३ ॥
अकस्माल्लघुतां याति षड्भिश्च परिवर्तते ।
मुच्यते देवताभिश्च यो वाचं भाषते मृषा ॥ १२.६४ ॥
असङ्गृहीतवाक्यस्याविचार्य क्रोधनस्य च ।
चपलस्याल्पभाग्यस्य स्थितं दुःखमनन्तकम् ॥ १२.६५ ॥
परस्य दुःखं दृष्ट्वापि सत्त्वः सत्त्वोपपातकः ।
परव्यसनवत्तज्ज्ञः पुमान्नरकगामिकः ॥ १२.६६ ॥
ये यथावादिनो मर्त्त्या न च तत्कारिणः सदा ॥ १२.६७ ॥

सत्यमेव स्वर्गस्य निर्वाणस्य च सोपानम्

सत्यं स्वर्गस्य सोपानं निर्वाणद्वारमेव तत् ।
तस्मात्सत्यपरो नित्यं नित्यं धर्मगतिः स्मृतिः ॥ १२.६८ ॥

अनृतं न वदेत्

अशोकमजरं स्थानं प्रयाति पुरुषोत्तमः ।
वर्जयेदनृतं धीमान्निन्दितं तत्त्वदर्शिभिः ॥ १२.६९ ॥

॥ इति वाग्वर्गो द्वादशः ॥


(१३) कर्मवर्गः

शुभाशुभकर्मणां फलभोगः

शुभानामशुभानां च कर्मणां फलनिश्चयः ।
भुज्यते सुकृतं सर्व कर्मबद्धा हि देहिनः ॥ १३.१ ॥
(यदङ्गी)क्रियते कर्म तत्कृद्भिरनुभूयते ।
चित्तमानेन मूढेन तृष्णानगरवासिना ॥ १३.२ ॥

स्वयमेव फलं भुङ्क्ते

सहायैर्बहुभिः सार्ध कुरुते कर्म दुष्कृतम् ।
एकाकी कर्मणस्तस्य फलं भुङ्क्ते भवे भवे ॥ १३.३ ॥
कर्मणामविसंयोगः सर्वैः स्वजनबान्धवैः ।
शुभाशुभं परं लोके गच्छन्तमनुगच्छति ॥ १३.४ ॥
यत्र प्रयान्ति पुण्यानि गन्धस्तत्रानुधावति ।
तथा शुभाशुभं कर्म गच्छन्तमनुगच्छति ।
स्वकर्मफलदायादा प्राणेन कर्मयोजिनः ॥ १३.५ ॥

सुकृतैः सुरलोकं गच्छन्ति

सुकृतैः सुरलोकेषु दुष्कृतैश्च तथाप्यधः ।
यद्दुःखं कर्मफलजं जायते कटुकोदयम् ॥ १३.६ ॥
तस्योपमानमसुरं त्रिषु धातुषु जायते ।
त्रिदोषजं त्रिचित्तोत्थं त्रिषु धातुषु पच्यते ॥ १३.७ ॥
तस्य कर्मविपाकस्य त्रिषु धातुषु लक्ष्यते ।
हेतुप्रत्ययसामग्रीसमुत्थं च प्रमेव तत् ॥ १३.८ ॥

अन्यकृतकर्मणः फलं नान्यो भुङ्क्ते

न ह्यन्येन कृतं पापमन्येन परिपच्यते ।
सुकर्मफलदायादः प्राणिनां सर्व एव हि ॥ १३.९ ॥

पूर्वोक्तानां त्रिविधानां स्वस्य कृत एव विपाको भवति

कर्मणस्त्रिविधस्यास्य न चाप्यन्यस्य पच्यते ।
चत्वारिंशद्विपाकस्य घोरं भवति चेष्टितम् ॥ १३.१० ॥

कर्मफलवर्णनम्

एकः करोति कर्माणि एकश्च फलमश्नुते ।
एकस्तरति दुर्गाणि सहायो जायतेऽपरः ॥ १३.११ ॥
जलापेक्षी जनो यस्तु कुरुते कर्म दुष्कृतम् ।
न जनो जनशतानां भुङ्क्ते हि व्यञ्जनं (क्वचित्) ॥ १३.१२ ॥
न ह्यन्येन कृतं कर्म सङ्क्रामत्यपरस्य तत् ।
न मन्येऽनादिनिधनमस्मिंल्लोके न चापरैः ॥ १३.१३ ॥
दुःखास्वादं सुखोद्भूतं येन दुश्चरितं कृतम् ।
तेन चरति संसारे प्रेरिते कर्मवायुना ॥ १३.१४ ॥

कस्य धर्मो वर्धते?

अनपेक्षिततत्त्वस्य व्याकुलीकृतचेतसः ।
वर्धते सकलो (धर्मः) धर्मावृतमनोहरः ॥ १३.१५ ॥

के नरकं गच्छन्ति?

मनसा वञ्चिताः सत्त्वा मनसा विप्रमोहिताः ।
गच्छन्ति नरकं पापास्तमस्तमपरायणाः ॥ १३.१६ ॥
तमोवृते हि संसारे दुर्लभं बुद्धशासनम् ।
दुःखाद्दुःखतरं यान्ति येभ्यः धर्मो न रोचते ॥ १३.१७ ॥
अनादिमति संसारे कर्मजालावृता प्रजा ।
जायते भ्रियते चै(व) स्वकर्मफलहेतुना ॥ १३.१८ ॥
जायन्ते नरके देवा नारकेयास्तथाविधाः ।
मनुष्याः प्रेतविषये नरकं वा प्रयान्ति हि ॥ १३.१९ ॥

सुकर्मणैव सुखम्

अन्योन्यप्रभवं दृष्टं दुःखं वा यदि वा सुखम् ।
क्लेशधर्मोद्भवे जन्मन्यपरादिकृतं च तत् ॥ १३.२० ॥
असङ्ख्येयकृतं कर्म संसारे प्राणिभिः सदा ।
तत्र शक्यं बुधैर्गन्तुं वर्जयित्वा तथागतैः ॥ १३.२१ ॥
नाधर्मस्य फलं साधु विपरीतं न पच्यते ।
हेतोः सदृशता दृष्टा जलस्य विविधस्य वै ॥ १३.२२ ॥
सादृश्यस्य हेतुफलं विपरीतं न जातु हि ।
संस्कृतानामरूपाणां हेतुः प्रत्ययसम्भवः ॥ १३.२३ ॥

सहेतुकं सर्व कर्मफलम्

नाहेतुकं फलं दृष्टं नरके तु विशेषतः ।
हेतुसङ्घातसंसक्तं नरकेषु विपच्यते ॥ १३.२४ ॥
कृतोपरतगाढानां नियतं पापगामिनाम् ।
कर्मणा फलसम्बन्धो नरकेषु विपच्यते ॥ १३.२५ ॥
देशानां प्रति कालं तु यत्कर्म (वि)निवर्तते ।
तस्य नेष्टं फलं दृष्टं तत्त्वमार्गविदर्शकैः ॥ १३.२६ ॥

उदाहरणप्रदर्शनपूर्वकं फलस्य कर्माधीनत्वमेवेति

दीपाधीना प्रभा यद्वत्कर्माधीनं फलं तथा ।
अन्योऽन्यफलसम्भूतः संस्कृतः सर्व एव हि ॥ १३.२७ ॥

प्रतीत्यसमुत्पादसमर्थनम्

अन्योन्यहेतुका दृष्टा ह्यन्योन्यवशवर्तिनः ।
सादृश्यस्यानुबन्धेन दृश्यन्ते तत्त्वदर्शकैः ॥ १३.२८ ॥
नाहेतुफलसन्धानमीश्वरादिभिरास्थितम् ।
भवन्ति संस्कृता धर्मा देशितास्तत्त्वदर्शिभिः ॥ १३.२९ ॥
अनादिमतिसंसारे हेतुप्रत्ययसम्भवे ।
सादृश्यं कर्मणा दृष्टं विपरीतं न कल्प्यते ॥ १३.३० ॥

बुद्धस्य स्वरूपम्

तत्स्थेषु कर्मवशगाः प्राणिनः कर्महेतुजाः ।
स कर्मफलतत्त्वज्ञो (बुद्ध) इत्यभिधीयते ॥ १३.३१ ॥

केषां शान्तिः न विद्यते?

मार्गामार्गविरुद्धा ये मूढा बुद्धस्य शासने ।
(न) तेषां विद्यते शान्तिरादित्यस्य तमो यथा ॥ १३.३२ ॥

कर्मायत्तं सुखम्

कर्मायत्तं सुखं दृष्टं सुखायत्तं मनस्तथा ।
मनोऽवबोद्धया(स्ते)धर्मा ये व्युत्पत्तिविचारिणः ॥ १३.३३ ॥

सुचरितस्य कर्मणः फलम्

अनित्याः सर्वसंस्कारा जलबुद्बुदसन्निभाः ।
तस्मात्सुचरितं कर्म लोके मर्त्य परत्र च ॥ १३.३४ ॥
दृष्टं कर्मफलं लोके दृष्टा एव विचित्रता ।
यः प्रमादपरः पुंसास्तस्यात्मा ध्रुवमप्रियः ॥ १३.३५ ॥
कर्मरज्ज्वातिदृढया दुष्प्रमोक्षसुगाढया ।
बद्धा बाला न गच्छन्ति निर्वाणपुरमुत्तमम् ॥ १३.३६ ॥

॥ इति कर्मवर्गस्त्रयोदशः ॥


(१४) संयोजनवर्गः

ज्ञानेन निर्वाणाधिगमः

ज्ञानशस्त्रे(ण)तां छित्वा निर्मुक्ता विगतज्वरा ।
प्रयान्ति निर्वृत्तिं धन्या यत्र ज्ञान्येव विद्यते ॥ १४.१ ॥
सदृशं हि फलं हेतोः कथयन्ति मनीषिणः ।
हेतोरसदृशं नैव फलं पचति देहिनाम् ॥ १४.२ ॥
हेतुप्रत्ययसम्बद्धजन्मप्रत्ययसङ्गताः ।
यथा बद्धा हि संसारे प्रमुच्यन्ते (न)देहिनः ॥ १४.३ ॥

परमशान्तेरूपायः

तां विश्लिष्य सुसम्बद्धां गाढां दुर्विषेहां पराम् ।
गच्छन्ति परमां शान्ति यत्र दुःखं न विद्यते ॥ १४.४ ॥
कर्मणा नियतं जन्तुः कर्मणा परिपच्यते ।
सूपगं (ननु) संसारे सुखं नैवोपलभ्यते ॥ १४.५ ॥
दुःखे दुःखाभिषक्तानां जन्तूनां मूढचेतसाम् ।
सन्मार्गदेशिको नास्ति योऽस्माद्दुःखात्प्रमोचयेत् ॥ १४.६ ॥
ये न धर्मपरा नित्यं ये न सत्यपराः सदा ।
ये च योनिरता नित्यं तेषां दुःखं न हीयते ॥ १४.७ ॥

धर्म इह परत्र च सुखावहः

मातृवत्पितृवच्चैव (मित्रवद्) बन्धुवत्सदा ।
धर्मो वै देशितो बुद्धैरिह लोके परत्र च ॥ १४.८ ॥
त्रिगत्यवस्थिताः सत्त्वास्त्रिदोषवशमागताः ।
त्रिधातुगतिका नित्यं त्रिलोक्यां पतिताः (जनाः) ॥ १४.९ ॥
त्रिकर्मोपान्तवशगाः स्त्रीपानादिपराश्च ये ।
न भवान्मुक्तिगतिकाः स्युर्भूमौ विचरन्ति ते ॥ १४.१० ॥

केषां दुःखं न विद्यते?

त्रिरत्ने (न) प्रमाद्यन्ति त्रिबोधिवशगाश्च ये ।
त्रिदृष्टिवर्जका ये तु तेषां दुःखं न विद्यते ॥ १४.११ ॥
त्रिकालस्थितिसंलग्ना विज्वरास्तत्त्वदर्शिनः ।
त्रिभागकृतिसन्तुष्टा वीतशोका निवृत्तिगाः ॥ १४.१२ ॥
त्रिराशिसमवेता ये त्रिकर्मप्रविचारिणः ।
न ते वत्स्यन्ति संसारे वीतदोषा गतज्वराः ॥ १४.१३ ॥
मार्गामार्गविधिज्ञा ये भावाभावविचिन्तकाः ।
मैत्रीभावविविक्ता ये ते यान्ति परमां गतिम् ॥ १४.१४ ॥

नरः कान् भजेत्?

अनाविलेन(मनसा) विप्रसन्नेन (चेतसा) ।
सर्वदा धर्मवशगान् धीरान् विप्रान् भजेन्नरः ॥ १४.१५ ॥
सत्यमेव प्रपन्ना ये स्मृत्या (हित्वा) मनोमलम् ।
भावाभिलाषाद्विरता मुक्ता निःसंशयं हि ते ॥ १४.१६ ॥
नित्यं दुःखसुखैर्बद्धा विप्रलब्धा ह्यनेकशः ।
नरा निधनतां यान्ति प्राणिनो मोहवञ्चिताः ॥ १४.१७ ॥

कैर्दुर्गुणैः स्वर्गो न लभ्यते?

नाह्रीक्यमनपत्राप्यं कौसीद्यं पापमित्रता ।
नैतानि नाकबीजानि तेभ्यो रज्येन्न पण्डितः ॥ १४.१८ ॥
आह्रीक्यमनपत्राप्यं नित्यं पापानुचारिणः ।
नरः प्रपातात्पतति स पश्चात्प्रतिबुध्यते ॥ १४.१९ ॥

क्रोधेर्ष्यादिभयग्रस्ताः स्वर्ग न गच्छन्ति

क्रोधेर्ष्यास्त्यानमिद्धं हि त्वश्रद्धं यन्मनस्तथा ।
मोहशोकभयग्रस्ता न स्वर्ग प्रभवन्ति ते ॥ १४.२० ॥
अमृतं मद्यपानं च मिथ्यादृष्टिश्च लुब्धता ।
कारणानि करणस्य व्यापादक्रूरकर्मता ॥ १४.२१ ॥

कुदृष्टेः कुफलम्

अदर्शनं परं श्रेयो न कुदृष्टिः कथञ्चन ।
कुदर्शनेन संमूढाः प्रयान्ति नरकं नराः ॥ १४.२२ ॥
अहेतुं हेतुमापश्यन्त्य (नित्यं) नित्यवन्नराः ।
प्रयान्ति नरकं तीव्रं मिथ्यावादेन वञ्चिताः ॥ १४.२३ ॥
कष्टेन तेजसा तेषां मिथ्यादर्शनतत्पराः ।
प्रज्ञाभिमानिनो भूता मोहयन्त्यपरान् जनान् ॥ १४.२४ ॥
मोहान्धकारगहने पतन्त्येव महार्णवे ।
लोके प्रकृतिदुःखेऽस्मिन् हेतुभूता हि ते जनाः ॥ १४.२५ ॥
शराणां तापनं क्षेपं कथयन्ति मनीषिणः ।
चित्तता या तुदत्यन्ते सर्वतः क्लेशपर्वतः ॥ १४.२६ ॥
क्लेशनागाद्विमोक्षो यो यस्य ज्ञानपुरः सरः ।
प्राप्यते वीतकै रूपैः पुरुषैस्तत्त्वदर्शिभिः ॥ १४.२७ ॥
अन्योऽन्यमतिभिः सर्वा लोकोऽयं विप्रलोभितः ।
न याति परमां शान्तिं यत्र मिथ्या न कथ्यते ॥ १४.२८ ॥

नरकहेतवः

औद्धत्यपापसंसर्गः कौसीद्यं लुब्धता तथा ।
हेतवो नरकस्यैते शीलस्य हि विवर्जनम् ॥ १४.२९ ॥
मद्यपानं सदा हिंसा परदाराभिदर्शनम् ।
लोभः कूरा मतिश्चैव हेतवो नरकस्य ते ॥ १४.३० ॥

नाशहेतवः

पैशुन्यं पापसंसर्गो मिथ्यादृष्टिरसंयमः ।
चापल्यं मनसश्चैव नाशयन्ति नरं सदा ॥ १४.३१ ॥
अविद्यया सह पारुष्यैः मिथ्यावागभिमानिता ।
न सुखाय भवन्त्येते अस्मिंल्लोके न चापरे ॥ १४.३२ ॥

के परिवर्जनीयाः?

यद्यसौ भ्रमति प्रायो लोकेस्मिन् किन्न चापरे ।
यद्यसम्भ्रामिते लोके ये च दुःखे निमज्जति ॥ १४.३३ ॥
तच्चेष्टितमविद्यायाः कथयन्ति तथागताः ।
मिथ्यामानोऽतिमानी च सर्वथा (परिवर्ज्यताम्) ।
परिवर्ज्याः सदा ह्येते दुःखवृक्षस्य हेतवः ॥ १४.३४ ॥
ज्ञानिनः परमोदारा नित्यं क्लेशवधे रताः ।
छित्वा (तद्) बन्धनं सर्व गच्छन्ति पदमच्युतम् ।
आदिमध्यान्तकल्याणमस्मिंल्लोके न चापरे ॥ १४.३५ ॥

दोषसेवनैः नाशो भवति

दोषाणां सेवनं दृष्टमविद्यासम्प्रवर्तकम् ।
वर्जनीयाः सदा क्लेशाः सेव्यं ज्ञानमनुत्तमम् ॥ १४.३६ ॥

ज्ञानेन मुक्तिर्भवति

ज्ञानेन मुक्तिर्भवति न च क्लेशैरिहोच्यते ।
ज्ञानाग्निना हि दहयन्ते क्लेशकाष्ठा न शेषतः ॥ १४.३७ ॥

काममयज्ञानं क्लेशजनकम्

क्लेशैः किमर्थ संरुद्धा जालिनी विष(यै) रता ।
पुनः काममयं ज्ञानं चक्षुःपटलबाधकम् ॥ १४.३८ ॥

रागनिन्दा

निर्वाणयति सम्बुद्धवाक्यभैषज्यभोजनैः ।
सद्धर्मसेनापतिना रागसेना विगर्हिताः ॥ १४.३९ ॥

शुभा वाणी प्रयोक्तव्या

उदीरिता शुभा वाणी निश्चेतव्या प्रयत्नतः ।
चत्वारो हि विपर्यासा बुद्बुदवच्चकासते ।
लोकधर्मास्तथा चाष्टौ नाशयन्त्यखिलं जगत् ॥ १४.४० ॥

ज्ञानप्लवः सन्तरणसमर्थः

जालिनीप्रभवा नद्यो वितर्कशतदुस्तराः ।
ज्ञानप्लवं समारुह्य तरन्ति मुनयः शिवाः ॥ १४.४१ ॥

केषां मुक्तिर्न विद्यते?

मूढा ये भूतमनसो नराः कामस्य सेविनः ।
सदा च पञ्चभिः स्थानैर्मुक्तिस्तेषां न विद्यते ॥ १४.४२ ॥
अयोनिशोमनस्कारैर्यो वह्निः समुदीर्यते ।
स योनिशोमनस्कारवर्षणैः प्रतिकल्पते ॥ १४.४३ ॥

अविद्यासंभवमन्धत्वं कथं दूरीभवेत्?

अन्धत्वं चिरकालोत्थमविद्यासम्भवं नृणाम् ।
तदल्पकाले जातेन प्रदीपेन न पश्यति ॥ १४.४४ ॥

ज्ञानलोकेन त्रयो दोषाः विनश्यन्ति

रागमूढा विपच्यन्ते नरके मन्दमेधसः ।
ज्ञानिनस्तु न नश्यन्ति निर्वाणगमना यथा ।
त्रयो दो(षा) विनश्यन्ति ज्ञानलोकेन देहिनाम् ॥ १४.४५ ॥
तस्मादशेषविज्ञानशीलक्षान्तिरतो भवेत् ।
अमूढानां प्रणश्यन्ति त्रयो दोषाः शरीरिणाम् ॥ १४.४६ ॥
ज्ञानानलेन मन्दश्च क्लेशेन्धन महात्त्विषः ।
व्याधिनिर्मग्नतनवः शय्यावेष्टनगोचराः ॥ १४.४७ ॥
यत्र याति परं वेदं मनोमोहमयं फलम् ।
यानि दुःखान्यनेकान्यनेका भुज्यते गतिः ॥ १४.४८ ॥
पञ्चकैः प्राणिभिनित्यमेतन्मोहस्य चेष्टितम् ।
त्रयो वा निर्जिता दोषा यैरिदं दह्यते जगत् ॥ १४.४९ ॥

ज्ञानयोगेन सुखं भवति

तमग्निं ज्ञानयोगेन निर्वाप्य सुखितो भवेत् ।
तस्माज्ज्ञानाग्निना नित्यं निर्दहेत्क्लेशपर्वतम् ।
क्लेशपर्वतदग्धस्य सुखं पदमवस्थितम् ॥ १४.५० ॥

॥ इति संयोजनवर्गश्चतुर्दशः ॥


(१५) पापवर्गः

पापफलस्य अज्ञाता परितापं लभते

क्रियमाणस्य पापस्य विज्ञेयं कटुकं फलम् ।
यो न जानाति मूढात्मा पश्चात्स परितप्यते ॥ १५.१ ॥
(फलं च) लभते पुरुषः सर्वपापस्य कर्मणः ।
तस्मात्पापं न सेवेत यदीच्छेत्सुखमात्मनः ॥ १५.२ ॥
अल्पादपि महाघोरात्नरकात्पापचेतसः ।
मुक्त्यर्थ (तानि) पापानि भूयो मोहवशं गताः ॥ १५.३ ॥
न विश्वसेद्धि पापस्या(ल्पतां) नरकगामिकाम् ।
अल्पेन वह्निना शैले दहयन्ते सर्वतो द्रुमाः ॥ १५.४ ॥

नास्ति पापसमो शत्रुः

पापेन नरकं याति पापेन परिदह्यते ।
पापेन नैति निर्वाणं नास्ति पापसमो रिपुः ॥ १५.५ ॥
पापाचारो हि पुरुषो न क्वचित्सुखमेधते ।
(पापं) तस्मान्न सेवेत यदीच्छेत्सुखमात्मनः ॥ १५.६ ॥
साधुकारं च साधूनां पापमार्गस्य दुष्करम् ।
कुर्वन्तः पापकान् सत्त्वा मोदन्ते(लघुचेतसः) ॥ १५.७ ॥
विपाककटुकः पश्चात्परितापोऽल्पचेतसः ।
कुतोऽपचितगात्रस्य कर्मणो दृश्यते फलम् ॥ १५.८ ॥
तस्मात्पापं न कुर्वीत कष्टा पापस्य वेदना ।
पापं पापविपाकं च पापिनां पच्यते ध्रुवम् ॥ १५.९ ॥
न हि पापं न पापस्य तस्मात्पापं विवर्जयेत् ।
परिवर्जितपापस्य न पापाद्भयमस्ति हि ॥ १५.१० ॥
स्वकृतं बाधते पापं परीक्ष्यं नैव भुज्यते ।
कल्याणस्य फलं साधु कष्टं पापस्य पच्यते ॥ १५.११ ॥
कृत्वा तु पुरुषः पापं कल्याणं नानुसेवते ।
न शस्त्राग्निप्रपातेभ्यो दुःखं स्यात्तादृशं नृणाम् ॥ १५.१२ ॥
यथा निषेवितं मिथ्यापापं पापेषु कल्प्यते ।
विनिवर्जितपापस्य नित्यं च शुभचेतसः ॥ १५.१३ ॥

शान्तस्य भिक्षोर्निर्वाणं नातिदूरम्

(देहिनो) शान्तवक्त्रस्य निर्वाणं नातिदूरतः ।
तीव्रात्तीव्रतरं यान्ति नराः कुकृतकारिणः ॥ १५.१४ ॥
सुखात्सुखतरं यान्ति नराः सुकृतकारिणः ।
न हि तीव्रस्य पापस्य सुखं फलमवाप्यते ॥ १५.१५ ॥
सुखस्य वा फल तीव्रं विपरीतं न पच्यते ।
अनादिमति संसारे सुकृतानां फलं सुखम् ॥ १५.१६ ॥
कर्मणां सुकृतानां च तथा दुःखफलं स्मृतम् ।
पापं पापानुगं दृष्टं शुभस्य च शुभं तथा ॥ १५.१७ ॥

पापी नरकेषुपपद्यते

पापाचारः शुभद्वेषी नरकेषूपपद्यते ।
परिवर्जितपापस्य नित्यं च शुभचेतसः ॥ १५.१८ ॥
हस्तावलम्बि निर्वाणमदृष्टं तदनाविलम् ।
आदिमध्यान्तकल्याणा धर्मा नित्यं सुखोदयाः ॥ १५.१९ ॥

तस्मात्पापं विवर्जयेत्

आदिमध्यान्तकटुकं फलं पापस्य कर्मणः ।
तस्मात्पापं सदा वर्ज्यमालम्ब्यञ्च शुभं सदा ॥ १५.२० ॥

परिवर्जितपापस्य नित्यं सुखमवस्थितम् ।

अनादिमति संसारे दग्धाः पापैः पुनर्नराः ।
खेदं कस्मान्न गच्छन्ति बाला मोहवशानुगाः ॥ १५.२१ ॥
आपातमधुरं पापं परिणामेऽग्निसन्निभम् ।
पापकारी तु पुरुषः सर्वलोके विगर्हितः ।
शुभकारी सदा शान्तस्तस्मात्पापं विवर्जयेत् ॥ १५.२२ ॥
धीरैस्तत्त्वनिदर्शकैः पापविवर्जनम्
अनिष्टमहितं दृष्टं विपाके कटुवेदनम् ।
पापं पापविपाकं च तस्माद्धीमान् विवर्जयेत् ॥ १५.२३ ॥
अस्ति पापं ध्रुवं पापे पापमस्ति न पातकम् ।
पापाचेष्टा क्षयापेक्षा कृपा चित्तसुगामिता ॥ १५.२४ ॥
पापं पापाश्रितं नित्यं धर्मो धर्माश्रितस्तथा ।
उन्नयत्युक्तमेतद्धि धीरैस्तत्त्वनिदर्शकैः ॥ १५.२५ ॥

पापविरहिताः परमं सुखं प्राप्नुवन्ति

अचेतना ध्रुवं बाला येषां दुश्चरितं प्रियम् ।
विनिवर्जितपापास्तु गच्छन्ति परमां गतिम् ॥ १५.२६ ॥
अतीव वञ्चनाघोरा नियता पापगामिनी ।
मानुष्यं दुर्लभं प्राप्य यस्य पापं प्रियं बहु ॥ १५.२७ ॥

शुभाशुभफलयोः परिणामभेदः

पापाद्विरज्यते यस्तु शुभे वातीव रज्यते ।
स सुखात्सुखमाप्नोति निवृत्तिं वा प्रयाति हि ॥ १५.२८ ॥
नरो भवति धन्योऽयं यः शुभान्युपसेवते ।
स त्वधन्यतमो लोके यः पापमुपसेवते ॥ १५.२९ ॥
आदिमध्यान्तनिधनं सद्भिरेव विगर्हितम् ।
पापं पापानुगं दृष्टं नरकायोपकल्प्यते ॥ १५.३० ॥
शुभकर्मा सुखमाप्नोति देवलोकं च गच्छति
अतीव शोभते लोके शुभकर्मा जितेन्द्रियः ।
कायस्य भेदात्सततं देवलोके स जायते ॥ १५.३१ ॥

पापस्य परिणामः सुदारुणः

दुष्कृतस्यानुबद्धं हि दुष्कृतं फलमुच्यते
सुकृतस्य तथा दृष्टं फलं सुखविपाकजम् ।
बीजस्याशुविभीतस्य परिणामः सुदारुणः ॥ १५.३२ ॥
निमित्तं सदृशं दृष्टं फलं पापस्य कर्मणः ।
पापेनाकृष्यते जन्तुः दुर्गतौ बडिशैरिव ॥ १५.३३ ॥
बडिशैर्मुच्यते मीनः पापं पापान्न मुच्यते ।
दिन पीडापि पापस्य सर्वथा दुःखकारिका ॥ १५.३४ ॥
अमेध्यस्य यथा गन्धः प्रतिकूलो हि देहिनाम् ।
शुभस्य वासना रम्या विप्रणष्टस्य दुर्गतौ ॥ १५.३५ ॥
विलेषु वासनं यद्वत्पुष्पे नष्टे प्रदृश्यते ।
चलत्ययं पापकारी नित्यं कामवशानुगः ॥ १५.३६ ॥

के शुभचारिणः?

आलस्यानृतिको नित्यं नासौ कल्याणमर्हति ।
अनन्ता रजनी तेषां (येषां) पापे स्थितं मनः ॥ १५.३७ ॥
प्रभातं रजनी तेषां येषां पापे स्थिरा मतिः ।
अनीर्ष्यकाः सकल्याणाः पुरुषाः शुभचारिणः ॥ १५.३८ ॥

अल्पपापी सुखमाप्नुते

ये न पापात्मनो भूतास्ते नित्यं कोटचारिणः ।
अल्पभारा यथा नावा प्लवते न निमज्जति ॥ १५.३९ ॥

पापीमित्रेण दुःखं भवति

तथाल्पपापपुरुषः प्लवते न निमज्जति ।
न पापमित्रसंसर्गात्पुरुषः सुखवान् भवेत् ॥ १५.४० ॥
पापमित्रं समासाद्य सर्वानलपरो भवेत् ।
कर्मारम्भ विधिज्ञो यो नित्यं सूक्ष्मार्थ (दर्शकः) ॥ १५.४१ ॥
नासौ लिम्पति पापेन पङ्केन गगनं यथा ।
अश्रुतं पुरुषः शृण्वन् श्रुतञ्चापि भवेद्दृढम् ॥ १५.४२ ॥

पण्डितलक्षणम्

पापं च वर्जयेद्धीमान् प्रेत्य देवेषु जायते ।
गुणदोषपरिज्ञानम्मेतत्पण्डितलक्षणम् ॥ १५.४३ ॥

मूढलक्षणम्

गुणदोषापरिज्ञानमेतन्मूढस्य लक्षणम् ।
गुणेषु गुणसञ्चारो दोषेषु च तथैव च ॥ १५.४४ ॥

मूढामूढयोर्लक्षणम्

सदोषगुणतत्त्वज्ञो नित्यं भवति शोकभाक् ।
पापकर्त्ता (तु) पुरुषः शत्रुवच्चात्मनः स्थितः ॥ १५.४५ ॥
शुभकर्त्ता तथा पुंसो मित्रवत्प्रतिपद्यते ।
तमोनिरयभूमिष्वमृतोऽयं प्रतिपद्यते ॥ १५.४६ ॥
यस्य पापरता बुद्धिर्नित्यं विषयतत्परा ।
विषयारामचपला नित्यं रागानुचारिणी ॥ १५.४७ ॥
यस्य बुद्धिर्न धर्मेषु नरस्य दुःखभागिनः ।
हेतुतश्च महादुःखान्तहेतोर्वह्निसंयुतात् ॥ १५.४८ ॥
क्षीणपापा वयं सर्वे भूयो लोकमिहागताः ।
सुकृतस्य फलं साधु ह्यनेकगुणमण्डितम् ॥ १५.४९ ॥
दुष्कृतस्य फलं दुःखं विसंवादकमिष्यते ।
ते वयं सुखदुःखाभ्यां भूयाम भवसङ्कटे ॥ १५.५० ॥
कर्मवायुसमुद्भ्रान्ताः समुद्रस्य यथोर्मयः ।
कृतं पापेष्वमनसः पापैः रक्षन्ति ये जनाः ॥ १५.५१ ॥
ते तस्य हेतोर्नरकं प्रयान्त्यशुभचारिणः ।
तस्मात्तु नरकान्मुक्ताः ते गच्छन्ति त्रिविष्टपम् ॥ १५.५२ ॥
ते हि दुःखं (न)संस्मृत्य पुनः कामवशानुगाः ।
खरीभूतमिदं चित्तं दोलादोलैः सुखासुखैः ॥ १५.५३ ॥
वियोगोऽयं परीघातो न च दुःखैर्न विद्यते ।
अपारदारसंयुक्त इन्द्रियैः परिवञ्चितः ॥ १५.५४ ॥

तृष्णापाशवशगः संसारे भ्रमति

जनो भ्रमति संसारे तृष्णापाशवशानुगः ।
नरकात्प्रेतभुवनं तिर्यग्योनिषु प्रेततः ॥ १५.५५ ॥
तिर्यग्भ्यो नाकभुवनं नाकाद्भूयो नृजातिषु ।
एककर्मपरिभ्रान्तो जगद्भ्रमति चक्रवत् ॥ १५.५६ ॥

सर्व दुःखम्

न च खेदवशं यान्ति(ह्यभ्यास) वशमागताः ।
रक्षन्ति नाकभुवनं विरज्यन्ते तथा सुखैः ॥ १५.५७ ॥
सुखात्सुखपरिभ्रान्ता भ्रमन्ति भ्रमचारिणः ।
दुःखं पद्मसहस्राणि पद्मकोटिशतानि च ॥ १५.५८ ॥
(तानि) दुःखानि भुङ्क्तानि न च क्लिश्यन्ति बालिशाः ।
न सुखं विद्यते लोके सर्वदुःखैः परिप्लुतम् ॥ १५.५९ ॥

दुःखस्य हेतुः भवति

उद्वेगं नैव गच्छन्ति प्राणिनो मोहपीडिताः ।
दुःखेन खिद्यते बालो दुःखहेतौ च वर्तते ॥ १५.६० ॥
हेतौ शतफलं दृष्टं बीजं प्रति यथा फलैः ।
सुखदुःखकशाबद्धाः प्राणिनस्त्रिभवानुगाः ॥ १५.६१ ॥
न यान्ति परमं क्षेमं सर्वदुःखविवर्जितम् ।
स्मर्यते (हि) यदा दुःखं तदा विध्यति देहिनम् ॥ १५.६२ ॥
विस्मृते च पुनर्दुःखे चरन्ति विगतज्वराः ।
नारकं तु सदा दुःखं स्मृतं भवति देहिभिः ॥ १५.६३ ॥
तदा कृष्णमिदं सौख्यमनुमानेन तिष्ठति ।
तदेव विदितं मत्वा जगत्सर्व समन्वितम् ॥ १५.६४ ॥
श्रेयसि क्रियतां बुद्धिर्दोषेभ्यो विनिवार्यते ।
क्षणाधिकारचपलं जीवितं वेति वर्तते ॥ १५.६५ ॥
क्षीयन्ते चापि कर्माणि तस्माच्छ्रेयःपरो भवेत् ।
चित्तवेगं मनः सर्व जीवितं वेति वर्तते ॥ १५.६६ ॥

अनागताद्दुःखात्ज्ञानी न बिभेति

तस्मान्न जीविकाहेतौ पापं कुर्याद्विचक्षणः ।
अनागतस्य दुःखस्य न विभेति महाजनः ॥ १५.६७ ॥
येना(स्य) पच्यते पापं मोहपापवशङ्गतम् ।
मोहितः पापकैर्धमैरशुभैः शुक्लवर्जितैः ॥ १५.६८ ॥

मूढः पापवशाद्नरकं गच्छति

नीयते नरकं मूढो यत्र पापं विपच्यते ।
यस्य पापाद्भयं नास्ति स पापं कुरुते बहु ॥ १५.६९ ॥
स पापानन्तसन्दग्धः पश्चान्नरकमाप्नुते ।
(अपि) सूक्ष्माग्निकणिका यथा दाहाय कल्पते ॥ १५.७० ॥

पापविरहिताः सुखमिच्छन्ति

अन्यैरपि तथा पापैर्नरकं यान्त्यबुद्धयः ।
अपापभीरुता तस्मात्कर्तव्या सुखमिच्छता ॥ १५.७१ ॥
हिंसा मिथ्यावचोऽब्रह्मचर्य भूयः सुखोदयम् ।
आह्रीक्यमनपत्राप्यमौद्धत्यं पापमित्रता ॥ १५.७२ ॥

विषाग्निसदृशं पापम्

विषाग्निसदृशा हयेते तेभ्यो रक्षेत्प्रयत्नतः ।
दुःखं हि मारधर्मोऽयं सुखं धर्मसमन्ततः ॥ १५.७३ ॥

सुखदुःखयोर्लक्षणम्

लक्षणं(सुख) दुःखानां विदुस्तत्त्वविदो जनाः ।
सत्यं दानं तथा क्षान्तिः सदा चापापमित्रता ।
मैत्री सदाभिभूतेषु प्रस्थानं त्रिदिवस्य (हि) ॥ १५.७४ ॥

॥ इति पापवर्गः पञ्चदशः ॥


(१६) नरकवर्गः

अष्टौ नरकाग्नयः

कृत्वा दुष्कृतकर्माणि सत्त्वा विषमजीविनः ।
या गतिः प्रेत्य गच्छन्ती तानपायान् (हि मे) शृणु ॥ १६.१ ॥
सञ्जीवं कामसूत्रं च सम्पातं द्वौ च रौरवौ ।
तमोपरं महाचित्रपतनं च प्रतापनम् ॥ १६.२ ॥
इत्येते नरका अष्टावाख्याता दुरतिक्रमाः ।
रौद्रकर्माभिसङ्कीर्णाः प्रत्येकं क्षोभदा (मताः) ॥ १६.३ ॥

नरकाग्नीनां भयानकत्वम्

चतुःस्कन्धाश्चतुर्द्वारा विभक्ता भागशो मिताः ।
अयः प्राकारपर्यन्ता अयसा प्रतिदुःखिताः ॥ १६.४ ॥
तप्तायोमयसं भूमिर्ज्वलन्ती तेजसोद्गता ।
अनेकयोजनशतं दहति स्वचिंषा(भृशम्) ॥ १६.५ ॥
कन्दर्पदमना घोरा अर्चिष्मन्तो दुरासदाः ।
रोमहर्षणरूपास्तेऽप्याहुर्दुःखा भयानकाः ॥ १६.६ ॥

नरके पतिता भृशं तप्यन्ते

एते पतन्ति नरके ऊर्ध्वपादा अवाङ्मुखाः ।
ऋषीणामतिवक्तारः संयतानां तपस्विनाम् ॥ १६.७ ॥
ते पुनस्तत्र पच्यन्ते तप्ताम्भसि कृता इव ।
क्रन्दमाना दिवारात्रौ, नगा वातेरिता इव ॥ १६.८ ॥
प्रणदन्ति महानादं तीव्रदुःखैः प्रतापिताः ।
सर्वा दिशश्च धावन्ति नारकैः पुरुषैर्द्रुताः ॥ १६.९ ॥
कुदृष्ट्या मोहयित्वार्थे मोहपाशावृतो जनः ।
प्राप्नोति नरकं घोरं कारणोदधिसंवृतः ॥ १६.१० ॥
कुदृष्ट्या दग्धसर्वस्वो मनुष्यः पुरुषाधमः ।
तथा बद्धोऽस्ति नरके मानिनां घोरकारणम् ॥ १६.११ ॥
ये मिथ्यावशमापन्नाः पुरुषा मन्दमेधसः ।
ते सर्वे नरकं यान्ति चित्तैर्हि परिवञ्चिताः ॥ १६.१२ ॥

कुकृतफलम्

यस्त्वया दुष्कृतं पूर्व कृतं चित्तानुवर्तिना ।
तस्य भुङ्क्तफलं मूढ विपाकोत्तम (माप्स्यसि) ॥ १६.१३ ॥
हार्याणि परिचित्तानि, संसेव्याः परयोषितः ।
ह्रस्वा (हि) जन्तवो नित्यं स्वचित्तपरिवञ्चिताः ॥ १६.१४ ॥
तस्य कर्मविपाकस्य वश एव त्वमागतः ।
किं क्रन्दसि स्वयं कृत्वा कुकर्म पुरुषाधम! ॥ १६.१५ ॥
ये नराः कुकृतं कृत्वा पञ्चत्वं यान्त्यमेधसः ।
येषां तु निष्फलं जन्म बीजमुप्तं यथोषरे ॥ १६.१६ ॥
अल्पमाधुर्यसंयुक्तान् कामान् कटुविपाकिनः ।
सेवते यस्त्वसौ मूढः स याति तमसो तमः ॥ १६.१७ ॥
किं कृतं मूढ भवता पुत्रदारसुखार्थिना ।
दहस्ये नरके चैकः स्वकर्मफलवञ्चितः ॥ १६.१८ ॥

केषां दुष्करं जीवनम्?

यः पुत्रदारवशगः सेवते दुष्करं नरः ।
स याति नरकत्वं (च) पापं तदनुभूयते ॥ १६.१९ ॥
न दारा न सुता नार्थ न मित्राणि कथञ्चन ।
मृत्युकाले समुत्पन्ने रक्षन्ति समुपस्थिताः ॥ १६.२० ॥
येषां सांक्लेशिकं चित्तं तृष्णया परिवञ्चितम् ।
सहायता कुतस्तेषां कस्मात्(त्वं) परितप्यसे? ॥ १६.२१ ॥
हृतोऽसि पूर्वविषयैस्तृष्णया परिवञ्चितः ।
किं क्रन्दसि स्वयं कृत्वा कुकृतं मूढचेतनः ॥ १६.२२ ॥
न तथाग्निर्न शस्त्राणि न विषं नारयः स्थिताः ।
बाधते पुरुषं लोके यथा दुष्कृत्यमात्मजम् ॥ १६.२३ ॥

पक्षिणां नीडवासवत्भवचक्रम्

दिग्भागे हि यथा गत्वा संश्रयन्ते वनस्पतीन् ।
विहगाः कालमुत्थाय तथा प्राणिसमागमः ॥ १६.२४ ॥
नाशयित्वा परं द्रव्यं कृत्वा लोकव्यतिक्रमम् ।
किं करोत्यशुभं कर्म मोहेन परिवञ्चितः ॥ १६.२५ ॥
येन याति परां शान्तिं येन यात्यसुरालयम् ।
तत्र हेतुः परं मोहस्तमसामपि यत्तमः ॥ १६.२६ ॥

कुटुम्बाय कृतं पापं नरके पातयति

पुत्रदारमयैः पाशैश्चानीता नरकालयम् ।
यदर्थ क्रियते पापं युष्माभिश्चित्तवञ्चितैः ॥ १६.२७ ॥
मित्राणि पुत्राः (पितरौ किं) बन्धुजनबान्धवाः ।
येषामर्थे कृतं पापं भवद्भिर्मन्दबुद्धिभिः ॥ १६.२८ ॥
नूनमात्मा न ते कान्तो बभूव नरभूमिषु ।
येन त्वया कृतं पापं पुत्रार्थेन नराधमः ॥ १६.२९ ॥
येन पूर्वकृतं पापं पश्चान्न परितप्यते ।
स याति नरकं घोरं पुत्रकारणवञ्चितः ॥ १६.३० ॥

पापकर्मफलम्

किं करिष्यन्ति पुत्रास्ते किं दाराः किं च बान्धवाः ।
दहस्यनादिनरके वह्निः कर्म दुनोत्यसौ ॥ १६.३१ ॥
स्वयं कृत्वाशुभं कर्मासुखोदयमनिन्दितः ।
तप्यसेऽपि वृथाधानः पश्चान्मोहेन वञ्चिकः ॥ १६.३२ ॥
रागद्वेषानुगाः पापं मोहेन परिवञ्चिताः ।
अघं प्रयान्ति ते सर्वे पुत्रदारसुखार्थिनः ॥ १६.३३ ॥
अन्तर्गतेन च पुनर्बहिःस्थेन च वह्निना ।
दह्यमानो(हि)दुःखेन नरके पापकर्मणा ॥ १६.३४ ॥
वशं प्राप्ताः स्वचित्तस्य सर्व एव विडम्बिताः ।
किं क्रन्दसि वृथा नादे वह्निना परितापितः ॥ १६.३५ ॥

पापानुगफलं दृष्टम्

अथ पापानि कर्माणि कृतवानसि मन्यसे ।
दुर्मते तत्र मा क्रन्द किं वृथा परिदेवसे ॥ १६.३६ ॥
पापेषु रक्ष्यते मूढः कारणाशुचि रक्ष्यते ।
पापानुगफलं दृष्टं हेतुप्रत्ययसम्भवम् ॥ १६.३७ ॥
कस्मान्न सेवितो धर्मः पापञ्च नहि वर्जितम् ।
पापाद्बहिश्च पुरुषो नरकं नैव पश्यति ॥ १६.३८ ॥
यो न विन्दन्ति मूढात्मा फलं पापस्य कर्त्तृकम् ।
सोऽवश्यं लभते दोषान् कथं भोक्ष्यसि दुर्मते ॥ १६.३९ ॥
पापेन वञ्चित पूर्वं पापेन परिदह्यते ।
न करिष्यसि पापानि त्वदुःखेनैव यास्यसि ॥ १६.४० ॥
कृतवानसि पापानि शुभानि न कथञ्चन ।
पापेन दह्यते तस्मादशुभे न मनः कृथाः ॥ १६.४१ ॥

किं दुःखादपि दुःखम्?

नास्ति दुःखादतो दुःखं यः पापमनुसेवते ।
तस्मात्पापं न सेवेत यदि दुःखं न वाञ्छसि ॥ १६.४२ ॥

कुटुम्बिजनानां स्पष्टोक्तिः

तस्यान्तर्हृदये बिम्बं किन्तु शान्तिर्न विद्यते ।
कारुण्यास्पदभूताः स्मो नास्माकं करुणाहृदि ॥ १६.४३ ॥
यथा कृतं भवद्भिश्च पापं मोहावृतैर्बहु ।
तद्वः प्रधावते गाढं न च ये तत्र हेतवः ॥ १६.४४ ॥
शीलं न रक्षितं मूढ पापं च बहु सञ्चितम् ।
सम्भूतस्य च पापस्य फलमेतदुपस्थितम् ॥ १६.४५ ॥
न वयं कारणं तत्र यूयमेव हि कारणम् ।
यः पापं कुरुते कर्म स हेतुस्तस्य कर्मणः ॥ १६.४६ ॥
भवद्भिर्यत्कृतं पापं तृष्णाशापविडम्बितैः ।
तद्वो प्रपद्यते घोरं किमस्मान् परिभाषत ॥ १६.४७ ॥
नाकृतं पच्यते पापं न पापं स्यादहेतुकम् ।
येन यद्धि कृतं पापं तस्य तत्परिपच्यते ॥ १६.४८ ॥

पापी नरकं याति

तद्भवन्तः क्रियाहीना मद्यपानेन वञ्चिताः ।
पतिता नरके तीव्रे किं वृथा परितप्यथ ॥ १६.४९ ॥
ते यूयं कामपरमाः घोरं नरकमागताः ।
कारणेष्वपि तीव्रेषु किं तथा परितप्यथ ॥ १६.५० ॥
यदा कृतानि पापानि भवद्भिः काममोहितैः ।
तदा कस्मान्न निकृष्टं किमद्य परितप्यथ ॥ १६.५१ ॥
हेतुभूतो हि नरको मृषावादस्य देशितः ।
हेतुर्वै सेवितं पूर्व निष्फलं परिदेवथ ॥ १६.५२ ॥
नार्थेन लभते सत्यं न कृच्छ्रेणोपपद्यते ।
तस्मात्सत्यं परित्यज्य मृषावादेषु रज्यसे ॥ १६.५३ ॥
पूर्वेषु पापमहितं भवता मूढचेतसा ।
कृतं भवद्भिः कुकृतं (दुष्कृत्यं) परिपच्यते ॥ १६.५४ ॥
पापक्षयाद्विनिर्मुक्तो नरकं नोपलभ्यते ।
नाक्रन्दमानाः पुरुषाः विमुच्यन्ते कथञ्चन ॥ १६.५५ ॥

पापकर्तृ फलं स्वयमेव भुङ्क्ते

किं क्रन्दथ वृथा मूढा वञ्चिताः स्वेन कर्मणा ।
मुञ्चिता वञ्चिता बाला वृथा क्रन्दन्त्यबुद्धयः ॥ १६.५६ ॥
अहितैर्हितरूपैस्त्वं मित्ररूपैश्च शत्रुभिः ।
विप्रलब्धोऽसि भो मर्त्य! गच्छन्नसि महत्तमः ॥ १६.५७ ॥
नान्यः शत्रुर्यथा कर्म दुष्कृतं तव पापकम् ।
कर्मणा त्रिविधेनाथ नीयसे यमसाधनम् ॥ १६.५८ ॥
कस्मादसि ततो मूढ, वञ्चितः पुत्रसंज्ञकैः ।
न दानादिषु बुद्धिस्तैः कृता (ते) मोहवञ्चिता ॥ १६.५९ ॥
अस्मांल्लोकात्परं लोकं शत्रुपृष्ठोरगो यथा ।
शत्रूणां प्रथमः शत्रुः सर्वपापनिदर्शकः ॥ १६.६० ॥
विषाग्निशस्त्रप्रतिम! स्वयं हि दुष्कृतं कृतम् ।
त्वया कृतानि कर्माणि त्वमेवमनुभोक्ष्यसे ॥ १६.६१ ॥
यस्य शान्तं सदा चित्तं विषयैर्यो न हन्यते ।
न ह्यवस्थामिमां यान्ति तथात्वमनुपश्यसि ॥ १६.६२ ॥
नरकस्य ध्वनिं श्रुत्वा कथं क्रन्दसि दुर्मते! ।
किं पुनर्यत्र वह्निस्त्वां धक्ष्यति शुष्ककाष्ठवत् ॥ १६.६३ ॥
न दग्धा वह्निना ये च दग्धास्ते कुकृतैः स्वकैः ।
वह्निस्तु शाम्यते क्वापि दुष्कृताग्निर्न शाम्यति ॥ १६.६४ ॥
नाग्निर्निर्याति लोकान्तं नाग्निस्पृष्टो नरो (मृतः) ।
कुकृताग्निमयं पापं यद्धक्ष्यति हि तत्त्वतः ॥ १६.६५ ॥
कुकृताग्निविदग्धा ये ते दग्धा नरके नराः ।
पापाग्निवर्जिता ये तु न तेषां नरकोदयः ।
यद्यात्मनः प्रियो नित्यं विभेषि नरकाद्यदि ॥ १६.६६ ॥
विवर्जय स्वपापानि ततो दुःखं न यास्यसि ।
यान्ति पापमये नित्यं(नरा) मोहवशानुगाः ॥ १६.६७ ॥
प्राप्नोषि नरकं घोरं किमश्रूणि विमुञ्चसि? ।
दुःखं दुःखविपाकं च दुःखान्तगमनं तथा ॥ १६.६८ ॥
सुकृतं नादिमध्यान्तशोभनं परिपच्यते ।
नात्र लोके त्वयापापं यत्कृतं सुकृतं (मुहुः) ॥ १६.६९ ॥
तस्य तीव्रविपाकस्य फलमद्योपभोक्ष्यसे ।
हेतुप्रत्ययसादृश्यं विपरीतं न कल्प्यते ॥ १६.७० ॥
हेतुः कृतो यथा पूर्व तथा फलमवाप्स्यसि ।
यथा तव तथान्येषां प्राणरक्षा प्रयत्नतः ॥ १६.७१ ॥
कस्मात्प्राणातिपातास्ते कृताः पापानुवर्तिना ।
प्राणत्यागेन पुरुषैर्यद्धनं समुपार्जितम् ॥ १६.७२ ॥
कर्मोदयकृतं तत्ते यत्त्वया समुपार्जितम् ।
सर्वेषां दयिता दाराः प्राणेभ्योऽपि गरीयसः ॥ १६.७३ ॥
तत्त्वया रागरक्तेन कस्मादपकृतावनात् ।
बुद्धेर्व्यामोहजनकं धर्माणां दूषणं परम् ॥ १६.७४ ॥
धर्मपानं त्वया कार्य कर्मानुपरिवर्जितम् ।
जिह्वाविषसमुत्थं यत्सर्वाप्रत्ययकारकम् ॥ १६.७५ ॥
मृषावादं त्वया पापं कर्मानुपरिवर्जितम् ।
एवं पञ्चविधेयेषु यस्मात्त्वमनुरक्तवान् ॥ १६.७६ ॥
तस्मात्संमुक्ष्य मा रोदि किं वृथा परिदेवसे ।
विषयं पापका धर्मा यस्मान्नु परिवञ्चितः ॥ १६.७७ ॥
तस्मात्प्राप्नोषि नरकं ज्वालामालाकुलं महत् ।
एतत्तृष्णाग्निना सर्व प्रदीप्तं भुवनत्रयम् ॥ १६.७८ ॥

धर्माचरणे सावहितेन भवितव्यम्

दृष्ट्वा नाचरितो धर्मः किमद्य परितप्यसे ।
(श्रुत्वा) ते मधुरं चित्तं काममन्दिरकं वचः ॥ १६.७९ ॥
उदीरिते महापापे तस्मै तत्फलमागतम् ।
स कृत्वा पापकं कर्म नियता पापवेदना ॥ १६.८० ॥
करुणं विकलं दीनं किमद्य परितप्यसे ।
कर्मक्षयेण नरकात्मुच्यन्ते पापकारिणः ॥ १६.८१ ॥
विक्रोशमग्ना बहुशो न मुच्यन्ते कथञ्चन ।
अनिष्टं पापकं कर्म कृत्वा रोगवशे स्थिताः ॥ १६.८२ ॥

अज्ञानिनोऽशुभमाचरन्ति

परिदेवति यो मूढो वृथा स परिदेवति ।
अनागतफलज्ञो यः प्रत्युत्पन्नशुभे रतः ॥ १६.८३ ॥
क्रोशते नरके नासौ यथा त्वमनुतप्यसे ।
मया कृतानि कर्माणि फलदानि ममैव हि ॥ १६.८४ ॥
रोगेण शत्रुणा दग्धः पश्चान्नरकमागतः ।
प्रमादभूमिरशुभा रागदग्धस्य देहिनः ॥ १६.८५ ॥
तेन पाशेन बद्धोऽहं गतोऽवस्थामिमां भृशम् ।
दुराचाररतानां तु नृणामस्य फलं कटु ॥ १६.८६ ॥
अज्ञानबाधितोऽस्मीति स्वकृतं भुज्यते मया ।
निर्दयानां सुघोराणां पापानां वशमागतः ॥ १६.८७ ॥
मुक्तिः कथं स्यात्?

मुक्तिरस्मात्कथं स्याद्वै दुःखसंसारसागरात् ।
दुःखाद्दुःखतरं कर्म मयेदं परिपच्यते ॥ १६.८८ ॥
सुखावाप्तिं न पश्यामि क्षेमं वा नरकस्य मे ।
जीवलोकादहं भ्रष्टो अबुद्ध इव मार्गतः ॥ १६.८९ ॥
जीवोऽयं विवशो भूत्वा विकृतैः परिवारितः ।
ज्वालामालाकुलं सर्वमन्तरिक्षं निरन्तरम् ॥ १६.९० ॥
दिशश्च त्रिदिशश्चैव पृथि(वी) च निरन्तरा ।
कृपणोऽज्ञानगो दुःखी निवासं नोपलक्षये ॥ १६.९१ ॥
क्षुरधारावितप्तस्य नृपस्यास्यातिभीषणम् ।
कान्तारे बाह्यमानस्य निः सहायस्य सर्वतः ।
त्रातारं नावगच्छामि योऽस्माद्दुःखात्प्रमोचयेत् ॥ १६.९२ ॥
निःशक्तिरवशो दुःखी वह्निना परितापितः ।
नीयेऽहं विवशः क्वापि बाहुबन्धनयन्त्रितः ॥ १६.९३ ॥
न वार्था नापि मित्राणि न पुत्रा न च योषितः ।
त्रायन्ते व्यसनादस्मात्कृतघ्ना बत ते मम ॥ १६.९४ ॥

अधर्मचारिणो न क्वापि शरणम्

निरानन्दस्य न सुखं दुःखं (गृह्णामि सर्वशः) ।
मृत्युपाशेन बद्धस्य शरणं नोपलक्ष्यते ॥ १६.९५ ॥
संक्रुद्धा इव ते, क्रूरा भविष्यन्ति समन्ततः ।
निरानन्दा दिशः सर्वा व्यालैश्च परिवारिता ॥ १६.९६ ॥
नरकं पातकस्यैव पतेयं धृतिभावतः ।
यच्च यच्चेहं पश्यामि जङ्गमं स्थावरं तथा ।
तत्सर्व व्याकुलं चैव वह्निना परिदीपितम् ॥ १६.९७ ॥
नाधिगच्छामि शरणं निःसहायोऽस्मि सर्वतः ।
घोरे तमसि मज्जासि सागरे च हृतप्लवः ॥ १६.९८ ॥
गगनं नैव पश्यामि नक्षत्रग्रहतारकम् ।
विपरीतमिदं सर्व तमसा परिवारितम् ॥ १६.९९ ॥
पञ्चेन्द्रियाणि सर्वाणि विरतानि हि सर्वतः ।
क्रकचैस्तु तदा सर्व शरीरं परिपाटयते ॥ १६.१०० ॥
नाधिगच्छामि शरणं कामं बन्धो भविष्यति ।
वर्धन्ते दुःखनिकरा सर्वतः परिवारतः ॥ १६.१०१ ॥
मुहुर्मुहुश्च वर्धन्ते वेदनाञ्चितदेहजाः ।
दुःखैश्च (परिवर्धन्ते) निस्सहायं च सर्वतः ॥ १६.१०२ ॥
समीक्ष्य कर्मजं नित्यं ध्येयो हेतुः पुनः पुनः ।
कथयन्ति सुखं वृद्धाः स्वकर्मफलजैर्दृढम् ॥ १६.१०३ ॥
यत्पूर्व करणीयं ते तत्पश्चात्परिचिन्त्यसे ।
मोहेन वञ्चितः पूर्वं किमद्य परितप्यसे ।
किं पुनः पापकर्त्तुर्यः कटुकं परिपच्यते ॥ १६.१०४ ॥
अनेकदुःखहेतूत्थं तव दुःखं भविष्यति ।
त्राणं नैव (च) यत्रास्ति विना कर्मपरिक्षयात् ॥ १६.१०५ ॥
एवं सत्यस्य नाशेन यमदूतैरनेकशः ।
नीयते नरकं घोरं कर्मपाशवशङ्गतः ॥ १६.१०६ ॥
चतुष्कोणश्चतुर्द्वारो विभक्तो भागशो मितः ।
पच्यते यत्र विवशा नारकेया ह्यनेकशः ॥ १६.१०७ ॥
भेदप्रायेण बहुशो यत्त्वया कथितं बहु ।
कल्मषं भूतधर्माणां तस्यैतत्फलमागतम् ॥ १६.१०८ ॥

पैशुन्यसेविनो नरकं यान्ति

भस्मीभवन्ति ते नित्यं मित्रस्वजनबान्धवैः ।
एषामभिमतं दुष्टं पैशुन्यं सद्विगर्हितम् ॥ १६.१०९ ॥
तस्मान्न चरितो धर्मः पैशुन्यं च न वर्जितम् ।
पैशुन्यं सफलं भुक्त्वा किमद्य परितप्यसे ॥ १६.११० ॥
जिह्वाधनविनिर्मुक्तं तीक्ष्णं विषममुच्छ्रितम् ।
पारुष्यमिति सन्दृष्टमहो! तत्फलमीदृशम् ॥ १६.१११ ॥
सत्त्वं पारुष्यपरमं घोरं नरकमागतम् ।
जिह्वायातं तवाकृत्यै किमद्य परिदेवसे ॥ १६.११२ ॥
सहस्त्रगुणपर्यन्तः स्वतो हृदयसम्भवः ।
क्षुत्पिपासामयो वह्निः समादहति मारुतम् ॥ १६.११३ ॥

परुषवाचो नरकस्य चान्तरम्

यदन्तरं हिमाग्न्योर्हि मेरुसर्षपयोश्च यत् ।
तदन्तरं जिह्वयोक्त्या नरके ज्वलनस्य च ॥ १६.११४ ॥
नरकप्रभवो वह्निर्न क्वाप्यन्यत्र प्राप्यते ।
क्षुत्पिपासामयो वह्निर्देवेष्वप्युपलभ्यते ॥ १६.११५ ॥
यो ह्यतः कारणात्तीक्ष्णो वह्निर्भवति नारकः ।
न तथा स प्रभवति यथा वह्निस्तदुद्भवः ॥ १६.११६ ॥
पूर्वोत्तरा बद्धपदं निरर्थकमसङ्गतम् ।
विस्त्रब्ध यत्त्वया प्रोक्तं तस्यैतत्फलमागतम् ॥ १६.११७ ॥
परेषां सम्पदं दृष्ट्वा मम स्यादिति चिन्तितम् ।
तमोऽभिख्यासमुत्थस्य विषस्य फलमागतम् ॥ १६.११८ ॥
व्यापारानलदग्धोऽसि मानुष्यं पुरुषाधम! ।
दहनाद्दहनं प्राप्तो तप्यसे च विकत्थ्यसे ॥ १६.११९ ॥
व्यापारपरमोहे तु नरकायोपपत्तये ।
रज्ज्वैतयैव बद्धोऽसि पुरुषः परिक्रन्दसे ॥ १६.१२० ॥
व्यापादेनाकृष्टोऽसि घोरं नरकमागतः ।
कर्मक्षयाद्भवेन्मोक्षो नरकाच्च विमोक्ष्यसे ॥ १६.१२१ ॥

अधर्मकथनं दहत्येव

अधर्मो धर्मरूपेण साधुरूपेण पापकम् ।
यत्त्वया कथितं पूर्व तत्त्वां दहति नानलः ॥ १६.१२२ ॥
कथं तत्त्वविनष्टानां धर्माधर्मनिच्छताम् ।
देशितं विवरं पापं नियतं पापगामिकम् ॥ १६.१२३ ॥
(यस्)त्वया वर्जितो धर्मः साधवश्चापि निन्दिताः ।
यत्त्वयोपार्जितं कृष्टं तत्त्वयाद्य विपच्यते ॥ १६.१२४ ॥
तृष्णाविषययुक्तेन मोहवेगेन सर्वदा ।
यतः सधर्मविनयैः किं तथा परिदेवसे ॥ १६.१२५ ॥
स भवेत्पापकृन्नित्यं मोहपाशवशङ्गतः ।
कि तप्यसे रोदिषि च कर्म कृत्वा सुदारुणम् ॥ १६.१२६ ॥
हेतुप्रत्ययमूढस्य धर्माधर्मेषु सर्वदा ।
प्राप्तोऽसि नरकं घोरं नारकाग्रं सुदारुणम् ॥ १६.१२७ ॥

कामवशानुगा नरकं यान्ति

कामैः क्रमति संयुक्तैर्यन्न भवति चेष्टितम् ।
सुकृतं कर्मविरसं फलमेतदुपस्थितम् ॥ १६.१२८ ॥
क्षपयित्वा प्रमादेन सुखासक्तेन चेतसा ।
सुकृत नरकं यान्ति देवाः कामवशानुगाः ॥ १६.१२९ ॥

आर्यापवादका नरकं यान्ति

आर्यापवादका ये च ये च कर्मफलद्विषः ।
ते मृत्वा नरकं यान्ति ये च मिथ्याविनीतकाः ॥ १६.१३० ॥

धर्मवञ्चका एव नरकगामिनः

जननीगृहपापीया ये चान्ये धर्मवञ्चकाः ।
तेषामिष्टकरा लोके नरकस्य च गामिनः ॥ १६.१३१ ॥

पापरता दुःखमनुभवन्ति

ये चान्ये सुखसंसक्ता नित्यं पापरता नराः ।
दुःखाद्दुःखं तु ते यान्ति चित्तेन परिवञ्चिताः ॥ १६.१३२ ॥

अवद्यकार्याणि नरके पातयन्ति

तस्मादवद्यकार्ये न मतिं (कुर्यात्कथञ्चन) ।
हीनान्यवद्यकार्याणि नरके पातयन्ति च ॥ १६.१३३ ॥

अतः कुशलकर्माणि कर्त्तव्यानि

(कर्माणि) कुर्यात्कुशलानि नित्यं परार्थबद्धेन मनोरथेन ।

(हितः सदैवं नरकस्य रोधी) । सेव्योऽपवर्गो दशधर्म एषः ॥ १६.१३४ ॥

॥ इति नरकवर्गः षोडशः ॥


(१७) प्रेतवर्गः

अदानस्य कुतः सुखम्?

अदान्तस्य कुतः शान्तिरनुप्तस्य कुतः फलम्? ।

अदीपिका प्रभा नास्ति अदानस्य कुतः सुखम् ॥ १७.१ ॥
हृच्छान्तिर्हि तथा नास्ति नयनार्थस्य देहिनः ।
दानेन विरहात्तद्वत्सुखं प्रेतैर्न लभ्यते ॥ १७.२ ॥
कुकर्मी प्रेतलोकं गच्छति

यं प्रेत्य प्रेतलोकस्य त्रिलोके च यथाधमाः ।
भ्रमेण परमोद्विग्नास्तन्मात्सर्यकृतं फलम् ॥ १७.३ ॥
न दात्रा लभ्यते किञ्चित्कृतनाशो न विद्यते ।
स्वकर्मफलभोक्तारः प्राणिनः कर्मभोगिनः ॥ १७.४ ॥
तव यत्कुकृतं दग्धाः प्रेत्यलोकेष्ववस्थिताः ।
क्षुत्पिपासामयेनेह वह्निना परिदीपिताः ॥ १७.५ ॥
कदा तु विषयोऽस्माकं भविष्यति सुखोदयः ।
परिदाहात्कदा चास्मात्परिमोक्षो भविष्यति ॥ १७.६ ॥

मार्गामार्गविहीनो दुःखित एव जीवति

मार्गामार्गविविक्तोऽहं न ज्ञातं कर्मणः फलम् ।
क्षुत्पिपासामयो वह्निरज्ञातः प्रकटोदयः ॥ १७.७ ॥
क्लेशान्धकारवदना निराशास्त्यक्तजीविकाः ।
त्वक्स्नायुजालबद्धाः स्म जीवामो बत दुःखिताः ॥ १७.८ ॥
न त्राता सर्वतोऽस्माकं हन्त कृच्छ्रगता वयम् ।
उत्पन्नेषु मनुष्येषु खण्डिताः स्वेन कर्मणा ॥ १७.९ ॥
कस्मान्न चरितो धर्मो रत्नदीपेषु सञ्चितः ।
यः करोति शुभं नित्यमशुभं न च सर्वदा ॥ १७.१० ॥
समदृष्टिपथेनैति स्वर्गसोपानमाश्रितः ।
येषामर्थे कृतं पापं क्लेशयन्मानसं बहु ॥ १७.११ ॥
अनेन ते गताः सर्वे भवानां त्रासने स्थितः ।
बद्धोऽसि बन्धनैस्तीव्रैर्यमदत्तैरधिष्ठितः ॥ १७.१२ ॥

पापरज्ज्वाकृष्यमाणः स्वकृतं भुनक्ति

प्राप्तोऽसि तमसो घोरं यमलोकं दुरासदम् ।
इहोपभोक्ष्यसे कर्म यत्त्वया कुकृतं कृतम् ॥ १७.१३ ॥
स्वकृतं भुज्यते बाल! परेषां नैव भुज्यते ।
आकृष्यमाण एषोऽत्र पापरज्ज्वा सुघोरया ॥ १७.१४ ॥
अनलः प्रेतलोकस्य क्षुत्पिपासामयो महान्
नाग्निशस्त्रविषाणां हि निपातस्तादृशः कटुः ॥ १७.१५ ॥
क्षुत्पिपासामयाग्नेश्च निपातो यादृशः (कटुः) ।
न क्षणो नापि हि लवो न मुहूर्तो न शर्वरी ॥ १७.१६ ॥

दुःखान्विता वयम्

यत्र सौख्यं भवेन्मृत्युर्नित्यं दुःखावृता वयम् ।
दुःखाद्दुःखतरं प्राप्तो दुःखहेतुर्निषेवितः ॥ १७.१७ ॥
दुःखात्कदाचिन्मोक्षः स्याद्भविष्यति सुखोदयः ।
नोत्सवे दृश्यते तोयं तडागेषु च शुष्यति ॥ १७.१८ ॥

कर्मफलस्वरूपनिरूपणम्

सरितो नाशमायासुः कथं धावामहे चयम् ।
ते वयं शुष्कसलिलाः सशैलवनकाननाः ॥ १७.१९ ॥
परिधावामहे भूमौ नित्यं सलिलकांक्षिणः ।
ते वयं दग्धतनवः क्षुत्पिपासाहता नराः ॥ १७.२० ॥
शरणं नाधिगच्छामः कष्टं व्यसनमागताः ।
वज्रदंष्ट्रैर्महातीक्ष्णैः काकोलूकैश्च सम्मतः ॥ १७.२१ ॥
अभिद्रुतो न पश्यामि शरणं सौख्यदायकम् ।
प्रतिबिम्बमिदं तस्य कर्मणः समुपस्थितम् ॥ १७.२२ ॥
कृतं कर्म यथास्माभिस्तथेदं फलमागतम् ।
कर्मवायुरगा बद्धाः कर्मसूत्रेण पाचिताः ॥ १७.२३ ॥

कर्मक्षयादृते न मुक्तिः

पलायनं न पश्याम ऋते कर्मक्षयादिति ।
यस्य पापान्यनिष्टानि वह्निवत्तानि पश्यति ॥ १७.२४ ॥

कीदृशं प्रेतभवनम्?

स नैति प्रेतभवनं क्षुत्पिपासानलावृतम् ।
मुहुर्मुहुः प्रवर्धन्ते वेदना नरकोद्भवाः ॥ १७.२५ ॥
ज्वालामालाकुलस्यैव शैलस्य सदृशा वयम् ।
ज्वलितः शाम्यते शैलः सलिलेनैव सर्वथा ॥ १७.२६ ॥
स समुद्रोपमो वह्निरम्माकं नैव शाम्यति ।
कस्मिन् क्षणे समुद्भूतस्तृष्णावायुसहायवान् ॥ १७.२७ ॥
कर्माग्निर्निर्दहत्यस्मान् परिवार्यसमन्ततः ।
ते वयं पापकर्माणः शुक्लधर्मविवर्जिताः ॥ १७.२८ ॥
प्रेतलोकमिमं प्राप्ताः स्वर्गस्य फलमोहिताः ।
क्षुत्पिपासामयो वह्निर्द्वितीयश्चाग्निसम्भवः ॥ १७.२९ ॥

कुकर्मणैव मुद्गराशिमया जनाः प्रेतभवनं गच्छन्ति

मुद्गराशिमया(दाराः) न पुत्राः न च बान्धवाः ।
वञ्चितोऽस्मि स्वचित्तेन कर्मणा परिवञ्चिता ॥ १७.३० ॥
प्राप्तोऽस्मि प्रेतभवनं मित्रज्ञातिनिराकृतः ।
न दाराः नापि मित्राणि न पुत्राः नापि बान्धवाः ॥ १७.३१ ॥

कुकृतफलनिरूपणम्

त्रायते कर्मपाशेन नीयमानं बलीयसा ।
नान्यस्त्राता यथा कर्म त्रिविधं भुज्यते मया ॥ १७.३२ ॥
दानं शीलं श्रुतं चापि त्रिविधं परिकीर्तितम् ।
मोहजालवृतेनेह यन्मया कुकृतं कृतम् ॥ १७.३३ ॥

शुभकर्मणैव प्रेतलोकात्मुक्तिर्भवति

कर्मणो हेतुभूतस्य यत्कृतं फलमागतम् ।
यदि मुच्यामहे पापात्प्रेतलोकाद्दुरासदात् ॥ १७.३४ ॥

अशुभानि कुकर्माणि विवर्जयेत्

न भूयः पापकं कर्म करिष्यामि कथञ्चन ।
उष्णान्युष्णविपाकानि महापीडाकराणि च ।
कुकर्माण्यशुभानीह तस्मात्तानि विवर्जयेत् ॥ १७.३५ ॥

॥ इति प्रेतवर्गः सप्तदशः ॥


(१८) तिर्यग्वर्गः

परद्रोहं कदापि न कुर्यात्

भक्षणं भवदन्योन्यवधबन्धावरोधनम् ।
तिर्यग्योनिं समासाद्य तस्माद्द्रोहं विवर्जयेत् ॥ १८.१ ॥
मोहोपहतचित्ताश्च शीलदानविवर्जिताः ।
तिर्यग्योनौ व जायन्ते बालास्तृष्णाविडम्बिताः ॥ १८.२ ॥
गम्यागम्यं न विन्दन्ति भक्ष्याभक्ष्यं तथैव च ।
कार्याकार्यबहिर्भूता धर्माधर्मतिरस्कृताः ॥ १८.३ ॥
पञ्चेन्द्रियजरामूढास्तृष्णापाशवशानुगाः ।
क्रोधेर्ष्यामतिसंग्रस्तास्तिर्यग्योन्युपगा नराः ॥ १८.४ ॥
पर्येष्ट्युपहता मर्त्याः प्रमादोपहताः सुराः ।
क्षुत्तर्षव्यसनाः प्रेताः कारणात्ते च नारकाः ॥ १८.५ ॥

के तिर्यग्योनिपरायणाः?

परस्परबधात्युक्तास्तिर्यग्योनिपरायणाः
एवं बहुविधैस्तैस्तैर्व्यसनैराकुलं जगत् ॥ १८.६ ॥

मात्सर्योपहतो दुष्कृत न कुर्यात्

न कुर्याद दुष्कृतं कर्म मात्सर्योपहतः परम् ।
मात्सर्योपहता यान्ति प्रेतास्तिर्यक्षु जन्तवः ॥ १८.७ ॥

केषां सफलं जन्म?

तेषां हि सफलं जन्म तेषां बुद्धिरवञ्चिता ।
ते च पूज्याः सदा सद्भिर्येषां धर्मे सदा मतिः ॥ १८.८ ॥

ज्ञानरथावरूढैर्मुक्तिर्भवति

एवं त्रिदोषाकृतकर्मसारं जगद्भ्रमत्येव दुरावगाधम् ।
करोति यस्तस्य च शुद्धसत्त्वोऽवमाननां ज्ञानरथावरूढः ॥ १८.९ ॥

॥ इति तिर्यग्वर्गोऽष्टादशः ॥


(१९) क्षधावर्गः

क्षुधापीडिता नरा अशुभं कुर्वन्ति

संसारे प्रायशो दुःखं त्रैधातुकक्षुधामयम् ।
येनेमे पीडिताः सत्त्वाः कुर्वन्त्यशुभमात्मनः ॥ १९.१ ॥
स्वदेहे युक्तितो वह्निर्बुभुक्षेत्यधीयते ।
शेषो दहति लोकान् वै कल्पानल इव द्रुमान् ॥ १९.२ ॥
लोकोत्तरमिमं वह्निं गच्छन्तमनुगच्छति ।
नात्मनिर्वाणसन्दृष्टं कल्पान्तरशतैरपि ॥ १९.३ ॥
नानलस्य हि तद्वीर्य क्षुधाया यादृशं बलम् ।
त्रैधातुकमिदं कृत्स्नमाहारं प्रति वर्तते ॥ १९.४ ॥
मोहयेद्विविधा चिन्ता लोके मनुजसम्भवाः ।
ताः सर्वा भोजनार्थाय भवन्ति त्रिभवार्णवे ॥ १९.५ ॥

दुःखमनिर्वचनीयम्

अन्तराभवसंस्थस्य कृष्यमाणस्य कर्मभिः ।
दीर्घागमस्य यद्दुःखं न तद्वर्णयितुं क्षमम् ॥ १९.६ ॥
अविद्येन्धनमग्नस्य दह्यमानस्य चोष्मणा ।
गर्भस्थस्य हि यद्दुःख न तद्वर्णयितुं क्षमम् ॥ १९.७ ॥
आहाररसगृद्धस्य नित्यं तद्गतचेतसः ।
यद्दुःखं परगृद्धस्य न च वर्णयितुं क्षमम् ॥ १९.८ ॥
दृढा विदग्धमनसः कामे वा तप्तचेतसः ।
यद्भवत्यधिकं दुःखं न तद्वर्णयितुं क्षमम् ॥ १९.९ ॥
अप्रियैः सह संसर्गो विषयास्तस्य नित्यशः ।
प्रणष्टे हृदि यद्दुःखं न तद्वर्णयितुं क्षमम् ॥ १९.१० ॥
तृष्णाविषविदग्धस्य नित्यं पर्येषणात्मकम् ।
आमृत्यु यद्भवे दुःखं न तद्वर्णयितुं क्षमम् ॥ १९.११ ॥
अव्युच्छिन्नं बहुविधं यद्दुःखं पापमित्रजम् ।
अपायजनकं यस्य न तद्वर्णयितुं क्षमम् ॥ १९.१२ ॥
व्यसनं पुत्रदाराणां यद्दृष्ट्(वा) हृदि जायते ।
नरकाणां महामार्गो न तद्वर्णयितुं क्षमम् ॥ १९.१३ ॥
क्षुत्पिपासाविदग्धस्य दीप्यमानस्य वह्निना ।
यद्दुःखं नष्टमनसो न तद्वर्णयितुं क्षमम् ॥ १९.१४ ॥
अजस्त्रं परिभूतस्य मित्रज्ञातिसुहृज्जनैः ।
यद्भवेच्छोकजं दुःखं न तद्वर्णयितुं क्षमम् ॥ १९.१५ ॥
दारप्रलम्बनगतं दुश्चलं प्रियचेतसः ।
यद्दुःखं जीर्णकायस्य न तद्वर्णयितुं क्षमम् ॥ १९.१६ ॥
मृत्युना ह्रियमाणस्य तस्मांल्लोकात्मनो रसात् ।
यद्दुःखं जायते वृत्तौ न तद्वर्णयितुं क्षमम् ॥ १९.१७ ॥

दानैरशुभनाशः

यत्कुर्वन्त्यशुभं बाला यच्च गच्छति दुर्गतिम् ।
तदाहरति दानेन कथयन्ति मनीषिणः ॥ १९.१८ ॥

अतः सुकृतेषु मनः कार्यम्

प्रतिदुष्कृतकर्माणि वर्जनीयानि सर्वदा ।
सुकृतेषु मनः कार्य दानशीलविभूषितम् ॥ १९.१९ ॥

॥ इति क्षुधावर्ग एकोनविंशः ॥


(२०) कौसीद्यवर्गः

कौसीद्येन ज्ञानहानिः

कौसीद्यमतिमाया च दम्भः पारुष्यमेव च ।
नियातभूमयो दृष्टा ज्ञानस्य च विवर्जनम् ॥ २०.१ ॥
संश्लेषश्चाप्यसाधूनां साधूनां वर्जनं तथा ।
नाशस्य हेतवः शक्ता मिथ्यादर्शनमेव च ॥ २०.२ ॥
अदेशकालसंरंभो वाच्यावाच्यमजानतः ।
अनर्थभूमयो ह्येता विस्रम्भश्चापि तन्मयः ॥ २०.३ ॥

अनर्थभूमयः

येन तेन च सम्प्रीतिः यत्र तत्र च भोजनम् ।
लाघवं जनयत्यन्तेऽप्रशंसा चात्मनस्तथा ॥ २०.४ ॥
धैर्यनाशः स्मृतिभ्रंशो विरोधः पार्थिवेन च ।
अक्रान्तमृत्यवो ह्येते क्रूरता मनसि स्थिता ॥ २०.५ ॥
अकर्माफलतत्त्वज्ञो धर्माधर्मवहिष्कृतः ।
पुरुषः साधुनिर्मुक्तः प्रपातगमनाशयः ॥ २०.६ ॥
कौसीद्यमतिनिद्रा च रसना गृह्यते तथा ।
पुंद्वेषयोनयः प्रोक्ताः पारुष्यवचनं तथा ॥ २०.७ ॥

लोभोऽपमानस्य कारणम्

अतिलोभोऽपमानश्च अतिमानश्च चापलम् ।
धर्मवर्ज्या कामसेवा मोहस्य परिदीपिकाः ॥ २०.८ ॥

दोषाणां मूलं कौसीद्यम्

त्रयाणामिह दोषाणां कौसीद्यं मूलमुच्यते ।
वीर्यारम्भेण दुष्यन्ते दोषा मनसि सम्भवाः ॥ २०.९ ॥
वीर्यारम्भेण हि फलं ह्यवश्यमुपभुज्यते ।
न्यायेनारब्धतत्त्वस्य कर्मणो दृश्यते फलम् ॥ २०.१० ॥
कर्मणस्त्रिविधस्यास्य फलं त्रिविधमुच्यते ।
त्रिराशिनियतं तच्च त्रिशूलं त्रिभवानुगम् ॥ २०.११ ॥

कौसीद्यसेविनो दुर्गतिः

पापसेवी प्रचण्डो यः कौसीद्यमपि सेवते ।
धर्मविद्वेषकः क्रूरोऽनुत्पथानुपधावति ॥ २०.१२ ॥
यस्य तस्य च सन्तुष्टो यस्य तस्य प्रकुप्यति ।
यत्र तत्र च संसक्तो स मूढ इति कथ्यते ॥ २०.१३ ॥
कौसीद्यं (यत्) स्वमनसः प्रमादविषमूर्च्छितम् ।
प्रपातं तं च संरब्धमविसंवादकं परम् ॥ २०.१४ ॥
वीर्यारम्भे महापापकौसीद्यमलवर्जिताः ।
विमुक्तेरुपभोक्तारस्ते जनाः सुखभागिनः ॥ २०.१५ ॥
कौसीद्यं सर्वधर्माणामजरामरकारकम् ।
तेन दोषेण महता नरा दुःखस्य भागिनः ॥ २०.१६ ॥
सहायश्च सुखावेशी तस्मात्तत्परिवर्जयेत् ।
तेन विद्धो हि पुरुषः स्वधिस्तुत्यः समन्ततः ॥ २०.१७ ॥
कुसीदस्याल्पभागस्य मोहापहृतचेतसः ।
कुत्सितः स्वजनैः सर्वैर्न गतिर्विद्यते शिवा ॥ २०.१८ ॥

कौसीद्यरतः पापीभवति

कौसीद्यपापसंसर्गीस्त्यानमिद्धं तथैव च ।
मोक्षद्वारविघाताय भवन्त्येते महाभयाः ॥ २०.१९ ॥

दुःखस्यैतानि हर्म्याणि

आह्रीक्यमनपत्राप्यमौद्धत्यं पापमित्रता ।

दुःखस्यैतानि हर्म्याणि तेभ्यो रक्षेन्नु पण्डितः ॥ २०.२० ॥
कौसीद्येनाभिभूता ये निरारम्भा गतित्विषः ।
सोच्छ्वासमरणं तेषां जीवितं चापि निष्फलम् ॥ २०.२१ ॥
जीवमाना न जीवन्ति कौसीद्योपहता नराः ।
मृत्योरत्यधिकं ह्येतत्कौसीद्यमिति मन्यते ॥ २०.२२ ॥

आरब्धवीर्या एव भवसागरं तरन्ति

कौसीद्यपङ्कमग्ना ये मग्नास्ते दुःखसंस्तरे ।
आरब्धवीर्या ये पुंसस्ते तीर्णा भवसागरात् ॥ २०.२३ ॥
कौसीद्यान्मन्दवीर्यो यः सदा पापरतश्च यः ।
स जीवमानोऽपि मृतो मृतस्तु नरकाय सः ॥ २०.२४ ॥

मानवानां निर्धनत्वे कौसीद्यं कारणम्

निर्धनाः पशुभिस्तुल्यास्ते नरा दुःखभागिनः ।
परपिण्डाशिनो दीनाः कौसीद्यं तत्र कारणम् ॥ २०.२५ ॥
प्रायशस्तु कुसीदानां परदारोपजीविनाम् ।
रताभिलाषोऽत्यधिको मैथुने च सदा रतिः ॥ २०.२६ ॥
ते तत्त्वकारिका रिक्ताः केवलाहारतत्पराः ।
मृत्युकाले समुत्पन्ने दह्यन्ते स्वेन चेतसा ॥ २०.२७ ॥
शीतोष्णं च सहन्त्येते क्षुत्पिपासे तथैव च ।
गात्रान्ता च क्रिया कार्या यात्रा धर्माय सर्वदा ॥ २०.२८ ॥

अतः कौसीद्ये न मतिः कार्या

न कौसीद्ये मतिं कुर्यात्कुशीले शीलकामुकः ।
संसारे सीदति नित्यं न च दुःखात्प्रमुच्यते ॥ २०.२९ ॥

कुदीदान्वितः लोकवञ्चितो भवति

परिभूय सतां मध्ये कुसीदाल्लोकवञ्चितः ।
वञ्चितश्च भवत्यन्ते शर्मणो वा विमुच्यते ॥ २०.३० ॥

धर्मेण विमुक्तिर्भवति

वीर्यवान् स्मृतिसंलब्ध एकान्तनिरतः सदा ।
विमुक्तपापकैधर्मैर्मोक्षं प्राप्नोति यत्नतः ॥ २०.३१ ॥

कुकर्मेषु मतिः न कार्या

एवंविधा दुःखपरम्परा हि, सत्त्वः कुकर्मेषु (मतिं) न कुर्यात् ।
लोके त्रिदोषानलसम्प्रदीप्ते, कुर्यात्परां शान्तिकृपा मृते न ॥ २०.३२ ॥

॥ इति कौसीद्यवर्गो विंशः ॥

चित्तञ्च वाक्तथा कर्म संयोजनन्तु पापकम् ।
नरकप्रेततिर्यक्क्षुत्कौसीद्यानि विदुर्दश ॥

॥ इति द्वितीयमुदानम् ॥

अथ तृतीयमुदानम्

(करुणादानशीलानि क्षान्तिर्वीर्यमथापि च ।
ध्यानं प्रज्ञाथ निर्वाणो मनो भिक्षुश्च ते दश ॥ )


(२१) करुणावर्गः

करुणा मातेव हितकारिणी भवति

कृपा सर्वेषु भूतेषु मातेव हितकारिणी ।
यां समाश्रित्य पुरुषाः प्रयान्ति सुखमुत्तमम् ॥ २१.१ ॥
दयान्वेषीह पुरुषः सर्वसत्त्वहिते रतः ।
पूजनीयः सतां याति प्रेत्य स्वर्गे च मोदते ॥ २१.२ ॥
दयावन्तः सदावर्त सर्वभूतहिते रतम् ।
तमेवं पुरुषं नित्यं प्रणमन्ति दिवौकसः ॥ २१.३ ॥

करुणान्वितो देवलोकं गच्छति

प्रयाति देवलोकं च शीलवान् करुणान्वितः ।
कृपान्वितः स पुरुषो चन्द्रमा इव शोभते ॥ २१.४ ॥

सुखार्थिना करुणा सेवितव्या

आश्रयन्ति च भूतानि गतशोका गतव्यथा ।
तस्माद्दयाप्रयत्नेन सेवितव्या सुखार्थिना ॥ २१.५ ॥

कारुण्येन यशवृद्धिर्भवति

यस्य वाक्कायचित्ते (च) कारुण्येन विभूषिते ।
तस्य मित्रमया लोका भवन्ति यशसा वृताः ॥ २१.६ ॥

कारुण्यार्द्रस्य विदुषो निर्वाणं याति

कारुण्यार्द्रस्य विदुषो नित्यं मृद्विन्द्रियस्य च ।
सम्यग्दृष्टिप्रयत्नस्य निर्वाणं नाति दूरतः ॥ २१.७ ॥

कारुण्यविभूषिता मनुष्यलोकं देववद्भूषयन्ति

मनुष्यलोके ते देवा ये कारुण्येन विभूषिताः ।
कारुण्येन दरिद्रा ये ते दरिद्राः सतां मताः ॥ २१.८ ॥

मृद्वाशया मर्त्याः साधवः

मृद्वाशया हि ये मर्त्याः साधुवत्काञ्चनोपमाः ।
कारुण्यमक्षयं येषां सदा मनसि वर्तते ॥ २१.९ ॥

के धर्मपरायणा भवन्ति?

ते च सत्त्वाः सदोद्युक्ता नित्यं धर्मपरायणाः ।
येषां कारुण्यदीपेन हृदयं सम्प्रकाशितम् ॥ २१.१० ॥
न रात्रौ न दिवा तेषां धर्मो हि विनिवर्तते ।
येषां सर्वास्ववस्थासु करुणाभिरतं मतम् ॥ २१.११ ॥

कारुण्यं शीतलं चित्तम्

कारुण्यशीतलं चित्तं सर्वसत्त्वहिते रतम् ।
भुक्त्वा सौख्यं निरुपमं पश्चाद्गच्छति निर्वृतिम् ॥ २१.१२ ॥

कारुण्यमविनाशि धनम्

कारुण्यं मुनिभिः शस्तं कारुण्यं निर्मलं सरः ।
कारुण्यं दोषनिर्घाति कारुण्यं धनमव्ययम् ॥ २१.१३ ॥
गुणानां भूषणं चाग्रं सर्वदोषविघातकम् ।
कारुण्यार्द्रा हि परमं प्रयान्ति धनमच्युतम् ॥ २१.१४ ॥
कारुण्यं (वै) धनं यस्मान्माधुर्यपयसा युतम् ।
न दाहः क्रोधजस्तस्य हृदये सम्प्रवर्तते ॥ २१.१५ ॥

कारुण्यनावमारुह्य जना भवसागरं तरन्ति

कारुण्यनावमारुह्य प्रीतिर्धैर्यपरायणः ।
त्रिदोषोर्मिमहावेगे भ्राम्यते भवसागरे ॥ २१.१६ ॥

करुणायाः परिभाषा

गुणानामद्वयं श्रेष्ठं विना चित्तेन भूषणम् ।
साधूनां दयितं नित्यं कारुण्यमिति कथ्यते ॥ २१.१७ ॥
मार्दवं यस्य हृदये विलीनमिव काञ्चनम् ।
स जनो हि तु कल्पान्ते दुःखादाशु विमुच्यते ॥ २१.१८ ॥

दयालोः श्रेयांसि रोहन्ति

यस्य पात्रीकृतं चित्तं मार्दवेण समन्ततः ।
श्रेयांसि तस्य रोहन्ति केदार इव शालयः ॥ २१.१९ ॥
चेतोगृहे निधानं तदव्ययं (सर्व)देहिनः ।
निर्वासयति दारिद्रयं नृणामध्याशयं महत् ॥ २१.२० ॥
तीक्ष्णेन्द्रियस्याशान्तस्य निध्यानस्य विचारिणः ।
विषयेषु प्रमत्तस्य दुःखं नैव प्रधावति ॥ २१.२१ ॥
मैत्रेण चेतसा नित्यमनुकम्पादया पराः ।
ते हेतुफलतत्त्वज्ञा दुःखपाशाद्विनिर्गताः ॥ २१.२२ ॥
न सङ्कल्पे मनो येषां रमते दोषवर्जितम् ।
ते दोषभयनिर्मुक्ताः पदं गच्छन्त्यनुत्तरम् ॥ २१.२३ ॥
क्षान्तिक्रियासमायुक्ते मित्रवानकुतोभयः ।
प्रियो भवति लोकेऽस्मिन् पश्चाद्देवेषु मोदते ॥ २१.२४ ॥

दयारत्नं सदा सेव्यम्

मातृवत्पितृवच्चैव सर्वलोकस्य ते जनाः ।
दयारत्नं सदा येषां मनसि स्थितमुत्तमम् ॥ २१.२५ ॥

कृपैव सुखस्य मूलमस्ति

सुखस्य च परं मूलं कृपैव परिकीर्तिता ।
(हृदि) यस्य कृपा नास्ति स दुःखी परिकीर्त्यते ॥ २१.२६ ॥

मैत्री एव सुखावहा

एकसत्योत्तरं ब्रह्म एकस्यानुत्तरं शिवम् ।
एकविद्या परं माता मैत्री चैका सुखावहा ॥ २१.२७ ॥

अहिंसका एव धन्याः

अहिंसकाः सदा धन्याः सद्दृष्टिः परमा शुभा ।
एतदृजु सदा सत्यं पापानां चापि वर्जनम् ॥ २१.२८ ॥

करुणाया माहात्म्यम्

कर्त्तव्यः पुरुषैस्तस्मात्कृपासंवेगमानसैः ।
दानशीलक्षमामैत्रीज्ञानाभ्यासश्च निर्मलः ॥ २१.२९ ॥

॥ इति करुणावर्ग एकविंशः ॥


(२२) दानवर्गः

शुद्धाशुद्धदानपरिभाषा

गुणद्वादशसंयुक्तं मलैर्द्वादशभिर्विना ।
दानं भवति शुद्धं तद्विपरीतं सकल्मषम् ॥ २२.१ ॥

दानरहिता एव पुरुषाधमाः

देवानामथ (वा) नृणां धनस्य बलमुत्तमम् ।
दानेन रहिता पादे पतन्ति पुरुषाधमाः ॥ २२.२ ॥
लोभमात्सर्यमलिनाः पुत्रदारवशानुगाः ।
मनुजा निधनं यान्ति केवलाहारकांक्षिणः ॥ २२.३ ॥
लोभग्रन्थिविमोक्षाय याञ्चावृक्षक्षयाय च ।
तमोनिचयनाशाय प्रदानमिह दीयते ॥ २२.४ ॥

दाता परलोकं गच्छति

अघतां चरते दानं दातापि तदनन्तरम् ।
मार्गसन्दर्शवद्दानं परलोकं समृच्छति ॥ २२.५ ॥
दानाम्भसि नराः स्नात्वा शीलोर्मिपरिभाविते ।
ज्ञानविस्तीर्ण(विमलं) पारं दुःखस्य यान्ति वै ॥ २२.६ ॥

दोषनाशकाः त्रयो दीपाः

पुरुषेण त्रयो दीपाः प्रज्वाल्या हितमिच्छता ।
दानं शीलं तथा ज्ञानमेते दोषविनाशकाः ॥ २२.७ ॥
तृष्णाविवर्णा दुर्गन्धिवितर्कोर्मिझषाकुले ।
दुःखार्णवे प्लुता ह्येते ज्ञानशीलेषु रक्षिताः ॥ २२.८ ॥

क्लेशस्य भेषजं दानं, शीलं, ज्ञानम्

क्लेशव्याधिनिहन्तारस्त्रयो वै भेषजाः स्मृताः ।
दानं शीलं तथा ज्ञानमेते नित्यं सुखावहाः ॥ २२.९ ॥
प्रमादविषमं (चित्तं) संकल्पकुटिलं लघु ।
वध्यते बन्धनैरेतैस्त्रिभिर्ज्ञानादिभिर्नृणाम् ॥ २२.१० ॥
दोषाग्निभिः (सदा) प्लुष्टो यैरिदं दह्यते तदा ।
दानादिज्ञानयोगेन हत्वा गच्छति निर्वृतिम् ॥ २२.११ ॥
न दानज्ञान शीलेषु येषां सम्मिश्रिता मतिः ।
ते नित्यदुःखिताः सत्त्वाः सुखं तेषां न विद्यते ॥ २२.१२ ॥

दातारो मात्सर्यमलवर्जिता भवन्ति

अदानव्रीडितसुखाश्चित्तदोषेण वञ्चिताः ।
भवन्ति विबुधाः हित्वा तस्माद्दानपरो भवेत् ॥ २२.१३ ॥
दानोत्कर्षक्रमैर्युक्ताः मात्सर्यमलवर्जिताः ।
भवन्ति हृष्टमनसो देवाः क्रीडापरायणाः ॥ २२.१४ ॥
क्षुत्पिपासामयो वह्निर्य प्रधानं प्रधावति ।
मात्सर्य वै फलं सर्व तदुक्तं तत्त्वबुद्धिभिः ॥ २२.१५ ॥

दानप्रशंसा

यो ददाति सुखं तस्य नीयते जायते सुखम् ।
सुखं भवति दानाद्धि तस्माद्दानं प्रशस्यते ॥ २२.१६ ॥
लोकालोककरं दानं गच्छन्तमनुगच्छति ।
गतं च मन्त्रदानेन युज्यते भद्रवत्सलैः ॥ २२.१७ ॥
अविसंवादकं स्थानमेतदुक्तं तथागतैः ।
अविसंवादकत्वाच्च नित्यं दानपरो भवेत् ॥ २२.१८ ॥

दानी भवार्णवं तरति

मात्सर्यारिं विनिर्जित्य कृत्वा चित्तं शुभान्वितम् ।
ये प्रयच्छन्ति दानानि ते तरन्ति भवार्णवम् ॥ २२.१९ ॥
क्षयैस्तु त्रिविधैर्दानं त्रिषुकारं त्रिधार्जितम् ।
तस्य क्षतान्वितस्यैवं फलं दृष्टं त्रिचक्षुषा ॥ २२.२० ॥

कः मार्गः सुखावहः?

दानमादौ सदा देयं शीलं लभ्यं प्रयत्नतः ।
तृष्णा ज्ञानेन हन्तव्या मार्ग एष सुखावहः ॥ २२.२१ ॥
अनित्या पापिका तृष्णा लोकस्याहितकारिका ।
न शक्यं तद्विना श्रेयः प्राप्तुं पदमनुत्तमम् ॥ २२.२२ ॥

अदानस्य परिणामः

अदाने न मनः कार्य नित्यं दानरतो भवेत् ।
अदानात्क्षुत्पिपासाभ्यां दह्यते प्रेतभूमिषु ॥ २२.२३ ॥

दानेन शीलरक्षा सदा कार्या

राजा भवति दानेन चक्रवर्ती सुधार्मिकः ।
दानभूमिं समाश्रित्य शीलं रक्षन्ति पण्डिताः ॥ २२.२४ ॥
शीलवानपि कालज्ञोऽज्ञानाद्(वै) परिमुच्यते ।
दुःखनैर्याणिको मार्गः शस्तोऽयं मुनिपुंगवैः ॥ २२.२५ ॥
तं विदित्वा महावीरो नित्यं दानरतो भवेत् ।
अदा(ना)दपि देवेषु देवा हि न सुखा मताः ॥ २२.२६ ॥

दानी यत्र कुत्रापि वसन् सुखी भवति

आजन्मविपिने मर्त्या भवन्ति सुखभागिनः ।
दानस्य तत्फलं सर्वचेतनाभावितस्य हि ॥ २२.२७ ॥
तिर्यक्ष्वपि समुत्पन्ना भवन्ति सुखभागिनः ।
तत्सर्व दानजं सौख्यं कथयन्ति मनीषिणः ॥ २२.२८ ॥
यत्प्रेताः प्रेतभवने भवत्याकारभोजिनः ।
स्वयं कृतस्य दानस्य फलं भवति तादृशम् ॥ २२.२९ ॥

दानविरहितस्य दुर्दशा भवति

(न)दद्यात्क्षुत्पिपासे च दह्यन्ते येन देहिनः ।
सर्वदा न तपस्ताभ्यां फलं भवति शीतलम् ॥ २२.३० ॥

प्रमादी मृत्युसमये दाहं प्राप्नोति

पूर्व प्रमादचारी यो न दानादिषु वर्तते ।
स पश्चान्मृत्युसमये दह्यते स्वेन चेतसा ॥ २२.३१ ॥

दानस्य फलम्

प्रियो भवति दानेन चेतसामपि तुष्यति ।
पश्चाद्भवति स श्रीमान् दानस्य फलमीदृशम् ॥ २२.३२ ॥
यत्र दानादि चित्तस्यास्त्युपभोगाय सर्वदा ।
तत्र निर्धनतैषा वा दयया परिरक्षितम् ॥ २२.३३ ॥
यद्भुज्यते सदा चित्तं गुरुभ्यश्चापि दीयते ।
यद्वनं शोभनं दृष्टं विपरीतं यथा तृणम् ॥ २२.३४ ॥
दुर्बलानां सदार्तानां सत्त्वानां चक्षुरन्वितम् ।
दानं निःकल्पसंयन्त्रमस्मिंल्लोके परत्र च ॥ २२.३५ ॥

मनुष्यभूमौ दानस्य फलम्

मनुष्यभूमौ दानानि दत्त्वा यान्ति शुभां गतिम् ।
न देवा दानपतयः फलभूमिरसौ मता ॥ २२.३६ ॥

कर्ममाहात्म्यम्

कर्मभूमिर्मनुष्याणां फलभूमिः सुरालयः ।
कर्मायत्तं फलं सर्व न फलं स्यादहेतुकम् ॥ २२.३७ ॥

को मृतैः समः?

ध्यानाध्ययननिर्मुक्तो दानशीलविवर्जितः ।
सुवर्णकंकणैर्युक्तो जीवन्नपि मृतैः समः ॥ २२.३८ ॥
स जीवति हि लोकेऽस्मिन् यो धर्ममनुवर्तते ।
धर्ममूढः सदा मूढो जीवन्नपि मृतैः समः ॥ २२.३९ ॥

अज्ञानी तु बालिश एव

मनुष्यचर्मणा छन्नस्तिर्यग्भवति बालिशः ।
यस्य ज्ञानप्रदीपेन हृदयं नावभासितम् ॥ २२.४० ॥
भवत्येतावता पुरुषः यः शीलमनुवर्तते ।
शीलभ्रष्टः पुमान् सर्वश्चाभिस्तुत्योऽपराक्रमः ॥ २२.४१ ॥

दानहीनः प्रेतविग्रहवान्

दानहीनः प्रमादी (च) पापचारी चलेन्द्रियः ।
नासौ मर्त्य इति ज्ञेयः प्रेतो विग्रहवानयम् ॥ २२.४२ ॥

ज्ञानेन हीनो मृत एव

ज्ञानशीलविनिर्मुक्तो दानरत्नविवर्जितः ।
जीवमानोऽपि पुरुषो मृत इत्यभिधीयते ॥ २२.४३ ॥

को देवः?

दानशीलतपोध्यानाद्वीर्यस्मृतिसमाधिमान् ।
पुरुषः पुरुषैरेजे देवैरपि स वन्द्यते ॥ २२.४४ ॥
गुणवांस्तु नरो वन्द्यः निर्गुणः पशुभिः समः ।
गुणागुणविधिज्ञो यः स देव इति कथ्यते ॥ २२.४५ ॥

केषां सफलं जीवनम्?

सुजीवितं भवेत्तस्य यस्य त्यागे स्थितं मनः ।
नहि त्यागविनिर्मुक्तं जीवितं जीवनं मतम् ॥ २२.४६ ॥

दानं नित्यं सुखावहम्

पञ्चगत्युपपन्नानां सत्त्वानां स्वेन कर्मणा ।
मातृवत्पितृवद्दृष्टं दानं नित्यं सुखावहम् ॥ २२.४७ ॥

दानरता भवसङ्कटान्मुच्यन्ते

एतां भूमिमवस्थाप्य सत्त्वो दानरतो भवेत् ।
दानशीलरता नित्यं मुच्यन्ते भवसङ्कटात् ॥ २२.४८ ॥

॥ इति दानवर्गो द्वाविंशः ॥


(२३) शीलवर्गः

शीलं सूर्य इव शोभते

धनानामुत्तमं शीलं सूर्यो ज्योतिष्मतामिव ।
विहाय गच्छति धनं शीलं स्थितमिवाग्रतः ॥ २३.१ ॥
शीलेन त्रिदशान् याति ध्यानगोचरमेव वा ।
नास्ति शीलसमं ज्योतिरस्मिंल्लोके परत्र च ॥ २३.२ ॥
अल्पेन हेतुना स्वर्ग प्राप्नोति स्वर्गकामिकः ।
तस्माद्दुश्चरितं हित्वा नित्यं सुचरितो भवेत् ॥ २३.३ ॥
चेतनाभावितं दानं शीलं च परिरक्षितम् ।
नीयते देवसन्दत्तं पञ्चकामगुणान्वितम् ॥ २३.४ ॥

सुरक्षितेन शीलेनैव सुखं प्राप्तुं शक्यते

न माता न पिता नार्था दयिता नापि बान्धवाः ।
न सुखा (स्ते) तथा दृष्टा यथा शीलं सुरक्षितम् ॥ २३.५ ॥

शीलवान् पुरुषो सुखमवाप्नुते

शीलं त्राणमिहामुत्र शीलं गतिरिहोत्तमम् ।
शीलवान् पुरुषो नित्यं सुखात्सुखमवाप्नुते ॥ २३.६ ॥
दानशीलसमाचारा ये नरा शुभचारिणः ।
ते यान्ति देवसदनं रचिताः स्वेन कर्मणा ॥ २३.७ ॥
निधानमव्ययं शीलं शीलसौख्यमतर्कितम् ।
शीलाधिका हि पुरुषा नित्यं सुखविहारिणः ॥ २३.८ ॥
शीलं रक्षतु मेधावी यथा यानं सुखत्रयम् ।
प्रशंसावृत्तलाभं च प्रेत्य स्वर्गे च मोदते ॥ २३.९ ॥

शीलवान्निर्वाणं प्राप्नोति

शीलवान् यो हि पुरुषः शीलमेवाति सेवते ।
ससुखो निर्वृत्तिं याति यत्र मृत्युर्न विद्यते ॥ २३.१० ॥
अनादिमति संसारे तृष्णामोहादिभिर्वृते ।
ज्योतिर्भूत सदाशीलं तस्माच्छीलमनाविलम् ॥ २३.११ ॥
शीलं धनमसंहार्य राजचौरोदकादिभिः ।
तस्माच्छीलं सदा सेव्यं दौःशील्यं च विगर्हितम् ॥ २३.१२ ॥
शीलाभिरतपुरुषः निर्वाणं ह्यन्तिके स्थितम् ।
शीलवान् पुरुषो धन्यः शीलवांश्चापि सेव्यते ॥ २३.१३ ॥
रविवद्भ्राजते शीलं दौःशील्यं चैव गर्हितम् ।
निर्मलं वीतकान्तारं निर्ज्वरं वीतकाङ्क्षि च ॥ २३.१४ ॥
शीलप्रशस्तसम्बुद्धैर्निर्वाणपुरगामिकम् ।
आयुर्याति ध्रुवं धीमान्नित्यं शीलेनं वृंहितम् ॥ २३.१५ ॥

शीलरहिताः पशुभिः समाः

न बिभेन्मृत्युकाले च शीलेन परिरक्षितः ।
शीलमाद्यन्तकल्याणं सर्वसौख्यप्रवर्तकम् ।
शीलवान् पुरुषो धन्यो दौःशील्याभिरतः पशुः ॥ २३.१६ ॥
तीरं नैव समायान्ति पुरुषाः शीलवर्जिताः ।
कार्याकार्य न विन्दन्ति तस्माच्छीलं समाचरेत् ॥ २३.१७ ॥
शीलवस्त्रेण ये छन्नास्ते छन्नाः पुरुषा मताः ।
शीलेन वर्जिता ये तु नग्नास्ते पशुभिः समाः ॥ २३.१८ ॥

शीलवान् पुरुषः स्वर्ग गच्छति

शीलवान् पुरुषः स्वगमुद्यानमिव गच्छति ।
बन्धुवन्मन्यते तत्र शीलवान् (सु) प्रमागतः ॥ २३.१९ ॥
शुचिशीलसमाचाराः शुभधर्मसमन्विताः ।
देवलोकोपगास्तेषु जनाः सुकृतकारिणः ॥ २३.२० ॥

शीलेन परिबृंहिता गुणा वर्धन्ते

यो न प्रार्थयते कामान् शीलवान् पुरुषः सदा ।
गुणास्तस्य प्रवर्धन्ते शीलेन परिबृंहिताः ॥ २३.२१ ॥

शीलं स्वर्गस्य सोपानम्

महार्घमुत्तमं शीलमस्मिंल्लोके परत्र च ।
तस्मात्प्रहाय त्रैगुण्यं शीलमेव सदा चरेत् ॥ २३.२२ ॥
देवेभ्यो रोचते तद्धि त्राणं शीलं शुभान्वितम् ।
भावितं परमं धन्यं परलोकोपगामिकम् ॥ २३.२३ ॥
शीलवान् यदि जानीयात्फलं शीलस्य यादृशम् ॥ २३.२४ ॥
शस्त्रं सुतीक्ष्णमादाय वाणं छिन्द्यादिहात्मनः ।
अस्त्रोपमस्य निन्द्यस्य अभिसौख्यसमन्वितम् ॥ २३.२५ ॥

शीलस्य फलं सुगतेन प्रदर्शितम्

फलं शीलस्य विमलं सुगतेन प्रदर्शितम् ।
आदौ शस्तं तथा मध्ये निधने शस्तमेव तत् ॥ २३.२६ ॥
फलं शीलस्य विपुलं सुखात्सुखमुत्तमम् ।
शीलचर्या परं सौख्यं धनचर्या न तादृशी ॥ २३.२७ ॥
नरा धनेन हीयन्ते शीलेन न कथञ्चन ।
शोचते पुरुषस्तेन पृथक्वा तद्विराजते ॥ २३.२८ ॥
शुभं तस्मान्मुनिवरैः प्रशस्तं सार्वगामिकम् ।
उद्यानमिव गच्छन्ति पुरुषाः शुभचारिणः ।
देवलोकसमं तेषां सौख्यानामाकरं (परम्) ॥ २३.२९ ॥

स्वर्गगमनार्थ शीलं समाचरेत्

सुशीलितस्य शीलस्य भक्षितस्याप्यनेकशः ।
फलं विपच्यते स्वर्गस्तस्माच्छीलं समाचरेत् ॥ २३.३० ॥
शीलं स्वर्गस्य सोपानमाकरं सुखनिर्वृते ।
शीलवर्जी हि पुरुषो न क्वचित्सुखमेधते ॥ २३.३१ ॥

शीलवानसंख्यानि सौख्यानि लभते

शीलाम्भसा प्रसन्नेन विप्रकीर्णेन सर्वदा ।
स्नात्वा गच्छन्ति पुरुषा देवलोके च निर्वृते ।
यद्दिव्यमाल्याभरणैर्दिव्यैः सौख्यैः समन्विताः ॥ २३.३२ ॥
रमते देवभवने तत्सर्व शुभहेतुकम् ।
असंख्यानि च सौख्यानि वर्धमानानि सर्वदा ॥ २३.३३ ॥
लभते पुरुषः सर्व यः शीलमनुवर्तते ।
शुभचारी सदा सत्यः पूज्यते सोऽपराजितः ॥ २३.३४ ॥

अनेकसौख्यदायकं शीलमाचरणीयम्

शुभेन शोभते मर्त्यः पूज्यते राजभिः सदा ।
शुभेन शोभते मर्त्यस्तस्माच्छीलं समाचरेत् ॥ २३.३५ ॥
अनेकसौख्यजनकं सर्वमाश्वासकारकम् ।
शीलं सुचरितं कार्य दुष्कृतं च विवर्जयेत् ॥ २३.३६ ॥
ये दानशीलकर्त्तारः स्वर्गतद्गतमानसाः ।
तेषां सकल्मषं शीलं विषमिश्रं यथौदनम् ॥ २३.३७ ॥
नानाविधस्य शीलस्य रक्षितस्याप्यनेकशः ।
शुभकार्यविपाकाय देवेषु परिपच्यते ॥ २३.३८ ॥
शीलाम्भसा प्रसन्नेषु सङ्कीर्णेषु च सर्वदा ।
स्नात्वा गच्छन्ति मनुजा देवांश्चात्यन्तिकं सुखम् ॥ २३.३९ ॥
दानशीलाः सदा दान्ताः सर्वभूतहिते रताः ।
ज्ञानयुक्ता मैत्रचिता गतास्ते देवसम्मितिम् ॥ २३.४० ॥
हतदोषाः क्रियावन्तः शीलरत्नेन भूषिताः ।
सर्वसत्त्वदयावन्तः सुरलोकेषु ते बुधाः ॥ २३.४१ ॥
विशुद्धकाञ्चनप्रख्या निर्ध्मातमलकल्मषाः ।
सम्यक्कर्म सुसंलग्ना देवलोकेषु ते बुधाः ॥ २३.४२ ॥
सर्वसत्त्वदयावन्तः सर्वसत्त्वहितैषिणः ।
सर्वपापविरक्ता ये तेषां वासः सुरालये ॥ २३.४३ ॥
अहन्यहनि ये शीलं रक्षन्ति सुपरीक्षकाः ।
अहन्यहनि तेषां हि सुखं भवति नैकशः ॥ २३.४४ ॥

शीलवाजिनमारूढा देवभवनं प्रयान्ति

शीलवाजिनमारूढाः पुरुषास्तत्त्वचिन्तकाः ।
प्रयान्ति देवभवनं क्रीडायुक्तमनेकशः ॥ २३.४५ ॥
या क्रीडा देवभवने यच्च सौख्यमनुत्तमम् ।
तत्समग्रस्य शीलस्य फलमुक्तं तथागतैः ॥ २३.४६ ॥

देवसुखं शीलजमेव

यद्दिव्यमाल्याभरणा दिव्याम्बरविभूषिताः ।
क्रीडन्ति विबुधाः सर्वे तत्सर्व शुभहेतुकम् ॥ २३.४७ ॥
पद्मोत्पलवने रम्ये वनोपवनभूषिते ।
स्वर्गे रमन्ति ये देवास्तत्सर्व शुभजं फलम् ॥ २३.४८ ॥
यदाकाश इवातस्थुर्दिव्यरत्नविभूषिताः ।
विराजन्तेऽमला देवास्तच्छीलस्य महत्फलम् ॥ २३.४९ ॥
यत्काननेषु रम्येषु चित्रेषु पुष्पितेषु च ।
रमन्ति गिरिपृष्ठेषु सुरास्तच्छीलजं फलम् ॥ २३.५० ॥
स्वगृहं हि यथा मर्त्याः प्रविशन्ति गतव्यथाः ।
तथा शीलसमाचाराः प्रयान्ति त्रिदिवं नराः ॥ २३.५१ ॥
एतत्सुजीवितं श्रेष्ठं यच्छीलपरिरक्षणम् ।
मरणानां परं मृत्युः यच्छीलपरिवर्जनम् ॥ २३.५२ ॥

शीलमनुपमं कार्यम्

एतान् गुणान् सदा मत्वा प्रियत्वमपि चात्मनः ।
शीलं सुरक्षितं कार्य दौःशील्यं च विवर्जयेत् ॥ २३.५३ ॥
शीलचारी सदा दान्तः क्षमावांश्च सुदर्शनः ।
सोपानमिव चारूढं प्रयात्यानन्दसन्निधिम् ॥ २३.५४ ॥

शीलेन प्लवभूतेन संसारोत्तरणम्

फलं शीलस्य तु सुखं देवलोकेषु पच्यते ।
शीलेन प्लवभूतेन संसारादुत्तरन्ति च ॥ २३.५५ ॥
शीलाम्भसा विशुद्धा ये स्वायत्ता धीरचेतसः ।
जाम्बूनदमयैः पुष्पैस्तेऽत्रार्चन्ति दिवौकसः ॥ २३.५६ ॥
ये नवादातमनसो नित्यं शीलेन भूषिताः ।
ते यान्ति देवसदनं यत्र सौख्यमनन्तकम् ॥ २३.५७ ॥
सौख्यात्सौख्यतरं यान्ति नराः सुकृतकारिणः ।
क्रीडन्ति देवसदने शीलेन परिबृंहिताः ॥ २३.५८ ॥

शीलसोपानमारूढाः सुगतिं प्रयान्ति

शीलसोपानमारुह्य ज्ञानेन परिबृंहिताः ।
नराः प्रयान्ति सुगतिं ज्ञानेन च परायणा ॥ २३.५९ ॥
सुप्रसन्नेन मनसाशीलं यदभिरक्षितम् ।
तस्य शीलस्य शीतस्व सुखमेतदुपस्थितम् ॥ २३.६० ॥

शीलस्य परिणामो सुखदायकः

सुरक्षितस्य शीलस्य भावितस्याप्यनेकशः ।
परिणामे सुखीभूत्वा निर्वाणं चाधिगच्छति ॥ २३.६१ ॥

शीलं रक्षत्युपायेन शीलं नयति सङ्गतिम् ।

तस्माच्छीलं सदा रक्ष्यं परिणामोऽस्य शीतलः ॥ २३.६२ ॥
मृत्युकाले समुत्पन्ने शीलवानकुतोभयः ।
न मे दुर्गतिना त्राणं शीलं हि त्राणमुत्तमम् ॥ २३.६३ ॥

कुत्सितशीलस्य कुत्सितः परिणामः

काचाभ्रपटलं यस्य शीलं भवति कुत्सितम् ।
स कुत्सितेन शीलेन कुत्सितो जायते नरः ॥ २३.६४ ॥

शीलविरहितः मूढो भवति स्वर्गमपि न याति

शीलमूलेन लब्ध्वेदं सुखं स्वर्गेषु देहिभिः ।
तृष्णाक्षयो न भवति स पश्चात्परितप्यते ॥ २३.६५ ॥
तस्माच्छीलवता नित्यं शीलमेव विशिष्यते ।
निःशीलः पुरुषो मूढो न स्वर्गमधिरोहति ॥ २३.६६ ॥
पञ्चकामोपमं दिव्यं यदिदं भुज्यते सुखम् ।
तच्छीलस्य विशुद्धस्य प्राप्यते हि फलं महत् ॥ २३.६७ ॥
यत्तेजः काञ्चनस्यास्य मेरुपर्वतशालिनः ।
तच्छीलतेजसस्तेजः कलां नार्हति षोडशीम् ॥ २३.६८ ॥

दीप्यमानैः सदा शीलैः निर्धातुकनकत्विषा ।
संयुक्तास्त्रिदिवं यान्ति पण्डिता स्वेन कर्मणा ॥ २३.६९ ॥

त्रिविधशीलस्य त्रिविधं फलम्

हीनमध्यविशिष्टस्य शीलस्य त्रिविधस्य वै ।
फलं हि त्रिविधं दृष्टं हीनमध्योत्तमं तथा ॥ २३.७० ॥
प्रमादरहितं शीलमप्रमादोपबृंहितम् ।
नित्यं तत्सुखदं दृष्टं धर्मतेयं व्यवस्थिता ॥ २३.७१ ॥

शीलप्रभया सूर्यसहस्त्रस्यादि पराभवः

शीलोद्भवा या विमला प्रभा भवति देहिनाम् ।
न सा सूर्यसहस्त्रस्य संयुक्तस्य भविष्यति ॥ २३.७२ ॥
शीलं सप्तविधं रम्यं यो रक्षति नरोत्तमः ।
स कामं भुञ्जति फलं सुगतेन च देशितम् ॥ २३.७३ ॥

शीलचर्या विना स्वर्ग न यान्ति

शीलचर्या समाश्रित्य सम्यग्दर्शनतत्परः ।
मर्त्यलोकाद्दिवं यान्ति न कष्टं तपचारिणः ॥ २३.७४ ॥
यच्छीलं शीलसंस्पर्श परिणामेऽपि शीतलम् ।
निषेवते सदामूढः स पश्चात्परितप्यते ॥ २३.७५ ॥

सप्तविधेन शीलेन देवसान्निध्यं प्राप्यते

शीलं सप्तविधं धन्यमविसंवादकं पदम् ।
शीलेन रक्षितः पुरुषो देवानामन्तिकं गतः ॥ २३.७६ ॥

शीलेन शोभनं फलं मिलति

यथा पक्षैर्दृढैः पक्षी स्वेदच्छत्रं निहन्ति (वै) ।
तथा नरो दृढः शीलैर्देवलोकाय कल्प्यते ॥ २३.७७ ॥
श्रुतिमात्रं च (तच्छीलं) रम्याद्रम्यतरं च तत् ।
लभते पुरुषः कर्ता फलं शीलस्य शोभनम् ॥ २३.७८ ॥
दानशीलतपोरत्नं हृदयैश्च समाश्रितम् ।
देवता वा मनुष्यो वा लभते परमं पदम् ॥ २३.७९ ॥
अन्तर्बहिश्च निःसाराः पुरुषा धर्मवर्जिताः ।
संसारात्फलकाङ्क्षिभ्यः सद्धर्मो न (च) रोचते ॥ २३.८० ॥
अन्तर्बहिश्च ये सारास्ते नरा वस्तुतो दृढाः ।
ये धर्मचारिणः शान्ताः परसत्त्वहितैषिणः ॥ २३.८१ ॥

अनुत्तरः शीलवतां सुगन्धः

न केतकी चम्पकपुष्पगन्धा, तमालके नागरुचश्च गन्धः ।
प्रयान्ति गन्धा हिं यथा सुरेण, अनुत्तरः शीलवतां सुगन्धः ॥ २३.८२ ॥

दौःशील्यं सदा वर्ज्यम्

तस्माच्छीलं सदा कार्य दानज्ञानतपोधनैः ।
दौःशील्यं च सदा वर्ज्यविषशस्त्रानलोपनम् ॥ २३.८३ ॥

शीलेन एव सुखमवाप्नुते

एवं सुरक्षितं शीलं नरान्नयति सङ्गतिम् ।
न हि शीलादृते कश्चित्पदं सुखमवाप्नुते ॥ २३.८४ ॥

देवगुणसदृशं शीलं सदाचरेत्

तस्माद्देवगुणं मत्वा शीलमेव सदाचरेत् ।
न शीलसदृशं किञ्चिदन्यत्त्राणमिहास्ति वै ॥ २३.८५ ॥

॥ इति शीलवर्गस्त्रयोविंशः ॥


(२४) क्षान्तिवर्गः

क्षमाभूषणेनैव भूषितो भवति पुमान्

क्षान्त्या विभूषितः जीव भूषितो नेतरैर्धनैः ।
धनं विना समायाति क्षान्तिं नैव कथञ्चन ॥ २४.१ ॥
क्षमावान् पुरुषः सर्वप्रियो भवति देहिनाम् ।
पूज्यते दैवतैर्नित्यं तस्मात्क्षान्तिः परन्तप ! ॥ २४.२ ॥

क्षमावान् पुरुषः सर्वत्र पूज्यते

क्षमावान् पुरुषः सर्वैः क्रोधदोषैर्विवर्जितः ।
यशसा पूज्यते नित्यमिह लोके परत्र च ॥ २४.३ ॥

क्षान्तिधनं सर्वोत्तमम्

क्षान्तिर्धनं धनं शीलप्रज्ञावर्धनमेव च ।
धनान्यन्यानि शस्तानि न हितस्य कथञ्चन ॥ २४.४ ॥

सद्भिः क्षमावानेव पूज्यते

पूज्यते सततं सद्भिर्यशसा चैव पूज्यते ।
क्षमावान् पुरुषः सर्वस्तमात्क्षान्तिपरो भवेत् ॥ २४.५ ॥

क्रोधविषस्य क्षमैव भेषजम्

क्षान्तिः क्रोधविषस्यास्य भेषजं परमं मतम् ।
क्षान्त्याविनाशितः क्रोधोऽनर्थायोपजायते ॥ २४.६ ॥
ज्ञानशीलाभिभूतानां बालिशानां विशेषतः ।
प्रतीपकार्य कुरुते क्षान्तिर्मार्गनिदर्शिका ॥ २४.७ ॥

क्षमावन्त एव लोके धनिनः

स धर्मधनहीनानां भ्रमतां गतिपञ्चके ।
येषां क्षान्तिमयं द्रव्यं ते लोके धनिनः स्मृताः ॥ २४.८ ॥
तमोनिचयकान्तारे दृढक्रोधेन दुस्तरे ।
क्षान्त्या यथा स्मृताः सद्भिस्तरन्ति खुल मानवाः ॥ २४.९ ॥
सद्धर्मपाठनष्टानां देशिका क्षान्तिरुत्तमा ।
अपायभयभीतानां न भयं क्षान्तिरुच्यते ॥ २४.१० ॥

नृणां क्षान्तिः सुखावहा

सुखावहा सदा नृणां दुःखस्य च विघातिका ।
क्षेमसम्प्रापिका नित्यं विश्वासगुणकारिका ॥ २४.११ ॥
शुभास्ति नायिका धन्या ह्यशुभेभ्यो विवर्जिता ।
मोक्षसंदेशिका पुंसां संसारभयनाशिका ॥ २४.१२ ॥
क्षान्तिः नरकाग्निविनाशिका स्वर्गसोपानभूता च

स्वर्गसोपानभूता सा नरकाग्निविनाशिका ।
त्रायते प्रेतलोकात्सा तिर्यग्योनौ तथैव च ॥ २४.१३ ॥

क्षान्तिः सन्मार्गामृतदीपिका

सा गुणौधैः सदा पूर्णा शिवा भवति देहिनाम् ।
सा प्रशस्ते सुखे प्राप्ते क्षान्तिः कार्या प्रयत्नतः ।
सर्वलोकस्य मातेव सन्मार्गामृतदीपिका ॥ २४.१४ ॥

॥ इति क्षान्तिवर्गश्चतुर्विंशः ॥


(२५) वीर्यवर्गः

देशक्रियायुक्तानि कार्याणि सिद्धयन्ति

देशकालोपपन्नस्य क्रियातिथ्योचितस्य च ।
न्यायेनारभ्यमाणस्य वीर्यस्य सकलं फलम् ॥ २५.१ ॥
न्यायदेशक्रियाहीना अधर्मेण विवर्जिताः ।
सीदन्ति कार्यनिकरा वीर्येण परिवर्जिताः ॥ २५.२ ॥

आरब्धवीर्या मोक्षं प्राप्नुवन्ति

ध्यानेनारब्धवीर्येण मोक्षं गच्छन्ति पण्डिताः ।
भवक्षिप्त इवाकारो देवलोके प्रयान्ति च ॥ २५.३ ॥
यान्यारब्धानि कार्याणि वीर्यवद्बलिना नृणा ।
तानि तानि प्रसिद्धानि विपुलानि भवन्ति च ॥ २५.४ ॥
येऽर्था लोकोत्तरे सिद्धा ये च लोकेषु सम्मताः ।
ते वीर्येण प्रसाध्यन्ते वीर्यहीना न जातु वै ॥ २५.५ ॥
मन्दवीर्य चिरोत्साहं सद्धर्मेण विवर्जितम् ।
नरो विशति लोकं (च) शशाङ्कमिव कल्मषम् ॥ २५.६ ॥

वीर्यवत्ता परमां गतिं प्रददाति

आर्याष्टाङ्गेन मार्गेण न ज्ञानपरिपालितः ।
वीर्यवत्तामहोत्साहो प्रयाति परमां गतिम् ॥ २५.७ ॥

बोधिः वीर्येणावाप्यते

वीर्यणावाप्यते बोधिः स्ववीर्येण तथा मही ।
अर्हत्त्वं वीर्यवद्भिश्च तस्मान्नाग्निसमा गतिः ॥ २५.८ ॥

उत्तमस्थानप्राप्त्यर्थ वीर्यारम्भे मतिः कार्या

तस्माद्देवान् गुणान्मत्वा वीर्यवान्नियतेन्द्रियः ।
वीर्यारम्भे मतिं कुर्यार्न्नास्ति वीर्यसमर्थनम् ॥ २५.९ ॥
वीर्यार्थी स्मृतिमान् यश्च नरो ज्ञानपरायणः ।
प्रयात्यनुत्तमं स्थानं जरामरणवर्जितम् ॥ २५.१० ॥

॥ इति वीर्यवर्गः पञ्चविंशः ॥


(२६) ध्यानवर्गः

स्वस्थः कः?

असंसक्तमतेर्नित्यं नित्यं ध्यानविहारिणः ।
विशुद्धमनसो नित्यमेकाग्रभिरतस्य च ॥ २६.१ ॥
यस्यैकाग्रकरं चित्तं तस्य दोषा न बाधकाः ।
स दोषभयनिर्मुक्तः स्वस्थ इत्यभिधीयते ॥ २६.२ ॥
एकाग्राभिरतञ्चेतो विवेकमनुधावति ।
सर्वतर्कविनिर्मुक्तः स्वस्थ इत्यभिधीयते ॥ २६.३ ॥

चित्तस्यैकाग्रतां वर्णयति

यस्य चित्तं ध्रुवं शान्तं निर्वाणाभिरतं सदा ।
न तस्येन्द्रियजा दोषा भवस्य शुभहेतवः ॥ २६.४ ॥
यच्च ध्यानकृतं सौख्यं यच्च (चित्तं) समाधिजम् ।
चित्तं तत्सर्वमेकाग्रमते भवति देहिनः ॥ २६.५ ॥

यतिः अलौकिकं सुखं भुङ्क्ते

एकारामस्य यतिनो यत्सुखं जायते हृदि ।
यत्सौख्यमतिविज्ञेयं न सौख्यं लौकिकं मतम् ॥ २६.६ ॥

कीदृशं चित्तं शान्तिं समधिगच्छति?

एकाग्राभिरतं चित्तं विशुद्धाकृतमेव च ।
दोषजालविनिर्मुक्तं शान्तिं समधिगच्छति ॥ २६.७ ॥

ज्ञानाम्भसा तृष्णाग्निं हन्ति

एकान्तमनसा नित्यं संक्षिप्तेन्द्रियपञ्चकैः ।
तृष्णाग्निनातिवृद्धं च हन्ति ज्ञानाम्भसा बुधः ॥ २६.८ ॥
तस्य तृष्णाविमुक्तस्य विशुद्धस्य सुखैषिणः ।
अक्षयं चाव्ययं चैव पदं हि स्थितमग्रतः ॥ २६.९ ॥

निर्वाणपुरगामि वर्त्म

वितर्ककुटिलं चेतो यत्र यत्रोपपद्यते ।
एकालम्बनयुक्तेन धार्य तेन समाधिना ।
तस्मादेतत्परं वर्त्म निर्वाणपुरगामिकम् ॥ २६.१० ॥

मनोनिग्रहफलम्

एतदग्रं मनः क्षुत्वा हन्यादरिसमूहकम् ।
मनो हीदं विनिर्गृह्य (स) वेत्ति ध्यानजैर्दृढैः ॥ २६.११ ॥

निरुपमं ध्यानजं सुखम्

(तत्र स्थिताः नराः श्रेष्ठाः श्रद्धावन्तो मनीषिणः) ।
प्रयान्ति परमं स्थानमशोकं हतकिल्विषम् ॥ २६.१२ ॥
निर्विषस्कस्य तुष्टस्य निरागस्यापि धीमतः
यत्सुखं ध्यानजं भाति कुतस्तस्योपमा परा ॥ २६.१३ ॥

ध्यानैः परमं पदं प्राप्यते

एतत्सारं सुधीराणां योगिनां पारगामिनाम् ।
यदेवेदं मनः श्रुत्वा प्रयान्ति पदमच्युतम् ॥ २६.१४ ॥

॥ इति ध्यानवर्गः षड्विंशः ॥


(२७) प्रज्ञावर्गः

प्रज्ञा मातेव हितकारिणी

धर्मानुसारिणी प्रज्ञा वीर्येण परिवृंहिता ।
समाधिबलसंयुक्ता मातेव हितकारिणी ॥ २७.१ ॥

प्रज्ञा गतिपञ्चकात्त्रायते

सा हि सन्त्रायते सर्वान् पुरुषान् गतिपञ्चकात् ।
न माता न पिता तत्र गच्छन्तमनुगच्छति ॥ २७.२ ॥
प्रज्ञाशिखरमारुह्य शीलकन्दरशोभनम् ।
भवदोषमिदं सर्व पश्यति (ज्ञान) भूषणः ॥ २७.३ ॥

समाधिना भवार्णवं तरति

इन्द्रियाणीन्द्रियार्थेभ्यो यदा विन्दन्ति तत्पदम् ।
तदा समाधिना ज्ञान भवसागरमुत्तरेत् ॥ २७.४ ॥
दानशीलतपोध्यानैर्ज्ञानमेवाग्रमुच्यते ।
अपवर्गाद्यदा ज्ञानं ज्ञानशीले सुखावहे ॥ २७.५ ॥
प्रज्ञा अष्टमो मार्गस्तथागतेनोपदिष्टः
चक्षुषां च परा दृष्टा प्रज्ञोक्ता (या)सुनिर्मला ।
मार्गाणां चाष्टमो मार्गः शिवः प्रोक्तस्तथागतैः ॥ २७.६ ॥

प्रज्ञाबलं सर्वोत्तमम्

चतुर्णा चैव सत्यानामग्रे द्वे तु प्रकीर्तिते ।
बालानां च सदा दृष्टं प्रज्ञाबलमिहोत्तमम् ॥ २७.७ ॥

जन्मपद्वतिर्ज्ञानशस्त्रेण छेत्तव्या

ज्ञानशस्त्रेण तिक्ष्णेन लता छेद्या दुरासदा ।
हन्तव्या दोषनिवहाश्छेत्तव्या जन्मपद्धतिः ॥ २७.८ ॥

न ज्ञानात्परो बन्धुः

अमृतानां परं ज्ञानं श्रेयसां निधिरुत्तमम् ।
न ज्ञानाच्च परं बन्धुर्न ज्ञानाद्धनमुत्तमम् ॥ २७.९ ॥

ज्ञानशीलयुता प्रज्ञा सेवितव्या

ज्ञानशीलयुतावृद्धा वीतरागा गतस्पृहाः ।
सेवितव्याः सदा सन्तस्तत्त्वमार्गनिदर्शकाः ॥ २७.१० ॥

क्लेशादीन् प्रज्ञाशस्त्रेण विदारयेत्

प्रज्ञावज्रेण तीक्ष्णेन महोदयवसेन च ।
महायोगरथारूढः क्लेशादीन् प्रविदारयेत् ॥ २७.११ ॥

॥ इति प्रज्ञावर्गः सप्तविंशः ॥


(२८) निर्वाणवर्गः

क्लेशक्षय एव निर्वाणमार्गः

क्लेशक्षयात्परं सौख्यं कथयन्ति मनीषिणः ।
एष निर्वाणगो मार्गः कथितस्तत्त्वदर्शकैः ॥ २८.१ ॥
तत्पदं शाश्वतं जुष्टं कथयन्ति तथागताः ।
यत्र जन्म न मृत्युर्न विद्यते दुःखसम्भवः ॥ २८.२ ॥
विभूतस्याप्रमत्तस्य शान्तस्य वनचारिणः ।
अलोलुपस्य वीरस्य निर्वाणस्य विभूतयः ॥ २८.३ ॥

विषयेष्वप्रमत्तो निर्वाणं नातिचिरं प्राप्नोति

मित्रामित्रप्रहीणस्य भवरागविवर्जिनः ।
विषयेष्वप्रमत्तस्य निर्वाणं नातिदूरतः ॥ २८.४ ॥

शुभकर्त्तृ निर्वाणं प्राप्नोति

शुभकार्येषु सक्तस्य मैत्रीकारुण्यभाविनः ।
संसारभयभीतस्य निर्वाणं नातिदूरतः ॥ २८.५ ॥

कौसीद्यविरहितः त्वरितं निर्वाणं याति

क्लेशक्षयविधिज्ञस्य नैरात्म्यस्यापि तस्य च ।
कौसीद्याच्चैव मुक्तस्य निर्वाणं नातिदूरतः ॥ २८.६ ॥

वश्येन्द्रियस्य शान्तस्य निर्वाणं समीपतरम्

चतुःसत्यविधिज्ञस्य त्रिदोषवधसेविनः ।
वश्येन्द्रियस्य शान्तस्य निर्वाणं नातिदूरतः ॥ २८.७ ॥
सुखदुःखपाशैर्मुक्तो मुनिः पारग उच्यते
सुखदुःखमयैः पाशैर्यस्य चेतो न हन्यते ।
स दोषभयनिर्मुक्तः पारगो मुनिरुच्यते ॥ २८.८ ॥

शुभान्वेषी निर्वाणमधिगच्छति

पुरुषोऽपायभीरुश्च प्रमादबलवर्जकः ।
शुभकारी शुभान्वेषी निर्वाणमधिगच्छति ॥ २८.९ ॥

॥ इति निर्वाणवर्गोऽष्टाविंशः ॥


(२९) मार्गवर्गः

आर्यचतुष्टयोपासकः पारं गच्छति

सत्यानि चत्वारि शिवानि तानि, सुभावितान्येव समीक्ष्य विद्वान् ।
सुचिन्तको जातिजराभयेभ्यः, प्रमुच्यये पारमुपैति शान्तः ॥ २९.१ ॥

कामेषु सक्तः भवभोगबद्धः भवति

अचिन्तको यस्तु विभूतबुद्धिः कामेषु सक्तो भवभोगबद्धः ।
स बन्धनैः काममयैर्निबद्धो, न मुच्यते जातिजराभयेभ्यः ॥ २९.२ ॥

भवार्णवे सुखद्रष्टा अन्ते नरकं याति

विचिन्त्य यो दुःखमिदं विशालं, न खेदमायाति भवार्णवेभ्यः ।
स कामवाणैर्निहतो हि मूढः, कष्टामवस्थां नरकेऽपि याति ॥ २९.३ ॥

आभ्यन्तरं क्षेमसुखं च हित्वा, किं कामभोगाभिरता हि बालाः ।
नैते बिजानन्ति भयं च तीव्रमभ्येति मृत्युर्ज्वलनप्रकाशः ॥ २९.४ ॥

तत्त्वमार्गप्रदर्शकैः किमुक्तम्?

अनित्यदुःखशून्योऽयमात्मा कारकवर्जितः ।
संसारः कथितो बुद्धैः तत्त्वमार्गप्रदर्शकैः ॥ २९.५ ॥
तेन सर्वमिदं तत्त्वज्ञानं ज्ञेयं समासतः ।
ज्ञानज्ञेयविनिर्मुक्तं तृतीयं नोपलभ्यते ॥ २९.६ ॥

कः तत्त्वविधिज्ञः?

अन्तपारविधिज्ञो यः षोडशाकारतत्त्ववित् ।
ऊर्ध्वगतिविधिज्ञो हि क्षान्तितत्त्वविचक्षणः ॥ २९.७ ॥

तत्त्वविदेव धर्मतामनुविशति

अग्रलोकैकधर्मज्ञः समनन्तरतत्त्ववित् ।
स धर्मतामनुविशेद्यथा (च) न विकम्पते ॥ २९.८ ॥
द्वयोपायविनिर्मुक्तो नष्टान्नाशयते मुहुः ।
नष्टपापगतिर्वीरः स्त्रोतापन्नो निरुच्यते ॥ २९.९ ॥
स्रोतांस्य कुशला धर्मा जीर्यन्ते पापगामिनः ।
मोक्षाग्निना प्रतप्यन्ते स्रोतापन्नो भवत्यतः ॥ २९.१० ॥
प्रस्रब्धिजं महोदर्कमुक्तं संसारमोक्षकम् ।
तृष्णाक्षयसुखं दृष्टं सत्यतः सुखकारकम् ॥ २९.११ ॥

कः सदैव सुखी भवति?

नावबध्नाति यं तृष्णा न वितर्कैर्विहस्यते ।
सम्प्राप्तभवपारस्तु सुखी भवति सर्वदा ॥ २९.१२ ॥

आर्य मार्गचतुष्टयमन्योन्यफलसम्भूतम्

अन्योन्यफलसम्भूत सर्वतः सम्प्रवर्तते ।
तदेव कारणं ज्ञेयमार्यमार्गचतुष्टयम् ॥ २९.१३ ॥
आर्यसत्येषु विदितः पुरुषो विद्यते ध्रुवम् ।
विषयेषु हि संघुष्टं जगद्भ्रमति चक्रवत् ॥ २९.१४ ॥

कः श्रेष्ठो मार्गः?

स मार्गो देशकः श्रेष्ठो यो मार्गो भाषितः शिवः ।
येन मार्गेण प्राचीना (ध्रुवं) याता मनीषिणः ॥ २९.१५ ॥

त्रिशरणगत एव सुखं जीवति

सुजीवितं भवेत्तस्य यस्य बुद्धौ स्थितं मनः ।
नहि बुद्धिविनिर्मुक्तं जीवितं जीवितं भवेत् ॥ २९.१६ ॥
सुजीवितं भवेत्तस्य यस्य धर्मे स्थितं मनः ।
नहि धर्मविनिर्मुक्तं जीवितं जीवितं भवेत् ॥ २९.१७ ॥
सुजीवितं भवेत्तस्य यस्य सङ्घे स्थितं मनः ।
नहि सङ्घविनिर्मुक्तं जीवितं जीवितं भवेत् ॥ २९.१८ ॥

केषां सुजीवितं जीवनम्?

सुजीवितं भवेत्तस्य यस्य सत्ये स्थितं मनः ।
नहि सत्यविनिर्मुक्तं जीवितं जीवितं भवेत् ॥ २९.१९ ॥
सुजीवितं भवेत्तस्य यस्य मार्गे स्थितं मनः ।
नहि मार्गविनिर्मुक्तं जीवितं जीवितं भवेत् ॥ २९.२० ॥
निर्वाणगमने यस्य नित्यं बुद्धिरवस्थिता ।
स दोषादेव निर्मुक्तो न देवः क्रीडति स्वयम् ॥ २९.२१ ॥

कीदृशी क्रीडा सुखोद्भाविका?

या भवव्यापिनी क्रीडा नित्यमेकाग्रचेतसः ।
सा सुखोद्भाविका क्रीडा न क्रीडा रागकारिका ॥ २९.२२ ॥

केन मार्गेण शिवं स्थानं मिलति?

सुखादीनिह सत्यानि यथा दान्तेन विन्दति ।
तदा क्षेमं शिवं स्थानं प्राप्नोति पुरुषोत्तमः ॥ २९.२३ ॥

॥ इति मार्गवर्ग एकोनत्रिंशः ॥


(३०) भिक्षुवर्गः

आदर्शो भिक्षुः लोकमार्गदर्शकः

यो हिनस्ति न भूतानि मित्रवेत्ता सदाक्षयः ।
पितृवत्सर्वभूतानि लोकस्तमनुपश्यति ॥ ३०.१ ॥
अदत्तादानविरतो नित्यं ज्ञानी जितेन्द्रियः ।
प्रशान्तदेहकर्मा (च) तीर्णसम्भवसङ्क्रमः ॥ ३०.२ ॥
नाप्यालेख्यगता नापि चक्षुषा सा निरीक्ष्यते ।
हतकामो दृष्टसत्यो मुक्तस्तादृश उच्यते ॥ ३०.३ ॥
समलोष्टाश्मकनकः वीतशोकः समाहितः ।
न क्लेशोरगसम्पृक्तः स सौख्यं ध्रुवमाप्नुयात् ॥ ३०.४ ॥

कः भिक्षुर्विद्यते?

अर्थानर्थसमो यस्य लाभालाभौ तथैव च ।
सुखदुःखसमायुक्तः भिक्षुः स खलु कथ्यते ॥ ३०.५ ॥
मित्रामित्रप्रहीणो यः समचेता जितेन्द्रियः ।
विभेति यो न विषयैः विज्ञेयस्तादृशो यतिः ॥ ३०.६ ॥

विषयद्वेषी निर्वाणमधिगच्छति

विषमत्वाद्धि विषयान् द्वेष्टि धीरो गतव्यथः ।
न तस्य दूरे निर्वाणं सम्यक्सम्बुद्धदेशितम् ॥ ३०.७ ॥
उदयव्ययतत्त्वज्ञः सम्यग्दृष्टिरलोलुपः ।
हिमवानिव निष्क्रम्य संसारान्मुक्तहेतुकः ॥ ३०.८ ॥
तृणचन्दनतुल्यो हि समतृष्णाम्बराशिनः ।
स कौशेयसङ्घटिततृष्णया नैव बाधते ॥ ३०.९ ॥
लाभसत्कारसन्तुष्टः सन्तुष्टस्तृणसंस्तरैः ।
वह्निवल्लाभसत्कारं यः पश्यति स पश्यति ॥ ३०.१० ॥

बुद्धदेशिताः भिक्षुधर्माः

वाह्यते यो न विषयैस्तृणनद्या न वाहयते ।
स्वकर्मफलतत्त्वज्ञः स भिक्षुर्बुद्धदेशितः ॥ ३०.११ ॥
नातीतं शोचते यो हि बुद्धया (चैव) गतस्पृहः ।
प्रत्युत्पन्नक्रियायोगी न बुद्धिस्तस्य लिप्यते ॥ ३०.१२ ॥
निर्वाणे (च) मतिर्यस्य धर्मे नित्यं स्थिता भवेत् ।
न वर्तते स संसारे शुक्लधर्मसमावृतः ॥ ३०.१३ ॥
नाविलं क्रियते यस्य चित्तं विद्याग्निकल्पया ।
दारुवद्विषया यस्य तस्य दुःखं न विद्यते ॥ ३०.१४ ॥
इन्द्रियाणि वशे यस्य चेन्द्रियेषु वशानुगः ।
ह्रियते यः पुमर्थैनो निकषस्तादृशो मुनिः ॥ ३०.१५ ॥
साधुवद्धिमनो यस्य क्षमावान् प्रियदर्शनः ।
प्रह्लादयति चेतांसि स नृणां शशिवन्मुनिः ॥ ३०.१६ ॥
अरुणाभिरतो यस्तु हर्म्याग्रेषु न रज्यति ।
सन्तुष्टः पांशुकूलेन भिक्षुर्भिक्षारतो भवेत् ॥ ३०.१७ ॥
शान्तो दान्तः सुधीरर्थात्तत्त्ववित्सुखदुःखयोः ।
स यात्युत्तममध्वानं यत्र गत्वा न शोचति ॥ ३०.१८ ॥
ऋजुमत्पातकान्यस्य नित्यं ध्यानपरायणः ।
प्राकृतैश्च मलै(र्हीनः) स योगी सत्यवर्त्मनि ॥ ३०.१९ ॥
सर्वेन्द्रियविघाती यः सर्वभूतहिते रतः ।
शान्तो दान्तेन्द्रियः स्वस्थो भिक्षुर्भवति तादृशः ॥ ३०.२० ॥
षडिन्द्रियरथारूढो रागशत्रुनिवारकः ।
प्रज्ञाधीरः क्रियावान् यः स शान्तिपदमश्नुते ॥ ३०.२१ ॥
अरण्यवासी सन्तुष्टो भूमिवासी समाहितः ।
धुनाति पापको धर्मश्चायुर्मेघानिवाम्बरः ॥ ३०.२२ ॥
शुभं वा देहकर्मान्तः शुभचर्यासु संरतः ।
तत्त्वदृष्टिः क्रियादक्षो नाशयन्मारसाधनम् ॥ ३०.२३ ॥

दयालुर्भिक्षुर्निर्वाणमार्गे स्थितो भवति

रागात्यये न बाधेत शुभचित्तं गतालयम् ।
मैत्र्या कारुण्यबहुलो भिक्षुर्नैर्य्याणिके स्थितः ॥ ३०.२४ ॥
यस्य रूपादयो नेष्टा विषया बन्धहेतवे ।
स याति परमां शान्तिं यत्र गत्वा न शोच्यते ॥ ३०.२५ ॥
हेतुप्रत्ययतत्त्वज्ञः सूक्ष्मार्थे कृतनिश्चयः ।
मोक्षस्रोतस्यभिरतस्तृष्णया नैव रज्यते ॥ ३०.२६ ॥
यो नादत्तेऽशुभं कर्म शुभकर्मरतः सदा ।
चन्द्रांशुनिर्मलगतिर्योगी भवति तादृशः ॥ ३०.२७ ॥
प्रदहन् पापकान् धर्मान् शुष्केन्धनमिवानलः ।
विभ्राजते त्रिभुवने मुक्तपायो गतव्यथः ॥ ३०.२८ ॥
मोक्षेऽस्ति यस्य तु मनो न संसारे कथञ्चन ।
नासौ बध्नाति संसारे मुक्तः पक्षी यथाम्बरे ॥ ३०.२९ ॥
वेदनोदयतत्त्वज्ञो वेदनाफलनिश्चयः ।
स मुक्त इति विज्ञेयस्तत्त्वविदृतवांश्च सः ॥ ३०.३० ॥
तथाप्येते सुखदुःखे मृष्टामृष्टैर्न लिप्यते ।
दीप्तं पश्यति संसारं यः स योगी सतां मतः ॥ ३०.३१ ॥

भिक्षुर्भवति कीदृशः?

अथामूढमतिर्नित्यं नित्यं धर्मपरायणः ।
भिक्षुवृत्तावभिरतो भिक्षुर्भवति तादृशः ॥ ३०.३२ ॥
न तृप्तिर्दर्शनारामैः साधूनां दर्शने रतिः ।
निष्क्रान्तगृहकल्माषो भिक्षुर्भवति तादृशः ॥ ३०.३३ ॥
न नृत्यगीतसन्दर्शी (सत्यं) च पुनरीक्षते ।
संरक्षितो श्मशानेषु भिक्षुर्भवति तादृशः ॥ ३०.३४ ॥
एकाहं परमं पिण्डमादत्तेऽन्यत्र काङ्क्षति ।
त्रिभागकुक्षिसन्तुष्टो भिक्षुर्भवति तादृशः ॥ ३०.३५ ॥
वस्त्रोत्तमविवर्जी यः पांसुकूलेषु रज्यते ।
मुक्ताहारविहारो यो भिक्षुर्भवति तादृशः ॥ ३०.३६ ॥
कर्माण्यारभते यो न निराशः स च कर्मसु ।
निरुद्धको नोपरतो भिक्षुर्भवति तादृशः ॥ ३०.३७ ॥
कायकोटिविनिर्मुक्तो मोहध्वान्तविवर्जितः ।
अलिप्तः पापकैर्धर्मैभिक्षुर्भवति तादृशः ॥ ३०.३८ ॥
सर्वाशयजनानीतः सर्वाशयविवर्जितः ।
सर्वाशयविनिर्मुक्तो भिक्षुर्भवति तादृशः ॥ ३०.३९ ॥
आर्याष्टाङ्गेन मार्गेण निर्वाणपुरतः स्थितः ।
सर्वार्थधर्मता ह्येषा भिक्षुर्भवति तादृशः ॥ ३०.४० ॥
शान्तेन्द्रियो दृढमतिः कामपाकविवर्जितः ।
एकाग्रसंस्थितमना भिक्षुर्भवति तादृशः ॥ ३०.४१ ॥
भूमिसङ्क्रमणज्ञो यो भूमितत्त्वनिदर्शकः ।
भूमेः परापरज्ञो यो भिक्षुर्भवति तादृशः ॥ ३०.४२ ॥
सम्भवासम्भवान् धर्मान् हेतुप्रत्ययसम्भवान् ।
जानीते विधिवत्सर्वान् भिक्षुर्भवति तादृशः ॥ ३०.४३ ॥
ब्रह्मचारी ऋतुज्ञानी स्त्यानमिद्धविवर्जितः ।
कल्पोदग्रोऽवनौ दक्षो भिक्षुर्भवति तादृशः ॥ ३०.४४ ॥
शमस्थोविपश्यनाश्च चतुर्ध्यानरतश्च यः ।
आलये मुदितारामो भिक्षुर्भवति तादृशः ॥ ३०.४५ ॥
पक्षिणो गगनस्थस्य छायेवानुगतः सदा ।
सद्धर्मस्यानुजीवी स भिक्षुर्भवति तादृशः ॥ ३०.४६ ॥
क्लेशोपक्लेशबधकः समदर्शी शुभान्वितः ।
अनापानविधिज्ञो यो भिक्षुर्भवति तादृशः ॥ ३०.४७ ॥
अनुक्रमविधिज्ञो यो योगवित्तत्त्वदर्शकः ।
पारापारविधिज्ञो यो भिक्षुर्भवति तादृशः ॥ ३०.४८ ॥
यो न हृष्यति हर्षेषु भयेषु न बिभेति च ।
मुक्तो हर्षभयोद्वेगैर्भिक्षुर्भवति तादृशः ॥ ३०.४९ ॥
जन्ममरणतत्त्वज्ञः सुरासुरनमस्कृतः ।
परावरज्ञः सत्त्वानां भिक्षुर्भवति तादृशः ॥ ३०.५० ॥
सङ्घाटिमात्रसंहृष्टः सञ्चयेषु न रज्यते ।
अल्पेच्छो ब्रह्मचारी यो भिक्षुर्भवति तादृशः ॥ ३०.५१ ॥
एकाशी वृक्षमूले यः सदा ध्यानं समीहते ।
लाभसत्कारविरतो भिक्षुर्भवति तादृशः ॥ ३०.५२ ॥
उपेक्षाकरुणारागो मोक्षदोषविवर्जितः ।
निर्दग्धदोषसर्वस्वो भिक्षुर्भवति तादृशः ॥ ३०.५३ ॥
मन्दवीर्यकुसीदानां भिक्षूणां दर्शनाय च ।
नान्ययोगाभिरक्तो यो भिक्षुर्भवति तादृशः ॥ ३०.५४ ॥
कौसीद्याभिरतो भिक्षुः नहि कल्याणमर्हति
न शय्यासनसम्भोगी भिक्षुर्बुद्धेन भाषितः ।
कौसीद्यभिरतो यस्तु नासौ कल्याणमर्हति ॥ ३०.५५ ॥
क्लेशानां मूलपाकं हि कौसीद्यं यस्य विद्यते ।
तस्य दुःखं महाघोरं संसारे सम्प्रवर्तते ॥ ३०.५६ ॥
कौसीद्यमेव यस्यास्ति तस्य धर्मो न विद्यते ।
केवलं वस्त्रमात्रेणऽभिक्षुःऽ स इति कथ्यते ॥ ३०.५७ ॥

भिक्षुर्भवति न तादृशः

नाध्यापने रतिर्यस्य न ध्यानेनाशु रक्षति ।
केवलं वस्तुमात्रेण भिक्षुर्भवति तादृशः ॥ ३०.५८ ॥
विहाराभिरतो यस्तु न रतो धर्मगोचरे ।
स्त्रीमद्यलोलुपमतिभिक्षुरस्ति न तादृशः ॥ ३०.५९ ॥
(भवेन्मतिर्यस्य नित्यं विविधे) पापकर्मणि ।
स भिक्षुर्देशितो बुद्धैः न भोक्ता स्वकगोचरे ॥ ३०.६० ॥
वरमाशीविषविषं कथितं ताम्रमेव च ।
भुक्तस्यात्यन्तदुःशीलैरधिकं पापभोजनम् ॥ ३०.६१ ॥
यो हि नार्हति पिण्डाय नासौ पिण्डाय कल्पते ।
यस्य पिण्डिकृताः क्लेशाः सर्पा इव विलेशयाः ॥ ३०.६२ ॥
स भिक्षुः पिण्डभोजी स्यान्न स्त्रीदर्शनतत्परः ।
बन्धकं यदि चात्मानं कृत्वा परशुभक्षतिम् ॥ ३०.६३ ॥

भिक्षुर्दुर्गुणानां स्वरूपम्

कथं स भिक्षुर्विज्ञेयः सङ्घरत्नप्रदूषकः ।
यस्येष्टा लाभसत्कारा विषया यस्य सम्मताः ॥ ३०.६४ ॥
नारिदर्शनसाकाङ्क्षी न भिक्षुर्न गृहीव सः ।
राजसेविषु सृष्टाशो मद्यपः क्रोधनस्तथा ॥ ३०.६५ ॥
सदा भिक्षुर्बञ्चयते दायकान्ननु चेतसा ।
उपायनान्युपादाय राजद्वाराश्रिता हि ये ।
संरब्धा गृहिभिः सार्ध यथा नागा वनाश्रिताः ॥ ३०.६६ ॥
तस्मात्तानेव पुष्णन्ति वातेर्ष्यास्ते समागताः ।
पुत्रदारान् परित्यज्य ये शान्ता रत्नमाश्रिताः ॥ ३०.६७ ॥

भिक्षोर्गुणानां माहात्म्यम्

प्रहाय दोषान् यो भिक्षुरस्ति दर्शनतत्त्ववित् ।
रूपादिस्कन्धतत्त्वज्ञो मोक्षाय यतते सदा ॥ ३०.६८ ॥
धर्मावबोधाभिरतो ध्यानारामविहारवान्
तत्त्वलक्षणसम्बोधात्प्राप्नुयात्पदमव्ययम् ॥ ३०.६९ ॥
मैत्र्यारामो हि सततमुद्युक्तो धर्मगोचरे ।
तत्त्वलक्षणतत्त्वज्ञो भिक्षुर्भवति तादृशः ॥ ३०.७० ॥
योनिशस्तु मतिर्यस्य कामक्रोधैर्न हन्यते ।
स भिक्षुरिति विज्ञेयो विपरीतस्ततोऽन्यथा ॥ ३०.७१ ॥
सर्वभूतदृढः शान्तः सर्वसङ्गतिवर्जितः ।
सर्वबन्धननिर्मुक्तो भिक्षुर्भवति तत्त्ववित् ॥ ३०.७२ ॥
कर्मणि यस्य विज्ञानविषयैर्यो न हन्यते ।
निर्मलः स्यात्कनकवत्सन्तुष्टो भिक्षुरुच्यते ॥ ३०.७३ ॥
प्रियाप्रिये मनो यस्य न लेपमनुगच्छति ।
सङ्कल्पानां विधिज्ञो यः सर्वपापविवर्जितः ॥ ३०.७४ ॥
अन्यसंदुष्टचरितो धर्मशीलो जितेन्द्रियः ।
अहीनसत्वो मतिमान् भिक्षुर्भवति तादृशः ॥ ३०.७५ ॥
शास्त्रे शास्त्रार्थविज्ञाने मतिर्यस्य सदा रता ।
न पानभोजनरतः स भिक्षुः शान्तमानसः ॥ ३०.७६ ॥

भिक्षोः स्वरूपनिरूपणम्

वनारण्यविहारेषु श्मशाने तृणसंस्तरे ।
रमते यस्य तु मनो भिक्षुर्भवति तादृशः ॥ ३०.७७ ॥
दोषाणां कर्मतत्त्वज्ञः फलवित्परिशेषतः ।
हेतुप्रत्ययतत्त्वज्ञो भिक्षुः स्याद्वीतकल्मषः ॥ ३०.७८ ॥
(हत) किल्विषकान्तारो हतदोषो जितेन्द्रियः ।
पुनर्भवविधिज्ञो यो भिक्षुः शान्तमनाः (स्मृत) ॥ ३०.७९ ॥
नोत्कर्षो हृष्टहृदये निन्दया नैव रूष्यति ।
समुद्रतुल्यगाम्भीर्यो योगवान् भिक्षुरुच्यते ॥ ३०.८० ॥
आवेणिको दृढमतिः सूक्ष्मवादी न लोलुपः ।
कामवादी समो दक्षः स भिक्षुः शान्त उच्यते ॥ ३०.८१ ॥
कामधातूपगान् हेतून् रूपधातौ तथैव च ।
आरुष्येषु च तत्त्वज्ञः शास्त्रा भिक्षुः स उच्यते ॥ ३०.८२ ॥
न लौकिककथासक्तः शत्रुदोषबधे सदा ।
विषवद्यस्य विषयाः स भिक्षुर्देशितो बुधैः ॥ ३०.८३ ॥
शुद्धा यस्य (हि)कामेषु मतिर्भवति नित्यशः ।
स निर्मुक्तमतिर्भिक्षुर्मुक्तः संसारबन्धनात् ॥ ३०.८४ ॥
ध्यानाध्ययनकर्मण्यः कौसीद्यं यस्य दूरतः ।
हितकारी च सत्त्वानामारण्यो भिक्षुरुच्यते ॥ ३०.८५ ॥
प्रश्नोत्तरमतिर्यस्य प्रतिभावन् जितेन्द्रियः ।
स धर्मः कथितो ज्ञेयो विपरीतस्तृणैः समः ॥ ३०.८६ ॥

बुद्धशासने कीदृग्भिक्षुः शस्तः?

कायमानसभीर्यस्य सर्वदा नैव खिद्यते ।
सर्वकृत्यकरो ज्ञेयो यः सङ्घाय च तत्परः ॥ ३०.८७ ॥
न परार्थ न लोभार्थ यशोऽर्थ कुरुते न तु ।
सङ्घकार्ये मतिर्यस्य स मुक्तः सर्वबन्धनैः ॥ ३०.८८ ॥
न स्वर्गार्थ मतिर्यस्य लाभार्थ यशसे न वा ।
निर्वाणार्थ क्रिया सर्वा स भिक्षुः स्रोत उच्यते ॥ ३०.८९ ॥
पापेभ्यो नित्यविरतः सत्कृत्येषु रतः सदा ।
न पापमित्रसंसर्गी भिक्षुः स्याद्बुद्धशासने ॥ ३०.९० ॥
मैत्र्या भावितचित्तस्य दक्षस्य ऋजुचेतसः ।
शिक्षापदेषु रक्तस्य निर्वाणं नातिदूरतः ॥ ३०.९१ ॥
जरामरणशीलस्य संसारविमुखस्य च ।
ध्यानेऽपि न प्रमत्तस्य निर्वाणं नातिदूरतः ॥ ३०.९२ ॥
अनित्यताविधिज्ञस्य शून्यतावत्क्रियावतः ।
ध्यानोत्कर्षविधिज्ञस्य निर्वाणं नातिदूरतः ॥ ३०.९३ ॥
धीरोऽयमग्रचोरोऽयं योऽयं भिक्षुरसंवृतः ।
अन्तःपुरीवरस्रावी बहिश्चीवरसंवृतः ॥ ३०.९४ ॥

धर्मविनयाद्रिक्तो भिक्षुर्दुःखभागी भवेदेव

यथा यत्नमयो राशिः सर्वोऽसारश्च दुर्बलः ।
एवं सञ्चरति रिक्तो वितथो भिक्षुवादिकः ॥ ३०.९५ ॥
स नारकेयो दुःशीलः सङ्घरत्नबहिष्कृतः ।
कायस्य भेदान्नरकं नीयते चित्तवञ्चितः ॥ ३०.९६ ॥
वञ्चितो धर्मविनयाद्याति तत्स्वेन कर्मणा ।
मलिनस्तमसा बद्धो दुःखभागी भविष्यति ॥ ३०.९७ ॥
अप्रावृतः शुभधमन्नग्नः साधुजुगुप्सितः ।
नयते नरकं घोरं यथा धर्मबहिष्कृतः ॥ ३०.९८ ॥
अशोभनस्य निचयो दुःखद्वारमनावृतम् ।
संसारबन्धनं तीव्रं दौःशील्यमिति कथ्यते ॥ ३०.९९ ॥
असंवरेण यो दग्धः स दग्धो वह्निना भृशम् ।
तस्य संवरक्षीणस्य विनिपातो ध्रुवं स्थितः ॥ ३०.१०० ॥

कुकर्तृभिक्षुरपि नरकं याति

मनसा संवरस्थेन स्वाचारैः संवरायते ।
समूढचर्यामारुह्य नरकायोपकल्पते ॥ ३०.१०१ ॥
अशुभं वर्धते तस्य दिवारात्रौ च सर्वतः ।
यस्य शीलमयं रत्नं दौःशील्येन निवारितम् ॥ ३०.१०२ ॥
धर्मशून्यस्य रिक्तस्य तमसा संवृतस्य च ।
विद्यतेऽसंवरस्तस्य यो न शौचाय कल्पते ॥ ३०.१०३ ॥
असंवरमयः पाशो मलिनः साधुवर्जितः ।
आकर्षति स दुःशीलान् पापिष्ठान् शीलवर्जितान् ॥ ३०.१०४ ॥
असंवरैश्च दौःशील्यैः पापैश्च सह सङ्गतिः ।
दूतका नरकस्यैते कामानामपि सेवकाः ॥ ३०.१०५ ॥
असंवृतप्रसूतस्य चपलस्य विशेषतः ।
पापकर्माभियुक्तस्य नरकं नातिदूरतः ॥ ३०.१०६ ॥
किमेते नावगच्छन्ति कर्मणां सदृशं फलम् ।
अक्षिपाताय मूढाय दुर्मतौ (ये) विमोहिताः ॥ ३०.१०७ ॥
अहन्यहनि वर्धन्ते पापनद्यो दुरासदाः ।
दुःखोर्मिमालाश्चपलाः पापिष्ठजनहारिणः ॥ ३०.१०८ ॥
न तेषां सुकरं जन्म न तेषां सुकरं मनः ।
अशीलाः पुरुषा ये वा शुक्लधर्मविवर्जिताः ॥ ३०.१०९ ॥

धर्मोऽत्युच्चः शुभो मार्गः

अत्युच्चश्च शुभो मार्गः सऽधर्मऽ इति कथ्यते ।
तं प्राप्यमनुजः शीघ्रं प्रयाति पदमच्युतम् ॥ ३०.११० ॥
ततोऽपवादाः साध्यन्ते शक्तिमन्तः सुखास्तु ये ।
संवरस्य सदा दासास्तेषां दुःखं न विद्यते ।
दौःशील्यपरमो ह्येष मलिनीकुरुते नृणाम् ॥ ३०.१११ ॥
ये शैक्ष्यपदविभ्रष्टा भागिनो नरकस्य ते ।
एवं ज्ञात्वा नरः सर्व संवरं प्रतिपद्यते ॥ ३०.११२ ॥

शुभधर्मी भिक्षुर्निर्वाणं नातिचिरं प्राप्नोति

भवार्णस्य सर्वस्य सेतुभूतो हि संवरः ।
शुद्धाजीवविशुद्धस्य शान्तवक्त्रस्य कर्मणः ॥ ३०.११३ ॥
ध्यायिनो विप्रमुक्तस्य निर्वाणं नातिदूरतः ।
धूर्धरस्याप्रमत्तस्य श्मशानवनसेविनः ॥ ३०.११४ ॥
शायिनो भूतले नित्यं निर्वाणं नातिदूरतः ।
पांशुशय्यावलम्बांसपातमेकं सजर्जरम् ॥ ३०.११५ ॥
सन्तोषः फलमूलैश्च स सुखी बुद्धसम्भवः ।
विप्रमुक्तस्य कामेभ्यः सन्तोषो हीतरस्य च ॥ ३०.११६ ॥
सविमुक्तकचित्तस्य निर्वाणं नातिदूरतः ।
कुहकामलमुक्तस्य रजो वा तस्य तायिनः ॥ ३०.११७ ॥
आकाशसमचित्तस्य निर्वाणं नातिदूरतः ।
बहुबद्धपदैर्युक्ता विज्ञेया (भव)चारिका ॥ ३०.११८ ॥
नाशिका ब्रह्मचर्यस्य निर्वाणगतिदुःखिका ।
सेव्यते या जनैर्नित्यं प्राकृतैः शीलवर्जितैः ॥ ३०.११९ ॥
अजस्त्रं परिवर्ज्या सा ध्यायिभिस्तत्त्वदर्शिभिः ।
दौर्बल्यमूलमेका सा मनस्कारप्रणाशिका ॥ ३०.१२० ॥
नाशिनी ब्रह्मचर्यस्य नरकस्य प्रदर्शिका ।
भ्रंशिका स्वर्गमार्गस्य दुःखसागरशोषिका ॥ ३०.१२१ ॥
दूतिका प्रेतलोकस्य तिर्यग्योनिनिपातिका ।
नाम्ना सङ्गणिका सेवा संसारे बन्धमातृका ॥ ३०.१२२ ॥
ध्यानाध्ययनशक्तैव वर्ज्या नित्यं हि भिक्षुभिः ।
ध्यानाध्ययननिर्मुक्तो निमित्ताभिरतः सदा ॥ ३०.१२३ ॥

परधर्मो भयावहः

विवर्जितः शुभैर्धर्मैरपापगमनाय सः ।
स्वधर्म यः परित्यज्य परधर्मेषु रज्यते ॥ ३०.१२४ ॥
धर्मद्वयपरिभ्रष्टो विनिपाताय कल्पते ।
स्वगृहं यः परित्यज्य परवेश्यानि तिष्ठति ॥ ३०.१२५ ॥
सदायं लाघवं याति निधनं चाशु गच्छति ।
तथा यो विमतिर्भूतो विद्वन्मानी जनेच्छया ॥ ३०.१२६ ॥
स्वधर्मविरतिं कृत्वा परधर्मेषु वर्तते ।
अधर्मे चाशयस्तस्य परलिङ्गोपजीविनः ॥ ३०.१२७ ॥
तृणविद्याभिलिप्तोऽयं प्रेतः पापेषु पच्यते ।
यशोऽन्तं पदमास्थाय पापकर्मणि वर्तते ॥ ३०.१२८ ॥

नासौ भिक्षुरिहोच्यते

शश्वत्स पतितो दृष्टः शासनान्तात्प्रवर्तते ।
निस्पृहः कामचर्यासु निरामोदः प्रवर्जितः ॥
आरब्धवीर्यः सन्तुष्टो ध्यायी भिक्षुरिहोच्यते ॥ ३०.१२९ ॥
न च कामेषु संसक्तो नित्याहारविहारवान् ।
काषायसंवृतः क्षौरो नासौ भिक्षुरिहोच्यते ॥ ३०.१३० ॥
निमित्तबोधको (यस्तु) नक्षत्रगतिचिन्तकः ।
राजसेवाप्रमत्तश्च न स भिक्षुरिहोच्यते ॥ ३०.१३१ ॥
वैद्यकर्माणि कुर्वश्च श्रुति सङ्ग्रथनं तथा ।
सङ्कीर्णा दिनचर्या च कुर्वन् भिक्षुः प्रणश्यति ॥ ३०.१३२ ॥
ध्यानाध्ययनविद्वेषी रतः सङ्गणिकासु च ।
लोभसत्कारलाभं च कुर्वन् भिक्षुः प्रणश्यति ॥ ३०.१३३ ॥
सुवर्णधातुसंसक्तो बहुमित्ररतिश्च यः ।
अन्यलाभाभिलाषितो भिक्षुः पतति शासनात् ॥ ३०.१३४ ॥
तपसः सङ्गनिर्मुक्तो न पापगणसेवकः ।
सक्तूदकेन सन्तुष्टः स भिक्षुर्निष्ठुरः स्मृतः ॥ ३०.१३५ ॥

कः शुद्धो भिक्षुः?

आगतान् विषयान् सर्वान् त्यजति ज्वलनोपमान् ।
विशुद्धदोषो मणिवच्छुद्धो भिक्षुरिहोच्यते ॥ ३०.१३६ ॥
अन्तर्बहिर्विशुद्धात्मा ज्ञानादिभिरलङ्कृतः ।
श्रद्धया शीलवस्त्रेण क्रियावान् भिक्षुरुच्यते ॥ ३०.१३७ ॥
लोभधर्मव्यतीतो यः स्थितो मेरुरिवाचलः ।
सर्वलोकप्रियः शान्तः पारगो भिक्षुरुच्यते ॥ ३०.१३८ ॥
त्रिरात्रिवासी कुत्रापि कुशासनविधारकः ।
गिरिगह्वरसेवी च विमुक्तो भिक्षुरुच्यते ॥ ३०.१३९ ॥
पापभीरुरसंस्पर्शी संवृतः च सुसंवृतः ।
ज्ञानसेवी स्थिरः शान्त एकाकी भिक्षुरुच्यते ॥ ३०.१४० ॥
अचलः प्रियवादी च पापमित्रविवर्जितः ।
अशक्तः सर्वकृत्येषु मुक्तो भिक्षुरिहोच्यते ॥ ३०.१४१ ॥

राजसेवा कुकषायोक्तिसेवा

राजसेवा विगर्ह्यास्ति भिक्षोश्चारण्यवासिनः ।
कुकषायोक्तिसेवासौ मृत्युतस्करजीविका ॥ ३०.१४२ ॥
न हि राजसेवको भिक्षुर्यः सेव्यो देवतैरपि ।
न हिंसासवसंसृष्टो महतेऽशुचिसेवकः ॥ ३०.१४३ ॥

भिक्षोः राजसेवा न शोभते

निर्मलस्य निरामस्य निस्पृहस्य च देहिनः ।
संसारभयभीतस्य राजसेवा न शोभते ॥ ३०.१४४ ॥
वनारण्यश्मशानेषु पल्वलो गिरिभूमिषु ।
प्रान्तभूमिषु ग्रामस्य स्थितः भिक्षुः प्रशोभते ॥ ३०.१४५ ॥
वनारण्यश्मशानेषु भिक्षुर्न राजसेवया ।
ध्यानाध्ययननिर्मुक्तः कवलाहारभोजिता ।
न भिक्षुरिति विज्ञेयः पिशाचसममानसः ॥ ३०.१४६ ॥
ध्यानाद्धि विमलं सौख्यं प्रवदन्ति मनीषिणः ।
न तत्सुखात्सुखं चान्यदस्ति लोके कथञ्चन ॥ ३०.१४७ ॥
तदुत्तमध्यानसुखं मुक्त्वा यः पुरुषाधमः ।
रसेषु रमते बालस्तेन मूढो विहन्यते ॥ ३०.१४८ ॥
विषयैर्भ्रामितस्यास्य नित्यं तद्गतचेतसः ।
वर्धन्तेऽकुशला धर्माः परलोकापकर्षकाः ॥ ३०.१४९ ॥

आत्मज्ञो भिक्षुर्निर्वाणमधिगच्छति

आत्मनो यानहीनश्च गुरुपृच्छनकस्तथा ।
भिक्षुरुद्युक्तवीर्यश्च निर्वाणमधिगच्छति ॥ ३०.१५० ॥
श्रुतं यावद्भवत्येव तावदेव प्रभाषते ।
आत्मज्ञो मानहीनश्च भिक्षुर्भवति तत्त्वविद् ॥ ३०.१५१ ॥
मानापमानहीनो यो मार्गामार्गविचक्षणः ।
स्वपरार्थविधिज्ञो यः स तुष्टो भिक्षुरुच्यते ॥ ३०.१५२ ॥

मानिनः कुतः शान्तिः?

मानिनः क्रूरमनसश्चपलस्याल्पमेधसः ।
लाभसत्कारयातस्य कुतः शान्तिर्भविष्यति? ॥ ३०.१५३ ॥
प्रसन्नाचारयुक्तस्य ज्ञानगोचरसेविनः ।
संसारदोषभीतस्य प्रव्रज्या सफला मता ॥ ३०.१५४ ॥
स्वभावपरभावेषु यस्य बुद्धिर्नमुञ्चति ।
न कर्मण्यविपाके च मार्गामार्गे तथैव च ॥ ३०.१५५ ॥
निवासोपहतो भिक्षुः सुखं न विन्दति
सदाचारवियुक्तस्य सुखदुःखाभयस्य च ।
निवासोपहतो भिक्षुर्बालवद्दृश्यते परैः ॥ ३०.१५६ ॥
तृणवल्लघुतां याति स्वार्थाच्च परिहीयते ।
निवासोपहतो भिक्षुः परिहीणवने स्थितः ॥ ३०.१५७ ॥
ध्यानाध्ययनकृत्येषु मनो नैव प्रवर्तते ।
निवासोपहतो भिक्षुर्जनसञ्चयतत्परः ॥ ३०.१५८ ॥
सञ्चयव्यग्रमनसा जीवितं परिहीयते ।
क्षिणोति रेतसं स्वस्य जीवितं नैव गच्छति ॥ ३०.१५९ ॥

कः दुर्गतिं याति?

न च विन्दति यत्कृत्वा सुखमन्यत्र भुज्यते ।
निवासोपहतो भिक्षुर्जनसञ्चयतत्परः ।
पापानि याति नित्यं स तेन गच्छति दुर्गतिम् ॥ ३०.१६० ॥

श्रामण्यधर्मस्य महत्त्वम्

अनभिप्रेतमनसो निराशस्य च देहिनः ।
सर्वसङ्गविमुक्तस्य श्रामण्यं सफलं मतम् ॥ ३०.१६१ ॥
गिरिगह्वरवृक्षेषु नित्यं ध्यानविहारिणः ।
प्रसीदति शुभं ज्ञानं दौःशील्यपरिवर्जितम् ॥ ३०.१६२ ॥

केषां सफलं जीवनम्?

सर्वसङ्गविनिर्मुक्तो विषयैर्न च वञ्चितः ।
(स) भिक्षु निष्फलो ज्ञेयः शुष्केन्धनमिवानलः ॥ ३०.१६३ ॥

निर्वाणाभिरतस्य भिक्षोः प्रशंसा

निर्वाणाभिरतो यो हि भीतस्य विभवार्णवात् ।
भिक्षुर्भवति शुद्धात्मा न निवासेन कर्हिचित् ॥ ३०.१६४ ॥

तृष्णा एव अनर्थकरी

लोभमोहेषु ये शक्तास्ते शक्ता तृष्णया सदा ।
तृष्णाबन्धनबद्धानां नायं लोको न चापरः ॥ ३०.१६५ ॥

धर्मज्ञो दुर्गति न लभते

असंशक्ता मतिर्यस्य मिथ्याकर्मसु सर्वदा ।
अपक्षपाती धर्मज्ञो न स गच्छति दुर्गतिम् ॥ ३०.१६६ ॥

कः मुनिरुच्यते?

दोषपङ्केमनो यस्य न लिम्पति कथञ्चन ।
एकारामविहारीयो निराशो मुनिरुच्यते ॥ ३०.१६७ ॥
निर्मुक्तो विमलाचारो निवृत्तमलकल्मषः ।
मुक्तो यो विषयैः सर्वैरारण्यो मुनिरुच्यते ॥ ३०.१६८ ॥
लोकधर्मैर्न निर्वेदं समायाति कथञ्चन ।
सुखदुःखसमप्रज्ञो निर्मलो मुनिरुच्यते ॥ ३०.१६९ ॥
सन्तोषः परमो(धर्मो) नित्यं कामविवर्जितः ।
निरामयः कृच्छ्रजीवी शुचिर्मुनिरिहोच्यते ॥ ३०.१७० ॥
नयेन्न तेन संश्लेषं यत्र यत्रानुगच्छति ।
एकचारी दृढमतिः क्रियावान्मुनिरुच्यते ॥ ३०.१७१ ॥
शुभाशुभानां सर्वेषां कर्मणां फलतत्त्ववित् ।
शुभाशुभपरित्यागी लोकेऽसौ मुनिरुच्यते ॥ ३०.१७२ ॥
उद्युक्तो दोषनाशाय नित्यकामगतिः स्मृतः ।
उदयव्ययतत्त्वज्ञो बुद्धिमान्मुनिरुच्यते ॥ ३०.१७३ ॥
देशकालविदां श्रेष्ठोऽद्वयवादी जितेन्द्रियः ।
संसारभयभीतोऽयं प्रशान्तो मुनिरुच्यते ॥ ३०.१७४ ॥

कः भिक्षुः निर्वाणमधिगच्छति?

एकारामगतो भिक्षुः संक्षिप्तेन्द्रियपञ्चकः ।
देहलक्षणतत्त्वज्ञो निर्वाणमधिगच्छति ॥ ३०.१७५ ॥
वीर्यवान् (सत्यवाक्) भिक्षुर्नित्यं दोषविवर्जितः ।
उद्यानमिव क्रीडाया निर्वाणमधिगच्छति ॥ ३०.१७६ ॥

कल्याणधर्मी भव

दग्धे क्लेशे वयं दग्धा वनं दग्धं यथाग्निना ।
कल्याणधर्मे संरक्ता न रक्ता कामभोजने ॥ ३०.१७७ ॥

मायया जनाः वञ्चकाः भवन्ति

नित्यं प्राप्त्युत्सुका ये (हि) नित्यं स्वजनसंरताः ।
मायया वञ्चका (ये तु) मूढास्ते धर्मवर्त्मनि ॥ ३०.१७८ ॥

शुभकर्मणि मनः कार्यः

रमणीयान्यरण्यानि तत्रैव रमते मनः ।
रमन्ते वीतरागास्ते न तु कामगवेषिणः ॥ ३०.१७९ ॥
स कथाभिरतो यस्तु रतो विषयतृष्णयोः ।
न यास्यति पुरं शान्तं यो च मृत्युं न विन्दति ॥ ३०.१८० ॥

अद्वयवादी भव

योऽत्यन्तशान्तमनसा नित्यं ध्यानपरायणः ।
आदिमध्यान्तकल्याणो नित्यमद्वयगोचरः ॥ ३०.१८१ ॥

॥ इति भिक्षुवर्गस्त्रिंशः ॥

करुणादानशीलानिक्षान्तिर्वीर्यमथापि च ।
ध्यानं प्रज्ञाथ निर्वाणो मनो भिक्षुश्च ते दश ॥

॥ इति तृतीयमुदानम् ॥



अथ चतुर्थमुदानम्

(पुण्यदेवसुखैर्मित्रराजस्तुतिभिरन्विताः ।
सद्धर्मस्मृतिवैपुल्यै गृहीतोऽयं समुच्चयः ॥ ) ॥


(३१) पुण्यवर्गः

पुण्यप्रशंसा

रमणीयानि पुण्यानि फलं तेषां परं शुभम् ।
तस्मात्कुरुत पुण्यानि नास्ति पुण्यसमं धनम् ॥ ३१.१ ॥
पुण्यं निधानमक्षय्यं पुण्यं रत्नमनुत्तमम् ।
प्रदीपसदृशं पुण्यं मातृवत्पितृवत्सदा ॥ ३१.२ ॥
पुण्यं कृत्वा गता देवाः पुण्यं नयति सद्गतिम् ।
पुण्यं कृत्वा नरा लोके मोदन्ते त्रिदिवे हि (ते) ॥ ३१.३ ॥
पुण्यं परं सुखम्

पुण्याधिका हि पुरुषा भवन्ति सुखिनः सदा ।
तस्मात्कुरुत पुण्यानि नास्ति पुण्यसमं सुखम् ॥ ३१.४ ॥
पुण्यं कृत्वा गता देवाः पुण्यप्रियधनस्य च ।
हेतुभूतं सदा दृष्टं तस्मात्पुण्यं परं सुखम् ॥ ३१.५ ॥

पुण्यादृते सुखमसंभवम्

पुण्यं नित्योत्तमं दृष्टं छायावदनुगामिकम् ।
तस्मात्सुखं परं पुण्यं नास्ति पुण्यादृते सुखम् ॥ ३१.६ ॥

पुण्यापुण्यफलयोरन्तरम्

पुण्योत्तीर्णाः पुनर्देवा पतन्ति सुकृतानुगाः ।
पुण्यापुण्यफलो लोकस्तस्मात्पुण्यं समाचरेत् ॥ ३१.७ ॥

अपुण्यनिन्दा

ये पुण्यहीना दुर्दान्ता नित्यं कुगतिगामिनः ।
कुतस्तेषां सुखं दृष्टं सिकतासु यथा घृतम् ॥ ३१.८ ॥
वित्तेन वञ्चिता मूढाः पुण्येन परिवञ्चिताः ।
न तेषां विद्यते शर्म दुःखं तेषामनुत्तरम् ॥ ३१.९ ॥

पुण्यवशाद्देवलोकं गच्छति

मानुष्यं सुकृतं ह्येतत्कृते भवति देहिनः ।
तेन कर्मविपाकेन स्वर्गलोकेषु जायते ॥ ३१.१० ॥
प्रियो भवति यस्यात्मा यस्य सौख्ये स्थिता मतिः ।
स करोतु महत्पुण्यं देवलोकोपपत्तये ॥ ३१.११ ॥

धर्मचारी पुरुष एव सुखमवाप्नुते

धर्मचारी हि पुरुषः सुखात्सुखमवाप्नुते ।
निर्मलश्च परां शान्तिं क्षिप्रमेवाधिगच्छति ।
तस्मात्कुरुत पुण्यानि (यन्नित्यं) सांप्रचायिकम् ॥ ३१.१२ ॥

पुण्यकर्त्तृ अव्ययं सुखमश्नुते

पुण्यकारी सदा दान्तो पदं गच्छति चाव्ययम् ।
रमणीयानि पुण्यानि करणीयान्यनेकशः ॥ ३१.१३ ॥

पुण्यस्य वैचित्र्यं धर्मस्य उपादेयता च

विचित्रं हि कृतं पुण्यं विचित्रं परिपच्यते ।
धर्माधर्मप्रधानस्य जीवलोकस्य सर्वतः ।
शमत्राणो यथा धर्मस्तस्माद्धर्मरतो भवेत् ॥ ३१.१४ ॥

अधर्मी दुःखं प्राप्नोति

यो (हि) धर्म परित्यज्य रमते कुकृते नरः ।
तस्य दुष्कृतदग्धस्य दुःखं भवति नित्यशः ॥ ३१.१५ ॥

धर्मे एव मनः कार्यम्

यावन्नाभ्येति मरणं यावत्सकलचिन्तनम् ।
तावद्धर्मे मनः कार्यमुपशान्तिर्भविष्यति ॥ ३१.१६ ॥

परोपकर्तृ निर्वाणपुरं याति

यो हि देशयते धर्म परेषां हितकाङ्क्षया ।
स माता स पिता चैव निर्वाणपुरदेशकः ॥ ३१.१७ ॥

शास्तुः सुभाषितममूल्यम्

शुभाधिकपरश्चैकः यो देशयति देशिकः ।
स गत्यन्तरमार्गज्ञो नाथो भवति देहिनाम् ।
न मूल्यं विद्यते शास्तुः सुभाषितपदस्य वै ॥ ३१.१८ ॥

साधारणद्रव्याद्धर्मद्रव्यस्य वैलक्षण्यम्

न पदं लभते शान्तं यद्धनैरुपलभ्यते ।
द्रव्यं साधारणं दृष्टं न धर्मो बुद्धिबन्धनम् ॥ ३१.१९ ॥

धर्मद्रव्यमक्षुण्णमस्ति

द्रव्यं विनश्यति नृणां धर्मद्रव्यं न जातु वै ।
आभ्यन्तरसहस्त्राणि धर्म एकोऽनुगच्छति ॥ ३१.२० ॥

न धनं पदमप्येकं गच्छन्तमनुगच्छति ।

हीयते द्रविणं तेषां राजचौरोकाग्निभिः ।
धर्मवित्तं न तच्छक्यमपहर्तु कथञ्चन ॥ ३१.२१ ॥

अतो धर्मपरो भवेत्

अचिरेणापि कालेन भुक्त्वा सौख्यमनेकशः ।
भवत्यवश्यं पतनं तस्माद्धर्मपरो भवेत् ॥ ३१.२२ ॥
धर्म एकः परं त्राणं धर्म एकः परा गतिः ।
धर्मेण पूर्ववर्त्येष मरणं चाप्यधर्मतः ॥ ३१.२३ ॥

धर्मचारिणः प्रशंसा

वरं धर्मो धर्मचारी धर्ममेव निषेवते ।
स सुखात्सुखमाप्नोति न दुःखमनुपश्यति ॥ ३१.२४ ॥

अधर्मचारिणो निन्दा

अधर्मचारी पुरुषो यदाधर्म निषेवते ।
स तदा दुःखमाप्नोति नरकेषु पुनः पुनः ॥ ३१.२५ ॥

निर्वाणमहत्त्वम्

रत्नत्रयप्रसादस्य भावितस्याप्यनेकशः ।
फलं भवति निर्वाणं पूर्वस्वर्गोपजीविनः ॥ ३१.२६ ॥

आत्मनैव पुण्यमाचरणीयम्

आत्मना क्रियते पुण्यमात्मना प्रतिपद्यते ।
सुखं वा यदि वा दुःखमात्मनैवोपभुज्यते ॥ ३१.२७ ॥

शीलवतः पुण्यप्रभावो विपुलः

नदीस्त्रोत इवाजस्त्रं पुरुषस्य प्रवर्तते ।
पुण्यप्रभावो विपुलो यस्य शीले रतं मनः ॥ ३१.२८ ॥
भवजन्यं फलं यस्य (यस्मै) धर्मो न रोचते ।
धर्मो हि नयति स्वर्ग धर्मचारी सुखान्वितः ॥ ३१.२९ ॥

धर्मादृते पुरुषः नरकं याति

एतदेव हि पर्याप्तं यद्धर्मपरिपालनम् ।
धर्मादृते हि पुरुषो नरकानुपधावति ॥ ३१.३० ॥

धर्मविगर्हणान्मरणं श्रेयः

श्रेयो भवेद्धि मरणं न तु धर्मविगर्हणम् ।
धर्मेण वर्जितो लोकः संसारे सर्वदा भ्रमेत् ॥ ३१.३१ ॥

धर्मविरहितस्य दुःखमयं जीवनम्

धर्मचक्षुर्विमुक्तस्य मोहेनाक्रान्तचेतसः ।
वृथा सौख्यमिदं दृष्टं दृष्ट्वा यातो यथापरः ॥ ३१.३२ ॥
धर्माङ्कुरो मनः क्षेत्रे नैव रोहत्यचेतसः ।
यस्य शीलप्रदा बुद्धिः धर्माचरणतत्परा ॥ ३१.३३ ॥
शुभेन सविशुद्धेन भावितेन प्रयत्नतः ।
प्रयान्ति तत्पदं शान्तं यत्र दुःखं न विद्यते ॥ ३१.३४ ॥

इन्द्रियवशी मारं नातिवर्तते

इन्द्रियाणां वशे यस्तु विषयेषु तथैव च ।
स सर्वबन्धनैर्बद्धः स मारं नातिवर्तते ॥ ३१.३५ ॥

पापकैर्धर्मैरलिप्त एव स्वस्थः

अलिप्तपापकैर्धर्मैः निर्धनात्कनकद्युतिः ।
स मुक्तभवकान्तारः स्वस्थो भवति सर्वतः ॥ ३१.३६ ॥

बुद्धादीनां पूजया निर्वाणलाभः

बुद्धो येषां बहुमतो नित्यं धर्मश्च गोचरः ।
शुश्रूषाचार्यपादानां श्रद्दधानश्च कर्मणाम् ॥ ३१.३७ ॥
त्रिरत्नपूजया नित्यं सद्बुद्धिश्च (सु) निर्मला ।
मातापितृणां पूजातः निर्वाणपुरगामिनाम् ॥ ३१.३८ ॥
प्रव्रज्याभावधर्माश्च समेषां सम्प्रकीर्तिताः ।
ब्रह्मचर्यात्तचर्याणां सर्वसौख्याग्रकारकाः ॥ ३१.३९ ॥

धर्मदानं सर्वोत्तमम्

दानानामुत्तमं दानं धर्मदानं प्रकथ्यते ।
उद्योगानां सदा ध्यानं येन गच्छति निर्वृतिम् ॥ ३१.४० ॥

अग्रयस्तथागतः प्रोक्तः

ऊर्ध्वाधस्तिर्यगुक्तस्य लोकस्यानेककर्मणः ।
अग्रयस्तथागतः प्रोक्तो धर्माणां तत्त्वदर्शकः ॥ ३१.४१ ॥
वर्गाणां चार्थसङ्घोरे प्रवरः शान्त उच्यते ।
क्षेत्राणां त्रिविधं पुण्यं गुणदुःखोभयं ततः ॥ ३१.४२ ॥
माता पितृसमः पूज्य उपाध्यायः सदा भवेत् ।
स उन्मीलयते चक्षुर्वशगोचरतां प्रति ॥ ३१.४३ ॥

निःसुखा विषया मताः

अग्राह्या वा सदा दृष्टा मुनिना तत्त्वदर्शिना ।
सुखस्य भूमयो ह्येता निःसुखा विषया मताः ॥ ३१.४४ ॥
यद्येवं कुरुते धर्म निर्मलं मार्गदर्शिनम् ।
सौख्यं तस्य भवेन्नित्यं न सौख्यं देवभूमिषु ॥ ३१.४५ ॥
भवान्तरेषु सुकृतं पृष्ठतो देहिनां स्थितम् ।
स आहूय प्रयत्नेन सेवितव्यः सदा नरैः ॥ ३१.४६ ॥
अनागते भयं यो हि पश्यति बुद्धचक्षुषा ।
स पण्डितः सदा धीरो मूर्खत्वादतिभीरुकः ॥ ३१.४७ ॥
विपत्तिजं भयं दृष्ट्वा (मार्ग) पश्यति बुद्धिमान् ।
स हि विघ्ने तु सम्प्राप्ते न विषादेन बाध्यते ॥ ३१.४८ ॥
अथ मूढमतिर्नित्यं विषयानेव सेवते ।
विमोहितः स विषयैः पश्चात्तापेन दह्यते ॥ ३१.४९ ॥

समग्रं जन्म पुण्यानि करणीयानि

यावत्समग्रं जन्मेदं ज्ञानं याति विनाविलम् ।
तावत्कुरुत पुण्यानि दुःखं हयकृतपुण्यता ॥ ३१.५० ॥
क्षयं प्रयान्ति पुण्यानि त्वरितं याति जीवितम् ।
धर्मसङ्ग्रहणे यत्नः कर्त्तव्यस्तुषिते सुरैः ॥ ३१.५१ ॥
यो हि धर्म परित्यज्य प्रमादोपहतो नरः ।
न सञ्चिनोति पुण्यानि स पश्चादपि तप्यते ॥ ३१.५२ ॥
न यावदायाति जरा न व्याधिः सह मृत्युना ।
तावत्कार्याणि पुण्यानि मा पश्चात्परितप्यथ ॥ ३१.५३ ॥
असङ्गृहीतपुण्यस्य प्रमादोपहतस्य च ।
नरके कारणं दुःखं प्रमादस्त्वां हनिष्यति ॥ ३१.५४ ॥
किं तस्य जीवितेनार्थः किं भाग्यैः किं च बान्धवैः ।
सबलेन्द्रियतां प्राप्य यो न धर्मरतः सदा ॥ ३१.५५ ॥
अहन्यहनि कर्त्तव्यं धर्मसङ्ग्रहणे मनः ।
विरतिश्चापि पापेभ्यः साधूनां दर्शने न च ॥ ३१.५६ ॥
शीलेन यः सुरो जन्म लब्ध्वेदं काममोहितः ।
न सञ्चिनोति पुण्यानि स भवं नातिवर्तते ॥ ३१.५७ ॥

धर्मरताः सदा वन्द्याः

ज्ञानारम्भाभिरतयः शीलरत्नविभूषिताः ।
कामरागाद्धि ये भीता देवानां देवसम्मताः ॥ ३१.५८ ॥
देवास्ते हि सदा वन्द्या ये धर्मे निरताः सदा ।
ये तु नित्यं भवासक्तास्ते सर्वे निधनं गताः ॥ ३१.५९ ॥
धर्मसेतुमिमं प्राप्य पारावारगतं महत् ।
न सञ्चरति यस्तूर्ण भवान्नैव प्रमुच्यते ॥ ३१.६० ॥

शुभं नैव प्रणश्यति

शुभानुचारिधर्मैश्च शुभं भवति सर्वदा ।
कल्पकोटिसहस्त्रेण शुभं नैव प्रणश्यति ॥ ३१.६१ ॥

पुण्यप्राप्त्यर्थे करणीयानि कर्त्तव्यानि

सङ्गृहीतं सदा शीलं ज्ञानं च परिवर्तितम् ।
दानं चाभिक्षया दत्तं भवति स्वरसात्मकम् ॥ ३१.६२ ॥

सदैव गुणाः सेव्याः

दोषास्त्रयः प्रणश्यन्ति त्रिभिर्दानादिभिर्नृणाम् ।
तस्माद्दोषान् परित्यज्य गुणाः सेव्याः प्रयत्नतः ॥ ३१.६३ ॥

ज्ञानेन लौकिकं दुःखं नश्यति

संसर्गो धर्मशीलानां ज्ञानारम्भः प्रयत्नतः ।
नश्यति भवजं दुःखमर्कपादैर्यथा तमः ॥ ३१.६४ ॥
अभ्युपेयो देवरतो देवताभिश्च वन्द्यते ।
प्राप्य जन्मान्तर चापि निर्वृतिं चाशु गच्छति ॥ ३१.६५ ॥

॥ इति पुण्यवर्ग एकत्रिंशः ॥


(३२) देववर्गः

सौगतमार्गे चरन्तः पुरुषा देवतुल्याः

पन्थानो मुनिना शास्त्रे उक्ता ये तत्त्वदर्शिना ।
तैस्तु सम्प्रस्थितास्ते (हि) पुरुषा देवसम्मताः ॥ ३२.१ ॥

सुगतोक्तो मार्गः

सत्यं हि दानं च तथैव मैत्री सत्त्वेषु रक्षा प्रियवादिता च ।
सम्यक्त्वदृष्टिर्विमलं मनश्च पन्थानमाहुस्त्रिदिवस्य बुद्धाः ॥ ३२.२ ॥
शुक्लधर्मसमायुक्तः शुक्लचित्तसमन्वितः ।
सुखात्सुखतरं याति ज्योतिर्ज्योतिःपरायणः ॥ ३२.३ ॥
ज्योति(हि)र्ज्योतिषा पूर्ण दीपो दीपान्तराद्यथा ।
तस्माद्धि परमांल्लोकान् प्रयाता सम्प्रपद्यते ॥ ३२.४ ॥

आचारवान् देवानामन्तिकं व्रजेत्

यस्य शुद्धं सदा चित्तं निर्मलं मणिवत्सदा ।
स शान्तो निर्ममो धीमान् देवानामन्तिकं व्रजेत् ॥ ३२.५ ॥
ध्यानशीलसमाधिभ्यो यस्य चित्तं शुभान्वितम् ।
स धीमान् काञ्चनप्रख्यो देवानामन्तिकं व्रजेत् ॥ ३२.६ ॥
प्राणातिपाताद्विरतः सर्वसत्त्वदयापरः ।
ऋतुस्रोतोऽनुकम्पाश्च देवानामन्तिकं व्रजेत् ॥ ३२.७ ॥
श्रुतवान् सर्वलोकस्य क्रूरकर्मविवर्जितः ।
अलिप्तः पापकैर्धर्मैर्देवानामन्तिकं व्रजेत् ॥ ३२.८ ॥
तृणवत्काञ्चनं यस्य कामा यस्य विषोपमाः ।
स कामवर्जको धीमान् देवानामन्तिकं व्रजेत् ॥ ३२.९ ॥
नाकृष्यते मनः कामैर्विषयै रागहेतुभिः ।
समन्तात्भवकान्तारैर्देवानामन्तिकं व्रजेत् ॥ ३२.१० ॥
भिन्नाः परम्परा आदौ मित्रवान् धनबान्धवः ।
यः करोति सुसंश्लिष्टा देवानामन्तिकं व्रजेत् ॥ ३२.११ ॥
यस्य बुद्धिस्थितं वेश्म न बुद्धिः क्वापि रागिणी ।
स जितारिर्विशुद्धात्मा देवानामन्तिकं व्रजेत् ॥ ३२.१२ ॥
प्रशस्तकायकर्मान्तो यः पापविरतः सुखी ।
स कामविरतो ध्यायी देवानामन्तिकं व्रजेत् ॥ ३२.१३ ॥
पापमित्रविनिर्मुक्तस्तृष्णाविषविवर्जितः ।
न बद्धः स्त्रीभयैः पाशैर्देवानामन्तिकं व्रजेत् ॥ ३२.१४ ॥
प्रयत्नवादी यो धर्मे दानशीलसमाधिमान् ।
नित्योद्युक्तो दृढमतिर्देवानामन्तिकं व्रजेत् ॥ ३२.१५ ॥
सम्यग्बन्धनो येन पाशश्छिन्नो यथासिना ।
सच्छिन्नपाशः स्ववशी देवानामन्तिकं व्रजेत् ॥ ३२.१६ ॥

शुभकर्मविपाकेन देवलोके उद्भवः

मनुष्यभूता ये सत्त्वाश्चरन्ति सुकृतावहाः ।
तेन कर्मविपाकेन सुरलोके प्रसूयते ॥ ३२.१७ ॥

धर्मपथाश्रिता एव बलिनः

मनुष्याणां बलाद्देवा देवानां बलिनो नराः ।
अन्योन्यबलिनो ते ये सद्धर्मपथमास्थिताः ॥ ३२.१८ ॥

तिस्त्रोऽपायभूमयः

देवानां सुगतिर्मर्त्याः मर्त्यानां सुगतिः सुराः ।
अपायभूमयस्तिस्रः शुभकर्मविवर्जिताः ॥ ३२.१९ ॥

सर्व सुखं धर्माधीनम्

धर्माधीनं सुखं सर्व धर्माधीना हि निर्वृतिः ।
धर्मः सुप्तेषु जागर्ति धर्मो हि परमा गतिः ॥ ३२.२० ॥

देवैरसुरा जिताः

धर्मेण निर्जितोऽधर्मः सत्येनानृतिको जितः ।
ज्ञानेन वर्जितो मोहो देवैस्तु ह्यसुरा जिताः ॥ ३२.२१ ॥

देवलोकं सुखोदयम्

सोपानभूता ये तानि कर्माणि त्रिदिवस्य हि ।
योनिं त्यक्त्वा नरा यान्ति देवलोकं सुखोदयम् ॥ ३२.२२ ॥

वाक्संयमेन बुधास्त्रिदिवं सुखं भुञ्जन्ति

चतुर्विधो वाङ्नियमः कोऽपि त्रिविधपञ्चधा ।
सप्तसोपानमारूप्यं गच्छन्ति त्रिदिवं बुधाः ॥ ३२.२३ ॥
प्रभया ते च दिव्यन्तः स्वशरीरेण जातया ।
रमन्ते स्वर्गभुवने रञ्जिताः स्वेन कर्मणा ॥ ३२.२४ ॥

शीलमेव शुभस्य कारणम्

नित्यामोदविहारा(ये) नित्यं सौख्यविहारिणः ।
यद्देवा देवभवने शीलं तत्र हि कारणम् ॥ ३२.२५ ॥
यदप्सरः परिवृता यत्सूर्यशशिसन्निभाः ।
देवाः समन्ताद्देवेषु तत्सर्वशुभहेतुकम् ॥ ३२.२६ ॥
यदीप्सितं सम्भवति सम्भूतं च न हीयते ।
वर्तते च शुभं नित्यं तत्सर्व शुभहेतुकम् ॥ ३२.२७ ॥

शुभचारी देवानां समतां व्रजेत्

शुभचारी सदा दानी सर्वभूतदयारतः ।
दानमैत्र्या सदा युक्तो देवानां समतां व्रजेत् ॥ ३२.२८ ॥
प्राणातिपाताद्विरतः सर्वसत्त्वदयापरः ।
सम्यगाजीवकर्मान्तो देवानां सङ्गतिं व्रजेत् ॥ ३२.२९ ॥
अदत्ते न रतिः किञ्चिद्दाने चास्य सदामतिः ।
शान्तेन्द्रियमतिर्धीमान् देवसङ्गतिमश्नुते ॥ ३२.३० ॥
मिथ्याकामैर्विमुक्तो यः सत्पथाभिरतः सदा ।
निर्वाणकांक्षी विमलो देवानामन्तिकं व्रजेत् ॥ ३२.३१ ॥
विमनस्कं हि यत्प्रीते पुरुषे कुरुते लघु ।
मद्यवर्जी परं धीरो देवानामन्तिकं व्रजेत् ॥ ३२.३२ ॥

प्रमादविरहितः सुखमाप्नोति

सुख (प्राणो) हि यो देवः प्रमादं नानुसेवते ।
सुखात्सुखमवाप्नोति निर्वृत्तिं चाधिगच्छति ॥ ३२.३३ ॥
क्षयावसानं तत्सौख्यं निर्वाणमिति शाश्वतम् ।
तत्सप्राप्यविमानेषु राजन्ते पुरुषोत्तमाः ॥ ३२.३४ ॥
उच्चादुच्चरो मेरुस्तस्मादुच्चं सदा सुखम् ।
शुभेन नियतो जन्तुरकनिष्ठान् सुरान् (जयेत्) ॥ ३२.३५ ॥
निरवद्ये कुतस्तृप्तिर्देवलोके विशेषतः ।
अतीव सौख्यं लभते कस्माद्देवेषु सर्वदा ॥ ३२.३६ ॥

कः सौख्यमुपलभ्यते?

तृष्णाग्निपरिदग्धेन न सौख्यमुपलभ्यते ।
एवं सुकृतदग्धेन न सौख्यमुपलभ्यते ॥ ३२.३७ ॥
त्रिविधं सुकृतं कृत्वा त्रिप्रकारं त्रिहेतुकम् ।
एतदग्र्यं त्रिभूमिष्ठं (त्रिगुणं च) फलं महत् ॥ ३२.३८ ॥
अहिंसादानपरमा ये सद्धर्मपरायणाः ।
सत्यक्षान्तिदमैर्युक्ताः त्रिदिवं(ते) समागताः ॥ ३२.३९ ॥
दिव्याभरणसम्पन्ना दिव्यमाल्यविभूषिताः ।
यद्देवा दिव्यमतयः (कुर्वन्ति) शुभमेव तत् ॥ ३२.४० ॥
देवानां यन्महत्सौख्यं(न)न्यूनाधिक्यमास्थितम् ।
न्यूनमध्यं तु यस्यैतत्फलं पुण्यस्य दृश्यते ॥ ३२.४१ ॥

पुण्यकर्ता देवलोकं गच्छति

येन यावद्धि यत्पुण्यं कृतं भवति देहिना ।
तस्य तावद्धि तत्सौख्यं देवलोकेषु पच्यते ॥ ३२.४२ ॥

शीलसंरक्षणमावश्यकम्

स्वागतं तव भो भद्र! सुकृतं कृतवानसि ।
सप्तधा रक्षितं शीलं तस्यैतत्फलमागतम् ॥ ३२.४३ ॥

रमस्व सह दैवतैः

वनोपवनशैलेषु पद्माकरवनेषु च ।
हर्म्याग्रेषु रमस्व (त्वं काञ्चनेषु) सदैवतः ॥ ३२.४४ ॥
वनोपवनशैलेषु वैदूर्यशिखरेषु च ।
वनाद्रिषु च नैकेषु रमस्व सह दैवतैः ॥ ३२.४५ ॥
कल्पवृक्षेषु रम्येषु नदीप्रस्त्रवणेषु च ।
सरित्सु च विशालासु (रमस्व) सह दैवतैः ॥ ३२.४६ ॥
स्त्रोतस्विन्यादियुक्तेषु पर्वतेषु नदीषु च ।
नगरेषु महार्थेषु रमस्व सह दैवतैः ॥ ३२.४७ ॥
मदगन्धिप्ररोहेषु नीलोत्पलवनेषु च ।
यक्षसद्मसु रम्येषु रमस्व सह दैवतैः ॥ ३२.४८ ॥
भूमिभागेषु चान्तेषु रत्नाकरवनेषु च ।
विमानेषु च रम्येषु रमस्व सह दैवतैः ॥ ३२.४९ ॥
पञ्चाङ्गिकेन तूर्येण मनःप्रह्लादकारिणा ।
नृत्यमानः सुखी नित्यं रमस्व सह दैवतैः ॥ ३२.५० ॥
शीलबीजं शोधयित्वा शीलेषु विविधेषु च ।
क्रीड त्वं विविधैर्दिव्यैर्यथार्थमनुसेवसे ॥ ३२.५१ ॥
यत्प्रभामालिनो देवा रमन्ते विविधैः सुखैः ।
तच्छुभस्य फलं दृष्टं निर्मलस्य विशेषतः ॥ ३२.५२ ॥
यदेतैर्विविधैः सौख्यैर्देवाः क्रीडन्त्यनेकशः ।
न वयं हेतवस्तत्र (तत्र हेतुः) पुराकृतम् ॥ ३२.५३ ॥
कूटागाराणि सर्वाणि कर्मचित्राणि सर्वदा ।
भुनक्ति देवो देवेषु सत्कृतेनोपबृंहितः ॥ ३२.५४ ॥
पाशत्रयविमुक्तस्य पञ्चभिः पालितस्य वै ।
एकधर्मव्यतीतस्य देवलोको महीयते ॥ ३२.५५ ॥
प्रमुद्यच्चेतसां पुंसां स्पष्टचेष्टा समाहिता ।
आगता देवसदनं स्वकर्मफलसाक्षिणी ॥ ३२.५६ ॥

सुकृतफलम्

उपर्युपरि सौख्यानि (तथा च) सुकृतस्य वै ।
भुञ्जन्ति विबुधाः स्वर्ग यद्धि पूर्वकृतानुगम् ॥ ३२.५७ ॥
साक्षिभूता इमे सर्वकर्मणां विविधा द्रुमाः ।
निरन्तरं सुसदृशं कथयन्ति मनीषिणः ॥ ३२.५८ ॥

भाग्यं फलति सर्वत्र

येन येन विपाकेन यत्र यत्रोपपद्यते ।
पुरुषो लभते स्वस्य प्रारब्धस्य शुभाशुभम् ॥ ३२.५९ ॥

शुभकर्मणा प्राणी नित्यं देवेषु जायते

शुभेन कर्मणा जन्तुर्नित्यं देवेषु जायते ।
तथाशुभेन नरके पतन्ति पुरुषाधमाः ॥ ३२.६० ॥

कामिनो मरणं नावगच्छन्ति

शुभाशुभाभ्यां संरक्ताः कामिनः काममोहिताः ।
नावगच्छन्ति मरणं यदवश्यं भविष्यति ॥ ३२.६१ ॥
शुभाशुभविपाकोऽयं यो वृक्षेषूपलभ्यते ।
न सौख्याद्विरमन्त्येते मनः सौख्येन मोहिताः ॥ ३२.६२ ॥

सुकृतं कृत्वा मानवाः देवेषु यान्ति

त्रिविधं सुकृतं कृत्वा भावयित्वा च सप्तधा ।
त्रिसंख्याकान् रिपून् हत्वा यान्ति देवेषु मानवाः ॥ ३२.६३ ॥

कः देवानामन्तिकं व्रजेत्?

नासूयति क्रियाक्लेशान्न च नन्दीमसूयति ।
स नन्द्यसूयकः शुद्धो देवानामन्तिकं गतः ॥ ३२.६४ ॥
विनिन्द्य मात्सर्यमिदं दुःखस्यायतनं महत् ।
समं च त्रिविधं दत्त्वा देवानामन्तिकं गतः ॥ ३२.६५ ॥
प्राणिनां प्रणयं नित्यं रक्षयित्वानुकम्पया ।
मैत्रचित्तः सदा दान्तो देवानामन्तिकं गतः ॥ ३२.६६ ॥
अदत्तं च धनं दत्त्वा दत्त्वानन्दं च सर्वतः ।
चेतनाभावितमतिर्देवानामन्तिकं व्रजेत् ॥ ३२.६७ ॥
मातृवत्परदारांश्च दृष्ट्वा तत्त्वार्थचिन्तकः ।
अलिप्तो पापकैर्धर्मैर्देवानामन्तिकं व्रजेत् ॥ ३२.६८ ॥
(कृतः) स्वचित्तप्रीत्यर्थ जिह्वारणिसमुद्भवः ।
कथ्यते स मृषावादस्तं हित्वा सुगतिं व्रजेत् ॥ ३२.६९ ॥
पैशून्यं च सदा हित्वा मैत्र्यनर्थकरं पदम् ।
श्लक्ष्णप्रभः श्लक्ष्णमतिः देवानामन्तिकं व्रजेत् ॥ ३२.७० ॥
पारुष्यं शत्रुवद्धीरो वर्जयत्येव सर्वदा ।
श्लक्ष्णप्रभामतिर्नित्यं सर्वेषु गतिगामिकः ॥ ३२.७१ ॥
अधर्मो यस्य जिह्वाग्रे न भूतो न भविष्यति ।
सदा दुष्कालतत्त्वज्ञो देवानामन्तिकं व्रजेत् ॥ ३२.७२ ॥
येनेदं रक्षितं शीलं सप्तधा बुद्धदेशितम् ।
स धीरः शीलतत्त्वज्ञो देवानामन्तिकं व्रजेत् ॥ ३२.७३ ॥

कः सफलः धर्मज्ञः?

विविधकर्मवशगं जन्मेदं लभते सुरैः ।
तत्प्राप्य यो न धर्मज्ञः स पश्चात्परितप्यते ॥ ३२.७४ ॥

सुकर्मणा शुभजं फलम्

वनोपवनरम्योऽयं लतावेदिकमण्डपः ।
यद्विचित्रमयो लोकस्तत्सर्व शुभजं फलम् ॥ ३२.७५ ॥
येन येन यथा कर्म कृतं भवति शोभनम् ।
तस्य तस्य तथा दृष्टं फलं तदनुगामिकम् ॥ ३२.७६ ॥
प्रत्यक्षं दृश्यते देवैर्हीनमध्योत्तमं सुखम् ।
येन येन यथा चीर्णं तस्य तस्य तथा फलम् ॥ ३२.७७ ॥

कुकर्मणा दुःखजं फलम्

विचित्रवेषाः संमूढा देवा मोहवशानुगाः ।
तन्नाशान्मनसा मूढा न पश्यन्ति महद्भयम् ॥ ३२.७८ ॥
विचित्रकामरतयो विचित्रफलकाङ्क्षिणः ।
न वा कुर्वन्ति कर्माणि तेऽसुरा मूढचेतसः ॥ ३२.७९ ॥

के प्रेमपरायणाः?

फलं येषां प्रियं चित्तं न च शीले रता मतिः ।
ते प्रदीपं परित्यज्य प्रेमालोकपरायणाः ॥ ३२.८० ॥

हेतुफलतत्त्वज्ञाः सुखिनो भवन्ति

ये हेतुफलसादृश्येनेच्छन्ति सुरसत्तमान् ।
ते हेतुफलतत्त्वज्ञा भवन्ति सुखभागिनः ॥ ३२.८१ ॥

ज्ञानादेव मुक्तिः

विनाबीजं फलं नास्ति विना दीपं कुतः प्रभा? ।
विना शीलैः कुतः स्वर्गो मुक्तिर्ज्ञानं विना कुतः? ॥ ३२.८२ ॥

कः धीमतः?

तत्सुखं तद्विमुक्तस्य गतकाङ्क्षस्य तायिनः ।
विमुक्तकामतृष्णस्य निर्ममस्य च धीमतः ॥ ३२.८३ ॥

सुकर्मैः सुखं भवत्येव

यदिदं कर्मजं सौख्यं सर्व (तज्ज्ञेय) कल्मषम् ।
यं नेष्टकं भवत्येव तत्सर्वममलं स्मृतम् ॥ ३२.८४ ॥

देवलोकस्य वर्णनम्

यो मनोरथकृत्स्नस्य बहिरन्तश्च (सर्वतः) ।
सर्वालोकः सदालोको देवतागणसेवितः ॥ ३२.८५ ॥
विराजते गिरिवरो रत्नमाणिक्यसन्निभः ।
प्रभूतसलिलो यश्च पद्मिनीभिः समावृतः ॥ ३२.८६ ॥
वनोपवनरम्योऽयं मृगपक्षिनिषेवितः ।
कन्दरोदरसंरम्भो भित्वा गगनमुत्थितः ॥ ३२.८७ ॥

कुत्र देवतैः सेव्यते?

सेव्यते देवतैर्नित्यं दिव्यमाल्यविभूषितैः ।
नृत्यगीतप्रकृष्टाभिर्देवताभिश्च सर्वतः ॥ ३२.८८ ॥
पञ्चाङ्गिकेन तूर्येण प्रेरित इव लक्ष्यते ।
शिरोभूतो महारम्यः प्रभामाली समन्ततः ॥ ३२.८९ ॥
सुकृतेन शुभेनायं कर्मणाधिगुणेन वै ।
यं समाश्रित्य क्रीडन्ति देववृन्दानि सर्वतः ॥ ३२.९० ॥

के स्वर्ग गच्छन्ति?

दानशीलयुता वृद्धा नित्यं तद्गतमानसाः ।
ये भवन्ति सदा दान्तास्ते जनाःस्वर्गगामिनः ॥ ३२.९१ ॥
संक्षिप्तमनसः शान्तास्ते जनाः स्वर्गगामिनः ।
वैरिणां विषयो नित्यं प्रशान्तमनसस्तु ये ॥ ३२.९२ ॥
(वीतरागा वीतमोहास्ते जनाः) स्वर्गगामिनः ।
भवाभवेन तीव्रेण बाधते (यत्र) साधनम् ।
सुदान्तमानसां धीरास्ते जनाः स्वर्गगामिनः ॥ ३२.९३ ॥
सत्यमार्गविलम्बेन हयतीव सुखभागिनः ।
सारासारविधिज्ञाश्च ते जनाः स्वर्गगामिनः ॥ ३२.९४ ॥
संसारे ये न रक्षन्ति स्वमनो (ननु) देहिनः ।
निर्वाणाभिरता नित्यं ते जनाः स्वर्गगामिनः ॥ ३२.९५ ॥
वृक्षमूले श्मशाने वा तथा च गिरिकन्दरे ।
ध्यायिनः सत्त्वमनसस्ते जनाः स्वर्गगामिनः ॥ ३२.९६ ॥
मात्रज्ञा देशकालज्ञाः पापमित्र(वि)वर्जिताः ।
मैत्रेण चेतसा ये तु ते जनाः स्वर्गगामिनः ॥ ३२.९७ ॥
न स्नानदर्शनरता नराः मन्मथवारिणा ।
एकान्तगामिनः शान्तास्ते जनाः स्वर्गगामिनः ॥ ३२.९८ ॥
क्षणे क्षणे सदा कायं पश्यन्त्यशुचिसम्भवम् ।
कार्याकार्यविधिज्ञा ये ते जनाः स्वर्गगामिनः ॥ ३२.९९ ॥
धर्माणां धर्मतां ये च पश्यन्ति विविधा समाः ।
न च रक्षन्ति संसारे ते जनाः स्वर्गगामिनः ॥ ३२.१०० ॥
वेदना मध्यतत्त्वान्तमनेकविधसम्भवम् ।
पश्यन्ति च न रक्षन्ति ते जनाः स्वर्गगामिनः ॥ ३२.१०१ ॥
मायोपमं च क्षणिकं गन्धर्वनगरोपमम् ।
ये जानन्ति (सदा) चित्ताः ते जनाः स्वर्गगामिनः ॥ ३२.१०२ ॥
एकलक्षणतत्त्वज्ञा विलक्षणविदः स्वयम् ।
निर्वाणरागमनसस्ते जनाः स्वर्गगामिनः ॥ ३२.१०३ ॥
मातृवत्परदारान् ये पितृवत्सर्वदेहिनः ।
पश्यन्ति ये भयं लोके ते जनाः स्वर्गगामिनः ॥ ३२.१०४ ॥
शून्यवर्गगतो नित्यं सत्त्वानां प्रियवादिनः ।
अक्रूरा ऋद्धिमनसस्ते जनाः स्वर्गगामिनः ॥ ३२.१०५ ॥
काष्ठवल्लोष्ठवत्सर्व परवित्तसमीक्षकाः ।
संतुष्टाः स्वेन चित्तेन ते जनाः स्वर्गगामिनः ॥ ३२.१०६ ॥
न रात्रौ न दिवा येषां कौसीद्यद्युतिरिष्यते ।
नित्योद्युक्तविहारा ये ते जनाः स्वर्गगामिनः ॥ ३२.१०७ ॥
कौकृत्यं स्त्यानमिद्धं च कौसीद्यं च विशेषतः ।
वर्जयन्ति सदा धन्यास्ते जनाः स्वर्गगामिनः ॥ ३२.१०८ ॥

दौःशील्यं पञ्चरन्ध्रेभ्यः परिशुद्धमनेकधा ।
संक्षिपन्ति सदा दुःखं ते जनाः स्वर्गगामिनः ॥ ३२.१०९ ॥
उपादानचतुष्ट्वज्ञाः सत्यानि च तथैव च ।
ये पश्यन्ति बुधाः प्रज्ञां ते जनाः स्वर्गगामिनः ॥ ३२.११० ॥
दुःखं दुःखविपाकश्च दुःखेषु च मनश्च यत् ।
पश्यन्ति ये सदा तत्त्वं ते जनाः स्वर्गगामिनः ॥ ३२.१११ ॥
तीव्रव्यसनमापन्ना ये (च) धर्माविमुञ्चकाः ।
शान्ताश्च धर्ममतयस्ते जनाः स्वर्गगामिनः ॥ ३२.११२ ॥
शुक्लावदातं ये वस्त्रं पांसुकूलं तथैव च ।
पिण्डपातरता नित्यं ते जनाः स्वर्गगामिनः ॥ ३२.११३ ॥
अदण्डाः शान्तमनसो नित्यं ध्यानविहारिणः ।
नैष्कर्म्यनिरताः सर्वे ते जनाः स्वर्गगामिनः ॥ ३२.११४ ॥
मृष्टं च यदि वाङ्मृष्टं यथेच्छाविधिमागतम् ।
सन्तुष्यन्ति न कुप्यन्ति ते जनाः स्वर्गगामिनः ॥ ३२.११५ ॥
शुक्लावदातं ये वस्त्रं पांसुकूलं तथैव च ।
संवृतौ चैव संतुष्टास्ते जनाः स्वर्गगामिनः ॥ ३२.११६ ॥
शय्यातले यथा भूमौ हर्म्याग्रे वा तथापरे ।
न दुष्यन्ति (न हृष्यन्ति) ते जनाः स्वर्गगामिनः ॥ ३२.११७ ॥
चक्षुर्विषयमापन्नं यत्कर्म साम्परायिकम् ।
तत्त्वतो ये प्रपश्यन्ति ते जनाः स्वर्गगामिनः ॥ ३२.११८ ॥
अप्रियं वा प्रियं वापि ये श्रुत्वा तीव्रसम्भ्रमात् ।
अक्षुब्धमतयो मुक्तास्ते जनाः स्वर्गगामिनः ॥ ३२.११९ ॥
षडिन्द्रियाणि सर्वाणि विषयांस्तु तथैव च ।
संक्षिपन्ति न रक्षन्ति ते जनाः स्वर्गगामिनः ॥ ३२.१२० ॥
यथा कर्म कृतं सर्वमविशेषेण तत्त्वतः ।
पश्यन्त्यमनसो धन्यास्ते जनाः स्वर्गगामिनः ॥ ३२.१२१ ॥
कर्मणां च विपाकं च कृतं (ये धीरचेतसा) ।
बिभ्यतीह सदा दुःखेते जनाः स्वर्गगामिनः ॥ ३२.१२२ ॥
इत्येतानि महार्थानि नित्यं दुःखकराणि च ।
कुर्वन्ति विधिवत्सर्व ते जनाः स्वर्गगामिनः ॥ ३२.१२३ ॥

॥ इति देववर्गो द्वात्रिंशः ॥


(३३) सुखवर्गः

सुखस्वरूपनिरूपणम्

अनुत्तरेषु सौख्येषु ध्यानोपात्तेषु ये रताः ।
तेषां सुखं यथावत्स्यात्निर्वाणपुरदर्शकम् ॥ ३३.१ ॥
नवेन सुखदुःखेन पुराणमभिहन्यते ।
देवस्यैतन्नवेनैव पुराणमभिहन्यते ॥ ३३.२ ॥
धू(म) मिश्रं यथा काष्ठं वि(ष्ठा) मिश्रं यथोदनम् ।
तथा सुखमिदं सर्वमस्वत्वं नावगम्यते ॥ ३३.३ ॥

निर्वाणपुरगामिनां सुखम्

तत्सुखं यद्वितृष्णानामेकान्तसुखचारिणाम् ।
निर्मोहिणामरागाणां निर्वाणपुरगामिनाम् ॥ ३३.४ ॥
तेषां विमलमाद्यन्तं सौख्यानामपि तत्सुखम् ।
येषां तृष्णानुगा चाशा सर्वथा नैव चेतसि ॥ ३३.५ ॥
सङ्गृहीतस्य चित्तस्य निरात्मस्य च सर्वतः ।
कार्याकार्येषु मूढस्य सुखं नित्यमुपस्थितम् ॥ ३३.६ ॥

कः श्रेष्ठः सुखी?

सा बहिर्निहता येन नन्दिसंसारहेतुकी ।
स धीरः पारगः श्रेष्ठः सुखी निर्वाणमाश्रितः ॥ ३३.७ ॥
नैतत्सुखेन तृष्णानां यद्रागद्वेषसंयुतम् ।
यत्र रागादिनिर्मुक्तं तत्सुखं निर्मलं मतम् ॥ ३३.८ ॥

कुत्र तृष्णा न बाधते?

देवलोके समासाद्य यः सुरो नावमन्यते ।
स सुखात्सुखतां याति यत्र तृष्णा न बाधते ॥ ३३.९ ॥

तदन्त्यसुखि श्रेयो यत्र मृत्युर्न विद्यते ।

मृत्युपाशैर्न बद्धस्य न सुखं विद्यते क्वचित् ।
यत्सुखं कामजनकं न तत्सौख्यं सतां मतम् ॥ ३३.१० ॥
यत्र कामविनिर्मुक्तस्तत्सुखात्सुखमुत्तमम् ।
यत्सुखं जनयेत्श्रेयः (पयोमिश्रं) यथोदनम् ॥ ३३.११ ॥
यत्र तृष्णाविनिर्मुक्तिः पयोमिश्रं यथोदनम् ।
यथा पद्मवने गृद्धा यान्ति(ते) क्रव्यभक्षिणः ॥ ३३.१२ ॥
एवं शान्तेष्वरण्येषु न भान्त्यशुभचारिणः ।
क्वचिच्छान्तं वनं रम्यं क्वचिद्देवाः प्रमादिनः ॥ ३३.१३ ॥

कः परमं सुखं प्राप्नोति?

विपरीतं न सदृशं भानोः शीता यथा प्रभा ।
गततृष्णस्य यत्सौख्यं मुक्तदुःखस्य तायिनः ॥ ३३.१४ ॥
तस्यान्तरेण सौख्यस्य सुखमेतन्न गण्यते ।
ध्यायिनस्त्वप्रमत्तस्य मुक्तपापस्य सर्वदा ॥ ३३.१५ ॥
तत्सुखं तत्परं सौख्यं नेदं तृष्णाविदां मतम् ।
मुनिसेव्यं वनमिदं सेवितं च सुभाषितैः ॥ ३३.१६ ॥
नार्हा (यूयं) रागगणं सेवितुं भो सुरोत्तमाः ।
यदेतद्भवतां सौख्यमेतन्न खलु शाश्वतम् ॥ ३३.१७ ॥
तत्सुखं परमं शान्तं वीततृष्णै निषेव्यते ।
निःसेवितं वनमिदं ये गताः परमं पदम् ॥ ३३.१८ ॥
यत्प्राप्य सर्वदुःखस्यच्छेदो भवति सर्वथा ।
ब्रह्मचर्यादनिर्मुष्टाः शीलालापेन वञ्चिताः ॥ ३३.१९ ॥

भिक्षूणां वने वास एव सुखावहः

नार्हन्ति सेवितुं रम्यं वनं शान्तं सुभाषितम् ।
शान्तं च भावितं (चैव) रमते शुभगोचरे ॥ ३३.२० ॥
न रागचारिणां चित्तं रमते वनगोचरे ।
न रागव्याकुलं चित्तं वनेषु लभते धृतिम् ॥ ३३.२१ ॥

कः पुरुषोत्तमः?

श्रव्यामूढा मतिर्यस्य नित्यं त्रिभुवनं करे ।
स रतिं लभते शान्तिं वने पुरुषसत्तमः ॥ ३३.२२ ॥

सुखाय वनं सेव्यम्

स कल्परागकुटिलो नित्यं रागादिभिर्वृतः ।
स शान्तिं नैव लभते वने शान्ते सुखावहे ॥ ३३.२३ ॥
येषां तु मनसा नित्यं वने ध्याननियोगिनाम् ।
वनं तेषां सदारम्यं न तु रागगवेषिणाम् ॥ ३३.२४ ॥
वनेषु भावितं चित्तं नगरेषु न कुप्यते ।
तस्माद्वनं सदा सेव्यं नगरं नैव शस्यते ॥ ३३.२५ ॥
विक्षिप्यते हि नगरे नृणां रागादिभिर्वृतः ।
विक्षिप्त मोहकुटिलं वनं भूयः प्रसीदति ॥ ३३.२६ ॥
तस्माद्वनं परं शान्तं योगिनामालयं महत् ।
संसेव्यं वीतमनसा यस्य तद्वीतकल्मषम् ॥ ३३.२७ ॥

रतिं मा कृथा

प्रशान्तेन्द्रियचित्तस्य या रतिर्योगिनो हृदि ।
नासौ शक्तिः सहस्रस्य (मानवानां) भविष्यति ॥ ३३.२८ ॥
या ध्यायिनो रतिर्दृष्टा व्यवदानाय सर्वदा ।
न यामेष्वपि सा दृष्टा नित्यं रागानुरागिणी ॥ ३३.२९ ॥
रतिर्या कामवशगा सा नित्यं दुःखसम्भवा ।
या तु क्लेशवशात्प्रीतिः (सा प्रीतिः) शाश्वता नहि ॥ ३३.३० ॥

कः श्रेयस्पदं प्राप्नोति?

श्रेयो वनेषु चरितं तत्तदुच्चरितं नृभिः ।
यस्मात्तत्प्रतिबद्धं हि श्रेयसां पदमुच्यते ॥ ३३.३१ ॥
सुसम्भृतेन धर्मेण रक्षितेनेव चेतसा ।
सुदृष्टं लभते स्थानं यत्र दोषो न विद्यते ॥ ३३.३२ ॥
यः क्षिप्तमनसा नित्यं न च धर्मपरायणः ।
तेषां वृथा सुखमिदं गच्छति न निवर्तते ॥ ३३.३३ ॥

तत्त्वज्ञा दुःखं न पश्यन्ति

ये तु तत्त्वविदो धीराः पश्यन्ति जगतः स्थितिम् ।
अनित्यदुःखशून्यानां तेषां दुःखं न विद्यते ॥ ३३.३४ ॥
सुखधर्मस्य चरणं ज्ञानस्य च निषेवणम् ।
अहिंसा सत्यवचनं तदप्येकान्ततः स्थितम् ॥ ३३.३५ ॥

कः स्वर्ग याति?

एकधर्मव्यतीता ये येऽधर्मपरिवञ्चकाः ।
त्रिस्थानलक्षणाविष्टास्ते जनाः स्वर्गगामिनः ॥ ३३.३६ ॥

सुखस्य स्वरूपम्

उदयव्ययधर्माणामनित्यं कर्मजं हि तत् ।
तत्सुखं सास्त्रवं नित्यं न भूतं न भविष्यति ॥ ३३.३७ ॥
तत्सुखं तद्वितृष्णस्य नीरागस्य हि देहिनः ।
मुक्तिर्भवति दोषस्य पारस्थस्य हि तापिनः ॥ ३३.३८ ॥
तत्किञ्चित्सास्रवं सौख्यं तत्सर्व क्षणिकं मतम् ।
रागबन्धाद्विनिर्मुक्तं तत्सर्व निश्चलं सुखम् ॥ ३३.३९ ॥
ये न क्षिपन्ति दुःखेन सुखे येषां न सङ्गतिः ।
ते दुःखसुखनिर्मुक्ता निर्वाणसुखगामिनः ॥ ३३.४० ॥
अनुपायेन ये मूढाः प्रार्थयन्ति सुखं सदा ।
बालुकाभिर्यथा तैलं यल्लभ्यं नित्यमेव तत् ॥ ३३.४१ ॥
न चेतसा नरः प्राज्ञो मनोरथशतैरपि ।
शक्रोऽपि तत्सुखं कर्तु यथा कर्म कृतं महत् ॥ ३३.४२ ॥

सुखाय धर्ममाचरेत्

ससुखं यस्य तु मनः सद्धर्मानुचरो भवेत् ।
दुःखैर्मुक्त्यभिलाषोऽयं स धर्मे कुरुते मतिम् ॥ ३३.४३ ॥
नाहेतुकं सुखं दृष्टं दुःखं वा त्रिविधात्मकम् ।
सुखे दुःखे पृथग्भावे तस्मान्नु सुकृत चरेत् ॥ ३३.४४ ॥
नेदं सौख्यं सदा शस्तमध्रुवं विप्रलोपि च ।
तृष्णाविषेण सम्मिश्रं विषमिश्रं यथोदनम् ॥ ३३.४५ ॥
तत्सौख्यं (हि)सतां शस्तं यत्र मृत्युर्न विद्यते ।
न च प्रियेण विश्लेषो नाप्रियेण समागमः ॥ ३३.४६ ॥

कीदृशं सुखं दुःखजनकम्?

यदेतत्स्त्रीमयं सौख्यमेतद्दुःखाय कल्प्यते ।
तद्बीजवर्तका दृष्टा नरकेषूपपत्तये ॥ ३३.४७ ॥
यत्सुखं दुःखजनकं कथं तत्सुखमिष्यते?
दुःखाद्दुःखतरं ज्ञेयं परिणामवशेन तत् ॥ ३३.४८ ॥
यदेतद्भुज्यते सौख्यमेतत्कालेन नश्यति ।
सूर्यस्तास्तङ्गतस्यैवं रश्मयः सह चारिणः ॥ ३३.४९ ॥
विकृतिं यस्य (च) मनः सुखदुःखैर्न गच्छति ।
स धीमान् सुरलोके च गत्वान्यल्लभते सुखम् ॥ ३३.५० ॥
भुक्तं सुखं पुराणं तु हीनकर्म करोति च ।
पुराणं सुकृतं शीर्ण मृत्युकाले न बुध्यते ॥ ३३.५१ ॥

सर्व सुखमनित्यं भवति

यदिदं दृश्यते सौख्यं मनोवाक्कामजंभृशम् ।
अनित्यं तद्विनाशत्वमचिरेण भविष्यति ॥ ३३.५२ ॥
फेनबुद्बुदसङ्काशं मरीच्युदकसन्निभम् ।
चञ्चलोर्मि सुखं सर्व विनिपातो भवार्णवे ॥ ३३.५३ ॥
निष्प्रतीकारविषमः सर्वभूतभयावहः ।
चक्रवातप्रवेगो (वै) मृत्युराजैष धावति ॥ ३३.५४ ॥
नाशयित्वा सुखं सर्व नाशयित्वा च जीवितम् ।
कर्मसङ्कल्पवाह्येषु लोकमन्यत्र नेष्यति ॥ ३३.५५ ॥
यदतीव सुखं नृणां तद्धि सौख्याय कल्प्यते ।
यन्नैष्यति सुखं किञ्चित्तद्धि नैव विगण्यते ॥ ३३.५६ ॥
वर्तमानं तु यत्सौख्यं तृष्णाविषविवर्जितम् ।
सर्व ह्यनात्मजं दुःखमनित्यं संस्कृतं बलम् ॥ ३३.५७ ॥

लौकिकं सुखं न सुखम्

यद्सुखं त्रिषु लोकेषु न शस्तं तत्त्वदर्शिभिः ।
तेन मत्वा कथं देवा भवन्ति विगतज्वराः? ॥ ३३.५८ ॥
अविष्टोवतकालोऽयं भैरवो याति सत्त्वरम् ।
यो भोक्ष्यते सुरान् सर्वान् शुष्केन्धनमिवानलः ॥ ३३.५९ ॥
अतियाति सुखं सर्व क्रियतां श्रैयसं मनः ।
मा पश्चात्संभवो योगे मृत्युकालो भविष्यति ॥ ३३.६० ॥

सुखमस्थिरं भवति

जन्मान्तरसहस्रेषु यद्मुक्तं कर्मजं सुखम् ।
तरङ्गसन्निभः क्वायं(जानीयाद्) बालिशोऽस्थिरम् ॥ ३३.६१ ॥

कः सुखेन प्रसीदति?

न सुखैस्तृप्यते बालस्तथा काष्ठैर्यथानलः ।
तस्मान्न (सुख) सक्तस्य सुखं भवति नैष्ठिकम् ॥ ३३.६२ ॥
विषस्य दोषमुक्तस्य कामदोषानुदर्शिनः ।
ध्यायिनश्चाप्रमतस्य तत्सुखं यदनाविलम् ॥ ३३.६३ ॥
सुखी भवति तत्प्राप्य न सुखं भवजन्मनः ।
बन्धमिश्रं विषं यद्वद्धर्मसौख्योदयस्तथा ॥ ३३.६४ ॥

कामविरहितः सुखमश्नुवते

तस्मात्तत्सुखसक्तानां नित्यं कामगवेषिणाम् ।
भवन्त्यनेकसौख्या(नि)तस्मात्कामो न जायते ॥ ३३.६५ ॥

ज्ञानेनैवेन्द्रियाणि स्वगोचरे निवर्तन्ते

नेन्द्रियाणां जयः शक्यः कर्त्तु विषयगोचरे ।
ज्ञानेन हि निवर्तन्ते इन्द्रियाणि स्वगोचरे ॥ ३३.६६ ॥

बाला एव गतिपञ्चके भ्रमन्ति

दुःखे सुखाभिसंसक्ता नित्यं बाला (हय)मेधसः ।
विपर्यया परिभ्रान्ता भ्रमन्ति गतिपञ्चके ॥ ३३.६७ ॥

कुत्र सुखं दुःखसदृशं भवति?

यदत्यन्तसुखं दृष्टं तत्सुखं सत्यमुच्यते ।
यत्र दुःखं विपाकं स्यात्तत्सुखं दुःखमेव तत् ॥ ३३.६८ ॥

पापस्याकरणमेव सुखम्

अन्यागतस्य दुःखस्य प्रतिघातयते बुधः ।
पापस्य हेतुजं दुःखं पापस्याकरणं सुखम् ॥ ३३.६९ ॥

॥ इति सुखवर्गो त्रयस्त्रिंशः ॥


(३४) मित्रवर्गः

कः पापान्निवारयति?

तन्मित्रं मित्रमित्युक्तं यन्मित्रं साम्परायिकम् ।
निवर्तयति यः पापाद्व्यसनाच्चापि रक्षति ॥ ३४.१ ॥
प्रवेशयति यन्नित्यं तद्धितं साम्परायिकम् ।
मित्रं भवति तन्नृणां न मित्रं पापकारकम् ॥ ३४.२ ॥

संसर्गजा दोषगुणा भवन्ति

अपूतिः पूतिसंश्लेषात्पूतिरेवोपजायते ।
न पूतिः पूतसंश्लेषमपूतिं कर्त्तुमर्हति ॥ ३४.३ ॥
यादृशेन (हि) संश्लेषं कुरुते पुरुषः सदा ।
तद्दोषात्सदृशो दृष्टः शुभो वा यदि वाशुभः ॥ ३४.४ ॥

न शुभं दुःखकारकम्

शुभार्थी पुरुषः सर्वानशुभान्नैव सेवते ।
तेनासौ दुःखमाप्नोति न शुभं दुःखकारणम् ॥ ३४.५ ॥

गुणदोषयोर्लक्षणम्

संश्लेषजा गुणाः दृष्टा दोषाः संश्लेषजातयः ।
लक्षणं गुणदोषाणामिदमुक्तं स्वभावजम् ॥ ३४.६ ॥
यशसा युज्यते यो हि नित्यं साधुसमागमात् ।
असाधुऽसङ्गमाच्छ्रीघ्रं प्रयाति पुरुषाधमः ॥ ३४.७ ॥

सत्सङ्गतिफलम्

एतत्सारं सदा कार्य यदसाधुविवर्जनम् ।
साधुभिश्च सदा वासो दुष्टाणां च विवर्जनम् ॥ ३४.८ ॥
दोषान् समुद्धरेद्धीमान् गुणवृद्धिं समाचरेत् ।
(साधु) मित्रं प्रकुर्वीत कौसीद्यविमुखो भवेत् ॥ ३४.९ ॥
न मानिनं कुसीदं वा नित्यं सर्वानुशङ्किनम् ।
लिप्तपापमतिक्रूरं मित्रं कुर्यान्न पण्डितः ॥ ३४.१० ॥
उद्युक्तं मृदुजातीयं धर्मिष्ठं दोषवर्जितम् ।
सम्यग्दृष्टिरचपलं मित्रं सेवेत पण्डितः ॥ ३४.११ ॥
न पापकं भवेन्मित्रं भवेदुत्तमपौरुषः ।
उत्तमं भजमानस्य न दोषेभ्यो भयं भवेत् ॥ ३४.१२ ॥

कः लघुतां याति?

रूपैश्वर्यकुलादीनि भिद्यन्ते (यस्य) देहिनः ।
भयप्रदं तं मातङ्गः प्रयान्तं नैव पश्यति ॥ ३४.१३ ॥
उद्वृत्तः पुरुषो नित्यं प्रमादाकुलितेन्द्रियः ।
लघुतां याति लोकेऽस्मिन् प्रेत्यपापेषु पच्यते ॥ ३४.१४ ॥
रूपैश्वर्यमदार्था ये ते नराः पापकारिणः ।
तेषां न सुशमं (कर्म) प्रेत्यपापेषु पच्यते ॥ ३४.१५ ॥
रूपैश्वर्यकुलार्था ये न ते तत्त्वस्य भागिनः ।
अतत्त्वबुद्धयो बाला न तरन्ति भवार्णवम् ॥ ३४.१६ ॥

ज्ञानशीलादियुतं कुलं श्रेष्ठम्

एतत्कुलं ये विभवा यच्चान्यत्सुखमिष्यते ।
सर्वाण्येतान्यनित्यानि तस्मात्तेषु न विश्रमेत् ॥ ३४.१७ ॥
न ज्ञानशीलनिर्मुक्तं कुशलं यान्ति पण्डिताः ।
येषां ज्ञानं च शीलं च ते कुले महति स्थिताः ॥ ३४.१८ ॥
चरितुं चामलं शीलं शीलमेव महाद्भुतम् ।
महाकुलप्रसूतास्ते (पण्डिताः) वशमानिनः ॥ ३४.१९ ॥
दानशीलतपोध्यानसत्यैश्वर्यपराक्रमैः ।
संयुक्ता ये कुलीनास्ते ये न धर्मविवर्जिताः ॥ ३४.२० ॥
नैश्वर्यज्ञानहीनस्य न कुलं नापि सङ्गतिः ।
तस्मात्कुलं ज्ञानमयं ज्ञानहीनं न तत्कुलम् ॥ ३४.२१ ॥

॥ इति मित्रवर्गश्चतुस्त्रिंशः ॥


(३५) राजाववादवर्गः

धार्मिको राजा स्वर्ग याति

भुवं परिजनो पश्यन् धर्मचारी जितेन्द्रियः ।
स राजा धार्मिको धीमान् स्वर्गलोकोपपत्तये ॥ ३५.१ ॥

कः लोभनिर्मुक्तो राजा?

नियतं यः करं काले धर्मेण परिभुज्यते ।
स राजा लोभनिर्मुक्तो यामानामधिपो भवेत् ॥ ३५.२ ॥

राज्ञः स्वरूपम्

क्षमावान् प्रियवाक्यो यः क्रोधहर्षादिधारकः ।
स महीं पालयेत्त्वेनां लोके हि श्रेष्ठतां गतः ॥ ३५.३ ॥
अपक्षपातिनः श्रद्धा मित्रेण च (वि)हन्यते ।
स राजन्यसभाजेता देवलोकाय कल्प्यते ॥ ३५.४ ॥
बद्धदर्शी महात्मा यो गुरुपूजक एव च ।
अलोलो यो दृढमतिर्देवानामन्तिकं व्रजेत् ॥ ३५.५ ॥
पूर्वे यत्पितृभिर्दत्तं देवानुपदिशन्ति च ।
न च हिंसति भूतानि स देवेषूपपद्यते ॥ ३५.६ ॥
दानशीले सदा दक्षो धर्मवादी जितेन्द्रियः ।
स मत्वार्यां महीं कृत्स्नां देवलोकं महीयते ॥ ३५.७ ॥
नाधार्मिकं धारयति धार्मिकेषु च रक्षति ।
स धर्मशीलसंशुद्धो देवानामन्तिकं व्रजेत् ॥ ३५.८ ॥
न स्त्रीणां वशगो राजा साधूनां च वसेत्सदा ।
स निर्मलमतिर्धीरः सुरलोकोपपत्तये ॥ ३५.९ ॥
न सर्वस्य वचोग्राही प्रियः साधुजनस्य तु ।
सोऽमृतस्तत्त्वदर्शीवा नाकृष्ट इव रोहति ॥ ३५.१० ॥

को यामानामधिपो?

यो धर्मलोभमायाति द्रविणं नैव लप्स्यते ।
स लोभमलनिर्मुक्तो यामानामधिपो भवेत् ॥ ३५.११ ॥
न मिथ्यादर्शनेनापि स्त्रीत्वदर्शनतत्परः ।
स शुद्ध एव विमलो यामानामधिपो भवेत् ॥ ३५.१२ ॥

कः राजा देवप्रियो भवति?

प्राज्ञः शीले सदायुक्तो दानेनाभीक्ष्णतां गतः ।
प्रविजित्य महीं कृत्स्नां प्रेत्य देवप्रियो भवेत् ॥ ३५.१३ ॥
प्रियस्य तु भवेद्वाक्यं स्तोत्रोत्सवकरं परम् ।
आह्लादयित्वा वसुधामन्ते देवोपपत्तये ॥ ३५.१४ ॥
अविसंवादकं वाक्यं यस्य मेरुरिवाचलम् ।
सत्यसोपानमारुह्य देवानामन्तिके गतः ॥ ३५.१५ ॥
ह्रासवृद्धी च भूतानामकस्मात्कुरुते हि यः ।
स राजा वै परो देवैर्देवलोके च तिष्ठति ॥ ३५.१६ ॥
मनुष्यान्तरतत्त्वज्ञो यो वेत्ति हि बलाबलम् ।
स धीबलाभ्यां संयुक्तो यामानामधिपो भवेत् ॥ ३५.१७ ॥
त्रैधातुकपदं यच्च रत्नत्रयमिहोच्यते ।
यस्तत्पूजयते राजा स देवेषूपजायते ॥ ३५.१८ ॥
कालं नियतदर्शी यः प्रजानां च हिते रतः ।
सर्वतो भद्रकान्तारो देवानामधिपः स्मृतः ॥ ३५.१९ ॥
निन्दामलविनिर्मुक्तः सङ्गदोषविवर्जितः ।
ज्ञानगोचरसम्पूज्यो नियतं देव एव सः ॥ ३५.२० ॥

कः स्वर्ग याति?

कौसीद्यदोषरहितो नित्यं दृढपराक्रमः ।
नाशयित्वा स दोषौघान् प्रेत्य स्वर्गेषु जायते ॥ ३५.२१ ॥

सन्मित्रैः परिवारितो राजा देवाधिपो भवति

हितानि यस्य मित्राणि कर्मकर्तृणि नित्यशः ।
स मित्रैः सम्परिवृतो नृपो देवाधिपो भवेत् ॥ ३५.२२ ॥
नानुसेवेत दुर्वृत्तान् वाक्क्षेपेण च वर्जितः ।
स सद्यो विषनिर्मुक्तः सुराणामधिपो भवेत् ॥ ३५.२३ ॥
क्रोधहर्षविघाताय न च पापेषु रक्ष्यते ।
स पापपङ्कनिधौतः सुरलोकाधिपः सदा ॥ ३५.२४ ॥
न शक्तः पानभोज्येषु संसक्तस्तु शुभे सदा ।
स शुद्धधर्मसन्दर्शी विबुधोऽधिकतां व्रजेत् ॥ ३५.२५ ॥

कः पदमुत्तमं प्राप्नोति?

सुचिन्तितं चिन्तयति (यो) धर्मेषु च वर्तते ।
धर्मोदयेन दृष्टेन यथा याति त्रिविष्टपम् ॥ ३५.२६ ॥
संसाराद्दीर्घसूत्राद्यस्त्वरितं धर्ममाचरेत् ।
स दीर्घसूत्रनिर्मुक्तः प्रयाति पदमुत्तमम् ॥ ३५.२७ ॥

धर्मेण प्रजापालकः स्वर्गसुखं याति

धर्मेणैव प्रजा नित्यं प्रपालयति (यो) नृपः ।
स धार्मिकः प्रशस्तात्मा सुरलोके महीयते ॥ ३५.२८ ॥
दशेमे कुशला धर्मा इहोक्तास्तत्त्वदर्शिना ।
यस्ते प्रकुरुते धर्मान् स सुराधिपतां व्रजेत् ॥ ३५.२९ ॥
हेतुप्रत्ययसन्दर्शी मार्गामार्गौ तथैव च ।
स दृष्टिमलनिर्मुक्तो विबुधोऽधिकतां गतः ॥ ३५.३० ॥

कीदृशैर्गुणयुतैः राजा देवानामधिपो भवति

यो देवतां पूजयति यथा चाह्नि महीपतिः ।
स देवपूजितो भूयो देवानामधिपो भवेत् ॥ ३५.३१ ॥
अनाविलेन मनसा प्रसन्नश्चाधिदारकः ।
स्वस्वदारैश्च सन्तुष्टो देवानामधिपो भवेत् ॥ ३५.३२ ॥

कः शीलवान्?

हीयते यो न विषयैः सर्वबालापहारिभिः ।
स शीलवान् दिवं याति नित्यं शीलेन रक्षितः ॥ ३५.३३ ॥
अविद्यावर्जकान्नित्यं सेवते यः सुधार्मिकान् ।
सद्धर्मचिन्तकः सौख्यं कल्पते सुर(सं)सदि ॥ ३५.३४ ॥
(व्यापारैः स्वस्थचित्तो यः) पार्षदालापहारिभिः ।
स शीलवान् दिवं याति नित्यं शीलेन रक्षितः ॥ ३५.३५ ॥

सद्धर्मी राजा एव वसुधाधिपतिः

सद्व्यापाराद्धर्ममिमं पालयन् वसुधाधिपः ।
प्रशास्ति च महीं कृत्स्नां यामानामधिपो भवेत् ॥ ३५.३६ ॥

सत्कर्मनिरतस्य राज्ञो भृत्योऽपि शोभते

सत्कर्मनिरतो भृत्यो नृपे सद्गुणशालिनि ।
जनो निर्मलतां याति शरच्चन्द्र इवाम्बरे ॥ ३५.३७ ॥

कः राजा देवतुल्यो भवति?

हेतुलक्ष्यविधिज्ञा ये अविरुद्धाः परस्परम् ।
सम्यक्स्वाम्यर्थकर्त्तारः देवानां वशमागताः ॥ ३५.३८ ॥

॥ इति राजाववादवर्गः पञ्चत्रिंशः ॥


(३६) स्तुतिवर्गः

बुद्धस्तुतिः

समसत्त्वाग्रवेदाय सर्वसत्त्वेषु बन्धवे ।
सन्मार्गसार्थवाहाय भवबन्धनभेदिने ॥ ३६.१ ॥
(ना)नादृष्टिविभेदाय सर्वसंशयमोचिने ।
सम्यग्दृष्टिनिवेशाय नमः सञ्ज्ञानचक्षुषे ॥ ३६.२ ॥
सर्वसङ्कटभेदाय त्रिदोषमलशोधिने ।
नमो नक्षत्रभूताय सर्वबीजफलोरुहे ॥ ३६.३ ॥
सर्वप्रज्ञाकराग्राय सर्वध्यानाग्रवेदिने ।
सर्वरत्नोत्तमार्याय नमोऽलानाग्रदर्शिने ॥ ३६.४ ॥
इयं सा लोकनाशस्य विप्रयुक्तस्य तापिनः ।
प्रतिमा दृश्यते शान्ता मोक्षमुद्घाट्यकारिका ॥ ३६.५ ॥
समर्चतीमां नित्यं (यः) पुरुषः शान्तमानसः ।
स मुच्यते भवभयान्निवृत्तिं चाधिगच्छति ॥ ३६.६ ॥
एतच्छान्तपदं रम्यमेतन्नैष्ठिकमुच्यते ।
यदयं भाषते धर्म निर्वाणपुरदेशिकः ॥ ३६.७ ॥
अस्य वाक्यं समालम्ब्य पुरुषाधीनविक्रमाः ।
आकर्षन्ति पदं नित्यं यदनन्तसुखावहम् ॥ ३६.८ ॥
एतत्पूर्व समारुहय पुरुषास्तत्त्वचिन्तकाः ।
त्रिलोकौघार्णवं घोरं तरन्ति भवसागरम् ॥ ३६.९ ॥
अयं स चक्षुर्लोकस्य समन्ताद्धि विचक्षुषः ।
अयं ज्योतिः परं ज्योतिर्यज्ज्योतिःकाष्ठसम्भवम् ॥ ३६.१० ॥
कल्पान्तं प्राणिनां चित्ते नृणां रागादिभिर्मलैः ।
ज्ञानतोयेन महता शोधयत्येव वाङ्नृपः ॥ ३६.११ ॥
यन्न दृष्टं पदं सर्वैस्तीर्थिकैर्ज्ञानपाणिभिः ।
तत्पदं विमलैर्वाक्यैस्त्वया नृणां प्रदर्शितम् ॥ ३६.१२ ॥
प्रमादपरमोऽनाथो जनोऽयं तारितस्त्वया ।
तीर्णः पारगतो नाथस्तारयत्यघनाशनात् ॥ ३६.१३ ॥
हितार्थ सर्वजगतस्त्वमेवैको व्यवस्थितः ।
अहितानां हितायैव त्वमेव पुरुषोत्तमः ॥ ३६.१४ ॥
अनादिमति संसारे नृणां क्लेशापहारकैः ।
त्वया विशोधितो वाक्यैस्तमः सूर्योदये यथा ॥ ३६.१५ ॥
अक्षयः सर्वधर्माणां ज्ञानलोककरो महान् ।
त्वमेवैको जगन्नाथ लोकोत्तरगुणार्णवः ॥ ३६.१६ ॥

॥ इति स्तुतिवर्गः षट्त्रिंशः ॥


पुण्यदेवसुखैर्मित्रराजस्तुतिभिरन्विताः ।
सद्धर्मस्मृतिवैपुल्यै गृहीतोऽयं समुच्चयः ॥

॥ इति चतुर्थमुदानम् ॥


ये च धर्मा हेतुभवा तेषां तथागतोऽवदत् ।
तेषां च यो निरोधश्चैवंवादीमहाश्रमणः ॥

पुण्यमवाप्तमन्त्रक्लेशं विभिद्याजनवलाश्रीकम् ।
यावज्जगद्व्याकुलं तर्कनिष्ठैः समाकुलं वेत्ति सत्यवचनैः ॥

वैपुल्यमहागम्भीरोदधिसूत्रवराद्भिक्षु(णा)अवलोकितसिंहेनोद्धृतमिति ।

मोहाशिवादिरहितस्य वाक्यविद्यस्य विपुलार्जनस्यऽधर्मसमुच्चयोऽ नाम धर्मपर्यायः समाप्तः ।

॥ इति शुभम् ॥

"https://sa.wikisource.org/w/index.php?title=धर्मसमुच्चयः&oldid=368421" इत्यस्माद् प्रतिप्राप्तम्