धर्मोत्तरप्रदीपः
[[लेखकः :|]]



दुर्वेकस्य धर्मोत्तरप्रदीपः


आचार्य<धर्मकीर्त्ति>प्रणीतो

<न्यायबिन्दुः> ।

प्रथमः प्रत्यक्षपरिच्छेदः ।



ऊं नमो वीतरागाय[१]


__________टिप्पणी__________

[१] ऊं नमः सर्वज्ञाय -- बेह्न् । नास्ति अप्.
___________________________


सम्यग्ज्ञानपूर्विका सर्वपुरुषार्थसिद्धिरिति तद्व्युत्पाद्यते इ-१



आचार्य<धर्मोत्तर>विरचिता

<न्यायबिन्दुटीका> ।



जयन्ति जातिव्यसनप्रबन्धप्रसूतिहेतोर्जगतो विजेतुः ।

रागाद्यरातेः सुगतस्य वाचो मनस्तमतानवमादधानाः ॥



आचार्य<दुर्वेकमिश्र>विरचितो



<धरोत्तरप्रदीपः> ।



[१ ][[२]सूत्रभिधर्म]विनयाः सुगतस्य वाचो बाधा विना द्भुततया सततं जयन्ति ।


__________टिप्पणी__________

[२] पत्रमत्र त्रुटितम् -- सं-
___________________________


आभान्ति दर्पण इव प्रतिबिम्बितानि तत्त्वानि यत्र सकलस्य पदार्थराशेः ॥

<श्रीधर्मकीर्त्य्>अभिमुखानि जगद्धितानि <धर्मोत्तर>स्य विपुलानि पदान्यमूनि ।

सम्यक्प्रकाश्य सुकृतं समुपार्जयामि तेनापि दुःखजलधेर्जगदुद्धरामि ॥

मात्सर्यादिमलोपेतैः [[३]शक्यं न गुणदर्शनम् ।


__________टिप्पणी__________

[३] पत्रमत्र त्रुटितम् -- सं-
___________________________


यतो हे]मपरीक्षायाः सन्तो हि निकषोपलाः ॥

<न्यायबिन्दुटीका>ं चिकीर्षुरेष <धर्मोत्तरो> भगवत्पूजापुण्ययोः साध्यसाधनभावमतीन्द्रयमीदृशि विषये गत्यन्तरविरहादभ्युपेयप्रामाण्यादागमादवगम्य, पुण्यस्य चापुण्यविरोधित्वादपुण्यफलविघ्नाद्यभावो व्यापकविरुद्धविधिना सम्भवी, तेनाविघ्नेन ग्रन्थकरण[४][तत्समाप्तौ


__________टिप्पणी__________

[४] पत्रमत्र त्रुटितम् -- सं-
___________________________


[ध्प्र्प्.२]

तदध्ययने] च भगवद्गुणगणश्रवणजनितातिशयविशेषासादितपुण्यस्य तथैवाविघ्नेन जिज्ञासितशास्त्रार्थतत्त्वावगमो भविष्यति, दृष्टशिष्टाचारोऽप्यनुपालितो भविष्यतीत्यभिसन्धाय वाग्विजयाख्यानद्वारां भगवतः पूजां स्तुतिमयीमारभते ।

स्यादेतत्-- पूजायाः पुण्योपजननमात्रप्रयोज[५][नस्य सम्पादकत्]वादारिप्सितारम्भात्प्राक्कायमयीमेवेष्टदेवतापूजामारच्य्य, किमिति न तदारभ्यते? अथोच्यते -- तत्पूर्विकायामपि प्रवृत्तौ ’स्तुतिपूजैव प्रवृत्तिपुरःसरी किं न कृताऽ इति चोद्यमापद्येत । तथा चाशोकवनिकाचोद्यसदृशमिदमिति नानुवाद्यमपि विदुषामिति । असदेतत् । एवं हि [कायपूजायारचने स्तुति]पदानि प्रयुञ्जानस्याऽतद्व्याख्यानभूतस्यास्य श्लोकस्याप्रकृतस्य करणं नापद्येत । कायपूजा तु सुखासनोपदेशनादीतिकर्तव्यतास्थानीयत्वान्नाप्रकृतकरणचोद्येनोपद्रूयत इति ।


__________टिप्पणी__________

[५] पत्रमत्र त्रुटितम् -- सं-
___________________________


अत्रोच्यते -- स्यादेवैतद्यदि स्वार्थमुद्दिश्य स्तुतिरीदृशी पूजा विधीयते । किं तर्हि? श्रोतृजना[र्थमुद्दिश्यापि] भगवतो गुणकीर्त्तने कृते श्रोतृभिरन्ततः काव्यगुणजिज्ञासयापि श्लोकओऽवश्यं ज्ञातव्यः । तज्ज्ञानात्तथागतगुणास्तावत्कालं तावच्छोतृसन्तानमध्यासते । तत्र ये तावद्भगवति प्रागतिप्रसन्नमनसस्तेषामेवंविधगुणातिशयशालिनि ’स्थान एवास्माकं मनः प्रसन्नम्ऽ इति निश्चिन्वतां स्थे[६][मानमासादयते चित्तम् ।] ये च मध्यस्थास्तेषाम् ’ेवंभूतगुणरत्नालङ्कृते महतो महीयसि चित्तमावर्जयितुमुचितं स्वहितावहितैः, तद्वयमियन्तं कालं प्रमाद्यन्त एवोदास्महे स्मऽ इति निर्विद्यमानानां चित्तं प्रतिष्ठते
। येऽप्यनतिप्रसन्नास्तेषामपि -- ’ेवंविधगुणनिकेतने किमस्माभिरकस्माद्विद्विष्यतेऽ इति मननान्मनागावर्जनं माध्यस्थ्यं वा[७][स्यादित्यतिप्रसन्नमध्यस्थ]योः पुरुषयोश्चित्तप्रसादस्थैर्यमनःप्रसादोपजननाभ्यां पुण्यातिशयो जायते । तृतीयस्यापि मनागावर्जननेऽपि पुण्यप्रसवः । माध्यस्थ्ये तु भगवद्विद्वेषोपचयोपनेयनरकेष्वनतिपतनं विद्वेषोपशमाद्भवति । असत्यां तु स्तुतिमयपूजायामित्थं त्रिविधश्रोतृजनप्रयोजनं यत्तन्न कृतं स्यात्-- इति स्वपरार्थो[२ ]द्देशेन स्तुतिमयी पूजा विधीयत इति स्थितम् ।


__________टिप्पणी__________

[६] पत्रमत्र त्रुटितम् -- सं-
[७] प्रतौ दुष्खानि इत्येवं वर्त्तते -- सं-
___________________________



तत्रानेन श्लोकेन भगवान् स्वार्थसम्पदा परार्थ्सम्पदुपायसम्पदा परार्थ्सम्पदा च स्तूयते । तासां तिसृणामपि सम्पदामवश्यवक्तव्यत्वात् । तथा हि चिरकालाभ्याससात्म्यीकृतमहाकृपस्य भवतः परार्थसम्पत्प्रधानं प्रयोजनम्, इतरदप्रधानं, आनुषङ्गिकं तथागतत्त्वमपीति सा तावदवश्याभिधेया ।

तदाह <भट्टवराहस्वामी> --

"साक्षात्कृताशेषजगत्स्वभावं प्रासङ्गिकं यस्य तथागतत्वम् ।" इति ।

सा चोपायसम्पदमन्तरेणासम्भविनीति तदभिधानमप्यावश्यकम् । इयञ्चानधिगतस्वार्थसम्पदो न सिध्यतीति तदभिधानमपि नियतमापतितम् । तदाह सैव --

"तीर्णः स्वयं याति जगत्समग्रं मार्गोपदेशेऽधिकृतो हि नाथः ।" इति ।

तत्र स्वार्थसम्पन्नस्य परार्थसम्पादनोपायसम्पत्तत्साध्या च परार्थसम्पादनसम्पदिति प्रथमं जातित्यादिना सुगतस्येत्यन्तेन स्वार्थसम्पत्तिरुक्ता । अनुपायस्य परार्थसम्पत्तिर्न सम्पद्यत

[ध्प्र्प्.३]

इति तदनुवाच इत्यनेन परार्थोपायसम्पदुक्ता । ’ीदृशं वस्तुनो रूपम्, इदञ्चानुष्ठेयम्ऽ इत्यादिरूपेण धर्मदेशनैव हि भगवतो जगद्धितावगमनलक्षणपरार्थसम्पादनोपायसम्पद्वैद्यवरस्येव व्याधिस्वरूपप्रतीतिशक्तिभैषज्योपदेशो रोगोपशमसम्पादनोपायसम्पत् । तदनन्तरं तदुपायसम्पत्तिसाध्या परार्थसम्पदन्येन पदेनोक्ता ।

तत्र वाचो जयन्ति -- इति सम्बन्धः । अविवक्षितकर्मत्वादकर्मत्वम् । वाचः सूत्राभिधर्मविनयलक्षणाः । जयन्ति उत्कृष्यन्ते प्रकृष्टा भवन्ति । उत्कर्षश्च सजातीयापेक्षयेति सामर्थ्यादीश्वरादिवचनेभ्यः प्रकृष्टा भवन्तीत्यर्थः । यद्वा जयन्ति अभिभवन्ति । अभिभवश्च प्रतियोगिगोचर इति । अर्थात्तीर्थिकशास्त्राभिभवं कुर्वन्तीत्यर्थः । प्रमाणोपपन्नार्थप्रतिपादकत्वादासाम् । तेषां तु तद्वैपरीत्यादिति बुद्धिसिद्धं कृत्वा केवलमेतदत्रोक्तम् । <विनिश्चियटीकायां> पुनरनेन ’युक्तिप्रभावेऽत्यादि हेतुभावेन विशेषणमुपात्तम् ।

कस्य ता इत्याकाङ्क्षायामाह -- सुगतस्य इति । सुशब्दोऽयमर्थत्रयवृत्तिर्द्रष्टव्यः । प्रशस्तं गतः सुगतः । प्रशस्तं यथा भवति तथा गतः । संसारात्प्रक्रान्तः । कथं तथा गमनं तस्य? नैरात्म्यदर्शनेन संसारातिक्रमात् । तस्य च प्रज्ञानिश्रयात् । अथ वा गत्यर्थानां ज्ञानार्थत्वादपि प्रशस्तं गतः ज्ञातवानित्यर्थः । प्रशस्तञ्च तत्तत्त्वं नैरात्म्यलक्षणम् । तत्त्वरूपत्वञ्च तस्य प्रमाणोपपन्नत्वात् । दृष्टश्चायं सुशब्दः प्रशस्तार्थवृत्तिः । सुरूपा रूपाजीवेते यथा । अपुनरावृत्त्या वा गतः सुगतः । गतः
प्रयातः संसारात् । पुनरावृत्तिशब्दवाच्ययोर्जन्मदोषयोरात्मदर्शनबीजोपघातेन भगवता समूलघातं निहतत्वात् । एतदर्थेऽपि सुशब्दो दृष्टः । सुनयो ज्वर इति यथा । निःशेषं वा गतः सुगतः । निःशेषं यावद्गन्तव्यं तावद्गतः प्राप्तः । अक्लेशनिर्जरकायवाग्बुद्धिवैगुण्यलक्षणशेषलक्षणप्रहाणेन मुनेस्तत्पदप्राप्तेः । एवंवृत्तिरपि सुशब्दो दृश्यते । सुपूर्णो घट इति यथा ।

तस्य सुगतस्य किम्भुतस्येत्याह -- विजेतुः अभिभवितुः । कस्यासौ विजेतेत्याह -- जगतो जीवलोकस्य । विजयश्च जगदपेक्षया परमपदप्राप्त्या तस्य प्रकृष्टत्वं द्रष्टव्यम् । अत एव जगदभिभूतं भवति । तस्य तद्वैपरीत्यात् । न पुना राजविजय इव राजान्तरापेक्षया कायादितिरस्कारोऽभिभवोऽवसेयः ।

जगतः कीदृशस्य? जायते संसरत्यनयेति जातिः तृष्णा । व्यस्यते विविधेन प्रकारेणेतस्ततो अस्यते(-तोऽस्यते) क्षिप्यते अनेनेति, अस्यतीति वा व्यसनम् । जातिरेव व्यसनमित्यन्तर्नीतनियमः समासः कर्तव्यः । तृष्यन्नेव हि प्राणी तत्तदाचरति येन संसारे संसरति । ततस्तयैवासौ इतस्तत उत्पादद्वारेण व्यस्तः क्षिप्तो भवतीति सैव व्यसनं युक्तम् । अथ वा जातौ उत्पत्तौ निकायविशिष्टायां व्यसनमासक्तिः ’विद्याधरोऽहं भूयासंऽ, ’देवोऽहं भूयासम्ऽ इत्याद्याकारोऽभिनिवेषः । यद्वा जाद्याश्रितानि व्यसनानि दूःखानि[८]रोगशोकादीणि
। प्राक्तनव्याख्याने तस्य, अन्तिमव्यख्याने तेशां प्रबन्धः प्रवाहः । तदेव वा प्रकृष्टो बन्धः । प्रवाहपक्षे प्रबन्धेन । बन्धपक्षे प्रबन्धस्य । प्रसूतेः कारणस्य । एवञ्च प्रबन्धप्रसूतिश्रुतिसहितं हेतुपदमुपाददानः परमतनिराकरणञ्चाभिप्रैति । तथा ह्येवमभिधाने सत्ययं
[ध्प्र्प्.४]


__________टिप्पणी__________

[८] प्रतौ दुष्खानि इत्येवं वर्त्तते -- सं-
___________________________


तात्पर्यार्थः -- जददेवानन्यसत्त्वनेयं स्वयमेव तथा तत्तदाचरति येन तथा संसारे संसरति । न तु परप्रेरितं यथाऽन्ये मन्यन्ते --

"अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः ।

ईश्वरप्रेरितो गच्छेत्स्वर्ग वा स्व (श्व) भ्रमेव वा ॥" [महाभा- वन- ३०,२८] इति ।

इतरथा जातिव्यसनाश्रयस्येति तदन्यविशेषणसहितमेव ब्रूयादिति ।

किम्भूतस्य सुगतस्य? रागदीनां श्लेशानामरातेः शत्रोः सत्कायदृष्टिविगमेन, तेन तेषां स्वसन्ताने समूलमुन्मूलितत्वात् । यत एव भववान् रागाद्यरातिः, जगच्च जातिव्यसनप्रबन्धप्रसूतिहेतुः, अत एवासौ ततः प्रकृष्टो भवति विजेता तस्य । अथ वा रागाद्यरातेरिति जगतो विशेषणम् । रागादयोऽरातयः प्रतिपक्षा नित्यमुपघातका यस्येति कृत्वा । तदा तु तद्विजेता भवान् सुगतत्वादेव बोद्धव्यः । जगतो ये रागादयस्तेषामराते इत्यादिव्याख्यानं तु क्लिष्टत्वात्नोक्तम् ।

किंविशिष्टा वाचित्याह -- मन इत्यादि । सदसदर्थविवेकविबन्धकत्वात्तम इव तमोऽज्ञाणमविद्या । तच्च मनसो विकल्पविज्ञानस्य कयाचिद्व्यपेक्षया धर्म इव भिन्नः कथ्यते । वस्तुतस्तु क्लिष्टमेव ज्ञानमविद्या । यद्वा क्लिष्टं मन एव तम इव तमः पूर्ववत् ।

केचित्तु मनस्तम इति शब्दसमुदायमज्ञानार्थवाचकमाचक्षते ।

तस्य तानवं तनुत्वं मन्दीभवनमित्यर्थात् । तदादधानाः कुर्वाणाः । तानवग्रःणेन चेदमाचष्टे -- न भवतो वाचः सर्वथा जगदज्ञानमुपघ्नन्ति, तच्छ्रवणमात्रेण मोहहान्या मुक्तत्वात्मार्गभावनावैयर्थ्यप्रसङ्गात् । किन् तु तियन्तं कालमालोच्यमानाः समुदाचारतो मोहस्य मान्द्यापादनेन तं तनूकुर्वन्तीति ।

अथ वा अन्यथा व्याख्यायते -- ता वाचस्तमो जयन्ति अभिभवन्ति[९] ...................... ............... [३ ]....................................मोहप्रचारमादधानाः । शेषं समानं पूर्वेण ।


__________टिप्पणी__________

[९] लेखोऽत्र घृष्टः ।
___________________________


यद्वा मनसि तमो यस्य स मनस्तमा मूढ उक्तः । तस्य भावो मनस्तमस्ता । तस्या अनवो निष्ठा । तथा हि -- नूतिर्नवः । तद्विरुद्धेन[१०] ........................................................... तमादधानाः मूढत्व[११] ...................................................... प्रवर्त्तनात् । शेषं समानं पूर्वेणेति व्याख्यातः श्लोकः ।


__________टिप्पणी__________

[१०] लेखोऽत्र घृष्टः ।
[११] लेखोऽत्र घृष्टः ।
___________________________



केवलमिदमालोच्यताम् -- तथागतमभिस्तुवता <धर्मोत्तरेणा>स्यैव विजयो मुख्यवृत्त्या किं न कथितः? किं पुनर्धर्मविशेषणत्वेनानुषङ्गतः प्रतिपादित इति? अत्र समाधीयते । आचायश्री<धर्मकीर्त्तिना> भगवत्प्रवचनार्थसमर्थन[१२] ......................................................................................................प्रकृतत्वात्विजयो मुख्यतः प्रतिपाद्यते ।


__________टिप्पणी__________

[१२] लेखोऽत्र घृष्टः ।
___________________________


यद्वा यस्य वाच एव तथा जयन्ति तस्य विजयो दण्डाज्जयन्यायेनातिशयेन प्रतिपादितः । सूचितश्चासौ विजेतृपदेन ।


[ध्प्र्प्.५]

<सम्यग्ज्ञानपूर्विके>त्यादिनास्य प्रकरणस्याभिधेयप्रयोजनमुच्यते ।



अथ वागमिकानां मतेन निरुपधिशेषे निर्वाणधातौ परिनिर्वृतो भगवान् । परिनिर्वृतस्यास्य प्रवचनमयमेव वपुर्विद्यत इति आगमिको वाग्विजयमेव प्रतिपादयते स्मेति ।

सम्यग्ज्ञानेत्यादिना प्रकरणस्य यत्प्रयोजनं सम्यग्ज्ञानव्युत्पत्तिः, तस्या यत्प्रयोजनं पुरुषार्थसिद्धरूपं तदुच्यते । न च सम्यग्ज्ञानव्युत्पत्तेः सम्यग्ज्ञानपरिज्ञानं प्रयोजनं न पुरुषार्थसिद्धिरिति शक्यमभिधातुम् । विप्रतिपत्तिनिराकरणेन स्वरूपप्रतिपत्तिरिव(एव) हि सम्यग्ज्ञानस्य व्युत्पत्तिः । सा कथमात्मन एव प्रयोजनं भवेदित्यभिप्रायेण व्याख्यातवन्तौ <विनीतदेवशान्तभद्रौ> । तद्व्याख्यानमवमन्यमानोऽभिधेय प्रयोजनमुच्यते इति व्याचष्टे । अवज्ञाने चायमाशयः -- अस्येदं प्रयोजनमिति खल्वन्व्यव्यतिरेकाभ्यामवधार्यते । नान्यथा । इयञ्च स्वरूपा प्रसिद्धिः (पुरुषार्थसिद्धिः) सम्यग्ज्ञानव्युत्पत्तिम्
अन्तरेणापि गोपालाङ्गनादीनां भवन्ती सति सम्यग्ज्ञानि(-ने), सत्यामपि तद्व्युत्पत्तौ अस्ति सम्यग्ज्ञाणे मनीषिणामभवन्ती न तद्व्युत्पत्तेरन्वयव्यतिरेकावनुविधत्ते । किं तर्हि? सम्यग्ज्ञानस्येति तस्यैव पयोजनं भवितुमर्हतीति ।

सम्यग्ज्ञानेत्यादिना वाक्येन करणेन प्रकरणाभिधेयस्य सम्यग्ज्ञानलक्षणस्य प्रयोजनं दृष्टं पुरुषार्थसिद्धिलक्षणमुच्यते वार्त्तिककृता कर्त्त्रेत्यर्थात् ।

ननु च यत्राभिधाव्यापारः समाप्यते स वाक्यार्थः । न चासौ पुरुषार्थसिद्दौ विश्राम्यति । किं तर्हि? श्रोतुः सम्यग्ज्ञानव्युत्पत्तौ । तत्कथं सा वाक्यार्थत्वेनओच्यते? उच्यते । यद्यपि शब्दाभिधाव्यापारापेक्षया तत्सम्यग्ज्ञानं व्युत्पाद्यते शिष्य इति शिष्यसम्यग्ज्ञानविषया व्युत्पत्तिक्रिया प्राधान्याद्वाक्यार्थः, तथाप्यस्य तात्पर्यार्थसम्भवे तन्निरूपणेनेदमुच्यते । तथा हि तद्व्युप्तत्तिमेवासौ किमति कार्यते? यतः सम्यग्ज्ञानपूर्विका सर्वपुरुषार्थसिद्धिः[१३] ......................................................मुच्यते । यत्र पुनरभिधाविषय एवार्थः सम्भवी न तु तात्पर्यार्थो [३ ][१४]...।स्तत्र स एव वाक्यार्थः कल्प्यते । द्वितयसम्भवे तु
यत्परं वाक्यं तथा च तस्यार्थ इत्यार्थेन न्यायेनाभिधेयस्य प्रयोजनं पुरुषाथसिद्धिर्वाक्यार्थत्वेनोच्यत इति व्याख्यायत इति ।


__________टिप्पणी__________

[१३] -पूर्विका सर्वेत्यादिना -- अपे
[१४] लेखोऽत्र घृष्टः ।
___________________________


केचित्पुनरिदं <धर्मोत्तरीयं> वाक्यमन्यथा व्याचक्षते । नात्र पयोजनशब्देन फलमभिप्रेतं किं तु प्रयुज्यते प्रवर्त्त्यतेऽनेनेति, प्रयोजयतीति वा प्रयोजनम् । तच्च पुरुषार्थसिद्धिहेतुत्वम् । अभिधेयस्य हि सम्यग्ज्ञानस्य पुरुषार्थसिद्धिहेतुत्वेन प्रयुक्तः पुरुषः प्रवर्त्तत इति । उत्तरत्रापि प्रयोजनमिदमेव विवक्षितम् । अत एव -- अत्र चेत्यादिवाक्ये सर्वपुरुषार्थसिद्धिहेतुत्वं प्रयोजनं प्रवर्त्तकमुक्तमिति स्पष्टीकरणं घटत इति । तच्च नातिश्लिष्टमुत्पश्यामः । तथा हि अत्र च प्रकरणाभिधेयस्य सम्यग्ज्ञानस्य पुरुषार्थसिद्ध्हिहेतुत्वं प्रयोजनमुक्तमिति वक्ष्यमाणेन
व्यक्तीकृतत्वादिहापि अभिधेयस्य प्रयोजनमिति षष्टीतत्पुरुषोऽवश्यकार्यः । तथा चायमसमर्थः पदविधिर्भवेत् । तद्धि पुरुषार्थसिद्धिहेतुत्वं नाभिधेयस्य सम्यग्ज्ञानस्य प्रवर्त्तकमपि तु पुरुषस्य । तत्कथमभिधेयपदेन समस्येत प्रयोजनपदम्? न च केनचिद्रूपेणाभिधेयसम्बन्धि--
[ध्प्र्प्.६]

त्वऽस्य समर्थयोरेकार्थीभावो भवतीति । न हि यज्ञदत्तपुत्रो भृत्यत्वादिना रुपेण देवदत्तसम्बन्धी भवन् देवदत्तपुत्र इति षष्टीसमासस्य विषयो भवितुमर्हति ।

अथ भावप्रधानत्वान्निर्देशस्य प्रयोजनं प्रयोजकत्वमित्यथः । तच्चाश्रितस्य प्रयोजकतया अभवति सम्बन्धीति समर्थविधिः कल्प्यते ।

ननु यदि सम्यग्ज्ञानगतं पुरुषार्थसिद्धिहेतुत्वं प्रयोजनं प्रयोजकत्वं तर्हि सम्यग्ज्ञाणं प्रयोजनमित्यापन्नम् । यतो न प्रयोजनत्वमेव प्रयोजनं भवितुमर्थति । न च सम्यग्ज्ञानेन प्रयुक्तः पुरुषः सम्यग्ज्ञाने प्रवर्त्तते, किं तु पुरुषार्थसिद्धिहेतुत्वेन । तत्कथं प्रोयोजनं भवितुमर्हति? किञ्च वृद्धव्यवहारो हि शब्दार्थव्यवहारभूमिः । न च वृद्धैः प्रयोजकः सत्यपि प्रयोजयितृत्वे प्रयोजक इति सम्यग्ज्ञानव्युत्पत्तेः प्रयोजनमुच्येत । अन्यथा सम्यग्ज्ञानं व्युत्पद्यमानानामात्मानं कर्त्तुं प्रवर्त्तमान आचार्यः प्रयोजक इति सम्यज्ञाणयुत्पत्तेः
प्रयोजनमुच्येत । योऽपि कटं कुर्वन्तं कर्त्तुं प्रयुङ्क्ते सोऽपि तत्प्रयोजनमुच्येतेत्येवंवादी न लौकिको न प्रईक्षक इत्युपेक्षणीय एव ।

अपि च किमेतदन्यथा नोपपद्यत एव येनैवं मृत्वा शीर्त्वोपपाद्येत । न चैवम्, अन्यथापि सूपपादत्वात् । प्रयोजकत्वमिति निर्देशे च <धर्मोत्तरः> किं गौरवं पश्यति येनैवमवाचकमाचक्षीत? कथञ्च प्रकरणस्येति दुरुपपादं प्रयुञ्जीत? किं च यदीप्सञ्जिहासन् वा पुरुषः प्रवर्त्तते तदुपादानपरित्यागाभ्यां प्रवर्त्तितो भवति । यथाह <अक्षपादः> -- यमर्थमधिकृत्य प्रवर्त्तते तत्प्रयोजनम्[न्सू १,१,२८]इति । अधिकृत्य उद्दिश्येत्यर्थः । न च सम्यग्ज्ञानस्य भिन्नं सदपि पुरुषार्थसिद्धिहेतुत्वमीप्सन् जिहासन् वा प्रवर्त्तते । किं तर्हि? हिताहितप्राप्तिपरिहारावुद्दिश्येति तावेव प्रयोजने युक्ते । किञ्चिदजिहासोरनुपादित्सोरर्थनिरीह[४ ]स्य
सत्यपि पुरुषार्थसिद्धिहेतुत्वे अप्रवर्त्तनात् । स्मरणादभिलाषेण व्यवहारः प्रवर्त्तते इत्यलं शब्दमात्रसमर्थनदृष्टेरर्थतत्त्वानवगाहिनो वचनेऽन्धादरेण ।

अथाभिधेयप्रयोजनं प्रवर्त्तकमिति समस्यते । ततोऽयमदोष इति चेत् । तदवद्यम् । न हि पुरुषार्थसिद्धिह्तेउत्वेन प्रयुक्तः पुरुषः सम्यग्ज्ञानलक्षणे अभिधेये प्रवर्त्तते किं तु प्रकरणे प्रवर्त्तते -- ग्रन्थश्रवणलक्षणां प्रवृत्तिमनुतिष्ठति ।

अथ ग्रन्थस्य शब्दार्थस्वभावत्वाद् । एवमप्यसौ शब्देऽभिधेये च समुदाये प्रवृत्तो भवति । तद्ग्रन्थस्य प्रकरणस्येति षष्ठी कथम्? अथ पुनरयमर्थोऽस्य प्रकरणस्याभिधेयेऽर्थादभिधानाभिधेयसमुदाये प्रयोजनं प्रवर्त्तकमिति । तथा च प्रकरणे प्रवर्त्तकमित्यसङ्गतमुक्तं स्यात् । यदि चोक्तया व्युत्पत्त्या प्रयोजनशब्देन प्रयोजकं तथाभूतमस्य बुबोधयिषितं भवेत्तदा सम्यग्ज्ञानपूर्विकेत्यादिना अभिधेयप्रयोजनमुच्यत इत्युक्तं स्यात् । मुख्यश्च सम्बन्धी पुरुषः पुरुषस्येति दर्शितः स्यात् । न चैवम्, तस्मात्प्रयोजनशब्देन फलमेवास्याभिप्रेतमत्रोत्तरत्रापि ।

अथोच्यते । फलार्थी चेत्प्रतिपत्ता फल एव किं न प्रवर्त्तते? किं श्रमः सम्यग्ज्ञान इति । हेयोपादेययोर्हानानोपादानलक्षणफलार्थितैव तन्निबन्धनं ज्ञानं मृगयते । अन्यथा विसंवादनमात्मीयमाशङ्कमान इति का क्षतिः? फलपक्षे तु पुरुषप्रवृत्त्युपयोगि चास्याभिधेयमिति तद्दर्शितं भवति ।


[ध्प्र्प्.७]

द्विविधं हि प्रकरणशरीरम् -- शब्दः, अर्थश्च ।

तत्र शब्दस्य स्वाभिधेयप्रतिपादनमेव प्रयोजनम् । नान्यत् । अतस्तन्न निरूप्यते ।

अभिधेयं तु यदि निष्प्रयोजनं स्यात्तदा तत्प्रतिपत्तये शब्दसन्दर्भोऽपि नारम्भणीयः स्यात् ।

ननु च नायं प्रत्यस्तमितावयवार्थः संज्ञाशब्दः । किं तर्हि? प्रयुज्यतेऽनेन इति, प्रयोजयतीति वा व्युत्पत्त्या फलेऽपि वर्त्तते । तत्कथमेतद्व्याख्यायत इति चेत् । सत्यमेतत् । केवलं न पुरुषार्थसिद्धिहेतुत्वं सम्यग्ज्ञानस्यात्मन एव प्रयोजकं किं तु पुरुषस्य । तत्र चोक्ता दोषमात्रा । अभिधेये प्रयोजनमिति विग्रहे च भूयान् दोषो दर्शितः । तस्मात्तथाभूतव्युत्पत्तिनापि प्रयोजनशब्देनात्र न तथाभूतं प्रयोजकं चावाद्यम्, अपि तु फलमेवेति सर्वमवदातम् ।

ननु च प्रकरणे श्रोतॄन् प्रविवर्त्तयिषुरयमभिधेयप्रयोजनमभिधत्ते तदनेनास्यैव तदाख्यातुमुचितम् । तच्च यथास्वमभिधेयप्रत्यायनलक्षणमित्याशङ्क्याह -- द्विविधं हि इत्यादि । हिर्यास्माद्द्विप्रकारं प्रकरणस्य शरीरं स्वभावः । तदुक्तं काव्यालङ्कारे "शब्दार्थौ सहितौ काव्यं"[१५][का १,१६] इति । तस्मादभिधेयप्रयोजनमुच्यत इति ।


__________टिप्पणी__________

[१५] काव्यालङ्कारवृत्तौ -- "काव्यशब्दोऽयं गुणालङ्कारसंस्कृतयओः शब्दार्थयोर्वर्त्तते" १ ।१ । इति ।
___________________________


कथं द्वैविध्यमित्याह । शब्द इति । चः शब्देन सहार्थं प्रकरणशरीतत्वेन समुच्चिनोति । एतदुक्तं भवति -- शब्दार्थयोरवच्छेद्यावच्छेदकत्वेन स्थितयोः प्रकरणत्वं नान्यथेत्युभयस्वभावत्वात्प्रकरणस्याभिधेयप्रयोजनाभिधाने प्रकरणस्यैवाभिहितं भवतीति ।

यद्येवं शरीरत्वाविशेषातभिधेयस्येवाभिधानात्मनोऽपि तत्किं नोच्यते? किं च, न निष्कृष्टरूपेऽभिधेये पुरुषः प्रवर्त्तते किं तु ग्रन्थ एव श्रवणलक्षनां प्रवृत्तिमाचरति अभिधेयज्ञानाय । तदस्यैव प्रयोजनं वाच्यमिति पूर्वपक्षद्वितयं पश्यन्नाह -- तत्रेति निर्धा[४ ]रणे चैतत् । नान्यदिति पुरुषप्रवृत्त्युपयोगि अयमस्याशयः -- न हि शब्दस्य स्वार्थप्रत्यायनलक्षणं फलमस्तीति शब्दसन्दर्भ आरभ्यते श्रूयते वा, तस्य काकदन्तप्रीक्षासाधारणत्वेनागण्यमानत्वात् । किं तर्हि? तदर्थस्य सप्रयोजनत्वेन । अतः किमनेनोक्तेनापीति? तर्हि अभिधेयस्यापि तत्किमुच्यत
इत्याह -- अभिधेयं तु इत्यादि । तुरभिधानादभिधेयं भेदवद्दर्शयति । अपिशब्दो नारम्भणीय इत्यस्मात्परो द्रष्टव्यः । तदयमर्थः -- तत्प्रतिपत्तये शब्दानां सन्दर्भो नारम्भणीयोऽपि स्यात्, किं पुनः श्रवणीय इति ।
[ध्प्र्प्.८]

यथा काकदन्तप्रयोजनाभावात्न तत्परीक्षा आरम्भणीया प्रेक्षावता ।

तस्मादस्य प्रकरणस्यारम्भणीयत्वं दर्शयता अभिधेयप्रयोजनमनेनोच्यते । यस्मात्सम्यग्ज्ञानपूर्विका सर्वपुरुषार्थसिद्धिः, तस्मात्तत्प्रतिपत्तये इदमारभ्यत इत्ययमत्र वाक्यार्थः ।

अत्र च प्रकरणाभिधेयस्य सम्यग्ज्ञानस्य सर्वपुरुषार्थसिद्धिहेतुत्वं प्रयोजनमुक्तम् ।

यथेति सामान्येनोक्तस्यार्थस्य विषयोपदर्शने । यथैतद्दर्शितं तद्वत्सर्वं द्रष्ट्व्यमिति यथाशब्दार्थः ।

तत्परीक्षेतीक्षेत्थमित्थञ्चेति कर्मोपदेशः । पदसंहतिरिति च बुद्धिस्थम् । परीक्षणं वा परीक्षा विमृष्यावधारणं तादर्थ्यात्शास्त्रमपि तथा ।

ननु निष्प्रयोजनाभिधेयं मारम्भि, वचनेन त्वनेन किं क्रियत इत्याह -- तस्मादित्यादि । यस्मान्निष्प्रयोननाभिधेयं नारभ्यते तस्मादारम्भणीयत्वं दर्शयता आरम्भयोग्यमेवेदं मयारभ्यत इति प्रकाशयता, आरम्भणीयते च दर्शिते श्रवणीयत्वमपि निमित्तसाम्याद्दर्शितं भवतीति ते प्रवर्त्तिता भवन्ति ।

ननु च सम्यग्ज्ञानपूर्विका सर्वपुरुषार्थसिद्धिरित्यनेनैकदेशेनाभिधेयप्रयोजनमुक्तम्, न समुदितेन । तत्कथमनेन "वाक्येनोच्यते" इत्युच्यते? उच्यते । वाक्यं हि नामैकस्मिन्नर्थे प्राधान्येन प्रतिपाद्ये गुणगुणिभावमनुभवतामर्थद्वारेणान्योन्यापेक्षिणां सम्बद्धानां पदानां समूह उच्यते । तत्र यदि सर्वेषां पदार्थानां प्राधान्यं स्यात्तदा परस्परानुपकारात्सम्बन्ध एव पदानां न स्यादिति वाक्यरूपतैव हीयेतेति सूक्तमनेनेति । अभिधेयप्रयोजनाभिधानमेवास्य सम्यग्ज्ञानेत्यादिपदसमूहात्मकस्य यथा तथा यस्मादित्यादिना कण्ठोक्तं करोति । तस्य सम्यग्ज्ञानस्य प्रतिपत्तये शिष्यस्येत्यर्थात् । एतच्च तद्व्युत्पाद्यत इत्यस्य
सामर्थ्यावस्थितार्थकथनं द्रष्टव्यम् । इतिना वाक्यार्थस्य स्वरूपम्, इदमा च बुद्धिसिद्धत्वेन तदेवाङ्गुलीव्यपदेशयोग्यमिव दर्शयति । अनेन च पुरुषार्थसिद्देरुपेयत्वात्प्राधान्यम्, प्रतिपाद्यमानस्य च सम्यग्ज्ञानस्य तदुपायत्वादप्राधान्यम् । अत एव चार्थेन न्यायेन पुरुषार्थसिद्देर्वाक्यार्थत्वम् । शाब्द्या तु वृत्त्या शिष्यसम्यग्ज्ञानविषया व्युप्तत्तिक्रिया वाक्यार्थ इति दर्शितम् ।

ननु सम्यग्ज्ञानेत्यादिना वाक्येन सम्यग्ज्ञानस्य पुर्षार्थसिद्धौ हेतुभावः परं प्रदर्शितो न पुनरिदं तस्य प्रयोजनमिति दर्शितम् । तस्यैव प्रयोजनमनेनोच्यत इति चोक्तम् । तत्कथं युज्यते? अथ न (चै)तावतापि न ज्ञायते कस्य किं तदभिधेयं किं च तस्य प्रयोजनमित्याशङ्क्याह -- अत्र चेत्यादि ।

अथ सम्यग्ज्ञानस्य पुरुषार्थसिद्धिहेतुत्वं प्रयोजनमित्यवद्यम् । मूलविरोधाद्युक्तिविरोधाच्च । तथा हि पुरुषार्थसिद्धिमेवाचार्यीयं सम्यग्ज्ञानेत्यादिवचनं प्रयोजनमनुजानाति न तु पुरुषार्थसि[५ ]द्धिहेतुत्वम् । अवयवार्थव्याख्याने तस्य तामेव प्रयोजनतया व्यक्तीकरष्यति । न च हेतुत्वं हतोर्भिन्नमिष्यते युज्यते वा । तत्कथमस्यैव सम्यग्ज्ञानस्य प्रयोजनं


[ध्प्र्प्.९]

अस्मिंश्चार्थ उच्यमाने सम्बन्धप्रयोजनाभिधेयानि उक्तानि भवन्ति ।

भविष्यति । न चात्र प्रयोजनं प्रयोजकं वाच्यम्, उक्तन्यायात् । इहापि प्रवृत्तिसम्बन्धिन उपादानप्रसङ्गाच्च । न च राजशासनं सामान्यं किञ्चिदस्ति येन भावप्रधानः प्रयोजनशब्दः कल्प्येत । तदिष्तौ पूर्वोक्तं दूषणं परावर्त्तेतेति ।

सत्यम् । न पुरुषार्थसिद्धिहेतुत्वं सम्यज्ञानस्य प्रयोजनमभिप्रेतम् । किं तर्हि? पुरुषार्थसिद्धिरेव ।

अशाब्दिकाऽसौ कथमुच्यतामिति चेत् । चशब्दोऽत्र यस्मादर्थे । ततो यस्मात्प्रकरणाभिधेयस्य सम्यग्ज्ञानस्य पुरुषार्थसिद्धिहेतुत्वमुक्तम्, तस्य्मात्प्रयोजनमुक्तमिति द्विरावर्तनीयम् । तच्चात्रार्थात्पुरुषार्थसिद्धिरेवावतिष्ठ्ते । सम्यग्ज्ञानस्य तां प्रति हेतुत्वोक्तौ च सा प्रयोजनमुक्तेति किं साक्षाद्वाचकेन पदेन क्रियत इति भावः एतावतैव तावदिदं साधीयते । बहवः पुनरत्रायास्यन्ति ।

सर्वा पुरुषार्थसिद्धिर्यतो हेतुत्वात्तत्सर्वपुरुषार्थसिद्धि, तथाविधं हेतुत्वं यत्र प्रयोजनं तत्तथा । तच्च पुरुषार्थसिद्धिरेवेति । अनया व्युत्पत्त्या अनेन शब्देन सैवोक्ता ।

कस्य तादृशमित्यपेक्षायामिदमुक्तम् -- प्रकरणाभिधेयस्य सम्यग्ज्ञानस्येति केचित्प्रतिपद्यन्ते । अन्ये त्वर्ष(-श)[१६]आदित्वे प्रयोजनमस्यास्तीति मत्वर्थीयमतं विधाय प्रधानवन्निर्देशं विवक्षित्वा प्रयोजनवत्त्वमिति प्रतिजानते । एवं चार्तह्ं समर्थयन्ति -- यत एव पुरुषार्थसिद्धिः सम्यग्ज्ञानसाध्या तत एव सा प्रयोजनम् । तस्यापि यदेव तां प्रति हेतुत्वं तदेव प्रयोजनवत्त्वमिति ।


__________टिप्पणी__________

[१६] पाणिनि ५,२,१२७ ।
___________________________


एक तु यतः सम्यग्ज्ञाने सति पुरुषार्थसिद्धिहेतुत्वं व्यवस्थाप्यते, ततः प्रमाणफलवद्व्यवस्थाप्यव्यवस्थापनभावमाश्रियेदमुक्तं ततो न किञ्चिदवद्यमिति मयन्ते ।

<अपरे> तु चशब्दं भिन्नक्रमं कृत्वा पुरुषार्थसिद्धिहेतुत्वमुक्तम्, प्रयोजनं चोक्तमिति योजयन्ति ।

<इतरे> तु पुरुषार्थसिद्धिहेतुशब्देन कारणे कार्यमुपचर्य पुरुषार्थसिद्धिमेवाभिदधति । अनन्योपायसाध्यतादर्शनार्थं चोपचारकरणं समादधते ।

<केचित्> तु निबन्धकृतः कथञ्चिदपीदं समर्थयितुमनीशानाः सहितशब्दपातात्प्रमादपाठा एवेति वर्णयन्ति ।

अत्र सारासारं सन्त एव विवेचयिष्यन्ति ।

स्यादेतत् । यथा प्रवृत्त्यङ्गतया अभिधेयप्रयोजनमुच्यते, तद्वत्सम्बधादिकमपि किं नोच्यत इत्याह -- अस्मिंश्चेति । चो यस्मादर्थे ।


[ध्प्र्प्.१०]

तथा हि प्रुर्षार्थोपयोगि सम्यग्ज्ञानं व्युत्पादयितव्यमनेन प्रकरेणेति ब्रुवता सम्यग्ज्ञानमस्य शब्दसन्दर्भस्य अभिधेयम्, तद्व्युत्पादनं प्रयोजनम्, प्रकरणं च इदमपायो व्युत्पादनस्य इत्युक्तं भवति ।

तस्मादभिधेयभागप्रयोजनाभिधानसामर्थ्यात्सम्बन्धादीनि उक्तानि भवन्ति । न त्विदमेकं वाक्यं सम्बन्धम्, अभिधेयम्, प्रयोजनं च वक्तुं साक्षात्समर्थम् । एकं तु वदत्त्रयं सामर्थ्यात्दर्शयति । तत्र

कथं पुनरन्यस्योक्तान्यदुक्तं भवतीत्याह -- तथा हि इति । निपातसमुदायश्चायं यस्मादित्यस्यार्थे सर्वत्र वर्त्तते ।

पुरुषार्थो हेयोपादेयहानोपादानलक्षण उपयोगो व्यापारः । सोऽस्यास्तीति तथा ।

एवं सति किं सिद्धमित्याह -- तस्मादिति । तच्छब्देनानन्तरोक्तो वाक्यार्थः प्रत्यवद्र(-म्र)ष्टव्यः ।

अभिधेयभागोऽङ्ग एकदेशः । सम्बन्धादिभागापेक्षया ।

सम्बन्धादीतियादिग्रहणेनाभिधेयप्रयोजनयोः संग्रहः । [५ ] उक्तानीति उक्तानीव उक्तानि प्रकाशितानि । न तु तत्राऽभिधाऽस्य सम्भविनी ।

अथाभिधेयप्रयोजनं यथा वाक्येन साक्षादुच्यते, तथा सम्बन्धादीन्यपि किं नोच्यन्त इत्याह -- न त्विति । तुरवधारयति विशिनष्टि वा ।

अयमाशयः -- यदि सर्वे पदार्थाः प्राधान्यमश्नुवीरन्, वाक्यमेव तदा विशीर्येतान्योन्याऽव्यपेक्षाभावेनैकार्थाप्रत्यायनात् । ततो वाक्यमेकार्थमभिधेयतया उपादातुं कल्प्यते नानेकम् ।

यदि साक्षान्न समर्थम्, कथं नासमर्थम्? अथासमर्थमेव । न साक्षात्समर्थमिति तर्हि न वाच्यमिति । आह -- एकं त्विति । तुरत्रापिवद्ग्राह्यः । साक्षाद्वाच्यत्वेन एकं व्यवच्छिनत्ति । दर्शयति प्रकाशयति, तत्र वाक्यस्याभिधाव्यापारासंभवात् । अत एवोक्तानी विक्तानीति तथाऽसमाभिर्व्याख्यातम्, नयथा तदनेन विरुध्येत ।

ननु यदि नामाभिधेयादिकं वाक्यस्य प्रकाश्यम्, नाभिधेयम्, तहापि पदार्थेन तेनावश्यं भाव्यम् । तथा च कस्य किं वादकं पदमित्याशङ्क्याह -- तत्र इत्यादि -- तेशु अभिधेयादिषू ।


[ध्प्र्प्.११]

तदिति अभिधेयपदम् । व्युत्पाद्यत इति प्रयोजनपदम् । प्रयोजनं च अत्र वक्तुः प्रकरणकरणव्यापारस्य चिन्त्यते, श्रोतुश्च श्रवणव्यापारस्य ।

तथा हि -- सर्वे प्रेक्षावन्तः प्रवृत्तिप्रयोजनमन्विष्य प्रवर्तन्ते । ततश च आचार्येण प्रकरणं किमर्थं कृतम्, श्रोतृभिश्च किमर्थं श्रुयत इति संशये व्युत्पादनं प्रयोजनाभिधीयते । सम्यग्ज्ञानं व्युत्पद्यमानानामात्मानं व्युत्पादकं कर्तुं प्रकरणमिदं कृतम् । शिष्यैश्च आचार्यप्रयुक्तामात्मनो व्युत्पत्तिमिच्छद्भिः प्रकरणमिदं श्रुयत इति प्रकरणकरणश्रवणयोः प्रयोजनं व्युत्पादनम् ।

तदिति द्वितीयान्तमेतत् । यतो व्युत्पाद्यत इत्यत्र लकारः प्रयोज्यकर्मणि विहितो न प्रयोज्यक्रियाकर्मणीति । वाक्येऽपि लोके पद्यते गम्यतेऽनेनार्थ इति व्युत्पत्त्या पदप्रयोगो दृश्यते । ततो व्युत्पाद्यत इति प्रयोजनपदमित्याह । अन्यथा पदवृन्दमिदं न पदम् । यद्वा व्युत्पाद्यत इत्यत्रेति द्रष्टव्यम् ।

ननूक्तम् -- ’प्रयोजनं पुरुषार्थसिद्धिःऽ । तत्किं पुनश्चिन्त्यते । कथं च तदन्यतोच्यत इत्याह -- प्रयोजनं चात्र इति । चो वक्तव्यान्तरसमुच्च्ये । तदयमर्थः -- नोक्तं प्रयोजनमिति चिन्त्यते किं तु गुणभूतार्थप्रयोजकपदस्य व्युत्पाद्यत इत्यस्य प्रयोजनम् । तद्व्युत्पत्तिः क्रियत इति णिचः किं प्रयोजनमिति प्रश्ने तस्य प्रयोजनं चिन्त्यत इति यावत् ।

अत्रेति गुणभूतार्थ्निरूपणे प्रकरणकरणमेव व्यापारः ।

ननु कस्मादियमाशङ्का -- ’वक्त्रा किमर्थं क्रित्यते, श्रोतृभिश्च किमर्थं श्रूयतऽ इति । तौ खल्वेवमेव प्रवर्त्तेयातामित्याशङ्क्याह -- तथा हीति यस्मात् ।

अथ कथमुभयोर्व्युत्पादनं प्रयोजनमुच्यत्गे? यद्यतो व्युत्पद्यते तस्य व्युत्पत्तिः प्रयोजनम् । यस्तु व्युत्पादयति तस्य व्युत्पादनमिति । नैतदस्ति । प्रयोजकव्यापारवती हि व्युत्पत्तिः प्रयोजनमिष्टेत्युभयोर्व्युत्पादनमेव प्रज्योजनम् । केवलमेकोऽन्यथा प्रवर्त्ततेऽन्यश्चान्यथा । कथं नाम मद्व्यापारवशेन श्रोतृसन्तानवर्त्तिनी व्युत्पत्तिर्भूयादिति आचार्यः प्रवर्त्तते । अत एव स्वप्रयोजकव्यापाराधिष्ट्ःिता श्रोतृसन्तानवार्त्तिनी व्युत्पत्त्ः कर्त्तुः प्रयोजनम् । एवमेवासौ व्युत्पादको भवति । श्रोता तु कथं नामैतदाचार्यव्यापारवसेन(-शेन) मत्संतानवर्त्तिनी व्युत्पत्तिर्भूयादिति प्रवर्त्तते ।

अत एवाचार्यव्यापाराधिष्ट्ःिता व्यत्पत्तिः श्रोतुरपि प्रयोजनम् । एवमेवासौ तद्व्युत्पाद्यो


[ध्प्र्प्.१२]

सम्बन्धप्रदर्शनपदं तु न विद्यते । सामर्थ्यादेव तु स प्रतिपत्तव्यः ।

प्रेक्षावता हि सम्यग्ज्ञानावव्युत्पादनाय प्रकरणमिदमारब्धवता अयमेव उपायो न अन्यः इति दर्शित एव उपायोपेयभावः प्रकरणप्रयोजनयोः सम्बन्ध इति ।

भवति । ततो व्युत्पादनं प्रयोजकव्यापारवशवर्त्तिनी व्युप्तत्तिर्द्वोयोरपि प्रयोजनमिति इतिशब्दं हेतुपदं कृतोपसंहरन्नाह -- प्रकरणकरणश्रवणयोः प्रयोजनं व्युत्पादनमिति ।

ननु च णिचि कृते व्युत्पादनं कथमुभयोः प्रयोजनम्, इत्थमिति [६ ] प्रश्नविसर्जने स्याताम् । तेनैव तावता दर्शितेन किं प्रयोजनम्? सम्यग्ज्ञानव्युत्पत्तौ कथञ्चिन्निमित्तमात्रात्दधिभोजनादेराचार्यस्यासाधारणकारणताप्रतिपत्तिः प्रयोजनम् । अयमर्थः -- अस्ति पर्योजकव्यापारप्रदर्शने सम्यग्ज्ञानव्युत्पत्तावुपयोगित्वमात्रेण स्वास्थ्यादिना साम्यमाचार्यस्य दर्शितं स्यात् । अस्ति चास्य तद्व्युत्पात्तावुपदेशलक्षणोऽसाधारणो व्यापारः । स कथां नाम प्रतीयेतेति णिचा निर्देशः कृत इति ।

अथ भोजनादेस्तद्व्युत्पत्तौ साक्षाद्व्यापाराऽसम्भवादाचार्यव्यापारः प्रतिपत्स्यत इति चेत् । नैतत् । एवं हि व्याख्यातॄणामिदं प्रतिपादनकौशलं स्यान्न कर्त्तुरिति न्याय्यो णिचा निर्देशः ।

ननूक्तम् -- अभिधानस्य प्रयोजनं न निरूप्यत इति । तत्किमिदानीं तदेव व्याजान्तरेण निरूप्यते? सत्यम् । केवलं वाक्यार्थत्वेन न निरूप्यत इत्यभिसन्धिना’ ’तन्न निरूप्यतेऽ इत्युक्तम् । न तु पदार्थत्वेनापीति किं निरोधः?

सम्यग्ज्ञानं व्युत्पद्यमानामित्यसाधुरयं शब्दः -- ’व्युत्पत्त्यर्थस्य पदेरकर्मत्वाद्ऽ इति भागवृत्तिकारः । तन्नातिश्लिष्टम्, ज्ञानार्थस्य पदेः सकर्मकस्य ’व्युत्पन्नः सङ्केतःऽ इत्यादौ बहुशः प्रयोगदर्शनात् । यथाऽवादि <प्रमाणावर्त्तिके वार्त्तिककृता> --

मनोऽव्यु(-मनो व्यु)त्पन्नसंकेन्तमस्ति तेन स चेन्मत[प्विइ १४३]इति ।

यद्यभिधेयाद्यः पदार्थाः, सम्बन्धस्तर्हि कस्य पदस्यार्थ इत्याह -- सम्बन्धेइत्यादि ।

सामर्थ्यादिति नाभिधाव्यापारेण । एवकारेण पदस्याभिधामपोहति । तुशब्दः केवलमित्यस्यार्थे ।

कथं सामर्थ्यादित्याह -- प्रेक्षावता इति । उपायः कारणम् । उपेया सम्यग्ज्ञानवुत्पत्तिः साध्या । तयोर्भवः । यद्वशेनोपायोपेयज्ञानाभिधाने भवतः । एवकार उपायशब्दात्परो द्रष्टव्यः । प्रतियोगिनोपायायोगस्यैव शङ्कितत्वात् । तदन्ययोगस्य च शङ्किष्यमाणत्वात् । अनर्थाशङ्कोपस्थापितान्ययोगनिरासे तु कर्त्तव्ये सामर्थ्यगम्यमवधारणान्तरं कार्यम् । न त्विदमेव वाच्यम् । नान्य इति च नान्य एवेत्यवसेयम् ।

[ध्प्र्प्.१३]

ननु च प्रकरणश्रवणात्प्रागुक्तान्यपि अभिधेयादीनि प्रमाणाभावात्प्रेक्षावद्भिर्न ग्रह्यन्ते ।

तत्किमेतैरारम्भप्रदेशे उक्तैः ।

सत्यम् । अश्रुयते प्रकरणे कथितान्यपि न निश्चीयन्ते । उक्तेषु त्वप्रमानकेश्वप्यभिधेयादिशु संशय उत्पद्यते । संशयाच्च प्रवर्तन्ते । अर्थसंसयोऽपि हि प्रवृत्त्यङ्गं प्रेक्षावताम् ।

एवंरूपस्य सम्बन्धो व्युत्पाद्यत इति प्रयोजनाभिधानादेव दर्शतम् । तदुक्तम् --

"शास्त्रं प्रयोजनं चैव सम्ब्धस्याश्रयादगतौ ।[१७]


__________टिप्पणी__________

[१७] उक्तान्यभिधे- ब्
___________________________


तदुक्त्यन्तर्गतस्तस्माद्भिन्नो नोक्तः प्रयोजनाद् ॥" [श्लोकवा- १,१८] इति

अभिधेयादिप्रकाशनद्वारेणादिवाक्यं प्रवर्त्तकमिति असहमान आह -- ननु च इति । निपातसमुदायश्चायं ’चोदयामिऽ, ’भिमुखो भवऽ इत्यस्यार्थस्य द्योतकः । श्रवणानन्तरं तेषां प्राक्शब्दाश्रयेण प्रवर्त्तमानमनुमानमन्यद्वा शब्दस्यार्थनान्तरीयतायां प्रवर्त्तयितुमर्हति । असम्बन्धनिबन्धनायाः परोक्षार्थप्रतिपत्तेः प्रामाण्यायोगात् । सा च शब्दस्यासम्भविनी । आचार्यस्य चाप्तभावो दुर्बोधो येनाप्तोपदेशतया शब्दोऽर्थतथात्वं प्रत्याययेदिति । आरभ्यत इत्यारम्भः प्रकरणम् । तस्य प्रदेशः एकदेशः । सामर्थ्यात्तदादिः ।

सच्चोद्ये सत्यमित्याह । यदि सत्यमिदं किमर्थं तर्हि [६ ] ते कथ्यन्त इति? उक्तेषु इति । तुरनुक्तपक्षादुक्तपक्षस्य विशेषं दर्शयति । अनेनैतदाह -- साधकबाधकप्रमाणाभावे येन र्ते व्याहारात्प्रतिनियताधिकरणो यौक्तः संयो भवितुमर्हतीति । अपि न्यायतः सम्भावनां दर्शयति, अतिशयं वा । अन्यथा किं सप्रमाणकेष्वपि संशयो जायते येनापिश्रुतिः सम्गच्छेत् ।

ननु प्रवृत्तिफलमादिवाक्यं, प्रवृत्तिश्चेन्नास्ति किं संशयेनोत्पादितेनापीत्याह -- शंशयाच्च इति । चो यमादर्थे ।

अथ ये तावन्मदाः श्रद्धया वाऽऽचार्यमुपसन्नास्ते तद्वचनादर्थं निश्चित्यैव प्रवर्त्तमाना न संशयात्प्रवर्त्तन्ते । येऽपि तद्विपरीताः संशेरते तेषामपि न शंशयात्प्रवृत्तिः । प्रवृत्तौ वा प्रेक्षावत्त्वहानिरित्याशङ्क्याह -- अर्थसंशयोऽपीति । न केवलमर्थनिश्चिय इत्यपिशब्देनाह । शक्यनिश्चये हि निश्चयमन्तरेण प्रवर्त्तमानाः प्रेक्षावत्ताया हीयेरन् । यत्र त्वर्थसंशयेनार्थितया प्रवर्त्तमानाः, नोपालम्भमर्हन्तीति भावः । यदि च युक्त्या द्वितीयाकारानुप्रवेशेन संशयानस्य न क्वचित्प्रवृत्तिः, तर्हि न कस्यचिद्वचनात्क्वचित्प्रवर्त्तितव्यमिति भूयान् व्यवहारो विलुप्येत ।

ननु निवृत्तिरनर्थनिश्चयनिबन्धना । अनर्थनिश्चयश्च प्रमाणात् । तच्चेह नास्ति । निवृत्तीतरस्तु प्रवृत्तिव्यतिरेकी प्रकारो नास्ति । ततोऽयत्नसिद्धा प्रवृत्त्ः । तत्किं तदर्थेनादि--
[ध्प्र्प्.१४]

अनर्थसंशयोऽपि निवृत्त्यङ्गमत एव शास्त्रकारेण एव पूर्वं सम्बन्धादीनि युज्यन्ते वक्तुम् ।

व्याख्यातॄणां हि वचनं क्रीडाद्यर्थमन्यथा अपि सम्भाव्यते । शास्त्रकृतां तु प्रकरणप्रारम्भे न विपरीताभिधेयाद्यभिधाने प्रयोजनमुत्पश्यामो न अपि प्रवृत्तिम् । अतस्तेषु संशयो युक्तः । अनुक्तेषु तु प्रतिपतृभिर्निष्प्रयोजनमभिधेयं सम्भाव्येत अस्य प्रकरणस्य काकदन्तपरीक्षाया इव, अशक्यानुष्ठानं वा ज्वरहरतक्षकचूडारत्नालङ्कारोपदेशवत्, अनभिमतं वा प्रयोजनं मातृविवाहक्रमोपदेशवत्, अतो वा प्रकरणात्लघुतर उपायः प्रयोजनस्य, अनुपाय एव वा प्रकरणं सम्भाव्यते ।

वाक्येनेतियाह -- अनर्थेत्यादि । न केवलमनर्थनिश्चयोऽपीत्यपि शब्दः ।

यद्यवश्यं वक्तव्यान्यभिधेयादीनि तर्हि व्याख्यातार एव तानि वक्ष्यन्ति । तत्किं शास्त्रकृतो व्याहारेणेतियाह -- शास्त्रकारेणैव न व्याख्यातृभिः ।

अथोच्यते -- प्रवृत्त्यङ्गत्वाच्च व्याचक्षते । अभिधेयाद्यनभिधाने तु प्रवृत्तेरेवासम्भवात्कथं सम्भविनो व्याख्यातारो येनाशङ्क्य तेषां व्याहारमयं निरस्यतीति । अत्रोच्यते । न सर्वथाऽभिधेयादिप्रकाशनं केनचिन्न कर्त्तव्यमेवेति चोद्यं प्रवृत्तम्, किन् त्वादिवाक्यं तदर्थं न कर्त्तव्यमित्यभिसन्धिना । तत्र ये तावत्साक्षादाचार्योपसन्नास्तेषां तद्वचनादेव तत्प्रतीतौ प्रवृत्तिज्ञानयोः सम्भवात्सम्भवि व्याख्यातृत्वम् । तेभ्योऽपि तदुपसन्नानामिति किमवद्यम्?

ननु च न शास्त्रकृद्वचनमपि प्रसह्य प्रवर्त्तयति, किं तर्हि प्रयोजनाद्यभिधानेन प्रवृत्तिविषयोपदर्शनात् । तच्च व्याख्यातृवचनेऽपि सम्भवतीति किमुच्यते शास्त्रकारेणैवेत्यत आह -- व्याख्यातॄणां हि इति । हिर्यस्मादर्थे । शास्त्रकारेष्वपीदं समानमित्याह -- शास्त्रकृतामिति । तुना व्याख्यातृभ्यः शास्त्रकृतां वैधर्म्यमाह । विपरीतं च तदभिधेयाद्यभिधानं चेति विग्रः । अथ वा विपरीतं च तदसत्यत्वादभिधेयञ्चाभिधेयतया प्रकाशनात् । तस्याभिधानमिति विग्रहीतव्यम् । उत्पश्याम उत्प्रेक्षामहे । अनेनैतदाह -- तेषामपि तथाभिधाने किमस्माकं बाधकं प्रमाणं? केवलम्
एषां महीयसाशयेन शास्त्रं प्रणेतुमिच्छतां परार्थप्रवृत्तानां नैतत्सम्भावयाम इति ।

प्रकरणस्य प्रारम्भ आदौ । एतच्च प्रयोजनाद्यभिधाननियतसन्निधेर्यथाभूतार्थचिन्ताविधानविषयस्य कालस्य निर्देशो न तु प्रकरणस्य [७ ] मधेऽवसाने वा तत्सम्भवति सप्रयोजनं चेति ।


[ध्प्र्प्.१५]

एतासु च अनर्थसम्भावनास्वेकस्यामप्यनर्थसम्भावनायां न प्रेक्षावन्तः प्रवर्तन्ते ।

अथ यद्येवंविधा प्रवृत्तिः शास्त्रकृतां दृश्यते, त्वयाप्यस्य किं न सम्भाव्यत इत्याह -- नापि इति । अपिरप्रयोजनापेक्षया समं प्रवृत्तिदर्शनं समुच्चिनोति । तदेवोत्पशाम इति सम्भध्यमानमिह पश्याम इत्यस्यार्थे सम्बद्ध(-बन्ध)व्यम् । पश्याम इति वाऽध्याहार्यम् । अनेनैतदाह -- तथापि सम्भावयामो यदि तेषामीदृशी पश्यामो न त्वेवमिति । अतो हेतोस्तेष्वभिधेयादिषु यद्वा तेषु शास्त्रकारेषु वक्तृषु सत्सु तदुक्तेष्वभिधेयादिष्विति प्रकरणात्संशयोऽर्थोन्मुख इति द्रष्टव्यम् ।

ननु सत्यप्यर्थसंशयेऽर्थत्वाभावे प्रवृत्तिर्नास्ति । तन्निमित्ता तु सा संशयमात्रादपि भवति । तन्मात्रञ्च साधकबाधकविरहादप्यर्थे सिद्धम् । तत्किं तदुत्पादार्थेन वाक्येनेत्याह -- अनुक्तेषु -- इति । तुरुक्तावस्थाया अनुक्तावस्थां भेदवतीं दर्शयति ।

निर्गतं प्रयोजनं यस्मान्निष्कान्तं वा प्रयोजनात् । काकदन्ता ह्यभिधेयाः । ते च न क्वचित्पुरुषार्थ उपयुज्यन्ते । सप्रजोजनं वाभिधेयमशक्यानुष्ट्ःानं सम्भाव्येत । किंवदित्याह -- ज्वरेत्यादि । ज्वरं हरतीति ज्वरहरः । तक्षकाख्यस्य नागराजस्य चूडा शिखा । तस्या रत्नं रतिं तनोतीति विशिष्टं वस्तु । तेनालङ्करणमलङ्कारः । ज्वरहरश्चासावेवेंभूतश्चेति विग्रहः । स उपदिश्यते येन ग्रन्थेन तद्वत् ।

सतोर्वा सप्रयोजनशक्यानुष्ठानत्वयोरस्य प्रयोजनमनभिमतमेवास्तिकानां सम्भायेत । मातुर्विवाहस्य क्रमः परिपाटिरुपदिश्यते येन पारसीकशास्त्रेण तद्वत् । पारसीकशास्त्रेण हि मृते पितरि माता प्रथममग्रजेन पुत्रेण परिणेतव्या, तदनु तदनुजेनेत्युपदिश्यते ।

अतो वा प्रकरणाल्लघुरल्पग्रन्थः प्रयोजनस्य सम्यग्ज्ञानव्युत्पत्तिलक्षणस्य । अनुपाय एव अनिमित्तमेव ।

चत्वारोऽपि वाशब्दाः पूर्वपूर्वापेक्षया पक्षान्तरमवद्योतयन्ति । सम्भावना च सर्वा वर्णिताऽनर्थोन्मुखा प्रतिपत्तिः युक्त्या द्वितीयाकारानुप्रवेशाच्च संशयपदाभिलाप्या प्रत्येतव्या, सर्वत्रैवाकारान्तरस्य प्रतियोगिनः समुदाचारतोऽदर्शनात् । तथाविधाऽनर्थसम्भावनायाश्च बीजमिदमसत्यादिवाक्ये -- यद्यस्य प्रयोजनादिकं भवेद्बहुभिरन्यैरिवानेनाप्यादावुक्तं भवेत् । न चानेन किञ्चिदवादीति मतिः ।

कामममूरनर्थसम्भावना भवन्तु का नो हानिरित्याह -- एतास्विति । न केवलं सर्वा इत्यपिशब्देनाह । प्रयोजनाद्यनभिधान इव यद्यभिधानेऽपि भवन्ति तास्तदा किमभिधेयादिभिरभिहितैरपीत्याह -- अभिधेयादिषु इति । तुरुक्तेषु इत्यस्याननतरं द्रष्टव्यः, अनुक्तपक्षाच्च विशेषस्य द्योतकः ।

अथ कथमनयोरर्थानर्थसम्भावनयोर्विरोधो यतः सम्भावना संशय उच्यते । स चोभयां


[ध्प्र्प्.१६]

अभिधेयादिषु तु उक्तेष्वर्थसम्भावना अनर्थसम्भावनाविरुद्धा उत्पद्यते । तया प्रेक्षावन्तः प्रवर्तन्ते इति प्रेक्षावतां प्रवृत्त्यङ्गमर्थसम्भावना कर्तुं सम्बन्धादीन्यभिधीयन्त इति स्थितम् ।

शावलम्बन इत्यन्योन्यस्यामन्याकारोऽस्तीति कुतः सहानवस्थानम् । उच्यते । एकस्यामनर्थाकार उद्रिक्तोऽनुभूयते, युक्तेस्तु द्वितीयाकारानुप्रवेशः । इतरस्यां नू(तू)द्रिक्तोऽ[७ ]र्थाकारोऽनुभूयते, युक्तेस्त्वनथाकारानुप्रवेश इत्युभयोरप्यन्योन्यवैपरीत्येनानुभवाद्कथमविरोधः ।

भवत्वेवम्, तथापि कथमस्याभिधानेऽनर्थाशङ्का निरस्तेति चेत्, उच्यते -- पुरुषार्थसिद्धिरूपाभिधेयप्रयोजनाभिधानेनाऽऽदिमाऽनर्थसम्भावना निरस्ता । अभिधेयतत्प्रयोजनयोरुपनिरूपणेन च द्वितीयतृतीये निरस्ते । अन्तिमाऽपि सामर्थ्यगतिसम्बन्धप्रतिपादनान्निरस्ता । तुरीयां तु परमविवेकशालिन आचार्यस्य प्रकरणारम्भसामर्थ्यान्निरस्यते । तथा हि न समानेऽप्युपायान्तरे सम्भवति महतो महानयं प्रेक्षापूर्वकारी प्रकरणमीदृशमारभते, किमङ्ग पुनर्लघूनीति ।

अथ स्यात्-- समसमयसम्भवी देशान्तरवर्ती च कश्चदेतदग्रतो लघूपयान्तरकाकः(-तरग्रन्थः?) स्यात् । तत्कथं तत्प्रणितलघूपायान्तरनिरासः? अत्रापि तत्प्रेक्षावत्तैव महती निबन्धनम् । प्रेक्षापूर्वकारित्वादेव तथाभूतात्तेनास्मिन्नार्यावर्तेऽन्यत्र वा लोके नेदानीन्तनेनैतदर्थं प्रकरणं प्रणीतमिति बहुधाऽनुसर्त्तव्यम् । अनुसृत्य दृष्ट्वा तल्लघुरुपाय इति च निश्चित्येदं प्रणेतुमुचितं नान्यथेति । सर्वत्रैव प्रकरणे सत्यादिवाक्ये लघूपायान्तरनिरासे गतिरियमेव । न हि अन्यत्राप्यभिधेयतत्प्रयोजनादिप्रकाशनमन्तरेण लघूपायान्तरनिरासाभिधानमस्तीति किं नानुमन्यते?
यद्येवमितरासामप्यनर्थसम्भावनानामेवमेवास्तु निरासस्तत्किमादिवाक्येन? नैतत् । न हि सूचीप्रवेश इत्येव मूष(मूस)लप्रवेशः । तथा हि -- असत्यादिवाक्ये प्रेक्षापूर्वकारिप्रयुक्तत्वमेव प्रकरणस्य न शक्यते कल्पयितुम्, प्रत्युताप्रेक्षापूर्वकारिप्रयुक्तत्वमेव शक्यकल्पनम् । दृश्यन्ते हि प्रेक्षापूर्वकारिणः प्रकरणादौ सर्वत्र प्रयोजनाद्यभिधायकमादिवाक्यं
प्रणयन्ते(-तः) । न चानेनादिवाक्यं तदर्थमकारि । तस्मान्नायं प्रकरणकारः प्रेक्षापूर्वकारीति सङ्कल्पादु(-न्नो)पाददीति(-त) ।

ननु च प्रवृत्त्यर्थोऽयं प्रयासः । सा चेन्नास्ति किं तयोत्पन्नयापीत्याह तया -- इति । यद्यर्थसम्भावना प्रकरणे पुरुषस्य प्रवर्त्तयित्री तर्हि किमभिधेयाद्यभिधीयत इत्याह -- इति -- इति । यस्मादर्थसम्भावनया प्रवर्त्तन्ते इतिस्तस्मादर्थसम्भावनां कर्त्तुम् । किम्भूतां? प्रवृतेरङ्गं निमित्तम् । अङ्गादिशब्दानामसति बहुव्रीहौ परलिङ्गाग्रहणात्स्वलिङ्गेन निर्देशः । इतिरेवमर्थे स्थितं निश्चितम् ।



[ध्प्र्प्.१७]

अविसंवादकं ज्ञानं सम्यग्ज्ञानम्.

लोके च पूर्वमुपदर्शितमर्थं प्रापयन् संवादक उच्यते. तद्वज्ज्ञानमपि [स्वयं][१८]प्रदर्शितमर्थं प्रापयत्संवादकमुच्यते. प्रदर्शिते चार्थे प्रवर्तकत्वमेव प्रापकत्वम्, न अन्यत्. तथा हि -- न


__________टिप्पणी__________

[१८] <स्वयम्>ओ.ए. त्
___________________________


______________________________________________

एवमनेन प्रबन्धेन सम्यग्ज्ञानेत्यादिवाक्यस्य समुदायार्थ व्याख्यायावयवार्थमिदानीमविसम्वादकमित्यादिना व्याचष्ते ।

अत्रायं पूर्वपक्षः । किमिदं सम्यक्त्वं ज्ञानस्याभिप्रेतं? यद्योगात्सम्यग्ज्ञानमुच्यते । यद्येवं वस्तुतत्त्वग्रहणं सम्यक्त्वं, अथापि गृहीतवस्तुप्रापणं? उभयथाऽपि अनुमानमवस्तुग्रहणादसम्यग्ज्ञानम् । अगृहीतप्रापणाद्वा सम्यग्ज्ञानत्वे जलज्ञानमप्युपदर्शितमरीचिकाः प्रापयतीति न किञ्चित्सम्यजानं न स्यादिति ।

सिद्धान्तवाद्यप्यमीषां पक्षाणामनभ्युपगमेन निरासं मन्यमानः -- अविसंवादकत्वं सम्यक्त्वं विवक्षितमिति [८ ] दर्शयति । अविसंवादकं संवादकमुच्यते । विशब्दो हि संवाकप्रतिषेधे वर्त्तते । तत्प्रतिषेधस्य विधिरूपत्वात्सम्वादक एवावतिष्ट्ःत इति संवादकार्थोऽविसंवादकशब्दः । तदयमर्थः -- अविसंवादकं प्रवृत्तिविषयवस्तुप्रापक्ं स्म्यग्ज्ञानमिति ।

स्यादेतत्-- वृद्धव्यवहारो हि शब्दार्थनिश्चयभूमिः । तत्र च सम्वांदकशब्दो नोपदर्शतार्थप्रापके वर्त्तते । किं तर्हि? सत्यादिनि । न च ज्ञानस्य ताद्रूप्यमस्ति । तत्कुतस्तत्र संवादकशब्द इत्याह -- लोके च । च यस्मादर्थे अपिशब्दार्थे वा । लोके व्यवहर्त्तरि जने । अयमाशयो यथा लोके सत्यादिशब्दप्रवृत्तिनिमित्तस्योपदर्शितार्थप्रापणस्य पुरुषे सम्भवात्संवादकशब्दः प्रवर्त्तते, तथा ज्ञानेऽपि तत्सम्भवादिति ।

अथोच्यते नोपदर्शितार्थप्रापणनिमित्तकः पुरुषे संवाद[क]शब्दः किन् तु प्रतिज्ञातार्थप्रापणमित्तकः । तत्कथमिह निमित्तसम्भव इति? तदवद्यम् । तत्रापि प्रतिज्ञयोपदर्शनस्योपलक्षणात् । तदेव तूपदर्शनं क्वचिद्वचनेन, क्वचिदध्यवसायेना[१९] ............पि क्वचिद्वस्तुप्रतिभासपूर्वकेण क्वचिदन्यथा वृत्तेनेति विशेषः । संवाद[क]शब्दः (-बद)प्रवृत्तिनिमित्तं तु सर्वत्र समानमिति ।


__________टिप्पणी__________

[१९] पाट्ःोऽत्र पश्चाद्वर्धितो दृश्यते किन् तु सूक्ष्मत्वात्न पट्ःयते ।
___________________________


प्रापयनिति[२०]लक्षणहेत्वोरिति हेतौ शतुर्विधानात्प्रापणादित्यर्थः । एवमुत्तरत्राप्यवसेयम् ।


__________टिप्पणी__________

[२०] पाणिनि ३ ।२ ।१२६ ।
___________________________


[ध्प्र्प्.१८]

ज्ञानं जनयदर्थं प्रापयति, अपि त्वर्थे पुरुषं प्रवर्तयत्प्रापयत्यर्थम्. प्रवर्तकत्वमपि प्रवृत्तिविषयप्रदर्शकत्वमेव. न हि पुरुषं हठात्प्रवर्तयितुं शक्नोति विज्ञानम्.

______________________________

ननूपदर्शितार्थप्रापकं संवादकमिति ब्रुवता ज्ञानस्यैकस्योपदर्शकत्वप्रापकत्वे प्रतिज्ञाते । प्रवृत्तिमन्तरेण प्राप्तेरनुपपत्तेरर्थतः प्रवर्त्तकत्वमपि । न चैकस्यैते व्यापाराः सम्भवन्ति । यतोऽन्यत्प्रदर्शति येन जानीते, अन्यत्प्रवर्र्त्तयति यदनन्तरं प्रवृत्तिमाचरति, अन्यच्च प्रापयति यतः प्राप्त्याभिसम्बध्यते पुरुष इत्याशङ्क्याह -- प्रदर्शिते च -- इति । चो यस्मादर्थे ।

प्रवर्त्तकत्वमेव प्रापकत्वं ब्रुवतोऽयमभिप्रायः -- यद्यप्यर्थं साक्षात्कृत्यानुरूपं निश्चयं जनयत्प्रदर्शकं किञ्चित्, अपरं प्रदर्शयद्वा बाह्यायाः प्रवृत्तेः कारणां भवत्प्रवर्त्तकम्, इतरत्प्रवर्त्तनद्वारेण बाह्यायाः प्राप्तेर्निमित्तं भवत्प्रापकं व्यपदिश्यते, तथापि स एव बाह्यप्रवृत्तिकारणभावः प्रवर्त्तयितृत्वादिप्रयोजकव्यापाररूपो ज्ञानस्य पुरुषप्रेरणेनार्थजननेन च प्रवर्त्तनप्रापणयोरसम्भवेन प्रदर्शनादन्यो नोपयुज्यत इति वस्तुतः सर्वस्यैव ज्ञानस्य निश्चयानुगतस्याधिगमान्नापरौ प्रवर्र्तनप्रापणव्यापारौ । अत एव तत्राद्यमेव ज्ञानं प्रमाणं व्यवस्थाप्यते । ततो वस्तुतः
प्रदर्शकत्वादीनामभेदः, व्यावृत्तिनिबन्धनस्तु भेदोऽस्त्येव । अत एवैते प्रदर्शकप्रवर्त्तकप्रापकशब्दाः कृतकत्वानित्यत्वादिवन्न पर्याया इति ।

स्यान्मतम् -- किं पुनः प्रयोजनं येन प्रवर्त्तनात्नाऽपरः प्रापणव्यापारो ज्ञानस्य, अधिगमाच्च नान्यत्प्रवर्त्तन प्रयत्नेन साध्यते? यद्युत्तरज्ञानस्य प्रामाण्यनिषेधार्थम्, तदा गृहीतग्राहितैव तन्निषेत्स्य[८ ]तीति किं तदर्थेन प्रयासेनेति? अत्रोच्यते । यदि प्रवर्त्तयितृत्वं प्रापयितृत्वं च प्रदर्शकत्वात्परमार्थतोऽन्यत्स्यात्, तदा गृहीतग्राहितैव न शक्यते प्रतिपादयितुमिति केन प्रामाण्यं निषेध्येत? तथा हि -- न तज्ज्ञानं गृहीतं गृह्णाति, अपि तु गृहीते प्रवर्त्तयति । अपरं तु गृहीतं प्रापयति । तथाकारिणोश्च भिन्नोपयोगत्वात्प्रामाण्यं कथमपाक्रियते? यदा तु प्रवर्त्तनान्नापरः प्रापणव्यापारो ज्ञानस्य प्रदर्शनाच्च नान्यत्
प्रवर्त्तनम्, प्रथमेनैव च प्रत्यक्षानुमानक्षणेनार्थक्रियासमर्थो वस्तुसन्तानः प्रवृत्तिविषयीकर्त्तुं निशचयात्शक्यते, तदोत्तरेषां तत्सन्तानभाविनामभिन्नयोगक्षेमतया प्रामाण्यमपास्यत इति ।

एतेन तदपि प्रत्युक्तं यत्केनचिदभ्यधायि <धर्मोत्तरे> -- "यद्युपदर्शकत्वमेव प्रापकत्वं तर्हि यदुक्तमुपदर्शितमर्थं प्रापयत्संवादकमिति तस्यायमर्थः स्यात्-- उपदर्शितमुपदर्शयदिति । न चैतद्युक्तमर्थभेदाभावात् । तथा हि यदि परमार्थतोऽर्थाभेद उच्यते तदा न किञ्चिदवद्यम् । अथ तदापि नैवं वक्तयः । अत्यल्पमिदमुच्यते । कृतकत्वमनित्यत्वं प्रतिपादयतीत्यपि न वक्तव्यम्, अर्थाभेदादित्यपि किं नोच्यते? अथ शब्दप्रवृत्त्यपेक्षयाऽर्थाभेद उच्यते तदाऽसावसिद्धो व्यावृत्तिभेदस्य दर्शितत्वात् । तेनायमर्थः -- उपदर्शितं साक्षात्कृत्य जनितानुरूपनिश्चयमर्थं प्रवर्त्तनद्वारेण बाह्यायाः प्राप्तेः
साक्षाद्योज्यतया वा निमित्ततां गच्छत्संवादकमिति । वास्तवस्तु प्रवर्त्तकप्रापकयोः प्रमेयाधिगतिलक्षणात्प्रदर्शनव्यापारादन्यो व्यापारो नास्तीति न प्रवर्त्तयितृत्वं पापयितृत्वं च प्रयोजकव्यापारोऽनयोर्भिन्नः" इति ।

[ध्प्र्प्.१९]

अत एव च अर्थाधिगतिरेव प्रमानफलम्. अधिगते चार्थे प्रवर्तितः पुरुषः प्रापितश्चार्थः. तथा च सति अर्थाधिगमात्समाप्तः प्रमाणव्यापारः. अत एव चानधिगतविषयं प्रमाणम्. येन एव हि ज्ञानेन प्रथममधिगतोऽर्थः, तेन एव प्रवर्तितः पुरुषः प्रापितश्च अर्थः. तत्र एव च अथ किमन्येन ज्ञानेन अधिकं कार्यम्? अतोऽधिगतविषयमप्रमाणम्.

___________________________________

स्यान्मतम् -- यद्यधिगतिरेवोत्तरेशामपि फलं स्यात्तदोपयोगान्तराभावाद्भवेदप्रामाण्यं यावता प्रवर्त्तकस्य प्रवृत्तिः फलम्, प्रापकस्य प्राप्तिरिति फलभेदनिष्पत्तेर्भिन्नो व्यापार इत्याह -- अत एव -- इति । यतो नार्थजननद्वारेणार्थप्रापणं ज्ञानस्य, यतश्च न प्रसह्य प्रेरणेन प्रवर्त्तनम्, अत एवास्मादेव कारणादर्थस्याधिगतिः परिच्छित्तिः फलम्, न प्रवृत्त्यादि ।

ननु तत्प्रमाणस्य फलं व्यवस्थाप्यते, यस्मिन् सति तद्व्यापारः परिसमाप्यते । न चाधिगतावपि प्रवृत्तिप्राप्त्योरभावे स परिसमाप्यत इत्याह -- अधिगते च -- इति । चो यस्मादर्थे । यस्माद्येनार्थः सम्यग्ज्ञानेन दर्शितस्तत्र तेनाप्रवर्त्तितोऽपि पुरुषः प्रवृत्तियोग्योपदर्शनात्, तद्गतस्य च व्यापारान्तरस्याभावात्प्रवर्त्तित इत्युच्यते । सत्यर्थत्वे प्रवर्त्तनमेव । ज्ञानेन तावत्प्रवृत्तियोग्यः कृत इति यावत् ।

अस्तु पुरुषस्तथा प्रवर्त्तितोऽर्थस्तु न प्रापितः, तथा च व्यापारान्तरमन्याश्रीनमस्तीत्याह -- प्रापित इति । चः पूर्ववत् । अर्थोऽप्यसावप्राप्तोऽपि शक्यप्राप्तिको दर्शित इति प्रापित उच्यते । अत एव प्रापणशक्तिरेव ज्ञाणस्य प्रामाण्यम् । सा च प्राप्यादर्थादात्मलाभनिमित्तेति, यतो [९ ] येन प्रवर्त्तते तदपि प्रापणयोज्यमेव । शक्तिनिश्चयस्त्वर्थक्रियानिर्भासस्य सर्वस्यानुमानस्य च स्वत एव । प्रवर्त्तकाध्यक्षस्य च कस्यचित्स्वत एव यदभ्यासेन परितो निरस्तविभ्रमाशङ्कम्, यन्निद्राद्यनुपप्लुतं सदासन्नदेशमनाशङ्क्य व्यञ्जकाधीनाऽन्यथाभिव्यक्ति च वस्तु गृह्णाति । तद्रूपसंवेदनादेव सत्यार्थं निश्चीयते । कस्यचित्तु परतोऽर्थक्रियानिर्भासात्मकात्स्वतः प्रमाणादन्यतो वा यतः कुतश्चिन्नान्तरीयकार्थदर्शनान्मध्यकालवर्त्तिभ्रान्तिशङ्कापनोदेन
निश्चीयत इति । प्रापितश्चार्थमिति क्वचित्पाठः । स तु युक्तरूपः प्रवृत्तियोग्यीकरणात्प्रवर्त्तितः प्राप्यार्थोपदर्शनात्प्रापितोऽर्थमित्येकवाक्यतयोपदर्शनात् । एवमुत्तरत्राऽप्येष एव पाठोऽवदात इति । तथा च सति तस्मिंश्च प्रकारे सति । समाप्तः पर्यवसानं गतः । तसमादधिगमस्य फलत्वं युक्तमिति भावः । यतोऽधिगमादन्यत्फलं नोपपद्यते, जाते च तस्मिन् समाप्यते व्यापारः, अतोऽस्मात्कारणादनधिगतो ज्ञानान्तरेणापरिच्छिन्नो विषयोऽर्थो यस्य तत्प्रमाणं भवति ।

ननु अधिगतविषयमुदीचीनं ज्ञानं तत्रार्थे किञ्चिदधिकमादधानं प्रमाणं भविष्यति. न हि विषयभेदादेव प्रमाणभेदोऽपि तूपयोगभेदादपीत्याह -- येनैवैति. हिर्यस्मात्. पूर्वाद्योग्यतया प्रवर्त्तितः प्रापित इति चोक्तं तत्रैव पूर्वज्ञानादधिगते किमधिकमतिरिक्तं कार्यं कर्त्तव्यम्?

[ध्प्र्प्.२०]

तत्र यो अर्थो दृष्टत्वेन ज्ञातः, स प्रत्यक्षेण प्रवृत्तिविषयीकृतः. यस्मात्यस्मिन्नर्थे प्रत्यक्षस्य साक्षात्कारित्वव्यापारो विकल्पेन अनुगम्यते, तस्य प्रदर्शकं प्रत्यक्षम्, तस्मात्दृष्टतया ज्ञातः प्रत्यक्षदर्शितः. अनुमानं तु लिङ्गदर्शनान्निश्चिन्वत्प्रवृत्तिविषयं दर्शयति.

_______________________________

न किञ्चित् । आद्येनैव कर्त्तव्यस्य कृतत्वादिति भावः । अतोऽस्माधेतोरधिगतविषयं[२१] तदधिगन्तृसजातीयं विजातीयं वा न प्रमाणम् । तेन प्रमाणसम्प्लवो नाम नास्त्येवेति प्रकाशितम् ।


__________टिप्पणी__________

[२१] अधिगतैम्.: इधगत-
___________________________


ननु च प्रबन्धेनानेन प्रवृत्तिविषयोपदर्शकं सम्यग्ज्ञानमिति दर्शीतम् । वक्ष्यमाणया नीत्या प्रत्यक्षानुमाननामनी द्वे सम्यग्ज्ञाने । तत्र यदि समानमनयोः प्रवृत्तिविषयोपदर्शनं तदिदं प्रत्यक्षं सत्प्रमाणं, इदमनुमानं सदिति भेदो न स्यात् । अतस्तदनयोरसमानविषयत्वमेव कथितव्यम् । एवं च कस्य कथं तदिति वक्तव्यमित्याह -- तत्र इति । तयोः प्रत्यक्षानुमानयोर्मध्ये दृष्टत्वेन ज्ञातो निश्चितः । यदि ज्ञात इत्येव क्रियते तदाऽनुमेयोऽपि निश्चितः सन् प्रत्यक्षेण प्रवृत्तिविषयीकृतः प्रसज्येतेति दृष्टत्वेनेति
कृतम् । अथ यो दृष्ट इति किं नोच्यते? नोच्यते । क्षणिक्तत्वादेरपि दृष्टत्वेन प्रत्यक्षविषयत्वादनुमानावताराभावप्रसङ्गादिति ।

ननु न प्रत्यक्षस्य निश्चयनाद्प्रहणमपि तु प्रतिभासात् । तत्किमुच्यते ज्ञातो निश्चित इत्याशङ्क्याह -- यस्मादिति । विकल्पेनानुगम्यतेऽनुस्त्रियतेऽध्यवसीयते पश्यामीत्याकारेण । तस्माद्दृष्ट्वेन ज्ञात इत्युच्यते । विकल्पेनेति तत्पृष्ठभाविनाऽनुरूपेणेति द्रष्टव्यम् । अननुरूपविकल्पानुगतव्यापारस्य तत्राप्रामाण्यात्क्षणिकत्व इव । एवं ब्रुवतश्चायमभिप्राय्ः -- सांव्यवहारिकस्य प्रमाणस्येदं लक्ष[९ ]णमुच्यते । ततो वस्तुवृत्त्या प्रकाशमानमप्यनुरूपविकल्पेनाविषयीकृतं सदप्रतिभासमानं नातिशेते, व्यवहारायोग्यत्वात् । एवं तद्ग्राहकमपि तथाविधविकल्पेनाननुगम्यमानव्यापारं व्यवहारयितुमपर्याप्तं सत्तृणस्यापि
कुब्जीकरणेऽसमर्थमग्राहकं नातिवर्त्तते । तेन यदुक्तं प्रदऋशकत्वमेकत्वमेव प्रवर्त्तकत्वादीति, यच्चोक्तम् -- अधिगतिरेव फलमिति तदनुरूपनिश्चयानुगतव्यापारमनुरूपनिश्चयानुगताविति द्रष्टव्यम् । एवं यत्र यत्रोच्यते प्रत्यक्षं वस्तूपदर्शकं वस्तुग्राहकमित्यादिना शब्देन तत्र सर्वत्रानुरूपनिश्चयानुगतव्यापारमेव बोद्धव्यम् ।

अथैवं सति विकल्पस्यापि प्रामाण्यं प्रसज्येतेति चेत् । एतत्स्वयमेव <धर्मोत्तरेणा>शङ्क्य निराकरिष्यत इति नेहोच्यते । यदि प्रत्यक्षमेवं प्रवृत्तिविषयमुपदर्शयति अनुमानमप्येवं तदा


[ध्प्र्प्.२१]

तथा च प्रत्यक्षं प्रतिभासमानं[२२] नियतमर्थं दर्शयति. अनुमानं च लिङ्गसम्बद्धं नियतमर्थं दर्शयति. अत एव नियतस्य अर्थस्य प्रदर्शके. तेन ते प्रमाणे, न अन्यद्विज्ञानम्.


__________टिप्पणी__________

[२२] प्रतिभासमानंेम्.(स्. ध्प्र्२१,१४): प्रतिभासनं
___________________________


प्राप्तुं शक्यमर्थमादर्शयत्प्रापकम्. प्रापकत्वाच्च प्रमाणम्.

_______________________________________

कथं भेदव्यवस्थेति? आह -- अनुमानं तु इति । तुः प्रत्यक्षादनुमान्स्य वैधर्म्यमाह । प्रत्यक्षं न स्वयं निश्चिन्वत्प्रवृत्तिविषयं दर्शयति किन् तु निश्चाययत् । अनुमानं तु स्वयमेव निश्चिन्वदिति ।

कथमप्र्तिभासमानं निश्चेतुमीष्टे तदित्याह -- लिङ्गदर्शनादिति । लिङ्गस्य साध्याविनाभूतस्य धूमादेर्दर्शनात् । दर्शनं च स्वरूपग्रहणपूर्वकं ’सर्वत्रेदं साध्याविनाभूतमितिऽ ज्ञानम्, ’सर्वत्र साध्याविनाभूतमितिऽ स्मरणपुरःसरं वा क्वचित्स्वरूपग्रहणमिह विवक्षितम् ।

ननु च प्रत्यक्षानुमानज्ञानवदन्यस्यापि ज्ञानस्य यथा प्रवृत्तिविषयप्रदर्शनं तथा किं न प्रदर्श्यते? अथाप्रामाण्यान्नोपदर्श्यते । कथं पुनरप्रामाण्यमन्यस्य? अनियतप्रवृत्तिविषयप्रदर्शकत्वादिति? चेत् । तर्हि प्रत्यक्षानुमान्योरपि तथात्वेन प्रामाण्यं न स्यादित्यागूर्य ज्ञानान्तराद्[:-अन्तरद] भेदमन्ययोर्दर्शयन्नाह -- तथा च -- इति । तस्मिंश्च प्रत्यक्षस्य स्वव्यापारानुसारिविकल्पोपजननेन निश्चयनात्, प्रवृत्तिविषयप्रदर्शनप्रकारे[२३] ..................मन्यदा लिङ्गदर्शनात्स्वयं निश्चयेन प्रवृत्तिविषयप्रदर्शनप्रकारे । प्रत्यक्षं ज्ञानं प्रतिभासमानं स्वरूपेण प्रकाशमानं नियतमर्थक्रियाक्षमे
भावरूप एव व्यवस्थितं दर्शयति । तेन नानर्थं नाप्यनियतं दर्शयतीत्याकूतम् । अनुमानं च नियतमर्थं दर्शयति । चः प्रत्यक्षेण सममनुमानं नियतप्रदर्शकत्वेन समुच्चिनोति । लिङ्गसम्बद्धमिति हेतुभावेन विशेषणम् । तदयमर्थः -- यस्माल्लिङ्गं विजातीयव्यावृत्तेऽर्थेऽर्थक्रियाकारिणि तादात्म्येन तदुत्पत्त्या वा सम्बन्द्धमायत्तं तस्मात्तत्प्रभवमप्यनुमानं नियतं दर्शयति अध्यवस्यतीति । तेनानुमानमपि नानर्थं न्याप्यनियतं भावात्मन्यभावात्मनि वा दर्शयतीति प्रकाशितम् । इयांस्तु विशेषोऽनुमानं सम्बन्धग्रहणकालदृष्टसाधारणं
रूपमाश्रित्योदयमानं स्वलक्षणमध्यवस्यदपि न सन्तानान्तरासाधारणमध्यवस्त्यतीति प्रवृत्तिविषापेक्षमपि सामान्यविषयमेव । प्रत्य्क्षं तु प्रवृत्तिविषयापेक्षमप्यसाधारणाविषयमेव । सन्तानान्तरासाधा[१० ]अणेनैव रूपेण विषयस्य निश्चायनादिति ।


__________टिप्पणी__________

[२३] सूक्ष्मत्वात्न पट्ःयते ।
___________________________


इदानीं यस्यायमाशयः -- ’स्तु प्रत्यक्षं नियतार्थदर्शकम्, अर्थस्य साक्षत्क्रणात्, औमानं तु परोक्षार्थस्यासाक्षात्करणात्कथं नियतं दर्शयति? तस्मान्न द्वयोर्नियतार्थप्रदर्शकत्वम्, अपि तु एकस्यैवऽ इति । तं सामस्त्यनिषेधवादिनं प्रत्युपसंहरन्नाह -- अत इति । यस्माद्वस्तुप्रकाशात्प्रत्यक्षं नियतं दर्शयति । परोक्षस्यान्तरा साक्षादनवभासेऽपि तत्सम्बद्धतया चानुमानं कार्यस्वभावजमेकान्तनियतं भावम्, अनुपलम्भजमेकान्तनियतमभावं तथाभूतं दर्शयति । अतोऽस्माधेतोरेते द्वे अपि तथारूपे । ततोऽनेन सामस्त्यनिषेधस्य
निषेध उप्संहृतः । अन्यथा व्याख्यायमाने तु यतोऽस्तु (-यतस्तु) नियतमर्थं प्रदर्शयतोऽत एते नियतार्थोपदर्शके इत्यर्थः स्यात् । एत्च्च परिस्फुटस्यैव स्फुटीकरणमनर्थकमापद्येतेति

[ध्प्र्प्.२२]

आभ्यां प्रमाणाभ्यामन्येन च दर्शितोऽर्थः कश्चिदत्यन्तविपर्यस्तः, यथा मरीचिकासु जलम्. स च असत्त्वात्पाप्तुमशक्यः. कश्चिदनियतो भावाभावयोः, यथा संशयार्थः. न च भावाभावाभ्यां युक्तोऽर्थो जगत्यस्ति. ततः प्राप्तुमशक्यस्तादृशः ।

सर्वेण च अलिङ्गेन विकल्पेन नियामकमदृष्ट्वा प्रवृत्तेन भावाभावयोरनियत

_____________________________________

भवतामेते नियतार्थोपदर्शके, प्रमाणे तु कथमित्याह -- तेन -- इति । तेन नियतार्थप्रदर्शकत्वेन । नियतार्थप्रदर्शकत्वाभावात्किलाप्रामाण्यमनयोः शङ्कितम् । सत्यपि तस्मिन् कथं तत्स्यादिति भावः । अनयोः प्र्वृत्तिविषयप्रदर्शनप्रकारोपदर्शने तदन्यस्य ज्ञाणस्य च तदप्रदर्शने यद्बुद्धिस्थमासीत्, तदिदानीं नान्यदित्यादिनाऽभिव्यनक्ति । नान्यद्विज्ञानं प्रमाणमिति वचनविपरिणामेन सम्बन्धः ।

यद्येवं ज्ञानत्वाविशेषादमू अपि प्रमाणे मा भूतामित्याह -- प्राप्तुमिति । आदर्शयदिति हेतौ शतुर्विधानाद्धेतुपदमेतत् । तेनायमर्थः -- यतः प्राप्तुं शक्यमर्थमादर्शयति तेन प्रयक्षादिकं प्रापकमिति । भवतु प्रापकम्, प्रमाणं तु कस्मादित्याह -- प्रापकत्वाद्च -- इति । चोऽवधारणे ।

ननु आभ्यामन्ये नापि दर्शितोऽर्थः शक्यप्रापण एव ततस्तदुपदर्शकमपि किं न प्रापकं प्रापकत्वाच्च किं न प्रमाणमित्याह -- प्रमाणाभ्यामिति । चो यस्मात् । अत्यन्तग्रहणेन संशयज्ञानविषयाद्विशेष दर्शयति । तथाविधोऽपि किं न प्राप्येत इत्याह -- स च इति । चो यस्मादर्थे । नियतोपदर्शकत्वेऽप्यनर्थोपदर्शकत्वाद् अप्रमाण्यमस्य दर्शितम् । यदि कश्चिदीदृशस्तदन्यज्ञानविषयोऽन्यादृशो भविष्यति । तदुपदर्शकं च प्रमाणं भविष्यतीत्यत आह -- कश्चिदिति । शंशयार्थः संशयालम्बनः । ’स्थाणुर्वा पुरुषो वाऽ इति हि प्रत्ययः स्थाणुमुल्लिख्य पुरुषो
वेत्यालम्बयंस्तदभावमुल्लिखति । ततः स्थाण्वभावाव्यभिचारिणं पुरुषं पुरुष(-षा)भावाव्यभिवारिणं च स्थाणुमवस्यन्नभावे नाप्यभाव(वे) नियतं स्थाणुं पुरुषं वा दर्शयतीति भावाभावयोरनियतं दर्शयति । यत एवायमेकान्तनियतं दर्शयितुमनीशानो दोलायते, तत एव संशय इत्युपपद्यत इति ।

अथ विपर्ययार्थोऽसत्त्वान्न प्राप्यताम्, अयं तु कस्मान्न प्राप्यत इत्याह -- न च इति । चो यस्मादर्थे ।

ननु भवतु संशयविपर्यययोरप्रामाण्यं [१० ] किं नश्च्छिन्नम्? एतदतिरिक्तं प्रत्यक्षानुमानाभ्यामन्यत्प्रमाणं भविष्यतीत्याशङ्क्याह -- सर्वेण च -- इत्यादि । चो यस्मात् । सर्वान्तर्गतत्वाद्


[ध्प्र्प्.२३]

एव अर्थो दर्शयितव्यः. स च प्राप्तुमशक्यः. तस्मादशक्यप्रापणमत्यन्तविपरीतं भावाभावानियतं च अर्थं दर्शयदप्रमाणमन्यज्ज्ञानम्.

अर्थक्रियार्थिभिश्च अर्थक्रियासमर्थवस्तुप्राप्तिनिमित्तं ज्ञानं मृग्यते. यच्च तैर्मृग्यते, तदेव शस्त्रे विचार्यते. ततोऽर्थक्रियासमर्थवस्तुप्रदर्शकं सम्यग्ज्ञानम्.

________________________________________________________________

अनुमानस्यापि तथात्वं स्यादित्याह -- अलिङ्गेन -- इति । नास्य लिङ्गमुत्पादकत्वेन विद्यत इत्यलिङ्गम् । यद्यलिङ्गेन सर्वेण तत्करणीयं तदा प्रत्यक्षपृष्ट्ःभाविनोऽपि विकल्पस्य तदाऽऽयातमित्याह -- नियामकमिति । विषयाधीनो हि नियतार्थपरिग्रहो ज्ञानस्येत्यर्थो नियामकः । तददृष्ट्वा ।

ननु किं प्रत्यक्षपृष्ट्ःभाव्यपि नियामकमर्थं दृष्ट्वा प्रवर्त्तते, येन ताद्रूप्यविरहादन्येषां विकल्पानां तथात्वमाशङ्क्यते । उच्यते । प्रवत्तेनेत्यत्रान्तर्भूतो णिजर्थो द्रष्टव्यः । ततोऽयमर्थः नियामकमदृष्ट्वा प्रवर्त्तितेनेति । तथा च सति प्रत्यक्षपृष्ठभावी विकल्पो नियामकं दृष्ट्वैव प्रत्यक्षेण प्रत्ययेन प्रवर्त्त्यत इति तथात्वेन परिहृतो भवति । इतरे त्वलिङ्गविकल्पा येन प्रवर्त्त्यन्ते जायन्ते न तेन साक्षान्नियामको दृष्ट इति तेषां तथात्वानुषङ्गः ।

अन्ये तु अनुमाननिवृत्त्यर्थमलिङ्गेति योजयित्वा कथं पुनरवसायात्मकेनाप्यलिङ्गेन तेनैवं करणीयमित्याशङ्क्य नियामकमदृष्ट्वेत्यस्य तु हेतुभावेन विशेषणत्वान्नियामकमदृष्ट्वा प्रवृत्तत्वादित्यर्थः, इति व्याख्याय तात्पर्यार्थमपि दर्शयन्ति । यद्यपि शब्दादिजन्मानो विकल्पा नोभयपक्षसंस्पर्शेन दोलायन्ते, तथापि ते नियामकानाश्रयेण प्रवर्त्तमाना न यौक्ति(-क्त)संशयरूपतामतिवर्त्तन्त इति । पूर्वव्याख्यानेऽप्ययमेवाशयः । सर्वस्य तस्य समुदाचरतोर्विरुद्धयोराकारयोरभावेऽपि युक्त्या द्वितीयाकारानुप्रवेशात्संशयरूपत्वेन भावाभावानियतार्थोपदर्शकत्वमिति ।

एके तु नियामकं विकल्पयितव्यं वस्तुनान्तरीयकं वस्त्वदृष्ट्वा प्रवृत्तेनेति योजयन्ति । अलिङ्गेनेति चास्यैवार्थस्य हेतुभावेन विशेषणमाहुः । उभयेऽपि तु प्रत्यक्षपृष्ठभाविविकल्पेनातिप्रसङ्गमनधिगतार्थाधिगन्तुर्विकल्प्य(-ल्प)स्य प्रामाण्यचिन्ताऽधिकारेण निराकुर्वते । तेनायमर्थः -- सर्वेण तेनानधिगतत्वा(-गतार्था)धिगन्तृतयाऽभिप्रेतेनैवमवश्यकरणीयमिति ।

अनियतार्थप्रदर्शकमपि तत्प्रापकं स्यादित्याह -- स च इति । चो यस्मादर्थे । अशक्य इत्यस्यानन्तरं स अवधारणार्थो द्रष्टव्यः । सोऽनियतोऽर्थो न प्राप्तुं शक्योऽशक्यत्वादिति भावः ।

ननु च तादृशं सर्वं मा भूत्प्रापकम्, प्रमाणं तु कस्मान्न भवतीत्याशङ्क्य पूर्वोक्तमेवोपसंहरति तस्मादिति । यस्मात्प्रापकत्वादेव प्रमाणं तस्मात् । अर्थस्याशक्यप्रापणत्वेऽत्यन्तविपरीतत्वानित्य(-त्वानियत)त्वे हेतू हेतुभावेनान्ययोर्विशेषणत्वात् । चोऽप्राप्तिकार्थसमुच्चये । कश्चिदत्यन्तविपर्यस्तः, कश्चिदनियत इत्यादेर्यथाक्राममुपसंहारः -- अन्यज्ज्ञानमिति नान्यज्ज्ञानमित्यस्य ।


[ध्प्र्प्.२४]

यच्च तेन प्रदर्शितम्, तदेव प्रापणीयम्. अर्थाधिगमात्मकं हि प्रापकमित्युक्तम्.

____________________________

स्यादेतत्-- शक्यप्राप्तिकार्थोपदर्शकमेव सम्यग्ज्ञानं [११ ] नान्यदिति निर्निमित्तमिदम् । तथा चान्यदपि किं न परीक्ष्यत इत्याह -- अर्थक्रियार्थभिः -- इति । चो यस्मात् । अर्थस्य दाहादेः, क्रिया निष्पत्तिः । तामर्थ्यन्तीति तथा । एतैरर्थक्रियायां शक्तस्य वस्तुनः प्राप्तेर्यन्निमित्तं तन्मृग्यतेऽन्विष्यते । अर्थक्रियार्थित्वादेव च तदन्वेषणमेषामवसेयम् । तैश्च प्रेक्षावद्भिरिति प्रकरणाद्द्रष्टव्यम् । इतरथार्थक्रियार्थिभिरप्य्प्रेक्षावद्भिर्मिथ्याज्ञानमपि निभाल्यत इति तत्परीक्षाऽप्यापतेत् ।

यदि नाम तैस्तन्मृग्यं तथापि तदितरदपि ज्ञानं किं न परीक्ष्यत इत्याह यच्च -- इति । चोऽवधारणे । विचार्यते परीक्ष्यते । ईदृशं तत्सम्यग्ज्ञानं प्रवर्त्तकं यदनुसरन्ति भवन्त इति विभज्य प्रतिपाद्यते । अयमस्याशयः -- न व्यसनितयाऽऽचार्येणा ज्ञानं विचार्यते । किन् तर्हि? अर्थक्रियार्थिजनानुरोधेन । ते तथाभूतमेव ज्ञानं मृगयन्ते नान्यदिति तदेव विचार्यत इति । तदेवेति च मुख्यवृत्त्यभिप्रायेणोक्तं न तु मिथ्याज्ञानं शास्त्रेऽस्मिन्न विचार्यते एव । प्रसङ्गात्तु तस्यापि कल्पनाप्रभृतौ विचारसम्भवादिति ।

ननु शक्यप्रापणार्थोपदर्शकमेव सम्यग्ज्ञानार्थोपदर्शकमेव सम्यग्ज्ञानं कुतो व्यवस्थाप्यते प्रश्ने किमिदमप्रकृतमुच्यत इत्याह -- तत इति । यतोऽर्थक्रियार्थिनां प्रेक्षावतां नान्यन्मृगयणीयम्, तदन्वेषणीयमेव विचारणीयम्, व्यसनितया विचारासम्भवात् । ततोऽर्थक्रियासमर्थस्य वस्तुनः वस्तुनः प्रदर्शकं सम्यग्ज्ञानं नान्यदिति अर्थात् ।

अस्तु सम्यग्ज्ञानमीदृशमेव । तत्पुनरन्यदुपदर्श्य अन्यत्प्रापयदपि किं न सम्यग्ज्ञानं तत्प्रमाणं व्यवह्रियते? तथा च पीतसंख्या(-शङ्खा)दिज्ञानमपि प्रामाण्यान्नापैति । आह -- यच्च इति । चोऽवधारणे । अनेन पीतशं(-शङ्)खादिज्ञानमप्यंशे संवादात्प्रमाणमिति यत्कैश्चिदिष्टिं तदपि सम्यग्ज्ञानव्यवच्छेद्यमिति दर्शयति ।

ननु चानुक्तसममिदं पीतशङ्खादिज्ञाणेनानुपदर्शतस्यापि शुक्लशङ्खस्य, जलज्ञाणेनानुपदर्शितस्यापि मरीचिकानिचयस्य प्रापणदर्शनात् । नैतदस्ति । यतो न तज्ज्ञानपूर्विका सा प्राप्तिः, तस्याऽज्ञातवस्तुविषयत्वात् । न च तेन शुक्लशङ्खवस्तु मरीचिवस्तु वा ज्ञातम् । यथा तु ज्ञानान्तरादेव तथाविधार्थप्राप्तिर्न ततस्तथा अनेनैव <प्रामाण्यपरीक्षायां> निर्लोठितमिति नेहोच्यते ।

[ध्प्र्प्.२५]

तत्र प्रदर्शितादन्यद्वस्तु भिन्नाकारम्, भिन्नदेशम्, भिन्नकालं च. विरुद्धधर्मसंसर्गाद्धि अद्यद्वस्तु. देशकालाकारभेदश्च विरुद्धधर्मसंसर्गः.

तस्मातन्याकारवद्वस्तु ग्राहि न आकारान्तरवति वस्तुनि प्रमाणम्, यथा पीतशङ्खग्राहि शुक्ले शङ्खे. देशान्तरस्थग्राहि च न देशान्तरस्थे प्रमाणम्, यथा कुञ्चिकाविवरदेशस्थायां मणिप्रभायां मणिग्राहि ज्ञानं न अपवरकस्थे मणौ. कालान्तरयुक्तग्राहि च न कालान्तरवति वस्तुनि प्रमाणम्, यथा अर्धरात्रे मध्याह्नकालवस्तुग्राहि स्वप्नज्ञानं न अर्धरात्रकाले वस्तुनि प्रमाणम्.

__________________________________

तदेव तेन प्रापणीयमिति कुत एवदित्याह -- अर्थाधिगमेति । हिर्यस्मात् । उक्तमिति प्रदर्शनादीनां वस्तुतोऽभेदं प्रतिपाद्य अतो एवार्थाधिगतिरेव प्रमाण्फलमिति अनेन प्रकाशितत्वात्, न तु साक्षादभिहितम् । यद्यन्यदधिगम्यान्यत्प्रापयेत्, तदा प्रदर्शनप्रापणयोर्भेद एव स्यात्, अभेदश्च प्रतिपादित इति भावः ।

कथं पुनरधिगतिरेव फलमित्यनेन तथात्वमस्योक्तम्? यतः प्रापकत्वं प्रामाण्यम्, फलं च तदव्यतिरिक्तमिति । अथ वा प्राप्तुं शक्यमर्थमादर्शयत्प्रापकमित्यनेनैवमुक्तम् । तथा हि तादृशमर्थमादर्शयदिति परिच्छिन्ददित्यर्थः । परिच्छेदश्च प्रापकत्वान्न भिद्यत इति ।

भवतूपदर्शतार्थप्रापकत्वमेव सम्यग्ज्ञानम् । यत्तु तदेव प्राप्य वस्तु शङ्खादिकं पीतरूपतया प्रदर्शयति तत्कथमसम्यग्ज्ञानमित्याह -- तत्र इति । तत्रेति वाक्योपक्षेपे चैतद् । प्रदर्शताद्रूपाद्भिन्नाकारादि सद्वस्त्वन्यदित्यन्यत्वं विधेयम् । आकारादिभिन्नमपि न ततोऽन्यत्, तदेवेदमित्यध्यवसायादित्याह -- विरुद्धेति । हिर्यस्मात् । यदि विरुद्धधर्माध्यासादन्यत्वम्, न तर्हि देशादिभेदादित्याह । देशेति । चो यस्मात् । भवत्वेवं तथाप्याकारादिभिन्नग्राहिज्ञानमाकारान्न्तरादियोगिनि वस्तुनि किं न प्रमाणमित्याह -- तस्मादिति । यस्मात्सम्यग्ज्ञानेन यदेव हि दर्शितं तदेव प्रापणीयम्, आकारादिभिन्नं च ततोऽन्यत्तस्मात् । किमिव क्व न प्रमाणमित्याह -- यथेति । भिन्नदेशग्राहिणः
का वार्तेत्याह -- देशान्तरेति । किंवन्न प्रमाणमित्याह -- यथेति । अव(-प)वरकशब्देन देशविशेषो लयनोदरादिशब्दवाच्य उच्यते । अपवरकशब्दस्याप्येतदर्थस्य भावात् । अपवरकदेशस्थ इति पाठेऽपि न दोषः ।

भिन्नकालग्राहिणः का व्यवस्था इत्याह -- कालान्तरेति । उपदर्शनकालादन्येन कालेन व्यावहारिकेणा युक्तं सम्बद्धं तद्ग्राहि भिन्नकालवस्तुग्राहीति यावत् । चः पूर्ववत्पूर्वेण सहेदमप्रामाण्येन समुच्चिनोति । तदुदाहरन्नाह -- यथेति । अयमस्यार्थः -- अधरात्रे निद्राणस्य मध्याह्नकालप्रतिभासमनुभवतो वणिज्यागतसुतवस्तुदर्शनहृषितरोम्ण एव झटिति बोधे काकतालीयन्यायेन च सत्यपि पुत्रोपलम्भे तज्ज्ञाणं न प्रमाणम् । तत्खलु परमार्थेनार्धरात्रकालसम्बन्द्धं मध्याह्नकालाकलितं च प्रतीतमिति मध्याह्नकालत्वेनावभासनादेव च मध्याह्णकालं तद्वस्तूक्तम् ।


[ध्प्र्प्.२६]

ननु च देशनियतमाकारनियतं च प्रापयितुं शक्यम्, यत्कालं तु परिच्छिन्नम्, तत्कालं न शक्यं प्रापयितुम्. न उच्यते -- यस्मिन्नेव काले परिच्छिद्यते, तस्मिन्नेव काले प्रापयितव्यमिति. अन्यो हि दर्शनकालः, अन्यश्च प्राप्तिकालः. किं तु -- यत्कालं परिच्छिन्नम्, तदेव तेन प्रापणीयम्. अभेदाध्यवसायाच्च सन्तानगतमेकत्वं द्रष्टव्यमिति.

__________________________________

अर्धरात्रः काल आगमनकालो यस्य तस्मिन्न प्रमाणम् । अथ वा योऽर्धरात्रे सुप्तोऽह्नो मध्यमुद्गते सवितरि पुत्रमागतं दृष्टवा प्रभातायां रात्रौ सम्पन्ने मध्यन्दिने तस्मिन्नेव च देशे तमेव सुत(-तं) प्रागतं प्रबुद्धोऽपि पश्यति । तस्य तज्ज्ञानं संवादमात्रभागपि न प्रमाणम्, यतोऽर्धरात्रे मध्याह्नम्, तदानीमनागतमपि पुत्रमागतं, तेनावगतम् । न चार्धरात्रे देशकालनियतस्य पुत्रस्य, तस्य च कालस्यास्ति सद्भावः । तदा त्वर्धरात्रः परमार्थतः प्रतिभासकालो यस्य मध्याह्नकालयुक्तवस्तुन इति योज्यम् ।

एतेन सुप्तस्य केनचित्पठ्यमानं ग्रन्थं शृण्वतो ज्ञानमसत्यार्थं व्याख्यातमवसेयम् । यस्माद्देशकालभिन्नात्मानं श्रोतारं ग्रन्थं च श्रोतव्यं पश्यति निद्रोपहतः । न च तद्देशकालसम्बद्धौ स्तः । यद्देशकालौ च स्तस्तथा न गृह्णातीति ।

अनयैव च दिशा वाजिस्वप्नोऽपि व्याख्यातो द्रष्तव्यः । यतस्तत्रापि घोटकस्वप्ने यत्कालदर्शनवि[१२ ]षया भावा दृश्यन्ते न तथा सन्ति, यत्कालाश्च सन्ति तत्काला न दृश्यन्ते । अर्धरात्रादिषु हि स्वप्नदर्शनम्, सूर्योदयादिसम्बद्धाश्च ते भावा दृश्यन्ते । तस्मात्स्वप्ने केषाञ्चिदनुभूतानामत्यन्तमभावादर्थक्रियाया नास्ति सत्त्वम् । केचित्तु अर्थक्रियाकारितया अभिमताह्सत्यस्वप्ने विषया दृष्टकालभेदव्यभिचारिणो न सन्त्येवेति प्रकरणार्थः ।

इदमीदृग्विशिष्टं स्वप्नज्ञानमुदाहरतो <धर्मोत्तर>स्यायमाशयः -- एवंविधस्य स्वप्नज्ञाणस्य सदर्थत्वाभिमानः केषाञ्चित्<सत्यस्वप्नवादिन्>आमस्तीति तदभिमानशमनायेदं मयोदाहरणीकृतम् । न त्वस्मादन्यस्य स्वप्नज्ञानस्य कशिच्द्विशेषः । सर्वस्यैव स्वप्नज्ञाणस्य निरालम्बनतया मिथ्याज्ञानत्वादिति ।

इदानीं ’परिच्छिद्यमानस्य यत्कालं परिच्छेदनं तत्कालमेव प्राप्यमाणस्य*< >*प्रापणमभिमतम्ऽ -- एवं ब्रुवत इति मत्वाऽस्यार्थस्यानुपपत्तिं चोद्यति -- ननु च -- इति । देशे नियतमाकारे नियतं च शक्यं प्रापयितुमित्यभिदधानोऽनयोरविप्रतिपत्तिमाह । इदं तु न सम्भाव्यत इत्याह -- यत्कालं तु -- इति । तुनाऽनन्तरोक्ताभ्यां विधाभ्यां वैधर्म्यमाह । यः कालो स्य परिच्छेदनस्य तद्यथा भवति तथा परिच्छिन्नम् । स कालो यस्य प्रापणस्य तद्यथा भवति । तथा न शक्यं प्रापयितुम् । यस्मिन् काले परिच्छिन्नं तस्मिन् काले न शक्यते प्रापयितुमित्यर्थः । एवं च ब्रुवताऽनेन कालान्तरग्राहीति यदुक्तं तदयुक्तम्
इति दर्शितम् । सर्वस्यैव ज्ञानस्य एवंशीलत्वादिति ।

नोच्यत इत्यादिना सिद्धान्तवादी चोदकस्यानुक्तोपालम्भमाह । अनेनापि न किञ्चित्

[ध्प्र्प्.२७]

सम्यग्ज्ञानं पूर्वं कारणं यस्याः सा तथा उक्ता । कार्यात्पूर्वं भवत्कारणं पूर्वमुक्तम् । कारणशब्दोपादाने तु पुरुषार्थस्हिद्धिः साक्षात्कारणं गम्येत । पूर्वशब्दे तु पूर्वमात्रम् ।



कारणमुक्तम् । तत्किं त्वयैवं नोच्यत इति पार्श्वस्थं प्रत्यस्यैवाभिप्रायं प्रकाशयति -- अन्यो हि -- इति । ःीति यस्मात् । यद्येवं नोच्यते तर्हि किं नामोच्यत इत्याह -- किन् तु -- इति । निपातानिपातसमुदायोऽयं केवलमित्यस्यार्थे ।

ननु असङ्गतमिदं वाक्यम् । न हि यदेव परिच्छिन्नमित्यस्ति येनैवमुच्यते । यत्कालं तु प्ररिच्च्छिन्नं तत्कालमिति तु युक्तं वक्तुम्, न तदेवेति । सयमेतत् । केवलं बोधे यत्नः करणीयः । यत्कालमित्यनेन हि तकालमिति प्राप्तम्, तदेवेति तच्छब्देन वस्तुविषयो यच्छब्द आकृष्यते । ततोऽयमर्थः -- यत्कालं परिच्छिन्नं यद्वस्तु तकालं तदेव वस्तु प्रापनीयमिति । अहो गडुप्रवेशेऽक्षतारानिर्गमो जातः । एवं खलु वाक्यं स्यात्समर्थितम्, पूर्वपक्षात्पुनरस्याविशेषः प्राप्तः । अस्ति विशेषो महान्, केवलं भवता
न समीचीनं निरूपितः । तथा हि पूर्वपक्षावस्थायां यत्कालं तत्कालमिति चात्र बहुव्रीहिणा परिच्छेदनलक्षणा प्रापणलक्षणा च क्रियाऽभिधीयते । इदानीं पुनर्वस्तुतो नायमर्थः । यद्वस्तु येन कालेन सम्बद्धं परिच्छिन्नं तदेव तेन कालेन सम्बद्धं स्वरूपेण प्रापणीयं तदाऽन्यदा वा । परिच्छेदस्य यादृशः कालस्तस्मिन् काले यद्विद्यमानं तदेव प्रापणीयमिति यावत् । ततश्च परिच्छेदका[१२ ]लाऽसतो यद्ग्राहकं तन्न प्रमाणमित्यवतिष्ठते । नोच्यते यस्मिन् काल इत्यादिना च यदेतदुक्तं तद्बाह्यप्रापणाभिप्रायेण द्रष्टव्यम् । परमार्थतस्तु ज्ञानस्य प्रदर्शनाद्
अन्यः प्रानपणाव्यापारो नास्तीति यस्मिन्नेव काले परिच्छिद्यतेऽर्थस्तस्मिन्नेव काले प्राप्यत इति । एतच्चानन्तरमेवानेनैव विस्तरेण प्रतिपादितमिति स्ववचनव्याघातोऽन्यथाऽस्य स्यादिति ।

नन्वेवमपि परिच्छेदकालवर्त्तिनः प्रापणं न सम्भवत्येव । सर्वस्यैव विषयस्य क्षणिकत्वात् । तथा चोपदर्शितार्थप्रापकत्वं नाम कस्यचिदपि ज्ञानस्य नास्तीत्यसम्भवितैव सम्यग्ज्ञानत्वलक्षनस्य स्यादित्याशङ्क्याह -- अभेदेति । अभेदेनैकरूपत्वेन तदेवेदमित्याकारेणाध्यवसायात् । उपादानोपादेयकृतक्षणप्रबन्धः सन्तानस्तदाश्रितः ।

अयमस्य भावः -- सांव्यवहारिकस्येह प्रमाणस्य लक्षणामुच्यते । तेन नैकान्तेन वस्तुस्थितिरपेक्ष्यते । तत्र यद्यपि वस्तुस्थित्या परिच्छिन्नप्राप्ययोर्नानात्वं तथापि व्यवहर्त्तारो निरन्तरापरापरोत्पत्तेरविद्यावशाच्च हेतुफलरूपं क्षणप्रचयं तदेवेदमित्येकत्वेनाधिमुञ्चन्ति ततः परिच्छेदकालभाविनः प्रापणं सम्भवत्येव । इतिः सम्यग्ज्ञानपदव्याख्यानपरिसमाप्तौ ।

तदनेन प्रबन्धेन समयग्ज्ञनपदं व्याख्यायाधुना पूर्वशब्दं व्याचिख्यासुस्तेन साधर्मस्य विग्रहमाह -- सम्यग्ज्ञानमिति ।


[ध्प्र्प्.२८]

द्विविधं च सम्यग्ज्ञानमर्थक्रियानिर्भासम्, अर्थक्रियासमर्थे च प्रवर्तकम् । तयोर्मध्य यत्प्रवर्तकम्, तदिह परीक्ष्यते. तच्च पूर्वमात्रम्. न तु साक्षात्कारणम्. सम्यग्ज्ञाने हि सति पूर्वदृष्टस्मरणम्, स्मरणादभिलाषः, अभिलाषात्प्रवृत्तिः, प्रवृत्तेश्च प्राप्तिः. ततो न साक्षाथेतुः.

___________________________________________________________________________

ननु पुरुषार्थसिद्धिः सम्यग्ज्ञानस्य प्रयोजनं कार्यत्वेन । तथा च सम्यग्ज्ञानकारणिकेति वक्तुमुचितं तत्किमेवमुक्तमित्याह -- कार्यादिति । अनेन व्यवस्थावाची सन्नेव पूर्वशब्दः कारणे वर्त्तत इति दर्शयति ।

भवदिति ’लक्षणहेत्वोः क्रियायाःऽ [पाणिनि ३.२.१२६] इति हेतौ शतुर्विधानाथेतुपदमेतत् । यद्येवं कारणशब्द एव क्रियतामित्याह -- कारणेति । अयं भावः -- करोतीति कारणमुच्यते, न त्वकुर्वद्रूपम् । अकुर्वति पुनः कारणव्यपदेशः कारणकारणत्वादौपचारिकः । न च मुख्ये सम्भवति अमुख्ये प्रत्ययो युज्यते । ततो यदेव ज्ञानमव्यवधानेन पुरुषार्थसिद्धेर्निबन्धनम्, तदेव कारणशब्देन प्रतीयेतेति. यदि पूर्वग्रहणेऽप्येवं प्रत्ययस्तदा को विशेष इत्याह -- पूर्वशब्द इति । तुः कारणशब्दाद्विशेषमस्याह -- पूर्वमात्रमिति साक्षात्कारणमितरश्च ।

ननूभयोः सम्भवे साक्षात्कारणपरिहारेणेतरग्रहणाय पूर्वशब्दः शोभते । न चैवमस्ति, सर्वस्यैव पुरुषार्थसिद्धिं प्रति साक्षात्कारणत्वादित्याह -- द्विविधं च -- इति । चो यस्मादर्थे । कथं द्वैविध्यमित्याह -- अर्थक्रियेति. निर्भासतेऽस्मिन्निति निर्भासः. अर्थक्रियाया निर्भासो यस्मात्तत्तथा. यतः साधनज्ञानादनन्तरं दाहादिप्रतिभासज्ञाणमुत्पद्यते, तदेवमुच्यते.

<केचित्> तु क्षणेन कार्यकारणाव्यवहारस्यार्वाग्दर्शनेन कर्त्तुमशक्यत्वाद्दाहादिप्रतिभासमेव ज्ञानमेवं ब्रुवते । अर्थक्रियाया[१३ ]निर्भासोऽस्मिन्निति कृत्वा । अपरमर्थक्रियासमर्थे च प्रवर्त्तकम् । यत्प्रवृत्तिसमधिगम्यार्थक्रियागोचरं तदेवमुक्तम् । चोऽर्थक्रियानिर्भासापेक्षया समुच्चये । अन्योः किं परीक्ष्यत इत्याह तयोः -- इति । प्रवर्त्तकमपि साक्षात्कारणं तत्कोऽन्यत्र विद्वेषो येनेदमेव विचार्यते? किं वा पूर्वशब्देनेत्याह -- तच्च इति. चो यस्मात्.

अयमाशयः -- यतः प्रवर्त्तन्ते तत्सर्वमर्थप्राप्तेर्व्यवहितं कारणम् । अतश्च सम्भवत्प्रतिबन्धं तत्प्रवृत्त्यङ्गत्वात्पूर्वमात्रम्, न त्वनन्तरं कारणमिति । पूर्वमात्राभिधानेन सान्तरम् । अमुमेव द्रढ्यन्नाह -- न तु -- इति । तुर्विशेषार्थः । कुत एतदित्याह -- सम्यग्ज्ञान इति । हिर्यस्मात् । तस्मिन् सम्यग्ज्ञाने प्रकरणात्साधननिर्भासे सति । स्मृतिबीजोपजननयोग्यज्ञानज्ञातस्य दाहादेः स्मरणम् । ततोऽभिलाषः -- तत्प्राप्तीच्छा । ततः प्रवृत्तिः प्रवर्त्तकज्ञानोपदर्शितमर्थं प्राप्तुकामा व्यापारसहाया बुद्धिः । तस्याश्च प्राप्तिरुपादित्सितलाभः । यस्मात्स्मरणादिना व्यवधानं ततः तस्मात्
न साक्षाठेतुः प्राप्तेरुपायः पुरुषार्थसिद्देरिति प्रकरणात् ।


[ध्प्र्प्.२९]

अर्थक्रियानिर्भासां[२४]तु यद्यपि साक्षात्प्राप्तिः, तथा अपि तन्न परीक्षणीयम्. यत्र एव हि प्रेक्षावन्तोऽर्थिनः साशङ्काः, तत्परीक्ष्यते. अर्थक्रियानिर्भासे च ज्ञाने सति सिद्धः पुरुषार्थः. तेन तत्र न साशङ्का अर्थिनः. अतस्तन्न परीक्षणीयम्. तस्मात्परीक्षार्हमसाक्षात्कारणं सम्यग्ज्ञानमादर्शयितुं कारणशब्दं परित्यज्य पूर्वग्रहणं कृतम्.


__________टिप्पणी__________

[२४] -निर्भासे तु अच्फ्न्;-निर्भासात्तु बेद्
___________________________


______________________________________________________



यदि परम्परयाऽपि प्राप्तिहेतुः परीक्ष्यते तर्हि साक्षाथेतुरतितरां परीक्षणीय इत्याह -- अर्थक्रियानिर्भासमिति । तुः प्रवर्त्तकाध्यक्षादर्थक्रियानिर्भासं भेदवद् दर्शयति ।

यद प्राप्तिहेतुरिति पाठस्तदा अर्थक्रियानिर्भासमित्यस्यान्त्यव्याख्यानपक्षे भिन्ना सन्तोषादिप्राप्तिर्लोकाध्यवसायसिद्धा या तस्या हेतुः । प्राप्तिपाठे तु तद्व्याख्यानानवद्यता । पूर्वव्याख्याने तूपचारात्प्राप्तिहेतुः प्राप्तिशब्देन वक्तव्यः । करणासाधनो वा प्रात्पिशब्दो द्र्ष्टव्यः ।

कस्मात्तत्न परीक्ष्यत इत्याह -- यत्रैव हि -- इति । हिर्यस्मात् । साशङ्काः ससन्देहाः । आशङ्काग्रहणस्योपलक्षणत्वात्सविपर्यासा इत्यपि द्रष्टव्यम् ।

एवं ब्रुवतश्चायमाशयः -- न व्यसनमेतच्छास्त्रकृतो येन ज्ञानमप्रीक्षमाणः स्वास्थ्यमलभमानः परीक्षते । किन् तर्हि? व्युत्पाद्यजनप्रयोजनोद्देशेनायमस्यारम्भः । संशयविपर्यासापसारणं च व्युत्पाद्यजनप्रयोजनम् । ततो यत्रैव ते तथाप्रवृत्तयस्तदेव परीक्ष्यत इति । अर्थक्रियानिर्भासेऽपि ते तथावृत्तय इत्याह -- अर्थक्रियेति । चशब्दस्तुशब्दस्यार्थे ।

कुतो न तथावृत्तयः? येन साक्षात्कारणेऽस्मिन् सति सिद्धः पुरुषार्तः, तेनानन्तरमेव फलस्यानुभूयमानत्वात्, तदेव सन्तोषादिगमनाद्वा । व्याख्यानद्वयेऽपि अर्थक्रियानिर्भासशब्दवाच्यद्वये स्थिते द्वयमेतत्शङ्कायाः कारणम् -- अनन्तरफलादर्शनम्, अध्यवसायसिद्धभिन्नप्राप्त्यभावो वा । तदभाबे तु कथं शङ्केरन्निति भावः ।

मा भूवंस्तत्र साशङ्कास्तत्किं सिद्धमित्याह-- अत इति ।

यदि व्यवहितं प्रवर्त्तकं पुरुषार्थसिद्धेर्न कारणं तर्हि कथमुक्तम् -- ’कार्यात्पूर्वं भवत्कारणं पूर्वमुक्तम्ऽ इति? असाक्षात्कारणे चाकारणे कारण[१३ ]विशेषणं साक्षादिति निरर्थकमित्याशङ्क्याह -- तस्मादिति । यस्मात्साक्षात्कारणमाशङ्कानास्पदं सदपरीक्षणीयं तस्माद्यदसाक्षात्कारणमत एव च परीक्षार्हं परीक्ष्क्षायोग्यं प्रवर्त्तकं सम्यग्ज्ञानमादर्शयितुमादर्शयिष्यामि -- इति कारणशब्दं विहाय पूर्वगहणं कृतम् <आचार्येणे>त्यर्थात् ।

एतदुक्तं भवति -- योऽयं कारणशब्दो व्यवहिते कारणकारणे वर्त्तते नायं तत्राभिधायकत्वेन वर्त्तते करोतीति कारणमिति व्युत्पत्तेः । किन् तर्हि? तादर्थ्यादुपचारत इति ।
[ध्प्र्प्.३०]

पुरुषस्य अर्थः पुरुषार्थः. अर्थ्यत इत्यर्थः काम्यत इति यावत्. हेयोऽर्थ उपादेयो वा. हेयो ह्यर्थो हान्तुमिष्यते, उपादेयोऽपि उपादातुम्. न च हेयोपादेयाभ्यामन्यो राशिरस्ति. उपेक्षणीयो ह्यनुपादेयत्वाथेय एव. तस्य सिद्धिः हानमुपादानं च. हेतुनिबन्धना हि सिद्धिरुत्पत्तिरुच्यते, ज्ञाननिबन्धना तु सिद्धिरनुष्ठानम्. हेयस्य च हानमनुष्ठानम्, उपादेयस्य च उपादानम्. ततो हेयोपदेययोर्हानोपादानलक्षणानुष्ठितिः सिद्धिरित्युच्यते.

________________________________________________________________________

स्यादेतत्-- सत्यपि कारणग्रहणे विचारार्हमेव सम्यग्ज्ञाणं प्रतिपत्स्यते । यतस्तद्व्युत्पाद्यत इत्यर्थः, साध्यत्वात् । प्रातिपदिकार्थस्तु कारकत्वाद्गुणः प्रधानानुयायी । तेन प्रधानानुरोधात्तच्छब्दो वर्णितया नीत्या मुख्यस्य कारणस्य सम्यग्ज्ञानस्य व्युत्पत्तिकर्मताऽनुपपत्तेस्तत्परित्यागेन लक्षणया तादर्थ्यभूतया प्रत्यासत्त्याऽर्थक्रियासमर्थप्रवर्त्तक एव प्रवर्त्तिष्यते । यथा मञ्चाः क्रोशन्तीत्यत्र प्रधानानुरोधात्मञ्चशब्दः क्रोशनक्रियाकर्त्तृत्वानुपपत्तेऋ मुख्यमर्थं त्यक्त्वा लक्षणया तात्स्थ्यभूतया प्रत्यासत्त्या पुरुषेषु वर्त्तत इति । सत्यमेतत् । केवलमेवं सति व्याख्यातॄणामिदं कौशलं स्यान्न शास्त्रकृत इति सर्वमनवद्यम् ।

इदानीं पुरुषार्थसिद्दिपदं विवरिषुः पुरुषशब्देन सार्धमर्थशब्दस्य विग्रहम्, अर्थस्य च स्वरूपं पुरुषस्येत्यादिना चाष्टे । अर्थ्यत इत्याचक्षाणो[२५]’र्थ याच्ञायाम्ऽ इत्यतो णिजन्तात्कर्मण्यचं दर्शयति । अर्थ्यत इत्यस्यार्थं स्पष्टयति -- काम्यत इष्यत इत्यनेन यावानेवार्थमुक्तस्तावानेवार्थ्यत इत्यनेनापीति इति यावदित्यस्यार्थः ।


__________टिप्पणी__________

[२५] अर्थ उपयाच्ञायाम् -- धातुपाठ १०,३७३ । {नछौस्गबे इन् ब्”थ्लिन्ग्किस्तेसिन् १०,३५७}
___________________________


कोऽसावर्थमित्याह -- हेय इति । वाशब्दश्च शब्दस्यार्थे । अर्थ्यमान इष्यमाणोऽर्थः । न तर्हि हेयोऽर्थ इत्याह -- हेय इति । हिर्यस्मात् । हेयो हातुं त्यक्तुमिष्यते तस्मादर्थः । अयमाशयः -- इष्यमाणः खल्वर्थः । अत्र यद्यपि स्वीकरणेच्छा नास्ति तथापि परिहारेच्छा तावदस्तीति । यदि हातुमिष्यमाणोऽर्थः कथमुपादेयोऽर्थ इत्याह -- उपादेयोऽपीष्यते केवलमुपादातुम् । न केवलं हेय इष्यते इत्यपिशब्दः ।

ननु च न हेयोपादेयावर्थोऽपि त्वन्योऽपि । ततः सोऽपि कस्मान्न प्रदर्श्यत इत्याह -- न चेति । चोऽवधारणे यस्मादर्थे वा ।

ननूपेक्षणीयोऽपि राशिरस्ति । यत्र न प्रवृत्तिर्यतश्च न निर्वृत्तिः । तत्कथमनुभवसिद्धस्यापह्न्व इत्याह -- उपेक्षणीय इति । हिर्यस्मात् ।

अत्र <कश्चिद्> आह -- "यथाऽसावनुपादेयस्तथाऽहेयोऽपि । तत्त्र यद्यनुपादेयत्वाद्धेयस्तदाऽहेयत्वादुपादेयः किं न भवति" इति । साधूक्तं तेन <भदन्तेन> केवलं हेयशब्दार्थविचारे मनो न


[ध्प्र्प्.३१]

सर्वा चासौ पुरुषार्थसिद्धिश्चेति. सर्वशब्द इह द्रव्यकार्त्स्न्ये वृत्तः, न तु प्रकारकार्त्स्न्ये. ततो न अयमर्थः -- द्विप्रकारा अपि सिद्धिः सम्यग्ज्ञाननिबन्धना एव इति. अपि त्वयमर्थः -- या काचित्सिद्धिः, सा सर्वा कृत्स्ना एव असौ सम्यग्ज्ञाननिबन्धना इति. मिथ्याज्ञानाद्धि काकतालीयापि नास्त्यर्थसिद्धिः. तथा हि -- यदि प्रदर्शितमर्थं प्रापयत्येवं ततो भवत्यर्थसिद्धिः.

_____________________________________________________________

प्रणिहितम् । तथा हि । हीयते, त्यज्यते, न स्वीक्रियते इति हेयः । हानञ्चास्वीकरणम् । न तु गृहीत्वा परित्यागः । तेन अहिविषकण्टकादीनामपि हानं तत्रा [१४ ]ऽप्रवृत्तिरेव । सा चोपेक्षणियेऽप्यस्ति । तथा च यदि तस्य स्वीकारो भवेत्, तदाऽहेयत्वं सिद्धिमध्यासीत । न च तत्स्वीक्रियत इति व्यक्तमयं हेतुरसिद्धस्तस्य । न त्वस्माकमसिद्धः । अनुपादेयत्वस्य अस्वीकर्त्तव्यत्वस्य सिद्धत्वात् ।

अथानुभवसिद्धस्य तृतीयराशेरुपेक्षणियस्यास्वीकरणमात्राद्धेयेन सार्धमैक्यप्रतिपादनमयुक्तमिति चेत् । प्रियमुक्तं प्रयेण । न हि वयमपि प्रसिद्ध्योर्हेयोपेक्षणिययोरर्थयोरेकस्वभावतामातिष्ठामहे । किन् तु क्रियानिमित्तेन हेयशब्देनैकाभिधानं तथाऽस्वीकरणार्थेन हानशब्देनोपेक्षाया अभिधानमिति किमवद्यम्? एतच्च हेयोपादेयत्वमर्ह्तयैकपुरुषैककालापेक्षया प्रत्येयम् ।

अधुना सिद्धिशब्दस्यार्थपदेन विग्रहं ब्रुवन्नर्थमाह -- तस्य -- इति ।

ननु लोके सिद्धिर्निष्पत्तिरुच्यते, यथौदनस्य सिद्धिरिति. तत्कथमेवं वर्ण्यत इत्याह -- हेतुनिबधनेति. हेतुः कारणं निबद्ध्यतेऽस्मिन्निति निबन्धनं प्रतिबन्धविषयः । हेतुर्निबन्धनमस्या इति विगृह्य हेतुप्रतिबद्धेत्यर्थो वक्तव्यः ।

यदि जनकनिबन्धना सिद्धिरीडृशी तर्हि ज्ञाननिबन्धना कीदृशी भविष्यतीत्याह -- ज्ञानेति । तुः पूर्वस्याः सिद्धेरस्या भेदं दर्शयति । एवं च व्याचक्षाण अर्थपदव्याख्याने "अर्थः प्रयोजनं दाहादि", सिद्धिपदव्याख्याने च "तस्य दाहादेर्निष्पत्तिः" इति यद्<विनीतदेवशान्तभद्रौ> व्याचक्षातां तद्द्वयमप्यपास्यति । यतः स्वहेतोरेव वह्न्यादेर्दाहादेर्निष्पत्तिर्न तु ज्ञानात्तस्य तदकारकत्वादिति ।

ननु यदि सिद्धिरनुष्ठानम्, तर्हि हानमुपादानं सिद्धिरित्याह -- हेयस्य च -- इति. चो हेतौ, अवधारणे वा हानमित्यस्मात्परो द्रटव्यः. द्वितीयश्चकारः समुच्चयार्थः । किमेवं सति सिद्धमित्याह -- तत इति । यतो ज्ञाननिबन्धना सिद्धिरीदृशी ततस्तस्मात्कारणात् ।

पुरुषार्थसिद्धिशब्दानां विग्रहमर्थं व्याख्याय सम्प्रति सर्वशब्दं व्याख्यातुं विग्रहमाह -- सर्वा च -- इति । एवं च विगृह्णन् यद्<विनीतदेवेन> व्याख्यातम् -- "सर्वश्चासौ लौकिको लोकोत्तरश्चासन्नदेशो दूरदेशश्च पुरुषार्थश्चेति, तथा तस्य सिद्धिः" इति, तद्दूषयति. एवं हि


[ध्प्र्प्.३२]

प्रदर्शितं च प्रापयत्सम्यग्ज्ञानमेव. प्रदर्शितं च अप्रापयत्मिथ्याज्ञानम्. अप्रापकं च कथमर्थसिद्धिनिबन्धनं स्यात्. तस्माद्यन्मिथ्याज्ञानम्, न ततो अर्थसिद्धिः. यतश्च अर्थसिद्धिः, तत्सम्यग्ज्ञानमेव. अत एव सम्यग्ज्ञानं यत्नतो व्युत्पादनीयम्. यतस्तदेव पुरुषार्थसिद्धिनिबन्धनम्,

____________________________________________________

व्याख्यायमाने सर्वशब्देन पुरुषार्थसिद्धेरविशेषणाद्मिथ्याज्ञानात्काकतालीयार्थसिद्धिर्निवारिता स्यात् । न च सा सम्भयिनी । यथा च सा न सम्भवति, तथाऽनन्तरमेव प्रतिपादयिष्यते ।

_____________________________________________________________

योऽपि <शान्तभद्रः> "सर्वश्चासौ पुरुषार्थश्च, सर्वेषां वा पुरुषाणामर्थस्तस्य सिद्धिः" इति व्याचष्टे, सोऽप्यनयैव द्वारा निराकृतः ।

ननु सर्वशब्दस्य प्रकारकात्स्नर्यवृत्तेरपि दर्शनान्न ज्ञायते किं वृत्तिरत्राभिप्रेत इत्याह -- सर्वशब्द इति. द्रव्यस्य निःशेषतायां वृत्तः प्रवृत्तो वाचकभावेन । यथा "सर्वोत्पत्तिमतामीश्वरो निमित्तकारणम्" इत्य[१४ ]त्र । द्रव्यशब्देन चेदं तदिति व्यपदेशयोग्यं ग्रहीतव्यम् । न तु <वैशेषिक>सिद्धान्तप्रसिद्धं पृथिव्यादि । तदुक्तम् --

"वस्तूपलक्षणं यत्र सर्वनां प्रसज्यते ।

द्रव्यमित्युच्यते सोऽर्थो भेद्यत्व विवक्षितः" इति

पुरुषार्थसिद्धिरपीदं तदिति व्यपदेशयोग्या । तेन साऽपि द्रव्यम् । तथावृत्तेरस्य ग्रहणादन्यवृत्तितया प्रसिद्धस्यापि प्रतिषेधं कण्ठोक्तं करोति । वृत्त इति वर्त्तते । यथा पूर्वे व्याचक्षते "सर्वरसभोक्ताऽयं भिक्षाकः" इति । यथाऽयं सर्वशब्दः प्रकारकार्त्स्न्यवाची तद्वदत्रापीति । प्रकारकार्त्स्न्यवृत्तेरग्रहणे को गुण इत्याह -- तत इति । ततः प्रकारकार्त्स्न्यवृत्तस्याग्रहणत् । तथापि कथमयमर्थो भवतीति चेत् । भवति हि प्रकारकार्त्स्न्यवचने सर्वशब्दे सत्ययमर्थः -- न सोऽस्ति पुरुषार्थसिद्धेः प्रकारः फललक्षणो वा यो न सम्यग्ज्ञाननिबन्धन इति । सति चैवं द्विप्रकाराऽपि सिद्धिः सम्यग्ज्ञानपूर्विकेत्य्
अयमर्थो भवति ।

ननु चास्मिन्नप्यर्थे प्रकारद्वितयस्य संगृहीतत्वात्किमसंगृहीतं नाम येनायमर्थो यत्नेन महता हीयत इति? कथं न हीयतां कस्याश्चित्तत्प्रकारान्तःपतिताया हानव्यक्ते[२६].....................न हि षडपि रसप्रकारान् भुञ्जानः कश्चिन्मधुराम्लादिरसव्यक्तीः सर्वा एव भुङ्क्ते । न च तथाऽकुर्वन् सर्वरसभोक्ता न भवतीति ।


__________टिप्पणी__________

[२६] सम्यक्{-ङ्} न पठ्यते ।
___________________________


यद्ययं नार्थः कस्तर्हीत्याह -- अपि तु -- इति । निपातसमुदायोऽयं किन् त्वत्यस्यार्थे सर्वत्र वर्त्तते ।

ननु कृत्स्नैवासौ सम्यग्ज्ञाननिबन्धनेत्युच्यमाने मिथ्याज्ञानात्काकतालीयाऽप्यर्थसिद्धिर्नास्तीति दर्शितं स्यात् । न चैतद्युज्यते । यतो यद्यपि मिथ्याज्ञानान्नियमवती नास्त्यर्थसिद्धीह्, तथापि कादाचित्की विद्यते एव । यथा कश्चित्दहनोपरिवर्त्तिं मशकवर्त्तिं धूममवसायाग्निमनुमाय यदि प्रवृत्त्याऽग्निमासादयति । अत एव च मिथ्याज्ञानस्य कादाचित्कार्थ--

[ध्प्र्प्.३३]

सिद्धिनिबन्धनत्वात्, सम्यग्ज्ञानस्य तु नियमेनार्थसिद्धिनिबन्धनहेतुत्वात्सम्यग्जानमेव यत्नतो व्युत्पाद्यते । न त्वेतावता मिथ्यज्ञानान्नास्त्येवार्थसिद्धिः । प्रकारकार्त्स्न्यवृत्तग्रहणे तु नायं दोषः । एवं हि सम्यग्ज्ञानासाध्यः परप्रकारो निराक्रियते । न तु तत्प्रकारान्तःपातिन्याः कस्याश्चित्सिद्धिव्यक्तेर्मिथ्याज्ञानसाध्यत्वम् । न च हानोपादानव्यक्तयः प्रत्येकं प्रकारशबदवाच्याः प्रकारानन्त्यप्रसङ्गात् । तस्मात्सर्वशबदः प्रकार्कार्त्स्न्यवृत्तिरेव प्रहीतव्यः -- इति <पुर्वेषां> मतमाशङ्क्याह -- मिथ्येति । काततालयोः संयोग इवाकस्मकी काकतालीया । कुतो नास्तीत्याह -- तथा हीति । तत इति मिथ्याज्ञानात् । तद्
अपि प्रापयत्येवेत्याह -- प्रदर्शितमिति । चो यस्मात् ।

प्रदर्शितं प्रापयदपि मिथ्याज्ञानं भविष्यति । ततः सम्यग्ञानमेवेत्यवधारणमयुक्तमित्याह -- प्रदऋशितमिति । चोऽवधारणे अप्रापयदित्यतः परो द्रष्टव्यः । ’लक्षणहेत्वोःऽ [पाणिनि ३ ।२ ।१२६] इति हेतौ शतुर्विधानात् । प्रदर्शितार्थाप्रापणादेव मिथ्याज्ञान[१५ ]मित्यर्थः । मिथ्याज्ञाणस्य हीदमेव तत्त्वं यत्प्रदर्शिताप्रापत्वं नाम । प्रापके तु मिथ्याजानव्यपदेशः समारोपितः स्यादिति भावः । मा भूत प्रापकम्, तदर्थसिद्धेस्तु बिबन्धनं किंन स्यादित्याह अप्रापकमिति । चो यस्मादर्थे ।

तस्मादित्यादिनोक्तार्थोपसंहारं करोति । यस्मादुपदर्शिताप्रापकमेव मिथ्याञाणं तस्माद्यत्किञ्च्न्मिथ्याञाणं ततः सरत एव नार्थसिद्धिः । यः पुनरकस्माद्वह्नेरुपरि मशकवर्त्तिं धूममवसाय वह्निमस्वस्यति, सोऽप्यनुमाकालात्पूर्वं यावन्मशकवर्त्त्यादिभ्यो व्यावृत्तं वह्निकार्यं नियतं धूमरूपं निरूप्य विवेचितं तदानीमनुमानकाले नानुसरति, तदनुसरणे भ्रान्त्ययोगात्, तावदनिवर्त्तिते संशयहेतौ, तिष्ठतु तावन्मशकर्वर्त्तिदर्शनम्, सत्यधूमदर्शनेऽपि सन्दिग्धवह्निकार्यत्वात्कथं निःशङ्को नाम सचेतनः । तस्मान्निश्चितनियतरूपादेव धूमाद्वह्निनिश्चियः । अन्यस्मात्
त्वेकांशावग्रहोऽप्यनिवर्तितशङ्काहेतुः संशय एव । संशयश्च भावाभावानियतस्यार्थस्याशक्यप्रापणस्य दर्शको नार्थसिद्धेर्निबन्धनम् । ज्ञाणातरादेव तु सा प्राप्तिरित्यस्याभिप्रायः । एवमन्यत्रापि मिथ्याज्ञाने यथा प्रामाण्यं न युज्यते, यथा च ज्ञानान्तरादेव सा प्राप्तिस्तथा <धरमोत्तरेण>इव <विनिश्चयटीकायां> विपञ्चितमिति नेह प्रतन्य्ते ।

कुतश्चिदर्थसिद्धिरपि स्यादित्याह -- यतश्च -- इति । चोऽन्यस्माद्भेदवद्रूपमुपदर्शयति । अर्थसिद्धिनिबन्धनं मिथ्याज्ञानम् <आचार्यस्या>पि नाभिमतमिति सामर्थ्याद्दर्शयति । यदाऽऽह -- अत एवेति । यत एव मिथ्याज्ञानादर्थसिद्धिर्नास्ति, सम्यग्ज्ञानाच्चास्त्येव । अतोऽस्मादेव हेतोः । यत्नग्रहणमनुषङ्गेण मिथ्याज्ञानव्युत्पादनं दर्शयति । मिथ्याज्ञाणस्यापि कस्यचिद्व्युत्पादनादित्युक्तप्रायम् । अत एवेत्येनेन यदेव हेतुत्वेनापेक्षितं तदेव यत इत्यादिना सुखप्रतिपत्त्यर्थं कण्ठोक्तं करोति । अयमाशयः -- यद्य्<आचार्यो> मिथ्याज्ञानादप्यर्थसिद्धिं भवित्रीमभिप्रेयात्ं तदा न सम्यग्ज्ञानमेव प्रस्तारेण व्युत्पादयेत् । तदेव च तथा व्युत्पादितवान् । अतोऽवसीयते नैव तस्येदम्
अभिप्रेतमिति.

ननु सम्यग्ज्ञानपूर्विकैवेत्यवधारणे सति मिथ्याज्ञानादर्थसिद्धिर्नास्तीति लभ्यते. न चोपात्तमवधारणम्, तत्कथमयमर्थो लभ्यत इत्याह -- तत इति । यतः सर्वशब्दे दर्व्यकार्त्स्न्य--


[ध्प्र्प्.३४]

ततो यावद्ब्रूयात्-- या काचित्पुरुषार्थसिद्धिः, सा सम्यग्ज्ञाननिबन्धना एव इति, तावदुक्तं सर्वा सा सम्यग्ज्ञानपूर्विका इति. इतिशब्दस्तस्मादित्यस्मिन्नर्थे. यत्तदोश्च नित्यमभिसम्बन्धः. तदयमर्थः -- यस्मात्सम्यग्ज्ञानपूर्विका सर्वपुरुषार्थसिद्धिः, तस्मात्तत्सम्यग्ज्ञानं व्युत्पाद्यते.

यद्यपि च समासे गुणीभूतं सम्यग्ज्ञानम्, तथा अपि इह प्रकरणे व्युत्पादयितव्यत्वात्प्रधानम्. ततस्तस्य एव तत्शब्देन सम्बन्धः.

व्युत्पाद्यत इति विप्रतिपत्तिनिराकरणेन प्रतिपाद्यत इति.

____________________________________________________

वृत्तौ सति सर्वा कृत्स्ना पुरुषार्थसिद्धिः सम्यग्ज्ञानपूर्विका, न तु काचिद्व्यक्तिरस्ति या न तत्पूर्विकेत्ययमर्थो लभ्यते, ततः कारणात्पूरुषार्थसिद्धिः सम्यग्ज्ञाननिबन्धनैवेति सावधारणं वाक्यम् । यत्परिमाणमभिधेयं ब्रूयाद्वक्तुं शक्नोति, तावत्परिमाणमुक्तं सर्वा सम्यग्ज्ञानपूर्विकेत्यनेन । वर्त्ततामितिशशब्दस्तस्मादित्यस्यार्थे । क्व पुनर्यत्शब्दोऽस्ति येन वक्ष्यमाणार्थसङ्गतिरित्याह -- यद् इति । चो [१५ ] व्यक्तमेतदित्यस्मिन्नर्थे । शब्दयोः साक्षादन्योन्यापेक्षाभावात्यत्तदर्थयोरिति द्रष्टव्यम् । अभिसम्बन्धो व्यपेक्षा । एवं सति कीदृशोऽर्थो व्यवतिष्ठत इत्याह -- तदिति


ननु बहुव्रीहौ गुणीभूतं सम्यग्ज्ञानम्, तत्कथं तस्याप्रधानस्य प्रधानप्रत्यवमर्शिना तच्छब्दे परामर्शः स्यादित्याह -- यद्यपि चेति । यद्यपि चेति निपातसमुदायो विशेषाभिधानार्थाभ्युपगमे वर्त्तते । <महाभाष्ये> चायं प्रायेण दृश्यते । समास इति समासार्थ इत्यर्थः । व्युत्पादयितव्यत्वात्प्रधानमित्यभिदधतोऽयमाशयः -- द्वेधा हि प्राधान्यं शब्दतोऽर्थतश्च । तत्र शाब्देन न्यायेनासत्यपि प्राधान्ये सम्यग्ज्ञानस्य व्युत्पादयितव्यतया बुद्ध्यन्तरेणोपस्थापितस्य स्वतन्त्रस्याऽऽर्थेन न्यायेन प्राधान्यं कोऽपहस्तयेदिति <तच्>छब्देन तस्य परामर्शो न विरुद्ध्यत इत्येवं व्याचक्षाणो <विनीतदेव>व्याख्यां तिरस्करोति । एवं
ह्यसौ व्याचष्टे -- "<तद्> इति नपुंसकलिङ्गेन निर्देशात्सम्यग्ज्ञानं परामृश्यत" इति । सम्यग्ज्ञानस्याप्राधान्येन परामर्शानुपपत्तौ तल्लिङ्गप्रहणस्यैवायोगात्कथमसिद्धेन साध्यतामित्याशयः । ततः प्राधान्यात्तस्यैव सम्यग्ज्ञानस्य



[ध्प्र्प्.३५]

चतुर्विधा च अत्र विप्रतिपत्तिः संख्यालक्षणगोचरफलविषया. तत्र संख्याविप्रतिपत्तिं निराकर्तुमाह --

< >द्विविधं सम्यग्ज्ञानम् । न्बि २

द्विविधमिति -- द्वौ विधौ प्रकारावस्य इति द्विविधम्. संख्याप्रदर्शनद्वारेण च व्यक्तिभेदो दर्शितो भवति.

________________________________________
तच्छब्देन सम्बन्धनं सम्बन्धः स्वीकार इति यावत् । ततोऽयमर्थः -- तत्सम्यग्ज्ञानं करमभूतं विप्रतिपत्तिनिराकरणेन प्रतिपाद्यते बोध्यते शिष्यजन इत्यर्थात् । अत एव <तद्> इति द्वितीयान्तमेतदिति सोपपत्तिकमाह ।[२७]"सम्यं स्व(-स्मा)र्यते परः"[प्विव्२६७]इति यथा । विप्रतिपत्तिनिराकरणेन प्रतिपाद्यत इति ब्रुवता लक्षणं न विरुध्यते । "प्रसिद्धानि प्रमाणानि" [च्f. प्स्ट्म्स १२ १; न क्.२; प्व्ट्९६ ७ ]इत्यादि तदपहस्तितं वेदितव्यम् ।


__________टिप्पणी__________

[२७] "स्मार्यते समयं परः" प्विव्२६७ -- सं-
___________________________


ननु <वार्त्तिका>दिनैव सम्यग्ज्ञानस्य व्युत्पादनात्कथमस्य न वैयर्थ्यमिति चेत्संक्षिप्तरुचीन् प्रज्ञानधिकृत्येदं प्रकरणं प्रणीतमित्यदोषः ।

अथ काऽत्र विप्रतिपत्तिः यन्निराकरणेनेदं प्रतिपाद्यत इत्याह -- चतुर्विधेति । चो यस्मात् । चतुर्विधा चतुःप्रकारा । अत्र सम्यग्ज्ञाने विरुद्धा प्रतिपत्तिर्विप्रतिपत्तिः । किंविषया सेत्याह । संख्येति । अनेन विषयभेदाच्चातुर्विध्यं विप्रतिपत्तेर्दर्शितम् । तथा हि संख्याविप्रतिपत्तिस्तावत्प्रत्यक्षमेवैकं प्रमाणमिति <लोकायतिकानाम्> । प्रत्यक्षानुमानाप्तवचनानि त्रीण्येव प्रमाणानीति <सांख्यानाम्> । आर्षस्य ज्ञानस्य प्रतिभाप्रनाम्नः कदाचिदिह लौकिकानामुत्पद्यमानस्य प्रत्यक्षानुमानयोरेकत्राप्यन्तर्भावाप्रदर्शनात्प्रत्यक्षानुमानार्षाण्येवेति <चिरन्तनवैशेषिकाणाम्>
। प्रत्यक्षानुमानोपमानशब्दा एवेति <नैयायिकानाम्> । प्रत्यक्षानुमानोपमानशब्दार्थापत्तय एवेति <प्रभाकराणाम्> इति । प्रत्यक्षानुमानोपमानशब्दार्थापत्त्यभावा एवेति <कौमारिलानाम्> ।

लक्षणविप्रतिपत्तिरपि -- सविकल्पकमेव प्रत्यक्षमिति <वैयाकरणबार्हस्पत्यादीनाम्> । सविकल्पकं निर्विकल्पकं चेति <नैयायिक>&<[१६ ]>&<मीमांसकादीनाम्> । पीतशङ्खादिज्ञानं भ्रान्तमपि प्रत्यक्षमित्य्<अंशवादवादिनाम्> । एकलक्षणहेतुजमनुमानमित्य्<अह्रीकाणाम्> । षड्लक्षणहेतुजमिति <पूर्वयौगानाम्> । पञ्चलक्षणहेतुजं चतुर्लक्षणहेतुजं चे(वे)ति <नैयायिकानाम्> ।

विषयविप्रतिपत्तिरपि -- सामान्यविषये प्रत्यक्षानुमाने इति <नैयायिकमीमासकादीनाम्> ।

फलविप्रतिपत्तिरपि -- सर्वेषां प्रमाणा(-ण)व्यतिरिक्तमेव प्रमाणरू(प्रमारू)पं फलमिति ।

तत्र तासु मध्ये संत्ख्या त्वजात्या निर्धार्यते । ततो निर्धारणे युक्तं द्वौ विधौ प्रकारावस्येति विगृह्णन् विधशब्दोऽप्यस्ति प्रकारवाचीति दर्शयति । तथा हि <प्रकीर्णवृत्ति>कृद<धर्मपालेना>पि



[ध्प्र्प्.३६]

द्वे एव सम्यग्ज्ञानव्यक्ती इति. व्यक्तिभेदे च प्रदर्शिते प्रतिव्यक्तिनियतं सम्यग्ज्ञानलक्षणमाख्यातुं शक्यम्. अप्रदर्शिते तु व्यक्तिभेदे सकलव्यक्त्यनुयायि[२८]सम्यग्ज्ञानलक्षणमेकं न शक्यं वक्तुम्. ततो लक्षणकथनाङ्गमेव संख्याभेदकथनम्. अप्रदर्शिते तु व्यक्तिभेदात्मके संख्याभेदे लक्षणभेदस्य दर्शयितुमशक्यत्वात्. लक्षणनिर्देशाङ्गत्वादेव च प्रथमं संख्याभेदकथनम्.


__________टिप्पणी__________

[२८] -व्यक्त्य्-एम्.: -व्यक्तत्य्-ध्प्र्
___________________________


_____________________________________________________

विधशब्दः प्रकारवाची प्रदर्शितः । न पुनरस्यायमभिप्राहः -- विधा(-ध)शब्दो जातिवाचित्वात्प्रकारवाची न भवतीति । अनेकार्थत्वात्तस्य प्रकारवाचिनोऽपि प्रयोगस्य "चतसृषु चैवेंविधासु तत्त्वं परिसमाप्यते" [न्यायभा- पृ- २] इत्यादावनेन प्रायशो दृष्टत्वात् ।

ननु कथं नाम प्रमाणादेव प्रवर्त्तेय नाप्रमाणादिति प्रवर्त्तितुमनाः प्रमाणस्य लक्षणमेव जिज्ञासते, न सङ्ख्याम्. ततो लक्षणमेव व्युत्पाद्यं न सङ्ख्या. तच्च लक्षनं यद्येकस्यैवास्ति, तदेकमेव प्रमाणम्. अथ बहूनाम्, तदा प्रमाणबाहुल्यमनिवार्यमेव. अथ तल्लक्षणं नैकस्यैवास्ति नापि बहूनाम्, तर्हि लक्षणव्युत्पत्तौ सामर्थ्यात्संख्याविप्रतिपत्तिर्निराकृता भवतीति किं पृथक्संख्याविप्रतिपत्तिनिराकरणेनेतियाह -- संख्येति. चो यस्मादर्थे. द्वारमुपायः.

केनाकारेण दर्शितो भवतीत्याह -- द्वे इति. इतिना व्यक्तिभेदस्य स्वरूपमाह. व्यक्तिभेदेनैव दर्शितेन किं प्रयोजनमित्याह -- व्यक्तिभेदे चेति. चो यस्मादर्थे. यद्यदर्शितेऽपि व्यक्तिभेदे लक्षणाख्यानं शक्यम्, तथापि किं दर्शितेनेत्यन्वयमात्रादप्रतिपत्तेर्व्यतिरेकमपि दर्शयितुमाह -- अप्रदर्शित इति. तुः प्रदर्शनपक्षादप्रदर्शनपक्षस्य भेदमाह. सकलव्यक्त्यनुयायीति ब्रुवतोऽयं भावः -- व्यक्तिभेदानुपदर्शने प्रतिव्यक्तिनियतस्य लषणस्याख्यातुमशक्यत्वात्. लक्षणमुच्यमानं सकलव्यक्त्यनुयायि तदेकं वक्तव्यम् । न च तद्वक्तुं शक्यम्, असम्भवादेवेति.

ननु किमुच्यते -- सकलव्यक्त्यनुयायि वक्तुमशक्यमिति यावताऽविसंवादिज्ञानं प्रमाणमित्यस्ति लक्षणमेकं सुवचमपीति. सत्यम्. केवलं ज्ञानानां यत्प्रातिस्विकं रूपं प्रवृत्तिकामानां प्रवृत्त्युपयोगि, तदुपलक्षणं नास्तीत्यभिप्रायाददोषः. यद्वा विप्रतिपत्तिनिराकरणप्रवणं यत्साधारणं लक्षणम्, तन्नास्ति. यच्चाविसंवादित्वं लक्षणम्, न तेन विप्रतिपत्तिर्निराकृता भवति. <अन्यत्रा>पि <परैर्> अविसंवादित्वस्येष्टत्वादित्यनेनाभिप्रायेणोक्तम् -- न शक्यमेकं वक्तुमिति विशेषप्रतिषेधसामर्थ्यात्शेषविधिसिद्धौ
च तथाभूतस्य साधारणस्य सम्भवादेव सकलशब्दोऽयमुपयुक्तकार्त्स्न्ये प्रवर्त्त&<[१६ ]>&नीयः. तेनायमर्थः -- प्रदर्शितव्यक्तिभेदात्मकचतुर्विधप्रत्यक्षानुयायि कलपनाऽपोढाभ्रान्तत्वम्, प्रदर्शितव्यक्तिभेदात्मकद्विविधानौमानानुयायि त्रिरूपलिङ्गजत्वं शक्यं वक्तुमिति. यदि नामैवम्, ततः किमित्याह -- तत इति. यतोऽप्रदर्शिते न शक्यमेकं तथाविधं दर्शयितुम्, ततस्तस्मात्. लक्षणकथनाङ्गमिति प्रतिव्यक्तिनियतलक्षणकथनाङ्गमित्यवसेयम्.



[ध्प्र्प्.३७]

किं पुनस्तद्द्वैविध्यमित्याह --

प्रत्यक्षमनुमानं च इति ॥न्बि ३

<______________________________________________________>

अथ तथाविधं लक्षणमेकं वक्तुं न शक्यतां नाम । किमतः? केवलमदर्शितेऽपि संख्याभेदे लक्षणभेदो दर्शयितुं शक्यताम् । तत्कस्मात्तत्कथनाङ्गं संख्याभेदकथनमित्याशङ्क्यान्वयमुखेनोक्तमर्थं द्रढयितुं व्यतिरेकमुखेणाह -- लक्षणेति । लक्षणभेदस्य प्रतिव्यक्तिभिन्नस्य दृष्टस्य । कदा दर्शयितुमशक्यत्वं यत एवं भवतीत्याकाङ्क्षायाम् -- अप्रदर्शित इति पश्चाद्योजनीयम् । तुरवधारयति, प्रदर्शिताद्वा भिनत्ति ।

ननु च न संख्याभेद एव व्यक्तिभेदः, तत्कथं व्यक्तिभेदात्म्क इत्युच्यत इति चेत्. वस्तुतः संख्येयादन्यस्याः संख्याया वास्तव्या अभावेन संख्यासंख्येययोरेकत्वविवक्षया चैवमुच्यते । पूर्वं तु कल्पनानिर्मितात्मनां(-ना)भिन्नामवलम्ब्य संख्याप्रदर्शनद्वारेणेत्युक्तम् । संख्यासम्ख्येययोरेकत्वविवक्षयैव च संख्येयविप्रतिपत्तिरेव निराकृतेति । अथ वा वस्तु(व्यक्ति)भेदस्तदात्मा तथाविधः कल्पनाशिल्पिनिर्मितो यस्य संख्याभेदस्य स तथोक्तः । परमार्थतो भिन्ने हि वस्तुनि संख्याभेदः कल्प्यत इति वास्तवरूपानुवादमिदमुक्तमिति किमवद्यम्? सर्वेण
चानेन नै(चानेनै)तदुक्तम् -- प्रवृत्तिकामानामुपयोगित्वाल्लक्षणमेव वक्तुं युक्तं तदेतत्त्वन्यथा न शक्यमाख्यातुमिति संख्याभेदप्रदर्शनमिति ।

नन्वसत्यपि द्विविधमिति संख्याभेदप्रदर्शने तत्सम्यग्ज्ञानं चेत्युक्तेऽपि व्यक्तिभेदो दर्शितो भवत्येव । सति चैवं लक्षणाभ्देदाख्यानमपि सुकरमिति कृतं द्विविधशब्देनेति चेत् । सिद्धे सतीदं वचनं द्विविधमेवेति नियमार्थमिति ब्रूमः । इतरथेह तावदेतावद्व्युप्ताद्यतया प्रस्तुतमन्यत्र पुनरन्यदप्यस्ति व्युत्पत्त्यं सम्यग्ज्ञानमित्याशङ्काहत्य न निराकृता स्यादिति । यत्पुनरुक्तम् -- तर्हि लक्षणव्युत्पत्त्यैव संख्याविप्र्तिपत्तिर्निराकृता भवतीति तदत्यन्तमसङ्गतम् । यतो यदि विशेषलक्षणमभिप्रेत्येदमुच्यते; तदा व्यक्तिभ्देदानुपदर्शने प्रतिव्यक्तिनियतं तदेवाशक्यं(-य) कथनमित्युक्तम् । न चोक्तमिति तथा कर्तुमीष्टे
। यतस्तदीदृशं प्रत्यक्षमनुमाणं चेत्येतत्कर्तुं शक्नोति । न त्वाभ्यामन्यन्न सम्यग्ज्ञाणमिति । अथ सामान्यलक्षणम् । तदपि तथाविधं साधारणं वक्तुमशक्त्यमिति केन तथा क्रियताम्? न च तेनोक्तेनापि तादृशी विप्रतिपत्तिर्निराक्रियत इत्युक्तम् । अथापि स्यात्-- द्विविधमित्युक्तेऽपि कथ[१७ ]माभ्यामन्यस्यासम्यग्ज्ञानत्ववि(-त्वाधि)गमः? उच्यते । ये तावद्<आचार्य>प्रमाणका व्युत्पत्सवस्ते तद्वचनमात्रेणैव विवक्षितमर्थं बोध्यन्ते । ये ते युक्त्यनुसारिणस्तेभ्योऽपि प्रकरणान्तरेषूपपत्तिरुदाहृता । प्रज्ञजनाधिकारेण चास्य प्रकरणस्य प्रारम्भात्स्वयमेव तैरुपपत्तिरुक्तेति न संख्यावचनमनुपादेयमिति । अस्तु लक्षणनिर्देशाङ्गम्, आदौ तु कस्मादुच्यत इत्याह -- लक्षण
इति । चस्तुल्योपायत्वं समुच्चिनोति ।

यथाकथञ्चिद्द्वैविध्यसम्भवे पृच्छति -- किं पुनरिति । किमिति सामान्यतः, पुनरिति



[ध्प्र्प्.३८]

प्रत्यक्षमिति प्रतिगतमाश्रितमक्षम्. अत्यादयः क्रान्ताद्यर्थे द्वितीयया[वा ४ अद्पाण्२.२.१८]इति समासः. प्राप्तापन्नालङ्गतिसमासेषु परवल्लिङ्गप्रतिशेधादभिदेयवल्लिङ्गे सति सर्वलिङ्गः प्रत्यक्षशब्दः सिद्धः.[२९]अक्षाश्रितत्वं च व्युत्पत्तिनिमित्तं शब्दस्य, न तु प्रवृत्तिनिमित्तम्. अनेन त्वक्षाश्रितत्वेन एकार्थसमवेतमर्थसाक्षात्कारित्वं लक्ष्यते. तदेव शब्दस्य प्रवृत्तिनिमित्तम्. ततश्च यत्किञ्चिदर्थस्य साक्षात्कारि ज्ञानं तत्प्रत्यक्षमुच्यते.


__________टिप्पणी__________

[२९] ननु चास्यां व्युत्पत्तौ इन्द्रियज्ञानस्यैव प्रत्यक्षशबवाच्यता स्याद्न योगिज्ञानादेरित्याह -- टि-
___________________________


< >___________________________________________

विशेषत । अभिमतमाह -- प्रत्यक्षमिति ।< >पृष्ठरत्यक्षमित्यत्र कः समासः, केन च सूत्रेणेत्याशङ्क्य सुखप्रतिपत्त्यर्थं विप्रतिपत्तिनिराकरणार्थं चाह प्रतिगतमित्यादि । अक्षमिन्द्रियं गतमाश्रितं जन्यतया, न त्वाधेयभावेन । एवं च विगृह्णन्[२९*]अक्षमक्षं प्रति वर्त्ततअ इति व्युत्पत्तिप्रकारेणाव्ययीभावं निरस्यति । समास एकार्थीभावः । स चायं समासस्तत्पुरुषसंज्ञको ज्ञातव्यः । केन सूत्रेणायमित्याह -- अत्यादय इति । आहोपुरुषिकयायं प्रकारस्त्वया दर्शितो न त्वस्य कश्चिद्गुणोऽस्तीत्याह -- सर्वलिन्ग इति
। अव्ययीभावपक्षे प्रत्यक्षो वृक्षः प्रत्यक्षा मृगाश्चेति न स्यात् । प्रत्यक्षस्येति श्रुतिश्च न स्यादित्यभिप्रायः । कथं पुनः सर्वलिङ्गताऽस्येत्याह -- अभिधेयवदिति । अभिधेयस्येवाभिधेयवत् । अभिधेयवल्लिङ्ग यस्य, तत्तथा. तस्मिंश्च सत्ययं प्रत्यक्षशब्दः सर्वलिङ्गः.

__________टिप्पणी__________

[२९*] अ च्f. न्भ्...
___________________________

ननु च परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः[पाण्२.४.२६]इति समस्तेन प्रत्यक्षशब्देन प्रतिशब्दो(-ब्दा)पेक्षया परस्थानस्थितस्याक्षशब्दस्य लिङ्गपरिग्रहात्कथमस्याभिधेयवल्लिङ्गतेत्याह -- प्राप्तेति.

ननु केनास्य परवल्लिङ्गनिषेधः? न तावत्प्राप्तापन्नालङ्गतिसमासेन तेषां स्वरूपग्रहणात्तत्र. अत्र च तदभावात्. गतिसमासादिति चेत्, तदप्यसत्, उपसर्गाः क्रियायोगे[पाण्१.४.५९]इत्यतः क्रियायोगे वर्त्तमाने गतिश्च[पाण्१.४.६०]इत्यनेन क्रियायोग एव गतिसंज्ञाविधानात्. न चायं प्रतिशब्दः क्रियायोगी, न च गमनक्रियायोगोऽत्रास्तीति वाच्यम्. प्रतिशब्दस्यैव तत्रार्थे वर्त्तमाना(-नत्वा)त्नायं दोषः, गतिग्रहणेन तत्र येषां गतिसंज्ञा दृष्टा तेषामर्हणात् । प्रत्यादीनां सा दृष्टेति तेषामपि तथात्वेन सङ्ग्रह इति ।

यद्येवं समासस्तर्हि कथमाचार्य<दिग्नागेन> अक्षमक्षं प्रति वर्त्तत इति प्रयक्षम्[न्मु]इत्युक्तम्? तदर्थमात्रं कथितमित्यदोषः ।



[ध्प्र्प्.३९]

यदि त्वक्षाश्रितत्वमेव प्रवृत्तिनिमित्तं स्यादिन्द्रियविज्ञानमेव प्रत्यक्षमुच्येत, न मानासादि । यथा गच्छति गौः इति गमनक्रियायां व्युत्पादितोऽपि गोशब्दो गमनक्रियोपलक्षितमेकार्थसमवेतं गोत्वं प्रवृत्तिनिमित्तीकरोति । तथा च गच्छत्यगच्छति च गवि गोशब्दः सिद्धो भवति ।

मीयतेऽनेन इति मानम् । करणसाधनेन मानशब्देन सारूप्यलक्षणं प्रमाणमभिधीयते । लिङ्गग्रहणसम्बन्धस्मरणस्य पश्चात्मानमनुमानम् । गृहीते पक्षधर्मे स्मृते च साध्यसाधनसम्बन्धेऽनुमानं प्रवर्तत इति पश्चात्कालभाव्युच्यते ।

___________________________________

अथ प्रतिगतमाश्रितमक्षमित्यस्यामपि व्युत्पत्तौ मानसस्वसंवेदनयोगिप्रत्यक्षाणां न स्यात्प्रत्यक्षशब्दवाच्यतेत्याह -- अक्षाश्रितत्वमिति । चो यस्मात् । प्रकृत्यादिविभागेन शब्दस्य निष्पत्तिर्व्युत्पत्तिः । प्रवृत्तिरर्थाभिधानं शब्दस्येति प्रकृतस्य प्रत्यक्षशब्दस्य । तुरवधारणे । किं तर्हि प्रवृत्तिनिमित्तमित्याह -- अनेन -- इति । तुना व्युत्पत्तिनिमित्तादस्य भेदं द&<[१७ ]>&र्शयति. यत्तदोर्नित्यमभिसम्बन्धात्यदक्षाश्रितत्वेनार्थसाक्षात्कारित्वम् अर्थापरोक्षीकरणमुपलक्ष्यते तदेव तु प्रत्यक्षशब्दस्य प्रवृत्तिनिमित्तम् । कथं पुनरन्येनासम्बद्धेनान्यस्योपलक्षणम्? मा भूद्
इ(अ)तिप्रसक्तिरित्याह -- एकार्थसमवेतमिति हेतुभावेन विशेषणात् । यत एकार्थसमवेतं ततो लक्ष्यत इत्यर्थः । एकस्मिन्नर्थे ज्ञानलक्षणेऽर्थसाक्षात्कारित्वमक्षाश्रितत्वेन समं समवेतम् । यद्यपि परमार्थतः समवायसमवायिनौ न स्तः, तथापि तद्व्यावृत्तिनिबन्धनयोस्तथाभूतवस्त्वाश्रयेण कल्पितयोरक्षाश्रितत्वार्थसाक्षात्कारित्वयोरेकार्थसमवायस्य च कल्पितस्य सम्भवादेवमभिधाने को विरोधः? परप्रसिद्ध्या वा एवमुक्तमिति का क्षतिः? एवमपि कथं पूर्वदोषातिवृत्तिरिय आह -- ततश्चेति । साक्षात्कारित्वस्य प्रवृत्तिनिमित्तत्वात् । चशब्द एव तस्मादिदमुच्यत इत्यर्थं द्योतयति ।

अक्षाश्रितत्वे प्रवृत्तिनिमित्ते को दोष इति पार्श्वस्थस्याश्रुतचोदकवाक्यस्य वचनमाशङ्क्याह -- यदि-- इति । तुना भेदवदेतद्दर्शयति ।

अथाभिधीयते -- यदर्थसाक्षात्करणमक्षाश्रितत्वेन समवेतं तदेवानेनोपलक्षाणीयमिति तदवस्थे(-स्थो) मानसादेरसङ्ग्रह इति । न । अक्षजत्वस्योपलक्षणत्वेनाप्राधान्यादर्थसाक्षाकारित्वमुपलक्ष्यमाणं प्रधानमुपलक्ष्यैव निवृत्तेरदोष एव । यथा काकेभ्यो दधि रक्ष्यतामित्यत्र । अन्यथाऽत्रापि काकत्वेनैकार्थसमवेतस्योपघातकत्वस्योपलक्षणात्, श्वादिभ्यो दधिरक्षा न स्यात् । अथ यदेवोपघातकं(-कत्वं) काकेषु समवेतं तदेवान्यत्रापि । तच्चोपलक्षितमिति तदन्यतोऽपि दधिरक्षोच्यते । अर्थसाक्षात्कारित्वेऽपि समानमिति कथं न मानसादेः
प्रत्यक्षशब्दाभिलाप्यत्वमिति । किं दृष्टमिदं यदन्यत्र व्युत्पादितोऽपि शब्दोऽन्यत्र तत्प्रवृत्तिविषयीकरोतीत्याह -- यथेति । सुगममेतत्, केवलमपिरवधारणे गोत्वम्(मित्य)स्मात्परो द्रष्टव्यः ।

प्रत्यक्षमूलत्वादनुमानस्यादौ प्रत्यक्षमुपात्तं प्रत्येयम् । यत्र हि निमित्तान्तरं दर्शयतुम्



[ध्प्र्प्.४०]

< च>कारः प्रत्यक्षानुमानयोस्तुल्यबलत्वं समुच्चिनोति । यथा अर्थाविनाभावित्वादर्थं प्रापयत्प्रत्यक्षं प्रमाणम्, तद्वदर्थाविनाभावित्वादनुमानमपि परिच्छिन्नमर्थं प्रापयत्प्रमाणमिति ।

तत्र प्रत्यक्षं कल्पनापोधमभ्रान्तम् इ-४

<तत्र> इति सप्तम्यर्थे वर्तमानो निर्धारणे वर्तते । ततोऽयं वाक्यार्थः -- <तत्र> तयोर्प्रत्यक्षानुमानयोरिति समुदायनिर्देशः । प्रत्यक्षमित्येकदेशनिर्देशः । तत्र समुदायात्प्रत्यक्षत्वजात्येकदेशस्य पृथक्करणं निर्धारणम् । तत्र प्रत्यक्षमनुद्य कल्पनापोढत्वमभ्रान्तत्वं च विधीयते । यत्तत्बवतामस्माकमर्थेषु साक्षात्कारि ज्ञानं प्रसिद्धं तत्कल्पनापोढाभ्रान्तत्वयुक्तं द्रष्टव्यम् ।



अशक्यं तत्र क्रमप्रवृत्तित्वाद्वाचः, क्रमस्य न्यायप्राप्तत्वादित्युच्यते, न तु सत्यपि निमित्तान्तरे यथोद्देशमेव व्याख्यानं युक्तमिति ।

प्रत्यक्षपदं व्याख्यायाधुनाऽनुमानपदं व्याचिख्यासुः मानशब्दस्य तावदर्थमाचष्टे मीयत इति । एवं व्युत्पादितेनानेअ शब्देन किं प्रतिपाद्यत इति? करणेति । करणस्यानुमानलक्षणक्रियासिद्धौ साधकतमस्य साधनेन वाचकेन । सारूप्य(-रूप्यं) लक्षणं स्वभावो यस्य तत्तथा । हेतुभावेन चैतद्विशेषणम् ।

यद्येवं कथं तर्हि क्वचित्"त्रिरूपाल्लिङ्गाद्यदनुमेये ज्ञानं तदनुमानम्" इति? सारूप्योपलक्षितं ज्ञानमेव तथाऽभिधास्यत इति को विरोधः? एवं तावन्मानम् । अनुमानं तु कथमित्याह -- पश्चादिति । अनेन पश्चादर्थवृत्तेनानुशब्दस्य मानशब्देन सह "गतिप्रादय" इत्यनेन तत्पुरुषस्मासं दर्शयति । न च मानस्य पश्चादिति [१८ ] विवक्ष्तिअम्, येनानुरथादिवदव्ययीभावो भवेत् । अत्र हि मानमेव पक्षधर्मग्रहणादेः पश्चाद्भावि विवक्षितम् । न मानस्य पश्चाद्भावि किञ्चिदिति । अययीभावपक्षे तु न केवलं विवक्षितार्थक्षतिः, किन् त्वनु मानस्येति षष्ठी च न श्रूयेत
। कस्य पश्चादित्याह -- लिङ्गेति । "षष्थ्यतसर्थप्रत्ययेन" [पाणिनि -- २.३.३०] इत्यनेन पश्चात्शब्दयोगे षष्ठीयम् । कथमेतद्द्वयस्य पश्चाद्भाव्यनुमानमित्याह -- गृहीत इति । तुल्यबलत्वं तुल्यसामर्थ्यम् । प्रामाण्यासादनायेति प्रकरणवशात् । यथेत्यादिनैतदेव समर्थयते । अनुमानस्य त्वर्थाविनाभावित्वं पारम्पर्येणा द्रष्टव्यम् । न चैवं प्रापणे प्रामाण्यावहे कश्चिद्विशेषः । परिच्छिन्नमित्यध्यवसितम् । एवं ब्रुवतः प्रत्यक्षमप्यध्यवसितमेव सन्तानं प्रापयत्प्रमाणम् । इदमपि तथेति कथमस्य न तथात्वमिति भावः । तुल्यबलप्रदर्शनेऽप्ययं भावः । प्रत्यक्षस्यापि यदर्थाविनाभावित्वं
तत्तदुत्पत्तिनिमित्तकमेव । तच्चानुमान्स्यापि समानमिति अर्थाव्यभिचारेणापि निमित्तिना समानेन भाव्यमिति ।



[ध्प्र्प्.४१]



न च एतन्मन्तव्यम् -- कल्पनापोढाभ्रान्तत्वं चेदप्रसिद्धम्, किमन्यत्प्रत्यक्षय ज्ञानस्य रूपमवशिष्यते यत्प्रत्यक्षशब्दवाच्यं सदनूद्येतेति । यस्मादिन्द्रियान्वयव्यतिरेकानुविधाय्यर्थेषु साक्षात्कारिज्ञानं प्रत्यक्षशब्दवाच्यं सर्वेषां प्रसिद्धम्, तदनुवादेन कल्पनापोढाभ्रान्तत्वविधिः ।

कल्पनाया अपोढमपेतं कल्पनापोढम् । कल्पनास्वभावेन रहितमित्यर्थः । अभ्रान्तम्



अनेन "प्रत्यक्षमेकं प्रमानम्" इति ब्रुवाणश्<चार्वाकः>, "अनुमानादर्थनिश्चयो दुर्लभः । कनिष्ठं च तत्प्रमाणम्" इत्याचक्षाणो <मीमांसकश्> च निरस्तः । सर्वत्रायमितिर्वाक्यार्थपरिसमाप्तौ । यत्र त्वर्थविशेषे वर्त्तते स कथ्यत एव ।

<तत्रे>त्यादि निर्धारणमित्यन्तं सुगमम् । केवलमिन्द्रियज्ञानादिप्रत्यक्षानुयायित्वात्प्रत्यक्षत्वाख्या जातिर्या व्यवहारसिद्धा तयेति द्रष्टव्यम् ।

<तत्रे>त्ययमेवं व्यवस्थिते सतीति वाक्योपन्यासे । एवं चानुवादविधिक्रमेण यदन्यदन्येन व्याख्यातम् "प्रत्यक्षमिति संज्ञा कल्पनापोढत्वादि संज्ञ्येव । तेन संज्ञासंज्ञिसम्बन्धः प्रतिपाद्यते" इति तद्विप्रतिपत्तिनिराकरणे प्रस्तुतेऽप्रस्तुतम् । ततोऽपव्याख्यानमिति प्रकाशयति । यदप्यपरेण व्याख्यातं "प्रदेशान्तरप्रसिद्धयोः कल्पनापोढ्त्वाभ्रान्तत्वयोरनुवादेन प्रत्यक्षत्वं विधीयते" इति तदपि न चतुरस्रमिति प्रतिपादयते । यतः प्रसिद्धे लक्ष्यलक्षणभावे लक्षणानुवादेन लक्ष्यं विधेयम्, अप्रसिद्धे तु लक्षणवाक्येन लक्षणमेव विधेयम्, न लाक्ष्यमिति न्याय
इति । अन्योश्च पक्षयोर्यावान् समर्थनदूषणप्रकारस्तावाननेनैव <विनिश्चयटीकायां> स्वयं विवेचित इति नेहोच्यते । कथं प्रत्यक्षत्वानुवादेन कल्पनापोढत्वादिविधानमित्याह । प्रदिद्धमिति । अनेन पूर्व प्रसिद्धस्य पश्चाच्छब्देनाभिधानमनुवाद इति दर्शयति । तदेवं द्रष्टव्यमिति विदधानोऽज्ञातस्य शब्देन ज्ञापनं विधिरिति दर्शयति ।

न चैतदित्यादीतिशब्दान्तं सुबोधम् ।

इन्द्रियान्वयव्यतिरेकानुविधायिग्रहणं मानसाद्यसाधारणतयाऽनुपन्यासार्हमपि प्रत्यक्षशब्दप्रवृत्तिनिमित्तस्यार्थसाक्षात्कारित्वस्य यदुपल्षकं तदुपदर्शनार्थमुपन्यस्तमिति ज्ञातव्यम् । परिपाट्या प्रसिद्धत्वप्रदर्शनार्थं वा । तथा हि प्रथमं यत्तदिन्द्रियान्वयव्यतिरेकानुविधायितया प्रत्यक्षं प्रसिद्धमिति प्रतिपाद्यते । तदनु यदीदमिन्द्रियाश्रितं ज्ञानं भवतां प्रत्यक्षं प्रसिद्धं तत्रापि प्रत्यक्षश[१८ ]ब्दप्रवृत्तावर्थसाक्षात्कारित्वमेव निमित्तं जानीते इति प्रतिपादते । तदनुवादेनेति ।

यत्कल्पनयाऽपोढं रहितं तत्कल्पनाया अपोढमपगतं भवतीत्यर्थाभेदं मत्वा कल्पनाया अपोढमिति कर्त्तरि निष्ठामाह । न तु कल्पनापोढमिति कर्त्तरि निष्ठैव । एवं हि तया रहितमित्य्<आचार्य>विवरणविरोधः स्यात् ।



[ध्प्र्प्.४२]

अर्थक्रियाक्षमे वस्तुरूपेऽविपर्यस्तमुच्यते । अर्थक्रियाक्षमं च वस्तुरूपं सन्निवेशोपाधिवर्णात्मकम् । तत्र यन्न भ्राम्यति तदभ्रान्तम् ।



ननु किमेकस्मिन् ज्ञाने ज्ञानान्तरसम्भवोऽस्ति येनायं प्रतिषेधः शोभेत? कल्पनाज्ञानेऽपि च कल्पनान्तरं नास्तीति तदपि कल्पनापोढं प्रसज्येतेति वचनावकाशं पश्यन् कल्पनास्वभावेने[३०]त्यादिनाऽस्य विविक्षितमर्थं स्फुट्यति ।


__________टिप्पणी__________

[३०] धर्मोत्तरे सर्वत्र प्रतिषु ’कल्पनास्वभावरहितम्ऽ इत्येव पाठो लभ्यते न तु ’कल्पनास्वभावेन रहितम्ऽ इति ।
___________________________


एवञ्च ब्रुवन् <कल्पनाऽपोढम्> इत्यत्र्<आचार्ये> लक्षणवाक्ये भावप्रधानोऽयं कल्पनाशब्दः, तेन कल्पनात्वेन रहितमित्यर्थ इति दर्शयति । धर्मणा वा क्लपनाख्येन धर्मस्याभिलापसंसर्गयोग्यप्रतिभासत्त्वाख्यस्य निर्देशं दर्शयति । उभयथाऽपि ’कल्पनास्वभावरहितमित्यर्थःऽ इत्यस्य स्फुटीकरणस्य घटनात् । कल्पना च चक्ष्यमाणा ग्राह्या । एवं च शब्दार्थं स्फुटयताऽनेन यदाचार्य<दिग्नागीय>प्रत्यक्षलक्षणदूषणावसरे -- "कल्पना नामजात्यादियोजना । तेन यन्नाम्ना नाभिधीयते, जात्यादिना च न व्यपदिश्यते विषयभेदानुविधायि यज्ज्ञानं तत्प्रत्यक्षम्" [न्यायवा- पृ- ४१] इत्यर्थं परिकल्प्य "अथ प्रत्यक्षशब्देन
कोऽर्थोऽभिद्दीयते । यदि प्रत्यक्षं कथमवाच्यम्? अथ न प्रत्यक्ष्मवाचकस्तर्हि प्रत्यक्षशब्दः । प्रत्यक्षत्वसमान्याभिद्धानेऽपि यदि तद्व्यतिरेकि; न प्रत्यक्षमुक्तम् । अथाव्यतिरेकि । कथं नोक्तम्? कल्पेनापोढशब्देनापि यदि तदुच्यते कथं न व्याघातः? अथ नोच्यते तस्योच्चारणवैयर्थ्यम्? प्रत्यक्षं कल्पनाऽपोढ्मिति च व्यपदिश्यते, न चाभिधेयमिति कोऽन्यो <भदन्ताद्> कतुमर्हति" [न्यायवा- पृ- ४१] इत्यादि यदवादीद्<उद्द्योतकरस्> तत्सर्वं कल्पनापोढशब्दार्थाऽपरिज्ञानविलसितं तस्य तपस्विनिति सूचितम्

"इहाविषम्वादकत्वमभ्रान्तत्वमभिप्रेतम् । तेन द्विचन्द्रादिज्ञानं व्यवच्छिन्नम्, <योगाचार>मतमपि सगृहीतं भवती"ति पूर्वयाख्यानमवमन्यमानोऽभ्रान्तशदस्यार्थमाह -- अभ्रान्तमिति । अभ्रान्तमर्थक्रियाक्षमेऽविपर्यस्यस्तं यत्तदुच्यते । न त्वविसंवादकमिह ग्रहीतव्यमिति बुद्धिस्थं पश्चाद्व्यक्तीकर्तव्यम् । अनर्थोऽपि वस्तुतयाऽध्यवसीयत इत्यर्थक्रियाक्षम इति विशेषेषणम् । तर्ह्यर्थक्रियाक्षम इत्येवास्तु । न । अर्थक्रियाक्षमस्यैव वस्तुत्वज्ञापनार्थत्वात् । किं तदर्थक्रियाक्षमम्? किमव्यवि? अथान्यदेवेत्याह -- अर्थक्रियेति । सन्निवेशश्चतुरस्रत्वादिः प्रतिभासधर्मः । स उपाधिर्विशेषणम्
यस्य वर्णस्य वस्तुशब्दवाच्यस्य शुक्लादिपरमाणुसंघातस्य तथोत्पन्नस्य स तथा । सन्निवेशविशिष्टस्यैव वर्णस्यान्वयव्यतिरेकाभ्यामर्थक्रियायामुपयोगदर्शनादेतदाह । स एवात्मा स्वभावो यस्येति तत्तथा । एतच्च चाक्षुषज्ञानविषयाभिप्रायेणोक्तं द्रष्टव्यम् । अन्यथा बह्वसमञ्जसं स्यादिति । अनेन परमाणुप्रचयमात्रस्यैवार्थक्रि[१९ ]याकारित्वं नावयविनस्तस्यासत्त्वादिति सूचितम् । न भ्राम्यति न विपर्यस्यति -- अन्यथाग्राहि न भवति ।

स्यातेतत्-- परमाण्वर्थ एव भवन्मते बाह्यं वस्तु । सर्वं च विज्ञानं तेषु परमसूक्ष्मेषु
[ध्प्र्प्.४३]

स्थूलाभासमाजायते । तत्कथं किञ्चिदभ्रान्तं नामेति? अत्रोच्यते । एकसामग्रीजन्मनां परमाणुनां भिन्नदेशस्वभावनां तद्धेत्वभावतच्छायालोकपरमाणुस्वभावेनान्तरेण रहितत्वान्निरन्तरत्वेन प्रतिभास एव देशवितानावभासात्मा स्थौल्यं नापरं किञ्चित् । तत्र तथाभूतपरमाणुसमुदायनिष्ठं निर्विकल्पकं विज्ञानं कथं भ्रान्तं स्यात्? यद्येकैकं परमाणुमनेकदेशावष्टम्भेन गृह्णीयान्न पुनरनेकमनेकदेशावष्टम्भेन गृह्णत् । इतोऽपि विपर्यस्येद्यदि भिन्नदेशान् परमाणूनेकदेशान् गृणीयात् । न चैतदस्ति, अणुमात्रकपिण्डप्रतिभासाभावात् । एकदेशग्रहणे हि पिण्डो भासेत अणुमात्रको न तु विततदेशः । न
चानेकग्रहो भ्रमः । अतस्मिंस्तदिति प्रत्ययस्य तादात्म्यात् । तदयमर्थः -- एकज्ञानग्राह्यास्तथाविधा बहवः परमाणवः स्थूल इति । एकोऽयं स्थूल इति तु तथाभूतप्रतिभासाश्रयेण व्यवस्थाप्यमानत्वात्प्रतिभासधर्म इत्युच्यते । न वस्तुधर्मः, प्रत्येकमपरिसमाप्तेरित्यलमिह विस्त्रेण ।

ननु चैवमप्यन्योन्यमसंसृष्टस्वभावान् प्रमाणून् संसृष्टान् गृह्णद्विज्ञानं कथमिवाविपर्यस्तं नामेति । अत्राप्युच्यते । किमिदमसंषृष्टत्वमिष्टं भवता, यद्विपर्ययग्रहणाद्भ्रान्तं ज्ञानमुपवर्ण्यते? किं नानारुपत्वम्, अथ नानादेशत्वम्, उत रूपेणैव विजातीयेन व्यवहितत्वम्, आहोस्विदिन्द्रियान्तरग्राह्येणार्थेन व्यवकीर्णत्वम्? तत्र यदि नानारूपत्वमसंसृष्टत्वमिष्टं तदा न कश्चित्संसृष्टग्रहो नाम सम्भावति यतोऽसंसृष्टा एव परमाणवः सर्वदा गृह्यन्ते । विततदेशस्वभावानामेव तेषामवभासनात् । यदि ह्येकरूपा
भासेरन्, अणुमात्रकः पिण्डो भासेत । न तु विततदेशभासनं स्यात् ।

अथ नानादेशत्वमस्ंसृष्टत्वमभिप्रेतं तदपि नतरां संसृष्टग्रहो यतो नानादेशा नीला परमाणवो नानादेशा एव च गृह्यन्ते । एकदेशत्वभासने हि पिण्डो भासेताणुमात्रक इत्युक्तम् ।

अथ रूपेणैव विजातीयेन व्यवहितत्वमसंसृष्टत्वं विवक्षितम्; तदा तु तदसम्भवादेव न तद्विपरीतग्रहः । यतो रूपान्तरव्यवधानरहिता एव निरन्तरा नीलाः परमाणावः, भासन्ते च तथाभूता इति कथं विभ्रमः । मध्यवर्त्तिनो विजातीयस्यालोकादिपरमाणोरनुत्पत्तेरप्रतिभासनाच्च । अथ च्छायालोकपरमाणुरुत्पद्यमानः केन प्रतिबद्धो यतो नोत्पद्यते । न च शक्यं वक्तुम् -- मध्ये परमाण्वोर्नास्ति परमाण्वन्तरस्यावकाश इति । यतो निरवयवः परमाणुः सर्वत्र सावकाश इति । सत्यमेतत् । केवलं नावकाशाभावात्तदनुत्पत्तिरपि तु हेत्वभावात् । कस्माधेतुर्न भवति? स्वहे[१९ ]त्वभावादित्यपर्यनुयोग एव ।

अथ भिन्नेन्द्रियग्राह्यस्पर्शादिव्यवकीर्णत्वमसंसृष्टत्वमभिमतम् । तदा संसृष्टान् परमाणून् गृह्णाति विज्ञानमिति इन्द्रियान्तरग्राह्यशून्यान् गृह्णातीत्युक्तं भवति । तथा च न किञ्चिदनिष्टम् । तथा हि यदि नामेन्द्रियान्तरग्राह्यस्पर्शादिर्न गृह्यते तथापि नीलरूपं तावत्स्वदेशस्वभावस्थितं गृह्यत एव । न च भिन्नेन्द्रियग्राह्यशून्यानां स्वरूपं गृह्यमाणं विपरीतं गृहीतं भवति । देशकालाकाराणामेकस्याप्यविपर्यासात् । न चाग्रहो भ्रम इति । ननु च प्रमाणूनामन्तराण्याकाशात्मकानि सन्ति । न च ते सान्तराः प्रतिभासन्ते । तत्कथमविपर्यास इति । अथ किमिदमाकाशं नाम । यदि रूपान्तरात्मकं तन्नास्तीत्युक्तम् । अथापि स्पर्शाद्यात्मकं
तत्राप्युक्तम् । अथ सप्रतिघद्रव्याभावः । एवमप्यवस्त्वाकाशम् । ततश्चाकाशमन्तरमित्यन्यवस्त्वन्तरं न किञ्चिद्

[ध्प्र्प्.४४]

एतच्च लक्षणद्वयं विप्रतिपत्तिनिरासार्थम्, न त्वनुमाननिवृत्त्यर्थम् । यतः

अन्तरमित्युक्तं स्यात् । तथा निरन्तराः परमाणव इत्युक्तं भवति । ततो निरन्तराश्च परमाणवो निरन्तरा एव भासन्ते । तत्किमुच्यतेऽन्तरमाकाशम्, न च तत्प्रतिभासत इति? यत्खल्वत्यन्तमसत्शशविषाणप्रख्यं तत्कथं भासेत?

नन्वाकाशात्मनोऽप्यन्तरस्याभावे रूपसंसर्गः परमाणूनां प्रसज्येत । नैष दोषः । नास्माभिरुच्यते रूपमेकं परमाणूनां देशो नैक इति । अपि तु भिन्नरूपदेशा उत्पन्ना मध्यवर्त्तिविजातीयरूपरहितास्तथैव भासन्त इति तत्कथं रूपसंसर्गप्रसङ्गः?

ननु च रसादिदेशे नीलरूपं प्रत्भासते । ततश्चातद्देशं तद्देशतया गृह्णद्विज्ञाणं कथमभ्रान्तं नामेति? तत्राप्युच्यते । यदा देशः प्रतिभासते तदा तस्मिन् देशे प्रतिभासमाने यः प्रतिभासतेऽर्थः स देशविशिष्ट उच्यते । यदि च रसादिश्चक्षुर्विज्ञाणे प्रतिभासेत तदा तद्देशव्यापिनि नीले गृह्यमाणे स्याद्भ्रान्तं विज्ञानम् । न च तत्र रसादिः प्रतिभासते, इन्द्रियान्तरग्राह्यस्येन्द्रियान्तरज्ञाने प्रतिभासायोगात् । तत्कुतस्तद्देशनीलग्रहणम्? नीलमेव हि भासमानं देशः नापरो देशः कश्चिदाभासते । इन्द्रियान्तरग्राह्याप्रतिभासे च शुद्धरूपप्रतिभासः । शुद्धरूपप्रतिभास एव च निरन्तरप्रतिभासः । ततो निरन्तरा नीलाः परमाणवो
गृह्यन्ते । तस्मात्स्वदेशस्थायिनो नीलपरमाणवः स्वरूपेणैव गृह्यन्ते । ततो देशकालाकाराणामेकस्याप्यपरित्यागान्नीलाभासं विज्ञानमभ्रान्तमेव । सर्वं चैतद्ग्राह्यतत्त्वं <विनिश्चये> <धर्मोत्तरेणै>व निस्तरेण निरूपितमिति नेह प्रतन्यते ।

नन्वेवमभ्रान्तत्वे <योगाचार>मतमसङ्गृहीतं स्यात् । ग्राह्यग्राहकाकारतया प्रवृत्तेः सर्वस्यैवासर्वज्ञविज्ञानस्यालम्बने भ्रान्तत्वात् । तत्कथं पूर्वव्याख्यानावज्ञा न क्रियत इति चेत् । उच्यते । न <योगाचारनये> लक्षणमिदम्, किन् तु <सौत्रान्तिकनय> एव । न च सर्वं <विज्ञानवादे> योजयि[२० ]तुं शक्यम् । "तस्य विषयः स्वलक्षणम्" इत्यादेरशक्ययोजनत्वात् । तस्मिन् किं प्रत्यक्षलक्षणमिति चेत् । कल्पनापोढत्वमेव । द्विचन्द्रादिनिरासः कथमिति चेत्सम्यग्ज्ञानं सदेवमित्यभिप्रायाददोषः । <सौत्रान्तिकनये>ऽपि किं नैवं? ततश्चाभ्रान्तग्रहणमतिरिच्यत इति चेत् । सत्यमेतत् । केवलं विप्रतिपत्तिनिरासार्थं
वर्णयिष्यत इति । "इहाभ्रान्तपदं तैमिरिकादिज्ञानव्यवच्छेदार्थम् । कल्पनाऽपोढग्रनणं तु अनुमाननिरासार्थमिति" यत्पूर्वकैर्व्यख्यातं तद्व्यक्तमेवापहस्तयन्नाह -- एतच्च -- इति । चोऽवधारणे । विप्रतिपत्तिनिरासार्थमित्यतः परो द्रष्टव्यः । पूर्वेषामभिप्रेतं प्रतिषेधति । न त्विति भेदार्थः । ननु किमुच्यते न त्वनुमाननिवृत्त्यर्थमिति? यावतैकैकेनानुमाननिवर्त्तनादिति चेत् । उच्यते । लक्षणद्वयमिति द्वयोरुपादानं विप्रतिपत्तिनिराकरणार्थम्, एकैकेनानुमानव्यवच्छेदसिद्धेरिति समुदितफलमेतत् । ततो नानुमाननिवृत्त्यर्थमिति नानुमाननिवृत्त्यर्थमेवेति सावधारणं निषिध्यते । यदि तु विप्रतिपत्तिनिराचिकीर्षया
क्रियमाणमनुमानं व्यवच्छिनत्ति न तदर्थमेव द्वयमिति ।

ननु नेदं लक्षणद्वयमनुमानव्यवच्छेदार्थं पूर्वकैर्व्याख्यातम् । किन् तु <कल्पनाऽपोढ>ग्रहणमेव । <अभ्रान्त>ग्रहणं तु द्विचन्द्रादिज्ञानव्यवच्छेदार्थम् । तत्कथं ’न त्वनुमाननिवृत्त्यर्थम्ऽ तथ


[ध्प्र्प्.४५]

<कल्पनापोढ>ग्रहणेन एव अनुमानं निवर्तितम् । तत्र असत्य्<अभ्रान्त>ग्रहणे गच्छद्वृक्षदर्शनादि प्रत्यक्षं कल्पनापोढत्वात्स्यात् । ततो हि प्रवृत्तेन वृक्षमात्रमवाप्यते इति संवादकत्वात्सम्यग्ज्ञानम्, कल्पनापोढत्वाच्च प्रत्यक्षमिति स्यादाशङ्का । तन्निवृत्त्यर्थम् <अभ्रान्त>ग्रहणम् । तद्धि भ्रान्तत्वात्न प्रत्यक्षम् । त्रिरूपलिङ्गजत्वाभावाच्च न अनुमानम् । न च प्रमाणान्तरमस्ति । अतो गच्छद्वृक्षदर्शनादि मिथ्याज्ञानमिति उक्तं भवति ।

’यतः <कलप्नापोढ>ग्रणेनैवानुमानं निर्वर्त्तितम्ऽ इत्युच्यत इति चेत् । सत्यम् । केवलं यद्य्<अभ्रान्त>ग्रहणं व्यवच्छेदार्थमेव तदानुमानव्यवच्छेदार्थमेव युज्यते । न तु द्विचन्दादिज्ञाननिरासार्थम्, तस्य सम्यग्ज्ञानाधिकारादेव व्यवच्छेदसिद्धेः । तथा हि <द्विदिधं सम्यग्ज्ञानम्> इति प्रस्तुत्य लक्षणमिदं विधीयमानं तदधिकारेणैव विहितं भवति ।

नन्वेवं सति <कल्पनापोढ>ग्रणेनैव निवृत्ते <अभ्रान्त>ग्रहणमतिरिच्यते । अयमपरस्तेषां दोषोऽस्ति । न तु द्विचन्द्रादिज्ञाननिवृत्त्यर्थमिदं युज्यत इति <धर्मोत्तर>स्याशयः । यद्येतदर्थम् <अभ्रान्त>ग्रहणं न भवति तर्हि किमनेनेत्याह -- तत्र -- इति ।

ननु गच्छद्वृक्षदर्शणादेः कल्पनापोढस्यापि विसंवादकत्वेन सम्यग्ज्ञानत्वाभावादेव व्यवच्छेदे सिद्धे किमेतदर्थेन्<आभ्रान्त>पदेनेत्याह -- ततो हि -- इति । वृक्षमात्रमिति गमनेनाऽनवच्छिन्नम् । इति हेतौ । अस्तु सम्यग्ज्ञानम्, प्रत्यक्षसम्भावना त्वस्य कथम्? न हि यदेव सम्यग्ज्ञानं तदेव प्रत्यक्षमित्याशङ्क्य पूर्वोक्तमेव प्रसङ्गेनाह -- कल्पना -- इति । चः संवादकत्वापेक्षया समुच्चयार्थः । इतिकरणाशङ्कायाः स्वरूपं दर्शयति । आशङ्का चेयमीदृशी यौक्ती द्रष्टव्या । यद्वा चो यमादर्थे । .................... असत्य्<अभ्रान्त>ग्रहणे स्यादियमाशङ्का । यदि सत्यपि स्यात्तदा किमनेनेत्याह -- तन्निवृत्त्यर्थमिति शङ्कानिवृत्त्यर्थमात्रम्
। अनेन एतद्दर्शति -- यद्यपि परमार्थतः सम्यग्ज्ञानाधिकारादेवमादिज्ञानं व्यवच्छेद्यते । तथाप्य्<अंशसंवादवादिनाम्> आहत्य विप्रतिपत्तिनिराकरणार्थं क[२० ]र्त्तव्यमेव्<आभ्रान्त>ग्रहणमिति ।

स्यादेतत्-- किम् <आभ्रान्त>ग्रणेनाधिकं कृतम् । येनैतद्विप्रतिपत्तिनिराकरणार्थं भवतीत्याशङ्कायां दूरस्थितमपि गच्छद्वृक्षदर्शनादि मिथ्याज्ञानमित्युक्तं भवतीति योजनीयम् । इतिना उक्तेनाकारं कथयति । उक्तं प्रकाशितं भवत्य्<अभ्रान्त>ग्रहणेनेति प्रकरणात् । कुतो मिथ्याज्ञाणं तदुक्तमित्यपेक्षायां प्रथममुक्तं तदिति योजनीयम् । हिर्यस्मात्ततोऽयमर्थः -- यस्मात्तद्गच्छद्वृक्षदर्शनादिभ्रान्तत्वात्न प्रत्यक्षम्, अतो मिथ्याज्ञानमित्य्<अभ्रान्त>ग्रहणेनोक्तं भवति । भवतु भ्रान्तत्वादप्रत्यक्षम्, अनुमानरूपत्वे त्वनिर्वर्त्तते कथमस्य तथात्वमित्याशङ्कायां
योज्यम्, चो यस्मान्नानुमानम् । कथं नानुमानम्? त्रिरूपलिङ्गजवाभावात् । यद्येवमन्यत्प्रमाणं भविष्यति, तथापि कथं मिथ्याज्ञानमित्याशङ्कायां वाच्यम् । चो यस्मान्नाभ्यां प्रमाणान्तरमस्ति । अतः प्रत्यक्षत्वादिस्वाभावत्वाभावात् । यद्वाऽतो <ऽभ्रान्त>ग्रहणादित्यर्थः ।

नन्वनुमानादिरूपनिराकरणे यद्य्<अभ्रान्त>ग्रहणस्य व्यापारो भवेत्, भवेदेव मिथ्याज्ञानत्वाभिधाने सामर्थ्यं यावतो(-ता) यथा स्वयमुपपत्त्यैवानुमानादिभावो व्युदस्तस्तत्कथम् <अभ्रान्त>

[ध्प्र्प्.४६]

यदि मिथ्याज्ञानं कथं ततो वृक्षावाप्तिरिति चेत्, न ततो वृक्षावाप्तिः । नानादेशगमी हि वृक्षस्तेन परिच्छिनः । एकदेशनियतश्च वृक्षोऽवाप्यते । ततो यद्दृशो गच्छद्वृक्षो दृष्टः, तद्दृशो न अवाप्यते । यद्देशश्च अवाप्यते स न दृष्ट इति न तस्मात्कश्चिदर्थोऽवाप्यते । ज्ञानान्तरादेव तु वृक्षादिरर्थोऽवाप्यते । इत्येवं <अभ्रान्त>ग्रहणं विप्रतिपत्तिनिरासार्थम् ।

तथा <अभ्रान्त>ग्रहणेन अप्यनुमाने निवर्तते <कल्पनापोढ>ग्रहणं विप्रतिपत्तिनिराकरणार्थम् ।

ग्रहणेन तन्मित्याज्ञानमित्युक्तं भवतीयुच्यते । सत्यम् । किन् त्वनुमानादिरूपतानिराकरणहेतुना दत्तसाहायकेन सता <ऽभ्रन्त>ग्रहणेन तन्मिथ्याज्ञानमित्युक्तं भवतीत्युक्तमिति बोद्ध्यव्यम् ।

ननु प्रत्यक्षलक्षणशून्यस्याप्रत्यक्षतैव दर्शयितव्या, तत्किमनुमानादिरूपतानिराक्रणमप्रकृतं कृतमिति चेत् । अप्रत्यक्षत्वप्रदर्शने प्रसङ्गेन कृतमिति का क्षतिः?

यदीत्यादि सुगमम् । केवलं तत इति गच्छद्वृक्षदर्शनरूपान्मिथ्याज्ञानात्परिच्छिन्नो दृष्टः । वृक्ष इति वृक्षत्वेन प्रथनादुच्यते न त्वसौ तथाऽवभासमानो वृक्ष एव । एकदेशनियत इति प्राप्यमाणपरमार्थवृक्षाभिप्रायेणोक्तम् । चो हेतौ । ततस्तस्मादनन्तरोक्तात्कारणात् ।

ननु ततोऽपि प्रवृत्तस्यास्ति च्छायाद्यर्थक्रियाकारिरूपस्य पादपस्य प्राप्तिस्तत्कथमपह्नूयत इति? आह -- ज्ञानान्तराद्-- इति । तद्देशोपसर्पणजन्मनः स्थितवृक्षप्रतिभासात्मनो ज्ञानान्तरात् । तत्र मिथ्याज्ञानमर्थिनः प्रवृत्तिमात्रहेतुर्न तु वृक्षप्रापकमिति संक्षेपार्थः । यदि मिथ्याज्ञानत्वप्रतिपादनार्थम् <अभ्रान्त>ग्रहणं न तर्हि विप्रतिपत्तिनिराकरणार्थमित्याह -- एवमिति । एवमित्यनेनानन्तरोक्तस्योपपत्तिप्रकारस्याकारो दर्शितः । ततोऽयमर्थः -- एवमनन्तरोक्तेन युक्तिप्रकारेण । एतादृशमपि प्रत्यक्षमिति विरुधायाः प्रतिपत्तेर्निरासार्थम् <अभ्रान्त>ग्रणामिति । यद्येवं <अभ्रान्त>ग्रहणमेव विप्रतिपत्तिनिराकरणार्थम् । न
तु <कल्पनापोढ>ग्रहणम् । उक्तं च द्वयमेतत्तन्निरासार्थमित्याशङ्क्याह -- तथेति । यथा <ऽभ्रान्त>पदं तथेदमित्यर्थः ।

विप्रतिपत्तिनिराकरणार्थमिति प्रत्यक्षपृष्ठभाविनोऽपि विकल्पस्य व्यावहारिकलोकाध्यवसायेनाभ्रान्तस्य यत्प्रत्यक्षत्वं कैश्चिदिष्टम्, तन्नि[२१ ]राकरणार्थमिति द्रष्टव्यम् । तत्रासति <कल्पनापोढ्>ग्रहणे घटोऽयमित्यादिज्ञानं प्रत्यक्षमभ्रान्तत्वात्स्यात् । ततो हि प्रवृत्तेन घटादिरर्थः प्राप्यत इति संवादकत्वान् सम्यग्ज्ञानमभ्रान्तत्वाच्च प्रत्यक्षं स्यादा[दित्या]शङ्का । तन्निवृत्त्यार्थम् । कल्पनात्मकत्वान्न प्रत्यक्षम्, त्रिरूपलिङ्गजत्वाभावाच्च नानुमानम् ।



[ध्प्र्प्.४७]

अभ्रान्तं हि अनुमानं स्वप्रतिभासेऽनर्थेऽर्थाध्यवसायेन प्रवृत्तत्वात्[प्विनिइ २,८] । प्रत्यक्षं तु ग्राह्ये रूपे न विपर्यस्तम् ।

न त्वविसंवादकमभ्रान्तमिह ग्रहीतयम् । यतो सम्यग्ज्ञानमेव प्रत्यक्षम्, न अन्यत् । तत्र सम्यग्ज्ञानत्वादेव अविसंवादकत्वे लब्धे पुनरविसंवादकग्रहणं निष्प्रयोजनमेव । एवं हि वाक्यार्थः स्यात्-- प्रत्यक्षाख्यं यदविसंवादकं ज्ञानं तत्कल्पनापोढमविसंवादकं च इति । न च अनेन द्विरविसंवादकग्रहणेन किञ्चित् । तस्माद्ग्राह्येऽर्थक्रियाक्षमे वस्तुरूपे यदविपर्यस्तं तदभ्रान्तमिह वेदितव्यम् ।

कीदृशी पुनः कल्पना इह गृह्यते इत्याह --

अभिलापसंसर्गयोग्यप्रतिभासा प्रतीतिः कल्पना इ-५

[३१]<अभ्लाप> इत्यादि । अभिलाप्यतेऽनेन इत्य्<अभिलापः> वाचकः शब्दः । अभिलापेन संसर्गः <अभिलापसंसर्गः> एकस्मिन् ज्ञानेऽभिधेयाकारस्य अभिधानाकारेण सह ग्राह्याकारतया


__________टिप्पणी__________

[३१] अह्बिलापेति -- ए.प्. ’भिलापेत्यादिऽ इति नास्ति -- अ.ब्.ह्.न्.
___________________________




न च प्रमाणातरमस्ति । अतो घटोऽयमित्यादिज्ञानमसम्यग्ज्ञानं भवतीति पूर्ववद्वचनीयं योजनीयं च ।

ननु च संवादिनोऽस्य कथमसम्यग्ज्ञानत्वम्? यदि नाम विसंवादकत्वलक्षणमसम्यग्ज्ञानत्वं नास्ति तथापि गृहीतार्थग्राहिणोऽस्यापूर्वाधिगमाभावात्करणार्थाभावरूपमसम्यग्ज्ञान्त्वं स्मरणादेरिव किं नानुमन्यते? जात्यादिविशिष्टवस्तुग्राहिणोऽस्यापूवार्थाधिगमोऽस्तीति चेत् । इदमन्यत्र विस्तरेण निरस्तमित्यास्तां तावदिहेति । स्वप्रतिभास इत्यादेर्ग्रन्थस्य तु सत्यमर्थं विषयविप्रतिपत्तिनिराकरणवाक्यविवरणं विवेचयिष्यन्तो विवेचयिष्यामः । सम्प्रति यद्दोषदर्शनात्पूर्वेषां व्याख्यानमवमन्यान्यथाऽयमभ्रान्तार्थं व्याचष्टे तं कण्ठोक्तं कर्त्तुं तेषाम्
अभिमतमभ्रान्तार्थं पूर्वं सामर्थ्यान्निषिद्धमपि साक्षान्निषेधन्नाह -- न तु -- इति । तुरतिशये । यत इत्यादि वेदितव्यमित्यन्तं सुबोधम् ।

यदि जात्यादियोजनात्मिका कल्पना । सा जात्याद्यभावादेव न सम्भवति । अथ ग्राह्यग्राहकभावेन प्रवर्त्तमानं ज्ञानं कल्पना तदा सर्वमसर्वज्ञज्ञाणं तथा प्रवृत्तमिति किमवशिष्यते यदविकल्पकं स्यादित्यभिप्रेत्य कल्पनायाः स्वरूपं पृच्छति -- कीदृशीति सामाण्यतः पृच्छति । पुनरिति विशेषतः । इहेति प्रत्यक्षलक्षणे ।

अभिलप्यते उच्यतेऽनेनेत्य्<अभिलापो> वाचकः शब्दः । स च सङ्केन्त -- मिलनम् ।



[ध्प्र्प्.४८]

ततो यदा एकस्मिञ्ज्ञानेऽभिधेयाभिधानयोराकारौ संनिविष्टौ भवतस्तदा संसृष्टे अभिधानाभिधेये भवतः । अभिलापसंसर्गाय योग्यो अभिधेयाकाराभासो यस्यां प्रतीतौ सा तथा उकता ।

तत्र काचित्प्रतीतिरभिलापसंसृष्टाभासा भवति । यथा व्युत्पन्नसङ्केतस्य घटार्थकल्पना घटशब्दसंसृष्टावभासा भवति । काचित्त्वभिलापेन असंसृष्टा अपि अभिलापसंसर्गयोग्याभासा भवति । यदा बालकस्य अव्युत्पन्नसङ्केतस्य कल्पना । तत्र अभिलापसंसृष्टाभासा कल्पना इत्युक्तावव्युत्पन्नसङ्केतस्य कल्पना न संगृह्येत । योग्यग्रहणे तु सा अपि संगृह्यते । यद्यप्यभिलापसंसृष्टाभासा न भवति तदहर्जातस्य बालकस्य कल्पना, अभिलापसंसर्गयोग्यप्रतिभासा तु भवत्येव । या च अभिलापसंसृष्टा सा अपि योग्या । तत उभयोरपि <योग्य>ग्रहणेन संग्रहः ।



कालेन दृष्टेन रूपेणैक्यमापादितोऽन्तर्जल्पाकारस्तथा प्रतिभासमानो वाच्यः । संसर्गपदेन सार्धमस्य विग्रहं प्राह -- अभिलापेन -- इति । अभिलापेन वादकेन संसर्गः सम्बन्धः । "तृतीये"ति [पाणीनि -- २.१.३०.] योगविभागात्समासः । अथ वाऽर्थकथनमिदं कृतम्, ससासस्तु षष्ठीतत्पुरुषः कार्यः । कथं पुनर्वाच्यवाचकयोः संसर्गः सम्भवतीत्याह -- एकसिमिनिति । ग्राह्याकारतया मिलनमित्येकज्ञानग्राह्याकारतयाऽवस्थानमिति वाच्यम् । अर्थाकारश्चेद्वाचकशब्दाकारेण सहैकज्ञानारूढो भवति तदा वाच्यवाचकयोः संसर्ग इति यावत् । भवत्वभिधानाभिधेयाकारयोर्
एकज्ञानारोहः । किमेतावताऽभिधानाभिधेये वाच्यवाचकतया सम्बद्धे भवतः, येन तद्ग्राहि विज्ञानं सविकल्पकं स्यादित्याशङ्क्योपसंहारव्याजेनाह -- तत इति । यदाकारौ संनिनिविष्टौ प्रतिभासितौ भवतस्तदा संसृष्टे तथातया सम्बद्धे भवतः । एकस्मिन् ज्ञाने विशेष्यविशेषणत्वेनाकारप्रतिभास एवानयोर्वाच्यवाचकत्वग्रहणमिति भावः । अभिलापसंसर्गाय योग्य इत्यर्थकथनमिदं [२१ ] कृतम् । समासस्त्वभिलापसंसर्गस्य योग्य इति कर्त्तव्यः । तादर्थ्यचतुर्थ्याः प्रकृतिविकार एव समासात् ।

यद्येवमभिलापसंसृष्टप्रतिभासेत्येवास्तु किं योग्यग्रहणेनेत्युपालम्भं पश्यन् यथाऽस्य साफल्यं तथा दर्शयितुमुपक्रमते -- तत्रेति । वाक्योपन्यासे चैतत् । अभिलापसंसृष्ट आभासो यस्याः सा तथा । कस्येवेत्याह -- यथेति । ’िदमस्य वाच्यमिदमस्य वाचकम्ऽ इत्युभयांशावलम्बिज्ञानं



[ध्प्र्प्.४९]

असत्यभिलापसंसर्गे कुतो योग्यता अवसितिरिति चेद् । अनियतप्रतिभासत्वात् । अनियतप्रतिभासत्वं च प्रतिभासनियमहेतोरभावात् । ग्राह्यो ह्यर्थो विज्ञानं जनयन्नियतप्रतिभासं कुर्यात् । यथा रूपं चक्षुर्विज्ञानं जनयद्नियतप्रतिभासं जनयति । विकल्पविज्ञानं त्वर्थान्न उत्पद्यते । ततः प्रतिभासनियमहेतोरभावादनियतप्रतिभासम् ।



सङ्केतः, शब्दार्थप्रयोगप्रतिपत्त्योः कार्यकारणभावरूपो वा । व्युत्पन्नो ज्ञातः संकेतो येन स व्युत्पन्नसंकेतः । तस्य यदि सर्वैव तादृशी तदा काचिदिति न वाच्यम्, योग्यग्रहणेअन् च न किञ्चिदित्याह -- काचिदिति । तुः व्युत्पन्नसंकेतप्रतीतेर्बालप्रतीतिं भेदवतीमाह । कस्य सदृशी सम्भवतीत्याह -- यथेति । बालक इत्यल्पार्थे कन् । यद्यभिलापसंसृष्टाभासेति कृतेऽपि तथाभूतायाः प्रतीतेः सङ्ग्रहः, कृतं तर्हि योग्यग्र्हणेनेत्याह-- तत्रेति । तयोर्मध्येऽव्युप्तन्नसंकेतस्य या सा न सङ्गृह्यते । कदा तु सङ्गृह्यतेत्याह -- अभिलापेति । अर्थप्रदर्शनत्वादस्याभिलापसंसृष्टाभासा प्रतीतिः
कल्पनेत्युक्तौ वचने सतीत्यर्थः । इतिनोक्तेराकारः कथितः । असति तावदयं दोषः । यदि सत्यपि योग्यग्रहणे तदसंग्रहस्तथापि किं तेनेत्याह -- योग्येति । तुरकरणावस्थाया विशेषमाह । न केवलं तत्संसृष्टाभासेत्यपिशब्दः । तथाविधबालस्य च कल्पनाऽनुमानसिद्धा । तेन साऽवश्यं ग्राह्येति भावः । कथं पुनर्योग्यग्रहणेन तस्याः सङ्ग्रह इत्याह -- यद्यपीति । निपातसमुदायोऽयं विशेषाभिधानार्थाभ्युपगमे सर्वत्र । अह्नि जातं जन्मास्येति तथा । अह्नि वा जात उत्पन्न इति तथा । अहर्जातस्यैतदहर्जातस्येति द्रष्टव्यम् । यद्य्
एवं व्युत्पन्नसङ्केतस्य सा कथं सङ्गृह्यत इत्याह -- या चेति । च पूर्वापेक्षया समुच्चये । यदि सा तत्संसर्गयोग्या न स्यात्कथं तत्संसर्गमनुभवेदिति भावः । यत एवं तस्मात् ।

ननु प्रतीतप्रतिभासस्य तत्संसर्गानुभवान्यथानुपपत्त्या योग्यता कल्पनीया । न च बालकल्पनाया अभिलापसंसर्गोऽस्ति, संकेताव्युत्पत्तेः । तत्कथं योग्यता कल्प्यतामित्यभिसन्धिना असतीत्यादिना पूर्वपक्षमुत्थापयति । एवं चोदयित्वाऽनुमानतः सा सिद्ध्यतीति मन्वानः साधनमाह -- अनियतेति । प्रतिनियताकारत्वाभावादित्यर्थः । प्रकरणापन्ने साध्ये हेतौ चाभिहिते सुकरः साधनप्रयोग इति प्रयोगं न जगौ । एवमुत्तरत्रापि हेतुमात्राभिधानेऽस्यायमभिप्रायः प्रत्येतव्यः । प्रयोगस्त्वेवमिह कर्त्तव्यः -- योऽनियतप्रतिभासो विकल्पः, स शब्दसंसर्गयोग्यो यथाच्छात्रविकल्पः । बालस्य विकल्प एव कुतः
सिद्धो येनेदमुत्तराणि चैतदङ्गानि साधनानि ना[२२ ]श्रयासिद्धानि स्युरिति? नैष दोषः । अनुमानसिद्धं विकलपं धर्मिणं कृत्वाऽमीषामुपादानस्याभिप्रेतत्वात् । तत्पुनरनुमानमनेन सुज्ञातत्वान्नोपन्यस्तमिति वेदितव्यम् । एवं तद्द्रष्टव्यम् -- या नियमवती प्रवृत्तिः क्वचित्प्राणिनः, सा विकल्पपूर्विका । यथा व्युत्पन्नसङ्केतव्यवहारस्यान्नादिविषया प्रवृत्तिः । नियमवती च तदितरपरिहारेण स्तनादौ प्रवृत्तिर्बालकस्येति कार्यहेतुः । सा च तादृशी प्रवृत्तिः प्रत्यक्षाधिगतेति स्वसिद्धौ न प्रमाणान्तरं

[ध्प्र्प्.५०]

कुतः पुनरेतद्विकल्पो र्थान्न उत्पद्यत इत्यर्थसन्निधिनिरपेक्षत्वात् । बालोऽपि हि यावद्दृश्यमानं स्तनं स एव अयमिति पूर्वदृष्टत्वेन न प्रत्यवमृशति तावन्न उपरतरुदितो



प्रयोजयति । न पुनरनेन बालोऽपि हीत्यादिना विकल्पसाधनमुपन्यस्तमिति मन्तव्यम्, यथाऽन्यैर्व्याख्यातम्, अर्थसन्निधिनिरपेक्षत्वसिद्धिप्रदर्शनोन्मुखत्वात्तस्य ग्रन्थस्येति ।

ननु च परोक्षत्वात्तस्यानियतप्रतिभासत्वसन्देहे सन्दिग्धासिद्धोऽयं हेतुरिति । आह -- अनियतप्रतिभासत्वं च -- इति । चो यस्मादित्यस्मिन्नर्थे । प्रतिभासस्य ज्ञानाकारस्य नियमः -- अर्थाकार एवायं शब्दाकार एव वा, रूपाकार एवायं रसाकार एव वेत्यात्मको वा तस्य हेतुर्जनकः तस्माद् । अभावादनुत्पादात् । भवनं भाव उत्पादस्तन्निषेधादभावोऽनुत्पाद एव । प्रतिभासनियमहेतोरभावाद्-- अविद्यमानत्वादिति व्याखाने तु यथाश्रुति व्यधिकरणासिद्धो हेतुः स्यात् । अन्यथा हेतुवचने तु क्रियमाणे तत्रार्थे हेतुरनभिहित एव स्यात् । साधनस्वरूपमात्रकथने चात्र <धर्मोत्तर>स्य शैली लक्ष्यते । कुतः पुनरेतद्विकल्पोऽर्थान्नोत्पद्यते इति च पूर्वपक्षः
सूत्थानो न स्यात् । मृत्वा शीर्त्वा यथा कथञ्चित्सर्वस्यास्य समर्थने च वक्तुरकौशलं स्यादिति ।

ननु प्रतिभासनियमहेतुर्यः कश्चन स च तत्र भविष्यति । अथ विशिष्टः । वक्तव्यस्तदाऽसौ यतः सकाशादनुत्पादात्तथात्वं ज्ञातव्यमित्याह -- ग्राह्य इति । यद्यर्थ इत्येव क्रियते तदेन्दिर्यमप्यर्थो ज्ञानं जनयतीति तस्याप्याकारनियामकत्वं स्यात् । न चापोद्धारद्वारेण तस्याकारविशेषहेतुत्वं व्यवस्थापितम्, अपि तु विषयग्रहणप्रतिनियमहेतुत्वमिति ग्राह्यग्रहणम् । ग्राह्य आलम्बनः । यद्येवं ग्राह्य इत्येवास्तु । अपोहस्यापि ग्राह्यताऽस्ति । न चाऽसौ प्रतिभासनियमहेतुः । अतस्तन्निवृत्त्यर्थमर्थोऽर्थक्रियासमर्थ इति कृतम् । कुर्यात्कर्तुं शक्नोति । अपोद्धारेण तत्रैव तच्छक्तेरवधृतत्वात् । अत्र निदर्शनं यथेति । नियतप्रतिभासम्
इति शब्दाकारपरिहारेणार्थाकारधार्येव रसाकारपरिहारेण रूपाकारधार्येव चेति । यद्येवं बालविकल्पोऽपि अर्थादेवोत्पत्स्यते, ततो नियतप्रतिभासो भविष्यतीत्याशङ्क्य पूर्वोक्तमेव प्रसङ्गेन स्मारयति -- विकल्पेति । तुरुदाहृताद्विज्ञान भिनत्ति । एवं तु प्रयोगः कार्यः -- यदर्थान्नोत्पद्यते ज्ञानं तन्नियतप्रतिभासं न भवति । यथा व्युत्पन्नव्यवहारस्यातीतादिस्मरणम्, रूपरसादिसङ्कलनाज्ञानं वा । नोत्पद्यते चा[२२ ]र्थाद्बालकस्य विकल्प इति व्यापकानुपलब्धिः ।

ननु बालविकल्पस्य परोक्षत्वात्ततुत्पत्तिरनुपत्तिर्वा न शक्यते निश्चेतुम् । अतोऽयं सन्दिग्धासिद्धो हेतुरित्यभिप्रेत्य चोदयति कुत इति सामान्यहेतोः प्रश्नः । पुनरिति विशेषस्य । विदर्भ्योक्त्या चायं क्षेपे किमः प्रयोगः । तेन न कुतश्चिद्धेतोरिदमित्यर्थः । हेतुमाह अर्थेति । एवं तु प्रयोगः करणीयः -- यज्ज्ञानं स्वोत्पत्तावर्थसन्निधिनिरपेक्षं तदर्थान्नोत्पद्यते । यथा व्युत्पन्नसंकेतस्य चिरनष्टवस्तुविषयं विज्ञानम् । अर्थसन्निधिनिरपेक्षं च बालविकल्पविज्ञानमिति विरुद्धव्याप्तोपलब्धिः । असिद्धिमस्याः परिहत्तु भूमिकां
रचयन्नाह -- बालोऽपि हि -- इत्यादि ।


[ध्प्र्प्.५१]

मुखमर्पयति स्तने । पूर्वदृष्टापरदृष्टं च अर्थमेकीकुर्वद्विज्ञानमसन्निहितविषयम्, पूर्वदृष्टत्वस्यासन्निहितत्वात् । असन्निहितविषयं च अर्थनिरपेक्षम् । अनपेक्षं च प्रतिभासनियमहेतोरभावादनियतप्रतिभासम् । तादृशं च अभिलापसंसर्गयोग्यम् ।



न केवलं व्युत्पन्न इत्यपिशब्दः । हिर्यस्मात् । यावदिति निपातोऽवधौ । पूर्वदृष्टत्वं पूर्वदर्शनविषयत्वम् । तेन यो मया पूर्वं क्षुत्प्रतिघातहेतुत्वेन प्रतिपन्नः स एवाऽयमिति प्रत्यवमर्षस्य रूपमाचष्टे । न प्रत्यवमृशति प्रत्यभिजानाति । तावदित्यप्यवधौ । उपरतं रुदितं यस्मात्स तथा सन्नायर्पति । सर्वैरेव स्वसन्ततावेवमादिव्यवहारस्य दृष्टदृश्यमानयोरेकीकरणकारणात्वेनावगत्वादेवमुच्यते । तस्यैव चान्यत्र लोष्टादौ ढौकितेऽपि तथाऽदर्शनाच्च ।

ननु बालस्य करणानामपाटवात्संकेताग्रहणाच्च नान्तर्जल्पाकारोऽपि शब्दः सम्भवति । सम्भवे वा योग्यग्रहणानर्थक्यम् । तत्कथमेवं यावन्न प्रत्यवमृशति -- इत्युच्यते? उच्यते । अन्यैव हि भङ्ग्या अस्ति सा काचिद्दृष्टदृश्यमानयोरेकीकरणावस्था या तत्र निमित्तमिति प्रतिपाद्यते । सा च शब्देन प्रतिपाद्यमाना अभ्यस्तेनामुना शब्देन प्रतिपाद्यते । न पुनरेवमेवासौ प्रत्यवमृशतीत्युच्यते ।

ननु द्वितीयादिदर्शनकाले भवतु पूर्वदृष्टापरदृष्टयोरेकीकरणेन मुखार्पणम्, भूमिपातानन्तरं तु कथम्? न खलु स्तनमद्राद्षीदसौ येन दृष्टेन दृश्यमानमेकीकृत्यार्पयेत् । तदा तु जन्मान्तरानुभवादिति ब्रूमः । तत्रापि जन्मनि जन्मान्तरानुभवबलात् । न चादिमान् संसार इति का क्षतिः? शब्दाकारोऽपि तत्रास्त्येव । तत्किमनेन योग्यग्रहणसफलीकरणप्रयासेनेति चेत् । अस्तु तत्र जन्मान्तराभ्यासात्मूर्च्छितः शब्दाकारः, मा च भूत्सर्वथा पश्चाद्व्युत्पत्स्यमानेन विशिष्टेन शब्देन संसृष्टार्थप्रतिभासः, न भवति तस्य विकल्पप्रत्यय इत्युच्यते । ’स एवायम्ऽ इति पूर्वदृष्टत्वेन स्तनं प्रत्यवमृशतु । किमत इत्याह --
पूर्वदृष्टेति । पूर्वदृष्टं चापरदृष्टां चेति द्वन्द्वैकवद्भावः । चोऽवधारणे कुर्वदित्यस्मात्परो द्रष्टाव्यः। हेतौ वा शतृप्रत्ययः ।

तेनायमर्थः -- यस्मात्पूर्वदृष्टमेकीकरोत्येव तस्मादसन्निहितविषयमिति । तथा कुर्वदपि कथमस्न्निहितविषयमित्याह -- पूर्वदृष्टत्वस्य[३२] -- इति । अयमाशयः -- पूर्वदर्शनविषयत्वं पूर्वदृष्टत्वमुच्यते । निवृत्ते च पूर्वदर्शने पूर्वदर्शनविषयत्वं वस्तुनो नास्ति । तदुत्तरकालभाविना ज्ञानेन पूर्वज्ञानविष[२३ ]यत्वमसन्निहितमेव वतुनो दृश्यत इति । भवत्वसन्निहितविषयम्, अर्थसन्निधिनिरपेक्षं तु कथं सिद्धमित्याह -- असन्निहितेति । चो यस्मात् । असन्निहितविषयमर्थसन्निधिनिरपेक्षम् । अनेनार्थसन्निधिनिरपेक्षत्वेऽर्थसन्निधिनिरपेक्षत्वं
हेतुमाह । ईदृशस्तु प्रयोगो ज्ञातव्यः -- यदसन्निहितविषयं ज्ञानं तदर्थसन्निधिनिरपेक्षम्, यथाऽतीतानागतविषयोऽस्मदादिविकल्पः । पूर्वदृष्टत्वेन प्रत्यभिज्ञानाच्च बालविज्ञानमसन्निहितविषयमिति स्वभावः ।


__________टिप्पणी__________

[३२] धर्मोत्तरे सर्वप्रतिषु ’पूर्वदृष्टस्यऽ इति पाठः । किन् त्वत्र प्रदीपानुसारी पाठो गृहीतः । -- सं-
___________________________


सम्प्रति शिष्याणां सुखप्रतिपत्त्यर्थं यथोत्तरोत्तरस्य हेतोः सिद्धौ पूर्वपूर्वस्य हेतोः सिद्धिर्भवति तथा दर्शयति -- अनपेक्षं च -- इति ।

[ध्प्र्प्.५२]
इन्द्रियविज्ञानं तु सन्निहितार्थमात्रग्राहित्वादर्थसापेक्षम् । अर्थस्य च प्रतिभासनियमहेतुत्वान्नियतप्रतिभासम् । ततो न अभिलापसंसर्गयोग्यम् ।

अत एव स्वलक्षणस्य अपि वाच्यवाचकभावमभ्युपगम्य एतदविकल्पकत्वमुच्यते । यद्यपि हि स्वलक्षणमेव वाच्यं वाचकं च भावेत्तथा अप्यभिलापसंसृष्टार्थविज्ञानं सविकल्पकम् । न च इन्द्रियविज्ञानमर्थेन नियमितप्रतिभासत्वादभिलापसंसर्गयोग्यप्रतिभासं भवति इति निर्विकल्पकम् ।

श्रोत्रज्ञानं तर्हि शब्दस्वलक्षणग्राहि शब्दस्वलक्षणं च किण्चिद्वाच्यं किञ्चिद्वाचकमित्यभिलाप

अंसर्गयोग्यप्रतिभासं स्यात् । तथा च सविकल्पकं स्यात् ।

न एष दोषः । सत्यपि स्वलक्षणस्य वाच्यवाचकभावे सङ्केतकालदृष्टत्वेन ग्रह्यमाणं



ननु किमनियतप्रतिभासत्वे साध्येऽर्थनिरपेक्षत्वं हेतुर्येन तथा सदनियतप्रतिभासमित्युच्यते । प्रतिभासनियमहेतोरिति च मध्यवर्त्ती च ग्रन्थः कथं नेयः? उच्यते । नायमनपेक्षमित्यादिरेकवाक्यतया नेयः । किं तर्हि? वाक्यभेदोऽत्र कर्त्तव्यः । तत्र चो यस्मात् । अनपेक्षमर्थसन्निधिनिरपेक्षं सत्प्रतिभासनियमहेतो अनुत्पन्नमिति प्रतिभासनियमहेतोरभावादित्यस्य सामर्थ्याद्वाक्यभेदं कृत्वा । ततः प्रतिभासनियमहेतोरभावादनुत्पादादनियतप्रतिभासमिति योजनीयम् । तादृशमित्यप्रतिभासम् । चो वक्तव्यमित्येतदित्यस्मिन्नर्थः ।

सर्वमेतदिन्द्रियज्ञानेऽपि प्ररः कदाचिदाशङ्कयेदिति तन्निरासार्थमाह -- इन्द्रियेति । तुर्विकल्पज्ञानं विशिनष्टि । ततो नियतप्रतिभासत्वात् ।

इह <पूवव्याख्यातृभिः> "असामर्थ्यवैयर्थ्याभ्यां स्वलक्षणस्य संकेतयितुमशक्यत्वादवाच्यवाचकत्वम् । अवाच्यावाचकस्वलषणग्राहित्वाच्चेन्द्रियज्ञानमविकल्पकमिति" व्याख्यातम् । तच्चावद्यम्, अन्यथाऽप्यविकल्पत्वस्य सुसाधत्वात्किमन्यापोहानयनेनाप्रकृतेनेति मन्यामान आह -- अत एव -- इति । यस्मादिन्दिर्यज्ञानं नियतप्रतिभासम् -- अत एव अस्मादेव हेतोः । स्वलक्षणं वक्ष्यमाणलक्षणम् । अपिरवधारणे । वाच्यग्रहणे कथमविकल्पकमित्याह -- यद्यपि हि -- इति । यद्यपि हीति निपातसमुदायो ’यदि नामऽशब्दस्यार्थे वर्त्तते । हिर्वाक्यालङ्कारो वा । अभिलापसंसृष्टार्थं सद्विज्ञानं विकल्पकं भवति । एवं
ब्रुवतोऽयं भावः -- कोष्ठशुद्ध्या वाच्यमस्तु स्वलक्षणं तथापि तदिन्द्रियज्ञाणं केवलमेव स्वलक्षणमात्मन्यादर्शयति, न तु वाचकमपीति कथमभिलापसंसृष्टार्थप्रतिभासत्वं विकल्पकत्वमात्मसात्कुर्यादिति?


[ध्प्र्प्.५३]

स्वलक्षणं वाच्यं वाचकं च गृहीतं स्यात् । न च सङ्केतकालभावि दर्शनविषयत्वं वस्तुनः सम्प्रत्यस्ति । यथा हि सङ्केतकालभावि दर्शनमद्य विरुद्धम्, तद्वद्तद्विषयत्वमप्यर्थस्य अद्य न अस्ति । ततः पूर्वकालदृष्टत्वमपश्यच्छ्रोत्रज्ञानं न वाचकभावग्राहि वाच्यवाचकभावग्राहि।

अनेन एव न्यायेन योगिज्ञानमपि सकलशब्दार्थावभासित्वेऽपि सङ्केतकालसृष्टत्वाग्रहणान्निर्विकल्पकम् ।



भवतु रूपाद्यालम्बनमिन्द्रियज्ञानम्, वाचकस्याप्रतिभासाद्वाच्यस्यैव प्रतिभासादविकल्पकम् । यत्पुनरेतद्द्वयप्रतिभासीन्द्रियज्ञानं तद्द्वयप्रतिभासाद्विकल्पकं प्राप्तमित्यभिप्रेत्य चोदयति -- श्रोत्रेति । तर्हिरक्षमायाम् । सर्वमिन्द्रियज्ञानमविकल्पकमिति न क्षम्यत एतदित्यर्थः । श्रोत्रज्ञाणमभिलापसंसर्गयोग्यप्रतिभासं स्यादिति सम्बन्धः । किं भूतं? शब्दस्वलक्षणाग्राहि । हेतुभावेनास्य विशेषणत्वात्शब्दस्वलषणग्राहित्वादित्यर्थः । शब्दग्राहिणोऽपि वाच्याग्रहणे कथं तथात्वमित्याह -- शब्देति [२३ ] । चो यस्मात् । किञ्चिद्वाचकं किञ्चिद्वाच्यम् । यथा ’तरप्तमपौ घःऽ [पाणिनि -- १.१.२२] इत्यादि
बुद्धिस्थम् । इतिस्तस्मात् । अस्तु तथाप्रतिभासं किमत इत्याह -- तथा चेति । तथा च सति तस्मिंश्चोक्तप्रकारे सति । एवं चैतद्द्रष्टव्यम् -- यदैकेन तरप्तमपौ संज्ञिनावुच्चार्येते तदैव च कथञ्चिदन्येन ’घःऽ इति संज्ञोच्चार्यते । तदा तद्द्वितयमेकेन श्रोत्रज्ञानेन प्रतियतः पुंसः श्रोत्रधीर्विकल्पिका प्रसज्येतेति ।

कथं तर्हि नैष दोष इत्याह -- सत्यपीति । चो यस्मात्तदेवेदं यन्मया संकेतकालत्वेन गृह्यमाणं तथा गृहीतं भवति । यद्येवमस्तु संकेतकालदृष्टत्वेन ग्रहणमित्याह -- न चेति । चोऽवधारणे हेतौ वा । दर्शनविषयत्वमिति ब्रुवन् पूर्वदृष्टत्वशब्दस्यार्थमाह । कथं नास्तीत्याह -- यथेति । हिर्यस्मादर्थे ।

अर्थस्येति सम्प्रतिदृश्यमानस्य । तद्भावे निगडाकर्षणन्यायेन प्राक्तनदर्शनस्यापि स्थितिः प्रसज्येतेति भावः । मा ग्रहीत्संकेतकालदृष्टत्वं तयोर्गृह्यमाणयोः शब्दयोस्तथापि कथं न वाच्यवाचकभावग्राहि तज्ज्ञानमित्याशङ्क्योपसंहरन्नाह -- तत इति । यतः सम्केतकालत्वेन गृह्यमाणं वाच्यं वाचकं च गृहीतं भवति ततः कारणात्श्रोत्रविज्ञानं न वाच्यवाचकभावग्राहि । भवतु तथागृह्यमाणस्य स्वलक्षणास्य तथावम् । किमतः? एतत्पुनरेनं तथैव ग्रहीष्यतीत्याह -- पूर्वेति । हेतौ शतुर्विधानात्पूर्वकालदृष्टत्वाग्रहणादित्यर्थः


स्यादेतत्-- संकेतदृटात्वेनापि न ग्रहीष्यतेऽर्थः शब्दो वा । अथ च विशिष्टवाचकवाचकत्वेन विशिष्टार्थवाचकत्वेन च ग्रहीष्यत इति । असदेतत् । एवं हि ब्रुवतेदमभिप्रतम् -- येन ज्ञानेन यो अर्थः संकेतकालोपलब्धो यच्छब्दसंसर्गिणा रूपेण नैकीक्रियते, न स तेन तद्च्छब्दवाच्यो गृह्यते । तथा गोज्ञानेन संकेतकालोपलब्धाश्वशब्दसंसर्गिणाऽश्वरूपेण सहैकत्वेनाप्रतीयमानो गौर्नाश्वशब्दवाच्यो गृह्यते । श्रोत्रज्ञानेन संकेतकालोपलब्ध’घऽशब्दसंसर्गिणा च रूपेण नैकीक्रियेते च तदा तरप्तमपाविति व्यापकानुपलब्धिः । तथा येन ज्ञानेन यः शब्दः

[ध्प्र्प्.५४]

<तया रहितं तिमिराशुभ्रमणनौयानसंक्षोभाद्यनाहितविभ्रमं ज्ञानं प्रत्यक्षम् > इ-६

<तया> कल्पनया कल्पनास्वभावेन <रहितं >शून्यं सज्ज्ञानं यदभ्रान्तं तद्<प्रत्यक्षम् >इति परेण सम्बन्धः । कल्पनापोढत्वाभ्रान्तत्वे परस्परसापेक्षे प्रत्यक्षलक्षणम्, न प्रत्येकमिति दर्शयितुं तया रहितं तत्प्रत्यक्षमिति लक्षणयोः परस्परसापेक्षयोः प्रत्यक्षविषयत्वं दर्शितमिति ।



संकेतकालदृष्टयदर्थसंसर्गिणा रूपेण नैकीक्रियते, न तेनासौ तदर्थवाचको गृह्यते । यथा गोशब्दज्ञानेन संकेतकालोपलब्धाश्वार्थसंसर्गिणाश्वशब्देन सहैकत्वेनाप्रतीयमानो गोशब्दो नाश्वार्थवाचको गृह्यते । श्रोत्रज्ञानेन संकेतदृष्टतरप्तमबर्थसंसर्गिणा रूपेण नैकीक्रियते च तदा ’घऽशब्द इति सैव असिद्धिरनुभवेन निराकृता । वास्तवसम्बन्धनिराकरणाच्च व्याप्तिः सिद्धेति । यदा तु पूर्वदृष्टत्वेन ग्रहोऽस्ति तदा तज्ज्ञानमभिलापसंसृष्टार्थप्रतिभासं सद्विकल्परूपमेवेति सर्वमवदातम् ।

श्रोत्रज्ञाणे यथाऽभिलापसंसर्गयोग्यप्रतिभासत्वं चोदितं तथा योगिज्ञानेऽपि चोदयितुं शक्यमिति तत्राप्यमुमेव परिहारमतिदिशन्नाह -- अनेनेति । यज्ज्ञानं सकेतकालविषयत्वं गृह्यमाणस्य न गृह्णाति, न तद्वाच्यवाचकभावग्राहीत्यनेन न्यानेन युक्त्या योगिज्ञानं वक्ष्यमाणलक्षणां सकलशब्दार्थावभासित्वे सत्यपि निर्विकल्पकम् ।

ननु चायस्य वाच्यवाचकभावग्राहिणो ज्ञानस्यास्तु निर्विकल्पकत्वम्, अस्य तु सर्वशब्दार्थग्राहिणः कथं तथात्वमित्याह -- संकेतेति । तथाऽग्रहणमुक्तेन न्यायेन योगिनं प्रत्यपि पूर्वदर्शनविषयत्वस्यासत्त्वादिति भावः ।

<तया रहितं> इत्याचार्यीयं विवरणं व्याच[२४ ]ष्टे -- <तये>ति ।

ननु विकल्पेऽपि विकल्पान्तरं नास्ति । ततस्तस्यापि कल्पनापोढत्वं किं न भवति? अथ कपनया रहितमिति यन्न विकल्प्यते इत्युच्यते, तदपि कल्पनापोढमित्यनेनैवाकारेण विकल्प्यत इति कथमेतदुच्यत इति पश्यन् कल्पनया रहितमित्यस्य विवक्षितमर्थमाह -- कल्पनास्वभावेनेति । कल्पनायाः स्वभावोऽभिलापसंसर्गयोग्यप्रतिभासत्वम्, तेन । यथा विषाणी ककुद्मान् प्रान्ते वालधिरिति विषाणादिमता(-तो) विषाण्दीन्येव गोत्वलिङ्गानि व्यपदिश्यन्ते । तद्वत्कल्पनाख्येन धर्मिणा धर्मोऽभिलापसंसर्गयोग्यप्रतिभासत्वाख्यो निर्दिष्ट इति दर्शयति । अत एव चाचार्य<दिग्नागीय>प्रत्यक्षलक्षणे कल्पणापोढत्वाख्ये यद्<उद्द्योतकर>चोद्यमिहैव पूर्वमुपदर्शितं तत्
खलु <धर्मकीर्ति>चोद्यसदृशमिति स्थितम् । परेणेति परदेशस्थितेन तदनाहितविभ्रमं ज्ञानं <प्रत्यक्षम् >इत्यनेन । अभ्रान्तग्रहणस्यैव तद्विवरणमिति <अभ्रान्त>ग्रहणमिह । दूरस्थितेन सम्बन्धकरणे किं प्रयोजनमित्याह -- कल्पनापोढेति । मिलितयोरनयोस्तल्लक्षणत्वात्प्रत्यक्षलक्षणमित्येकवचनेन निर्देशः । इतिना दर्शनीयस्य रूपमाह । कथं परस्परसापेक्षतेत्याह -- तया रहितं यदभ्रान्तं तत्प्रत्यक्षं व्यवहर्तव्यमिति शेषः । इतीत्यादिनैव चोपसंहरति । यस्मादेवमितिस्तस्मात् । प्रत्यक्षविषयत्वं दर्शितमन्ते प्रत्यक्षग्रहणसामर्थ्यात्


[ध्प्र्प्.५५]

< तिमिरम्> अक्षनोर्विप्लवः । इन्द्रियगतमिदं विभ्रमकारणम् । <आशुभ्रमणम्> अलातादेः । मन्दं हि भ्रम्यमाणेऽलातादौ न चक्रभ्रान्तिरुत्पद्यते । तदर्थम् <आशु>ग्रहणेन विशेष्यते भ्रमणम् । एतच्च विषयगतं विभ्रमकारणम् । नावा गमनं <नौयानम्> । गच्छन्त्यां नावि स्थितस्य गच्छद्वृक्षादिभ्रान्तिरुत्पद्यते इति <यान>ग्रहणम् । एतच्च बाह्याश्रयस्थितंर विभ्रमकारणम् । <संक्षोभो >वातपित्तश्लेष्मणाम् । वातादिषु हि क्षोभं गतेषु ज्वलितस्तम्भादिभ्रान्तिरुत्पद्यते एतच्च अध्यात्मगतं विभ्रमकारणम् ।

सर्वैरेव च विभ्रमकारणैरिन्द्रियविषयबाह्याध्यात्मिकाश्रयगतैरिन्द्रियमेव विकर्तव्यम् । अविकृते इन्द्रिये इन्द्रियभ्रान्त्ययोगात् । एते सम्क्षोभपर्यन्ता आदयो येषां ते तथोक्ताः । <आदि>ग्रहणेन काचकामलादय इन्द्रियस्था गृह्यन्ते । आशुनयनानयनादयो विशयस्थाः । आशुनयनानयने हि कार्यमानेऽलातेऽग्निवर्णदण्डाभासा भ्रान्तिर्भवति । हस्तियानादयो बाह्याश्रयस्थाः, गाडमर्मप्रहारादय आध्यात्मिकाश्रयस्था विभ्रमहेतवो गृह्यन्ते ।

तैरनाहितो विभ्रमो यस्मिंस्तथाविधं ज्ञानं प्रत्यक्षम् ।



<तिमिरम् >अक्ष्णोर्विप्लवहेतुत्वाद्विप्लवः । इन्द्रियगतमिन्द्रियाश्रितम् । विभ्रमस्य भ्रान्तत्वस्य कारणं साक्षात्कारणत्वेन । अलातं विदग्धकाष्ठम् । <आशु>ग्रहणस्य फलमाह -- मन्दमिति । यद्यपि मन्दं भ्रम्यमाणस्यालातस्य विभ्रमकारणत्वादर्शनाद्<आशुभ्रमणं> लभ्यते, तथापि शाश्त्रकृता स्वकीयवचनाकौशलपरिहारार्थम् <आशु>ग्रहणं कृतमित्यवसेयम् । पूर्वस्मादेतद्भेदेन कथमुक्तमित्याह -- एतदिति । चो यस्मादर्थे । <आशु>ग्रहणेन नौयानमपि विशेषणीयम् । मन्दं हि गच्छन्त्यां नावि न गच्छद्वृक्षादिदर्शनं भवतीत्यनुभ्वसिद्धमेतत् । इतिर्हेतौ । एतत्कस्मात्
पृथगुक्तमित्याह एतच्चेति । चो यस्मात् । <संक्षोभ> उपचयः । प्रकोप इति यावत् । स केषामित्याकाङ्क्षायामाह -- वातेति । नासौ विभ्रमकारणमित्याशङ्कामपनुदन्नाह -- वातादिषु -- इति । हिर्यस्मात् । क्षोभं प्रकोपं गतेषु संक्षुब्धेष्विति यावत् ।

स्यादेतत्-- अस्तु तिमिरस्येन्द्रियोपघातहेतुकत्वाद्भ्रान्तज्ञानहेतुत्वम् । नौयानादीनां तु कथं सत्स्वपि तेषु तदवस्थत्वादिन्द्रियस्येत्याह -- सर्वैरेवेति । इन्दिर्यगतस्य तिमिरादेरिन्द्रियविकारत्वेन सम्मतस्याप्युपादानं दृष्टान्तार्थम् । तेनायमर्थः -- यथेन्द्रियगतं तिमिरादीन्द्रियविकुर्वद्विभ्रमहेतुः, तथा अन्यैरपि तद्विकुर्वद्भिरेव विभ्रमहेतुभिर्भाव्यमिति ।

कस्मात्पुनरमीभिरिन्द्रियविकारोऽवश्यकर्तव्य इत्याह -- अविकृत इत्यादि । एतदुक्तं भवति । तद्विकारविकारित्वादाश्रयाश्चक्षुराद्य इति । प्रयोग[२४ ]स्त्वेवं कर्तव्यः । यदि


[ध्प्र्प्.५६]



तदेव लक्षणमाख्याय यैरिन्द्रियमेव द्रष्टृ कल्पितं मानसप्रयक्षलक्षणे च दोष उद्भावितः, स्वसंवेदनं च न अभ्युपगतम्, योगिज्ञानं च; तेषां विप्रतिपत्तिनिराकरणार्थं प्रकारभेदं प्रत्यक्षस्य दर्शयन्नाह --

तत्चतुर्विधम् इ-७

तत्चतुर्विधमिति

इन्द्रियज्ञानम् इ-८

इद्रियस्य ज्ञानमिन्द्रियज्ञानम् । इन्द्रियाश्रितं तत्प्रत्यक्षाम् ।



इन्द्रियजभ्रमकारणं तदिन्द्रियं विकरोत्येव तथा तिमिरादि । इन्द्रियजभ्रमकारणं च नौयानादीति स्वभावहेतुः । एवंविधस्य ज्ञानस्य भ्रमरूपत्वं बाधवशादवसितमिन्द्रियान्वयव्यतिरेकानुविधानाच्चेन्द्रियजत्वम् । तथाभूतविभ्रमकारणात्वं च नौयानादेः स्वान्वयव्यतिरेक्तानुविधानात्सिद्धम् । उपयुक्तकार्त्स्न्ये वाऽयं सर्वशब्दः प्रवर्त्तनीयः । एत इत्यादि विभ्रमहेतवो गृह्यन्त इत्यन्तं सुबोधम् । केवलं पर्यन्तोऽन्तो वाच्यः । काचोऽक्षिविकारहेतू रोगविशेषः । कामलो च (-लोऽत्र) नयनवदनादिविकारकारणं व्याधिविशेष एवेति द्रष्टव्यम् ।

तैरनाहितो विभ्रमो यस्मिन्निति विगृह्णंस्त्रिपदं बहुव्रीहिं दर्शयति । अनाहितओ विभ्रमो यस्मिंस्तत्तथेति प्रसाध्य तेषाम् <अनाहितविभ्रम> इति षष्ठीततपुरुषः कार्यः । इदन् त्वर्थकथनमिति बोद्धव्यम् । यो हि तैरनाहितविभ्रमः स तेषां भवतीति । ज्ञानाधिकारेण लक्षणविधानाल्लब्धं ज्ञानम्, तेन ज्ञानमित्युक्तम् ॥

सम्प्रत्य्<आचार्यस्या>वान्तरप्रत्यक्षभेदव्युत्पादने निमित्तं दर्शयन्नाह -- तदेवमिति । निपातसमुदायश्चायमुक्तेन प्रकारेणेतियस्यार्थे वर्त्तते । <यैर्> इति प्रत्येकं योजनीयम् । <यैः> स्वयूथ्यैर्<वैभाषिकैः> । यदि ज्ञानं द्रष्टृ स्यात्, तस्याप्रतिघत्वाद्व्यवहितमपि गृह्णीयात् । ततः चक्षुः पश्यति रूपाणि अभिध- १.४२] इत्यादि वादिभिरिन्द्रियमेव द्रष्टृ कल्पितम् । <यैर्> <मीमांसकैर्> आचार्य<दिग्नागी>ये मानसप्रत्यक्षलक्षणे गृहीतग्राहित्वलक्षणोऽप्रामाण्यनिमित्तो दोष उद्भावितः । लक्षणग्रहणस्योपलक्षणत्वान्मानसप्रत्यक्षाभ्युपगमे
ऽपि यो दोषोऽन्धबधिराद्यभावलक्षणः, सोऽपि द्रष्टव्यः । <यैश्> च <मीमांसकैः> <कुमारिल>मतानुसारिभिर्<नैयायिकवैशेषिकै>श्च स्वात्मनि क्रियाविरोधेन स्वसंवेदनं नाभ्युपगतम् । <यैश्> च <चार्वाकमीमांसकैर्> योगिन एव न सम्भवन्ति, कुतस्तेषां ज्ञानमिति वादिभिर्योगिज्ञानं च नाभ्युपगतमिति वर्तते । त्रयोऽपि चकारा वक्तव्यान्तरं समुच्चिवन्ति । तेषाममीषां तत्र तत्र या विमतिस्तन्निराकरणार्थं प्रत्यक्षस्योक्तलक्षणस्य प्रकारो विशेषस्तस्य भेदं नानात्वम्, अवान्तरजातिभेदम्
इति यावत् ।

<तद्> इति प्रत्यक्षं <चतुर्विधं> चतुर्ष्प्रकारम् ॥

तत्रैकं तावदिन्द्रियज्ञाणमुक्तं व्याचक्षाण आह -- इन्दिर्यस्येति । ज्ञायतेऽनेनेति ज्ञानम्,



[ध्प्र्प्.५७]

मानसप्रत्यक्षे परैर्यो दोष उद्भावितस्तं निराकर्तुं मानसप्रत्यक्षलक्षणमाह --

स्वविषयानन्तरविषयसहकारिणा इन्द्रियज्ञानेन

समनन्तरप्रत्ययेन जनितं तन्मनोविज्ञानम् इ-९



इन्द्रियं च तज्ज्ञानं चेति कृत्वा शक्यमिन्द्रियज्ञानमिति वक्तुम्, तत्कथं विप्रतिपत्तिर्निराकृतेत्याशङ्कामपाकर्तुमिन्द्रियज्ञानमित्यत्र्<आचार्यस्ये>न्द्रियस्य ज्ञानमिति षष्ठीतत्पुरुषो विवक्षित इति दर्शयति -- इन्दिर्यस्य ज्ञानमिति । यदिन्दिर्येण जन्यते तदिन्द्रियस्य भवतीति भावः ।

ननु चेन्द्रियानुमानमपि कार्यप्रभवं भवतीन्द्रियस्य ज्ञानम् । ततस्तस्यापि प्रत्यक्षत्वं प्रापतमित्याह -- इन्द्रियाश्रितमिति । आश्रितं जन्यतया तस्मिन् सत्येव भावात् । न चेन्द्रियानु[२५ ]आममिन्द्रियेण साक्षाज्जन्यते, येन तस्य प्रत्यक्षत्वं स्यादिति भावः । अनेकहेतुत्वेऽपि ज्ञानस्येन्द्रियेण व्यपदेशोऽसाधारणत्वात्तस्येति द्र्ष्टव्यम् । इन्दिर्यस्य ज्ञानं प्रत्यक्षमिति कथयता नेन्दिर्यस्य द्रष्टृत्वमिति दर्शितम् । ततो विप्रतिपत्तिर्निराकृता ।

ननु इन्द्रियज्ञानस्य द्रष्टृत्वे तस्याप्रतिघत्वाद्व्यवहितस्यापि ग्रहणं प्रसज्येतेति तैरुक्तो दोषः । स कथं परिहृतो येन विप्रतिपत्तिर्निराकृतेति चेत् । अयमाशयः -- न ज्ञानं गत्वा गत्वाऽर्थं गृह्णाति, येन गमनविबन्धाभावात्व्यवहितम्ऽपि गृह्णीयात् । किन् तर्हि? यदाकारमुत्पद्यते तद्गृह्णातीत्युच्यते । न चायोग्यदेशस्थोऽर्थस्तत्स्वरूपकोऽन्वयव्यतिरेकाभ्यां विज्ञातः । तत्कथं तस्य तेन ग्रह इति सुज्ञानमेतदिति किमत्रोपपत्त्याभिहितयेति? इन्द्रियज्ञानं प्रत्यक्षमिन्द्रियादिसामग्रीजन्यज्ञानं प्रत्यक्षम्, एकस्य जनकत्वविरोधात् । नाज्ञानमित्यर्थात् ।

एवं च दर्शयता <वार्त्तिककारेण> यद्वेन्द्रियं प्रमाणं स्यात्तस्य वार्थेन सङ्गतिर्[श्व्४.६०]इत्यादि वचनात्तस्यापि या प्रत्यक्षप्रमाणता <मीमांसका>दिभिरभ्युपगता सा निरस्ता वेदितव्या । तथा हि -- प्रापकं प्रमाणं भवेत् । नान्यत् । प्रापकत्वं च प्रवर्त्तकर्त्वेना[व्यवधानेन न्यान्यथा] । प्रवर्त्तकत्वं चाधिगमात्मकत्वेन, नान्यथा । न च तस्य तथात्वमस्ति । अधिगमोपगमेन प्रवर्त्तकत्वे च नैव व्यवधीयते । यतश्चाव्यवधानेन प्रवृत्तिः स एव प्रवर्त्तकत्वात्प्रमाणं युक्तम् । तच्च ज्ञानमेव । तदुक्तम् -- धीप्रमाणता, प्रवृत्तेस्तत्प्रधानत्वाद्धेयोपादेयवस्तुनि [प्रमाणवा- १.५] इति ।

यद्वा प्रमायाः करणात्प्रमाणम् । प्रमा च नीलस्येयं न पीतस्येति विशिष्टेनैवाधिकरणेनावच्छिन्ना प्रतीयत इति तत्करणं भवितुमर्हति । यत इयमव्यवधाना ताद्रूप्येण व्यवस्थां लभते । इन्द्रियार्थसन्निकर्षादिश्च नीलपीतादि[३३]................स्य भेदव्यवस्थाङ्गम् । स्वभेदेन क्रियाभेदनिबन्धनं च करणं ततो ज्ञानात्मकमेव सारूप्यमधिगतिक्रियाभेदव्यवस्थाङ्गं प्रमाणं युज्यत इति । द्वयी चेयं विधाऽन्यत्र्<आचार्येन> विपञ्चितेति नेहोच्यते, प्राज्ञजनाधिकारेणास्य प्रकरणस्य प्रारम्भात् । दिङ्मात्रं तूक्तमिति ।


__________टिप्पणी__________

[३३] असपष्टम् -- सं-
___________________________



[ध्प्र्प्.५८]

<स्व> आत्मीयो <विषय> इन्दिर्यज्ञानस्य तस्य <अनन्तर>ः -- न विद्यतेऽन्तरमस्य इति । अन्तरं च व्यवधानं विशेषश्च उच्यते । ततश्च अन्तरे प्रतिषिद्धे समानजातीयो द्वितीयक्षणभाव्युपादेयक्षण इन्द्रियविज्ञानविषयस्य गृह्यते । स सहकारी यस्य इन्द्रियज्ञानस्य तत्तथोक्तम् । द्विविधश्च सहकारी -- परस्परोपकारी एककार्योपकारी च । इह च क्षणिके वस्तुन्यतिशयाधानायोगादेककार्यकारित्वेन सहकारी गृह्यते ।



ननु चतुर्विधप्रत्यक्षाभिधाने निमित्तमुक्तमेव <धर्मोत्तरेण> तत्कथं तदेव मानसेत्यादिना पुनराचष्टे । अथ्<आचार्य>स्य चतुष्टयाभिधाने निमित्तं यदासीत्बुद्धिस्थं तत्प्रागुक्तम्, तदेव तु यथायोगं प्रत्यक्षव्यक्तिविशेषाभिधानेऽभिधानीयमिति । तर्हि यैरिन्द्रियं द्रष्टृ कल्पितं तन्निराकरणार्थमाह -- <इन्द्रियज्ञानम्> इति तथाऽन्यत्रापि स्वसंवेदनादौ तत्तन्निमित्तमनेन किन्नोक्तम्? तदत्रापि मानसं व्याख्यातुमाहेति वक्तुं युक्तमिति । सत्यमेतत् । केवलं मानसस्य प्रत्यक्षस्याशक्यनिश्चयत्वेनाव्यवहाराङ्गत्वात्प्ररोक्तदोषनिराकरणमात्रमेवास्य लक्षणाख्याने
निमित्तं नान्यदिति प्रतिपाद्यितुमुक्तमेव निमित्तमनूदितमिति न किञ्चिदवद्यम् । अथेन्द्रियज्ञानस्यापि लक्षण[२५ ]मन्येषामिव किं नोक्तम्? नोक्तम् । तल्लक्षणविप्रतिपत्त्यभावात् । <इन्दिर्यज्ञानम्> इति निगदेनैव व्याखातत्वाच्चेति ।

स्यान्मतम् । अभिमतं चतुर्विधं प्रत्यक्षं दर्शयितव्यम् । तच्चैकदा वक्तुमशक्यत्वात्क्रमेण वचनीयम् । क्रमश्चैवंविधोऽस्त्वन्यादृशो वा किमत्रादरेणेति इन्द्रियज्ञाणादिरीदृशः क्रमः कृतः, अथान्यदप्यस्य निमित्तमस्तीति? अन्यदप्यस्तीत्युच्यते । तथा हि सर्वस्य सर्वव्यवहाराङ्गमिन्द्रियज्ञानमिति तदादितोऽभिहितम् । तेनैवेन्द्रियज्ञानेन तथाभूतेन मानसं जन्यत इति तदनु मानसं व्याख्यातम् । तस्य पश्चात्प्रत्यात्मवेद्यतयाऽस्तिवेन शक्यनिश्चयतया च स्वसंवेदनमुदितम् । ततः सर्वज्ञज्ञानस्य सामग्रीमात्रप्रदर्शनतयऽन्तिमपुरुषार्थतया चान्ते योगिज्ञानमुपदर्शितमिति ।

<स्व> इत्यादिना <स्वविषये>त्यादिलक्षणं व्याचष्टे । तच्च तत्तथोक्तमित्येतदन्तं सुगमम् ।

नन्वनुकारकस्य सहकारित्वेऽतिप्रसङ्गादुपकारिणा सहकारिणा भाव्यम् । समसमययोश्चोपकार्योपकारकभावाभावात्कथमसौ विषयक्षणस्तस्य सहकारीत्याशक्याह -- द्विविधश्चेति । परश्परेत्यादि । चो यस्मात् । द्विविधो द्विप्रकारः सहकरणशीलो भावः । कथं द्वैविध्यमित्याह -- परस्परेत्यादि । परस्परोपकारितया च सहकारित्वमेकत्वाध्यवसायाधीनं सन्तानगतममुख्यम् । मुख्यं तु एकार्थक्रियाकारित्वेन । यदि द्वैविध्येऽपि प्राक्तनस्य ग्रहणं तदा तदवस्थो दोष इत्याह -- इहेति । इह मानसक्रियायाम् । चोऽवधारणे । एकार्थक्रियाकारित्वेनेत्यस्मात्परो द्रष्टव्यः । सहकारी हि गृह्यते विषयक्षण इति प्रकरणादवसेयम् ।
पूर्वं कस्मान्न गृह्यत


[ध्प्र्प्.५९]

विषयविज्ञानाभ्यां हि मनोविज्ञानमेकं क्रियते यतस्तननयोः परस्परसहकारित्वम् ।

ईदृशेन इन्द्रियविज्ञानेन आलम्बनभूतेन अपि योगिज्ञानं जन्यते. तन्निरासार्थं <समनन्तरप्रत्यय>ग्रहणं कृतम्. <सम>श्च असौ ज्ञानत्वेन, <अनन्तर>श्च असौ अव्यवहिततत्वेन, स च असौ <प्रत्यय>श्च हेतुत्वात्<समनन्तरप्रत्यय>ः, तेन <जनितम्> ।



इत्याह -- क्षणिक इति । हेतुभावेन विशेषणम् । अथ यदि वस्तुनः क्षनिकत्वेनातिशयाधानासम्भवात्परस्परोपकारित्वेन न सहकारी गृह्यते द्विविधश्च सहकारीत्यनन्तरमुदितमनेन व्याहन्येत । <हेतुबिन्दुश्> च विरुध्येतेति सर्वमसमञ्जसम् । न । अभिप्रायापरिज्ञानात् । तथा हि क्षनिके वस्तुनीति धारयाऽप्रवाहिणि सजातीयाप्रसवधर्मिण्यन्तिमे मानसोत्पादकतयाऽभिमत इन्द्रियज्ञाननाम्नि निरोधोन्मुख इत्यभिप्रेतम् । न त्वक्षणिकव्यावृत्त्या क्षणीकपदाभिलाप्येऽवस्तुमात्रव्यावृत्त्या च वस्तुमात्र इति

एतदुक्तं भवति । यदीदं मानसोपजननोन्मुखमिन्द्रियज्ञानमेकजातीयप्रवाहवाहि स्यात्तदा सन्तानोपकारद्वारकातिशयाधायकत्वे विषयोऽस्य सहकारीति कल्पेयेत । केवलमिदमपेतसजातीयप्रसवशक्तिकं सन्तानवर्त्तीति कथमस्य विषयस्तथा सहकारी कल्प्येतेति । ननु किं तदेकं यत्कुर्वतोरेतयोस्तथासहकारित्वमुच्यत इत्याह विषयेति । हिरवधारेणे । यतो यस्मादाभ्यामेव तदेकं किर्यते, तस्मात् । तदित्ययं तस्मादित्यस्मिन्नर्थे । अन्योन्यस्य सहकारित्वमेकार्थक्रियाकारित्वेनेति प्रकरणात् ।

ईदृशेनेत्यादिना <समनन्तरप्रत्यय>ग्रहणस्य व्यवच्छेदं दर्शयति । ईदृशेन स्वविषयानन्तरविषयग्रह[२६ ]णसहकारिणा । आलम्ब्यत इति आलम्बनभूतं रूपं यस्य तेन ग्राह्यस्वभावेन सता जन्यत इत्यर्थः । तस्य योगिज्ञानस्य निरासर्थं मानसत्वनिराकरणार्थम् । एवञ्च व्याचक्षाणेन "समनन्तरप्रत्ययग्रहणमन्धबधिराद्यभावप्रसङ्गनिराकरणार्थमिति" यदन्येन व्याख्यातम् -- तदपहस्तितम् । इन्द्रियज्ञानग्रहणेनैव तत्प्रसङ्गस्य निराकृतत्वादिति ।

समश्चेत्यादिना <समनन्तरप्रत्यय>शब्दस्य विग्रहमर्थं चाह । हेत्वर्थः <प्रत्यया>र्थः । शकन्ध्वादिपाठाच्च न दीर्घत्वम् । यदि नामैवं व्युत्पत्तिस्तथापि प्राक्तनमेव विज्ञानमुपादानभूतमागमे तथा रूढं नान्यत् । तदुक्तम् <अभिधर्मकोषे> -- "चित्तचैत्ता अचरमा उत्पन्नाः समनन्तरः" [२.६.२] इति । सिद्धान्तप्रसिद्धया चामुया संज्ञया व्यवहरता <ऽऽचार्येण> सिद्धान्तप्रसिद्धत्वमस्य दर्शितम् ।


[ध्प्र्प्.६०]

तदनेन एकसन्तानान्तर्भूतयोरेव इन्द्रियज्ञानमनोविज्ञानयोर्जन्यजनकभावे मनोविज्ञानं प्रत्यक्षमित्युक्तं भवति । ततो योगिज्ञानं परसन्तानवर्तिं निरास्तम् ।



ननु किं कृतं <समन्तरप्रत्यय>ग्रहणेन येन योगिज्ञानस्य तथात्वेन निरास इत्याह -- तदिति । यस्मात्समनन्तरप्रत्ययरूपेणेन्द्रियज्ञानेन यज्जनितं तन्मानसं तत्तस्मात्कारणादनेन <समनन्तरप्रत्यय>ग्रहणेनैकसन्तानान्तर्भूतयोरेकसन्ततिपतितयोरेव जन्यजनकभावे सति मनोविज्ञानमिति । साक्षादिन्द्रियाजन्यतया मनोमात्राश्रितत्वान्मानसमेवोक्तम् । आगमेऽपि मनःशब्देनैतदेवोच्यत इति प्रदर्शनार्थं चैवमभिधानं मन्तव्यम् । तथापि कथं योगिज्ञानं तथात्वेन निरस्तमित्याह -- ततिति । यस्मादुपादानोपादेयभूतयोर्ग्रहणं भिन्नसन्तानवर्त्तिनोश्चोपादानोपादेयभावाभावः, तस्माद्योगिज्ञानं निरस्तं
मानसत्वेन प्रतिक्षिप्तम् । यदि पुनरिन्द्रियज्ञानेन जनितमित्येतावदुच्येत तदाऽऽलम्बनभूतेनापि तेनादौ जन्यत इति निरस्तं न स्यादिति भावः ।

स्यादेतत्-- यद्येतदर्थं <सन्ननतरप्रत्यय>ग्रहणं तर्हि नितरां न कर्त्तव्यम् । <स्वविषयानन्तरविषयक्षणसहकारिणे>त्यनेनैव योगिज्ञानस्य निरस्तत्वात् । न हि तदिन्द्रियज्ञानं योगिज्ञाने कर्त्तव्ये <स्वविषयानन्तरविषयक्षणसहकारी>ति । अथोच्यते -- यदेन्द्रियज्ञानं योगिज्ञानं जनयति तदा स्वोपादेयमपि ज्ञानं जनयत्येव । ततः स्वसन्ततिपतितजन्यक्षणापेक्षया तद्भवति <स्वविषयानन्तरविषयक्षणासहकारी>त्यस्ति तज्जानितस्य तस्य मानसत्वलक्षणमिति । अहो शब्दार्थव्यवस्थापनकौशलम्? यदेव हि जन्यतया प्रकृतं तदपेक्षम्
एव सहकारिणः सहकारित्वं चिन्तनीयम् । न तु यत्किञ्चिदपेक्षम् । न च तदेव योगिज्ञानं प्रति तत्सहकारि तदिन्द्रियज्ञानं येन तथात्वमस्योच्यमानं शोभेत । अथ तत्सहकारि तद्वस्तुवृत्त्या तदिन्द्रियज्ञानम् । तत्किं तदपेक्षया चिन्तयेति चेत् । यद्येवं कृतेऽपि <समनन्तरप्रत्यय>ग्रहणे योगिज्ञानं निरसितुमशक्यं तथापि यथा तदिन्द्रियज्ञानं स्वोपादेयज्ञानापेक्षं स्वविषयानन्तरविषयसहकारि तथा तदेवापेक्ष्य समन्तरप्रत्ययोऽप्यदो भ[२६ ]वत्येव । ततस्तथाभूतेन तेन जन्यमानस्य योगिज्ञानस्य कथं तथात्वेन निरासः । ननु न तदपेक्षं तस्य समननतरप्रययत्वम्
। हन्त तत्सहकारित्वमपि किमस्य तदपेक्षमस्ति? अथ समननतरप्रययत्वं प्रकृतजन्यापेक्षं ग्राह्यम्, न तु वास्तवं रूपमुपादेयं फलाभावेन तस्यानुवाद्यताऽनुपपत्तेः । अन्यथा समस्तवास्तवरूपानुवाद्यताप्रसं[गा]दिति चेत् । समानमिदं स्वविषयाननतरविषयक्षणसहकारिग्रहणेऽपि । न च राजशासनसमानं किञ्चिदुत्पश्यामो येन समनन्तरप्रत्ययजन्यत्वमेव प्रकृतजन्यापेक्षमिह ग्राह्यम्, न तु स्वविषयानन्तरविषयक्षणसहकारित्वमिति कल्पनीयमिति ।

अत्रोच्यते । यदा -- योगी इन्द्रियज्ञाणं तत्सहभुवं चार्थक्षणं च कुतश्चित्कारणाद्दिदृक्षमाणो योगिज्ञानेन तद्द्वयमपि पश्यति तदा तेनेन्दिर्यज्ञानेन स्वविषयानन्तरविषयक्षणसहकारिणा तद्योगिञानं जन्यत इति असति <समनन्तरन्प्रयय>ग्रःणे मानसप्रत्यक्षं समासज्येत । ततस्तन्निर्वृत्त्यर्थं कर्त्तयमेव <समनन्तरप्रयय>ग्रहणम् । एवंविधमेव च योगिज्ञानमभिप्रत्येत्येदृशेनेत्येभिहितं <धर्मोत्तरेणे>ति सर्वमवदातम् ।

[ध्प्र्प्.६१]

यदा च इन्द्रियविज्ञानादन्यो विषयो मनोविज्ञानस्य तदा गृहितग्रहणातासञ्जितोऽप्रामाण्यदोषो निरस्तः ।

यदा च इन्द्रियविषयोपादेयभूतः क्षणो गृहीतः, तदा इन्द्रियज्ञानेन अगृहीतस्य विषयान्तरस्य ग्रहणादन्धबधिराद्यभावदोषप्रसङ्गो निरस्तः ।



सम्प्रति यथा गृहीतग्राहित्वद्वारको दोषः परस्य परिह्रियते तथा दर्शयन्नाह -- यदा चेति । चो व्यक्तमेतदित्यस्मिन्नर्थे । यदैवं तदा निरस्तः । इन्द्रियज्ञाणविषयादन्योऽस्य विषय इत्येतदेव कुतो येनासौ निरस्तो भवति इत्याश्ङ्क्याह -- यदा चेति । चोऽवधारणे । इन्द्रियविज्ञानविषयोपादेयभूत इत्यस्मात्परो द्रष्टव्यः । इन्द्रियज्ञानस्य विषयो यस्तस्योपादेयभूतो यः क्षणः स गृहीत इन्द्र्यज्ञानस्य मानसोपजनने सहकारिकारणत्वेन स्वीकृतस्तदेतीहैव च्छेदः कर्त्तव्यः । एवं ब्रुवतेदमाकूतम् -- जनकविशेषस्य विषयत्वान्मानसप्रत्यक्षस्य विषयेण
भवता जनकेनावश्यभाव्यम् । जनकश्चेन्द्र्यज्ञानसहभूः क्षणस्तस्येति । सोऽस्येन्द्रियज्ञानविषयात्प्राक्तनार्थक्षणादन्यो विषय इति । अनेन च स्वविषयानन्तरविषयक्षणसहकारिग्रहणस्योपयोगो दर्शितः ।

अथेत्थं गृहीतग्राहित्वादप्रमाण्यप्रसङ्गो निराक्रियताम् । अन्धबधिराद्याभावदोषप्रसग्ङ्गस्तु कथङ्कारं निराक्रियेतेत्याशङ्क्याह -- इन्द्रियज्ञानेनेति । अमुनागृहीतस्य विष्यान्तरस्य ग्रहणान्मानसेनेति प्रकरनात् । तस्माधेतोरिन्द्रियज्ञानेनागृथीतं मानसेन गृह्यत इति दर्शयता चानेन यस्यैवेन्द्रियमस्ति तस्यैव तेनेन्द्रियज्ञानेन सहभूविषयक्षणसहकारिणा जनितत्वान्मानसं प्रत्यक्षम् । तेनागृहीतं तत्सहभुवः विषयक्षणं गृह्णाति । यस्य पुनः पुंसोऽर्थविषयमिन्द्रियज्ञाणमेव सास्ति तस्य कथं माणसमुत्पद्यते, गृह्णीयाद्वा तं विष्यक्षणमिति दर्शितम् । अतो
ऽन्धबधिराद्यभावदोषप्रसङ्गो निरसत इति । अनेनेन्द्रियज्ञाणग्रहणस्य स्वविषयानन्तरविषयक्षणसहकारिसचिवस्योपयोगो दर्शितः । केवलेऽपि ज्ञानेनेति ग्रहणे [स्व][२७ ]विषयानन्तरविषयक्षणसहकारिणेति विशेषणबलाद्यदि नामेन्द्रियज्ञानेनेति लभ्यते तथापि प्रतिपत्तिगौरवपरिहारार्थमिन्देर्यग्रहणं कृतमित्यवसेयम् । अन्धबधिरादीत्यत्रादिग्रहणात्काप्ति(कुष्ट)रोगिणो ग्रहणं तस्यापि मानसेन स्पर्शज्ञानात् ।

इह <शान्तभद्रेण> <सौत्रान्दिकानां> मतं दर्शयता "पूर्वं चक्षूरूपे चक्षुर्विज्ञानं ततस्तेनेन्द्रियविज्ञानेन सहजक्षणसकारिणा तृतीयस्मिन् क्षणे मान्सप्रत्यक्षं जन्यते" इति व्याख्यातम् ।


[ध्प्र्प्.६२]

एतच्च मनोविज्ञानमुपरतव्यापारे चक्षुषि प्रत्यक्षमिष्यते । व्यापारवति तु चक्षुषि यद्रूपज्ञानं तत्सर्वं चक्षुराश्रितमेव । इतरथा चक्षुराश्रितत्वानुपपत्तिः कस्यचिदपि विज्ञानस्य ।



तदवमन्यमान आह -- एतच्चेति । चोऽवधारणे । उपरतव्यापार इत्यस्यानन्तरं द्रष्तव्यः । चक्षुषो व्याप्रियमाणावस्था प्रणिधानमेव । एतन्मनोविज्ञानं प्रमाणं प्रमाणत्वेनोपगतमुपरतव्यापार एव चक्षुषि भवतीतीष्यत इति समुदायार्थो द्रष्टवः । यदि प्रणिहिते नयने मनोज्ञानं न जन्यते तर्हि किं नाम जायत इत्याह -- व्यापारेति । तुर्निर्व्यापारावस्थाया व्यापारवतीमवस्थां भिनत्ति । रूपज्ञानमिति वास्तवानुवादो न पुनरन्यज्ञानसम्भवेन तद्व्यवच्छेदार्थम् । यद्वा रूपशब्दः स्वभाववचनस्तेने यत्स्वभावज्ञानमित्यर्थः । सर्वग्राहणेन व्याप्तिमाह । चक्षुराश्रितं
चक्षुर्जन्यं चक्सुर्विज्ञानमिति यावत् । उपपत्तिमाह इतरथेति ।

ननु व्यापारवत्यपि चक्षुषि मानसोत्पत्तौ न चक्षुराश्रितत्वानुपपत्तिरादिमस्यैव ज्ञाणस्य चक्षुराश्रितत्वोपपत्तेः । सत्यम् । केवलम[यम्] अभिप्रायः -- यदपि तदाद्यं चक्षुर्विज्ञानं तदपि चक्षुरन्वयव्यतिरेकेऽ(का)नुविधानादेव तदाश्रितं व्यवस्थापनीयम् । सत्यपि तदन्वयव्यतिकेर्कानुविधाने यदि कस्यचिन्मानसत्वं तदा चक्षुरन्व्यव्यतितेकौ चक्षुराश्रितत्वव्यवस्थाया अनङ्गमित्याद्येऽपि तद्व्यवस्था न स्यादिति साधीयान् प्रसङ्गः ।

स्यादेतत्-- किमेतन्मानसं चक्षुर्विज्ञानेनैव रूपविषये जन्यते किं वा रसादिज्ञानेनापि रसादिविषय इति? किं चातः? यदि रूप एव तदा[३४]"द्विविधज्ञानविज्ञेयाह्पञ्च बाह्यविसयाः" इत्यागमो विरुद्ध्येत । अथ समस्तरूपादिविषयमिष्यते तदा शब्दविषयत्वेन तस्यासम्भवः । न हि रसादिरिव ताल्वादिजन्मा शब्दः प्रवाहवाही, येन श्रोत्रेन्द्रियज्ञाणेन स्वाविषयानन्तरविषयक्षणसहकारिणा तत्र मानसं जन्येतेति । उच्यते -- रूपादिपञ्चविषयमेतत्, न तु रूपमात्रविषयम् । तदाह्<आचार्यः> -- इन्द्रियज्ञानेन, न तु चक्षुर्विज्ञानेनेति । यत्पुनरवादीद्भगवान् -- "द्वाभ्यां भिक्ष्वो
रूपं गृह्यते, चक्षुर्विज्ञानेन तदाकृष्टेन च मनसेति" तद्रूपस्य ग्रहणप्रसङ्गेनोक्तम्, न तु रूपमेव द्विधा गृह्यत इति विवक्षितम् ।


__________टिप्पणी__________

[३४] द्रष्टव्योऽभिधर्मकोषः -- "पञ्च बाह्या द्विविज्ञेयाः" -- १.४८.
___________________________


ननूक्तं न तस्य शब्दविषयत्वेन सम्भवस्तत्कथमेवमभ्युपगमः? सत्यमेतत् । केवलं यदाभिहन्यमानं घण्टाटि रणति तदा तदुक्तः(-त्थः) शब्दः कियन्तं कालं सन्तानेन प्रवहतीति श्रोत्रज्ञानेन स्वविषयानन्तरविषयक्षणसहकारिणा तद्विषयं मानसं जन्यते । एतावतापि द्विविधज्ञानवेद्यत्ववचनं चरितार्थम् । तदुक्तमभिधर्मकोशे -- "रूपादिजात्यभिसम्बन्धिवचनाद्" इति । अस्यार्थः -- रूपादिजात्यभिसन्धिना तदुक्तं भगवता, न तु सर्वरूपादिव्यक्त्यभिप्रायेणेति ।

इह <पूर्वैः> -- "बाह्यार्थालम्बनमेवंविधं मनोविज्ञानमस्तीति कुतोऽवसेयं" इत्याशङ्क्य "तदभावे तद्बलोत्पन्नानां विकल्पानामभावाद्रूपादौ विषये व्यवहाराभावप्रसङ्गः स्याद्" इत्युक्तम् । "चक्षुरादिविज्ञानेनानुभूतत्वान्न विकल्पाभाव" इति चाशङ्क्याभिहितं -- "देवदत्तेनापि


[ध्प्र्प्.६३]

एतच्च सिद्धान्तप्रसिद्धं मानसं प्रत्यक्षम् । न त्वस्य प्रसाधकमस्ति प्रमाणम् । एवंजतीयकं तद्यदि स्यात्न कश्चिद्दोषः स्यादिति वक्तुं लक्षणमाख्यातमस्य इति ।



दृष्टे यज्ञदत्तस्याषि विकल्पप्रसङ्गः ।" "सन्तानभेदा[न्न] भविष्यते" इति च पुनराशङ्क्य "अत्रापि सन्तानभेदादेव विकल्पो न प्राप्नोति, यत इहापीन्द्रियाश्रयभेदादेव सन्तानभेदो युगपत्प्रवृत्तेश्च । दीर्घशष्कुलीभक्षणादौ हि युगपज्ज्ञानप्रवृत्तिर्दृश्यते । न च सन्तानस्यैक्ये युगपत्प्रवृत्तिर्न्याय्या । तस्माद्रूपादिविकल्पाभावो मा भूदित्यवश्यमविकल्पकं मनोविज्ञानमभ्युपेयम् । एतेन निश्चयस्मरणाभावप्रसङ्गोऽपि ढौकनीयः । निर्विकल्पकं मनोविज्ञानं यदि नास्त्येव तदा योगिज्ञानाभावप्रसङ्गः । अस्त्येव निर्विकल्पकं मनोविज्ञानं किन् त्विन्द्रियज्ञानपृष्टभावि नास्तीति चेत् । सति सम्भवे तस्याप्यस्तित्वे को विरोधः । न ह्यत्र बाधकं
प्रमाणं दृश्यते, येन तन्नास्तीति स्यात् । अस्तिवे चोक्तं प्रमाणम् । तस्मादस्तीन्द्रियज्ञानपृष्टभावि मनोज्ञानं निर्विकल्पकम्" इत्येवमाद्यभिहितम् । तदेतत्तदीयं कदलीगर्भनिःसारं मन्यमानः प्राह -- एतच्चेति । चोऽवधारणे । सिद्धान्तप्रसिद्धमित्यतः परो द्रष्व्यः । एतदेव व्यतिरेकमुखेण द्रढयति न त्वस्येति । तुरवधारयति भिनत्ति वा । प्रवाहानारम्भकस्यास्य ज्ञानात्मतया स्वसंवेदनरूपत्वेऽप्यसंविदितकल्पत्वादनुभवगम्यमिदं यथा चक्षुरादिज्ञानमिति दर्शयितुमशक्यत्वान्नास्य प्रसाधकं निश्चायकं प्रमाणमस्ति ।

ननु तैर्दर्शितमेव विकल्पाभावप्रसङ्गः स्यादित्यादिना प्रसङ्गमुखेन प्रमाणं विकल्पोदयादिति तत्किमुच्यते न त्वस्य प्रसाधकमस्ति प्रमाणमिति । अयमस्याशयः -- सत्यमुक्तमतार्किकीयं तु तत् । तथा हि यत्तावदुक्तमिन्द्रियाश्रयभेदाद्युगपत्प्रवृत्तेश्च सन्तानभेदोऽस्ति । न च सन्तानभेदेऽन्यानुभूतेऽन्यविकल्पो युक्त इति । तदवाच्यम् । यदीन्द्रियाश्रयभेदाद्युगपत्प्रवृत्तेश्च सन्तानभेदस्तद्भेदे च न कार्यकारणभावः, तदा स्वापादुत्थितमात्रस्य पुंसश्चक्षुर्विज्ञानं ..................................................................... नोत्पद्येत । तत्खलूपजायमानं मनोज्ञानाद्वा प्राचीनादुत्पद्येत, इन्द्र्यज्ञानाद्वा । न तावदिन्द्र्यज्ञाणात्तस्य पूर्वमभावात्, नापि जागरावस्थाभावीन्द्र्यज्ञानात् । तस्य्चिरनिरुद्धत्वात् । न च चिरातीतं
कारणमिश्यते । अथैवं भिन्नसन्तानैरेव विकल्पितैर्विकल्पोदयोऽस्त्येव न तु निर्विकल्पाद्विकल्पोदय इति चेत् । सन्तानभेदेऽपि जन्यजनकभावे निर्विकल्पादपि विकल्पोदयस्य को निषेद्धा । न चेन्द्रियाश्रयभेदाद्युगपत्प्रवृत्तेश्च सन्तानभेदो युज्यते । परस्परपरोक्षतादिप्रसङ्गात् । तस्मात्प्रभूतमल्पं वा सदृशादेव कारणाज्जायते । न तु प्रभूतस्योदयमात्रेण सन्तानभेदोऽभ्युपेतव्यः । यथाग्निकणिकायाः [२८ ] प्रभाप्रतानवती प्रदीपशिखा जायमाना न सन्तानभेदमात्मन्यावहति । यत्पुनर्योगिज्ञाणस्य तथात्वेऽपीदानीं मनोज्ञानं निर्विकल्पकं नाभ्युपेयते तद्यादृशाः सामग्र्यास्तदुद्भवो यदाकारञ्च तत्तत्सामग्र्यभावात्तदाकारस्य च मनोविज्ञानस्य निर्विकल्पस्यासंवेदनादिति किमत्रादरेणेति ।

ननु च यद्यस्य प्रसाधकं प्रमान्ं नास्ति किमर्थं तर्हि प्रत्यक्षप्रकरण उपन्यास इत्याशङ्क्याह -- एवमिति । एवंजातीयकमेवम्प्रकारवत् । एवं प्रकारलक्षणकथनस्यैव किं प्रयोजनमिति चेत् । <सूत्रकार>स्य सिद्धान्तप्रसिद्धमानसाभ्युपगमे प्रसक्तचोद्यनिराकरणम् -- यद्यस्ति मानसं प्रत्यक्षमेवं तस्य लक्षणमिति ।


[ध्प्र्प्.६४]

स्वसंवेदमाख्यातुमाह --

सर्वचित्तचैत्तानामात्मसंवेदनम् इ-१०

<सर्वचित्ते>त्यादि । <चित्त>मर्थमात्रग्राहि । <चैत्ता> विशेसावस्थाग्राहिणः सुखादयः । <सर्वे> च ते <चित्तचैत्ताश्> च <सर्वचित्तचैत्ताः> । सुखादय एव स्फुटानुभवत्वात्स्वसंविदिताः, न अन्या चित्तावस्था इत्येतदाशङ्का निवृत्त्यर्थं <सर्व>ग्रहणं कृतम् । न अस्ति सा काचित्चित्तावस्था यस्यामात्मनः संवेदनं न प्रत्यक्षं स्यात् ।

येन हि रूपेण आत्मा वेद्यते तद्रूपमात्मसम्वेदनं प्रत्यक्षम् ।



<वैभाषिक>प्रक्रियया यद्<आचार्येण> चित्तचैत्तौ भेदेनोक्तौ तयोरर्थमाह -- <चित्तम्> अर्थमात्रग्राहि वस्तुमात्र ग्राहि । "तत्रार्थदृष्टिर्विज्ञानम्" इति वचनात् । चैत्ता विशेषावस्थाग्राहिणो विशेषावस्थास्वीकर्त्तारो विशेषावस्थाकारा इति यावत् । तद्विशेषे तु चैतसा इति वचनात् । क एवं रूपा इत्याह -- सुखादय इत्य् । सर्वे चेति । विगृह्णन् पूर्व चित्तानि च चैत्ताश्चेति समस्य पश्चात्सर्वशब्देन समास इति दर्शयति । सुखेत्यादिना सर्व ग्रहणस्य फलमाह -- स्फुटो व्यक्तोऽनुभवः प्रकाशो यस्य तस्यभास्तस्मात् । सर्वग्रहणे सति कीदृशोऽर्थो भवति, येनाशङ्का निवर्त्त्यत इत्याह -- नास्तीति । काचिदिति भ्रान्ता वाऽभ्रान्ता वेत्यर्थः ।

ननु ज्ञानस्य संवेद्यात्मः किमन्यद्रूपान्तरं यत्स्वसंवेदनं प्रत्यक्षं स्यादित्याशङ्क्याह -- येन हीति । हिर्यस्मादर्थे ।

अथ यदनुभूयते तदन्येनैव यथा घटादि । तत्कथमात्मनैवात्मनः संवेदनमिति चेत् । न, योग्यतायास्तथाव्यवहारात् । अस्ति ज्ञानस्य सा योग्यता जडव्यावृत्तता ज्योतीरूपता यया स्वप्रकाशे प्रकाशान्तरं नापेक्षते । यथा प्रदीपः प्रकाशस्वाभाव्यादात्मानं स्वयमेव प्रकाशय्ते, न तु प्रदीपान्तरमपेक्षत इति ।

ननु किं घडादिदृष्टान्तबलात्प्रकाशान्तरप्रकाश्यता ज्ञानस्यास्ताम्, आहोस्वित्प्रदीपदृष्टान्तसामर्थ्यात्प्रकाशान्तरनिरपेक्षतया स्वप्रकाशता? अत्रोच्यते । ज्ञानस्य स्वप्रकाशरूपत्वाभावे घटादेः स्वरूपप्रकाशनानुपपत्तेः स्वप्रकाशतैवेष्टव्या । अत्र च प्रयोगः -- यदव्यक्तव्यक्तिकं न तद्व्यक्तं यथा किञ्चित्कदाचित्कथञ्चिदव्यक्तव्यक्तिकम् । अव्यक्तव्यक्तिकश्चायं घटादिः ज्ञानपरोक्षत्व इति व्यापकानुपलब्धिप्रसङ्गः । ज्ञानस्य ज्ञानान्तरेण व्यक्तौ हेतुरयमसिद्ध इति चेन्न, नीलज्ञानोदयकालेऽसिद्धत्वाधेतोर्नीलस्य परोक्षत्वप्रसञ्जनात् । न च भवतामपि मते सर्वं विज्ञानमेकार्थसमवायिना ज्ञानेन ज्ञायते । बुभुत्साभावे तदभावात्,
यथोपेक्षणीयविषया संवित् । ततुपेक्षणीयमेव तावदव्यक्तव्यक्तिकत्वादव्यक्तं प्रसज्येत । न चेयम्


[ध्प्र्प्.६५]

इह च रूपादौ वस्तुनि दृश्यमाने आन्तरः सुखाद्याकारस्तुल्यकालं संवेद्यते । न च गृह्यमाणाकारो नीलादिः सातरूपो वेद्यते इति शक्यं वक्तुम् । यतो नीलादिः सातरूपेण अनुभूयत इति न निश्चीयते ।

यदि हि सातरूपोऽयं नीलादिरनुभूयत इति निश्चीयेत, स्यात्तदा तस्य सातादिरूपत्वम् । यस्मिन् रूपे प्रत्यक्षस्य साक्षात्कारित्वव्यापारो विकल्पेन अनुगम्यते तत्प्रत्यक्षम् ।



अनुपलब्धिः सन्दिग्धविपक्षव्यावृत्त्यानैकान्तिकी कीर्त्तनीया ।[२८ ] तथा हि यद्यव्यक्तव्यक्तिकमपि व्यक्तव्यवहारविषयस्तदा पुरुषान्तरवर्त्तिज्ञानव्यक्तिकमपि वस्तु स्वज्ञानोदयकालवत्तथैव व्यक्तं व्यवह्रियेत । अस्वसंवेदनात्मतया स्वपरसन्तानवर्त्तिनोर्ज्ञानयोर्विशेषाभावात् । तत्सन्ताने ज्ञानस्याभावात्कथं वस्तुनस्तथा व्यवःार इति चेत् । भावेऽपि तदप्रकाशे कथं तथा व्यवहारः? न हि तेनास्य किञ्चित्क्रियते ।[३५]...... तदा तदपि पुरुषान्तरस्य किन्न तथा व्यवहारगोचर? तदयं व्यक्तव्यवहारो व्यक्तव्यक्तिकत्वेन व्याप्तः । सिद्धे च व्याप्यव्यापकभावे व्यापकानुपलब्धिर्नानैकान्तिकीति ।


__________टिप्पणी__________

[३५] पङ्क्तिबाह्यं लिखितं सम्यक्न पठ्यते -- सं-
___________________________


ननु किं तद्रूपान्तरम्, येनोच्यते -- येनात्मा संवेद्यते, तदात्मसंवेदनं प्रत्यक्षमिति? केवलमर्थशूयमेतदुच्यते इत्याशङ्क्याह -- इहेत्यादि । अन्तरे भव आन्तरोऽध्यात्मपरिस्पन्दी । कोऽसावीदृश इत्याह -- सुखेति ।

ननु गृह्यमाण एव रूपादिः सुखायाकोऽनुभूयते । न तु ततोऽन्यत्सुखादिरूपं येन तस्य वेदनरूपता व्यवस्थाप्येतेत्याह -- न चेति । चोऽवधारणे, यस्मादर्थे वा । गृह्यमाण आकारो यस्य ग्राह्यस्वभाव इत्यर्थः । सातरूपः सुखस्वभावः । सातग्रहणस्योपलक्षणत्वाद्दुःखरूप इत्यपि द्र्ष्टव्यम् । इतिना वचनस्याकारं दर्शयति । कुत एवं वक्तुं न शक्यत इत्याह -- यत इति । इतिर्निश्चयअस्य स्वरूपमाह । किं ताद्रुप्येन निशयेऽपि ताद्रूप्यानुभवः सिद्ध्यति, येन तदा(द)भावान्नैवं शक्यते वक्तुमित्युच्यते इत्याह -- यदीति । हिर्[य]स्मादिति । इतिकरणेन निश्चयस्वरूपमुक्तम् । अनेन यदेवानुरूपविकल्पेन यथात्वेन निश्चीयते तद्
एव तथावव्यवहारगोचरो यथा नीलादिरित्याकूतम् । ननु च तत्प्रतिभासादनुभवः प्रमाणम् ।


[ध्प्र्प्.६६]

न च नीलस्य सातरूपत्वमनुगम्यते । तस्माद्सातानीलाद्यर्थादन्यदेव सातमनुभूयते नीलानुभवकाले । तच्च ज्ञानमेव । ततोऽस्ति ज्ञानानुभवः ।

तच्च ज्ञानरूपवेदनमात्मनः साक्षात्कारि निर्विकलपकमभ्रान्तं च । ततः प्रत्यक्षम् ।



निशयो भवतु, मा वा भूत् । तत्किमेवमुच्यते इताशङ्क्य पूर्वोक्तमेव स्मारयति -- यस्मिन्निति । रूपे स्वभावे । शेषं प्रागेव कृतव्याख्यानम् । गृहीतं नीलस्य सातरूपत्वं विकल्पेनानुगम्यत एवेत्याह -- न चेति । चः पूर्ववत् । अनुगम्यते विकल्पेनेति वर्त्तते । तस्मादित्यादिनोक्तमुपसंहरति । यस्माद्गृह्य्माणाकारो नीलादिर्न तथा निश्चीयते, अस्ति च हर्षाद्याकारसंवेदनम्, तस्माद् ।

भवतु साताकारोऽनुभूतः । केवलमसावज्ञानात्मा भविष्यति । तथा च कथमज्ञानेन ज्ञानात्मसंवेदनम्? कथं चात्मवेदनं प्रत्यक्षमित्याह -- तच्चेति । चोऽज्ञात्मन एवं भिनत्ति । ज्ञानमेवेत्यवधारयतः प्रकाशात्मन एव ज्ञानत्वमन्यथा प्रकाशायोगादित्यभिप्रायः । यत एवं ततोऽस्ति ज्ञानानुभवः । इत्यन्तर्मुखस्य सुखाद्याकारस्य ग्राहकाकाराख्यस्येत्यर्थः । न च ग्राह्याकारादन्यदनुभूयमानं सातं ग्राहकाकारादप्यन्यदुपपद्यते । गृह्यं वा प्रकाशेत, ग्राहकं वा । न च तद्ग्राह्यमतो ग्राहकमेव । अथ ज्ञानमस्तु तथानुभूतम् । तत्पुनरात्मसंवेदं प्रत्यक्षं
कुत इत्याह -- तच्चेति । चो यस्माद् । वेद्यतेऽनेनेति वेदनम् । ज्ञानरूपस्य वेदनमिति विग्रः[२९ ] । यद्वा ज्ञानरूपं च तद्वेदनञ्चेति तथा । साक्षात्कारि अप्रोक्षताकारि, स्कुटावभासमिति यावत्, हेतुभावेनास्य विशेषणत्वात् । अत एव च निर्विकल्पकम् । विकल्पानुबद्धस्य स्पष्टार्थप्रतिभासित्वायोगात् । भवतु निर्विकल्पकं द्विचनेद्रादिज्ञानवद्भविष्यतीत्याह -- अभ्रान्तं चेति । चस्तुल्योपायत्वं समुच्चिनोति । न हि तत्स्वात्मनि अतस्मिंस्तदिति प्रवृत्तम्, येन तत्र भ्रान्तिर्भविष्यतीति भावः । भवतां निर्विकल्पकत्वाभ्रान्तत्वे ततः किं सिद्धमित्याह -- तत इति । यत एतद्रूपद्वययोगि ततस्तस्मात् । एतावन्मात्रलक्षणत्वात्
प्रत्य्क्षस्येति भावः ।

तत्र चेयं व्यवस्था । आत्मात्मयोग्यता प्रमाणम्, आत्मसंवित्फलमिति द्रष्टव्यम् । स्यान्मतम् -- इत्यं तस्य वेदनस्य प्रत्यक्षत्वे विकल्पात्मवेदनस्यापि तत्त्वं स्यात् । न च विकल्पात्मा प्रत्यक्षं युज्यते । युज्यते, स्वात्मनि अविकलपनादभ्रान्तत्वाच्च । विकल्पो हि बाह्यं विकल्पयति न त्वात्मानम् । भ्राम्यति च ब्राह्ये, नात्मनि । ततः किं न प्रत्यक्षम्? प्रयोगः -- यदभ्रान्तत्वे सत्यविकपं तत्प्रत्यक्षम् । यथेन्दिर्यज्ञाणस्य बाह्यसंवेदनं सारूप्याख्यम् । अभ्रान्तत्वे सत्यविकल्पकं चात्मनि विकलपरूपवेदनमिति स्वभावः । यथा च ज्ञानात्मनि सम्यासम्भवो यथा वा समितः शब्दसंसृष्टो
न गृह्यते तथाऽन्यत्र प्रपञ्चितमिति नेहोच्यत इति ॥


[ध्प्र्प्.६७]

योगिप्रत्यक्षं व्याख्यातुमाह --

भूतार्थभावनाप्रकर्षपर्यन्तजं योगिज्ञानं च इति इ-११

<भूतः> सद्भूतोऽर्थः । प्रमाणेन दृष्टश्च सद्भूतः ।

यथा चत्वार्यार्यसत्यानि ।

भूतस्य <भावना >पृष्ठौनः पुनश्चेतसि विनिवेशनम् । भावनायाः <प्रकर्षो> भाव्यमानार्थाभासस्य ज्ञानस्य स्फुटाभत्वारम्भः । प्रकर्षस्य <पर्यन्तो> यदा स्फुटाभत्वमीषदसम्पूर्णं भवति । यावद्धि स्फुटाभत्वमपरिपूर्णं तावत्तस्य प्रकर्षगमनम् ।



<भूत>शब्दस्य विवक्षितमर्थमाह -- सद्भूत इति । <अर्थ> इति ब्रुवाणो भूतश्चासावर्थश्चेति कर्मधारयं दर्शयति । ननु सुखादिमयत्वमप्यर्थस्य <सांख्य>परिकल्पितं सद्भूतमित्याह -- प्रमाणेनेति । दृष्टो निश्चितः । चकारः स्फुटमेतदित्यर्थं द्योतयति ।

कः पुनरीदृशो अर्थो विविक्षित इत्याह -- यथेति । अनेन <भूतार्थ>शब्देनात्र सत्यचतुष्टयं विवक्षितमिति दर्शितम् । यथा चतुरार्यसत्यभावनाबलजं ज्ञानं योगिनः प्रत्यक्षम्, तथाऽन्यसद्भूतार्थविषयमपि द्रष्टव्यमिति यथाशब्दार्थोऽप्यस्ति । यद्<विनिश्चयः> "[३५*]चतुरायसत्यदर्शनवद्बिति"प्विनि ७४,४ । आरात्पापकेभ्यो धर्मेभ्यो याता इत्यार्याः । अत एव तानि सत्यतया मन्यन्त इति तेषां सत्यानि । चतुष्ट्वाच्च तेषां चत्वारीत्युक्तम् ।

__________टिप्पणी__________

[३५*] चेप्विनि ७४,४
___________________________


फलभूताः पञ्च सक्लेशस्कन्धा दुःखाख्यं सत्यमेकम् । त एव हेतुभूतास्तृष्णासहायाः समुदयाख्यं सत्यं द्वितीयम् । चित्तस्य निष्क्लेशाव्स्था निरोधाख्यं सत्यं तृटीयम् । तदवस्थाप्राप्तिहेतुनैरात्म्याद्याकारश्चित्तविशेषो मार्गाख्यं सत्यं चतुर्थमिति ।

भावनाशब्देन विग्रहं तस्य चार्थमाचष्टे भूतस्येति । भूतार्थस्येति द्रष्ट्व्यम् । लक्ष्यते च भूतशब्दसान्निध्याल्लेखकेन प्रथमपुस्तके भूशब्दः प्रक्षिप्तः । तस्येति तु वचनं संक्षेपेण विग्रहं दर्शयतो <धर्मोत्तर>स्य पाठोऽन्यथा यथाभूतं विग्रहं दर्शयितुकामेनार्थपदोपादाने किमक्षरगौरवं दृष्टम्, येन केवलभूतशब्दोपादाने प्रतिपत्तिगौरवं लिखनाकौशलञ्चाविष्कृतमिति । <भावना>र्थमाह -- पुनरिति । पुनरित्यप्रथमतः । द्विर्वचनेनाप्रथमप्रचारस्य प्राचुर्यं दशयति । तथानिवेशनञ्च विजा[२९ ]तीयाव्यवधानेन
द्रष्टव्यम् । सत्यचतुष्टयविषयो विजातीयाव्यवहितः सदृशचित्तप्रवाहो भावनेति यावत् ।


[ध्प्र्प्.६८]

सम्पूर्णं तु यदा तदा न अस्ति प्रकर्षगतिः । ततः सम्पूर्णावस्थायाः प्राक्तन्यवस्था स्फुटाभत्वप्रकर्षपर्यन्त उच्यते । तस्मात्पर्यन्ताद्यज्जातं भाव्यमानस्य अर्थस्य सन्निहितस्य इव स्फुटतराकारग्राहि ज्ञानं योगिनः प्रत्यक्षम् ।

तदिह स्फुटाभत्वारम्भावस्था भावनाप्रकर्षः । अभ्रकव्यवहितमिव यदा भाव्यमानं



यादृशो योगिनां भावनाक्रमो <विनिश्चये> "श्रुतमये"त्यादिनाभिहितो यथा भावनाप्रकर्षविशदाभत्वयोः कार्यकारणभावस्तत्रैव "कामशोके"त्यादिना दर्शितस्तथेहापि द्रष्टव्यः । यादृशश्चाकारस्तेषां सत्यानामनित्यत्वादिके भावनीयो यावत्कालावधिका च भावनाऽनेकजमपरम्परानुयाता, यच्च निबन्धनं भावनायाः करुणा बोधिसत्त्वानाम्, तदन्येषां संसारोद्वेगस्तदपि सर्वं यथा <प्रमाणवार्त्तिके> निर्णीतं तथेहाप्यनुगन्तव्यम् । इह तु योगिज्ञाण्स्य स्व्रूपमात्रमुपदर्शयितुमुपक्रान्तमिति ।

<प्रकर्ष>शब्देन सह विग्रहं तस्य चार्यं विवक्षितमाह -- भावनाया इति । स्फुटाभत्वस्यारम्भ उपक्रमः । स च यत्स्फुटत्वतदधिकस्फुटत्वादिना रूपेण तज्ज्ञानस्योदय एव । <पर्यन्त>शब्देन विग्रहं तस्य चार्थमाचष्टे प्रकर्षस्येति । <पर्यन्तो>ऽवसानम् । कदा च तस्यावसानमित्याह -- यदेति । यस्मिन् काले स्फुटाभत्वं भावनार्थं विषयस्य ज्ञानस्येति प्रकरणात् । इदं लेशतोऽसम्पूर्णं भवति यद[न]न्तरं योगिप्रत्यक्षेण भवितव्यं तस्मिन् काले प्रकर्षस्य <पर्यन्तो>ऽवसानं ज्ञातव्यः । तत्कालोपलक्षितं तथाभूतं
ज्ञानं <पर्यन्त> इत्यर्थः ।

ननु प्रकर्षस्य पर्यन्तः स युज्यते यस्मिन् सति प्रकर्षो निवर्त्तते । तच्च सम्पूर्व(ण)मेव स्फुटभत्वम्, तत्कथमुच्यते कथञ्च पर्यन्तजं योगिज्ञानम्, न तु तदेव पर्यन्त इत्याशङ्क्याह -- यावदिति । हिर्यस्मात् ।

सम्पूर्णे तु प्रकर्षगमनं नास्तीति दर्शयति -- सम्पूर्नमिति । तुरिमामवस्थां भेदवतीमाह । प्रकर्षस्य गतिर्गमनम् । एवं ब्रुवतोऽयमाशयः । प्रकर्षः प्रकृष्यमाणता सातिशयं रूपमुच्यते । पर्यन्तश्च गत्यर्थादामर्द्धातोस्तत्प्रत्ययेन(?) परिसमन्तादन्त इति प्रादिसमासेन निःशेषगमनमेवोच्यते । ततः स पर्यन्त उच्यते यदनन्तरं प्रकर्ष(-कृष्य)माणेन न भवितव्यम् । न तु यदर्थं येषां प्रकर्षवतामुदय इति । एतदेवोपसंहरति तत इति । प्राक्तनी व्यवधानशून्या यदननतरं स्फुटतरज्ञानोदयः ।
सम्पूर्णवस्थायाः स्फुटत्वसम्पूर्णावस्थायाः स्फुटतराकारग्रहणावस्थाया इति यावत् । सन्निहितस्येति । यथाऽन्यस्याभावितस्य निकटस्थस्य घटघ(प)टाद(दे)रन्यज्ञानं स्फुटतराकारग्राहि प्रत्यक्षं तद्वद्भाव्यमानार्थस्फुटतराकारग्राहि यज्ज्ञानं तद्योगिनः प्रत्यक्षम् ।

उक्तमेव भावनाप्रकर्षार्थं तत्पर्यन्तार्थं तज्ज्ञानं चोपसंहारव्याजेन सुखप्रतिपत्त्यर्थं पुनर्दर्शयति तदिति । तत्तस्मात् । इहेति योगिप्रत्यक्षलक्षणप्रतीतिकाले अवस्था भावनाज्ञान--


[ध्प्र्प्.६९]

वस्तु पश्यति सा प्रकर्षपर्यन्तावस्था । करतलामलकवद् भाव्यमानस्य अर्थस्य यद्दर्शनं तद्योगिनः प्रत्यक्षम् । तद्धि स्फुटाभम् ।

स्फुटाभत्वादेव च निर्विकल्पकम् । विकल्पविज्ञानं हि सङ्केतकालदृष्टत्वेन वस्तु गृह्णच्छब्दसंसर्गयोग्यं गृह्णीयात् । सङ्केतकालदृष्टत्वं च सङ्केतकालोत्पन्नज्ञानविषयत्वम् । यथा च पूर्वोत्पन्नं विनष्टं ज्ञानं सम्प्रत्यसत्तद्वत्पूर्वविनष्टज्ञानविषयत्वमपि सम्प्रति न अस्ति वस्तुनः । तदसद्रूपं वस्तुनो गृह्णदसन्निहितार्थग्राहिवादस्फुटाभं विकल्पकम् । ततः स्फुटाभत्वाद्निर्विकल्पकम् ।



स्येति प्रकरणात् । अभ्रकेनातिस्वच्छतया पाश(र्श्व)तो द्विधाकर्त्तुमशक्येनेति प्रस्तावाद्व्यवहितमावृतं तदिव । करस्वरूपं करतलं सन्निहितस्येवेत्यनेन यत्पूर्वमुक्तं [३० ] तस्यायमुपसंहारः ।

अस्तु तथाविधं योगिज्ञानम्, तत्पुनः कथं प्रत्य्क्षमित्याशङ्कामपाकर्त्तुं प्रत्य्क्षलक्षणेन योगमस्य दर्शयन्नाह तद्धीति । हिर्यस्मात् ।

स्फुटाभं भवति, निर्विकल्पकं तु कथं येन प्रत्यक्षं स्यादित्याह -- स्फुटाभत्वादेवेति । चो निर्विकल्पकमित्यतः परः स्फुटाभत्वापेक्षैकविषयत्वं निर्विकल्पकत्वस्य समुच्चिनोति । अयमस्याशयः -- शब्दाकारसंसर्गो हि स्फुटाभत्वविरोधीति यद्यसावभविष्यत्तदा स्फुटाभमेव नाभविष्यदिति । अभिलापसंसर्गयोग्यप्रतिभासमेव स्फुटाबह्ं भवैष्यति कोऽनयोर्विरोध इत्याशङ्क्य विकल्पेत्यादिना विरोधमेव दर्श्यितुमपक्रमते । हिर्यस्मात् । वस्त्विति दृश्यमानं यथा चैतत्तथा पूर्वमेव विवेदितं गृणीयाद्ग्रहीतुमर्हति । सङ्केतकालदृष्टत्वेन च वस्तुग्राहित्वे
ऽसन्निहितविषयं स्यादिति । चो हेतौ । भवतु सङ्केतकालदृष्टत्वस्य तथात्वम्, किमत इत्याह -- यथा चेति । चो वक्तव्यमेतदित्यस्यार्थे ।

भवत्वेवं तथापि वादकाकारसंसर्गिनोऽपि कथं न स्फुटाभत्वमित्याह -- तदिति । यत एवं तत्तस्मात् । विकल्पयतीति विकल्पकं विज्ञानम् । अस्फुटाभं तु कुतस्तदित्याह -- असन्न्निहितार्थग्राहित्वादिति । सन्निहिततया हि भासमानो विशदो भवेत् । पूर्ववृत्तदर्शन विषयतया च भूतपूर्वो भावो गृह्यमानो न सन्निहितरूपो भासते । तेनाविशदाभो विकल्पः । तेन शब्दाकारसंसर्गो विकल्पस्य विशदाभत्वविरोधीत्यस्याभिप्रायः । असन्निहितविषयत्वमेव तस्य कुतोऽवसीयत इत्याह -- असद्रूपमिति । यत्पूर्वदृष्टत्वं सम्प्रत्यसद्, असद्रूपं वस्तुनो गृह्यमाणस्य गृह्णदिति हेतौ शतुर्विधानादसद्रूपग्रहणादित्यर्थः ।

स्फुटाभत्वादेवेति यदवोचत्, तदेवोपसंहरति तत इति । यतो विकल्पस्य स्पष्टाभत्वं न युज्यते, अनन्तरोक्तेन क्रमेण ततस्तस्मात्स्फुटाभत्वाद्विशदाबत्वान्निर्विकलपकं योगिज्ञानमिति प्रकरणात् । प्रयोगः -- यत्सङ्केतकालदृष्टतया वस्तुसंस्पर्शि ज्ञानं न तत्स्फुटाभम् । यथा चिर--


[ध्प्र्प्.७०]

प्रमाणशुद्धार्थग्राहित्वाच्च संवादकम् । अतः प्रत्यक्षम् । इतरप्रत्यक्षवत् ।

योगः समाधिः । स यस्य अस्ति स <योगी> । तस्य ज्ञानं <प्रत्यक्षम्> । <इति>शब्दः परिसमाप्तिवचनः । इयदेव प्रत्यक्षमिति ।

तदेवं प्रत्यक्षस्य कल्पनापोढत्वाभ्रान्तत्वयुक्तस्ये प्रकारभेदं प्रतिपाद्य विषयविप्रतिपत्तिं निराकर्तुमाह --



तस्य विषयः स्वलक्षणम् इ-१२



<तस्य> इत्यादि । तस्य चतुर्विधस्य प्रत्यक्षस्य <विषयो> बोद्धव्यः <स्वलक्षणम्> । <स्वम्> असाधारणं <लक्षणम्>

तत्त्वं <स्वलक्षणम्> । वस्तुनो ह्यासाधारणं च तत्त्वमस्ति सामान्यं च । तत्र यदसाधारणं तत्प्रत्यक्षस्य ग्राह्यम् ।



दृष्टनष्टवस्तुविकल्पः । सङ्केतकालदृष्टतया च दृश्यमानवस्तुसंस्पर्शी विकल्पः । स्फूटाभासत्वं नाम सन्निहितरूपभासनम् । असन्निहितरूपभासनेन च वस्तुनः पूर्वदृष्टत्वग्रहणं व्याप्तम् । न हि पूर्वज्ञानविषयत्वं पूर्वम्सिन्निवृत्ते वस्तुनोऽस्ति । तदुत्तरकालभाविना ज्ञाज्ञानेन पूर्वज्ञानविषयत्वमसन्निहितमेव वस्तुनः स्पृश्यते । पूर्वज्ञानविषयत्वग्रहणमेव च सङ्केतकालदृष्टशब्दविशिष्टत्वग्रहणम् । तदिदं विरुद्धं(-द्ध)व्याप्तोपलब्धेर्भवतु निर्विकल्पकम् ।

असत्यभ्रातत्वे तु कथं प्रत्यक्षमित्याह -- प्रमानेति । प्रंाण्धिगतोऽर्थः प्रमाणशुद्ध उच्यते । सत्यचतुष्टयं चैवमात्मकम् । तदेव शुद्धत्वेन विवक्षितम् । चः [३० ] संवादकमित्यतः परो निर्विकल्पत्वेन सह संवादकत्वेन संवादकत्वं सौच्छिनोति, तत्रस्था ए[व] वा पूर्वहेत्वपेक्षया हेतन्तरसमुच्चयार्थः । अतोऽस्मान्निर्विकल्पकत्वादभ्रान्तत्वाच्च ।

योगिशब्दस्य व्युत्पतिमाह यग इति । समाधिश्चित्तैकाग्रता । इह <धर्मोत्तरेण> लोकप्रसिद्धिराश्रिता । <विनिश्चयटीकायां> तु शास्त्रस्थितिस्तेनाविरोधः । यद्वा समाधिग्रहणस्योपलक्षणत्वात्प्रज्ञा च विवेककरणषशक्तिर्द्रष्टव्या । स यस्यास्ति स नित्यसमाहितो विवेककरणतत्परश्च योगी । इयदेव चतुःसंख्यावच्छिन्नमेव ॥

तदेवमित्याद्याहेइत्येतदन्तं सुबोधम् । <विषयो> बोद्धव्यः । क इत्याकाङ्क्षायामाह -- <स्वलक्षणम्> इति । स्वशब्दस्य लक्षणशब्दस्य चार्थमाचक्षाणो विग्रगमुपलक्षयति -- स्वमित्यादिना । स्वमात्मीयमुच्यते । यस्य यत्स्वं तत्तस्यैव नान्यस्येति लक्षणया स्वशब्देना साधारणमुक्तम् । लक्षणशब्देन च तत्त्वं स्वरूपं विवक्षितम् । स्वशब्दयोरर्थमभिधाय तयोः समस्तं पदमाह -- स्वलक्षणमिति । अनेन स्वमसाधारणं च तल्लक्षणं स्वरूपं चेत्कर्मधार्यो दर्शितः ।




[ध्प्र्प्.७१]

द्विविधो हि विषयः प्रमाणस्य -- ग्राह्यश्च यदाकारमुत्पद्यते, प्रापणीयश्च यमध्यवस्यति । अन्यो हि ग्राह्योऽन्यश्चाध्यवसेयः । प्रत्यक्षस्य हि क्षण एको ग्राह्यः । अध्यवसेयस्तु प्रत्यक्षबलोत्पन्नेन निश्चयेन सन्तान एव । सन्तान एव च प्रत्यक्षस्य प्रापणीयः । क्षणस्य प्रापयितुमशक्यत्वात् ।

तथा अनुमानमपि स्वप्रतिभासेऽनर्थेऽर्थाध्यवसायेन प्रवृत्तेरनर्थग्राहि ।



ननु सम्भवे व्यभिचारे च विशेषणमर्थवत् । अत्र च सर्वस्यैव स्वरूपस्यासाधारणत्वात्सम्भव एव, न व्यभिचार इति किं स्वशब्देन? एवं तु वक्तव्यम् -- वस्तुरूपं तस्य विषय इत्याशङ्कयाह -- वस्तुन इति । हिर्यस्मात् । चो वक्ष्यमाणापेक्ष्यः[क्षः] समुच्च्ये । सामान्यं सधारणं रूपं संवृतिज्ञानघटितम् । चः पूर्वापेक्षः समुच्चये । सति चैवं द्वैरूप्ये किं पूर्वं रूपम्, अथ परं प्रत्यक्षय विषय इति सन्देहे -- यदसाधारणं तत्प्रत्यक्षस्य ग्राह्यमुच्यत इति शेषः । ग्राह्यम्
इति ब्रुवन् <विषय>शब्देन्<आचार्यस्य> ग्राह्यो विषयोऽभिप्रेत इति दर्शयति ।

स्यादेतत्-- प्रवृत्तिविषय एव प्रमाणस्य विषयस्ततः प्रवृत्तिविषयस्तस्य विषय इति वक्तव्यम् । तत्किं ग्राह्यमित्युच्यत इत्याह -- द्विविध इति । अनेन भेदः प्रतिज्ञातः । हिर्यस्मात्द्विप्रकारो विषयः प्रमाण्स्येति । जातिविवक्षयैकवचनम् । एको ग्राह्योऽन्यः प्रापणीयः । भेदमुपपादयति -- यदाकारं यत्प्रतिभासं ज्ञानमुत्पद्यते । सोऽपि द्विविधः -- परमार्थ आरोपितश्च । द्वयोरपि स्वज्ञाने प्रकाशनमस्त्येवेति द्रष्टव्यम् । प्रापणीयो यमध्यवस्यति । ततो ज्ञानाद्यत्र प्रवर्त्तत इति यावत् । चकारौ पूर्वापरापेक्षया समुच्चयार्थौ ।

ननु ग्राह्याध्यवसेयशब्दयोरेव भेदो न त्वर्थस्य । यतो यदेव प्रकाशते तदेवाध्यवसीयते, तत्किमेवमुयत इत्याह -- अन्यो हीति । हिर्यस्माद् अर्थे । चोऽवधारणे । कस्य कीदृशो ग्राह्य इतरो वेत्याह -- प्रत्यक्षस्येति । हिरवधारणे एक इत्यस्मात्परो द्रष्टव्यः । कस्तर्ह्यवसेय अध्यवसेय इति [३१ ] । तुर्ग्राह्यादध्यवसेयं भिनत्ति । अथ किं प्रत्यक्षमवसायात्मकं येन तस्यासाववसेय इत्याह -- प्रत्यक्षेति । प्रत्यक्षपृष्ठभाविनो निशचयस्य प्रत्यक्षगृहीत एव प्रवृत्ततयाऽनतिशयाधानेन यत्तेनाध्यवसितं तत्प्रत्यक्षेणैवावसितमिति भावः ।

ननु ग्राह्यादन्यः प्रापणीयो विषयः प्रत्यक्षस्योक्तः । इदानीं पुनरवसेयः । तदयं तृतीयो विषयः प्राप्त इत्याह -- सन्तान एवेति । चो यस्मादर्थःे । उपादानोपादेयभावेन व्यवस्थितः क्षणप्रबन्ध एकत्वेनाधिमुक्तः सन्तानः । ग्राह्य एव कस्मान्न तेन प्राप्यत इत्याह -- लक्षाणास्येति (इत्याह -- क्षणस्येति) । यदाकरं प्रत्यक्षमुत्पद्यते तस्य क्षणस्येति प्रस्तावात् । एवञ्च विवृण्वतोऽस्य प्रमाणस्येत्यत्र प्रत्यक्षाभिप्रायेण प्रमाणशब्द इन्द्रियजाप्रत्यक्षविवक्षया द्रष्टव्यः । स्वसंवेदनादिनां
विषयद्वैविध्यासम्भवादिति ।

अथ भवत्वेकं प्रत्यक्षं विषयद्वैविध्यवद्, अनुमानं तु कथं तथाविधम्? प्रमाणस्येति च


[ध्प्र्प्.७२]

स पुनरारोपितोऽर्थो गृह्यमाणः स्वलक्षणत्वेन अवसीयते यतः, ततः स्वलक्षणमवसितं प्रवृत्तिविषयोऽनुमानस्य । अनर्थस्तु ग्राह्यः । तदत्र प्रमाणस्य ग्राह्यं विषयं दर्शयता प्रत्यक्षस्य स्वलक्षणं विषय उक्तः ।



ब्रुवता तदपि विषयद्वैविध्यवदभ्युपगमेव इत्याशङ्क्याह -- तथेति । येन प्रतिभासाध्यवसायलक्षणेन प्रकारेण प्रत्यक्षमन्यग्राह्यन्याध्यवसायि तथा तेन प्रकारेणेति तथाशदार्थः । न केवलं प्रत्यक्षमन्यद्गृह्णाति, अन्यदध्यवस्यति, किन् त्वनुमानमप्यन्यग्राह्यन्याध्यवसायीत्यपिशब्देनाह । इहैव च्छेदः कर्त्तव्योऽन्यथा व्याख्यानमसमञ्जसं स्यात् । किं गृह्णातीत्याह -- अनर्थग्राहीति । अनुमानमिति प्रकृतत्वात् । कथमुपपद्यत इत्याशङ्क्योपपत्तिमाह -- स्वप्रतिभास इति । स्वस्य प्रतिभास इव प्रतिभासः । शक्तिद्वययोगात्तथारोप्यभाणं रूपम् । तस्मिन्ननर्थेऽबाह्यरूप्ये(-रूपे)ऽर्थध्यवसायेन बाह्याध्यवसायेन तद्भेदानवभासनात्मकाभ्देदाध्यवसानलक्षाणेन
प्रवृत्तेः प्रवर्त्तनात् ।

अथानर्थे स्वप्रतिभासेऽर्थाध्यवसायेनानुमानविकल्पोऽन्यो वा प्रवर्त्तक इति किमुक्तं भवति? स्वप्र्तिभासस्यारोप्यमाणस्य चार्थस्यावसीयमानस्य विवेकं न प्र्तिपद्यत इत्युत्कं भवति । न हि तेनैव विवेकप्रतिपत्तिः, तेन स्वप्रतिभासस्य तथात्वेनाविकल्पनात् । अत्र चानुभवः प्रमाणम् । बाह्यवह्न्यादावप्रवृत्त्यादिप्रसङ्गश्च । नापि विकल्पान्तरेण । तस्यापि तथा प्रवृत्तितया पूर्वविकपप्रतिभासासंस्पर्शादित्यलमिह विस्तरेण । यद्येवं कोऽस्याध्यवसीयमानः प्रापणीयो विषय इत्याह -- स इति । पुनरिति सर्वतो विशिनष्टि । आरोपित इति स्वरूपानुवादः । अर्थ इति अर्थ इवार्थो गृह्यमाणः प्रतीयमानस्तस्मिन् ज्ञाने प्रकाशमान इति यावत् । अनेन स्वलक्षणमध्यवस्यतीदमिति प्रकाशितम्
। तदनेनानुमास्य ग्राह्याध्यवसेयौ भेदेन साध्यर्थ्यादभिधाय सुखप्रतिपत्त्यर्थं तावेव कण्ठोकौ करोति -- तत इति । यतः स्वलक्षणत्वेन तस्यावसायस्ततः [३१ ] स्वलक्षणमवसितं प्रवृत्तिविषयोऽनुमानस्य । स्वलक्षणमवसितमित्येतदप्यभिमानादभिधीयते । न पुनः स्वलक्षणमवसायस्य गोचरः । तद्विषयत्वे तस्य निरंशत्वात्क्षणिकत्वादेरप्यवसितावनुमानानवतारप्रसङ्गात् । एतच्च किञ्चिदिहैवोपरिष्टात्स्पष्टयिष्यामः । परार्थानुमाने तु यथाऽवसरं विष्तरेण निर्णेष्यामः ।

प्रवृत्तिविषयस्यैव प्रापणीयत्वात्प्रापणीय एव प्रवृत्तिविषयशदेनोक्तः । तुः प्रापणियाद्विषयाद्ग्राह्यं भेदवन्तं दर्शयति । तस्मिन् ज्ञाने प्रकाशमाने प्रकाशनादनर्थो ग्राह्य उक्तः ।

स्यादेतत्-- यद्यवसितं स्वलक्षणं प्रवृत्तिविषयोऽनुमानस्य तदा कथमेष <धर्मोत्तरो> <विनिशचयटीकायां> अवदीत्"अवसितश्चाकारो विकल्पानां ग्राह्यः" इति । एवं हि स्वलक्षणमेव ग्राह्यं समर्थितं स्यान्नानर्थ इति । ततो व्यक्तो व्याघातः । परमार्थदृष्ट्या तत्र तथाभिधानान्न दोषः । तथा हि प्ररमार्थतो विकल्पानामारोत्पितमेव रूपमवसेयं ग्राह्यं तथापि व्यवहर्त्तार आरोपितमेव रूपमवृक्षव्यावृत्तमवस्यन्तो बाह्यस्यापि तथात्वाद्बाह्यं वृक्षमवस्याम इत्यभिमन्यन्ते, तयोर्विवेकाप्रतिपत्तेः ।


[ध्प्र्प्.७३]



तदनुरोधात्स्वलक्षणमवसितमित्युच्यते । तस्यैव त्वारोपितस्य परमार्थोऽनुमेयस्य प्रतिभासमानं केवलमाकारमाश्रित्य ग्राह्यत्वमुच्यते । ततस्तत्र वास्तवावसितरूपाभिप्रायेण तथाभिधानात्को विरोधः?

तदत्रेत्यादिनोपसंहरति । यस्मात्प्रमाणस्य द्विदिधो विषयो ग्राह्याध्यव्ससायभेदेन तत्तस्मात् । अत्र विषयविप्रतिपत्तिनिराकरणाकाले ग्राह्यं विषयं दर्शयतेति ब्रुवन् विषयशब्देन्<आचार्यस्य> ग्राह्यो विषयोऽभिप्रेत इति स्फुटति ।

स्यादेतत्-- न वै ग्राह्यविषयापेक्षं प्रत्यक्षस्य प्रामाण्यमुपपद्यते । यत एकः क्षणस्तस्य ग्राह्यः । न च तत्प्रापणं सम्भवति । नाप्यनुमानस्य ग्राह्यपेक्षं प्रामाण्यम् । अन्यर्थो हि तस्य ग्राह्यः । न च तत्प्राप्तिः । न च येन यस्याप्रापणं तस्य तत्र प्रामाण्यमभ्युपेयते, अतिप्रसङ्गापत्तेः । अथैकनीलक्षणाकारतयोत्पत्तिरेव प्रत्यक्षस्य तत्प्रापणम्, अनुमान्स्यापि वह्न्याद्यध्यवसायितया तथोत्पत्तिरेव तत्प्रापणमुच्यते । तर्हि न किञ्चिदवशेषितं स्यात् । कस्य नाम ज्ञानस्य सविकल्पस्य निर्विकल्पकस्य वा तत्तदाकारतयोत्पत्तिर्नास्ति येन तस्य प्राणाण्यं न स्यात् । तस्मान्न द्विदिधो विषयः
प्रमाणस्याभिधानीयोऽपि त्वेक एव प्रवृत्तिविषयाख्यो विषयः ख्यापनीय इति ।

अत्र च समाधीयते । ज्ञानानां तावद्ग्राह्याध्यवसा(से)यभेदेन द्विविधो विषयोऽवश्यैषितव्योऽनुभवसिद्धत्वात् । तत्र प्रमाण्यं प्रवृत्तिविषयापेक्षं व्यवस्थाप्यते । ज्ञानत्वं तूभयापेक्षमेव । अज्ञानस्य च प्रामाण्यासम्भवेन ज्ञानान्तर्भूतं प्रमाणं विषयद्वैविध्यवदेव भवति । केवलं न ग्राह्यापे[३२ ]क्षं प्रामाण्यमपि तु प्रवृत्तिविषयापेक्षमिति प्रतिपाद्यते । ग्राह्यापेक्षया तु प्रमानस्येति वचनं स्वरूपानुवादकम् । यद्वा प्रमाणशब्देन ज्ञानमेवात्र विवक्षितम् । यथाऽयं <विनिश्चयटीकायां> स्वार्थाणुमानव्याख्यानावसरे व्यक्तमाह -- "द्विविधो
ज्ञानानां विषयो ग्राह्यश्चाध्यवसेयश्च" इत्यादि । ततो न किञ्चिदवद्यम् ।

अथापि स्यात् । यदि ग्राह्यो विषयो न कदाचिदपि प्रत्यक्षस्य प्रापणीयस्तर्हि तेन दर्शितेन किं प्रयोजनं येनोच्यते तदत्र ग्राह्यं विषयं दर्शता प्रत्यक्षस्य स्वलक्षणां विषय उक्त इति । नैष दोषः । एवमेवास्य प्रवृत्तिविषयप्रदर्शनात् । यदि हि प्रत्यक्षं क्षणमेक गृह्णाति तत्रानीलव्यावृत्तिनिश्चयोपजने सन्तानं निश्चाययत्प्रवृत्तिविषयं प्रदर्शयेत्तत्सन्तानभाविनाञ्च ज्ञानानामप्रमानाण्यमापादयेत्, न तु किञ्चिदगृह्णत् । तथा हि सन्तानोल्लेखेन निश्चयाभावेऽप्यनीलव्यावृत्तिस्तावदनागतसर्वक्षणसाधारणी प्रत्यक्षेण गृहीतनिश्चिता । तन्निश्चय एव
सर्वानीलव्यावृत्तोपादानोपादेयभावस्थितनीलक्षणनिश्चयः तदभिन्नयोगक्षेमत्वादुत्तरप्रबन्धस्य । तथानिश्चय एव च सन्ताने निश्चय उच्यते । अत एव च तदाद्यं ज्ञानं तथाऽनुष्ठानं तत्सन्तानभावीनि पराञ्चि ज्ञानान्यनीलव्यावृत्तं रूपं गृहीतमेव गृह्णन्त्यनीलव्यावृत्तिनिश्चयं च कृतमेव कुर्वन्त्यनतिशयाधायीनि प्रचुराण्यपि प्रामाण्यात्प्रच्यावयत्प्रामाण्यमात्मसात्करोतीति न्याय्यं ग्राह्यप्रदर्शनमिति सर्वमवदातम् ॥

इह्<आचार्य>स्य -- स्वमसाधारणं सन्तानान्तरसाधारणं यन्न भवति, यदर्थक्रियाक्षममेव सर्वतो व्यावृत्तं तत्त्वं तदेव स्वलक्षणम्, न चैतद्विपरीतमनुमानविषयोऽपीत्यभिप्रेतम् । स्वमसाधारणं


[ध्प्र्प्.७४]

कः पुनरसौ विषयो ज्ञानस्य यः स्वलक्षणं प्रतिपत्तव्य इत्याह --

यस्य अर्थस्य संनिधानासंनिधानाभ्यां ज्ञानप्रतिभासभेदस्तत्स्वलक्षणम् इ-१३

यस्य अर्थस्य इत्यादि । अर्थशब्दो विषयपर्यायः । यस्य ज्ञानविषयस्य । संनिधानं निकटदेशावस्थानम् । असंनिधानं दूरदेशावस्थानम् । तस्मात्संनिधानासंनिधानाच्च ज्ञानप्रतिभासस्य ग्राह्याकारस्य भेदः स्फुटत्वास्फुटत्वाभ्याम् । यो हि ज्ञानविषयः संनिहितः सन् स्फुटाभासं ज्ञानस्य करोति, असंनिहितस्तु योग्यदेशस्थ एव अस्फुटं करोति, तत्स्वलक्षणम् । सर्वण्येव हि वस्तुनि दूरादस्फुटानि दृश्यन्ते, समीपे स्फुटानि । तान्येव स्वलक्षणानि ।



लक्षणं तत्त्वं स्वलक्षणमिति विवृण्वता च <धर्मोत्तरेन> तदेव दर्शितम् । केवलं न व्यक्तीकृतमतस्तस्य विषयः स्वलक्षणमिति शब्दमात्रश्राविणोऽविदित्<आचार्या>भिप्रायस्याविभावित<धर्मोत्तर>विवरणार्थस्य यद्यसाधारणं पररूपेणामिश्रं रूपं स्वलषणं तदाऽग्नित्वमपि गोत्वादिसामान्येनामिश्रं स्वलक्षणं प्रसज्येतेति व्याप्तिं मन्यमानस्यायं कः पुनरित्यादिप्रश्नः । क इत्यनेन सामान्याकारेण विषयं पृच्छति । पुनरित्यनेन विशेषाकारेण । स्वलक्षणशब्दस्यासति बहुव्रीहावजहल्लिङ्गत्वात्स्वलक्षणम्
इति ।

चोदकेन विषयं सम्पृष्ट <आचार्यः> कस्मादर्थमुत्तरीकरोतीत्याशङ्क्याह -- अर्थेति । ज्ञानस्य प्रत्यासन्नत्वाज्ज्ञानविषयो लब्ध इत्यभिप्रेत्य यस्य ज्ञानविषयस्येति विवृणोति । <सन्निधानासन्निधान>शब्दौ निकटदूरावस्थानार्थौ व्याचक्षाणो यदन्यैराख्यातं -- "असन्निधानं योग्यदेशे सर्वथा वस्तुनोऽभावः" इति तदपाकरोति । अयञ्चास्याभिप्रायो यत्र वस्तु नास्ति तत्र ज्ञानमेव न जायते । न तु तत्प्रतिभास्य भेदो नानात्वमस्तीति । तस्मादित्यादिना <स>[३२ ]<न्निधानासन्निधानाभ्याम् >इति पञ्चमी द्विवचनान्तमेतदिति दर्शयति । स्फुटत्वाभ्यामिति अर्थक्रियासामर्थ्यानुगताभ्यामिति द्रष्टव्यम् ।[३६]इत्थम्भूतलक्षणा चेयं तृतीया



__________टिप्पणी__________

[३६] पाणिनि २.३.२१.
___________________________


पदार्थं व्याख्याय समुदायार्थं व्याचष्टे । द्वयी चेयं शैली व्याख्यातृणाम् । क्वचित्समुदायार्थं व्याख्याय पश्चात्पदार्थं विवृण्वते । क्वचित्पदार्थ्ं विवृत्य पश्चात्स्मुदायार्थं व्याचक्षत इति । हिरवधारणे । योग्यदेशस्थ एवत्यनेन दूरदेशस्थं निरस्यति । दूरस्थो हि ज्ञानमेव न जनयति किमङ्ग पुनर्भिन्द्यादित्यभिप्रायः ।

स्वलक्षणलक्षणस्याव्यापित्वासम्भवित्वशङ्कामपाकुर्वन्नाह -- सर्वाणीति । । सर्वशब्दो व्याप्तिप्रदर्शनार्थः । अनेनाव्यापित्वं निराकृतम् । हिर्यस्मादर्थे । दृश्यन्ते प्रतीयन्ते । अनेनासम्भवित्वं निरस्तम् । अतिव्यापित्वमपहस्तयन्नाह -- तान्येवेति । यान्यमूनि प्रत्यक्षविषयस्तान्येव । नानुमानविषयोऽपीति प्रकरणात् । दूरादस्फुटानि दृश्यन्त इति वदतश्चायमाशयः -- दूरे हि वस्तु गृह्यमाणं प्रचुररजोनीहारादिसंसृष्टं गृह्यते । ततोऽस्पष्टं गृह्यते। न तु


[ध्प्र्प्.७५]



कस्मात्पुनः प्रत्यक्षविषय एव स्वलक्षणम् । तथा हि विकल्पविषयोऽपि वह्निर्दृश्यात्मक एव अवसीयत इत्याह

तदेव परमार्थसत् इ-१४

<तदेव परमार्थसद्> इत्यादि । परमोऽर्थोऽकृत्रिममनारोपितं रूपम् । तेन अस्ति इति परमार्थसत् । य एव अर्थः सन्निधानासन्निधानाभ्यां स्फुटमस्फुटं च प्रतिभासं करोति परमार्थसन् स एव । स च प्रत्यक्षस्य विषयो यतः, तस्मात्तदेव स्वलक्षणम् ।



न गृह्यत एव । तथागृहीतस्यापि वृक्षास्य च्छायाद्यर्थक्रियाकारित्वात् । न चाधिकग्रहणं भ्रम इति ।

इदं पुनरत्र निरुप्यते । यदि य एवार्थः सन्निधानादसन्निधाच्च ज्ञानप्रतिभासं स्फुटत्वास्फुटत्वाभ्यां भिनति स एव स्वलक्षणं तर्हि स्पर्शरसौ स्वलक्षणे न स्याताम् । तौ खलु असन्निहितौ ज्ञानमेव न जन्यतः । किं पुनर्ज्ञानप्रतिभासं स्फुटत्वास्फुटत्वाभ्यां भेत्स्यतः? किञ्चैतस्मिन् स्वलक्षणे विज्ञाणमस्वलक्षणं स्यात् । तस्याऽऽस्तां तावदसन्निहितस्यास्फुटज्ञानजनकत्वं सन्निहितस्यापि स्फुटज्ञानजनकत्वं नास्ति । न च तस्य दूरान्तिकवर्त्तित्वमस्त्यदेशत्वात् । तदीदृशीं महतीमव्यापितामनालोच्येदृशं स्वलक्षणं प्रणयन्न् <आचार्यः>, <धर्मोत्तरो>
ऽप्येवं प्रसभं व्याचक्षाणः कथं न प्रमाद्यतीति? न । अभिप्रायापरिज्ञानात् । यदि हीदं लक्षणं यथाश्रुति व्यवतिष्ठेत, स्यादेवैतत् । केवलं सन्निधानासन्निधानाभ्यां ज्ञानप्रतिभासभेदकत्वेन यदेकार्थसमवेतमसाधारण्यं व्यत्यन्तरासनुयायित्वं तदुपलक्षितम् । यतो <हेतुबिन्दुः> "तत्र तदाद्यमसाधारणविषयम्" [पृ-५३] । अत एव -- "असाधारणविषयं स्वलक्षणविषयम्" इति [हेतु-टी-पृ-२५] भटटार्चटो व्याचष्टे । अत एवानुमानस्यैतद्विपर्ययेण साधारणं रूप विषयो दर्शयिष्यते । तेन नाव्याप्तिर्न चान्यो
लक्षाणदोषः । तस्य विषयः स्वलक्षणमित्यभिहितेऽपि स्वलक्षणशब्दस्यान्यथापि निर्वचनसम्भवात्, नायमभिमतोऽर्थो ज्ञायेत प्रतिपत्तृभिरिति तदभिमतार्थ इत्थमुपलक्षित इति च दृष्टव्यम् ॥

तस्य विषयः स्वलक्षणमित्यत्र यदि तस्यैव विषयः स्वलषाणमित्यवधार्यते तदा यत एव कारकरणं ततोऽन्यत्रावधारणमिति स्वलक्षणस्य प्रत्यक्षे नियमात्प्रत्यक्षमन्यविष्यमपि स्यात् । अथ स्वलक्षणमेवेत्यवधार्यते । तदाऽपि प्रत्यक्षस्य स्वलक्षणे नियतत्वाद्[३३ ] अनियतं स्वलक्षणमनुमानस्यापि विषयः स्यादित्युभयावधारणां कार्यम् । तस्यैव विषयः स्वलक्षणमेवेति । एतदसहमानः पूर्वपक्षवाद्याह -- कस्मादिति । कस्मादिति सामान्येन कारणं पृच्छति । पुनरिति विशेषतः
। यद्वा यस्यार्थस्येत्यत्र तत्स्वलक्षणमिति । <तदेव> प्रत्यक्षविषयः स्वलक्षणं नानुमानविषय इत्यभिप्रेतं तदसहमान एवमाह । कस्मात्प्रत्यक्षविषाय एवेति ब्रुवतोऽनुमानस्यापि विषयः किं न स्वलक्षणमित्यभिप्रायः । स एव किं न तथेत्याशङ्क्य पूर्वपक्षवाद्येवोपपत्तिम्


[ध्प्र्प्.७६]



कस्मात्पुनस्तदेव परमार्थसदित्याह --

अर्थक्रियासामर्थ्यलक्षणत्वाद्वस्तुनः इ-१५

अर्थ्यत इत्य्<अर्थ>ः । हेय उपादेयश्च । हेयो हि हातुमिष्यते उपादेयश्च उपादातुम् । <अर्थ>स्य प्रयोजनस्य <क्रिया> निश्पत्तिः । तस्याम् <सामर्थ्य>ं शक्तिः । तदेव <लक्षण>ं रूपं यस्य <वस्तुनः>


आह -- तथा हीति । विकल्पशब्दः प्रमाणविषयचिन्तनादनुमानविकल्पो द्रष्टव्यः । दृश्यात्मक एव स्वलक्षणात्मक एव ।

ननु ’<यस्यार्थस्य सन्निधानासन्निधानाभ्यां ज्ञानप्रतिभासभेदस्तत्स्वलक्षणम्>ऽ इत्युक्ते कुतोऽस्य प्रश्नस्यावकाशः? न हि विकल्पविषयस्य सन्निधानासन्निधानाच्च ज्ञानप्रतिभासभेदोऽस्ति यतोऽस्योत्थानं स्यात् । सत्यम् । केवलमयमस्याशयः -- यदेतद्भवद्भिर्लक्षणं स्वलक्षणस्य प्रतीतं तदस्य लक्षनमेव न भवति किन् तु यदेव दृश्यतयाऽध्यवसीयते तदेव स्व[लक्षण]मितीदं तस्य लक्षणम् । सति चैवमौमानविकल्पविषयस्यापि तथात्वमनिवारितमेवेति सूत्थानः प्रश्नः । एतत्प्रश्नविषर्जनम् <आचार्यीयं> दर्शयन्नाह -- तदेवेति ।

अथ स्यात्यदि[३७]............. त्युच्यमानं शोभेत यावतेदमेव न सिद्धं तत्कुतोऽयं प्रश्नविसर्जनप्रकार इति? उच्यते । स्वलक्षणमिति स्वमसाधारणं पारमार्थिकः स्वभाव उच्यते । स एव च पारमार्थिकः स्वभाव उच्यते, य एवार्थक्रियाक्षामः । स एव च परमार्थसन्निति युक्तमिदमुत्तरं तदेवेति । परमेऽर्थ इति दर्शयं कर्मधायं दर्शयति । अकृत्रिममित्यादि <परम>शब्दस्य व्याख्यानम् । तेनास्तीति सदित्यस्यार्थकथनम् । तेन रूपेण सद्विद्यमानमिति विग्रहः । शत्रन्तश्चायमसिः । "कर्त्तृकरणे कृता बहुलम्" [पाणिनि २.१.३२] इति च समासः । <परमार्थसद्> इत्यस्यार्थमाख्याय तदेवेत्येतद्विवृणोति य एवेति । प्रतिभासं
ज्ञानस्येति प्रकरणात् । अर्थक्रियासमर्थोऽर्थः । स्वलक्षणं चैवमात्मकमित्यभ्प्रायेण य एवार्थः स एवेत्याह । अस्तु तादृशः <परमार्थसन्> । स तु न तस्य विषयोऽन्यापि वा विषयो भविष्यति । तथा च विवक्षितार्थासिद्धिरित्याह स चेति । चोऽवधारणे प्रत्यक्षस्येत्यतः परो द्रष्टव्यः । तदेतेति प्रत्यक्षविषयत्वेन स्थितं वस्त्वेव न त्वनुमानविषयोऽपीति । अनेन कस्मात्पुनः प्रत्यक्षविषय एव स्वलक्षणमित्येतत्प्रश्नविसर्जनस्योपसंहारः कृतो वेदितव्यः ॥


__________टिप्पणी__________

[३७] पङ्क्तिबाह्यं लिखितं न पठ्यते -- सं-
___________________________


इदानीं स्वलक्षणस्यैव परमार्थसत्त्वमसहमान आह -- कस्मादिति । यमस्याशः -- स एव खलु परमार्ह्तसन्नर्थो य एवार्थ्त्वेनाध्यवसीयते । अनुमानविषयोऽपि च वह्निस्तथाऽध्यवसीयत इति सोऽपि कस्मान्न परमा[३३ ]र्थसन्निति ।

अत्र -- <अर्थे>त्यादि यदुत्तरं तदर्थ्यत इत्यादिना व्याचष्ते । चस्तुल्यबलत्वं समुच्चिनोति । हेयः कथमर्थ्यत इत्याह -- हेय इति । हिर्यस्मात् । यदि हातुमर्थ्यमानोऽर्थो न तर्ह्युपादेयोऽर्थ इत्याह -- उपादेय इति । चो हेयापेक्षयोपादेयस्यार्थ्यमानत्वं समुच्चिनोति । अर्थस्य प्रयोजनस्य दाहादेः । एवं च व्याचक्षाणः साध्यो दाहादिरेव मुख्यवृत्त्योपादेया हेयो वा ।


[ध्प्र्प्.७७]

तदर्थक्रियासामर्थ्यलक्षणम् । तस्य भावः तस्मात् । <वस्तु>शब्दः पर्मार्थपर्यायः । तदयमर्थः -- यस्मादर्थक्रियासमर्थं पर्मार्थसदुच्यते, सन्निधानासन्निधानाभ्यां च ज्ञानप्रतिभासस्य भेदकोऽर्थोऽर्थक्रियासमर्थः, तस्मात्स एव परमार्थसन् । तत एव हि प्रत्यक्षविषयादर्थक्रिया प्राप्यते न विकल्पविषयात् । अत एव यद्यपि विकल्पविषयो दृश्य इव अवसीयते तथा अपि न स दृश्य एव ततोऽर्थक्रियाय अभावात्, दृश्याच्च भावात् । अतस्तदेव स्वलक्षणं न विकल्पविषयः ।

अन्यत्सामान्यलक्षणम् इ-१६

<अन्यद्> इत्यादि । एतस्मात्स्वलक्षणाद्यदन्यत्---- स्वलक्षणं यो न भवति ज्ञानविषयः ---- तत्सामान्यलक्षणम्, विकल्पज्ञानेन अवसीयमानो ह्यर्थः सन्निधानासन्निधानाभ्यां ज्ञानप्रतिभासं न भिनत्ति । तथा हि आरोप्यमाणो वह्निरारोपादस्ति । आरोपाच्च दूरस्थो निकटस्थश्च । तस्य समारोपितस्य सन्निधानासन्निधानाच्च ज्ञानप्रतिभासस्य न भेदः स्फुटत्वेन अस्फुटत्वेन वा । ततः स्वलक्षणादन्य उच्यते । सामान्येन लक्षणं सामान्यलक्षणम् । साधारणं रूपमित्यर्थः ।

समारोप्यमाणं हि रूपं सकलवह्निसाधारणम् । ततः तत्सामाण्यलक्षणम् ।



तमेवोपादातुं हातुं वा तत्साधनस्योपादानं हानं वाऽन्यथा वा शक्यत इति तत्साधनभूतो वह्न्यादिरुपादेयादिरुपपद्यत इति दर्शयति । तस्यामित्यादि तस्मादित्यन्तं सुबोधम् । परमार्थसतस्तत्त्वे प्रतिपाद्ये किमिति वस्तुनस्ताद्रूप्यम् <आचार्येण> दर्शितमित्याशङ्कामपाकुर्वन्नाह -- <वस्तु>शब्द इति । तदयमर्थ इत्यादिर्न विकल्पविषय इत्यन्तो ग्रन्थस्तूक्तार्थोपसंहारः । स च सुज्ञानः ॥

इह प्रस्तुतस्वलक्षणापेक्षमन्यत्वम् <आचार्यस्या>भिप्रेतम् । स्वलक्षणशब्दस्य चान्यशब्दयोगात्पञ्चम्या भवितव्यमित्यभिप्रेत्य एतस्मादित्याह । अन्यत्वमभिव्यनक्ति -- स्वलक्षणं यो न भवतीति । शशविषाणादिव्यवच्छेदार्थमाह -- ज्ञानविषय इति । प्रमाणविषयचिन्तायाः प्रस्तुतत्वाद्विज्ञानविषय इति लब्धम् । असिद्धिमस्य ततोऽन्यत्वम्, अस्यापि स्वलक्षणकार्यकारित्वादित्याह -- विकल्पेत्यादि । हिर्यस्मादर्थे ।

प्रतिभासाभेदकत्वं तस्य कुतोऽवसीयते सर्वदा तस्य सन्निहितरूपत्वादसन्निहितरूपत्वादेव वेत्याह -- तथा हीति । आरोप्यमाणस्तथा प्रतीयमानः । आरोपात्तथोत्पादलक्षणादध्यवसायादस्ति वह्निरूपेण । आस्तामारोपात्तथाभूतस्तथापि तस्य सन्निधानासन्निधान(ने) कुत इत्याह -- आरोपादिति । चो व्यक्तमेतदित्यस्यार्थे । द्वितीयश्चकारो दूर्स्थात्वापेक्षया निकटस्थत्वस्यैकविषयत्वं समुच्चिनोति ।

तस्येत्याद्युच्यत इत्यन्तं स्पष्टार्थम् ।


[ध्प्र्प्.७८]

तच्च अनुमान्यस्य ग्राह्यं दर्शयितुमाह --

सो अनुमानस्य विषयः इ-१७

<सो अनुमानस्य विषयः> ग्राह्यरूपः । सर्वनाम्नोऽभिधेयवल्लिङ्गपरिग्रहः ।

सामान्यलक्षणमनुमानस्य विषयं व्याख्यातुकामेन अयं स्वलक्षणस्वरूपाख्यानग्रन्थ आवर्तनीयः स्यात् । ततो लाघवार्थं प्रत्यक्षपरिच्छेद एव अनुमानविषय उक्तः ।



सामान्यशब्देन लक्षणशब्दस्य विग्र्हमाह -- सामान्येनेति । सामान्येन, [न] विशेषेण सन्तानातरसाधारणं स्वरूपम्, साधनं कृतेति समासः । तस्य पदस्यार्थं स्पष्टयति । साधारणमिति ।

विकल्पविषयस्याप्यसाधारणत्वादसिद्धं व्यक्यन्तरसाधारणत्वादसिद्धं व्यक्त्यन्तरसाधारणत्वमित्याह -- सकलश्चासौ तार्णपार्णादिभेदभिन्नो वह्निश्चेति तथा । तत्साधारणं तथाविधलिङ्गबलेनानग्निव्यावृत्तवस्तुमात्रप्रतिभासनादिति भावः ।

ननु च तथाविधंसामान्यं विकल्पगोचरोऽवस्तु । तद्विषयत्वेऽनुमानस्य कथं बाह्ये प्रवर्त्तकत्वं तत्प्रापकत्वञ्च, यतः प्रमाण्यमस्य स्यादिति चेद् । उच्यते । विकल्पाः खल्वेतेऽनाद्यविद्यावशात्स्वप्रतिभासमनग्निव्यावृत्त अवस्यन्तो बाह्योऽप्यनग्निव्यावृत्त इति तदध्यसानमेव बाह्यो वह्निरध्यवसित इति मन्यन्ते । अनग्निव्यावृत्ततया बाह्यसदृशवह्न्यध्यवसाय एव बाह्यवग्न्यध्यवसायः । ततोर्विवेकाप्रतिपत्तेः अत एव ते विकल्पा दृश्यविकल्प्यावर्थावेकीकृत्य बाह्ये लोकं प्रवर्त्तयन्ति । दृश्यविकप्यैकीकरणमपि तेषां तथा प्रवृत्तिहेतुतयोत्पत्तेरेव द्रष्टव्यम् । [३४ ] बाह्यसम्बद्धसम्ब्द्धत्वाच्चानुमानविकल्पः संवादकः, अध्यवसेयापेक्षया
च प्रमाणम् । तदाह <न्यायवादी> -- "भ्रान्तिरपि सम्बन्धतः प्रमा" इति । एष चार्थः स्वप्रतिभासेऽनर्थेऽर्थाध्यवसायेन प्रवृत्तेरित्यत्राप्यपेक्षणीयः । समासतस्तु तत्रास्माभिः किञ्चिदवादीति । यत एवं तत्तस्मादित्युपसंहारः । तदिति तदारोप्यमाणम् ॥

तच्चेत्यादिना सोऽनुमानेत्यस्यावतारं दर्शयति । चोऽवधारणे । ग्राह्यं रूपं स्वभावोऽस्येति विग्रहः । एवं व्याचक्षाणो विषयशब्देन ग्राह्यो विषयोऽभिप्रेतोऽत्र प्रमाणव्यापारविषयोऽध्यवसेयः स्वलक्षणस्यैव तदध्यवसेयत्वेन तथा व्यवस्थापनादिति दर्शयति । तस्य तु तत्र स्वरूपेणाप्रतिभासनादग्राह्यत्वम् । प्रकाशमानं च रूपमाश्रित्य ग्राह्यत्वमुच्यत इत्युक्तप्रायम् ।

अनुमानस्यापि ग्राह्यविषयदर्शनेऽयमभिप्रायो यदीदमनुमानमनर्थमनग्निव्यावृत्तिमात्रं सामान्यरूपं गृह्णाति, तत्र तत्सामान्यरूपं किञ्चिदवभासेत, तदा तत्स्वलक्षणत्वेनावस्यत्स्वलक्षणं प्रवृत्तिविषयीकुर्यात् । तथाकुर्वच्च वस्तुविषयं प्रामाण्यमश्नुवीत नान्यथेति । <स>


[ध्प्र्प्.७९]

विषयविप्रतिपत्तिं निराकृत्य फलविप्रतिपत्तिं निराकरुमाह --

तदेव च प्रत्यक्षं ज्ञानं प्रमाणफलम् इ-१८

तदेव इति । यदेव अनन्तरमुक्तं प्रत्यक्षं ज्ञानं तदेव प्रमानस्य फलम् ।

कथं प्रमाणफलमित्याह --

अर्थप्रतीतिरूपत्वात् इ-१९

<अर्थस्य प्रतीतिर्> अवगमः, सा एव <रूपं >यस्य प्रत्यक्षज्ञानस्य तद्<अर्थप्रतीतिरूप>म् । तस्य भावः तस्मात् ।

एतदुक्तं भवति -- प्रापकं ज्ञानं प्रमाणम् । प्रापणशक्तिश्च न केवलादर्थाविनाभवित्वाद्भवति । बीजाद्यविनाभाविनोऽप्यङ्कुरादेरप्रापकत्वात् । तस्मात्प्राप्यादर्थादुत्पत्तावप्यस्य ज्ञानस्य अस्ति कश्चिदवश्यकर्तव्यः प्रापकव्यापारो येन कृतेन अर्थः प्रापितो भवति ।

स एव च प्रमाणफलं यदनुष्ठानात्
प्रापकं भवति ज्ञानम् । उक्तं च पुरस्तात् प्रवृत्तिविषयप्रदर्शनमेव प्रापकस्य प्रापकव्यापारो नाम ।

तदेव च प्रत्यक्षमर्थप्रतीतिरूपमर्थप्रदर्शनरूपम् । अतस्तदेव प्रमाणफलम् ।



इति पुंल्लिङ्गनिर्देशसमर्थनार्थमाह -- सर्वेति । इवार्थे वति । तद्वल्लिङ्गस्य परिग्रह [इति षष्ठ्यन्तेन] विग्रहः । अत्रापि सामान्यलक्षणमेवानुमानस्य विषय इत्यवधारणीयं न त्वनुमानस्यैवेति प्रत्यक्षपृष्ठभाविनोऽपि विकल्पविशेषस्य तद्विषयत्वादन्यथा लिङ्गनिश्चयायोगादिति ।

सम्प्रति प्रत्यक्षस्य विषयविप्रतिपत्तिनिराकरणे प्रकृते किमप्रकृतमनुमानस्य विषयविप्रतिपत्तिनिराकरणमाचरितमित्याशङ्कामपाकर्त्तुं सामान्येत्यादिनोपक्रमते । एतच्चोक्त इत्येतदन्तं सुज्ञानम् ॥

विषयेत्यादि फलमित्येदन्तं सुबोद्धम् । फलप्रदर्शने चायं वार्त्तिककारस्याशयः -- प्रमाकरणं खलु लोके प्रमाणमुच्यते । ततः करणसाध्या फलरूपा प्रमितिरवश्यदर्शयितव्येति ॥

ननु यस्मिन् विषये क्रियासाधनं व्याप्रियते[३८]..... कथमिति । किमन्यत्प्रमाणमिति पुनरिहोपेक्षैतमनेन । <अर्थे>तियादिप्रतिवचनं व्याचष्टे अर्थस्येति । एतच्च तस्मादित्यन्तं सुगमम् ।


__________टिप्पणी__________

[३८] अत्र पङ्क्तिबाह्यं किञ्चिल्लखितमस्ति । सूक्ष्मत्वात्न पठ्यते -- सं-
___________________________


ननु संवादकं ज्ञानं प्रमाणम् । संवादश्च तदुत्पत्तिमात्रात् । तत्किमर्थे प्रतीतिस्तत्फलं मृग्यत इत्याशङ्क्याह -- एतदुक्तं भवतीति ।


[ध्प्र्प्.८०]

अथ प्रापकत्वं प्रापणशक्तियोगात् । सा च शक्तिस्तत उत्पत्ते एव । तथा च कथं पूर्वपक्षातिक्रम इत्याह -- प्रापणशक्तिश्चेति । चो यस्मात् । न केवलादेकाकिनोऽर्थप्रदर्शनविनाकृतात् । विवक्षितेन विना भवतीति विनाभावी ग्रहादित्वाण्णिनिः, व्यभिचारीत्यर्थः । अर्थेन विना भावीति "तृतीया" [पा-२.१.३०] इति योगविभागात्समासः । तस्य भावस्तस्मात् । कथं पुनर्न केवलादित्याह -- बीजादिति । यत एवं तस्मात् । यद्यपि सन्तान एव प्राप्यो न च तस्मात्तस्योत्पत्तिस्तथापि विषयेऽस्यैकत्वमध्यवसाय प्राप्यादर्थादुत्त्पत्तावपीत्युक्तम् । प्रापकस्य ज्ञानस्यावश्यकर्त्तव्यः प्रतीतिक्रियारूपः । प्रापितो भवतीति पूर्ववद्योग्यत[३४ ]योच्यते । भवतु तस्य कर्त्तव्यमन्यत्, तथापि न तत्फलमित्य्
आह -- स एवेति । च स्फुटमेतदित्यसिम्न्नर्थे ।

भवतु अवश्यकर्त्तव्यः प्रापकव्यापारः । स पुनरज्ञानात्म्को भविष्यति । तथा च कथं प्रतीतिः फलमित्याह उक्तमिति । चो यमादर्थे । पुरस्तात्पूर्वस्मिन् । केनोक्तमेतदिति चेत्प्रवर्त्तकत्वमपि प्रवृत्तिविषयोपदर्शकत्वमेवेत्यादिना । आस्तामर्थप्रतीतिरवश्यकर्त्तव्या प्रमाणस्य तथापि कथं तदेव प्रत्यक्षज्ञानं फलं तस्यातद्रूपत्वादित्याशङ्क्य यदर्थप्रतीतिरूपत्वं प्रज्ञातं तदुपपादयन्नाह -- तदेवेति । चो यस्मादर्थे ।

नन्वर्थप्रदर्शनं कर्त्तव्यतया प्रदर्शितम् । तत्कथमर्थप्रतीत्यामेकं तत्प्रदर्श्यत इत्याह -- अर्थप्रदर्शनरूपमिति । अनयोरर्थाभेद इत्यभिप्रायः । यत एवमतोऽस्मात्तदेव प्रत्यक्षं ज्ञानमेव नार्थान्तरमित्यर्थात् । प्रमाणादन्यज्ञानमेव फलं यदि स्यात्, किं स्यात्? येन यत्नेन गरीयसा प्रमाणादभेदोऽस्य साध्यत इति चेत् । उच्यते । "धीप्रमाणता, प्रवृत्तेस्तत्प्रधानत्वात्" [प्रमाणवा-१.४] इत्यत्राज्ञाणात्मनस्तावत्प्रामाण्यमपहस्तितम् । ज्ञानात्मनश्च प्रमाणस्या(स्य) भिन्नेऽपि प्रमितिरूपे फलेऽवश्यमर्थपरिच्छेदात्मताऽभ्युपेतव्या । अन्यथा ज्ञानत्वमेव तस्य न स्यात् । प्रमाजनकत्वेन च ज्ञानत्वे चक्षुरादेरपि ज्ञानत्वं स्यात् । बोधरूपत्वं चास्वसंवेदनतया न नियामकम्
। स्वसंवेदनरूपत्वे वा ग्राह्याकारसंवेदनमेवार्थवेदनमिति कह्तं भिन्नं फलम्? प्रतिकर्मव्यवस्थाऽनुपपत्तेश्च न निराकारत्वं विज्ञानस्याभ्युपेयम् । ज्ञानमेवार्थस्य प्रकाश इति च सर्वतन्त्रसिद्धोऽयमर्थः । ततो न ज्ञानस्याधिगमरूपतायां विप्रतिपत्तव्यं केनचित् । सत्यां च तदात्मतायां तदेव फलं युज्यते, तावतैव प्रमाणव्यापारपरिसमाप्तेः ।

अपि च यदि ज्ञानस्य स्वयमर्थरूपपरिच्छेदरूपत्वेनार्थपरिच्छेदकत्वं न स्यात्, किन् तु भिन्नपरिच्छित्तिजनकत्वेन; तदाऽर्थस्य परिच्छित्तेरपरोक्षतैव व्यवस्थापयितुं न शक्येत । तथा हि तदाद्यं ज्ञानमर्थं परिच्छिनत्त्यर्थमपरोक्षयतीति कोऽर्थोऽर्थविषयां परिच्छित्तिं जनयतीति । साऽपि यद्यर्थमपरोक्षयति तदाऽपरां प्रतीतिं जनयतीति स्यात् । एवमुत्तरत्राप्येवमेवेति परिच्छित्तीनामानन्त्यम्, न त्वर्थस्यापरोक्षतेत्यायातमान्ध्यमशेषस्य जगतः ।

अथ तासामेका स्वयमर्थपरिच्छेदरूपा अर्थापरोक्षतारूपोपेयते; तदा न भिन्नपरिच्छित्तिजनकत्वं परिच्छेदकत्वम् । किन् तर्हि? स्वयमर्थपरिच्छेदात्मत्वमिति आद्यस्यापि तथात्वमनिवारितम् । तथा च कथं प्रमाणाद्व्यतिरिक्तं फलमिति?

इह न क्रियैव करणं लोके तयोर्भेदेनावस्थितेः । या चेयं ज्ञानलक्षणा क्रिया सा चेत्फलं


[ध्प्र्प्.८१]

यदि तर्हि ज्ञानं प्रमितिरूपत्वात्प्रमानफलम्, किं तर्हि प्रमाणमित्याह --

अर्थसारूप्यमस्य प्रमाणम् इ-२०

अर्थेन सह यत्सारूप्यं सादृश्यमस्य ज्ञानस्य तत्प्रमाणम् । इह यस्माद्विषयाद्विज्ञानमुदेति तद्विषयसदृशं तद्भवति । यथा नीलादुत्पद्यमानं नीलसदृशम् । तच्च सारूप्यं सादृश्यमाकार इत्याभास इत्यपि व्यपदिश्यते ।

ननु च ज्ञानादव्यतिरिक्तं सादृश्यम् । तथा च सति तदेव ज्ञानं प्रमाणं तदेव च प्रमाणफलम् । न च एकं वस्तु साध्यं साधनं च उपपद्यते । तत्कथं सारूप्यं प्रमाणमित्याह --

तद्वशादर्थप्रतीतिसिद्धेरिति इ-२१

॥ प्रत्यक्षपरिच्छेदः ॥



किमन्यत्प्रमाणं भविष्यति इत्यागूर्य पूर्वपक्षावादी यदीत्याह । यदीति सम्भावयति । तर्हिशब्दोऽक्षमायाम् । तदेव प्रत्यक्षं ज्ञानमेवमिति (एवेति) न क्षम्यत एतदित्यर्थः । प्रमाणस्य फलं साध्यम् । तर्हि तस्मिन् काले किं प्रमाणमिति योज्यम् ।

अत्र्<आर्थसारूप्यम्> इत्युत्तरं व्याचष्टे -- अ[३५ ]र्थेनेति । अर्थेन विषयेण । विषयसारूप्यं च ज्ञान्स्य प्रत्यक्षाख्यस्य विषयसमानाकारतयोत्पादः । इहेत्यादिना सारूप्यमेवोपपादयति । एतच्च नीलसदृशमित्यन्तं सुबोधम् । केवलमेवं वदतोऽयमाशयः -- अनेकप्राग्भावेनोदयमानमपि विज्ञानमर्थस्यैवाकारं बिभर्ति, नान्यस्येत्यनुबवसिद्धमपर्यनुयोज्यम्, सदृशत्वनिश्चयस्य ताद्रूप्येण सततमुदयात् । यदि हि तदन्याकारो विषयः स्यात्तदा तदितरस्याकारधारि विज्ञानं कदाचिज्जन्येत् । यथा शुक्तिः कथञ्चिद्रजताकारज्ञानप्रबन्धोदयेऽपि तद्देशोपसृष्टस्य स्वाकारानुकारि ज्ञानं जनयति । न चाभ्रान्तस्य
नीलज्ञानस्य कदाचिदप्यन्याकारत्वमस्ति । तस्मादर्थोऽप्येवमाकार इति निश्चीयते । बाह्यार्थेऽर्थसारूप्यावगमे गतिरियमेवेति ।

ननु चान्यत्र विषयाभासः प्रमाणमुक्तस्तथाविषयाकारः, इह त्वर्थसारूप्यम् । तत्कथं न व्याघात इत्याशङ्क्याह -- तच्चेति । चो यस्मादवधारणे वा इत्यप्यनेनापि शब्देन । अर्थसारूप्यमेव तेन तेन शब्देनाभिहितम् । ततो न व्याघात इत्यभिप्रायः ॥

किं तर्हि प्रमाणमिति पृच्छता यच्चेतसि निहितमासीत्तदिदानीं ननु चेत्यादिना कण्ठोक्तं करोति । एतच्च प्रमाणमित्येतदन्तं सुबोधम् ।




[ध्प्र्प्.८२]

<तद्वशाद्>इति । <तद्> इति सारूप्यम्, तस्य <वशात्> सारूप्यसामर्थ्यात् । अर्थस्य प्रतीतिः अवबोधः । तस्याः सिद्धिः । तत्सिद्धेः कारणात् । अर्थस्य प्रतीतिरूपं प्रत्यक्षं विज्ञानं सारूप्यवशात्सिद्ध्यति प्रतीतं भवति इत्यर्थः । नीलनिर्भासं हि विज्ञानं यतः, तस्मात्नीलस्य प्रतीतिरवसीयते । येभ्यो हि चक्षुरादिभ्यो विज्ञानमुत्पद्यते न तद्वशात्तज्ज्ञानं नीलस्य संवेदनं शक्यतेऽवस्थापयितुम्[३९] । नीलसदृशं तु अनुभूयमानं नीलस्य संवेदनमवस्थाप्यते ।


__________टिप्पणी__________

[३९] साधारणत्वाच्चक्षुरादीनाम् -- ट्-
___________________________


न च अत्र जन्यजनकभावनिबन्धनः, साध्यसाधनभावः, येन एकस्मिन् वस्तुनि विरोधः स्यात् । अपि तु व्यवस्थाप्यव्यवस्थापनभावेन । तत एकस्य वस्तुनः किञ्चिद्रूपं प्रमाणं किञ्चित्प्रमाणफलं न विरुध्यते ।



एतस्मिन् पूर्वपक्षे <तद्वशाद्> इत्याद्युत्तरमाचार्यीयं विवृणोति <तद्> इति । <तच्>शब्दार्थं <वश>शब्दार्थं [च] स्फुटयति सारूप्येति । अर्थस्येति नीलपीताद्यात्मना विशिष्टस्येति द्रष्टव्यम् । यतः प्रमितिरियं विशिष्टेनैव कर्मणाऽवच्छिन्ना प्रतीयते । अमुमेवार्थम् -- अर्थस्येत्यादिना स्पष्टयति । <सिद्धि>शब्दस्यार्थमभिव्यनक्ति प्रतीतमिति । प्रतीतं तन्नीलस्येदं ज्ञानं न पीतस्येत्याद्याकारेण निश्चितं भव्तीत्यर्थः । उक्तमर्थं नीलेत्यादिनोपसहरति । हिरवधारणे । यत एवं तत्तस्मात्नीलस्य प्रतीतिर्नीलस्यैवेदं ज्ञानमित्यवसीयते ।

ननु जनकेभ्य एवेयं ज्ञानस्य व्यवस्था भविष्यति । ते हि ज्ञाणं जनयितुं शक्ताः किमङ्ग निश्चायितुं न शक्नुयुः? अतश्च न सारूप्याधीनोऽयं प्रतीतिनियम इत्याशङ्क्याह -- येभ्य इति । हिर्यस्मात् । एवं ब्रुवतोऽयं भावः -- नेन्द्रियालोकौ नियामकौ । तयोः सर्वज्ञानसाधारणत्वात् । अर्थगतोऽपि विशेषो न नियामकः । ज्ञानादेव हि स प्रत्येतव्यः । तदविशेषे स कथं विशेषव्यवस्थाया अङ्गं भवेदिति । नीलसारूप्येऽपि यद्ययं न्यायस्तदा कथं तस्यापि नियमकत्वमित्याह -- नीलेति । तुरिन्द्रियादिभ्यः सारूप्यं भेदवद्दर्शयति । नीलसदृशम्
अनुभूयमानं संवेदनं ज्ञानं नीलस्य नीलस्यैवेति व्यवस्थाप्यते ।

अयमत्र प्रकरणार्थः -- यदि ज्ञानमर्थसरूपं न स्यात्किन् तु निराकारं बोधैकरूपं तदाऽनुभवैकरूपतया तदविशिष्टं, परिच्छेद्यतया कर्मस्यानप्राप्ते नीलपीतादाविति नीलस्यैवेदं संवेदनम्, इदं पीतस्यैवेत्यनुभवसिद्धः प्रतिकर्मविभागो हीयेत । [३५ ] अर्थगतश्चाकारो ज्ञानाधीनप्रतिपत्तितया ज्ञानस्य विशिष्टरूपतासन्देहेन सन्दिग्धः । न च तेनैव सन्दिग्धरूपेण तदेव सन्दिग्धं रूपं निश्चेतुं शक्यम् । ज्ञानगतश्च विशेषोऽर्थकृतः सारूप्यादन्यो नोपपद्यते । सन्नपि न तावदिदं तयाऽसौ निर्देष्टुं शक्यः । न चानिरूपितेन तदात्मकः कर्मनियमनिश्चयः
। यद्रूपश्च यश्च कर्मनियमनिशयो ज्ञानस्य तस्मिन्न्निरूपिते कीदृशी तद्रूपताव्यवस्था? यथा


[ध्प्र्प्.८३]

व्यवस्थापनहेतुर्हि सारूप्यं तस्य ज्ञानस्य । व्यवस्थाप्यं च नीलसंवेदनरूपम्।

व्यवस्थाप्यव्यवस्थापकभावोऽपि कथमेकस्य ज्ञानस्य इति चेत् । उच्यते । नीलसदृशमनुभूय तद्विज्ञानं यतो नीलस्य ग्राहकमवस्थाप्यते निश्चयप्रत्ययेन, तस्मात्सारूप्यमनुभूतं व्यवस्थापनहेतुः । निश्चयप्रत्ययेन च तज्ज्ञानं नीलसंवेदनमवस्थाप्यमानं व्यवस्थाप्यम् ।

तस्मादसारूप्यव्यावृत्त्या सारूप्यं ज्ञानस्य व्यवस्थापनहेतुः । अनीलबोधव्यावृत्त्या च नीलबोधरूपत्वं व्यवस्थाप्यम् ।



नीलादिरनिरूपिते क्षणिकत्वे तद्रूपो न निरूप्यत इति । तस्माद्यत इयमधिगतिरव्यवधानात्तत्त्वं प्रलभते तदेवान्येनाव्यवधीयमानव्यापारं स्वभेदेन भेदकं प्रमाकरणं प्रमाणम् । न पुनरनेनैव व्यवधीयमानव्यापारमिति । तच्चेदृशं सारूप्यमेवेति । एष च वादोऽस्माभिर्*<१०>*विस्तरेण <विशेषाख्याने>ऽभिहित इति ततोऽप्यपेक्षितव्य इति ।

ननु चैवमप्येकस्यैव ज्ञानस्य साध्यत्वं साधनत्वञ्च कथमुपपद्यते? न हि परशुरेव छिदा भवति । ततः प्रमाणफलयोरभेदो नाभ्युपैतव्य इत्याशङ्क्याह -- न चेत्यादि । चो यस्मादर्थे । अत्रेति प्रमाणफलचिन्तायां विरोधोऽनुपपत्तिः स्यात् । यद्येवं न भवति कथं नामेत्याह -- अपि तु किन् तु । व्यवस्थाप्यं विशेषरूपेण नियाम्यम् । व्यवस्थाप्यते विशिष्टेनात्मना नियम्यतेऽनेनेति व्यवस्थानिमित्तं व्यवस्थापनमभिप्रेतम् । व्यवस्थापनभावेनेत्ययं पाठो वक्ष्यमाणविरोधी । यदा तु व्यवस्थापकभावेनेति पाठो दृश्यते तदा करणे कर्त्तृभावविवक्षया तथा द्रष्टव्यम् । साध्वसिश्च्छिनत्तीति यथा । तयोर्व्यवस्थाप्यव्यवस्थापनयोर्भावस्
तथा ज्ञानाभिधाननिमित्तं रूपं तेन । इत्थंभूतलक्षणा चेयं तृतीया । यत एवं ततस्तस्मादेकस्य वस्तुनः प्रत्यक्षलक्षणस्य ज्ञानस्य वस्तुनः किञ्चिद्रूपं व्यावृत्तिपरिकल्पितं कृतकत्वादिवत् । तत्रेयं ब्राह्यार्थे प्रमाणादिव्यवस्था । ग्राह्याकारोऽर्थसारूप्याख्य आत्मनः संविदमर्थसंविदमादर्शयन्नर्थे प्रमाणम् । अत एव बाह्योऽर्थः प्रमेयः । वस्तुतः स्वविदपीयमर्थसम्बन्धिनी व्यवसीयमानाऽर्थसंवित्तिः फल्मिति ।

ननु किमत्र व्यवस्थापननिमित्तम्, किञ्च व्यवस्थाप्यं येनैतत्स्यादित्याह -- व्यवस्थापनेति । व्यवस्थापनं व्यवस्थाकारणम् । व्यवस्थायां प्रयोजकव्यापार इति यावत् । तस्य हेतुर्निम्त्तम् । हिर्यस्मात् । तस्य प्रत्यक्षज्ञानस्य । किन् तर्हि व्यवस्थाप्यमिति? चो व्यवस्थापनहेतोर्व्यवस्थाप्यं भिनत्ति । नीलस्येदं नान्यस्येत्यनेनाकारेण यन्नीलसंवेदनं तद्रूपम् ।

एतदसहमानो व्यवस्थाप्येत्यादियाह । न केवलमेकस्य जन्यजनकभावोऽनुपपन्न इत्यपिना दर्शयति । उच्यत इत्यादिना परिहरति । यतो यस्मान्निलसदृशमनुभूयेति वास्तवं रूपमनूदितम् । न तु नीलसदृशमनुभवामीति निश्चयोऽस्ति । अपि तु नीलमेवानुभवामीति नीलस्य ग्राकमवस्थाप्यते ।


[ध्प्र्प्.८४]

व्यवस्थापकश्च विकल्पप्रत्ययः प्रत्यक्षबलोत्पन्नो द्रष्टव्यः । न तु निर्विकल्पत्वात्प्रत्यक्षमेव नीलबोधरूपत्वेन आत्मनमवस्थापयितुं शक्नोति । निश्चयप्रत्ययेन अव्यवस्थापितं सदपि नीलबोधरूपं विज्ञानमसत्कल्पमेव । तस्मान्निश्चयेन नीलबोधरूपं व्यवस्थापितं विज्ञानं नीलबोधात्मना सद्भवति ।

तस्मादध्यवसायं कुर्वदेव प्रत्यक्षं प्रमाणं भवति । अकृते त्वध्यवसाये नीलबोधरूपत्वेनाव्यवस्थापितं भवति विज्ञानम् । तथा च प्रमाणफलमर्थाधिगमरूपमनिष्पन्नम् । अतः साधकतमत्वाभावात्प्रमाणमेव न स्याज्ज्ञानम् ।



ननु न तावता ज्ञानमात्मनैवात्मानं[४०]तथा [३६ ]व्यवस्थापयति, अनिश्चयात्मकत्वात् । न च निश्चयोऽप्यात्मानं तथाऽवस्थापयितुं पर्यवाप्नोति, स्वात्मन्यविकल्पकत्वात् । तत्केन तथा व्यवस्थायत इत्याह -- निश्चयप्रत्ययेनेति । निश्चयात्मकज्ञानेनोत्तरकालभाविना । तेनाप्यनुरूपेणेति द्रष्टव्यम् । तस्मात्सारूप्यमनुभूतं स्वसंवेदनेन प्रतीतं व्यवस्थापनहेतुर्नीलस्येदं संवेदनम्, न पीतस्येति नियमकरणस्य हेतुर्निमित्तम् । इदं च व्यवस्थापनहेतुर्हि सारुप्यं तस्य ज्ञाणस्येत्यस्य समर्थनम् । यदि ज्ञानस्य तस्य सारुप्यमेवं व्यवस्थापनहेतुस्तर्हि किं कीदृशं च सद्व्यवस्थाप्यमित्याह -- निश्चयेति । चोऽवधारणे । तदित्यस्मात्
परो द्रष्टव्यः । यस्यैव नीलज्ञानस्य सारूप्यं तथोक्तं तदेव ज्ञानं व्यवस्थाप्यं नीलस्यैवेत्याकारेण नियाम्यमित्यर्थः ।


__________टिप्पणी__________

[४०] "इतिकरणेनाभ्युपगमस्य स्वरूपं चेत्यन्तेनाभ्युपगमं दर्शयति" । इति पाठोऽष्टमपंक्तिसम्बद्धत्वेन पंक्तिबाह्यभागे लिखितः प्रतौ दृश्यते किन् तु तस्य कुत्र निवेश इति न ज्ञायते -- सं-
___________________________


कीदृशं सत्तथा व्यवस्थाप्यमित्याह -- नीलेति । पीतादिसंवेदनव्यावृत्त्या नीलस्येदं संवेदनं ज्ञानमित्यवस्थाप्यमानं निश्चीयमानम् । केनावस्थाप्यमानमित्याकाङ्क्षायां निश्चयप्रत्ययेनेति योजनीयम् । ननु किं ज्ञानात्सारूप्यं व्यतिरिच्यते येन सारूप्यं तथोक्तम्, ज्ञानं त्वेवमुच्यत इत्याशङ्क्योपसंहारव्याहेनाह -- तस्मादिति । यस्मात्सारूप्यादन्यव्यवस्थापनहेतुर्न घटते, सारूप्यं च ज्ञानादन्यं नोपपद्यते तस्मात्कारणात् । अयं च -- तत एकस्य वस्तुनः किञ्चिद्रूपमित्यादेरुपपत्त्या प्रसाधितस्योपसंहारः ।

अयं प्रकरणार्थः । एकस्यैव ज्ञानस्य व्यावृत्तिकृतं भेदमाश्रित्याह व्यवस्थाप्यव्यस्थापनभावः । वास्तवं चाभेदमुपादाय प्रमाणफलयोरभेद उच्यते । न च काचित्क्षतिरिति ।

सम्प्रति निश्चयप्रत्ययेनेति ब्रुवता यादृशो निश्चयो विवक्षितस्तं व्यवस्थापक इत्यादिनोपसंहारव्याजेन स्पष्टयति । व्यवस्थापयतीति व्यवस्थापकः । स च तद्बलोत्पन्नोऽप्यनुरूपो द्रष्टव्यः । अननुरूपविकल्पेन व्यवस्थापितयोरपि व्यस्वथाप्यव्यवस्थापनयोरनुपपत्तेः । यथा मरीचीर्दृष्ट्वा तद्बलोत्पन्नेन विकल्पेनावस्थाप्यमानयोर्जलसारूप्यज्ञानयोर्न तथाभावः ।


[ध्प्र्प्.८५]

जनितेन त्वध्यवसायेन सारूप्यवशान्नीलबोधरूपे ज्ञाने व्यवस्थाप्यमाने सारूप्यं व्यवस्थापनहेतुत्वात्प्रमाणं सिद्धं भवति ।

यद्येवमध्यवसायसहितमेव प्रत्यक्षं प्रमाणं स्यात्न केवलमिति चेत् । न एततेवम् । यस्मात्प्रत्यक्षबलोत्पन्नेन अध्यवसायेन दृष्टत्वेन अर्थोऽवसीयते, न उत्प्रेक्षितत्वेन । दर्शनाञ्च अर्थसाक्षात्करणाख्यं प्रत्यक्षव्यापारः उत्प्रेक्षणं तु विकल्पव्यापारः । तथा हि परोक्षमर्थं



येनाभिप्रायेण निश्चयप्रत्ययस्य व्यवस्थापकत्वमुक्तं तमभिव्यनक्ति -- न त्विति । तुर्निश्चयात्प्रत्यक्षं भेदवद्दर्शयति । अवस्थापनाऽशक्तौ हेतुमाह -- निर्विकल्पकत्वादिति ।

ननु परमार्थतो यदि तज्ज्ञानं नीलमेव रूपतया सरूपं तदा तथानिश्चयो भवतु वा मा वा । स्वयमेवाविकल्पकत्वेऽपि तेन रूपेण सद्व्यय्वहारगोचरो भविष्यतीत्याश्ङ्क्याह -- निश्चयप्रत्ययेनेत्यादि । निशयप्रत्ययेनानुरूपेण । अननुरूपेणाक्षणिकविकल्पेनाववस्थापितस्यापि क्षणिकबोधस्य सद्व्यवहारस्य योग्यत्वात् । तेनाव्यवस्थापितमसत्कल्पमसत्तुल्यं स्वविषये व्यवहारयितुमशक्तत्वात्[३६ ] । गच्छत्तृणज्ञानादिवत् ।

तस्मादित्यादिनाऽमुमर्थमुपसंहरति । यमान्निश्चयेन तथाऽव्यवस्थापितमसता सदृशमभवति तस्मात् । नीलबोधात्मना नीलस्यायं बोध इत्याकारेण सद्भवति सद्व्यवहारयोग्यं भवति । यमात्स्वसामर्थ्योत्पन्नेनानुरूपेण निश्चयप्रत्ययेन व्यवस्थापितं तथा वहवति नान्यथा तस्मात्कारणादध्यवसायमनुरूपं निश्चयं कुर्वत् । एवकरेणाऽकारेणाऽकरणावस्थायाः प्रमाणव्यवहारं निरस्यति । अमुमेवार्थं व्यतिरेकमुखेन द्रढ्यन्नाह -- अकृते त्विति । तुः करणावस्थां भेदवतीमाह ।

भवतु तथाऽव्यवस्थापितं किमत इत्याह -- तथा चेति । तस्मिंश्च तेनात्मनाऽव्यवस्थापनप्रकारे सति । तदनिष्पत्तावपि किं न प्रमाणमित्याह -- अत इति । अतोऽधिगतिक्रियायाः फलभूताया अनिष्पत्तेः । साधकतमत्वाभाव इति वाक्यभेदः । तस्मात्साधकतमत्वाभावात् । अर्थाधिगमलक्षणप्रमाणसिद्धौ हि साधकतमं प्रमाणमुच्यते । सा चेन्न निष्पन्ना तर्हि किमपेक्ष्य साधकतमत्वमात्मसात्कुर्यात्, येन तज्ज्ञानं प्रमाण्यमश्नुवीतेति समुदार्यार्थः ।

ननु अवसायाभावे तावदियं गतिस्तद्भावेऽपि यद्येषैव गतिस्तदा न प्रत्यक्षं नाम प्रमाणमित्याशङ्क्यान्वयमुखेनेदानीमाह -- जनितेनेति । तुरजननावस्थाया जननावस्थां भेदवतीं दर्शयति । तेन तथाव्यवस्थाप्यमाने व्यवस्थापकत्वे च निमित्तमाह -- सारूप्यवशादिति । सिद्धं प्रतीति भवति ।

यदि प्रत्यक्षं केवलमसहायं प्रवर्त्तयितुमनीशनं नियमेन निश्चयमपेक्षते तर्हि तत्सहितमेव प्रमाणं प्रसज्येतेत्यभिप्रायवान् प्राह -- यद्येवमिति । एवमनन्तरोक्तं यद्यभ्युपगम्यते तदैवं स्यात् । चेदिति पराभ्युपगमं दर्शयति । नेति प्रतिषेधति । एवं सत्येतन्न भवति । हेतुमाह --


[ध्प्र्प्.८६]

विकल्पयन्त उत्प्रेक्षामहे न तु पश्याम इत्युत्प्रेक्षात्मकं विकल्पव्यापारमनुभवादध्यवस्यन्ति । तस्मात्स्वव्यापारं तिरस्कृत्य प्रत्यक्षव्यापारमादर्शयति यत्र अर्थे प्रत्यक्षपूर्वकोऽध्यवसायस्तत्र प्रत्यक्षं केवलमेव प्रमाणमिति ।

॥ [४१]आचार्यधर्मोत्तरचितायां न्यायबिन्दुटीकायां प्रत्यक्षपरिच्छेदः प्रथमः ॥


__________टिप्पणी__________

[४१] प्रमाणमिति <न्यायबिन्दुटीकायां >प्रथमः परिच्छेदः समाप्तः ॥ मङ्गलमस्तु ॥ अ. ॥ प्रमाणमिति आचार्य<धरोत्तर>विरचितायां <न्यायबिन्दुटीकायां> प्रथमः परिच्छेदः समाप्तः ॥ मङ्गलमस्तु ॥ च्.
___________________________




यस्मादिति । दृश्यत्वेन दर्शनविशिष्टत्वेन । प्रकारान्तरं निरस्यति नेति । उत्प्रेक्षितत्वं साक्षात्करणाभिमानशून्यज्ञातृत्वम् ।

ननु विकल्पव्यापारो दर्शनम् । ततः स्वव्यापारविशिष्टार्थाध्यवसाने तस्य का क्षतिरित्याशङ्क्याह -- दर्शनञ्चेति । चो यस्मादर्थे । यद्येवं कस्तर्हि विकल्पव्यापार इत्याह -- उत्प्रेक्षणमिति ।

एतदेव तथा हीत्यादिनाऽवस्यन्तीत्यनेन (-त्यन्तेन) ग्रन्थेन समर्थयति ।

भवत्वेवं तथापि कथं प्रत्यक्षस्य केवलस्य प्रामाण्यं न तु विकल्पस्यापीत्याशङ्क्योपसंहारापदेशेनाह -- तस्मादिति । एतच्च सुबोधम् ।

एवमभिधाने चायमस्याशयो बोद्धव्यः । स्यात्खलु विकल्पस्यापि प्राणण्यं यद्यसौ स्वव्यापारयुक्त एव प्रत्यक्षस्य साहाय्यं भजते । न चायं तथा व्याप्रियते । स्वीकृतप्रत्यक्षव्यापारस्यैव प्रवृत्तिदर्शनात् । स च दर्शनलक्षणो व्यापारः प्रत्यक्षेणैव सम्पादित इति कथमयमपि पिष्टपेषणकारी प्रामाण्यं प्रतिलभेत ।

अथ प्रत्यक्षं तावत्स्वप्रामाण्यव्यवहाराय तमपेक्षते । ततः सोऽपि प्रमाणमेवेति मतिस्तर्हि पिता पितृव्यवहारायावश्यं पुत्रमपेक्षत इति पुत्रोऽपि पिता प्रसज्यत इति कृतमतार्किकवचनविचारणयेति
सर्वमवदातम् ॥

॥ पण्डित<दुर्वेक>विरचित<धर्मोत्तर>निबन्धस्य <धर्मोत्तरप्रदीप>संज्ञितस्य प्रथमः परिच्छेदः ॥




[ध्प्र्प्.८७] इइ क पि ते ल्

द्वितीयः स्वार्थानुमानपरिच्छेदः ।



एवं प्रत्यक्षं व्याख्याय अनुमानं व्याख्यातुमाह --

अनुमानं द्विधा इइ-१

<अनुमानं द्विधा> द्विप्रकारम् । अथ अनुमानलक्षणे वक्तव्ये किमकस्मात्प्रकारभेदः कथ्यते । उच्यते । परार्थानुमानं शब्दात्मकम्, स्वार्थानुमानं तु ज्ञानात्मकम् । तयोरत्यन्तभेदात्न एकं लक्षणमस्ति । ततस्तयोह्प्रतिनियतं लक्षणमाख्यातुं प्रकारभेदः कथ्यते । प्रकारभेदो हि व्यक्तिभेदः । व्यक्तिभेदे च कथिते प्रतिव्यक्तिनियतं लक्षणं शक्यते वक्तुम् । न अन्यथा । ततो लक्षणनिर्देशाङ्गमेव प्रकारभेदकथनम् । अशक्यतां च प्रकारभेदकथनमन्तरेण लक्षणनिर्देशस्य ज्ञात्वा प्राक्प्रकारभेदः कथ्यत इति ।



प्रत्यक्षानुमानभेदेन द्वैधं प्रमाणमुद्दिष्टम् । तत्र व्याख्यातं प्रत्यक्षम् । यथोद्देशमधुनाऽनुमानं व्याख्यातुमवसरप्राप्तमित्यभिसन्धायाह -- एवमिति । एवमनन्तरोक्तेन चतुर्विधविप्रतिपत्तिनिराकरणप्रकारेण । प्रकारे धाप्रत्ययोऽयमिति दर्शयन्नाह -- द्विप्रकारमिति ।

ननु चानुमानस्य लक्षणं वक्तुकामेनास्य लक्षणमेव वक्तव्यम् । तत्किमिदमप्रस्तुताभिधानमास्थीयत इति पूर्वपक्षम् -- अर्थेत्यादिनोत्थापयति । अथशब्दोऽत्र प्रश्ने । अकस्मादिति निपातो निर्निमित्तवचनः । उच्यत इत्यादिना परिहरति । तयोर्ज्ञानाभिधानात्मनोः । एकमिति साधारणम् । यथा चतुर्णामपि प्रत्यक्षाणां ज्ञानरूपत्वादेकं कल्पनापोढत्वादिसाधारणं लक्षणं सम्भवति, तथा यदि स्यात्प्रत्यक्षवल्लक्षणमेव प्रथममुक्तं स्यादिति भावः । प्रतिनियतं प्रातिस्विकम् । प्रकारस्य भेदो नानात्वम् ।

ननु प्रतिव्यक्तिनियतं लक्षणं व्यक्तिविशेषोपदर्शनं विना न शक्यते दर्शयितुमिति व्यक्तिभेद एव कथयितव्यः । तत्किं प्रकारभेदः कथ्यत इत्याह -- प्रकारेति । हिर्यस्मात् । यदि तस्मिन् दर्शितेऽपि प्रतिनियतलक्षणाख्यानं न शक्यं तर्हि किं तेन कथितेनेत्याह -- व्यक्तीति । चो यस्मादर्थे । प्रतिशब्दोऽत्र नियतार्थवृत्तिः, तेन प्रति विशिष्टा व्यक्तिस्तत्र नियतमिति,


[ध्प्र्प्.८८]

किं पुनस्तद्द्वैविध्यमित्याह --

स्वार्थं परार्थं च इइ-२

स्वस्मायिदं <स्वार्थम्> । येन स्वयं प्रतिपद्यते तत्स्वार्थम् । परस्मायिदं <परार्थम्> । येन परं प्रतिपादयति तत्प्ररार्थम् ।



स्प्तमी [पाणिनि २.१.४०] इति योगविभागात्समासः । यद्वा नियतं विशिष्टं लक्षणां न शक्यं वक्तुम् । क्व च नियतमित्याशङ्क्योक्तं -- प्रतिव्यक्तीति । व्यक्तौ व्यक्तावित्यव्ययीभावः । यस्मादन्यथा प्रतिनियतलक्षणाख्यानस्याशक्यत्वं ततस्तस्मात् । लक्षणनिर्देशाङ्गमेवेति लक्षणनिर्देशनिमित्तमेव ।

एतेन यच्चोद्यते "लक्षणमात्रे कथिते विशिष्टलक्षणमनुमानमेकमनेकं वाऽस्तु । किं तस्य प्रकारभेदकथनेन" इति तत्परिहृतम् । यदि हि साधारणं लक्षणमभिप्रेत्येदमुयते तदा तन्नास्तीति किं कथ्येत । अथ विशिष्टं लक्षणं तदपि व्यक्तिभेदकथनमन्तरेण वक्तुं यदि शक्येत किं न कथ्य्त । केवलमिदमेव नास्तीति । अत एवादावेव तदभिधानं न्याय्यम्, न तु पश्चादिति दर्शयितुमाह -- अशक्यतामिति । तदन्यतरेण लक्षणनिर्देशस्याशक्यतां ज्ञात्वा । चोऽअवधारणे । प्राग्लक्षणकथनात्पूर्वम् ।

स्यादेतत्-- स्वार्थानुमानमेवंलक्षणं परार्थानुमानमेवंलक्षणमिति किं विशिष्टं लक्षणं न शक्यते वक्तुम्? एवमपि किमनुमानद्वैतं नावेदितं भवति येन ससंख्येया संख्या -- अनुमानं द्विधा स्वार्थं परार्थं चेत्युच्यत इति? सत्यमेतत् । केवलं नियमार्थमेतद्विभागवचनमिति ब्रूमः । अनुमानं द्विधा -- द्विधैवैवमात्मकमिति कथं नाम[३७ ] प्रतीयेतेति । इतरथेह तावदेतावदेव व्युत्पाद्यतया प्रस्तुतम्, अन्यत्र पुनरन्यदप्यनुमानं व्युत्पाद्यमस्तीत्याशङ्का नाहत्य निराकृता स्यादिति ॥

पूर्ववच्छेषवदादिरूपेण अन्यथाऽपि द्वैविध्यसम्भवात्संशयानः पृच्छति -- किं पुनरिति । किमिति सामान्यात्पृच्छति । पुनरिति विशेषतः ।

<स्वार्थ>शब्दस्य विग्रहं दर्शयति -- स्वस्मायिति । अर्थशब्देन नित्यसमासादस्य पदविग्रहमाह । इदमित्यनुंानन् । स्वार्थमिति समस्तपदनिर्देश एषः । अस्य चात्मप्रतिपत्तिः प्रयोजनमित्यर्थः । अमुमेवार्थं स्फुटयन्नाह -- येनेति । येनानुमानेन करणभूतेनानुमाता स्वयं प्रतिपद्यते परोक्षमर्थमिति शेषः, प्रकरणलभ्यं वा । तत्स्वार्थज्ञानमात्मप्रतिपत्तिप्रयोजनमिति यावत् ।

अयमाशयः -- त्रिरूपलिङ्गस्य ज्ञानं यस्य सन्तान उत्पद्यते तत्तदर्थमेव । तेनाऽन्यस्याप्रतिपत्तेः । ततः स्वार्थमुच्यते । न तु किञ्चिज्ज्ञानं क्वचित्पुंसि नियतमस्ति । यदपेक्षयाष्स्वार्थमुच्येत । येन स्वयं प्रतिपद्यत इति ब्रुवतश्चायमभिप्रायः । यद्यपि प्रतिपत्तिरनुमानज्ञानात्मिका तथाप्येकस्यापि व्यवस्थाप्यव्यवस्थापनभावेन क्रियाकरणभेदो दर्शित इति सारूप्यभागः करणमनुमानम्, अधिगमरूपा फलावस्था प्रतिपत्तिरिति ।

[ध्प्र्प्.८९]

तत्र स्वार्थं त्रिरूपाल्लिङ्गाद्यदनुमेये ज्ञानं तदनुमानम् इइ-३

< तत्र> तयोः स्वार्थपरार्थानुमानयोर्मध्ये <स्वार्थं ज्ञानं >किं विशिष्टमित्याह -- <त्रिरूपाद्> इति । त्रीणि रूपाणि यस्य वक्ष्यमाणलक्षणानि तत्<त्रिरूपम् >। लिङ्ग्यते गम्यतेऽनेन अर्थमिति



परार्थमित्यस्य विग्रहमाह -- परस्मायिति । पूर्ववदस्य पदविग्रहः । <परराथम् >इति समस्तं पदमुक्तम् । अस्य च परप्रतिपत्त्ः प्रयोजनमित्यर्थः । अमुमर्थं येनेति । येन वाक्येन करणेन परं प्रति वाच्यं प्रतिपाद्यति परोक्षमर्थं बोधयति तत्त्रिरूपलैङ्गाख्यानं वाक्यं परार्थमनुमानम् ।

अत्राप्ययमस्याभिप्रायः -- यद्यपि अभिधानरूपमप्यनुमानं न नियतं पुंसि तथाऽपि तत्परार्थमेव । तथा हि यद्यदुद्दिश्य प्रवर्त्तते तत्तदर्थमुच्यते । परमुद्दिश्य प्रवर्त्तते च शब्दो नात्मानम् । अतो नानवस्थितपारार्थ्यः शब्दः । प्रयोक्तृसमीहाविष्यस्यार्थस्य पर एव प्रयोजको यस्मादिति । परोक्षार्थप्रतिपत्तिफलत्वेन पारम्पर्येणाविशिष्टविषयत्वेऽपि स्वार्थादस्य पृथग्वचनम्, साक्षादनयोर्व्यापारभेदादिति च द्रष्टव्यम् ।

ननु च परार्थानुमानोत्पादकवाक्यवदस्ति किञ्चिद्वाक्यं यत्परप्रत्यक्षोपयोगि । यथा ’ेष कलभो धावतिऽ वाक्यम् । अतः परार्थानुमानवत्परार्थं प्रत्यक्षं किं न व्युत्पाद्यत इति? अत्रोच्द्यते -- परोक्षार्थप्रतिपत्तेर्या सामग्री -- लिङ्गस्य पक्षधर्मता साध्यव्याप्तिश्च -- तदाख्यानाद्वाक्यमुपचारतः परार्थानुमानमुच्यते । न तु तत्र कर्थञ्चिदङ्गभावमात्रेण, स्वास्थ्यादेरपि तथा प्रसङ्गात् । इदं पुनः ’यं कलभःऽ इत्यादिवाक्यं न प्रत्यक्षोत्पत्तेर्या सामग्रीन्द्रियालोकादि तदभिधानात्तन्निमित्तं भवत्तथा व्यपदेशमश्नुते येन व्युत्पाद्यतामप्यश्नुवीत । किं तर्हि? कस्यचिद्दिदृक्षामात्रजननेन
। यथा कथञ्चित्परप्रत्यक्षोत्पत्तावङ्गभावमात्रेण ताद्रूप्ये नेत्रोत्सवे वस्तुनि सन्निहितेऽपि कथञ्चित्पराङ्मुखस्य परेण यदभिमुखीकरणं [३८ ]शिरसस्तदपि वचनात्मकं परार्थप्रत्यक्षं व्युत्पादयितुर्व्युत्पाद्यमापद्येत । एतच्च कः स्वस्थात्मा मनसि निवेशयेत् । किञ्च भवतु तथाविधं वचनं परार्थं प्रत्यक्षम् । किं नश्छिन्नम्? तस्यापि व्युत्पादनार्थस्याव्युत्पादनात्प्रमाद एव महती क्ष्तिरिति चेत् । न तथारूपस्य व्युत्पादनम्, अविप्रतिपत्तेः । विप्रतिपत्तिनिराकरणेन हि स्वरूपप्रतिपादनं व्युत्पादनम् । न तु केचित्तथाविधे वचने परार्थप्रत्यक्षोपयोगिनि विप्रतिपद्यन्ते । येन तदपि व्युत्पाद्येत । परार्थानुमाने[४२]............... वस्तु प्रतिपद्यमाना अपि
तद्धर्मव्याप्तिव्यतिरेकाभ्यां निगदन्तो दृष्टाः, अविनाभावावचनात्, उपनयसाध्यतदावृत्तिवचनानाञ्च प्रयोगादिति तद्व्युत्पाद्यते । यदि तु तत्रापि न विप्रतिपद्येरन् परे तदा तदपि नैव व्युत्पादितं स्याद्, इत्यलमतिविस्तरेण ॥


__________टिप्पणी__________

[४२] अस्पष्टम् -- सं-
___________________________


इह यथैव स्वयं प्रतिपन्नः परोक्षार्थस्तथैव परस्मै पर्तिपाद्यत इति स्वार्थाणुमानपूर्वकत्वात्प्ररार्थानुमानस्य प्रथमं स्वार्थानुमानमुक्तम् । यथोद्देशमेव च लक्षणप्रणेयमिति स्वार्थानुमानस्यैवं


[ध्प्र्प्.९०]

लिङ्गम् । तस्मात्<त्रिरूपाल्लिङ्गात्> यत्जातं ज्ञानमिति । एतधेतुद्वारेण विशेषणम् । तत्त्रिरूपात्च लिङ्गात्त्रिरूपलिङ्गालम्भनमप्युत्पद्यत इति विशिनष्टि -- <अनुमेय >इति । एतच्च विषयद्वारेण विशेषणम् ।

त्रिरूपाल्लिङ्गात्यदुत्पन्नमनुमेयालम्भनं ज्ञानं तत्स्वार्थमनुमानमिति ।

लक्षणविप्रत्तिं निराकृत्य फलविप्रतिपत्तिं निराकर्तुमाह --

प्रमाणफलव्यवस्था अत्र अपि प्रत्यक्षवत् इइ-४

<प्रमाणस्य> यत्<फलं> तस्य वा <व्यवस्था> सा <अत्र> अनुमाने <ऽपि> प्रत्यक्ष इव <प्रत्यक्षवत्> वेदितव्या ।



लक्षणं <तत्रे>त्यादिनाऽऽदित उपदिष्टमाचार्येण तद्व्याचष्टे तत्रेति । स्वार्थपरार्थानुमानसम्दायात्स्वार्थानुमानं स्वार्थत्वजात्या निर्धायते । तस्मात्त्रिरूपाल्लिङ्गाद्यज्जातमिति व्याचक्षाणो मूले <त्रिरूपाल्लिङ्गाद्>इति या पञ्चमी सा गम्यमानजनिक्रियापेक्षया "जनिकर्त्तुः प्रकृतिः" [पाणिनि १.४.३०] इत्यनेन लब्धापादानसंज्ञकादपादान एवेति दर्शयति । हेतुद्वारेण जनकमुखेन । <त्रिरूपाल्लिङ्गाद्>इति चाचक्षाणेन्<आचार्येणै>कद्विपदव्युदासेन षट्पक्षीं प्रतिक्षिप्य सप्तमपक्षपरिग्रहेण लिङ्गस्य लक्षणमभिप्रेतं प्रकाशितमिति । यथा चैतत्तथा भट्ट्<आर्चट>निबन्धनम्
<अर्चटालोक>संज्ञितं विधास्यन्तो विस्तरेण स्पष्टयिष्यामः ।

औमेयग्रहणस्य व्यावर्त्त्यं दर्शयति -- त्रिरूपाच्चेति । चो यस्मादर्थे । इतिर्हेतौ । त्रिरूपलिङ्गालम्बनमिति धूमं दृष्ट्वा सर्वत्रायं वह्निनान्तरीयक इति ज्ञानं वाच्यम् । तद्धि परम्परया त्रिरूपाल्लिङ्गाज्जातमिति । इतिना विशेषणस्य स्वरूपमुक्तम् । विशेषितमेव ज्ञानम् । किं पुनर्विशिष्यत इत्याह -- एतच्चेति । चो यस्मात् । विषयद्वारेणावसीयमानविषयद्वारेण विशेषणं व्यवच्छेदकम् ।

अवयवार्थं व्याख्याय समुदायार्थं त्रिरूपेत्यादिना व्याचष्टे । अनुमेयो धर्मधर्मिसमुदायः आलम्ब्यत इत्यालम्बनं यस्येति विग्रहः । इतिर्वाक्यार्थपरिसमाप्तौ एवमर्थः सन्नापरेण सम्बद्ध्यते -- एवमुक्तेन पकारेणा लक्षणविप्रतिपत्तिं निराकृत्येति ॥

ननु च प्रमाणस्य फलमिति यद्य्<आचार्यस्य> विवक्षितं <धर्मोत्तरेण> चैवं व्याख्यायते तदा प्रमाणभागव्यवस्थायां किमुक्तम् <आचार्येण>, <धर्मोत्तरेणा>पि ’नीलसारूप्यं व्यवस्थापनहेतुः प्रमाणम्ऽ इत्युपरिष्टात्[पृ-९१] किमिति दर्शयिष्यते इति चेत् । नैष दोषः । न हि प्रमानस्येत्यादिना


[ध्प्र्प्.९१]

यथा हि नीलसरूपं प्रत्यक्षमनुभूयमानं नीलबोधरूपमवस्थाप्यते, तेन नीलसारूप्यं व्यवस्थापनहेतुः प्रमाणम्, नीलबोधरूपं तु व्यवस्थाप्यमानं प्रमाणफलम्; तद्वदनुमानं नीलाकारमुत्पद्यमानं नीलबोधरूपमवस्थाप्यते, तेन नीलसारूप्यमस्य प्रमाणम्, नीलविकल्पनरूपं त्वस्य प्रमाणफलम् । सारूप्यवषाद्धि तन्नीलप्रतीतिरूपं सिद्ध्यते । न अन्यथा इति ।

एवं हि संख्यालक्षणफलविप्रतिपत्तयः । प्रत्यक्षपरिच्छेदे तु गोचरविप्रतिपत्तिं निराकृता । लक्षणनिर्देशप्रसङ्गेन तु त्रिरूपं लिङ्गं प्रस्तुतम् । तदेव व्याख्यातुमाह --

त्रैरूप्यं पुनर्लिङ्गस्य अनुमेये सत्त्वमेव सपक्ष एव सत्त्वम्, असपक्षे च असत्त्वमेव निश्चितम् इइ-<५>

<त्रैरूप्यम्> इत्यादि । <लिङ्गस्य >यत्त्रैरूप्यं यानि त्रीणि रूपाणि ततिदमुच्यते इति शेषः । किं पुनस्तत्त्रैरूप्यमित्याह -- <अनुमेयं >वक्ष्यमाणलक्षणम् । तस्मिन् <लिङ्गस्य सत्त्वमेव >निश्चितम् -- एकं रूपम् । यद्यपि च अत्र <निश्चित>ग्रहणं न कृतं तथा अपि अन्ते कृतं प्रक्रान्तयोर्द्वयोरपि रूपयोरपेक्षणीयम् । यतो न योग्यतया लिङ्गं परोक्षज्ञानस्य निमित्तम् । यथा



मौलस्य प्रमाण्शब्दस्य फलशब्देन विग्रहो दर्शितः । किन् त्व्[३८ ] अर्थप्रदर्शनं कृतम् । एतच्चोपलक्षणं तेन फलस्य साधनं च यत्तस्यापि या व्यवस्था साऽपि गृह्यते । मूले तु द्वन्द्वसमास एवाभिप्रेतो <वार्त्तिककार>स्य । पूर्वनिपातविधेश्चानित्यत्वात्न फलशब्दस्य पूर्वनिपातः । अत एव <निश्चयः> -- "न पर्माणफलयोर्विषयभ्देदः" इति ।[४३]..... लक्षणगोचरफलविषय । नीलसारूप्यमस्पष्टनीलसारूप्यम्, अनुमान्स्यापरोक्षीकरणाभावात्, विजातीयमात्रव्यावृत्तस्यानुमानेन प्रतीतेः । नीलप्रतीतिरूपं नीलविकल्पनरूपं सिद्ध्यति निश्चीयते ॥


__________टिप्पणी__________

[४३] पङ्क्तिबाह्यं लिखितं न पष्ठ्यते -- सं-
___________________________


ननु सङ्ख्यालक्षणफलविप्रतिपत्तय एवानुमानस्य निराकृता, न तु विषयविप्रतिपत्तिरित्याह -- एवमिति । एवमनन्तरोक्तेन प्रकारेण इहानुमानपरिच्छेदे निराकृता इति शेषः, वक्ष्यमाणं वा नीराकृतेति पदं वचनविपरिणामेन सम्बन्धनीयम् ।

त्रैप्रूयमित्यादिग्रन्थस्य यत उत्थानम्, तत्लक्षणेत्यादिना दर्शयति । प्रसङ्गेन प्रस्तावेन यानि त्रीणि रूपाणि तान्येव तथेत्यावेदयति । ततिदं त्रैरूप्यमिति प्रकृतत्वात्शेषोऽध्याहारः । अबाधितविषयत्वाद्यनेकरूपसम्भवे पृच्छति किं पुनरिति । किमिति सामान्यतः पृच्छति । पुनरिति विशेषतः । कस्मात्पुनस्तदपेक्षनीयमित्याह --यत इति । परोक्षो योऽर्थस्तस्य यज्ज्ञानं तस्य । बीजं वैधर्म्यदृप्टान्तः । कस्मान्न तथेत्याह -- अदृष्टादिति । अप्रतिपत्तेः परोक्षार्थस्येति प्रकरणात् । यद्यज्ञातम् । लिङ्गं न परोक्षज्ञाननिमित्तं
तर्हि पक्षधर्मतया ज्ञातमेवास्तु परोक्षप्रकाशनं


[ध्प्र्प्.९२]

बीजमङ्कुर्स्य । अदृष्टाद्धूमादग्नेरप्रतिपत्तेः । नापि स्वविषयज्ञानापेक्षं परोक्षार्थप्रकाशनम् । यथा प्रदीपो घटादेः । दृष्टादप्यनिश्चितसम्बन्धादप्रतिपत्तेः । तस्मात्परोक्षार्थनान्तरीयकतया निश्चयनमेव लिङ्गस्य परोक्षार्थप्रतिपादनव्यापारः । न अपरः कश्चित् । अतोऽन्वयव्यतिरेकपक्षधर्मत्वनिश्चयो लिङ्गव्यापारात्मकत्वादवश्यकर्तव्य इति सर्वेषु रूपेषु <निश्चित>ग्रहणमपेक्षणीयम् ।

तत्र <सत्त्व>वचनेन असिद्धं चाक्षुषत्वादि निरस्तम् । <एव>कारेण पक्षैकदेशासिद्धो निरस्तः । यथा चेतनास्तरवः स्वापादिति । पक्षीकृतेषु तरुषु पत्रसङ्कोचलक्षणः स्वाप एकदेशे न सिद्धः । न हि सर्वे वृक्षा रात्रौ पत्रसङ्कोचभाजः किन् तु केचिदेव । <सत्त्व>वचनस्य



तत्किमन्वयव्यतिरेकनिश्चयेन तस्य? इत्याशक्याह -- नापीति । लिङ्गमिति सम्बध्यते । प्रदीपोऽपि दृष्टा[द्] अनिश्चितादपि । न केवलमदृष्टादित्यपिशब्दः । यत एवं तस्माधेतोः । अन्तरं व्यवधानम्, न तथा नान्तरम् । "नभ्राड्" [पाणिनि ६.३.७१] इत्यादिसूत्रे नेति योगविभागान्नलोपाभावः । नान्तरे भव इति गहादित्वाच्छ । ततः स्वार्थिकः कन् । परोक्षस्य वह्न्यादेर्नान्तरीयकोऽविनाभावीतस्य भावस्तत्ता तया निश्चयनम् -- सर्वत्रायमेतदविनाभावीति विकल्पनम् । लिङ्गस्य गमकस्य व्यापृतं रूपं व्यापारः । तथा निश्चयारूढस्यैव रूपस्य लिङ्गत्वात् । एवकारेण व्यवच्छिन्नमेवान्यस्य तद्व्यापाराररूपत्वं स्पष्टार्थं
नापर इत्यनेनानूदितम् । यत्पुनरत्राप्ययमेतन्नान्तरीयक इति ज्ञाणं तदनुमानज्ञानमिति ज्ञेयम् । पूर्वकं तु लिङ्गज्ञानमिति । अतः सत्त्वेनानिश्चिताल्लिङ्गादनिश्चितसम्बन्धाच्चाप्रतिपत्तेः कारणादन्वयादिनिश्चियोऽवश्यकर्त्तव्यः । तथापि कथं कर्त्तय इत्याशङ्क्य व्यतिरेकमुखेणोक्तमेव हेतुमन्व्ययमुखेनापि दर्शयन्नाह -- लिङ्गेति । लिङ्गव्यापारस्य परोक्षप्रतिपादने गमकव्यापारस्यात्मा स एव तथेति स्वार्थिकः कन् कर्त्तव्यः । तस्य भावस्तस्मादिति हेतुपदं कृट्वाऽयमुपसंहारः । सर्वेष्वनुमेयसत्त्वादिषु रूपेषु लक्षणेषु । [३९ ]

सम्प्रत्येकैकस्य रूपस्य यद्व्यावर्त्त्यं तत्क्रमेण दर्शयितुमाह -- तत्रेति । आदिग्रहणाद्व्यधिकरणासिद्धविशेषणासिद्धविशेष्यासिद्धानां सङ्ग्रहः । अमीषामपि स्वरूपासिद्ध एकान्तर्भावात् । यथा तु प्रभेदो यथा वान्तर्भावस्तथोपरिष्टाद्वक्ष्यामः । केचिदेव तिन्तिङ्काप्रभृतयः ।

अथापि स्यात्स्वापवत्धूमोऽप्ययमेकदेशासिद्ध एव । तथा हि पर्वतादिरिह पक्षस्तत्र च क्वचिदेव देशे सिद्धो न सर्वत्र । न च पर्वतादिरेकोऽवयव्यभ्युपगतः । अथैवंविधोऽपि पक्षव्यापक उच्यते तर्हि स्वापेन किमपराद्धं येनासावेवैको न युक्त इति ।


[ध्प्र्प्.९३]

पश्चात्कृतेन <एव>कारेण असाधारणो धर्मो निरस्तः । यदि हि अनुमेय एव सत्त्वमिति कुर्यात्श्रावणत्वमेव हेतुः स्यात् । <निश्चित>ग्रहणेन सन्दिग्धासिद्धः सर्वो निरस्तः ।

सपक्षो वक्ष्यमाणलक्षणः । तस्मिन्न् <एव सत्त्वं निश्चितम्> इति द्वितीयं रूपम् । इह अपि



अत्र केचिदेवं प्रतिविदधति । जिञासितधर्मविशेषवत्त्वेन हि रूपेण पक्ष उच्यते । यश्चासौ पर्वतादिस्तत्र न वह्निर्जिज्ञासितः । किन् तर्हि? यत्र तत्रोद्देशे । तत्रैकदेशस्थधूमदर्शनेऽप्येकदेशवह्निर्जिज्ञासितो ज्ञायत इति किं सर्वपर्वतव्यापिना धूमेन कार्यम्? यदि पुनः सर्वत्रैव वह्निमत्त्वं जिज्ञासितं स्यात्, स्यादेवायं पक्षैकदेशासिद्धः । न चैतदेवम् । ततः कथमस्य तथात्वं? अत्र पुनः सर्वेषामेव तरूणां चैतन्यं जिज्ञासितमिति सकलपादपव्यापिनैव स्वापेन प्रयोजनम् । यथा वेदस्य सर्वस्यैव पौरुषेयत्वे साध्ये सकलाम्नायव्यापकेनैव वाक्यत्वेन पर्योजनम् । न चायं सर्वान् व्याप्नोति । ततः
पक्षैकदेशासिद्ध उच्यते ।

एके तु -- लोकाध्यवसायसिद्धं महीधरादेरेकत्वमवलम्ब्यायं व्यवहारः, न च सर्वेषां तरूणां तथैकत्वं लोकोऽध्यवस्यति, येन स्वापस्यापि तथा सिद्धिर्भवति, ततः किमवद्यं नामेति प्रतिपन्नाः ।

अथाभिधीयते -- यदि कश्चित्तिन्तिङ्काप्रभृतीनेव पादपान् पक्षयित्वा स्वापं हेतूकरोति, तदाऽयं न पक्षैकदेशासिद्ध इति किं न साधयेच्चैतन्यमिति ।

असदेतत्-- विकल्पानुपपत्तेः । यदि सर्वजनप्रसिद्ध इन्द्रियव्यापारविरोध्यवस्थाविशेषः स्वापो निद्रापरनामा हेतुरभिप्रेतस्तदाऽयं तेष्वपि तरुष्वस्द्ध इति कथं चैतन्यमनुमापयेत्?

अथ येन केनचिदुपाधिना स्वापशब्दमात्रवाच्योऽर्थो हेतुः; तथाविधस्य स्वापस्य चैतन्येन व्याप्त्यसिधेः सन्दिग्धविपक्षव्यावृत्तिकतयाऽनैकान्तिकः ।

"षष्ठ्यतसर्थप्रत्येयन" [पाणिनि २.३.३०] इत्यनेन पश्चाच्छब्दयोगे <सत्त्व>वचनात्षष्ठी । असाधारणः सपक्षासपक्षसाधारणो यो न भवति । पक्षस्यैव यो धर्म इति यावत् । निरस्तो हेतुत्वेन प्रतिक्षिप्तः । पूर्वावधारणे तु नायं निराकृतः स्यादिति दर्शयति यदीति । हिर्यस्मात् । अयमस्याशयः -- यद्यनुमेय एव सत्त्वं यस्येति लक्षणं स्यात्तदा <सपक्ष एव सत्त्वम्> इति वचनमतिरिच्यमानं लक्षणान्तरं भविष्यति । व्याघात एव वा भविष्यतीति । <निश्चित>ग्रहणस्येहापेक्षितस्य व्यवच्छेद्यं दर्शयति
-- निश्चितेति । सन्दिग्धश्चासावस्य हेतुत्वेन विशेषणत्वेन चासिद्धोऽनिश्चितशब्देति विग्रहः । सन्दिघविशेषणासिद्धः, सन्दिग्धविशेष्यासिद्धश्च सन्दिग्धासिद्ध एवान्त[३९ ]र्भवतीति, सोऽप्यनेनैव निरस्तः । यथाऽनयोर्भेदो यथा चान्तर्भावस्तथा परस्तात्प्रदर्शयिष्यामः । इहाश्रितत्वादार्थेन न्यायेन हेतुसत्त्वस्य विशेषणरूपत्वादनेन सहोदिति(त) <एव>कारो धर्मायोगस्य व्यवच्छेदको द्रष्टव्यः ।

[ध्प्र्प्.९४]

<सत्त्व>ग्रहणेन विरुद्धो रिरस्तः । न हि नास्ति सपक्षे । <एव>कारेण साधारणानैकान्तिकः । स हि न सपक्ष एव वर्तते किन् तु उभयत्र अपि । <सत्त्व>ग्रहणात्पूर्वावधारणवचनेन सपक्षाव्यापिसत्ताकस्य अपि प्रयत्नानन्तरीयकस्य हेतुत्वं कथितम् । पश्चादवधारणे त्वयमर्थः स्यात्-- सपक्षे सत्त्वमेव यस्य स हेतुरिति प्रयत्नानन्तरीयकत्वं न हेतुः स्यात् । <निश्चित>ग्रहणेन सन्दिग्धान्वयोऽनैकान्तिको निरस्तः । यथा सर्वज्ञः कश्चिद्वक्तृत्वात् । वक्तृत्वं हि सपक्षे सन्दिघ्दम् ।

असपक्ष व्यक्ष्यमाणलक्षणः । तस्मिन्नसत्त्वमेव निश्चितम् -- तृतीयं रूपम् । तत्र <असत्त्व>ग्रहणेन विरुद्धस्य निरासः । विरुद्धो हि विपक्षेऽस्ति । <एव>कारेण साधारणस्य विपक्षैकदेशवृत्तेर्निरासः । प्रयत्नानन्तरीयकत्वे साध्ये ह्यनित्यत्वं विपक्षैकदेशे विद्युदादौ अस्ति, आकाशादौ न अस्ति । ततो नियमेन अस्य निरासः । असत्त्वशब्दाद्धि पूर्वस्मिन्नवधारणेऽयमर्थः स्यात्-- विपक्ष एव यो न अस्ति स हेतुः । तथा च प्रयत्नानन्तरीयकत्वं सपक्षेऽपि सर्वत्र



साधारणश्चासौ सप्क्षासपक्षवृत्तित्वादनैकान्तिकश्चैकस्मिन् साध्ये विपर्यये वाऽव्यवस्थितश्चेति तथा निरस्त इति वर्त्तते । सपक्षाव्यापिनी सकलसपक्षावर्त्तिनी सत्ता यस्येति विग्रहः । प्रयत्नानन्तरीयकत्वमप्यनित्यत्वसिद्धौ समर्थो हेतुरिति दर्शयितुं सकलसपक्षाव्यापि प्रयत्नानन्तरीयकत्वमुदाहृतमिति द्रष्टव्यम् । वस्तुतस्तु सर्व एव कार्यहेतुर्धूमादिः सपक्षैकदेशवृत्तिर्बोद्धव्यः । इतिरेवमर्थे । एवं सति प्रयत्नानन्तरीयकत्वमुपलक्षणत्वादस्य धूमादिकमपि न हेतुः स्यात् । सन्दिग्धो यस्य स तथा । इहाश्रयत्वादार्थेन न्यायेन सपक्षलक्षणस्य धर्मिणो विशेष्यत्वादनेन सहोदितो निपातः
पक्षे वृक्षे वृत्तौ लब्धायां समुच्चीयमानावधारणत्वादसपक्षलक्षणधर्म्यनतरयोगस्य व्यवच्छेदको द्रष्टव्यः ।

तृतीयं रूपं व्याख्यातुमाह -- असपक्ष इति । वक्ष्यमाणं लक्षणमस्येति विग्रहः । कथमस्य निरास इत्याह -- विरुद्धो हीति । हिर्यस्मात् । साधारणस्य सपक्षासपक्षसाधारणस्य । कस्मिन् साध्ये किन् तदीदृशमित्याह -- प्रयत्नेति । प्रयत्नः पुरुषव्यापारः । नियमेनावधारणेन


[ध्प्र्प्.९५]

न अस्ति । ततो न हेतुः स्यात् । ततः पूर्वं न कृतम् । <निश्चित>ग्रहणेन सन्दिग्धविपक्षव्यावृत्तिकोऽनैकान्तिको निरस्तः ।

ननु च सपक्ष एव सत्त्वमित्युक्ते विपक्षेऽसत्त्वमेव इति गम्यत एव । तत्किमर्थं पुनरुभयोरुपादानं कृतम्? उच्यते । अन्वयो व्यतिरेको वा [प्रयुज्यमानः] नियमवानेव प्रयोक्तव्यो न अन्यथा इति दर्शयितुं द्वयोरप्युपादानं कृतम् । अनियते हि द्वयोरपि प्रयोगेऽयमर्थः स्यात्-- सपक्षे योऽस्ति विपक्षे च यो न अस्ति स हेतुरिति । तथा च सति स श्यामः तत्पुत्रत्वात्दृश्यमानपुत्रवद्



एवकारणेति यावत् । असपक्ष एवेति किं नावधार्यत इत्याह तथा चेति । प्रयत्नानन्तरीयकग्रहणं पूर्ववदुपलक्षणाम् । निशिचितग्रहणस्य व्यावृत्त्यर्थ्माह -- निश्चितेति । विपक्षाद्व्यावृत्तिर्विपक्षव्यावृत्तिः । सन्दिग्धा विपक्षाव्यावृत्तिर्यस्य स तथा ।

ननु न सन्दिग्धविपक्षव्यावृत्तिकत्वं नामायं हेतुदोषः । तत्कथं निरस्यते? तथा हि -- य एव विपक्षे वीक्षितो हेतुः स एव प्रमेयत्वादिवदभिमतं न साधयेत् । यः पुनर्महताऽपि प्रयत्नेन मृग्यमाणोऽसपक्षे नोपलक्षितः स कथमङ्ग साध्यं न साधयेदिति? तदेतदवद्यम् । यतो योऽपि विपक्षे वीक्षितो हेतुः सोऽपि इष्टो दुष्टः । कथं? साध्यं विनाऽप्युपलब्धेरिति चेत् । ननु यदि नामासौ साध्यमन्तरेणान्यत्र दृष्टस्तथापि विवादाध्यासिते धर्मिणि साध्यं किं न साधयति? न हि अयमत्रापि साध्यं
विनैव वर्र्तत इति प्रसाधकं प्रमाणमस्ति । न चैकत्र येन विना यो दृष्टः सर्वत्रासौ तेन विनैव वर्त्तते इति सिद्धम् । अन्यथाऽपि बहुलं दर्शनात् । अथ साध्यमन्तरेण यो वृत्तः साध्ये सत्येवासौ वर्त्तत इति नियमाभावाद्विवादाध्यासिते सन्देहहेतुर्न सम्यघेतुर्भवितुमर्हति । हन्त तर्हि विपक्षे तस्य साध्यधर्मिणि साध्यविनाकृतां वृत्तिं सम्भावयधेतुमनिश्चियहेतूकरोतीति आयातम् । सति चैवं साध्यविपर्यये हेतुसत्ताबाधकप्रमाणादर्शनमपि -- यद्ययं च धर्मो भविष्यति, न च ततः साध्यमित्येवं विधां वृत्तिमस्य -- सम्भावयति तदा किमयं निश्चयहेतुर्भवितुमर्हति? ततो वि[४० ]पक्षे दर्शनं वा तथा शङ्काबीजम्
अस्तु विपर्यये वा बाधकप्रमाणादर्शनं वेति को विशेषः? तथा चाह <वार्त्तिककारः> -- "न तु सपक्षविपक्षयोः सत्त्वमसत्त्वं वा निशियापेक्षम् । निश्चयेऽपि सन्देहमुखेनैव दोषात् । सोऽनिश्चयेऽपि तुल्य इति तथाविधोद्भावनमप्यत्र दूषणमेव । तथा विपक्षप्रचाराशङ्काव्यवच्छेदेन लभ्यं गमकत्वं कथमात्मसात्कुर्याद्" इति ।

ननु चेत्यादिना लक्षणे चोद्यमाशङ्कते । विपक्षेऽसत्त्वमेवेति गम्यत इति ब्रुबतोऽयं भावः । पक्षे वृत्तौ लब्धायां सपक्ष एव सत्त्वं निश्चितमिति खलु समुच्चीयमानावधारणोऽयं निर्णयः । अयं चासपक्षेऽसत्त्वेऽनिश्चिते सन्दिग्धे वा न घटत इति अवश्यमसपक्षेऽसत्त्वमेव


[ध्प्र्प्.९६]

इति तत्पुत्रत्वं हेतुः स्यात् । तस्मान्नियमवतोरेव अन्वयव्यतिरेकयोः प्रयोगः कर्तव्यो येन प्रतिबन्धो गम्येत साधनस्य साध्येन । नियमवतोश्च प्रयोगेऽवश्यकर्तव्ये द्वयोरेक एव प्रयोक्तव्यो न द्वाविति नियमवानेव अन्वयो व्यतिरेको वा प्रयोक्तव्य इति शिक्षणार्थं द्वयोरुपादानमिति ।

त्रैरूप्यकथनप्रसङ्गेन अनुमेयः सपक्षो विपक्षश्च उक्तः । तेषां लक्षणं वक्तव्यम् । तत्र को अनुमेय इत्याह --

अनुमेयोऽत्र जिज्ञासितविशेषो धर्मी इइ-६



निश्चितमाक्षिपतीति । एवमुपलक्षणत्वादस्य्<आसपक्षे चासत्त्वमेव निश्चितम्> इत्यनेन सपक्षे वृत्तिमात्रं लब्धमेव । तेनैव च प्रयोजनमिति किं <सपक्ष एव सत्त्वम्> इत्यनेनेति द्र्ष्टव्यम् ।

उच्यत इति परिहारः । साध्येनान्वीयमानत्वं तयेव साध्ये भवितृत्वं साधनस्य स्वगतो धर्मोऽन्वयः । साध्याभावे व्यतिरिच्यमानत्वमभवितृत्वं हेतोः सवगतो धर्मो व्यतिरेकः । स चासश्च[४४]प्रयुज्यमानः शब्देन प्रतिपाद्यमाणो नियमवानव्यभिचारवान् प्रयोक्तव्योऽन्यथा परोक्षप्रतीत्यङ्ग नोक्तं स्यात् । कथं च तथा प्रयुक्तो भवति? यदाऽन्वयवाक्ये साध्ये नियतं साधनं व्यतिरेकवाक्ये च साधनाभावे नियतः साध्याभावः । साधनानुवादपूर्वसाध्यविधानेन साध्याभावानुवादपूर्वसाधनाभावविधानेन वीप्सापदयुक्तेन सर्वशब्दसंहितेन एवकारोपेतेन । अन्यथा न प्रतिपाद्यते ।


__________टिप्पणी__________

[४४] ’प्रयुज्यमानःऽ इति पाट्ःः मूले नोपलभ्यते । प्रदीपानुरोधात्तत्र कोष्ट्ःके स्थापितः ।
___________________________


अनियमेनापि प्रयोगे यद्यन्वयव्यतिरेकयोस्तादृशोः प्रतीतिरस्ति तदा किं नियमवत्प्रयोगेणेत्याह -- अनियते हीति । हिर्यस्मादनियते विवक्षितनियमाख्यापके । आस्तां तावदेकस्य प्रयोगे द्वयोरप्ययमर्थः स्यादित्यपिशब्दः । इतिरर्थस्याकारं दर्शयति । अस्त्वयमर्थः । का क्षतिरित्याह -- तथा चेति । काकतालीयन्यायेन चाश्यामेषु निकटवर्त्तिषु अतत्पुत्रेषु एतद्द्रष्टव्यम् । अन्यथा ह्यनियतोऽपि व्यतिरेकोऽत्र नोक्त इति वचनावकाशः स्यात् । यत एवं तस्माद्येन नियमवत्प्रयोगेण पर्तिबन्धः प्रतिबद्धत्वमायत्तत्वम् । कस्येत्याकाङ्क्षायामाह -- साधनस्येति । कुत्रेत्यपेक्षायामाह -- साध्य
इति ।

यद्येवमेकस्मिन्नेव साधनवाक्ये नियमवानेवान्वयो व्यतिरेकश्च प्रयुज्यतामित्याह -- नियमवतोश्चेति । चो वक्तव्यान्तरसमुच्चये । अयमाशयः -- अन्वयवाक्येनापि तथाप्रयुक्तेन सामर्थ्याद्व्यतिरेकस्य, व्यतिरेकवाक्येनापि सामर्थ्यादन्वयस्य प्रकाशनात्किं प्रतीतप्रत्यायकेन द्वितीयवाक्येन कार्यमिति? यत एवमितिस्तस्माद् । द्वितीय इति शिक्षणस्य स्वरूपं दर्शयति । शिक्षणमज्ञमुद्दिश्यज्ञापनम् । तदर्थं तन्निमित्तम् । अनेन प्रयो[४० ]गसमास एव दर्शितो न रूपसमास इति दर्शितम् । प्रयोगदर्शनाभ्यासात्कश्चित्प्रयोगभङ्ग्यैव स्वयमपि परोक्षमर्थं प्रतिपद्यत इति स्वार्थेऽप्यनुमाने निर्णीतमिदं लक्षणकथनप्रसङ्गेन । ततो न दोष इति द्रष्टव्यम् । एतच्चोपरिष्टान्
निवेदयिष्यते ॥


[ध्प्र्प्.९७]

<अनुमेयो> <ऽत्रे>त्यादि । <अत्र> हेतुलक्षणे निश्चेतव्ये धर्मी अनुमेयः । अन्यत्र तु साध्यप्रतिपत्तिकाले समुदायोऽनुमेयः । व्याप्तिनिश्चयकाले तु धर्मो अनुमेय इति दर्शयितुम् <अत्र>ग्रहनम् । <जिज्ञासितो> ज्ञातुमिष्टो <विशेषो> धर्मो यस्य धर्मिणः स तथा उक्तः ।

कः सपक्षः ।

साध्यधर्मसामान्येन समानोऽर्थः सपक्षः इइ-७

<समानोऽर्थः सपक्षः । समानः> सदृशो योऽर्थः पक्षेण स पक्ष उक्त उपचारात्समानशब्देन विशिष्यते । समानः पक्षः <सपक्षः>, समानस्य च <स>शब्दादेशः ।



ननु यदि धर्मधर्मिसमुदायो मुख्योऽनुमेयोऽत्र गृह्यते तदा न कस्यचित्साधनस्य तद्धर्मत्वं ग्रहीतुं शक्येत । ग्रहणे वा व्यक्तमेव वैयर्थ्यमित्यभिप्रायवान् पृच्छति -- तत्र क इति तेषु मध्ये ।

अत्रेत्यस्य तात्पर्यार्थमत्रेत्यादिना निरूपयति । धमिधर्म्योश्चानुमेयत्वम् । तस्मिंश्तस्मिन् कालेऽनुमेयैकदेशत्वादुपचारतो द्रष्टव्यम् । तदुक्तम् --

"समुदायस्य साध्यत्वात्धर्मात्रे च धर्मिणि ।

अमुख्येऽप्येकदेशत्वात्साध्यत्वमुपचर्यते ॥" इति ॥

अथ यद्सह पक्षेण वर्त्तते इति सपक्षोऽभिप्रेतस्तदाऽर्थासङ्गतिः । अथापि समानः पक्षेणेति मतं तदा पक्षसमान इति प्राप्नोतीत्यभिप्रेत्य पृच्छति क इति । समानोऽर्थ इति सिद्धान्ती । समानशब्दस्यार्थमाह -- समानः सदृशोऽर्थ इति । अर्थशब्दोऽत्र प्रतीयमानार्थोऽर्थते गम्यत इति कृत्वा । न त्वर्थोऽर्थक्रियासमर्थो वाच्यः । क्रमाक्रमायोगेनाक्षणिकस्य सामर्थ्याभाव(वे) साध्येऽम्बरारविन्दादेरपि सपक्षत्वेनेष्टत्वात् ।

ननु समानश्चासौ पक्षश्चेति किं नाभिप्रेतम्? तत्र पक्ष एवासौ दृष्टान्तधर्मी कथं येन समानशब्देन विशिष्यत इत्याह -- पक्ष इति । कथमन्यार्थेन तेन शब्देन स तथोच्यतामित्याह -- उपचारादिति । क्वचित्सपक्ष उक्त इति पाठः । तत्र सोऽर्थः पक्ष उक्तः इति योज्यम् । उपचारे च साध्यधर्मयोगो निमित्तम् । स उपचाराद्यः पक्ष उक्तः विशि(शे)ष्यते व्यवच्छेद्यते तदसमानात् । यदि समानशब्दो विशेषणमस्य तर्हि सशब्दश्रुतिः कथमित्याह -- समानस्येति । समानस्य समानशब्दस्य स्थाने सशब्दादेशश्च "समानस्य" [पाणिनि ६.३.८४] इति योगविभागात् । समानः पक्षो
यस्य स तथेति बहुव्रीहिः किमिति <धर्मोत्तरेण> नाश्रितो येनैवमात्मा प्रयासित इति चेत् । सत्यम् । केवलं <विनिश्चया>नुरोधादेवम्




[ध्प्र्प्.९८]



स्यातेतत्-- किं तत्पक्षसपक्षयोः सामान्यं येन समानः सपक्षः पक्षेन इत्याह -- <साध्यधर्मसामान्येन> इति । साध्यश्च असौ असिद्धत्वात्, धर्मश्च पराश्रितत्वात्साध्यधर्मः । न च विशेषः साध्यः, अपि तु सामान्यम् । अत इह समान्यं साध्यमुक्तम् । साध्यधर्मश्च असौ सामान्यं च इति <साध्यधर्मसामान्येन> समानः पक्षेण सपक्ष इति अर्थः ।

कोऽसपक्ष इत्याह --

न सपक्षोऽसपक्षः इइ-८

<न सपक्षोऽसपक्षः> । सपक्षो यो न भवति सोऽसपक्षः ॥

कश्च सपक्षो न भवति ।



आचरितम् । <विनिश्चये> हि नवपक्षधर्मप्रवेदननिर्देशप्रकरणे[४४*]साध्यधर्मसामान्येन समानः पक्षः सपक्षस्तदभावोऽसपक्षचित्युक्तम् । अतो <वार्त्तिककारस्ये>व दृष्टान्तधर्मी पक्षोऽभिप्रेत उपचारादित्यत्राप्येवमयं व्याचष्ट इत्यदोषः ।

__________टिप्पणी__________

[४४*] चेऽए प्विन्
___________________________


येन सामान्येन पक्षेण समानः सपक्ष इत्याहेति योज्यम् । साध्यशब्देनोपचाराद्वह्न्यादिकमभिप्रेतम् । साध्यत्वे हेतुमाह -- असिद्धत्वात्तत्रानिश्चितत्वात् ।

ननु साध्यधर्मश्चासौ सामान्यं चेति कर्मधारयगर्भः कर्मधारय इत्याभिप्रेतः, विशेषश्च साध्यत इति कथं सामान्यशब्देन साध्यधर्मशब्दस्य समास इत्याशङ्क्याह -- न चेत्यादि । चो यस्मादर्थे अवधारणे वा । सामान्यमतद्रूपव्यावृत्तवस्तुमात्रम् । तथाविधेनैव हेतोः [४१ ] व्याप्यत्वादित्यभिप्रायः । यत एवमतोऽस्य्माद्धेतोर्हि सपक्षलक्षणकाले । सामान्यस्य साध्यतामुक्त्वा साध्यधर्मशबेदेन सह सामान्यशब्दस्य विग्रहं दर्शयति -- साध्येति । साध्यधर्म्ये(मे)त्यादिनोपसंहरति । समान एवेत्यवधारणियं न तु सामान्येनैवेति, अन्येनापि वस्तुत्वादिना सादृश्यात्दृष्टान्तधर्मिणः सपक्षत्वाभावप्रसङ्गादिति ।

यदि सपक्षादन्योऽसपक्षो एवान्यधर्मयोगादन्य इति तत्रासपक्षे वर्त्तमानो हेतुः सर्व एवानैकान्तिकत्वादहेतुः प्रसज्येत । अथ विरुद्धे नञो विधानात्सपक्षविरुद्धोऽसपक्षः सहानवस्थानलक्षणेन विरोधेन विरुद्धस्तदाऽग्निलक्षणो हेतुरौष्ण्यं न गमयेत् । अथाभावे नञिष्यते, तदाऽभावे कस्यचित्सत्त्वासम्भवात्साधारणानैकान्तिको न कश्चित्स्यादिति मनसि निवेश्य पृच्छति -- कोऽसपक्ष इति । अनीदृशाशयस्याज्ञस्यैव वा प्रश्नः ।

<न सपक्ष> इत्याद्युत्तरम् । सपक्षो यो न भवतीति साध्यधर्मवान् यो न भवतीत्यर्थः । एवञ्चाचक्षाणः प्रसज्यप्रतिषेधवृत्तिं नञं दर्शयति । यद्येवम्, समासः कथमिति चेत् । गमकत्वादसूर्यम्पश्यानीत्यादिवत् । अपुनर्ज्ञेयानि सामानि, अलवणभोजी, असूर्यम्पशानि मुखानि "सुड्नपुंसकस्य" [पाण्निनि १.१.४३] इति । प्रयोगसंख्यानियमस्तु <भाष्यकारीयो> यथाऽनुपपन्नस्तथा चाचार्येणैव <विनिश्चये> "दुःखं बतायं तपस्वी" इत्याद्युपहासपूर्वकं -- "यथा निकेतेन प्रतिपत्तेः" इत्यादिना प्रतिपादित इति नेहोच्यते




[ध्प्र्प्.९९]

ततोऽन्यस्तद्विरुद्धस्तदभावश्च इति इइ-९

ततः सपक्षादन्यः, तेन च विरुद्धः, तस्य च सपक्सय अभावः. सपक्षादन्यत्वं तद्विरुद्धत्वं च न तावत्प्रत्येतुं शक्यम्, यावत्सपक्षस्वभावाभावो न विज्ञातः. तस्मादन्यत्वविरुद्धत्वप्रतीतिसामर्थ्यात्[४५] सपक्षाभावरूपौ प्रतीतावन्यविरुद्धौ.


__________टिप्पणी__________

[४५] रेअदन्यत्वविरुद्धत्वे प्रतीति- ?
___________________________




एवं सत्यन्यविरुद्धयोरसपक्षत्वं न स्यादित्यसपक्षशब्देन तदभावतदन्यतद्विरुद्धनां त्रयाणामपि सङ्ग्रहं दर्शयितुं कश्चेत्यादिना प्रश्नपूर्वमुपक्र[म]ते । चकारः पुनःशब्दस्यार्थे ।

अन्य इति विवक्षितधर्मानाधारः, अन्यविषयेऽपि नञि विभागेन नियोगवृत्तेः । न हि स एव ब्राह्मणस्तज्जातियोगाद्, अब्राह्मणश्च धर्मान्तरसमावेशाल्लोके प्रतीयत इति । विरुद्ध इति सहस्थितिलक्षणेनान्योन्यात्मपरिहारस्थितिलक्षणेन च विरोधेन विरुद्धः । चोऽन्यापेक्षया विरुद्धर्मसपक्षत्वेन समुच्चिनोति । तस्य चाभावस्तुच्छरूपः प्रसज्यात्मा व्यववर्त्तव्यैकस्वभावः ।

अयमत्र प्रकरणार्थः -- सपक्षाभावोऽसपक्षः । साध्यधर्मवान् यो न भवतीत्यर्थः । साध्यधर्माभावार्थत्वादसपक्षशब्दस्य । न चैवं निषेधमात्रमसपक्षः । किन् तर्हि? सर्वः प्रतियोगी निषेधः पर्युदतश्च, अतत्त्वलक्षणत्वादसपक्षस्य । तद्विवक्षिते प्रतियोगिनि तुल्यं, व्यतिरेकगतेः सर्वत्र तुल्यत्वात्, साक्षादर्थापत्त्या वेति । चः पूर्वापेक्षः समुच्चये । अन्यविरुद्धयोरपि वस्तुसतोः कल्पितयोश्चासपक्षत्वात् । तत्र वर्त्तमानस्य साधारणानैकान्तिकत्वान्न तदभावदोषः, अन्यविरुद्धयोश्च स्वरूपकथनेन
तदसपक्षत्वपक्षोक्तो दोषो निरस्त इति सर्वमवदातम् ।

ननु च सपक्षो यो न भवतीति वचनेन यस्य सपक्षाभावस्वभावत्वं तस्यैवासपक्षत्वं [४१ ] प्रतिपाद्यते । न चान्यविरुद्धयोस्तद्भावस्वभावता सम्भव(वि)नी, विधिरूपत्वात् । तत्कथं तयोस्तथात्वमित्याशङ्क्याह -- सपक्षादिति । अन्यत्वं ततो भिद्यमानत्वं पृथक्त्वमिति यावत् । तेन च विरुद्धत्वं तावन्न शक्यं ज्ञातुम्, यावत्सपक्षाभावस्वभावो न विज्ञातो भवति । सोऽन्यो विरुद्धश्चेत्यर्थात् ।

अयमाशयः -- यदि तस्यान्यत्वाभिमतस्य यतोऽन्यत्वं व्यवहर्त्तव्यं तद्रूपता चेत्तस्यासिद्धा सन्दिग्धा वा भवेत्तदाऽन्यत्वमेव न स्यात्, तदात्मवत्, धूमस्येव वा बाष्पादिभावेन सन्दिह्यमानस्य न बाष्पादेरन्यत्वनिश्चयः । येन च विरुद्धं यत्तद्रूपं चेत्सिद्धं सन्द्गिधं वा ताद्रूप्येण, तदा तेन सह तस्यावस्थितः, तदात्मपरिहारेण वाऽवस्थानं कथम्, कथं च निश्चीयेत तदात्मवत्पूर्वोक्तधूमवत्?

यत एवं तस्मात् । तयोः साध्यधर्म्वत्त्वाभावादित्यर्थः । यत एवं ततो हेतोः साक्षादव्यवधानेन । अनेन यद्येक एवासपक्षो वक्तव्यः तदा तदभाव एवेति सूचितम् । तुरभावाद्



[ध्प्र्प्.१००]

ततोऽभावः साक्षात्सपक्षाभावरूपः प्रतीयते । अन्यविरुद्धौ तु सामर्थ्यादभावरूपौ प्रतीयेते । ततस्त्रयाणामप्यसपक्षत्वम् ।

त्रिरूपाणि च त्रीण्येव लिङ्गानि इइ-१०

उक्तेन त्रैरूप्येण <त्रिरूपाणि च त्रीण्येव लिङ्गानि >इति । <च>कारो व्यक्तव्यान्तरसमुच्चयार्थः । त्रैरूप्यमादौ पृष्टं त्रिरूपाणि च लिङ्गानि परेण । तत्र त्रैरूप्यमुक्तम् । त्रिरूपाणि च उच्यन्ते । -- <त्रिण्येव त्रिरूपाणि लिङ्गानि >। त्रयस्त्रिरूप लिङ्गप्रकारा इत्यर्थः ।

कानि पुनस्तानि इत्याह

अनुपलब्धिः स्वभावः कार्यं च इति इइ-११

प्रतिषेध्यस्य साध्यस्य अनुपलब्धिस्त्रिरूपा । विधेयस्य साध्यस्य स्वभावश्च त्रिरूपः, कार्य च ।



अन्यविरुद्धयोर्वैधर्म्यमाह । यतोऽन्यो निरुद्धश्चोक्तया नीत्या सपक्षाभवरूपौ ततस्तस्मात् । आस्तामेकस्य द्वयोर्वा त्रयाणामपीत्यपिशब्दः ।

त्रैरूप्येण त्रिरूपेणेत्यर्थः । त्रीणि रूपाणि लक्षणानि येषामिति विग्रहः । <त्रिण्येव> त्रिसंख्यान्येव । <त्रिय्रूपाणी>त्यनेनाबाधितविषयत्वादिरूपानतरयोगेन चतुर्लक्षणत्वं षड्लक्षणत्वं वा पराभिमतं हेतोः प्रतिषेधति, <त्रीण्येवे>त्यनेन संयोग्यादिभेदेन भूयिष्थसंख्यत्वम् ।

पृष्ट इति पाठे त्वाचार्य इति शेसः । यत्त्रैरूप्यं पृष्टो यद्वा यत्त्रैरूप्यं पृष्टं तत्त्रैरूप्यमुक्तमुक्तेन ग्रन्थेन । अथ वा यद्यस्मात्त्रैरूप्यं पृष्ट आचार्यः, पृष्टं वा तत्तस्मात्त्रैरूप्यमुक्तमिति । चस्त्रैरूप्येण समं त्रिरूपाणामुक्तकरम्तां समुच्चिनोति ।

ननु न तावत्परस्यैतद्द्वितयप्रश्नवाक्यं श्रुतम् । तत्कथं परस्य द्वेधा प्रणः संकीर्त्त्यत इति चेत् । उच्यते । त्रिरूपाल्लिङ्गादिति श्रुतवता पूर्वपक्षवादिनाऽवश्यं किं तत्त्रैरूप्यं कियच्च त्रिरूपं लिङ्गमित्याकाङ्क्षितव्यम्, तेन पृष्टमित्युच्यते । एतदेव कथमवसीयत इति चेत् । त्रैरूप्यं लिङ्गस्यैवमात्मकमित्यभिधानादाचार्यस्य पूर्वपक्षवादिन एवंरूप प्रश्नोऽवसीयते । <त्रिरूपाणि च त्रीण्येवे>त्यभिधानाच्च सम्ख्याप्रश्नः । ततः साधूक्तं त्रैरूप्यमादावित्यादि । लिङ्गप्रकारा लिङ्गस्वरूपाणि ॥

संयोग्यादिभेदेन त्रित्वासम्भवात्पृच्छति -- कानीति । सामान्यविशेषाकाराभ्यां प्रश्नः । कार्यं च विधेयस्येति प्रकृतम् । केवलं विधेयस्येति पूर्वं सामर्थ्यादनर्थान्तरस्य विधेयस्य, अधुना त्वर्थान्तरस्य विधेयस्येत्यवसेयम् । विधेयस्यार्थान्तरस्य कार्यं त्रिरूपमिति योजनीयम् । चकारौ पूर्वापेक्षया समुच्चयार्थौ ॥


[ध्प्र्प्.१०१]

अनुपलब्धिमुदाहर्तुमाह --

तत्र अनुपलब्धिर्यथा न प्रदेशविशेषे क्वचिद्घटः, उपलब्धिलक्षणप्राप्तस्य अनुपलब्धेरिति इइ-१२

<यथा> इत्यादि । <यथा> इत्युपप्रदर्शनार्थम् । यथा इयमनुपलब्धिस्तथा अन्या अपि । न त्वियमेव इत्यर्थः । <प्रदेश> एकदेशः । विशिस्यत इति <विशेषः> प्रतिपत्तृप्रत्यक्षः । तादृशश्च न सर्वः प्रदेशः । तदाह -- <क्वचिद्> इति । प्रतिपत्तृप्रत्यक्षे क्वचिदेव प्रदेश इति धर्मी । <न घट >इति साध्यम् । <उपलब्धिर्> ज्ञानम् । तस्या <लक्षणं >जनिका सामग्री । तथा हि उपलब्धिर्लक्ष्यते । तत्प्राप्तोऽर्थो जनकत्वेन सामग्र्यन्तर्भावात् । <उपलब्धिलक्षणप्राप्तो> दृश्य इत्यर्थः । तस्य <अनुपलभ्देः> -- इत्ययं हेतुः ।

अथ यो यत्र न अस्ति स कथं तत्र दृश्यः । दृश्यत्वसमारोपडसन्नपि दृश्य उच्यते । यश्च एवं सम्भाव्यते -- यद्यसावत्र भवेद्दृश्य भवेदिति । स तत्र अविद्यमानोऽपि दृश्यः समारोप्यः । कश्च एवं सम्भाव्यः? यस्य समग्राणि स्वालम्भनदर्शनकारणानि भवन्ति । कदा च तानि समग्राणि गम्यते? यदैकज्ञानसंसर्गिवस्त्वन्तरोपलम्भः । एकैन्द्रियज्ञानग्राह्यं लोचनादिप्रणिधानाभिमुखं वस्तुद्वयमन्योन्यापेकेषमेकज्ञानसंसर्गि कथ्यते । तयोर्हि



न घट इति घटाभावव्यवहारयोग्यतेति द्रष्टव्यम् । घटाभावस्य प्रत्यक्षसिद्धत्वात् । एतच्च परस्तादभिधास्यते । तया लक्ष्यत इति ब्रुवता लक्ष्यतेऽनेनेति लक्षणमिति व्यक्तीकृतम् । तदित्युपलब्धिलक्षणम् । कथं तत्प्राप्त इत्याह जनकत्वेन । किं तेनैकेन सा जन्यते येनैवमुच्यत इत्याह सामग्र्यन्तर्भावादिति ।

समुदायार्थं स्फुटयति । दृश्यो दर्शनयोग्यः । इतिरेवमर्थे । एवमभिधेयो यस्योपलब्धिलक्षणप्राप्तशब्दस्य ।

यद्यविद्यमानः समारोपाद्दृश्य उच्यते तदा भिन्नेन्द्रियग्राह्यमपि तत्रानेकमस्ति । तस्यापि तर्हि तथात्वमायातमित्याशङ्क्याह यश्चैवमिति । चोऽवधारणे । स तादृशो दृश्यतया समारोप्यो न सर्व इत्यर्थात् । कश्चैवं सम्भाव्य इति पृच्छति । पुनःशब्दार्थश्चकारः ।

यस्येति सिद्धान्ती । यस्येति प्रतिषेधस्य । स्वमात्मानमालम्बत इत्यालम्बनम् । यस्य दर्शनस्य । तस्य कारणानि । तच्चेन्नास्ति कथं तद्दर्शनकारणसामग्र्यावगतिरित्याशयः पृच्छति कदेति । च पूर्ववत् । एकस्मिञ्ज्ञाने संसर्गः प्रतिभासः स यस्यास्ति । तच्च तद्वस्त्वन्तरं चेति तथा तस्योपलम्भो यदेत्युक्तम् ।


[ध्प्र्प्.१०२]

सतोर्न एकनियता भवति प्रतिपत्तिः । योग्यताया द्वयोरप्य्विशिष्टत्वात् । तस्मादेकज्ञानसंसर्गिणि दृश्यमाने सत्येकस्मिन्नितरत्समग्रदर्शनसामग्रीकं यदि भवेद्दृष्यमेव भवेदिति सम्भावितं दृश्यत्वमारोप्यते । तस्य अनुपलम्भो दृश्यानुपलम्भः । तस्मात्स एव घटविविक्तप्रदेशस्तदालम्भनं च ज्ञानं दृश्यानुपलम्भनिश्चयहेतुत्वात्द्र्श्यानुपलम्भ उच्यते ।

यावद्धि एकज्ञानसंसर्गि वस्तु न निश्चितं तज्ज्ञानं च न तावद्दृश्यानुपलम्भनिश्चयः । ततो वस्तु अनुपलम्भ उच्यते तज्ज्ञानं च । दर्शननिवृत्तिमात्रं तु स्वयमनिश्चितत्वादगमकम् । ततो दृश्यघटरहितः प्रदेशः तज्ज्ञानं च वचनसामर्थ्यादेव दृश्यानुपलम्भरूपमुक्तं द्रष्टव्यम् ।



तत्र यदि निराकारं विज्ञानमिति स्थितिस्तदैकशब्दो द्वयादिसंख्यानिरासार्थः । यदा तु साकारमिति स्थितिस्तदा पक्षद्वयम् -- एकमेव वानेकाकारमशक्यविवेचनं चित्रं ज्ञानम्, प्रतिवस्त्वनेकमेव वा तत्तदाकारानुकारि । पूर्वस्मिन् पक्षे पूर्ववदेकशब्दः । शेषपक्षे त्वेकचक्षुरायतनप्रभवत्वादेकरूपालम्बनत्वाच्चैकशब्दो गौणः ।

ननु यदि तत्प्रतिषिध्यमानमनेन भूतलादिना सहैकस्मिन् ज्ञाने प्रतिभासेत तदपेक्षमिदमेकज्ञानसंसर्गि कथ्यते । यावतेदमेव नास्तीत्याशङ्क्य तथात्वमेव तयोरेकेन्द्रियेत्यादिना दर्शयति । लोचनादीनां प्रणिधानं स्वज्ञानोपजनने योग्यीभवनं तत्राभिमुखमनुगुणम् । अन्योन्यापेक्षमिति घटाद्यपेक्षं भूतलादि, तदपेक्षं च घटादीत्यर्थः ।

यदि नाम द्वयं तत्रावस्थितं तथाप्येकमेव तत्रावभासिष्यत इत्याह -- तयोरिति । हिर्यस्मात् । उपपत्तिमाह -- योग्यताया इति । यत एव तयोर्घटादिभूतलाद्योरेकज्ञानसंसर्गः सम्भवी तस्मात् । एकस्मिन् भूतलादिके दृश्यमाने सतीतरद्घटादिकं परिपूर्णदर्शनसामग्रीकं ज्ञातव्यम् । तथासदविद्यमानमपि समारोपाद्दृश्यमुच्यत इति दर्शयति ।

भवेदितिना सम्भावनाया आकारः कथितः । तस्यैव सम्भावनार्हस्यानुपलम्भस्तदविविक्तान्योपलम्भरूपः । यस्मात्तस्यैकज्ञानसंसर्गिणो भूतलादेर्दर्शनात्तदनुपलम्भो निश्चीयते तस्मात् ।

ननु भूतलादिज्ञाननिश्चय एव तदनुपलम्भनिश्चयहेतुत्वादनुपलम्भोऽस्तु भूतलादिकं तु कथमित्याह -- यावदिति । हिर्यस्मात् । अनेन ज्ञानविशिष्टं भूतलादि, भूतलाद्यवच्छिन्नञ्च ज्ञानं दृश्यस्यानुपलम्भमुपलम्भाभावं व्यवहर्त्तव्यैकस्वभावं निश्चाययतीति दर्शितम् । वस्त्विति भूतलादि । ज्ञानमिति तद्ग्राहि । चस्तुल्योपायत्वं समुच्चिनोति ।


[ध्प्र्प्.१०३]

का पुनरुपलब्धिलक्षणप्राप्तिरित्याह --

उपलब्धिलक्षणप्राप्तिरुपलम्भप्रत्ययान्तरसाकल्यं स्वभावविशेषश्च इइ-१३

<उपलब्धिलक्षणप्राप्तिः> उपलब्धिलक्षणप्राप्तवं घातस्य <उपलम्भप्रत्ययान्तरसाकल्यम् >इति. ज्ञानस्य घटोऽपि जनकः, अन्ये च चक्षुरादयः. घटाद्दृश्यादन्ये हेतवः <प्रत्ययान्तराणि>. तेषां <साकल्यम्> सन्निधिः. <स्वभाव> एव विशिष्यते तदन्यस्मादिति <विशेष> विशिष्त इत्यर्थः. तदयम् <विशिष्टः स्वभावः प्रत्ययान्तरसाकल्यं> च एतत्द्वयमुपलब्धिलक्षनप्राप्तत्वं घटादेर्द्रष्टव्यम् ।



यद्येकस्मिन् ज्ञाने ययोः संसर्गोऽस्ति तयोरेकतरोपलम्भस्तदितरानुपलम्भनिश्चयहेतुत्वादनुपलम्भस्तस्माच्च तस्याभावव्यहारस्तदा नीलज्ञानानुभवे पीतज्ञानाभावव्यवहारो न स्यात्तयोरेकज्ञानसंसर्गाभावात् । न हि <भवन्>मते ज्ञानं ज्ञानान्तरेण वेद्यते, स्वसंवेदनत्वाभावप्रसङ्गादिति चेत् । सत्यमेतत् । केवलमेकज्ञानसंसर्गिशब्देनान्योन्याव्यभिचरितोपलम्भत्वमिह विवक्षितम् । तच्च ज्ञानेऽप्यस्ति । यदि हि तज्ज्ञानं विद्यमानं स्यात्तदा नीलज्ञानवत्संविदितमेव भवेत् । न च संवेद्यते । तस्मान्नास्तीति व्यवह्रियत इति किमवद्यम् ।

स्यादेतत् । किं पुनर्ज्ञातृज्ञेयधर्मोपलब्धिव्युदासेन पर्युदासवृत्तिना नञा ज्ञातृज्ञेयधर्मलक्षणा द्विविधोपलब्धिः प्रतिपाद्यते ? न तूपलम्भाभावमात्रं प्रसज्यप्रतिषेधाश्रयेणोच्यते यथ्<एश्वरसेनो> मन्यत इत्याशङ्क्याह -- दर्शनत्यादि । दर्शनमुपलब्धिस्तस्य निवृत्तिरभावस्तुच्छरूपः सैव तन्मात्रं वस्त्वन्तरसंसर्गविरहः । तुः पूर्वस्मादनुपलम्भाद्वैधर्म्यमस्य द्योतयति । स्वयमनिश्चितत्वादिति ब्रुवतानुपलम्भात्तत्प्रतिपत्तावनवस्थादोषप्रसङ्गेन तस्य साधकाभावः सूचितः । अनिश्चितत्वादेवागमकः । एवञ्च व्याचक्षाणेन इदं सूचितम् -- तथाविधानुपलब्धिः प्रमाणनिवृत्ताव्
अप्यर्थाभावाभावादभावव्यवहारे साध्येऽनैकान्तिकीति । वचनसामर्थ्यादित्य्<उपलब्धिलक्षणप्राप्तस्ये>तिवचनसामर्थ्यात्, अन्यथैतदतिरिच्येतेति भावः ॥

ननूपलब्धिलक्षणप्राप्तः स उच्यते यस्योपलब्धिलक्षणप्राप्तिरस्ति । यथा यस्याप्तिर्यथार्थदर्शनादिरूपास्ति स आप्त इत्युच्यते । सा चोपलब्धिलक्षणप्राप्तिर्यद्यात्ममनःसन्निकर्षः, इन्द्रियमनःसंयोगः, इन्द्रियार्थसन्निकर्षः, विषयप्रकाशसंयोगः, अनेकद्रव्यवत्त्वम्, रूपं चोद्भूतं समाख्यातं तदा <त्वन्>मतेऽमीषामभावादुपलब्धिलक्षणप्राप्तिरसम्भविनीति मन्यमानः पृच्छति का पुनरिति । सामान्यविशेषाकाराभ्यामयं प्रश्नः । <आचार्यस्या>पि नामून्य्<उपलब्धिलक्षणप्राप्ति>शब्देन विवक्षितानि


किं तर्हीयमित्यभिप्रायेण यदुपलब्धिलक्षणेत्यादिप्रतिवचनं तदुपलब्धीत्यादिना व्याख्यातुमुपक्रमते । व्याख्येयमेव्<ओपलब्धिलक्षणप्राप्ति>शब्दसामानार्थेनोपलब्धिलक्षणप्राप्तत्वशब्देनानुवदति । अयं चास्याशयः यस्योपलब्धिलक्षणप्राप्तिस्तस्यावश्यमुपलब्धिलक्षणप्राप्तत्वमस्तीति । अत एवोपलब्धिलक्षणप्राप्तिरुपलब्धिलक्षणप्राप्तत्वमित्युक्तम् । कस्येत्याकाङ्क्षायामाह घटस्येति ।

ननु साकल्यं नामानेकधर्मः । न च ज्ञानस्य हेतवो बहवः । किञ्च यदि प्रतिषेध्योऽपि ज्ञानस्य हेतुः स्यात्तदा तस्मात्प्रत्ययादन्ये प्रत्ययाः प्रत्ययान्तराण्युच्यन्त इत्याशङ्क्याह ज्ञानस्येति ।


[ध्प्र्प्.१०४]

कीदृशः स्वभावविशेष इत्याह

यः स्वभावः सत्स्वन्येषु उपलम्भप्रत्ययेषु सन् प्रत्यक्ष एव भवति स स्वभावविशेषः इइ-१४

<सत्स्व्> इत्यादि । <उपलम्भ>स्य यानि घटाद्दृश्याद्<प्रत्यया>न्तरानि तेषु <सत्सु> विद्यमानेषु <यः स्वभावः सन् प्रत्यक्ष एव भवति स स्वभावविशेषः >। तदयमत्र अर्थः -- एकप्रतिपत्त्रपेक्षमिदं प्रत्यक्षलक्षणम् । तथा च सति द्रष्टुं प्रवृत्तस्य एकस्य द्रष्टुर्दृश्यमान उभयवान् भावः । अदृश्यमानास्तु देशकालस्वभावविप्रकृष्टाः स्वभावविशेषरहिताः प्रत्ययान्तरसाकल्यवन्तस्तु । यैर्हि प्रत्ययैर्स द्रष्टा पश्यति ते सन्निहिताः । अतश्च सन्निहिता यद्द्रष्टुं प्रवृत्तः सः ।



न केवलं प्रत्ययान्तरसाकल्यमुपलब्धिलक्षणप्राप्तिः किन् त्वन्यदपीत्याह -- स्वभावेति । चस्तुल्यबलत्वं समुच्चिनोति । तदन्यस्मात्पिशाचादेर्विशिष्यते । ज्ञानजननयोग्यतया विशेषणत्वे प्यस्य राजदन्तादिपाठाद्<विशेष>शब्दस्य पूर्वनिपाताभावः । कर्मसाधनस्यैव विशेषशब्दस्यार्थं विशिष्ट इति ।

द्वयमेतन्मिलितमेवोपलब्धिलक्षणप्राप्तिशब्दवाच्यमुपसंहारव्याजेन तदित्यादिना दर्शयति । यतः प्रत्ययान्तरसाकल्यं स्वभावविशेषश्चोपलब्धिलक्षणप्राप्तिर्विवक्षिता तत्तस्मादुपलब्धिलक्षणप्राप्तिशब्दवाच्यमुपलब्धिलक्षणप्राप्तत्वं घटादेः प्रतिषेध्यस्य ॥

अथ किं स्थवीयान् स्वभावः स्वभावविशेष उतस्वित्पररूपामिश्रस्वलक्षणात्मक इत्यभिप्रेत्य पृच्छति कीदृश इति । <सत्स्व्> इत्याद्युत्तरमुपलम्भस्येत्यादिना व्याचष्टे ।

ननु किमस्य सम्भवोऽस्ति यदुत प्रत्ययान्तरसाकल्ये सत्यपि स्वभावः प्रत्यक्ष एव भवतीति । तथा हि सत्यपि घटस्य तादृशे स्वभावे विदूरवर्त्तिनः पुरुषस्य लोचनादिप्रणिधाने पि नासौ प्रत्यक्षो भवतीत्याशङ्क्याह तदयमिति । यस्माद्द्वयमेतदुपलब्धिलक्षणप्राप्तिमवोचदाचार्यस्तत्तस्मादत्र प्रस्तवेऽयमर्थो वाच्योऽभिमतः । कोऽसावित्याह एकेति । एकश्चासौ विवक्षितः प्रतिपत्ता चेति तथा तदपेक्षमिदं प्रत्यक्षलक्षणम् । <यः स्वभावः सत्स्वन्येषूपलम्भप्रत्ययान्तरेषु सन् प्रत्यक्ष एव भवती>त्येवं रूपम् । एकश्च प्रतिपत्ता
स एव वाच्यो योऽव्यवधानादिदेशो द्रष्टुं प्रवृत्तश्च । तथाविधे च द्रष्टरि तथाविधोऽवश्यं प्रत्यक्ष एव भवतीति । तथापि कथं पूर्वपक्षातिक्रम इत्याह तथा चेति तस्मिंश्च प्रकारे सति । दृश्यमान इति हेतुभावेन विशेषणम् । उभयवान् स्वभावविशेषवान् प्रत्ययान्तरसाकल्यवांश्च । यद्य्


[ध्प्र्प्.१०५]

द्रष्टुमप्रऋत्तस्य तु योग्यदेशस्था अपि द्रष्टुं ते न शक्याः प्रत्ययान्तरवैकल्यवन्तः, स्वभावविशेषयुक्तास्तु । दूरदेशकालास्तु उभयविकलाः । तदेवं पश्यतः कस्यचिन्न प्रत्ययान्तरविकलो नाम, स्वभावविशेषविकलस्तु भवेत् । अपश्यतस्तु द्रष्टुं शक्यो योग्यदेशस्थः प्रत्ययान्तरविकलः । अन्ये तु उभयविकला इति ।



अदृश्यमानापि स्वभावविशेषवन्तस्तदा किं स्वभावविशेषग्रहणेनेत्याह अदृश्यमाना इति । तुर्दृश्यमानेभ्योऽदृश्यमानान् भिनत्ति । देशादिविप्रकृष्टत्वमदृश्यमानत्वे निबन्धनम्, हेतुभावेन विशेषणात् । ते प्रत्ययान्तरसाकल्यवन्तः । तुः स्वभावविशेषविरहात्प्रत्ययान्तरसाकल्यवत्त्वेन तान् विशिनष्टि । द्रष्टुं प्रवृत्तस्येत्यस्यानुवृत्ताविदं द्रष्टव्यम् ।

अयमत्र प्रकरणार्थः एकप्रतिपत्त्रपेक्षया यस्तथाविधः स्वभावः सोऽपि यद्युपलब्धिलक्षणप्राप्तिलक्षणत्वेन नोपादीयते, तदा तेषामपि देशादिविप्रकर्षिणां प्रत्ययान्तरसाकल्यमुपलब्धिलक्षणप्राप्तिरस्तीत्युपलब्धिलक्षणप्राप्तानामनुपलम्भादभावव्यवहारः प्रवर्त्तनीयः स्यात् । न चैतद्युज्यते । तस्माद्विशिष्टप्रतिपत्त्रपेक्षमिदं स्वभावविशेषस्य लक्षणमित्युपलब्धिलक्षणप्राप्तिलक्षणं सूक्तमिति ।

प्रत्ययान्तरसाकल्यवत्त्वमेव तेषां साधयन्नाह यैरिति । हिर्यस्मादर्थे । एतदेव कुतः सिद्ध्यतीत्याह अत इति । अत इत्ययं निपातो वक्षय्माणहेत्वर्थः । चो वक्तव्यमेतदित्यस्मिन्नर्थे । सन्निहितास्ते प्रत्यया यद्यस्माद्द्रष्टुं प्रवृत्तस्तद्विविक्तं द्रष्टुं प्रवृत्तो यत इत्यर्थः । यद्वा तदेव निरीक्षितुं प्रवृत्तो यत इति । तदा तु [४३ ] प्रेक्षापूर्वकारीति द्रष्टव्यम् । दर्शनप्रवृत्तपुरुषापेक्षया तावदर्थस्यैवंप्रकारवत्त्वं, द्रष्टुमप्रवृत्तस्य तु स कीदृश इत्याह द्रष्टुमप्रवृत्तस्येति । तुना द्रष्टुं
प्रवृत्तादप्रवृत्तस्य भेदमाह । यावत्येव देशे सति तस्मिन् प्रत्ययान्तरे दृश्यन्तेऽर्थः स एव योग्यो देशः तत्रस्थाः ।

तस्माद्दृश्यादन्ये ये चक्षुरादयो हेतवस्तानि प्रत्ययान्तराणि । तेषां वैकल्यमभावस्, तद्वन्तः हेतुभावेन विशेषणाद् । अत एव द्रष्टुं ते न शक्याः । स्वभावविशेषस्तु तेषामस्तीति दर्शयन्नाह स्वभावेति । तुना प्रत्ययान्तरवैकल्यवत्त्वात्स्वभावविशेषयुक्तत्वेन तान् विशिनष्टि । तथाविधपुरुषापेक्षया देशकालविप्रकृष्टानां तु का वार्त्तेत्याह दूरेति । दूरौ देशकालौ येषां ते तथोक्ताः । ये हि देशेन विप्रकृष्टास्ते दूरदेशा ये च कालेन ते दूरकाला भवन्तीति भावः । तुः पूर्वेभ्य इमान् भिनत्ति । अत्रापि द्रष्टुमप्रवृत्तस्येत्य्
अनुवर्त्तते । तदेवमित्यादिनोक्तमेवोपसंहरति ।

अथवा एकप्रतिपत्त्रपेक्षमिदमित्यन्यथा व्याख्यायते -- इहोपलब्धिलक्षणप्राप्तस्येत्यनेन देशकालस्वभावविप्रकृष्टतयानुपलब्धिलक्षणप्राप्ताः किल व्यावर्तयितव्याः । न च तेऽप्यनुपलब्धिलक्षणप्राप्ताः शक्या वक्तुं यतो व्यवच्छिद्येरन् तथापि पिशाचोऽपि सजातीयैरुपलभ्यते एवं देशविप्रकृष्टोऽपि तद्देशीयैः । तथा कालविप्रकृष्टोऽपि तत्कालिकैरिति व्यावर्त्त्याभावादुप--


[ध्प्र्प्.१०६]

अनुपलब्धिमुदाहृत्य स्वभावमुदाहर्तुमाह --

स्वभावः स्वसत्तामात्रभाविनि साध्यधर्मे हेतुः इइ-१५

<स्वभाव> इत्यादि । <स्वभावो हेतुर्>इति सम्बन्धः । कीदृशो हेतुः साध्यस्य स्वभाव इत्याह -- <स्व>स्य आत्मनः <सत्ता> । सा एव केवला <स्वसत्तामात्रम्> । तस्मिन् सति भवितुं शीलं यस्य इति । यो हेतोरात्मनः सत्तामपेक्ष्य विद्यमानो भवति, न तु हेउत्सत्ताया व्यतिरिक्तं कञ्चिद्धेतुमपेक्षते स <स्वसत्तामात्रभावी साध्यः> । तस्मिन् साध्ये यो हेतुः स स्वभावः तस्य साध्यस्य न अन्यः ।

उदाहरणम् --

यथा वृक्षो अयं शिंशपात्वादिति इइ-१६

<यथा >इति । <अयम् >इति धर्मी । <वृक्ष> इति साध्यम् । <शिंशपात्वाद्>इति हेतुः । तदयमर्थः -- वृक्षव्यवहारयोग्योऽयम्, शिंशपाव्यवहारयोग्यत्वादिति । यत्र प्रचुरशिंशपे देशेऽविदितशिंशपाव्यवहारो जडो यदा केनचिदुच्चां शिंशपामुपादर्श्य उच्यते ’यं वृक्षःऽ इति तदासौ जाड्याच्छिंशपाया उच्चत्वमपि वृक्षव्यवहारस्य निमित्तमवस्यति तदा यामेव अनुच्चां पश्यति शिंशपां तामेव अवृक्षमवस्यति । स मुडः शिंशपामात्रनिमित्ते

____________________

लब्धिलक्षणप्राप्तस्येति विशेषणमनर्थकमित्याशङ्क्याह तदयमत्रार्थ इति ।

तदा तु प्रत्यक्षशब्देनोपलब्धिलक्षणप्राप्तत्वं वाच्यं तस्य लक्षणमिदं पूर्वोक्तमिति योज्यम् । एकप्रतिपत्त्रपेक्षमिदं प्रत्यक्षलक्षणमुपलब्धिलक्षणमित्यर्थः । तथापि कथं चोद्यातिक्रम इत्याह तथा चेति । शेषं पूर्वमेव कृतव्याख्यानम् ॥

सम्प्रति स्वभावहेतुं विवरितुमनुपलब्धिमित्यादिनोपक्रमते । सामान्यवृत्तिरप्ययं स्वभावशब्दः साध्यधर्मस्य श्रुतत्वात्तस्यैव स्वभावे वर्तते इत्यभिप्रायेण साध्यस्य स्वभाव इत्यभ्यवादीत् । हेतोः स्वरूपस्य चिन्तनात्स्वशब्देन तस्यैवात्मा विवक्षितः । एतदेव यो हेतोरित्यादिना स्फुटयति । तस्मिन् साध्ये यो हेतुर्गमकः ॥


[ध्प्र्प्.१०७]

वृक्षव्यवहारे प्रवर्त्यते । न उच्चत्वादि निमित्तान्तरमिह वृक्षव्यवहारस्य । अपि तु शिंशपात्वमात्रं निमित्तं -- शिंशपागतशाखादिमत्त्वं निमित्तमित्यर्थः ।

कार्यमुदाहर्तुमाह --

कार्यं यथा वह्निरत्र धूमादिति इइ-१७

<वह्निर्> इत्य्साध्यम् । <अत्र> इति धर्मी । <धूमाद्>इति हेतुः । कार्यकारणभावो लोके प्रत्यक्षानुपलम्भनिबन्धनः प्रतीत इति न स्वभावस्येव कार्यस्य लक्षणमुक्तम् ।



उदाहरणमस्यार्थस्येति प्रकरणात् । उदाह्रियते प्रदर्श्यते स्वभावहेतुरनेनेत्युदाहरणं स्वभावहेतुप्रतिपादकं वाक्यम् । इदं च स्वभावहेतोरर्थकथनं न तु तत्प्रयोगोपदर्शनम् । प्रयोगस्तु यः शिंशपात्वव्यवहारयोग्यः स वृक्षत्वव्यवहारयोग्यः । यथा प्रवर्तितवृक्षत्वव्यवहारा पूर्वाधिगता शिंशपा । शिंशपाव्यवहारयोग्यश्चायमिति ।

ननु च यः शिंशपा पश्यति स वृक्षं जानात्येव । तत्कथमत्र साध्यसाधनभाव इत्याह तदयमिति । यस्मात्शिंशपा साधनत्वेनोपन्यस्ता, वृक्षः साध्यत्वेन । न चैतद्यथाश्रुति सङ्गच्छते तत्तस्मात्वृक्षोऽयं वृक्षव्यवहारयोग्योऽयं शिंशपात्वात्शिंशपाव्यवहारयोग्यत्वादित्ययमर्थो वाच्यः <वृक्षोऽयं शिंशपात्वाद्>इत्यस्य वाक्यस्येति प्रकरणात् । इतिर्वाक्यार्थस्यैव स्वरूपं दर्शयति ।

ननु यो विदितवृक्षव्यवहारः स स्वयं प्रत्यक्षेणैव तं व्यवहारं प्रवर्तयिष्यति तत्कथमस्यानुमानस्यावतार इत्याह तत्रेति वाक्योपक्षेपे । निमित्तमित्यन्तं सुबोधम् ।

अनेन च प्रबन्धेन मूढं प्रत्येतद्व्यवहारसाधनमनुमानमिति दर्शितम् । केवलमिदमत्र निरूपणीयम् । [यदा च] वृक्षत्वव्यवहारव्युत्पत्तिं कार्यमाण एवारोपितोच्चत्वादिनिमित्तः, तदा केन दृष्टान्तेन बोधयितव्यः? आदित एव तेन शाखादिमत्त्वमात्रं निमित्तं न गृहीतमिति । सत्यमेतत् । केवलं बोधे यत्नः करणीयः । तदासौ जाड्यादुच्चत्वमपि निमित्तमवस्यतीतीदमेतस्मिन्मूढे प्रतिपत्तरि योजनीयम् । यः प्रथमं तावत्शिंशपागतं शाखादिमत्त्वमात्रमेव निमित्तमवसाय वृक्षव्यवहारं प्रावर्तयत्पश्चाज्जाड्यवशात्तन्मात्रं निमित्तं विस्मृत्यान्यदेव वृक्षव्यवहारकाले उच्चत्वम्
अपि निमित्तमासीदिति व्यामुह्य तदोच्चत्वमपि वृक्षव्यवहारनिमित्तमवकल्पयतीति । स चैवंभूतो जडः शिंशपाव्यवहारयोग्यत्वेन हेतुना प्रथमं प्रवर्तिततन्मात्रनिमित्तवृक्षव्यवहारया तदानीं तथास्मारितया शिंशपया दृष्टान्तेन वृक्षव्यवहारयोग्यतां बोधयितुं शक्यत एव । यः पुनरादित एवारोपितोच्चत्वादिनिमित्तस्तं प्रति हेतूपन्यास एव न युज्यते । किं तर्हि? वृक्षव्यवहारसमयमेवासौ ग्राहयितव्य इति सर्वमवदातम् ।

[ध्प्र्प्.१०८]

ननु त्रिरूपत्वादेकमेव लिङ्गः युक्तम् । अथ प्रकारभेदाद्भेदः । एवं सति स्वभावहेतोरेकस्यानन्तप्रकारत्वात्त्रिरूपमयुक्तमित्याह --

अत्र द्वौ वस्तुसाधनौ एकः प्रतिषेधहेतुः इइ-१८

<अत्र द्वौ> इति । <अत्र> इत्येषु त्रिषु मध्ये <द्वौ> हेतू <वस्तुसाधनौ> -- विधेः साधनौ गमकौ । <एकः प्रतिषेध>स्य <हेतु>गमकः । प्रतिषेध इति च अभावोऽभवव्यवहारश्च उक्तो द्रष्टव्यः ।



इदानीं कार्यहेतुं विवरीतुमाह -- कार्यमिति । हेतोः प्रकृतत्वात्कार्यमिति कार्यहेतुमित्यवसेयं सुखप्रतिपत्त्यर्थम् ।

साध्यादिस्वरूपमाह वह्निरिति । एतदपि हेतोरर्थकथनम् । न तु प्रयोगप्रदर्शनम् । व्याप्तेर्दर्शयितव्याया अप्रदर्शनात् । अनिर्देश्यायाश्च प्रतिज्ञाया निर्देशात् । व्याप्तिवेदिन्यपि पुंसि हेतुरनुवाद्येनैव रूपेण निर्दिश्यमान प्रथमान्त एव निर्देश्यः अत्र धूम इति । न तु धूमादिति । न च तथाविधं प्रत्यपि प्रतिज्ञा अन्यथा क एनामसाधनाङ्ग ब्रूयात् । साधनाङ्गत्वे च शतमुखी बाधा <वादन्याय>स्यापद्येत ।

ईदृशस्तु प्रयोगः करणीयः -- यत्र धूमस्तत्र सर्वत्र वह्निर्यथा महानसे, धूमश्चात्रेति । स्वभावानुपलब्ध्योरिव कार्यहेतोरपि कस्माल्लक्षणम् <आचार्येण> न प्रणीतमित्याशङ्कामपाकुर्वन्नाह -- कार्येति । लोके व्यवहर्त्तरि जने । प्रतीतः प्रसिद्धः । इतिर्हेतौ । नोक्तम् <आचर्येणे>ति शेषः ।

अयमभिप्रायः अनुपलब्धौ खलु बहवो विप्रतिपन्नाः । उपलब्ध्यभावमात्रमनुपलब्धिम् <ईश्वरसेनो> मन्यते । <कुमारिलस्> तु वस्त्वन्तरस्यैकज्ञानसंसर्गितामनपेक्ष्यैवान्यमात्रस्य ज्ञानमनुपलब्धिमभावप्रमाणतया वर्णयति । तथा, विवक्षितज्ञानानाधारतालक्षणमात्मनोऽपरिणामं स्वापादिसाधारणम् [४४ ] अपि तथात्वेन वर्णयति । यदाह -- "सात्मनोऽपरिणामो वा विज्ञानं वान्यवस्तुनि" इति ।[४६]


__________टिप्पणी__________

[४६] श्व्<अभावपरिच्छेद> ११ द्सात्मनः परिणामो वा विज्ञानं वाक्यवस्तुनि ।
___________________________


तथा स्वभावेऽपि हेतौ बहवो विप्रतिपेदिरे । केचिदर्थान्तरापेक्षिण्यपि धर्मे स्वभावं हेतुमध्यवसिताः । केचित्तु वस्तुनो धर्मिविशेषमाश्रितं स्वभावमिति ।

तद्विप्रतिपत्तिनिराकरणार्थं तयोर्लक्षणमाख्यातम् । अत्र तु कार्यत्वरूपे न केचिद्विप्रतिपद्यन्त इति नास्य लक्षणामुक्तमिति । कार्यकारणभावेन गम्यगमकभावे सर्वथा गम्यगमकभावप्रसङ्ग इत्यादिकायां विप्रतिपत्तावपि न कार्यस्य लक्षणे विप्र्तिपत्ति । किन् तर्हि? तस्य गमकत्वे । सा चान्यत्र निराकृताऽत्रापि प्राज्ञैः स्वयमभ्यूह्या प्राज्ञजनाधिकारेणास्य प्रारम्भादिति ॥

सम्प्रति त्रिरूपाणि च त्रीण्येवेत्यसहमानः प्राह -- नन्विति । ननु प्रश्नः । अथशब्दो यदिशब्दस्यार्थे । प्रकारस्य स्वरूपस्य भेदाद्विशेषात्भेदो नानात्वम् । एवमभ्युपगमे सति । एकस्येति अभिन्नस्य । अभिन्नत्वञ्चास्वभावहेतुत्वव्यावृत्तेः सर्वत्र भावात् । [ध्प्र्प्.१०९]

तदयमर्थः -- हेतुः साध्यसिद्द्यर्थत्वात्साध्याङ्गम्, साध्यं प्रधानम् । अतश्च साध्योपकरणस्य हेतुः प्रधानसाध्यभेदाद्भेदः, न स्वरूपभेदात् । साध्यश्च कश्चिद्विधिः, कश्चित्प्रतिशेधः । विधिप्रतिषेधयोश्च परस्परपरिहारेण अवस्थानाथेयोर्हेतू भिन्नौ । विधिरपि कश्चिद्धेतोर्भिन्नः, कश्चिदभिन्नः । भेदाभेदयोरप्यन्योन्यत्यागेनात्मस्थितेर्भिन्नौ हेतू । ततः साध्यस्य परस्परविरोधाथेतवो भिन्नाः, न तु स्वत एवेति ॥

कस्मात्पुनस्त्रयाणां हेतुत्वम्, कस्मात्च अन्येषां हेतुत्वमित्याशङ्क्य यथा त्रयाणामेव हेतुत्वमन्येषां च अहेतुत्वं तदुभयं दर्शयितुमाह --

स्वभावप्रतिबन्धे हि सत्यर्थो अर्थं गमयेत् इइ-१९



अनन्तप्रकारत्वादिति ब्रुवतोऽयं भावः -- सविशेषणनिर्विशेषणव्यतिरिक्ताव्यतिरिक्तविशेषणत्वादिभेदेनानन्तस्वभावत्वादिति । गमकाविति विवृण्वन् साधयत इति साधनाविति कर्तरि ल्युटं दर्शयति । अत्र च वस्तुनः साधनावेवेत्यवधारणीयं न तु वस्तुन एवेति । इतरव्यवच्छेदस्यापि ताभ्यां साधनात् । प्रतिपत्त्रध्यवसायानुरोधात्तु विधिसाधनत्वमनयोरुच्यते । प्रतिषेधस्य हेतुरेवेत्यवधारणीयं न त्वयमेवेति पूर्वाभ्यामपि सामर्थ्यात्प्रतिषेधस्य साधनात् ।

ननु न दृश्यानुपलम्भेनाभावः साध्यते तस्य प्रत्यक्षसिद्धत्वात् । किन् तु व्यवहारः । तत्कथं प्रतिषेधोऽनुपलम्भसाध्यः । अथाभावव्यवहारः प्रतिषेध उच्यते । तर्हि व्यापकानुपलम्भादिना व्याप्याद्यभावे साध्ये केनाभावः साधितः । ततः किमत्र प्रतिषेधशब्देन प्रतिपत्तव्यमित्याशङ्क्याह प्रतिषेध इति । इतिः प्रतिषेधशब्दं प्रत्यवमृशति ।

तेन प्रतिषेध इत्यनेन शब्देनाभावोऽभावव्यवहारश्चोक्तो द्रष्टव्य इत्यर्थः । एकस्य प्रतिषेधेन इति मुख्यया वृत्त्या सङ्ग्रहोऽन्यस्य प्रतिषेधाश्रयतया गौण्या वृत्त्येति भावः । नास्तीति ज्ञानं नास्तीत्यभिधानं निःशङ्कात्र गमनागमनलक्षणा प्रवृत्तिर्व्यवहारः । स च हठात्प्रवर्त्तयितुं न शक्यत इति तद्योग्यतैव साध्येति द्रष्टव्यम् । एवं तु स्वभावहेतावन्तर्भावेऽप्यनुपलम्भस्य ततः पृथक्करणं प्रतिपत्त्रध्यवसायवशादित्यवसेयम् ।

ननु विधिप्रतिषेधसाधनत्वेऽप्यमीषां त्रिरूपत्वमविशेष्टम् । तत्त्वादेव चाधेदश् चोदितः । तत्कथमिदमुत्तरं पूर्वपक्षमिति वर्त्ततामित्याशङ्क्याह -- तदयमिति । यस्मादिदमुत्तरीकृतम् <आचार्येण> यथाश्रुति च पूर्वपक्षं नातिक्रामति तत्तस्मादयमर्थो वाक्यस्यायं तात्पर्यार्थित्यर्थः । एतमेवार्थं हेतुरित्यादिना न तु स्वत एवेत्यन्तेन ग्रन्थे प्रतिपादयति ॥

अथ कथमन्योऽर्थोऽन्यमर्थं न व्यभिचरति येनैते त्रयो हेतवः? य[४५ ]था चामीषां स्वसाध्यसाधनाद्गमकत्वं तथाऽन्येषामप्यकार्यस्वभावानुपलम्भात्मनां किं न भवतीति मन्वानः प्रश्नेनोपक्रमते -- कस्मादिति । कस्मादिति सामान्यतो हेतुं पृच्छति पुनरिति विशेषतः । त्रयाणामनुपलब्ध्यादीनाम् । चः पूर्वनिमित्तापेक्षया निमित्तान्तरसमुच्चयार्थः । अन्येषामनीदृशात्मनां संयोग्यादीनाम् ।


[ध्प्र्प्.११०]

<स्वभावप्रतिबन्ध> इत्य् । स्वभावेन प्रतिबन्धः । "साधनं कृता" [व्या-महा- २.१.३३.] इति समासः । स्वभावप्रतिबद्धत्वं प्रतिबद्धस्वभावमित्यर्थः । कारणे स्वभावे वा साध्ये स्वभावेन प्रतिबन्धः कार्यस्वभावयोरविशिष्ट इत्येकेन समासेन द्वयोरपि संग्रहः । <हि>र्यस्मादर्थे । यस्मात्<स्वभावप्रतिबन्धे सति> साधन्<आर्थः> साध्य्<आर्थं गमयेत्>तस्मात्त्रयाणां गमकत्वमन्येषामगमकत्वम् ।

कस्मात्पुनः स्वभवप्रतिबन्ध एव सति गम्यगमकभावो न अन्यथेत्याह --

तदप्रतिबद्धस्य तदव्यभिचारनियमाभावात् इइ-२०

<तदप्रतिबद्धस्ये>त्य् । <तद्> इति स्वभाव उक्तः । तेन स्वभावेन अप्रतिबद्धः -- <तदप्त्रतिबद्धः> । यो यत्र स्वभावेन न प्रतिबद्धः तस्य <तदप्रतिबद्धस्य तदव्यभिचारनियमाभावात्> । तस्याप्रतिभन्दविषयस्याव्यभिचारः <तदव्यभिचारः> तस्य नियमः <तदव्यभिचारनियमः >तस्याभावात् ।

तदयमर्थः -- न हि यो यत्र स्वभावेन न प्रतिबद्धः, स तमप्रतिबन्धविषयमवश्यमेव न व्यभिचारतीति नास्ति तयोरव्यभिचारनियमः -- अविनाभावनियमः । अव्यभिचार--



स्वभावेन स्वरूपेण । "साधनं कृता" [व्या-महा-२.१.३३.] इति <पाणिनीयभाष्यकारस्ये>दं सूत्रम् । तेन "कर्त्तृकरणे कृता बहुलम्" [पाणिनि २.१.३२] इति सूत्रमपनीय गलेचोपक इत्यादिसिद्ध्यर्थ "साधनं कृता" इति सूत्रं कृतम् । वार्त्तिकसूत्रिकाणां तु "तृतीया" [पाणिनि २.१.३०] इति योगविभागात्समासोऽवसेयः । अनेन च तृतीयासमासेनैव कार्यस्वभावयोः संग्रहादावृत्त्या षाष्ठीसप्तमीसमासाभ्यां कार्यस्वभावयोः संग्रह इति यत्पूर्वैर्व्याख्यातं तदपव्याख्यानमिति ख्यापितम् ।

समस्तस्य पदस्यार्थमाह-- स्वभावेति । अनेन प्रतिबन्धशब्देन प्रतिबद्धत्वमायत्तत्वमुच्यत इति दर्शयति । अस्यैवार्थं स्पष्टयति । प्रतिबद्धेति यः स्वरूपेण क्वचिदायत्तस्तस्तस्य स्वभास्तत्र प्रतिबद्ध आयत्त इत्यर्थाभेदेन प्रतिबद्धस्वभावत्वमित्यर्थ इति स्पष्टीकृतम् ।

ननु पूर्वेषामभिमतसमासव्युदासेन तृतीयासमासं दर्शयता किं स्विदति यो लब्धः? केवलमाहोपुरुषिका प्रकाशितेत्याशङ्क्य पूर्वं बुद्धिस्थमेव स्फुटयितुमाह -- कारण इति । कस्यासौ


[ध्प्र्प्.१११]

नियमाच्च गम्यगमकभावः । न हि योग्यतया प्रदीपवत्परोक्षार्थप्रतिपत्तिनिमित्तमिष्टं लिङ्गमपि त्वव्यभिचारित्वेन निश्चितम् । ततः स्वभावप्रतिबन्धे सत्यविनाभावित्वनिश्चयः, ततो गम्यगमकभावः । तस्मात्स्वभावप्रतिबन्धे सत्यर्थोऽर्थं गमयेन्नान्यथेत्य्स्थितम् ।

ननु च परायत्तस्य प्रतिबन्धोऽपरायत्ते । तदिह साध्यसाधनयोः कस्य क्व प्रतिबन्ध इत्याह --

स च प्रतिबन्धः साध्ये अर्थे लिङ्गस्य इइ-२१



प्रतिबन्ध इत्यकाङ्क्षायामाह -- कार्यस्वभावयोस्तयोरेव प्रकृतत्वात् । अविशिष्टः साधारणः । द्वयोरपि कार्यस्वभावयोरतिशये सङ्ग्रहः स्वीकारः । अयमेवातिशय इति भावः । साधनलक्षाणोऽर्थः साध्यलक्षणमर्थं गमयेत्बोधयतुं शक्नोति । यत एवं तस्मादन्येसां तद्व्यतिरिक्तानाम् ।तेषां स्वभावप्रतिबन्धाभावात् । तदभावश्च तादात्म्यतदुत्पत्त्यभावात् । तदन्यस्य च सम्बन्धस्याभावात् । तादात्म्यतदुत्पत्तिभावे च कार्यस्वभावयोरेवान्तर्भाव इति भावः ॥

तदित्यादिना समासं प्रदर्श्य तदप्रतिबद्धस्येति योजयता <धर्मोत्तरेण> मूले तदपतिबद्धस्येति पाठो दर्शितः । दृश्यते च बहुशस्तदप्रतिबद्धस्वभावस्येति पाठः । तत्रापि पाठे तदप्रतिबद्धः साध्याप्र्तिबद्धः स्वभावः स्वरूपं यस्य लिङ्गस्येति विग्रहः कार्यः । प्रतिबन्धः प्रतिबद्धत्वमायत्तत्वं यत्साधनस्य, तस्य विषयोऽव्यभिचारस्तेन विनाऽभवितृत्वम् । तस्य नियमोऽवस्य(श्य)न्ता ।

ननु तदप्रतिबद्धत्वेऽपि अद्यतन आदित्योदयोऽस्तमयमप्रतिबन्धविषयं न व्यभिचरतीत्याशङ्क्याह -- तदयमर्थमिति । यत एवमुक्तं तत्तस्मादयं तात्पर्यार्थः । आदित्योदयोऽपि हि भविष्यति । न च तदहरस्तमयः, महर्षिणाऽन्येन वा महर्धिना केनचित्तस्यास्तमयविबन्धसम्भवात् । तस्मादादित्यस्य तस्मादस्तमययोग्यतैव साध्या -- अयमादित्योदयोऽस्तमययोग्य उदयत्वात् । श्वस्तनोदयवदिति । सति चैवं स्वभावहेतुत्वमस्यायातमिति भावः ।

ननु चाव्यभिचारमात्रेण प्रयोजनम्, तत्किं नियमेनेत्याह । अव्यभिचारेति । चोऽवधारणे हेतौ वा । एतदेव कुत इत्याह -- न हीति । [४५ ] हिर्यस्मात् । प्रदीपो वैधर्म्यदृष्टान्तः । अपि तु किन् त्व्व्यभिचारित्वेन साध्यस्य प्रकृतत्वात्साध्याविनाभावित्वेन निश्चितम् । नियमाभावे च कुतोऽव्यभिचारनिश्चय इत्यस्य तात्पर्यार्थः । निश्चीयतां तदव्यभिचारोऽन्येषामपि, प्रतिबन्धस्तु कस्मान्मृग्यत इत्याह -- तत इति । यतोऽवश्यमव्यभिचारो निश्चेतव्यस्ततस्तस्मात् । अन्यथाऽव्यभिचार एव न शक्यते निश्चेतुमित्यर्थादनेन दर्शितम् । एतावताऽपि कथं गमकत्वमित्याह -- तत इति ततो निश्चितादव्यभिचाराल्लिङ्गस्य गमकत्वे सिद्धे साध्यस्यापि गमक(गम्य)त्वं सिद्ध्यतीति द्वयोरुपन्यासः
। उक्तमर्थमुपसंहरन्नाह -- तस्मादिति । अर्थो लिङ्गलक्षणः, अर्थं लिङ्गलक्षणम् ॥

तत्तस्मादिहानुमानानुमेयचिन्तायां स्वभावप्रतिबन्धचिन्तायां वा ।


[ध्प्र्प्.११२]

<स चे>ति । <स च> स्वभाव<प्रतिबन्धो लिङ्गस्य साध्येऽर्थे> । लिङ्गं परायत्तत्वात्प्रतिबद्धम् । साध्यस्त्वर्थोऽपरायत्तत्वात्प्रतिबन्धविषयो न तु प्रतिबद्ध इत्यर्थः । तत्रायमर्थः -- तादात्म्याविशेषेऽपि यत्प्रतिबद्धं तद्गमकम् । यत्प्रतिबन्धविषयः तद्गम्यम् । यस्य च धर्मस्य यो नियतः स्वभावः स तत्प्रतिबद्दः । यथा प्रयत्नानन्तरीयकत्वाख्योऽनित्यत्वे । यस्य तु स चान्यश्च स्वभावः च प्रतिबन्धविषयः, न तु प्रतिबद्धः । यथानित्यत्वाख्यः प्रयत्नानतरीयकत्वाख्ये । निश्चयापेक्षो हि गम्यगमकभावः । प्रयत्नान्तरीयकत्वमेव चानित्यत्वस्वभावं निश्चितम् । अतस्तद्
एव अनित्यत्वे प्रतिबद्धम् । तस्मान्नियतविषय एव गम्यगमकभावः नान्यथेति ।



ननु भिन्नयोर्गम्यगमकभावे लिङ्गं तदुत्पत्त्या परायत्तत्वात्प्रतिबद्धम् । साध्यस्त्वपरायत्तत्वात्प्रतिबन्धविषयः । तदाश्रयश्च साध्यसाधनभावनियमः स्यात् । स्वभावयोस्तु तद्भावे हेतोस्तादात्म्यप्रतिबद्धत्वम् । तादात्म्यं चोभयोरविशिष्टम् । ततः प्रतिबद्धत्वं प्रतिबन्धविषयत्वं वा द्वयोरविशिष्टमायाति । तदाश्रयश्च नियतः साध्यसाधनभावः प्रसक्त इत्याह -- तत्रायमर्थ इति । न केवलमर्थान्तरत्व इत्यपि शब्दः । यत्प्रतिबद्धमिति यत्साध्यप्रतिबद्धतया तदायत्ततया निश्चितमिति द्रष्टव्यम् । प्रतिबन्धविषयोऽपि तत्त्वेन निश्चितो द्रष्टव्यः ।

ननु तादात्म्याविशेषादेकस्तत्र प्रतिबन्धविषयतया न तु प्रतिबद्धतयेत्ययमेव विभागः कुत इत्याह -- यस्येति । यद्वा तादात्म्यानुभाविनि द्वये किन् तत्र प्रतिबद्धं यद्गमकं किञ्च प्रतिबन्धविषयो यद्गम्यमित्यजानन्तं प्रत्याह -- य्स्येति । चो हेतौ द्वितीयपक्षेऽवधारणे । यस्य धर्मस्य व्यावृत्तिकल्पितस्य यो नियतः प्रतिनियतः स एव स्वभावो न तदन्योऽपि । स इति यस्येति षष्ठ्यन्तेनोक्तः परामृष्टः । तदिति य इति प्रथमान्तेनोक्तः प्रत्यवमृष्टस्तस्मिन् प्रतिबद्ध इति विग्रहः । निश्चीयत इति शेषः । प्रकरणलभ्यं वा । कः पुनरीदृश
इत्याह -- यथेति । प्रय्त्नः पुरुषव्यापारस्तस्यानन्तरमव्यवधानम् । तत्र भव इति दिगादित्वाद्यत् । ततः स्वार्थे कन् । तस्य भावस्तत्त्वम् । तदाख्या नाम यस्य स तथा । प्रयत्नानन्तर्यकत्वस्य ह्यनित्यत्वमेव स्वभावो न तु नित्यत्वमपि । ततोऽनित्यत्वे प्रतिबद्धं निश्चीयते ।

ईदृशस्य तावदियं गतिरन्यस्य तु का वार्त्तेत्याह -- यस्येति । धर्मस्येत्यनुवृत्तेर्यस्येति धर्मस्य । तुर्विशिष्टं धर्मं दर्शयति । स च सोऽपि प्रयत्नानन्तर्याख्योऽन्यश्च सश्च(चा)प्रयत्नानन्तरीयको वनकुसुमादिरपि । स प्रतिबधस्य साधनगतप्रतिबद्धत्वस्य विषयो गोचरः । एतदेव व्यतिरेकमुखेण द्रढयति -- न त्विति । पुनरर्थे तुशब्दः । कोऽसावीदृश इत्याह -- यथेति । अनित्यत्वाख्यः प्रयत्नानन्तर्यत्वाख्येन प्रतिबद्ध इति योज्यम् । एवञ्चार्थात्प्रतिबन्धविषये चेत्यव[४६ ]तिष्ठते । एतच्चानित्यत्वस्य तदसत्स्वभावत्वेनानियतस्वभात्वमनित्यत्वसामान्याभिप्रायेणोक्तम् । अन्यथा घटादिगतानित्यत्वस्य प्रयत्नानन्तरीयकत्वमन्तरेण कुतोऽवस्थानम् । येनान्यस्वभातया
ऽस्यानियतत्वं स्यादिति ।


[ध्प्र्प्.११३]

कस्मात्पुनः स्वभावप्रतिबन्धो लिङ्गस्येत्याह --

वस्तुतस्तादात्म्यात्तदुत्पत्तेश्च इइ-२२

<वस्तुत >इत्यादि । स साध्योऽर्थ आत्मा स्वभावो यस्य तत्तदात्मा । तस्य भावस्तादात्म्यम् । तस्माथेतोः । यतः साध्यस्वभावं साधनं तस्मात्तत्र स्वभावप्रतिबन्ध इत्यर्थः ।

यदि साध्यस्वभावं साधनं साध्यसाधनयोरभेदात्प्रतिज्ञार्थैकदेशो हेतुः स्यादित्याह -- <वस्तुत> इति । परमार्थसत्ता रूपेणाभेदस्तयोः । विकल्पविषयस्तु यत्समारोपितं रूपम् । तदपेक्षः साध्यसाधनभेदः । निश्चयापेक्ष एव हि गम्यगमकभावः । ततो निश्चयारुद्धरुपापेक्ष एव तयोर्भेदओ युक्तः वास्तवस्त्वभेद इति । न केवलात्तादात्म्यादपि तु ततः साध्यादर्थादुत्पत्तिर्लिङ्गस्य -- तदुत्पत्तेश्च साध्येऽर्थे स्वभावप्रतिबन्धो लिङ्गस्य ।



स्यादेतत्तादात्म्यं तावत्तयोरस्ति । तत्किं प्रतिबद्धत्वप्र्तिबन्धविषयत्वनिश्चयेन गम्यगमकत्वव्यवस्थानिबन्धनीकृतेनेत्याह -- निश्चयेति । हीति यस्मात् । तदपेक्षायामपि किमिति प्रयत्नानन्तरीयकत्वमेव गमकमित्याह -- प्रयत्नेति । चो यस्मादर्थे । यतस्तत्स्वभावं निशितमतोऽस्तोऽस्मात्तदेवाव्नित्यत्वे प्रतिबद्धमुच्यत इति शेषः । यतस्तादात्म्याविशेषेऽपि यत्पतिब्द्धतया निश्चितं तदेव गमकमितरद्गम्यं तस्मान्नियतः पतिनियतः प्रयत्नान्तरीयकमेव गमकम्, अनित्यत्व च गम्यमेवेत्येवंरूपो विषयो यस्य गम्यगमकभावस्य स तथा । एतदेव व्यतिरेकमुखेन द्रढयति नान्यथेति ॥

ननु च य एकस्यान्यत्र प्रतिबन्धस्तदायत्तत्वं स तावन्नाहेतुकः । कश्चासौ हेतुरित्यभिप्रेत्य प्रश्नयति -- कस्मादिति । निमित्तप्रश्नश्चैषः । <तादात्म्याद्>इति मौलमुत्तर व्याख्यातुमाह -- यत इति । तत्र साध्ये स्वभावेन प्रतिबन्धः प्रतिबद्धत्वं लिङ्गस्येति शेषः ।

प्रतिज्ञा साध्यनिर्देशः । तस्या अर्थो धर्मधर्मिसमुदायः । अत्र च साध्यसाधनयोरैकात्म्यस्य प्रतुतत्वात्साध्यलक्षणस्य प्रतिज्ञार्थस्य हेतुवमासक्तम् । ततश्च साध्यधर्मवत्साधनधर्मस्याप्यसिद्धिः । सिद्धौ वा हेतुवैयर्थ्यमिति भावः । यदि परमार्थतोऽभेदः, कथं तर्हि भेदनिबन्धनो गम्यगमकभाव इत्याह -- विकल्पेति । तुः पारमार्थिकादभेदाद्वैधर्म्यमाह । कोऽसौ विकल्पविषयः? यदि बाह्यस्तदा तदवस्थो दोष इत्याह -- यदिति । तमपेक्षत


[ध्प्र्प्.११४]

कस्मान्निमित्तद्वयात्स्वभावप्रतिबन्धो लिङ्गस्य नान्यस्मादित्याह --

अतत्स्वभावस्य अतदुत्पत्तेश्च तत्र अप्रतिबद्धस्वभावत्वात् इइ-२३

<अतत्स्वभावस्ये>ति । स स्वभावो अस्य सोऽयं <तत्स्वभावः> । न तत्स्वभावो <ऽतत्स्वभावः> । तस्मादुत्पत्तेरस्य सोऽयम् <तदुत्पत्तिः> । यो यत्स्वभावो यदुत्पत्तिश्च न भवति तस्य <अतत्स्वभावस्यातदुत्पत्तेश्च> । <तत्र> अतत्स्वभावे अनुत्पादके चाप्रतिबद्दः स्वभावोऽस्येति सोऽयम् <अप्रतिबद्धस्वभावः> । तस्य भावो <अप्रतिबद्धस्वभावत्वं> । तस्माद्<अप्रतिबद्धस्वभावत्वात्> । यद्यतत्स्वभावेऽनुत्पादके च कश्चित्प्रतिबद्धस्वभावो भवेद्, भवेदन्यतोऽपि निमित्तात्स्वभावप्रतिबन्धः । प्रतिबद्धस्वभावत्वं हि स्वभावप्रतिबन्धः । न चान्यः कश्चिदायत्तस्वभावः । तस्मात्तादात्म्यतदुत्पत्तिभ्यामेव स्वभावप्रतिबन्धः ।



इति तदपेक्षः । इदं साधनमिदं साध्यमिति साध्यसाधनरूपो भेदो नानात्वमित्यर्थः । यदि नाम कल्पनानिर्मितो भेदस्तथापि कथं गम्यगमकभाव इत्याह -- निश्चयेति । हिर्यस्मात् । निश्चयापेक्ष इति निश्चयविषयीकृतरूपापेक्ष इत्यर्थः । यत एवं ततस्तस्यात्तयोः साध्यसाधनयोर्भेदो नानात्वं युक्त्या सङ्गतो युक्तः । वस्तुनोऽकृत्रिमाद्रूपादागतो वास्तवः ।

स्यान्मतम् -- भेदेन कल्पितयोर्न तादात्म्यं गम्यगमकभावनिबन्धनमस्ति । वास्तवेन च रूपेणैकत्वान्न गम्यगमकभाव इति कथं स्वभावहेतोर्गमकत्वम्? नाहेतुत्वम् । यद्दर्शनद्वारायातावेतौ धर्मौ तथाप्रतीयमानौ तत्तावत्परमार्थतस्तदात्मकमित्येकस्य धर्मस्य धर्मान्तराव्यभिचारः । वास्तवं तदात्म्यगतं च यस्य गमकत्वं स स्वभावहेतुरुच्यत इति को विरोधः?

अयं प्रकरणार्थः -- न निश्चयस्थे समारोपिते रूपे समारोपितत्वेनाध्यवसीयमाने गम्यगमके किन् तु स्वलक्षणत्वेनाध्यवसीयमाने । तत्र तादात्म्यमस्ति । एतदुक्तं भवति -- आरोप्यमाणं रूपमारोपितभेद[४६ ]म् । आरोपितसदृशं च स्वलक्षणम् । तेनारोपितेन रूपेणानुगम्यमानं भिन्नमध्यवसीयते । तदवध्यवसितभेदनिबन्धनो गम्यगमकभावस्तस्य स्वतश्च तादात्म्यमिति

द्वितीयं प्रतिबन्धकारणं व्याख्यातुमाह -- न केवलादिति । चः साधारणं निमित्तं समुच्चनोति ॥

ननु च समवायादितोऽपि निमित्तात्प्रतिबन्धो नासम्भवी । तत्कथं तादात्म्यात्तदुत्पत्तेरेव च स उच्यते इत्यभिप्रायवान् पृच्छति -- कस्मादिति । अन्यनिमित्तस्यानभिधानान्निमित्तद्वयादित्याह ।

अतत्स्वभास्येत्यादि ब्रुवतश्चाचार्यस्यायमाशयः -- भवेदेवान्यतः सम्बन्धात्प्रतिबन्धो

[ध्प्र्प्.११५]

यदि समवायादिरन्यः सम्बन्धः प्रमाणबाधितो न भवेत् । न चासौ न बाध्यते । तत्कुतोऽसावसन्नस्य निमित्तं भवेति ।

समुदायार्थं व्याचष्टे -- यो यत्स्वभाव इति । <अप्रतिबद्धस्वभावत्वाद्>इति मूलस्य भावप्रत्ययं त्यक्त्वा विग्रहमाह -- अप्रतिबद्ध इति । तस्य भावस्तत्त्वम् । तस्मादिति तु योज्यम् । अमुमेवार्थं यदीत्यादिना स्फुटयति । कस्मात्पुनरन्यतो निमित्तान्न भवतीयाह -- प्रतिबद्धेति । हिर्यस्मात् । प्रतिबद्धस्वभावत्वमेवान्यस्यान्यत्र भ्वविष्यतीयाह -- न चेति । चोऽवधारणे हेतौ वा । अन्यस्य सम्बन्धस्याभावात्तादात्म्यतदुत्पत्त्यभावे चेति प्रकरणलभ्यं कृत्वा न चान्यः क्श्चिदायत्तस्वभाव इत्युक्तम् ।

ननु चासत्यपि तादात्म्ये तदुत्पत्तौ चान्यत्रास्वभावेऽनुत्पादके चान्यत्प्रतिबद्धं यथा -- आतपो वृक्षच्छायायाम् । तुलाया अर्वाग्भागनमनावनमने परभागोन्नमनावनमनयोः । अर्वाग्भागः परभागे । रसो रूपे । पाणिः पादयोः । अपतज्जलमाधारे । बलाका सलिले । नदीपूर उपरिवृत्तायां वृष्टौ । चन्द्रोदयः समुद्रवृद्धौ कुमुदविकासे च । कृत्तिकोदयो रोहिण्युदये । पिपिलिकोत्सरणं मत्स्यविकारश्च वृष्टौ । शरदि जलप्रसादोऽगस्त्योदये । विशिष्तो मेघो[द]यो वर्षकर्मणि । अद्यादित्योदयोऽस्तमये श्वस्तनोदये च । कुष्माण्डगुडकोऽन्तः स्थितबीजे । परिव्राजको दण्डे । सन्त्रस्तो नकुलः सर्पे । कियद्वा शक्यते निदर्शयितुम्? एतावत्तूच्यते -- यद्येनाविनाभूतं
दृश्यते तत्तत्र प्रतिबद्धम् । तस्य च लिङ्गम् । अत एव त्रीण्येव लिङ्गानीति संख्यानियमोऽप्ययुक्तः । केवलं लिङ्गस्य रूपाण्येव वक्तव्यानि । यद्दर्शनाथेतुत्वमसीयत इति ।

नैष दोषः । अमीषां मध्ये येषां प्रतिबन्धोऽस्ति तेषां तादात्म्यतदुत्पत्त्योरन्यतरं सम्भवाद्, येषु च तदभावस्तेषामप्रतिबन्धादगमकत्वात् । तथा हि वृक्षस्य छायायामेकसामग्र्यधीनतयैव प्रतिबन्धः । ततस्तत्प्रतिपत्तिः कार्यलिङ्गजैव । छाया हि प्रतिभासमानरूपसंस्थानवती शैत्याद्यर्थक्रियाकारिणी वस्त्वेव, न त्वेवालोकाभावः । सा च पूर्वस्मादालोलोपादानात्पूर्ववृक्षक्षणाद्वृक्षक्षणेन सार्धमुत्पद्यते । तथाऽर्वाग्भागनमनावनमने अपि तुलायाः परभागोन्नमनावनमनाभ्यामेव समं पुरुषप्रयत्नादेव तथाविधात्तदुपादानसह[४७ ]कारिण
उत्पद्येते । तथाऽर्वाग्भागपरभागयोरसरूपयोरप्येकसामग्र्यधीनतैव । पाणिस्त्वप्रतिबद्ध एव, व्यङ्गस्यापि सम्भवात् । अव्यभिचारे चैकसंसर्गाधीनतैव निबन्धनम् । तादृशं च जलमाधारस्य कार्यमेव, तादृशी च बलाका सलिकस्य । नदीपूरोऽपि तथाविध उपरिवृष्टेः । दृश्यादृश्यसमुदायश्च यथायोगं सर्वत्र धर्मी कर्त्तव्यः । नदीपूरे चान्योऽपि प्रकारो वक्तुं शक्यः । नदी धर्मिणी । उपरिवृष्टिमद्देशसंबन्धित्वमस्याः साध्यम् । तथाविधपूरत्वमात्रं हेतुः । एवं चन्द्रोदयसमुद्रवृद्धिकुमुदविकाशा(सा)नामप्येकसामग्र्यधीनतैव । एकस्मादेव महाभूतविशेषात्कालव्यवहारविषयादेतदुत्पादापेक्षिणस्तेषाम्
उत्पादात् । तथा य एव कृत्तिकोदयहेतुर्महाभूतविशेषः कालसंज्ञितः स एव कतिपयकालव्यवधानेन रोहिण्युदयहेतुरिति तद्दर्शनाधेतोस्तज्जननयोग्यताधर्मोऽनुमीयते एव । तथा पिपीलिकोत्सरणस्य मत्स्यविकारस्य च यो हेतुः स एव कतिपयकालव्यवधानेन वर्षकरणयोग्यस्ततः पूर्ववधेतुधर्मानुमानम्, रूपरसयोरिवैकसामग्र्यधीनतयैव वा तत्समकालिकवर्षणानुमानम् । तदा त्वश्रवणीयबहिःस्थितशब्दगर्भगृहादिव्यवस्थितोऽनुमाता प्रत्येतव्यः । तथा शरदादिजलप्रसादोऽगस्त्योदयस्य कार्यमेव । अथ जलप्रसादं दृष्ट्वोदेष्यतीत्यनुमीयते, तदा तस्मादेव महाभूतात्कालसंज्ञिताज्जलप्रसादः । स


[ध्प्र्प्.११६]

भवतु नाम तादात्म्यतदुत्पत्तिभ्यामेव स्वभावप्रतिबन्धः । कार्यस्वभावयोरेव तु गमकत्वं

कथमित्याह --

ते च तादात्म्यतदुपत्ती स्वभावकार्ययोरेव इति ताभ्यामेव वस्तुसिद्धिः इइ-२४

<ते चे>ति । <इति>ः तस्मादर्थे । यस्मात्स्वभावे कार्ये एव च <तादात्म्यतदुत्पत्ती> स्थिते तन्निबन्धनश्च गम्यगमकभावस्तस्मात्<ताभ्यामेव >कार्यस्वभाव्यां <वस्तुनो >विधेः <सिद्धिः >।

अथ प्रतिषेधसिद्धिर्दृश्यानुपलम्भादपि कस्मान्नेष्टेत्याह --

प्रतिषेधसिद्धिरपि यथोक्ता या एव अनुपलब्धेः इइ-२५

<प्रतिषेध>व्यवहारस्य <सिद्धिर्> <यथोक्ता या> <दृश्यानुपलब्धिस्>तत एव भवति यतस्तस्मादन्यतो नोक्ता ।

ततस्तावत्कस्माद्भवतीत्याह --

सति वस्तुनि तस्या असम्भवात् इइ-२६

<सति >तस्मिन् प्रतिष्ध्ये <वस्तुनि> यस्माद्दृश्यानुपलब्धिर्न सम्भवति तस्माद्<असम्भवात्>ततः प्रतिषेधसिद्धिः ॥



च कतिपयकालव्यवधानेन तदुदयनिमित्तमिति पूर्ववधेतुधर्मानुमानम् । मेघस्यापि तथाविधस्यात्यन्तायोग्यताव्यावृत्त्या वृष्टकरणायोग्यताऽनुमेया । न तु भाविवर्षव्यभिचारसम्भवात् । सा च स्वभावभूतैवानुमीयत इति तादात्म्यमेव निबन्धनम् । आदित्योदयस्य तु प्रभावातिशयवता योग्यादिना विबन्धसम्भवात्नास्त्येवाविनाभावः । अन्यथाद्य गर्दभदर्शनस्याप्यस्तमयश्वस्तनोदययोस्तथात्वं स्यात् । एवं तु युक्तम् -- अयमुदेता अस्तमयश्वस्तनोदययोग्य इति । तथा चोदयतथाविधयोग्यतयोस्तादात्म्यमेव निबन्धनम् । कुष्माण्डस्यापि बीजेनैकसामग्र्यधीनतैव । परिव्राजकनकुलौ दण्डसर्पयोरप्रतिबद्धावेव । अन्यथापि सम्भवात् । कियद्वा शक्यते परिहर्त्तुम्? एतावदुच्यते -- असति तादाम्ये तदुप्तत्तौ वा कस्यचित्क्वचित्प्रतिबन्धे ताद्रूप्येण च गमकत्वे सर्वं
सर्वत्र प्रतिबद्धं तद्गमकं प्रसज्येतेति ॥

कार्यस्वभावयोरेव तु गमकत्वं कथमिति ब्रुवतः पूर्वपक्षवादिनोऽयमाशयः -- तादात्म्यतदुपत्ती एवान्यस्य भविष्यतः, ततश्च गमकत्वमिति । कार्यस्वभावयोरिति द्वयो[रु]च्चारणे चायं तस्य भावः -- भवदिभरेवानुप्ललम्भोऽनयोरन्तर्भावित इति ॥

........................................... नुपलब्धिरित्युक्ते कुतोऽस्य पूर्वपक्षस्योत्थानम्? सत्यमेतत्, केवलं तदेवा ......................................... मित्यस्याप्यनुपलब्धेः

[ध्प्र्प्.११७]

अथ तत एव कस्मादित्याह --

अन्यथा च अनुपलब्धिलक्षणप्राप्तेषु देशकालस्वभावविप्रकृष्टेष्वर्थेष्वात्मप्रत्यक्षनिवृत्तेरभावनिश्चयाभावात् इइ-२७

<अन्यथा चे>ति । सति वस्तुनि तस्या अदृश्यानुपलब्धेः सम्भवादित्यन्यथाशब्दार्थः । एतस्मात्कारणात्नान्यस्या अनुपलब्धेः प्रतिषेधसिद्धिः ।

कुत एतद्-- सत्यपि वस्तुनि तस्याः सम्भव इत्याह -- <अनुपलब्धिलक्षणप्राप्तेष्व्> इत्यादि । इह प्रत्ययान्तरसाकल्यात्स्वभावविशेषाच्चोपलब्धिलक्षणप्राप्तोऽर्थ उक्तः । द्वयोरेकैकस्याप्यभावेऽनुपलब्धिलक्षणप्राप्तोऽर्थ उच्यते ।

तदिह्<आनुपलब्धिलक्षणप्राप्तेष्व्> इति प्रत्ययान्तरवैकल्यवन्त उक्तः । <देशकालस्वभाव>विप्रकृष्टेष्विति स्वभावविशेषरहिता उक्ताः । देशश्च कालश्च स्वभावश्च तैर्विप्रकृष्टा इति विग्रहः । तेष्वभावनिश्चयस्याभावात् । सत्यपि वस्तुनि तस्या भाव इष्टः ।

कस्मान्निश्चयाभाव इत्याह -- तेषु प्रत्पत्तुर्<आत्मनो> यत्<प्रत्यक्षम् >तस्य निवृत्तेः कारणात्<निश्चयाभावः >। यस्मादनुपलब्धिलक्षणप्राप्तेषु आत्मप्रत्यक्षनिवृत्तेरभावनिश्चयाभावः, तस्मात्सत्यपि वस्तुनि आत्मप्र्त्यक्षनिवृत्तिलक्षणाया अदृश्यानुपलब्धेः सम्भवः । ततो यथोक्ताया एव प्रतिषेधसिद्धिः ।



प्रतिषेधसम्भवादित्यभिप्रायेण पूर्वपक्षप्रवृत्तेरदोष एषः । प्रतिषेधशब्देन व्यवहारोऽभिप्रेत इति प्रतिषेधव्यवहार इति विवृतम् । मूले त्वपिशब्दः साध्यान्तरसमुच्चये । कासौ यथोक्तेत्याह येति ।

मूलसामर्थ्यस्थितमभिव्यनक्ति तस्मादन्यतोऽदृश्यस्यानुपलब्धेर्नोक्ता प्रतिषेधसिद्धिरिति प्रकृतेन सम्बन्धः ।

यद्यदृश्यानुपलब्धेर्न भवति तदानुपलब्धित्वाविशेषे विवक्षितायापि मा भूदित्यभिप्रेत्याह ततस्तावदिति । तस्मादसम्भवात्कारणात्तत इति तत एव दृश्यानुपलब्धेरिति विवक्षितमितरथा न्यस्यापि प्रतिषेधसिद्धिकथनप्रसङ्गात् ॥

ननु ततोऽप्यस्त्यन्यतोऽपि । कथं पुनस्तत एवेति नियमो लभ्यते इत्यभिप्रायवानाह अथेति । अथशब्दः प्रश्ने । अन्यथा चेत्युत्तरं व्याचक्षाण इहैव च्छेदं दर्शयति चशब्दञ्च यस्मादर्थे । दृश्यानुपलब्धेरुक्तात्प्रकाराददृश्यानुपलब्धेरन्यप्रकारत्वमन्यथात्वं विवक्षितम् <आचार्य>स्येति


[ध्प्र्प्.११८]

अथेयं दृश्यानुपलब्धिः कस्मान् काले प्रमाणम्, किंस्वभावा, किंव्यापारा चेत्याह --

अमूढस्मृतिसंस्कारस्यातीतस्य वर्त्तमानस्य च प्रतिपत्तृप्रत्यक्षस्य निवृत्तिर्[४७]अभावव्यवहारप्रवर्त्तनी[४८] इइ-२८


__________टिप्पणी__________

[४७] निवृत्तिरनुपलब्धिर्च्द्
[४८] -हारसाधनी ब्च्द्फेन्
___________________________



<अमूढेत्यादि>[४९] । <प्रतिपत्तुः प्रत्यक्षो> घटादिरर्थः, तस्य <निवृत्तिर्> अनुपलब्धिः तदभावस्वभावेति यावत् । अत एवाभावो न साध्यः स्वभावानुपलब्धेः सिद्धत्वात् ।[५०]अविद्यमानोऽपि च[५१]घटादिरेकज्ञानसंसर्गिणि भूतले[५२]भासमाने समग्रसामग्रीको ज्ञायमानो दृश्तया[५३]सम्भावितत्वात्प्रत्यक्ष उक्तः । अत एकज्ञानसंसर्गी[५४]दृश्यमानोऽर्थस्तज्ज्ञानं च प्रत्यक्षनिवृत्तिरुच्यते । ततो हि दृश्यमानादर्थात्तद्बुद्धेश्च समग्रदर्शनसामग्रीकत्वेन प्रत्यक्षतया सम्भावितस्य निवृत्तिरवसीयते । तस्मादर्थज्ञाने एव प्रत्यक्षस्य घटस्याभाव उच्यते । न तु निवृत्तिमात्रमिहाभावः निवृत्तिमात्राद्दृश्यनिवृत्त्यनिश्चयात् ।


__________टिप्पणी__________

[४९] अमूढेति अपे अमूढेत्यादि; ओम्. ह्न्.
[५०] यथा च प्रतिपत्तृप्रत्यक्षनिवृत्त्रनुपलब्धिः प्रदेशस्तज्ज्ञानं चोच्यते तथा अविद्यमानोऽपीत्यादिना दर्शयाति -- टि-
[५१] च ओम्. च्
[५२] भूतले ओम्. अएप्
[५३] दृश्यमानतया ब्ध्न्
[५४] एकज्ञानसंसर्गात्-- ब्
___________________________








दर्शयन्नाह सतीति । एतस्मात्सति वस्तुनि तत्सम्भवात् । मूले त्वन्यथा चानुपलब्धिलक्षणप्राप्तेष्वित्येकवाक्यतयैवार्थः सङ्गच्छते । ना यशब्दार्थव्याख्या, नाप्युत्तरपदव्याख्याने पूर्वपक्षवचना(न)प्रयासः कश्चित् । तथा तु न प्रक्रान्तं <धर्मोत्तरेणे>ति किमत्र कुर्मः? कुत एतदिति सामान्येनोक्त्वा विशेषनिष्ठं करोति सत्यपीति । एतच्च विग्रह इत्यन्तं सुगमम् ।

तेष्वनुपलब्धिलक्षणप्राप्तेष्वभावनिश्चयाभावात् । सत्यपि वस्तुनि अस्यानुपलब्धेर्भाव इष्टः । अनेनैतदाह -- नास्माकमत्र प्रमाणमस्ति यत्सत्येव वस्तुनि सा भवतीति । किन् तु तस्यां सत्यामपि यस्मात्प्रत्ययो दोलायते तस्मादेवमुच्यत इति ।

सम्प्रति निश्चयाभावस्यावधिं प्रयेषमाण आह कस्मात्सकाशादिति । परप्रत्यक्षनिवृत्तेरशक्यनिश्चयत्वे तन्निवृत्त्यर्थमात्मप्रत्यक्षग्रहणम् । ननु यद्ययमपादानप्रश्नो न तु हेतुप्रश्नस्तदा कथमिदमाह तस्य निवृत्तेः कारणान्निश्चयाभाव इति चेत् । न । अन्यार्थत्वात्कारणशब्दस्य । निश्चयाभावस्य शब्देन न्यायेन जायमानस्यैषा प्रकृतिः कारणम् । "जनिकर्तुः प्रकृतिः" [पाणिनि १.४.३०] इत्यनेन लब्धापादानसंज्ञकादस्मादित्यर्थस्य विवक्षितत्वात् । अन्यथा त्वसमञ्जसं स्यात् । यस्मादित्यादिनोक्तमर्थमुपसंहरति । एतच्च प्रतिषेधसिद्धिरित्येतदन्तं सुगमम् ॥

सम्प्रत्यनुपलब्धेरनुमानज्ञानहेतुत्वात्प्रामाण्यं स्वभावविशेषो व्यापारश्चोक्तोऽपि कालपुरुषविशेषपरिग्रहणेन वक्तुमथेत्यादिना प्रश्नपूर्वमुपक्रमते । अथशब्द आरम्भे पूर्ववत् ।


[ध्प्र्प्.११९]

ननु च दृश्यनिवृत्तिरवसीयते दृश्यानुपलम्भात् । सत्यमेवैतत् । केवलमेकज्ञानसंसर्गिणि दृश्यमाने घटो यदि भवेद्दृश्य एव भवेदिति दृश्यः सम्भावितः । ततो दृश्यानुपलब्धिर्निश्चिता । दृश्यानुपलब्धिनिश्चयसामर्थ्याद्[५५]
एव च[५६]दृश्याभावो निश्चितः । यदि हि दृश्यस्तत्र भवेद्दृश्यानुपलम्भो न भवेत् । अतो दृश्यानुपलम्भनिश्चयाद्दृश्याभावः सामर्थ्यादवसितः न[५७]व्यवहृत इति दृश्यानुपलम्भेन व्यवहर्त्तव्यः । तस्मादर्थानत्रमेकज्ञानसंसर्गि दृश्यमानं तज्ज्ञानं च प्रत्यक्षनिवृत्तिनिश्चयहेतुत्वात्प्रत्यक्षनिवृत्तिरुक्तं द्रष्टव्यम् ।


__________टिप्पणी__________

[५५] -अनुपलम्भ- च्द्
[५६] च ओम्. ए
[५७] न तु व्यव- अफेन्
___________________________






प्रत्यक्षपरिच्छेद्यत्वात्प्रत्यक्षो घटादिः । निवृत्तिशब्देन्<आचार्यस्या>नुपलब्धिर्विवक्षितेति दर्शयति तस्य निवृत्तिरनुपलब्धिरिति । अनुपलब्धिशब्देनापि विवक्षितकर्तृकर्मधर्मोपलब्धिपर्युदासेनान्यदेकज्ञानसंसर्गि वस्तु तज्ज्ञानं च विवक्षितम् । एतदेव स्पष्टयति तदभावस्वभावेति यावदिति । तस्य प्रतिषेध्यस्य घटादेरभावो विशिष्टो भावस्तत्स्वभावा । तदभावस्वभावशब्देन यावानर्थ उक्त तदनुपलब्धिशब्देनापीति इति यावदित्यस्यार्थः । यतोऽन्योपलब्धिरेव तदनुपलब्धिः । सैव च तदभावो नान्योऽत एवास्मादेव कारणादभावो घटादेर्न साध्यः । कुतो न साध्य इति स्वभावानुपलब्धेर्लिङ्गात् । कुतो न साध्य इत्याह
सिद्धत्वात्निश्चितत्वाद्घटाभावस्येति प्रकरणात् ।

एवं मन्यते -- तदेकज्जानसंसर्गि वस्तु तज्ज्ञानं च घटाद्यनुपलब्धिस्तदभावश्च । तच्चेन्द्रियजेन प्रत्यक्षेण स्वसंवेदनेन च सिद्धमिति न लिङ्गादभावः साध्यत इति । नन्वविद्यमानो घटादिः कथं प्रत्यक्षः ? अथ प्रत्यक्षः, कथं तदनुपलब्धिरुच्यत इत्याह अविद्यमानोऽपि चेति । न केवलं विद्यमानः प्रत्यक्ष उच्यते इत्यपिशब्दः । [समग्रा समस्ता सामग्री] कारणकलापो यस्येति विग्रहः । शेषाद्विभाषा [पाणिनि ५.४.१५४] इति कप् । न कपि [पाणिनि ७.४.१४] इति ह्रस्वत्वप्रतिषेधः । ज्ञायमानो निश्चीयमानो [घटादिरेकज्ञान]संसर्गिणि
प्र ... तदनुपलब्धेरेवेत्यवधारणीयम् । प्रत्यक्षनिवृत्तिर्घटाद्यनुपलब्धिः । कस्मात्तु द्वयं तथोच्यत इत्याह ततो हीति । हीति यस्मात् । यस्मादमू एव दृश्यघटादितुच्छरूपनिवृत्त्यवसेयहेतू तस्मात्करणात् । अर्थ एकज्ञानसंसर्गिवस्त्वन्तरम्, ज्ञानं च तस्यैव । एतदेव व्यतिरेकमुखेण द्रढयति न त्विति । निवृत्तिमात्रमुपलब्ध्यभावमात्रम् । तस्य तथात्वे को दोष इत्याह निवृत्तिमात्रादिति । दृश्यनिवृत्त्यनिश्चयाद्दृश्याभावनिश्चयात् ।

इह निवृत्तिमात्रस्य प्रसज्यप्रतिषेधात्मनो निश्चेतुमशक्यत्वान्न हेतुत्वं युज्यत इति <धर्मोत्तरस्या>शयो निवृत्तिमात्राद्दृश्यनिवृत्त्यनिश्चयादिति ब्रुवतः । पूर्वपक्षवादिना त्वेवं ज्ञातं निवृत्तिमात्रान्निर्विशेषणादयमेवं प्रतिषेधति । तदहं सविशेषणं निवृत्तिमात्रमेव दर्शयामीति प्रमोदमान आह ननु चेति । दृश्यनिवृत्तिर्दृश्याभावः । दृश्यानुपलम्भादित्यत्रानुपलम्भशब्देनोपलम्भाभावमात्रं विवक्षितमितरथा पूर्वपक्षवादिनः प्रकृतं हीयेत । अनेन सविशेषणमेवोपलम्भाभावमात्रं प्रसज्यप्रतिषेधरूपं


[ध्प्र्प्.१२०]

यथा चैकज्ञानसंसर्गिणि प्रत्यक्षे घटस्य प्रत्यक्षत्वमारोपितमसतोऽपि तथा तस्मिन्नेकज्ञानसंसर्गिण्यतीते चामूढस्मृतिसंस्कारे वर्त्तमाने च घटस्य[५८]तत्तद्रूपम्[५९]आरोपितमसत इति द्रष्टव्यम् । अनेन च[६०]दृश्यानुपलब्धिः प्रत्यक्षघटनिवृत्तिस्वभावोक्ता । सा च सिद्धा । तेन न[६१]घटाभावः साध्यः अपि तु अभावव्यवहार इत्युक्तम् ।


__________टिप्पणी__________

[५८] अतीते वर्त्तमाने चामूढस्मृतिसंस्कारे च घटस्य
[५९] तद्रूपमब्फेन्
[६०] च ओम्. -- अनेन दृश्या अब्फे
[६१] न ओम्. -- तेन घटा --ब्
___________________________







लिङ्गमस्तु, न तु नञः पर्युदासवृत्त्या तदेकज्ञानसंसर्गि वस्तु, तज्ज्ञानं चेति पूर्वपक्षवादी दर्शयति । सत्यमित्यादिना प्रतिविधत्ते । किन् त्वेकज्ञानसंसर्गिणि भूतलादौ दृश्यमाने सति दृश्यः सम्भावित आरोपितः स प्रतिषेध्य इति प्रकरणात् । ततो दृश्यत्वसमारोपात्दृश्यानुपलब्धिर्दृश्यज्ञानाभावस्तुच्छरूपो व्यवहर्तव्यमात्रं निश्चिता भवति । निश्चीयतामुपलब्ध्यभावो ज्ञेयाभावस्तावन्न निश्चित इति तन्निश्चयार्थं निवृत्तिमात्रं व्यापरिष्यत इत्याह दृश्येति । दृश्यज्ञानाभावनिश्चयसामर्थ्यादन्यथानुपपत्तेः । चो हेतौ । दृश्यस्य ज्ञेयस्याभावो व्यवहर्तव्यैकरूपः । सामर्थ्यमेव यदीत्यादिना दर्शयति । हिर्यस्मादर्थे ।
दृश्यानुपलम्भ इति दृश्योपलम्भाभाव इत्यर्थः । अतोऽस्माद्दृश्यानुपलम्भनिश्चयात् । दृश्यस्य ज्ञेयस्याभाव उक्तात्सामर्थ्यादवसितः । दृश्योपलम्भाभावनिश्चयस्त्वेकज्ञानसंसर्गिवस्त्वन्तरोपलम्भेनेति द्रष्टव्यम् ।

ननु यदि ज्ञेयाभावोऽप्यवसितस्तर्हि कथं लिङ्गेन साध्यत इत्याह न व्यवहृत इति । अदृष्टानामपि सत्त्वशङ्कया न प्रत्यक्षं व्यवहारयितुं शक्नोतीति भावः । केन तर्हि व्यवह्रियत इत्याह दृश्यानुपलम्भेन लिङ्गभूतेन । ......भावव्यवहार एव ........ ज्ञानं चेति । चकारस्तुल्यकक्षतां दर्शयति । द्वयोश्च निवृत्तिनिश्चयहेतुत्वम्; ज्ञानमन्तरेण यस्मादयं केवलः प्रदेशस्तस्मात्घटादिर्नास्तीत्यध्यवसातुमशक्यत्वात्; तथा विषयमन्तरेण यस्मात्केवलप्रदेशापरोक्षीकरणं तस्मात्तज्ज्ञानं नास्ति इति निश्चेतुमशक्यत्वादिति द्रष्टव्यम् । प्रत्यक्षस्य घटादेर्निवृत्तिनिश्चयहेतुत्वात्प्रत्यक्षनिवृत्ति[रुक्तं
द्रश्तव्यम्] ।

ननु च प्रतिषेध्यस्य घटादेरसतोऽपि तथास्तु प्रत्यक्षत्वम् । यत्पुनस्तत्र नासीदेव तस्य कथमतीतत्वम्; यच्च तत्र नास्त्येव तस्य कथं वर्त्तमानत्वम्, कथं च तत्रानुपलब्धेर्व्यापार इत्याशङ्कामुपाकुर्वन्नाह -- यथेति । येन प्रकारेण घटो यदि भवेद्दृश्य एव भवेदित्येवंरूपेण । चो हेतौ । तस्मिन्नेकज्ञानसंसर्गिण्यतीतेऽमूढस्मृतिसंस्कारे । चो वक्तव्यान्तरसमुच्चये । वर्त्तमाने च । समुच्चये चकारः । तथा तेन प्रकारेण यदि तत्र पूर्वं घटः स्थितो यदि स्यात्, उपलब्धः स्यात्; न चोपलभ्यते इत्येवमात्मना घटस्यारोपात्प्रत्यक्षस्य तदानीमसतस्तद्रूपमतीतत्वं वर्त्तमानत्वञ्चारोपितमारोपसिद्धमितिरेवं
द्रष्टव्याकारं दर्शयति । द्रष्टव्यं ज्ञातव्यमिति योजनीयमिदम् ।




[ध्प्र्प्.१२१]

<अमूढो>ऽभ्रष्टो दर्शनाहितः <स्मृति>जननरूपः <संस्कारो> यस्मिन् घटादौ स तथोक्तः । तस्य <अतीतस्य> प्रतिपत्तृप्रत्यक्षस्येति सम्बन्धः । <वर्त्तमानस्य च> प्रतिपत्तृप्रत्यक्षस्येति सम्बन्धः । <अमूढस्मृतिसंस्कार>ग्रहणं तु न वर्त्तमानविशेषणम् । यस्मादतीते घटविविक्तप्रदेशदर्शने स्मृतिसंस्कारो मूढो दृश्यघटानुपलम्भे दृश्ये च घटे मूढो भवति । वर्त्तमाने तु[६२]घटरहितप्रदेशदर्शने न स्मृतिसंस्कारमोहः । अत एव न घटाभावे नापि घटानुपलम्भे मोहः । तस्मान्[६३]न वर्त्तमाननिषेध्यविशेषणममूढस्मृतिसंस्कारग्रहणम्
स्मृतिसंस्कारव्यभिचाराभावाद्[६४]वर्त्तमानस्यार्थस्य । अत एव <वर्त्तमानस्य चे>ति <च>शब्दः कृतः विशेषणरहितस्य वर्त्तमानस्य विशेषणवतातीतेन समुच्चयो यथा विज्ञायेतेति[६५]।


__________टिप्पणी__________

[६२] वर्त्तमाने च घट अब्फेन्
[६३] अत एव न घटानुपलम्भे नापि घटे मोहः -- अच्द्फेन्. अत एव न घटानुपलम्भे नापि घटे मोहः -- ब्
[६४] -ग्रहणं व्यभिचार- -- च्.
[६५] इति ओम्. -- विज्ञायेतेति । तद्-- ब्.
___________________________





तदयमर्थः अतीतोऽनुपलम्भः स्फुटः[६६]स्मर्यमाणः प्रमाणं वर्त्तमानश्च । ततो ’नासीदिह घटः अनुपलब्धत्वात्ऽ ’नास्ति अनुपलभ्यमानत्वात्ऽ इति शक्यं ज्ञातुम् । ’न तु न भविष्यत्यत्र घटः अनुपलप्स्यमानत्वात्ऽ इति[६७]शक्यं ज्ञातुम्[६८]। अनागताया अनुपलब्धेः सत्त्वसन्देहादिति कालविशेषोऽनुपलब्धेर्व्याख्यातः ।


__________टिप्पणी__________

[६६] स्फुटं -- ब्फेन्.
[६७] अनुपलभ्यमानत्वात्-- अ
[६८] ज्ञातुं शक्यम् -- च्
___________________________






ननु दृश्यानुपलब्धिः कस्मिङ्काले प्रमाणं किंस्वभावा किंव्यापारा चेति त्रितयं पृष्ट <आचार्यस्> तत्रानेन किमाख्यातम् <आचार्येणे>त्याशङ्कामपाकुर्वन्नाह अनेनेति । अनेन <प्रतिपत्तृप्रत्यक्षस्य निवृत्तिर्> इति वचनेन । चोऽवधारणे । स्वभावस्ये (-भावे)त्यस्यानन्तरं द्रष्टव्यः । प्रत्यक्षस्य घटस्य । प्रसज्यप्रतिषेधलक्षणनिवृत्तिनिश्चयहेतुत्वात्प्रत्यक्षघटनिवृत्तिः प्रत्यक्षघटानुपलब्धिः । नञः पर्युदासवृत्त्या । तदेकज्ञानसंसर्गि वस्तु तज्ज्ञानं च द्वयं स्वभावो रूपं यस्या दृश्यानुपलब्धेः सा तथोक्ता
व्याख्यातेति शेषः ।

ननु दृश्यानुपलब्धिरूपं लिङ्गमस्तु पर्युदासरूपम्, साध्यस्तु प्रसज्यप्रतिषेधरूपः किं न भवतीत्याह सेति । चो यस्मात् । सा तथाविधानुपलब्धि .............. उक्तमाचार्येण साभावव्यवहारप्रवर्तनीत्यनेन शब्देनेति भावः । धर्मोत्तरेण चात एव अभावो न साध्य इत्यनेन ।

घटविविक्तप्रदेश[४९ ]दर्शनेनाहित आरोपितः संस्कारो विशिष्टशक्तियुक्तविज्ञानात्मिका वासना, न तु पराभिमतो भावनाख्यः । अनुरूपस्मरणं जनयितुमनीशानो मूढ इति व्यपदिश्यते । दृश्यघटानुपलम्भे दृश्यस्य घटस्योपलब्ध्यभावे तुच्छरूपे । अत एव च दृश्ये घटे । अमूढस्मृतिसंस्कारग्रहणं कस्मान्न वर्त्तमानविशेषणमित्याह वर्त्तमाने त्विति । तुरतीताद्वर्तमानस्य वैधर्म्यमाह । अतो मोहाभावान्न घटाभावे व्यवहर्तव्यैकरूपे । नापि घटानुपलम्भे घटोपलब्ध्यभावे तुच्छरूपे । प्रत्यक्षवदारोपाद्वर्तमानस्यार्थस्य घटादेः । अत एव वर्तमानग्रहणस्य निर्विशेषणत्वादेव ।


[ध्प्र्प्.१२२]

व्यापारं दर्शयति । अभावस्य व्यवहारः नास्तीत्येवमाकारं ज्ञानं शब्दश्चैवमाकारः निःशङ्कं गमनागमनलक्षणा[६९]च प्रवृत्तिः कायिकोऽभावव्यवहारः । घटाभावे हि ज्ञाते निःशङ्कं गन्तुमागन्तुं च प्रवर्तते ।


__________टिप्पणी__________

[६९] निःशङ्कगमनागमलक्षणा -- द्ब्; निःशाङ्का गमनागमनयो (?) लक्षणा -- च्.
___________________________


तदेतस्य[७०]त्रिविधस्याप्य्<अभावव्यवहार>स्य[७१]दृश्यानुपलब्धिः <प्रवर्त्तनी>[७२]साधनी प्रवर्त्तिका ।


__________टिप्पणी__________

[७०] तदेवमस्य-- च्द्; तदेवमेतस्य, तदेव तस्य -- ब्.
[७१] अप्यभावस्य व्यवहारस्य] -- च्.
[७२] [प्रवर्त्तनी ओम्. अब्च्द्फेन्.
___________________________




यद्यपि च नास्ति घटः इति ज्ञानमनुपलब्धेरेव भवति अयमेव चाभावनिश्चयः तथापि यस्मात्प्रत्यक्षेण केवलः प्रदेश उपलब्धस्तस्मातिह घटो नास्तीत्येवं च[७३]प्रत्यक्षव्यापारमनुसरत्यभावनिश्चयः तस्मात्प्रत्यक्षस्य केवलप्रदेशग्रहणव्यापारानुसार्यभावनिश्चयः प्रत्यक्षकृतः ।


__________टिप्पणी__________

[७३] च ओम्. -- च्.
___________________________




ननु यथा विकल्पेन विषयीक्रियमाणोऽतीतोऽनुपलम्भः प्रमाणमुच्यते तथा विकल्पस्याव्याहतप्रसरत्वादनागतोऽप्यनुपलम्भो विकल्प्यमानः किं न तथा प्रमाणमित्याह तदयमिति । यस्मात्केवलप्रदेशदर्शनाहितः संस्कारोऽतीते घटादावमूढो गृह्यते, वर्तमाने तु तस्मिन् स्मृतिसंस्कारे मोहो न सम्भवत्येव तत्तस्मादयं तात्पर्यार्थः । अनुपलम्भनिश्चयहेतुत्वादनुपलम्भः केवलप्रदेशादिः स्फुटो यथासौ केवलोऽनुभूतस्तथा स्मृत्वा विषयीक्रियमाणः प्रमाणम् । वर्तमानश्च तादृगनुपलम्भः स्फुटोऽभ्रान्तेन ज्ञानेन गृह्यमाण इति द्रष्टव्यम् । यत ईदृशोऽनुपलम्भः प्रमाणं ततस्तस्मात् ।
कुतो न शक्यते ज्ञातुमित्याहानागताया इति । तथात्वेन निश्चितो हि हेतुर्गमकोऽन्यथा सन्दिग्धासिद्धता हेतुदोषः स्यादित्यभिप्रायः । प्रत्यक्षनिवृत्तिशब्देन तावद्दृश्यानुपलब्धेः स्वभावो दर्शितोऽमूढेत्यादिना तु किं दर्शितमित्याह कालेति । [इतरेवमर्थेते] नैवं कालविशेषोऽनुपलब्धेर्व्याख्यात इति । कालविशेषोऽतीतो वर्त्तमानश्च व्याख्यातः कथितो नेनेति शेषः । एतच्चातीते वर्त्तमाने च कालेऽनुपलब्धेः प्रमाणाख्यानमस्योपलक्षणं द्रष्टव्यम्, कार्यस्वभावहेत्वोरपि तयोः कालयोः प्रामाण्यात् । तथा ह्यासीदत्र वह्निर्धूमस्योपलब्धत्वात् । अस्ति वह्निरिह धूमस्योपलभ्यमानत्वात् । तथासीद्
इह पादपः शिंशपाया उपलब्धत्वात् । अस्तीह वृक्षः शिंशपाया उपलभ्यमानत्वादित्यपि भवत्येव ।

ननु दृश्यानुपलम्भे भवतु ज्ञानाभिधानलक्षणो व्यवहारः । कायिकस्तु कथमित्याह घटेति । हिर्यस्मात् । प्रवर्तत इति योग्यतयोच्यते । प्रवृत्तियोग्यस्तावद्भवतीति । अत एव चाभावयोग्यता साध्योच्यते । तदेतस्येति लोकोक्तिरेषा । तच्चैतच्चेति विग्रहः कार्यः । यद्वा यतोऽभावनिश्चयो नुपलब्धिनिमित्तकस्तत्तस्मात् । अपिरतिशये । आस्तामेकस्य द्वयोर्वा प्रवर्तनी, त्रिविधस्य यावत्प्रवर्तनीत्यर्थः । प्रवर्तनीत्यस्य द्वयमेतद्विवरणं स्पष्टार्थं साधनी प्रवर्त्तिकेति प्रवर्तयतीति प्रवर्तनीति योग्यतयोक्तम् । साभावत्रितयमभावव्यवहारं प्रवर्तयितुं योग्या तावन्मात्रनिमित्तकत्वात्तस्य । सत्यर्थित्वे पुरुषस्तान् व्यवहारानाचरतु मा वा । अत एवाभावव्यवहारयोग्यता
प्रदेशादेः साध्यते दृश्यानुपलम्भेनेति परमार्थः ।


[ध्प्र्प्.१२३]

किञ्च । दृश्यानुपलम्भनिश्चयकरणसामर्थ्यादेव पूर्वोक्तया नीत्या प्रत्यक्षेणैवाभावो निश्चितः । केवलमदृष्टानामपि सत्त्वसम्भवात्सत्त्वशङ्कया न असत्त्वं[७४]व्यवहर्त्तुम् । अतोऽनुपलम्भोऽभावं[७५]व्यवहारयति दृश्यो यतोऽनुपलम्भः तस्मान्नास्तीति । अतो दृश्यानुपलम्भो ओऽभावज्ञानं कृतं प्रवर्त्तयति न तु अकृतं करोतीत्य्[७६]अभावनिश्चयोऽनुपलम्भात्प्रवृत्तोऽपि प्रत्यक्षेण कृतोऽनुपलम्भेन प्रवर्त्तित उक्त इत्यभावव्यवहारप्रवर्त्तन्यनुपलब्धिः[७७]॥ कस्मात्पुनरतीते वर्त्तमान चानुपलब्धिर्गमिकेत्याह


__________टिप्पणी__________

[७४] शक्नोत्यभावं -- च्
[७५] [ऽभावमोम्. -- अ
[७६] इति ओम्. -- च्.
[७७] अभावव्यवहारे प्रवर्त्तन्यनुपलब्धिः -- च्; प्रवर्त्तन्युपलब्धिः -- अ; प्रवर्तिन्युपलब्धिः -- फ्. प्रवर्तिन्यनुपलब्धिः -- ब्.
___________________________





तस्या एवाभावनिश्चयात् इइ-२९

<तस्या एव> यथोक्तकालाया अनुपलब्धेर्<अभावनिश्चयात्> । अनागता ह्यनुपलब्धिः स्वयमेव सन्दिग्धस्वभावा । तस्या असिद्धाया नाऽभावनिश्चयोऽपि त्वतीतवर्त्तमानाया इति ॥



ननु यदि नास्तीत्येवमाकारं ज्ञानमनुपलब्धेर्लिङ्गाद्भवति, कथं तर्हि प्रत्यक्षावसितोऽभाव उक्त इत्याह -- यद्यपि चेति निपातसमुदायो यद्यपिशब्दवद्विशेषाभिधाननिमित्ताभ्युपगमे वर्त्तते । अभावनिश्चयशब्दसामानाधिकरण्यादयमेवेति निर्देशः । चशब्दो वक्तव्यमेतदित्यस्यार्थे त्र वर्त्तते ।


अभावनिश्चयस्य तदा स्थैर्यलाभादनुपलम्भादेवेत्युक्तं द्रष्टव्यम् । तथापीति लौकिकोक्तिरियं निगदाभिधानारम्भे । तस्माच्छब्देन यस्माच्छब्द आक्षिप्तः । तेनायमर्थः । यस्मात्केवलप्रदेशग्रहणलक्षणव्यापारानुसारी घटो नास्तीत्यभावनिश्चयः तस्मात्प्रत्यक्षकृत उच्यत इति शेषः । कस्य व्यापारानुसारीत्याकाङ्क्षायामुक्तम् -- प्रत्यक्षस्य प्रमाणविशेषस्येति ।

अथ स्याद्-- यद्ययं प्रत्यक्षकृतस्तदा प्रत्यक्षप्रवर्त्तितोऽपि । तत्किं दृश्यानुपलम्भेन क्रियत इत्याशङ्क्याह -- किञ्चेति वक्तव्यान्तरसमुच्चये । तद्विविक्तप्रदेशादिग्राहिणा प्रत्यक्षेणाइवाभावो निषेध्याभावः प्रसज्यप्रतिषेधात्मा निश्चितः । कथं? दृश्यस्यानुपलम्भ उपलम्भाभावस्तुच्छरूपस्तन्निश्चयकरणसामर्थ्यादन्यथानुपपत्तेः । पूर्वोक्तया नीत्या युक्त्या यदि हि दृश्यस्तत्र भवेत्, दृश्यानुपलम्भो न भवेदित्येवमात्मिकया । यदि प्रत्यक्षमित्थं प्रतिषेध्याभावं निश्चाययति, व्यवहारयितुमपि शक्नोत्येवेत्याह -- केवलं किन् तु न शक्नोति व्यवहर्तुमित्यन्तर्भूतणिजार्थत्वान्निर्देशस्य व्यवहारयितुमित्यर्थः
। कुतो न शक्नोतीत्याह -- सत्त्वशङ्कयेति प्रतिषेध्यसत्त्वस्य स्वरूपस्य सत्त्वशङ्कया सन्देहेन हेतुना । नन्वदर्शनेऽपि कथं सन्देह इत्याह -- अदृष्टेति । तेन प्रत्यक्षेणादृष्टानामपि पिशाचादीनां सत्त्वस्य सद्भावस्य सम्भवात्सम्भाव्यमानत्वात्नित्यं शङ्क्यमानानुपलम्भव्यभिचारो ह्यभाव इति भावः । अतः प्रत्यक्षस्य तत्राशक्तत्वात्सापि कथं व्यवहारयतीत्याह -- दृश्य इति । अतोऽस्मात्कारणात्कृतं प्रत्यक्षेणेति प्रकरणात् । एतदेव व्यतिरेकमुखेण द्रढयति -- न त्विति । यस्मात्प्रत्यक्षव्यापारानुसार्यभावनिश्चय इतिस्तस्मात् । अभावनिश्चयो


[ध्प्र्प्.१२४]

सम्प्रत्यनुपलब्धेः प्रकारभेदं दर्शयितुमाह --

सा च प्रयोगभेदादेकादशप्रकारा इइ-३०

<सा च >एषानुपलब्धिः <एकादशप्रकारा> -- एकादश प्रकारा अस्या[७८]इत्येकादशप्रकारा । कुतह्प्रकारभेदः ? प्रयोगभेदात् । प्रयोगः प्रयुक्तिः शब्दस्याभिधाव्यापार[७९]उच्यते । शब्दो हि साक्षात्क्वचिदर्थान्तराभिधायी, क्वचित्प्रतिषेधान्तराभिधायी । सर्वत्रैव तु दृश्यानुपलब्धिरशब्दोपात्तापि गम्यत इति वाचकव्यापारभेदादनुपलम्भप्रकारभेदो न तु स्वरूपभेदादिति यावत् ॥


__________टिप्पणी__________

[७८] -धिः <एकादशप्रकारा> अस्या -- अपे.
[७९] अभिधानव्या- -- अब्च्द्फेन्.
___________________________



प्रकारभेदानाह --

स्वभावानुपलब्धिर्यथा -- नात्र धूम उपलब्धिलक्षणप्राप्तस्यानुपलब्धेरिति इइ-३१

नुपलम्भात्प्रवृत्तोऽपि दृढीभूतोऽपि प्रत्यक्षेण केवलप्रदेशादिवेदिना सामर्थ्यात्कृत उत्पादितोऽनुपलम्भेन दृश्यानुपलम्भेन प्रवर्तितः साधित उक्त आचार्येणाभावव्यवहारप्रवर्तनीत्यनेन शब्देनेति बुद्धिस्थम् । इतीत्यादिनोपसंहारः । इतिरेवमुक्तेन क्रमेणानुपलब्धिर्दृश्यानुपलब्धिस्तस्या एव प्रकृतत्वात् ।

कस्मादित्यादि वर्तमानाया इत्यन्तं सुगमम् । अनागताया अप्यनुपलब्धेरभावनिश्चयः कस्मान्न भवतीत्याह -- अनागतेति । हिर्यस्मादर्थे । तस्या इति पञ्चम्यन्तमिदम् । अयमेव च सामर्थ्यावसितो मौलो[र्थोऽनागता हि] इत्यादिना धर्मोत्तरेण ....काङ्क्षोपशमार्थं पुरस्तादुक्तः । स्यादेतत्-- प्रतिषेधसिद्धिर्{न्बिइ २५} इत्यादिना निश्चयाभावाद्{न्बिइ २७} इत्यन्तेन ग्रन्थेनास्यार्थस्य गतत्वात्तस्या एवाभावनिश्चयाद्{न्बिइ २९} इत्ययमाचार्यीयो ग्रन्थः पुनरुक्त इति । न पुनरुक्तः । यतो यथातीतेऽपि काले घटादेस्तत्कालवर्तिदृश्यानुपलब्धेरतीतायाः स्मृत्यारूढाया स्व(अ)भावनिश्चयस्तथानगतेऽपि काले घटादेरभावनिश्चयः किं न भवतीति केनापाकृतं येनायं
पुनरुक्तः स्यादिति ॥

सम्प्रति [अनुपलब्धेः] प्रकारस्य स्वरूपस्य भेदं नानात्वं.......प्रकारभेद........द्रष्टव्यम् । चो वक्तव्यान्तरसमुच्चये । सेति मूलानुवादः । एषेति तस्य व्याख्यानम् । एकादशग्रहणं चाचार्यस्योपलक्षणार्थं यथा प्रमाणवार्त्तिके...ग्रहणं...... षोडशरकारेति तु द्रष्टव्यम् । एतच्च कारणविरुद्धकार्योपलब्धिव्याख्यानान्तरं दर्शयिष्यामः । विवक्षितान्योपलम्भैकरूपत्वाद्दृश्यानुपलब्धेः, कथमयं भेद उपपद्येतेत्यभिप्रेत्य पृच्छति कुत इति ।


[ध्प्र्प्.१२५]

स्वभावेत्यादि । प्रतिषेध्यस्य यः <स्वभावस्>तस्य्<आनुपलब्धिर्यथे>ति । <अत्रे>ति धर्मी । न धूम इति साध्यम्, <उपलब्धिलक्षणप्राप्तस्यानुपलब्धेर्> इति हेतुः, अयं च हेतुः पूर्ववद्व्याख्येयः ॥ प्रतिषेध्यस्य यत्कार्यं तस्यानुपलब्धिरुदाह्रियते

कार्यानुपलब्धिर्यथा -- नेहाप्रतिबद्धसामर्थ्यानि धूमकारणानि सन्ति, धूमाभावादिति[८०] इइ-३२


__________टिप्पणी__________

[८०] इति ओम्. -- ब्फेन्
___________________________


<यथे>ति । <इहे>ति धर्मी । अप्रतिबद्धमनुपहतं धूमजननं प्रति <सामर्थ्यं >येषां तान्यप्रतिबद्धसामर्थ्यानि <न सन्तीति> साध्यम् । धूमाभावादिति हेतुः ।



प्रयोगभेदादित्याचार्यीयमुत्तरमनूद्य प्रयोगशब्दं व्याचष्टे प्रयोग इति । प्रयुक्त्यर्थमाह शब्देति । शब्दशब्देन प्रकरणाद्वाचकः शब्दो गृह्यते । अभिधा अर्थप्रकाशनम् । तत्र व्यापारो व्यापत्तिः प्रवृत्तिर्यद्वाभिधा अर्थप्रकाशनं तल्लक्षणो व्यापारस्तस्य प्रयोगस्य भेदाद्भिद्यमानत्वादिति तु सुबोधत्वात्धर्मोत्तरेण न व्याख्यातम् ।

ननु शब्दस्यैवानुपलम्भवाचकस्यानुपलम्भ एव वाच्यस्तत्कथं प्रयोगभेदो येनानुपलम्भस्य प्रकारभेद उच्यत इत्याह शब्दो हीति । हिर्यस्मात् । साक्षादव्यवधानेन । क्वचिद्विरुद्धोपलम्भादौ प्रतिषेध्याच्छीतस्पर्शादेरर्थान्तरमग्न्याद्यभिधत्ते । क्वचित्व्यापकानुपलब्धादौ विवक्षितात्शिंशपादिप्रतिषेधात्प्रतिषेधान्तरं वृक्षादिप्रतिषेधमभिधत्ते । यद्यर्थान्तरविधिरर्थान्तरप्रतिषेधश्च क्रियते तर्हि ...................... द्यत इत्याह -- सर्वत्रेति । तुर्विशेषार्थः । अशब्दोपात्ता स्ववाचकपदानुपात्ता । यथा च शब्दोपात्तापि सा प्रतीयते तथा पुरस्तादभिधास्यते । अपिरवधारणे अतिशये वा । इतिस्तस्मादर्थे एवमर्थे...................अत एवार्थी गतिम्
आश्रित्योक्तं न तु शाब्दीमिति द्रष्टव्यम् ॥

अनुपलम्भस्य प्रकृतत्वात्प्रकारभेदानिति मन्तव्यम् । तस्यानुपलब्धिः पुर्वोक्तया नीत्या तद्विविक्तः प्रदेशस्तज्ज्ञानं चावसेयम् । एवं कार्यानुपलब्ध्यादिषु द्विरूपैवानुपलब्धि ..................ति निदर्शनेन ।

ननु कीदृश्युपलब्धिलक्षणप्राप्तिः ? कथं चाविद्यमान.................अयञ्चेति । पूर्वस्मिन्ननुपलब्धिलक्षणाख्यान इव । चो [५० ] यस्मादर्थेऽवधारणार्थे वा पूर्ववदित्यस्यानन्तरं द्रष्टव्यः । एतच्च स्वभावानुपलम्भस्यार्थकथनं कृतमाचार्येण न प्रयोगो दर्शितः, असाधनाङ्गस्य प्रतिज्ञाया उपादानात्साधनाङ्गस्य च व्याप्तेरप्रदर्शनाथेतोश्चानुवाद्य रूपस्य प्रथमान्तस्यानिर्देशात् । एवमितरासु सर्वास्वेनानुपलब्धिषु बोद्धव्यम् ।

प्रयोगः पुनरीदृशः -- यद्यत्रोपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते तत्सर्वं तत्रासद्व्यवहारयोग्यम् -- यथा -- तुरङ्गमोत्तमाङ्गे शङ्गम् । नोपलभ्यते चात्रोपलब्धिलक्षणप्राप्तो धूम इति । अनेन सामान्यादिनिराकरणे दृश्यानुपलम्भः प्रयोक्तव्य इति दर्शितमाचार्येण तुल्यन्यायत्वादित्यवसेयम् ।


[ध्प्र्प्.१२६]

कारणानि च नावश्यं कार्यवन्ति भवन्तीति कार्यादर्शनादप्रतिबद्धसामर्थ्यानामेवाभावः साध्यः[८१]न त्वन्येषाम् । अप्रतिबद्धशक्तीति चान्त्यक्षणभावीन्येव, अन्येषां प्रतिबन्धसम्भवात् ।


__________टिप्पणी__________

[८१] साध्यते -- च्.
___________________________


कार्यानुपलब्धिश्च यत्र कारणमदृश्यं तत्र प्रयुज्यते । दृश्ये तु कारणे दृश्यानुपलब्धिरेव गमिका । तत्र धवलगृहोपरिस्थितो[८२]गृहाङ्गणमपश्यन्नपि चतुर्षु पार्श्वेष्वङ्गणभित्तिपर्यन्तं पश्यति । भित्तिपर्यन्तसमं चालोकसंज्ञकमाकाशदेशं धूमविविक्तं पश्यति । तत्र धूमाभावनिश्चयात् । यद्देशस्थेन वह्निना जन्यमानो धूमस्तद्देशः स्यात् । तस्य च वह्नेरप्रतिबद्धसामर्थ्यस्याभावः प्रतिपत्तव्यः । तद्गृहाङ्गणदेशेन च वह्निना जन्यमानो धूमस्तद्देशः स्यात् । तस्मात्तद्देशस्य वह्नेरभावः प्रतिपत्तव्यः । तद्गृहाङ्गणदेशं भित्तिपरिक्षिप्तं भित्तिपर्यन्तपरिक्षिप्तेन चालोकात्मना धूमविविक्तेनाकाशदेशेन सह
धर्मिणं करोति ।


__________टिप्पणी__________

[८२] धवल- ओम्. -- ब्च्द्
___________________________




इह -- नुपलम्भः केवलप्रदेशादिरभावव्यवहारयोग्यता च साध्या दृश्यानुपलम्भस्य तादात्म्यलक्षण एव प्रतिबन्धो गम्यगमकभावनिबन्धनमिति केषाञ्चिन्मतम् । केचित्तु अनुपलम्भाभावव्यवहारयोग्यतयोर्गम्यगमकभावे विपर्ययतादात्म्यलक्षणः प्रतिबन्धो निमित्तमिति प्रतिपदिरे । अत एवानुपलम्भः कार्यस्वभावाभ्यां भेदेन निर्दिष्टः, स्वसाध्ये प्रतिबन्धानपेक्षणाद्, इतरयोश्च तद्वैपरीत्यादिति च । एवं चैतत्समादधतीति । तथा हि उपलब्ध्यव्यभिचारात्तादृशी अनुपलब्धेरेव सत्ता । तत उपलब्धिलक्षणप्राप्तसत्त्वे तदुपलम्भयोस्तादात्म्यादेवानुपलम्भासद्व्यवहारयोर्गम्यगमकभावः । यदि तु तद्विविक्तप्रदेशाद्युपलम्भरूपस्यानुपलम्भस्य तदसद्व्यवहारयोग्यतायाश्
च यत्तादात्म्यं तन्निमित्तमुच्येत, तदा तस्य भूतलादेरनुपलब्धिलक्षणप्राप्तासद्व्यवहारयोग्यताप्यात्मभूतैवेति पिशाचाद्यभावव्यवहारमप्यनुपलम्भः साधयेत्तत्प्रतिबन्धादिति ॥

ननु कार्याभावात्कारणाभावः साध्यताम् । किमप्रतिबद्धसामर्थस्येति साध्यधर्मविशेषणेनेत्याह कारणानीति । <चो >यस्माद् । <इतिस्>तस्मात् । <साध्यः >साधयितुं युज्यत इत्यर्थः । एतदेव व्यतिरेकमुखेण द्रढयति न त्विति । <तुर्>वैधर्म्यार्थमेवकारार्थो वा । नान्येषां कारणकारणतयोपचरितकुर्वद्रूपाणाम् ।

अथ परिपूर्णयापि सामग्र्या विधारकसम्भवात्प्रतिबन्धः सम्भाव्यते । तदसम्भवीदं


[ध्प्र्प्.१२७]

तस्माद्दृश्यमानादृश्यमानाकाशदेशावयवः[८३]प्रत्यक्षाप्रत्यक्षसमुदायो वह्न्यभावप्रतीतिसामर्थ्यायातो धर्मी, न दृश्यमान एव[८४]। इह इति तु प्रत्यक्षनिर्देशो दृश्यमानभावापेक्षः । न केवलमिहैव दृश्यादृश्यसमुदायो धर्मी, अपि त्वन्यत्रापि । शब्दस्य क्षणिकत्वे साध्ये कश्चिदेव शब्दः प्रत्यक्षोऽन्यस्तु परोक्षस्तद्वदिहापि । यथा चात्र धर्मी साध्यप्रतिपत्त्यधिकरणभूतो दृश्यादृश्यावयवो दर्शितस्तद्वदुत्तरेष्वपि प्रयोगेषु स्वयं प्रतिपत्तव्यः ॥


__________टिप्पणी__________

[८३] दृश्यमानाकाश- -- च.
[८४] इव -- च्
___________________________





विशेषणमित्याह अप्रतिबद्धेति <च>शब्दस्तुशब्दस्यार्थे हेतौ वा । कुत एतदित्याह अन्येषामिति । अन्त्यक्षणप्राप्तानि च कारणानि योगिनापि प्रतिबद्धु(-बन्धु)मशक्यानि, इतरथा ताद्रूप्यमेव हीयेत । अतस्तथाविधानि कारणानि कार्याव्यभिचारीणि कार्येण व्याप्यन्ते । ततः कार्यं निवर्तमानं कारणानि तादृशानि निवर्त्तयतीति द्रष्टव्यम् ।

इह यद्यप्यनेनान्त्यक्षणेनेदं कार्यं कृतमिति नावगतं तथापि वस्तुनः काचिदवस्था कार्यं कुर्वतो प्रतीतैव यदनन्तरं कार्यमुपलब्धम् । सैव चावस्थात्रापि निषिध्यते । अत एवायं क्षणिकाक्षणिकसाधारणावस्थातिशयनिषेधः ।

ननु कार्यस्य तावद्दृश्यस्यात्रानुपलम्भो हेतुरुपादातव्यः । तत्किमस्य सम्भवोऽस्ति यत्कार्यमेव दृश्यं न तु कारणं येन कार्यानुपलब्धिः प्रयुज्यत इत्याशङ्क्य विषयमस्या दर्शयितुमाह कार्येति । कोऽसावेवंविधो विषय इत्याह तत्रेति वाक्योपक्षेपे । यदि पुनर्गृहाङ्गणं पश्येत्दृश्यानुपलब्धिरेव प्रयुक्ता स्यादित्यभिप्रायेणाह गृहङ्गणमपश्यन्नपीति । अपिरवधारणे । अङ्गणभित्तेः पर्यन्तमवसानम् । भित्तिपर्यन्तेन समं तुल्यम् । सौत्रान्तिकानामलोकतमःस्वभाव एवाकाश इति । तन्मयत्या(-तन्मत्या) आलोकसंज्ञकमित्युक्तम् । अत्राकाशे किं प्रत्येतव्यमित्याह यद्देशेति । यदा यद्देशे चेति पाठस्तदा यो देशोऽस्येति विग्रहः
। यदा तु यद्देशस्थेनेति तदा यश्चासौ देशश्च तत्र तिष्ठतीति तद्देशस्थ इति । स देशोऽस्येति विग्रहः । एतावतापि न ज्ञायते कस्तेन प्रतिपत्त्रा धर्मी कृत इत्याह तद्गृहेति । स चासौ गृहाङ्गणदेशश्चेति समासः । अङ्गणस्य प्रकृतत्वाद्<भित्तिः >तस्यैव तया परिक्षिप्तं परिच्छिन्नं धर्मिणं करोतीति सम्बन्धः । किमेतावदेवेत्याह भित्तीति । भित्तिरङ्गणस्यैव । भित्तेश्च प्रान्तो वाच्यस्तस्याः पर्यन्तोऽवसानं निष्ठा तेन परिक्षिप्तं परिच्छिन्नं तेन । चस्तुल्यबलत्वसमुच्चयार्थः ।

तस्मादित्यादिनोपसंहारव्याजेन लोकाध्यवसायसिद्धं धर्मिणं दर्शयति । दृश्यादृश्यसमुदायो लोकेनैकत्वेनाकलितः । तावान् देशो दृश्यमानः किमात्मकः ? देशावयवो भागो यस्य




[ध्प्र्प्.१२८]

प्रतिषेधस्य व्याप्यस्य यो व्यापको धर्मस्तस्यानुपलब्धिरुदाह्रियते --



स तथा । कथमेवंविधो धर्मीत्याह -- वह्न्यभावेति । वह्निरिति विशिष्टो धूमजननेऽव्यवधेयशक्तिः । तस्याप्युपलक्षणत्वादन्यस्य धूमजननेऽप्रतिबद्धस्याभावप्रतीतिर्ग्रहीतव्या । अयमर्थः -- लोकस्तावत्तथाविधदेशे धूममनुपलभमानस्तावति देशे तथाभूतवह्न्यभावं प्रत्येति । न चैतदेवंविधं धर्मिणमन्तरेण घटत इति सामर्थ्यमन्यथानुपपत्तिस्तस्मादायात उपस्थितः । अत एवाचार्येणापि इष्टं विरुद्धकार्येऽपि देशकालाद्यपेक्षणम् । (प्वि ६=८) इति ब्रुवतैवं धर्मीष्ट एवेति भावः ।

नन्वप्रत्यक्षस्यापि धर्मित्वे कथमिहेतीदम् ??? इहप्रत्ययान्तरस्य निर्देश इत्यशङ्क्याह -- इहेति । तुशब्दो यस्मादर्थे । इतिरिहशब्दस्य निर्दिष्टस्याकारं प्रत्यवमृशति । प्रत्यक्षवस्तुप्रतिपादको निर्देशस्तथोक्तः । ननु यदि दृश्यादृश्यसमुदायो धर्मी घटते तदा कार्यस्वभावहेत्वोरपि किमयं न सम्भवतीत्याह -- न केवलमिति । इहैव कार्यानुपलम्भ एव । अपि तु किन् त्वन्यत्रापि कार्यविशेषे स्वभावविशेषे च तत्र तत्र कार्यहेतोर्धूमवाक्यादग्निपौरुषेयत्वादसिद्धौ तथाविधो धर्मी सुव्यक्त इति न तत्र दर्शितस्तुल्यत्वा(-न्या)यतया वा द्रष्टव्यः ।

कथं हेतावप्येवंविधस्य धर्मिणः सम्भव इत्य्[वेर्ब्. इत्थ्--] आह -- शब्दस्येति । कश्चिदेव श्रूयमाणः प्रत्यक्षोऽन्यस्त्वश्रूयमाणः परोक्षः । अनेनावश्यं दृश्यादृश्यशब्दसमुदायोऽत्र धर्मीति दर्शितम् । दृश्यादृश्यात्मना च शब्देन धर्मिणा भाव्यमिति प्रतिपाद्यजनसंशयारोपाभ्यामायातम् । न हि प्रतिपाद्यः शब्दस्यानित्यत्वे संशयानो विपर्यस्यति, अर्थात्घटशब्द एव, श्रूयमाण एव च सन्देग्धि, विपर्यस्यति वा । किन् त्वहे(ह)घटपटादिशब्दे श्रूयमाणे श्रुते श्रोष्यमाणे च । ततस्तदनुरोधात्प्रत्यक्षाप्रत्यक्षशब्दसमुदायोऽनित्यत्वे साध्ये धर्मी प्रसह्य पतितः । तद्वदिहापि कार्यानुपलम्भे । अमुमेव न्यायमन्यत्राप्य्
अतिदिशन्नाह -- यथा चेति । चोऽवधारणे साध्यप्रतिपत्त्यधिकरणभूत इति विशेषणव्याजेन धर्मिणो लक्षणमुक्तम् । कार्यानुपलब्धिप्रयोगस्त्वेवं कर्त्तव्यः । यत्र यस्य कार्यमुपलब्धिलक्षणप्राप्तं नोपलभ्यते तत्तु तज्जननाप्रतिबद्धसामर्थ्यं नास्ति । यथा क्वचिद्दृश्यमानेऽङ्कुरे तथाविधं बीजम् । नोपलभ्यते चात्रोपलब्धिलक्षणप्राप्तो धूम इति । अनेन च कार्यानुपलम्भप्रदर्शनेन यज्जल्पितं जल्पमहोदधिना निःशब्दे देशे शब्दमात्राभावे साध्ये कस्तदेकज्ञानसंसर्गिवस्त्वन्तरोपलम्भो येन शब्दाभावव्यवहारो बौद्धानां भवेदिति तत्प्रत्युक्तं द्रष्टव्यम् । तथा हि नेहाप्रतिबद्धसामर्थ्यानि श्रोत्रज्ञानकारणानि सन्ति । श्रोत्रज्ञानाभावाद्
इति कार्यानुपलब्धिः स्फुटैव । श्रोत्रज्ञानानुपलम्भश्च तदन्यज्ञानोपलम्भरूपः संविदितोऽस्त्येव । एकज्ञानसंसर्गित्वं चान्योन्याव्यभिचरितोपलम्भत्वमित्युक्तं पुरस्तात् । प्रयोगस्त्वनन्तरवद्विज्ञानत्व्य इति ॥


[ध्प्र्प्.१२९]

व्यापकानुपलब्धिर्यथा न अत्र शिंशपा वृक्षाभावादिति इइ-३३

यथेति । अत्रेति धर्मी । न शिंशपेति शिंशपाभावः साध्यः । वृक्षस्य व्यापकस्याभावातिति हेतुः । इयमप्यनुपलब्धिर्व्याप्यस्य शिंशपात्वस्यादृश्यस्याभावे प्रयुज्यते । उपलब्धिलक्षणप्राप्ते तु व्याप्य दृश्यानुपलब्धिर्गमिका । तत्र यदा पूर्वापरावुपश्लिष्टौ देशौ भवतः, तयोरेकस्तरुगहनोपेतोऽपरश्चैकशिलाघटित्प्निर्वृक्षकक्षकः । द्रष्टापि तस्थान् वृक्षान् पश्यन्नपि शिंशपादिभेदं यो न विवेचयति, तस्य वृक्षत्वं प्रत्यक्षमप्रत्यक्षं तु शिंशपत्वम् । स हि निर्वृक्ष एकशिलाघटिते वृक्षाभावं
दृश्यत्वाद्दृश्यानुपलम्भादवस्यति । शिंशपात्वाभावं तु व्यापकस्य वृक्षत्वस्याभावादिति । तादृशो विषयेऽस्या अभावसाधनाय प्रयोगः ।

स्वभावविरुद्धोपलब्धिर्यथा न अत्र शीतस्पर्शो वह्नेरिति इइ-३४

प्रतिषेधस्य स्वभावेन विरुद्धस्योपलधिरुदाह्रियते यथेति । अत्रेति धर्मी । न शीतस्पर्श इति शीतस्पर्शप्रतिषधः साध्यः । वह्नेरिति हेतुः । इयं चानुपलब्धस्तत्र प्रयोक्तव्या यत्र शीतस्पर्शो दृश्यः, दृश्ये दृश्यानुपलब्धिप्रयोगात् ।



व्यापकानुपलब्धिं व्याख्यातुमाह -- प्रतिषेध्यस्येति । तादात्म्याविशेषेऽपि यथा कश्चिदेव धर्मी व्याप्य इतरो व्यापकश्च तथा प्रागेव धर्मोत्तरेण निर्णीतम् । धर्म इति च धर्म्यपेक्षया वृक्षत्वादि । न शिंशपेति न शिंशपात्वमित्यर्थः । वृक्षस्येति च धर्मिणा धर्मस्य वृक्षत्वस्य निर्देशः । ननूपलब्धिलक्षणप्राप्तस्य तावद्वृक्षत्वस्यानुपलब्धिः प्रयोक्तव्या । तथा च शिंशपात्वमपि दृश्यमेव निषेध्यमिति दृश्यानुपलब्धिरेव प्रयोगार्हत्याह -- इयमपीति । न केवलं पूर्विका विशिष्टे विषये किन् त्वयमपीत्यपिशब्दः । शिंशपात्वस्यादृश्यस्येति --
यदि स्याद्दृश्यमेव स्यादिति सम्भावनामतिवृत्तस्येत्यर्थः । एवमुत्तरत्राप्यदृश्यत्वमीदृश्यमेव द्रष्टव्यम् । तस्याभावे साध्य इत्यध्याहारः ।




[ध्प्र्प्.१३०]

तस्माद्यत्र वर्णविशेषाद्वह्निर्दृश्यः शीतस्पर्शो दूरस्थत्वात्[८५]सन्नप्यदृश्यः तत्रास्याः प्रयोगः ॥


__________टिप्पणी__________

[८५] दूरत्वात्-- ब्द्
___________________________


विरुद्धकार्योपलब्धिर्यथा नात्र शीतस्पर्शो धूमादिति इइ-३५

प्रतिषेध्येन यद्विरुद्धं तत्कार्यस्योपलब्धिर्गमिका यथेति । अत्रेति धर्मी । न शीतस्पर्श इति शीतस्पर्शाभावः साध्यः । धूमादिति हेतुः । यत्र शीतस्पर्शः सन् दृश्यः



कोऽसावेवंविधो विषय इत्याह -- तत्रेति वाक्योपन्यासे । उपश्लिष्टौ प्रत्यासन्नौ समुन्नतावुच्चौ । तरूणां गहणं गह्वरं तेनोपेतो युक्तः । द्वितीय एकया शिलया घटते निमित्त एकशिलारूपस्तूप इति यावत् । तत्त्वेनैव च निर्वृक्षकक्षकः । कक्षस्तृणम् । निर्गतौ वृक्षकक्षौ यत इति विग्रहः । भवत्येवं तथापि कथमस्याः प्रयोग इत्याह द्रष्टापीति । अपिरवधारणे न विवेचयतीत्यस्यानन्तरं द्रष्टव्यम् (-व्यः) । तस्य तादृशस्य द्रष्टुः । भवतु द्रष्टु[स्] तावद्दूरदेशस्थायितया शिंशपायाविवेकस्तथापि
येनैव वृक्षाभावं प्रतिपद्यते तेनैव शिंशपाभावमपि किं न प्रतिपद्यत इत्याह स हीति । हिर्यस्मात् । कथं दृश्यानुपलम्भादवस्यतीत्याह दृश्यत्वाद्वृक्षत्वस्येति प्रकरणात् । कुतस्तर्हि शिंशपात्वाभावमवैतीत्याह शिंशपेति । तुशब्दो वैधर्म्ये । इतिस्तस्मादर्थे ।

अभावशब्देनाभावोऽभावव्यवहारश्चोक्तो द्रष्टव्यः । एवमुत्तरत्रापि प्रत्येयम् । प्रयोगः पुनरीदृशः कार्यः यत्र यस्य व्यापकं नास्ति न तत्तत्रास्ति । यथाअसति प्रमेयत्वे प्रामाण्यम् । नास्ति च वृक्षत्वं शिंशपात्वस्य व्यापकमिति । अनेन व्यापकानुपलम्भस्य व्याप्याभावे गमकत्वप्रतिपादनेन नित्यानामर्थक्रियाकारित्वाभावः क्रमयौगपद्ययो व्यापकयोरभावादित्यादि दर्शितं द्रष्टव्यम् ॥

प्रतिषेध्येत्यादिना स्वभावविरुद्धोपलब्धिं व्याचष्टे मूले तूदाह्रियत इत्यध्याहार इति दर्शयन्नाह उदाह्रियत इति । सुखप्रतिपत्त्यर्थं मौलं धर्म्यादिप्रविभागं दर्शयन्नाह अत्रेति । एतेनेश्वरेऽप्येकोपादानादिविकल्पे सम्प्रदानादिविकल्पाभावो विरुद्धोपलब्धिप्रसङ्गेन दर्शितः । विकल्पस्य विकल्पान्तरेण सहास्थितिलक्षणस्य विरोधस्य स्वसन्ताने सिद्धत्वात् । ततश्च तस्यानिरूप्यकर्त्तृत्वमायातम् । अन्यथा युगपद्दृष्टोत्पादानामनुत्पत्तिः प्रसज्येत । अनिरूप्यकर्त्तृत्वे चधिपत्यमात्रेण कर्त्तृत्वं स्यात् । तथा च कर्मणा सिद्धसाधनत्वमीश्वरसाधनानां कार्यत्वादीनामित्यादि दर्शितम् ॥

विरुद्धकार्योपलब्धिं व्याचक्षाण आह प्रतिषेध्येनेति । मूलगमिका विवक्षिताभावप्रतिपादकेति विवक्षितमिति दर्शयितुमाह गमिकेति । पूर्ववद्धर्म्यादिकथनम् ।


[ध्प्र्प्.१३१]

स्यात्तत्र दृश्यानुपलब्धिर्गमिका । यत्र विरुद्धो वह्निः प्रत्यक्षः तत्र विरुद्धोपलब्धिर्गमिका[८६]। द्वयोरपि तु परोक्षत्वे विरुद्धकार्योपलब्धिः[८७]प्रयुज्यते । तत्र[८८]समस्तापवरकस्थं शीतं निवर्तयितुं समर्थस्याग्नेरनुमापकं यदा विशिष्टं धूमकलापं निर्यान्तमपवरकात्पश्यति तदा विशिष्टाद्वह्नेरनुमितात्शीतस्पर्शनिवृत्तिमनुमिमीते[८९]। इह दृश्यमानद्वारप्रदेशसहितः सर्वोऽपवरकाभ्यन्तरदेशो[९०]धर्मी साध्यप्रतिपत्त्यनुसरणात्पूर्ववद्द्रष्टव्य इति[९१]॥


__________टिप्पणी__________

[८६] -उपलब्धिः -- अब्फेन्
[८७] विरोधकार्योपलब्धिः -- अ.
[८८] यत्र -- अ
[८९] -निवृत्तिरनुमीयते -- अच्.
[९०] सर्वापवरक- -- अफेन्.
[९१] इति ओम्. -- अफेन्.
___________________________







विरुद्धव्याप्तोपलब्धिर्यथा न ध्रुवभावी भूतस्यापि भावस्य विनाशः हेत्वन्तरापेक्षणादिति[९२]इइ-३६


__________टिप्पणी__________

[९२] इति ओम्. -- ए.
___________________________


प्रतिषेध्यस्य यद्विरुद्धं तेन व्याप्तस्य धर्मान्तरस्य उपलब्धिरुदाहर्तव्या । यथेति । ध्रुवमवश्यं भवतीति[९३]ध्रुवभावी नेति ध्रुवभावित्वनिषेधः[९४]साध्यः । विनाशो धर्मी ।


__________टिप्पणी__________

[९३] इति ओम्. -- ब्च्द्.
[९४] -प्रतिषेधः -- च्.
___________________________





तस्मिन्नियं प्रयोक्तव्येत्याह -- यत्रेति । द्वयोर्विरुद्धशीतस्पर्शयोः । अपिरवधारणे । तु पुर्वस्माद्वैधर्म्ये । कः पुनरीदृशो विषय इत्याह -- तत्रेति । ननु च प्रदीपशिखाप्रभावे(-भवे) धूमेऽपि न शीतस्पर्शाभावः, तत्कथमियं गमिकेत्याह समस्तेति । अपवरकग्रहणं शीतस्थानोपलक्षणार्थम् । अपवरकात्निर्यान्तं निर्गच्छन्तम् । अन्यत्र च गम्यमानो धूमः कथमन्यत्र शीताभावं साधयतीत्याह इहेति । इह विरुद्धकार्योपलब्धौ । दृश्यमानश्चासौ द्वारदेशश्च तेन सहितः । उपपत्तिमाह -- साध्येति । साध्यस्य शीतस्पर्शाभावस्य प्रतिपत्तिरवबोधस्तस्य प्रतिपत्तेरनुसरणं निरूपणं तस्मात् । पूर्ववद्
इति यथापूर्वं कार्यानुपलम्भे वह्न्याद्यभावप्रतीतिसामर्थ्यायातस्तादृशो धर्मी तद्वत् । अयमस्य भावः शीतस्पर्शाभावप्रतीतिरेवेयं विमृश्यमाणावश्यमेवंविधधर्मिणमाकर्षतीति । प्रयोगः पुनरस्या एवं कर्त्तव्यः यत्र धूमविशेषस्तत्र शीतस्पर्शाभावः । यथा महानसादौ । तथाविधश्चात्र धूम इति । एतच्चात्यन्ताभ्यासाज्झगिति धूमदर्शनाच्छीतस्पर्शाभावप्रतीत्युदये विरुद्धकार्योपलम्भजमेकमनुमानमाचार्येणोक्तमिति द्रष्टव्यम् । अनभ्यासदशया


[ध्प्र्प्.१३२]

भूतस्यापि भावस्येति धर्मिविशेषणम् । भूतस्य जातस्यापि विनश्वरः स्वभावो नावश्यंभावी किमुताजातस्येति अपिशब्दार्थः । जनकाद्[९५]धेतोरन्यो हेतुः हेत्वन्तरं मुद्गरावि[९६]। तदपेक्षते विनश्वरः । तस्यापेक्षणाद्[९७]इति हेतुः । हेत्वन्तरापेक्षणं नामाध्रुवभावित्वेन[९८]व्याप्तं यथा वाससि रागस्य रञ्जनादिहेत्वन्तरापेक्षणमध्रुवभावित्वेन व्याप्तम्[९९]। ध्रुवभावित्वविरुद्धं चाध्रुवभावित्वम् । विनाशश्च विनश्वरस्वभावात्मा हेत्वन्तरापेक्ष इष्टः । ततो विरुद्धव्याप्तहेत्वन्तरापेक्षणदर्शनाद्ध्रुवभावित्वनिषेधः ।


__________टिप्पणी__________

[९५] जननाद्-- अफे.
[९६] मुद्गरादिः -- च्.
[९७] विनश्वरस्यापेक्षणाद्-- अ.
[९८] नाध्रुव- -- ब्.
[९९] तद्वद्-- च्.
___________________________






इह ध्रुवभावित्वं नित्यत्वमध्रुवभावित्वं चानित्यत्वम्[१००]। नित्यत्वानित्यत्वयोश्च परस्परपरिहारेणावस्थानादेकत्र विरोधः । तथा[१०१]च सति परस्परपरिहारवतोर्द्वयोर्यदैकं दृश्यते तत्र द्वितीयस्य तादात्म्यनिषेधः कार्यः । तादात्म्यनिषेधश्च दृश्यतया[१०२]ऽभ्युपगतस्य संभवति । यत एवं[१०३]तादात्म्यनिषेधः क्रियते यद्ययं दृश्यमानो नित्यो भवेन्नित्यरूप दृश्येत । न च नित्यरूपो दृश्यते । तस्मान्न नित्यः । एवं च प्रतिषेध्यस्य नित्यत्वस्य दृश्यमानात्मकत्वम्[१०४]अभ्युपगम्य प्रतिषेधः कृतो भवति ।[१०५]वस्तुनोऽप्यदृश्यस्य पिशाचादेर्यदि[१०६]दृश्यघटात्मकत्वनिषेधः[१०७]


__________टिप्पणी__________

[१००] च ओम्. -- ब्द्.
[१०१] स्वभावानुपलब्धिरूपता स्यात् । स्वभावानुपलब्धिरूपा चाभ्युपेता पूर्वाचार्यैरित्याह -- टि-
[१०२] तया -- अ.
[१०३] य एवं -- अ.
[१०४] दृश्यमानात्मत्वम् -- अफेन्.
[१०५] अथ न वस्त्वेकत्वविरोधोऽनयोः परं यो विषेधो ध्रुवभावित्वस्य विधीयते स । यद्यया (?) दृश्यत्वे सति पूर्वानुपलब्धिष्विव भवेत्तदा नास्यानुपलब्धेः । अथ भवतु नित्यत्वस्यावस्तुन एवं निषेधः, पिशाचादीनां तु सतां कथं निषेध इत्याह -- टि-
[१०६] यदैव -- ब्.
[१०७] -आत्मत्वनिषेधः -- अफेन्.
___________________________











पुनरज्ञातेऽनुमाने कार्यलिङ्गजविरुद्धोपलम्भजे भवतः । तथा हि यत्र धूमस्तत्र सर्वत्र वह्निर्यथा यस्कारकुट्यां धूमश्चात्रेति कार्यलिङ्गजमेकमत्र नियतप्राग्भावि, तदनु यत्र वह्निर्न तत्र शीतस्पर्शो यथा रसवतीप्रदेशे वह्निश्चात्रेति विरुद्धोपलम्भजं द्वितीयमिति ॥

प्रतिषेध्यस्येत्यादिना विरुद्धव्याप्तोपलब्धिं [५२ ] व्याचष्टे । पूर्ववत्साध्यादिप्रदर्शनम् ।

किमुतेति निपातसमुदायः किं पुनरित्यस्यार्थे वर्त्तते ।

ननु किमजातस्यापि वस्तुनो नाशमवश्यं भाविनं केचिदिच्छन्ति येनापिशब्दः समुच्चयो व्याख्यात इति ? नैष दोषः । अजातस्य तावदनिष्टत्वादेव नावश्यम्भावी विनाशः, जातस्यापि नावश्यम्भावीतीत्थं मूले <ऽपि>शब्दः । केवलं किमुताजातस्येति व्याचक्षाणेन धर्मोत्तरेणायमर्थो न व्यक्तीकृतः । तत्रापि किं पुनरजातस्य यस्य विनाश एव नेष्ट इत्यभिप्रायेण


[ध्प्र्प्.१३३]

क्रियते दृश्यात्मकत्वम्[१०८]अभ्युपगम कर्तव्यः । यद्ययं घटो[१०९]दृश्यमानः पिशाचात्मा भवेत्पिशाचो दृष्टो भवेत् । न च दृष्टः । तस्मात्न पिशाच इति । दृश्यात्मत्वाभ्युपगमपूर्वको दृश्यमाने घटादौ वस्तुनि[११०]वस्तुनोऽवस्तुनो वा दृश्यस्यादृश्यस्य च तातात्म्यप्रतिषेधः[१११]। तथा च सति यथा घटस्य दृश्यत्वमभ्युपगम्य प्रतिषेधो दृश्यानुपलम्भादेव तद्वत्सर्वस्य परस्परपरिहारवतोऽन्यत्र दृश्यमाने निषेधो दृश्यानुपलम्भादेव । तथा चास्यैवञ्जातीयकस्य प्रयोगस्य स्वभावानुपलब्धावन्तर्भावः ॥


__________टिप्पणी__________

[१०८] -आत्मत्वम् -- अफेन्.
[१०९] घटो ओम्. -- अफेन्.
[११०] वस्तुनि घटादौ -- च्.
[१११] -निषेधः -- अब्पेह्न्.
___________________________







योजनीयः । यद्वा प्रागभावस्यानादेरजातस्यापि नाशमवश्यम्भाविनं केचिदिच्छन्तीति तदपेक्षया अपिशब्दः समुच्चये । तन्मुद्गराद्यपेक्षते विनश्वरो विनंष्टुमिति शेषः । तस्य हेत्वन्तरस्य । प्रयोगः पुनरीदृशः कर्त्तव्यः यद्यदवस्थाप्राप्तौ हेत्वन्तरमपेक्षते न तदवश्यं तद्रूपं भवति । यथा वस्त्रं रक्तरूपतापत्तौ रागद्रव्यसंयोगापेक्षं नावश्यं रक्तं भवति । अपेक्षते च भावो विनंष्टुं हेत्वन्तरमिति विरुद्धव्याप्तोपलब्धिप्रसङ्ग एषः । अत एव मूलेऽपिशब्दः
प्रसङ्गसाधनत्वप्रसङ्गार्थो लक्ष्यते । स्वतन्त्रसाधनं तु विरुद्धव्याप्तोपलम्भाख्यमेवं द्रष्टव्यम् -- यो विरुद्धधर्मसंसर्गवान्नासावेको यथा द्रवकठिने । विरुद्धधर्मसंसर्गवांश्च सामान्यादिरिति । ननु च कोऽर्थयोर्विरोधः, किञ्चास्य विरोधस्य साधकं प्रमाणमित्याशङ्कामपकार्त्तुमाह इहेति । नित्यत्वशब्देनावश्यम्भावित्वमनित्यत्वशब्देनानवश्यम्भावित्वमुक्तं द्रष्टव्यम् । अन्यथा केन नित्यो विनाशोऽभ्युपेतो येनास्यानित्यतापि (प)द्येत । यच्च पूर्वं ध्रुवभावित्वशब्दं विवृण्वतानेन ध्रुवमवश्यं भवतीति विवृतं तच्च व्याहन्येत । सम्प्रति विरोधमुपपादयति नित्यानित्ययोरिति । चो हेतौ


इदानीं परस्परपरिहारस्थितलक्षणविरोधव्यवस्थापकं दृश्यानुपलम्भं दर्शयितुमाह तथा चेति । कथं दृश्यतयाभ्युप[ग]तस्य निषेध इत्याह यत इति । एवं वक्ष्यमाणेन प्रकारेण । तमेवाह यद्ययमिति । न च नैवं नित्यरूपवश्यम्भाविस्वरूपो दृश्यते प्रतीयते । यद्यप्येवं तथापि दृश्यात्मकाभ्युपगम इत्याह एवमिति । चो यस्मात् । एवमनन्तरोक्तेन क्रमेण दृश्यमानस्यादृश्येनावस्तुनान्योन्यपरिहारस्थितलक्षणविरोधव्यवस्थायां तावदेवं दृश्यानुपलम्भ उपायः । वस्तुनाप्यदृश्येन तथात्वव्यवस्थायामेवोपाय इति दर्शयितुं वस्तुनोऽपीत्यादिनोपक्रमते । न केवलं कल्पितस्यावस्तुन इत्यपिशब्दः
। इतिर्हेतावेवमर्थे वा । दृश्यस्येति वस्त्वपेक्षया ।


[ध्प्र्प्.१३४]

कार्यविरुद्धोपलब्धिर्यथा नेहाप्रतिबद्धसामर्थ्यानि शीतकारणानि सन्ति वह्नेर्[११२]इति इइ-३७


__________टिप्पणी__________

[११२] अग्नेर्-- ब्च्फेन्.
___________________________


प्रतिषेध्यस्य यत्कार्यं तस्य यदिव्रुद्धं तस्योपलब्धेरुदाहरणं यथेति । इहेति धर्मी । अप्रतिबद्धं सामर्थ्यं येषां शीतकारणानां शीतजननं प्रति तानि न सन्तीति[११३]साध्यम् । वह्नेरिति हेतुः ।


__________टिप्पणी__________

[११३] प्रति न तानि सन्तीति -- अफेन्.
___________________________


यत्र शीतकारणानि अदृश्यानि शीतस्पर्शोऽप्यदृश्यः तत्रायं हेतुः प्रयोक्तव्यः । दृश्यत्वे तु शीतस्पर्शस्य तत्कारणानां वा कार्यानुपलब्धिर्दृश्यानुपलब्धिर्वा गमिका । तस्मादेषाप्यभावसाधनी । ततो यस्मिनुद्देशे[११४]सदपि शीतकरणमदृश्यं शीतस्पर्शश्च दूरस्थत्वात्प्रतिपत्तुर्वह्निर्भास्वरवर्णत्वाद्दूरादपि दृश्यस्तत्रायं प्रयोग इति[११५]॥


__________टिप्पणी__________

[११४] देशे -- अब्च्द्फेन्.
[११५] इति ओम्. -- अब्फेन्.
___________________________





<वा>शब्दार्थश्चकार इति केचित् । अन्ये तु अवस्तुनोऽदृश्यत्वस्य सिद्धत्वात्किं तदनुवादेन कार्यम् ? ततो द्वयमप्येतद्वस्त्वपेक्षया योज्यम् । वस्तुनो दृश्यस्य घटादेरदृश्यस्य पिशाचादेः । अन्यथा पिशाचादिवस्तुनस्तथात्वं नोक्तं स्यात् । प्रकृतं च तदेव इति प्रतिपन्नाः । भवत्येवं ततः किं सिद्धमित्याह -- तथा च सतीति । <तद्वद्>घटवत् । अन्यत्र अन्यस्मिन् दृश्यमाने वस्तुनि । ननु भवतु दृश्यानुपलम्भाद्दृश्यामानेङ्गुल्यादौ सर्वस्य सुमेर्वादेस्तादात्म्यनिषेधस्तथाप्युक्तास्वनुपलब्धिषु कुत्रायमन्तर्भवतीत्याशङ्कामपकार्त्तुमुपसंहारव्याजेनातिदेशमप्याह एवमिति । एवंजातीयकस्यैवं प्रकारवतः । एवम्
प्रकारस्येत्युक्ते वचनभं (वचनलभ्यं ?) स्यात् । तत्रान्तर्भावो दर्शित एवेति भावः । अथ यदि दृश्यानुपलम्भादन्यत्रान्यस्य दृश्यस्यादृश्यस्य वा तादात्म्यनिषेधः कथं विरुद्धे(-द्ध)व्याप्तोपलब्धेरवतार इति चेत् । न दोषः । विरोधप्रतिपत्तिकाले दृश्यानुपलम्भस्य व्यापारात् । तदवगतविरोधेन तु व्याप्तं यत्र दृश्यते विरुद्धव्याप्तोपलम्भादेव विवक्षिताभावप्रतीतिरिति किमवद्यम् ॥ प्रतिषेध्यस्येत्यादिना कार्यविरुद्धोपलब्धिं विवृणोति । पूऋववद्धर्म्यादिप्रदर्शनम् । वह्नेरिति शीतनिवर्त्तनक्षमाद्विशिष्टादिति द्रष्टव्यम् । अन्यथा प्रति(दी)पाद्यात्मनः शीतनिवर्त्तकत्वेनानैकान्तिकतापत्तेः



[ध्प्र्प्.१३५]

व्यापकविरुद्धोपलब्धिर्यथा नात्र तुषारस्पर्शो वह्नेर्[११६]इति इइ-३८


__________टिप्पणी__________

[११६] अग्नेर्-- ब्च्फेन्.
___________________________


प्रतिषेध्यस्य यद्व्यापकं तेन यद्विरुद्धं तस्योपलब्धिरुदाहर्तव्या यथेति । अत्रेति धर्मी । तुषारस्पर्शो नेति साध्यम् । वह्नेर्[११७]इति हेतुः । यत्र व्याप्यस्तुषारस्पर्शो[११८]व्यापकश्च[११९]शीतस्पर्शो न दृश्यस्तत्रायं हेतुः । तयोर्दृश्यत्वे स्वभावस्य व्यापकस्य चानुपलब्धिर्यतः प्रयोक्तव्या । तथा च[१२०]सत्यभावसाधनीयम् । दूरवर्तिनश्च प्रतिपत्तुस्तुषारस्पर्शः शीतस्पर्शविशेषः शीतमात्रं च[१२१]परोक्षम् । वह्निस्तु रूपविशेषाद्दूरस्थोऽपि प्रत्यक्षः । ततो वह्नेः शीतमात्राभावः । ततः शीतविशेषतुषारस्पर्शाभावनिश्चयः । शीतविशेषस्य
शीतसामान्येन व्याप्तत्वादिति विशिष्टविषये[१२२]ऽस्याः प्रयोगः ॥


__________टिप्पणी__________

[११७] अग्नेर्-- अफेन्.
[११८] प्रतिषेध्यतुषारस्पर्शो -- च्.
[११९] व्यापकं च द्.
[१२०] च ओम्. ब्पे.
[१२१] च ओम्. -- ब्.
[१२२] विशिष्टे विषये -- ब्.
___________________________







कारणानुपलब्धिर्यथा नात्र धूमो वह्न्यभावाद्[१२३]इति इइ-३९


__________टिप्पणी__________

[१२३] अग्न्यभावाद्-- ब्च्फ्ने.
___________________________


प्रतिषेध्यस्य यत्कारणं तस्यानुपलब्धेरुदाहरणं यथेति । अत्रेति धर्मी । न धूम

कीदृशि विषयेऽस्याः प्रयोग इत्याह यत्रेति । न केवलं पूर्वमित्य्<अपि>शब्दः । अभावो भावव्यवहारश्च्<आभाव>शब्देनोक्तः । स्यान्मतम् । कथं पुनः शीतस्पर्शशीतकारणेऽदृश्ये वह्निस्तु दृश्यः सम्भवति येनास्याः प्रयोगो घटत इत्याह यस्मिन्निति । <उद्देशे >प्रदेशे प्रतिपत्तुर्दूरस्थत्वादिति शीतस्पर्शशीतकारणयोरदृश्यत्वे कारणम् । भास्वरवर्णत्वादिति वह्नेर्दृश्यते निबन्धनम् । <भास्वरो >भासनशीलो <वर्णो >यस्य तद्भावस्तस्मात् । न केवलं निकट इत्य्<अपि>शब्दः । <तत्र >तस्मिन् देशे । प्रयोगः पुनरेवं कार्यः यत्र विशिष्टो
वह्निर्न तत्र शीतोपजननाप्रतिबद्धशक्तीनि शीतकारणानि । यथा क्वचिदनुभूते प्रदेशे । तथाभूतश्चात्र वह्निरिति । एतच्चाभ्यासाज्झगिति वह्निदर्शनेन तथाभूतशीतकारणाभावप्रतीतिजन्मन्येकं कार्यविरुद्धोपलम्भजमनुमानमुक्तमाचार्येणेति द्रष्टव्यम् । अन्यथा तु विरुद्धोपलम्भकार्यानुपलम्भजे द्वे एते अनुमाने । तथा हि यत्र वह्निर्न तत्र शीतस्पर्श इति स्वभावविरुद्धोपलम्भजमेकमनुमानम् । यत्र च यत्कार्यं नास्ति न तत्र तत्कारणं तज्जननाप्रतिबद्धसामर्थ्यमस्तीति कार्यानुपलम्भजं द्वितीयमिति ॥


[ध्प्र्प्.१३६]

इति साध्यम् । वह्न्यभावादिति हेतुः । यत्र कार्यं सदपि अदृश्यं[१२४]भवति तत्रायं प्रयोगः । दृश्ये तु कार्ये दृश्यानुपलब्धिर्गमिका । ततोऽयमप्यभावसाधनः[१२५]। निष्कम्पायतसलिलपूरिते ह्रदे हेमन्तोचितबाष्पयोद्गमे विरले सन्ध्यातमसि सति सन्नपि तत्र धूमो न दृश्यत इति कारणानुपलब्ध्या प्रतिषेध्यते[१२६]। वह्निस्तु यदि तस्यासम्भव उपरि प्लवमानो भवेत्प्रज्वलितो[१२७]रूपविशेषादेवोपलब्धो भवेत् । अज्वलितस्तु इन्धनमध्यनिविष्टो भवेत् । तत्रापि दहनाधिकरणमिन्धनं प्रत्यक्षमिति स्वरूपेण आधाररूपेण वा दृश्य[१२८]एव वह्निरिति तत्रास्य[१२९]प्रयोग इति[१३०]।


__________टिप्पणी__________

[१२४] न दृश्यं, दृश्यं न अफेन्.
[१२५] -साधकः -- च्.
[१२६] प्रतिषिध्यते -- ब्.
[१२७] भवेज्ज्वलितो रूप- -- अफेन्.[भवेज्ज्वलितरूप- -- ए.
[१२८] [दृश्यमानरूप एव -- च्.
[१२९] अस्याः -- अब्च्द्फेन्.
[१३०] इति ओम्. व्ल्.] -- अब्फेन्.
___________________________








व्यापकविरुद्धोपलब्धिं व्याख्यातुमाह प्रतिषेध्येत्यादि । पूर्ववद्धर्म्यादिप्रदर्शनम् । अत्रापि विशिष्टाद्वह्नेरिति द्रष्टव्यम् । अस्यापि प्रयोगविषयमाह यत्रेति । कथं तयोरदृश्यत्वं वह्नेश्च दृश्यत्वं कथं च न शीतस्पर्श एव तुषारस्पर्श इत्याशङ्कात्रितयमपाकुर्वन्नाह दूरेति । चो हेतौ नियमे वा । तयोर्भेदमुपपादयति तुषारेति । शीतमात्रमशीतव्यावृत्तिमात्रम् । ततः शीतमात्राभावात् । शीतविशेषश्चासौ तुषारस्पर्शश्चेति विग्रहः । कथं तदभावनिश्चय इत्याह शीतविशेषस्येति । एष च वास्तवो निवृत्तिक्रमः परामर्शदशायां
दर्शितो न तु तत्प्रयोगकालिकः । तथात्वे हि नैकमनुमानमिदं स्यात् । इतीत्यादिनोपसंहरति । इतिरेवमर्थे । तस्मादर्थे वा । एतेन यद्यत्र नियतसहोपलम्भं तत्ततो न भिद्यते । यथैकस्माच्चन्द्रमसो द्वितीयश्चन्द्रमा । नियमसहोपलम्भस्तु नीलादिज्ञानेनेत्यादि दर्शितं द्रष्टव्यम् ॥ कारणानुपलब्धिं विवरिषुराह प्रतिषेध्येति । ननु द्वयोरपि तुल्यस्वज्ञानजननयोग्यतारूपत्वात्तुल्यदृश्यत्वमिति कथमस्याः प्रयोग इत्याशङ्क्य विषयमस्या दर्शयितुं यत्रेत्यादिनोपक्रमते । ननु मनोमोदकोपयोग्य्मात्रमेतत्न पुनरीदृशो विषयोऽस्ति यत्राग्निरेव दृश्यो न धूम इति कथं पूर्वोक्तातिक्रम इत्याह निष्कम्पेति । ह्रदो
जलाधारविशेषः । निर्गतः कम्पश्चलनं यस्मात्स तथा स चासावायतो महानिति तथा । स चासौ सलिलपूरितश्चेत्येवं विग्रहः कार्यः । आयतग्रहणेन ह्रदस्य महत्त्वाद्वाष्पे भूयस्त्वमत एव धूमस्य ततो भेदेनानुपलक्षणमिति दर्शयति । पुनः किं विशिष्टे ? हेमन्ते हेमन्तसंज्ञके काले । उचितोऽधिकृतश्चासौ वाष्पश्चेति


[ध्प्र्प्.१३७]

कारणविरुद्धोपलब्धिर्यथा -- नास्य रोमहर्षादिविशेषाः, सन्निहितदहनविशेषत्वादिति इइ-४०

प्रतिषेध्यस्य यत्कारणं तस्य यद्विरुद्धं तस्योपलब्धेरुदाहरणं यथेति । अस्येति धर्मी । रोम्णां हर्ष उद्भेदः । स आदिर्येषां दन्तवीणादीनां शीतकृतानाम्, ते विशिष्यन्ते[१३१]तदन्येभ्यो भयश्रद्धादिकृतेभ्य इति रोमहर्षादिविशेषाः । ते न सन्तीति साध्यम् । दहन एव विशिष्यते तदन्यस्माद्[१३२]दहनाच्छीतनिवर्तनसामर्थ्येनेति दहनविशेषः । कश्चिद्दहनः सन्नपि न शीतनिवर्तनक्षमो यथा प्रदीपः । तादृशनिवृत्तये विशेषग्रहणम् । सन्निहितो दहनविशेषो यस्य स तथोक्तः । तस्य भावस्तस्मादिति हेतुः । यत्र शीतस्पर्शः
सन्नप्यदृश्यो दहनविशेषो यस्य स तथोक्तः । तस्य भावस्तस्मादिति हेतुः । यत्र शीतस्पर्शः सन्नप्यदृश्यो रोमहर्षादिविशेषाश्चादृश्याः, तत्रायं प्रयोगः । रोमहर्षादिविशेषस्य दृश्यत्वे दृश्यानुपलब्धिः प्रयोक्तव्या । शीतस्पर्शस्य दृश्यत्वे कारणानुपलब्धिः । तस्मादभावसाधनोऽयम् । रूपविशेषाद्धि दूराद्


__________टिप्पणी__________

[१३१] विशेष्यन्ते -- ब्.
[१३२] विशेष्यन्तेऽन्यस्माद्-- ब्.; विशिष्यन्तेऽन्यस्माद्-- च्.द्.
___________________________



तथा तस्य्<ओद्गम >ऊर्ध्वं गमनं यस्मिन् यस्माद्वा स तथा । कालविशेषेऽप्यस्याः प्रयोग इति दर्शयति विरले । सन्ध्याकालोचितं तमः सन्ध्यातमः तस्मिन् विरले मन्दप्रचारे । कुत्र ? ह्रदे तथाविधे च तमसि सति । इतिस्तस्माद् । वह्नेरपि तत्रेयं गतिर्भविष्यतीत्याह -- वह्निस्त्विति । तुः पूर्ववत् । अम्भस इति षष्ठी पुनः षष्ट्यतसर्थेत्यादिना (पाणिनि २.३.३०) उपरिशब्दस्यातसर्थप्रत्ययान्तरत्वात् । तथा हि ऊर्ध्वं[र्ध्व]शब्दादुपर्युपरिष्ठाद्(पाणिनि ५.३.३९) इतिरित्प्रत्ययो निपातितः । तेनैव सूत्रेणोर्ध्वशब्दस्योपादेशोऽपि । प्लवमानोऽवतिष्ठमानः । अनेकार्थत्वाद्
धातोर्गच्छन्निति वा । स्वरूपेण ज्वालारूपेणाधाररूपेणेन्धननिविष्टेन । इतिर्हेतौ । तत्र तस्मिन् स्थानविशेषे । अस्य कारणानुपलम्भस्य । तमिस्रायामेव तु रात्रौ निराधारके प्रदेशे कारणानुपलब्धेः प्रयोगः सुकरः तत्र वह्नेर्दृश्यत्वाद्धूमस्य सतोऽप्यदृश्यत्वात् । अनेन पुनरेवंविधं विषयं परित्यज्यान्यं विषयमुपपादयता किमित्यात्मायासति इति न प्रतीमः । एवं तु प्रयोगः कार्यः -- यत्र यस्य कारणं नास्ति न तत्तत्रास्ति । यथा बीजाभावे ङ्कुरः । नास्ति चात्र धूमस्य कारणं वह्निरिति । एतेन यत्र यत्र विज्ञानस्य कारणं विज्ञानं नास्ति न तत्र विज्ञानमुपपद्यते
। यथोपलशकले । नास्ति च प्राग्भवीयं विज्ञानं कललावस्थायामिति कारणानुपलब्धिप्रसङ्गः सुचितस्तुल्यन्यायार्थः ॥ कारणविरुद्धोपलब्धिं व्याख्यातुमाह प्रतिषेध्यस्येति । पूर्ववद्धर्म्यादिप्रदर्शनम् । उद्भेदः पुलक इत्यर्थः । दन्तवीणाधरोपरिस्थितदन्तपङ्क्तिभ्यां सत्वरमभिहन्यमानाभ्यां कटकटकारणम् । आदिशब्देन शरीरकम्पस्य ग्रहणम् । सुखादित्यादिग्रहेण हर्षवीररसयोर्ग्रहणम् ।


[ध्प्र्प्.१३८]

वहनं पश्यति । शीतस्पर्शस्त्वदृश्यो रोमहर्षादिव्शेषाश्च । तेषां कारणैरुद्धोपलम्ब्ध्याऽभावं[१३३] प्रतिपद्यत इति तत्रास्य प्रयोग[१३४] इति ॥


__________टिप्पणी__________

[१३३] भावः प्रति -- फेन्. भाव प्रति -- अ.
[१३४] तत्रास्याः प्रयोग -- अब्च्द्फेन्.
___________________________



कारणविरुद्धकार्योपलन्धर्यथा -- न रोससर्षादिविशेषयुक्तपुरुषवानयं प्रदेशः, धूमादिति इइ-४१

प्रतिषेध्यस्य यत्<कारणं >तस्य यद्<विरुद्धं >तस्य यत कार्यं तस्य्<ओपपब्धिर्> उदारर्त्तव्या -- <यथे>ति अयं <प्रदेश> इति[१३५]धर्मी । योगो <युक्तम् > । योमहर्षादिविशेषैर्युक्तं रोमहर्षादिविशेषयुक्तम्[१३६]। तस्य सम्बन्धी पुरुषो[१३७][१३८]<रोमाहर्षादिविशेषयुक्त>पृष्ठौरुषः । तद्वान्न वह्बतीति साध्यम् । धूमादिति हेतुः ।


__________टिप्पणी__________

[१३५] अयं देश इति अफेन्.
[१३६] -हर्षविशेष- -- च्. ’रोमहर्षादिविशेषयुक्तम्ऽ नास्ति -- ब्.
[१३७] ’पुरुषोऽ नास्ति -- च्.
[१३८] <विशेषयुक्त -- ब्.>
___________________________





किं शीतनिवर्त्तनाक्षमोऽप्यस्ति दहनो येन ततो विशिष्यत इत्याह -- कश्चिदिति । सन्निहितो दहनविशेषो यस्येति विग्र्ःणन् सन्निहितश्चासौ दहनविशेषश्चेति यदन्येन व्याख्यतुं तदपहस्तयति । तदा हि व्यधिकरणासिद्धो हेतुः स्यादिति । क्व पुनरस्याः प्रयोग इत्याह -- यत्रेति । ननु शीतस्पर्शरोमहर्षविशेषाणामदृश्यत्वे कथं वह्नेर्दृश्यत्वमित्याह -- रूपेति । हिर्यस्मात् । इतिरेवमनन्तरोक्तेन न्यायेन । तत्र विशेषेऽस्य कारणविरुद्धोपलम्भस्य । एष तु प्रयोगोऽभिधानीयः -- यत्र यत्कारणविरुद्धमस्ति न तत्तत्रास्ति । यथा श्लेष्मविरुद्धे पित्ते न श्लैष्मिको व्याधिः । अस्ति च रोमहर्षादिकारणविरुद्धो
वह्निरत्रेति । एतदप्यत्यन्ताभ्यासाञ्झगिति सन्निहितदहनविशेषत्वावगममात्रे रोमहर्षादिविशेषाभावप्रतीत्युदये सत्येकमाचार्येणोक्तम् । धर्मोत्तरेणापि तथा व्याख्यात इति द्रष्टव्यम् । अन्यथा तु विरुद्धोपलम्भकारणानुपलम्भसम्भवे द्वे इमे अनुमाने । तथा हि -- यत्र वह्निर्न तत्र शीतस्पर्श इति विरुद्धोपलम्भजमेकमनुमानम् । यत्र शीतस्पर्शाभावो न तत्र तत्कार्यरोमहर्षादीति कारणानुपलम्भजं द्वितीयमिति ॥ प्रतिषेध्यस्येत्यादिना कारणविरुद्धकार्योपलब्धिं व्याचष्टे । पूर्ववद्धर्म्यादिप्रदर्शनम् । रोमहर्षादिविशेषैर्युक्तश्चासौ पुरुषश्चेति कर्मधारयं कृत्वा स विद्यते यत्र स तद्वानिति शान्तभद्रेन
व्याख्यातम् । तच्चावद्यम् । यतः कर्मधारयमत्त्वर्थीयाद्बहुव्रीहिरेव लाघवेन इति वचनाद्रोमहर्षादिविशेषयुक्तः पुरुषो यत्रेत्येवं विशिष्टे प्रदेशेऽवगते किं मत्वर्थीयेनेति मन्यमानो महावैयाकरणो यं धर्मोत्तरः प्राह -- योगो युक्तमिति भावे निष्ठा । यद्येवं कृष्णः सर्पो






[ध्प्र्प्.१३९]

रोमहर्षादिविशेषस्य[१३९]प्रत्यक्षत्वे दृश्यानुपलब्धिः । कारणस्य शीतस्पर्शस्य प्रत्यक्षत्वे कारणानुपलब्धिः । वह्नेस्तु[१४०]प्रत्यक्षत्वे कारणविरुद्धोपलब्धिः प्रयोक्तव्या । तर्याणामप्यदृश्यत्वेऽयं प्रयोगः । तस्मादभावसाधनोऽयम् । तत्र[१४१]दूरस्थस्य प्रतिपत्तुर्दहनशीतस्पर्शरोमहर्षादिविशेषा अप्रत्यक्षाः सन्तोऽपि, धूमस्तु प्रत्यक्षो यत्र, तत्रैतत्प्रमाणम् । धूमस्तु यादृशस्तद्देशे[१४२]स्थितं शीतं निवर्तयितुं समर्थस्य वह्नेरनुमापकः स इह ग्राह्यः । धूममात्रेण तु[१४३]वह्निमात्रेऽनुमितेऽपि न शीतस्पर्शनिवृत्तिः, नापि
रोमहर्षादिविशेषनिवृत्तिर्[१४४]अवसातुं शक्येति न धूममात्रं[१४५]हेतुरिति द्रष्टव्यमिति॥


__________टिप्पणी__________

[१३९] रोमहर्षविशेष -- द्ब्.
[१४०] वह्नेः -- च्द्.
[१४१] यत्र -- अ.
[१४२] तस्मिन् देशे -- अच्फेन्.
[१४३] तु ओम्. -- अ.
[१४४] हर्षादि- -- द्ब्.
[१४५] शक्यत इति -- च्.; शक्येति धूम- -- अ.; शक्येते न धूम- -- ह्.
___________________________










यस्मिन् वल्मीके लोहितः शालिर्यस्मिन् ग्रामे गौरः खरो यस्मिन्नरण्य इति बहुव्रीहिणा भवितव्यम् । ततश्च कृष्णसर्पवान् वल्मीको लोहितशालिमान् ग्रामो गौरखरवदरण्यमिति न स्यात् । साधवश्चामी प्रयोगस्तत्कथमनेनैवं व्याख्यातमिति चेत् । नैष दोषः । यस्मात्कर्मधारयमत्वर्थीयाद्बहुव्रीहिर्लाघवेन इतीदं वचनं संज्ञाशब्दं वर्जयित्वा वेदितव्यम् । संज्ञाशब्दाश्चैते कृष्णसर्पलोहितशालिगौरखरशब्दा इति साधूक्तं योगो युक्तमिति । रोमहर्षादिविशेषयुक्तमिति रोमहर्षादिविशेषयोग इत्यर्थः । तस्य तद्युक्तस्य तद्योगस्य सम्बन्धी । सम्बन्धीत्यनेन
सम्बन्धषष्ठीयं समस्यत इति दर्शयति । यतोऽयं रोमहर्षादिविशेषयोगः स्वात्मना पुरुषं व्यवच्छिनत्ति । ततो व्यवच्छेदकः सन् पुरुषं स्वसम्बन्धिनमुपपादयति । कदायं प्रयोगो द्रष्टव्य इत्याह -- त्रयाणामिति वह्निशीतस्पर्शरोमहर्षादिविशेषाणाम् । अपिरवधारणे । कस्मादेवमित्याह -- रोमहर्षादिविशेषस्येत्यादि । हिशब्दार्थश्चात्रार्थाद्द्रष्टव्यः । यत एवं तस्मात् । अयमित्ययमपीति द्रष्टव्यम् । क्व पुनस्त्रयाणामप्रत्यक्षत्वं धूमस्य तु प्रत्यक्षत्वमित्य्
आह -- तत्रेति वाक्योपेक्षेपे । विद्यमाना प्यप्रत्यक्षा यद्यभविष्यन्नियतमुपालप्स्यन्तेति सम्भावनामतिवृत्ताः । दूरस्थस्येति हेतुभावेन विशेषणम् । ततोऽयमर्थः -- दूरस्थत्वात्प्रतिपत्तुस्ते सन्तोऽप्यप्रत्यक्षा इति । तत्र स्थाने । एतत्कारणविरुद्धकार्यरूपं साधनं प्रमाणमित्यनुमानाख्यप्रमाणजनकवात् । अदूरस्थत्वे तु प्रतिपत्तुः प्राकारादिव्यवहितोद्देशेऽयं प्रयोगो द्रष्टव्यः । धूमशब्देन विशिष्टो धूमो विवक्षित इति दर्शयति -- धूमस्त्विति । तुशब्दो विशेषार्थः । एतदेव व्यतिरेकमुखेण द्रढयन्नाह -- धूममात्रेणेति । तुः पूर्वस्माद्वैधर्म्यमाह
। इतिर्हेतौ । द्वितीय इतिरेवमर्थः ।


[ध्प्र्प्.१४०]

यद्येकः प्रतिषेधहेतुरुक्तथ्कथमेकादशाऽभावहेतव इत्याह

इमे सर्व कार्यानुपलब्ध्यादयो दशानुपलब्धिप्रयोगाः स्वभावानुपलब्धौ सङ्ग्रहमुपयान्ति इइ- ४२

<इमे सर्वे >इत्यादि[१४६]। <इमे >ऽनुपलब्धिप्रयोगाः । इदमानन्तरप्रक्रान्ता निर्दिष्टाः । तत्र कियतामपि ग्रहणे प्रसक्त आह -- <कार्यानुपलब्ध्यादय> इति । कार्यानुपलब्ध्यादीनामपि त्रयाणां चतुर्णां वा ग्रहणे प्रसक्त आह[१४७]-- <दशेति> । तत्र[१४८]दशानामप्युदाहृतमात्राणां ग्रहणप्रसङ्गे सत्याह[१४९]-- <सर्व> इति । एतदुक्तं भवति अप्रयुक्ता[१५०]अपि प्रयुक्तोदाहरणसदृशाश्च सर्व एवेति । दशग्रहणमन्तरेण सर्वग्रहण क्रियमाणे प्रयुक्तोदाहरणकार्त्स्न्यं गम्येत[१५१]। दःग्रहणात्[१५२]तूदाहरणकार्त्स्न्ये[१५३]ऽवगते सर्वग्रहणमतिरिच्यमानमुदाहृतसदृशकार्त्स्न्यावगतये[१५४]जायते[१५५]।


__________टिप्पणी__________

[१४६] इमे सर्वे इत्यादि ओम्. -- ह्न्. इम इत्यादि -- अब्देप्.
[१४७] प्रसक्ते सत्याह -- फेन्.; प्रसक्तेत्याह -- अ.
[१४८] तत्र ओम्. -- अब्फेन्.
[१४९] प्रसङ्गे आह -- फेन्.
[१५०] भवति । प्रयुक्ता -- च्.
[१५१] गम्यते -- अब्च्द्फेन्.
[१५२] दशग्रहणोदाहरण- -- ब्.
[१५३] -ग्रहणादाहृतका- -- ब्.
[१५४] -अधिगतये] -- च्.
[१५५] जातम् -- ए.
___________________________













प्रयोगः पुनरीदृशो वाच्यः -- यत्र यत्कारणविरुद्धकार्यमस्ति तत्र तन्नास्ति । यथा रुदितविशेषे सति न स्मितविशेषः । रोमहर्षादिविशेषयुक्तपुरुषवत्त्वकारणशीतस्पर्शविरुद्धवह्निकार्यञ्चात्र धूम इति । एतदप्यत्यन्ताभ्यासाञ्झगिति धूमदर्शनेन रोमहर्षादियुक्तपुरुषवत्त्वाभावप्रतीत्युदये सति कारणविरुद्धकार्योपलब्धिजमेकमनुमानमुक्तमाचार्येणेति द्रष्टव्यम् । अन्यथा कार्यहेतुविरुद्धोपलम्भकारणानुपलम्भसम्भवानि त्रीण्यमून्यनुमानानि । तथा हि -- तदेयं परिपाटिः -- यत्र धूमस्तत्राग्निरिति कार्यहेतुजमेकमनुमानम् । यत्र वह्निर्न तत्र शीतस्पर्श इति विरुद्धोपलम्भजं द्वितीयम् । यत्र शीतस्पर्शाभावो
न तत्र तत्कार्यरोमहर्षादिविशेषयुक्तपुरुषभाव इति कारणानुपलम्भजं तृतीयमिति । एते च प्रकारा अनुपलब्धेरुपलक्षणं वेदितव्याः । अन्यासामपि विधानसम्भवात् । तथा हि व्यापकविरुद्धकार्योपलब्धिरप्यस्ति -- यथात्र तुषारस्पर्शो धूमादिति । कार्यविरुद्धकार्योपलब्धिरप्यस्ति -- यथा नायं नित्यः कदाचित्कार्यकारित्वादिति । प्रतिषेध्यस्य नित्यत्वस्य व्यापकं निरतिशयत्वात् । तस्य विरुद्धं सातिशयत्वम् । तेन व्याप्तं कदाचित्कार्यकारित्वमिति । आसाञ्च यथास्वं यथायोगं प्रयोगाः स्वयमूह्याः ।



[ध्प्र्प्.१४१]

ते स्वभावानुपलब्धौ सङ्ग्रहं तादात्म्येन गच्छन्ति । स्वभावानुपलब्धिस्वभावा इत्यर्थः ॥ ननु च स्वभावानुपलब्धिप्रयोगाद्भिद्यन्ते कार्यानुपलब्ध्यादयः । तत्कथमन्तर्भवन्ति इत्याह --[१५६]


__________टिप्पणी__________

[१५६] अन्तर्भाव इत्याह -- च्.
___________________________


पारम्पर्येणार्थान्तरविधिप्रतिषेधाभ्यां प्रयोगभेदेऽपि इइ- ४३

प्रयोगभेदेऽपि प्रयोगस्य शब्दव्यापारस्य भेदेऽपि अन्तर्भवन्ति । कथं प्रयोगभेद इत्याह अर्थान्तरविधीति[१५७]। प्रतिषेध्यादर्थाद्[१५८]अर्थान्तरस्य विधिरुपलब्धिः स्वभावविरुद्धाद्युपलब्धिप्रयोगेषु । प्रतिषेधः कार्यानुपलब्ध्यादिषु प्रयोगेषु । अर्थान्तरविधिना, अर्थान्तरप्रतिषेधेन


__________टिप्पणी__________

[१५७] विधीत्यादि -- फेह्.
[१५८] अर्थादोम्. -- ब्.
___________________________





केचित्तु नेहाप्रतिबद्धसामर्थ्यानि वह्निकारणानि सन्ति तुषारस्पर्शादिति कार्यविरुद्धव्याप्तोपलब्धिमिच्छन्ति । नात्र धूमस्तुषारस्पर्शादिति कारणविरुद्धव्याप्तोपलब्धिमपीति ॥ सा च प्रयोगभेदादेकादश प्रकारेति यदुक्तं तदसहमानश्चोदयति यदीति । अत्र [न्बिइ १७, एदितोर्] द्वौ वस्तुसाधनावेकः प्रतिषेधहेतुरित्यनेनैकः प्रतिषेधहेतुरुक्त इति चोदयितुराशयः । कार्येत्यादिना दशग्रहणस्य तात्पर्यार्थं व्याचष्टे । अपिशब्दः शङ्कायाम् । सर्वग्रहणस्यापि तात्पर्यार्थमाह -- तत्रेति वाक्योपन्यासे । अपिः पूर्ववत् । उदाहृत एवोदाहृतमात्राणि तेषाम् । अनेन द्रव्यकार्त्स्न्यवृत्तः सर्वशब्दो गृहीत इति दर्शितम् । तर्हि
सर्वग्रहणमेवास्तु किं दशग्रहणेनेत्याह -- दशेति । प्रयुक्तोदाहरणकार्त्स्न्यं गम्येतेति लोके सर्वे पदातु(त)योऽत्र योद्धारः इत्यादौ सर्वशब्दस्योपदर्शितकार्त्स्न्यवृतस्य दर्शनादुक्तम् । यद्येवं दशग्रहणेऽप्येवं किं न स्यादित्याह -- दशग्रहणादिति । तुर्शब्दग्रहणरहितपक्षाद्वैधर्म्यमाह । अतिरिच्यमानमधिकीभवद्गतार्थं सदिति यावतुपदर्शिततुल्यावबोधाय सम्पद्यते । स्यादेतत्-- इमे सर्वे दशानुपलब्धिप्रयोगा इत्येतावतैव क्रियतां ग्रहणप्रसङ्गो निराकृत एवेति कथं कार्यानुपलब्ध्यादिग्रहणमाचार्यस्य नातिरिच्यते कथं च धर्मोत्तरस्यैषा तात्पर्यार्थव्याख्या -- तत्कियतामपि प्रसक्त आहेत्यपर्यालोचितव्याख्यानं [न] भवतीति
चेत् । नैष दोषः । तथा हि -- प्राक्तनैकादशग्रहणस्योपलक्षणार्थत्वेनान्येषामपि व्यापकविरुद्धव्याप्तोपलब्ध्यादिप्रयोगाणामभिमतत्वादाद्याङ्कार्यानुपलब्ध्यादिप्रयोगान् विहाय दशसंख्यापूरणं कृतं भवत्येवेति तदाशङ्कानिवृत्त्यर्थं कार्यानुपलब्ध्यादिग्रहणं कृतमाचार्येण । धर्मोत्तरेणापि तथा व्याख्यातमिति । न तर्हि दशग्रहणं कर्त्तव्यमिति चेत् । न -- अस्योपलक्षणार्थत्वाददोष एषः ।

[ध्प्र्प्. १४२]

च प्रयोगो भिद्यन्ते । यदि प्रयोगान्तरेष्वर्थान्तरविधिप्रतिषेधौ कथं तर्हि[१५९]अन्तर्भवन्ति इत्याह पारम्पर्येणेति प्रणालिकयेत्यर्थः । एतदुक्तं भवति न साक्षादेते प्रयोगा दृश्यानुपलब्धिमभिदधति दृश्यानुपलब्ध्यव्यभिचारिणं त्वर्थान्तरस्य विधिं निषेधं वाऽभिदधति । ततः प्रणालिकयामीषां स्वभावानुपलब्धौ सङ्ग्रहो न साक्षादिति ॥ यदि प्रयोगभेदादेष भेदः[१६०]परार्थानुमाने वक्तव्य एषः । शब्दभेदो हि प्रयोगभेदः । शब्दश्च[१६१]परार्थानुमानमित्याशङ्क्याह --


__________टिप्पणी__________

[१५९] तर्हि ओम्. -- च्.
[१६०] प्रयोगभेदेन भेदः -- अफेन्.; प्रयोगभेदादेव भेदः -- ब्च्.
[१६१] तु -- ब्च्.
___________________________




प्रयोगदर्शनाभ्यासात्स्वयमप्येवं व्यवच्छेदप्रतीतिर्भवतीति स्वार्थेऽप्यनुमानेऽस्याः प्रयोगनिर्देशः[१६२] इइ-४४


__________टिप्पणी__________

[१६२] व्यवच्छेदप्रतीतिरिति स्वार्थानुमानेऽप्यस्याः प्रभेदनिर्देशः -- च्.
___________________________


प्रयोगदर्शनेत्यादि । प्रयोगाणां शास्त्रपरिपठितानां[१६३]दर्शनमुपलम्भः । तस्याभ्यासः पुनः पुनरावर्त्तनम् । तस्मान्निमित्तात् । स्वयमपीति प्रतिपत्तुरात्मनोऽपि । एवमित्यनन्तरोक्तेन क्रमेण[१६४]। व्यवच्छेदस्य प्रतिषेधस्य प्रतीतिर्भवतीति[१६५]इतिशब्दस्तस्मादर्थे ।


__________टिप्पणी__________

[१६३] शास्त्रघटितानाम् -- अफेन्.; शास्त्रपरिघटितानाम् -- ब्.; शास्त्रगदितानां पाठान्तरम्, --टि-
[१६४] प्रयोगदर्शनाभ्यासक्रमेण -- टि-
[१६५] इति ओम्. -- च्ब्.
___________________________






कथं सङ्ग्रहमन्तर्भावं गच्छन्तीत्याह -- तादात्म्येनेति । तस्याः स्वभावानुपलब्धेरात्मा तदात्मा तस्य भावस्तेन स्वभावानुपलब्धित्वेन । अनुपलब्धिस्वभावा इत्यर्थः -- इतीदं स्पष्टीकरणमपि स्वभावानुपलब्धिस्मारकत्वेन तत्स्वभावा इति द्रष्टव्यम् ॥ ...रेव किं न शब्दाख्या यत इति चेत्न -- परम्पर्यग्रहणव्याघातप्रसङ्गात्, न साक्षादेत इत्यादिवक्ष्यमाणधर्मोत्तरीयव्याख्यानव्याघातप्रसङ्गाच्चेति । शब्दस्य व्यापारोऽभिघातलक्षणः तस्य भेदे भिद्यमानत्वेऽपि । स्वभावविरुद्धादीत्यादिग्रहणेन कारणविरुद्धादीनां ग्रहणम् । कार्यानुपलब्ध्यादीत्यादिग्रहणेन व्यापकानुपलब्ध्यादीनां ग्रहणम् ।
अर्थान्तरविधिप्रतिषेधाभ्यामिति मूले कारणतृतीयाद्विवचनान्तमेतदिति दर्शयन्नाह -- अर्थान्तरेति । चस्तुल्यबलत्वं समुच्चिनोति । भिद्यन्ते नानारूपा भवन्ति । प्रयोगान्तरेष्वित्यन्तरशब्दोऽन्यवचनः स्वभावानुपलब्ध्यपेक्षया । परम्परा परिपाटिः । सैव पारम्पर्यमिति स्वार्थिकः प्रत्ययः । एतदेव स्पष्टयति -- प्रणालिकयेति । ननु यद्यमीषां दृश्यानुपलब्धावन्तर्भावस्तदा साक्षात्तदभिधानं तथात्वे च कथं पारम्पर्येणेत्याशङ्क्याह -- एतदुक्तं भवति । यदि नाभिदधति तदा -- न साक्षादिति न कर्त्तव्यम् ।

[ध्प्र्प्. १४३]

तदयमर्थः यस्मात्स्वयमप्येवमनेनोपायेन[१६६]प्रतिपद्यते प्रयोगाभ्यासात्तस्मात्स्वप्रतिपत्तावप्युपयुज्यमानस्यास्य प्रयोगभेदस्य स्वार्थानुमाने निर्देशः ।[१६७]यत्पुनः परप्रतिपत्तावेवोपयुज्यते तत्परार्थानुमान एव वक्तव्यमिति ॥


__________टिप्पणी__________

[१६६] अनेन मेयेन -- पाठः -- टि-
[१६७] यत्पुनस्त्रिरूपं लिङ्गाख्यानम् -- टि-
___________________________





सङ्ग्रहश्च कथमित्याह -- दृश्येति । तुर्विशेषार्थे यस्मादर्थे वा । विधिमग्न्यादेः । निषेधं व्यापकादेः । चकारो वाशब्दार्थे । ततस्तदव्यभिचारिविधिनिषेधाभिधानात् । न साक्षात्नाव्यवधानेन । अर्थान्तरविधिप्रतिषेधयोश्च दृश्यानुपलम्भाव्यभिचारित्वं कार्यकारणभावादिग्रहणकालप्रवृत्तदृश्यानुपलम्भस्मारकादि द्रष्टव्यम् । एष भेद इति स्वभावानुपलब्ध्यादिरूपः । कस्मात्तत्र वाच्य इत्याह शब्देति । हिर्यस्मात् । शब्दभेदस्त्रिरूपलिङ्गवाक्यनानात्वम् । यद्यप्येवं तथापि कथं तत्र वक्तव्य इत्याह -- शब्दश्चेति । चो हेतौ । शास्त्रपरिपठितानामिति शास्त्रपरिपठितद्द्वारेण परिज्ञातानां स्वभावाद्यनुपलब्ध्यादिवाचकानां
वाक्यानामिति द्रष्टव्यम् । उपलम्भो द्विविधो वाच्यरूपो वाचकरूपश्च । अत एवावर्त्तनमपि द्वेधा शब्दरूपावर्त्तनम्, अर्थावर्त्तनं च । तत्रार्थावर्त्तनं पुनः पुनश्चेतसि विवेशनम् । शब्दावर्त्तनं पुनः पुनरुच्चारणम् । मूले स्वयंशब्द आत्मन इति षष्ट्यर्थे वर्त्तमानो गृहीत इत्याशयेनाह -- प्रतिपत्तुरात्मन इति । स्वार्थानुमानप्रस्तावात्प्रतिपत्तृशब्देन यस्त्रिरूपेण लिङ्गेन परोक्षमर्थं प्रतिपद्यते स गृह्यते । अपिशब्दात्परोऽपि तस्मात्प्रतिपद्यत इति सम्बन्धनीयम् । मूले तु न केवलं परस्येति योजनीयम् । अनन्तरोक्तेन परिपठितस्वभावानुपलब्ध्यादिसूचितेन स्वभावानुपलब्ध्यादिप्रयोगक्रमेण । यत इतिशब्दस्तस्मादर्थे ततस्
तस्मादयं वक्षमाणोऽर्थः । तस्माच्छब्देन यस्माच्छब्दस्यान्वयाद्यस्मादित्युक्तम् । अनेन स्वभावानुपलब्ध्यादिप्रयोगलक्षणेनोपायेन प्रतिपद्यत इत्याशङ्क्य पूर्वमेव स्मरयति प्रयोगाभ्यासादिति । स्यान्मतम् -- न स्वयमुच्चरितः शब्दस्तत्प्रतिपत्तेर्निमित्तम् । प्रतिपन्ने शब्दप्रयोगात् ॥ अन्यथा प्रतिनियतप्रयोगायोगात् । तत्कथं पिष्टपेषणकारी शब्द उपायत्वेनोच्यत इति नैतदस्ति । यतो लिङ्गदर्शनेनान्यतो वा निमित्तात्प्रबुद्धवासनो मन्दप्रचारार्थस्मरणोऽत्यन्राभ्यस्तप्रयोगस्तथाविधप्रयोगमुच्चार्यैवं तत्त्वमवगाहमानस्तदर्थं प्रतिपद्यते -- यथा कश्चिदभ्यासात्सति धर्मिणि धर्माणां लोके चिन्ता प्रवर्त्तत इत्युच्चार्यैवास्यार्थं प्रतिपद्यते, तद्वत्त्रिरूपाख्यानं
वाक्यमुच्चार्यैव कश्चिदभ्यस्तप्रयोगः परोक्षमर्थं प्रतिपद्यते । ततोऽयमुपायो भवत्येव । ततो परस्यापि प्रतीत्युदयात्परार्थानुमानमपि स्यादिति चेत् । भवतु । का क्षतिः ? स्वप्रतिपत्तिप्रयोजनं सत्व्सार्थानुमानं तदैव च तेनान्यः प्रतिपद्यत इति परप्रतिपत्तिप्रयोजनं सत्परार्थानुमानम् । अत एवमशब्देऽपि कश्चिन्नियतोऽस्तीत्यवाचामेति ।

[ध्प्र्प्. १४४]

ननु च कार्यानुपलब्ध्यादिषु कारणादिनामदृश्यानामेव निषेधः[१६८]दृश्यनिषेधे स्वभावानुपलब्धिप्रयोगप्रसङ्गात्[१६९]। तथा च सति[१७०]न तेषां दृश्यानुपलब्धिनिषेधः । तत्कथमेषां प्रयोगाणां दृश्यानुपलब्धावन्तर्भाव इत्याह --


__________टिप्पणी__________

[१६८] प्रतिषेधः -- अफेन्.
[१६९] स्वभावानुपलम्भ- -- अब्फेन्.
[१७०] अदृश्यानां निषेधे सति -- टि-
___________________________




सर्वत्र चास्यामभावव्यवहारसाधन्याम्[१७१]अनुपलब्धौ येषां स्वभावविरुद्धादीनाम्[१७२]उपलब्ध्या कारणादीनामनुपलब्ध्या च प्रतिषेध उक्तस्तेषामुपलब्धिलक्षणप्राप्तानामेवोपलब्धिरनुपलब्धिश्च वेदितव्या इइ- ४५


__________टिप्पणी__________

[१७१] अभावाभावव्यवहारसाधन्याम् -- ए
[१७२] -विरुद्धानाम् -- च्.
___________________________



<सर्वत्र चे>त्यादि[१७३]। अभावश्च तद्व्यवहारश्च अभावव्यवहारौ[१७४]। स्वभावानुपलब्धावभावव्यवहारः साध्यः । शिष्टेष्वभावः । तयोः साधन्यामनुपलब्धौ । सर्वत्र चेति चशब्दो हिशब्दस्यार्थे । यस्मात्सर्वत्रानुपलब्धौ[१७५]येषां प्रतिषेध उक्तस्तेषामुपलब्धिलक्षणप्राप्तानां दृश्यानाम्[१७६]एव[१७७]प्रतिषेधस्तस्माद्दृश्यानुपलब्धावन्तर्भावः ।


__________टिप्पणी__________

[१७३] सर्वत्र चेत्यादि ओम्. -- ह्न्
[१७४] तस्य च व्यवहारोऽभावव्यवहारौ -- अफे
[१७५] सत्यां -- भ्ल्
[१७६] दृश्यमानानाम् -- ब्
[१७७] स -- अफेन्
___________________________






कुत एतद्दृश्यानामेवेत्याह स्वभावेत्यादि । अत्रापि चकारो हेत्वर्थः । यस्मात्स्वभावविरुद्धादिर्येषां तेषामुपलब्ध्या कारणमादिर्येषां तेषामनुपलब्ध्या प्रतिषेध उक्तस्तस्माद्दृश्यानामेव प्रतिषेध इत्यर्थः ।

यदि नाम स्वभावविरुद्धाद्युपलब्ध्या कारणाद्यनुपलब्ध्या[१७८]च प्रतिषेध उक्तस्तथापि कथं डृश्यानामेव प्रतिषेध इत्याह उपलब्धिरित्यादि । अत्रापि चकारो हेत्वर्थः । यस्माद्ये विरोधिनः व्याप्यव्यापकभूताः कार्यकारणभूताश्च ज्ञातास्तेषामवश्यमेवोपलब्धिः उपलब्धिपूर्वा चानुपलब्धिर्वेदितव्या ज्ञातव्या[१७९]। उपलब्ध्यनुपलब्धी च द्वे येषां स्तस्ते दृश्या एव । तस्मात्स्वभावविरुद्धाद्युपलब्ध्या कारणाद्यनुपलब्ध्या चोपलब्ध्यनुपलब्धिमतां विरुद्धादीनां प्रतिषेधः क्रियमाणो दृश्यानामेव कृतो द्रष्टव्यः ।


__________टिप्पणी__________

[१७८] कारणानुपलब्ध्या -- च्
[१७९] ज्ञातव्या ओम्. -- अब्फेन्
___________________________





केचित्पुनरेवं व्याकषते -- स्वयमित्यादिना ग्रन्थेन वार्त्तिककृतेदमुक्तम् -- स्वभावादीनामनुपलब्ध्या विरुद्धादीनाञ्चोपलब्ध्या यथायोगमभावं तद्व्यवहारं च प्रयोगनिरपेक्ष एव प्रतिपत्ता प्रत्येति । न केवलं प्रयोगाभ्यासात्प्रतिपत्तिसमय एव प्रयोगमुच्चारयति । न तु ततो पूर्वमवगच्छतीतरथा प्रतिनियतशब्दोच्चारणं न भवेदिति । अनेनोपायेनेति चोपाय इहोपायस्तथाशब्दोच्चारणक्रमस्तेनेति वर्णयन्ति । एतेन चानुपलब्धिप्रयोगसमर्थनन्यायेन ।



[ध्प्र्प्. १४५]

बहुषु चोद्येषु प्रक्रान्तेषु परिहारसमुच्चयार्थश्चकारो हेत्वर्थो भवति । यस्मादिदं चेदं च समाधानमस्ति तस्मात्तत्तच्चोद्यमयुक्तमिति चकारार्थः ॥ कस्मात्पुनः प्रतिषेध्यानां विरुद्धादीनामुपलब्ध्यनुपलब्धी वेदितव्ये इत्याह

अन्येषां विरोधकार्यकारणभावाभावासिद्धेः[१८०] इइ-४६


__________टिप्पणी__________

[१८०] -कारणभावासिद्धेः -- ए; -कारणभावासिद्धिः -- ब्फ्
___________________________


अन्येषामिति । उपलब्ध्यनुपलब्धिमद्भयोऽन्येऽनुपलब्धा एव ये तेषां विरोधश्च कार्यकारणभावश्च केनचित्सहाभावश्च व्याप्यस्य व्यापकस्याभावे[१८१]न सिध्यति यस्मात्ततो विरोधकार्यकारणभावाभावासिद्धेः[१८२]कारणादुपलब्ध्यनुपलब्धिमन्त एवं विरुद्धादयो निषेध्याः । उभयवन्तश्च दृश्या एव । तस्माद्दृश्यानामेव प्रतिषेधः । तदयमर्थः । विरोधश्च[१८३]कार्यकारणभावश्च व्यापकाभावे व्याप्याभावश्च दृश्यानुपलब्धेरेवेति । एकसंनिधावपराभावप्रतीतौ[१८४]ज्ञतो विरोधः । कारणाभिमताभावे च कार्याभिमताभावप्रत्ययेऽवसितः कार्यकारणभावः[१८५]। व्यापकाभिमताभावे च[१८६]व्याप्याभिमताभावे


__________टिप्पणी__________

[१८१] व्यापकाभावे -- च्
[१८२] विरोधिकार्य- -- अब्पेह्न्
[१८३] च ओम्. -- अफेन्
[१८४] एकसंनिधाने पराभावप्रतीतौ -- च्
[१८५] अवसितकार्यकारणभावः -- अफे
[१८६] च ओम्. -- अब्च्फेन्
___________________________









अन्ये पुनरन्यथा व्यवस्थिताः -- स्वयमपीत्यादिकं नाविर्भूतप्रयोगमधिकृत्योक्तम्, किन् त्वन्तर्जल्पाकारप्रवृत्तं स्वप्रतिपत्तिकालभाविनमिति । अत्र च साध्वसाधु वा व्याख्यानं साधुभिरेव ज्ञातव्यमिति । स्यादेतत्-- यथा प्रयोगभेदः स्वार्थानुमाने कथ्यते तथा च न किञ्चिद्वाच्यं परार्थानुमाने स्यादित्याशङ्क्याह -- यत्पुनरिति । परप्रतिपत्तावेव, न तु स्वप्रतिपत्तावपीत्यवधारणार्थः ॥ सम्प्रति दृश्यानुपलब्धावन्तर्भावं सर्वानुपलब्धीनामसहमान आह -- ननु चेति । तथा च सति कारणादीनामदृश्यानां निषेधप्रकारे सति । शिष्टेषु परिशिष्टेषु अभाव इत्यभावोऽपीति द्रष्तव्यम् । न त्वभाव एव व्यवहारस्यापि साधनात् । कारणा[द्य्]अनुपलब्ध्या
च करणभूतया । कार्यकारणभावादिग्रहणकाले योपलब्धिरनुपलब्धिश्च पूर्वमासीत्तद्वतां प्रतिषेधः क्रियमाणो दृश्यानामेव कृतो द्रष्टव्यो ज्ञातव्यः । यथा अर्थविरोधादिग्रहणकालेऽवश्यंभाविनी दृश्यानुपलब्धिस्तथानन्तरमेव धर्मोत्तरेण प्रसाधयिष्यते । ननु च कारणादीनां चेत्यनेन प्र(च)कारणेनावश्यं समुच्चयार्थेन भाव्यम्, तत्कथं हेत्वर्थे व्याख्यायत इत्याशङ्क्य पूर्वं बुद्धिस्थं स्पष्टयन्नाह -- बहुष्विति । एवं मन्यते -- समुच्चयार्थे वर्त्तमान एवायं हेत्वर्थे वर्त्तते । न त्वेवं समुच्चयार्थो निराक्रियते, हेतूनां परस्परसमुच्चयस्य प्रतीयमानत्वात् । तथा स न हेत्वर्थो भवति । इतिरेवं
चकारस्यार्थः प्रयोजनम् ॥

[ध्प्र्प्. १४६]

मताभावे मिश्चिते निश्चतो व्याप्यव्यापकभावः । तत्र[१८७] व्याप्यवयापकभावप्रतीतेर्निमित्तमभावः प्रतिपत्तव्यः । इह गृहीते वृक्षाभावे हि शिशपात्वाभावप्रतीतौ [१८८]प्रतीतो व्याप्यवापकभावः । अभावप्रतिपत्तिश्च सर्वत्र दृश्यानुपलब्धेरेव । तस्माद्विरोधं कार्यकारणभावम्, व्याप्यव्यापकभावं च स्मरता विरोध--कार्यकारणभाव--व्याप्यव्यापकभाविविषयाभावप्रतिपत्ति[१८९] निबन्धनं दृशानुपलब्धिः स्मर्तव्या । दृश्यानुपलब्ध्यस्मरणे विरोधाकीनामस्मरणम् । तथा च सति न निरुद्धादिविधिप्ल्रत्षेधाभ्यामितराभावप्रतीतिः स्यात् । व्चिरोधादिग्रहणकालभाविन्यां च दृशानुपलब्धाववश्यस्मर्तव्यायां तत एवाभावप्रतीतिः ।


__________टिप्पणी__________

[१८७] तत्-- च्.
[१८८] -भावप्रतीतौ व्या- -- ब्.
[१८९] देशकालस्वभावविप्रकृष्टाः पिशाचाद्ययस्तेषां पिशाचादीनां विरोधश्च केनचिदग्निना सह न सिध्यतीति सम्बन्धः । तथा कार्यकारणभावश्च पिशाचादीनां केनचिद्धूमेन सार्धं न सिध्यति । -- टि-
___________________________




तत्र यद्यपि संप्रतितनी[१९०] नास्ति दृश्यानुपलब्धिर्विरोधादिग्रहणकाले त्वासीत् । या दृश्यानुपलब्धिः सम्प्रति स्म्र्यमाणा सैवाभावप्रतिपत्तिनिबन्धनम् । ततः सम्प्रति नास्ति [१९१]दृश्यानुपलब्धिरित्यभावसाधनत्वेन दृश्यानुपलब्धिप्रयोगाद्भिद्यन्ते कार्यानुपलब्ध्यादिप्रयोगाः ।


__________टिप्पणी__________

[१९०] संप्रति सास्ति -- अ.ब्.प्.ह्.ए.न्.
[१९१] दृश्योपलब्ध- -- अ.ब्.प्.ह्.ए.न्.
___________________________





विरुद्धशब्देन प्रतिषेध्यस्य विरुद्धं ग्राह्यम् । आदिशब्देन विरुद्धकार्यादीनां ग्रहणम् । येषामेकदोपलब्धिस्तेभ्यो --न्ये --नुपलब्धा एव । कदाचित्क्वचिदज्ञाता एव । व्यापकस्याभावेऽभावश्च व्याप्यस्य न सिद्ध्यिति (?) यस्मात् । अयमाशयः -- यदि पूर्वं व्यापकाभिमतस्याभावे व्याप्याभिमताभावो निश्चितो भवेत्तदा व्याप्यव्यापकभावः सिद्ध्येत्, तदा च व्यापकानुपलब्धिर्गमिका स्यात्, नान्यदेति । अयमत्र प्रकरणार्थः -- प्रबन्धेन भवतो यद्भावे यस्याभावस्तस्य विरोधगतिर्यत्स्वभावश्च येनोपलभ्यते तेन सह कार्यकारणभावोऽपि पञ्चप्रत्यक्षानुपलम्भमधिगम्यः, व्याप्यव्यापकभावो पि प्रत्यक्षानुपलम्भावसेय इति कथमदृश्यस्य सिध्यन्तीति । ननु भवन्तु
तेऽन्यत्र दृश्याः, तत्र तावददृश्या एव वक्तव्याः । दृश्यत्वे दृश्यानुपलम्भप्रयोगात् । तत्कथं दृश्यानुपलब्धावितरासामनुपलब्धीनामन्तर्भाव इत्याशङ्क्य तथा तत्रान्तर्भावस्तथा दर्शयितुमाह -- तदिति । यस्मादन्यत्र दृश्यत्वेऽपि विरुद्धादीनां दृश्यानुपलम्भेऽन्तर्भावो न घटते, स चाचार्येणोक्तस्तत्तस्मादयमर्थः -- सर्वत्र चेत्यादेर्वाक्यस्य तात्पर्यार्थः । कथं दृश्यानुपलब्धेरित्ययममुमर्थं तावत्प्रसाधयति -- एकेति । कार्यकारणभावे का वार्त्तेत्याह -- कारणेति । यद्येवं व्याप्यव्यापकभावस्य का गतिरित्याह -- व्यापकेति । ननु च व्याप्यव्यापकभावनिश्चये तयोरेकत्वात्किमभावनिश्चयेनेत्याह -- तत्र व्याप्यव्यापकभावनिश्चये कर्त्तव्ये । कथमभावप्रतीतिर्व्याप्यव्यापकभावप्रतीतेर्निमित्तमित्याह -- इहेति


[ध्प्र्प्. १४७]

विरुद्धविधिना, कारणादिनिषेधेन च यतो दृश्यानुपलब्धिराक्षिप्ता ततो दृश्यानुपलब्धेरेव[१९२]कालान्तरवृत्तायाः स्वृतिविषयभूताया अभावप्रतिपत्तिः । अभीषां च प्रयोगाणां दृश्यानुपलब्धावन्तर्भावः । तदनेन सर्वेण दृश्यानुपलब्धावन्तर्भावो दशानामनुपलभ्धिप्रयोगाणां पारब्प्र्येण दर्शित इति वेदितव्यम् ॥


__________टिप्पणी__________

[१९२] -लब्धिरेव -- च्
___________________________




आस्तां सर्वत्र विरोधादावभावप्रतीतिः, दृश्यानुपलब्धिस्तु क्वोपयुज्यत इत्याह -- अभावेति । चो हेतौ । ननु यदि नाम विरोधादिग्रहणकाले दृश्यानुपलब्धिरासीत्, तथापि न सा विरुद्धोपलब्धिव्यापकानुपलब्ध्याद्प्रयोगविषये सम्प्रत्यनुवर्त्तते । तत्कथं विरुद्धोपलब्ध्यादीनां तत्रान्तर्भाव इत्याह -- तस्मादिति । यतोऽभावप्रतीतिमन्तरेण न विरोधादिसिद्धिः, अभावसिद्धिश्च दृश्यानुपलब्धेस्तस्माधेतोर्विरोधादिकं स्मरतेति विरुद्धोपलम्भव्यापकानुपलम्भादिप्रयोगकाल इति द्रष्टव्यम् । तदस्मरणे हि यतो विरुद्धादिरिहास्ति, यतोऽयं व्यापकादिर्नास्ति, तस्मात्तत्तन्नास्तीत्यस्याः प्रतीतेरयोगात्-- इत्यपि द्रष्टव्यम् । स्मरतेति च तदानीं विरोधादेर्ग्रहणाद्गृहीतस्यैव
विकल्पनादुक्तम् । कुतः पुनरवश्यस्मर्त्तव्या सेत्याह -- दृश्येति । अथ स्यात्-- प्राक्तनी दृश्यानुपलब्धिः सदा स्मर्यताम्, तथापि कथमसौ विवक्षिताभावसिद्धावुपयोगं भजते, येनात्मनीतरा अनुपलब्धौ(-ब्धी)रन्तर्भावयतीत्याह -- विरोधेति । चो यस्मात्तस्यां नियतस्मरणायां सत्याम् । ननु विरुद्धोपलब्धिकारणाद्यनुपलब्धिप्रयोगविषये सा नास्ति तत्कथमविद्यमाना सैवाभावप्रतीतेर्निबन्धनमित्याह -- तत्रेति वाक्योपन्यासे । सम्प्रतीदानीं स्मर्यमाणा सैवाभावप्रतीतेर्निबन्धनं विरुद्धाद्यभावज्ञानस्य करणम् । कथं तर्हि दृश्यानुपलब्धेर्विरुद्धोपलब्ध्यादीनां भेद इत्याह -- तत इति । ततो विरोधादिग्रहणकालप्रवृत्ताया दृश्यानुपलब्धेः
स्मर्यमाणत्वात्, सम्प्रति सा नास्ति । इतिस्तद्मादत्राभावः साध्यते तेनाभावसाधनत्वेन ततो भिद्यन्ते विरुद्धोपलब्ध्यादिप्रयोगः । विरुद्धविधिनेत्यादिनोक्तमर्थमुपसंहरति । विरुद्धविधिनेत्युपलक्षणम् । विरुद्धकार्यादिविधिनापि दृश्यानुपलम्भाक्षेपात् । अन्यथा तासां तत्रान्तर्भावो न स्यात् । ननु स्वातन्त्र्येण त्वया तस्या एव प्राक्प्रवृत्ताया अभावनिश्चयो दर्शितस्तत्र चानुपलब्धीनामन्तर्भावः, न त्वाचार्यस्यायमभिप्रेत इत्याशङ्क्याचार्यस्यैवायमभिप्रेतोऽर्थ इति दर्शयन्नाह -- तदनेनेति । अनेन इमे सर्व (न्बिइ ४२) इत्यादिना व्यापकभावसिद्धेरित्यन्तेन । अयमत्र प्रकरणार्थः -- दृश्यानुपलम्भस्यावक्तव्यत्वेन दशानामप्यनुपलब्धीनां तत्रान्तर्भावः, विरुद्धाद्यभावप्रतीतावनुपयोगश्चेति


[ध्प्र्प्. १४८]

उक्ता दृश्यानुपलभ्दिरभावे, अभावव्यवहारे च साध्ये प्रमाणम् । अदृश्यानुपलब्धिस्तु[१९३] किं स्वभावा, किंव्यापारा[१९४] चेत्याह--


__________टिप्पणी__________

[१९३] लब्धिः किं -- अ.प्.ह्.ए.
[१९४] विषन्यानुप--- ब्छेन्
___________________________



विप्रकृष्टविषया पुनरनुपलब्धीः प्रत्यक्षानुमाणनिवृत्तिलक्षणा संशयहेतुः इइ-४७

<विप्रक्ष्टे>त्यादि । विप्रकृष्टस्त्रिभिर्देशकालस्वभावविप्रकर्षैर्यस्या विषयः सा विप्रकृष्टविषयेति <संशयहेतुः> । किंस्वभावा सेत्याह -- प्रत्यक्षानुमाननिवृत्तिर्लक्षणं स्वभावो य्स्याः सा प्रत्यक्षणा । न ज्ञानज्ञेयस्वभावेति यावत् ॥



केचित्पुनरत्रैवं ब्रुवत्-- इहैकज्ञानसंसर्गिवस्त्वन्तरोपलम्भोऽनुपलम्भः । न च शीतस्य निषेधे साध्ये दूरत्वाद्वह्नेर्भास्वररूपोपलब्धिः शीतस्पर्शानुपलब्धिर्युज्यते । येनानुपलब्धिः सिद्ध्येत्, रूपस्पर्शयोरेकज्ञानसंसर्गित्वाभावात् । न च विरोधग्रहणकालप्रवृत्तदृश्यानुपलम्भस्मारकत्वेन दृश्यानुपलम्भत्वं वाच्यम्, प्राक्प्रवृत्तप्रत्यक्षस्मारकत्वेनापि प्रत्यक्षत्वप्रसङ्गात् । अत एव विरोधादिग्रहणकालप्रवृत्तदृश्यानुपलम्भस्मारकत्वेनानुपलब्धीनां तत्रान्तर्भावो न युज्यते । नापि स्मृतायास्तस्या एवाभावनिश्चयः, व्याप्तिग्राहकप्रमाणस्मारकत्वेन परार्थानुमानस्य तत्प्रमाणान्तर्भावप्रसङ्गात्, तत एव स्मर्यमाणात्प्रमाणाद्विवक्षितप्रतीतिप्रसङ्गाच्च । तस्मात्
सर्वत्रैव सम्प्रतितनो दृश्यानुपलम्भो दर्शनीयस्तद्बलेनैवाभावनिश्चयो वाच्यः, न तु प्राक्प्रवृत्ताद्दृश्यानुपलम्भात्स्मृत्या विषयीकृतादभावनिश्चयः । नापि तत्स्मारकत्वेनानुपलब्धीनां तथात्वमिति । यद्येवं कथङ्कारं स प्रदर्श्यतामिति चेत् । उच्यते । दूराद्वह्ने रूपविशेषं दृष्ट्वा यत्रैवंविधरूपविशेषस्तत्र तावद्देशव्यापकस्तुषारस्पर्शविशेषोऽस्ति । यथा महानसादौ तथाविधमेवरूपमित्यानुमानिकी विशिष्टोष्णस्पर्शप्रतीतिः । सैव च शीतस्पर्शानुपलब्धिरुष्णशीतस्पर्शयोरेकज्ञानसंसर्गित्वात् । विवक्षितोपलम्भादन्य उपलम्भोऽनुपलम्भः । स क्वचित्प्रत्यक्षात्मा
क्वचिदनुमानात्मेति न शास्त्रविरोधो न युक्तिविरोधः । तत एव तद्दृश्यानुपलम्भाच्छीतस्पर्शाभावप्रतीतिः । आहत्यन्तं (आहत्य)दृश्यानुपलब्धेरनुदयाद्दृश्यानुपलब्धेर्भेदेन निर्देशः । अत एव चानुमिता नुमानमेतत् । केवलमत्यन्ताभ्यासाग्झटिति तथाप्रतीत्युदये सत्येकमनुमानमुक्तम् । वस्तुतस्त्वनेकमनुमानमेतत् । एवं व्यापकविरुद्धकार्योपलब्ध्यादावपि सर्वं द्रष्टव्यम् । तथा च व्यापकविरुद्धोपलब्ध्यादिष्वपरमनुमानमेकं प्लवमानमवसेयम् । ययोश्च परस्परपरिहारस्थितलक्षणो विरोधस्तत्र दृश्यानुपलब्धिः स्फुटैव । तेन विरुद्धव्याप्तोपलब्ध्यादिषु सम्प्रत्येव दृश्यानुपलब्धिरस्ति । भेदस्तु पारम्पर्येण तदुदयात्
। एवं व्यापककारणानुपलब्धादिष्वकारणाव्यापकादेर्धर्मस्यैवानुपलम्भादभावे (सिद्धे तत एव सामर्थ्यात्कार्यादेरभावावसावितीदानीन् तनस्यैव दृश्यानुपलम्भस्योपयोगो) न प्राक्तनस्य स्मृत्यादिविषयीकृतस्य । दृश्यानुपलम्भस्य च साक्षात्कारणे व्यापारात्पार्यम्पर्येण च विरुद्धाद्यभावे भावे व्यापारात्दृश्यानुपलब्धेर्भेदेन कारणानुपलब्ध्यादीनां प्रयोग इति ॥

[ध्प्र्प्. १४९]

ननु च प्रमाणात्प्रमेयसत्ताव्यवस्था । ततः प्रमाणाभावात्प्रमेयाभावप्रतित्तिर्युक्तेत्याह ।

प्रमाणनिवृत्तावप्यर्थाभावासिद्धेरिति इइ-४८

॥[१९५] स्वार्थानुमानपरिच्छेदो द्वितीयः समाप्तः ॥


__________टिप्पणी__________

[१९५] ॥द्वितीयपरिच्छेदः ॥ -- द्ब्; न्यायबिन्दुप्रकरणे द्वितीयः परिच्छेदः समाप्तः ॥ -- ए.
___________________________




प्रमाणनिवृत्तावपीत्याः । कारणः व्याकं च निव्र्त्तमानं कार्यं व्याप्यं च निवर्त्तयेत् । न च प्रमाणं प्रमेयस्य कारणं नापि व्यापकम् । अतः <प्रणाण>योर्<निवृत्तावपि> <अर्थस्य> प्रमेयस्य निवृत्तिरन् सिध्यति । ततो <असिद्धेः >संxअयहेतुरदृश्यानुपलब्धिः, न निश्चयहेतुः । यत्पुनः प्रमाणसत्तया प्रमेयसत्ता सिध्यति तद्युक्तम् । प्रमेयकार्यं हि प्रमाणम् । न च कारणमन्तरेण कार्यमस्ति । न [१९६]तु कारणान्यवश्यं कार्यवन्ति भवन्ति । तस्मात्प्रमाणात्प्रमेयसत्ता व्यवस्थाप्या, न प्रमाणाभावात्प्रमेयाभावव्यवस्थेति ॥


__________टिप्पणी__________

[१९६] न च -- ब्द्
___________________________


॥ [१९७]आचार्यधर्मोत्तरकृतायां न्यायबिन्दुटीकायां स्वार्थानुमाणो द्वितीयः परिच्छेदः ।


__________टिप्पणी__________

[१९७] ॥ न्यायबिन्दुटीकायां द्वितीयः परिच्छेदः समाप्तः ॥ -- अब्फे; ॥ न्यायबिन्दुटीकायां परिच्छेदः द्वितीयः समाप्तः ॥ -- द्
___________________________




सम्प्रत्यदृश्यानुपलब्धिमधिकृत्योक्तं व्याचक्षाण आह -- उक्तेति । ननु यदि प्रत्यक्षानुमाननिवृत्तिमात्ररूपादृश्यानुपलब्धिरभावे साध्ये संशयहेतुरनैकान्तिकी तर्हि सा ततश्च हेत्वाभासावसर एव वक्तव्या । तत्किमिहोच्चयत इति चेत् । नैतम्(-तद्) अस्ति । यतो न सा वचनव्यक्त्यानुपलब्धिलक्षणप्राप्तस्यानुपलब्धिरसद्व्यवहारे साध्ये न प्रमाणम्, एकान्तिकसद्व्यवहारनिषेधे तु प्रमाणमिति प्रदर्शनात् । न ज्ञानज्ञेयस्वभावेति यावदित्यार्थं न्यायमाश्रित्योक्तं न शाब्दमिति द्रष्टव्यम् ॥ यदि प्रमाणनिवृत्त्या प्रमेयानिवृत्तिस्तर्हि तत्सत्तयापि न प्रमेयसत्ता सिद्ध्येदित्याशङ्क्य तत्रोपपत्तिं दर्शयन्नाह -- यत्पुनरिति । ननु कारणमप्यवश्यं कार्यवद्भवति ततश्च सति ज्ञेये ज्ञानेनाप्यवश्यभाव्यं
। तच्चेन्नास्ति ज्ञेयमपि नास्त्येव । ततः सिद्ध्यत्येवादृश्यस्याप्यभाव इत्याशङ्क्याह -- न त्विति । तुना कार्यधर्मात्कारणधर्मस्य वैधर्य्म्यमाह । एतच्च कारणमात्राभिप्रायेणोक्तम्, तथा चैत्तथा प्रागेव निर्णीतम् । तस्मादित्यादिनास्यैव प्रकृतसोपसंहार इति ॥ <पण्डितजितारि>शिष्य<दुर्वेकमिश्र>विरचित<धर्मोत्तर>निबन्धनस्य <द्वितीयः परिच्छेदः> ॥

पण्दित<जितारि>शिष्य<दुर्वेकमिश्र>विरचित<धर्मोत्तर>निबन्धस्य द्वितीयः परिच्छेदः ॥



[ध्प्र्प्. १५०] कपितेलिइइ

तृतीयः परार्थाणुमाणपरिच्छेदः ।



स्वार्थपरार्थानुमान्योः स्वार्थं व्याख्याय परार्थं व्याख्यातुकाम आह ---

त्रिरूपलिङ्गाख्यानं[१९८]परार्थमनुमानम् इइइ-१


__________टिप्पणी__________

[१९८] परार्थानुमानम् --- ब्फेन्
___________________________


<त्रिरूपलिङ्गाख्यानम्> इति । त्रीणि रूपाणि --- अन्वयव्यतिरेकपक्षधर्मत्वसंज्ञकानि यस्य तत्<त्रिरूपम्> । <त्रिरूपं >च [१९९]<तल्लिङ्गं >च तस्य्<आख्यानम्> । आख्यायते प्रकाश्यतेऽनेनेति --- <त्रिरूपम्> [२००] इति <आख्यानम् >। किं पुनस्तत्? वचनम् । वचनेन हि त्रिरूपं [२०१] लिङ्गमाख्यायते । परस्मायिदम् <परार्थम् ॥>


__________टिप्पणी__________

[१९९] च लिङ्ग च --- अ
[२००] त्रिरूपलि- --- ए
[२०१] परस्मायिति परा- --- ए
___________________________




ननु [२०२]च सम्यग्ज्ञानात्मकमनुमानमुक्तम् । तत्किमर्थं संप्रति वचनात्मकमनुमानमुक्त इत्याह ---


__________टिप्पणी__________

[२०२] ननु सम्य- --- अ
___________________________


कारणे कार्योपचारात् इइइ-२

<कारणे कार्योपचाराद्> इति । [२०३]त्रिरूपलिङ्गाभिधानात्त्रिरूपलिङ्गस्मृतिरुत्पद्यते[२०४] । स्मृतेश्चानुमानम् । तस्मादनुमानस्य परम्परया त्रिरूपलिङ्गाभिधानं कारणम् । तस्मिन् <कारणे >वचने कार्यस्य अनुमानस्य्<ओपचारः> समारोपः क्रियते । ततः समारोपात्कारणं वचनम्


__________टिप्पणी__________

[२०३] त्रिरूपलिङ्गालम्बना स्मृतिः --- च्द्ब्
[२०४] श्रोतुः --- टि-
___________________________





त्रिरूपं लिङ्गं ज्ञातमपि वक्तुमविदुषो बालस्य व्युत्पादनार्थं त्रिरूपलिङ्गाख्यानलक्षणं यत्परार्थमनुमानमुक्तं तद्व्याख्यातुं स्वार्थेत्यादिना प्रस्तौति । द्वयो रूप्योरभिधानादेकस्य गम्यमानत्वादाख्यायते प्रकाश्यतेऽनेनेति त्रिरूपं लिङ्गमिति विवृतं न त्वभिधीयतेऽनेनेति । अभिधेयस्य गम्यमानस्य च प्रकाश्यत्वं तुल्यमिति प्रकाश्यते इत्यनेन द्वयोः सङ्ग्रहः । येनार्थक्रमेणात्मनः परोक्षार्थज्ञानमुत्पन्नं तेनैव क्रमेण परसन्ताने लिङ्गिज्ञानोत्पपादयिषया त्रिरूपस्य लिङ्गस्य ख्यापकं यद्वचनं तत्परार्थमनुमानमिति द्रष्तव्यम् ॥

कारणे वचने कार्यस्य ज्ञानस्योपचारात्समारोपात् ।

कथं पुनर्वचनस्यानुमानहेतुत्वमित्याह --- त्रिरूपेति

[ध्प्र्प्. १५१]

अनुमानशब्देनोच्यते । औपचारिकं[२०५] वचनमनुमानम्, न मुख्यमित्यर्थः । न यावत्[२०६] किंचिदुपचारादनुमानशब्देन वक्तुं शक्यं तावत्सर्वं व्याख्येयम् । किन् त्वनुमानं व्याख्यातुकामेनानुमानस्वरूपस्य[२०७] व्याख्येयत्वान्निमित्तं व्याख्येयम् । निमित्तं च त्रिरूपं लिङ्गम् । तच्च स्वयं वा प्रतीतमनुमान्स्य निमित्तं भवति, परेण वा प्रतिपादितं भवति[२०८] । तस्माल्लिङ्गस्य स्वरूपं च [२०९]व्याख्येन्यम्, तत्प्रतिपादकश्च शब्दः । तत्र स्वरूपं स्वार्थानुमाने व्याख्यातम् । प्रतिपादकश्च[२१०] शब्द इह व्याख्येयः । ततः प्रतिपादकं शब्दमव्श्यं वक्तव्यं दर्शयन्
अनुमानशब्देनोक्तवान् <आचार्य> इति परमार्थः ॥


__________टिप्पणी__________

[२०५] औपचारकं --- अ
[२०६] न च यावत्--- अब्द्फेन्
[२०७] स्वरूपस्यैव --- च्
[२०८] भवति ओम्. अच्पेन्
[२०९] च ओम्. अच्पेन्
[२१०] च ओम्. अच्पेन्
___________________________







परार्थानुमान्स्य प्रकारभेदं दर्शयितुमाह ---

तद्द्विविधम् इइइ-३



ननु च त्रिरूपलिङ्गाभिधानादवगते सति धर्मिणि लिङ्गं ज्ञायते । तस्य तु व्याप्तिः स्मर्यते । तत्कथं ’त्रिरूपलिङ्गवचनात्तत्स्मृतिरुत्पद्यतेऽ इत्युच्यत इति चेत् । उच्यते । गृह्यमाणमपि धूमादिवस्तु न तावल्लिङ्गं यावद्वह्न्यादिसाध्याविनाभूततया न ज्ञायते । तथात्वं च तस्य न तदा ग्राह्यमपि तु पूर्वगृहीतमेव स्मर्त्तव्यमिति सूक्तं त्रिरूपलिङ्गस्मृतिरुत्पद्यत इति । स्मृतेरिति पक्षधर्मग्रहणसहिताया इति द्रष्टव्यम् ।

अयमर्थः --- वचनमपि त्रिरूपं लिङ्गं स्मरयत्परोक्षार्थज्ञानस्य परम्परया कारणं भवदुपचारादनुमानमुच्यत इति ।

अथाबाधितत्वाद्यपि लिङ्गस्य लक्षणमित्याचक्षते केचिदिति विप्रतिपत्तिदर्शनात्तद्व्युत्पादनं युक्तम्, न तु तद्वचनम्, तस्य विप्रतिपत्त्यभावादिति चेत् । न अत्राप्यव्याप्तिव्यतिरेकाभ्यां निगदन्तो विप्रतिपन्ना इत्यस्यापि व्युत्पादनं न्याय्यम् ।

अथाऽपि स्यात्, यदि परम्परयाऽनुमानहेतुत्वेन वचनमुपचारादनुमानमिति व्युत्पाद्यते तर्हि जिज्ञासास्वास्थ्यादिकमपि परम्परयाऽनुमानहेतुत्वादनुमानशब्देन वक्तुं शक्यमिति तदपि किं नोच्यत इत्याह --- न यावदिति ।

ननु स्वास्थ्यादिकमपि निमित्तमिति तदवस्थो दोषः । न । निमित्तं व्याक्येयमित्यव्यहितमसाधारणं निमित्तमाख्येयमित्यर्थः ।

ननु स्वयं प्रतीतं लिङ्गमनुमानस्य निमित्तम् । तत्किं तद्वचनेन व्याख्यातेनेत्याह --- तच्चेति । चो यस्मादर्थे । वाशब्दो विकल्पार्थः । यतः परेण प्रतिपादितमपि तल्लिङ्गमनुमान्स्य निमित्तं ततस्तस्मादवश्यं वक्तव्यं प्रतिपादकं[५८ ] लिङ्गप्रतिपादकं वचनं दर्शयन्नन्मुमान्शब्देनोक्तवान् <आचार्यः> ।

[ध्प्र्प्. १५२]

<तद्द्विविधम् >इति । <तद्> इति परार्थानुमानम् । द्वौ विधौ प्रकारौ यस्य <तद्> <द्विविधम्> ॥

कुतो द्विविधमित्याह ---

प्रयोगभेदात् इइइ-४

प्रयोगस्य शब्दव्यापारस्य भेदात् । प्रयुक्तः प्रयोगोर्थाभिधानव्यापारभेदाद्द्विविधमनुमानम् ॥

तदेवाभिधानव्यापारनिबन्धनं[२११] द्वैविध्यं दर्शयितुमाह ---


__________टिप्पणी__________

[२११] अभिधानस्य व्यापारो निबन्धनं यस्य --- टि-
___________________________


साधर्म्यवद्वैधर्म्यवच्चेति[२१२] इइइ-५


__________टिप्पणी__________

[२१२] वच्च ॥ --- च्
___________________________


<साधर्म्यवद्वैधर्म्मवच्चेति >। समानो धर्मोऽस्य[२१३] सोऽयं सधर्मा । तस्य भावः साधर्म्यम् । विसदृशो धर्मो । विधर्मणो भावो वैधर्म्यम् । दृष्टान्तधर्मिणा सह साध्यधर्मिणः सादृश्यं हेतुकृतं साधर्म्यमुच्यते । असादृश्यं च हेतुकृतं वैधर्म्यमुच्यते । तत्र यस्य साधनवाक्यस्य साधर्म्यमभिधेयं तत्<साधर्म्यवत्> । यथा --- यत कृतकं तदनित्यं यथा घटः, तथा च कृतकः शब्द इत्यत्र कृतक्त्वकृतं दृष्टान्तसाध्यधरिमिणोः सादृश्यमभिधेयम् । यस्य तु वैधर्म्यमभिधेयं तद्वैधर्म्यवत् । यथा --- यन्नित्यं तदकृतकं दृष्टं
यथाकाशम् । शब्दस्तु कृतक इति कृतकत्वाऽकृतकत्वकृतं[२१४] शब्दाकाशयोः साध्यदृष्टान्तधर्मिणोरसादृश्यमिहाभिधेयम् ॥


__________टिप्पणी__________

[२१३] धर्मो यस्य --- चफेन्
[२१४] इति अकृतकत्वकृतम् --- च्
___________________________



यदनययोः प्रयोगयोरभिधेयं भिन्नं कथं तर्हि त्रिरूपं लिङ्गमभिन्नं प्रकाश्यमित्याह ---

नानयोरर्थतः कश्चिद्भेदः इइइ-६

<नानयोरर्थत> इति <अर्थः> प्रयोजनम् । यत्पयोजनं प्रकाशयितव्यं वस्तु उद्दिश्यानुमाने प्रयुज्येते, ततः प्रयोजनादनयोर्न भेदः[२१५] कश्चित् । त्रिरूपं हि लिङ्गं प्रकाशयितव्यम् । तदुद्दिश्य द्वे अप्येते प्रयुज्येते । द्वाभ्यामपि त्रिरूपं लिङ्गं प्रकाश्यते एव । ततः प्रकाशयितव्यं प्रयोजनमनयोरभिन्नम् । तथा च न ततो भेदः कश्चित् ॥


__________टिप्पणी__________

[२१५] प्रयोजनान्नानयोर्भेदः --- ब्द्
___________________________




अनेनैतदाह --- न स्वास्थ्यादि प्रतिपन्नमपि परोक्षार्थप्रतिपादकं येन तदुच्येत । तद्वचनमवश्यं दर्शयितव्यमनुमानशब्देनाभिलप्येत । स्वयमशक्तमपि तु हेतुवचनं परोक्षप्रकाशनवस्तुसूचकत्वादनुमानशब्देनोक्तमिति । इति परमार्थ एवमस्योपचारस्य परमः प्रकृष्टोऽर्थः प्रयोजनम् ॥

विधशब्देन च विगृह्णतोऽभिप्रायः प्रागेव प्रदर्शितः ॥

अभिधानमर्थप्रकाशनम् ॥



[ध्प्र्प्. १५३]

अभिधेयभ्देदोऽपि तर्हि न स्यादित्याह ---

अन्यत्र प्रयोगभेदात् इइइ-७

<अन्यत्र प्रयोगभेदाद्> इति । प्रयोगोऽभिधानं वाचकत्वम् । वाचकत्वभेदादन्यो भेदः प्रयोजनकृतो नास्तीत्यर्थः ।

एतदुक्तं भवति । अन्यदभिधेयमन्यत्प्रकाश्यं प्रयोजनम् । तत्राभिधेयापेक्षया वाचकत्वं भिद्यते । प्रकाश्यं त्वभिन्नम् । अन्वये हि कथिते वक्ष्यमाणेन न्यान्येन व्यतिरेकगतिर्भवति । व्यतिरेके चान्वयगतिः । ततस्त्रिरूपं लिङ्गं प्रकाश्यमभिन्नम् । न च यत्राभिधेयभ्देदस्तत्र सामर्थ्यगम्योऽप्यर्थो[२१६] भिद्यते । यस्मात्’पीनो देवदत्तो दिवा न भुङ्क्तेऽ ’पीनो देवदत्तो रात्रौ भुङ्क्तेऽ इत्यन्योर्वाक्ययोरभिधेयभ्देदेपि गम्यमानमेकमेव[२१७] तद्वदिहाभिधेयभेदेऽपि गम्यमानं वस्त्वेकमेव ॥


__________टिप्पणी__________

[२१६] प्रयोजनम् --- टि-
[२१७] गम्यं दिवा भोजनाभावविशेषं पीनत्वं रात्रिभोजनकार्यमेकमेव --- टि-
___________________________





केन कस्य किं कृतं च साधर्म्यं वैधर्म्यं चेत्याह --- दृष्टान्तेति । सादृश्यं हेतुकृतमिति हेतुसद्भावद्वारकम् । असादृश्यं च हेतुकृतमिति हेतुसद्भावासद्भावद्वारकं द्रष्टव्यम् । वतुबर्थं प्रयोजयितुमाह --- तत्रेति वाक्योपन्यासे । यस्य वाक्यस्य साधर्म्यं सादृश्यमभिभेयमस्ति । एतदेवोदाहरणेन दर्शयन्नाह --- यथेति । यत्कृतकमिति । यद्यद्कृतकमिति वीप्सार्थो विवक्षितः, तदित्यत्रापि । तथा च कृतकः शब्द इति पक्षधर्मताकथनमिदम् । न त्वेवं पक्षधर्मो दर्शनीयः । ’कृतकश्च शबदःऽ इत्येतावतैव गतार्थत्वेन तथाशब्दस्य वैयर्थ्यात् । ततः
’कृतकश्च शब्दःऽ इत्येव दर्शनीयः । इतरथा परेषामिवोपनयप्रयोगः स्यात् । स चायुक्त इति । यन्नित्यमिति साध्याभावानुवादस्तदकृतकमिति साधनाभावविधिः ॥

अभिधेयं भिन्नमिति ब्रुबतोऽयमाशयः --- साधर्म्यवत्प्रयोगस्यान्वयः पक्षधर्मता चाभिधेया । अभिन्नं साधारणं प्रकाश्यं द्वयोः प्रयोगयोः ।

अर्थः प्रयोजनवाच्य्<आचारेणो>क्तो नाभिधेयवाचीति दर्शयति यदुद्दिश्येति स्पष्टयन् प्रयुज्यतेऽनेनेति प्रयोजनं साधनवाक्यस्य प्रवर्त्तकं लिङ्गवस्तूक्तं न फलं प्रयोजनमिति दर्शयति । प्रकाशयितव्यं रूपत्रययोगिलिङ्गं तच्चाभिन्नं साधारणं द्वयोरपि प्रयोगयोः, द्वाभ्यामपि तस्यैव प्रतिपादनात् । अनुमानहेतुत्वादनुमाने साधर्म्यवैधर्म्यवती वाक्ये कथिते । तत इति प्रयोजनसमानाधिकरणं न हेतुपदमेतत् ॥

नन्वभिधेयमेव प्रकाश्यं त त्कथं प्रकाश्याभेद इत्याशङ्क्याह --- एतदुक्तं भवतीति । अन्यत्प्रकाश्यमिति सामर्थ्यगम्यं प्रकाश्यम् । न तु तत्राभिधाव्यापार इत्याकूतम् । तत्रेति वाक्योपक्षेपे ।

यदि साधर्म्यवद्वाक्येऽन्वयोऽभिधेयस्तर्हि कथं व्यतिरेकः प्रकाश्यतां गतः? वैधर्म्यवाक्ये

[ध्प्र्प्. १५४]

तत्र साधर्म्यवत्प्रयोगः[२१८]--- यदुपलब्धिलक्षणप्राप्तं सन्न उपलभ्यते सो असद्व्यवहारविषयः सिद्धः, यथा अन्यः कश्चिद्दृष्टः शशविषाणआदिः । न उपलभ्यते च क्वचित्प्रदेशविशेष[२१९]उपलब्धिलक्षणप्राप्तो घट[२२०]इत्यनुपलब्धिप्रयोगः इइइ-८


__________टिप्पणी__________

[२१८] -वत्यदुप-
[२१९] विषये उप-
[२२०] घट इति
___________________________




<तत्रे>ति तयोः साह्दर्म्यवैधर्म्यवतोरनुमानयोः <साधर्म्यवत्[२२१]>तावदुहारन्ननुपलब्भिमाह --- <यद्>इतियादिना । <यदुपलब्ध्दिलक्षणप्राप्तं > --- यद्दृश्यं <सन्नोपलभ्यते >इत्यनेन दृश्यानुपलम्भोऽनूद्यते । <सोऽसद्व्यवहारविषयः[२२२]> सिद्धः --- तदसदिति व्यवहर्तव्यमित्यर्थः । अनेनासद्व्यहारयोग्यत्वस्य विधि[२२३] कृतः । ततश्चासद्व्य्वहारयोग्यत्वे दृश्यानुपलम्भो नियतः कथितः । दृश्यमनुपलब्धमसद्व्यवहारयोग्यम्[२२४] एवेत्यर्थः । साधनस्य च <साध्येऽर्थे> नियतत्वकथनं व्याप्तिकथनम् ।


__________टिप्पणी__________

[२२१] तावदुहारम् {उदाहरम्} उदाहर्त्तुमनु-
[२२२] विषयस्तद्-
[२२३] योग्यत्वे दिधि
[२२४] -हरय योग्य-
___________________________






च यदि व्यतिरेकोऽभिधेयः, कथमन्वयः प्रकाश्यतामापन्न इत्याह --- अन्वय इति । हिर्यस्मात् । वक्ष्यमाणेन "<साधर्म्येणापि ही>" त्यादिना प्रतिपादयिष्यमाणेन न्यायेन युक्ता ।

स्यान्मतं --- ययोरभिधेयं भिन्नं तयोः सामर्थ्यगम्यमप्यवश्यं भिद्यते --- यथा गङ्गायां घोषः, कूपे गर्गकुलमित्याशङ्क्याह --- न चेति । चो यस्मादर्थे । अर्थः प्रयोजनं यदुद्दिश्य प्रवृत्तं वाक्यम् ।

उपपत्तिमाह --- यमादिति । एकस्य वाक्यस्य दिवा भोजनाभावोऽभिधेयोऽन्यस्य रात्रिभोजनमित्यनयोर्वाक्ययोर्[५८ ] अभिद्धेयभेदोऽस्ति । तस्मिन् सत्यपि यथा भोजनविशिष्टं देवदत्तस्य पीनत्वं प्रतिपाद्यं न भिद्यते तद्वदत्राभिधेयस्यान्वयपक्षधर्मतालक्षणस्य व्यतिरेकपक्षधर्मतालक्षणस्य भेदेऽपे गम्यमानमेकमभिननम् ।

अथ गम्ययानं सामर्थ्यात्प्रतीयमानमुच्क्यते । तच्च दृष्टान्तदान्तिकयोर्भिद्यत एव । तथा हि दिवा भोजननिषेधवाक्यस्य गम्यमानं रात्रिभोजनं रात्रिभोजनविधानवाक्यस्य तु गम्यनानं दिवा भोजननिषेधनम्, तथा दार्षान्तिकेऽपि साधन(साधर्म्य)वद्वाक्ये व्यतिरेको गम्यमानो वैधर्म्यवद्वाक्ये चान्वयो गम्यमानः । यदेकस्याभिधेयं तदेकस्य गम्यमानम्, यदन्यस्य गम्यनानं तदितरस्याभिधेयमिति संक्षेपः । ततः कथमुच्यते वाक्ययोर्गम्यमानमेकमिति । किन्नोच्यते? गम्यमानशब्दस्येहान्यार्थस्य विक्षितत्वात् । तथा हि गम्यमानशब्देनात्राभिधेयं सामर्थ्यप्रकाश्यञ्च । यत्तु द्वयं
प्रतीयमानतामात्रेणोपाधिना विवक्षितं तच्च दृष्टान्तवाक्ययोर्भोजननिमित्तपीनत्वलक्षणं दार्ष्टान्तिकवाक्ययोश्चान्वयव्यतिरिक्तपक्षधर्मतात्मकरूपत्रययोगलिङ्गलक्षणमेकमभिन्नमित्यन्वद्यमेतत् ॥

साधर्म्यमभिधेयं यस्य विद्यते तदुदाहह्रणेन दर्शयन्ननुपलब्धिमाह । तावच्छब्दः क्रमे ।

[ध्प्र्प्. १५५]

यथोक्तम् "व्याप्तिर्[२२५]व्यापकस्य तत्र भाव एव, व्याप्यस्य[२२६]वा तत्रैव भावः" इति । [हेतु- पृ-५३] व्याप्तिसाधनस्य प्रमाणस्य विषयो दृष्टान्तः । तमेव दर्शयितुमाह --- <यथान्य> इति । साध्यधरिमिणोऽन्यो दृष्टान्त इत्यर्थः । <दृष्ट >इति प्रमाणेन[२२७]निश्चितः । शशविषाणं हि न चक्षुषा विषयीकृतमपि तु प्रमाणे दृश्यानुपलम्भेनासद्व्यवहारयोग्यं विज्ञातम् । शशविषाणादिर्यस्यासद्व्यवहारविषयस्य स तथोक्तः । शशविषाणादौ हि दृश्याणुपलम्भमात्रनिमित्तोऽसद्वयवहारः प्रमाणेन सिद्धः । तत एव प्रमाणादनेन वाक्येनाभिधीयमाना[२२८]व्याप्तिर्ज्ञातव्या ।


__________टिप्पणी__________

[२२५] वाप्तिव्या-
[२२६] स्य च
[२२७] प्रतियक्षेणनिश्चित इति न व्याकरव्यम् --- टि-
[२२८] [२२८]व्याप्तिसाधकेन --- टि-
___________________________





संप्रति व्याप्तिं कथयित्वा दृश्यानुपलम्भस्य पक्षधर्मत्वं दर्शयितुमाह --- <नोपलभ्यते चे>ति ।



स च द्विरावृत्त्याऽनुपलब्धिमित्यत्रापि द्रष्तस्व्यः । तेनायमर्थः --- साधर्म्यवत्तावदुदाहरन्ननुपलब्धिमाह । पश्चाद्वैधर्म्यवदुदाहरन् वक्ष्यति । तथाऽनुपलब्धिं तावदाह पश्चात्स्वभावकार्ये वक्ष्यतीति ।

नन्व्<आचार्येणै>व साधर्म्यवद्वैधर्म्यवच्चोदाहृतमत्रेति किमिति <धर्मोत्तरेन> --- यथा यत्कृतकमित्यादिना साधर्म्यवद्वैधर्म्यवच्चोदाहृतं प्रागिति चेत् । नैष दोषः । दृष्टान्तसाधयधर्मिणोः सादृश्याख्यं साधर्म्यम्, वैसदृश्याख्यां वैधर्म्यं च हेतुद्वारकमेव न तु सामान्येन, अन्यथा प्रतियोग्यपेक्षयाऽपि साधर्म्यं वैधर्म्यं च केनचिदाकारेनास्तीति न तन्निराकृतं स्यादिति दर्शयितुं तदुदाहृतम्, न त्व्<आचार्येण> नोदाहृतमित्युदाहृतमिति । तेनात्राप्य्<आचार्यीये> निदर्शने हेतुकृतमेव तत्प्रत्येतव्यं व्यवस्थितम् ।

असद्व्यवहारः --- असदिति ज्ञानमसदित्यभिधानं निःशङ्का च गमागमादिका प्रवृत्तिः । यतो दृश्यानुपलम्भोऽभूदतोऽसद्व्यहारयोग्यतं विहितम् । ततस् तस्मात् । चो अवधारणे ।

अयमाशयः --- यदनूद्यते तद्व्याप्यम् । यद्विधीयते तद्व्यापकम् । व्याप्यं च व्यापके नियतं भवतीति । एवमुत्तरत्राप्यनुवादविधिक्रमो द्र्ष्टव्यः ।

अथ द्व्यवयवे साधनवाक्ये दर्शितव्ये व्याप्तिः पक्षधर्मता च दर्शनीया । न चात्र व्याप्तिरुपदर्शिता, केवलमनुवादविधिक्रमो दर्शितः, पक्षधर्मता च दर्शयिष्यते । तत्कथं परिपर्णं साधनवाक्यमिदं भविष्यतीत्याशङ्क्याह --- साधनस्येति । चो हेतौ ।

ननु परोक्षार्थप्रतिपत्तौ सर्वथाऽनुपयोगी दृष्टान्तस्तत्किं तेनाख्यातेनेत्याह व्याप्तीति । व्याप्यवापकधर्मलक्षणा [५९ ] व्याप्तिः साध्यते निश्चीयते येन प्रमाणेन तस्य विषयो यत्र

[ध्प्र्प्. १५६]

प्रदेश एकदेशः पृथिव्याः । स एव विशिष्यतेऽन्यस्मादिति विशेषः एकः । <प्रदेशविशेष> इत्येकस्मिन् प्रदेशे । <क्वचिद्>इति । प्रतिपत्तुः प्रत्यक्ष[२२९] एकोऽपि प्रदेशः । स एवाभावव्यवहाराधिकरणं यः प्रतिपत्तुः प्रत्यक्षो नान्यः । <उपलब्धिलक्षणप्राप्त >इति दृश्यः । यथा चासतोऽपि घटस्य समारोपितमुपलब्धिलक्षणाप्राप्तत्वं तथा व्याख्यातम् ॥


__________टिप्पणी__________

[२२९] प्रतियक्षे । एको
___________________________


स्वभावहेहोः साधर्म्यवन्तं प्रयोगं दर्शयितुमाह ---

तथा स्वभावहेतोः प्रयोगः --- यत्सत्तत्सर्वमनित्यम्, यथा घटादिरिति शुद्धस्य[२३०] स्वभावहेतोः प्रयोगः इइइ-९


__________टिप्पणी__________

[२३०] शुद्धस्वभावस्य प्रयोगः
___________________________


<तथे>ति । यथाऽनुलब्धेस्तथा <स्वभावहेतोः> साधर्म्यवान् <प्रयोग >इत्यथः । <यत्> <सद्> इति



प्रवृत्तं प्रमाणं साध्यसाधनयोर्व्याप्तिमवस्यति । स च विषयो दृष्टो निश्चितः साध्यसाधनयोरन्तोऽवसानं यथायोगं नियतत्वनियमविषयत्वनिपुणो यस्मिन्निति व्युत्पत्त्या दृष्टान्तशब्दोऽभिलप्यः । तमेव ख्यापयितुमाह्<आचार्यः> । अनेनैतदाकूतम् --- व्याप्तिसाधकप्रमाणस्याधिकरणतां गच्छन् दृष्टान्तः साधनावयवस्य व्याप्तेः प्रतिपत्त्यङ्गम् । न तु साक्षात्साधनस्य । नापि साध्यसिद्धेः । तद्वचनमपि तत्स्मारकत्वेन साधनवाक्य उपयुज्यते । अत एव वचनसाधनवाक्यस्यावयवोऽथ च प्रयोक्तवय इति । कुतोऽन्य इत्याह --- साध्यधर्मिण इति । शशविषाणादेश्च व्याप्तिसाधकप्रमाणाधिकरणत्वेन
दृष्टान्तरूपत्वाद्दृष्टान्त इत्यर्थ इति स्पष्टयति ।


ननु दृष्टश्चक्षुषा ज्ञात इति किं न व्याख्यायते? किं पुनरेवं व्याख्यात इत्याह--- शशेति । हीति यस्मात् । विषयीकृतं विज्ञातमिति चातीते निष्ठां प्रयुञ्जानः प्राग्भावि व्याप्तिग्रहणं दऋशयति । कथं पुनः शशविषाणादि दृष्टान्तो येन सा ख्याप्यत इत्याह --- शशेति । हिर्यस्मात् । दृश्यानुपलम्भ एव तन्मात्रं तन्निमित्तं यस्य स तथा । अनेन व्याप्तिसाधकप्रमाणाधिकरणत्वात्तस्य दृष्टान्तरूपतामाह । किं तत्प्रमाणं येन तत्र प्रवृत्तेन दृश्यानुपलम्भाभावव्यवहारयोग्यत्वयोर्व्याप्तिः साध्यत इति चेत् । उच्यते । <वादन्यायो>क्तेन
न्यायेन बुद्धिव्यपदेशाभावादेरसद्व्यवहारानिमित्तत्वेन निमित्तान्तराभावे दृश्यानुपलम्भ एवान्यनिरपेक्षो निमित्तम् । यच्च यन्मात्रनिमित्तं ततस्मिन् सति भवति । यथा बीजादिसामग्रीमात्रनिमित्तोऽङ्कुरः सति तस्मिन् भवति । दृश्यानुपलम्भमात्रनिमित्तश्चासद्व्यवहार इत्यनुमानं तत्र प्रवृत्तं साध्यसाधनयोर्व्यापितिमवस्यतीति ।

अनेन वाक्येन यदुपलब्धिलक्षणप्राप्तमित्यादिनाऽभिधीयमाना प्रकाश्यमाना । तत एव प्राक्प्रवृत्तादनन्तरोक्तादनुमानात्मनः प्रमाणाद्व्याप्तिर्ज्ञातव्या ।

एतदुक्तं भवति तत्प्रमाणसिद्धैव व्याप्तिरनेन वाक्येन स्मर्यत इति ॥

स्वभावेत्यादिना स्वभावहेतोः साधर्म्यवत्प्रयोगं विवरितुमुपक्रमते । सर्वशब्दस्याऽशेषताऽर्थः । तयैव प्रतिपादितया साधनस्य साध्यायत्तताख्यो यो नियमः स प्रतिपादितो



[ध्प्र्प्. १५७]

सत्त्वमनूद्य <तत्सर्वं नित्यमित्य्> अनित्यत्वं विधीयते । <सर्व>ग्रहणं च नियमार्थम् । सर्वं नित्यम् । न किञ्चिन्नित्यम् । यत्सत्तदनियमेव । अनित्यत्वादन्यत्र नित्यत्वे सत्त्वं नास्तीत्येवं सत्त्वमनिय्त्यत्वे साध्ये नियतं ख्यापितं भवति । तथा च सति व्याप्तिप्रदर्शनवाक्यमिदम् । यथा घटादिरिति [२३१]व्याप्तिसाधकस्य प्रमाणस्य विषयकथनमेतत् । <शुद्धस्ये>ति निर्विशेषणस्य स्वभावस्य [२३२]प्रयोगः ।


__________टिप्पणी__________

[२३१] व्याप्तिसाधकस्य; नित्यक्रमयोगपद्याभ्यामर्थक्रियाविरोधादिति विपर्ययबाधकं प्रमाणम् --- टि-
[२३२] प्रयोगस्य विशेषणं दर्श-
___________________________



सविशेषणं दर्शयितुमाह ---

यदुत्पत्तिमत्तदनित्यमिति स्वभावभूतधर्मभेदेन स्वभावस्य प्रयोगः इइइ-१०

<यदुत्पात्तिमद्>इति ।[२३३] <उतपत्ति>ः स्वरूपलाभो[२३४] यस्यास्ति तद्<उतपत्तिमत्> । उत्पत्तिमत्त्वमनूद्य तदनित्यमित्यनित्यत्वविधिः[२३५] । तथा च सत्युत्पत्तिमत्त्वमनित्यत्वे नियतमाख्यातम् ।


__________टिप्पणी__________

[२३३] य्दुत्पत्तिः; यदुत्पत्तिमदिति उत्पत्तिमत्त्वमनू-
[२३४] लाभः स यस्मास्ति
[२३५] विधेः
___________________________




<स्वभावं>[२३६] <भूतः> [२३७]तदात्मको <धर्मः> । तस्य <भेदेन >। भेदं हेतूकृत्य प्रयोगः । [२३८]अनुत्पन्नेभ्यो हि व्यावृत्तिमाश्रित्योत्पन्नो भाव[२३९] इत्युच्यते । सैव व्यावृत्तिर्यदा व्यावृत्त्यन्तरनिरपेक्षा वक्तुमिष्यते तदा व्यतिरेकिनीव निर्दिश्यते --- भावस्य उत्पत्तिरिति । यथा च व्यतिरिक्तयेवोत्पत्त्या विशिष्टं[२४०] वस्तु उत्पत्तिमदुक्तम् । तेन स्वभावभूतेन धर्मेण कल्पितभेदेन


__________टिप्पणी__________

[२३६] अग्रे स्वयं <दुर्वेकेण> ’स्वभावभूतः स्वभावात्म्कःऽ इत्यादिना ’स्वभावभूतःऽ इत्येव <धरोत्तर>संमतः पाठ इति गृहीतस्तथापि अत्र तेनैव ’स्वहावं भूतःऽ इत्येव्ंरूपेण गृहीतोऽस्ति इति व्याख्यानुरोधाद्भावि --- सं- । स्वभावभूतः --- अब्च्द्फेन्
[२३७] स्वभावात्म्को
[२३८] ननु स्वभावभूतस्य कथं भद इत्याह --- टि-
[२३९] भाव उच्यते
[२४०] विशिष्टं च वस्तु
___________________________








भवतीति नियमख्यापनार्थं <सर्व>ग्रहणं भवति । अन्यथा निःशेषत्वानुपपत्तेरिति । सर्वमित्याद्यस्यैव स्पस्टीकरणम् । तथा च सति नियतत्वनियमविषयत्वख्यापनप्रकारे सति । इदं वाक्यं यत्सत्तदनित्यमित्यात्मकम् । व्याप्तिसाधकस्य प्रमाणस्येति यस्य क्रमाक्रमाऽयोगो न तस्य क्वचित्सामर्थ्यं यथाकाशकुशेशयस्य । अस्ति चाक्षणिके स इति व्यापकानुपलम्भसम्भबस्यानुमाणस्येति द्रष्टव्यम् । एतच्च बहुवाच्यमन्यत्र विपञ्चितं नेहाप्रकृतत्वात्प्रतन्यते ।

कथं पुनरुत्पत्तिर्भावस्य विशेषणमित्याः --- स्वभावमिति । स्वभावं भूतः प्राप्त इति कर्त्तरि निष्ठा "द्वितीया" [पाणिनि २.१.२४.] इति योगविभागात्[५९ ] समासः । अस्यैव स्पष्टीकरण तदात्मक इति । यदि स्वभावः कथं विशेषणम्, भेदेन तस्य दर्शनादित्याह ---

[ध्प्र्प्. १५८]

विशिष्तः स्वभावः प्रयुक्तो द्रष्टवः ॥

यत्कृतकं तदनित्यमित्युपाधिभेदेन इइइ-११

<यत्कृतकम्>इति कृतक्त्वमनूद्य [२४१]अनित्यत्वं विधीयत इति अनित्यत्वे नियतं कृतकतमुक्तम् । अतो व्याप्तिरनियत्वेन कृतकत्वस्य दर्शिता । <उपाधिभेनेन > स्वभावस्य प्रयोग इति संबन्धः । <उपाधिर्> विशेषणम् । तस्य <भ्देदेन >भिन्नोपाधिना विशिष्टः स्वभावः प्रयुक्त इत्यर्थः ।


__________टिप्पणी__________

[२४१] अनित्यतत्वे
___________________________


[२४२]इह कदाचिच्छुद्ध एवार्थ उच्यते, कदाचिदव्यतिरिक्तेन विशेषणेन विशिष्टः कदाचिद्व्यतिरिक्तेन । देवदत्त इति शुद्धः, लम्बकर्ण इत्यभिन्नकर्णद्व्च्यविशिष्टः , चित्रनुरिति व्यतिरिक्तचित्रगवीनिशिष्तः । तद्वत्सत्त्वं शुद्धम्, उत्पत्तिमत्त्वमव्यतिरिक्तव्शेषणम्, कृतकत्वं व्यतिरिक्तविशेषणम् ॥


__________टिप्पणी__________

[२४२] परार्थानुमाने --- टि-
___________________________




तस्येति । भेदेन विशेष्याव्यतिरिक्ततया विशेषकत्वलक्षणेन विकल्पसन्दर्शितेन । स्वभावभूतः स्वभात्मको धर्म इति च परमार्थाभिप्रायेणोक्तम् । भेदेनेतीयं तृतीया हेताविति दर्शयन्नाह --- भेदमिति । व्यवहारसिद्धं भेदमुत्पत्तुः सकाशादन्यत्वं हेतूकृत्य निबन्धनीकृत्य प्रयोगः सविशेषणस्य स्वभावहेतोरिति प्रकरणात् ।

कल्पनयाऽपि कथं भेदो येनोत्पत्त्या विशिष्टमुत्पत्त्या विशिष्टमुत्पत्तिमदुच्यत इत्याह --- अनुत्पन्नेभ्य इति । हिर्यस्मात् । अनुत्पन्नेभ्य आकाशादिभ्यो व्यावृत्तिं व्यवच्छेदमाश्रित्य परिकल्प्य । यदि व्यावृत्त्याश्रयेणोत्पन्नो भाव उच्यते तर्हि कथमुत्पत्तिरस्येति प्रयोग इत्याह --- सैवेति । व्यावृत्त्यन्तरं महत्त्वादि तन्निरपेक्षा वक्तुमिष्यते यदा तदा । तेन परमार्थः स्वभावभूतेनोत्पत्त्याख्येन धार्मेण कल्पितः समारोपितो भेदोऽर्थान्तरत्वं यस्य ये(ते)न अव्यतिरिक्तेन विशेषणेन विशिष्टस्य स्वभावहेतोः प्रयोग इत्यर्थः ।

पूर्वमव्यतिरिक्तविशेषणविशिष्टस्य स्वभावस्य प्रयोगः । अधुना तु भिन्नविशेषण विशिष्टस्येति भेदस्तदाह --- भिन्नेनेति । यद्वा भिन्नेन पूर्वस्य्मादन्यादृशेन सङ्केतवशादन्तर्भावितेन, न तु विद्यमानस्ववाचकेन । अत एवायमन्यतो भिद्यते प्रयोगः ।

इहेति परप्रतिपादनार्थे शब्दप्रयोगे । शुद्धो निर्विशेषणः । अथ किमेको अर्थः शुद्धः कदाचिदव्यतिरिक्तोपाधिना विशिष्टः; कदाचिद्व्यतिरिक्तविशेषणविशिष्टो दृष्टः शिष्टैः प्रयुज्यमानो येनैवमुच्यमानं परभागं पुष्णातीयाह --- देवदत्त इति । वक्ष्यमाणतद्वत्शब्दात्यद्वत्शब्दोऽत्र द्रष्टव्यः । चित्रा चासौ गौश्चेति "गोरतद्धितलुकि" [पाणिनि ५.४.९२] इति टच्, टित्वाङ्ङीप्तया विशिष्टः । यथाक्रममेव दृष्टान्तदार्ष्टान्तिकयोजना कार्या ।

चित्त्रगुशब्देन कृतकशब्दस्य साम्यं नास्तीति मन्वानः पर आह --- ननु चेति । कारणानां व्यापारो नियतप्राग्भावस्तदतिरेकिणो व्यापारस्याभावात् । ननु च कृतकशब्दे न विशेषणवाचिशब्दोऽस्तीति यदुक्तं तत्तदवदस्थमेवेत्याह --- यद्यपीति । अन्तर्भावितं प्रकाशितम् । कथं

[ध्प्र्प्. १५९]

ननु च चित्रगुशब्दे व्यतिरेक्तस्य विशेषणस्य वाचकश्चित्रशब्दो गोशब्दश्चास्ति । कृतकशब्दे तु निर्विशेषणवाचिनः शब्दस्य प्रयोगोऽस्तीत्याशङ्क्याह ---

अपेक्षितपरव्यापारो हि भावः स्वभावनिष्पत्तौ कृतक इति इइइ-१२

<अपेक्षिते>ति । <परेषां >कारणानां <व्यापारः स्वभाव>स्य <निष्पत्तौ> --- निष्प्तत्त्यर्थमपेक्षितः परव्यापारो येन स तथोक्तः । <ही>ति यस्यादर्थे । यस्मादपेक्षित परव्यापारः कृतक उच्यते तस्माद्व्यतिरिक्तेन विशेषणेन विशिष्टः स्वभाव उच्यते । यद्यपि व्यर्तिरिक्तं विशेषणपदं [२४३]न प्रयुक्तं तथापि कृतकशब्देनैव व्यतिरिक्तं [२४४]विशेषणपदमन्तर्भावितम् । अत एव संज्ञाप्रकारोऽयं कृतकशब्दो यस्मात्संज्ञायामयं कन् प्रत्ययो विहितः । यत्र च विशेषणमन्तर्भाव्यते तत्र
विशेषणपदं न प्र्युज्यते ।


__________टिप्पणी__________

[२४३] न च प्रयु-
[२४४] विशेषणमन्त-
___________________________



क्वचित्[२४५] तु प्रतीयमानं विशेषणं यथा कृत इत्युक्ते हेतुभिरित्येतत्प्रतीयते । तत्र[२४६] च हेतुशब्दः प्रयुज्यते, कदाचिन्न वा प्रयुज्यते ॥


__________टिप्पणी__________

[२४५] क्वचित्प्र-
[२४६] तत्र हेतु
___________________________



एवं प्रत्ययभेदभेदित्वादयो अपि[२४७] द्रष्टव्याः इइइ-१३


__________टिप्पणी__________

[२४७] -दओ द्र-
___________________________


प्रयुज्यमानस्वशब्दश्[२४८] च यथा प्रययभेदभेदिशब्दे[२४९] प्रययभेदशब्दः[२५०] । यथा च कृतकशब्दो भिन्नविशेषणस्वभावाभिधायी <एवं प्रययभेदभेदित्वमादिर्>येषां प्रयत्नानतरीयकत्वादीनां तेऽपि स्वभावहेतोः प्रयोगा भिन्नविशेषणस्वभावाभिधायिनो <द्रष्टाव्याः >।


__________टिप्पणी__________

[२४८] स्वशब्दो विशेषणशब्द --- टि-
[२४९] प्रत्ययभेदशब्दे
[२५०] प्रययभेदः
___________________________




<प्रयया>नां कारणानां <भेदो> विशेषस्तेन प्रययकालाभेदेन भेत्तुं शीलं यस्य स <प्रययभेदभेदी> शब्दस्तस्य भावः <प्रययभेदभेदित्व>म् । ततः प्रययभेदभेदित्वाच्छब्दस्य कृतक्त्वं साध्यते । प्रयत्नानन्तरीयकत्वादनित्यत्वम्[२५१]। तत्र प्रययभ्देदशब्दो व्यतिरिक्तविशेषणाभिधायी प्रययभेदभेदिशब्दे प्रयुक्तः । प्रयत्नानन्तरीयकशब्दे च प्रयत्नशब्दः ।


__________टिप्पणी__________

[२५१] त्वं साध्यते
___________________________




पुनः कृतकशब्देनान्तर्भावितमित्याह --- यस्मादिति । संज्ञायां नाम्नि कन् प्रत्ययो विहितस्तस्मादन्तर्भावितमिति । अत एव संज्ञाया कनो विधान्बादेवायं कृतकशब्दः संज्ञाप्रकारः संज्ञाविशेषः संज्ञाशब्द इति यावात् ।

अन्तर्भावेऽपि कथं विशेषणपदाप्रयोग इत्याह --- यत्रेति । चो यस्मादर्थे । अथावसितस्याप्यस्ति प्रयोगो यथा कृतक इत्युक्ते हेतुनेति प्रतीतावपि हेतुशब्दप्रयोग इत्याह --- क्वचिदिति । तुः पूर्वस्माद्वैधर्म्यं(-म्ये) । प्रतीयमानं स्वत उत्पादायोगात्सामर्थ्यादवसीयमानम् ।

[ध्प्र्प्. १६०]

तदेवं तिर्विधः स्वभावहेतुप्रयोगो[२५२] दर्शितः शुद्धोऽव्यतिर्क्तविशेषणो व्यतिर्क्तविशेषणश्च ।


__________टिप्पणी__________

[२५२] -हेतुयोगो
___________________________


[२५३]एवमर्थं चैतदाख्यातं --- वाचकभेदान्मा भूत्कस्यचित्स्वभावहेतावपि प्रयुक्ते व्यामोह इति ॥


__________टिप्पणी__________

[२५३] एतदर्थम्
___________________________


[२५४]सन्नुत्पत्तिमान् कृतको वा शब्द इति पक्षधर्मौपदर्शनम् [२५५] इइइ-१४


__________टिप्पणी__________

[२५४] अन्नोत्प-
[२५५] अस्मिन् सूत्रे न किंचित्केनचिद्व्याख्यातम्
___________________________



अथ किमेते स्वभावहेतवः सिद्धसम्बन्धे स्वभावे साध्ये प्रयोक्तव्या आहोस्विदसिद्धसम्बन्ध इत्याशङ्क्य सिद्धसम्बन्धे प्रयोक्तव्या इति दर्शयितुमाह ---

सर्व एते साधनधर्मा यथास्वं प्रमाणैः सिद्धसाधनधर्ममात्रानुबन्ध एव साध्यधर्मेऽवगन्तव्याः इइइ-१५

<सर्व एत >इति । गमकत्वात्साधनानि, पराश्रितत्वाच्च धर्माः, साधनधर्मा एव



अयमस्याशयः --- न कृतकशब्देन प्रतिपादितस्यार्थस्य अन्यथानुपपत्त्या हेतुव्यापारोऽत्र प्रतीयते येनातरापि विशेषणपदस्य [६० ] प्रयोगो वक्तुरिच्छातः स्याद्वा न वा किन् तु स्वोत्पत्तावपेक्षितपरव्यापारस्यैवार्थस्येदं नामेति कुतोऽनयोः साम्यमिति ।

एवं तावत्कश्चिद्विशेषणभूतोऽर्थोऽर्थात्प्रतीयमानः स्वशब्देनोच्यते न वा वक्तुरिच्छावशादिति प्रतिपाद्य कश्चित्पुनर्विशेषणभूतोऽर्थः प्रतीयमानोऽप्यवश्यं स्वशब्दोपादेय इति दर्शयितुमाह --- प्रयुज्यमानेति । प्रयुज्यमान उपादीयमानः । स्वशब्दः स्ववाचको यस्य विशेषणरूपस्यार्थस्य स तथोक्तः । कोऽसावीदृश इत्याह --- यथेति । प्रययभेदः प्रययभेदलक्षणोऽर्थो विशेषणात्माऽवश्यं स्ववाचकेन प्रययभेदशब्देनाभिधीयते इति प्रकरणात् ।

भेत्तुं भिदां गन्तुम् । कसिमिन् साध्ये साधनमिदमित्याह --- शब्दस्येति । एतच्च <मीमासकादिनां> प्रति द्रष्टव्यम् ।

तदेवम् इत्यादिनोपसहारः । स्वभावहेतोः साधर्म्यवत्प्रयोगमात्रे दर्शयितव्ये किमनेकस्य स्वभावहेतोः प्रयोगो दर्शित इत्याशङ्क्य फलमस्योपदर्शयन्नाह --- एवमर्थं चैतदिति । एवं वक्ष्यमाणकोऽर्थः प्रयोजनं यस्येति विग्रहः कार्यः । चोऽवधारणे हेतौ वा । एतदिति त्रैविध्यम् । एवमर्थं चैतथेतुजातमिति क्वचित्पाठस्तत्र च जातं वृन्दं द्रष्टव्यम् । तमेवार्थं वाचकेत्यादिना दर्शयति । वाचके व्यामोहो भ्रमस्तस्मात् । कस्यचित्प्रतिपत्तुः स्वभावहेतावपि प्रयुक्ते व्यामोहो ’नायं स्वभावःऽ इति विपर्ययज्ञानम् ।

एतदुक्तं भवति --- यदि त्रयाणामन्यतम उपादीयते तदा कदाचिदन्येनान्यथा प्रयुक्ते स्वभावहेतौ शास्त्रोक्तस्वभावहेतुवाचक[भिन्न]त्वात्’नायं स्वभाववाचकःऽ इति वाचके

[ध्प्र्प्. १६१]

<साधनधर्ममात्रम् । मात्र>शब्देनाधिकस्यापेक्षणीयस्य निरासः । तस्य्<आनुबन्धो>ऽनुगमनमन्वयः । <सिद्धः साधनधर्ममात्रानुबन्धो> यस्य स तथोक्तः । केन सिद्ध इत्याह --- <यथास्वं प्रमाणैर्> इति[२५६] । यस्य साध्यधर्म्यस्य यदात्मीयं प्रमाणं तेनैव प्रमाणेन सिद्ध इत्यर्थः । स्वभावहेतूनां च बहुभेदत्वात्संबन्धसाधनान्यपि प्रमाणानि बहूनीति <प्रमाणैर्> इति बहुवचननिर्देशः । गमयितव्यत्वात्साध्यः, पराश्रितत्वाच्च धर्मः <साध्यधर्मः >।


__________टिप्पणी__________

[२५६] अथ नान्तरीयत्वानिश्चयेऽपि लिङ्गस्य परोक्षार्थप्रतिपादकत्वं स्यादित्याह --- टि-
___________________________


तदयं परमार्थः --- न हेतुः प्रदीपवद्योग्यतया गमकोऽपि तु नान्तरीयकतया विनिश्चितः[२५७] । साध्याविनाभावित्वनिश्चियनमेव[२५८] हि हेतोः साध्यप्रतिपादनव्यापारो नायः कश्चित् ।


__________टिप्पणी__________

[२५७] प्रमाणैर्यस्य साधनधर्मस्य यदात्मीयं; प्रमाणैर्यदात्मीयं
[२५८] एव हेतोः
___________________________





व्यामुह्य ’नायं स्वभावःऽ इति साधनेऽपि व्यामुह्येत । स व्यामोहो मा भूदित्येतदर्थं त्रिविधः स्वभावहेतुरुक्तः ।

अथेति सम्बोधने । सिद्धो निश्चितः सम्बन्धस्तादात्म्यलक्षणो यस्य तस्मिन् । यस्य साध्यधर्मस्य यदात्न्मीयमिति येन प्रमाणेन यस्य साध्यस्य साधनव्याप[क]तं निश्चीयते । तदेव तस्येत्यभिप्रयेणोक्तम् । व्यक्तिभेदविवक्षया बहूनीत्युक्तम् ।

साध्यसाधनयोः सम्बन्धो वास्तवोऽस्तु । किं तन्निश्चयेनेत्याह --- तदयमिति । यत एवं तत्तस्मादयमभिधास्यमानस्तात्पर्यार्थः सर्व इत्यादेर्वाक्यस्य । प्रदीपो वैधर्म्यदृष्टान्तः । योग्यतया तथाशक्त्यतया ।

ननु परोक्षार्थप्रतिपादनव्यापारसमावेशाधेतुर्गमकः तत्किं साध्यनान्तरीयकत्वनिश्चयेनेत्याह --- साध्येति । हिर्यस्मादर्थे । साध्याविनाभावित्वनिश्चयनमत्रापीदमेतत्स्वभावमिति निश्चयः । तदेव हेतोः प्रतिपादनव्यापारः परोक्षार्थप्रतिपादनलक्षणो व्यापारः परोक्षार्थप्रतिपादकतमित्यर्थः । यद्येवमनिश्चतसम्बन्भेऽपि साध्यधर्मे साधनधर्मस्तन्नान्तरीयकतया निश्चेतुं शक्य इति किं सिद्धसम्बन्धेन साध्येनानुसृतेनेत्याह --- प्रथममिति । प्रथमं हेतुप्रयोगात्प्राक्, बाधकेने साध्यविपर्ययो हेतो
[६० ][२५९].......................................................................................................................................................................................................................................................................................................................................................................................................................................................................................................... .................................................................................................. ................. [६१] साध्यसाधनभाव इति चेत् । यद्दर्शनद्वारायातावेतौ कृतकत्वानित्यत्वविकल्पौ व्यावृत्तिनिष्ठौ परमार्थतस्तस्य तादात्म्यादित्युक्तप्रायमित्य्दोषः । तादात्म्यावसायः कुत इति चेत्विपर्यये वाधकप्रमाणवशात् । तत एव तर्हि साध्यं सिद्धमिति किं साध्यत इति चेत् । न ततो धर्म्यनवच्छेदेन प्लवमानाकारायाः प्रतीतेरप्रवृत्त्यङ्गस्योदयात् । यत्पुनरियं घर्मकालविशेषानवच्छेदेन


__________टिप्पणी__________

[२५९] नैतत्पत्रं प्रतिबिम्बितम् --- सं-
___________________________


[ध्प्र्प्. १६२]

[२६०]प्रथमं बाधकेन प्रमाणेन साध्यप्रतिबन्धो निश्चेतव्यो हेतोः । पुनरनुमानकाले[२६१] साधनं साध्यनान्तरीयकं[२६२] सामान्येन स्मर्तव्यम् । कृतकत्वं नामाणित्यस्वभावम्[२६३] इति सामान्येन स्मृतमर्थं[२६४] पुनर्विशेषे योजयति --- इदमपि कृतकत्वं शब्दे वर्तमानमनित्यस्वभावम्[२६५] एवेति ।


__________टिप्पणी__________

[२६०] प्रागनुमानात्--- टि-
[२६१] -कालेन साधनं
[२६२] साध्यानन्तरीकं
[२६३] -त्यत्वस्व-
[२६४] स्मृतमर्थाय
[२६५] -त्यत्वस्व-
___________________________







तत्र सामान्यस्मरणं लिङ्गज्ञानम्[२६६] । विशिष्टस्य तु शब्दगतकृतकत्वस्या [२६७]ऽनित्यत्वस्वभास्य स्मरणमनुमानज्ञानम्[२६८] । तथा च सत्यविनाभावित्वज्ञानमेव परोक्षार्थप्रतिपादकत्वं नाम । तेन निश्चिततन्मात्रानुबन्धे साध्यधर्मे साध्यधर्म्ने स्वभावहेतवः प्रयोक्तव्या नान्यत्रेत्युक्तम् ॥


__________टिप्पणी__________

[२६६] लिङ्गनिश्चायकं ज्ञानम् --- टि-
[२६७] कृतकस्या
[२६८] मानं ज्ञानं
___________________________




यद्येवं सम्बन्धो निश्चेतव्यः साध्यस्य साधनेन सह । साधनधर्ममात्रानुबन्धस्तु साध्यस्य कस्मान्निश्चितो मृग्यत इत्याह ---

[२६९]तस्य एव तत्स्वभावत्वात् इइइ-१६


__________टिप्पणी__________

[२६९] तस्यैव --- ओम्.
___________________________


<तस्यैवे>ति सिद्धसाधनधर्ममात्रानुबन्धस्य । <तत्स्वभावत्वाद्>इति साधनधर्मस्वभावत्वात् । यो हि साधयधर्मः साधनधर्ममात्रानुबन्धवान् स एव तस्य साधनधर्मस्य्स्वभावो नान्यः ॥

भवतु ईदृश एव स्वभावः । स्वभाव एव तु साध्ये कस्माद्धेतुप्रयोगः?

स्वभावस्य च[२७०] हेतुत्वात् इइइ-१७


__________टिप्पणी__________

[२७०] -स्य हेतु-
___________________________


<स्वभासस्य च[२७१] हेतुत्वात् ।> स्वभाव एव[२७२] इह हेतुः प्रक्रान्तः । तस्मात्स एव साध्यः कर्तव्यः यः साधनस्य स्वभावः स्यात् । साधनधर्ममात्रानुबन्धवांश्[२७३] च स्वभावो न्यायः ॥


__________टिप्पणी__________

[२७१] -स्य हेतु-
[२७२] स्वभाव एव हेतु; स्वभाव इह
[२७३] -न्धश्च स्व-
___________________________




यदि साध्यधर्मः साधनस्य स्वभावः[२७४] स्यात्प्रतिज्ञार्थैकदेशस्तर्हि हेतुः स्यादित्याह ---


__________टिप्पणी__________

[२७४] स्वभावः प्रति-
___________________________


वस्तुतस्तयोस्तादात्म्यम्[२७५] इइइ-१८


__________टिप्पणी__________

[२७५] -आत्म्यात्
___________________________


<वस्तुत >इति । <वस्तुतः >पृष्ठअरमार्थतः साध्यसाधनयोस्<तादात्म्यम्> । समारोप्तितस्तु साध्यसाधनभेदः[२७६] । साध्यसाधनभावो हि निश्चयारूढे रूपे । निश्चयारूढं च रूपं समारोपितेन


__________टिप्पणी__________

[२७६] -साधनयोर्भेदः
___________________________




तदात्मताप्रतीतिः प्रवृत्त्यङ्गमियमस्मादेव लिङ्गादिति किमवद्यम्? एवं सत्त्वहेतावपि द्रष्टव्यम् । एतच्चोक्तमपि स्वार्थानुमानेऽधिकाभिधानार्थं पुनरुक्तमिहेति द्रष्टव्यम् ॥

[ध्प्र्प्. १६३]

भेदेनेतरेतरव्यावृत्तिकृतेन भिन्नमिति अन्यत्साधनम्, अन्यत्साध्यम् । दूराद्धि शाखादिमानर्थो वृक्ष इति निश्चीयते न शिंशपेति । अथ च स एव वृक्षः सैव शिंशपा । तस्मादभिन्नमपि वस्तु निश्चयो भिन्नमादर्शयति
व्यावृत्तिभेदेन । तस्मान्निश्चयारूढरूपापेक्षया अन्यत्साधनमन्यत्साध्यम् । अतो न प्रतिज्ञार्थैकदेशो हेतुः । वास्तवं च तादात्म्यमिति ॥

कस्मात्पुनः साधनधर्ममात्रनुबन्ध्येव[२७७] साध्यः स्वभावो नान्य इत्याह ---


__________टिप्पणी__________

[२७७] -बन्धे च साध्यः
___________________________


तन्निष्पत्तावनिष्पन्नस्य तत्स्वभावत्वअभावात्[२७८] इइइ-१९


__________टिप्पणी__________

[२७८] स तन्निष्पत्तावनिष्पन्नस्य साधन
___________________________


<तन्निष्पत्ताव्>इति । यो हि यन्नानुबध्याति स[२७९] तन्निष्पत्तावनिष्पन्नः । तस्य तन्निष्पत्तावनिष्पन्नस्य साधनस्वभावत्वमयुक्तम् । यतो निष्पत्त्यनिष्पत्ती भावाभावरूपे । भावाभावी च परस्परपरिहारेण स्थितौ । यदि च पूर्वनिष्पन्नस्य, अनिष्पन्नस्य चक्यं भवेदेकस्यैवार्थस्य भावाभावौ स्यातां युगपत् । न च विरुद्धयोर्भावाभावयोरैक्यं युज्यते, विरुद्धधर्मसंसर्गात्मकत्वादेकत्वाभावस्य [२८०]।


__________टिप्पणी__________

[२७९] अयमेव भेदोभावनां विरुद्धधर्माध्यासः, कारणभेदश्च --- टि-
[२८०] व्यभिचारेत्यादि --- ओम्.
___________________________



किञ्च पश्चादुत्पद्यमानं पूर्वनिष्पन्नाद्भिन्नहेतुकम् । हेतुभेदपूर्वकश्च कार्यभेदः । ततो निष्पन्नानिष्पन्न्योर्निरुद्धधर्मसंसर्गात्म्को भेदो भेदहेतुश्च कारणभेद इति कुत एकत्वम्? तमात्साधधर्ममात्रानुबन्ध्येव साध्यः स्वभावो नायः ॥

मा भूत्पश्चान्निष्पन्नः पूर्वजस्य स्वभावः । साध्यस्तु कस्मान्न भवतीत्याह

व्यभिचारसम्भवाच्च इइइ-२०

<व्यभिचारेत्यादि> । पूर्वजेन पश्चान्निष्पन्नस्य व्यभिचारः परित्यागो यस्तस्य स भवाच्च



ननु किमस्य सम्भवोऽस्ति यदुत्तैकात्मन एवैका व्यावृत्तिर्निश्चीयते नेतरेत्याह --- दूरादिति । हिर्यस्मात् । अथ चेति निपातसमुदायः प्रतिपिपादयिषितपरमार्थद्योतकः । वृक्षः शिंशपेति चोपलक्षणमेतत् ।

तस्मादित्यादिनोपसंहारः । वास्तवं वस्तुस्वरूपादागतमसमारोपितमित्यर्थः । तुशब्दार्थश्चकारः ॥

यः साध्यधर्मो यं साधनधर्मं नानुबध्याति, नानुगच्छति, तस्मिन् सति नियमेन नोपतिष्ठत इति यावत् । कस्मात्तत्स्वभावत्वमयुक्तमित्याह --- यत इति । भवतां भावाभावरूपे तथाऽपि किं तयोस्तत्स्वभावत्वमित्याह --- भावेति । चो यस्मादर्थे । यदिच्छ (यदि चे)ति चशब्दो वक्तव्यान्तरसमुच्चये ।

[ध्प्र्प्. १६४]

न पूर्वनिष्पन्नस्य पश्चान्निष्पन्नः साध्यः । तस्मात्साधनधर्ममात्रानुबन्ध्य्[२८१] एव स्वभावः । स एव च साध्यः । तथा च सिद्धसाधनधर्ममात्रानुबन्ध एव स्वभावे स्वभाहेतवः प्रयोक्तव्या इति स्थितम् ॥

__________टिप्पणी__________

[२८१] -बन्ध्येव यः स्वभावः
___________________________


कार्यहेतोः[२८२] प्रयोगः--- यत्र धूमस्तत्राग्निः, यथा महानसादौ । अस्ति च इह धूम इति इइइ-२१


__________टिप्पणी__________

[२८२] कार्यहेतुप्रयोगः; कार्यहेतोरपि प्रयोगः
___________________________


<कार्यहेतोः प्रयोगः >। साधर्म्यवानिति प्रकरणादपेक्षीयम् । <यत्र धूम >इति धूममनूद्य <तत्राग्निर्> इत्यग्नेर्[२८३] विधिः । तथा च[२८४] नियमार्थः पूर्ववदवगन्तव्यः । तदनेन कार्यकारणभावनिमित्ता व्याप्तिर्दर्शिता ।


__________टिप्पणी__________

[२८३] इत्यग्निविधः
[२८४] व्याप्तिर्व्यापकस्य तत्र भाव एवेत्यादिकः --- टि-
___________________________



व्याप्तिसाधनप्रमाणविषयं दर्शयितुमाह --- <यथा महानसआदौ ।> महानसादौ हि प्रत्यक्षानुपलम्भाभ्यां कार्यकारणभावात्माविनाभावो निश्चितः ।

< अस्ति च इहे>ति साध्यधर्मिणि पक्षधर्मोपसंहारः ॥

इह अपि सिद्ध एव कार्यकारणभावे कारणे साध्ये[२८५]कार्यहेतुर्वक्तव्यः इइइ-२२


__________टिप्पणी__________

[२८५] कार्यं हेतु-
___________________________


<इह अपी>ति । न केवलं स्वभावहेताविहापि कार्यहेतौ[२८६] । <सिद्ध एवे>ति निश्चते कार्यकारणत्वे । कार्यकारणभाव[२८७] निशयो ह्यवश्यं कर्यव्यः । यतो न योग्यतया हेतुर्गमकोऽपि तु नान्तरीयकत्वादित्युक्तम् ॥


__________टिप्पणी__________

[२८६] कार्यहेतोः
[२८७] कार्यकारणत्वनिश्चियो; कार्यकारणनिश्चियो
___________________________





एवं निरुद्धधर्मसंसर्गात्मकभेदं प्रतिपाद्य तस्य हेतुं कारणभेदं प्रतिपाद्यितुमाह --- किञ्चेति निपातसमुदायो वक्तव्यान्तरसमुच्चये । पूर्वनिष्पन्नवस्तुहेतुकत्वे तदैवोत्पत्तिप्रसङेन पश्चादुपादायोगादिति भावो भिन्न्हेतुकमिति ब्रुवतः । भिन्नहेतुकत्वेऽपि कथं भेद इत्याह --- हेतुभेदेति । चो हेतौ । तत इत्यादिनोऽपसंहारः । तस्मादित्यादिनाऽऽद्यस्योपसंहारः ॥

पूर्वस्मिन् काले जातः पूर्वजः । व्यभिचारस्तदन्तरेणाऽपि केवलस्य स्थितिः । चोऽस्वभावतापेक्षयाऽसाध्यतां समुच्चिनोति । तस्मादित्यादिना साधनधर्ममात्रानुबन्धिनस्तत्स्वभावत्वं साधनस्वभाव्त्वञ्चोपसंहरति । चशब्दः साध्य इत्यस्यानन्तरं तत्स्वभावत्वापेक्षया साध्यत्वं समुच्चिनोति । तथा च तन्निष्पत्तावेव निष्पन्न्सस्य तादात्म्ये तन्मात्रानुबन्धिन एव च साध्यत्वे सति ॥

[ध्प्र्प्. १६५]

साधर्म्यवान् स्वभावकार्यानुपलम्भानां प्रयोगो दर्शितः । वैधर्म्यवन्तं दर्शयितुमाह ---

वैधर्म्यवतः[२८८]प्रयोगः --- यत्सदुपलब्धिलक्षणप्राप्तं तदुपलभ्यत एव, यथा नीलादिविशेषः । न च एवमिह उपलब्धिलक्षणप्राप्तस्य सत उपलब्धिर्घटस्य इत्यनुपलब्धिप्रयोगः इइइ-२३


__________टिप्पणी__________

[२८८] वैधर्मवतः
___________________________


<वैधर्म्यवत[२८९]> इति <यत्सदुपलब्धिलक्षणप्राप्तम् >इति यत्सत्दृश्य इत्यस्तित्वानुवादः । <तदुपलभ्यत >इत्युपलम्भविधिः । [२९०]तदनेन दृश्यस्य सत्त्वं दर्शनविषयत्वेन व्याप्तं कथितम्, असत्त्वनिवृत्तिश्च सत्त्वम्, अनुपलम्भनिवृत्तिश्च उपलभः । तेन साध्यनिवृत्त्यनुवादेन साधननिवृत्तिरहिता । तथा च [२९१]साध्यनिवृत्तिः साधननिवृत्तौ नियतत्वात्साधननिवृत्त्या व्याप्ता कथिता । यदि च धर्मणि साध्यधर्मो न भवेद्[२९२]हेतुरपि न भवेत् । [२९३]हेत्वभावेन [२९४]साद्ध्याभावस्य व्याप्तत्वात् । अस्ति च हेतुः[२९५] । अतो व्यापकस्य साधनाभावस्याभावाद्[२९६] व्याप्यस्य[२९७] साध्याभावस्याभाव इति साध्यगतिर्[२९८] भवति । ततो वैधर्म्यप्रयोगे साधनाभावे साध्याभावो[२९९] नियतो दर्शनीयः सर्वत्रेति न्यायः



__________टिप्पणी__________

[२८९] वैधर्म्यवतः यत्सदिति
[२९०] तस्मात्--- टि-
[२९१] सत्त्वं--- टि-
[२९२] हेतुरपि । हेत्व-; हेतुरपि न स्यात्
[२९३] उपलम्भः --- टि-
[२९४] सत्त्वस्य --- टि-
[२९५] अनुपलभ्यमानः --- टि-
[२९६] उप्लम्भः --- टि-
[२९७] सत्त्वस्य --- टि-
[२९८] साध्यनिश्चयो भवति
[२९९] नियमः
___________________________














प्रकरणात्साधर्म्यवत्प्रयोगदर्शनप्रस्तावात् । तथा चेति धूमानुवादेनाग्निविधाने सतीत्यर्थः । नियमोऽव्यभिचारः, तल्लक्षणोऽर्थः प्रतिपाद्यतयाऽभिधेयः प्रयोजनं वाऽस्य --- यत्र धूम इत्यादेः प्रयोगस्येति प्रस्तावात्, सोऽनुगन्तव्यः प्रत्येतव्यः । पूर्ववदनुपलब्ध्यादिवत् ।

एतदेव व्यनक्ति तदिति यत एवं तत्तस्मात् । व्याप्तिरविनाभावः, साध्यनियतत्वं साधनस्येति यावत् । दर्शिता प्रदर्शिता । किं निमित्ता सेत्याह --- कार्येति ।

अयमाशयः --- व्याप्तिः खलुः प्रतिबन्धः साध्यायत्तत्वम् । तच्चार्थान्तरस्यार्थान्तरे प्रतिबद्धत्वं कार्यकारणभाववशादिति स एव निमित्तं तस्य, अनर्थान्तरस्य तु तादात्म्यम् [६१ ] ।

महानसः सूपकारशाला । आदिशब्देनायस्कारकुट्यादेर्ग्रहणम् । किं तत्र व्याप्तिसाधकं प्रमाणं यदपेक्षया तस्य विषयत्वमित्याह --- प्रत्यक्षेति । हिर्यस्मात् । प्रत्यक्षानुपलम्भानां प्रत्येकं जात्येकत्वविवक्षया प्रत्यक्षानुपलम्भ्यामित्यवसेयम् । कार्यकारण्भावादात्मा निश्चयारूढः स्वभावो यस्येति विग्रहः कार्योऽन्यथा युक्तिविरोधः स्ववचनविरोधश्चाऽस्य स्यात् । अविनाभावोऽव्यभिचारः साध्यायत्तता साधनस्येति यावत् ।

पक्षधर्मस्योपसंहारो ढौकनं तत्र सत्त्वप्रदर्शनमित्यर्थः ॥

[ध्प्र्प्. १६६]

स्वभावहेतोर्वैधर्म्यप्रयोगमाह ---

असत्यनित्यत्वे न अस्त्येव[३००] सत्त्वमुत्पत्तिमत्त्वं कृतकत्वं वा ।[३०१] संश्च शब्द उत्पत्तिमान् कृतको वा इति स्वभावहेतोः प्रयोगः इइइ-२४


__________टिप्पणी__________

[३००] नास्ति सत्त्वम्
[३०१] असंश्च
___________________________



<असत्यनित्यत्व >इति । इहानित्यत्वस्य साध्यस्याभावो हेतोरभावे नियत[३०२] उच्यते । तेन हेत्वभावेन[३०३] साध्याभावो व्याप्त[३०४] उक्तस्त्रिष्वपि स्वभावहेतुषु । <सन्नुत्पत्तिमान् कृतको वा शब्द >इति त्रयाणामपि पक्षधर्मत्वप्रदर्शनम् । इह[३०५] च साधनाभावस्य व्यापकस्याभाव उक्तः । ततो व्याप्योऽपि साध्याभावो निर्वर्तत[३०६] इति साध्यगतिः ॥


__________टिप्पणी__________

[३०२] नियमः
[३०३] सत्त्वेन --- टि-
[३०४] नित्यत्वम् --- टि-
[३०५] शब्दे धर्मिणी --- टि-
[३०६] बुवृत्त इति
___________________________






कार्यहेतोर्[३०७] वैधर्म्यवत्प्रयोगमाह ---


__________टिप्पणी__________

[३०७] वैधर्म्यप्रयो-
___________________________


असत्यग्नौ न भवत्येव धूमः[३०८] । अत्र च अस्ति धूम इति कार्यहेतोः प्रयोगः इइइ-२५


__________टिप्पणी__________

[३०८] अत्र चास्तीति कार्य
___________________________


<असत्यग्नाव्> इति । इहापि[३०९] वह्न्यभावो धूमाभावेन व्याप्त उक्तः । <[३१०]अस्ति धूम अत्र इति >व्यापकस्य धूमाभास्याभाव उक्तः । ततो व्याप्यस्य वह्न्यभावे साध्यगतिः ॥


__________टिप्पणी__________

[३०९] इहापि च
[३१०] अत्र चास्ति धूम इति
___________________________



ननु च साधर्म्यवति[३११] व्यतिरेको नोक्तः । वैधर्यवति चान्वयः । तत्कथमेतत्त्रिरूपलिङ्गाख्यानमित्याह ---


__________टिप्पणी__________

[३११] साधर्म्यव्यतिरेको
___________________________




दृष्टान्तदार्ष्टान्तिकयोर्हेतुसद्भावासद्भावद्वारकं वैधर्म्यं विद्यते प्रतिपाद्यतया यस्य तं दर्शयितुमाह <वार्तिककारः> ।

तथा चेति साध्यनिवृत्त्यनुवादेन साधननिवृत्तिप्रकारे सतीत्यर्थः । साध्यनिवृत्तिरभावः साधनस्य निवृत्त्याऽभावेन व्याप्ता आत्मनियतीकृता कथिता प्रकाशिता । कुत इत्याह --- साधनस्य निवृत्तावभावे नियतत्वादव्यभिचारित्वात्साध्यनिवृत्तेरिति प्रक्रमात् । यतो यत्र साध्याभावस्तन्नियतत्वमस्य । इमानेव व्याप्ति व्यनक्ति यदीति । चो हेतौ । धर्मणीत्यनेन धर्ममात्रमुपदर्शयन् सर्वोपसंहारवतीं व्याप्तिमाह । कुतः पुनः साध्याभावे साधनाभाव इत्याह --- हेत्वभावेनेति । अस्ति हेतुर्दृश्यानुपलम्भः । अनेन व्यापकस्य साधनाभावलक्षणस्याभावो दर्शितः । अतो व्यापकाभावात्साध्याभावः सद्व्यवहारयोग्यत्वलक्षणो व्याप्यो निवर्त्तते । यत एवम्

[ध्प्र्१६७]

साधर्म्येण अपि हि प्रयोगे अर्थाद्वैधर्म्यगतिरिति[३१२] इइइ-२६


__________टिप्पणी__________

[३१२] गतिः ।
___________________________


<साधम्येणे>ति । <साधर्म्यणापि >अभिधेयेन उक्ते <प्रयोगे >क्रियमाणे <अर्थात्[३१३]> सामर्थ्यात्वैधर्यस्य व्यतिरेकस्य गतिर्भवतीति[३१४] । <ही>ति यस्मात् । तस्मात्त्रिरूपलिङ्गाख्यानमेतत्[३१५] ।


__________टिप्पणी__________

[३१३] अर्थादिति
[३१४] भवति । ही
[३१५] आख्यानम्- एव तत्
___________________________




यदि नाम व्यतिरेकोऽन्वयवता[३१६] नोक्तस्तथापि अन्व्यवचनसामर्थ्यादेवावसीयते ॥


__________टिप्पणी__________

[३१६] -वति नोक्तोऽन्वय-
___________________________


कथम्?

असति तस्मिन् साध्येन हेतोरन्वयाभावात् इइइ-२७

<असति तस्मिन् >व्यतिरेके[३१७] बुद्ध्याध्यवसिते <साध्येन हेतोरन्व्यस्य [३१८]>बुद्ध्याध्यवसितस्याभ्वात्[३१९] । [३२०]साध्ये नियतं साधनमन्वयवाक्यादवस्यता साध्याभावे साधनं नाशङ्कनीयम् ।


__________टिप्पणी__________

[३१७] व्यतिरेकबु-
[३१८] बुद्ध्यध्यवसिते; बुद्ध्यध्यवसितस्य
[३१९] -सितत्वाभावात्
[३२०] साध्ये नियतमित्यादिनाऽन्वयबा(बो)धसामर्थ्यात्व्यतिरेकं दर्शयति --- टि-
___________________________







इतिस्तस्मात् । साध्यस्यासद्व्यवहारयोग्यत्वस्य गतिरवसायो भवति, सर्वत्र हेतुत्रयवैध्र्म्यप्रयोगे ॥

स्वभावहेतुमधिकृत्याह --- स्वभावेति । वैधर्म्यप्रतिपादकः प्रयोगस्तथोक्तः । कथं पुनसत्र साध्यनिश्चयो जायत इत्याह --- इहेति स्वभावहेतुप्रयोगत्रये । चो यस्मात्साधनाभास्य सत्त्वादिनिवृत्ते अभावः सत्त्वादिविधिरुक्तः । ततस्तस्मात् । व्याप्यो अपि क्षणिकत्वाभावोऽपि । अपिः साधनाभावनिवृत्त्यपेक्षया साध्याभावनिवृत्तिं समुच्चिनोति । यत एवमितस्तस्मात् । साध्यस्य क्षणिकत्वस्य गतिर्निश्चिय इति ॥

कार्यहेतुमुद्दिश्याह कार्येति । न केवलं पूर्वयोरित्यपिशब्दः । धूमाभावस्याभावो धूमसत्तैव प्रतिषेधप्रतिषेधस्य विधिरूपत्वादेवं पूर्वत्रापि विज्ञेयम् । ततो व्यापकस्य धूमाभावस्याभावात्व्याप्यस्य वह्न्यभावस्याभाव(वे) न्यायसिद्धे सति ॥

न केवलं व्यतिरेकेणाभिधेयेन युक्त इत्यपिशब्दः । अभिधेयेन साक्षादभिधाविश्रामविशयेण । सामर्थ्यादन्यथाऽनुपपत्तेः ।

एतदिह ज्ञातव्यम् --- अन्वयव्यतिरेकओर्भेदस्य व्यावृत्तिनिबन्धन्बत्वाद्वस्तुतस्तादात्म्यात्स्वभावहेतुजानुमानबलादितरप्रतीतिर्न त्वन्यथाऽनुपपत्तिलक्षणार्थापत्तिरनेनोच्यत इति ।

[ध्प्र्१६८]

इतरथा [३२१]साह्द्यनियतमेव न प्रतीतं स्यात् । साध्याभावे च साधनाभावगतिर्व्यतिरेकगतिः । अतः साध्यनियतस्य साधनस्याभिधानसामर्थ्यादन्व्यवाक्येऽवसितो व्यतिरेकः ॥


__________टिप्पणी__________

[३२१] साध्ये नियत-
___________________________


तथा वैधर्म्येण अप्यन्वयगतिः इइइ-२८

<तथे>ति । यथाऽन्वयवाक्ये <तथा>ऽर्थादेव वैधर्म्येण प्रयोगेऽन्वयस्यानभिधीयमानस्यापि <गतिः> ॥

कथम्?

असति तस्मिन् साध्याभावे हेत्वभावस्य असिद्धेः इइइ-२९

<असति तस्मिन् >अन्वये बुद्धिगृहीते [३२२]<साध्याभावे हेत्वभावस्यासिद्धेर्>अनवसायात् । <हेत्व्>अभ्वे साध्याभावं नियतं व्यतिरेकवाक्यादवस्यता हेतुसंभवे साध्याभावो नाशङ्कनीयः । इतरथा हेत्वभावे[३२३] नियतो[३२४] न स्यात्प्रतीतः । हेतुसत्त्वे च साध्यसत्त्वगतिर्[३२५] अन्वयगतिः । अतः साधनाभावनियतस्य[३२६] साध्याभस्याभिधानसामर्थ्याद्व्यतिरेक्येऽन्वयगतिः ॥


__________टिप्पणी__________

[३२२] गृहीते ते साध्या
[३२३] साध्याभारो(वो)ऽनग्निः --- टि-
[३२४] नियतः साध्याभावो न स्यात्
[३२५] साध्यसत्त्वं गतिः
[३२६] साधनाभावे नियतस्य
___________________________








एतदेव दर्शयितुम् --- यदि नामेति । विशेषाभिधाननिमित्ताभ्युपगमे चायं निपातसमुदायः । अन्वयवताऽन्वयेनाभिधेयेन युक्ते प्रयोगेणेति प्रस्तावात् । अन्वयवचनसाम्र्थ्याद्[६२ ]अन्वयाभिधानबलात् ॥

अभिप्रायमजानानः पर आह --- कथमिति ।

असतीत्यादि सिद्धान्तवादी । अभिधेयतया स्थित इत्याशङ्कामपाकृत्तुमाह --- बुद्ध्येति । तादात्म्यतदुत्पत्तिनिबन्धने प्रतिबन्धेन प्रतिबन्धेन प्रतिबद्धत्वात्साधनमिदं साध्याभ्वे न भवत्येवेति बुद्ध्याऽध्यवसिते विषयीकृतेऽसति । साध्येन हेतोरन्वयस्य --- अन्वीयमानत्वस्य --- यत्र साधनं तत्र सर्वत्रावश्यं साध्यमित्येवंरूपस्य बुद्ध्याऽध्यवसितस्येत्येतदन्वयवाक्योपस्थापितया बुद्ध्या गृहीतस्याभावादबावप्रसङ्गादित्यर्थः ।

एतदुक्तं भवति । यदि साध्याभावेऽपि साधनं स्यात्तदा यत्रैवादः साध्याभावेऽपि वृत्तमिष्यते तत्रैव तत्साधनमप्यस्ति न च साध्यमिति कथं यत्र यत्र साधनधर्मस्तत्र तत्र साध्यधर्म इति सर्वोपसंहारेणान्वय उक्तः स्यादिति । तस्माधेतोरन्व्याभावाधेतोः साध्ये नियतं साध्याविनाभाविसाधनमन्वयवाक्वादिवास्यता (अन्वयवाक्यादवयता) प्रतियता साध्याभावे साधनं नाशङ्कनीयं न सन्देहनीयम् । आशङ्कानिषेधेन च विपर्ययोऽत्यन्तं निषिद्धः ।

कथं पुनस्तेनैवं नाशङ्कनीयमित्याह --- इतरथेति --- अतोऽन्येन प्रकारेण । अस्तु साध्याभावे साधनाभावावसायो व्यतिरेकस्तु कथं प्रतीयत इत्याह --- साध्येति । चो यस्माद् । यत

[ध्प्र्१६९]

यदि नामाकाशादौ साध्याभावे साधनाभावस्तथापि किमिति हेतुसम्भवे साध्यसंभव इत्याह ---

न हि स्वभावप्रतिबन्धे असत्येकस्य निवृत्तावपरस्य नियमेन निवृत्तिः इइइ-३०

<न ही>ति । [३२७]स्वभावेन <प्रतिबन्धो> यस्तस्मिन्न् <अस्त्येकस्य> साधयस्य निवृत्त्या नापरस्य साधनस्य <नियमेन >युक्ता नियमवती <निवृत्तिः> ॥


__________टिप्पणी__________

[३२७] भावः --- उत्पादः, सत्ता वा --- टि-
___________________________


स च द्विप्रकारः सर्वस्य । तादात्म्यलक्षणस्तदुत्पत्तिलक्षणश्च इत्युक्तम् इइइ-३१



एवमतो हेतोरित्यादिनोपसंहारः । अस्ति व्यतिरेके प्रतिबन्धानाक्षेपादन्वयस्यैवासत्त्वादसतश्च सत्त्वेन तत्प्रतिपादनायोगात्प्रेक्षावतामन्वयवचनमेव न प्रयुक्तं स्यादिति समुदार्यार्थः ॥

वैधर्म्येनाभिधेयेन युक्त इत्यध्याहारः । प्रयोगे साधनवाचकशब्दसमूहे ॥

कथमिति परः ।

असतीत्यादि सिद्धान्तवादी । बुद्धिगृहीत इति बुद्ध्यन्तरगृहीत इति ग्राह्यम् । एतदेव प्रतिपादयन्नाह --- हेत्वभाव इति । इतरथा हेतुसद्भावे साध्याभावसम्भवप्रकारे सति नियतो न स्यात्प्रतीतः साध्याभाव इति शेषः ।

मा भून्नियतोऽनुगतः किं नश्च्छिन्नमित्याह --- हेतुसत्त्वे इति । चः समुच्चये ।

अयमाशयः --- सति साधनेऽवश्यं साध्यमित्येवंलक्षणोऽन्वयोऽस्त्येव । केवलं व्यतिरेकवाक्यान्न प्रतीयत इत्युच्यते पूर्वपक्षवादिना । यदा च हेत्वभावे न नियतः साध्याभावः सम्भाव्यत इति कुतो यत्र यत्र साधनं तत्र तत्र साध्यमित्येवंरूपोऽन्वयः सिद्ध्येत । तत्रैवंसम्भावनाविषये हेतुभावेऽपि साध्याभावादिति ।

यत एवमतोऽस्माधेतोरित्यादिनोपसंहारः । अत्राप्ययमाशयः --- यदि यत्र साधनं तत्रावश्यं साह्द्यमिति न स्यात्तदा तत्रैव तावदसत्यपि साध्ये साधनं वृत्तमिति कुतः साध्याभ्वे साधनं न वर्त्तत इत्येवंरूपो व्यतिरेकः सिद्ध्येदिति ॥

अत्राभिप्रायमपरिज्ञायमानः (-जानानाः) प्राह --- यदि नामेति ।

न हीत्यादि प्रतिविधानम् <आचार्यीयं> न हीत्यादिना व्याचष्ते । अयं च मौलो <हि>शब्दः पश्चाद्व्याखास्यते । नियमेनावश्यंतया । या चावशं भाविनी निवृत्तिः सा नियमेव उक्ता भवतीत्यर्थकथनमेतत् ॥

[ध्प्र्१७०]

स च स्वभावप्रतिबन्धो द्विप्रकारः सर्वस्य [३२८]प्रतिबद्धस्य । <तादात्म्यं लक्षनं >निमित्तं यस्य स तथोक्तः । <तदुत्पत्तिर्लक्षणं> निमित्तं यस्य स तथोक्तः । यो यत्र प्रतिबद्धस्तस्य स प्रतिबन्धविषयोऽर्थः स्वभावः कारणं वा स्यात् । अन्यसिमिन् प्रतिबद्धत्वानुपपत्तेः । तस्माद्<द्विप्रकारः> स इत्युक्तम् । ’स च साध्ये ’र्थे लिङ्गस्यऽ इत्यॄन्बिइ-२१ अत्रान्तरेऽभिहितः ॥


__________टिप्पणी__________

[३२८] हेतोः --- टि-; प्रतिबद्धस्य इति ओम्.
___________________________


तेन हि निवृत्तिं कथयता प्रतिबन्धो दर्शनीयः । तस्मात्निवृत्तिवचनमाक्षिप्तप्रतिबन्धोपदर्शनमेव भवति । यच्च प्रतिबन्धोपदर्शनं[३२९]तदेव अन्वयवचनमित्येकेन अपि वाक्येन अन्वयमुखेन व्यतिरेकमुखेन वा प्रयुक्तेन सपक्षासपक्षयोर्लिङ्गस्य सदसत्त्वख्यापनं[३३०]कृतं भवति इति न अवश्यं वाक्यद्वयप्रयोगः इइइ-३२


__________टिप्पणी__________

[३२९] तदन्वय-
[३३०] सदसत्त्वाख्यापनं
___________________________



<[३३१]हि>र्यस्मादर्थे । यस्मात्स्वभावपर्तिबन्धे निर्वर्त्यनिवर्तकभावस्<तेन[३३२]> साध्यस्य निवृत्तौ साधनस्य[३३३] <निवृत्तिं काथयता प्रतिबन्धो> निवर्त्यनिवर्तकयोर्<दर्शनीयः> । यदि हि साधनं साध्ये प्रतिबद्धं भवेदेवं साध्यनिवृत्तौ[३३४]तन्नियमेन निवर्तेत । यतश्च तस्य प्रतिबन्धो दर्शनीयः <तास्मात्>साध्यनिवृत्तौ यत्साधन<निवृत्तिवचनं[३३५]> तेन्<आक्षिप्तं> <प्रतिबन्धोपदर्शनम्> । <यच्च> तदाक्षिप्तं[३३६] <प्रतिबन्धोपदर्शनं तदेवान्वयवचनम्> । पर्तिबन्धश्चेदवश्यं दर्शयितव्यो न वक्तव्यस्तर्ह्यन्वयः । यस्माद्दृष्टान्ते प्रमाणे प्रतिबन्धो[३३७] दर्श्यमान एवान्वयो नापरः
कशिचित्,


__________टिप्पणी__________

[३३१] पूर्वसूत्रोक्तः --- टि-
[३३२] तेनेत्युपसंहरति --- टि-
[३३३] साधननिवृत्तिं
[३३४] निवृत्तौ नियमेन
[३३५] अन्तर्भावितम् --- टि-; तेनाक्षिप्त प्रतिबन्धोपदर्शनं तदेवान्वय
[३३६] क्षिप्तप्रति
[३३७] वचनरूपो यत्र यत्र धूमस्तत्राग्निरित्येवं न वक्तव्यस्तर्ह्यन्वयः प्रतिबन्धशून्यः । साध्यहेत्वोस्तादात्म्यतदुपत्तिरूपप्रतिबन्धे स्थिते सिद्ध एवान्वय इति भावः --- टि-
___________________________










अथ स्वभावप्रतिबन्धश्चेदेकनिवृत्तावपरनिवृत्तिनिबन्धनं तदा कार्यहेतोरेव व्यतिरेको न स्वभावहेतोर्[६२ ] इति[३३८]............. तस्यासौ न तर्हि कार्यं हेतावित्याह --- स चेति । चो यस्मादर्थे । स्वभावेन प्रतिबन्धः प्रतिबद्धत्वं साध्यायत्तत्वम् । कस्यासावित्याशङ्कायामाह --- प्रतिबद्धस्य साधनस्य । सर्वस्येत्यनेन व्याप्तिं दर्शयति । तत्र संयोगादिनिमित्तशङ्काव्युदासायाभिमतं द्वितं (द्वैतं) दर्शयन्नाह --- तादात्म्यमित्यादि । लक्ष्यतेऽनेनेति लक्षणम् । अत एवाह निमित्तमिति किं पुनस्तेन स्वभावेन[३३९].......मित्याह --- अन्यस्मिन्नस्वभावेऽकारणे च । संयोगसमवाययोः प्रमाणबाधितत्वेन निमित्तत्वानुपपत्तेरिति भावः । यत
एवं तस्माधेतोः । स इति प्रतिबन्धः ॥


__________टिप्पणी__________

[३३८] पाठोऽत्र घृष्टः ।
[३३९] पाठोऽत्र घृष्टः ।
___________________________



पूर्वकं हिशब्दमिदानीं यथायोगं व्याचष्टे --- हिरिति यस्मादर्थवृत्ति हिशब्दम् । अस्य

[ध्प्र्१७१]

तस्मान्निवर्त्यनिर्वतकयोः[३४०] प्रतिबन्धो ज्ञातव्यः । तथा चान्वय एव ज्ञातो भवति । <इति>शब्दो हेतौ । यस्मादन्वयेऽपि[३४१] व्यतिरेकगतिः व्यतिरेके चान्वयगतिः, तस्माद्<एकेनापि सपक्षे चासपक्षे >च <सत्त्वासत्तय्ः ख्यापनं कृतम् ।>


__________टिप्पणी__________

[३४०] -वर्तकप्रति-
[३४१] अन्वये व्य-
___________________________



अन्वयो मुखमुपायोऽभिधेयत्वाद्यस्य तद्<अन्वयमुखं वाक्यम् >। एवं व्यतिरेको मुखं [३४२]यस्येति । <इत्[३४३]इ> हेतौ । यस्मादेकेनापि वाक्येन द्वयगतिस्तस्मादेकस्मिन् साधनवाक्ये द्वयोरन्वयव्यतिरेकवाक्ययोर्<अवश्यम्> एव <प्रयोगो न >कर्त्तव्यः ।


__________टिप्पणी__________

[३४२] मुखमस्य
[३४३] इतिकरणो हेतौ
___________________________



अर्थगत्यर्थो हि शब्दप्रयोगः । अर्थश्चेदवगतः, किं शब्दप्रयोगेण? [३४४]एकमेवान्व्यवाक्यं व्यतिरेकवाक्यं वा प्रयोक्तव्यम् ॥


__________टिप्पणी__________

[३४४] एकमेव त्वन्वय-
___________________________


अनुपलब्धावपि --- यत्सदुपलब्धिलक्षणप्राप्तं तदुपलभ्यत एव इत्युक्ते --- अनुपलभ्यमानं तादृशमसदिति प्रतीतेरन्वयसिद्धेःनुपलभ्यमानं तादृशमसदिति प्रतीतेरन्वयसिद्धेः इइइ-३३



हिशब्दस्य अर्थं कृत्वा शब्दपदार्थकस्या[३४५]............................. एवमुक्ते वक्ष्यमाणे च सर्वत्र द्रष्टव्यम् । अमुमेव यस्मादर्थमपेक्ष्य तेनेति योजयितुमिति दर्शयितुमाह --- यस्मादिति । एतच्च न हीत्यादिवाक्यस्य प्रकाश्यमर्थं गृहीत्वोक्तं न त्वभिधेयम्, निवृत्तिनिषेधस्यैव तत्राभिधेयत्वात् ।


__________टिप्पणी__________

[३४५] पाठोऽत्र घृष्टः ।
___________________________


ननु प्रतिबन्धः प्रतिबद्धत्वम् । स च निवर्त्तमानस्यैव न निवर्त्तकस्य । यदि हीत्यादिन च[३४६]................... दर्शयिष्यति । तत्कथमिह निवर्त्यनिवर्त्तकयोरित्युक्तम् । सत्यम् । केवलमत्र प्रतिबधशबदेन प्रतिबद्धत्वं प्रतिबन्धविषयत्वं च विवक्षितम् ।


__________टिप्पणी__________

[३४६] पाठोऽत्र घृष्टः ।
___________________________


तेनायमर्थः । प्रतिबन्धविषये प्रतिबद्धत्वं दर्शनीयम् । तथा च न कश्चिद्दोषः ।

कस्मात्पुनः प्रतिबन्धो । दर्शनीय इत्याशङ्क्याह --- यदीति । हीति यस्मात् । तेन व्यतिरेकवचनेनाक्षिप्तं प्रकाशितम् । प्रतिबद्न्धस्तादात्म्यतदुप्तत्तिनिबन्धनं दर्शययिते प्रकाश्यतेऽनेनेति तथा । प्रतिबन्धोऽवश्यदर्शयितव्योऽन्यथा व्यतिरेकस्यैवासिद्धेरिति भावः । भवतु तत्तथा --- यदिति । चोऽवधारणे । तदयमर्थः --- यदेवाक्षिप्तप्रतिबन्धोपदर्शनं तदेवान्वयवचनमन्वयप्रकाशनम् ।

ननूपदर्श्यतां प्रतिबधो[३४७].................. स कथं तेनोक्तो भवतीत्याह --- प्रतिबन्ध इति । यद्यवश्यं दर्शयितव्यो नियमेन ख्यापनीयस्तर्हि न वक्तव्यः प्रतिपादयितव्योऽअन्वयः ।


__________टिप्पणी__________

[३४७] पाठोऽत्र घृष्टः ।
___________________________


ननु च दृष्टान्तेन प्रतिबन्धसाधनकेन प्रमाणेन केवलं प्रतिबन्धः प्रदर्श्यते, न त्वन्वयः । तत्कथं वक्तव्यस्तेन वाक्येनेत्याह --- यस्मादिति । तस्य तादात्म्यनिबन्धनस्य तदुत्पत्तिनिबन्धनस्य वाऽन्वयात्मकत्वादिति भावः ॥

[ध्प्र्१७२]

<अनुपलब्धावपि> व्यतिरेकेणोक्तेनान्वयगतिः[३४८] । <यत्सदुपलब्धिलक्षणप्राप्तम् >इति साध्यस्य --- असद्व्यवहारयोग्यत्वस्य निवृत्तिं दृश्यसत्त्वरूपाम्[३४९] आह । <तदुपलभ्यतए एवे>ति अनुपलम्भस्य निवृत्तिमुपलम्भरूपामाह । तदनेन साध्यनिवृत्तिः साधननिवृत्त्या व्याप्ता दर्शता । यदि च साधनसंभवेऽपि [३५०]साध्यनिवृत्तिर्भवेत्न साधनाभावेन[३५१] व्याप्ता भवेत् । अतो व्याप्तिं[३५२] प्रतिपद्यमानेन साधनसंभवः साध्यसम्भवेन व्याप्तः प्रतिपत्तव्यः । अत एवाह --- <अनुपलभ्यमानं तादृशम्> इति दृश्यम् <असद्> इति <प्रतीतेः[३५३] >संप्रत्ययाद्<अन्वयसिद्धिर्>इति ॥


__________टिप्पणी__________

[३४८] केण युक्तेन
[३४९] सत्त्वस्वरूपामाह
[३५०] सत्त्वं --- टि-
[३५१] उपलम्भेन --- टि-
[३५२] व्याप्तिप्रति
[३५३] प्रतीतिः --- ओम्.
___________________________







द्वयोरप्यनयोः प्रयोगयोर्[३५४]न अवश्यं पक्षनिर्देशः इइइ-३४


__________टिप्पणी__________

[३५४] प्रयोगेऽवश्यं; प्रयोगे नावश्यं
___________________________


यतश्च साधनं साध्यधर्मप्रतिबद्धं तादात्म्यतदुत्पत्तिभ्यां प्रतिपत्तव्यं <द्वयोरपि परयोगयोः >तस्मात्<पक्षोऽवश्यम् >एव <न> <निर्देश्यः >। यत्साधनं साध्यनियतं प्रतीतं तत एव साध्यधर्मिणि दृष्टात्[३५५] साध्यप्रतितः । अतो न किंचित्साध्यनिर्देशेनेति ॥


__________टिप्पणी__________

[३५५] दृष्ट्वा
___________________________




निवृत्तिवचनं चैतदुपलक्षणं द्रष्टव्यम् । तेनान्व्यवचनेऽपि सर्वं यथायोगं द्रष्टव्यम् ।

यस्मादेवमनुवादविधिक्रमस्तत्तस्मादनेन वाक्येन दर्शिता प्रकाशिता । भवत्वभावयोर्व्याप्यव्यपाकभावस्तथाप्यन्वयः कथं सिद्ध्यतीत्याह --- यदीति । चो हेतौ । न व्याप्ता भवेत्साध्यनिवृत्तिरिति प्रकृतत्वात् ॥

तस्मात्पक्षोऽवश्यमेव न निर्देश्य इत्यनेन नावश्यं पक्षनिर्देश इत्यस्यार्थः कथितः ।

एवञ्च व्याचक्षाणेन यत्कैश्चित्<स्वयूथ्यैर्> विद्वस्यमानैः "अवश्यं पक्षनिर्देशो न; किन् तर्हि? कदाचिन्निर्देशः, कदाचिन्न" इति व्याख्यातं तदपहस्तितं द्रष्टव्यम् । कदाचिदपि तस्य प्रयोगार्हत्वे प्रतिज्ञायाः साधनाङ्गत्वप्रसङ्गात् । तथात्वे च <वादन्याय>स्य [६३ ][३५६][विरोधः स्यात्] ।


__________टिप्पणी__________

[३५६] अस्मिन् पत्रे अधिकं घृष्टं वर्तते । अत एव सम्यक्न पठयते --- सं-
___________________________


नन्वसति साध्यनिर्देशे कुतस्तदवगतिर्येन तदनिर्देश इत्याशङ्क्याह --- यदिति । साध्यनियतं साध्यनान्तरीयकम् । प्रतिबन्धसाधकेन प्रमाणेनेति बुद्धिस्तम् । तत एव साधनात्धर्मिणि विवादास्पदीभूते दृष्टात्प्रमाणेनावगतात्साध्यस्य धर्मधर्मिसमुदायस्य प्रतीतिर्भवति ।

एतदुक्तं भवति .........प्रतितार्थप्रतिपादकेन कर्त्तव्यमिति । <शङ्कराचार्य> .. ईश्वरकारणे ................विशेषः प्रतीयेतेत्यादिना वाक्यप्रबन्धेन विरुद्धशङ्काव्यवच्छेदार्थं साध्यवचनमिति संाधानात् । तथा हि तस्य प्रबन्धस्यायमर्थः --- असति साध्यवचने यत्कृतकं तद्सर्वमनित्यं

[ध्प्र्१७३]

यथा .................. कुतश्चिद्भ्रान्तिनिमित्तादीदृशं व्याप्तिवचनं संभाव्यते । अथ तथाविधाभिप्रायो वक्ता कृतकत्वं प्रयुञ्जानः तस्य नित्यतेन व्याप्तिं ब्रूयात् । तदयुक्तम् । यत्स्तयोर्व्याप्ति ब्रुवाणो ............... कथयेत्................ चेत्साधन ............................ साधनविकलः षध्यविकलो वा मा भूद्दृष्टान्त इति यत्कृतकं तदनित्यमिति प्रयोगोऽपि विरुद्धवाद्येव द्रष्टव्यः । .......... तदेतद्भौ[ताख्यानं] किमत्र ब्रूमः तथा हि कः खलु प्रेक्षावान् साधनविकलं विहायसं साध्यविकलं च कुम्भमालोचयितुमीशानोऽभिप्रेतनित्यत्वविरुद्धेनानित्यत्वेन साध्ये(ध्य)विकलतया कुम्भसन्निभ एव घटे व्याप्तिं
दर्शयेत् । भ्रान्त्या चेत् । साधनवैकल्यमाकाशस्य ..................................... वाऽभिप्रेतेन नित्यत्वेन कृतकत्वस्य व्याप्तिं न प्रदर्शयेत् । तत्र साधनवैकल्यम्, कुम्भे च साध्यवैकल्य ...................... कुम्भतुल्येऽपि घटे व्यामुह्यति, भ्रातेर्नियतनिमित्तत्वादिति चेत् । एवं तर्हि पक्षवचनेऽपि कथं ....................... संभाव्यत्वात् । .................... समानोऽपि विसंवादनाभिप्रायो न ............. । न चाप्युतत्तौ न चान्यदास्यान्यादृशं वचनमिदानीं तु द्रुतादिभेदभिन्नमित्यादिना प्रकारेण वचनविशेषेण ज्ञानेन कार्यभूतेनाविपरीतोऽभिप्रायोऽवधार्यते । तेन ............................. तदनित्यमभिधातरि ........... विशेषः । वचनसांकर्यान्नैवं तत्र निश्चय इति चेत् । एतत्पक्षवचनेऽपि समानम् । एवं
निश्चेतुं शक्येति तस्य तत्र तथावावगमो भविष्यतीति चेत्सर्वं समानमन्यत्राऽविशेषात् । किञ्च स एवं वादी तपस्वी ............ [६३ ] स्वयमेव तावद्दुष्यति । न हि कशित्साधनवादी प्रतिज्ञाहेतूदाहरणान्येवाभिधायोपरमते । किन् तर्हि? निगमनमप्युपादत्ते --- तस्मादनित्यः शब्द इति । एवमुक्ते च कुतो नित्यत्वशङ्का, यतः कृतकत्वस्य विरुद्धता भवेत्? ततश्च निगमनेनैव विरुद्धशङ्काव्यवच्छेदस्य कृतत्वात्पकास्वचनमपार्थकम् । यदाह्<आक्षपादः>[३५७]--- "साध्ये विपरीतशङ्काव्यवच्छेदार्थं निगमनमिति" । तथा हेतुवचनस्याप्यनुत्थानमायातम् । निगमनेऽनाश्वास इति चेद् । हन्त प्रतिज्ञावचनेऽप्यनाश्वासस्तुल्यः । यत्तत्र समाधानं तन्निगमनेऽपि भविष्यति
। तस्मात्तन्मतेऽपि निगमनादेवाभिप्रेतसाध्यप्रतीतेर्न विरुद्धाशङ्कानिरासार्थमपेक्षावचनं करणियम् । तदयं यथा नाम कश्चित्स्वाङ्गुलिज्वालया परं दिधक्षुः स प्ररं दहेद्वा न वा, स्वाङ्गुलिदाहमेव तावदनुभवतीति वृत्तान्तो जातः ।


__________टिप्पणी__________

[३५७] अत्र <अक्षपाद>वचनत्वेन यदुद्धृतं तन्नास्ति <न्यायसूत्रे> किन् तु वार्तिके --- "साध्यविपरीतप्रसङ्गप्रतिषेधार्थं यत्पुनरभिधानं तत्निगमनम्" इति वर्तते --- १.१.३९.
___________________________


यद्येवं निगमनमप्यपार्थकमापद्यत इति चेत् । अयमपरोऽस्तु दोषः । कथं नाम ताथागता जयन्ति? केवलं सति निगमने विरुद्धशङ्काव्यवच्छेदार्तह्ं पक्षावचनं न कार्यम् । निगमनेनैव तदाशङ्काव्यवअच्छेदस्य कृतत्वादित्युच्यत इति ।

<त्रिलोचचः> पुनर्<न्यायभाष्यटीकायाम्> इदमवादीत्--- "साध्यवचनमसाधनाङ्गवचनं न भवति, यतो विवादेषु परप्रतिपत्तिमधिकृत्य न प्रयोगनियमः शक्यः । पटुमन्दादिभावेन परपतिपत्तीनामनवस्थानात् । तथा हि हेतुवचनादेव कश्चित्प्रतेति । कश्चित्पुनरन्तरेणापि हेतुवचनं वक्तृस्वरूपपरिशीलनात्प्रागेव शब्दनिष्पत्तेरोष्ठादिस्थानव्यापारोपलब्धेर्वक्तुरभिप्रेतमन्वेति । तस्मादनपेक्षितपरप्रतिपत्तिरेवायं ज्ञाता ज्ञानस्थमर्थं प्रतिपादयन्तं तस्य स्वप्रतिपत्त्याऽऽरूढस्यार्थस्य



[ध्प्र्१७४]

[३५८]एवमेवार्थमनुपलब्धिप्रयोगे दर्शयति ---


__________टिप्पणी__________

[३५८] एतम्
___________________________


यस्मात्साधर्म्यवत्प्रयोगे अपि यदुपलब्धिलक्षणप्राप्तं सन्न उपलभ्यते सो असद्व्यवहारविषयः[३५९]। न उपलभ्यते च अत्र उपलब्धिलक्षणप्राप्तो घट इत्युक्ते सामर्थ्यादेव नेह घट इति भवति इइइ-३५


__________टिप्पणी__________

[३५९] विषयः सिद्धः
___________________________


<साधर्म्यवति प्रयोगेऽपि सामर्थ्यादेव नेह >पृष्ठरदेशे[३६०] <घट इति भवति> ।


__________टिप्पणी__________

[३६०] नेह घट
___________________________


किं पुनस्तत्सामर्थ्यमित्याह --- <यदुपलब्धिलक्षणाप्राप्तं[३६१] सन्नोपलभ्यते >--- इत्यनुपलम्भानुवादः । <सोऽसद्व्यवहारविषयः >--- इत्यसद्व्यवहारयोग्यत्वविधिः । तथा च सति दृश्यानुप्लम्भोपलम्भो


__________टिप्पणी__________

[३६१] प्राप्तमिति । अनु-
___________________________




वाचकं शब्दं प्रयोक्तुमर्हति । स्वप्रतिपत्तिश्च लिङ्गजा ज्ञापनीयधर्मविशिष्टं धर्मिणमभिनिविशते । तस्मात्प्ररस्य विवादयित्रा ज्ञानस्थमर्थं परो बोद्धव्य इति स एव परं प्रत्युपाय इति ।"

तदेतत्<कार्पटिककर्णाट>रटितमश्रद्धेयं धीमताम् । तथा हि --- सत्यम्, स्वप्रतिपत्त्याऽऽरूढ एवार्थः परस्मै प्रतिपाद्यते । केवलमिदमालोच्यताम् --- किं पक्षधर्मवचनाद्व्याप्तिवचनसहितात्सोऽर्थः प्रतिपादितो भवति न वेति । प्रतिपादने किं प्रतीतप्रत्यायकेन तद्वचनेन कार्यम्? तावतो वचनात्तत्प्रतिपत्तिमपह्नवानेव (-ह्नवानेन) तु नापहनुतं नाम किञ्चिद् । अवश्यं चैतदन्य्था स्वार्थानुमानकाले प्रतिज्ञावचनमन्तरेण कथं प्रतिपत्तिः स्यात्? स्वप्रतिपत्तिकाले च यावतोऽर्थात्साध्यप्रतीतिरासीत्परार्थानुमानकालेऽपि तावतेव वचनमुपादेयम् । तत्र च न प्रज्ञापनीयधर्मविशिष्टधर्मिदर्शनपूर्वकादिसाधनादिदर्शनात्साध्यप्रतीतिरासीत् । किन् तर्हि? पक्षधर्मदर्शनात्तदविनाभावस्मरणसहिताद्
इति तावतेव वचनं न्याय्यम् ।

अथोक्तं पटुमन्दादिभावेन परप्रतीतीनामनवस्थानान्न शक्य्ते प्रयोगनियमः कर्त्तुमिति । सत्यमुक्तम् [६४ ] केवलं स्ववधाय कृत्योत्थापनप्रायं तत् । यतः पटुमन्दादिभेदेन प्रतिपतृणामनेकप्रकारत्वात्स्यादपि कश्चिद्यः पञ्चावयवेऽपि वाक्ये प्रयुक्ते पूर्वं संशयजिज्ञासादिवचनमन्तरेण न बुद्ध्यते बोधयितव्यमिति तद्वचनस्याप्यवश्यप्रयोज्यत्वादवयवत्वादवगत( अपगतं) पञ्चावयवत्वं साधनवाक्यस्य । अभ्युपगमे च <गौडकाश्मीर>पुरुषविधायो(-विषयो)पाख्यानं कुतूहलास्पदमवतरते । प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवावयवा इति शास्त्रस्थितेरपसिद्धान्तोऽपि दीप्ताज्ञः पार्थिव इव निगृह्णाति ।

अथ किमस्य सम्भवोऽस्ति यो निर्दिष्टे हि साध्ये साधने वाऽभिहिते निर्दशिते चोदाहरणे कृतेऽप्युपनये निगमिते च सर्वावयवव्यापारे साध्यं न बुध्यत इति? ननु अस्यापि प्रतिपत्तुः किमस्ति सम्भवो यत्र धर्मिणि साधनं बोधितः, तस्य साध्याविनाभावितां स्मरितोऽपि यस्तत्र साध्यं नावबुध्यत इति? सम्भवति बुद्धिमान्द्यादिति चेत् । सर्वं समानमिदमन्यत्राभिनिवेशादित्यलं विस्तरेण ।

[ध्प्र्१७५]

ऽसद्व्यवहारयोग्यत्वेन व्याप्तो दर्शितः । <नोपलभ्यते> <च[३६२]> इत्यादिना साध्यधर्मिणि तत्त्वं लिङ्गस्य दर्शितम् । यदि च साध्यधरमस्तत्र साध्यधर्मिणि न भवेत्साधनधर्मोऽपि न भवेत् । साध्यनियतत्वात्तस्य साधनधर्मस्येति सामर्थ्यम् ॥


__________टिप्पणी__________

[३६२] च --- ओम्.
___________________________


तथा वैधर्म्यवत्प्रयोगे अपि --- यः सद्व्यवहारविषय उपलब्धिलक्षणप्राप्तः, स उपलभ्यत एव । न[३६३]तथा अत्र तादृशो घट उपलभ्यत इत्युक्ते सामर्थ्यादेव नेह सद्व्यवहारविषय इति भवति इइइ-३६


__________टिप्पणी__________

[३६३] न च
___________________________


यथा साधर्म्यवत्प्रयोगे <तथा वैधर्म्यवत्प्रयोगेऽपि सामर्थ्यादेव नेह सव्यवहारविषयो[३६४] >ऽस्ति घट इति भवति ।


__________टिप्पणी__________

[३६४] -व्यवहारस्य विषयो
___________________________


सामर्थ्यं दर्शयितुमाह--- <यः सद्व्यवहारविषय >इति विद्यमानः । <उपलब्धिलक्षणप्राप्त> इति दृश्यः इत्येषा साध्यनिवृत्तिः । [३६५]<स उपलभ्यत एवे>ति साधननिवृत्तिरिति । अनेन च[३६६] साध्यनिवृत्तिः साधननिवृत्त्या व्याप्ता दर्शिता । <न तथे>ति --- यथाऽन्यो दृश्य उपलभ्यते न <तथात्र> प्रदेशे <तादृश >इति दृश्यो <घट उपलभ्यत >इति । अनेन साध्यनिवृत्तेर्व्यापिका निवृत्तिरसती साध्यधर्मिणि दर्शिता । यदि च[३६७] साध्यधर्मः साध्यधर्मिणि न स्यात्साधनधर्मोऽपि न भवेत्[३६८] ।


__________टिप्पणी__________

[३६५] स --- ओम्.
[३६६] च --- ओम्.; अनेन न
[३६७] च न साध्य-
[३६८] -धर्मिणि भवेत्साधन-
___________________________







तदपि (यदपि) <न्यायभाष्यटीकावार्तिकयोर्> <विश्वरूपोद्योतक्रराव्> आहतुः "पुरा विषयनिरूपणपूर्वकमेव हि करणव्यापरणं दृष्टम् । करणं च साधन(नं) व्यापारयितव्यम् । अतो विषयनिरूपणं साध्यवचनेन क्रियते, अन्यथा करणप्रवर्त्तनस्याशक्यत्वादिति ।"[३६९]तदपि न चतुरस्रम् । यतो यदि हेतुं प्रयुञ्जानेन विषयः सिसाधयिषितोऽर्थो निरूपयितव्यो बुद्धौ निवेशनीय इत्यभिमतम्, तदाऽभ्युपगम एवोत्तरम् । न हि कश्चित्साध्यमनिश्चित्यैव परप्रतिपत्तये साधनवाक्यमभिधत्ते । अथ वचनेन करणस्य हेतोः स विषयो दर्शयितव्य इति मतिः, तदा तेनैव तावद्दर्शितेन कोऽर्थः? यदि परस्य प्रतीतिरन्यथा न स्यात्सर्वं
शोभेतेत्युत्तरमिति किं क्षुण्णक्षोदीकरणेन?


__________टिप्पणी__________

[३६९] नोपलभ्यते न्यायवार्तिके --- सं-
___________________________


<अध्ययनः> पुना <रुचिटीकायाम्> इदमवोचत्"धर्मविशिष्टस्य धर्मिणो निर्देशः क्रियते श्रोतुराश्वासनार्थम् । न त्वादौ धर्मविशिष्टस्य धर्मिणो निर्देशो युक्तः । अयुक्ततां(ता) तस्य प्रतिपत्तावदृष्टत्वात् । तत्र प्रदेशमात्रमुपलभते, तत्स्थं च धरमम् । ततोऽविनाभावं स्मरति तदनन्तरं तदेवेदमिति परामृशति । ततो विशिष्टतां प्रदेशस्य प्रतिपद्यते, न त्वादेव (त्वादावेव) । परामर्शस्य च स्वार्थपूर्वकत्वम् । न च स्वार्थे धर्मविशिष्टस्य धर्मिणो दर्शनमस्ति । तेन प्रतिपत्तावपि न कार्यम् । आदौ तु क्रियते, प्रतिपाद्यस्यास्थोत्पादनार्थमिति ।"

[ध्प्र्१७६]

अस्ति च साधनधर्म इति सामर्थ्यम्[३७०] । अतः <सामर्थ्यात्> नास्त्यत्र घट इति प्रतीतेर्न पक्षानिर्देशः । एवं कार्यस्वभावहेत्वोरपि सामर्थ्यात्संप्रयय इति न [३७१]पक्षनिर्देशः


__________टिप्पणी__________

[३७०] सामर्थ्यात्ततः
[३७१] पक्षो निर्देश्यः
___________________________



कीदृशः पुनः[३७२]पक्ष इति निर्देश्यः इइइ-३७


__________टिप्पणी__________

[३७२] पक्षः निर्देशः
___________________________


<कीदृशः पुनर्>अर्थः <पक्ष इति >--- अनेन शब्देन <निद्देशो >वक्तव्यः?इत्याह ---

स्वरूपेणैव स्वयमिष्टो[३७३]ऽनिराकृतः पक्ष इति[३७४] इइइ-३८


__________टिप्पणी__________

[३७३] इष्टो निर्-
[३७४] इति निर्देश्यः
___________________________



<स्वरूपेणैवे>ति साध्यत्वेनैव । < स्वयम्> इति वादिना । <इष्ट >इति --- नोक्त एवापि त्विष्टोऽपीत्यर्थः । एवंभूतः सन् प्रत्य्क्षादिभिः <अनिराकृतो
[३७५]>योऽर्थः स <पक्ष >इत्युच्यते ।


__________टिप्पणी__________

[३७५] -कृतोऽर्थो यः स
___________________________


अथ यदि [३७६]पक्षो न निर्देश्यः, कथमनिर्देश्यस्य लक्षणमुक्तम्? न साधनवाक्यावयवत्वादस्य लक्षणमुक्तमपि त्वसाध्यं [३७७]केचित्साध्यम्, साध्यं चासाध्यं [३७८]केचित्प्रतिपनाः । तत्साध्यासाध्यविप्रतिपत्तिनिकारणार्थं पक्षलक्षनुक्तम् ॥


__________टिप्पणी__________

[३७६] अथ यदि न पक्षो
[३७७] किञ्चित्
[३७८] किञ्चित्--- ओम्.
___________________________




<स्वरूपेणेष्ट> इत्यस्य विवरणम् ---

स्वरूपेण इति साध्यत्वेन इष्टः इइइ-३९

<साध्यत्वेनेष्ट >इति । पक्षस्य साध्यत्वान्नापारमस्ति रूपम् । अतः स्वरूपं साध्यत्वमिति

<एव>शब्दं विवरितुमाह ---< >

स्वरूपेणैव इति साध्यत्वेन एव इष्टो[३७९]न साधनत्वेन अपि इइइ-४०


__________टिप्पणी__________

[३७९] -त्वेनेष्टो
___________________________


<स्वरूपेणैवे>ति । ननु चैवशब्दः केवल एव प्रत्यवमर्ष्टव्यस्तत्[३८०] किमर्थं स्वरूपशब्देन


__________टिप्पणी__________

[३८०] तत्कथम्
___________________________




तेन तु तपस्विना बहूक्तं समञ्जसम् । केवलं प्रतिपत्तुराश्वासेनैवोत्पादितेन किं प्रयोजनम्? कथं चासौ सन्द्गिधार्थाभिधायिनः प्रतिज्ञावचनादास्थामुत्पादयतीति समीचीनं निरूपितम् । आस्था खलु इदमेव मन्येऽर्थेत्यभिसम्प्रतययः । सा कथं वचनमात्राज्जायेत? जातौ वा साधनाद्यभिधानं न कथं वैयर्थमश्नुवीतेत्यलं बहुना ॥

अत्र सामर्थ्यात्स्वयंशब्दस्य वादिनेति विवृतिः कृता न तु स्वयम्शब्दस्य वादिनेत्यर्थः । एतच्चानन्तरमेव दर्शयिष्यते ॥



[ध्प्र्१७७]

सह प्रत्यवमृष्टः? उच्यते । <एव>शब्दो निपातो द्योतकः । पदान्तराभिहितस्यार्थस्य विशेषं द्योतयति इति पदान्तरेण विशेष्यवाचिना सह निर्दिष्टः । <न साधनत्वेनापीति >। यत्साधनत्वेन निर्दिष्टं तत्साधनत्वेनेष्टम् । असिद्धत्वाच्च[३८१] साध्यत्वेनापीष्टम् । तस्य निवृत्त्यर्थ[३८२] <एव>शब्दः ॥


__________टिप्पणी__________

[३८१] -त्वात्साध्य-
[३८२] -अर्थम्
___________________________



तदुदाहरति ---

यथा शब्दस्य अनित्यत्वे साध्ये चाक्षुषत्वं हेतुः, शब्दे असिद्धत्वात्साध्यम् । न पुनस्तदिह साध्यत्वेन एव इष्टम्[३८३], साधनत्वेन अभिधानात्[३८४] इइइ-४१


__________टिप्पणी__________

[३८३] साध्यत्वेनेष्टम्
[३८४] -त्वेनाप्यभिधानात्
___________________________



<[३८५]यथे>ति । <शब्दस्य अनित्यत्वे साध्ये चाक्षुषत्वं हेतुः शब्दे असिद्धत्वात्साध्यम् >--- इत्यनेन साध्यत्वेनेष्टमाह ।


__________टिप्पणी__________

[३८५] यथा --- ओम्.
___________________________


<तद्> इति चाक्षुषत्वम् । <इहे>ति शब्दे । <साध्यत्वेनैवेष्टम् --- >इति साधयत्वेनेष्टनियमाभावमाह । < साधनत्वेन अभिधानाद्>इति --- यतः साधनत्वेनाभिहितम्, अतः साधनत्वेनापीष्तम् । न साध्यत्वेनैवेति ॥

<स्वयम्> इत्यनेन <स्वयं>शब्दं व्याख्येयमुपक्षित्य तस्यार्थमाह ---

स्वयमिति वादिना इइइ-४२

<वादिने>ति । <स्वयं>शब्दो निपात आत्मन इति [३८६]षष्ठ्यन्तस्यात्मनेति च तृतीयान्तस्याथ[३८७] वर्त्तते । तदिह तृतीयान्तस्यात्मशब्दस्यार्थे वृत्तः <स्वयं>शब्दः । आत्मशब्दश्च सम्बन्धिशब्दः । <वादी> च प्रत्यासन्नः[३८८] । ततो यस्य वादिन आत्मा तृतीयार्थयुक्तः[३८९] स एव[३९०] तृतीयार्थयुक्तो निर्दिष्टो <वादिने>ति । न[३९१] तु <स्वयं>शब्दस्य <वादिने>त्येष पर्यायः ॥


__________टिप्पणी__________

[३८६] नाशं स्वयमिच्छतीत्यादौ आत्मनो नाशमिच्छतीत्यर्थः --- टि-
[३८७] -स्यार्थेन युक्तः
[३८८] प्रत्यासन्नभूतः यस्य
[३८९] तृतीयार्थेन युक्तः
[३९०] एव --- ओम्.
[३९१] ननु
___________________________









पक्षस्यानुमेयस्य ॥

स्वरूपशब्देनेति सहार्थे तृतीया ।

[६४ ] उच्यते इति सिद्धान्तवादी ॥

यत्साधनत्वेनेष्टं तत्कथं साध्यत्वेनापीष्टं भवतीत्याह --- असिद्ध[त्वा]दिति । चो यस्माद् । साध्यत्वेनेष्टोऽपि यदा साधनत्वेनोक्तस्तदाऽपक्ष इत्येवमर्थ एवशब्द इति समुदायार्थः ॥

[ध्प्र्१७८]

कः पुनरसौ वादीत्याह ---

यस्तदा साधनमाह इइइ-४३

<यस्तदा --- >इति वादकाले <साधनमाह> । अनेकवादिसम्भवेऽपि[३९२] <स्वयं>शब्दवाच्यस्य वादिनो विशेषणमेतत् ।


__________टिप्पणी__________

[३९२] -सम्भवे स्वयं
___________________________


यद्येवं[३९३] वादिना इष्टः साध्यः --- इत्युक्तम् । एतेन च किमुक्तेन? अनेन[३९४] तदा वादकाले तेन वादिना स्वयं यो धर्मः साधयितुमिष्टः स एव साध्यो[३९५] नेतरो [३९६]धर्म इत्युक्तं भवति । वादिनोऽनिष्टधर्मसाध्यत्वनिवर्त्तनमस्य वचनस्य फलमिति यावत् ॥


__________टिप्पणी__________

[३९३] यद्येव
[३९४] अनेन च
[३९५] साध्यो धर्मो नेतर इत्युक्तं
[३९६] धर्म --- ओम्.
___________________________





अथ कस्मिन् सत्यन्यधर्मसाध्यत्वस्य सम्भवो यन्निवृत्त्यर्हं [३९७]तद्वक्तव्यमित्याह ---


__________टिप्पणी__________

[३९७] -अर्थं चेदं
___________________________


एतेन यद्यपि क्वचिच्शास्त्रे स्थितः साधनमाह, तच्छास्त्रकारेण तस्मिन् धर्मिण्यनेकधर्माभ्युपगमेऽपि यस्तदा तेन वादिना[३९८]धर्मः स्वयं साधयितुम्


__________टिप्पणी__________

[३९८] तेन स्वयं वादिना धर्मः साध-
___________________________




तत्तस्मादर्थद्वयवृत्तित्वात् । इह पक्षलक्षणे स्वयंशब्दो गृहीत इति शेषः । तृतीयाप्रतिपाद्योऽर्थोऽत्रैषणकर्त्तृत्वम् । आत्मना इष्ट इत्यत्र तृतीयायाः कर्त्तरि विधानात् ॥

अनेकवादिसम्भवेऽपि शब्दगताकाशगुणत्वादिवादिभूयस्त्वेऽपि । बादित्वं च योग्यतया । न तु तदा स्व्परपक्षसिद्ध्यसिद्ध्यर्थवच्xअनलक्षणवादप्रणेतारः । विशेषणं व्यवच्छेदकमेतद्यस्तदासाधनमहेत्वचनम् ।

यद्येवमिति प्ररः । अयं च निपातसमुदायोऽनिष्टापादनप्रारम्भे वर्त्तते । इत्य्क्तमनेन वाक्येनेति शेषः ।

उच्यतामेवं को दोष इत्याह --- एतेनेति । चशब्दोऽपि शदस्यार्थे । शास्त्रकारेष्टमपि वादीष्टं भवति । तत्कोऽतिशयोऽनेन प्रतिपादितिअ इति चेदयितुराशयः । अनेनेति सिद्धान्तआदी । अनेन यस्तदा साधनमाहेति विशेषणावच्छिन्नेन स्वयंशब्देन ।

एतदुक्तं भवति । यच्छास्त्राभ्युपगमेत्नापि वादी क्वचित्साधनमभिधत्ते, तच्छास्त्रकारेण तत्र यावदिष्टं तावच्चेत्तस्यसाध्यत्वेनेष्टं तद्ष्टमित्येव कृतं स्यात्, न तु स्वयमिति । नेतर इति तच्छास्त्रकारेष्टोऽम्बरगुणत्वादिति बुद्धिस्थम् । वादिन इति आद्यस्यैव व्यक्तीकरणम् ॥



[ध्प्र्१७९]

इष्टः, स एव साध्यो न इतर इत्युक्तं भवति इइइ-४४

<तच्छास्त्रकारेणे>ति । यच्छास्त्रं तेन वादिनाऽभ्युअगतं तच्छास्त्रकारेण <तस्मिन् साध्यधर्मिणि अनेकस्य [३९९]धर्मस्याभ्युपगमे >सति अन्यधरमसाध्यत्वसम्भवः । तथा हि --- शास्त्रं येनाभ्युपगतं [४००]तत्सिद्धो धरमः सर्व एव तेन साध्यत्यित्यस्ति विप्रतिपत्तिः । अनेनापास्यते । अनेकधर्माभुय्पगमेऽपि सति <स एव साध्ये यो >वादिन इष्टो नान्य इति ।


__________टिप्पणी__________

[३९९] अनेकधर्म-
[४००] तस्मिन् सिद्धो
___________________________



ननु च शास्त्रानपेक्षं [४०१]वस्तुबलप्रवृत्तं लिङ्गम् । अतोऽनपेक्षणीयत्वान्न शास्त्रे स्थित्वा वादः कर्त्तव्यः । सत्यम् । आहोपुरुषिकया तु <यद्यपि क्वचिच्छाष्त्रे स्थित >इति किञ्चिच्छास्त्रमभ्युपगतः <साधनमाह,> तथापि य एव तस्येष्टः <स एव[४०२] साध्य[४०३] >इति ज्ञापनायेदमुक्तम् ॥


__________टिप्पणी__________

[४०१] तादात्म्यतदुत्प्त्तेः --- टि-
[४०२] स एव तस्य
[४०३] साध्यत इति
___________________________




<इष्ट >इत्<ईष्ट>शब्दमुपक्षिप्य व्याचष्टे ---

इष्ट इति यत्रार्थे विवादेन साधनमुपन्यस्तं तस्य सिद्धिमिच्छता सो [४०४]अनुक्तो अपि वचनेन साध्यः इइइ-४५


__________टिप्पणी__________

[४०४] सोऽर्थोऽनु-
___________________________


<यत्रार्थ> आत्मनि विरुद्धो वादःप्रक्रान्तः --- ’नास्ति आत्माऽ --- इत्यात्मप्रतिषेधवाद आत्मसत्तावादविरुद्धः, विधिप्रतिषेधयोर्विरोधात् । तेन <विवादेन> हेतुना <साधनमुपन्यस्तं तस्या>तामार्थस्य <सिद्धिं >निश्चयम् <इच्छता >वादिना सोऽर्थः <साध्य> इत्युक्तं भवति <इष्ट>शब्देन । यत्तद्’<इत्युक्तं भवति>ऽ इति ग्रहणमन्ते तदिहापेक्ष्य वाक्यं [४०५]समापयितव्यम् ।


__________टिप्पणी__________

[४०५] वाक्यं परिसमा-
___________________________


यद्यपि परार्थानुमान उक्त एव साध्यो उक्तः, अनुक्तोऽपि [४०६]तु वचनेन साध्यः, सामर्थ्योक्तत्वात्तस्य ॥


__________टिप्पणी__________

[४०६] तुशब्दस्तथापीत्यर्थे --- टि-
___________________________




इत्यस्ति विप्रतिपत्तिर्न्यायविरुद्धा प्रतिपत्तिः केषाञ्चित् । अनेनात्मविशेषणेनापास्यते । अनेकेतियादिनोपसंहरति । अनेकधर्माभ्युपगमेऽपि शास्त्रकारस्य तत्र धर्मिण्यनेकधर्मोपगमे सत्यपि । वादिन इत्यात्मन इति षष्ठ्यन्तस्यार्थे वृत्तं स्वयंशब्दमु[पा]दाय ।

आहोपुरुषिकयाऽभ्युपगत इति कर्त्तरीयं निष्ट्ःा ॥

विरुद्धः परस्य चाभिप्रेतविपरीतार्थोपस्यापको वादः स्वपरपक्षयोः सिद्ध्यसिद्ध्यर्थं वचनम् । प्रक्रान्तः प्रवृत्तः । इत्युक्तं भवतीति नात्र श्रूयते तत्कथमेवं व्याख्यायत इत्याह --- यत्तदिति । लोकोक्तिश्चैषा । इहेष्टपदविवरणे । समापयितव्यं सङ्गतार्थं कर्त्तव्यम् ।

[ध्प्र्१८०]

कुत एतदित्याह ---

तदधिकरणत्वाद्विवादस्य इइइ-४६

<[४०७]तद्> इति सोऽर्थो <ऽधिकरणम्> आश्रयो यस्य स तदधिकरणो विवादः । तस्य भावस्तत्त्वम् । तस्मादिति ।


__________टिप्पणी__________

[४०७] तदित्यादि तदिति
___________________________


एतदुकतं भवति --- यस्माद्विवादं निराकर्त्तुमिच्छता वादिना साधनमुपन्यस्तं तस्माद्यदधिकरणं विवादस्य तदेव साध्यम् । यतो विरुद्धं वादमपनेतुं साधनमुपन्यस्तं तच्चेत्न साध्यं किमिदानीं [४०८]जातिनियतं किंचित्साध्यं स्यादिति ॥


__________टिप्पणी__________

[४०८] जगति नियतम्
___________________________


अनुक्तमपि परार्थानुमाने साध्यमिष्टम् । [४०९]तदुदाहरति ---


__________टिप्पणी__________

[४०९] -इष्टमुदारति; साध्यं दृष्टमुदाह-
___________________________


यथा परार्थाश्चक्षुरादयः संघातत्वाच्छयनासनाद्यङ्गवदिति । [४१०]अत्रात्मार्था इत्यनुक्तावप्यात्मार्थता साध्या । [४११]तेन नोक्तमात्रमेव साध्यमित्युक्तं भवति इइइ-४७


__________टिप्पणी__________

[४१०] इति । आत्मार्था इत्यनुत्था(क्ता)प्यात्मार्थता साध्यते तेन
[४११] साध्या । अनेन
___________________________



< पराथा >इति । चक्षुर्<आदिर्>येषां श्रोत्रादीनां ते[४१२] चक्षुरादय इति धर्मी । परस्मायिमे <परार्था >इति साध्यं पारार्थ्यम् । <सङ्घातत्वादिति> हेतुः । व्याप्तिविषयप्रदर्शनं [४१३]च <शयनासनाद्यङ्गवद्>इति । शयनमासनं च ते आदी[४१४] यस्य तच्छयनादि पुरुषोपभोगाङ्ग संघातरूपम् । तद्वदत्र [४१५]प्रमाणे यदप्यात्मार्थाश्चक्षुरादय इत्य्<आत्मार्थता> नोक्ता [४१६]<अनुक्ताव्> अप्य्<आत्मार्थता साध्या> ।


__________टिप्पणी__________

[४१२] ते --- ओम्.
[४१३] च --- ओम्.
[४१४] आदिर्यस्य
[४१५] तद्वदत्र यत्प्रमाणे
[४१६] नोक्ताप्या-; अनुक्ताप्या
___________________________








अनुक्तोऽपि तु वचनेन । वचनेन साक्षादभिधाव्यापारविषयत्वमनापादितोऽपि । तुर्विशेषदीपने । साध्यः साध्य एव । कुत इत्याह --- सामर्थ्योक्तत्वात्तस्य बुद्धिस्थस्यात्मादेः ।

एतदुक्तं भवति --- परार्थानुमाने उक्तोऽर्थः साध्यः । उक्तश्च प्रकाशित उच्यते । प्रकाश्यमानता च साक्षादभिधाव्यापारविषयतया च सामर्थ्यम्यतया च । उक्तम् (उक्तता) तु प्रकाशितताख्या द्वयोरप्यविशिष्टेति ॥

कुत एतदिति सामर्थ्योक्तत्वमिति हेतोराह <वार्त्तककारः> ।

[ध्प्र्१८१]

तथा हि --- <सांख्येनो>क्तम् --- अस्ति आत्मा । तद्विरुद्धं बौद्धेनोक्तं --- नास्त्यात्मेति । ततः <साङ्ख्येन> स्ववादविरुद्धं बौद्धवाद हेतूकृत्य विरूद्धवादनिराक्रणाय स्ववादप्रतिष्ठापनाय च साधनमुपन्यस्तम् । अतोऽनुक्तावप्यात्मार्थता[४१७] साध्या, तद्[४१८]अधिकरणत्वाद्विवादस्य ।[४१९] शयनासनादिषु हि पुरुषोपभोगाङ्गेष्वात्मार्थत्वेनान्वयो[४२०] न प्रसिद्धः । <सङ्घात>त्वस्य [४२१]पारार्थ्यमात्रेण तु सिद्धः । ततः <परार्था > इत्युक्तम् ।


__________टिप्पणी__________

[४१७] -नुक्ताप्या-
[४१८] य आत्मप्रतिषेधवादोऽधिकरणं यस्य --- टि-
[४१९] शयनादिषु
[४२०] -अर्थत्वेन प्रसिद्धः
[४२१] परार्थमा-; परार्थादिषु
___________________________






<चक्षुरादय> इत्यादिग्रहणादिविज्ञानमपि[४२२] परार्थं साधयितुमिष्टम् । विज्ञानाच्च पर आत्मैव स्यात् ।


__________टिप्पणी__________

[४२२] <बौद्धानां> मते परमाणुरूपं ज्ञाणमतः साङ्घातरूपत्वम् --- टि-
___________________________


[४२३]परस्यार्थकारि विज्ञानं सेत्स्यतीति सामर्थ्यादात्मार्थत्वं सिध्यते चक्षुरादीनामिति मत्वा पराथग्रहणं कृतम् । [४२४]तेनेष्टसाध्यत्वचन्चन नोक्तमात्रम्, अपि तु प्रतिवादिनो विवादास्पदत्वाद्वादिनः[४२५] साधयितुमिष्टम् --- उक्तम्, अनुक्तं वा प्रकरणगम्यं <साध्यमित्युक्तं भवति>॥


__________टिप्पणी__________

[४२३] परस्य --- ओम्.
[४२४] साध्यवच-
[४२५] वादिना
___________________________






यद्यपि तन्मूलो विवादस्तथापि अभिधाव्यापारविश्रामभूमिरेवार्थः षध्यः । न चात्मादिर्विवादाधिकरणम् । तथाभूतस्तत्कथं साध्य इत्याशङ्क्याह --- एतदुक्तं भवतीति । यदात्मादि अधिरकणमास्पदं विवादस्य --- अस्तीदं नास्तीदमित्यात्मकस्य प्ररस्परविरुद्धस्य वादस्य । अत्रोपप[६५ ]त्तिमाह --- यत इति । विरुद्धं स्वपक्षप्रत्यनीकं नास्तीदमिति वादम् । तद्विरुद्धवादापनेतृहेतूपन्यासविषयं चेद्यदि न साध्यं न जिज्ञापयिषितमिदानीमेतस्मिन्नभ्युपगमे किं जातिनियतं साध्यत्वजातिनियतं जातिवशं किञ्चिद्वस्तु साध्यं स्याद्
भवितुमर्हति । क्षेपे किमःप्रयोगान्न किञ्चिदित्यर्थोऽवतिष्ठते ॥

अनुक्तमपि साक्षादभिधाव्यापाराविषयोऽपि । संहा(घा)तत्वादनेकरूपत्वात् । कालविशेषानपेक्षं चैतद्द्रष्टव्यम् । तेन क्रमेण युगपद्वा संहतं तदिति संहतरूपं विज्ञानमपि क्रमेणानेकरूपमतस्तत्रापि संहा(घा)तत्वं सिद्धिमिति तदप्यादिशब्देन सङ्गृहीतं धर्मि कर्त्तव्यम् । अत एवानन्तरम् ’त्र्<आदि>शब्दाद्विज्ञानमपिऽ इति वक्ष्यते । अन्यथा तु चक्षुरादीनां विज्ञानलक्षणपरार्थतासिधावा(अ)पि नाभिप्रेतं <सांख्य>स्य सिद्ध्येत् । अनुक्तावप्यनभिधानेऽपि तस्येतर्थात् । क्वचित्पुनरनुक्ताप्यात्मार्थतेति पाठः । तत्रार्जवेनै[व] सम्बन्धः
। साधनोपन्यासाश्रत्वेन प्रकृतत्वात्तस्या इति भावः ।

तथा हीत्यादिनैतदेव प्रतिपादयति । हेतूकृत्य निमित्तीकृत्य । चः फलसमुच्चये अनुक्तावपीति पूर्ववद्वाच्यम् । यद्यय्ं तस्याभिप्रायस्तदाऽऽत्मार्था इत्येव किं न ब्रवीतीत्याशङ्क्य येनाभिप्रायेणैवमवादीत्तं दर्शयितुमाह --- शयनेति । हीर्यस्मादर्थः ।

[ध्प्र्१८२]

अनिराकृत इति --- एतल्लक्षणयोगे अपि यः साधयितुमिष्टो अप्यर्थः प्रत्यक्षानुमानप्रतीतिस्ववचनैर्निराक्रियते, न स पक्ष[४२६]इति प्रदर्शनार्थम् इइइ-४८


__________टिप्पणी__________

[४२६] पक्षः दर्शन-
___________________________


<अनिराकृत इति> व्याख्येयम् । <एतदिति >अनन्तरप्रकान्तं य पक्षणमुत्कं साध्यतेनेष्टेत्यादि[४२७] --- <एतल्लक्षणे>न <योगेऽपि अप्यर्थो न पक्ष इति प्रदर्शनार्थम् [४२८]>पृष्ठरतिपादनाय <अनिराकृत>ग्रणं कृतम् ।


__________टिप्पणी__________

[४२७] साध्यत्वेनेष्टत्वादि
[४२८] प्रदर्शनाय
___________________________



कीदृशोऽर्थो न पक्षः साधय्तुमिष्टोऽपीत्याह --- <यः साधयितुमिष्टोऽर्थो --- प्रत्यक्षं चानुमानं च प्रतीतिश्च स्ववचनं च --- [४२९]>एतैर्निराक्रियते --- विपरीतः साध्यते [४३०]न स पक्ष इति ॥


__________टिप्पणी__________

[४२९] तैर्निर्-
[४३०] साध्यते स न पक्ष
___________________________



तत्र प्रत्यक्षनिराकृतो यथा, अश्रावणः शब्द इति इइइ-४९

<तत्रे>ति । तेषु चतुर्षु प्रतक्षादिनिरार्कृतेषु[४३१] प्रक्षनिर्राकृतः कीदृशः? <यथे>ति । यथाऽयं प्रत्यक्षनिराकृतस्तथाऽयेऽपि द्रटव्या इति <यथा>शब्दार्थः ।


__________टिप्पणी__________

[४३१] -कृतेषु निर्-
___________________________


श्रवणेन ग्राह्यः श्रावणः । न श्रावणो <ऽश्रावणः> । श्रोत्रेण न ग्राह्य इति प्रतिज्ञार्थः । श्रोत्राग्राह्यत्वं शब्दस्य प्रत्यक्षसिद्धेन [४३२]श्रोत्रग्राह्यत्वेन बध्यते ॥


__________टिप्पणी__________

[४३२] श्रोत्रज्ञानग्राह्य- --- टि-
___________________________




ननु चक्षुरादीनां विज्ञानलक्षणप्ररार्थता सेत्स्यति । तत्कथमात्मार्थतासिद्धिरित्याह चक्षुरादय इत्यत्रेति । तथापि कुतस्तत्सिद्धिरित्याह विज्ञानाच्चेति । चो यस्मात् । अथ विज्ञान्स्यापि धर्मित्वे कथमात्मार्थतासिद्धिरित्याशङ्क्य स्पष्टयितुमाह --- परस्येति । सामर्थ्याद्
आत्मार्थत्वं सिद्ध्यात्चक्षरादीनामित्येवं मत्वा परार्थग्रहणं कृतं सांख्येनेति प्रस्तावात्, अध्याहारे वा, तेषां विज्ञानार्थताया अपि सम्भाव्यत्वात् । तत्सिद्धैकं सामर्थ्यमित्याशङ्क्य परस्येति योज्यम् ।

अर्थकारि प्रयोजनकारि विज्ञानमपीति द्रष्टव्यम् । सेत्स्यतीति ब्रुवतोऽयं भावः । आदिशब्दाद्विज्ञास्यापि तथात्वे साध्ये विज्ञानं परार्थकारि सेत्स्यतीति । इतिर्हेतौ । अनेन सामर्थ्यं चक्षुरादीनामात्मार्थतासिद्धौ दर्शितम् ।

तेनेत्यस्य मूलस्य व्याख्यानमिष्टसाधन(साध्यत्व)वचनेनेति वादिनः साधयितुमिच्छया विषयीकृतम् ।

तच्च द्वविधमिति दर्शयन्नाह --- उक्तमित्यादि । उक्तं साक्षादभिधाविषयीकृतम् । तद्विपरीतमनुक्तम् । कथं तर्हि तत्साध्यमित्याह --- प्रकरणेति । प्रकरणेन साध्योपन्यासाश्रयतया प्रकृतत्वेन गम्यं प्रकाश्यं साध्यं साध्यमेवेत्युक्तं भवति ॥

[ध्प्र्१८३]

अनुमाननिराकृतो यथा --- नित्यः शब्द इति इइइ-५०

<[४३३]अनुमाननिराकृतो यथा[४३४] नित्यः शबद इति> । शब्दस्य प्रतिज्ञातं नित्यत्वमनित्यत्वेनानुमानसिद्धेन निराक्रियते ॥


__________टिप्पणी__________

[४३३] श्रवणेन्दिर्य प्रभवज्ञानेनेत्यर्थः --- टि-
[४३४] यथा --- ओम्.
___________________________



प्रतीतिनिराकृतो यथा --- अचन्द्रः शशी इति इइइ-५१

<प्रतीत्या निराकृतः अचन्द्र इति> चन्द्रशब्दवाच्यो न भवति <शशी>ति प्रतिज्ञातार्थः[४३५] । अयं च प्रतीया निराकृतः । पतीतोऽर्थ उच्यते विकल्पविज्ञानविषयः । प्रतीतिः प्रतीतत्वं


__________टिप्पणी__________

[४३५] पर्तिज्ञार्थः
___________________________




एतल्लक्षणयोगेऽपीत्यस्यार्थकथनमिदमेतल्लक्षणेन योगेऽप्यर्थ इति ।

ननु च प्रत्यक्षादिभिर्निराक्रियतेऽपसार्यते इति किल मतम् । न चाक्षा(र्था)पसारणं प्रत्यक्षादिधर्मोऽपि तु वस्तुव्यवस्थापनमित्याह --- विपरीत इति ॥

श्रूयतेऽनेनेति श्रवणं श्रोत्रेन्द्रयं तेन ग्राह्यः उपलब्धः । तज्ज्ञाणग्राह्यत्वाच्च तद्ग्राह्यत्वमुक्तम् । नञा समासमाह --- नेति । समस्तस्यार्थमाह --- श्रोत्रेति । अयमस्याशयः --- अश्रावणः शब्दः --- श्रोत्रजे [६५ ] न ज्ञानेन नानुभूयत इति यः प्रतिजानीते तस्य सा प्रतिज्ञा श्रवणेन्द्रियजेन प्रत्यक्षेण शब्दालम्बनेन बाध्यते शब्दगताऽप्रतिभासनविपरीतस्य तत्प्रतिभासनस्य तेनोपस्थापनादिति ।

एतेन तन्निर्कृतम्, यद्<उद्द्योतकरेणो>क्तम्[४३६]--- ’श्रावणः शब्द इति प्रत्यक्षविरुद्धोदाहरण वर्णयति । न प्रत्यक्षस्य विषयो ज्ञातो नानुमानस्य । किं कारणम्? इन्द्रियवृत्तीनामतीन्द्रियत्वात् । श्रावणत्वञ्चेन्द्रियवृत्तिः । सा कथं प्रत्यक्षा भविष्यति? तस्मादनुमानविरुद्धस्योदाहरणमिदम् । अनुष्णो वह्निः कृतक्तादिति प्रत्यक्षविरुद्धस्येति ।ऽ


__________टिप्पणी__________

[४३६] न्यायवार्त्तिकं द्रष्टव्यम् --- १,१,३३, प्. ११३.
___________________________


न ह्यश्रावणशब्देन शब्दाख्ये विषये ज्ञानोत्पत्तौ श्रोत्रेन्द्रियस्य वृत्तेरभावोऽभिमतो यस्य वादिनस्तं प्रति शब्दविषयश्रवणेन्द्रियवृत्तेः प्रत्यक्षविरुद्धत्वात्प्रत्यक्षनिराकृतमिदमाचार्येनोक्तम्, येनोच्यतेऽतीन्द्रियेन्द्रियववृत्तिः कथं प्रत्यक्षा येनेदमुदाहरणं संगच्छेतेति । किन् तर्हि? यः कश्चिद्व्यामोहमाहात्म्याद्यदेतच्छ्रोत्रग्राह्यं रूपमद्वयं तन्नास्तीति प्रतीजानीते तं वादिविशेषं प्रतीति कथं न प्रत्यक्षविरुद्धोदाहरणमिदमिति ।

एतदुक्तं भवति । शब्दो नास्तीत्येवं ब्रुवाणस्यास्ति प्रत्यक्षबाधा । केवलं विषयो निषेधोऽनेकमार्गः । शब्दो नास्ति व्यापितया नित्यतयेत्यादि । तत्रासति श्रावणशब्दे सर्वस्यैव निषेधे प्रत्यक्षबाधा शङ्क्येत । श्रावणशब्देन तु श्रुतिमात्रग्राह्यमेव यद्रूपं तन्निषेधे प्रत्यक्षबाधा न तु सामान्यधर्मनिषेध इति ख्याप्यत इति ॥

[ध्प्र्१८४]

विकल्पविज्ञानविषयत्वमुच्यते । तेन विकल्पज्ञानेन[४३७] प्रतीतिरूपेण शशनश्चनद्रशब्दवाच्यत्वं सिद्धमेव । तथा हि --- यद्विकल्पविज्ञानग्राह्यं[४३८] तच्छब्दाकारसंसर्गयोग्यम् । यच्छशदाकारसंसर्गयोग्यं तत्साङ्केतिकेन शब्देन वक्तुं शक्यम् । अतः प्रईतिरूपेण विकल्पविज्ञानविषयत्वेन सिद्धं चन्द्रशब्दवाच्यत्वमचन्द्रत्वस्य बाधकम् । स्वभावहेतुश्च प्रतीतिः । यस्माद्विकल्पविषयत्वमात्रानुबन्धिनी साङ्केतिकशब्दवाच्यता, ततः स्वभावहेतुसिद्धं चन्द्रशब्दवाच्यत्वं वाच्यत्वस्य बाधकं द्रटव्यम् ॥


__________टिप्पणी__________

[४३७] विकल्पविज्ञानविषयत्वेन; विकल्पज्ञानविषय्त्वेन; विकल्पविज्ञानेन
[४३८] यद्विकल्पज्ञान-; यज्ज्ञानग्राह्यं
___________________________





प्रतीत्या विकल्पविज्ञानरूपेण विषयिणा विषयस्य निर्देशात् । एतदेव दर्शयति प्रतीत इति । प्रतित उच्यते व्यवह्रियते, साक्षात्कृतस्याप्यजाताध्यवसायस्य तथाव्यवहाराभावादिति भावः । विषयिणा विषयगतो धर्म उक्त इति स्फुटयते प्रतीतिः प्रतीतत्वरूपेण पतीतत्वमिति । तेन विकल्पज्ञानेनेति विकल्पविज्ञानविषयत्वेनेति ज्ञेयं प्रतीतरूपेण । तथा हीत्यनेनैतदेवोपपादयति ।

भवतु शब्दाकारसंसर्गयोग्यत्वम् । तच्छब्दवाच्यता तु कथमित्याह --- यदिति । अत इत्यादिना पतीतेर्बाधकत्वं दर्शयति । अचन्द्रत्वस्याचन्द्रशब्दववाच्यत्वस्य । किं साधनसिद्धिमिदं चन्द्रशब्दवाच्यत्वमित्याह --- स्वभावेति । स्वभावहेतुलक्षणं योजयन्नाह --- यस्मादिति । तत इत्यादिनोपसंहारः ।

एवं तु प्रयोगो द्रष्टव्यः --- योऽर्थो विकल्पविज्ञानविषयः स साङ्केतिकेन शब्देन वक्तुं शक्यः । यथा शाखादिमानर्थो वृक्षशबेन । विकल्पविज्ञानविषयश्च शशीति ।

इह केनचिच्छब्देन कस्यचिदभिधातुमशक्यत्वं वास्तवे प्रतिनियतार्थशब्दसम्बन्धे सति स्यात् । स चान्यत्र प्रतिषिद्धः । पारिशेष्याज्ज्ञानात्मन्यारूढस्यार्थस्य शब्दसम्बन्धः कर्त्तुं कस्य शक्यो यस्तेन शब्दाकारेण सह नैकस्मिन् ज्ञानेन संसृजुयते । अनियतार्थं च विज्ञानमिति तदारूढोऽर्थस्तदभिधानाकारसंसर्गयोग्य एव । तस्मात्तेन शब्देनाभिधातुमशक्यत्वमतदाकारसंसर्गयोगत्वेन व्याप्तम् । व्या[६६ ]पकविरुद्धं च तदभिधानाकारसंसर्गयोग्यत्वम् । तेन च विकल्पविज्ञानविषयत्वं व्याप्तम् । तदेवं विकल्पविज्ञानविषयत्वं तद्व्यापकविरूद्धव्याप्तत्वात्तेनापि विरुद्ध्यते । ततश्च तद्विरुद्धेन शक्यत्वेन व्याप्त इति
स्वभावहेतुः । तस्माद्विकल्पविज्ञानविषयत्वमेव प्रतीतिः प्रसिद्धिर्व्यवहारश्चोच्यते । अनया पतीत्या यत्साधितं शशिनश्चन्द्रशब्दवाच्यत्वं तत्स्वविरुद्धस्य तदनभिधेयत्वस्य बाधकं बह्वति । तेन प्रतीतेर्विकल्पविज्ञानलक्षणाया जातो धर्म इष्टशब्दाभिधेयत्वलक्षणस्तेनानभिधेयत्वस्य बाधनात्प्रतीतिबाधोच्यत इति परमार्थः ।

यद्वा प्रतीतेस्तथारूपाया जात एवेष्टशब्दाभिधेयत्वलक्षणो धर्मः प्रतीतिशब्देनोक्तः,

[ध्प्र्१८५]

स्ववचननिराकृतो यथा --- नानुमानं प्रमाणमिइइ-५२

स्ववचनं प्रतिज्ञार्थस्यात्मीयो वाचकः शब्दः । तेन निराकृतः प्रतिज्ञार्थो न साध्यः । <यथा नानुमानं प्रमाणम्> --- इत्यत्र[४३९] अनुमान्स्य प्रामाण्यनिषेधः प्रतिज्ञार्थः । स[४४०] नानुमानं प्रमाणम् --- इत्यनेन स्ववाचकेन वाक्येन बाध्यते । वाक्यं हि एतत्प्रयुज्यमानं वक्तुः [४४१]शाब्दप्रत्ययस्य सदर्थत्वमिष्टं सूचयते । तथा हि --- मद्वाक्याद्योऽर्थसम्प्रत्ययस्तवोत्पद्यते सोऽसत्यार्थ इति दर्शयन् वाक्यमेव नोच्चारयेद्वक्ता, वचनार्थश्चेदस्त्यः परेण ज्ञात्व्यो वचनमपार्थकम् । योऽपि हि सर्वं मिथ्या ब्रवीमीति[४४२] वक्ति सोऽप्यस्य वाक्यस्य सत्यार्थत्वमादर्शयन्नेव वाक्यमुच्चारयति । यद्येतद्वाक्यं
सत्यार्थमादर्शितम्, एवं वाक्यान्तराण्यात्मीयान्यसत्यार्थानि दर्शितानि भवन्ति । [४४३]एतदेव तु यद्यस्त्यार्थम्, अन्यान्यसत्यार्थानि न दर्शितानि भवन्ति । ततश्च न किञ्चिदुच्चारणस्य फलमिति नोच्चारयेत् । तस्माद्वाक्यप्रभवं वाक्यार्थालम्बनं विज्ञानं सत्यार्थं दर्शयन्नेव वक्ता [४४४]वाक्यमुच्चारयति । तथा[४४५] च सति बाह्यवस्तुनान्तरीयकं शब्दं दर्शयता शब्दजं विज्ञानं सत्यार्थं दर्शयितव्यम् । ततो बाह्यार्थकार्याच्छब्दादुत्पन्नं विज्ञानं सत्यार्थमाद्र्शयता [४४६]कार्यलिङ्गजमनुमानं प्रमाणं शाब्दं दर्शितं भवति ।


__________टिप्पणी__________

[४३९] प्रमाणम् । अत्र
[४४०] स चानुमा-
[४४१] शाब्दस्य प्रत्य्-
[४४२] ब्रवीति वक्ति
[४४३] ’ेतदेवऽ इत्यादि ’भवन्तिऽ इत्यन्तं सूत्रत्वेन मुद्रितम् । किन् तु नास्त्येतत्सूत्रम् --- सं-
[४४४] अनुमानप्राआण्यनिषेधलक्षणम् --- टि-
[४४५] यथा
[४४६] आदर्शयिता
___________________________










प्रतीतिमात्रादेव सिधो योऽर्थः स इह बाधक इति दर्शयितुम् । एतच्च स्वभावहेतुत्वं कल्पितमिष्टम्, न वास्तवम्, शशिनो विकल्पविज्ञानविषयत्वस्याऽऽध्यवसानिकत्वात् । अन्यथाऽनुमाननिराकृतान्नास्य पृथङ्निर्देशः स्यादिति ॥

स्वशब्देनात्मवचनेन प्रकृतत्वात्साध्यस्यात्मा गृह्यत इति अभिप्रायेणाह --- प्रतिज्ञार्थस्यात्मीय इति । तेन निराकृत इति तदुपस्थापि तेनानुमानप्राणाण्येन निराकृत इति द्रष्टव्यम् । कथं निराक्रियत इत्याह --- वाक्यमिति । यस्मादेतद्वाक्यं प्रयुज्यमानं सद्वक्तुः शाब्दप्रत्ययस्य शब्दप्रभवस्य ज्ञानस्य सदर्थत्वं सत्यार्थ्वमिष्टं सूचयति प्रकाशयति ।

प्रत्युक्तमपि कथं तथाकरोतीयाह --- तथा हीति । नोच्चारयेदुच्चारय्तुं नार्हति, अपार्थकत्वादिति बुद्धिस्थम् । वचनेत्यादिना त्वेतदेव व्यनक्ति --- न सर्वं वचनं प्रयुज्यमानं तथाकारि यथा सर्वं मिथ्या ब्रवीमीति वचनमित्याह --- योऽपीति । हिर्यस्मात् । यद्येतदित्यादि । भवतु वाक्यप्रभवं वाक्यार्थलम्बनं ज्ञानं सत्यार्थम्, तथापि कथमनुमानप्रमाण्यं वचनेनोपस्थाप्यते येनानुमानप्रामाण्यप्रतिषेधस्तद्वचनोपस्थापितानुमानप्रमाण्येन

[ध्प्र्१८६]

तस्मात्’नानुमानं प्रमाणम्ऽ --- इति ब्रुवता शाब्दस्य प्रत्ययस्यासन्नर्थो[४४७] ग्राह्य उत्कः । असदर्थत्वमेव ह्यप्रामाण्यमुच्यते, नान्यत् । शब्दोच्चारणसामर्थ्याच्चार्थाविनाभावी स्वशब्दो दर्शितः । तथा च [४४८]सन्नर्थो दर्शितः । [४४९]ततः [४५०]कल्पितादर्थकार्याच्छब्दाच्[४५१]छाब्दप्रययार्थस्यानुमितं सत्त्वं प्रतिज्ञायमानसत्त्वं प्रतिबध्नाति ।


__________टिप्पणी__________

[४४७] -स्यासन् ग्राह्य उक्तो
[४४८] सन्नर्थो
[४४९] ’नानुमानं प्रमाणंऽ इत्यस्माच्छबाद्योऽथो बुध्यते तेन जनितो ’नानुमानऽ इत्यादिकः शब्दः न प्रत्येष्यति नासित्को व्यभिचारात्--- टि-
[४५०] अध्यारोपित- --- टि-
[४५१] -छब्दप्र-
___________________________






तदेवं स्ववचनानुमितेन सत्त्वेनासत्त्वं[४५२] <बाध्यमानं > स्ववचनेन बाधितमुक्तमित्ययमत्रार्थः ।


__________टिप्पणी__________

[४५२] वाच्यमानं
___________________________


अन्ये त्वाहुः --- अभिप्रायकार्याच्छब्दाज्जातं ज्ञानमभिप्रायालम्बनम् । सदर्थमिच्छतः शब्दप्रयोगः । तेनाप्रामाण्यं प्रतिज्ञातं बाध्यत इति ।



निराक्रियमाणः स्ववचननिराकृतो भवतीत्याशङ्क्याह --- तथा च सतीति --- शाब्दज्ञानस्य सत्यार्थत्वप्रतिपादनाभिप्रायेण वाक्योच्चारणप्रकारे सति । बाह्यवस्तुनानतरीयकं तदविनाभाविनं दर्शयता सत्यार्थं दर्शयितव्यं दर्शयितुं युज्यते शक्यत इत्यर्थः । यत एवं ततस्तस्मात् । बाह्यार्थकार्यादिति सति भेदे तदुत्पत्त्यैव नान्तरीकत्वसम्भवादिति भावः । शाब्दमिति प्रकृतत्वाज्ज्ञानं कार्यलिङ्गजं शब्दरूपकार्यलिङ्गजमिति हेतुभावेन विशेषणमनुमानं प्रमाणं दर्शितं प्रकाशितं भवति ।

तस्मादित्यादिनोपसहरति ।

नन्वनुमानस्याऽसन् ग्राह्य इति युज्यते वक्तुम् । तत्किं शाब्दस्य प्रत्ययस्येत्युक्तमिति चेत् । नैष दोषः । शाब्दस्यापि प्रययस्योक्तेन न्य्यायेनानुमानत्वात् । सर्वानुमानप्रामाण्यप्रतिषेधे चास्यापि प्रतिषिद्धत्वात् । अस्यैव चानुमानस्यानुमानप्रामाण्यप्रतिषेधलक्षणप्रतिज्ञार्थबाधकत्वादुपन्यासो युक्तरूपः ।

यद्येवमप्रामाण्यमुक्तं तच्च बाध्य[६६ ]त इति वक्तुं युज्यते । तत्किमेवमुक्तमित्याह --- असदर्थत्वमिति । हीति यस्मात् । आस्तामसन् ग्राह्योऽभितः किमत इत्याह --- शब्देति । चो हेताववधारणे वा । शब्दोऽप्यतस्तथा दर्शितस्तथापि किमायातमित्याह --- तथा चेति शब्दस्य बाह्यार्थाविनाभाविप्रदर्शनप्रकारे सति सन्नर्थोऽध्यवसेयो दर्शितः । सदर्थत्वं प्रामाण्यलक्षणं दर्शितमिति यावत् । तस्य सदर्थत्वण्प्रदर्श्यतां बाधा तु कथमित्याह --- तत इति । शाब्दप्रत्ययस्य योऽर्थो ज्ञाप्योऽनुमानप्रामाण्यलक्षणस्तस्यानेनैव शब्दलिङ्गेनानुमानेनानुमितं सत्त्वं कर्त्तृ प्रतिज्ञायमानमसदर्थमप्रामाण्यलक्षणं कर्मभूतं पतिबध्नाति
। निराकरोतीति वक्त्व्ये प्रतिबध्नातीति ब्रुवाणः परमार्थतोऽस्यावास्तवत्वान्न बाधा किन् त्वेतदुपस्थापितेतरयोः परस्परप्रतिबन्ध इति सूचयति ।

[ध्प्र्१८७]

तदयुक्तम् । यत इह प्रतीतेः स्वभावहेतुत्वम्, स्ववचनस्य च कार्यहेतुत्वं कल्पितमिष्टम् । न वास्तवम्[४५३] । अभिप्रायकार्यत्वं च वास्तवमेव शब्दस्य । ततस्तदिह न गृह्यते ।


__________टिप्पणी__________

[४५३] वास्तवमिति
___________________________


किञ्च । यथा --- अनुमानमनिच्छन्[४५४] वह्न्यव्यभिचारित्वं धूमस्य न प्रत्येति, तथा शब्दस्याप्यभिप्रायव्यभिचारित्वं न प्रत्येष्यति । बाह्यवस्तुप्रत्यायनाय च शब्दः प्रयुज्यते । तन्न शब्दस्याभिप्रायाविनाभावित्वाभ्युपगमपूर्वकः शब्दप्रयोगः । [४५५]अपि च, न स्वाभिप्रायनिवेदनाय शब्द उच्चार्यते, अपि तु [४५६]बाह्यसत्त्वप्रतिपादनाय, तस्माद्बाह्यवस्त्वविनाभावित्वाभ्युपगमपूर्वकः शब्दप्रयोगः । ततः पूर्वकमेव[४५७] व्याख्यातमनवद्यम्[४५८] ॥


__________टिप्पणी__________

[४५४] अग्न्यव्य-
[४५५] ’पि चऽ इति यस्मादर्थेऽव्ययम् --- टि- । ’पि चऽ इत्यारभ्य ’शब्दप्रयोगःऽ इत्यन्तः पाठो नास्ति ।
[४५६] बाह्यवस्तुसत्त्व-
[४५७] पूर्वमेव
[४५८] व्याख्यानम्-
___________________________






इति चत्वारः पक्षाभासा निराकृता भवन्ति इइइ-५३

एवं[४५९] च सति --- <अनिराकृत>ग्रहणेनान्तरोक्ताश्चत्वारः पक्षवदाभासन्त इति <पक्षाभासा >निरस्ता भवन्ति ॥


__________टिप्पणी__________

[४५९] एवं सति
___________________________


सम्पति पक्षलक्षणपदानि येषां व्यवच्छेदकानि तेषां व्यवछेदेन यादृशः [४६०]पक्षार्थो लभ्यते तं दर्शयितुं व्यवच्छेद्यान् संक्षिप्य दर्शयति ---


__________टिप्पणी__________

[४६०] पक्षो
___________________________




नन्वनुमानप्रामाण्यमसत्त्वं बाधते न तु स्ववचनं तत्कथं स्ववचननिराकृतोदाहरणमिदमुक्तमित्याशङ्क्य स्ववचननिरार्कृत इत्यत्र यादृशोऽर्थो विवक्षितस्तं दर्शयति तदेवमिति । अत्रेति स्ववचननिराकृते । यथानुमानं न प्रमाणमित्यत्र ।

स्वाभिप्रायेणैव व्याख्याय अन्ये त्वित्यादिना पूर्वव्याख्यानं दूषायितुमाह । तुना स्वव्याख्यानाद्वैसदृश्यमाह ।

न वास्तवमिति ब्रुवतो यदीदं वास्तवमनुमानं स्यात्तदानुमाननिराकृतोदाहरणानन पृथगुच्यतेइति । किञ्चेति वक्तव्यानतराभ्युच्चये । बाह्यवस्तुप्रत्यायनाय चेति चकारोऽपि वक्तव्यान्तरसमुच्चये । यत एवं तत्तस्मात् । स्वस्योच्चारयितुमभिप्रायो वक्तुं कामता, तदव्यभिचारित्वाभ्युपगमः पूर्वो यस्य तथा न भवति । पूर्वं बाह्यवस्तुप्रत्यायनायेत्यनेन सामर्थ्यान्न स्वाभिप्रायप्रत्यायनायेत्युकमपि स्फुटं दर्शयितुं तन्न शब्दस्याभिप्रायाविनाभावित्वाभ्युपगमपूर्वकः शब्दप्र्योग इत्यनेन सामर्थ्याद्बाह्यवस्त्वविनाभावित्वाभ्युपगमपूर्वक इति दर्शितमपि साक्षाद्दर्शयितुमपि चेति पूर्वोक्तस्य वक्तव्यान्तर द्योतकस्य स्पष्टीकरणम् । यत्राप्यसत्त्वप्रतिपादनाय शदः
प्रयुज्यते तत्रापि विवक्षितसत्त्वविविक्तस्यान्यसत्त्वस्य प्रतिपादनाद्बाह्यसत्त्वप्रतिपादनायेत्युक्तम् । यद्वा सत्त्वग्रणस्योपलक्षणत्वाद्

[ध्प्र्१८८]

[४६१]एवं सिद्धस्य, असिद्धस्यापि साधनत्वेन अभिमतस्य, स्वयं वादिना तदा साधयितुमनिष्टस्य, उक्तमात्रस्य निराकृतस्याच विपर्ययेण साध्यः । तेन एव स्वरूपेणाभिमतो वादिन इष्टो अनिराकृतः पक्ष इति पक्षलक्षणमनवद्यं[४६२]दर्शितं भवति इइइ-५४


__________टिप्पणी__________

[४६१] एवं --- ओम्.
[४६२] लक्षणमवद्यं
___________________________



<एवम् --- >इत्यनन्तरोक्तक्रमेण[४६३] । <सिद्धस्य> विपरियेण विपरीतत्वेन हेतुना <साध्यो >द्रष्टव्यः । यस्मादर्थात्सिद्धोऽर्थो विपरीतः, स साध्य इत्यार्थः । सिद्धश्च विपरीतोऽसिद्धस्य तस्मादसिद्धः साध्यः । असिद्धोऽपि न सर्वोऽपि तु <साधनत्वेनो>क्तस्य्<आसिद्धस्यापि विपर्ययेण >। <स्वयं वादिना साधयितुमनिष्टस्य असिद्धस्य विपर्ययेण । >तथा <उक्तमात्रस्य> असिद्धस्यापि विपर्ययेण । तथा <निराकृतस्या>सिद्धयापि विपर्ययेण साध्यः ।


__________टिप्पणी__________

[४६३] -रोक्तेन
___________________________


यश्चायं पञ्चभिर्व्यवच्छेद्यै रहितोऽर्थऽसिद्धो[४६४]ऽसाधनं वादिनः स्वयं साधयितुमिष्ट उक्तोऽनुक्तो वा प्रमाणैरनिराकृतः साध्यः, स एवासौ स्वरूपेणैव स्वयमिष्टोऽनिराकृत एतैः पदैरुक्त इत्यर्थः । यश्चायं साध्यः स पक्ष [४६५]इति उच्यते । <इति>शब्द एवमर्थे । एवं <पक्षलक्षणमनवद्यम् >इति । अविद्यमानमवद्यं दोषो यस्य तद्<अनवद्यम्> । <दर्शितं> कथितम् ।


__________टिप्पणी__________

[४६४] ’सिद्धोऽ इत्यादिपदानन्तरं संख्याङ्काः दत्ता वर्त्तन्ते --- सं-
[४६५] ’ितिऽ --- ओम्.
___________________________



त्रिरूपलिङ्गाख्यानं परिसमापय्य[४६६] प्रसङ्गागतं च पक्षलक्षणमभिधाय हेत्वाभासान् वक्तुकामस्तेषां प्रस्तावं रचयति <त्रिरूपे>त्यादिना---


__________टिप्पणी__________

[४६६] समाप्य
___________________________


त्रिरूपलिङ्गाख्यानं परार्थानुमानमित्युक्तम् । तत्र त्रयाणां रूपाणामेकस्य अपि रूपस्य अनुक्तौ साधनाभासः इइइ-५५

एतदुक्तं भवति --- त्रिरूपलिङ्गं[४६७] वक्तुकामेन स्फुटं तद्वक्तव्यम् । एवं च तत्स्फुटमुक्तं


__________टिप्पणी__________

[४६७] लिङ्गाख्यानं वक्तु-
___________________________




बाह्यसत्त्वप्रैत्पादनायेत्यपि द्रष्टव्यम् । सर्वथा न स्वाभिप्रायस्य सत्त्वमसत्त्वं वा प्रत्पादयितुं शब्दप्रयोग्त इत्यने[न] हेतुम् । यत एवं ततस्तस्मात्पूर्वकमेव यन्मया व्याख्यातमनवद्यमपगतदोषम् ॥

इति चत्वारः पक्षाभासा निराकृता भवन्तीति मूलं व्याचक्षाण आह --- एवमिति ।

निरस्ता भवन्ति पक्षत्वेनेति प्रस्तावात् ॥

पक्ष इत्युच्यते व्यकतीक्रियत इति व्युत्पत्त्येति भावः ॥

ननु त्रिरूपलिङ्गाख्यानं प्रकृतमुक्तमेव । तत्किं हेत्वाभासाख्यानमप्रकृतं क्रियत

[ध्प्र्१८९]

भवति यदि तच्च, तत्प्रतिरूपकं[४६८] चोच्यते । हेयज्ञाने[४६९] हि तद्विविक्तमुपादेयं सुज्ञातं भवतीति । <त्रिरूपलिङ्गाख्यानं [४७०]परार्थम्> <अनुमानम्>ऽ [३.१.] इति प्रागुक्तम् ।


__________टिप्पणी__________

[४६८] प्रतिरूपं बोध्यते; लिङ्गाभासम् --- टि-
[४६९] हेयज्ञाते
[४७०] परार्थानु
___________________________




<तत्रे>ति तस्मिन् सति । त्रिरूपलङ्गाख्याने[४७१] परार्थानुमाने स्तीत्यर्थः । त्रयाणां रूपाणां मध्य <एकस्याप्यनुक्तौ >। <अपि>शब्दाद्द्वयोरपि । <साधन>स्य <आभास> सदृशं साधनस्य्, न साधनमित्यर्थः । त्रयाणां रूपाणां न्यूनता नाम साधनदोषः ॥


__________टिप्पणी__________

[४७१] परार्थेऽनुमाने
___________________________


उक्तावप्यसिद्धौ सन्देहे वा प्रतिपाद्यप्रतिपादकयोः इइइ-५६

न केवलमनुक्त्वाव्<उक्तावप्यसिद्धौ सन्देने वा >। कस्येत्याह --- <प्रतिपाद्यस्य > प्रतिवादिनः, <प्रतिपादक>स्य चवादिनो हेत्वाभासः ॥

अथ [४७२]कस्यैकस्यारूपस्यासिद्धौ सन्देहे[४७३] वा किं संज्ञको हेत्वाभास इत्याह ---


__________टिप्पणी__________

[४७२] कस्य रूप-; हेत्वाभासोऽप्येकस्य रूप-
[४७३] सन्देहे वाक्यं सं-
___________________________



एकस्य रूपस्य धर्मिसम्बन्धस्य असिद्धौ सन्देहे[४७४]वा असिद्धो हेत्वाभासाः इइइ-५७


__________टिप्पणी__________

[४७४] सन्देहे चासिद्धो
___________________________




इत्याशङ्क्याह --- एतदुक्तं भवतीति । त्रिरूपलिङ्गाख्यानस्य स्फुटाभिधानार्थत्वं चोपलक्षणं तेन विप्रतिपत्तिनिराकरणार्थं चेति द्रष्टव्यम्, सन्दिग्धविपक्षव्यावृत्तिकत्वादोष(दिषु) विपरतिपत्तिदर्शनात् ।

सदृ[६७ ]शं साधनस्येतियर्थकथनमेतद् । व्युत्पत्तिस्त्वाभासनमाभासः प्रतिभासः, साधनस्येवाभासः प्रतिभासोऽस्येति तथा । न्युनता ऊनत्वमपूर्णता । कस्येत्याकाङ्क्षायामाह --- त्रयाणामिति । यस्मादेकस्य द्वयोर्वाऽनुक्तौ त्रीणि परिपूर्णं प्रतिपादितानि न भवन्ति तस्मात्त्रयाणां न्यूनतेत्यर्थः ।

ननु हीनाङ्गत्वं न साधनदोषः । विद्यमानेऽपि हि रूपत्रये द्वयोरेकस्य वा वक्त्राऽनभिधाने सति न्यनतायाः सम्भवात् । तत्कथं वक्तृदोषः साधनदोष इत्युच्यत इति चेत् । सत्यम्; केवलं नात्र साधनशब्देन लिङ्गमभिप्रेतम् । किं तर्हि? तत्प्रतिपादकं वाक्यं तस्य चापरिपूर्णता दोषो भवत्येव । वक्तृदोषस्तु निमित्त[म्] परिपूर्णताया इति किमवद्यम्?

एवमुपलक्षणार्थत्वादस्य यथाऽन्यतमेवापि रूपेणा हीनत्वान्न्यूनता साधनदोषस्तथा हेतूवचनाद्वादिना निग्रहो विवक्षित इत्यपीति ॥

प्रतिपाद्यस्येतादिना प्रतिपाद्यप्रतिपादकशब्दयोरेवार्थं व्याचष्टे ।

<आचार्य>स्यस्तु प्रतिपाद्यस्य प्रतिपादकस्य च प्रतिपाद्यप्रपादकयोश्चेति व्यस्तसमस्तनिर्देशोऽभिप्रेतः ।

[ध्प्र्१९०]

<एकस्य रूपस्ये>ति । <धर्मिण्>आ सह <सम्बन्धः धर्मिन्सम्बन्धः> । धर्मिणि सत्त्वं हेतोः । तस्य असिद्धौ सन्देहे वा <असिद्ध>ससञ्ज्ञको <हेत्वाभासः >। असिद्धत्वादेव च धर्मिण्यप्रतिपत्तिहेतुः । न साध्यस्य, न विरुद्धस्य, न संशयस्य हेतुरपि त्वप्रतिपत्तिहेतुः । न कस्य्चिदतः प्रतिपत्तिरिति कृत्वा । अयं चार्थो <ऽसिद्ध>सम्ज्ञाकरणादेव प्रतिपत्तव्यः ॥

उदाहरणामाह ---

यथा, अनित्यः शब्द इति साध्ये चाक्षुषत्वमुभयासिद्धम् इइइ-५८

<यथे>त्यादि । [४७५]<अनित्यः शब्द इत्य्> अनित्यत्वविशिष्टे शब्दे <साध्ये चाक्षुषत्वं >चक्षुर्ग्राह्यत्वं शब्दे [४७६]द्वयोरपि वादिप्रतिवादिनोर्<असिद्धम् >॥


__________टिप्पणी__________

[४७५] नित्यः
[४७६] द्वयोर्द्वयोरपि
___________________________



चेतनास्तरव इति साध्ये सर्वत्वगपहरणे मरणं[४७७]प्रतिवाद्यसिद्धम्, विज्ञानेन्द्रियायुर्निरोधलक्षणस्य मरणस्य[४७८]अनेन अभ्युपगमात्, तस्य च तरुष्वसम्भवात् इइइ-५९


__________टिप्पणी__________

[४७७] मरणादिति प्रति-
[४७८] -स्यानेन मरणस्याभ्यु-
___________________________



<चेतनास्तरव इति >तरूणां चैतन्ये <साध्ये> । सर्वा त्वक्<सर्वत्वक्>। तस्य <अपहरणे >सति मरणं <दिगम्बरैर्> उपन्यस्तं प्रतिबादिनो <बौद्धस्या>सिद्धम् ।

कस्मादसिद्ध इत्याह ---<विज्ञानं >च <इन्द्रियं >च्<आयुश्>चेति द्वद्वः[४७९] । तत्र <विज्ञानं[४८०]> चक्षुरादिजनितम्[४८१] । रूपादिविज्ञानोत्पत्त्या यदनुमितं [४८२]कायान्तर्भूतं चक्षुर्गोलकादिस्थितं[४८३] रूपं


__________टिप्पणी__________

[४७९] चायुश्च रूपा-; चायुश्च तत्र;
[४८०] विज्ञानचक्षु-
[४८१] जयित; चक्षुरादिविज्ञानं रूपा-; चक्षुरादिज्ञानं रूपा-
[४८२] कार्यान्त
[४८३] स्थितरूपम्
___________________________








अयं हेत्वाभासः कीदृशीं प्रतिपत्तिं प्रसूत इत्याह --- असिद्धत्वादेवेति । तुशब्दार्थश्चकारः । कथमेतत्प्राप्यत इत्याह --- अयञ्चेति । चो यस्मादर्थे । कस्याश्चिदपि प्रतिपत्तेर्हेतुतया न सिद्ध इति असिद्ध उक्त इत्यभिप्रायः ॥


द्वयोरपि वादिप्रतिवादिनोरसिद्धमनिश्चतम् । अनेन व्यधिकरणासिद्धोऽप्युक्तो द्रष्टव्यः । यथा राज्ञोऽयं प्रासादः, काकस्य कार्ष्ण्यादिति । तस्यापि कार्ष्ण्यस्य प्रासादे धर्मिणि उभयोरसिद्धत्वात्, केवलं तत्रासिद्धोऽप्यर्थधर्मिगतत्वेनोपादानात्तथा व्यपदिश्यते ।

ननु व्यधिकरणमपि लिङ्गं गमकं दृष्टम् । यथा प्रत्यग्रशरावदर्शनं भ्रान्तिम[त्]प्रत्यग्रशरावत्वस्य भ्रान्तिमच्चक्रवत्त्वे । अस्य च हेतुत्वाद् । देश एव हि धर्मी अविदूरकुलालसम्बन्धित्वं साध्यं तस्य च धर्मिणः प्रत्य्ग्रशरावसम्बन्धित्वं भ्रानिमच्चक्रसम्बन्धित्वञ्च धर्मो भवत्येव । न त्वत्र कुलालस्य धर्मिणः सद्भावः साध्यते, येनैव तदुच्येतेति ।

तथा, विशेषणासिद्धविशेष्यासिद्धावप्यनेनैवोक्तौ द्रष्टव्यौ । यथाऽनित्यः शब्दोऽनभिधेयत्वे

[ध्प्र्१९१]

तद्<इन्द्रियम्> । <आयुर्> इति लोके प्राणा [४८४]उच्यन्ते । न चागमसिद्धमिह युज्यते वक्तुम् । अतः [४८५]प्राणस्वभावमायुरिह । तेषां <निरोधो >निवृत्तिः । स <लक्षणं> तत्त्वं यस्य तत्तथोक्तम् । तथाभूतस्य <मरणस्य अनेन> बौद्धेन पर्तिज्ञातत्वात् ।


__________टिप्पणी__________

[४८४] उच्यते
[४८५] प्रमाणस्व-
___________________________



यदि नामैवं तथापि कथमसिद्धमित्याह --- <तस्य च> विज्ञानादिनिरोधात्मकस्य [४८६]<तरुष्वसम्भआत्> । सत्तापूर्वको निरोधः । ततश्च यो विज्ञाननिरोधं तरुष्विच्छेत्स कथं विज्ञानं नेच्छेत् । तस्माद्विज्ञानानिष्टेर्निरोधोऽपि नेष्ट्स्तरुषु ।


__________टिप्पणी__________

[४८६] तरुष्वभावात्
___________________________


ननु च शोषोऽपि मरणमुच्यते । स च तरुषु सिद्धः । सत्यम् । केवलं विज्ञानसत्तया [४८७]व्याप्तं यत्मरणं तदिह हेतुः । विज्ञाननिरोधश्च तत्सत्तया व्याप्तः, न शोषमात्रम् । ततो[४८८] यन्मरणं[४८९] <हेतुस्तत्>तरुष्वसिद्धम् । यत्तु[४९०] सिद्धं शोषात्मकं तदहेतुः ।


__________टिप्पणी__________

[४८७] सत्ताया
[४८८] तत्र
[४८९] मरणहेतुः
[४९०] यच्च
___________________________





<दिगम्बर>स्तु साध्येन [४९१]व्याप्तमव्याप्तं[४९२] वा मरणामविविच्य मरणमात्रं हेतुमाह । तदस्य वादिनो हेतुभूतं[४९३] मरणं न ज्ञातम् । अज्ञानात्सिद्धं शोषरूपम्, शोषरूपस्य मरणस्य तरुषु दर्शनात् । प्रतिवादिनस्तु ज्ञातमतोऽसिद्धम् । यदा तु वादिनोऽपि ज्ञातं तदा वादिनोऽप्यसिद्धं स्यादिति न्यायः ॥


__________टिप्पणी__________

[४९१] विज्ञानेन्द्रियायुर्निरोधलक्षणम् --- टि-
[४९२] शोषलक्षणम्
[४९३] हेतुज्ञात्ततम्; विज्ञानेन्द्रियायुर्निरोधलक्षणम् --- टि-
___________________________






सति प्रमेयत्वात् । अनित्यः शब्दः प्रमेयत्वे सति अनभिधेयत्वादिति विशेषणविशिष्टस्य रूपस्य तत्र धर्मिणि द्वयोरपि वादिप्रतिवादिनोरसिद्धत्वात् । केवलं तत्रासिद्धो विशेषणविशिष्टतयोपात्तस्य रूपस्य तथाऽसिद्धेस्तथा तथा व्यपदिश्यत इति ॥

चेतना इति । चेतयन्त इति चेतनाः । दिश एवाम्वरं येषामिति व्युप्तत्त्या <दिगम्बराः> क्षपणका उच्यन्ते । तैः किं प्रमाणसमधिगतमिन्द्रियमित्याह --- रूपादीति । सत्स्वन्येषु कारणेष्वव्यापृते चक्षुरादौ रूपादिज्ञानमनुत्पद्यमानं स्वोत्पत्तौ कारणा[६७ ]न्तरमपेक्षणीयं सूचयति । प्रणिहिते तु चक्षुरादौ जायमानं तत्रस्थं तत्किमपि कारणमस्तीति ख्यापयति । अत एवाह --- कायान्तर्भूतं कायाश्रितम् । सामान्येनोक्तं कायाश्रितत्वम् । विशिष्टज्ञानाभिप्रायेनोक्तं विशिष्टाश्रयाश्रितत्वं दर्शयति चक्षुरिति । आदिशब्देन रसनादिपरिग्रहः
। प्रसन्नार्थादेरपि सद्भावान्न गोलकादिरेवेन्द्रियमिति भावः । किमायुरित्याह --- आयुरिति आयुःशब्देनेत्यर्थः । लोके व्यवहर्त्तरि जने प्राणोऽन्तरः शरीरे रसमलधातूनां प्रेरणादिहेतुरेकः सन् क्रियाभेदोद्(-भेदाद्) अपानादिसम्ज्ञां लभत इति तत्तदवस्थाविवक्षया प्रणा इति बहुवचनम् ।

नन्वागमे जीवितेन्द्रियमायुरित्युक्तम् । तत्किमेवं व्याख्यायत इत्याह --- न चेति । चोऽवधारणे हेतौ वा । यत एवमतः कारणात् । इह प्रमाणसिद्धवस्तूपदर्शनप्रस्तावे तथा

[ध्प्र्१९२]

अचेतनाः सुखादय इति साध्ये उत्पत्तिमत्वमनित्यत्वं[४९४]वा <सांख्य>स्य स्वयं वादिनो असिद्धम् इइइ-६०


__________टिप्पणी__________

[४९४] अनित्यं
___________________________


<अचेतनाः सुखादय इति --- सुखम्> आदिर्येषां दुःखादीनां ते सुधादयः । तेषामचैतन्ये <साध्ये उत्पत्तिमत्वं,> <अनित्यत्वं वा> लिङ्गमुपन्यस्तम् । य उत्पत्तिमन्तोऽनित्या वा ते न चेतनाः । यथा रूपादयः । तथा चोत्पत्तिमन्तोऽनित्या वा सुखाद्यस्तस्मादचेतनाः । चैतन्यं तु पुरुषस्य [४९५]स्वरूपम् । अत्र चोत्पत्तिमत्त्वमनित्यत्वं वा पर्यायेण हेतुर्न युगपत् । तच्च द्वयमपि <<सांख्य>स्य वादिनो> न < >सिद्धम् । परार्थो[४९६] हि हेतूपन्यासः । तेन यः परस्य सिद्धः स हेतुर्वक्तयः । परस्य चासत उत्पाद <उत्पात्तिमत्त्वम्>, सतश्च निरन्वयो विनाशो <ऽनित्यत्वं>
सिद्धम् । तादृशं च द्वयमपि <<सांख्य>स्यासिद्धम् >। इहाप्यनित्यत्वोत्पत्तिमत्त्वसाधनाद्<वादिनोऽसिद्धम्> । यदि त्वनित्यत्वोत्पत्तिमत्त्वयोः [४९७]प्रमाण्यं वादिनो [४९८]ज्ञातं स्याद्[४९९]तदा वादिनोऽपि सिद्धं स्यात् । ततः प्रमाणापरिज्ञानादिदं वादिनोऽसिद्धम् ॥


__________टिप्पणी__________

[४९५] स्वं रूपम्
[४९६] परार्थादिहे-
[४९७] प्रमाणं
[४९८] विज्ञानं
[४९९] तदा --- ओम्.
___________________________






संदिग्धासिद्धं दर्शयितुमाह ---

तथा स्वयं तदाश्रयणस्य वा सन्देहे असिद्धः इइइ-६१

<स्वयमिति> हेतोरात्मनः <सन्देहे>ऽसिद्धः । <तदारयणस्य [५००]वे>ति --- तस्य हेतोराश्रयणम् --- आश्रीयतेऽसिमिन् हेतुरित्याश्रयणं हेतोर्व्यतिरिक्त आश्रयभूतः[५०१] साध्यधर्मी कथ्यते । तत्र हि


__________टिप्पणी__________

[५००] -स्य चेति
[५०१] आश्रयभूतसा-
___________________________





तस्यैव रूपस्य । विज्ञानसत्तया व्याप्तं यदिति यस्मिन्मरणेऽवश्यं प्रागासीद्विज्ञानम्, तद्विज्ञान्सत्तया व्याप्तमुक्तम् । तच्च श्वासोष्मपरिस्पन्दादिविगमलक्षणम् । <दिगम्बर>स्यापि कथं सिद्धमित्याह --- अज्ञानादिति । चैतन्याव्यभिचारिणो मरणस्याज्ञानात् । अनेनैतदाह --- यदि तेन साध्यव्याप्तं मरणं मरणशब्दमात्रसमतां बिभ्रतः शोषमात्राद्भेदेन विवेकितं स्यात्केवलमज्ञानात्तत्सिद्धमुच्यत इति ।

एतदेवाह --- यदा त्विति । एवमुत्तरत्रापि द्रष्ट्व्यम् ।

सुखमनुकूलवेदनीयम् । आदिशब्दादिच्छाद्वेषादिपरिग्रहः । पुरुषस्य <सांख्य>परिकल्पितस्यात्महण् । ’पुरुषश्चेतयते बुद्धिरध्यवस्यातीतिऽ सिद्धान्तात् । <सांख्य>स्य संख्यया पञ्चविशतितत्त्वानीत्यन्या व्यवहरतीति <सांख्यो> योगरूढिश्चैषा, कपित एवतथोच्यते ।

ननूत्पत्तिमत्त्वं कृतकत्वं वा स्वसिद्धमेव तेनोपन्यसनीयमुपन्यस्तं च । तत्कथं वाद्यसिद्धतेति आह --- परार्थो हीति । हिर्यस्मात् । परार्थः परप्रतिपत्तिप्रयोजनः । निरन्वयः सर्वथोच्छेदः ।

[ध्प्र्१९३]

हेतुर्वर्त्तमानो गमकत्वेनार्श्रीयते । तस्याश्रयणस्य सन्देहे सन्दिग्धः ॥

[५०२]आत्मना सन्दिह्यमानमुदाहर्त्तुमाह ---


__________टिप्पणी__________

[५०२] स्वात्मना
___________________________


यथा बाष्पादिभावेन सन्दिह्यमानो भूतसंघातो अग्निसिद्धावुपदिश्यमानः[५०३]सन्दिग्धासिद्धः इइइ-६२


__________टिप्पणी__________

[५०३] संदिग्धासिद्दः --- ओम्.
___________________________


<यथे>ति । बाष्प आदिर्यस्य स <बास्पादिः >। तद्भावेन <बाष्पादित्वेन सदिह्यामानो भूतसंघात >इति भूतानां पृथिव्यादीनां संघातःं समूहः । <अग्निसिद्धौ> --- अग्निसिद्ध्यर्थं <उपादीयमानो>ऽसिद्धः ।

एतदुक्तं भवति --- यदा धूमोऽपि बाष्पादित्वेन संदिग्धो भवति तदाऽसिद्धः, गमकरूपानिश्चयात् । धूमतया निश्चितो [५०४]वह्निजन्यत्वाद्गमकः । यदा तु संदिग्धस्तदा न गमक इत्यसिद्धताख्यो दोषः ॥


__________टिप्पणी__________

[५०४] वह्निकार्यत्वाद्गमकः
___________________________


आश्रयणासिद्धमुदाहरति ---

यथा इह निकुञ्जे[५०५]मयूरः केकायितादिति इइइ-६३


__________टिप्पणी__________

[५०५] निगुञ्जे
___________________________


<यथे>ति । <इह निकुञ्ज >इति धर्मी । पर्वतोपरिभागेन तिर्यङ्निर्गतेन प्रच्छादितो भूमागो <निकुञ्जः> । <मयूर> इति साध्यम् । <केकायितादिति >हेतुः । केकायितं --- मयूरध्यनिः ॥



न तु विनष्टस्यापि सत्त्वरजस्तमोरूपेणानुगम इष्टः । न केवलं पूर्वमेवेत्यपिशब्दः । अनित्यत्वोत्पत्तिमत्त्वयोर्यत्साधनं प्रमाणं तस्य(स्याऽ)ज्ञानादनित्यात्यदीत्यादिनैतदेव द्रढयति ॥

<स्वयम्> इत्यात्मन इति षष्ठ्यन्तस्यानुवर्त्तते । हेतोश्च प्रकृतत्वाधेतोरिति विवृणोति ।ाश्रीयते साधनत्वेनोपादीयते अस्मिन्निति ॥

यस्यात्मनः सन्देहः स आत्मना सन्दिह्यमानो भवतीत्यभिप्रायेणाह --- आत्मना सन्दिह्यमानमिति । आदिशब्देन नीहारादिपरिग्रहः ।

ननु यद्यसौ परमार्थतो धूमस्तदा सन्देहेऽपि किं न गमक इत्याह --- एतदुक्तं भवतीति । किं तद्गमकं रूपं येनानिश्चित इत्याह --- वह्नीति । यदा त्वित्यादिनोक्तमेव स्पष्टयति । तदा न गमक इति ब्रुवतश्चायमाशयो विह्निजन्यत्वस्यैव गमकत्वनिबन्धनस्य तदाऽनिश्चितत्वात् ।

एतेन सन्दिग्धविशेषणासिद्धः सन्दिग्धविशेष्यासिद्धश्चोक्तो द्रष्टव्यः [६८ ] यथा षड्जादिसत्त्वसन्देहे मयूरशब्दोऽयं षड्जादिमत्त्वे सति अवर्णात्मकत्वात् । अवर्णात्मकत्वे सति

[ध्प्र्१९४]

[५०६]कथमयमाश्रयणासिद्ध इत्याह ---


__________टिप्पणी__________

[५०६] कथमाश्र-
___________________________


तदापातदेशविभ्रमे इइइ-६४

<तदापात[५०७] >इति । <तस्य >केकायितस्य्<आपात> [५०८]आगमनं तस्य <देशः> स उच्यते यस्माद्देशादागच्छति केकायितम् । तस्य <विभ्रमे> व्यामोहे सत्ययमाश्रयणासिद्धः । निरन्तरेषृ बहुषु निकुञ्जेषु सत्सु यदा केकायितापातनिकुञ्जे[५०९] विभ्रमः --- किमस्मान्निकुज्ञात्केकायितमागतम् । आहोस्विदन्यस्मादिति[५१०], [५११]तदायमाश्रयणासिद्ध इति ॥


__________टिप्पणी__________

[५०७] तदघात
[५०८] आगमः
[५०९] केकायितापातविभ्रमः
[५१०] आहोस्विदस्मादिति
[५११] तादाश्रय-
___________________________






धर्मिणोऽसिद्धावप्यसिद्धत्वमुदाहरति ---

धर्म्यसिद्धावप्यसिद्धः, यथा सर्वगत आत्मा इति साध्ये सर्वत्रोपलम्भमानगुणत्वम् इइइ-६५

<यथे>ति । सर्वसिमिन् गतः स्थितः <सर्वगतो> व्यापीति यावत् । व्यापित्व <आत्मनः> <साध्ये> <सर्वत्रोपलभ्यमानगुणत्वं >लिङ्गम् । सर्वत्रदेश उपलभ्यमानाः सुखदुःखेच्छाद्वेषादयो गुणा यस्यात्मनस्तस्य भावस्तत्<त्वम्> । न गुणा गुणिनमन्तरेण वर्त्तन्ते । गुणाणां गुणीनि समव्यायात् । निष्क्रियश्चात्मा । ततश्च यदि व्यापी न भवेत्कथं दाक्षिणापथ उपलब्धाः सुखादयो मध्यदेश उप्लभ्येरन् । तस्मात्सर्वगत आत्मा ।

तदिह <बौद्ध>स्यात्मैव न सिद्धः, किमुत सर्वत्रोपलभ्यमानगुणत्वं सिध्येत्तस्येत्यसिद्धौ[५१२] हेत्वाभासः । पूर्वमाश्रयणसंदेहेन धर्मिणि संदेह उक्तः । संप्रति त्वसिद्धो धर्म्युक्त इत्यननयोर्विशेषः ।


__________टिप्पणी__________

[५१२] धर्मिति(णि) हेतोः सम्बन्धस्य सत्त्वस्येत्यसिद्धौ --- टि-
___________________________




षड्जादिमत्त्वादिति । उभयत्रापि विशेषणविशिष्टस्य रूपस्य वादिप्रतिवादिनोर्द्वयोरप्यनिश्चितत्वात्केवलं विशेषणसन्देहेन च विशेषणविशिष्टेन रूपेणासिद्ध इति तथा व्यपदिश्यत इति ॥

पर्वतोपरिभागेन तिर्यग्निर्गतेनेति च भूभाग इति चोपलक्षणं द्रष्टव्यम् । न तु तत्थाविध एव निकुञ्जः, पर्वतगह्वरदेशस्यैव निकुञ्जशब्दाभिलप्यत्वात् ॥

यस्माद्देशादागच्छतीति वचनव्यक्त्या चोत्पन्नः शब्दश्चतुर्दिक्कं शब्दसन्तानं जनयति, स च जलतरङ्गन्यायेन श्रोत्रदेशमागतो गृहीत इति दर्शयति ॥

द्वेषादीत्यत्रादिग्रहणेन बुद्धिप्रयत्नादीनां ग्रहणाम् । "सामान्यवान् गुणः संयोगविभागयोरनपेक्षो न कारणं" इति गुणलक्षणयोगाद्गुणाः । समयायात्समवेतत्वात् । प्रतिषिद्धानां

[ध्प्र्१९५]

तदेवमेकस्य[५१३] रूपस्य [५१४]धर्मिसम्बद्धस्यासिद्धावसिद्धो हेत्वाभासः ॥


__________टिप्पणी__________

[५१३] सर्वेष्वपि असिद्धेषु एकं रूपं पक्षधर्मत्वमसिद्धम् --- टि-
[५१४] धर्मिबद्ध-
___________________________



तथा एकस्य रूपस्य असपक्षे असत्त्वस्य असिद्धावनैकान्तिको हेत्वाभासः इइइ-६६

<[५१५]तथा >अप्रस्य्<ऐकस्य रूपस्य &<--->&[५१६]असपक्षेऽसत्त्वा>ख्यस्य्<आसिद्धावनैकान्तिको हेत्वाभासः> ।


__________टिप्पणी__________

[५१५] तथा पर-
[५१६] विपक्षे --- टि-
___________________________



एकोऽन्त एकान्तो निश्चयः । स प्रयोजनमस्येतैकान्तिकः[५१७] । नैकान्तिकोऽनैकान्तिकः । अयस्मान्न साध्यस्य न विपर्ययस्य निश्चयोऽपि तु तद्विपरीतः संशयः । साध्येतरयोः संशयहेतुरनैकान्तिक उक्तः ॥


__________टिप्पणी__________

[५१७] -अयैकान्तिकः
___________________________




च न समवाय इति । निष्क्रियत्वं च क्रियाया मूर्त्तद्रव्यवृत्तित्वात्, आत्मनश्चामर्त्तत्वादिति सिद्धान्तस्थितेः ॥

किमुतेति निपातः किं पुनरित्यस्यार्थे वर्त्तते ॥

आश्रयणासिद्धधर्म्यसिद्धयोः कियान् भेद इत्याशङ्क्य भेदमुपपादयन्नाह --- पूर्वमिति । अयमर्थः --- पूर्वं परमार्थतो विद्यमानोऽपि हेत्वाधाररूपतया सन्देहादनिश्चित इति तद्धर्म्यसिद्ध उक्तः । सम्प्रति तु सर्वथ्तैवासौ धर्मित्वेनासिद्ध उच्यत इति । धर्म्यसिद्ध एवाश्रयासिद्ध उच्यते इति । तेन नाश्रयासिद्धो नाम अन्यः प्रभेदः ।

अन्यथासिद्धस्त्वसिद्ध एव न भवतीति न तस्यान्तर्भावश्चिन्त्यते । तथा ह्यन्यथासिद्ध इति को अर्थः? किमन्यथैव सिद्ध आहोस्वितन्यथाऽपि सिद्धः? ननु यद्यन्यथैव, तदा जिज्ञापयिषितविपर्ययेणैव सिद्ध उपपन्नो नानेन प्रकारेणेति विरुद्ध एव । अथान्यथाऽपि सिद्धः, तदैतस्मादन्येनापि प्रकारेण सिद्धोऽयमित्ययमपि भविष्यति । न च साध्यमिति सन्दिग्धविपक्षव्यावृत्तिरनैकान्तिक एवेति ॥

अनैकान्तिकशब्दस्य व्युप्तत्तिमाह --- एक इति । एक इति ब्रुवन्नेकस्तासौ (एकश्चासौ) साध्यलक्षणैकार्थविषयत्वादन्तश्च कथावसानहेतुत्वादाकाङ्क्षोपशमहेतुत्वाद्वेति दर्शयति । समस्तं पदमर्थञ्चाह --- एकान्तो निश्चय इति । साध्येतरयोरेकतरनिश्चयफल इत्यर्थः । तद्विरुद्धे चायं नञ्द्रष्टव्यः । यस्मादित्यादिनैतदेव स्फुटयति । यस्माद्धेतोरित्यपादाने चेयं पञ्चमी । किन् तु तद्विपरीतो निश्चयविपरीतः यत्तदोर्नित्यमभिसम्बन्धात्स इति द्रष्टव्यम् । क्व सम्शय इत्याह --- साध्येति ।

यद्वा कथमनैकान्तिको भवतीत्याह --- यस्मादिति हेतुपञ्चमी । ऐकान्तिकप्रतिषेधेनान्यः प्रतिपत्तिहेतुरुक्तो नञेत्यभिप्रायेणाह --- संशयहेतुरिति । तेन नासिद्धस्य तथात्वप्रसङ्गः । अथ वैकान्तनियतत्वादेक इत्यन्त इति च निश्चयः प्रोक्तः । तथा हि सर्वोऽयं पदार्थभेद

[ध्प्र्१९६]

तमुदारहति ---

यथा शब्दस्य अनित्यत्वादिके धर्मे साध्ये प्रमेयत्वादिको धर्मः सपक्षविपक्षयोः सर्वत्र एकदेशे वा वर्तमानः इइइ-६७

<यथे>त्यादिना । <अनित्यत्वम् >आदिर्यस्याऽसौ[५१८] <अनित्यत्वादिके धर्म्>अः । <आदि>शब्दादप्रयत्नानन्तरीयकत्वं प्रयत्नान्तरीयकत्वं [५१९]नित्यत्वं च परिगृह्यते । <प्रमेयत्वमादिर्> यस्य स <प्रमेयत्वादिकः >। <आदि>श्बदादनित्यत्वम्, पुनरनित्यतम्, अमूर्त्तत्वं च [५२०]गृह्यते । <शब्दस्य> धर्मिणो <ऽनित्यत्वादिके धर्मे साध्ये प्रमेयत्वादिको धर्मो >ऽनैकान्तिकः । चतुर्णामपि [५२१]हि विपक्षेऽसत्त्वमसिद्धम् ।


__________टिप्पणी__________

[५१८] यस्य सोऽनित्य-
[५१९] नित्यत्वं --- ओम्.
[५२०] गृह्यन्ते
[५२१] हि --- ओम्.
___________________________





तथा हि --- अनित्यः शब्दः प्रमेयत्वात्[५२२]घटवदाकाशवदिति प्रमेयत्व्ं सपक्षविपक्षव्यापि ।


__________टिप्पणी__________

[५२२] प्रमेयत्वात्, आकाशाशवत्घटवदिति
___________________________


अप्रय्त्नानन्तरीयकः शब्दोऽनित्यत्वात्, विद्युदाकाशवद्[५२३]घट्वच्च --- इत्यनित्यत्वं सपक्षैकदेशवृत्ति --- विद्युदादावस्ति, नाकाशादौ; [५२४]विपक्षयापि --- [५२५]प्रयत्नानन्तरीके सर्वत्र भावात्[५२६] ।


__________टिप्पणी__________

[५२३] काशघटव-
[५२४] इत आरम्भ ’नाकाशादौऽ पर्यन्तः पाठो नास्ति
[५२५] -व्यापि सर्वत्र प्रयत्नानन्तरीयके भावात्
[५२६] अनित्यत्वस्य --- टि-
___________________________





अनित्यत्वात्प्रयत्नानन्तरीयकः शदो घट्वद्विद्युदाकाशवच्च --- इत्यनित्यत्वं विपक्षैकदेशवर्त्ति --- विद्युदादावस्ति नाकाशादौ । सपक्षव्यापि[५२७] सर्वत्र प्रयन्तानन्तरीयके भावात्[५२८] ।


__________टिप्पणी__________

[५२७] -व्यापि सपक्षे सर्वत्र
[५२८] साध्यैः सह क्रमात्योज्यते --- टि-
___________________________



नित्यः शब्दोऽमूर्त्तत्वादाकाशपरमाणुवत्[५२९], कर्मघटवच्च । इत्यमूर्तत्वमुभयैकदेशवृत्ति --- उभयोरेकदेश आकाशे कर्मणि च वर्तते । परमाणौ तु सपक्षैकदेशे घटादौ च विपक्षैकदेशे न वर्तते । मूर्त्तत्वात्घटप्रमाणुप्रभृतीनाम् ।


__________टिप्पणी__________

[५२९] नित्यत्वस्य --- टि-
___________________________


नित्यास्तु परमाण्वो[५३०] वैशेषिकैरभ्युपगम्यन्ते । ततः सपक्षान्तर्गताः ।


__________टिप्पणी__________

[५३०] <वैशेषिकैर्> अप्यभ्युप-
___________________________




एकस्मिन्ना(न्न)न्तेऽवतिष्ठते --- नित्यो वाऽनित्यो वेत्यादिरूएण । स प्रयोजनमस्य स तथा । न तथाऽनैकान्तिकः ॥

विपक्षेऽसत्त्वमसिद्धं सर्वत्रेति द्रष्टव्यम् । [६८ ] "सदकारणवन्नित्यम्" [वै-सू-४.१.१.] इति नित्यलक्षणयोगान्नित्या इष्टाः परमाणवः ॥

[ध्प्र्१९७]

अस्य चतुर्विधस्य पक्षधर्मस्यासत्त्वमसिद्धं विपक्षे । ततोऽनैकान्तिकता ॥

तथा --- अस्य एव रूपस्य सन्देहे अप्यनैकान्तिक एव इइइ-६८

यथा चास्य रूपस्यासिद्धावनैकान्तिकस्तथा <अस्यैव> विपक्षेऽसत्त्वाख्यस्य[५३१] <रूपस्य> संदेहे <ऽनैकान्तिकः >॥


__________टिप्पणी__________

[५३१] -ख्यरूपस्य
___________________________


यथा असर्वज्ञः कश्चिद्विवक्षितः पुरुषो रागादिमान् वेति साध्ये वक्तृत्वादिको धर्मः सन्दिग्धविपक्षव्यावृत्तिकः इइइ-६९

<यथे>ति । <असर्वज्ञ> इत्यसर्वज्ञत्वं साध्यम् । <कशिअद्विवक्षित >इति वक्तुरभिप्रतः <पुरुषो >धर्मी । रागा आदिर्यस्य द्वेषादेः स रागादिः । स यस्यास्ति स <रागादिमान् >इति द्वितीयं साध्यम् । [५३२]<वा>ग्रहणं रागादिमत्त्वस्य पृथक्साध्यत्वख्यापनार्थम् । ततोऽसर्वज्ञत्वे रागादिमत्त्वे वा[५३३] <साध्ये >पृष्ठरकृते वक्ट्र्त्वं --- वचनशक्तिस्तदादिर्यस्योन्मेषनिमेषादेः स <वक्तृत्वादिको >धर्मोऽनैकान्तिकः ।


__________टिप्पणी__________

[५३२] वेति ग्रह-
[५३३] -मत्त्वे च साध्ये
___________________________



<सन्दिग्धा[५३४] विपक्षा व्यावृत्तिर्>यस्य स तथोक्तः । असर्वज्ञत्वे साध्ये सर्वज्ञत्वं विपक्षः । तत्र वचनादेः सत्त्वमसत्त्वं वा सन्दिग्धम् । अतो न ज्ञायते किं[५३५] वक्ता सर्वज्ञ उतासर्वज्ञ इत्यनैकान्तिकं वक्तृत्वम् ।


__________टिप्पणी__________

[५३४] संदिग्धवि-
[५३५] किं --- ओम्.
___________________________



ननु च सर्वज्ञो वक्ता नोल्पलभ्यते तत्कथं वचनं सर्वज्ञे सन्दिग्धम्? अत एव

[५३६]’सर्वज्ञो वक्ता न उपलभ्यतेऽ इत्येवंप्रकारस्य अनुपलम्भस्य अदृश्यात्मविषयत्वेन[५३७]सन्देहहेतुत्वात् ।[५३८] ततो असर्वज्ञविपर्ययाद्वक्तृत्वादेर्व्यावृत्तिः सन्दिग्धा इइइ-७०


__________टिप्पणी__________

[५३६] सर्वत्रैकदेश्वा सर्वज्ञो
[५३७] संदेहे हेतु-
[५३८] -त्वादसर्व-
___________________________




<’सर्वज्ञो वक्ता न उपलभ्यतेऽ >इत्येवं प्रकारस्य --- [५३९]एवंजातीयस्यानुपलम्भस्य संदेहहेतुत्वात् । कुत इत्याह --- अदृश्य[५४०] आत्मा विषयो यस्य तस्य भावो <ऽदृश्यात्मविषयत्वं >तेन सन्देहहेतुत्वम् ।


__________टिप्पणी__________

[५३९] -जातीयकस्य
[५४०] -अदृश्यात्मा
___________________________





द्वेषादेरित्यादिग्रहणेन मोहादेर्ग्रहणम् ॥

अत एवानुपलम्भमात्रादेवेति सिद्धान्ती । अमुमेवार्थं मूलेन संस्यन्दयन्नाह --- सर्वज्ञ इति । तेनादृश्यविषयत्वेन हेतुना सन्देहहेतुत्वं सन्देहहेतुत्वादिति । हेतुपञ्चमीमिदानीं व्याचष्टे --- यत इति ॥

[ध्प्र्१९८]

यतोऽदृश्यविशेषयोऽनुपलम्भः संदेहहेतुर्[५४१] न निश्चयहेतुस्ततोऽसर्वज्ञविपक्षात्सर्वज्ञाद्वक्तृत्वादेर्व्यावृत्तिः संदिग्धा ॥


__________टिप्पणी__________
[५४१] संशयहेतुर्
___________________________


नानुपलम्भात्[५४२]सर्ज्ञे वक्तृत्वमसद्ब्रूमः । अपि तु सर्वज्ञत्वेन सह वक्तृत्वस्य विरोधात् । एतन्न[५४३] ।


__________टिप्पणी__________

[५४२] -भात्संदिग्धे वक्तृ-
[५४३] एतन्न --- ओम्.
___________________________



वक्तृत्वसर्वज्ञत्वयोर्विरोधाभावाच्च यः सर्वज्ञः स वक्ता न भवतीत्यदर्शनेऽपि व्यतिरेको न सिध्यति, संदेहात् ७१

<वक्तृत्वसर्वज्ञत्वयोर्>विरोधो नासिति । <विरोधाभावाच्च> कारणाद्<व्यतिरेको न सिध्यति >--- इति संबन्धः ।

व्याप्तिमन्तं व्यतिरेकं दर्श्यति --- <यः सर्वज्ञः> इति । साध्यभावरूपं सर्वज्ञत्वमनूद्य [५४४] ’<स वक्ता न भवति>ऽ इति साधनस्य वकृत्वस्याभावो विधीयते । तेन साध्याभावः साधनाभावे नियतत्वात्[५४५]साधनाभावेन व्प्यात उक्त इति । व्याप्तिमानीदृशो व्यतिरेको विरोधे सति वक्तृत्वसर्वज्ञत्वयोः सिध्येत् । न चास्ति विरोधः । तस्मान्न <सिध्यतीति[५४६]> । कुत इत्याह --- <संदेहात्>। यतो विरोधाभावः, तस्मात्संदेहः । सन्देहाद्व्यतिरेकासिद्धः ॥


__________टिप्पणी__________

[५४४] न स वक्ता भवति
[५४५] साधर्म्यभावेन
[५४६] सिध्यति । कुतः
___________________________




कथं विरोधाभावः?

द्विविधो हि पदार्थानां विरोधः इइइ-७२

<[५४७]ही>ति यमाद्<द्विविध >एव <विरोधो> नान्यः, तस्मान्न वक्तृत्वसर्वज्ञत्वयोर्विरोधः ॥


__________टिप्पणी__________

[५४७] हिर्यस्मादर्थेद्विवि-; हिर्यस्मात्
___________________________


कः पुनरसौ द्विविधो विरोध इत्याह ---

अविकलकारणस्य भवतो अन्यभावे अभावाद्[५४८][५४९]विरोधगतिः इइइ-७३


__________टिप्पणी__________

[५४८] भावः । अभा-
[५४९] गतिरिति
___________________________



<अविकलकारणस्ये>ति । अविकलानि समग्राणि कारणानि यस्य स तथोक्तः । यस्य कारणवैकल्यादभावो न तस्य केनचिदपि विरोधगतिः । तदर्थम् <अविकलकारण>ग्रहणम्।

ननु च यस्यापि कारणसाकल्यं तस्यापि निवृत्तिरशक्या केनचिदपि कर्त्तुम् । तत्कुतो विरोधगतिः? एवं तर्हि अविकलकारणस्यापि यत्कृतात्कारणवैकल्यादभावस्तेन विरोधगतिः ।



यस्येत्यदिनाविकालकारणस्य फलं वर्णयति । एवं तर्हीत्युत्तरम् । तर्हि तस्मिन् काले । एवं बोद्धव्यमित्यर्थः । अपि सम्भावनायाम् । न्यायबलादेवं सम्भावयाम इत्यार्थः । विरोधस्य गतिः प्रतिपत्तिः ।

[ध्प्र्१९९].

तथा च सति यो यस्य विरुद्धः स तस्य किञ्चित्कर एव । तथा हि --- शीतस्पर्शस्य जनको भूत्वा शितस्पर्शान्तरजननशक्तिं प्रतिबध्नन् शीतस्पर्शस्य निवर्त्तको विरुद्धः । तस्माद्धेतुवैकल्यकारी विरुद्धो जनक एक निवर्त्त्यस्य । सहानवस्थानविरोधश्चायम् । ततो विरुद्धयोरेकस्मिन्नपि क्षणे सहावस्थानं परिहर्त्तव्यम् । दूरस्थयोर्विरोधाभावाच्च निकट्स्थयोरेव निवर्त्त्यनिवर्त्तकभावः ।

तस्माद्यो यस्य निर्वर्त्तकः स तं यदि परं तृतीये क्षणे निवर्त्तयति । प्रथमे क्षणे सन्निपतन्नसमर्थवस्थाधानयोग्यो[५५०] भवति । द्वितीये विरुद्धम्
असमर्थं करोति । तृतीये त्वसमर्थे निवृत्ते तद्देशमाक्रामति ।


__________टिप्पणी__________

[५५०] स्थाधाने योग्यो; -स्थानयोग्यो
___________________________


तत्रालोको गतिधर्मा क्रमेण जलतरङ्गन्यायेन [५५१]देशम् [५५२]आक्रामन् यदाऽन्धकारनिरन्तरम्[५५३] आलोकक्षणं जनयति तदाऽऽलोकसमीपवर्त्तिनमन्धकारमसमर्थं जनयति । ततोऽसामर्थ्यं तस्य यस्य समीपवर्त्त्यालोकः । [५५४]असमर्थे निवृत्ते [५५५]तद्देशो जायत आलोक इत्येवं क्रमेणाऽऽलोकेनान्धकारोऽपनेयः । तथोष्णस्पर्शेन शीतस्पर्शो निवर्त्तनीयः ।


__________टिप्पणी__________

[५५१] तद्देशमा-
[५५२] आक्रामयन्
[५५३] कारे निर्-
[५५४] असमर्थ्ये, असामर्थ्ये
[५५५] तादृशो
___________________________








किमतः सिद्धमित्याह तथा चेति कारणवैकल्यकारिणो विरोधावगमप्रकारे सति । किञ्चित्करत्वमेव तथा हीत्यादिना दर्शयति । यथा चास्य जनकत्वं तथानन्तरमेव व्यक्तीकरिष्यते ।

ननु किं कतिपयक्षणसहितयोः पश्चान्निवर्त्त्यनिवर्त्तकभावेन विरोधोऽथ वान्यथेत्याशङ्क्याह सहेति । चो यस्मात्ततस्तस्मात् । न केवलं बहुषु क्षणेष्वित्यपिशब्दः । सहावस्थानमेकत्र स्थितिः । निकटावस्थानं तु न परिहर्त्तव्यमिति बुद्धिस्थम् । परिहर्त्तव्यं नाङ्गीकर्त्तव्यम् । तयोरेकस्मिन्नपि क्षणे सहस्थित्यभावात्कथमेवमङ्गीक्रियते ? अत एव । न सहस्थितयोः पश्चाद्विरोध इति वा कृतमनेन ।

यद्येवं क्वचित्प्रदेशे वर्त्तमान आलोकस्त्रिलोकीव्यवस्थितानि तमांस्यनेनैव क्रमेणापनयेदिति न क्वचित्तमांस्यवतिष्ठेरन्नित्याह --- निकटस्थयोरिति ययोर्निवर्त्त्यनिवर्त्तकभावो दृष्टस्तयोर्निकटस्थयोरेव न तु निकटस्थयोरवश्यं निवर्त्त्यनिवर्त्तकभाव इत्यस्यार्थो द्रष्टव्यः । तयोरेव कथं तथाभाव इत्याशङ्कायां दूरस्थयोरिति योज्यम् । चोऽवधारणे । यतः किञ्चित्करस्यैव निवर्त्तकत्वंतस्माधेतोः परंप्रकृष्टं यथा भवति । एतदेवोपपादयन्नाह --- प्रथम इति सन्नियतन्निकटीभवन्निवर्त्तक इति प्रकरणात् । असमर्था चोपादेयक्षणनिर्माणे अशक्तावस्था यस्यान्धकारक्षणस्य
तस्याधानमुत्पादनम्, तत्र योग्यः समर्थो भवति । द्वितीये क्षणे इत्यनुवर्त्तते । विरुद्धमन्धकारसमर्थं सजातीयक्षणान्तरजननाक्षमं करोति । तृतीये क्षणेऽसमर्थे तस्मिन्

[ध्प्र्२००]

यदा त्वालोकस्तत्रैवान्धकारदेशे जन्यते तदा यतः क्षणादन्धकारदेशस्यालोकस्य जनकः[५५६] क्षणः उत्पद्यते तत एवान्धकारोऽन्धकारान्तरजननासमर्थ[५५७] उत्पन्नः । [५५८]ततोऽसमर्थावस्थाजनकत्वमेव निवर्त्तकत्वम् ।


__________टिप्पणी__________

[५५६] जनकक्षणः
[५५७] अन्धकारान्तरासर्थः; अन्धकारान्तराजननासर्थः
[५५८] ततोऽसामर्थ्याव-
___________________________




अतश्च यस्मिन् क्षणे जनकस्ततस्तृतीये क्षणे निवृत्तो विरुद्धो यदि शीघ्रं निवर्त्तते ।

जन्यजकभावाच्च [५५९]सन्तान्योर्विरोधो न क्षणयोः । यद्यपि च न सन्तानो नाम वस्तु तथापि सन्तानिनो वस्तुभूताः । ततोऽयं परमार्थः न क्षणयोर्विरोधः । अपि तु बहूनां


__________टिप्पणी__________

[५५९] सन्तनयोः
___________________________




वन्ध्यक्षणे निवृत्ते स्वरसतो निरुद्धे तद्देशं तस्यासमर्थक्षणस्य देशं स्थानमाक्रामति, तद्देशो भवति निवर्त्तक इत्यर्थात् ।

इह कश्चिन्निवर्त्तक आलोको यामेव दिशमाक्रामति तद्दिग्वर्त्तिनमेव स्वविरुद्धं गतिक्रमेणैव निवर्त्तयति । कश्चित्पुनर्विरुद्धावष्टब्ध एव देशे समुत्पन्नमात्र एवानेकदिग्वर्त्तिनं विरुद्धं झटिति निवर्त्तयति । तत्र न ज्ञायते कस्य कथं किञ्चित्करतया निवर्त्तकत्वमित्याह तत्रेति वाक्योपक्षेपे । देशमभिमतं स्थानमाक्रामंस्तद्देशो भवन्नालोक इत्यर्थः । अन्धकारनिरन्तरमन्धकाराव्यवहितम् । आलोकसमीपवर्त्तिनमिति तज्जन्यमानालोकसमीपवर्त्तिनम् । असमर्थमन्धकारान्तरजननाशक्तं जनयति। यत एवं ततस्तस्य जनकत्वम् । ततस्तस्मात्समीपवर्त्त्यालोक इति गतिधर्मेति द्रष्टव्यम् । असामर्थ्यं चोपादेयक्षणोपजननं
प्रतीति प्रस्तावादवसेयम् । असमर्थे तस्मिन्नन्धकारे निवृत्ते स्वरसतो विरुद्धे (निरुद्धे) सति । सोऽसमर्थान्धकारक्षणदेशो देशो यस्य स तथा जायते आलोकः । इतिस्तस्मात् । एवमनन्तरोक्तेन क्रमेण परिपाट्या गतिधर्मालोकस्तद्देशाक्रमणाय सन्निपतन्नसमर्थावस्थाधानयोग्यो भवति । द्वितीये क्षणेऽसमर्थं जनयति । तृतीये तद्देशो जायत इत्यनन्तरोक्तः क्रमो विभज्य योजनीयः ।

अमुमेव क्रममन्यत्रादिशन्नाह --- तथेति । यथा आलोकान्धकारयोर्निवर्त्त्यनिवर्त्तकभावस्तेन प्रकारेण उष्णस्पर्शेन गतिधर्मेण दृष्टान्तवशाद्द्रष्टव्यम् ।

गतिधर्मणस्तावदालोकस्यायं क्रमः । विरुद्धाक्रान्तदेशमध्योत्पन्नस्य कीदृश इत्याह यदेति । तुर्विशेषणार्थः । यतः क्षणादालोकस्य जनकः क्षण उत्पद्यते । कीदृशस्यालोककणस्येत्याह अन्धकारेति । अन्धकारदेशस्य निवर्त्त्यान्धकारसम्बन्धी देशो यस्य स तथा तत एव तमोदेशालोकोत्पादक्षणयोरेकसामग्र्यधीनतामाह । यतोऽन्धकारदेशालोकहेतूत्पादकस्य क्षणस्य वन्ध्यान्धकाराधायकत्वतो हेतोरविद्यमानं सजातीयजन्मनि सामर्थ्यं यस्या अवस्थाया अन्धकारसम्बन्धिन्याः सा तथा । तज्जनकत्वमेवालोकस्येति प्रकरणात् ।

अत्रापि तृतीये क्षणे परं निवर्त्तकत्वमिति दर्शयन्नाह अतश्चेति । चोऽवधारणे । अत्रापि प्रथमे क्षणेऽन्धकारदेशालोकहेतूत्पादकः क्षणः समुद्भवन्नेवान्धकारासमर्थावस्थातद्देशालोकहेतुजननयोग्यो

[ध्प्र्२०१]

क्षनानाम् । यतः सत्सु दहनक्षणेषु प्रवृत्ता अपि शीतक्षणा निवृत्तिधर्माणो भवन्तीति सन्तानयोर्निवर्त्त्यनिवर्त्तकत्वनिमित्ते च विरोधे स्थिते सर्वेषां परमाणूनां सत्यप्येकदेशावस्थानाभावे न विरोधः, इतरेतरसन्तानानिवर्त्तनात्तेषाम् । गतिधर्मा चालोको [५६०]यां दिशमाक्रामति [५६१]तद्दिग्वर्त्तिनो विरोधिसन्तानान्निवर्त्तयति । ततोऽपवरकैकदेशस्था प्रदीपप्रभा [५६२]ऽन्ध्कारनिकटवर्त्तिन्यपिनान्धकारंनिवर्त्तयति अन्धकाराक्रान्तायांदिश्यालोकक्षणान्तरजननासामर्थ्यात् । कारणासामर्थ्यहेतुत्वकृतं[५६३] सन्ताननिष्ठमेव विरोधं दर्शयता [५६४]<भवत >इति कृतम् । भवतः प्रबन्धेन[५६५] प्रवत्तमानस्य [५६६]शीतस्पर्शसन्तानस्याभावो
ऽन्यस्योष्णसन्तानस्य भावे सतीति ।


__________टिप्पणी__________

[५६०] दिशं क्राम-
[५६१] तद्विवर्त्तिनः
[५६२] अन्धकारायाक्रान्तायां
[५६३] हेतुकृतं
[५६४] भवतेति
[५६५] -न्धेन वर्त्त-
[५६६] -स्य सन्तान-
___________________________










भवति । द्वितीयेऽन्धकारदेशालोकोत्पादकक्षणविरुद्धानन्धकारानसमर्थान् जनयति । तृतीये त्वसमर्थेषु निवृत्तेषु तद्देश आलोको जायत इति प्रत्येतव्यम् । तथा शीताक्रान्तदेशमध्योत्पन्नेनोष्णस्पर्शेन स्थितधर्मणा तथैव शीतस्पर्शो निवर्त्तनीय इत्यपि द्रष्टव्यम् ।

ननु च येनालोकक्षणेन सन्निपति(पत)तान्धकारक्षणोऽसमर्थो न तेन तद्देश आक्रम्यते । येन चाक्रम्यते न तेनासमर्थो जन्यते । तथा योऽन्धकारस्तत्सन्निपतनकालभावी नासौ तद्विरुद्धः । यश्चासमर्थस्तज्जन्मा सोऽपि तज्जन्यत्वादविरोधी । ये चानुत्पत्तिधर्माणस्तेऽप्यसत्त्वात्कथं तैर्विरुद्धा इत्याशङ्क्याह जन्यजनकभावादिति । चोऽवधारणे सन्तानयोरित्यस्यानन्तरं द्रष्टव्यः ।

अयमाशयः --- जन्यजनकभावविशेष एवायं निवर्त्त्यनिवर्त्तकभावः अर्वाग्दर्शी च न क्षणयोः कार्यकारणभावं विभावयितुं विभवति । अपि तु सन्तानयोस्ततोऽन्धकारक्षणप्रबन्धमेकत्वेनावसाय निवर्त्त्यं विरुद्धमध्यवस्यालोकक्षणप्रबन्धं चैकत्वेनाधिमच्य तद्विरोधिनमधिमुञ्चतीति ।

परमार्थदृष्ट्या चेदं क्षणोल्लेखेनाख्यायते । न तु लोकस्थित्याश्रयेण । न तर्हि परमार्थतो विरोध इति चेत् । किं वै कार्यकारणभावविशेष एवैवंविधो न विद्यते, येनैवं वक्तुमध्यवसितो भवानिति ? एतच्चानन्तरमेव निरूपयिष्यते ।

ननु न सन्तानिव्यतिरेकेण सन्तानो नामान्यः सम्भवी । तत्कथं द्वयोः सन्तानयोर्विरोध उच्यत इत्याह यद्यपीत्यनुमतौ । यतः सन्तानिनो वस्तुभूताः सन्ति ततो हेतोरयं वक्ष्यमाणकः । उपपत्तिमाह यत इति । यस्माद्ग(शी)तक्षणप्रबन्धस्याभावान्निवृत्तिधर्मकत्वम् । तथा यतः सत्स्वालोके(क)क्षणेषु प्रवृत्ताप्यन्धकारक्षणान्(-णा) निवृत्तिधर्माणो भवन्तीति द्रष्टव्यम् । अन्धकारादिक्षणप्रबन्धस्य[५६७](आलोकादिक्षणप्रबन्धस्य) आलोकादिक्षणप्रबन्धेन सह विरोध इति प्रकरणार्थः ।


__________टिप्पणी__________

[५६७] कोष्ठकान्तर्गतः पाठः व्यर्थः --- सं-
___________________________


[ध्प्र्२०२]

ये त्वाहुर्न विरोधो वास्तव इति त इदं वक्तव्याः --- यथा न निष्पन्ने कार्ये कश्चिज्जन्यजनकभावो



यदि येन सह यस्यैकदेशास्थितिनं भवति तेन तस्य सहानवस्थानलक्षणो विरोधस्तर्हि सर्व एव परमाणवः सप्रतिघत्वादन्योन्यदेशपरिहारेण वर्त्तन्त इति सर्वेषामेव परमाणूनामयं विरोधः किन्न व्यवस्थाप्यत इत्याशङ्क्याह --- सन्तानयोरिति । चोऽवधारणे । हेतुमाह --- इतरेतरेति । यतः सत्स्वपि तेषु सर्व एव सन्तानेन प्रवहन्ति ततः सन्तानानिवर्त्तनं तेषाम् ।

ननु यद्यालोकान्धकारयोर्निवर्त्त्यनिवर्त्तकभावेन विरोधस्तर्हि प्रदीपमल्लिकातलवर्त्त्येव वरकात्माण निवर्त्ती (?) अन्धकारस्तत्समीपवर्त्तिनालोकेन किन्न निवर्त्त्यत इत्याशङ्क्याह --- गतिधर्मेति । चो यस्मादर्थे । तद्दिग्वर्त्तिन एवेत्यर्थाद्द्रष्टव्यः । यतो यद्दिगभिमुखगतिरालोकस्तदाक्रम्यमाणदिग्वर्त्तिन एव विरोधिसन्तानान्निवर्त्तयति । ततस्तस्मात्कारणात् ।

कुतो न निवर्त्तयतीत्याह अन्धकारेति । अन्धकाराक्रान्तायामित्यनेन दिशोऽन्त(न्ध)काराक्रान्तत्वमालोकक्षणान्तराजननासामर्थ्यकारणं नोक्तम् । किन् तर्हि? वास्तवानुवादः कृतः । या सा दिगन्धकाराक्रान्ता दृश्यते तत्र तस्य तज्जननासामर्थ्यादित्यर्थः । अन्यथान्धकाराक्रान्तत्वमेव तस्य न स्यात् । आलोकेन समीपवर्त्तिनान्धकारापनयासम्भवादिति कथमेनं संगच्छेत ।

अयमत्र परमार्थः --- दृश्यते तावत्काचिदन्धकारमात्रा निकटस्थितेनाप्यालोकेनानिवर्त्तिता । दृश्यश्चान्यस्याववरकवर्त्तिनोऽन्धकारप्रचयस्योच्छेदः । तस्मादालोकस्यालोकान्तरजननासामर्थ्यमन्यत्र तु सामर्थं तत्त्वचिन्तकैरचिन्त्यत्वात्प्रतीत्यसमुत्पादस्य कल्प्यत इति । अत एव ययोर्जन्यजनकभावेन निवर्त्त्यनिवर्त्तकभावो नास्ति तयोः प्रदीपमल्लिकादितलवर्त्त्यन्धकारतदासन्नालोकयोर्विरोधः । प्रायोवृत्त्या तु तौ विरोधेनावबुद्ध्येते । अत एव पूर्वं दूरस्थयोर्विरोधाभावाच्च निकटस्थयोरेव निवर्त्त्यनिवर्त्तकभावः इत्युक्तम्, न तु निकटस्थयोर्निवर्त्त्यनिवर्त्तकभाव एव इति । सति निवर्त्त्यनिवर्त्तकत्वे निकटस्थयोरेव न तु निकटस्थयोरवश्यं निवर्त्त्यनिवर्त्तकभावः इति च व्याख्यातमेव ।

सम्प्रति जन्यजनकभावनिबन्धनं सन्तानगतमेव च विरोधं स्वयं प्रतिपादितम् <आचार्य>स्याप्यभिप्रेतमेतदिति दर्शयन्नाह कारणैरिति (कारणेति) । कारणस्य निवर्त्तयितव्यस्य शीतस्पर्शादेरसामर्थ्यं सजातीयक्षणनिर्माणेऽशक्तत्वं तत्र यद्धेतुत्वं निवर्त्तकस्य तत्कृतं तत्प्रयुक्तम् । अत एव सन्ताननिष्ठं सन्ताने क्षणप्रबन्धे निष्ठा व्यवस्थाप्यतया पर्यवसानं यस्य तं दर्शयता प्रकाशयता<चार्येणे>त्यर्थात् ।

ये पुनः <शान्तभद्रादयः> "न तावदालोकादेरुत्पन्नेनान्धकारादिना विरोधः, तस्यातीतत्वेनासत्त्वात् । न चोत्पित्सुना सह तस्याप्यनागततयासत्त्वात् । नापि वर्त्तमानेन तस्यापि तज्जन्मतयाविरोधित्वात् । तस्मान्न विरोधो नाम द्विष्ठः सम्बन्धोऽस्ति । किन् तु काल्पनिक एव । अत एव्<आचार्येण> विरोधगतिरित्यभिधायि । न तु विरोध" इति । इति व्याख्यातवन्तस्तान् वचनभङ्ग्या निराचिकीऋषुराह ये त्विति ।

[ध्प्र्२०३]

नाम [५६८]द्विष्ठोऽस्ति । कारणपूर्विका तु कार्यवृत्तिः[५६९] । अतो वास्तव एव । तद्वत्न निवृत्ते वस्तुनि कश्चित्[५७०]द्विष्ठो नाम विरोधोऽस्ति । दहननिमित्तं तु शीतस्पर्शस्य [५७१]क्षाणातरजननासामर्थ्यम् । अतो[५७२] विरोधोऽपि वास्तव एव ॥


__________टिप्पणी__________

[५६८] दृष्टोऽस्ति
[५६९] कार्यप्रवृत्तिः
[५७०] कश्चिदिष्टो; कश्चिद्दृष्टो
[५७१] क्षणान्तरासाम-
[५७२] ततो
___________________________






उदाहरणमाह ---

शीतौष्णस्पर्शवत् इइइ-७४

<[५७३]शीतश्>च्<ओष्णशश्>चतावेव <स्पर्शौ >तयोरिव । शितोष्णस्पर्शयोर्हि पूर्ववद्विरोधो योजनीयः ॥


__________टिप्पणी__________

[५७३] शीतञ्चो-
___________________________


द्व्तीयमपि विरोधं दर्शयितुमाह ---

परस्परपरिहारस्थितलक्षणतया[५७४]वा[५७५]भावाभाववत् इइइ-७५


__________टिप्पणी__________

[५७४] वा--- ओम्.
[५७५] वा भाववत्
___________________________



परस्परस्य[५७६] <परिहारः >पृष्ठअरित्याग्स्तेन <स्थितं लक्षणं >रूपं ययोस्तद्भावः <परपरप्रिहारस्थितलक्ष्णता> तया[५७७] ।


__________टिप्पणी__________

[५७६] परस्परं; परस्परपरि
[५७७] तया --- ओम्.
___________________________



इह यस्मिन् परिच्छिद्यमाने यद्व्यवच्छिद्यते तत्परिच्छिद्यमानमवच्छिद्यमानपरिहारेण स्थितरूपं द्रष्टव्यम् । नीले च परिच्छिद्यमाने ताद्रूप्यप्रच्युतिरवच्छिद्यते, तदव्यवच्छेदे नीलापरिच्छेदप्रसङ्गात् । तस्माद्वस्तुनो भावाभावौ परस्परिहारेण स्थितरूअपौ । नीलात्तु यदन्यद्रुपं तन्नीलाभाव्यभिचारि । नीलस्य दृश्यस्य पीतादावुपलभ्यमानेऽनुपलम्भाद्



कारणपूर्विका कारणत्वेनाभिमतपदार्थसत्तापूर्विका कार्यस्य कार्यत्वेनाभिमतस्य वृत्तिः प्रवृत्तिर्भाव इति यावत् । तुर्विशेषणार्थः । यत एवमतो हेतोर्वास्तवः पारमार्थिकः । अन्यथा कार्यकारणभावोऽप्यवास्तवोऽस्त्विति भावः ।

ननु किं कार्यकारणभावोऽपि द्विष्ठः सम्बन्धः कश्चिदिष्टो येनैवमुच्यत इति चेत् । न । कारणपूर्विकायाः कार्यवृत्तेर्वास्तवत्वात् । इहापि तर्हि दहनादिनिमित्तं शीतस्पर्शादेर्जननासामर्थ्यं वास्तवमस्तु । न तु विरोधः सम्बन्ध इति चेत् । न । एतावतोऽन्यस्मात्कार्यकारणभावादस्य कार्यकारणभावस्य विशेषरूपत्वाभ्युपगमात् । अस्माभिरपीदृश एव कार्यकारणभावविशेषो विरोध इत्युच्यत इति कथमयमवास्तवः स्यादिति ।

पूर्ववत्पूर्वोपदर्शितवत् ।



[ध्प्र्२०४]

अभावनिश्चियात् । यथा च नीलं[५७८] स्वाभावं परिहरति, [५७९]तद्वदभावाव्यभिचारि पीतादिकमपीति[५८०] । तथा च भावाभावयोः साक्षाद्विरोधः[५८१], वस्तुनोस्त्वन्योन्याभावाव्यभिचारित्वाद्विरोधः ।


__________टिप्पणी__________

[५७८] नीलमभावं
[५७९] तमिव अभाववत्--- टि-
[५८०] अपि । तथा
[५८१] विरोधौ; साक्षाद्विरोधः कः कस्य
___________________________





कस्य चान्यत्राभावावसायः? यो नियताकारोऽर्थः[५८२], तस्य । न त्वनियताकारः[५८३], क्षणीकत्वादिवत् । क्षणीकत्वं हि सर्वषां नीलादीनां स्वरूपात्मकम् । अतो न नियताकारम् । [५८४]यतः क्षणिकस्त्वपरिहारेण न किञ्चिद्दृश्यते ।


__________टिप्पणी__________

[५८२] अर्थः, न तु
[५८३] -कार्प्ऽर्थः क्ष-
[५८४] अतः; ’प्रत्यन्तरे यतः इतिऽ इति टिप्पणं वर्त्तते
___________________________






ननु सर्वमेव वस्तु सत्त्वरजस्तमोरूपेणैकमिति कथमन्योन्यरूपपरित्याग इत्याह इहेति । यद्व्यवच्छिद्यते यत्र परिच्छिद्यते । अपरिच्छेदस्यैव व्यवच्छेदरूपत्वात् । अवच्छिद्यमानपरिहारेण व्यवच्छिद्यमानपरिहारेण स्थितं व्यवस्थितं रूपं स्वरूपं यस्य तत्तथा । किं पुनरिदं प्रसिद्धमित्याह नीलमिति । चो यस्मात् । तदेव रूपं तद्रूपम्, तद्रूपमेव ताद्रूप्यं तस्य प्रच्युतिरभावो व्यवहर्त्तव्यैकरूपः प्रसज्यप्रतिषेधात्मा तुच्छरूपः । उपपत्तिमाह --- तद्व्यवच्छेद इति । यत एवं तस्मात्कारणात् । यदि भावाभावयोर्विरोधः, न तर्हि नीलपीतयोः स स्यादित्याह नीलादिति । तुर्विशेषद्योतकः । अभावाव्यभिचारित्वमेव
साधयन्नाह --- नीलस्येति । भवत्येवं नीलस्य पीतादावभावः, न तु तत्परिहारेण तद्व्यवस्थितमित्याह यथेति । चो यस्मादर्थे । नीलं कर्तृ स्वाभावं स्वभावं (?) स च मानभावश्च (?) तं न व्यभिचरतीति तथा । एवं सति किं व्यवस्थितमित्याह तथा चेति नीलस्य साक्षात्स्वाभावपरिहारप्रकारे तदव्यभिचारित्वादर्थान्तरपरिहारप्रकारे च सति ।

न तु (ननु) यद्यदभावाव्यभिचारि यत्(तत्) तत्तेन विरुध्यते । तस्य न तदात्मकत्वेनाभावावसायस्तादात्म्याभाव(आ)वसायफलत्वादन्यस्य विरोधस्य । तर्हि क्षणिकत्वमपि नीलाभावाव्यभिचारित्वान्नीलेन विरुद्ध्यमानं न नीलात्मकं स्यात् । तदपि नीलाभाववदेव अन्यथा क्षणिकत्वं नीलात्मतैव स्यात् । तथा च यावत्क्षणिकं तावन्नीलमिति कृत्स्ना त्रिलोकी नीलैव स्यादिति मनसि निधायाह कस्य चेति । तुशब्दार्थश्चकारः ।

परमुखेन प्रश्नं कृत्वा प्रश्नविसर्जनमाह य इति । नियतस्य प्रतिनियतस्य वस्तुन आकारः स्वरूपमिति विग्रहीतव्यम् । एतदेव व्यतिरेकमुखेणाह न त्विति । न पुनरनियतस्य सर्ववस्तुस्वरूपात्मकस्य । तदेव दर्शयति क्षणिकत्वादिवदिति । आदिशब्दात्परमाणुमयत्वादिपरिग्रहः । अनेनैतदाह --- अभावाव्यभिचारित्वेऽपि नियताकारेण तेन सम(म)स्य विरोधो नानियताकारेणेति ।

अनियताकारत्वमस्योपपादयन्नाह क्षणिकत्वं हीति । हिर्यस्मादर्थे । सन्मात्रानुबन्धित्वात्क्षणिकस्येत्यभिप्रायः । यत एवमतः कारणात् । न त्वयमर्थः --- नियतः प्रतिनियत

[ध्प्र्२०५]

यद्य् एवमभावोऽपि न नियताकारः । [५८५]कथं नियताकारो नाम? यावता वस्तुरूपविविक्ताकारः कल्पितोऽभावः । ततो दृष्टं कल्पितं वा नियतं रूपमन्यत्रासदित्यवसीयते[५८६] । नानियतम् । एवं [५८७]नित्यत्वपिशाचादिरपि नियताकारः कल्पितो दृष्टव्यः । एकात्मत्वविरोधश्[५८८] चायम् । ययोर्हि [५८९]परस्परपरिहाएणावस्थानं तयोरेकत्वाभावः ।


__________टिप्पणी__________

[५८५] कथं न निय-
[५८६] -त्राऽसदवसीयते
[५८७] नित्यत्वे पिशाच-
[५८८] एकात्मकत्व-
[५८९] परस्परेणाव-
___________________________








आकारो यस्येति । एवं हि क्षणिकत्वादेरपि नियताकारत्वं स्यात् । तथा हि परमसङ्कुचितकालवर्त्तिरूपत्वेन नियताकारत्वात् । <धर्मोत्तरो>ऽपि क्षणिकत्वं हि सर्वेषां नीलादीनां स्वरूपात्मकमिति ब्रुवाणो नियताकार इत्यत्र षष्ठीतत्पुरुषमभिव्यनक्ति इतरथा क्षणिकत्वस्य हि सर्वो नीलादिः स्वरूपमित्यभिदध्यादिति । एवञ्चा (च) क्षणिकस्यापि न नीलेऽभावावसायस्तस्य सर्वनीलादिवस्त्वात्मकत्वेनानियताकारत्वात् । येन च क्षणिकं कल्पितं न तेन प्रतिनियतवस्त्वात्मक (कं) कल्पितमत एव नीलग्राहि प्रत्यक्षं क्षणिकत्वाक्षणिकत्वयोरुदासीनं नीलमात्रे
प्रमाणम् । तथा च नीलस्याक्षणिकत्वपरिहारेणावस्थानं क्षणिकत्वसिद्धेः प्राङ्निश्चेतुमशक्यमिति न्यायबलात्प्राप्तम् ।

एवञ्चाविरोधरूपविवेचके <धर्मोत्तरे> सत्यपि ये केचिद्द्विष्यमानजल्पमहोदधिप्रभृतयो विरोधचोद्यपरिजिहीर्षया परस्परपरिहारस्थितलक्षणं विरोधं परिहारीकुर्वन्ति तैरयं कस्य चान्यत्राभावावसा[यः ।] यो नियताकारो न त्वनियताकारः क्षणिकत्वादिरिति <धर्मोत्तर>स्य ग्रन्थो न दृष्टो न चार्थस्य समीचीनिधिस (?) ज्ञात इति लक्ष्यते ।

यद्ययमपरिहारः, कस्तत्र परिहार इति चेत् । यथैतत्परिह्रियते तथा <विशेषाख्यान> एवास्माभिरभ्यधायीति तत एवापेक्षितव्यम् । इह पुनरप्रकृतत्वान्नोच्यत इति ।

यदि नियताकारं वस्तु परिहरति नानियताकारम्, तर्हि भावो नाभावं परिहृत्य तिष्ठेत्तस्यानियताकारत्वादित्याशङ्कमान आह यद्येवमिति । एवञ्चेदभ्युपगम्यते तदेत्यर्थात् । न केवलं क्षणिकत्वादीत्यपिशब्दः । कथमिति सिद्धान्ती ।

यावतेति तृतीयान्तप्रतिनिरूपको निपातोऽत्र यस्मादित्यस्यार्थो वर्त्तते । वस्तुरूपविविक्तो दृश्यनीलादिस्वभावरहित आकारो यस्येति विग्रहः ।

कल्पितग्रहणेनैतदाह नाभावो नाम कश्चित्प्रमाणसिद्धोऽस्ति । केवलं कल्पिकया बुद्ध्या तथा समारोपित इति । यत एवं तस्माद्दृष्टं प्रमाणावगतं कल्पितमागमाश्रयेणान्यथा वा समारोपितम् । अन्यत्र ततोऽन्यस्मिन्नीलादौ वानियतम्, न नीलाद्यात्मकं सत्तत्रैवास[दि]त्यवसीयते । अमुमेव न्यायमन्यत्रादिशन्नाह एवमिति । यथाभावो नियताकार एव कल्पितो नानियताकार एवं नित्यत्वमपि सर्वकालावस्थायित्वलक्षणं नियताकारमेव

[ध्प्र्२०६]

अत एव लाक्षणिकोऽयं विरोध उच्यते । लक्षणं रूपं वस्तूनां प्रयोजनमस्येति कृट्वा । विरोधेन ह्यनेन वस्तुतत्त्वं विह्बक्तं व्यवस्थाप्यते । अत एव दृश्यमाने रूपे यन्निषिध्यते तद्दृश्यमेवाभ्युपघम्य निषिध्यते तथा हि --- अभावोऽपि पिशाचोऽपि यदा पीते निषेद्धुमिष्यते तदा दृश्यात्मतया निषेध्य इति दृश्यत्वमभ्युपगम्य दृश्यानुपलब्धेरेव निषेधः । तथा च सति रूपे परिच्छिद्यमान एकस्मिंस्तदभावो दृश्यो व्यवच्छिद्यते । [५९०]यच्च तदभाववन्नियताकारं


__________टिप्पणी__________

[५९०] अथ यत्तदभाववत्पा(पी)ताद्तत्कथं व्यवच्छिद्यते इत्याह --- टि-
___________________________




कल्पितम्, न तु सर्वस्य नीलादेः । अक्षणिकत्वं तु सर्वस्य नीलादेः स्वरूपात्मकं सर्वस्यैवानेकक्षणस्थायित्वात् । न चाक्षणिक एव नित्यः, सतोऽकारणस्याकाशादेः कियत एव तथात्वात् । तथा पिशाचत्वमप्यस्थिस्नायुमयसूचीवक्त्रादिरूपस्यैव स्वरूपं कल्पितमिति । तस्यापि नीलाकारत्वान्नीलादिना (ता) । अयं विरोधः । यद्वा नियतः प्रतिनियत आकारः स्वभावो यस्य स तथा निषेधेनानियताकारः । तदा तु सर्वनीलाद्यनात्मकत्वसर्वनीलाद्यात्मकत्वे नियताकारत्वानियताकारत्वे वाच्ये । तेन न क्षणिकत्वादौ नियताकारत्वस्य प्रसङ्गः । सर्वेषां स्वरूपात्मकमिति च विवरणमर्थभेदेन नेयम्
इति ।

ननु चानेनापि विरोधेन विरोधिनोः सहावस्थानं निषिध्यते । पूर्वेणापि परस्परपरिहारवस्थानं प्रतिपाद्यत इति कथमन्योन्यान्यान्तर्भाव इत्याशङ्क्याह एकात्मत्वेति । चो यस्मादर्थे । विरुद्धयोरेकात्मनिषेधको विरोध एकात्मविरोध उक्तः । कथमस्य तथात्वमित्याह --- ययोरिति । हिर्यस्मादर्थे ।

यत एतेन विरोधेन विरुद्धयोरेकात्मत्वं निषिध्यते अत एवास्मादेव कारणात् । कथमीदृशो विरोधो भवता लाक्षणिकशब्देनाभिधीयते इत्याह लक्षणमिति । विभक्तस्वरूपं प्रयोजनं व्यवस्थाप्यतया साध्यम्, प्रयुज्यते अनेन इति वा प्रयोजनं प्रयोजकस्य । इति कृत्वा एवं व्युत्पाद्य ईदृश्या व्युत्त्पत्त्येति यावत् ।

कथमेतत्प्रयोजनमित्याह विरोधेनेति । हीति यस्मात् । विभक्तमन्येन विभक्तं यतोऽनेनेति विरोधेन नीलादेर्विभक्तरूपव्यवस्थापनादन्येन सहैकात्म्यं निषिध्यते । अत एवास्मादेव कारणात् । दृश्यमाने रूपे प्रतीयमाने वस्तुस्वरूपे यन्निषिध्यते दृश्यमानात्मकत्वेन प्रतिषिध्यते ।

ननु दृश्ये वस्तुनि दृश्यान्तरस्य दृश्यत्वाभ्युपगमपूर्वको निषेधो युक्तो न त्वदृश्यस्येत्याशङ्क्याह तथा हीति । न केवलं भाव इत्यपिशब्दः । न केवलमभाव इत्यपिशब्दः । दृश्यात्मतया दृश्यपीतात्मतया निषेध्यो निषेधार्हः, नायं दृश्यमानः पीतः, अभावः पिशाचो वा ताद्रूप्येणाप्रतिभासनादित्येवं निषेधादित्यभिप्रायः । इतिर्हेतौ । दृश्यानुपलब्धेरेवान्यस्य तादात्म्येनान्यस्मिन्निषेधः ।

अथ स्यात्प्रत्यक्षमेवात्र नीलस्य पीतात्मताभावव्यवहारं करोति । तत्किमेवमुच्यते ? अथोक्तमेतददृष्टानामपि सत्त्वसंज्ञया न शक्तो व्यवहारयितुमिति चेत् । न । इह तादात्म्यनिषेधात् ।

[ध्प्र्२०७]

रूपं तदपि दृश्यं व्यवच्छिद्यते । ततः स्वप्रच्युतिवत्प्रच्युतिमन्तोऽपि व्यवच्छिन्ना इति ये परस्परैहारस्थितरूपाः सर्वे तेऽनेन निष्द्धैकत्वा इति । सत्यपि चास्मिन् विरोधे सहावस्थानं स्यादपि ।

ततो ब्बिन्नव्यापारौ विरोधौ । एकेन विरोधेन शीतोष्णस्पर्शयोरेकत्वं वार्यते । अन्येन सहावस्थानम् । बिन्नविष्यौ[५९१] च । सकले वस्तुन्यवस्तुनि च परस्परपरिहारविरोधः । वस्तुन्येव कतिपये [५९२]सहानवस्थानविरोधः । तस्माद्भिन्नव्यापारौ भिन्नविषयौ च । ततो नानयोरन्योन्यान्तर्भाव इति ॥


__________टिप्पणी__________

[५९१] भिन्नप्रवृत्तिवैषयौ
[५९२] सहावस्थान-
___________________________



स च द्विविधो अपि विरोधो वक्तृत्वसर्वज्ञत्वयोर्न सम्भवति इइइ-७६

आधेयनिषेधे ह्ययं न्यायो न तु दृश्यमानात्मतानिषेध इति । सत्यमेतत् । केवलमत्यन्तविमूढं प्रत्येतदुक्तमित्यदोषः । किमेवं सति सिद्धिमित्याह तथा च तति एकात्म्यनिषेधे सर्वस्य दृश्यात्मतया निषेधप्रकारे सति । तदभावस्तस्य परिच्छिद्यमानस्य स्वरूपस्य नीलादेरभावस्तदभावो दृश्यो दृश्यात्मकः [७१ ] सन् व्यवच्छिद्यते तादात्म्येन निषिध्यते । अयं दृश्यात्मनो नीलो नाभावः तुच्छरूपेण अभावरूपेणाप्रतिभासनादिति कृत्वा दृश्यमानरूपात्मतया निषेधादिति भावः ।

भवतु परिच्छिद्यमानाभावस्य दृश्यस्य व्यवच्छेदस्तदव्यभिचारिणस्तु निषेधे का वार्त्तेत्याह यच्चेति । अपिशब्दार्थश्चकारः । तदभावो विद्यतेऽस्येति तथा ।

यति तदभाववांस्तादात्म्येन प्रतिषिध्यते तर्हि क्षणिकत्वमपि पूर्वोक्तेण न्यायेन नीलाभाववदिति तदपि तादाम्यतया व्यवच्छेद्यं स्यादित्याह नियताकारमिति । एतच्च पूर्वमेव कृतव्याख्यानम् । यतो द्वयोरप्यभावतद्वतोर्दृश्यमानात्मतया निषेधाद्दृश्ययोरेव निषेधस्ततस्तस्मात्स्वप्रच्युतिरिव स्वाभाव इव व्यवच्छिन्ना निषिद्धतादात्म्याः । इतिस्तस्मात् । सर्वग्रहणं कार्त्स्न्यप्रतिपादनार्थम् । अनेनेति विरोधेन निषिद्धमेकत्वं येषामिति विग्रहः । विरोधे परस्परपरिहारस्थितात्मलक्षणे सहैकत्र लोकप्रतीतिसिद्धे देशेऽवस्थानं स्थितिः स्यात् । अपिः सम्भावनायाम्
। यस्मादनेन विरोधेन नैकत्रावस्थानं निषिद्ध्यते किन् त्वेकात्मकत्वम् । पूर्वेण चैकत्रावस्थानं न त्वेकात्मकत्वम् ।

ततः कारणाद्भिन्नौ नामभूतौ व्यापारौ ययोस्तौ तथोक्तौ । भिन्नव्यापारत्वमेवाणयोरेकेत्यादिना स्फुटयति । न केवलं व्यापारभेदादनयोर्भेदेनोपन्यासः । किन् तु विषयभेदादपीत्याह भिन्नविषयौ चेति । न केवलं भिन्नव्यापारौ भिन्नविषयावपीत्यपिशब्दार्थश्चकारः । भिन्नविषयत्वमेव दर्शयन्नाह सकल इति ॥

भवतूक्तलक्षणो द्विविध एव विरोधः । तथाप्यनयोरन्यतर एव विरोधो वक्तृत्वसर्वज्ञत्वयोर्भविष्यतीत्याह स चेति । चो यस्मात्सोऽयमनन्तरोक्तो द्विविधो नास्ति । अपिरतिशये ।

[ध्प्र्२०८]

<स चा>यं <द्विविधोऽपि विरोधो वक्तृत्व>ं च <सर्वज्ञत्व>ं च तयोर्न <सम्भवति> । न ह्यविकल्कारणास्य सर्वज्ञत्वस्य वक्तृत्वभावादभावगतिः[५९३] । सर्वज्ञत्वं ह्यदृश्यम् । अदृष्टस्य चाभावो नावसीयते । ततो नानेन विरोधगतिर्भवति ।


__________टिप्पणी__________

[५९३] गतिरिति
___________________________


न च वक्तृत्वपरिहारेण सर्वज्ञत्वमवस्थितम् । काष्ठादयो हि[५९४] वक्तृत्वपरिहृताः । तेषामपि सर्वज्ञत्वप्रसङ्गात् । नापि सर्वज्ञत्वपरिहारेण वक्तृत्वम् । काष्ठादीनामपि वक्तृत्वप्रसङ्गात् । तत एवाविरोधाद्[५९५]वक्तृत्वविधेर्न सर्वज्ञनिषेधः ॥


__________टिप्पणी__________

[५९४] -दयोऽपि वक्तृ; -दयोऽपि हि वक्तृ
[५९५] विधाने न सर्व-
___________________________



स्यादेतत्--- यदि नास्त्येव विरोधो घटपटयोरिव स्यादपि तयोः सहावस्थितदर्शनम्[५९६] । सहावस्थित्यदर्शनात्तु विरोधगतिः । विरोधाच्[५९७] चाभावगतिरित्याशङ्क्याह ---


__________टिप्पणी__________

[५९६] -दर्शनम् । अदर्शनात्तु
[५९७] विरोधादभा
___________________________



न च[५९८]अविरुद्धविधेरनुपलब्धावप्यभावगतिः इइइ-७७


__________टिप्पणी__________

[५९८] न च विरुद्ध-
___________________________




तत्राद्यस्य तावदभावं न हीत्यादिना दर्शयति । हीति यस्मात् । कुतो नाभावगतिरित्याह सर्वज्ञत्वं हीति । हिर्यस्मात् । अदृश्यस्यापि किं नाभावगतिरित्याह अदृष्टस्येति । चो यस्मादर्थे । यत एवं ततस्तस्मात् । अनेन वक्तृत्वेन विरोधगतिर्नास्ति तस्य सर्वज्ञत्वस्येत्यर्थात् ।

द्वितीयस्य विरोधस्य [अभावं] प्रतिपादयन्नाह न चेति । चः प्रतिषेधसमुच्चये । उपपत्तिमाह काष्ठेति । हिर्यस्मात् । कुतो वक्तृत्वपरिहारेण सर्वज्ञत्वं नावस्थितमित्याह तेषामपि काष्ठादीनां सर्वज्ञत्वस्य प्रसङ्गात्प्रसक्तेः । कुतस्तेषां तथात्वप्रसङ्ग इत्याशङ्क्य योजनीयं काष्ठादय इति । हिर्यस्मात् । काष्ठादयो वक्तृत्वेन वचनशक्त्या परिहृतास्त्यक्ताः । वक्तृत्वमेव सर्वज्ञत्वपरिहारेण व्यवस्थितं भविष्यतीत्याह नापीति । अपिः प्रतिषेधसमुच्चये । अत्रापि तामेवोपपत्तिमाह काष्ठेति । इहापि काष्ठादयो हि
सर्वज्ञत्वेन परिहृता इति द्रष्टव्यम् ।

स्यादेतत्वक्तृत्वसर्वज्ञत्वयोः परस्परपरिहारस्थितलक्षणत्वाविरोधेऽपि का क्षतिर्येन तन्निषेधः कृतः । तथा ह्यन्योन्यपरिहारेणावस्थानेऽपि यद्वक्तृत्वं तत्सर्वज्ञत्वं मा भूत्, सर्वज्ञत्वं वा वक्तृत्वम् । तयोस्त्वेकत्रस्थितिरविरुद्धैव । तदनन्तरमेवोक्तम् <धर्मोत्तरेण> सत्यपि चास्मिन् विरोधे सहावस्थानं स्यादपीति ।

तदेतदसत् । येषां हि वक्तृत्वसर्वज्ञत्वलक्षणौ धर्मिणो भिन्नावेव धर्मौ तेषामिदं शोभते न तु तथागतानां धर्मधर्मिणोर्वास्तवमभेदमिच्छताम् । तथा हि यदि वक्तृत्वं सर्वज्ञत्वपरिहृतं

[ध्प्र्२०९]

<न चाविरुद्धविधेर्> इति <अनुपलब्धावप्य्>नायं विरुद्धविधिः यद्यपि[५९९] सहावस्थानानुपलम्भस्तथापि न तयोर्विरोधः । यस्मान्न सहानुपलम्भमात्राद्विरोधोऽपि तु द्वयोरुपलभ्यमानयोर्[६००]निवर्त्यनिवर्तकभावावसायात् । तस्मादनुपलम्धावपि न वक्तृत्वविधे विरुद्धविधिः[६०१] । अतोऽस्मान्नान्यस्याभावगतिः ॥


__________टिप्पणी__________

[५९९] यद्यपि च
[६००] निर्वत्य-
[६०१] वक्तृत्वविरोधिविरुद्धविधिः
___________________________




तथा न वक्तृत्वाद्रागादिमत्त्वगतिः । यतो यदि वचनादि रागादीनां कार्यं स्याद्वचनादे रागादिगतिः स्यात् । रागादिनिवृत्तौ वचनादिनिवृत्तिः[६०२] स्यात् । न च कार्यम् । कुतः ---


__________टिप्पणी__________

[६०२] वचननिवृत्तिः
___________________________


रागादीनां वचनादेश्च कार्यकारणभावासिद्धेः इइइ-७८

<रागादीनां वचनादेश्च कार्यकारणभावासिद्धेः> कारणान्न कार्यम् ।तोऽस्मान्न गतिः ॥

मा भूद्रागादिकार्य वचनं सहचारि तु भवति । ततो रागादौ सहचारिणि निवृत्ते निवर्त्तते[६०३]वचनमित्याशङ्क्याह ---


__________टिप्पणी__________

[६०३] निवर्त्तिष्यते
___________________________

अर्थान्तरस्य[६०४]चाकारणस्य निवृत्तौ न वचनादेर्निवृत्तिः इइइ-७९


__________टिप्पणी__________

[६०४] वा कारण-; वाऽकारण-
___________________________


<अर्थान्तरस्य [६०५]चाकारणस्य निवृत्तौ >सहचारित्वदर्शनमातेण नान्यस्य वचनादेर्निवृत्तिः । अतो वक्तृत्वं भवेद्रागादिविरहश्च ॥


__________टिप्पणी__________

[६०५] वा कारण-; वाऽकारण-
___________________________


इति सन्दिग्धव्यतिरेको[६०६]अनैकान्तिको वचनादिः इइइ-८०


__________टिप्पणी__________

[६०६] सन्दिग्धव्यावृत्ते(त्ति) काऽनै-
___________________________




स्यात्तदा वक्तृत्वस्य वक्तुरभेदात्सर्वज्ञत्वस्य च सर्वज्ञाद्, वक्तैव सवज्ञो न स्यात्, सर्वज्ञ एव वा वक्तेति युक्तमनयोः परस्परपरिहारस्थितलक्षणताभावप्रतिपादनमिति ।

यदि नास्त्येव विरोधः सहानवस्थाणलक्षण इति द्रष्टव्यम् । अन्यथा घटपटयोर्दृष्टान्तता न स्यात् । उपसंहारे चायमर्थो व्यक्तीकरिष्यते । उक्तं विरुद्धत्वे सहावस्थानादर्शनं कारणम्, तत्किमेवमुच्यत इत्याशङ्क्याह यद्यपीति । तथापि तेनापि प्रकारेण । अतो हेतोरस्माद्वक्तृत्वादन्यस्य सर्वज्ञत्वस्य नाभावपतिपत्तिः ॥

यथा वक्तृत्वादसर्वज्ञत्वगतिर्नास्ति तथा वक्तृत्वाद्रागादिमत्त्वस्यापि गतिर्नास्तीति जिज्ञापयिषुराह तथेति । आदिग्रहणाद्द्वेषादिपरिग्रहः ।

रागादिशब्दसन्निधानाद्रागादि सहचारीति बोद्धव्यम् । यथा सन्दिग्धविपक्षव्यावृत्तिकसाधनदोषस्तथा प्रागेवाभिहितमिति न पुनरुच्यते ॥

[ध्प्र्२१०]

<इति>शब्दस्तस्म्यादर्थे । [६०७]तस्मादसर्वज्ञत्वविपर्ययाद्विपक्षात्सर्वज्ञत्वाद्, रागादिमत्त्वविपर्ययादरागादिमत्त्वात्सन्दिग्धो व्यतिरेको वचनादेः ।[६०८] अतोऽनैकान्तिको वचनादिः ॥


__________टिप्पणी__________

[६०७] तस्मादसर्वज्ञत्वावीतरागत्वविपर्ययाद्विपक्षात्सर्वज्ञत्वा(त्व)वीतरागादिमत्त्वात्सन्दिग्धो; तस्मादसर्वज्ञरागादिमत्त्वविपर्ययात्विपक्षात्सर्वज्ञत्वादरागादिमत्त्वाच्च सन्दिग्धो
[६०८] वचनादिः
___________________________



एवमेकैकरूपादिसिद्धसन्देहे हेतुदोषानाख्याय द्वयोर्द्वयो रूपयोरसिद्धिसन्देहे हेतुदोषान् वक्तुमाम[६०९] आह ---


__________टिप्पणी__________

[६०९] कामा
___________________________


द्वयो रूपयोर्विपर्ययसिद्धौ विरुद्धः इइइ-८१

<द्वयोर्[६१०] >इति । <द्वयो रूपयोर्विपर्ययसिद्धौ> सत्त्यां <विरुद्धः >॥


__________टिप्पणी__________

[६१०] द्वयो
___________________________


त्रीणिं च रूपाणि सन्ति । ततो विशेषज्ञापनार्थम्[६११]आह ॥


__________टिप्पणी__________

[६११] ज्ञानार्थ-
___________________________


कयोर्द्वयोः इइइ-८२

<कयोर्द्वयोर्> इति ॥

विशिष्टे रूपे दर्शयति ---

सपक्षे सत्त्वस्य, असपक्षे च असत्त्वस्य, यथा कृतकत्वं प्रयत्नानन्तरीयकत्वं च नित्यत्वे साध्ये विरुद्धो हेत्वाभासः इइइ-८३

<सपक्षे सत्त्वस्य, असपक्षे च असत्त्वस्य विपर्ययसिद्धाव्> इति[६१२] सम्बन्धः । <कृतकत्वम्> इति स्वभावहेतुः । <प्रयत्नानन्तरीयकत्वम् >इति कार्यहेतुः[६१३] । <प्रयत्नानन्तरीयक>शब्देन[६१४] हि प्रयत्नानन्तरं जन्म ज्ञानं च प्रयत्नानन्तरीयकमुच्यते । जन्म जायमानस्य स्वभावः । ज्ञानं ज्ञेयस्य कार्यम् । तदिह प्रयत्नानन्तरं ज्ञानं[६१५] गृह्यते । [६१६]तेन कार्यहेतुः ।


__________टिप्पणी__________

[६१२] सिद्धिरिति
[६१३] कार्यहेतोः
[६१४] -कत्वश-
[६१५] प्रयत्नानन्तरीयकत्वग्राहकम् --- टि-
[६१६] ततः का-
___________________________








सर्वानैकानितिकप्रारानुक्त्वा विरुद्धत्वाख्यं हेतुदोषमभिदधानो <वार्तिककार>स्याभिपार्यमेवमित्यादिना दर्शयति ।

व्यक्तिभेदविवक्षया हेतुदोषानिति बहुवचनेनाह ॥

विशिष्टे रूपे द्वे दर्शयति । यदि द्वावपि स्वभावहेतू तदा किं द्वयाभिधानेन? एकेनापि स्वभावहेतुना विरुद्धत्वस्य दर्शीतत्वादित्याशङ्क्य समर्थनमाह --- कृटकत्वमिति । ननु स्वभावहेतुत्वेन प्रयत्नानन्तरीयकत्वमन्यत्र दर्शितम् । तत्कथमनेनैवमुच्यत इत्याह --- प्रयत्नेति । हिर्यस्मात् । प्रयत्नस्य पुरुषव्यापारस्यानन्तरमव्यवहितं जन्म ज्ञानं च तद्विषयमुच्यते ।

[ध्प्र्२११]

एतौ हेतू नित्यत्वए साध्ये विरुद्धौ हेत्वाभासौ ॥

कस्मात्पुनरेतौ विरुद्धावित्याह ---

अनयोः सपक्षे असत्त्वम्, असपक्षे च सत्त्वमिति विपर्ययसिद्धिः[६१७] इइइ-८४


__________टिप्पणी__________

[६१७] -द्धिरिति
___________________________


<अनयोर्> इति । <सपक्षे >हि[६१८] नित्ये कृतकत्वप्रयत्नानन्तरीयकत्वयोरसत्त्वमेव निश्चितम् । अनित्ये विपक्षे एव <सत्त्वं> निश्चितमिति विपर्ययसिद्धिः ॥


__________टिप्पणी__________

[६१८] हि --- ओम्.
___________________________


कस्मात्पुनर्विपर्ययसिद्धावप्येतौ विरुद्धावित्याह ---

एतौ च साध्यविपर्ययसाधनाद्विरुद्धौ इइइ-८५

<एतौ च साध्य>स्य नित्यत्वस्य <विपर्ययम् --- >अनित्यत्वं साधयतः । ततः[६१९] <साध्यविपर्ययसाधनाद्विरुद्धौ >॥


__________टिप्पणी__________

[६१९] ततः --- ओम्.
___________________________


यदि साध्यविपर्ययसाधनाद्विरुद्धावेतौ, उक्तं च परार्थानुमाने साध्यम्, न त्वनुक्तम्; इष्टं च अनुक्तम् । अतोऽन्य इष्टविघातकृदाभ्यामिति दर्शयन्नाह ---

[६२०]ननु च तृतीयो अपि इष्टविघातकृद्विरुद्धः इइइ-८६


__________टिप्पणी__________

[६२०] तत्र च
___________________________


<ननु च तृतीयो अपि> विरुद्ध उत्कः[६२१]। उक्तविपरययसाधनौ द्वौ । तृतीयोऽयमिष्टस्य शब्देनानुआत्तस्य[६२२]विघातं करोति विपर्ययसाधनादिति <इष्टविघातकृद्> ॥


__________टिप्पणी__________

[६२१] <प्रमाणविनिश्चया>दौ --- टि-
[६२२] विधानं
___________________________



तमुदाहरति ---

यथा परार्थाश्चक्षुरादयः संघातत्वाच्छयनासनाद्यङ्गवदिति इइइ-८७



ननु प्रयत्नानन्तरीयक[त्व]शब्द उपात्तस्तत्किं प्रयत्नानानन्तरीयकशब्दस्यार्थ उच्यते इत्याह --- प्रयत्नानतरीयकत्वमिति प्रयत्नानन्तरीयकत्वशब्देनापि तदेवोक्तं वस्तुत इत्यर्थः । तेन शब्देन द्वयस्याभिधाने कदा स्वभावस्याभिधानं कदा कार्यस्येत्याशङ्क्य जन्मेत्यादिना विभजते । यतो ज्ञानस्याप्यभिधानं तत्तस्मादिह विरुद्धोदाहरणप्रक्रमे ।

अनुपलम्भस्त्वन्योरेवान्तर्भूतत्वान्न पृथगुपदर्शितः । एतयोरुदाहृतयोरेव सोऽपि सुज्ञान इति भाव उन्नेयः ।

लक्ष्यते चायम् <आचाय>स्याशयः --- सपक्षावृत्तौ सत्यां व्याप्त्याऽव्याप्त्या वा विपक्षवृत्तो विरुद्ध एवेति दर्शयितुमुभयोपादानम् । अन्यथा कृतकत्वमात्रे प्रदर्शिते सपक्षावृत्तौ विपक्षव्यापक एव यः स विरुद्धो न तु प्रय्त्नानन्तरीयकवद्यो विपक्षव्यापीति शङ्का स्यात् । तथा

























































[ध्प्र्२१२]

<यथे>ति । <चक्षुरादय >इति धर्मी । परोऽर्थः प्रयोजनं [६२३]परार्थः प्रयजकः संस्कार्य उपकर्त्तव्यो येषां ते <परार्थाः --- >इति साध्यम् । <सम्घातत्वात्>सञ्चितरूपत्वादिति हेतुः । चक्षुरादयो हि प्रमाणुसञ्चितिरूपाः[६२४] । ततः संघातरूपा उच्यन्ते । शयनमासनं चादिर्यस्य तच्<छयनासनादि >। तदेवाङ्गं पुरुषोपभोगागत्वात् । अयं व्याप्तिप्रदर्शनविषयो दृष्टान्तः । अत्र हि पारार्थ्येन संहतत्वं[६२५] व्याप्तम् । यतः [६२६]शयनासनादयः संघातरूपाः पुरुषस्य भोगिनो भवन्त्य्
उपकारका इति परार्था उच्यन्ते ॥

__________टिप्पणी__________

[६२३] परोऽर्थः प्रयोजनं सं-
[६२४] -संचयरूपाः
[६२५] संघातत्वं
[६२६] शयनादयः
___________________________





कथमयमिष्टैघातकृदित्याह ---

तदिष्टासंहतपारार्थ्यविपर्ययसाधनाद्विरुद्धः इइइ-८८

<तदिष्टासहतपारार्थयविपर्ययसाधनाद्> इति असंहते विषये पारार्थ्यमसंहतपारार्थ्यम्[६२७] । <तस्य ><साख्यस्य> वादिन इष्टमसंहतपारार्थ्य <तदिष्टासंहतपारार्थम्> । तस्य <विपर्ययः >संहतपारार्थ्यं नाम । तस्य <साधनाद्विरुद्धः >।


__________टिप्पणी__________

[६२७] -र्थ्यम् । इष्टासंहतपारार्थ्यं तस्य <सांख्य>स्य वादिन इष्टासंहत पारार्थ्यम्
___________________________


’ात्मा अस्तिऽ इति ब्रुवाणः <सांख्यः> ’कुत एतद्ऽ इति पर्यनुयुक्तो <बौद्धेने>दमात्मनः सिद्धये प्रमाणमाह । तस्मादसंहतस्यात्मन उपकारकत्वं साध्यं चक्षुरादीनाम् । अयं तु हेतुर्विपर्ययव्याप्तः । यस्माद्यो यस्योपकारकः स तस्य जनकः । जन्यमानश्च युगपत्क्रमेण वा भवति[६२८] संहतः । तस्मात्परार्थश्वक्षुरादयः [६२९]संहतपरार्था इति सिद्धम् ॥


__________टिप्पणी__________

[६२८] -भवतीति
[६२९] चक्षुरादय इति संहत-
___________________________





प्रयत्नानन्तरीयकत्वमात्रे प्रदर्शिते सपक्षावृत्तावव्याप्त्यैव यो विपक्षे वर्त्तते स एव विरुद्धो नान्य इति शङ्का स्यात्, एतावतापि [७२ ] विपर्ययसिद्धेरुपपत्तेः । यदि तु कार्यहेतुरुदाहृत इत्युच्यते, तदानुपलब्धिरप्युदाहर्त्तव्या स्यात् । न च तस्यास्तत्रान्तर्भावान्नोदाहरणमिति युक्तम्, अन्वयादिप्रदर्शनेऽपि अनुदाहरणप्रसङ्गात् । एवं <धर्मोत्तरेण> कथं न व्याख्यातमिति न प्रतीमः ॥

अर्थशब्दः प्रयोजने वृत्तस्तस्य च प्रयोजयतीति व्युत्पत्त्या प्रयोजकशब्दाभिलप्यत्वमित्यभिपेत्य परार्थः प्रयोजक इत्युक्तः । परस्मिन्नर्थः प्रयोजनं येषामिति गमकत्वाद्व्यधिकरणबहुव्रीहौ तु सर्वं समञ्जसं केवलमनेन तथा न व्याख्यातमिति न विद्मः । अङ्गं निमित्तम् । कस्य तदङ्गमित्युच्यत इत्याह --- पुरुषेति ॥

क्रमेण युगपद्वाऽपि द्वेधाप्यसंहतं द्रष्टव्यम् ।

कुतः पुनरसंहतविषयं पारार्थ्यमिष्टं <सांख्या>स्याख्यत इत्याशङ्क्याह आत्मेति । असंहतोपकारकत्वं तावच्चक्षुरादीनां तेनैषितव्यमन्यथाऽऽत्माऽसिद्धेः । यच्च तदसंहतरूपं स एवात्मेत्यभिप्रायेणोक्तमसंहतस्यात्मन इति ॥

ध्प्र्२१३]

अयं च विरुद्ध आचार्य<दिङ्नागेनो>क्तः ---

स[६३०] इह कस्मान्न उक्तः इइइ-८९


__________टिप्पणी__________

[६३०] इह --- ओम्.
___________________________


<स कस्माद्><वार्त्तिककारेण> सता त्वया <न उक्तः>? इतर[६३१] आह ---


__________टिप्पणी__________

[६३१] वार्त्तिककार --- टि-
___________________________


अनयोरन्तर्भावात् इइइ-९०

अनयोरेव साध्यविपर्ययसाधनयोरन्तर्भावात् ।

ननु चोक्तविपर्ययं न साधयति । तत्कथमुक्तविपययसाधनयोरेवान्तभाव इत्याह ---

न ह्ययमाभ्यां साध्यविपर्ययसाधनत्वेन भिद्यते इइइ-९१

<न ह्ययम्> इति । <ही>ति यस्मादर्थे । यस्माद्<अयमिष्ट>विधतकृदाभ्यां हेतुभ्यां साध्यविपर्ययस्य[६३२] <साधनत्वेन भिद्यते >। यथा तौ साध्यविपर्ययसाधनौ तथाऽयमपीति । उक्तविपर्ययं तु साधयतु[६३३] वा मा वा किमुक्तविपर्ययसाधनेन । तस्मादन्योरेवान्तर्भावः ॥


__________टिप्पणी__________

[६३२] विपर्ययसाध-
[६३३] साध्यतु मा वा
___________________________



ननु चोक्तमेव साध्यं[६३४] तत्कथं साध्यविपर्ययसाधनत्वेनाभेद इत्याह ---


__________टिप्पणी__________

[६३४] साध्ये
___________________________


न हि इष्टौक्तयोः साध्यत्वेन कश्चिद्विशेष इति इइइ-९२

<न ही>ति यस्माद्<इष्टौक्तयोः> [६३५]परस्परस्मात्<साध्यत्वेन न कश्चिद्विशेष> भेद इति । तद्मादन्योरेवान्तर्भाव इत्युपसंसारः ।


__________टिप्पणी__________

[६३५] परस्परस्य
___________________________


प्रवादिनो हि यज्जिज्ञासितं तत्प्रकरणापन्नम् । यच्च प्रकरणापन्नं तत्साधनेच्छया विषयीकृतं साध्यमिष्टमुक्तमुक्तं वा, न तूक्तमात्रमेव साध्यम् । तेनाविशेष इति ॥

द्वयो रूपयोरेकस्य असिद्धावपरस्य च सन्देहे अनैकान्तिकः इइइ-९३

द्वयो रूपयोर्[६३६] विपर्ययसिद्धौ विरुर्द्ध उक्तः । [६३७]तयोस्तु द्वयोर्मध्य एकस्यासिद्धौ, अपरस्य च सन्देतेऽनैकान्तिकः ॥


__________टिप्पणी__________

[६३६] रूपयोरसिद्धौ विरुद्धः
[६३७] अनयोस्तु द्व्ययोर्; अनयोर्द्वयोर्
___________________________





इतर इति चोदकादन्यो <वार्तिककार> इत्यर्थात् ।

न ह्यक्तविपर्ययसाधकत्वेन विरुद्ध उच्यते । किन् तर्हि? साध्यविपर्ययसाधक्तत्वेन । तास्मात्किमुक्तविपर्ययसाधनेनेत्युक्तम् ॥

तमेव साध्यतेनाभेदं साधयन्नाह --- प्रतिवादिनो हीति । हिर्यस्मादर्थे । तेन साध्येच्छया विषयीकृतमात्रस्य साध्यत्वेनाविशेषोऽभेदः ॥

[ध्प्र्२१४]

कीदृशोऽसावित्याह ---

यथा वीतरागः[६३८]कश्चित्सर्वज्ञो वा, वक्तृत्वादिति[६३९]। व्यतिरेको अत्र असिद्धः, सन्दिग्धो अन्वयः इइइ-९४


__________टिप्पणी__________

[६३८] कश्चित्--- ओम्.
[६३९] वकृत्वात् । व्य-
___________________________



<यथ्>एति । विगतो रागो यस्य स <वीतरागः >इत्येकं साध्यम् । <सर्वज्ञो वे>ति द्वितीयम् । <वक्तृत्वादिति >हेतुः ।< व्यतिरेको >अत्र्<आसिद्ध> इति । स्वात्मन्येव सरागे चासर्वज्ञे च विपक्षे वक्तृत्वं दृष्टम् । अतोऽसिद्धो व्यतेकः । सन्दिग्धो अन्वयः ॥

कुत इत्याह ---

सर्वज्ञवीतरागयोर्विप्रकर्षाद्वचनादेस्तत्र सत्त्वमसत्त्वं वा सन्दिग्धम् इइइ-९५

सपक्षभूतयोः <सर्वज्ञवीतरागयोर्विप्रकर्षाद्>इत्यतीन्द्रियत्वाद्<वचनादेर्> इन्द्रियगम्यस्यापि <तत्र >अतीन्द्रिययोः सर्वज्ञत्ववी(ज्ञवी)तरागयोः <सत्त्वमसत्त्वं वा सन्दिग्धम्> । ततश्च न ज्ञायते किं वक्तृत्वात्सर्वज्ञ उत नेत्यनैकान्तिकमिति ॥

सम्प्रति द्वयोरेव सन्देहेऽनैकान्तिकं वक्तुमाह ---

अनयोरेव द्वयो रूपयोः सन्देहे अनैकान्तिकः इइइ-९६

<अनयोरेव> --- अन्वयव्यतिरेकरूपयोः सन्देहात्संशयहेतुः ।

उदाहरणम्[६४०] ---


__________टिप्पणी__________

[६४०] उदाहरणं यथा; उदाहरणं च
___________________________



यथा[६४१]सात्मकं जीवच्छरीरं प्राणादिमत्त्वादिति[६४२]इइइ-९७


__________टिप्पणी__________

[६४१] यथा --- ओम्.
[६४२] मत्वात् ।
___________________________



<यथे>ति[६४३] । सहात्मना वर्त्तते <सात्मकम्> इति साध्यम् । <शरीरम्> इति धर्मी । <जीवद्> ग्रहणं धर्मिविशेषणम् । मृते ह्यात्मानं नेच्छति ।


__________टिप्पणी__________

[६४३] यथेति --- ओम्.
___________________________


<प्राणाः [६४४]>श्वासादय <आदि>र्यस्योन्मेषनिमेषादेः प्राणिधर्मस्य स <प्राणादिः > । स यस्यास्ति तत्प्राणादिमत्जीवच्छरीरम् । तस्य भावस्तत्त्वम् । तस्मादित्येष हेतुः । अयमसाधारणः संशयहेतुरुपपादयितव्यः ॥


__________टिप्पणी__________

[६४४] प्राणा आश्वा-
___________________________




जीवत्प्राणान् धारयच्च तच्छरीरं चेति विग्रहः । उन्मेषश्चक्षुर्विकाश आदिर्यस्य निमेषादेस्तस्य प्राणिधर्मस्य जीवधर्मस्य । असाधारणः सपक्षविपक्षावृत्तेः । विवादाध्यासितस्यैव धरिमिणो धर्म इत्यर्थः । असाधारणत्वादेव संशयहेतुरिति हेतुभावेन विशेषणम् ॥

[ध्प्र्२१५]

पक्षधर्मस्य च द्वाभ्यां कारणाभ्यां संशयहेतुत्वम् । संशयविषयौ यावाकारौ ताभ्यां सर्वस्य वस्तुनः संग्रहात् । तयोश्च व्यापकयोराकारयोरेकत्रापि वृत्त्यनिश्चयात् । [६४५]याभ्यां ह्याकाराभ्यां सर्वं वस्तु न सङ्गृह्यते तयोराकारयो न संशयः । प्रकारान्तरसम्भवे हि पक्षधर्मो धर्मिणमवियुक्तं द्वयोरेकेन धर्मेण दर्शय्तुं न शक्नुयात् । अतो न शंशयहेतुः स्यात् । द्वयोर्धर्मयोरनियतं भावं दर्शयन् संशयहेहुः । द्वयोस्त्वनियतमपि भावं दर्शयितुमशक्तो[६४६]ऽप्रतिपत्तिहेतुः । नियतं
तु[६४७] भावं दर्शयन् [६४८]सम्यघेतुर्विरुद्धो वा स्यात् । तस्माद्[६४९]याभ्यां सर्वं वस्तु संगृह्यते तयोः[६५०] संशयहेतुर्यदि तयोरेकत्रापि सम्भावनिश्चयो न स्यात् । सद्भावनिश्चये तु यद्येकत्र नियतसत्तानिश्चयो हेतुर्[६५१] विरुद्धो वा स्यात् । अनियतसत्तानिश्चये तु साधारणानैकान्तिक, सन्दिग्धविपक्षव्यावृत्तिकः, सन्दिग्धानवयोऽसिद्धव्यतिरेको वा स्यात् । एकत्रापि तु


__________टिप्पणी__________

[६४५] यकाभ्यां
[६४६] शशविषाणादि --- टि-
[६४७] तु --- ओम्.
[६४८] सम्यग्--- ओम्.
[६४९] यकाभ्यां
[६५०] तयोराकारयोः सं
[६५१] -योर्विरुद्धो हेतुर्वा स्यात्
___________________________










कथं पुनरयं संशयहेतुरुत्पादयितुं शक्यते यावता नास्मात्सात्मकत्वस्यानात्मकत्वस्य वा प्रतिपत्तिर्जायते । ततोऽप्रैत्पत्तिरेवासाधारण इत्य्<उद्द्योतकर>मतमाशङ्क्य यत्र (यत्न) हीत्युक्तं <वार्तिककृता> तदवतारयितुं भूमिकां रचयन्नाह --- पक्षधर्मस्येति । चो यस्मादर्थे । पक्षस्य धर्मय सतो द्वाभ्यां कारणाभ्यां निमित्ताभ्याम् । सर्वस्य निःशेषस्य संग्रहाज्ज्ञापनात् । तयोर्व्यापकयोराकारयोः सात्मकत्वानात्मकत्वाख्ययोर्विषयभूतयो एकत्रापि विषयेऽनिश्चयात्तस्य पक्षाधर्मस्येत्यर्थात् ।

ननु संशय्यमानयोराकारयोः सर्ववस्तुव्यापनेन किं? येन तथात्वं तयो उपवर्ण्यत इत्याह --- याभ्यामिति । हीति यस्मात् । कथं पुनस्तयोराकारयो न संशय इत्याह --- प्राकारान्तरेति । हिर्यस्मादर्थे । पक्षधर्मः सन् धर्मिणं तं पक्षं द्वयोरेकेन धर्मेण सात्मकत्वाख्येन अनात्म्त्वाख्येन वा । अन्वियुक्तं युक्तं सम्बद्धमिति यावत् । न शक्नोति दर्शयितुं प्रकारान्तरेण सम्बन्धस्य तस्य सम्भवात् । यत एवमतः स पक्षधर्मो न संशयहेतुः स्यात् । तयोराकारयोरिति सामर्थ्यात् ।

अथ कथं सात्मकत्वानात्मकत्वे द्वौ धर्मौ दर्शयन्नपि संशयतेह्तुरुच्यत इत्याह --- द्वयोरिति । दर्शयन्न्[७३ ] इति हेतौ शतुर्विधानादनियतभावप्रदर्शनादित्यर्थो बोद्धव्यः ।

ननु नियताभावमदर्शयन्नप्रतिपत्तिहेतुरेवायायं युज्यत इत्याह --- द्वयोस्त्विति । तुशब्दो यस्मादर्थे । नियतप्रदर्शकस्यापि किं न तथात्वमित्याह --- नियतत्वं(यतं) त्विति । तुः पूर्ववद्विशेषणार्थो वा । यस्मादेवं तस्माद् हेतोः ।

नियतोऽन्यत्राननुगामी सत्तानिश्चयो यस्य स तथा । विरुद्धोऽपि विपर्यये सम्यघेतुरेवेत्येकत्र सत्तानिश्चये विरुद्धो वा स्यादित्युक्तम् ।

[ध्प्र्२१६]

वृत्त्यनिश्चायादसाधारणानैकान्तिको भवति । ततोऽसाधारणानैकान्तिकस्यानैकान्तिकत्वे हेतुद्वयं दर्शयितुमाह ---

न हि[६५२]सात्मकनिरात्मकाभ्यामन्यो राशिरस्ति यत्रायं[६५३]प्राणादिर्वर्तते (वर्तेत)इइइ-९८


__________टिप्पणी__________

[६५२] सात्मकानात्मका-
[६५३] यत्र प्राणा; प्राणादिर्वर्त्तेत
___________________________



<न ही>ति । सहात्मना वर्त्तते <सात्मकः> । निष्क्रातान्त आत्मा यस्मात्स <निरात्मकः> । [६५४]ताभ्यां यस्मान्नान्यो <राशिरस्ति >। किंभूतः? <यत्रायं >वस्तुधर्मः <प्राणादिर्वर्त्तेत>, तस्मादयं [६५५]तयोर्भवति संशयहेतुः ॥


__________टिप्पणी__________

[६५४] आभ्यां
[६५५] -दयं द्वयोर्भवति
___________________________



कस्मादन्यराश्यभाव इत्याह ---

आत्मनो[६५६]वृत्तिव्यवच्छेदाभ्यां[६५७]सर्वसंग्रहादिइइ-९९


__________टिप्पणी__________

[६५६] आत्मवृत्ति-
[६५७] सर्वस्य सं-
___________________________



<आत्मनो वृत्तिः >सद्भावो <व्यवच्छेदोऽभावः । >ताभ्यां <सर्वस्य> वस्तुनः <संग्रहात्> क्रोडी करणात् । यत्र ह्यात्मा अस्ति तत्सात्मकम् । [६५८]अन्यन्निरात्मकम् । ततो नान्यो राशिरस्ति --- [६५९]इति संशयहेतुत्वकारणम् ॥


__________टिप्पणी__________

[६५८] तदन्यन्नि-
[६५९] इति --- ओम्.
___________________________





यदैकत्रैव सत्तानिश्चयो विरुद्धो वा स्यादित्युक्तम्, यदैकत्रैव सत्तानिश्चयो नास्ति तदा का वार्त्तेत्याह --- अनियतेति । तुर्विशेषार्थः । अनियतोऽत्रैवायं वर्त्तत इत्येवं रूपनियमशून्यो यः सत्तानिश्चयस्तस्मिन् सति । यदोभयत्र सत्तानिश्चयस्तदा सपक्षाविपक्षसाधारणत्वात्साधारणः, यदा तु विपक्षवृत्तिसम्भावनायामनिश्चय(अनियत)सत्तानिश्चयस्तदा सन्दिग्धविपक्षव्यावृत्तिकः । यदा पुनः सपक्षे वृत्तिसन्देहानियतसत्तानिश्चयस्तदा सन्ध्गधान्वयासिद्धव्यतिरेकः । यदा तु सपक्षासपक्षयोरेकत्रापि सत्तानिश्चयो नास्ति तदा सपक्षासपक्षावृत्तेरसाधारणः । एतदेवाह --- एकत्रापीति ।
यतः पक्षाधर्मस्योक्ताभ्यां कारणाभ्यां संशयहेतुत्वं ततस्तस्मात्दर्शयितुं दर्शयिष्यामीति मत्त्वा ।

राशिः प्रकारः । वस्तुधर्मत्वं च प्राणादेरवस्तुनि शशविषाणादाववृत्तेः । यतो राश्यन्तराभावस्तस्मात्कारणादयं प्राणादिमत्त्वाख्यो हेतुः । तयोः सात्मक्निरात्मकयोः ।

साधारणस्य धर्मस्य संशयहेतुत्वे द्वे कारणे । तत्रामुना नहीत्यादिना मूलेन संशयविषयाभ्यामाकाराभ्यां सर्ववस्तुसंग्रह एकं कारणमुक्तम् । नाप्यनयोरित्यादिना तु तयोरेकत्रापि वृत्त्यनिश्चयो द्वितीयं कारणमुक्तमिति दर्शयितुमाह --- संशयेति ।

[ध्प्र्२१७]

प्रकाराभ्यां [६६०]सर्ववस्तुसङ्ग्रहं प्रतिपाद्य द्वितीयमाह ---


__________टिप्पणी__________

[६६०] सर्वसंग्रहं
___________________________


नाप्यनयोरेकत्र वृत्तिनिश्चयः इइइ-१००

<नाप्यनयोर्>सात्मकानात्मकयोर्मध्य <एकत्र> सात्मकेऽनात्मके[६६१] वा < >वृत्तेर्सद्भावस्य <निश्चयो>ऽस्ति । द्वावपि राशी त्यक्त्वा न वर्त्तते प्राणादिः, वस्तुधर्मत्वात् । ततश्चानयोरेव वर्त्तते[६६२] इत्येतावदेव ज्ञातम् । विशेषे तु वृत्तिनिश्चयो नास्तीययमर्थः[६६३] ॥


__________टिप्पणी__________

[६६१] -के निरात्मके
[६६२] वर्त्तते एतावद्
[६६३] नास्तीत्यर्थः
___________________________




तदाह ---

[६६४]सात्मकत्वेन अनात्मकत्वेन वा प्रसिद्धे प्राणादेरसिद्धेः[६६५] इइइ-१०१


__________टिप्पणी__________

[६६४] सात्मकत्वेन निरात्मक-
[६६५] असिद्धिस्ताभ्यां न व्यतिरिच्यते
___________________________



<[६६६]सात्मकत्वेन अनात्मकत्वेन वा >विशेषेण युक्ते <प्रसिद्धे >निश्चिते वस्तुनि <प्राणादेर्> धर्मस्य[६६७] सर्ववस्तुव्यापिनोः प्रकारयोरेकत्र नियतसद्भावस्य्<आसिद्धेर्> अनैकान्तिकः, अनिश्चतत्वात् ।


__________टिप्पणी__________

[६६६] सात्मकत्वेन निरात्मक-
[६६७] धर्मस्यासिद्धेरनैकान्तिकोऽनिश्चतत्वात्
___________________________



तदेवमसाधारणस्य धरमस्यानैकान्तिकत्व कारणद्वयमभिहितम् ॥



प्रकाराभ्यामात्मव्यवच्छेदरूपाभ्यामाकाराभ्याम् । वृत्तिः प्रवृत्तिरर्थात्भाव एवावतिष्ठत इत्यभिप्रायेणाह --- वृत्तेः साद्भावस्येति ।

यद्येवं तयोर्न वर्त्तत इत्येव किं न स्यात्? तथा च कथं संशयहेतुरित्याशङ्क्य यादृशोऽस्यार्थोऽभिप्रेतस्तं स्फुटयितुमाह --- द्वावपीति । कुतो न वर्त्तत इत्याह --- वतुधर्मत्वादिति । प्रायादेर्(प्राणादेर्) इति विभक्तिविपरिणामेन सम्बन्धनीयम् । वस्तुना वाऽवश्यं सात्मकेनाऽनात्मकेन वा भाव्यमिति भावः ।

ततो वस्तुसत्त्वेन सिद्धपरित्यागेनान्यत्रावृत्तेः कारणात् । अनयोः सात्मकानात्मकयोः । एव कारेणाण्यत्रा(त्र) वृत्तिनिषेधं स्पष्टयते । इतिरेतावतः स्वरूपं दर्शयति । यदिदमनन्तरोक्तमेतत्परिमाणं यस्य प्रमेयस्य तदेतावद्वस्तुतत्त्वं निश्चितम् । कुतस्तर्हि नास्य वृत्तिनिश्चय इत्याह --- विशेषे त्विति । विशेषे विशिष्टे प्रकारे । तुरिमामवस्थां भेदवतीमाह । तेन सात्मक्त्व(सात्मक) एवानात्मक एवेत्यर्थः । वृत्तेः स्वभास्य प्राण्देरिति प्रकरणात् । इतिरेवमर्थे । अर्थोऽभिधेयो यस्य "नाप्यनयोरेकत्र वृत्तिनिश्चयः" इत्यस्य मौलस्य वाक्यस्येत्यर्थात् ॥

यस्मादेवमेतद्वक्तुं युज्यते, नान्यथा तत्तस्माद्[७३ ] आह <वार्त्तिककारः> । किमाहेत्याह सात्मेति । तदेवमित्यादिनोपसंहरति । एवं च व्याचक्षाणेन [न] मय स्वातन्त्र्येण पक्षधर्मस्येत्यादिना

[ध्प्र्२१८]

पक्षधर्मश्च भवन्[६६८] सर्वः साधारणोऽसाधारणो व भवत्यनैकान्तिकः । तस्मादुपसंहारव्याजेन पक्षधर्मत्वं दर्शयति ---


__________टिप्पणी__________

[६६८] भवत्सर्वः
___________________________


तस्माज्जीवच्छरीरसम्बन्धी प्राणादिः सात्मकादनात्मकाच्च सर्वस्माद्व्यावृत्तत्वेन असिद्धेस्ताभ्यां[६६९]न व्यतिरिच्यते इइइ-१०२


__________टिप्पणी__________

[६६९] नासिद्धिः ॥; "ताभ्याम्" इत्यादि --- ओम्
___________________________


<तस्माद्> इत्यादिना । <जीवच्छरीर>स्य <संबन्धी >पृष्ठअक्षधर्म इत्यर्थः । यस्मात्तयोरेकत्रापि न निवृत्तिनिश्चयस्तस्मात्<ताभ्यां न व्यतिरिच्यते >।

वस्तुधर्मे हि सर्वस्तुव्यापिनोः प्रकारयोरेकत्रनियतसद्भावो निश्चतः प्रकारान्तरान्निवर्त्तेते । अत एवाह[६७०] --- <सात्मकादनात्मकाच्च सर्वस्माद्>वस्तुनो <व्यावृत्तत्वेन असिद्धेर्> इति । <प्राणादिः >तावत्कुतश्चिद्घटदेर्निवृत्त एव । तत एतावदवसातुं शक्यम् --- सात्मकादनात्मकाद्वा कियतो निवृत्तः । सर्वस्मात्[६७१]तु निवृत्तो नावसीयते । ततो न कुतश्चिद्व्यतिरेकः ॥


__________टिप्पणी__________

[६७०] -कारान्तरान्निवर्त्तते । तत एवाह; -कारान्तरान्निवर्त्तेत । तत एवाह
[६७१] तु --- ओम्.
___________________________





ऽसाधारणस्य संशयहेतुत्वनिमित्तद्वयमादितो दर्शितम् । किं तर्हि? <वार्त्तिककारेणै>वैतदभिहितमिति दर्शितम् ॥

ननु चासाधारणस्य प्राणादेरनैकान्तिकत्वकारणद्वयमनन्तरोक्तमभिधीयताम् । तस्मादित्यादिना तु शरीरसम्बन्धित्वमस्य कस्माद्<आचार्यो> दर्शयतीत्याशङ्कां निराचिकीर्षुः पक्षधर्मश्चे त्यादिनोपक्रमते । चो यस्मादर्थे । अपक्षधर्मस्त्वसिद्ध्त्वाख्यामन्यामेव दोषजातिमनुश्नुत इति भावः पक्षधर्मत्वं प्रदर्शयतो <वार्तिककार>स्योन्नेयः । वाशब्देनानियतप्रभेदेऽनास्थां दर्शयति । न त्वसाधारणत्वाख्यं पक्षान्तरम्, सन्दिग्धविपक्षव्यावृत्तिकादेरसङ्ग्रहप्रसङ्गात् । यस्मादप्क्षधर्मो नानैकान्तिक उपवर्णतेनाभिपार्येण तस्मात्कारणात् । दर्शयति प्रकाशयति ।

केन दर्शयतीत्याकाङ्कायामाह --- तस्मादित्यादिनेति । पक्षधर्मत्वप्रदर्शनं तु जीवच्छरीरसम्बन्धीति वचनं द्रष्टव्यम् । तस्मादित्यनेन यस्मादित्याद्क्षिप्तं दर्शयन्नाह --- यस्मादिति । एकत्रापि न वृत्तिनिश्चयस्तस्य प्राणादेरित्यर्थात् । तस्मात्कारणात्ताभ्यां सात्मकत्वानात्मकत्वाभ्यां न व्यतिरिच्यते न निवर्त्तते, तदसंस्पर्शी न भवतीति यावत् ।

तयोरेकत्र वृत्त्यनिश्चयेऽपि कथं ताभ्यां न व्यतिरिच्यत इत्याह --- वस्त्विति । हीति यस्मादर्थे । प्रकारयोस्तद्वृत्तिव्यवच्छेदरूपयोः स्वरूपयोराकारयोरिति यावत् । तयोर्धर्म एकत्रनियतः ’त्रैवायं वर्त्तत इति नियमवान्ऽ सद्भावः सत्त्वं यस्य स तथा । प्रकारान्तरान्नियतसद्भावविषयादन्यसमादाकारात् । निवर्त्तेते निवर्तितुम्नर्थति, तन्न संxपृशेतिति यावत् । एकत्र वृत्त्यनिश्चयाच्च नायं तथेत्यभिप्रायः ।

यत एवमेतद्भवति, न चायं प्राणादिस्तथा, अत एवाहाचार्यः । किमाहेत्याह --- सात्मकादित्यादि । सर्वस्मादिति प्रत्येकं सम्बबद्ध(न्द्ध)व्यम् ।

[ध्प्र्२१९]

यद्येवमन्वयोऽस्तु तयोर्निशिच्त इत्याह ---

न[६७२]तत्रान्वेति इइइ-१०३


__________टिप्पणी__________

[६७२] न च तत्रा-
___________________________


<न[६७३] तत्र >सात्मकेऽनात्मके वाऽर्थे <ऽन्वेति> --- अन्वयवान् ॥


__________टिप्पणी__________

[६७३] न च तत्र
___________________________


कुत इत्याह ---

एकात्मन्यप्यसिद्धेः इइइ-१०४

<[६७४]एकात्मन्यपी>ति । <एकात्मनि >सात्म्केऽनात्मके वाऽसिद्धेः कारणात् । वस्तुधर्मतया तयोर्द्वयोरेक्तत्र[६७५] वा वर्त्तत इत्यवसितः प्राणादिः । न तु सात्मक एव निरात्मक एव वा वर्त्तत इति कुतोऽन्वयनिश्चयः ॥


__________टिप्पणी__________

[६७४] एकात्मन्यपीति --- ओम्.
[६७५] द्वयोरप्येकत्र; एकत्र तावत्वर्त्तत
___________________________



ननु च प्रतिवादिनो न किञ्चित्सात्मकमस्ति । ततोऽस्य हेतोर्न सात्मकेऽन्वयो[६७६] न व्यतिर्क[६७७] इत्यन्वयव्यतिर्कयोरभावनिश्चयः सात्मके, न तु सद्भावसंशय इत्याशङ्क्याह ---


__________टिप्पणी__________

[६७६] अनुगमनं सद्भाव इत्यर्थः --- टि-
[६७७] व्यावृत्तिः अभाव इत्यर्थः --- टि-
___________________________



न अपि[६७८]सात्मकादनात्मकाच्च तस्य अन्वयव्यतिरेकयोरभावनिश्चयः इइइ-१०५


__________टिप्पणी__________

[६७८] सात्मकान्निरात्मकाच्
___________________________




ननु घाटपटादेरनेकस्मात्प्राणादिनिर्वर्त्तमानो दृष्टस्तत्कथं तस्य व्यावृत्तत्वेनासिद्धिरित्याह --- प्राणादिरिति । ततः सर्वस्मात्सात्मकादनात्मकाच्च निवृत्त्यनवसायात् । कुतः? सात्मकादनात्मकाच्च प्रतिबन्धासिद्धेरिति चात्र सर्वत्राभिप्रायः ।

ननु किमुच्यते न कुतश्चिदिति? यावता निरात्मकादेव व्यतिरेकोऽस्यावसातुं शक्यः, <बौद्धेन> घटादेर्निरात्मकत्वेनेष्टत्वादिति चेत् । यद्येवं जीवच्छरीरमपि <बौद्धेन> तथात्वेनेष्टमिति तस्यापि तथात्वं किन्न भवेत् । अभ्युपगमेन च सात्मकानात्मके विभज्य हेतुं कथयता गमिकत्वमिति यत्किञ्चिदेतत् ॥

तयोरिति विषयसप्तमी । तस्य प्राणादेरिति च शेसः ॥

ननु वस्तुधर्मेण तेनावश्यं क्वापि नियतेन भाव्यम् । तत्कथमन्वयाभाव इत्याह --- वस्तुधर्मतयेति । न चानियतवृत्तिनिश्चयोऽन्वयो नामेति भावः ।

ननु चासाधारणत्वान्निरात्मकेऽन्वयनिश्चयो मा भूद् । व्यतिरेकनिश्चयस्त्वस्तु, निरात्मके घटादौ प्राणादेरदर्शणादिति चेत् । न । तस्यैव [७४ ] शरीरस्य निरात्मकत्वसम्भावनायां सर्वस्मान्निरात्मकान्निर्वृत्तिनिशयाभावात् । न च तथानिश्चयनिमित्तं प्रतिबन्धनिश्चयोऽऽस्तीति ॥

[ध्प्र्२२०]

<नापि सात्मकाद्>वस्तुनः <तस्य> प्राणादेर्<अन्वयव्यतिरेकयोरभावविश्चयः> । नापि च निरात्मकात् । सात्मकादनात्मकादिति च पञ्चमी व्यतिरेकशब्दापेक्षया द्रष्टव्या ॥

कथमन्वयव्यतिरेकयोर्नाभावनिश्चय इत्याह ---

[६७९]एकाभावनिश्चयस्य[६८०]अपरभावनिश्चयनान्तरीयकत्वातिइइ-१०६


__________टिप्पणी__________

[६७९] एकस्याभाव-
[६८०] -स्यापराभावनान्त- -स्यापरभावनान्तरीक-
___________________________



<एक>स्यान्वयस्य व्यतिरेकस्य वा यो <अभावनिश्चयः [६८१]>सो परस्य द्वितीयस्य <भावनिश्चयनान्तरीयकः [६८२]>भावनिश्चयस्याव्यभिचारी । तस्य भावस्तत्त्वं तस्मात् । यत एकाभावनिश्चयोऽपरभावनिश्चय [६८३]नान्तरीयकः, तस्मान्न द्वयोरेकत्राभावनिश्चयः ॥


__________टिप्पणी__________

[६८१] स एवापरस्य
[६८२] भावे निश्च-
[६८३] -रीयकः भवति निश्चय-
___________________________




कस्मात्पुनरेकस्याभावनिश्चयोऽपरसद्भावनिश्चयाऽव्यभिचारीत्याह ---

[६८४]अन्वयव्यतिरेकयोरन्योन्यव्यवच्छेदरूपत्वात् । [६८५]तत एव अन्वयव्यतिरेकयोः सन्देहादनैकान्तिकाः इइइ-१०७


__________टिप्पणी__________

[६८४] अत एवान्वय-
[६८५] अत एब
___________________________



<अन्वयव्यतिरेकयोरन्योन्यव्यवच्छेदरूपत्वाद्> इति । अन्योन्यस्य व्यवच्छेदोऽभावः, स एव रूपं ययोस्ततोर्भावस्तत्त्वं तस्मात्कारणात् ।

अन्वयव्यतिरेकौ भावाभावौ । भावाभावौ च प्रस्परव्यवच्छेदरूपौ । यस्य व्यवच्छेदेन यत्परिच्छिद्यते तत्तत्परिहार्ण व्यवस्थितम् । स्वाभावव्यवच्छेद्न च भावः परिच्छिद्यते ।

तस्मात्स्वाभावव्यच्छेदेन भावो व्यवस्थितः । अभावो हि नीरूपो यादृशो विकल्पेन दर्शितः । नीरूपतां च व्यवच्छिद्य रूपमाकारवत्परिच्छिद्यते । तथा च सत्यन्वयाभावो व्यतिरेकः, व्यतिरेकाभावश्चान्वयः ।

ततोऽन्वयाभावे निश्चिते व्यतिरेको निश्चितो भवति । व्यतिरेकाभावे च निश्चितेऽन्वयो निश्चितो भवति ।



ननु चेतियादि तस्मात्कारणादित्येतदन्तं स्पष्टार्थ तेन न व्याख्यायते ।

अन्योन्यव्यवच्छेदरूपत्वमेवान्वयव्यतिरेकयोः कथमित्याश्ङ्क्याह --- अन्वयव्यतिरेकाविति । अभावरूपत्वञ्च व्यतिरेकस्य प्रतीतिसिद्धस्य बोद्धव्यम् । भवतां तौ तथारूपौ किमत इत्याह --- भावाभाविति । चो यस्माद् । भवत्वेवं तथापि कथं तयोरनोन्यपरिहारेणावस्थानमित्याह --- यस्येति ।

नन्वत्र कस्य व्यवच्छेदेन किं परिच्छिद्यते येन तत्परिहारेहण तद्व्यवतिष्ठत इत्याह --- स्वाभावेति । हेत्वर्थश्चकारः । तावत्का सा (कोऽसाव्) अभावो नाम यद्व्यवच्छेदेन भावः

[ध्प्र्२२१]

तस्माद्यदि नाम सात्मकमवस्तु निरात्मकं च वस्तु, तथापि [६८६]तयोर्न प्राणादेरन्वयव्यतिरेकयो अभावव्निश्चयः । एकत्र[६८७] वस्तुन्येकस्य[६८८] वस्तुनो युगपद्भावाभावविरोधात्तयोरभावनिश्चयायोगात्[६८९] ।


__________टिप्पणी__________

[६८६] तथापि न तयोः
[६८७] एकवस्तु-
[६८८] एकवस्तु-
[६८९] निश्चययोगात्
___________________________





न च प्रतिवाद्यनुरोधात्सात्मकानात्मके वस्तुनो वस्तुसतो । किन् तु प्रमाणानुरोधाद् । इत्युभे सन्दिग्धे । ततस्तयोः प्राणादिमत्त्वस्य सदसत्त्वसंशयः ।[६९०]


__________टिप्पणी__________

[६९०] सदसत्त्वानिश्चयः
___________________________


एत एव क्वचिदन्वयव्यतिरेकयोर्न भावनिश्चयो [६९१]नाप्यभावनिशयः, <तत एवान्वयव्यतिरेकयोः> सन्देहः ।


__________टिप्पणी__________

[६९१] नाभावनि-
___________________________


यदि तु क्वचिदप्य्[६९२] अन्वयव्यतिरेकयोरेकस्याप्यभावनिश्चयः स्यात्, स एव द्वितीयस्य भावनिश्चय इत्यन्वयव्यतिरेकसन्देह एव न स्यात् । यतश्च[६९३] न क्वचिद्भावाभावनिश्चयस्तत <एवान्वयव्यतिरेकयोः >सन्देहः । <सन्देहाच्चानैकान्तिकः[६९४] >॥


__________टिप्पणी__________

[६९२] क्वचिदन्वय-
[६९३] यत्स्तु
[६९४] -कान्तिक इत्याह ।
___________________________






परिच्छिद्यत इत्याह --- तथा चेति नीरूपताव्यवच्छेदेन रूपस्य प्रतिष्ठताकारवतः परिच्छेदप्रकारे सति । ततोऽन्योन्याभावरूपत्वादनयोः ।

ननु <बौद्धानां> सात्मकं नाम नास्त्येवेत्यवस्तु । सन्मात्रं तु निरात्मकमतो वस्तु । तत्र वस्तु[नि] निरात्मको[के] हेतोरन्वयव्यतिरेकयोरभावनिश्चयो मा भूत्सात्मके त्ववस्तुनि स कथं न स्यादित्याशङ्क्योपसंहारव्याजेनाह तस्मादिति । यस्माद्विधिप्रतिषेधयोरेकप्रतिषेधोऽपरविधिनान्तरीयकस्तस्मात् । कथं न भावनिश्चयस्ततोरित्याशङ्क्योपपत्तिमाह --- एकत्रेति । तयोरन्वयव्यतिरेकयोर्भावाभावात्मनोरभावनिश्चयस्यायोगादनुपपत्तिः । कथमयोग इत्याह --- एकस्येति । कालभेदे किं न युज्यते इत्याह --- युगपदिति ।

इदं च प्रतिवाद्यभ्युपगमबलात्सात्मकानात्मकयोः । सदसत्त्वमभ्युपगम्योक्तम् । तदेव तु न युज्यते इति दर्शयन्नाह --- न चेति । चो वक्तव्यान्तरसमुच्चये । प्रकरणादिह प्रतिवादी <बौद्धस्> तदनुरोधवशादिष्ट्यनिष्टिवशात्सात्मकमसन्निरात्मकं सदिति यथायोगं योजनीयम् । एवं ह्यवास्तवमनुमानं स्यात्न वस्तुबलप्रवृत्तमिति भावः । यद्येवं ते सदसती न भवतः कथं नामेत्याह --- किन् त्विति । प्रमाणं चेदं नियतं वर्त्तते । आत्मन्येव च विवादवृत्तेरन्याऽपि (न्यत्रापि?) सात्मकत्वमनात्मकत्वेन (कत्वं वा न?) व्यवतिष्ठत इति भावः । इतिस्तस्मात् । उभे सात्मकत्वानात्मकत्वे
। यत एवं ततः कारणात्सात्मकानात्मकयोः सदसत्त्वयोः संशयः । कस्येत्याकाङ्क्षायामुक्तम् --- प्रणादिमत्त्वस्येति ।

[ध्प्र्२२२]

कस्मादनैकान्तिक इत्याह[६९५]
---


__________टिप्पणी__________

[६९५] इत्याह --- ओम्.
___________________________


साध्येतरयोरतो निश्चयाभावात् इइइ-१०८ < >

<साध्य>स्य<, इतर>स्य च विरुद्धस्य <अतः> --- सन्दिग्धान्वययतिरेकान् <निश्चयाभावात्> । सपक्षविपक्षयोर्हि सदसत्त्वसन्देहे न साध्यस्य न विरुद्धस्य सिद्धिः[६९६] । न च सात्मकानात्मकाभ्यां[६९७] परः प्रकारः संभवति । ततः प्राणादिमत्त्वाद्धर्मिणि जीवच्चरीरे संशय आत्मभावाभावयोरित्यनैकान्तिकः प्राणादिरिति ॥


__________टिप्पणी__________

[६९६] असिद्धिः
[६९७] -भ्यां च परः
___________________________





अस्तु ससत्त्वसंशयोऽन्वयव्यतिरेकनिश्चयस्तु किन्न भवतीत्याह --- यत इति । न भावनिश्चयो नाभावनिश्चय इत्येकत्र सात्मकेऽनातमके वेति द्रष्टव्यम् । सात्मकेऽनात्मके वा प्राणादेः सदसत्त्वनिश्चयाभावादेवान्वयव्यतिरेकयोः सन्देहो नान्यथेति प्रतिपादयितुमाह --- यदि त्विति । तुरिमामवस्थां भेदवतीमाह ।

उक्तमेवोपसंहरन्नाह --- यतश्चेति । चोऽवधारणे । तस्मात्सन्देहातनैकान्तिकः प्राणादिमत्त्वाख्यो हेतुरिति प्रकरणात् ॥

सन्दिग्धावन्वयव्यतिरेकौ यस्य तत्तथा, तस्मात्साध्यस्य विरुद्धस्य वा निश्चयाभावात् । सपक्षेत्यादि [७४ ] नैतदेव समर्थयते । हिर्यस्मात् । सपक्षविपक्षयोर्विषयभूतयोर्हेतोः सदसत्त्वसन्देहे न साध्यस्यानुमित्सितस्य विरुद्धस्य विपरययस्य सिद्धिर्निश्चयः । विरुद्धोऽपि विपर्यये सम्यघेतुरित्यभिप्रायेणेदमुक्तम् ।

न चेत्यादि प्राणादिरित्यन्तं सुगमम् ।

ईदृश एव चासाधारणो हेतुः कैश्चिन् <नैयायिकैर्> अनुपलसंहार्य इत्युक्तम् । ततोऽनुपसंहार्योऽयं हेत्वाभास इति शब्दश्रवणार्थ........साहः करणीयः ।

<उद्द्योतकरस्> तु श्रावणत्वाख्येऽसाधारणहेतावाचार्य<दिग्नागेन >दर्शित इदमवादीत्--- "यद्येतच्छ्रावणत्वं नित्यानित्ययोर्दृष्टं स्याज्जनयेत्तयोः संशयमूर्ध्वत्वमिव स्थाणुपुरुषयोः । न च दृष्टम् । तस्मान्नायं संशयहेतुरपि त्वप्रतिपत्तिहेतुरेव । अथ श्रावणत्वं वस्तुधर्मः । वस्तुना नित्येन भाव्यमनित्येन वा प्रकारान्तराभावात् । न च तयोरेकत्रापि दृष्टम् । अतस्तयोः संशयं करोति । तर्हि वस्तुधर्मत्वात्संशयो न श्रावणत्वादिति ।" तुल्यन्यायतयाऽत्राप्यसाधारणे तदीयमिदमीदृशं चर्चितमासज्यत एवेति "कथमयं संशयं संशयहेतुरुपपादयितव्यः"
इति साधूक्तं तेन । केवलं गमकरूपविवेदने समीचीनमनो न प्रहितम् । यतो वस्तुधर्मत्वं श्रावणत्वस्य नित्याकारसंस्पर्शिज्ञानजनने निबन्धनम् । न तु तस्मादेव वस्तुधर्मादुभयाकारसंस्पर्शी प्रत्ययो दोलायते न च यद्यस्यप्रतिपत्तिकारणे कारणं तत एव सा प्रतिपत्तिः, न तु तस्मादिति शक्यते वक्तुम् । तदुत्पत्तेरग्निप्रतिपत्तिर्न धूमादित्यस्याभिधानप्रसङ्गात् ।

[ध्प्र्२२३]

किञ्चैवं प्रमेयत्वादेरपि न संशयः स्यात् । शक्यते हि तत्रापि वक्तुमुभयत्र दर्शनात्संशयो न प्रमेयत्वादिति । अथ तस्य तावदुभयत्र दर्शनं तेन तस्मादुच्यते । यद्येवं वस्तुधर्मत्वमपि श्रावणत्वस्यैवेति कथं न तस्मादसौ । अपि चोर्ध्वत्वमपि यद्यपि स्थाणुपुरुषयोरपि दृष्टं तथापि तावत्तत्रान्तरेणात्रैव भविष्यतीति पर्यनुयोगे सतीदमेव वाच्यम् --- यदुतोर्ध्वत्वं नाम वस्तुधर्मः । वस्तुना चैवंविधिः --- स्थाणुना पुरुषेण वाऽवश्यं भाव्यमिति । तथा च वस्तुधर्मादेव संशयो नोर्ध्वत्वादित्यनिष्टापादनं --- केन निराक्रियेतेत्यलं विष्तरेण


साधन्सस्य सिद्धेर्यन्नाङ्गमसिद्धो विरुद्धोऽनैकान्तिको हेत्वाभासः । तस्यापि वचनं वादिनो निग्रहस्थानमसमर्थोपादानात् । त्स्मादेवंविधो हेत्वाभासः द्वयमप्रयोज्यः परप्रयुक्तश्चावश्यमुद्भावयितव्य इति हेत्वाभासव्युत्पादने <वार्त्तिककारस्या>भिप्रायो बोद्धव्यः ।

स्यादेतत्--- असमर्थं विशेषणोऽसमर्थविशेष्यश्चास्ति प्रभेदः । यथाऽनित्यः प्रमेयत्वे सति कृतकत्वात् । अत्र कृटकत्वं विशेष्यमेव साध्यसिद्धौ समर्थम्, न तु प्रमेयत्वं विशेषणमित्यसमर्थं विशेषणम्, यत्र विशेष्यमेव सम्रथमिति कृत्वा भवत्यसमर्थविशेषणो हेतुः । यञ्च (यच्चा)नित्यः शब्दः कृतकत्वे सति प्रमेयत्वादिति । अत्र हि कृतकत्वं विशेषणमेव साध्यसिद्धौ समर्थम्, न तु प्रमेयत्वं विशेष्यमित्यसमर्थं विशेष्यम् । यत्र हि विशेषणम् [७५ ] एव समर्थमिति कृट्वा भवत्ययमसर्थविशेष्यो हेतुः
। शेषमुभयीविधास्वन्तर्भाव्यताम् । न तावद्सिद्धे, द्वयोरपि धर्मिणि सिद्धेः । न च विरुद्धे, विपर्ययव्याप्त्यभावात् । नाप्यनैकान्तिके कृतकत्वनिशिष्टप्रमेयत्वस्य प्रमेयत्वविशिष्टकृतकत्वस्य च साध्याऽव्यभिचारात् । तस्मादसिद्धत्वादेरन्य एवायं हेतुदोषप्रकारः प्राप्त इति ।

तदेतदवद्यम्, हेत्वदोषात् । यदि ह्येवमयं प्रयुक्तो हेतुर्द्विष्येत्(त) तदाऽस्यामीषु हेतुराशिष्वन्तर्भावश्चिन्त्येत, अन्यो वा हेतु दोषोऽभ्युपगम्येत । यावता नैवमयं प्रयुक्तोऽन्यथेति साध्यसाधनादिति । न तर्ह्येवं वादी निगृह्यत इति चेत् । किं न निगृह्यते, असाधनाङ्गवचनात्? उभयत्रापि साध्यसिद्ध्यनङ्गस्य प्रमेयत्वस्यासमर्थस्याभिधानात् । यथा च साध्यसिद्ध्यनङ्गस्य वचने निग्रहोऽवश्यं भावी, अनिग्रहे व दोषः, तथा <वादन्याये>ऽवादीन् <न्यायवादी>ति ततस्तदपेक्षितव्यः ततोऽयमर्थो वक्तृदोष एव न हेतुदोषः । तेनानतर्भावेऽपि न हेत्वाभासानुषङ्ग इति ।

भवतु तावदत्रेयं गतिः । सिद्धसाधने तु साधने किं भविष्यति? न तावत्सिद्धसाधनं साधन[म]सिद्धत्वाद्यन्यतमदोषदूषितं साध्यसाधनसामर्थ्याप्रच्युतेरिति ।

अत्रोच्यते --- इह हेतुर्द्वधा दुष्यति । कश्चिदसामर्थ्यात्, अपरो वैयर्थ्यात् । तत्रासामर्थ्य एव दोषो <वार्त्तिककारेणा>ऽनन्तरोक्तेन क्रमेण त्रिधा दर्शितः । न तु वैयर्थ्यलक्षणः । सिद्धसाधानं तु वैयर्थ्यलक्षणोऽन्य एवायं हेतोः स्वगतोः स्वगतो दोष इति कस्मादस्यान्तर्भावश्चिन्तनीयः? यदाह्<आचार्यः> --- "अन्यथानिष्ठं(ष्टं) भवेद्विफलमेव वा । तथा न साध्यत्वे वैकल्याद्" इत्यादीति ।

वक्तृदोष एवैष इत्यपि वार्त्ता, यथायोगं परिपूर्णसाधनरूपाभिधानादनुपयुक्तानभिधानाच्च वक्तुरदुष्टत्वात् । वक्ताऽयं हेतुनिश्चितो(ता)ऽर्य प्रयुक्तो वैयर्थ्यमनुभवति । न तु

[ध्प्र्२२४]

त्रयाणां रूपाणामसिद्धौ[६९८] सन्देहे च[६९९] हेतुदोषानुपपाद्योपसंहरन्नाह ---


__________टिप्पणी__________

[६९८] -असिद्धिसंदेहे हेतु-
[६९९] वा
___________________________



[७००]एवमेषां त्रयाणां रूपाणामेकैकस्य द्वयोर्द्वयोर्वा रूपयोरसिद्धौ सन्देहे वा[७०१]यथायोगमसिद्धविरुद्धानैकान्तिकास्त्रयो हेत्वाभासाः इइइ-१०९


__________टिप्पणी__________

[७००] एवण्त्र-
[७०१] च
___________________________



<एवम्> इत्यनन्तरोक्तेन क्रमेण । <एषां >मध्य <एकैकं रूपं [७०२]>यदाऽसिद्धं सन्दिग्धं वा[७०३] भवति, <द्वे द्वे वा>[७०४]ऽसिद्धे संदिग्धे वा भवतः, तद्<आसिद्धश्> च <विरुद्धश्> च्<आनैकान्तिकश्> च ते <हेत्वाभासाः> । <यथायोगम्> इति यस्यासिद्धौ संदेहे वा यो हेत्वाभासो युज्यते स त्स्याऽसिद्धेः संदेहाच्च व्यवस्थाप्यत इति यस्य यस्य येन [७०५]येन योगो <यथायोगम्> इति ॥


__________टिप्पणी__________

[७०२] यदसिद्धं
[७०३] वा --- ओम्.
[७०४] वा --- ओम्.
[७०५] येन --- ओम्.
___________________________





विरुद्धाव्यभिचार्यपि संशयहेतुरुक्तः । स इह कस्मान्न उक्तः इइइ-११०

ननु चा <ऽऽचार्येण> <विरुद्धाव्यभिचार्यपि संशयहेतुरुक्तः >। हेत्वन्तरसाधितस्य [७०६]विरुद्धं यत्तन्न व्यभिचरतीति [७०७]<विरुद्धाव्यभिचारी >। यदि वा विरुद्धश्चासौ साधनान्तरसिद्धस्य धर्मस्य विरुद्धसाधनात्, अव्यभिचारी च स्वसाध्याव्यभिचाराद्<विरुद्धाव्यभिचारी> ॥


__________टिप्पणी__________

[७०६] -स्य यद्विरुद्धं तन्न
[७०७] -चरति स विरु-
___________________________





स्वतोऽ(तो) दुष्ट्स्ततो वक्तृदोषो युज्यत एवेति चेत् । तर्हि विरुद्धत्वमपि वक्तृदोषोऽस्तु न्यायस्यसमानत्वात् । शक्यते हि तत्राप्येवमभिधातुम् --- वक्ताऽयमननुरूपे साध्ये प्रयुक्ते विपर्ययसाधानाद्विरुद्धतामनुभवति न त्वयं स्वतो दुष्टो नामेति । विवक्षितार्थसाधनासामर्थ्यं स्वतोऽस्तीति कथं न वैयर्थ्यं तस्य दोष इति चिन्त्यतामिति ।

निग्रहस्त्वेवं वादिनोऽसाधनाङ्गवचनाद्बोद्धव्यः । सिद्धि[ः] साधानं तदङ्गं धर्मो यस्यार्थस्य विवादाश्रयस्य वादप्रस्तावाधेतोः । स साधनाङ्गः । तथा यो न भवति तस्याप्रस्तुतस्याभिधानादिति कृत्वेति सर्वमेवावदातम् ।

<केचित्> पुनरेवमसिद्धेऽन्तर्भावियितुं प्रयतन्ते ।< अन्ये> तु विरुद्धे । यथा च तेषां प्रयतिर्यथा तदभजमानमभिधानं तथा <स्वयुथ्यविचार> एवाभिहित इति तत एवापेक्षितव्य इति ॥

त्रयाणामित्यादि व्यवस्थाप्यत इत्येतदन्तं सुबोधम् ।

यस्येति हेत्वाभासस्य । सर्वहेत्वाभाससङ्ग्रहणार्थं यस्येति द्विरुक्तं येन [७५ ] येन दोषेन योगः सम्बन्धः । एतच्चार्थकथनम् । योगानतिक्रमेणेति विग्रहः कार्यः ॥

ननु चेत्यादीत्याहेत्येतदन्तं सुगमम् ।

[ध्प्र्२२५]

सत्यम् । उक्त <आचार्येण> । मया त्विह नोक्तः । कस्मादित्याह ---

अनुमानविषये[७०८]ऽसम्भवातिइइ-१११


__________टिप्पणी__________

[७०८] -विषये तस्यासं-
___________________________


<अनुमान>स्य <विषयः> प्रमानसिद्धं त्रैरूप्यम् । यतो हि अनुमानसम्भवः[७०९] सोऽनौमानस्य विषयः । प्रमाणसिद्धाच्च त्रैरूप्यादनुमानसम्भवः[७१०] । तस्मात्तदेवानुमानविषयः । तस्मिन् प्रक्रान्ते न विरुद्धाव्यभिचारिसम्भवः । प्रामाणसिद्धे हि त्रैरूप्ये प्रस्तुते स एव हेत्वाभासः सम्भवति यस्य प्रमाणसिद्धं रूपम् । न च विरुद्धाव्यभिचारिणः प्रमाणसिद्धमस्ति रूपम् । अतो न सम्भवः । ततो <असम्भवात्[७११]> नोक्तः ॥


__________टिप्पणी__________

[७०९] अनुमानसद्भावः; अनुमानस्य सम्भवः
[७१०] अनुमानसद्भावः
[७११] ततोऽसम्भवो नोक्तः
___________________________




कस्मादसंभव इत्याह --- < >

न हि सम्भवोऽस्ति कार्यस्वभावयोरुक्तलक्षणयोरनुपलम्भस्य च[७१२]विरुद्धतायाः इइइ-११२


__________टिप्पणी__________

[७१२] वा
___________________________


<न ही>ति । यस्मान्न <सम्भवोऽस्ति विरुद्धतायाः >। <कार्यं >च <स्वभावश्>च तयोर्<उक्तलक्षणयोर्>इति ।



अनुमानस्य त्रैरूप्याल्लिङ्गसम्बन्धिनोऽन्यस्मात्त्रैरूप्यं विषयः । यथा मत्स्यानां विषयो जलमिति । एतदेवाह --- यत इति । हिर्यस्मादर्थे । प्रक्रान्ते प्रस्तुते अनुमानविषयो(ये) वै(त्रै)रूप्ये सति ।

कम्सात्तत्र विरुद्धाव्यभिचारिणोऽसम्भव इत्याह --- प्रमाणेति । हीति यस्मात् । स एव हेत्वाभासो विरुद्धाव्यभिचारार्याख्यः सम्भ्वति यस्य प्रमाणेन सिद्धं रूपं पक्षधर्मान्वयव्यतिरेकात्मकमिति विवक्षितम् ।

अयमाशयः --- यदि तदेकेन द्वाभ्यां वा रूपाभ्यां हीनं स्यात्तदेष्वेव हेत्वाभासेष्वन्तर्भवेत् । न त्वेतदतिरिक्तो विरुद्धाव्यभिचारी नाम हेत्वाभासो भवेत् । भवता त्वनेन प्रमाणसिद्धत्रैरूप्येणैव भाव्यमिति ।

अस्तु तस्य तथात्वमित्याह --- न चेति । चो अवधारणे, व्यक्तमेतदित्यस्मिन्नर्थे वा ।

एवं ब्रुवतश्चास्यायमभिप्रायः --- वस्तुनः परस्परविरुद्धरूपद्वरूपद्वयासम्भवादवश्यमनयोरेकमसम्पूर्णाङ्गमिति ॥

कुतः पुनरनुमान्विषयेऽस्यासम्भवोऽवसीयत इत्यभिप्रेत्य पृद्च्छति परः --- कस्मादिति

[ध्प्र्२२६]

कार्यस्य कारणाज्जन्मलक्षणं तत्त्वम् । स्वमावस्य च साध्यव्याप्तत्वं तत्त्वम् । यत्कार्यम्, यश्च स्वभावः, स कथमात्मवारणं व्यापकं च स्वभावं परित्यज्य भवेद्येन विरुद्धः स्यात् । [७१३]<अनुलम्भस्य च उक्तलक्षाणस्ये>ति । दृश्यानौपलम्भत्वं चानुपलम्भलक्षणम् । तस्यापि[७१४] वस्त्वभावाव्यभिचारित्वान्न विरुद्धत्वसम्भवः[७१५] ॥


__________टिप्पणी__________

[७१३] -त्वमनुप-
[७१४] तस्यापि च स्वभाब्वा-
[७१५] सम्भवः स्यात् । एते-; -सम्भवः स्यादेति(?) ततेते-
___________________________




स्यादेतत्--- एतेभ्योऽन्यो भविष्यतीत्याह ---

न च अन्यो अव्यभिचारी इइइ-११३

<न चान्य >एतेभ्यो <ऽव्यभिचारी> त्रिभ्यः । अत [७१६]एवैष्वेव हेतुत्वम् ॥


__________टिप्पणी__________

[७१६] अत एव तेष्वेव; अत एवैतेष्वेव
___________________________


क्व तर्ह्याचार्य<दिग्नागेना>यं हेतुदोष उक्त इत्याह ---

तस्मादवस्तुदर्शनबलप्रवृत्तमागमाश्रयमनुमानमाश्रित्य तदर्थविचारेषु विरुद्धाव्यभिचारी साधनदोष उक्तः इइइ-११४

यस्माद्वस्तुबलप्रवृत्तेऽनुमाने न सम्भवति <तस्मादागमाश्रयमनुमानमाश्रित्यव्यभिचार्युक्तः >इति । आगमसिद्धं हि यस्यानुमानस्य लिङ्गतैरूप्यं तस्यागम आश्रयः ।

ननु चागमसिद्धमपि त्रैरूप्यं प्रमाणसिद्धमित्याह --- <अवस्तुदर्शनबलप्रवृत्तम्> इति ।वस्तुनो दर्शनं विकल्पमात्रं तस्य बलं सामर्थ्यम् । ततः प्रवृत्तम् --- अप्रमाणाद्विकल्पमात्राद्व्यस्थितं त्रैरूप्यमागमसिद्धमनुमानस्य । न तु प्रमाणात् ।



न हीतियत्रस्थस्य हिशब्दस्यार्थो यस्मादित्यनेनोक्तः । विरुद्धतायाः एकसाधनसाधितस्यार्थस्य प्रत्यनीकपक्षसाधनरूपतायाः ।

एतदुक्तं भवति --- स्वसाध्याव्यभिचारिणा हि भवता कार्येण स्वभावेन वा भाव्यम् । न च वस्तुनस्तदतत्स्वभावौ स्तो येन तदतत्स्वभावाव्यभिचारिणौ द्वौ हेतू सन्निपतन्तौ विरुद्धाव्यभिचारिणौ स्यातामिति । येन कार्यस्वभावयोः कारणव्यापकविधिना कृसतद्भावेन विरुद्धं तत्रैव धर्मिणि हेत्वन्तरसाधितार्थं विरुद्धसाधनं भवेत् ।

यद्येवमनुपलम्भे तत्सम्भविष्यतीत्याह --- अनुपलम्भस्येति । चः पूर्वापक्षः समुच्चये ॥

यत एतदतिरिक्तोऽव्यभिचारी [न] सम्मत [अत] एवास्मादेव कारणात् । एष्वेव कार्यस्वभावानुपलम्भेष्वेव ॥

कथमागमाश्रयत्वमनुमास्येत्याह --- आगमसिद्धमिति । हिर्यस्मादर्थे । सति तस्मिन्नागमेऽनुमानस्य प्रवृत्तेरसावाश्रयस्तस्य ॥

[ध्प्र्२२७]

तत्तर्ह्यनुमानम् [७१७]आगमसिद्धत्रैरूप्यं[७१८] क्वाधिकृतमित्याह ---[७१९] <तदर्थे>ति । तस्यागमस्य योऽर्थोऽतीन्दिर्यः प्रत्यक्षाणुमानाभ्यामविषयीकृतः सामान्यादिस्तस्य विचारेषु प्रक्रान्तेषु आगमाश्र्यमनुमानं सम्भवति । तदाश्रयो विरुद्धाव्यभिचार्य्<उक्त> <आचार्येण>ति


__________टिप्पणी__________

[७१७] अनुमानेनागम-
[७१८] सिद्धं त्रैरूप-
[७१९] -इत्याह तस्यागम-
___________________________




कस्मात्पुनरागमाश्रयेऽप्य्[७२०] अनुमाने सम्भव इत्याह ---


__________टिप्पणी__________

[७२०] -श्रयोऽप्य्
___________________________


शास्त्रकाराणामर्थेषु भ्रान्त्या[७२१]विपरीतस्वभावोपसंहारसम्भवात्[७२२] इइइ-११५


__________टिप्पणी__________

[७२१] विपरीतस्य स्वभा-
[७२२] भास्योपसं-
___________________________



शास्त्रकृतां <विपरीत>स्य वस्तुविरुद्धस्य <स्वभाव>स्य <उपसंहारो> ढौकनम् <अर्थेषु> । तस्य <संभावाद्>विरुद्धाव्यभिचारिसम्भवः । <भ्रान्त्ये>ति विपर्यासेन । विपर्यस्ता हि शास्त्रकाराः[७२३] सन्तमसन्तं स्वभावमारोपयन्तीति ॥


__________टिप्पणी__________

[७२३] -कारास्तं तमसन्तं स्वभा-
___________________________


यदि शास्त्रकृतोऽपि <भ्रान्ताः>, अन्येष्वपि पुरुषेषु क आश्वास इत्याह ---

न ह्यस्य सम्भवो[७२४]यथा अवस्थितवस्तुस्थितिष्वात्मकार्यानुपलम्भेषु[७२५] इइइ-११६


__________टिप्पणी__________

[७२४] सम्भवोऽस्ति यथा
[७२५] -ष्वात्मकार्येषूपलम्भेषु
___________________________



< न ही>ति । न हेतुषु कल्पनया हेतुत्वव्यवस्था । अपि तु वस्तुस्थित्या । ततो <यथा अवस्थितवस्तुस्थितिष्वात्मकार्यानुपलम्भेष्वस्य सम्भवो> नास्ति ।

अवस्थितं परमार्थसद्वस्तु तदन्तिक्रान्ता <यथावस्थिता [७२६]वस्तुस्थितिर्> व्यवस्था[७२७] येषां ते <यथावस्थितवस्तुस्थितयः । >ते हि यथा वस्तु स्थितं तथा स्थिता[७२८] । न कल्पनया । [७२९]ततस्तेषु न भ्रान्तेरवकाशोऽस्ति येन विरुद्धाव्यभिचारिसम्भवः स्यात् ॥ तत्र विरुद्धाव्यभिचारिण्युदाहरणम् ---


__________टिप्पणी__________

[७२६] -स्थितवस्तु-
[७२७] -स्थितिव्यव-
[७२८] तथा स्थापिता न
[७२९] अतः
___________________________







ननु चेत्यादि विपर्यस्ता हीत्येतदन्तं सुगमम् । शास्त्रकारा इति तीर्थिकशास्त्रप्रणेतार इति द्रष्टव्यम्, तद्वचनस्यैव प्रमाणबाधितत्वेन तेषामेव विपर्यस्तत्वात् ॥

अन्येष्वपीति कार्यादिहेतुप्रयोक्तृषु ।

यथावस्थितवस्तुस्थतिष्विति --- अस्य तात्पर्यार्थमाह --- न हेतुष्विति । ततः काल्पनया हेतुत्वाद्य्(त्वव्य)वस्थायाः । अर्थक्रियासमर्थत्वं(-त्वन् तु) परमार्थसत् । कथं ते तथारूपाइत्याह --- ते हीति । ते कार्यादयो हिर्यस्मादर्थे । हेतुभावे चैतदविशेषणम् । यतस्ते यथावस्थितयस्ततस्तेष्व(षु)सम्भवो नास्तीत्यर्थः । सत्यां स्थितौ किं न सम्भव इत्याह --- तत इति ।

[ध्प्र्२२८]

[७३०]तत्र उदाहरणम् --- यत्[७३१]सर्वदेशावस्थितैः स्वसम्बन्धिभिर्युगपदभिसम्बध्यते तत्सर्वगतम्, यथा आकाशम् ।[७३२]अभिसम्बध्यते च[७३३]सर्वदेशावस्थितैः स्वसम्बन्धिभिर्युगपत्सामान्यमिति इइइ-११७


__________टिप्पणी__________

[७३०] अत्रोदा-
[७३१] -तैः सम्बन्धिभिः सम्बन्धि-
[७३२] -काशमिति
[७३३] च --- ओम्.
___________________________





<यत्सर्व>स्मिन् <देशावस्थितैः स्वसम्बन्धिभिर्युगपदभिसम्बध्यते> [७३४]इति सर्वदेशावस्थितरभिसम्बध्यमानत्वं सामान्यस्य अनूद्य सर्वगतत्वं विधीयते । तेन युगपदभिसम्बध्यमानत्वं सर्वगतत्वे नियतं तेन व्याप्तं कथ्यते ।


__________टिप्पणी__________

[७३४] -ध्यते तत्सर्वः
___________________________


इह सामान्यं <कणाद>महर्षिणा निष्क्रयं दृश्यमेकं[७३५] चोक्तम् । युगपच्च सर्वैः स्वैः [७३६]सम्बन्धिभिः समवायेन संबद्धम् । तत्र <पैलुकेन> <कणाद>शिष्येण व्यक्तषु व्यक्तरहितेषु च


__________टिप्पणी__________

[७३५] दृश्यमेवोक्तम्
[७३६] सर्वैः स्वैः स्वैः सम्बन्धि-; सर्वैः स्वैः स्वैः स्वसम्बन्धि-
___________________________





यतस्ते कल्पनया न स्थापितास्ततः कारणात् । भ्रान्तेर्विपर्यासस्यावसरोऽवकाशः । येन भ्रान्त्यवकाशेन ॥

कस्यानुवादेनात्र कस्य विधिरित्य्[७६ ] आह --- सर्वेति । सर्वदेशावस्थितैः --- स्वसम्बन्धिभिरित्यर्थात् । यत एवमनुवादविधिक्रमस्तेन हेतुना ।

ननु सर्वैः स्वसम्बन्धिभिर्युगपदभिसम्बन्धो नाम सामान्यस्य युगपत्सर्वसम्बन्धिसमवाय एव । सर्वगतत्वमपीदमेवास्येति ।

कथमनयोर्व्यावृत्तितोऽपि भेदसम्बन्धभावतो गम्यगमकभाव इति चेत् । नैष दोषः । नानादेशस्थैः स्वसम्बन्धिभिः शावलेयादिभिर्युगपदभिसम्बन्धो हेतुः । सम्बन्धिदेशतदन्तरालव्यापित्वं तु साध्यमिति गम्यगमकभावो न विरुध्यते । सर्वसम्बन्धिभिर्युगपदभिसम्बद्न्धश्चागत्वाऽनागच्छद्भिरिति द्रष्टव्यम् ।

अथ केन विरुद्धो(द्धा)व्यभिचारिप्रसवबीजं धर्मद्वययोः किमभ्युपगतं येन तयोः सन्निपाताद्विरुद्ध(द्धा)व्यभिचारिसम्भव इत्याह --- इहेति । इह सामान्यपदार्थविचारप्रक्रमे । कणमत्तीति <कणादः> । रूढीवशाच्चायं शब्दः <काश्यपे> मुनौ वर्त्तते । स चासौ महर्षिश्चेति । हेतुभावेनास्य विशेषणत्वात्<कणाद>त्वादेव महर्षिः । एवं तस्य हि काष्ठागता निःस्पृहता यतोऽन्यरवो(?) स्वभोज्यादिकमपि परित्यज्य कणमात्रं भुक्त्वा ध्यानादिकमाचरति । अथोऽसावन्येभ्यः सातिशयवान् भव्तीइति । निष्क्रियं क्रियाशून्यममूर्त्तत्वात् । एकमनानारूपम्, प्रत्येकं
स्वाश्रयेषु लक्षणाविशेषाद्, विशेषलक्षाणाभाच्च । न तु सम्वायादेकं त्रिलोक्यां सामान्यम्, प्रत्ययभेदात्परस्परतोऽन्यत्वात् । गोत्वादीनाञ्च निष्क्रियत्वेन सहाऽस्यैकत्वं समुच्चिनोति ।

[ध्प्र्२२९]

देशेषु सामान्यं स्थितं साधयितुं [७३७]प्रमाणमिदमुपन्यस्तम् <यथा आकाशम् >इति --- व्याप्तिप्रदर्शनविषयो दृष्टान्तः । आकाशमपि हि सर्वदेशावस्थितैर्वृक्षादिभिः स्वसंयोगिभिर्युगपदभिसम्बध्यमानं सर्वगतं च । <अभिसम्बध्यते च[७३८] सर्वदेशावस्थितैः स्वसम्बन्धिभिर्> इति हेतोः पक्षधर्मत्वप्रदर्शनम् ॥


__________टिप्पणी__________

[७३७] प्रमाणमुप-
[७३८] प्रयोजयितुमाह; योजन्नाह
___________________________



अस्य स्वभावहेतुत्वं [७३९]योजयित्माह ---


__________टिप्पणी__________

[७३९] स्वभावः
___________________________


तत्सम्बन्धिस्वभावमात्रानुबन्धिनी तद्देशसन्निहितस्वभावता इइइ-११८

<तत्सम्बन्धी>ति । तेषां सर्वदेशावस्थितानां द्रव्याणां सामान्यस्य स्वभावः स एव <तत्सम्बन्धिस्वभावमात्रम् >। तदनुबध्नातीति तद्<अनुबन्धिनी >।

कासावित्याह --- <तद्देशसंनिहितस्वभावता> । तेषां सम्बन्धिनां देशस्<तद्देशः> । तद्देशे संनिहितः स्वभावो यस्य तत्<तद्देशसंनिहितस्वभावम्[७४०] >। तस्य भावस्तत्ता । यस्य हि येषां सम्बन्धी स्वभावः तन्नियमेन तेषां देशे सन्निहितं भवति । ततस्तत्सम्बन्धित्वानुबन्धिनी तद्देशशंनिहितता सामान्यस्य ॥

__________टिप्पणी__________

[७४०] अत्र मूले ’तस्य भावः । तस्मात्ऽ इति पाठः कल्प्यः --- सं-
___________________________




युगपदेककालम् । चः पूर्वापेक्षया समुच्यये समवायेन सम्बन्धेन सम्बद्धत्वम् । एवमभिहिते <कणादेन> तच्छिष्येण <पैलुकेनः> । पीलवः परमाणवः । पीलुपाके चायं पीलुशब्द उपचारासतास्त्त्येन (उपचारितोऽस्ति । तेन) निमित्तेन ववहरतीति पैलुक । तेनाविवक्षिताऽऽन्तरभेदस्य युगपत्सर्वसम्बन्धमात्र हेतुत्वादाकारशस्य दृष्टान्तरूपता द्रष्टव्या । न तु सामान्यस्येवास्य सम्बन्धिः समवायेन सम्बन्धः । संयोगलक्षणेनास्य सम्बन्धेन सम्बन्धात् ।

एतदेवाभिप्रेत्य्--- आकाशमपीति । हीति यस्मात् । स्वसंयोगिभिरिति वास्त्वानुवादः । न ॠइ›त्येतत्प्रकृताङ्गम् । दार्ष्टान्तिकेऽस्यानुपपत्तेः । चोऽभिसम्बन्ध(न्ध्य)मानत्वेन सह सर्वगतत्वस्यैकविषयतां समुच्चिनोति ॥

द्रव्याणां गवादीनाम् । एतच्च गोत्वादिसमान्यविवक्षयोक्तम् । उपलक्षणं द्रव्यग्रहणं कर्त्तव्यम्, इतरथोत्क्षेपणत्वादिसामान्यस्यासङ्ग्रहः स्यात् ।

एतच्च तस्य भाव इत्येदन्तं सुगमम् ।

[७४१]तस्मादित्येनेनार्थागतं स्वभावहेतुत्वनिमित्तं दर्शयति । न तु तद्धितप्रत्ययान्ते पञ्चम्यस्ति यां व्याचक्षीत । अयं त्वस्यार्थः --- यस्माद्युगपत्सर्वदेशावस्थितसम्बन्धिसम्बन्धः स्वसत्तामात्रानुबन्धिनि साध्ये हेतुः, तस्मात्स्वभाव हेतुत्वमस्येति ।


__________टिप्पणी__________

[७४१] -ते वासर्व-
___________________________


ननु तत्सम्बन्धिनोऽपि तद्देशसन्निहितस्वभावतैव कुतओ येनैवं भवतीत्याह --- यस्येति । हिर्यस्मात् । यतोऽयं
सामान्यन्यायः ततस्तस्मात्[७६ ] । यद्वा सर्वसम्बन्धित्वेऽपि कस्मात्

[ध्प्र्२३०]

ननु च गवां सम्बन्धी स्वामी । [७४२]न च गोदेशे सन्निहितस्वभावः । [७४३]तत्कथं [७४४]तत्सम्बन्धित्वात्तद्देशत्वमित्याह ---


__________टिप्पणी__________

[७४२] न च तद्देशे सन्नि-; न च तद्देशस्ंन्नि- न्.
[७४३] -भावः स्वामी
[७४४] तत्कथं संबं-
___________________________




न हि यो यत्र न अस्ति तद्देशमात्मना व्याप्नोति इति स्वभावहेतुप्रयोगः इइइ-११९

<न ही>ति । यो यत्र देशे <नास्ति स >देशो यस्य <स तद्देशः >तं <न व्याप्नोत्यात्मना >स्वरूपेण ।

इह सामान्यस्य तद्वतां च समवायलक्षणः [७४५]सम्बन्धः । स चाभिन्नदेशयो एव । [७४६]तेन यत्र यत्समवेतं [७४७]तत्[७४८]तदात्मी न रूपेण क्रोडीकुर्वत्[७४९]समवायिरूपदेशे स्वात्मानं निशेशयति ।


__________टिप्पणी__________

[७४५] लक्षणसम्ब-
[७४६] अनेन
[७४७] कर्त्तृ --- टि-
[७४८] समवायरूप-
[७४९] समवायरूप-.
___________________________








तद्देशसन्निहितस्वभावतेत्याह --- तस्मादिति । तस्मात्तत्सम्बन्धिमात्रानुबन्धिनीति । तद्देशसन्निहितस्वभावताऽऽकाशस्य दृष्ट तस्मात्कारणात् । यस्य वस्तुनस्तेषां (-नो येषां) सम्बन्धी स्वभावः । हिरवधारणे सम्बन्धीत्यस्मात्परो द्रष्टव्यः । तद्वस्तु नियमेनावश्यंतया तेषां सम्बन्धीनां देशे सन्निहितं भवति । यत एवं सामान्ययायस्ततस्। तस्मादिति पाठे भावगतिः ।[७५०]कस्मादिति तु क्वचित्पुस्तके पाठः । स तु युक्तरूपः । तत्सम्बन्धिस्वभावमावमात्रानुबन्धिनी तद्देशसन्निहितस्वभावतेति स्वाख्या । कस्मादेतदिति । कारणाकाङ्क्षासम्बन्धात् । तदनन्तरं
च यस्य हीत्यादेः सामान्योत्तरस्य, तत इत्यादेश्चोपसंहारव्यपदेशेन विशेषोत्तरस्य सुमो(यो)ज्यत्वादिति ।


__________टिप्पणी__________

[७५०] अत्र मूले ’तस्य भावः । कस्मात्?ऽ इति पाठः कप्यः --- सं-
___________________________


यत्र तु तस्य भावस्तत्तेति पाठः तत्र सर्वमवदातम् ॥

ननु चैकदेशस्थमेव सामान्यं युगपत्सर्वैः सम्बन्धिभिरभिसम्बन्त्स्यते । तत्किं तस्य व्यापारासम्भवेनावेदितेनेत्याह --- इहेति ।

स इति समवायः । चकारः पुनः शब्दस्यार्थे । अभिन्नदेशयोरिति लोकप्रसिद्धदेशापेक्षयोक्तं न तु शास्त्रप्रसिद्धदेशापेषयेति द्रष्टव्यम् । अन्यथा यदा (था पट)तन्तूनां समवायो न स्यात् । पटस्य तन्नथा(तन्तवो)देशः । तन्तूनां पुनरंशवः । सामान्यतद्वतोश्च न स्यात् । गोत्वसामान्यस्य गौर्देशः । गोश्च सास्नादयोऽवयवा इति ।

अथ वा सामान्यलक्षणयुगा(योगा)पेक्षया अभिन्नदेशत्वं विवक्षितम् । न तु प्रत्येकापेक्षम् । तेनायमर्थः --- कुण्डबदरवद्यत्र द्वावपि सम्बन्धिनौ भिन्नदेशौ न तयोः समवायः । ययोस्त्वेकतरस्यान्यतरो देशस्तयो समवाय इति । एवञ्च पटतन्तूनां सामान्यतद्वतोश्च नासङ्ग्रह इति । येन कारणेनाभिन्नदेशयोरेव सम्वायस्तेन प्रथमव्याख्याने समवायिरूपस्य समवायिस्वभावस्य देश इति । द्वितीयव्याखाने समवायिरूपमेव समवायिस्वभाव एव देश इति विगृह्य तस्मिन्निति

[ध्प्र्२३१]

[७५१]तद्देशरूपनिवेशनमेव तत्क्रोडीकरणम् । ततस्तत्समवायः ।


__________टिप्पणी__________

[७५१] तद्देशे रूप
___________________________


तस्माद्यद्यत्र समवेतं [७५२]तत्तद्द्रव्यं व्याप्नुवदात्मना तद्देशे संन्निहितं भवति ।


__________टिप्पणी__________

[७५२] तत्तत्र द्र-
___________________________


तदयमर्थः --- तद्देशस्थवस्तुव्यापनं तद्देशसत्तया व्याप्तम् । तद्देशत्ताऽभावे[७५३] तद्व्यापनाभावाद्व्यापनलक्षणः समवायसम्बन्धो न स्यात् । अस्ति च व्यापनम् । ततस्तद्देशे सन्निहितत्वमिति । तदयं स्वभावहेतुह् ॥


__________टिप्पणी__________

[७५३] तद्देशअत्ताया आभावे
___________________________


पैठरप्रयोगं दर्षयन्नाह ---

द्वितीयो अपि प्रयोगः --- यदुपलब्धिलक्षणप्राप्तं सन्न उपलभ्यते न तत्तत्र अस्ति । तद्यथा --- क्वचिदविद्यमानो घटः[७५४]। नोपलभ्यते चोपलब्धिलक्षणप्राप्तं सामान्यं व्यक्त्यन्तरालेष्विति । अयमनुपलम्भः[७५५]स्वभावश्च परस्परविरुद्धार्थसाधनादेकत्र संशयं जनयतः इइइ-१२०


__________टिप्पणी__________

[७५४] घट इति
[७५५] लम्भप्रयोगः स्व-
___________________________



<द्वितीयो अपि --- >इति । <यदुपलब्धिलक्षणप्राप्तं >विषयतां <प्राप्तं >दृश्यमित्यर्थः । एतेन दृश्यानुपलब्धिमनूद्य ’<न >[७५६]<तत्तत्रास्ति>ऽ इत्यसद्व्यवहार्यत्वं विहितम्[७५७] । ततो व्याप्यदृश्यानुपलब्धेर्व्यपकमसद्व्यवहार्यत्वं दर्शितम् । <तद्यथा, क्वचिदविद्यमानो घटः >दृष्टान्तः ।


__________टिप्पणी__________

[७५६] -नूद्य तत्तत्र; -नूद्य त(न) तत्तत्र; -नूद्य तत्तत्तत्र
[७५७] व्यवहार्य्तं विहितम्
___________________________





योज्यम् । उभयत्रापि तु समवाय(यि)शब्देनाधारोऽभिप्रेतः । स्वात्मानं निवेशयत्युपनयति ।

ननु तद्व्यापनं तत्क्रोडीकरणमभिप्रेतम् । तत्कथं सम्बन्धिनि स्वात्मनि निवेशनं व्याख्यायत इत्याह --- तद्देश इति । स चासौ देशश्च तत्र रूपस्य स्वरूपस्य निवेशनमुपनयनम् । ततस्तस्माद्तद्देशरूपनिवेशनात्तस्यः । सम्बन्धिनः समवायः । तस्मादित्यादिनोपसंहारः ।

ननु तद्व्यापनमपि भविष्यति, न च तद्देशसन्निहितस्वभावतेत्याशङ्क्याह --- तदयमिति । यत आतमना तद्व्यापनलक्षणेन सम्बन्धेन तद्व्याप्यमानदेशसन्निधानमुकतं तत्तस्मादयं तात्पर्यार्थः । स चासौ देशश्च तत्रस्थवस्तुव्यापनं लोकप्रसिद्धदेषापेक्षया तस्य देशस्तद्देशस्तत्र या सत्ता विद्यमानता तया व्याप्तम् । अन्यथा तु स्वरूपेण व्यापनासम्भवादित्यभिप्रायः ।

तदेव व्यतिरेकमुखेणोपपादयन्नाह [७७ ] --- तद्देशेति । नास्त्येवायं सम्बन्ध इति [चेदाह ---] अस्ति चेति । चोऽवधारणे । यत उक्तेन क्रमेण स्वभावलक्षणयोगोऽस्यास्ति । तत्तस्मादयं युगपत्सर्वसम्बन्ध्यभिसम्बन्धलक्षाणो हेतुः स्वभावः ॥

[ध्प्र्२३२]

पक्षधर्मत्वं दर्शयितुमाह --- <न उपलभ्यते चे>ति । <व्यक्त्यन्तरालम्[७५८] --->व्यक्त्यन्तरं च व्यक्तिशून्यं चाकाशम् । दृश्यमपि कस्यांचिद्व्यक्तौ गोसामान्यमश्वादिषु व्यक्त्यन्तरेषु व्यक्तिशून्ये[७५९] चाकाशे [७६०]नोपलभ्यते । तस्मान्न तेष्वस्तीति गम्यते ।


__________टिप्पणी__________

[७५८] व्यक्त्येरन्तरालम्
[७५९] -रेषु शून्ये चाका-
[७६०] चोपलभ्य-
___________________________




< अयमनुपलम्भः> पूर्वोक्तश्च <स्वभावश्[७६१]परस्पर>स्य <विरुद्धौ >यावर्थौ तयोः <साधनाद्>ताव्[७६२]एकस्मिन् धर्मणि <संशयं जनयतः >। न ह्येकोऽर्थः परस्परविरुद्धस्वभावो भवितुमर्हति । एकेन चात्र [७६३]व्यक्त्यन्तरेषु व्यक्तिशून्ये चाकाशे सत्त्वम्, अपरेण चानुपलम्भेनासत्त्वं साध्यते । न


__________टिप्पणी__________

[७६१] परस्परविरु-
[७६२] स्वभावेन --- टि-
[७६३] व्यक्त्यन्तरेषु --- ओम्.
___________________________






<कणाद>स्यैवापरः शिष्यः पैठरस्तस्य प्रयोगम् । पिठरोऽवयविद्रव्यम् । पूववदुप्चाराति पिठरशब्दस्तेन व्यवहरतीति तथोक्तः ।

असदव्यवहार्यत्वमसदिति व्यवहारणियत्वं विहितम् । कस्याञ्चित्सास्नादिमत्यां व्याप्तौ(व्य्क्तौ) व्यज्यते सामान्यमनयेति व्यक्तिः ।

प्रागुक्तस्तावत्स्वभावः, अयं तु किंसंज्ञको हेतुरित्याह --- अयमिति । प्रागुक्तं स्मारयति पूर्वेति । तुशब्दश्चशब्दस्यार्थे । तावेतौ हेतू धर्मिण्येकस्मिन् सामान्याख्ये । संशयं प्रकृतयोः साध्ययोरित्यर्थात्कथं संशयं जनयत इत्याह । एकस्यैव तौ विवक्षितसर्वगतत्वासर्वंगतत्वलक्षणौ स्वभावौ भविष्यत इत्याह --- न हीति । हिर्यस्मात् । परस्परविरुद्धौ स्वभावौ यस्येति तथा ।

ननु चात्र विरुद्धावेव धर्मावेकस्य सामान्यस्य द्वाभ्यामेताभ्यां सिद्ध्येते इति । तत्किमेतदुच्यत इत्याह --- केनेति । चो यस्मादर्थे । एकेनतिप्रागुक्तेन स्वभावेन । अपरेणेति व्यक्त्यन्तराले सामान्यस्य सत्त्वमसत्त्वं च एतौ हेतू का क्षतिरिह --- इत्याह --- न चेति । चोऽवधारणे । सत्त्वमसत्त्वं च द्वयोर्द्वाभ्यां साधने किमनुपन्नमित्याशङ्क्याह --- एकस्यापि । कालभेदे किन्नैवं सम्भावतीत्याशङ्क्याह --- एकदैवेति । कस्याप्येकदैवाधिकरणभेदेऽप्येतदित्याशङ्क्याह --- एकत्रेति । कथमयुकतमित्याह --- तयोरिति । तयोः सत्त्वासत्त्वयोः । विरोधात्परस्परपरिहारव्यवस्थितरूपत्वात् ।

कथं पुनरागमाश्रयानुमानाश्रयत्वं निरुद्धाव्यभिचारि[णी]त्याशङ्क्योपसंहारव्याजेन यथाऽनयोस्तथात्वं तथा दर्शयन्नाह --- तदिति । यत एवं तत्तद्वदेकं सामान्यं <कणदेन> उक्तम्, तद्रूपविचारे तच्च्छिष्याभामेवं प्रक्रान्तं तत्तस्मादागमसिद्धस्यागमप्रतिपादितस्यानुपलम्भेनापि व्यक्तत्यन्तरालासत्त्वप्रतिपादनद्वारम्(द्वाराऽ)सर्वगतत्वस्य साधनात् । सर्वगतत्वासर्वगतत्वयोः साध्ययोरेतावित्याह । एवावन्तं (?) तथोक्तौ हेतू ।

विरुद्धाव्यभिचारित्वमेवानयोरुपदर्शन्नाह --- यत इति । चकारः पूर्वापेक्षया समुच्चये ।

[ध्प्र्२३३]

चैकस्यैवकदैकत्र सत्त्व, असत्त्वं च[७६४] युक्तम्, तयोर्विरोधात् । [७६५]तदागमसिद्धस्य सामायस्य सर्वगतत्वासर्वगतत्वयोः साध्ययो एतौ विरुद्धाव्यभिचारिणौ जातौ । [७६६]यतः सामान्यस्यैकस्य युगपत्सर्वदेशावस्थितैरभिसम्बन्धित्वं चाभ्युपगतम्, दृश्यत्वं[७६७] च । ततः सर्वसम्बन्धित्वात्सर्वगतत्वम्, [७६८]दृश्यत्वादन्तरालादनुपलअम्भादसर्वगतत्वम् । ततः [७६९]शास्त्रकारेणैव विरुद्धव्याप्तत्वमपश्यता विरुद्धव्याप्तौ धर्मावुक्त्वा[७७०] विरुद्धाव्यभिचार्यवकाशो दत्त इति । न च[७७१] वस्तुन्यस्य [७७२]सम्भवः । इत्युक्ता हेत्वाभासाः ॥


__________टिप्पणी__________

[७६४] वा
[७६५] तस्मादागम-
[७६६] अथ परस्परविरुद्धाव्यभिचारिहेतुदोषः कणादशिष्ययोरेवायम्, <कणाद>स्येत्याह --- टि-
[७६७] -भिसम्बद्धत्वम्; -भिसम्बन्धत्वम्
[७६८] दृश्यत्वादन्तरालानुपल-
[७६९] <कणाद>द्वारेण --- टि-
[७७०] धर्मावुक्तौ । इह विरुद्धा-; धर्मावुक्तौ विरु-
[७७१] च --- ओम्.
[७७२] -स्य हेतोः सम्भवः; विरुद्धान्यभिचारिणः --- टि-
___________________________










ननु च साधनावयवत्वाद्यथा हेतव उक्तास्तत्प्रसङ्गेन [७७३]च हेत्वाभासाः, तथा भासाः, तथा साधनावयवत्वाद्दृष्टान्ता वक्तव्यास्तत्प्रसङ्गेन च दृष्टान्ताभासाः । तत्कथं नोक्ताइत्याह ---


__________टिप्पणी__________

[७७३] च --- ओम्.
___________________________




ततोऽभ्युपगतात्सर्वसम्बन्धिनः सर्वसम्बन्धित्वात् । सर्वगतत्वमन्तरेण तदसम्भवादिति भावः । अनुपलम्भेऽपि कथमसर्वगतत्वं निश्चेतुं शक्यत इत्याह --- दृश्यत्वात्तत इत्यनुवर्त्तते ।

ननु चान्तरालेऽनुपलम्भादिति युज्यते वक्तुम् । तत्किमुक्तमन्तरालादिति । सत्यमेतत् । केवलमनुपलम्भादनुपलम्भव्यवहारादित्यर्थविवक्षितत्वाददोषः । क्वचित्पुनरन्तरालानुपलम्भादिति पाठः । तत्र च यथायोगं समासः ।

ननु यद्शास्त्रात्मकाऽऽगमकारेणास्य परस्परविरुद्धस्वभावावहं किञ्चिद्द्वयमुक्तं भवेत्, विरुद्धाव्यभिचार्यवकाशः । यावतेदमेव नास्तीत्याशङ्कापनोदव्याजेनोपसंहरन्नाह --- तत इति । [७७ ] यत एवं शास्त्रकारेणैवेदञ्चेदञ्चाभ्युपगतं ततस्तस्मात्शास्त्रकाएणैव प्रकरणात्<कणादेन> विरुद्धाव्यभिचारिणोऽवकाशो दत्तः । किं कृत्वा तेन तदवकाशो दत्त इत्याह --- विरुद्धेति । परस्परसाध्यविरुद्धत्वव्याप्तिधर्मौ प्रकरणाद्युगपत्सर्वसम्बन्धिसम्बन्धदृश्यत्वाख्या (ख्यौ) वक्तुर्(?)दृश्यत्वविषयस्यानुपलम्भस्य विरुद्धव्याप्तत्वाद्दृश्यत्वं विरुद्धव्याप्तत्वाद्दृश्यत्वं विरुद्धवाप्तमिति तु द्रष्टव्यम् ।

कथं पुनस्तयोर्धरमयोः परस्परविरुद्धार्थव्याप्तत्वं विदुषा तेनैवमुच्येत येन तदवकाशदानं तस्य कल्प्यत इत्याह --- विरुद्धव्याप्तत्वमिति । परस्परविरुद्धसर्वगतत्वासर्वगतत्वलक्षणार्थव्याप्तत्वं तयोर्धर्मयोरित्यर्थात् । अपश्यता अनालोचयता भ्रान्त्या तावदभिधायेति यावत् । इतिरेवमर्थे । तेनायमर्थः --- एवमुक्तेन प्रकारेणोक्ताः कथिता हेत्वाभासाः, कुतश्चित्साम्याधेतुवदाभासाः ॥

साम्प्रतं हेतौ तदाभासे च कथिते तुल्यन्यायतयाऽपरमपि स्वाभाससहितं किं नोतमिति

[ध्प्र्२३४]

त्रिरूपो[७७४]हेतुरुक्तः । तावता[७७५]च अर्थप्रतीतिरिति न पृथग्दृष्टान्तो नाम साधनावयवः कश्चिद् । तेन न अस्य लक्षणं पृथगुच्यते गतार्थत्वात् इइइ-१२१


__________टिप्पणी__________
[७७४] त्रिलक्षणो हेतु-
[७७५] तावतैवार्थ-; तावता वा (चा)र्थप्रतीतिसिद्धेरिति
___________________________



< त्रिरूपो हेतुरुक्तः>, तत्किं दृश्टान्तैः?

स्यादेतत्--- तावता नार्थपतीतिरित्याह --- <तावता [७७६]चे>ति । उक्तलक्षणेनैव हेतुना भवति साध्यप्रतीतिः । अतः स एव गमकः । [७७७]ततस्तद्वचनमेव साधनम् । <न पृथग्दृष्टान्तो नाम साधनावयवः> । यतश्चायं नावयवः, <तेन न अस्य> द्ष्टान्तस्य <लक्षणं >हेतुलक्षनात्<पृथगुच्यते >।


__________टिप्पणी__________

[७७६] ततः
[७७७] ततः --- ओम्.
___________________________



कथं तर्हि हेतोर्व्याप्तिनिश्चयो यद्यदृटान्तको हेतुरिति चेत् । नोच्यते हेतुरदृशाटान्तक एव । अपि तु न हेतोः पृथग्दृष्टान्तो नाम हेत्वन्तर्भूत एव दृष्टान्तः । अत एवोक्तं <न अस्य लक्षणं पृथगुच्यते> [७७८]इति । न त्वेवमुक्तम् --- नास्य लक्षणामुच्यत इति[७७९] ।


__________टिप्पणी__________

[७७८] इति --- ओम्.
[७७९] इति --- ओम्.
___________________________





चोदयन्नाह --- ननु चेति । अथ कथं साधनावयवत्वं हेतूनां येन साधनावयत्वाद्यथा हेतव उक्ता इत्युच्यते? तथा हि साध्यते निश्चीयते साध्यमनेनेति साधनम् । पक्षधर्मान्वयव्यतिरेकवल्लिङ्गमुच्यते । तदाख्यानादेव च वाक्यमपि साधनमुच्यते । न तु वाक्यात्साध्यसिद्ध्युपयोगितया हेतुरपि तदेव तद्वचनमपीति । द्वेधाऽपि तं समुदायमपेक्ष्यास्यावयवत्वं येनैवमुच्यते इति । न । अभिप्रायापरिज्ञानात् । इहैवं पूर्वपक्षवादी मन्यते । परोक्षोऽर्थो निश्चीयमानो हेतुदृष्टान्ताभ्यां निश्चीयते । न तु हेतुनैव । अदृष्टान्तकस्य हेतोः साध्यसाधनाशक्तेः । ततश्च हेतुदृष्टान्तसमुदायः साध्यस्य
साधनम् । तत्र यथा समुदायापेक्षया हेतुरूपोऽवयव उक्तस्तदाभासश्च तथा साधनावयवत्वाविशेषत्वाद्दृष्टान्तरूपोऽपरोऽयमवयवः सप्रतिपक्षः किन्नोक्त इति । एवञ्चोदयन्नयमेव साधनावयवत्वाद्यभिधानमिति । तत्प्रसङ्गेन तत्प्रस्तावेन ।

उक्तं पक्षधर्मान्वयव्यतिरेकात्मकं लक्षाणं यस्य तेन । एवकारेण दृष्टान्तस्य साक्षात्सिद्ध्युपयोगितां निर्सस्यति । यत एवमतो हेतोः, स इति हेतुः । नियमेन दृश्टान्तस्य गमकरूपविरहं द्रढयति । यतः साक्षात्सिद्धिरुपजायते, स एव गमयति प्रत्यायति साध्यमिति कृत्वा उच्यते, नान्य इति भावः । यस्माधेतोरेव गमकत्वं ततस्तस्मात्तस्य हेतोस्त्रिरूपस्य वचनं साधनं साधनाभिधानं न दृष्टान्तस्येत्यर्थात् । तावता चार्थप्रतीतिरिति मौलमितिशब्दमपेक्ष्य न पृथग्दृष्टान्तो नाम साधनावयव इति मूलं व्याचष्टे
न दृष्टात इति । अर्थरूपो द्ष्टान्तस्तद्वचनं वा, न साधनस्यार्थरूपस्य वचनस्य वा । नावयवो नैकदेशः । हेत्वन्तरर्भूतत्वं च व्याप्तिग्राहकप्रमाणाधिकरणतया हेतावुपयोगात् । न तस्य स्वरूपेण [७८ ]

[ध्प्र्२३५]

यद्येवं हेतूपयोगिनोऽपि लक्षणं वक्तव्यमेवेत्याह --- <गतार्थत्वात्---> गतोऽर्थः प्रयोजनमभिधेयं वा यस्य दृष्टान्तलक्षणस्य । [७८०]तत्तथा । तस्य भावस्तत्त्वम् । तस्मात् । दृष्टान्तलक्षाणं ह्यच्यते दृष्टान्तप्रतीतिर्यथा स्यात् । दृष्टान्तश्च हेतुलक्षणादेवावसितः । ततो दृष्टान्तलक्षणस्य यत्प्रयोजनम् --- दृष्टान्तप्रतीतिस्तद्गतं निष्पन्नम् । अभिधेयं वा गतं ज्ञातं[७८१] दृष्टान्ताख्यम् ॥


__________टिप्पणी__________

[७८०] तत्--- ओम्.
[७८१] ज्ञानं; गतं दृष्टा-
___________________________



कथं[७८२] गतार्थत्वमित्याह ---


__________टिप्पणी__________

[७८२] गतार्थम्
___________________________


हेतोः सपक्ष एव सत्त्वमसपक्षाच्च सर्वतो व्यावृत्ती[७८३]रूपमुक्तमभेदेन । पुनर्विशेषेण[७८४]कार्यस्वभावयोरुक्तलक्षणयोर्जन्मतन्मात्रानुबन्धौ दर्शनीयावक्तौ । तच्च दर्शयता, यत्र धूमस्तत्र अग्निः, असत्यग्नौ न क्वचिद्धूमो यथा महानसेतरयोः, यत्र कृतकत्वं तत्र अनित्यत्वम्, अनित्यत्वाभावो कृतकत्वासम्भवो[७८५]यथा घटाकाशयोः --- इति दर्शनीयम् । न ह्यन्यथा सपक्षविपक्षयोः सदसत्त्वे यथोक्तप्रकारे शक्ये दर्शयितुम् । तत्कार्यतानियमः[७८६]कार्यलिङ्गस्य स्वभावलिङ्गस्य[७८७]च स्वभावेन[७८८]व्याप्तिः । [७८९]अस्मिंश्च अर्थे दर्शिते दर्शित एव दृष्टान्तो भवति । एतावान्मात्ररूपत्वात्तस्य इति[७९०] इइइ-१२२


__________टिप्पणी__________

[७८३] व्यावृत्तरूप-; व्यावृत्तौ रूप-
[७८४] -स्वभावयोर्जन्म-;
[७८५] सम्भवोऽस्ति
[७८६] नियमं
[७८७] वा
[७८८] स्वभावव्याप्तिरिति
[७८९] अस्मिन्नर्थे
[७९०] इति --- ओम्.
___________________________









<हेतोः [७९१]रूपमुक्तमभेदेन >सामान्येन । साधारणं कार्यस्वभावानुपलम्भानामेतल्लक्षणामित्यर्थः । किं पुनस्तत्? <सपक्ष एव [७९२]>यत्<सत्त्वम्>, विपक्षाच्च <सर्व>स्मात्<व्यावृत्तिर्> या । रूपद्वयमेतदभेदेनोक्तम् ।


__________टिप्पणी__________

[७९१] रूपमभेदेनोक्तं सा-
[७९२] यत्--- ओम्.
___________________________



न च सामान्यमुक्तमपि शक्त्यं ज्ञातुम् । अतस्तदेव विशेषनिष्ठं वक्तव्यम् । अतः <पुनर्विशेषेण >विशेषवन्तौ <जन्मतन्मात्रानुबन्धौ दर्शनीयावक्तौ । कार्यस्य जन्म् >ज्ञातव्यमुक्तम् । जन्म्नि हि [७९३]ज्ञाते कार्यस्य सपक्षा एव सत्त्वं विपक्षाच्च सर्वस्माद्व्यावृत्तिर्ज्ञाता


__________टिप्पणी__________

[७९३] विज्ञाते
___________________________




हेतावन्तर्भावः, साक्षात्साध्यसिद्ध्युपयोगिताप्रसङ्गात् । न च साऽस्य सम्भविनीति । अनेकार्थत्वाद्वा हेतोर्(धातोर्) गतं निष्पन्नमिति विवृतम् । गत्यर्थानां ज्ञानार्थत्वादपि गतं ज्ञातमित्यपि चोक्तम् ॥

ननु च हेतुः सपक्षवृत्तिना विपक्ष(क्षा)वृत्तेनैव च रूपेण गमकः । तच्चेत्कथितं किं विशेषलक्षाणकथनेनेत्याह --- न चे ति । चोऽवधारणे हेतौ वा । सामान्यं साधारणं प्रकरणाल्

[ध्प्र्२३६]

भवति । <स्वभाव>स्य <तन्मात्रानुबन्धो >दर्शनीय उक्तः <। >तदिति साधनम् । तदेव <तन्मात्र >साधनमात्रम्[७९४] । तस्य्नुबन्धोऽनुगम्गनम् --- साधनमात्रस्य[७९५] भावे भावः साध्यस्य । [७९६]तन्मात्रभावित्वमेव हि साध्यस्य तादात्म्यम् । साधनस्य [७९७]यदा द्वभावो ज्ञातो भवति, तदा स्वभावहेतोः --- सपक्षा एव सत्त्वम्, विपक्षाच्च सर्वस्माद्व्यावृत्तिर्ज्ञाता भवति ।


__________टिप्पणी__________

[७९४] मात्रस्यानु-; साधनमात्रम् । साधनमात्रस्यानुब-
[७९५] मात्रभावे
[७९६] अथ साधनधर्ममात्रानुबन्धः साध्यस्य तथापि तादात्म्यं न स्यादित्याह --- टि-
[७९७] यदा साधनस्य च स्व-
___________________________





तदेवं[७९८] सामान्यलक्षणं विशेषात्मकं ज्ञात्व्यं नान्यथा । ततो विशेषलक्षणमुक्तम् ।


__________टिप्पणी__________

[७९८] तदेव
___________________________


किमतो[७९९] यदि नामैव[८००] इत्याह --- <तच्च[८०१]> सामान्यलक्षाणं दर्शयितुकामेन विशेषलक्षणं <दर्शयतै>वम्[८०२]<, दर्शनीयम् --- >इति सम्बन्धः । <यत्र धूमस्तत्र अग्निः >इति कार्यहेतोव्याप्तिर्दर्शिता । व्याप्तिश्च कार्यकारणभावसाधनात्[८०३] प्रमाणान्निश्चीयते । ततो <यथा महानस >इति दर्शनीयम् ।


__________टिप्पणी__________

[७९९] विशेषलक्षणात्--- टि-
[८००] नामैव तदित्याह; प्रागुक्तन्यायेन --- टि-
[८०१] तत्र
[८०२] -तैवं च दर्श-
[८०३] प्रत्यक्षानुपलम्भाभ्याम् --- टि-
___________________________








लक्षणं न शक्यं ज्ञातुमिति प्रवृत्त्युपयोगितया न शयमिति मन्तव्यम् । न तु सामान्यलक्षणस्य वाक्यात्प्रतीतिर्न भवत्येव । विशेषवन्तौ च विशिष्टावित्यर्थः । एतदेव विभज्यमान आचार्ये(आह --- कार्यस्ये)त्यादि ।

ननूक्तेऽप्यस्मिन् यदि सामान्यलक्षणप्रतीतिर्नास्ति किमनेनोक्तेनापीति । आह --- जन्मेति । हिर्यस्मादर्थे । ननु स्वभावहेतौ साधनस्वभावता साध्यस्य दर्शयितुं युज्यते, तत्किं तन्मात्रानुबन्धो दर्शनीय उक्त इत्याह --- तन्मात्रेति । हिर्यस्मात् । अथ तन्मात्रानुबन्धे दर्शितेऽपि कथं सामान्यलषणप्रतिपत्तिरित्याह --- साधनस्येति । तदेवमित्यादिनोपसंहारः ।

अनुपलब्धेश्चानयोरेवान्तर्भावान्न पृथग्विशिष्टलक्षणाभिधानमित्यवसेयम् ।

अथ किं हेतोरन्वयव्यतिरेकावेव लक्षणं येनैतद्द्वयमेव लक्षणातया स्मर्यते । न चैतत्पक्षधर्मताया अपि लक्षणत्वादभिहितत्वाच्चेति चेत् । सत्यम् । केवलं न हेतोः सर्वरूपमिह प्रक्रान्तम् । किन् तु यद्रूपप्रदर्शनेन दृष्टान्तप्रदर्शनं कृतं भवति तत्प्रकृतमिति ।

यद्यप्येवं यदि नाम सामायविशेषलक्षणाऽभिधानमतोऽभिधानात्किं भवति? किमः क्षेपे प्रयोगात्, न किञ्चिद्भवतीत्यर्थः । यद्(तद्) इत्युत्तरम् । चो यस्माद् । व्याप्तिप्रदर्शनेऽपि कथं दृष्टान्ताख्यानमवतरतीत्याह --- व्याप्तिश्चेति । हेत्वर्थश्चकारः । कार्यकारणभावसाधणात्प्रमाणान्निश्चीयतां व्याप्तिस्
तथापि दृष्टान्तः कथं प्रकृतो भवतीत्याह --- तत इति । दृष्टान्तमन्तरेण तदेव प्रमाणं न प्रवर्त्तेत । तदप्रवृत्तौ च सामान्यलक्षणमेव न ज्ञायेतेति भावः ।

[ध्प्र्२३७]

<असत्यग्नौ न >भवत्येव धूम इति व्यतिरेको दर्शितः । स च यथेतरस्मिन्निति दर्शनीयः । वह्निनिवृत्तिर्हि धूमनिवृत्तौ नियता दर्शणीया । सा च मानसादितरत्रेति दर्शणीया ।

<यत्र कृतकत्वं तत्र अनित्यत्वम्> इति स्वभावहेतोर्व्याप्तिर्दर्शिता । <अनित्यत्वाभावे> न भवत्येव कृतकत्वमिति व्यतिरेको दर्शितः । व्याप्तेश्च साधकं प्रमाणं [८०४]साधर्म्यदृष्टान्ते दर्शनीयम् । प्रसिद्धवाप्तिकस्य च हेतोः साध्यनिवृत्तौ निवृत्तिर्नियता[८०५] दर्शणीया । तदवश्यं <यथा घटे>, यथा <आकाशे >चेति <दर्शणीयं >।


__________टिप्पणी__________

[८०४] साधर्म्यं दृ-
[८०५] निवृत्तिर्दर्शनीया
___________________________



कस्मादेवमित्याह --- <न ही>ति । यस्माद्<अन्यथा> सामान्यलक्षणरूपे <सपक्षविपक्षयोः सदसत्त्वे यथोक्तप्रकारे >इति नियते --- सपक्ष एव सत्त्वम्, विपक्षेऽसत्त्वमेवेति नियमो यथोक्तप्रकारः --- ते <न शक्ये दर्श्यितुम् >। विशेषलक्षणे हि दर्शिते यथोक्तप्रकारे[८०६] सदसत्त्वे दर्शिते भवतः । न च विशेषलषणमन्यथा शक्यं दर्शयितुम् ।


__________टिप्पणी__________

[८०६] यथोक्तलक्षणे सद्-
___________________________


तस्य साध्यस्य कार्यम् --- तत्कार्यं धूमः । तस्य भावस्<तत्कार्यता > सैव <नियमो>



अन्वयप्रदर्शनेन साधर्म्यदृष्टान्ताख्यानमाख्याय व्यतिरेकोक्त्याऽपि वैधर्म्यदृष्टान्तौ किं (दृष्टान्तोक्तिं) दर्शयितुमाह --- असत्यग्नाविति । व्यतिरेकप्रदर्शणेऽपि कथं दृष्टाताऽऽपतनमिति आशङ्क्याह --- स चेति । चो यस्मादर्थे । इतरस्मिन्नग्निमत्प्रदेशादन्यस्मिन्महाह्नदादौ । यत्र कयोश्चिद्व्याप्यव्यापकभावो दर्शयितव्यस्तत्रास्तु दृष्टान्तोपनिपातः, व्यतिरेकोपदर्शने किं तेनेत्याह --- वह्नीति । हीति यस्मात् । अत्रापि विध्योर्विपर्ययेण व्याप्यव्यापकभावो दर्शयितव्य इत्यर्थः । एतच्च व्यतिरेकाख्यानं दृष्टान्तोपदर्शनमुद्दिष्टविषयं प्रयोगमधिकृत्योक्तमित्यधिगन्तव्यम् ।

यत्रेत्यादिना स्वभावहेतुमधिकृत्य दृष्टान्तस्य गतार्थत्वं दर्शयितुमुपक्रमते । एवं प्रदर्शयतां व्याप्तिः, दृष्टान्तावतारकस्तु (-तरस्तु) कथमित्याह --- व्याप्तेश्चेति । चो यस्मात् । प्रमाणाऽप्रदर्शने व्याप्तेरसिद्धेः । तच्च प्रमाणम्, अन्तरेणाधिकरणं न प्रमाणम्, अन्तरेणाधिकरणं न सम्भवतीति भावः । यद्येवं व्यतिरेक [७८ ] प्रदर्शने कृटे दृष्टान्तेनेत्याह --- प्रसिद्धेति । दर्श्यतामेव, तथापि दृष्टानोपनिपातः कथमित्याह --- तदिति । यस्मादेव दर्शनीयं तत्तस्मात् । सच्चासच्च सदसत्ती तयोर्भावस्ते प्रदर्शनक्रियापेक्षया च द्वितीयाद्विवचनान्तमेतत् । यादृश उक्तो यथोक्तः प्रकारः
स्वरूपं ययोस्ते तथोक्ते । अस्यैवार्थमाह --- नियते इति । सपक्षासपक्षससत्त्वयोरुक्तमेव प्रकारं स्पष्टयन्नाह --- सपक्ष इति । इतिर्नियमस्याकारं दर्शयति । ते यथोक्तप्रकारे सदसत्त्वे । कथं ते न शक्ये दर्शयितुमित्याह --- विशेषेति । हिर्यस्मादर्थे । दर्श्यतां तर्हि विशेषलक्षणम् । दृष्टान्तस्य तु किमायातमित्याह --- न चेति । हिर्यस्मादर्थे । दर्श्यतां तर्हि विशेषलक्षणम् । दृष्टान्तस्य तु किमयातमित्याह --- न चेति । चो यस्मादर्थेऽवधारणे वा । यद्विशेषलक्षणं दृष्टान्तमन्तरेणाशक्यप्रदर्शनं तत्स्वरूपाख्यानम्
। मूलं व्याख्यातुमाह --- तस्येत्यादि । विशेष-

[ध्प्र्२३८]

यतस्तत्कार्यतया धूमो नियतः । सोऽयं तत्कार्यतानियमो विशेषलक्षणरूपोऽन्यथा दर्शयितुमशक्यः । <स्वभावलिङ्गस्य च स्वभावेन > साध्येन < व्याप्तिर्>विशेषलक्षणरूपा न शक्या दर्शयितुम् । यस्मात्कार्यकारणभास्तादात्म्यं च महानसे घटे च ज्ञातव्यम्, तस्माद्व्याप्तिसाधनं प्रमाणं दर्शयता [८०७]साधर्म्यदृष्टान्तो दर्शणियः । वैधर्म्यदृष्टान्तस्तु प्रसिद्धे तत्कार्यत्वे कारणाभावे कार्याभावप्रतिपत्त्यर्थम्[८०८] । तत एव नावश्यं वस्तु भवति । कारणाभावे कार्याभावो वस्तुन्यवस्तुनि वा भवति । ततो वस्त्वस्तु वा वैधर्म्यदृष्टान्त इष्यते ।


__________टिप्पणी__________

[८०७] साध्यदृष्टा-
[८०८] -त्त्यर्थः
___________________________



तस्माद्दृष्टान्तमन्तरेण[८०९] न हेतोर्ऽन्वयो व्यतिरेको वा[८१०] शक्यो दर्शयितुमतो हेतुरूपाख्यानादेव हेतोर्व्याप्तिसाधनस्य[८११] प्रमाणस्य दर्शकः षाधर्म्यदृष्टान्तः।


__________टिप्पणी__________

[८०९] दृष्टानव्यतिरेकेण ःेतोर्
[८१०] वा न शक्यो
[८११] -साधकस्य
___________________________




प्रसिद्धव्याप्तिकस्य साध्याभावे [८१२]हेत्वभावप्रदर्शनाद्वैधर्म्यदृष्टान्त उपादेय इति च[८१३] दर्शितं भवति ।


__________टिप्पणी__________

[८१२] -भावदर्श-
[८१३] ’चऽ एवार्थे --- टि-
___________________________





लक्षणास्य स्वरूपमाख्यायाख्यान् यथाप्रदर्शनाशक्यत्वं दर्शयन्नाह --- सोऽयमिति ।

वैधर्म्यदृष्टान्तस्तर्हि न प्रदर्शनीय इत्याह --- वैधर्म्येति । तुः साधर्म्यदृष्टान्ताद्वैधर्म्यदृष्टान्तं भेदवन्तं दर्शयति । एतच्च यदा व्यतिरेकमुखेण प्रयोगः क्रियते, तत्कालाभिप्रायेणोच्यत इति द्रष्टव्यम् । न त्वेकस्मिन् प्रयोगे द्वयोपन्यासः सम्भवी । एतच्च प्रागेव निर्लोठितम् । यतः प्रसिद्धे तत्कार्यत्वे कारणाभावे कार्यभावप्रतिपत्त्यर्थं दर्शनीयो वैधर्म्यदृष्टान्तस्तत एव तस्मादेव कारणात् । नावश्यं नियमे [न] वस्तु भवति । वस्त्वपि वैधर्म्यद्ष्टान्तो भवतीत्यर्थः । यदि हि कस्यचिद्विधिना कस्यचिद्विधिर्दर्शयितव्यः स्यात्, तदा गम(गगना)दिरसन् कथं कस्यचिदाधारः
स्यादिति, न सिध्यते तदुपदर्शनम् । यदा त्वेकस्य व्याप्यस्याभावे अपरस्य व्यापकस्याभावो दर्शयितव्यस्तदा व्यापकस्याऽभावेऽवस्तुनि सुष्ठु सम्भवति । इतरथाऽभावेऽपि अस्य भावो विहितो भवेत् । सोऽपि नेति चेत्, अयमेवाभाव इत्यभिप्रायः । वैधर्म्यदृष्टान्तग्रहणं चैतदेकधर्माभावेनापरधर्माभावोपदर्शनविषयोपलक्षणं द्रष्टव्यनन्यथा साधर्म्यदृष्टान्ते त्ववश्यं वस्तु स आश्रय इष्ट इति स्यात् । तथा च सति बह्वसमञ्जसं स्यादिति । यतः कारणाभावात्कार्याभावो वस्तुन्यवस्तुनि च भवति ततः कारणाद्वस्तु महाह्रदादि । अवस्तु आकाशादि । वाशब्दस्तुल्यबलत्वं समुच्चिनोति ।

तस्मादित्यादिना प्रकृतमुपसंहरति । वाप्तिसाधकप्रमाणाधिकरणत्वाद्दर्शयतीति दर्शकः । यद्येवं साध्यसाधकव्याप्तिप्रसाधकप्रमाणप्रदर्शकत्वात्साधर्म्यदृष्टान्त एवोपादेयो न वैधर्यदृष्टात इत्याह --- प्रसिद्धेति । वैधर्म्यदृष्टान्त उपादेय इति योजयित्वा कुत उपादेय इत्याशङ्कायां प्रसिद्धेत्यादिहेतुपदं योज्यम् । साध्याभावे हेत्वभावप्रदर्शनात् । तत्रेति बुद्धिस्थम् । यद्वा प्रदर्श्यतेऽस्मिन्निति प्रदर्शयतीति वा प्रदर्शनो हेत्वभावस्य प्रदर्शन इति तथा । भावप्रधानत्वान्निर्देशस्य हत्वभावप्रदर्शनत्वादित्यर्थः ।

[ध्प्र्२३९]

<अस्मिंश्चार्थे दर्शिते> दर्शित एव दृष्टाआन्तो भवति । योऽयमर्थो व्याप्तिसाधनप्रमाणप्रदर्शनः[८१४] कश्चिदुपादेयो निवृत्तिप्रदर्शनश्[८१५] च --- इत्य्<अस्मिन्नर्थे [८१६]दर्शिते दर्शितो दृष्टान्त> [८१७]इत्याह --- <एतावन्मात्रं रूपं >यस्य तस्य भावस्तत्<त्व>म्, तस्मादिति । एतवावदेव हि रूपं दृष्टान्तस्य, यदुत व्याप्तिसाधनप्रमान्णप्रदर्शकत्वं[८१८] नाम साधर्म्यदृष्टान्तस्य, च[८१९] साध्यनिवृत्तौ साधननिवृत्तिप्रदर्शकत्वमित्य्[८२०]एतद्वैधर्म्यदृष्टान्तस्य । [८२१]एतच्च हेतुरूपाख्यानादेवाख्यातमिति किं दृष्टान्तलक्षणेन?


__________टिप्पणी__________

[८१४] प्रमाणदर्शिनः
[८१५] निवृत्तिपदर्शकश्च
[८१६] प्रदर्शिते
[८१७] दृष्टान्तः । कस्मादित्याह
[८१८] -प्रमाणदर्शनत्वं
[८१९] वा
[८२०] ’वैधर्म्यदृष्टान्तस्य एतत्ऽ ओम्.; ’वैधर्म्यदृष्टान्तस्यऽ ओम्.
[८२१] तत्; प्रगुक्तव्यायेन --- टि-
___________________________









एतेन एव दृष्टान्तदोषा अपि निरस्ता भवन्ति इइइ-१२३

<एतेन एव> च हेतुरूपाख्यानाद्दृष्टान्तत्वप्रदर्शनेन <दृष्टान्तदोषा[८२२] >कथिता [८२३]<भवन्ति> । तथाहि --- पूर्वोक्तसिद्धये य उपादीयमानोऽपि[८२४] दृष्टान्तो न समर्थः स्वकार्यं साधयितुं स दृष्टान्तदोष इति साम्यर्थ्यादुक्तं[८२५] भवति ॥


__________टिप्पणी__________

[८२२] दृष्टान्तस्य दोषाः
[८२३] निरसनद्वारा कथिताः --- टि-
[८२४]ऽपि न समर्थः
[८२५] -अर्थ्यादित्येतदुक्तं
___________________________







अस्मिंश्चे त्यादि मूलमनूद्य व्याचष्टे योऽयमिति । पूर्ववत्प्रदर्शनशब्दस्य व्युत्पत्तिः, समासश्च कर्त्तव्यः । प्रसिद्धायां व्याप्तौ साध्याभावे [७९ ] हेतोर्निवृत्तिप्रदर्शः इत्यर्थो द्रष्टव्यः । एतावदेवैतावन्मात्रम् । अन्यदप्यस्य रूपमस्तीत्याह --- एतावदेवेति । हिर्यस्मादेतत्परिमाणमस्येति तथा । एवकारेणान्यस्य ताद्रूप्यनिरासो दृढीकृतः । किं तद्रूपमित्याह --- यदुतेति । निपातसमुदायश्चायं यदेतदित्यस्यार्थे ॥

येषु दृष्टान्तत्वेनोपात्तेषु स्वकार्यका(क)रणासामर्थ्ये दोषः सम्भवति ते कुतश्चित्सामान्याद्दृष्टान्तवदाभासमाना दृष्टान्ताभासा भवन्तीति अर्थं न्यायमाश्रित्याह --- दृष्टान्तदोषा दृष्टान्ताभासाः कथिता भवन्तीति । यस्मात्ते दृष्टान्ताभासत्वे[न] कतिता भवन्त्यत एव द्ष्टान्तत्वेन निरस्ता भवतीत्यत एव मूलमर्थतो व्याख्यातमित्यवगन्तव्यम् । दृष्टान्ततत्त्वप्रदऋशनेन यथा दृष्टान्ताभासा(स)कथनं कृटं भवति तथा दर्शयितुं तथा हीत्यादिनोपक्रमते । पूर्वोक्तस्य जन्मतन्मात्रानुबन्धस्य सिद्धये निश्चिअयाय । स्वकार्य साधनसम्भवे साध्यप्रकर्शनसम्भवलक्षणम्,
सिद्धव्याप्तिकस्य च हेतोः साध्याभावे साधननिवृत्तिप्रदर्शनलक्षणं च साधयितुं य उपादीयमानोऽपि न समर्थः, स दृष्टान्तदोषो दुष्टो दृष्टान्तः, दृष्टान्ताभास इति यावत् । सामर्थ्यात्स्वकार्याकारणलक्षणात् ॥

[ध्प्र्२४०]

दृष्टान्ताभासाम् (-भासान्) उदाहरति ---

यथा नित्यः शब्दो अमूर्तत्वात् । कर्मवत्परमाणुवद्घटवदिति । एते दृष्टान्ताभासाः साध्यसाधनधर्मोभयविकलाः इइइ-१२४

<यथा [८२६]नित्यः शब्दो >इति [८२७]शब्दस्य नित्य्त्वे साध्ये <ऽमूर्तत्वाद्>इति हेतुः। साधर्म्येण <कर्मवत्परमाणुवद्घटवदित्>येते दृष्टाता उपान्यस्ताः । एते च दृष्टान्तदोषाः । <साध्यं >च <साधनं >च्<ओभय> चेति[८२८] । तैर्<विकलाः> । साध्यविकलं कर्म, तस्याऽनित्यत्वात् । साधनविकलः प्ररमाणुः, मूर्त्त्त्वात्परमाणूनाम् । [८२९]असर्वगतद्रव्यपरिमाणं मूर्त्तिः । असर्वगताश्च द्रव्यरूपाश्च परमानवः । नित्यास्तु <वैशेषिकैर्> इष्यन्ते । ततो न साध्यविकलः[८३०] । घटास्तूभयविकलः, अनित्यत्वान्मूर्त्तत्वाच्च घटस्येति[८३१] ॥


__________टिप्पणी__________

[८२६] यथेति नित्यः
[८२७] इति नित्यत्वे साध्ये शब्दस्यामूर्त-
[८२८] च । तैर्वि-
[८२९] असर्वगतं द्र-
[८३०] साध्यविकलाः
[८३१] घटस्य
___________________________







तथा सन्दिग्धसाध्यधर्मादयश्च । यथा --- रागादिमानयं वचनाद्रथ्यापुरुषवत् । मरणधर्मो अयं पुरुषो रागादिमत्त्वाद्रथ्यापुरुषवत् । असर्वज्ञो अयं रागादिमत्वाद्रथ्यापुरुषवदिति इइइ-१२५

<तथा[८३२] >सन्दिग्धः साध्यधर्मो यस्मिन् स <सन्दिग्धसाध्यधर्मः >। स आदिर्येषां ते तथोक्ताः । सन्दिग्धसाध्यधर्मः । सन्दिग्धसाध्यधर्मः सन्दिग्धोभयः[८३३] ।


__________टिप्पणी__________

[८३२] तथेति
[८३३] -भयधर्मः
___________________________





दृषान्ताभासानित्यादि परमाणूनामित्येतदन्तं सुगमम् ।

कथं परमाणवः साधनविकला न साध्यविकला इत्याह --- असर्वेति । परिमाणं मानव्यवहारकारणम् । तच्च गुणत्वाद्द्रव्याश्रयीति । द्रव्यग्रहणेन वास्तवं रूपमनूदितम् । तत्र यदि द्रव्यपरिमाणं मूर्त्तिरित्येव तावदुच्यते तदाऽऽकाशादेरपि द्रव्यस्य परममहत्त्वनामधेयं परिमाणमस्तीति मूर्त्तत्वं प्रसज्येत । अतस्तन्निवृत्त्यर्थं द्रव्ये विशेषणमसर्वगतग्रहणम् । तत्र परमाणोः परमाणं भवत्यसर्वगतस्य द्रव्यस्येति दर्शयन्नाह --- असर्वगताश्चेति । समवायिकारणं द्रव्यं गुणवद्वेति द्रव्यलक्ष्णयोगाद्द्रव्यरूपः । चकारौ पूर्वापेक्षया एकविषयत्वमनयोः समुच्चिनुतः
। तत्पुनः परमाणोः परिमाणं पारिमाण्डलसंज्ञकं ज्ञातव्यम् । इयता साधनवैकल्यं दर्शितम् ।

साध्यावैकल्यं दर्शयन्नाह --- नित्यास्त्विति । तुनेनार्थमान्तरेण(?)विशिनष्टि । द्रव्यगुणकर्मसामान्यविशेषसमवायात्मकैः पदार्थविशेषैर्व्यवहरन्तीति <वैशेषिकाः>, रूढ(ढे)श्चाभ्युपगत<कणादशास्त्रा> एवोच्यते । अथ [वा] षट्पदार्थीप्रतिपादकतया विशिष्यते तदन्यस्माच्छास्त्रादिति विशेषः <काणादं> <शास्त्रं> विवक्षितम् ।[८३४]"तद्विदन्त्यधीयते वा" इति <वैशेषिकास्> तैरिष्यन्त इति वचनव्यक्त्या चेष्टिमात्रमेतन्न पुनरत्र प्रमाणमस्तीति सूचयति ।


__________टिप्पणी__________

[८३४] तुलना --- "तदधीते तद्वेद" पाणिनि ४,२,५९.
___________________________






[ध्प्र्२४१]

उदाहरणम् --- <रागादिमान्> इति रागादिमत्त्वं साध्यम् । <वचनाद्> इति हेतुः । < रथ्यापुरुषवत्> इति दृष्टान्ते[८३५] । रागादिमत्त्वं सन्दिग्धम् । मरणं धर्मोऽस्येति <मरणधर्मा >। तस्य भावो मरणधर्मत्वं साध्यम् । <अयं पुरुष> इति धर्मी । <रादिमत्त्वाद्> इति हेतुः । <रथ्यापुरुषे >दृष्टान्ते सन्दिग्धं साधनम् । साध्यं तु निश्चितं मरणधर्मत्वमिति ।< असर्वज्ञो >इति । असर्वज्ञो साध्यम् । <रागादिमत्वाद्> इति हेतुः । तदुभयमपि <रथ्यापुरुषे> दृष्टान्ते सन्दिग्धम् । असर्मज्ञत्वं रागादिमत्त्वं चेति ॥


__________टिप्पणी__________

[८३५] दृष्टान्तः रागादि-
___________________________


[८३६]तथाऽनन्वयो अप्रदर्शितान्वयश्च । यथा यो उक्ता स रागादिमान्, इष्टपुरुषवत् । अनित्यः शब्दः कृतकत्वाद्घटवदिति इइइ-१२६


__________टिप्पणी__________

[८३६] तथा --- ओम्.
___________________________


<तथाऽनन्वयो> इति । यस्मिन् दृष्टान्ते दृष्टान्ते साध्यसाधनयोः सम्भवमात्रं दृश्यते, न तु साध्येन व्याप्तो हेतुः, सोऽनन्वयः । < अप्रदर्शितान्वयश्च> --- यस्मिन् दृष्टान्ते विद्यमानोऽप्यन्वयो न प्रदर्शितो वक्त्रा सोऽप्रदर्शितान्वयः ।

अनन्वयमुदाररति --- <यथे>ति । <यो उक्ते>ति वक्तृत्वमनूद्य <स रागादिमान्> इति रागादिमत्त्वं[८३७] विहितम् । ततो वक्तृत्वस्य रागादिमत्त्वं(वे) प्रतिनियमः । तेन व्याप्तिरुक्ता । <इष्टपुरुषवद्> इति । <इष्ट>ग्रहणेन प्रतिवाद्यपि [८३८]संगृह्यते वाद्यपि । तेन वक्तृत्वरागादिमत्त्वयोः सत्त्वमात्रमिष्टे पुरुषे सिद्धम् । व्याप्तिस्तु न सिद्धा । तेनाऽनन्वयो दृष्टान्त इति ।


__________टिप्पणी__________

[८३७] -मत्त्वे विहितम्
[८३८] गृह्यते
___________________________



<अनित्यः शब्द> इत्यनित्यत्वं साध्यम् । <कृतकत्वाद्> इति हेतुः । <घटवद्> इति[८३९] दृष्टान्ते न प्रदर्शितोऽन्वयः ।


__________टिप्पणी__________

[८३९] -इत्यत्र दृ-
___________________________




तत इत्यादि मरणधर्मत्वमित्येतदन्तं सुज्ञानम्।

ननु मरणधर्मत्वमप्यस्य कथं निश्चिंतं येन हेतुरेव सन्दिग्ध उच्यते इति चेत् । सत्यम् । केवलं प्रसिद्धिसमाश्रयेणैवमुक्तमित्यवसेयम् । अन्वीयमानत्वं साधनस्य साध्येनान्वयः । स च प्रतिबन्धसाधकप्रमाणाक्षेपात्प्रसिद्ध्यति । यत्र तु तन्नास्ति केवलं सम्भवमात्रं साहचर्यमात्रं दृश्यत इत्यभिप्रायः ॥

वक्तृत्वस्य हेतो रागादिमत्त्वे [७९ ] साध्ये प्रतिनियमः प्रतिनियतत्वमुक्तमिति शेषः । तेन साध्यनियतत्वेन व्याप्तिरनयोरुक्ता प्रदर्शिता । एवंविधानुवादविध्युपकर्शने तथा प्रतीतेराहत्योदयाद्व्याप्तिरुक्तेत्युक्तम् । न त्वसावनयोर्वाक्यतोऽस्ति । यतो द्वयोरपि वादिप्रतिवादिनोर्दृष्टातत्वेन सङ्ग्रहः तेन हेतुना सत्त्वमात्रं सम्भवमात्रं साहचर्यमात्रमिति यावत् । अस्ति चेष्टिः सहमात्रोपकर्शनमदोषावहमित्याह --- व्याप्तिस्त्विति । तुः सत्त्वमात्राद्व्याप्तिं भिन्नत्ति । न सिद्धा न प्रमाणनिश्चिता । अनओर्व्यातिसाधकप्रमाणाभावादिति भावः ।

प्रदर्शितान्वयमुदाहारन्नाह --- अनित्य इति ।



[ध्प्र्२४२]

इह यद्यपि कृटक्त्वेन घटसदृशः शब्दस्तथापि नानित्यत्वेनापि सदृशः प्रत्येतुं शक्यते[८४०]ऽतिप्रसङ्गात्[८४१] । यदि तु कृटकत्वम् [८४२]अनित्यस्वभावं [८४३]विज्ञातं भवत्य्[८४४]एवं कृतकत्वादनित्यत्वप्रतीतिः स्यात् । तस्माद्यत्कृतकं तदनित्यमिति कृतकत्वमनित्यत्वे[८४५] नियतमभिधाय नियमसाधनायान्वयवाक्यार्थप्रतिपत्तिविषयो दृष्टान्त उपादेयः । स च प्रदर्शितान्वय एव । अनेन त्वन्वयवाक्यमनुक्त्वैव दृष्टान्त उपात्तः । ईदृशश्च साधर्म्यमात्रेणैवोप्रयोगी । न च साधर्म्यात्साध्यसिद्धिः । अतोऽन्वयार्थो दृष्टान्तस्तदर्थश्चानेन नोपात्तः । साधर्म्यार्थश्चोपात्तो निरुपयोग


__________टिप्पणी__________

[८४०] शक्योऽति-
[८४१] पाक्योऽपि प्राप्तः --- टि-
[८४२] अनित्यत्व
[८४३] ज्ञातं
[८४४] -त्येव कृ
[८४५] -अनित्यत्वनियतम्
___________________________









ननु घटोपदर्शनेन कृतकत्वेन ताद्घटसदृशः शब्दो दर्शितः । तथा चानित्यत्वेनापि सदृशो दर्शितस्ततश्च व्याप्तिर्दर्शितैवेत्याह --- इहेति । इहानित्यत्वसिद्धिप्रस्तावे । कुतस्तथा प्रत्येतुमशक्य इत्याह --- अतिप्रसङ्गादिति । मूर्त्तत्वाद्(दे)रपि सादृश्यागम(सादृश्यावगमात्) प्रसक्तिर्(-क्तेर्) इष्टं धर्ममतिक्रियान्तः पर्सङ्गोऽतिप्रसङ्गः तस्मात् । न तर्हि कृतकत्वादनित्यत्वं कदाचिदपि प्रत्येतव्यमित्याह --- यदि त्विति । तुरिमामवस्थां विशेषवतीं दर्शयति । यदि कृतकत्वानुवादपूर्विका(-पूर्वक)विधानेनार्थान्तरत्वे सति न नित्यत्वस्वभावं कृतकत्वं प्रतीतं भवत्येवं तत्स्वाभाव्येन प्रतिपत्तौ कृतकत्वादनित्यत्वप्रतीतिः
स्यात् । यतः कृतकत्वस्यानित्यत्वस्वभावावगमात्ततस्तत्प्रतीतिर्नान्यथा तस्माधेतोः । अन्वयवाक्यस्य साध्यनियतत्वं साधनस्यार्थोऽभिधेयः, तत्प्रतिपत्तिविषयस्तत्प्रदर्शन इत्यर्थः । अन्वयवाक्यार्थप्रतिपत्तिविषयोऽपि दृष्टान्तो यद्यप्रदर्शितान्वयस्तदा सोऽपि निरुपयोगः किमित्युपादेय इत्याह --- स चेति । चोऽवधारणे यस्मादर्थे वा । अनेन कथं नामायमुपात्तो येनैवमभिधीयत इत्याह --- अनेनेति । अनेन्न वादिना । तुर्विशेषार्थः । अन्वयप्रतिपादकं वाक्यमन्वयवाक्यम् । तदनुक्त्वैव । अथैवमुपात्तोऽपि यद्युपयुज्यते तदा का क्षतिरित्याह --- ईदृशश्चेति । चकारोऽस्येमामवस्थां भेदवतीमाह ।
समानः प्रकरणाद्घटेन सदृशो धर्मो यस्यासौ सधर्मा । तस्य भावः साधर्म्यम् । तदेव तन्मात्रम् । मात्रग्रहणेन विशिष्टं साधर्म्यमपाकरोति । तेनैवकारेण निराकृतनिरासमेव द्रढयति । साधर्म्यप्रदर्शनमात्रेणैवायमुपयोगवानित्यर्थः । अथैतत्पददर्शितात्साधर्म्यादपि यदि साध्यं सिद्ध्यते तदा कथमयमनुपयुक्त इत्याह --- न चेति । चोऽवधारणे यस्मादर्थे वा ।

एवं ब्रुवतोऽयं भावः --- अनेन खलु साधर्म्यं प्रदर्शनीयम् । कृतकत्वेनैव च साधर्म्यं प्रदर्श्यायञ्चरितार्थो भविष्यति । न च कृतकत्वेन घटसाधर्म्ये शब्दस्यावगतेऽप्यनित्यत्वेनापि तत्साधर्म्यावगमोऽवश्यम्भावीति शक्यमभिधातुम् । मूर्त्तत्वादिनापि सादृश्यावगमेऽस्यानिवार्यत्वप्रसङ्गादिति । यतः साधर्म्यमात्रान्न साध्यसिद्धिरतः कारणात् । अन्वयोऽन्वीयमानत्वं साधनस्य साध्येन सोऽर्थः प्रयोजनं [८० ] यस्य स तथा न साधर्म्यमात्रप्रदर्शनार्थ इत्यर्थात् । अनेनाप्यन्वयार्थ एवायमुपात्त इत्याह --- तदर्थश्चेति । चो यस्मादर्थे । सोऽन्वयोऽर्थो यस्य स तथा । अनेन वादिना । किमर्थस्तर्ह्यनेनायमुपात्त इत्याह --- साधर्म्येति । चो यस्मादर्थे ।

[ध्प्र्२४३]

इति वक्तृदोषादयं दृष्टान्तदोषः । वक्त्रा ह्यत्र परः पतिपादयितव्यः । ततो यदि नाम न दुष्टं वस्तु तथापि वक्त्रा दुष्टं दर्शतमिति दुष्तमेव ॥

तथा विपरीतान्वयः --- यदनित्यं तत्कृतकमिति इइइ-१२७

<तथा विपरीतान्वयो >यस्मिन् दृष्टाते स तथोक्तः । तमेवोदारति --- <यदनित्यं तत्कृतकमिति >। कृतकत्वमनित्यत्वनियतं दृष्टान्ते[८४६] दर्शनीयम् । एवं कृतकत्वादनित्यत्वगतिः स्यात् । अत्र त्वनित्यत्वं कृतकत्वे[८४७] नियतं दर्शितम् । कृतकत्वं[८४८] त्वनियतमेवानित्यत्वे ।[८४९] ततो यादृशमिह कृतत्वमनियतमनित्यत्वे [८५०]दर्शितं तादृशान्नास्त्यनित्यत्वप्रतीतिः । तथा हि --- <यदनित्यम् >इत्यनित्यत्वमनूद्य तत्<कृतकम् >इति कृतकत्वं विहितम् । अतोऽनित्यत्वं नियतमुक्तं कृतकत्वे, न तु कृतकत्वमनित्यत्वे । ततो यथाऽनित्यत्वादनियतात्प्रयत्नानन्तरीयकत्वे न प्रयत्नान्तरीयकत्वप्रतीति, तद्वत्कृतक्त्वादनित्यत्वप्रतिपत्तिर्न स्याद्, अनित्यत्वेऽनियतत्वात्कृतकत्वस्य



__________टिप्पणी__________

[८४६] दृष्टान्तेन
[८४७] -कत्वनियतं
[८४८] त्वनित्यतमेवोक्तमनित्यत्वे
[८४९] अत्र ’ततः कृतकत्वमनित्यत्वे नियतमेवऽ इत्यधिकः पाठोऽस्ति ।
[८५०] प्रदर्शितम्
___________________________








साधर्म्यार्थः साधर्म्यप्रतिपादनप्रयोजन उपात्तस्तस्मान्निरुपयोगः स । तस्मादर्थे वा । अयं चशब्दात्परो द्रष्टव्यः । ननु कृतकत्वानित्यत्वयोस्तावद्वस्तुतोऽन्वयोऽस्त्येव । तत्कथं विद्यमानेऽपि तस्मिन् तथाऽप्रदर्शनमात्रेणासौ दृष्टान्तो दुष्यतीत्याह --- वक्तृदोषादिति । वक्ता हीत्यादिनैतदेव समर्थयते । ननु वक्तैवासौ तथा प्रदर्शयन्नपराध्यतु, अन्यस्य दृष्टान्ततपस्विनः कोऽपराध इति चेत् । स्वकार्याऽकरणमेव दोषः । तदकरणं तस्य स्वत एव (एवाऽ)सामर्थ्याद्, अन्येनान्यथा प्रदर्शनाद्वाऽस्तु । किमेतावता तदकरणं तस्य नास्त्येवेति सूक्तं वक्तृदोषादयम्ण्दृष्टान्तदोष
इति ।

विपरीतोऽन्वय इति वैपरीत्येन प्रदर्शनाद्विपरीत उक्तो न तु विपरीतोऽन्वयोऽस्त्येव । कीदृशोऽविपरीतोऽन्वयो यस्मादयं विपरीत इत्याह --- कृतकत्वमिति । एवं प्रदर्शने को गुण इत्याह --- एवमिति । एवं कृतकत्वस्यानित्यत्वे नियतत्वप्रदर्शने सति । अत्र पुनः कुत्र किं नियतमित्याह --- अत्रेति । तुरिमामवस्थां विशेषवतीं दर्शयति । अनित्यत्वानुवादेन कृतक्त्वस्य विधानाद्विधीयमानस्य व्यापकतया नियमविषयत्वादित्यभिसन्धिः कृतकत्वं पुनः कीदृशं दर्शितमित्याह ---[कृतकत्वमिति] । तुरनित्यत्वात्कृतकत्वं भिनत्ति । अनित्यत्वे नियतादपि कृतक्तवादि(-वाद)नित्यत्वं प्रतिपश्येत इत्याह --- तत इति । यत एवमनुवादविधिक्रमे
कृतकत्वमनित्यत्वानियतं दर्शतं भवति, ततस्तस्मादिह प्रयोगे । यादृशमिति विधीयमानम् । पूर्वमेवं वादिनाऽनित्यत्वं कृतकत्वे नियतं दर्शितम्, न कृतकत्वं नित्यत्वे चेति प्रतिज्ञामात्रेणोक्तमधुना तु येन प्रकारेण तस्यैव प्रदर्शनमायातं तथा हीत्यादिना तद्दर्शयति । अनित्यत्वं प्रयत्नानन्तरीयकत्वम्

[ध्प्र्२४४]

यद्यपि च कृतकत्वं वस्तुस्थित्याऽनित्यत्वे नियतं [८५१]तथाप्यनित्यतं वक्त्रा [८५२]दर्शितम् । अतः [८५३]स्वयमदुष्टमपि [८५४]वक्तृदोषाद्दुष्टम् ।


__________टिप्पणी__________

[८५१] ’तथाप्यनियतंऽ ओम्.
[८५२] प्रदर्शितम्
[८५३] अतस्तत्स्वयं न दुष्ट-
[८५४] वक्तुर्दोषात्
___________________________





तस्माद्विपरीतान्वयोऽपि वक्तुरपराधात्, न वस्तुत (न) । परार्थानुमाने च[८५५] वक्तुरपि [८५६]दोषश्चिन्त्यत इति ॥


__________टिप्पणी__________

[८५५] च --- नास्ति
[८५६] न केवलं हेतोः --- टि-
___________________________



साधर्म्येण दृष्टान्तदोषाः[८५७] इइइ-१२८

__________टिप्पणी__________

[८५७] दृष्टान्तदोषाः --- ओम्.
___________________________


<साधर्म्येण[८५८]> नव <दृष्टान्तदोषाः >॥


__________टिप्पणी__________

[८५८] -येन तद्दृ
___________________________


वैधर्मेणापि[८५९] दृष्टान्तदोषान् [८६०]वक्तुमाह ---


__________टिप्पणी__________

[८५९] -पि नव दृ-
[८६०] वक्तुकाम आह
___________________________



वैधर्म्येण अपि --- परमाणुवत्कर्मवताकाशवदिति साध्याद्यव्यतिरेकिणः इइइ-१२९

नित्यत्वे शब्दस्य साध्ये हेतावमूत्तत्वे [८६१]परमाणुर्वैधर्म्यदृष्टान्तः साध्याव्यतिरेकी । नित्यत्वात्परमाणूनाम् । कर्म साधनाव्यतिरेकि, अमूर्त्तत्वात्कर्मणः आकाशमुभयाव्यतिरेकि, नित्यत्वादमूर्त्तत्वाच्च ।


__________टिप्पणी__________

[८६१] परमाणुवद्वध-{वैध-}; परमाणुर्वैधर्येण
___________________________




अन्तरेणाचिरप्रभादौ दृश्यमानमनित्यतं तत्र । तत्र यथाऽनित्यत्वात्प्रयत्नानन्तरीयकत्वाप्रतीतिस्तद्वत्कृतकत्वादप्यनित्य[त्व]नित्यत्वप्रतीतिर्भवितुमर्हति ।

ननु भवतु अनित्यत्वात्प्रयत्नानन्तरीयकत्वाप्रतीतिर्वस्तुतस्तस्य तत्रानियतत्वात्कृतकत्वं तु परमार्थतो नियतं नित्यत्वे । तत्कुतस्तस्मात्तस्याप्रतीतिरित्याह --- यद्यपीत्यादि । एवं ब्रुवतोऽयं भावः --- वस्तुतश्छेदनस्वभावोऽपि परशुर्यदाच्छेदकेन भ्रान्त्याऽन्यथा वा उद्वर्त्त्य बाहुमुद्यम्य द्वैधीभावार्थं धवादौ निपात्यते, तदा तेन स्वयमदुष्टेनापि यथा छिदा न सम्पाद्यते, तद्वदनेनापि परोक्षार्थप्रतीतिर्न सम्पाद्यते, स्वयमदुष्टेनापीति ।

यस्मादेवं तस्माद्[८० ] हेतोर्वक्तुरनुमापयितुरपराधाद्दोषाद्विपरीतान्वयोऽपि दृष्टान्तदोष इति दोषः । न केवलमप्रदार्शितान्वय इत्याह --- परार्थेति । न केवलं साधनस्य दोषश्चिन्त्यत इत्यपि शब्दात् ॥

यतोऽल्पीयो नास्ति स परमाणुः वैधर्म्यप्रतिपाद [न] विषयोपात्तत्वान् वैधर्म्यदृष्टान्त उक्तः । साध्यस्याव्यतिरेको निवृत्त्यभावः सोऽस्यास्तीति तथोक्तः



[ध्प्र्२४५]

साध्यमादिर्येषां तानि साध्यादीनि साध्यसाधनोभयानि । तेषामव्यतिरेको[८६२] निवृत्त्यभावः । स येषामस्ति ते <साध्याद्यव्यतिरेकिणः > । ते चोदाहृताः ॥


__________टिप्पणी__________

[८६२] -रेको वृत्त्य-; रेको निवृत्ता (त्त्य) भावः
___________________________


अपरानुदाहर्त्तुमाह ---

तथा सन्दिग्धसाध्यव्यतिरेकादयः, यथा असर्वज्ञाः <कपिला>दयो अनाप्ता वा अविद्यमानसर्वज्ञताप्ततालिङ्गभूतप्रमाणातिशयशासनत्वादिति । अत्र[८६३]वैधर्म्योदाहरणम् --- यः सर्वज्ञ आप्तो वा स ज्योतिर्ज्ञानादिकमुपदिष्टवान्,[८६४]यथा ---[८६५]<ऋषभवर्धमाना>दिरिति । [८६६]तत्रासर्वज्ञतानाप्तयोः साध्यधर्मयोः सन्दिग्धो व्यतिरेकः इइइ-१३०


__________टिप्पणी__________

[८६३] वैधर्म्येणोदा-
[८६४] तद्यथा
[८६५] वृषभा
[८६६] इति वैधर्म्योदाहरणादसर्व-
___________________________





<तथे>ति । साध्यस्य व्यतिरेकः साध्यवतिरेकः । संदिग्धः साध्यव्यतिरेको यस्मिन् स <संदिग्धसाध्यव्यतिरेकः> । स आदिर्येषां ते तथोक्ताः ।

संदिग्धसाध्यव्यतिरेकमुदाहर्त्तुमाह --- <यथे>ति । <असर्वज्ञा> इत्येअक्ं साध्यम् । <अनाप्ता >अक्षीणदोषा इति द्वितीयम् । <<कपिला>दय> इति धर्मी । <अविद्यमानसर्वज्ञते>त्यादि हेतुः । <सर्म्वज्ञाता> च < आप्तता > च तयोर्<लिङ्गभूतः प्रमाणातिशयो> लिङ्गात्मकः प्रमाणविशेषः । <अविद्यमानः सर्वज्ञाताप्ततालिङ्गभूतः प्रमाणातिशो> यस्मिन् तत्तथोक्तं <शासनम्> । तादृशं शासनं येषां ते[८६७] तथोक्ताः । तेषां भावस्तत्त्वम् । तस्मात् । <प्रमाणातिशयो >ज्योतिर्ज्ञानोपदेश इहाभिप्रेतः । यदि हि <कपिला>दयः <सर्वज्ञा आप्तो वा> स्युस्तदा <ज्योतिर्ज्ञानादिकम्
>कमान्नोपदिष्टव्न्तः? न चोपदिष्टवन्तः । तस्मान्न सर्वज्ञा आप्ता वा ।


__________टिप्पणी__________

[८६७] <कपिलादयः> --- टि-
___________________________


अत्र प्रंाणे <वैधर्म्योदाहरणम् । यः सर्वज्ञ आप्तो वा स ज्योतिर्ज्ञानादिकं >सर्वज्ञताप्तता लिङ्गभूतमुअपदिष्टवान् । <यथा ऋषभो वर्धमानश्च> तावादी यस्य स <<ऋषभवर्धमाना>दिर्>दिगम्बराणां



प्रकरणात्क्षीणदोषत्वमाप्तत्वक्षणमस्य विवक्षितमिति तत्वा अनाप्ता अक्षीणदोषा इति व्याचष्टे । <कपिलः> <सांख्य>दर्शनकारो मुनिः । आदिशब्दो <गौतमा>देः सङ्ग्रहः । शासनं मार्गस्तत्प्रणीतशास्त्रमिति यावत् ।

ननु तेषामपि शासने लिङ्गात्मकः प्रमाणातिशयोऽनेकोऽस्त्येव । तत्कथं हेतुरयमसिद्धो न भवतीत्याह --- प्रमाणातिशय इति । ज्योतिषां ग्रहनक्षत्राणां ज्ञानं तस्योपदेशः । ज्योतिर्ज्ञानस्योपलक्षणत्वाज्ज्योतिर्ज्ञानाद्युपदेश इत्यवगन्तव्यम् । तदयं समुदायार्थः --- यस्मात्तैर्ज्योतिर्ज्ञानमन्यातीन्द्रियज्ञानं च स्वशासने नोपदिष्टं तस्मात्ते न तथारूपा इति । यदि हीत्यादिनैतदेव दर्शयति

[ध्प्र्२४६]

शास्ता[८६८] सर्वज्ञश्[८६९] च आप्तश्चेति । तदिह वैधर्म्योदाहरणादृशभादेरसर्वज्ञत्वस्यानाप्ततायाश्च व्यतिरेको व्यावृत्तिः संदिग्धा । यतो ज्योतिर्ज्ञानं चोपदैशेदसर्वज्ञाश्च भवेदनाप्ता वा । कोऽत्र विरोधः? नैमत्तिकमेतज्ज्ञानं व्यभ्दिचारि न सर्वज्ञत्वमनुमापयेत् ॥


__________टिप्पणी__________

[८६८] शास्ता साध्ययतिरेकः सर्व-
[८६९] च --- ओम्.
___________________________





आदिशब्देनान्यातीन्द्रियज्ञानं संगृह्यते । <ऋषभवर्धमान>नामधेयावह्नीकाणामिष्टदेवौ । आदिशब्देन <पार्श्वनाथारिष्टनेमि>प्रभृतेः सङ्ग्रहः । शास्ता स्वदृष्टमन्योपदेष्टा । सर्वज्ञश्चाप्तश्चेत्यनेन द्वयस्यापि साध्यस्याभावं दर्शयति । यदाह --- <अकलङ्कः> --- "यदि सूक्ष्मे व्यवहिते वा वस्तुनि बुद्धिरत्यन्तपरोक्षे न स्यात्कथं तर्हि ज्योतिर्ज्ञानाविसंवादः? ज्योतिर्ज्ञानमपि हि सर्वज्ञप्रवर्त्तितमेव, एतस्मादविसंवादिनो ज्योतिर्ज्ञानात्सर्वज्ञसिद्धिः । तदुक्तम् ---

धीरत्यन्तपरोक्षेऽर्थे न चेत्पुंसां कुत पुनः ।

ज्योतिर्ज्ञानाविसंवादः श्रुतत्वाच्चेत्साधनान्तरम् ॥" [सिद्धिवि- पृ-४१३] इति ।

कथं पुनः सत्यपि ज्योतिर्ज्ञानाद्युअपदेशे विपक्षादृषभादेरसर्वज्ञत्वादेर्व्यावृत्तिः सन्दिग्धेत्याह --- यत इति । अत्र सर्वज्ञतायामनिष्टायां सत्यामपि ज्योतिर्ज्ञानायुअप्देशे को विरोधोऽनुपपत्तिः? क्षेपे किमः प्रयोगान्न कश्द्चिदित्यर्थः ।

अथासर्वज्ञत्वे तस्यैतस्मादिदं ग्रहोपरागादि भावि ततश्चैवं भावीति ज्ञानं कथं वृत्तं येन सम्वादि तथोपदिशेत् । तस्मात्सर्वज्ञ एवासाविति निश्चय इत्याशङ्क्याह --- नैमित्तकमेतदिति । एतज्ज्योतिर्जानादिकं निमित्तात्परम्परया कारणाद् । विषयेण च विषयिणो निर्देशान्निमित्तदर्शनादागतं नैमित्तकम्, अत एव तदुपदेष्टुः सरज्ञता व्यभिचरतीति । तथा सर्वज्ञतामन्तरेणापि भवतीदानीन्तनज्योतिषिकाणामिवाऽतीन्द्रियोपरागादिज्ञानमित्यभिप्रायः । तथाभूतं ज्ञानं न सर्वज्ञतामनुमापयेदनुमापयितुं शक्नोति ।

ननु च तथाभूतेन भाविवस्तुना सह कस्यचित्कार्यकारणभाव एव तेन कश्चिद्ज्ञातः । यद्य्[८१ ] असावसर्वज्ञो भवेदसर्वज्ञश्च कथमुपदिशेदिति चेत् । न । एतदन्यतोऽपि ज्ञात्वा तदुपदेश्डसम्भवात् । तस्यान्यतस्तथाविधात् । न चादिमान् संसारः । येन स एवाद्यस्तथा ज्ञानी सर्वज्ञः, स चास्माकमृषभादिरित्यप्युच्येत । अथ वा --- यद्यसौ असर्वज्ञस्तदा तस्य तथाभूतस्य साध्यसाधनभावस्याविदुष उपदेशादस्मादादीनामतीन्द्रियोपरागादिज्ञानं संवादि च कथं भवेदित्याशङ्क्याह --- नैमित्तकमिति ।

अयमर्थः --- कारणदर्शनस्वभावकार्यज्ञानमेतत्, एतच्च भाविवस्तुव्यतिर्केण भवेदपि, नावश्यं कारणानि कार्यवन्ति भवन्तीति न्यायात् । एतच्च व्यभिचारि ज्ञानमुपदिश्यमानं नोपदेष्टुः सर्वज्ञतामनुमापयितुं कल्प्यते ।

अथ तदेव तस्य तथा भूतस्य कारणवस्तुनस्तत्तद्भाविवस्तु प्रतिकारणात्वं कथं जानीयात्कथं चोपदिशेद्यद्यसावसर्वज्ञ इति चेत् । अन्यतस्तद्धि ज्ञात्वा ज्ञातं(-नं) चोपदेशश्च तस्योपपद्यते ।

[ध्प्र्२४७]

सन्दिग्धसाधनव्यतिरेको यथा, न त्रयीविदा ब्राह्मणेन ग्राह्यवचनः कश्चिद्[८७०]विवक्षितः पुरुषो रागादिमत्त्वादिति । अत्र वैधर्म्योदाहरणम् --- ये ग्राह्यवचना न ते रागादिमन्तः । तद्यथा[८७१]<गौतमा>दयो धर्मशास्त्राणां[८७२]प्रणेतार इति । <गौतमा>दिभ्यो रागादिमत्त्वस्य साधनधर्मस्य व्यावृत्तिः सन्दिग्धा इइइ-१३१


__________टिप्पणी__________

[८७०] कश्चित्पुरुषो
[८७१] <गोतमा>
[८७२] धर्मशास्त्रप्रणे-
___________________________




<सन्दिग्धसाधनव्यतिरेको> यस्मिन् स तथोक्तः । तमुदारति --- <यथे>ति । ऋक्सामयजूंषि त्रिणि त्रयी तां वेतीति[८७३] <त्रयीविद्> । तेन न ग्राहं वचनं यस्येति साध्यम् । <विवक्षित >इति <कपिलादिर्> धर्मी । <रागादिमत्त्वाद्>इति हेतु ।


__________टिप्पणी__________

[८७३] वेत्ति त्रयी-
___________________________


<अत्र> प्रमाणे <वैधर्म्योदाहरणम् --- >साधयाभावः साधनाभावेन [८७४]यत्र व्याप्तो दर्श्यते तद्वैधर्मोदाहरणम् । ग्राह्यं वचनं येषां ते <ग्राह्यवचना > इति साध्यनिवृत्तिमनूद्य <न ते रागादिमन्त> इति साधनाभावो विहितः । <<गौतमा>दयो> <आदिर्> येषां ते तथोक्ता मन्वादयो धर्मशास्त्राणि स्मृतयस्तेषां कर्त्तारः त्रयीविदा हि ब्राह्म्यणेन ग्राह्यवचना धर्मशास्त्रकृतो वीतरागाश्च त इतीह [८७५]धर्मी व्यतिरेकविषयो <गोतमा>दय इति । <गौतमादि>भ्यो रागादिमत्त्वस्य साधनस्य निवृत्तिः सन्दिग्धा । यद्यपि ते ग्राह्यवचनास्त्रयीविदस्तथापि [८७६]किं सरागा उत वीतरागा इति सन्देहः ॥ < >


__________टिप्पणी__________

[८७४] -भावेन व्याप्तो यत्र दर्श्यते
[८७५] इतीह धर्मिव्य-; इति धर्मी; इति धर्मिव्य-
[८७६] विदा तथापि
___________________________




सन्दिग्धोभयव्यतिरेको यथा --- अवीतरागाः <कपिला>दयः, परिग्रहाग्रहयोगादिति । अत्र वैधर्म्येण उदाहरणम् --- यो वीतरागो न तस्य परिग्रहाग्रहः ।



तस्याप्यन्यस्माद् । अनादिश्च संसार इति कथमेतावन्मात्रेण वर्धमानाहेः सर्वज्ञत्वसिद्धिरिति ॥

त्रयोऽवयवा यस्याः संहतेरिति त्रयीत्यदन्तात्ङीप् । किमत्र साध्या [भावा]नुवादेन साधना भाओ विहितो येनैतद्वैधर्म्योदाहरणं भवतीत्याशङ्क्याह --- साध्येति । <गौतमो> <ऽक्षपादा>परनामा <न्यायसूत्र>स्यापि प्रणेता मुनिः । मुनिरिति स्मृतिकारो मुनिः । आदिशब्दाद्<विश्वरूपयाज्ञवल्क्यसंवृत्ता>देः सङ्ग्रहः । इतिस्तस्मात् । धर्मित्वमात्रजिज्ञापिषया धर्मिव्यतिरेकविषय इति अभिधाय तस्येइव विशेषनिष्ठ्प्रतिपादनेच्छया <गौतमा>दय इत्युक्तम् । इन्द्रियमनस्कार[ज]मेतद्राजा(मेतज्ज्ञा)नमित्यादिवत्तस्माद्वैधर्मी दृष्टान्तो <गौतमा>दिरिति वाक्यार्थः । तथात्वं च तेषां
तथात्वेनोपादानान्न तु परमार्थत इत्यवसेयम् । ग्राह्यवचनत्वेऽपि तेषां कथं ताद्रूप्यसन्देह इत्याह --- यद्यपीति । उतेति पक्षान्तरमुद्द्द्योतयति ॥

[ध्प्र्२४८]

यथा ऋषभादेरिति[८७७]। ऋषभादेरवीतरागत्वपरिग्रहाग्रहयोगयोः साध्यसाधनधर्मयोः सन्दिग्धो व्यतिरेकः इइइ-१३२


__________टिप्पणी__________

[८७७] भादेः । ऋष-
___________________________


<सन्दिग्धौभयव्यतिरेको >यस्मिन् स तथोक्तः । तमुदाहरति <यथे>ति । < अवीतरागा> इति रागादिमत्त्वं साध्यम् । <<कपिला>दय> इति धर्मी । <परिग्रहो >लभ्यमानस्य स्वीकारः प्रथमः । स्वीकारादूर्ध्वं यद्गार्ध्यं मात्सर्यं स <आग्रहः >। <परिग्रहश्> च <आग्रहश्>च ताभ्यां योगात् । <कपिलाद>यो लभ्यमानं स्वीक्र्वन्ति स्वीकृतं न मुञ्चन्ति --- इति ते रागादिमन्तो गम्यन्ते । अत्र प्रमाणे वैधर्म्योदाहरणम् --- यत्र साध्याभावे साधनाभाओ दर्शयितव्यः । <यो वीतराग> इति साध्याभावमनूद्य, <न तस्य परिग्रहाग्रहाव्>इति साधनाभाओ विहितः । <यथा ऋषभादेर्> इति दृष्टान्तः । एतस्माद्<ऋषभादेर्
>दृष्टान्ताद्<अवीतरागत्व>स्य साध्यस्य परिग्रहाग्रहयोगस्य[८७८] च साधनस्य [८७९]निवृत्तिः सन्दिग्धा । <ऋषभा>दीनां हि परिग्रहाग्रहयोगोऽपि सन्दिघो वीतरागत्वं च । यदि नाम तत्सिद्धान्ते वीतरागाश्च निष्परिग्रहाश्च [८८०]पठ्यन्ते तथापि सन्देह एव ॥


__________टिप्पणी__________

[८७८] योगत्वस्य
[८७९] व्यावृत्तिः
[८८०] परिपठ्यन्ते
___________________________




अप्रानपि [८८१]त्रीनुदाहर्त्तुमाह ---


__________टिप्पणी__________

[८८१] अपराण्यपि त्रीण्युदा-
___________________________


अव्यतिरेको यथा, अवीतरागोऽयं[८८२]वक्तृत्वात् । [८८३]वैधर्म्येण उदाहरणम् ---[८८४]यत्र अवीतरागत्वं न अस्ति[८८५]न स वक्ता, यथा उपलखण्ड इति । यद्यप्युपलखण्डादुभयं व्यावृत्तं[८८६]तथा अपि सर्वो वीतरागो न वक्ता इति व्याप्त्या व्यतिरेकासिद्धेरव्यतिरेकः इइइ-१३३


__________टिप्पणी__________

[८८२] -रागो वक्तृ
[८८३] वैधर्म्योदाहरणम्; -त्वात् । यत्रावी-
[८८४] यत्र वीत-
[८८५] नास्ति स वक्ता; नास्ति स न वक्ता
[८८६] व्यावृत्तया सर्वो; व्यावृत्तं यो सर्वो; -वृत्तं तथा सर्वो-
___________________________








उभयश(उभश)ब्दस्य द्विवचनान्तस्य प्रयोगदर्शनादुभयोरित्युभशब्देनार्थमाह । लब्धमिदं वस्तु मत्तोऽन्यत्र नरामदि (मागादि)ति तु विशेषोऽत्र मात्सर्यमभिप्रेत आग्रहः । न मुञ्चति(न्ति) नन्य्स्मै ददति । अनेनैव रूपेण वैधर्म्योदाहरणं भवति । नान्यथेति द्रढयितुमुक्तमपि स्मारयन्नाह --- यत्रेति । ऋषभावीनामित्यनेन वैधर्म्योदाहरणादृषभावेः साध्यसाधनयोर्व्यावृत्तिसन्देहं दर्शयति ।

नन्वस्मदागमे तद्गुणद्वययोगिनस्ते कथितास्तत्कथमन्योस्ततो व्यावृत्तिः सग्ध्यत इत्याह --- यदि नामेति । पठ्यत इति च वचनव्यक्त्या च पाठमात्रेण तेषां तद्गुणयोगः सिद्धः न तु प्रमाणेनेति दर्शयति । अत एवाह --- तथापीति ॥

त्रीनिति दृष्टान्तदोषान् ।

[ध्प्र्२४९]

अविद्यमानो व्यतिरेको यस्मिन् सो <अव्यतिरेकः> । <अवीतराग> इति रागादिमत्त्वं साध्यम् । <वक्तृत्वाद्> इति हेतुः । इह व्यतिरेकमाह --- <यत्र अवीतरागत्वं नास्ती>ति साध्याभावानुवादः । तत्र वकृत्वमपि नास्ति --- इति साधनआभावविधिः । तेन साधनाभावेन साध्यभावो व्याप्त उक्तः । [८८७]दृष्टान्तो <यथा उपलखण्ड [८८८]>इति ।


__________टिप्पणी__________

[८८७] अत्र दृष्टा-
[८८८] -खण्डेति-
___________________________


कथमयमव्यतिरेको यावतोपलखण्डादुभयं[८८९] निवृत्तम्? किमतः? < >[८९०]<यद्यप्युपलखण्डादुभयं व्यावृत्तं> सरागत्वं च वक्तृत्वं च[८९१], <तथा अपि व्याप्त्या[८९२] व्यतिरेको >यस्तस्या <असिद्धेः >कारणाद्<अव्यतिरेको> अयम् ।


__________टिप्पणी__________

[८८९] -भयमपि नि-
[८९०] यद्युपल-
[८९१] यत्र वीतरागत्वं तत्र वक्तृत्वं नास्ति --- टि-
[८९२] व्याप्तो व्य-
___________________________





कीदृशी पुनर्व्याप्तिरित्याह --- <सर्वो वीतराग >इति साध्याभावानुआदः । < नव्क्ते>ति साधनाभावविधिः । तेन साध्याभावः [८९३]साधनाभावनियतः [८९४]ख्यापितो भवतीति[८९५] । इदृशी व्यातिः । तया व्यतिरेको न सिद्धः ।स्य चार्थस्य र्पसिद्धये दृष्टान्तः । तत्स्वकार्याऽकरणाद्दुष्टः ॥


__________टिप्पणी__________

[८९३] साधनाभावे नि-; साधनाभावो नि-
[८९४] स्थापितो
[८९५] भवति । ई-
___________________________




अप्रदर्शितव्यतिरेको यथा, अनित्यः शब्दः, कृतकत्वादाकाशवदिति वैधर्म्येण[८९६] इइइ-१३४


__________टिप्पणी__________

[८९६] वैधर्म्येण --- ओम्.; वैधर्म्येणापि; न मूलत्वेनापि तु टीकास्थं गृहीतं
___________________________




येनआयमनुवादनिधिक्रमस्तेन हेतुना । यावतेति तृतीयान्तप्रतिरूपको यस्मादित्यस्याथे वर्त्तमानोऽत्र गृहीतः । [८१ ] उपलखङ्डाच्छिलाशकलात् । उभयं साध्यसाधनम् । किमत इति सिद्धान्ती । अत उभयनिवृत्ते किं भवति? न किञ्चिदित्यर्थः । ननूपलखण्डात्तावद्वैध्र्मीदृष्टान्तान्तादुभयं निवृत्तं दर्शितं येन तत्किमेवमुच्यत इत्याह --- यद्यपीति । व्याप्त्या सर्वरागित्वजन्यतास्वीकारेण । तस्य व्याप्तिमतो व्यतिरेकस्याऽसिद्धेरनिश्चयात् । कीदृशीति सामान्यतः पृच्छति । पुनरिति विशेषतः । इतिरनन्तरोक्तं शब्दं परामृशति । तेनानेन शब्देनेत्यर्थः । न वक्तव्येत्यत्रापीति पूर्ववत् । येनैवमनुवादविधिक्रमस्तेन । इत्रीदृश्या
व्याप्तेः स्वरूपं प्रकाशयति यस्मादर्थे वा । तत्प्रतीत्य्थंभूतलक्षणतयेयं तृतीया, साधनाष्भावेन साध्याभावन्यायेन लक्षणा व्याप्तिरीकृशीत्यर्थः । ईदृशं व्यात्पिमन्तं व्यतिरेकं प्रसाधयितुमसर्मर्तोऽयं कथमयं दृश्टानो त्रेष्ट इत्याह --- अस्य चेति । अस्य साधनाह्बावे साध्याऽभावनियतलक्षणस्यार्थस्य । चो यस्मादर्थेऽवधारणे वा । प्रसिद्धये निश्चयार्थं दृष्टान्त उपादीयत इति शेषः, प्रकरणालभ्यं वा, न चायं तथाप्रदर्शन्ब इत्यमुमर्थं प्रकरणगम्यं कृत्वा । तत्तस्मात्स्वकार्यकरणाद्दुष्ट
इत्युक्तम् । यद्वा भवत्वस्यार्थस्य प्रसिद्धये

[ध्प्र्२५०]

<अप्रदर्शितो व्यतिरेको >यस्मिन् स तथोक्तः । <अनित्यः शब्दः> इत्यनित्यत्वं साध्यम् । <कृतकत्वाद्>इति हेतुः । <आकाशवद्>इति <वैधर्म्येण> दृष्टान्तः ।

इह परार्थानुमाने परस्मादर्थः प्रतिपत्तव्यः । स शुद्धोऽपि स्वतो यदि परेणाशुद्धः ख्याप्यते स तावद्यथा प्रकाशितस्तथा न युक्तः । यथा युक्तस्तथा न प्रकाशितः । प्रकाशितश्च हेतुः । अतो वतुरप्राधादपि पराथानुमाने हेतुर्दृष्टान्तो वा दुष्टः स्यादपि । न च सादृश्यावसादृश्याद्वा साध्यप्रतिपत्तिः, अपि तु साध्यनियताद्धेतोः । अतः साध्यनियतो हेतुरन्वयवाक्येन व्यतिरेकवाक्येन वा [८९७]वक्तव्यः । अन्यथा गमको नोक्तः स्यात् । स तथोक्तो दृष्टान्तेन[८९८]


__________टिप्पणी__________

[८९७] च वक्त-
[८९८] दृष्टान्तेनासिद्धो
___________________________





दृष्टान्तस्तथाप्ययं कथं दुष्ट इत्याह --- तत्स्वकार्येति । तच्च तत्स्वकार्यं च । साधनाभावे साध्याभावनियतख्यापनलक्षणं चेत् । तथा तस्याकारणादसम्पादनाद्दुष्ट इति ॥

अथ परमार्थतस्तावद्दृष्टान्ते नह्बसि साध्याभावोऽप्यस्ति, साधनाभावश्च । तत्कथमप्रदर्शितव्यतिरेको दृष्टान्त्दुष्टित्याह --- इहेति । परस्मात्साधनवादिनः । अर्थो हेतुलक्षणः । प्रकरणात्साध्याभावे साधनाभावलक्षणश्च । स स्वतः शुद्धो वस्तुवृत्त्या परिशुद्धः । तथात्वेन विद्यामानन इति यावत् । न केवलमशुद्धः --- इत्यपिशब्दात् । परेण साधनप्रयोक्त्रा । यथा प्रकाशितो व्यतिरेकमात्रवान् प्रकाशितो व्याप्तिशून्यश्च प्रकाशितः । तथा न युक्तो नोपयुक्तः साध्यसिद्धौ । यदि हि साध्याभावानुआदेन साध्या (धन) भावो विधीयते दृष्टान्ते प्रदर्श्येतैवमसौ हेतुः साध्यसिद्ध्यङ्गव्य्तिरेकवान् सिद्ध्येत् । एवमेव चाऽसौ
व्यातिमद्व्यतिरेकः प्रसिद्ध्येत् । तत्र्पदर्शनश्च दृष्टान्तोऽदुष्टो भवेदित्यभिप्रायः ।

यदि नाम तथा न प्रकाशितस्तथापि तदुपयोगी हेतुर्दृष्टान्तो वा तथा किं न प्रतिपद्यत इत्याह --- प्रकाशितश्चेति । चो यस्मादर्थे । हेतुरित्युपलक्षणम् । तेन दृष्टान्तोऽपि द्रष्टव्यः । अ(य)त एवमतो अस्माधेतोः । न केवलं वचोव्यवस्थिताद्दोषादित्यपिशब्देनाह । यद्यपि दृष्टान्त एव प्रकृतस्तथापि हेतुरप्येवंविधः स्वतोऽदुष्टोऽपि वक्तृदोषादेव दुष्यतीति तुल्यन्ब्यायतया प्रसङ्गन दर्शितम् । यद्वा यथैवंविद्धो हेतुर्वक्तृदोषाद्दुष्टो भवति तद्वद्दृष्टान्तोऽपीति दृष्टान्तार्थं हेतोः वक्त्रपराधेना(न) दुष्टत्वख्यापनं
कृतमिति सर्वमवदातम् ।

[८२] ननु च यथा कृतकत्वेनाकाशविधर्मा शब्दः प्रतीयते तथाऽनित्यत्वेनापि तद्विधर्मा भविष्यति तत्कथमनुपयुक्त इत्याह --- न चेति । चोऽवधारणे हेतौ वा । एवंवदतोऽयमाशयः --- यद्येकेन धर्मेण वैधर्म्य(म्ये) प्रतीतेऽपरेणापि तद्वैधम्यर्पतीतिरवश्यम्भाविनी, तदा मूर्त्तत्वेनापि शब्दस्य तद्वैधर्म्यप्रतीतिः प्रसज्येतेति । तुल्यन्यायतयाऽन्वयवाक्यमभिकृत्य सादृश्यादित्युक्तम् । सादृश्यादसादृश्याद्वेति साधर्म्यवैधर्म्यदृष्टान्तप्रतिपादितादिति प्रकारणात् ।

व्यतिरेकवाक्येनापि साधनाभावेनापि नियमख्यापनद्वारा साध्य एव हेतोर्नियतत्वख्यापनाद्व्यतिरेकवायेन चेत्युक्तम् ।

[ध्प्र्२५१]

सिद्धो दर्शयितव्यः । तस्माद्दृष्टान्तो नामान्वयव्यतिरेकवाक्यार्थप्रदर्शनः[८९९] । न चेह व्यतिरेकवाक्यं प्रयुक्तम् । अतो वैधर्म्यदृष्टान्त इहासादृश्यमात्रेण[९००] साधक उपन्यस्तः । न च तथा साधकः । व्यतिरेकविषयत्वेन स साधकः । च न तथोपन्यस्त इति[९०१] अयमप्रदर्शितव्यतिरेको वक्तुरप्राधाद्दृटः ॥


__________टिप्पणी__________

[८९९] प्रदर्शनार्थे ।
[९००] सादृश्यभावेन साध-
[९०१] इति । अतोऽप्र-; इति । अप्र-
___________________________




विपरीतव्यतिरेको[९०२]यथा --- यदकृतकं तन्नित्यं भवति इति इइइ-१३५


__________टिप्पणी__________

[९०२] यथा --- ओम्.
___________________________


<[९०३]विपरीतो व्यतिरेको >यस्मिन् वैधर्म्यदृष्टाआन्ते स तथोक्तः । तमुदाहरति ---[९०४]<यथा यद्>


__________टिप्पणी__________

[९०३] ’विपरीतोऽ इत्यारभ्य ’तमुदाहरतिऽ पर्यन्तः पाठो दुर्वेकसमीपस्थैकस्मिन्नादर्शे नासीदिति व्याख्यानुरोधात्ज्ञायते --- सं-
[९०४] यथा --- ओम्.
___________________________





अन्वयवाक्ये साधनमनूद्य साध्यं विधातवयम् । व्यतिरेकवाक्ये च साध्याभावमनूद्य साधनाभावो विधातव्यः । तथैव हेतोः साध्यनियतत्वाभिधानादित्यस्यार्थः ।

कस्मादसौ वाक्यद्वयेनाप्येव वक्तव्य इत्याह --- अन्यथेति । अस्मादन्येन प्रकारेण गमकः परोक्षार्थप्रकाशको नोक्तः स्यात् ।

काममसावेवमुच्यताम् । दृश्टान्तस्तु कथमत्रादिक्रियत इत्याह --- स इति । स हेतुस्तथोक्तः साध्यनियत उक्तः । दृष्टान्तेन साधर्म्यवता वैधर्म्यवता च करणेन सिद्धो निश्चितो दर्शयितव्यः ।

नन्वेवमपि न ज्ञायते किंव्यापारो दृष्टान्त इहोपयुज्यते इत्याशङ्क्योपसंहारव्याहेनाह --- तस्मादिति । नामशब्दः प्रसिद्धाविह । अन्वयव्यतिरेकवाक्ययोरर्था(अर्थोऽ)भिधेयः --- उक्तेन प्रकारेण हेतोः साध्यनियतत्वम् --- प्रदर्श्यः । तं प्रसर्शयतीति तथा । यद्वा प्रदर्श्यतेऽनेनेति प्रदर्श्यतेऽस्मिन्निति प्रदर्शनः । तस्य प्रदर्शन इति विग्रहः ।

यद्येवमयमपि वैधर्यदृष्टान्तान्तस्तथाकार्येवात्रोपयोज्यत इत्याह --- न चेति । चो यस्मादर्थे । इह प्रयोगे । व्यतिरेकख्यापकं साएध्याभावानुवादेन साधनाभावविधायकं वाक्यमित्यर्थः । अतस्तथाभूतवाक्यप्रयोगाद वैधर्म्यदृष्टान्त आकाशः । इहानित्यत्वसाधनप्रयोगे साध्यधर्मिणोऽसादृश्यं केवलं यत्तन्मात्रेण तन्मात्रप्रदर्शनेन, विषयेण विषयिणो निर्देशात् । साधको निश्चायको हेतोः साध्यनियतत्वस्येति प्रकरणात् ।

यदि तन्मात्रेणापि साधकस्तदा का क्षतिरित्याह --- न चेति । तथेति असादृश्यमात्रेण । वाद्युक्तेन धर्मेण साध्यधर्मिणोऽसादृश्यावगमे धर्मान्तरेणाप्यसादृश्यावगमोऽवश्यम्भावीति युज्यतेऽतिप्रसङ्गादित्यभिप्रायः ।



[ध्प्र्२५२]

<अकृतकम्> इत्यादि । [९०५]इहान्वयव्यतिरेकाभाव्यां साध्यनियतो हेतुर्दर्शयितव्यः । यदा च साध्यनियतो हेतुर्दर्शयितव्यस्तदा व्यत्रिरेकवाक्ये साध्याभावः साधनाभावे नियतो दर्शयितव्यः । एवं हि हेतुः साध्यनियतो दर्शितः स्यात् । यदि तु साध्याभावः साधनाभावे नियतो नाख्यायते साधानसत्त्यायामपि साध्याभावः सम्भाव्येत[९०६] । तह्था च साधननं साध्यनियतं न प्रतीयेत[९०७] । तस्मात्साध्याभावः साधनआभावे नियतो वतव्यः विपरीतव्यतिरेके च साधनाभावः साध्याभावे नियत उच्यते । न साध्याभाष्वः साधनाभावे । तथा हि --- < यदकृतकम् >इति साधनाभावमनूद्य <तन्नित्यं भवती>ति साध्यभावविधिः



__________टिप्पणी__________

[९०५] व्यतिरेकवाक्याभ्यां
[९०६] सम्भाव्यते
[९०७] प्रतीयते
___________________________




ततोऽयमर्थः --- अकृटको नित्य एव । तथा च सति अकृतकत्वं नित्यत्वे साध्याभावे नियत्वं साधनाभावे । ततो न साध्यनियतं हेतुं व्य्तिरेकवाद्क्यमाह । तथा च निपरीतव्यतिरेकोऽपि वक्तुरपराधाद्दुष्टः ॥



यद्येवमसाधकः कथं नाम साधक इत्याह --- व्यतिरेकेति । व्यतिरेकविषयत्वेनेति व्यतिरेकप्रतिपत्तिविषयत्वेन । चो यस्मादर्थे, व्यक्तमेतदित्यस्मिन्नर्थे वा । अनेनापि तथैवोपन्यस्त इत्याह --- न चेति । चोऽवधारणे । व्यतिरेकवाक्यमनुक्त्वैव तस्योपादानादित्यभिप्रायः । इतिस्तमादर्थे एव अर्थेअ वा ॥

विपरीतव्यतिरेकं व्याचक्षाण आह --- यदा चेति । विपरीतान्वयशब्दस्य [८२ ] व्यत्पत्तौ दर्शितायां विपरीतव्यतिरेकशब्दस्wयापि --- विपरीतो वैपरीत्येन प्रदर्शनाद्व्यतिरेको यस्मिन् दृशान्ते स तथोक्त इति --- व्युत्पत्तिर्दर्शिता भवत्येवेति चाभिप्रायेण नोक्ता । तमुदाहरतीति सुज्ञानत्वान्नोक्तमिति प्रतिपत्तव्यम् । यत्र तु पुस्तके विपरीतव्यतिरेको यथेत्यस्य मूलस्य व्याखानग्रन्थोऽस्ति तत्र सर्वमवदातम् । अस्तीयं गतिरस्माभिर्दर्शिता ।

ननु किं नाम व्यतिरेकवाक्येन दर्शनीयम्? यद्वैपरीत्येन दर्शनादयं विपरीतव्यतिरेक उच्यत इत्याह --- यदा चेति । चोऽवधारणे । साध्यनियत इत्यस्मात्परः र्पतिपत्तव्यः । यदा यस्मिन् काले र्पतिपादनकाल इत्यर्थात् । कालान्तरे तथाप्रदर्शनानुपपत्तेः । हेतोः साध्ये नियतत्वप्रदरञ्चावश्यकार्यमन्यथा गमको नोक्तञ्स्यादित्यभिप्रायः । तदा तस्मिन् काले । साध्याभावानुवादेन साधनाभावोऽभिधातव्य इत्यस्यार्थः । कस्मात्पुनरेवं दर्शयितव्य इत्याह --- एवं हीति । हीति यस्मात् । एवंसाध्याभावस्य साधनाभावे नियतत्वप्रदर्शनप्रकारे सति ।

अथान्यथाप्रदर्शनेऽपि यदि साधनं साध्यनियतं प्रतीयते तदा तथाप्रदर्शनेनैव किं प्रयोजनमित्याह --- यदि त्विति । तुस्तथाऽनाख्यानावस्थां भेदवतीं दर्शयति । तथा च साधनसत्तायामपि साध्याभावस्म्भावनाप्रकारे सति । यस्मादेवं तस्मादित्युपसंहारः । असिमिन् र्पयोगे किं मानोच्यत इत्याह --- विपरीतेति । तुशब्दार्ह्तश्चकारः । तथा हीत्यादिनैतदेव प्रतिपादयति यत एवमनुवादविधिसततः । तथा चाकृतकस्य नित्यवोक्तिप्रकारे सति ।

[ध्प्र्२५३]

दृष्टान्तदोषानुदाहृत्य दुष्टत्वनिबन्धनत्वं दर्शयितुमाह ---

न ह्येभिर्दृष्टान्ताभासाइर्हेतोः सामान्यलक्षणं सपक्ष एव सत्त्वं विपक्षे च सर्वत्र असत्त्वमेव निश्चयेन शक्यं दर्शयितुं विशेषलक्षणं वा । तदर्थापत्त्या एषां निरासो[९०८]द्रष्टव्यः इइइ-१३६


__________टिप्पणी__________

[९०८] निरासो वेदितव्यः
___________________________


<न ह्येभिर्> इति । साध्यनिअतहेतुप्रदर्शनाय हि दृष्टान्ता वक्तव्याः । एभिश्च हेतोः सपक्ष एव सत्त्वं विपक्षे च <सर्वत्र असत्त्वमेव> यत्<सामान्यलक्षणं> तत्<निश्चयेन शक्यं दर्शयितुम्> ।

ननु च सामान्यलक्षणं विशेषनिष्ठमेव प्रतिपत्तव्यं न सवत एवेत्याह --- <विशेषलक्षणं वा> । यदि विशेषलक्षणं प्रतिपादयितुं शक्येत स्यादेव सामान्यलक्षणप्रतिपत्तिः । विशेषलक्षणमेव तु न शक्यएमेभिः प्रपादयितुम् । तस्माद्<अर्थापत्त्या >सामर्थ्येन[९०९] <एषां> निराक्रणं <दृष्टयम् >। साध्यनियतआधनप्रतीतये[९१०] उपात्ताः । तदसमर्था दुष्टाः, [९११]स्वकार्याकरणादिति [९१२]असामर्थ्यम् । इयता साधनमुक्तम् ॥


__________टिप्पणी__________

[९०९] सामर्थ्येनेति न तेषां; सामर्थ्येनेति तेषां; सामर्थ्येन तेषां
[९१०] प्रतिपत्तये उपा
[९११] स्वकार्यकरणात्
[९१२] इति सामर्थ्यम् ।
___________________________







अकृततत्वं कृतकत्वस्य साधनस्याभावः । नित्यतेवेऽनित्यत्वलक्षणासाध्याभावे । न नित्यत्वं साध्याभावलक्षणं साधनाभावे कृतकत्वलक्षणसाधनाभावेऽकृतकत्व इत्यर्थात् । यत एवं ततो तेहोर्व्यतिरेकवाक्यं कर्त्तृ हेतुं कर्मभूतं न साध्यनियतमाह । उक्तया नीत्या साधनाभाब्वः साध्याभावे निय्तत्वात्तमन्तरेण न भवेत् । न तु तयत्र साध्याभावस्तत्रावश्यं साह्दनाभाव इति साध्यमन्तरेणापि साधनं भवेत् । ततश्च साध्यानियतं साधनमित्यभिप्रायः । तथा च साध्यनियतहेत्वप्रदर्शनप्रकारे सति वक्तुरेवंवाक्यप्रयोक्तुः ॥

निश्चयेआवश्यन्तया । विशेषनिष्ठमेव प्रयेतव्यमिति ब्रुवतोऽयं भावः --- यदि नामाभीभिः सपक्ष एव सत्त्वं निपक्षे सर्चत्रासत्त्वं निशयेन शक्यते दर्शयितुम्, तथाप्येते विशेषलक्षणं सानान्यलक्षणप्रतिपत्त्यङ्गं प्रतिपादयन्त उपयोक्ष्यन्त इति । अत्र विशेषलक्षणश्चेत्युत्तरं यदीत्याकारणात् । अर्थापत्त्येत्यस्य व्याख्यानं सामर्थ्येन सामान्यविशेषलक्षणाप्रतिपादनलक्षणन । एषां दृष्टाताभासानां निराकरणं दृष्टातरूपत्वेनेत्यर्थात् ।

कथममी दुष्टा येन तथात्वेन निराक्रणमेषामित्याशङ्क्योपसंहरनाह --- साध्येति । तदसमर्थास्तदप्र(तत्प्र)तीतिकारणाश्ताः । असामर्थ्यमेव कथं येनासामर्थ्याद्[८२ ] दुष्टा उच्यन्त इत्याह --- स्वकार्यस्य हेतोः साध्यनियतत्वप्रदर्शनलक्षणस्याकरणात् । ननु तदकरणमेवासामर्थ्यमुतमिति चेत् । सत्यम् । केवलमसामर्थ्यववहारापेक्षयैवमुतमित्यवसेयम् । इतिस्तस्मादर्थे, एवमर्थे वा । असामर्थ्यमेषामित्यर्थात् । साध्यादिविकस्यानन्वयाप्रदर्शितान्ययादेर्



[ध्प्र्२५४]

दूषणं वतुमाह ---

दूषणा[९१३]न्यूनताद्युक्तिः इइइ-१३७


__________टिप्पणी__________

[९१३] न्यूनतायुक्तिः; दूषणानि न्यू-
___________________________


[९१४]दूषणा का द्रष्टव्या? <न्यूनतादी>नामुक्तम् । उच्यतेऽनयेत्य्<उक्तिर्> वचनं न्यूनतादेर्[९१५] वचनम् ॥


__________टिप्पणी__________

[९१४] दूषणानि कानि द्रष्टव्यानि
[९१५] न्यूनतादिर्वचनम्; न्यूनतादिवचनम्
___________________________



दूषाणं विवरीतुमाह --- < >

ये पूर्वं न्यूनतादयः साधनदोषा उक्तास्तेषामुद्भावनं दूषणम् । तेन परैष्टार्थसिद्धिप्रतिबन्धात् इइइ-१३८

<ये पूर्वं न्यूनताआदयः >असिद्धविरुद्धानैकान्तिका <उक्तास्तेषामुद्भाव>कं यद्वचनं तद्<दूषणम्> ।

ननु च न्यूनतादयो न विपर्ययसाधन्बाः । तत्कथं दूषणमित्याह --- <तेन >न्यूनतादिवचनेन <परे>षाम् <इष्टार्थश्>च तस्य <सिद्धिः >निश्चयस्तस्याः <प्रतिबन्धात्>। नावश्यं निपर्यय साधनादेव दूषणं विरुद्धअत् । अपि तु परस्याभिप्रेतनिश्चयविबन्धान्[९१६] निश्चयाभावो भवति निश्चयविपर्यय इत्यस्त्येव[९१७] विपर्ययसिद्धिरिति । [९१८]उक्ता [९१९]दूषणा ॥


__________टिप्पणी__________

[९१६] -निश्चयनिबन्ध-; निश्चयप्रतिबन्ध-
[९१७] इत्यस्ति विप-
[९१८] उक्तं दूषणम्
[९१९] दूषणा --- ओम्.
___________________________







अपि दृष्टान्ताभासस्यासाधनाङ्गवचनाद्वादिनो निग्रहो आदिनो निग्रहोऽसामर्थ्योपादानान्न्यायप्रातः । परोपात्ताश्च चोदनीया इति दृष्टान्ताभासव्युपादने वार्त्तिककृतोऽभिप्रायः प्रत्यव्य इति ।
सम्प्रति सुधग्रहणार्थमुकप्रबन्धस्याचार्यीयस्य प्रत्पादितमवच्छिन्दन्नाह --- इयतेति त्रिरूपलिङ्गाख्यानमित्यादिनैतद्न्तेन, इदं परिमाणमस्येतीत्यत्तेनेयता महावाक्येन साधनमुक्तमाचार्येणेति शेषः । प्रसङ्गागतस्यानेकस्यापि तदभिधानमतिवृत्तम्, तदपि तस्यैव स्फुटावगमार्थं तत्वैवोपयुक्तमति मन्यमानेनोक्तमियता साधनमुक्तमिति ।

इति भूतदूषणोद्भावना दूषणा । दुषेणिजन्ताद्युचंकृत्वा टाप्कर्त्तव्यः । एतच्च तद्दूषणमित्यन्तं सुबोधम् ।

विपरीतसाधनस्यैव दूषणत्वात्कथं न्यूनताद्युक्ति(क्तेर्)दूषणत्वमित्यभिप्रेत्याह --- ननु चेति । अत्र तेनेत्याद्युत्तरं व्याचक्षाण आह --- तेनेत्यादि ।


[ध्प्र्२५५]

दूषणाभासास्तु जातयः इइइ-१३९

<दूषणाभासा >इति [९२०]दूषणवदाभासन्त इति <दूषणाभासाः >। के ते? <जातयः> [९२१]इति । जातिशभ्दः सादृश्यवचनः । उत्तरसदृशानि जात्युत्तराणि[९२२] । उअत्तरस्थानप्रयुक्तत्वादुअत्तरसदृशानि जात्युत्तराणि ॥


__________टिप्पणी__________

[९२०] दूषणावत्
[९२१] इति --- ओम्.
[९२२] राणीति
___________________________




तदेवोत्तरसादृश्यमुत्तरस्थानप्रयुक्त्वेन दर्शयितुमाह ---

[९२३]अभूतदोषौद्भावनानि जात्युत्तराणि इति इइइ-१४०


__________टिप्पणी__________

[९२३] अनुभूत
___________________________


॥ [९२४]तृतीयपरिच्छेदः समाप्तः ॥


__________टिप्पणी__________

[९२४] दृतीयपरिछेदः समाप्तः --- ओम्.
___________________________


॥ <न्यायबुदिन्दु>ः समाप्तः ॥ लघु<धर्मोत्तर>सूत्रं समाप्तमिति ॥



ननूक्तं विपरीतसाधनं दूषणम् । तत्कथं परेष्तार्थसिद्धप्रतिबन्धकस्यापि न्यूनतादिवचनस्य तथात्वमुच्यत इत्याशङ्कामपाकुर्वन्नाह --- नावश्यअमिति । किन् त्वपरस्य सिसाधयिषितार्थनिश्चयविबधादप्यत्रार्थाद्द्रष्टव्यम् । अन्यथाऽवश्यं ग्रहणमवधारणं विरुद्धवदित्यपि दुर्योजं स्यात् । मृत्वा शीर्त्वा च तद्योजने वक्तुरकौशलं स्यादिति ।

यदि त्ववश्यं विपर्ययसाधनत्वस्यैव दूषणत्वमिति निर्वन्धस्तदा तदप्यस्य न्यूनतादिवचनस्यास्तीति दर्शयन्नाह --- निश्चयेति । वाशब्दः पक्षान्तरमवद्योतयति । इतिस्तस्मादस्त्येव ॥

सादृश्यार्थवृत्तेरपि जातिशब्दस्य दर्शनाज्जातिशब्दः सादृश्यवचन इत्याह ।

ननु जातिशब्दः सादृश्यवचनत्वादस्त्वयमर्थः --- जातयः सदृशा इति । कानि पुनस्तानि केन च सदृशानीति न ज्ञायत इत्याशङ्कामपार्कुवन्नाह --- उत्तरेति । एतच्चाचार्येणैव विवरणे स्पष्टीकृतमिति मन्यते । तदयमर्थः --- जातिशब्देन जात्युत्तरमेवात्र वर्त्तिककारस्य विवक्षितमिति ।

कथं पुनर्दूषणाभासानां जात्युत्तरशब्दवाक्यत्वमित्याशङ्क्याह --- उत्तरेति । लक्ष्यते चायमाचार्यस्याशयो यदुतोत्तरस्थाने जयात इति । विवरणेऽप्युत्तरस्थाने जायमानत्वाज्जायत उत्तरत्वेनाभासनादुत्तराणीति । एवमनेन[न]व्याख्यातमिति न प्रतीमः ॥

जात्युत्तरश्ब्दस्य विग्रहं दर्शयन्नाह --- जात्येति । अभूतदोषोद्भावनानि जात्युत्तराणीति ब्रुवता वार्त्तिककृता भूतदोषोद्भावनं तु यद्दूषणाख्यं तदेवोत्तीर्यते अनिष्टपक्षादनेनोत्तारयतिम्, निर्वाहयति वा स्वपक्षमिति । [८३ ] ..... मिति । एतच्च जात्युत्तरव्युत्पादनमाचायस्य हेत्वाभासवन्न प्रयोगार्थम् । यथा <नैयायिका> मान्यन्ते --- अत्यन्तपराजीयमानावस्थायां

[ध्प्र्२५६]

अभूतस्यासत्यस्य दोषस्य उद्भावनानि । उद्भाव्यत [९२५]एततैरित्युद्भावनानि वचनानि । तानि जात्युत्तराणि । जात्या सादृश्येनोत्तराणि जात्युत्तराणीति ॥


__________टिप्पणी__________

[९२५] एतैरुद्भा
___________________________


कतिपयपदवस्तुव्याख्यया यन्मयाप्तं कुशलममलमित्न्दोरंशुवन्न्यायविन्दोः ।

पदमजरम्वाप्य्ज्ञान<धर्मोत्तरं> यज्जगदुपकृतिमात्रव्यापृतिः[९२६] स्यामतोऽहम् ॥


__________टिप्पणी__________

[९२६] व्यापृतः
___________________________


आचार्य<धर्मोत्तर>विरचितायां[९२७] न्यायां न्यायविन्दुटीकायां तृतीयः परिच्छेदः समाप्तः ॥[९२८]


__________टिप्पणी__________

[९२७] समाप्तेयं न्यायविन्दुटीका कृतिराचार्य<धर्मोत्तर>स्य ॥; पादविरवितायां
[९२८] सहस्रमेअक्ं श्लोकानां तथा श्रचतुष्टयम् । सप्तसप्ततिसंयुक्तं निपुणं परिपिण्दितम् ॥; - परिपिण्दितम् ॥१४६॥ मंगलं महा श्री ॥ समाप्तमिति ॥ संवत्१४९० वर्षे मार्गशिर सुदि ३ रवौ श्री खरतरगच्छे श्री जिनराजसूरिपट्टे, श्री श्री जिनभद्रसूरिराज्ये अरीक्षगूर्जरसुतधरणाकेन लिधापितम् ॥ शुभं भवतु ॥ कल्याणमस्तु ॥ <न्यावबिन्दुसूत्रवृत्ति> ... पुरोहितहरीयाकेन लिखितम् ॥
___________________________





जातिर्हेत्वाभासश्च र्प्य्क्तव्य इति । किञ्च दूषणस्वरूपस्य स्फुटार्थबोधनार्थम् । हेयज्ञाने हि तद्विविक्तमुआदेयंसुज्ञातं भवतीति जाति(तेः) हेत्वाभासानाञ्च स्फुटस्वरूपपरैज्ञानस्य प्रयोजनं स्ववाक्ये परिवर्जनं परप्रयुक्तानामपि दोषभावनमितरथा व्यामोहः स्यादित्युक्तप्रायम् ।

तत्र जात्युत्तरस्योहारणं यथा --- अनित्यः शब्दः कृतकत्वाद्घटवदित्युत्के किमिदं कृततत्वं शब्दगतं हेतुत्वेनोपनीतमाहोस्विद्घटगतम् । यदि शब्दगतं तस्य घटो दृष्टातोऽसम्भवादव्यातेरनैकान्तिको ................................. प्रत्यवस्थानात्मिका जाति ........................................ साधर्म्यादिति <नैयायिक> ............. <आचार्य>स्य त्वयमाशयो .................................................... ........................................ तथाहि <नैकायिका> ...................................... प्रतिज्ञापदयो ..............................विरोधमाहुस्तथा --- प्रयत्नानन्तरीयकः शब्दः ...................................... प्रयत्नन्तरीयकत्वादि ............................... हेतुमाचक्षते । तयैव दूषणा ............................................. शब्दस्य धर्मित्वात् । न चेयं जाति ....................................... भवति । ततश्च यस्यैव
.................................................................................................................................. जात्युत्तराणीत्यत्रेतिशब्दो माहावाक्यपरिसमातौ ॥

[ध्प्र्२५७]

आचार्यश्री<धर्मकीत्ती>विरचितस्यास्य प्रकरणस्य <न्यायबिन्दु>संज्ञकस्य यथावदर्थप्रकाशिकां महापटीयसीमीदृशीं [व्याख्यां] [विरच]यता मया .................... किमपि पुष्यमुआर्जितं तदनेन तादृशीमवस्थांप्राप्य सकलसत्त्वोपकारं .............. मित्यध्याशयो मे ............. क्रियायोगात्सात्सात्मीकृतपरार्थकरणोऽयं <धर्मोत्तरः> कतिपयेत्यादिना ............................. श्लोकमाह ।

अस्यायं समुदायार्थः । <न्यायबिन्दोः> कियत्.............................. कुशलमाप्तमतः कुशलादजरं ज्ञान<धर्मोत्तरं> च पदं तदवाय जगटुपकृतिमात्र [व्यापृतिः] स्यामिति । ..................................................... बुद्ध्यते । पद्यन्ते गम्यन्तेऽर्था एभिरिति पदानि वाक्यानि तेषां वस्तुप्रतिपाद्यतयास्ति तमभिधेयरूपं .......... शेषो ज्ञेयः । आप्तं प्राप्तं कुशलं सुकृतम् । किं कुर्वता? [८४ ] ............ भवति पुण्यमपि कुशलञ्च । यथा पर ........................ परोद्भवापि । ततो व्यभिचारसंभवाद्विशेषणम् । किंवनिर्मलम्? इन्दोरंशुवदिति । इन्दोश्चन्द्रमसोऽशवः किरणास्त
इव । एवं विधविधानेन यत्पुण्यते तदवश्यममलतयैतत्तुल्यं भवतीति भावः । पदं प्रतिष्ठामवस्थामिति यावत् । किं ............... द्यते ... यत्र तत्तथा । जराग्रणस्योपलक्षणत्वात्मृत्योरपि सङ्ग्रहो ज्ञातव्यः । तेनायमर्थः --- अजरमम्र्त्यं चेति । अथ वा जरानिर्देशेनैव दण्डापूपन्यायेन साभ्युपायस्यावबोधो निवक्षितः । धर्मश्च सर्वोपकरणनिवर्त्तकोऽदृष्टः । तावेनोत्तरावधिकौ यत्र पदे तत्तथा । ताभ्यां चोत्तरं श्रेष्टम् । यत्तदोश्च नित्यमभिसम्बधेन तच्छब्दस्य लब्धत्वात्तदवाप्येत्यर्थोऽवतिष्ट्ःते । जगतो जीवलोकस्य उपकृतिरुपकारः । सैव तन्मात्रम् ।
तद्व्यापृतिर्व्यापारो व्याप्रियमाणता यस्य मम योऽहं तथा ।

न वार्शसाविषयेऽस्मिन्नाशीर्लिङ्गा भूयासमिति शब्दसिद्धेर्[नैवम्]नेन वक्तव्यं तत्किमेवमवादीदिति चेत् । न । आशंसाविषयत्वाभावात् । यत एवंविधानुष्ठानजन्मना पुष्यातिशयेन एवम्भूतपदप्राप्तेस्ततोऽपि ममैवंविधक्रियस्यमानत्वादेव ......................... यमेतदित्यभिप्रायात्सर्वमवदातमिति ॥

गुरोर्जितारेरभिगम्य धीधनं मया हि टीका विवृता पटीयसी ।

कुतूहलेनापि तदत्र युज्यते निरीक्षणं साधु विवेचकानाम् ॥

अज्ञो जनस्त्यजति लब्धमपीह रत्नं काचेन तुयमिति चलायतेति(मिति चचलमानसोऽपि) ।

एतावतैव तदलङ्करणं न किं स्यात्किं वाऽऽदरेण तदुपाददते न धन्वाः ॥

इमं निबन्धं विधिवद्विधाय [मया ह्य्]वाप्तं सुंकृतंथकञ्चित् ।

इहैव जन्मन्यथा तेन सत्त्वा अनन्तसंबोधिमवाप्त्नुवन्तु ॥

॥ पण्डित<दुर्वेक>मिश्रविरचित<धर्मोत्तरप्रतीपो> नाम निबन्धः समाप्तः ॥





_____________________________________________________________________________



॥ टिप्पणानि ॥



अब्ब्रेविअतिओन्स्:

त्स्तत्त्वसङ्ग्रह:(ग्.ओ.स्. ३०, १९२६).

त्स्प्तत्त्वसङ्ग्रहपञ्जिका: स्. त्स्

त्प्(तात्पर्य-) न्यायबिन्दुतीकाया अनुतीका तात्पर्यनिबन्धनमप्रकाशितंमुनिश्रीपुण्यविजयसत्कम् ।

न्ब्ट्ट्(न्याय-टि-) <न्यायबिन्दुटीकाटीप्पणी >(<बिब्लिल्थेच बुद्धिच> पेत्रोग्रद्वोल्. xइ)

न्ब्ट्त्(न्याय-ता-)< न्यायबिन्दुटीकातात्पर्यटीका >(विशिअनगरं सन्स्क्रित्सेरिएस्, नो. १५. १८९८)

न्ब्ट्ट्म् (न्याय-म-टि-) <न्यायबिन्दुटीकाटीप्पणी मल्ल्वादिकृता अप्रकाशिता मुनिश्रीपुण्यविजयसत्का ।>

न्प्नयप्रदेश (ग्.ओ.स्. ३८, १९३०)

न्म् (न्यायम-)न्यायमञ्जरी(विशिअनगरं सन्स्क्रित्सेरिएस्, नो. १०. १८९५)

न्बा न्यायावतारः (न्यायावतारःवार्तिकवृत्त्यन्तर्गतः) (सिंधी जैन ग्रन्थमालानं- २०, १९४९)

न्व्न्यायवार्त्तिक (चौखम्बा संस्कृतसीरीज, १९१६)

न्भ्न्यायमहाभाष्यम्

पाण्पाणिनिकृताष्टाध्यायी

प्ं प्रमाणमीमांसा (सिंधी जैन ग्रन्थमालानं- ९, १९३९)

प्व्प्रमाणवार्त्तिकमाचार्यमनोरथनन्दिकृतवृत्तिसहितम् । (ज्.ब्.ओ.र्.स्१९३७) [दिए ओर्द्नुन्ग्देस्कपितेल्स्ब्लेइब्तुन्वेर्„न्देर्त्, द्.ह्. सिए एन्त्स्प्रेछ्तुन्सेरेरोर्द्नुन्ग्.]

प्विन् प्रमाणविनिश्चयः (अप्रकाशितः)

प्विन्ट्प्रमाणविनिश्चयटीका (अप्रकाशितः)

प्क्प्रमेयकमलमार्तण्डः (निर्णयसागर प्रेस, १९४१)

प्व्स्व्(प्र-स्वो-)प्रमाणवार्त्तिकस्वोपज्ञटीका (किताब महल, इलाहाबाद, १९४३)

प्व्ट्मनोरथनन्दिकृता प्रमाणवार्तिकटीका (ज्.ब्.ओ.र्.स्१९३७)

म्व्महाभारत वनपर्व

व्न् वादन्याय (महाबोधि, सोसायटी बनारस, १९३६)

व्सू वैशेषिक सूत्र

श्व्श्लोकवार्त्तिक कुमारिलकृतम् (मद्रसुनिवेर्सित्य्, १९४०)

स्व्सिद्धिविनिश्चयः (अप्रकाशितः पं- सुखलालजीसंघवीसत्कः)

ह्भेतुबिन्दुः (ग्.ओ.स्. नो. ११३, १९४९)

ह्ब्टा हेतुबिन्दुटीकालोक





टिप्पणानि ।



२,४. स्यादेतत्--- नमस्कारश्लोककरणे च आक्षेपपरिहारौ धर्मोत्तरप्रदीपोदितनीत्तिदिशा अनुगन्तव्यौ । इत्यनेन हेतुबिन्दुतीकालोके (पृ- २३३) अयमेवाशो निर्दिष्टः ।

५,८. विनीतदेवशान्तभद्रौ --- सम्यग्ज्ञानेत्यादिवाक्येन प्रयोजनप्रयोजनमधिहितमित्यन्यवाख्यां भङ्ग्या दूषयितुमाह --- सम्यग्ज्ञानपूर्विका सर्वपुरुषार्थसिद्धिरिति ।" --- त्प्२; "सम्यग्ज्ञानेत्यादिना विनीतदेवव्याख्यां दूषयति" --- न्ब्ट्३.

१२,१२. अथ भोजनादेः --- तुलना --- त्प्५.

१४,५. ज्वरहर तुलना --- न्त्३.

१६,१. अविसंवादकं --- अविसंवादनार्थोऽत्र सम्यग्ज्ञानार्थः । न तु यदविपरीतं तत्सम्यग्ज्ञानमिति । एवं हि योगाचारमतनिराकरणेन प्रकरणं प्रवृत्तं स्यात् । तन्मतेन तु ’सर्वमालम्बने भ्रान्तं मुक्त्वा ताथागत ज्ञानम्ऽ । सौत्रान्तिकपक्षेऽपि प्रत्यक्षमेवैकं सम्यग्ज्ञानं स्यात्, नानुमानम्, स्वर्पतिभासेऽर्थऽथाध्यवसायेन प्रवृत्तेः । " --- त्प्८ । प्रमाणलक्षणे नैयायिकानाननुपपत्त्यर्थं द्र्ष्टव्या न्म् २३.

१६, १. "ज्ञान" --- अत्र नैयायिकानामनुपपत्तिर्यथा --- "ये तु बोधस्यैवप्रमाणत्वमाचक्षते लक्षणविचारतः ॥" --- प्व्१.८. "तस्मात्’नधितार्थविषयंप्रमाणम्ऽ इत्यपि ’न्धिगते स्वलक्षणेऽ इति विशेषणीयम् ।" --- ह्ब्५३. अत्र <वाचस्पतिः> --- "अनधिगतार्थगन्तृत्वं च धारावाहिकविज्ञानानामधिगतार्थगोचराणां लोकसिद्धप्रमाणभावानां प्रमाण्यं विहन्तीति नाद्रियामाहे ।" इत्यादि --- न्ब्त्१५.

१९,४. "अनधिगतविषयम्" --- "गृहीतग्रहणान्नोष्टं सांवृतम् ।" --- प्वि,५.

२०,१७. ’सांव्यवहारोलस्यऽ--- "प्रमाण्यं व्यवहारेण ।" --- प्वि,७. "सांव्यवहारिकस्य प्रमाणस्य लक्षणं संव्यवहारश्च भाविभूतरूपादिक्षणानामेकत्वेन संवादविषयोऽनवगीतः सर्वस्य । साध्यसाधनयोरेकव्यक्तदर्शने समस्ततज्जातीयतथात्वव्यवस्थानं सम्वादमवधारयन्ति व्यवहर्तारः । तदनुरोधात्प्रामाण्यं व्यवस्थाप्यते । तत्त्वतस्तु स्वसंवेदनमात्रमप्रवृत्तिनिवृत्तिकम् ।" --- प्व्व्, १,७.

२३,२. ’र्थक्रियार्थभिःऽ --- स्वलक्षणविचारतः । प्व्१,८. "अर्थकिर्यायोग्यैषयत्वात्तदर्थिनां प्रवृत्तेः ।" ह्ब्५३.

२४,१. उक्तम् --- द्रष्टव्यं --- १९,१.

२४,२०. अनेन --- शुक्ले शङ्खे पीतज्ञानं मणिप्रभायां च मणिज्ञानं गच्छद्वृक्षादिज्ञानं च सर्वंशे प्रमाणमिष्टं कैशिचित्--- एतत्सरं सम्यग्ज्ञान्ग्रहस्यैव व्यवच्छेद्यमिति दर्शयति --- त्प्११. तथा [चा]चार्यैकदेशीयाः शुक्लशङ्खे पीतज्ञानं भ्रान्तमपि सम्यग्ज्ञानमिच्छन्ति । न्ब्ट्ट् २०.

२८,१. अर्थक्रियानिर्भासम् --- एतदन्योऽन्यथा व्याचष्टे --- अर्ह्तारह्किर्यानिर्भासस्य कारणग्रहणेकथं ग्रहणमाशकितम्? यावता न तत्कारणमर्थावाप्तेरपि तु तद्रूपमेव अर्थक्रिया निर्भासते यस्मात्--- इत्यपि विवेक्तुमशक्यत्वादसमाधानमेव ।" त्प्१३.

२९,८. प्राप्तिपाठे --- साक्षात्प्राप्तिरिति क्वचित्पाठः । साक्षाद्व्यवधानेन प्राप्त्यतेऽर्थक्रिया यस्मात्तस्मादर्थात्तद्धेतुत्वादर्थक्रियानिर्भासमपि ज्ञानं प्राप्तिरुक्तमुपचारात् । त्प्१३.

३०,१ अर्थः --- अर्थात्’र्थशब्दः प्रयोजनवचनः पुरुषस्य अर्थः प्रयोजनम्ऽ इत्यन्यव्याख्या निरस्ता । त्प्१४

३०,३ उपेक्षणीयः --- न चोपेक्षाऽनुपादानतया हानपक्षे निःक्षिप्ता । अहानतयोदानपक्षनिःक्षेपप्रसङ्गात् । उपादानप्रयत्नाप्रसवहेतुतया नोपादानमिति चेत् । किमयं हान्प्रयत्नमपि प्रसूते यतो हानं स्यात् । तस्मात्या नोभयप्रयत्नप्रसवहेतुः "सोपेक्षाबुद्धिस्तृतीया लोकप्रसिद्धेति सिद्धम्"न्ब्ट्त्६७.

३१, २०. अर्थः प्रयोजनं --- हेयोऽर्थ इत्यादिना विनीतदेवस्य व्याख्या दूषिता । तेन हि एवं व्याख्यातम् --- अर्थशब्देन प्रयोजनमुच्यते --- न्ब्ट्ट्१३.

३१, २७. विनीतदेवेन --- अनेन विनीतदेवव्याख्यानं दूषयति । --- न्ब्ट्त्१५.

३४,६. पूर्वेषाम् --- परेषां टीकाकृतां मतपाकर्तुमाह मिथ्येत्यादि । न्ब्ट्त्१५

३४, २९. न्ब्ट्त्१६.

३५,९. प्रसिद्धानि --- पसिद्धानि प्रमाणानि व्यवहारश्च तत्कृतः । प्रमाणलक्षणास्योक्तौ ज्ञायते न प्रयोजनम् ॥ न २.

३५,३. न्ब्२. "मानं द्विविधं विषयद्वैविध्यात् ।" प्व्२,१. "न प्रत्यक्षपरोक्षाभा"

३६; न्त्१२ च ।

३८, १. समासः --- तुलना --- न्ब्ट्त्६५.

३८,२६. अक्षमक्षम् --- तत्रायं <न्यायमुख>ग्रन्थः --- यत्ज्ञानमर्थरूपादौ विशेषणाभिधायकाभेदोपचारेणाविकल्पकं तदक्षमक्षं प्रति वर्त्तत इति प्रत्यक्षम् --- त्स्पद्त्स्१२३७.

४०, ३. यथार्थ- --- अनेन <विनीतदेव> <शान्तभद्र>योर्व्याख्या दूषिता । --- न्ब्ट्ट्१६

४०,४. न्ब्४ --- "प्रत्यक्षं कलनानोढं प्रत्यक्षेणैव सिध्यति । --- प्व्२,१२३; २, १७४. वस्तुशक्यैव नेत्रधीः ।" --- प्व्२,१८५; त्स्१२१४ तः । "सूत्रे अनुपात्तं ज्ञानं लह्ब्यते कुत इति चेदुचते । कल्पनया ज्ञानस्यैव संबन्धो दृष्टः, भ्रान्तिश्च ज्ञानधर्मः । तस्मात्कल्पनारहितमभ्रान्तं च ज्ञानमेवोच्यते । तद्यथा सवत्सा धेनुराईयतामित्युक्ते न वडवाऽऽनीयते किन् तु गोधेनुः । एवमिहापि कल्पनया भ्रान्त्या च ज्ञानस्यैव संबन्धो दृष्ट इति ज्ञानमेव प्रत्यक्षमिष्यते इति <विनीतदेव>व्याख्यानं सचोपरिहारमसंगतम् । --- त्प्२५; अस्य लक्षणस्य निरासः जयन्तेन न्यायमञ्जर्यां
कृतः ।" न्म् ९२; न्ब्ट्त्८८, १०२.

४१,११. अन्येन --- प्रत्यक्षत्वमनूद्येत्यादि इधीयते इत्यादि वाल्य- ब्रिवता प्रत्यक्षं संज्ञा, कल्प्नापोढेत्यादि संज्ञीति --- अप्रसतुताभिधानं विप्रतिपत्तिनिराकरणे प्रकृते स्वेच्छया संज्ञाकरणे सति प्रत्यक्षशब्दवाच्ये वस्तुनि परस्याभिमते विप्रतिपत्तिर्न निराकृता स्यात् । --- त्प्१९. अनेन लक्ष्यलक्षणभावं दर्शयता <विनितदेव>व्याख्यान सम्ज्ञासंज्ञिसंबंधरूपं प्रत्युक्तम् । --- न्ब्ट्ट्१७.

४१,१३. अपरेण --- यस्वनयोः प्रदेशान्तरसिद्धयोरनुवादं कृत्वा प्रत्यक्षत्वं विधत्ते तेनापि विपरीतं लक्ष्यलक्षणविधावाक्यमाशिर्तं स्यात् । प्रसिद्धं हि लक्षणमनूद्य लक्ष्यमभिधीयते । य्था शिधया परिव्राजकतेति । इह तु लक्ष्यस्यार्थसाक्षात्कारित्वस्याप्रसिद्धत्वात्तदनुवादेनाप्रसिद्धं लक्षणमेव विधीयते । यथा परिव्राजकशिधालिङ्गमिति । किं च प्रदेशान्तरासिद्धेऽप्रत्यक्षाधारे कथमनुद्येयाताम्? प्रत्यक्षाधारत्वे च सिद्धे किं पुनरिहापूर्वं विधेयमिति अवधीरितम् । --- त्प्१९.

४२, ९. सन्निवेशोपाधि --- सञ्चितः समुदायः स सामान्यं तत्र चाक्षधीः । सामान्यबुद्धिश्चावश्यं विकल्पेनानुबध्यते --- इत्यादि --- प्व्२, १९४ तः ।

४२, १९. पूर्वव्याख्या --- "किमर्थं विशेषणद्वयोपादानम्? उच्यते । तैमिरिकज्ञानव्यवच्छेदार्थमभ्रान्तपदम्, अनुमाननिरासार्थमितरत् । न त्वालम्बननिषयेऽन्यथा योगाचारमतममतं स्यात् । तन्मतेन सर्वेषां स्वालम्बेन भ्रान्तत्वात् । इष्यते च सौत्रान्तिकयोगादारमतानुसारेण प्रकरणारम्भो यतः प्रामाण्यविषयेऽविसंवादकत्वलक्षणमभ्रान्तत्वं द्वाभ्यामभ्युपगम्यते । सत्येवमानस्यापि प्रत्यक्षत्व प्रसङ्गः । तदपि हि अविसंवादकत्वादभ्रान्तमिष्यते । अतः तन्निराकरणार्थं कल्पनापोढग्रहणमिति अन्यव्याख्यां निराचिकीर्षुराह --- अभ्रान्तमित्यादि ।" --- त्प्१९. "ननु
यदेतत्भ्रान्तग्रहणं विप्रतिपत्तिनिराकरणार्थमुक्तं तदयुकतम् । सम्यग्ज्ञानत्वादेव गच्छद्वृक्षदरशनादि प्रमाणं न भविष्यति । न हि य एव वृक्षादिर्दृश्यते स एव प्राप्यते इति विसंवाद एव । अतः किमभ्रान्तग्रहणेन एतन्निवृत्त्यर्थेन? सत्यमेतत् । परमेतस्मिन्नभ्रान्तग्रहणे सति विशिष्टसंवादानं प्रत्यक्षमिति गम्यते अन्यथा यथानुमानं संवादमात्रेणैवॠ प्रमाणम्, एवं प्रत्यक्षमपि । अत एव वृत्तिकारेणोक्तं ततो हि प्रवृत्तेन वृक्षमात्रमवाप्यते इति संवादकत्वात्सम्यग्ज्ञानं स्यादिति । इह वा सार्थकमभ्रान्तग्रहणम् । केचिद्<आचार्यै>कदेशीयाः ---
’द्विचन्द्रादिविज्ञानाणां मानसी भ्रान्तिः नेन्द्रियजेति । तस्याश्च कल्पनापोढग्रणेनैव निरासः । तथा च <दिग्नाग>नाम्न्<आचार्येण> ’कल्पनापोढं प्रत्यक्षम्ऽ इति लक्षणेऽभ्रान्तग्रहणन कृतमितिऽ --- प्रतिपन्नाः । तेषां विप्रतिपत्तिनिराकरणाय इन्द्रियजां भ्रान्तिं लक्षयनभ्रान्तविशेषणमाह <धर्मकीर्त्ति>रित्यन्वद्यमभ्रान्तग्रहणम्म् ।" --- न्ब्ट्ट्म् १५. "केशोण्ड्कादिविज्ञाननिवृत्त्यर्थमिदं कृतम् । अभ्रान्तग्रहणं तद्धि भ्रान्तत्वान्नेष्यते प्रमा ॥ मानस तदपीत्येके नैतदिन्द्रियभावतः । भावात्तद्विकृतावस्य विकृतेश्चोपलम्भतः ॥ सर्पादिभ्रान्तिवच्चेदमनष्टेप्यक्षविप्लवे । निवर्त्तेत मनोभ्रान्तेः
स्पष्टं च प्रतिभासनम् ॥" --- त्स्१३९२-१३९४ ॥ "अभ्रान्तम्त्राविषम्वादित्वेन द्रष्तव्यम् । न तु यथावस्थितालम्बनाकारतया । अन्यथा हि योगाचमतेनालम्बनासिद्धेरुभयनयसमाश्रयेणेष्टस्य प्रत्यक्षलक्षणस्याव्याप्ता स्यात् ॥" --- त्स्पद्त्स्१३९२.

४३.८. बहवः --- "का वा विरोधो बहवः संजातातोशयाः पृथक् । भवेयुः कारणं बुद्धेर्यदि नामेन्द्रियादिवत् ॥" प्व्२.२२३.

४४.१७. नन्वेवम् --- "यद्येवमभ्रान्तत्वं तदा <योगाचार>मताभावः । न । वस्तुत्वेनाभ्रान्तत्वं लक्षणं नास्त्येव । कथं तर्हि द्विचन्द्रादीनां प्रत्यक्षताऽपाक्रोयतेऽनेन? उच्यते । सम्यग्ज्ञानविशेषणविष्टं प्रत्यक्षशब्दवाच्यमर्थमनूद्य कल्पनापोढत्वं विधीयते । न च द्विचन्द्रादिज्ञानानामविसंवादकत्वं स्तीति निरासस्तेषाम् । <सौत्रान्तिक>पक्षे तु अभ्रान्तपदस्य किं फलम्? उच्यते । <आचार्य>देशीया हि --- द्विचन्द्रादेर्भ्रान्तिर्मानसी । तस्याश्च कल्पनापोढ्पदेनैव निरासः । अत एव्<आचार्येण> ’कल्पनापोढं प्रत्यक्षं प्रत्यक्षेणैव सिध्यति [प्व्१,१२३]ऽ इति लक्षणेन्
ऽभ्रान्तपदं नोपात्तिमिति --- प्रतिपन्नाः । तान् प्रति इमां विप्रतिपत्तिं निराकर्तुमभ्रान्तग्रहणं लक्षणशेषमाह <कीर्त्तिः> । अत एव टीकाकारोऽपि कीर्त्त्यभिप्रायं परिपालयन् विप्रतिपत्तिनिरासार्थमेवाभ्रान्तपदमाह । कथमभिप्रायं पालयन् । उच्यते । एवं हि द्विचन्द्रादिभ्रान्तिनिरासार्थं भवेदभ्रान्तपदं यदि द्विचन्द्रादिभ्रान्तिरिन्द्र्यजा भवति नान्यथा" --- त्प्२०. "एतच्च लक्षणद्वयमित्यादिना पदद्वयेन विप्रतिपत्तिनिरासं दर्शयता <विनीतदेव>व्याख्या पदद्वयकथनरूपा दूषिता ।" न्ब्ट्ट्१५. ननूक्तं योगचारमतमसंगृहीतं स्यादिति । उच्यते । <बाह्यनयेन> <सौतान्तिका>नुसारेण लक्षणं
कृतमिति अदोषः । <योगचार>मतेन त्वभ्रान्तग्रहणं न कर्त्तव्यं संवादकस्य सम्यग्ज्ञानस्य प्रस्तुतत्वात् ॥" न्ब्ट्ट्१९.

४७, ९. न्ब्५ --- "जायन्ते कल्पनास्त्र यत्र शब्दो निचेशितः । तेनेच्छातः प्रवर्त्तेरन्नेक्षेरन् बाह्यमक्षजाः ॥" प्व्२.१७६.

४७, १०. अनेन --- "तेन यद्<विनीतदेव>व्याख्या दूषिता ।" --- न्ब्ट्ट्२१.

४७, १८. विचेचयिष्यामः --- द्रष्टव्यं ध्प्र्७१,५.

४७, २४. कीदृशीति --- "कीदृशीति स्वरूपपरिज्ञानशून्यस्येदं भाषितम् । यद्वा सम्भावयन् पृच्छति कल्पनां यतो भव्यः कल्पनाः सन्ति । तथा हि --- इन्द्रियविज्ञानानां वितर्कविचारचैतसिकसम्प्रयुक्तानामौदार्यसूक्ष्मतया स्वविषये प्रवृत्तिरिति <वैभाषिकी> कल्पना, वितर्कविचारादौदार्यसूक्ष्मते .. <योगाचाराणाम्>" --- त्प्२९. "तथा हि <वैभाषिका> इन्द्रियविज्ञानं वितर्कविचारचैतसिकसम्प्रयुक्तं कल्पनामिच्छन्ति । <योगाचार>मतेन च तथागतज्ञानमद्वयं मुक्त्वा सर्वज्ञानं ग्राह्यग्राहकत्वेन विकल्पितं कल्पना । जात्यादिसंसृष्टं तु मनोज्ञानं कपनेत्यन्ये कल्पयन्ति ।" = न्ब्ट्ट्२१.

५०, १. अर्थसन्निधिनिरपेक्षत्वात्--- "अनपेक्षितबाह्यार्था योजना समयस्मृतेः ।" प्व्२.१८५.

५०, १. बालोऽपि --- "उत्पन्नमात्रस्य हि बालकस्य स्तनं दृष्ट्वा प्राग्भवीयस्तज्जातीयापेक्षितानुभवजनितः संस्कार आविरस्ति । ततश्च स्मरणं ततोऽपेक्षितोपायतानुमानं ततः प्रवृत्तिस्ततः तस्याः साम्र्थ्यम् ॥" ---न्ब्ट्त्९.

५१, १. पूर्वदृष्टापरदृष्टम् --- "पूर्वानुभूतस्मरणात्तद्धर्मारोपणाद्विना । स एवायमिति ज्ञानं नास्ति तच्चाक्षते कुतः ॥" प्व्२, ५०६.

५२, ३. यद्यपि --- "तेन य <विनीतदेवेन> सामान्ययोर्वाच्यवाचकभावमङ्गीकृत्य निर्विकल्पकत्वमिन्द्रिययविज्ञानस्य प्रतिपादितं तद्दूषितम् ।" --- न्ब्ट्ट्२३.

५४, १. ध्प्र्६ --- "त्रिविधं कल्पनाज्ञानमाश्रयोपप्लवोद्भवम् ।" प्व्२, २८८.

५४, २६. पूर्वम् --- द्रष्टव्यं ४२.

५५, १७. स्वकीयवचनाकौशलम् --- "नन्वेवमप्यनर्थकं यतोऽन्यथा न विभ्रमहेतुरतः सामर्थादाशुभ्रमणं लभते । सत्यम् । व्याख्यातुरयं यत्नः स्यात्न शास्त्रकारस्य । अतोऽकौशलमेव शास्त्रकृतः स्यात् ।" --- त्प्२४.

५६, २१. चक्षुः पश्यति --- "चक्षुः पश्यति रूपाणि सभागं न तदाश्रितम् । विज्ञानं दृश्यते रूपं न किलान्तरितं यतः ।" --- अक्१, ४३. त्प्२६; न्ब्ट्ट्म् १९.

५७, २ ध्प्र्९ --- "तस्मादिन्द्रियविज्ञानानन्तरप्रत्ययोद्भवः । मनोन्यमेव गृह्णाति विषयं नान्धदृक्ततः ॥" प्व्२, २४३.

५८, ५. एककार्यकारित्वेन --- अप्रतिरोधशक्तिकेषु अनाधेयविशेषेषु क्षणिकेषु प्रत्ययेषु परस्परं कः सहकारार्थः? न वै सर्वत्राति शयोत्पादनं सहक्रिया । का तर्हि? एकार्थकरणं यद्बहूनामपि ।" ह्ब्५८.

५९, २०.यदन्येन --- "इति ब्रुवताव्याख्यानमिदं --- इन्द्रियज्ञानेन समनतरप्रत्यजनितमित्यनेन वाक्येनान्धबधिराद्यभावदोषः परैहृत इत्यपि निरस्तम् ।" त्प्२७.

६१, १. गृहीतग्रहणात्--- पूर्वानुभूतग्रहेणे मानसस्याप्रमाणता । अदृष्टग्रहणेन्धादेरपि स्यादर्थनम् ॥" --- प्व्२, २३९.

६२, १६. द्विविध --- पञ्च बाह्या द्विविज्ञेयाः ।" --- अक्१, ४८.

६२, २९. इह पूर्वैः --- तदस्तीति कुतोऽधिगतमित्याशङ्क्य विकल्पोदयादिति साधनमाचार्यज्ञानगर्भेणोक्तम् । अपरेणेदं नीलादिरिति प्रवर्त्तकमधिमुक्तिलक्षणम् । तदन्येणागमोक्तं सम्भाव्यते --- इत्युक्तं तदेषां पूर्वपक्षसमाधिरभिधीयते ॥" त्प्२७. "तदेतद्<धर्मोत्तरेण> आगमसिद्धं दर्शयता आचार्यज्ञानगर्भप्रभृतीनां मानससिधये यत्प्रमाणमुपन्यस्तं विकल्पोदयादिति तद्भङ्ग्यावधारणादेव दूषितम् ।" न्ब्ट्ट्३०.

६४, २. ध्प्र्१०. --- "अशक्यसमयो ह्यात्मा रागादीनामनन्यभाक् । तेषामतः स्वसं वितिर्नाभिजल्पानुषङ्गिणी ॥" प्व्२, २४९. "अथात्मरूपं नो वेत्ति पररूपस्य वित्कथम्?" प्व्२, ४४४.

६८, ५. नास्ति --- "<सौत्रान्तिक>स्यालयविज्ञानाभावोऽभिमत इत्याह नास्तीति ।" --- त्प्३९.

६८, ९. <प्रमाणवार्त्तिके> --- प्व्१, ३४, ३६, १२२-२८७.

६८, ३. विकल्प --- "न विक्ल्पानुबद्धस्यास्ति स्फुटार्थावभासिता ॥" प्व्२, २८३.

७०, ६. विषय --- मानं द्विविधं विषयद्वैविध्यात्शक्त्यशक्तिततः । अर्थक्रियायां केशादिनार्थोऽनर्थाधिमो ॥ सदृशासदृशत्वाच्च विषयाविषयत्वतः । शब्दस्यान्यनिमित्तानां भावे धी सदसत्त्वतः ॥ अर्थक्रियासर्मर्थं यत्तदत्र परमार्थसत् । अन्यत्सम्वृतिसत्प्रोक्तं ते स्वसामान्यलक्षणे ॥" प्व्२, १ --- ३; न्ब्ट्त्१२-१३.

७१, १. ग्राह्यः --- "भिन्नकालं कथं ग्राह्यमिति चेद्ग्राह्यतां विदुः । हेतुत्वमेव युक्तिज्ञा ज्ञानाकारार्पणक्षमम् ॥ कार्यं ह्यनेकहेतुत्वेऽप्यनुकुर्वदुदेति यत् । तत्तेनाप्यत्र तद्रूपं गृहीतमिति चोच्यते ॥" प्व्२, २४७-२४८; "हेतुभावादृते नान्या ग्राह्यता नाम काचन । तत्र बुद्धिर्यदाकारा तस्यास्तद्ग्राह्यमुच्यते ॥" प्व्२, २२४.

७४, २. न्ब्१३ --- "यथोक्तविपरीतं यत्तत्स्वलक्षणमिष्यते ।" --- प्व्२, ५१. "इदं च वैपरीत्यम् --- अनभिधेयत्वम्, तत्त्वान्यत्वाभ्यां वाच्यत्वम्, असदर्थप्रत्ययाविशिष्टप्रतिभासविषयत्वम्, असाधारणत्वम्, असाधारणत्वम्, सङ्केतस्मरणानपेक्षप्रतिपत्तिकत्वम्, अन्यरूपविविक्तस्वरूप्रतिभासवत्त्वं, अर्थक्रियाक्षमत्वं च ।" प्व्ट्१, ५१. "बुद्धिर्यत्रार्थसामर्थ्यादन्वयव्यतिरेकिणी । तस्य स्वतन्त्रं ग्रहणमतोऽन्यद्वस्त्वतीन्द्रियम् ॥" प्व्२, ५९.

७४, १७. अन्यैराख्यातम् --- "सर्वेण रूपेण वस्तुनोऽभावोऽसन्निधानमिति --- अन्यव्याख्या अपास्ता ।" "यत्पुनर्योग्यदेशे भावाभाभाभ्याम् --- इति <शान्तभद्र>व्याख्यानं तद्भद्रकमेव ।" --- त्प्३५.

७५, ३. न्ब्१४-१५ --- "अर्थक्रियासमर्थं यत्तदत्र परार्थसत् । अन्यत्संवृतिसत्प्रोक्तं ते स्वसामान्यलक्षणे ॥" --- प्व्२, ३. "स पारमार्थिको भावो य एवार्थक्रियाक्षमः ॥" --- प्व्३, १६५ । "मेयं त्वेकं स्वलक्षणम् ॥ तस्मादर्थक्रियासिद्धेः सदसत्ताविचारणात् । तस्य स्वपररूपाभ्यां गतेर्मेयद्वयं मतम् ॥" प्व्२, ५३-५४.

७७, ७. न्ब्१६ --- "सर्वत्र सम्रूपत्वात्तद्व्यावृत्तिसमार्श्रयात् ॥ न तदस्त्वभिधेयत्वात्साफल्या अक्षसंहतेः ।" --- प्व्२, १०-११.

७८, २०. न्यायवादी --- "अभिप्रायाविसंवादादपि भ्रान्तेः प्रमाणता । गतिरप्यन्यथा दृष्टा पक्षश्चायं कृतोत्तरः ॥ मणिप्रतीपप्रभयोर्मणिबुद्ध्याभिधावतोः । मिथ्याज्ञानाविशेषेऽपि विशेषोऽर्थक्रियां प्रति ॥ यथा तथाऽयथार्थत्वेप्यनुमानतदाभयोः । अर्थक्रियानुरोधेन प्रमाणत्वयवस्थितम् ॥" --- प्व्२, ५६-५८.

७८, २१. ’ित्यत्रापिऽ --- द्रष्टव्यं ध्प्र्५१, १.

७९, २. न्ब्१८ --- "प्रमाणफलयोरभेदं निराकुर्वतो नैयायिकस्य युक्त्यर्थं द्रष्टव्या --- " न्म् ७०.

७९, ११. ’पुरस्तात्ऽ --- द्रष्टव्यं १७-१८.

८१, २. न्ब्२० --- "विषयाकारभेदाच्च धियोऽधिगमभेदतः । भावादेवास्य तद्भावे स्वरूपस्य स्वतो गतिः ॥" प्व्१, ६. "तत्रानुभवमात्रेण ज्ञानस्य सदृशात्मनः । भाव्यन्तेनात्मना येन प्रतिकर्म विभज्यते ॥ अर्थेन घटयत्येनां न हि मुक्त्वार्थरूपताम् । अन्यः स्वभेदाज्ज्ञानस्य भेदकोऽपि कथञ्चन ॥ तस्मात्प्रमेयाधिगतेः साधनं मेयरूपता । साधनेऽन्यत्र तत्कर्म असम्बन्धो न प्रसिध्यति ॥ सा च तस्यात्मभूतैव तेन नार्थान्तरं फलम् । दधानं तच्च तामात्मन्यर्थाधिगमनात्मना ॥" --- प्व्२, ३०२, ३०५, ३०६, ३०७.

८१, ८. न्ब्२१ --- तस्माद्यतो अस्य आत्म-भेदो अस्य अधिगतिरित्ययम् । क्रियायाः कर्म-नियमः सिद्धा सा तत्-प्रसाधना प्व्३, ३०४.

८२, ४. चक्षुरादिभ्यः --- सर्वसामान्यहेतुत्वादक्षाणामस्ति न ईदृशम् । तद्भेदे अपि ह्यभिन्नस्य तस्य इदमिति तत्कुतः ॥ प्व्३, ३१२. सर्वमेव हि विज्ञानं विषयेभ्यः समुद्भवत् । तदन्यस्य अपि हेतुत्वे कथं स्याद्विषयआकृतिः ॥ यथा एव आहारकालआदेर्हेतुत्वे अपत्यजन्मनि । पित्रोस्तदेकस्य आकारं धत्ते न अन्यस्य कस्यचित् ॥ प्व्३, ३६८-३६९.

८२, ८. व्यवस्थाप्य्---धियो अंशयोः । तद्-व्यवस्थाश्रयत्वेन साध्य-साधन-संस्थितिः ॥प्व्२१५ . क्रिया-करणयोरैक्य-विरोध इति चेदसत् । धर्म-भेदाभ्युपगमाद्वस्त्व्-अभिन्नमिति इष्यते ॥ ॥ प्व्२१८ .

८७, ३. न्ब्१-३ "--- स्वपरार्थविभागेन त्वन्मानं द्विधष्यते । स्वार्थं त्रिरूपतो लिङ्गादनमेयार्थदर्शनम् ॥" त्स्१३६२.

८९, १. न्ब्३ --- "तस्य अदृष्टात्म-रूपस्य गतेरन्यो अर्थाश्रयः । तद्-आश्रयेण सम्बन्धी यदि स्याद्गमकस्तदा ॥ गमकानुग-सामान्य-रूपेण एव तदा गतिः । तस्मात्सर्वः परोक्षो अर्थो विशेषेण न गम्यते ॥ या च सम्बन्धिनो धर्माद्गतिर्धर्मिणि जायते । सा अनुमानं परोक्षाणामेकं तेन एव साधनम् ॥" प्व्६०-६२.

८९, १३. ननु च --- "नन्वेवं प्रत्यक्षस्यापि द्वैविध्यं किं न कथ्यते? उच्यते । तदधिगतस्य स्वलक्षणस्य निर्देष्टुमशक्यत्वात् ॥" त्प्१३.

८९, १४. परार्थं प्रत्यक्षम् --- न्व्११, १२.

९०, १६. स्पष्टयिष्यामः ---ह्ब्टा २५८-२५९.

९०, २४. ननु --- "ननु किमनया कष्टकल्पनया प्रमाणं च फलं च प्रमाणफले तयोर्व्यवस्थेत्येवं विग्रहः किन्न क्रियते । उद्यते । फलशब्दस्याल्पाच्त्रत्वात्पूर्वनिपातः स्यात् ।" त्प्१४.

९१, ७. न्ब्५ --- अन्वयो व्यतिरेको वा सत्त्वं वा साध्यधर्मिणि । तन्निश्चयफलैर्ज्ञानैः सिध्यन्ति यदि साधनम् ॥ प्व्३, २९०.

९१, २४. अबाधितविषय्त्वादि --- नैयायिकसम्मतं हेतोः पञ्चलक्षणानां विवरणं --- न्म् ११० आदिशु द्रष्टव्यम् ।

९२, २९. प्रदर्शयिष्यामः --- द्रष्टव्यं ध्प्र्१९३.

९६, ६. न्ब्६ --- "पक्षो धर्मी, अवयवे समुदायोपचारात् ॥" ह्ब्५२,प्व्स्व्१२.

९६, ३०. निदेदयिष्यते --- ध्प्र्१४२.

९७, १. अत्र --- "न तु यथोक्तं शान्तभद्रेण --- ’त्र साध्यसाधनचिन्तायाम्, आचार्यीये वा दर्शनेन् धर्मी नौमेयःऽ इति । यतोऽत्र साध्यसाधनचिन्तायां धर्म्यनुमेय इति न इञ्चनार्यं पुष्णाति । द्वितीयेऽपि पक्षे न हि आचार्यीये एव दर्शने धर्मी अनुमेयो व्यवस्थितः, यतोऽन्यत्रापि दर्शने धर्म्यनुमेयः ।" त्प्५३.

१००, ३. न्ब्१०-११ --- पक्षधर्मस्तदंशेन व्याप्तो हेतुस्त्रिधा एव सः । अविनाभावनियमाधेत्वाभासास्ततो अपरे ॥ प्व्स्व्३, १.ह्ब्५२. एतल्-लक्षणस्त्रिधा एव सो हेतुस्त्रिप्रकार एव । स्वभावः, कार्यमनुपलब्धिश्च इति । ह्ब्५४. व्न् ३, प्व्स्व्२०.

१००, १५. संयोग्यादि --- संयोग्य्-आदिषु येष्वस्ति प्रतिबन्धो न तादृशम् । न ते हेतव इत्युक्तं व्यभिचारस्य सम्भवात् ॥ प्व्४, २०३.

१०१, २. न्ब्१२. --- दृश्यस्य दर्शनाभावकारणासंभवे सति । भावस्य अनुपलब्धस्य भावाभावः प्रतीयते ॥ प्व्३, २०२-२०३. "अभावे च उपलब्धिलक्षणप्राप्तस्य अनुपलब्धिरित्य्" ह्ब्५४. उपलब्धिलक्षणप्राप्तस्य अनुपलब्धिरभावस्य अभावव्यवहारस्य वा हेतुः --- ह्ब्. ६४.

१०१, १३. एकज्ञानसंसर्गि --- "यत्र यस्मिन्नुपलभ्यमाने नियमेन यस्योपलब्धिः स तत्संसृष्टः, एकज्ञानसंसर्गात् । तयोः सतोर्नैकरूपनियता प्रतिपत्तिः, असम्भवात् ।" ह्ब्६५.

१०१, १६. परस्तात्--- द्रष्टव्यं ध्प्र्११९, १६.

१०२, ६ अनुपलम्भः --- "उक्तमत्र यथा पर्युदासवृत्त्या अपेक्षातो तद्विविक्तोऽर्थस्य्तज्ज्ञानं वाऽभावोऽनुपलब्धिश्चोच्यत इति । न प्रतिषेधमात्रम्, तस्य साधनअसिद्धेरभावव्यवहारअसिद्धि प्रसङ्गात् ।" ह्ब्६५.

१०३, २. न्ब्१३ --- "स्वभावे स्वनिमित्ते वा दृश्ये दर्शनहेतुषु । अन्येषु सत्स्वदृश्ये च सत्ता वा तद्वतः कथम् ॥" प्व्२, ७२.

१०३,१५. <ईश्वरसेन> --- स्वभावे स्वनिमित्ते वा दृश्ये दर्शनहेतुषु । अन्येषु सत्स्वदृश्ये च सत्ता वा तद्वतः कथम् ॥ ह्ब्६५.

१०३, ३. न्ब्१५-१७. --- "यतः कदाचित्सिद्धा अस्य प्रतीतिर्वस्तुनः क्वचित् । तदवश्यं ततो जातं तत्स्वभावो अपि वा भवेत् ॥ स्वनिमित्तं स्वभावं वा विना न अर्थस्य सम्भवः । यच्च रूपं तयोर्दृष्टं तदेव अन्यत्र लक्षणम् ॥" प्व्२,७०-७१."तत्र साधन-धर्म-भाव-मात्रान्वयिनि साध्य-धर्मे स्वभावो हेतुः." --- ह्ब्५५. "अर्थान्तरे गम्ये कार्यं हेतुः" --- ह्ब्६३.

१०८, ३. प्रतिषेधहेतुः --- "प्रतिषेधस्तु सर्वत्र साध्यते अनुपलम्भतः । सिद्धिं प्रमाणैर्वदतामर्थादेव विपर्ययात्" प्व्३, ८५; प्व्स्व्२२.

१०८, १२. <वादन्याय>स्य --- व्न् ६५.

१०८, १७. <कुमारिल>स्तु --- प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते । वस्तुसत्तावबोधार्थं तत्राभावप्रमाणता ॥ वस्त्वसङ्करसिद्धिश्च तत्प्रामाण्यसमाश्रया । क्षीरे दध्यादि यन्नास्ति प्रागभावः स उच्यते ॥ प्रत्यक्षादेरनुत्पत्तिः प्रमाणाभाव उच्यते । सात्मनः परिणामो वा विज्ञानं वाक्यवस्तुनि ॥ श्वभाव- १, २, ११.

१०८, २५. विप्रतिपत्तावपि --- द्र्ष्टव्यं <हेतुबिन्दुटीका>गतं <हेतुबिन्दु>प्रकरणम्, ६३, १६.

१०९, ८. न्ब्१९. --- "तस्मात्स्वभावप्रतिबन्धादेव हेतुः साध्यं गमयति । स च तद्धावलषणस्तदुत्पत्तिलक्षणो वा अविनाभावाख्यः ।" प्व्स्व्७६.

११०, २३. पूर्वेषाम् --- "अत्र स्वभावस्य प्रतिबन्ध इति षष्ठीसमासेन स्वभावहेतोः सङ्ग्रहः । स्वभावए प्रतिबन्ध इति नएनापि सप्तमीसमासेन कार्यहेतोरित्यन्यव्याखानमसङ्गतमालोच्याह कारण इत्यादि ।" त्प्६६.

१११, ६. न्ब्२१ --- "पक्षधर्मस्तदंशेन व्याप्तो हेतोः ।" प्व्२. १.

११३, २. न्ब्२२ --- "कार्यकारणभावाद्वा स्वभावाद्वा नियामकात् । अविनाभावनियमोऽदर्शनान्न्न दर्शनात् ॥" प्व्३३, ३०; २, ७०. "अस्य मतस्य निराकरणार्थं" द्रष्टव्यान्ब्ट्त्१०५ च.

११३, ६. प्रतिज्ञार्थैकदेशः --- प्व्स्व्, ३४८.

११५, ८. ननु --- द्रष्टव्या न्म् ११७.

११५, २४. एकसामग्र्यधीनता --- एकसामग्र्यधीनस्य रूपादेरसतो गतिः ।हेतुधर्मानुमानेन धूमेन्धनविकारवत् ॥ प्व्३, ८.

११५, ३२ पपीलिकोत्सरण --- "एतेन पिपीलिकोत्सरणमत्स्योद्वर्त्तनादिना वर्षद्यनुमानमप्युक्तम् ।" प्व्स्व्५०.

११६, ३. न्ब्२४. --- "या काचिद्भावविषयाऽनुमितिर्द्विविधैव सा ॥ स्वसाध्ये कार्यभावाभ्याम् ।" प्व्३, १९६, १९७.

११७, २. न्ब्२७. --- "शास्त्राधिकारासंबद्धा बहवो अर्था अतीन्द्रियाः । अलिङ्गाश्च कथं तेषामभावो अनुपलब्धितः ॥" प्व्३, १९८-१९९.

११९, ५. व्यवहर्तव्यः --- तस्मादनुपलम्भो अयं स्वयं प्रत्यक्षतो गतः । स्व-मात्र-वृत्तेर्गमकस्तद्-अभाव-व्यवस्थितेः ॥ प्व्४, २७४.

१२३, ४. दृश्यानुपलम्भः --- सोऽन्यभावः प्रत्यक्षलक्षणेन अनुपलम्भेन सिद्धो मूढ-प्रतिपत्तावभावव्यवहारं साधयेदित्य्सुचर्चितमेव । --- ह्ब्६८.

१२४, २. एकादशप्रकारा --- "सेयमनुपलब्धिस्त्रिधा --- सिद्धे कार्यकारणभावे भावस्य कारणस्य अनुपलब्धिर्व्याप्यव्यापकभाव-सिद्धौ सिद्धाभावस्य व्यापकस्य अनुपलब्धिः स्वभावानुपलब्धिश्च ।" --- ह्ब्६८;विरुद्धकार्ययोः सिद्धिरसिद्धिर्हेतुभावयोः । दृश्यात्मनोरभावार्थानुपलब्धिश्चतुर्विधा ॥ --- प्व्३, ३;२०.७ इति इयं त्रिविधा अप्युक्तानुपलब्धिरनेकधा ।

२०.८ तत्तद्विरुद्धाद्यगतिगतिभेदप्रयोगतः ॥ --- प्व् ३, २९.

१२४, ९. न्ब्३९ --- प्व्३, २०२. स्वभावासिध्या यथा नात्र धूमोऽनुपलब्धेरिति --- प्व्स्व्४०.

१२४, २४. षोडशप्रकारेति --- त्भ्१६.

१२५, १७. अभिधास्यते द्रष्टग्ये न्ब्२, ४२-४३.

१२८, ६. इष्टम् --- इष्टं विरुद्धकार्ये अपि देशकालाद्यपेक्षणम् । अन्यथा व्यभिचारि स्याद्भस्मा इव अशीतसाधने ॥ प्व्३, ५.

१२९, १. न्ब्३३ --- एतेन व्यापकस्वभावासिद्धिरुक्ता यथा नात्र शिंशपावृक्षाभावात् ॥ --- प्व्स्व्४०.

१२९, १०. न्ब्३४ --- विरुद्धस्य च भावस्य भावे तद्भावबाधनात् । तद्विरुद्धोपलब्धौ स्यादसत्ताया विनिश्चयः ॥ प्व्३, २०३-४, प्व्स्व्३९.

१२९, १५. धर्मोत्तरेन --- द्रष्टव्यं ध्प्र्११२, ३.

१३०, ३. न्ब्३५ --- विरुद्धकार्यसिद्ध्या हि यथा न शीतस्य्पर्शो धूमात् । --- प्व्स्व्३९.

१३१, ७. न्ब्३६ --- सापेक्षाणां हि भाबानां नावश्यम्भावतेक्ष्यते । --- प्व्३, १९३.

१३५, १. न्ब्३८ --- एतेन व्यापकविर्द्धसिद्धिरुक्ता वेदितव्या --- यथा --- नात्र तुषारस्पर्शः वह्नेः । प्व्स्व्३९.

१३५, ९. न्ब्३९ --- हेत्वसिद्ध्या यथा नात्र धूमो वहन्यभावादिति । --- प्व्स्व्४०.

१३७, १. न्ब्४० --- निमित्तयोर्विरोधे गमिका च कारणानुपलब्धिः यथा नास्य पुंसो रोमहर्षादिविशेषाः, संनिहितदहनविशेषत्वात् । प्व्स्व्४१.

१३८, २४. शान्तभद्रेण --- त्प्५७.

१४१, ५. न्ब्४३ --- एतेन तद्-विरुद्धार्थ-कार्योक्तिरुपवर्णिता । प्रयोगः केवलं भिन्नः सर्वत्र अर्थो न भिद्यते ॥ प्व्२,९०.

१४४, ४. न्ब्४५ --- सर्वत्रापि अभावसाधन्यामनुपलब्धेः दृश्यात्मनां तेषां --- प्व्स्व्४०.

१४५, २२. ’प्रागेवऽ द्रष्टव्यं स्. १२६, १.

१५०, २. न्ब्१ --- शक्तस्य सूचकं हेतुवचोऽशक्तमपि स्वयम् ॥ प्व्४, १७.

१५१, ९. न्ब् ३. --- द्विविधो हि प्रयोगः साधर्म्यानेव वैधर्म्यान् च । यदन्ये अन्वयी व्यतिरेकी च इत्याहुः । नानयोरन्यत्र प्रयोगभेदादर्थतः कश्चिदपि भेदो । साधर्म्येणापि प्रयोगेऽर्थाद्वैधर्म्यगतिः, असति तस्मिन् साध्यतेत्वोरनयाभावात् । --- प्व्स्व्३५८.

१५१, १७. अबाधितत्वाद्यपि --- ह्ब्टा २०५.

१५२, १६. न्ब्६-७ ---तस्मादन्वय-व्यतिरेकयोर्यथा-लक्षणमेको अपि प्रयुक्तो द्वितीयमाक्षिपति इति नानयोरर्थतः कश्चिद्भेदोऽन्यत्र प्रयोगात् । --- ह्ब्५६.

१५३, ६. वक्ष्यमाणेन --- द्रष्टव्यं स्. १५९.

१५६, ६. न्ब्९. यथा xयत्सत्तत्सर्वं क्ष्णिकम्, यथा घटादयः । संश्च शब्दः । ह्ब्५५.

१५६, २१. <वादयाय> ---व्न् २१ f.

१५७, ६. न्ब्१०. --- क्वचित्स्वभावभूतदर्मपरिग्रहद्वारेण यथा तत्रैवोत्पत्तिः --- प्व्स्व्१४९.

१५८, २,. न्ब्११. --- उपाधिभेदापेक्षो वा स्वभावः केवलो अथवा । उच्यते साध्यसिद्ध्यर्थं नाशे कार्यत्वसत्त्ववत् ॥ प्व्३, १८५-१८६.

१५९, ३. न्ब्१२. --- स्वभावनिष्पत्तौ अपेक्षित व्यापारभावो हि कृतकः । तेनेयं कृतकश्रुतिः स्वभावाभिधायिन्यपि परोपाधिमेनमाक्षिपति ॥ प्व्स्व्३४८.

१५९, १२. न्ब्१३. --- एतेन प्रत्ययभेदभेदित्वादयो व्याख्याताः । प्व्स्व्३४८.

१६०, ८. न्ब्१५. --- सिधिः स्वभावो गमको व्यापकस्तस्य निश्चितः । सिद्धः स्वभावनियतः स्वनिवृत्तौ निवर्तअकः ॥ प्व्३, १९१-२, प्व्स्व्३५७.

१६१, २२. अत्र लुप्तटीकाश्शो <तात्पर्य>निबन्धनतो ज्ञेयः । तद्यथा --- "अमुमेवार्थं प्रथममित्यादिना विशदयति । तत्रेति सामान्येन स्मृतस्यार्थस्य विशेषे योजने सति । तथा च सतीति सामान्यस्मरणस्य लिङ्गज्ञाने विशिष्टस्मरणस्य च नौमानज्ञाने सति अविनाभावित्वज्ञानमेव प्रओक्षार्थप्रतिपादकत्वं नाम उक्त्या सम्भाव्यत इत्याह । किञ्च निश्चयस्मरणज्ञाने शब्दानामेकार्थताऽवसेया ज्ञानोपाधिलिङ्गधर्मापेक्षया लिङ्गधर्मो ज्ञानोपाधिर्यस्मादेतैः प्रतिपाद्यन्त इति । तेनेति । येन कारणेन साध्याविनाभावित्वनिश्चयनमेव प्रतिपादकत्वत्वव्यापारः तेन हेतुना । ना यत्रेति अन्यस्मिन् साध्यधर्म इत्युक्तमिति वार्त्तिककृता मूलाचार्येण वा निश्चितपदं कुर्वता । यद्वा एवमुक्तं
भवतीति शेषः । कस्मादस्मारोपित एव धर्मिणो भेदेऽपि धर्मयोर्भेदो न स्यात्--- इत्याह --- साध्येति । यस्मान्निश्चियारूढे निशिष्टविकल्पज्ञानप्रतिभासिनि रूपे साध्यसाधनयोर्नानात्वम् । यदि नामैवं स्यात्तथापि समारोपितो भेदः कथमित्याह --- निश्चया रूढं चेति । इतरस्मादितरस्माच्च विजातीयाद्व्यावृत्तिर्व्यवच्छेदः, तत्कृतेन भेदेन भिन्नमिति । अत्र इतिः तस्मादर्थे । तस्मादन्यत्साधनं तथा साध्यमपि । एतदुक्तं भवति --- यदि कृतकत्वानित्यत्वादीनां तादात्म्यसम्बन्धो नेष्यते तदा तद्ध्रुवभावित्वं नाशस्य न स्यात्धर्मिणोऽभिन्नत्वे मिथोऽप्यभिन्नत्वं धर्मयोः । न च धर्मिणः
सकाशाद्भेद इत्यादिकमन्यत्र प्रतिपादितमिति नेह प्रतन्यते ।" त्प्१०१.

१६९, ३. न्ब्३०. --- "न हि अतत्स्वभावस्य भावे एकान्तेनान्यस्य भावः, तन्निवृत्तौ वा निवृत्तिः । " ह्ब्५६.

१७२, ६. न्ब्३४. --- "पक्षधर्मसम्बन्धवचनमात्रसामर्थ्यादेव प्रतिज्ञार्थस्य प्रतीतेः न प्रतिज्ञायाः प्रयोग उपदर्शितः ।" इत्यादि ह्ब्५५. "तत्पक्ष-वचनं वक्तुरभिप्राय-निवेदने । प्रमाणं संशयोत्पत्तेः ततः साक्षान्न साधनम् ॥ साध्यस्य एव अभिधानेन पारंपर्येण न अप्यलम् ।" प्व्४, १६-१७ ब्. । प्रक्षप्रयोगसमर्थनार्थं द्रष्<ट्>अव्या न्म् ५७१.

१७२, १६. स्वयूथैः --- "अवश्यमेव न निर्दिश्य इति भणता न ह्ययं नियमो यदवश्यं पक्षो निर्दिश्यः इत्यन्यव्याख्योपहसितेति यतोऽस्मिन् व्याख्याने पाक्षितः पक्षनिर्देशोऽनुमत एव्ग । स चायुक्त इत्युक्तं वक्ष्यति च" त्प्१०६.

१७८, १८. <वादयाय> --- व्न् ६५.

१७६, ८. अर्थ --- "गम्यार्थत्वेऽपि साध्योक्तेरसंमोहाय लक्षणम् ।" --- प्व्४, २८.

१७६, १०. विप्रतिपत्तिनिराकरण --- "विप्रतिपत्तिनिराकरणार्थमिति ब्रुवताऽन्यव्याख्या --- ’ेतच्च नियतपदार्थकथायां द्रष्टव्यम्, प्रपञ्चकथायां तु पक्षनिर्द्देशेऽपि न कशिच्द्दोषःऽ इत्याद्यपास्ता ।" त्प्१०७.

१७६, १२. न्ब्३९. --- असिद्धासाधनार्थोक्तवाद्यभ्युपगमग्रहः । अनुक्तो अपि इच्छया व्याप्तः साध्य आत्मार्थवन्मतः ॥ प्व्४, २९.

१७८, ९. न्ब्४४. --- एकस्य धर्मिणः शास्त्रे नानाधर्मस्थितावपि । साध्यः स्यादात्मना एव इष्ट इत्युपात्ता स्वयंश्रुतिः ॥ प्व्४, ४४.

१७९, ४. व्प्रतिपत्तिः --- उक्तयोः साधनत्वेन नो चेदीप्सित-वादतः । न्याय-प्राप्तं न साध्यत्वं वचनाद्विनिवर्तते ॥ प्व्४, ७०.

१७९, ११. न्ब्४५ --- विशेषस्तद्व्यपेक्षातः कथितो धर्मधर्मिणोः । अनुक्तावपि वाञ्छाया भवेत्प्रकरणाद्गतिः ॥ प्व्४, ३९; २९.

१८२, १. न्ब्४८. --- अनिषिद्धः प्रमाणाभ्यां स च उपगम इष्यते । सन्दिग्धे हेतु-वचनाद्व्यस्तो हेतोरनाश्रयः ॥ प्व्४, ९१; अनुमानस्य भेदेन सा बाधा उक्ता चतुर्विधा । तत्र अभ्युपायः कार्याङ्गं स्वभावाङ्गं जगत्स्थितिः ॥ प्व्४, ९१; न्प्२. "ये चैते पक्षविरुद्धतादायः पक्षदोषा ये च वक्ष्यमाणाः साधनविकलत्वादयो दृष्टान्तदोषास्ते वस्तुस्ह्तित्या सर्वे हेतुदोषा एव । प्रपञ्चमात्रं तु पक्षदृष्टान्तदोषवर्णनम् । द्दृष्टान्तदुष्टत्यया च हेतोरेव लक्षणमन्वयव्यतिरेकयोरन्यतरधीयत इति सर्वे च ते हेतुदोषा
एव --- अत एव च शास्त्रेऽस्मिन्मुनिना तत्त्वदर्शिना । पक्षाभासादयो नोक्ता हेत्वाभास्तु दर्शिताः ।" न्म् ५७२.

१८३, ४. न्ब्५९. --- अर्थेष्वप्रतिषिद्धत्वात्पुरुषेच्छानुरोधिनः । इष्ट-शब्दाभिधेयत्वस्य आप्तो अत्र अक्षत-वाग्जनः ॥ उक्तः प्रसिद्ध-शब्देन धर्मस्तद्व्यवहारजः । प्रत्यक्षादिमिति मान-श्रुत्य्-आरोपेण सूचितः ॥ प्व्४, १०९-११०; चन्द्रतां शशिनो अनिच्छन् कां प्रतीतिं स वाञ्छति । इति तं प्रत्यदृष्टान्तं तद्-असाधारणं मतम् ॥ प्व्१२०.

१८६, ६. अन्ये --- अन्ये त्विति <शान्तभद्रा>दयः --- त्प्१११.

१८८, १६. साधनाभासः --- न्प्३.

१९७, ६. न्ब्६९. ---विपक्षे अदृष्टिमात्रेण कार्यसामान्यदर्शनात् । हेतुज्ञानं प्रमाणाभं वचनाद्रागितादिवत् ॥ प्व्३, ११.

१९८, ३. न्ब्७१. --- न च अदर्शनमात्रेण विपक्षे अव्यभिचारिता ।संभाव्यव्यभिचारत्वात्स्थालीतण्डुलपाकवत् ॥ यस्य अदर्शनमात्रेण व्यतिरेकः प्रदर्श्यते । तस्य संशयहेतुत्वाच्शेषवत्तदुदाहृतम् ॥ प्व्३, १२-१३.

१९८, १७. न्ब्७३. --- "अपर्यन्तकारणस्य भवतोऽन्यभावेऽभावाद्विरोधगतिः ।" --- प्व्स्व्३५.

२०२, १. ये त्वाहु --- "अत्रैवं मन्यन्ते <शान्तभद्रा>दयः --- वातादिशीतक्षणानामसतां सतां वा विरोधः स्यात् । न तावदसतोऽनुत्पत्तिकेन सह विरोधगतिः । .. नापि येषां सत्त्वं तेषां क्षणिकत्वेनैव निवृत्तेः निर्वतकाभात् । किं चायं विरोध द्विष्ठ इष्यते । स कथं घटते । विरुद्धयोरेकस्मिब्नपि क्षणे सहस्थिते सस्थाने वाऽविरुद्धतैव घटपटयोरिव स्यात् । इत्यवास्तव एवायमत एवाह विरोधगतिरिति विरोधव्यबहार इति ।" त्प्११८.

२०३, ७. न्ब्७५. --- "अन्योन्योपलम्भिपरिहारेण स्थितिलक्षाणता वा विरोधो नित्यानित्यवद् ।" प्व्स्व्३६.

२०७, ८. न्ब्७६. --- उक्त्य्-आदेः सर्ववित्प्रेत्य-भावादि-प्रतिषेध-वत् । अतीन्द्रियाणामर्थानां विरोधस्य अप्रसिद्धितः ॥ प्व्२, ९२.

२०९, ८. न्ब्७८. "न हि चलनचनादि रागादिकार्यम्, वक्तुकामता । सैव राग इत्चेत् । इष्टत्वान्न किंचिद्बाधितम् । रागं हि नित्यसुखात्मात्मीयदर्शनाभिनिवेषाक्षिप्तं सास्रवधर्मविषयमाहुः । न एवं करुणादयः । अन्यापि संभवाद्--- इति निवेदयिष्यामः । यथा रक्तो ब्रवीति तथा विरक्तो अपि । एवं न वचनमात्रात्न अपि विशेषात्प्रतिपत्तिः । अभिप्रायस्य दुर्बोधत्वात् । व्यवहारसंकरेण सर्वेषां व्यभिचारात् । प्रयोजनाभावे अवचनमिति चेत् । न । परार्थत्वात्व्यवहारस्य । न युक्तो वीतरागत्वादिति चेत् । न । करुणा अपि वृत्तेः । सैव करूणा राग इति चेत् । इष्टम् । अविपर्याससमुद्भवाद्
अदोषः करुणा असत्यप्यात्मग्रहे दुःखविशेषदर्शनमात्रेण अभ्यासबलोत्पादिता । तथा हि । मैत्र्यादयः सत्त्वधर्माद्यालम्बना इष्यन्ते । एताश्च सजातीयाभ्यासवृत्तयो न रागापेक्षिण्यः । नैवं रागादयः, विपर्यासाभावे अभावात् । कारुणिकस्य निष्फल आरम्भो अविपर्यासादिति
चेत् । न । परार्थस्यैव फलत्वेन इष्टत्वात् । सर्वथा अभूतासमारोपान्निर्दोषः । तदन्येन वीतरागस्य दोषवत्त्वसाधने न किंचिदनिष्टम् । वक्तर्यात्मनि रागादिदर्शनाद्--- अन्यत्र तदनुमाने हि अतिप्रसङ्गः । व्यभिचारात् । अनन्यानुमाने इहाव्यभिचार इति को निश्चयः? प्व्स्व्५१.

२११, १२. न्ब्८६. "अनन्वयोऽपि दृष्टान्ते दोषस्तस्य यथोदितम् । आत्मा परश्चेत्सोऽसिद्ध इति तत्रेष्टघातवत् ॥" प्व्४, ३२; "यथोदितमाचार्यवसुबन्धुना --- परार्थाश्चक्षुरादय इत्यत्र परश्चेदात्मा विवक्षितः सोऽसिद्धौ दृष्टान्त इति । तत्रान्वये सति इष्टविघातवत्साधनम्, इष्टात्मार्थत्वविपर्ययेणान्वयात्तत्साधकत्वात् ।"प्व्ट्४, ३२.

२१४, ८. न्ब्९५. ---अयमेवं न वा इत्यन्यदोषानिर्दोषता अपि वा ।दुर्लभत्वात्प्रमाणानां दुर्बोधा इत्यपरे विदुः ॥ प्व्३, २१९.

२१४, १६. न्ब्९७. --- "प्राणाद्य्-अभावो नैरात्म्य-व्याप्ती इति विनिवर्तने । आत्मनो विनिवर्तेत प्राणादिर्यदि तच्च न ॥" प्व्४, २०८.

२२८, ८. <पैलुकेन> --- "<पैलुकेने>ति <वैशेषिकेण> किलायं पाकः पीलूनां परमाणूनामिति मन्यते अतः पीलुक उक्तः ।"

२५४, २. न्ब्१३७-१३८ --- असाधनाङ्गवचनमदोषोद्भाव नं द्वयोः । निग्रहस्थानमन्यत्तु न युक्तमिति नेष्यते ॥ व्न् २; न्ब्ट्त्४९२; न्म् ६३९; प्म् ६७१.

"https://sa.wikisource.org/w/index.php?title=धर्मोत्तरप्रदीपः&oldid=368427" इत्यस्माद् प्रतिप्राप्तम्