धातुकारिका प्रारम्भः
नत्वा नटेशं निखिलवर्णाम्नायादिदेशिकम्।
श्री कण्ठस्तनुते धातुकारिकां बालरञ्जनीम्।।1।।
कोशमामरसिंहं च बोधार्थं नामलिङ्गयोः।
धर्माधिकारि श्री चक्रवर्त्यय्यङ्गार्यनिर्मिताम्।।2।।
सुबन्तशब्दभेदानां बोधिनीं शब्दकारिकाम्।
अभ्यस्य तद्वद्धातूनामपि बोधार्थमिच्छताम्।।3।।
दुरध्ययत्वात्प्राचीनधातुपाठस्य सीदताम्।
कौतुकाद्याचमानानां बालानां परितुष्टये।।4।।
प्रागधातुपाठ एवाद्य काव्यमार्गे चरिष्णुभिः।
सुपठाभिस्सुबोधाभिः कारिकाभिर्यथाक्रमम्।।5।।
सङ्गृहयतेऽत्र सुधियो गर्हन्तां मां स्तुवन्तु वा।
भ्वाद्यादयो दशगणास्तथा कण्ड्वादिधातवः।।6।।
आत्मनेपदिनश्चात्र परस्मैपदिनस्तथा।
द्वयवन्तस्तथा सेटोऽनिटश्चामिन्मितोऽखिलाः।।7।।
अनुबन्धनिबन्धाश्च तत्तत्कार्यप्रयोजनाः।
निरूप्यन्तेऽर्थनिर्देशो भैमसेनोऽपि दुर्गमः।।8।।
प्राचां व्याख्याक्रमेणैव विशदीक्रियते मनाक्।
पद्ये यद्यपि वाक्यानां पद्यान्तरगतैः पदैः।।9।।
अन्वयो नेति नियमो न क्वापि परिदृश्यते।10।।
तथाऽपि कविभिः काव्ये बुभुस्तुक्लेशशान्तये।
नियमेऽस्मिन्नाश्रितेऽपि तत्र तत्र क्वचित्क्वचित्।।11।।
दृष्टत्वात् व्यतिरेकस्याप्यनुवादवशादिह।
तत्र तत्र श्लोकगानां वाक्यानामन्वये क्वचित्।।12।।
सह्यं पौर्वापर्यकृतं वैषम्यं हृदयालुभिः।
तत्रान्वयासंशयार्थं त्वन्ताथादि न पूर्वभाक्।।13।।
इत्येषोऽमरसिंहस्य नियमोऽङ्गीकृतो मया।
सत्तायां भूस्सचोदात्तोऽथानुदात्तानुबन्धकाः।।14।।
एधादयश्च कथ्यन्ताः षट्‌त्रिंशद्धातवः क्रमात्।
वृद्धावेधस्स्मृतस्स्पर्धस्सङ्घर्षेऽयं त्वकर्मकः।।15।।

पराभिभवनेच्छात्र सङ्घर्ष इति कथ्यते।
परस्य कर्मणो धातोरर्थेनैवोपसङ्गहात्।।16।।
गाधृ ग्रन्थे प्रतिष्ठायां लिप्सायामपि कथ्यते।
विलोडने बाधृ तच्च प्रतिघातोऽभिधीयते।।17।।
याच्ञाशीरुपतापेष्वाप्यैश्वर्ये नाथृनाधृ च।
आशिष्येवानुदात्तेत्को नाथतिः प्रणिगद्यते।।18।।
दधस्स्मृतो धारणेऽथ स्कुदिराप्रवणे मतः।
इहाप्रवणशब्देनोत्प्लवनोद्धरणे स्मृते।।19।।
श्विदिश्शवैत्येऽकर्मकोऽयं वदिस्स्तुत्यभिवादयोः।
भदिस्सुखे च कल्याणे मदिर्मोदे मदे स्तुतौ।।20।।
स्वप्नेकान्तौ गतौ चाथ किञ्चिच्चलनकर्मणि।
स्पदि क्लिदिस्तु सम्प्रोक्तश्शोकात्मपरिदेवने।।21।।

अतः सकर्मकः प्रोक्तो मुदो हर्षेऽभिधीयते।
ददो दानेष्वदस्वर्दावथास्वादनकर्मणि।।22।।
सकर्मकोऽनुभूतौ स्याद्रुचौ स्वदिरकर्मकः।
मानक्रीडनयोरुर्दः कुर्दः खुर्दश्च गुर्दतिः।।23।।
गुदश्च चत्वार एते क्रीडायामेव हि स्मृताः।
षूदस्स्यात्क्षरणे हादोऽव्यक्‌ते शब्दे निगद्यते।।24।।
हलादीस्सुखेऽव्यक्तशब्दे स्वाद आस्वादने स्मृतः।।25।।
पर्दस्स्यात्कुस्तिते शब्दे शब्दो गुदरवस्त्वसौ।
यतीः प्रयत्ने युतृ च भासने जुतृ च स्मृतः।।26।।
याचने विधृ वेधृस्याच्छ्रथि शैथिल्य ईरितः।
कौटिल्ये तु ग्रथिः कत्थश्श्लाघायामभिधीयते।।27।।
अष्टात्रिंशत्तवर्गीयवर्णान्ता अथ धातवः।
परस्मैपदभाजोऽत्र निगद्यन्ते यथाक्रमम्।।28।।
अतस्ता तत्य गमने चिती संज्ञान उच्चते।
आसेचने च्युतिर्प्रोक्तस्तच्चार्द्रीकरणं स्मृतम्।।29।।
अङीषदर्थेऽभिव्याप्तावपि ज्ञेयश्च्युतिर्ततः।
क्षरणेऽयं यकारेण रहितोऽपि सतां मतः।।30।।
मन्थो विलोडनेऽथ स्युः कुथिः पुथि लुथी मथिः।
सङ्क्लेशनेऽथ हिंसायामथ गत्यां षिधस्स्मृतः।।31।।
शास्त्रे माङ्गल्ये च षिधूः शास्त्रं शासनमुच्यते।
खादृ प्रोक्तो बक्षणेऽथ खदस्स्यात्स्थैर्यहिंसयोः।।32।।
भक्षणं चाऽकर्मकोऽयं स्थैर्येऽथ बद ईरितः।
स्थैर्ये गदस्तु व्यक्तोक्तौ स्याद्रदस्तु विलेखने।।33।।
विलेखनं बेदनं स्याच्छब्देऽव्यक्‌ते णदस्समृतः।
गतियाचनयो रर्दश्शब्देन गर्दती।।34।।
हिंसायां तर्दति कर्दः कुत्सिते शब्द इष्यते।
विवक्षितः कुत्सितोऽत्र शब्दः कौक्षो हि तद्विदाम्।।35।।
प्रोक्तः खर्दो दन्दशूके दंशहिंसादिरूपिणि।
दन्दशूकक्रियेष्टात्र दन्दशूकपदेन तु।।36।।
बन्धनेऽति रदिश्चेदिः परमैश्वर्य इष्यते।।37।।
बिदिस्त्ववयवे वक्त्रैकदेशे गडिरुच्यते।
अत्यादयोऽत्र प़ञ्चैते तिङो न विषया इति।।38।.
मन्यते काश्यपोऽन्ये तु वाञ्छन्त्येषां तिङोऽपि च।
कुत्सायां णिदिराख्यातस्समृद्धौ टु नदिस्स्मृतः।।39।।
आह्लादने चदिः प्रोक्तश्चेष्टायां त्रदिरुच्यते।
कदिः क्रदिः क्लदिश्चोक्ता आह्वाने रोदनेऽपि च।।40।।
परिदेवन आख्यातः क्लिदिश्शुन्धस्तु शोचने।
अथोच्यन्ते धातवो द्विचत्वारिंशद्यथाक्रमम्।।41।।
कवर्गीयाक्षरान्तास्तेत्वनुदात्तानुबन्धकाः।
शीकृ स्यात्सेचनेऽयं तु तालव्यादिरमुं परे।।42।।
दन्त्यादिमाहुर्लोकृस्याद्दर्शने श्लोकृ कथ्यते।
सङ्घाते स्यात्स तु ग्रन्थो ग्रथ्यमानक्रियाऽथवा।।43।।
ग्रथितुर्वा क्रियेष्टाद्येऽकर्मकस्स्याद्वितीयके।
सकर्मकोऽथद्रेकृ स्यात्‌धेकृ चोत्साहकर्मणि।।44।।
शब्दे चोत्साह आख्यातो वृद्धिरौन्नत्यमेव च।
शङ्कायां रेकृ सम्प्रोक्तस्सेकृस्रेकृस्रकिश्श्रकिः।।45।।
श्लकिश्च स्युर्गतावत्र त्रयो दन्त्यादयस्स्मृताः।
तालव्याद्यावुभौ स्यातां शङ्कायां कथ्यते शकिः।।46।।
अकिस्तु लक्षणेऽथ स्याद्वकिः कौटिल्यकर्मणि।
मकिस्तु मण्डने लौल्ये कको लौल्यं तु चापलम्।।47।।
गर्वश्चाथ कुक प्रोक्तो वृकश्चादानकर्मणि।
चकस्तृप्तौ प्रतीघाते चाथगत्यां तु कङ्गतिः।।48।।
वकि-श्श्वकि-स्त्र कि-र्ढौ-कृत्रौकृ-ष्वष्कश्च-वस्कतिः।
मस्क-ष्टिकृ-तथा टीकृ-तिकृ तिकृ- रघि-र्लघिः।।49।।
तृतीयस्त्विह दन्त्यादिरिति केचित्प्रचक्षते।
लघि-र्भुक्तिनिवृत्तावाप्यघि-र्वघि-मघीत्रयः।।50।।
गत्याक्षेपे स्मृता निन्दाक्षोपोऽत्र परिकीर्तितः।
अन्ये प्राहुर्गतौ गत्यारम्भे चेति मघिस्तु सः।।51।।
कैतवे वाथ सामर्थ्ये द्राघृ-राघ च लाघृ च।
केचित्पेठुर्ध्राघृधातुमपि चात्रैव दण्डके।।52।।
आयामे च द्राघति स्स्यादायामो दैर्घ्यमुच्यते।
श्लाघृ-स्यात्क त्थनेऽथात्र परस्मैपदिधातवः।।53।।

पञ्चाशदभिधीयन्ते कवर्गीयाक्षरान्तिमाः।
नीचैर्गतौ फक्कतिस्याध्वहारोऽसतामिह।।54।।
स्यातां मन्दगतिश्चापि नीचैर्गतिपदोदितौ।
तकस्स्याद्‌धसने कृच्छ्रजीवने तकिरुच्चते।।55।।
बुक्कस्स्याद्‌भषणे स्वानश्शुनो भषणमुच्यते।
कखतिर्धातुरिह तु प्रोक्तो हसनकर्मणि।।56।।
ओखृधातूराखृ लाखृ द्राखृ ध्राखृ च शोषणे।
अलमर्थे चाथ शाखृ-श्लाखृ-च व्याप्तिकर्मणि।।57।।
उखोखी वखतिश्चाथ वखिर्मखमखी णखः।
णखी-रख-रखी चाथ तथा लखलखी इखः।।58।।
इखिरीखिर्वल्ग रगी लगिश्चागिर्वगिर्मगिः।
तगिस्त्वगिश्श्रगि-श्चाथ श्लगि-श्चेगी रिगिर्लिगिः।।59।।
गतावष्टाविंशतिः स्युः खान्ताः पञ्चदशात्र च।
गान्तास्त्रयोदशास्त्रान्ये पठन्ति चतुरोऽधिकम्।।60।।
रिखं-त्रखं त्रखि-शिखी अपि खान्तेषु सूरयः।

त्वगि स्यात्कम्पने चाथ युगि-र्जुगि-बगी अपि।।61।।
वर्जनेऽथ घघः प्रोक्तो हसने मण्डने मघिः।
आघ्राणे शङ्गघतिरथ चवर्गीयाऽक्षरान्तिमाः।।62।।
एकविंशतिरुच्यन्ते ह्यनुदात्तानुबन्धकाः।
वर्चो दीप्तावथ प्रोक्तष्षचस्सेचनसेवयोः।।63।।
लोचृ स्याद्दर्शने वाचि व्यक्तायां शचति स्मृतः।
श्वच-श्वची गतौ प्रोक्तौ कचो बन्धनकर्मणि।।64।।
दीप्तिबन्धनयोः प्रोक्तो कचि काची उभावपि।
मचो मुचि कल्कने स्याद्दम्भश्शाठ्यं च कल्कनम्।।65।।
अन्ये कत्थनमित्याहुर्मचिर्धारणपूजयोः।
उच्छ्राये चाप्यथ व्यक्‌तीकरणे वचिरिष्यते।।66।।
ष्टुचः प्रसादे-ऋजतिर्गतौ स्थानेऽर्जनेपि च।
उपार्जनेऽप्यथ ऋजिभृजी भर्जनकर्मणि।।67।।
एजृ भ्रेजभ्राजृ दीप्तावीजतिर्गतिकुत्सयोः।
परस्मैपदिनः प्रोक्ता व्रज्यन्ताश्च द्विसप्ततिः।।68।।
शुचश्शोके-कुचश्शब्दे तारे क्रुञ्चति कुञ्चती।
कौटिल्याल्पीभावयोस्स्याल्लुञ्चोऽपनयनेऽञ्चुतु।।69।।
गति-पूजनयोर्वञ्चुश्चञ्चुस्तञ्चुरपि क्रमात्।
त्वञ्चुम्रुञ्चु-म्लुन्ञुरपि गत्यर्थेऽष्टौ म्रुचुर्म्लुचुः।।70।।
ग्रचु-र्ग्लुचुः कुजु-खुजूस्सम्प्रोक्तास्स्तेयकर्मणि।
गतौ ग्लुञ्चुश्च षस्जश्च सज्जतिश्चात्मनेपदि।।71।।
गुजिस्त्वव्यक्तशब्दे स्यात्पुजायामर्चतिस्स्मृतः।
ल्मेच्छोऽव्यक्ते शब्द उक्तोऽपशब्दोऽप्यस्फु टोऽपि सः।।72।।
लछो-लाछि र्लक्षणे स्यादिच्छायां वाछिरिष्यते।
आयामे स्यादाछिरथ लज्जायां ही च ईरितः।।73।।
हुर्छा प्रोक्तस्तु कौटिल्ये कौटिल्यमपसर्पणम्।
मैत्रेय आह मुर्छास्तु सनुच्छ्राये च मोहने।।74।।
स्फुर्छा स्स्याद्विस्तृतौ युच्छऋ प्रमादेऽथोछि रुञ्छने।
उञ्छः कणश आदानं कणिशाद्यार्जनं सिलम्।।75।।
इति यादवकोशस्य प्रामाण्यादुञ्छ उञ्छनम्।
उछीर्विवासे संप्रोक्तस्समाप्तिः प्रायशो ह्ययम्।।76।।
विपूर्वस्स्या द्रम गतौ ध्रज-ध्रजि-धृजा-धृजिः।
ध्वज-ध्वजी-चाथ कूजोऽव्यक्ते शब्दे समीरितः।।77।।
अर्ज-ष्षर्ज-श्चार्जने स्याग्गर्ज श्शब्देऽथ तर्जतिः।
भर्त्सने स्यात्कर्जति स्तु व्यथने खर्ज पूजने।।78।।
अजो गतौ श्रेपणे च पालने तेजतिस्मृतः।
खजो मन्थे खजिस्तु स्याद्गतिवैकल्य एजृतु।।79।।
कम्पनेऽथोटु ओ स्फूर्ज वज्रनिर्घोष ईरितः।
क्षिस्स्यात्क्षयेऽकर्मकोऽयमजन्तः परिकीर्तितः।।80।।
ण्यर्थोऽस्यान्तर्भावितस्तु सकर्मक उदाहृतः।
अव्यक्तशब्दे क्षीजोऽयं कूजिना पठितुं क्षमः।।81।।
लजो-लजि र्भर्जने स्याल्लाजो लाजिश्च भर्त्सने।
जजो-जजिश्च युद्धे स्याद्धिंसायां तुज उच्यते।।82।।
पालने स्यात्तुजिश्शब्दे गजो गजिगृजौ गृजिः।
मुजो मुजिश्चात्र गजो मदने च प्रकीर्तितः।।83।।९
गतौ वजव्रतौ प्रोक्तौ त्वनुदात्तानुबन्धकाः।
षट्‌त्रिंशच्छाढृपर्यन्ताष्टवर्गीयान्तिमा अथा।।84।।
धातुष्वेतेष्वादिमस्स्सयादट्टोऽतिक्रमहिंसयोः।
दोपधोऽयं तोपधोऽयमिति केचित्प्रचक्षते।।85।।
वेष्टस्स्याद्वेष्टने चेष्टश्‌चेष्टायां गोष्टलोषटती।
सङ्घाते घट्ट चलने स्फुटो विकसने ह्यरिः।।86।।
गतावथैकचर्यायां वठिर्मठिकठी उभौ।
शोके च चात्राध्यानं हि प्रोच्यते पालने मुठिः।।87।।
विबाधायां हेठतिस्स्यादेठतिश्‌च हिडिस्तु सः।
गत्यनागरयोः प्रोक्तो हुडिस्सङ्घातकर्मणि।।88।।
कुडिर्दाहे वण्डतिश्‌च मण्डतिश्‌च विभाजने।
परिभाषाण आख्यातो भडिस्तु परिभाषणम्।।89।।
स निन्दोपालम्भनं च परिहासश्‌च कथ्यते।
पिडिस्सङ्घात उदितो मार्जने मुडिरुच्यते।।90।।
न्यग्भावश्चापि शुद्धिश्च मार्जनं परिकीर्तितम्।
तुडि स्तु तोडने प्रोक्‌त स्तोडनं चेह कथ्यते।।91।।
दारणं हिंसनं चाथ हुडिर्वरणकर्मणि।
स्वीकारो वरणं प्रोक्तं हरणं च परे जगुः।।92।।
चडि कोपे रुजायां च सङ्घाते च शडिस्स्मृतः।
तडिस्तु काडने प्रोक्तो गतौ पडि रुदाहृतः।।93।।
कडिर्मदे खडिर्मन्थे हुडृ होडृ अनादरे।
आप्लव्यार्थे दाडृमतो सबशादिश्च सम्मतः।।94।।
आप्लव्यन्त्वाप्लवो द्राडृ प्रोक्तो विशरणे तथा।
ध्राडृ चाथ भवेच्छाडृ श्लाघायां क्रमतस्ततः।।95।।
अष्टवर्गीयान्तपूर्ते परस्मैपदिनस्तु ते।
षडशीतिश्शौट्ट गर्वे यौटृ बन्धे प्रकीर्तितः।।96।।
उन्मादे म्रेटृ चम्रे डृम्ले टृडान्तो द्वितीयकः।
पठितोऽयं नाथतिवट्टान्तमध्येऽर्थसाम्यतः।।97।।
वर्षावरणयो स्स्यात्तु कटे केचिच्चटे इति।
दतावटपटौ स्यातां रट स्स्यात्परिभाषणे।।98।।
लटो बाल्ये विशरणरुजागत्यवसादने।
इष्यते शटतिः प्राज्ञैर्वेष्टने वट उच्यते।।99।।
त्रासे किटखटौ प्रोक्तावुभौ शिटषिष्टौ तु तौ।
अनादरे जटझटौ सङ्घाते भटतिर्भृतौ।।100।।
उच्छ्राये तटतिः प्रोक्तः काङ्क्षायां खटति स्स्मृतः।
णटो नृत्तौ पिटश्शब्दे सङ्घाते च हटस्तु सः।।101।।
दीप्तौ षटस्त्ववयवे लुटस्तु स्याद्विलोडने।
डान्तोऽयमित्याहुरण्ये परप्रेष्ये चिटस्स्मृतः।।102।।
विटश्शब्दे बिटः प्रोक्‌तः आक्रोशेऽसौ बशादिकः।
हिटेत्येके प्राहुरिटः किटश्चापि कटीर्गतौ।।103।।
तृतीयमिति तं प्राहुः केचिदन्येत्विई इति।
प्रश्लिष्य धातुद्वितयमन्यदाहुर्मनीषिणः।।104।।
भूषायां मडिराख्यातः कुटिर्वैकल्य कर्मणि।
पुडः प्रुडो मर्दने स्यागृदल्पीभावे चुडिस्स्मृतः।।105।।
खण्डने मुडि राख्यातः पुडि चेत्यपरके जगुः।
प्रोक्तौ रुटि लुटिस्तेय एके रुठि लुठी इति।।106।।
प्राहुः परे रुडिलुटी स्फुटिर्विशरणे स्मृतः।
इति तं ब्रुवते केचिद्‌व्यक्तवाचि पठस्समृतः।।107।।
वठस्स्थौल्ये समुदितो मठो मदनिवासयोः।
प्रोक्तो बुधैः कठः कृच्छ्रजीवने परिभाषणे।।108।।
रटः प्रोक्तो रठेत्येके हठः प्लुतिशठत्वयोः।
एके बलात्कार इति प्राह रुठलुठावुठ।।109।।
त्रयस्स्युरुपघातार्था ऊठेत्येके वदन्ति हि।
संक्लेशने च हिंसायां पिठस्स्यात्कैतवेपि च।।110।।
शठश्शुठस्त्वत्र भवेत्प्रतिघाते शुठीति तु।
स्वामी प्राह तथैव स्यात्कुठिश्‌चात्रैव कर्मण्।।111।।
प्रतिघातेऽपि चालस्ये लुठिस्स्याच्छोषणे शुठिः।
रुठिर्लुठिर्गतौ भावकरणे चुड्ड उच्यते।।112।।
तद्‌भावकारणं प्राहुरभिप्रायस्य सूचनम्।
अड्डोऽभियोग ककार्कश्येर्कड्ड चुड्डादयस्त्रयः।।113।।
भवन्ति चोपधाः क्रीडृ विहारे तुडृ तोडने।
प्राहुरेके तूडृ इति गतौ हुडृ च हुडृ च।।114।।
होडृ चापि भवेद्रौडृ लोडृ त्वनादरणकर्मणि।
उन्मादे स्याद्रोडृ लोडृ ह्यडस्तूद्यमने स्मृतः।।115।।
विलासे लडतिः प्रोक्तो डलयोर्ललयोरपि।
ऐक्याल्ललेति धातुञ्च प्राहुस्स्वाम्यादयः परम्।।116।।।
कडो मदे कडिरिति परे प्राहुर्गटिस्त्विह।
वक्त्रैकदेश आख्यातः पवर्गीयाक्षरान्तिमाः।।17।।
स्तोभत्यन्ताश्चतुस्त्रिशदनुदात्तानुबन्धकाः।
तिपृते पृष्टे पृष्टे पृक्षरणार्था इहादिमः।।118।।
अनुदात्तस्स्मृतः क्षीरस्वामी बभ्राम सेडिति।
तेपृतिः कम्पने च स्याद्गलेपृ उदीरितः।।119।।
टु वेपृ कम्पने प्रोक्तः केपृ ग्लेपृ गेपृ च।
चात्कम्पने गतौ चेति स्वामी सूत्रविभागतः।।120।।
मैत्रेयस्तु पठित्वा चमन्तरेणेह कम्पने।
इत्यपेक्षत इत्याह ग्लेपतिस्त्वर्थभेदतः।।121।।
पठ्यतेऽसौ पुनर्मेपृ रेपृ लेपृ गतौ स्मृताः।
त्रपूष्ष्यादिह लज्जायां कपिश्चलन उच्यते।।22।।
रबिर्लबि रबिश्शब्देऽवसस्रे च लबि स्स्मृतः।
कबृ वर्णे ह्यधाष्टर्ये तु क्लीबृ क्षीबृ मदे स्मृतः।।123।।
रेभृ शब्दक्रियायां स्यात्थने शीभृ चीभृ च।
अभिः क्वचिद्रबिश्चापि पठ्यतेऽथष्टभिस्स्कभिः।।124।।
प्रतिबन्धे स्तम्भतेष्टं केचिदाहुर्निसर्गजम्।
भवेज्जभूर्जृभिर्गात्रविनामे शल्भकत्थने।।125।।
वल्भस्स्याद्‌भोजने दन्तोष्ठयादिर्धाष्टर्ये तु गल्भतिः।
श्रम्भुः प्रमादे दन्त्यादिस्तालव्यादिश्च सम्मतः।।126।।
ष्टुभु स्स्तम्बे ह्यथात्र स्युः परस्मैपदिधातवः।
एकचत्वारिंशदमी गुप्वाद्यास्सिम्भुपश्चिमाः।।127।।
रक्षणे स्याद्‌गुपूर्धूप स्सन्तापे जपजल्पती।
व्यक्‌तायां वाचि जपतिर्मानसे च प्रकीर्तितः।।128।।
सान्त्वने दपितिः प्रोक्तस्समवाये षपस्स्मृतः।
समवायस्तु सम्बन्धोऽवबोधस्सम्यगेव वा।।129।।
व्यक्तायां वाचि रपतिर्लपतिश्च प्रकीर्तितः।
गतौ चुपस्तु मन्दायां हिंसायामथ कीर्तिताः।।130।।
तुप तुम्पौ त्रुप त्रुम्पौ त्रुफ तुम्भौ त्रुफ स्ततः।
त्रुम्फश्चैषु द्वावाद्यौ च पञ्चमाष्षष्ठ एव च।।131।।
नीरेफास्स्युस्सरेफास्तु परे चत्वार आदिमाः।
प्रथमान्ता द्वितीयान्ताः परेऽष्टौ साव ईरिताः।।132।।
पर्पोर फरफी अर्बः पर्बो लर्बश्च बर्बतिः।
मर्बः कर्बः खर्बगर्वौ शर्बषर्वौ च चर्बतिः।।133।।
गतावाद्योऽत्रादिमान्तो द्वितीयान्तावुभौ ततः।
एकादश तृतीयान्तास्ततो मुक्त्वा द्वितीयकम्।।134।।
तृतीयं च स्मृतास्सर्वे सरेफा अत्र दण्डके।
आच्छादने कुबिः प्रोक्तोऽर्दने लुबितुबी मतौ।।135।।
चुबि स्स्याद्वस्त्रसंयोगे षृभु षृम्भु तु हिंसने।
षिभु षिम्भु इति परे शुभश्शुम्भश्च भाषणे।।136।।
इमौ भासन इत्येके हिंसायामिति चापरे।
अथानुनासिकान्ता स्स्युरनुदात्तानुबन्धकाः।।137।।
कम्वन्ता दशघिण्याद्या ग्रहणे स्याद् घिणिर्घुणिः।
घृणिश्चाथ घृणो घूर्णो भ्रमणे परिकीर्तितौ।।138।।
परस्मैपदिनावेतौ तुदादौ तु भविष्यतः।
व्यवहारे स्तुतौ चापि पणस्स्यात्पन च स्तुतौ।।139।।
भामः क्रोधे क्षमूष् तु स्यात्सहनेऽथ भवेत्कमुः।
कान्ताविच्छात्र कान्तिस्स्यात्परस्मैपदिनस्ततः।।140।।
क्रम्यन्तास्त्रिंशदुच्यन्ते ह्यणो रणवणौ भणः।
मणः कणश्च क्वणति व्रणति भ्रणति ध्वणाः।।141।।
शब्दार्थास्स्युर्धणोऽप्यत्र बुधैः केश्चित्प्रपठ्यते।
इहानयने त्वोणृ शोणृ वर्णे गतावपि।।142।।
सङ्घाते शोणृ तु भवेच्छ्‌लोणृ चोक्ता अमी त्रयः।
तालव्योष्मादयश्शोणादयः पैणृ गतौ तथा।।143।।
प्रेरणे श्लेषणे च स्यात्क्वचित्प्रैण्रिति पठ्यते।
धणश्शब्दे ह्ययं नान्त उपदेशे स्मृतो बुधैः।।144।।
केचिद्‌बणेत्यपि कनीर्दीप्तिकान्तिगतिष्वथ।
ष्टनो वनश्च शब्दे स्यात्सम्भक्तौ तु वनष्षणः।।145।।
अमो गत्यादिषु गतौ द्रमो हम्मश्च मीमृ च।
मीमृ शब्दे चाथ च मुश्छ मुर्ज मुझ मू तथा।।146।।
अदने स्युर्जिमिं केचित्पठन्त्यथ भवेत्क्रमुः।
पादवक्षेपेऽथ रेवत्यन्ता अयतिपूर्वकाः।।147।।
सप्तत्रिंशदुदीर्यन्ते ह्यनुदात्तानुबन्धकाः।
गतावयो वयपयौ मयश्‌च यत यौणयः।।148।।
दाने गतौ रक्षणे च हिंसनादानयोर्दयः।
आदानं ग्रहणं प्रोक्तं कथ्यतेऽथ गतौ रयः।।149।।
ऊयी स्स्यात्तन्तुसन्ताने पूयीर्विशरणे तता।
दुर्गन्धे चाथ शब्दे स्यात्क्रूयी रुन्दे च स स्मृतः।।150।।
क्ष्मायीर्विधूनेन वृद्धौ स्फाय्योप्यायी च कथ्यते।
सन्ताने पालने तायृ प्रबन्धस्स तु गद्यते।।151।।
शलस्संवरणे चैव चलने च प्रकीर्तितः।
वलवल्लौ संवरणे स्यातां सञ्चरणेऽपि च।।152।।
मलो मल्लो धारणे स्यात् भलभल्लौ तु हिंसने।
आदानकर्ममणि परिभाषणे च प्रकीर्तितौ।।153।।
कलश्शब्दे च संख्यानेऽव्यक्ते शब्दे तु कल्लतिः।
स्वामीत्वशब्द इत्याह तूष्णीभावस्स इत्यपि।।154।।
देवने तेवृ देवृ स्यात् सवने षेवृ गेवृ च।
ग्लेवृ-पेवृ-म्लेवृ-मेवृ-चात्रान्यस्सेतिस्त्वयम्।।155।।
ब्रवूते सोपदेशोऽपीत्येवं न्यासकृदादयः।
तदेतद्वचनं भाष्यविरुद्धमिति मन्महे।।156।।
प्राहिरेके शेवृ-खेवृ-केव्रित्यपि बुधोत्तमाः।
रेवृ तु स्यात्प्लवगतौ सा तु प्लुतगतिर्मता।।157।।
परस्मैपदिनोऽवान्ता नवति स्युष्‌षडुत्तरा।
बन्धने मव्यतिस्सूर्क्ष्य-ईर्क्ष्य ईर्ष्यश्च ते त्रयः।।158।।
ईर्ष्यार्था स्स्युर्हयो गत्यां शुच्योऽभिषवः परिकीर्तितः।
सोमाङ्गानां प्रशिथिलीकरणं स्ननमेव वा।।159।।
सन्धानं वा सुरायाश्चाभिषवः परिकीर्तितः।
एके चुच्य इति प्राहुर्हर्यः कान्तौ गतौ स्मृतः।।160।।
भूषणे वारणे चापि पर्याप्तौ चाल ईरितः।
स्वरिते दयमित्येके फला विशरणे स ञीत्।।161।।
मील-श्मीलौ-स्मीलतिश्च क्ष्मीलतिश्च निमषणे।
निमेषणं तु सङ्कोचस्तालव्यादिर्द्वितीयकः।।162।।
दन्त्यादिश्‌च तृतीयस्स्यात्प्रतिष्टम्भेऽथ पीलतिः।
प्रतिष्टम्भो रोधनं स्यान्नीलो वर्णे प्रकीर्तितः।।163।।
शीलः समाधौ विज्ञेयः कीलो बन्धन ईरितः।
कूल आवरणे शीलो रुजासङ्घोषयो स्स्मृतः।।164।।
भवेत्तूलस्तु निष्कर्षे स तु निष्कोषणं स्मृतम्।
अन्तर्गतस्य तच्चापि बहिर्नस्सारणं मतम्।।165।।
सङ्घाते पूल आख्यातः प्रतिष्ठायां तु मूलतिः।
निष्पत्तौ फलतिर्भावकरणे चुल्ल इष्यते।।166।।
तात्पर्याविष्कृतिर्भावकरणं बुधसम्मतम्।
फुल्लो विकासो शैथिल्ये चिल्लो भावकृतावपि।।167।।
गतौ तिलस्यात्तिल्लेति केचिदाहुः परं बुधाः।
वेलृ-चेलृ-तथा केलृ-खेलृ-क्ष्वेलृ च वेल्लतिः।।168।।
चलने पञ्च ऋदितष्षष्ठो लोपध उच्यते।
वेलृ-फेलृ-तथा शेलृ गतौ पेल्रिति केचन।।169।।
स्खलस्संचलने प्रोक्तस्संचये खल ईरितः।
गलोऽदने षलो गत्यां दलो विशरणे स्मृतः।।170।।
श्वलश्वल्लावाशुगतौ कोलृ-खोरृ-तथा गतेः।
प्रतिघाते धोरृ गति चातुर्ये परिकीर्तितः।।171।।
त्सरश्छद्मगतौ प्रोक्तो हूर्छने कर्म उच्यते।
अभ्र-वभ्रौमभ्र-चरौ गत्यर्थाश्चरति स्तु सः।।172।।
भक्षणेऽपि भवेदत्र ष्ठिपुर्निरसनक्रियः।
अस्य द्वितीयस्थ ष्ठो वेत्येवं वदति वृत्तिकृत्।।173।।
जिर्जयेऽयमजन्तेषु युज्यते पठितुं जयः।
उत्कर्षप्राप्तिराख्यातोऽकर्मकोऽयमिहेर्यते।।174।।
प्राणानां धारणे जीवः पीवमीवावुभौ तथा।
तीवनीवौ स्मृतौ स्थौल्ये क्षीवु क्षेवू नरासने।।175।।
उर्वीस्तुर्वि स्तथा थुर्वी र्दुर्वीर्धुर्वी स्च हिंसने।
गुर्वीरुद्यमने मुर्वी र्बन्धने परिकीर्तितः।।176।।
पूरणे पर्वपर्वौ च मर्वश्चाथाऽदने स्मृतः।
चर्वो भर्वस्तु हिंसायां कर्वः खर्वश्च गर्वतिः।।177।।
दर्पेष़थार्वश्सर्-षर्वौ हिंसायां परिकीर्तिताः।
इविर्व्याप्तौ पिवि मिवि णिवयस्सेचने स्मृताः।।178।।
मूर्धन्योष्मादिरित्येके तृतीयमिह चक्षते।
अन्योऽर्थस्सेवन इति तरङ्गिण्यामुदाहृतः।।179।।
हिवि-र्दिविर्धिविजिवी प्रीणनार्थाः प्रकीर्तिताः।
रवी-रवि-र्धविश्चैव गत्यर्थाः कथिता इमे।।180।।
हिंसाकरणयोश्‌च स्यात्कृतविश्चात्तु गतौ स्मृतः।
स्वादौ च पठ्यते सोऽयं बन्धने मव इष्यते।।181।।
अवस्स्याद्रक्षणे गत्यां कान्तिप्रीत्योश्च तर्पणे।
तथावगमने चैव प्रवेशे श्रवणेऽपि च।।182।।
स्वाम्यर्थयाचने चैव क्रियेच्छायां तथैव च।
दीप्ताववाप्तौ च तथाऽलिङ्गने हिंसनेऽप् च।।183।।
आदाने चैव भागे च वृद्धौ च परिकीर्तितः।
धावुस्तु स्याद्‌गतौ शुद्धौ स्वरितेदयमिष्यते।।184।।
एकपञ्चाशदीष्मान्ता आत्मनेपदिनस्ततः।
सन्दीपने क्लेशने च जीवने धुक्ष धिक्षती।।185।।
वृक्षस्स्याद्वरणे विद्योपादानकर्मणि।
लाभेऽलाभे च भिक्षायां भिक्षस्स्यात्क्लेशति स्तुः सः।।186।।
अव्यक्तायां वाचि भवेद्दुर्ग इत्याह बाधने।
वृद्धौ शीघ्रार्थे च दक्षो मौण्ड्येज्ययो स्तथा।।187।।
व्रतादेशोपनयननियमेषु प्रकीर्तितः।
ईक्षो दर्शने चापि भाषस्तु व्यक्तायां वाचि कथ्यते।।188।।
दर्शने चापि भाषस्तु व्यक्तायां वाचि कथ्यते।
वर्षस्स्यात्स्नेहने दन्त्योष्ठ्यादिर्गेषु तु कथ्यते।।।।189।।
अन्विच्छायां सात्रभवेदन्वेषणमिहापरे।
ग्लेष्रित्याहुः पेषृ भवेत्प्रयत्ने जेषृ-णेषृ च।।190।।
एषृ-प्रेषृ-च गत्यार्था रेषृ-हेषृ च हेषृ च।
अव्यक्‌ते शब्द आद्योऽत्र वृक शब्दे प्रकीर्तितः।।191।।
द्वादश्वशब्दे शब्दस्य कुत्सायां कासृ कीर्तितः।
भासृ-दीप्तौ-णासृ-रासृ शब्देऽथ कुलित्ववाक्।।192।।
णसो भवेद्‌भ्य स भय इच्छायां शसि राङ्युतः।
ग्रसु-र्ग्लसु श्चादने स्याच्चेष्टायामीह इष्यते।।193।।
बहि-र्महिश्‌च वृद्धौ स्याद्गता पहि रुदाहृतः।
गर्हो गल्हश्‌च कुत्सायां प्राधान्ये बर्ह बल्हती।।194।।
ओष्ठयादिमाविमौवर्हो वल्हश्‌च परिभाषणे।
हिंसाच्छादनयो श्चेमौ दन्त्येष्ठ्यादि प्रकीर्तितौ।।195।।
केचित्तु पूर्वयोर्दन्त्योष्ठ्यादित्वमनयो स्तु ते।
ओष्ठ्यादित्वमपि प्राहुर्गतौ ल्पिह उदाहृतः।।196।।
प्रयत्ने वेहृ-जेहृ-स्याब्दाहृ चैतेष्वपश्चिम।
दन्त्योष्ठ्यादिः पश्चिमस्तु केवलोष्ठ्यादिरिष्यते।।197।।
ओष्ठ्यादी द्वावपीत्येके दन्त्योष्ठ्यादी इतीतरे।
गतौ च जेहतिर्निद्रा क्षयेद्राहृ समीरितः।।198।।
प्राहुर्निक्षेप इत्येके काशृ दीप्तौ प्रकीर्तितः।
ऊहो वितर्के गाहूस्तु विलोडन उदाहृतः।।199।।
गृहू-र्ग्रहण आख्यातो ग्लहश्चाथ घुषिर्बुधैः।
उच्यते कान्तिकरणे केचिदत्र घषेत्यपि।।200।।
पठन्त्यकारोपधकमुच्यन्तेऽर्हति पश्चिमाः।
परस्मैपदभाजोऽन्ये नवतिर्धातवः क्रमात्।।201।।
अविशब्दन आख्यातो घुषिर् तत्तु विशब्दनम्।
प्रतिज्ञानं ततोऽन्यस्मिन्नर्थ इत्येक उचिरे।।202।।
पठेरन्ये शब्द इति व्याप्तावक्षू स्तनूकृतौ।
तक्षूस्त्वक्षूश्च सम्प्रोक्तस्सेचने तूक्ष इष्यते।।203।।
रक्षस्तु पालने णिक्षश्‌चम्बुने परिकीर्तितः।
तृक्ष-स्तृक्षश्च णक्षश्च गत्यर्थास्समुदीरिताः।।204।।
वक्षो-रोषे-भवेदेके सङ्घात इति चक्षते।
सङ्घाते मृक्ष आख्यातो म्रक्ष इत्येक ऊचिरे।।205।।
तक्ष स्स्यात्त्वचने तत्तु भवेत्संवणं त्वचः।
ग्रहणं चेह पक्षस्स्यात्परिग्रह इतीतरे।।206।।
सूर्क्षस्स्यादादरे सूर्क्षोऽनादरे स्यादिति क्वचित्।
अपपाठस्ततोऽवज्ञावहेलनमसूर्क्षणम्।।207।।
इत्युक्तममरेणापि काक्षिर्वाक्षिश्‌चमाङ्क्षतिः।
काङ्क्षायां स्युरथद्राक्षि र्धाक्ष र्ध्वाक्षिश्च दारुणे।।208।।
वाशिते चाथ चूषस्स्यात्पाने तुष्टौ तु तूषतिः।
वूषो वृद्धौ भवेन्मूषस्तेये लूषति रूषती।।209।।
भूषायां प्रसवे शूषेऽभ्यनज्ञा पर्सवो ह्ययम्।
तालव्योष्मादिमोयूषो हिंसायां जूष च स्मृतः।।210।।
अलङ्कारे भूष ऊषो रुजायामीष उञ्छने।
कषः खषश्शिषजषौ झष श्शषवषौ मषः।।211।।
रुषो रिषश्च हिंसार्था स्तुतीयष्षष्ठ एव च।
तालव्योष्मादिमौ प्रोक्‌तौ दन्त्योष्ठ्यादिस्तु सप्तमः।।212।।
शिषोऽनुदात्तेऽत्र भवेद्भर्त्सने भष उच्यते।
भर्त्सनं श्वरवः प्रोक्तो उषो दाहे प्रकीर्तितः।।213।।
जिषुर्विषुर्मिषु श्चैव सेचने समुदीरिताः।
विषुस्स्यादनुदात्तोऽत्र फुषः षष्टौ श्रिषुश्श्लिषुः।।214।।
प्रुषुः प्लुषुश्‌च दाहे स्युस्सेडयं श्लेषति स्मृतः।
दैवादिकस्य ग्रहणमनिट्केष्विति चक्षते।।215।।
कैयटाद्या न्यासकृता द्वयोर्ग्रहणमिष्यते।
अनिट्‌केष्विति यत्प्रोक्तं तत्तु स्वोक्तिविरोधतः।।216।।
गद्रन्थान्तरविरोधाच्चाऽप्युपेक्ष्यमिति मन्महे।
पृषुर्वृषु र्मृषुश्चैव सेचने परिकीर्तिताः।।217।।
सहने च मृषुर्हिंसा क्लेशयोश्चापरौ मतौ।
घृषुस्सङ्घर्ष उदितोऽलीके हृषुरूदीरितः।।218।।
तुस ह्रसौ ह्लस रसौ शब्दे संपरिकीर्तिताः।
लसस्स्याच्छ्रलेषणे चैव क्रीडने चादने घस्लृ।।219।।
जर्जश्चर्यो झर्झतिश्च परिभाषण हिंसयोः।
तर्जने च समाख्याताः पिसृ पेसृ गतौ स्मृतौ।।220।।
हसे स्तु हसने प्रोक्तस्समाधौ णिश ईरितः।
तालव्योष्मान्तिमोऽयं स्यान्मिशश्च मशतिस्तिथा।।221।।
शब्दे रोषकृते चट स्यात्तालव्योष्मान्तिमाविमौ।
दन्त्योष्ठ्यान्तश्शवस्तालव्योष्मादजिर्गतिबोधकः।।222।।
तालव्योष्माद्यन्तिमोऽयं शशःप्लुत गतौ मतः।
हिंसायां शसुराख्यातो दन्त्येष्मान्तस्स सम्मतः।।223।।
शंसुस्स्तुताविमं दुर्गो दुर्गतावपि वाञ्छति।
परिकल्कन आख्यातश्‌चहश्शाठ्यं तु कल्कनम्।।224।।
शब्दे च बृंहतिः प्रोक्‌तो रहस्त्यागे रहिर्गतौ।
दृहो दृहि बृह बृहि वृद्धौ सम्परिकीर्तिताः।।225।।
शब्दे च बृंहतिः प्रोक्तो बृहिरित्येक ऊचिरे।
तुहु-र्दुहि रुहिर्-प्रोक्ता अर्दनेऽर्हस्तु पूजने।।226।।
अनुदात्तेत आख्याताः कृप्वन्ताः पञ्चविंशतिः।
द्युतो-दीप्तौ-श्विता वर्णे ञिमिदा स्नेहने स्मृतः।।227।।
ञिष्वदा स्नेहने चैव मोचने च प्रकीर्तितः।
स्थाने मोचनशब्दस्य मोहनं केचिदूचिरे।।228।।
ञिक्ष्विदाचेत्येक आहुरथदीप्तौ रुचस्स्मृतः।
अभिप्रीतौ चाथ भवेद् घोटतिः परिवर्तने।।229।।
रुटो-लुट-उठाश्‌चैते प्रतिघाते प्रकीर्तिताः।
शुभो दीप्तौ सञ्चलने क्षुभो न भतु भौतु तौ।।230।।
हिंसायां कथितावाद्य स्त्वभावेऽपि भवेदिमौ।
क्रयादौ दिवादौ च गणे दृश्यते रूपभदेतः।।231।।
स्रं सुर्ध्वंसुश्च भ्रंसुश्चावसंसन उदीरिताः।
ध्वंसुर्गतौ चात्र पेठुर्भ्रंशुरित्यपि केचन।।232।।
अन्ये तृतीयमेवात्र तालव्यान्तं प्रचक्षते।
दिवादौ स्याद् भ्रंशु र्भंशुरधः पतन इत्यपि।।233।।
विश्वासे तु भवेत्स्रम्भुर्दन्त्यादिरयमुच्यते।
तालव्यादिर्गतस्सोऽयं प्रमादे कथितः पुरा।।234।।
वृतु स्स्याद्वर्तने वृद्धौ वृधु श्शब्दस्य कुत्सने।
शृधुः प्रस्रवणौ स्यन्दू स्स्यात्सामर्थ्ये कृपूस्स्मृतः।।235।।
द्युतादेश्‌च वृतादेश्च समाप्तिद्योतनायवृत्।
त्वरत्यन्ताष्वितोऽथ स्युरनुदात्तानुबन्धकाः।।236।।
त्रयोदशः स्युस्तत्रादौ चेष्टायां घट उच्यते।
भये सञ्चलनेऽपि स्याद्‌व्याधः प्रख्यानकर्मणि।।237।।
कथ्यते प्रथतिस्तद्वत्प्रसो विस्तार उच्यते।
म्रदो मर्दने आख्यात स्स्कदस्स्कदनकर्मणि।।238।।
विद्रावणं स्यात्कदनं क्षजस्तु गतिदानयोः।
दक्षो गतौ हिंसने चाप्ययं प्राग्गतिशैघ्य्रयोः।।239।।
अनुदात्तेत्सु पठितो मित्त्वायानूद्यते पुनः।
क्रपः कृपायां गमने कन्दतिः क्रन्दतिः क्लदिः।।240।।
वैक्लब्यवाचका केचिद्वैकल्य इति चक्षते।
त्रीनप्यनिदितो नन्दी प्राह स्वामीदितः पुनः।।241।।
स्यातां कदि क्रदी अत्रेदितावनिदितो क्रदः।
क्लदश्‌चेत्यपि मैत्रेयो विशेषं मन्यतेऽत्र सः।।242।।
कदिक्रद्योः क्लन्दतेश्‌च परस्मैपदिधातुषु।
आह्वाने रोदने चैव प्रोक्तानां पुनरत्र तु।।243।।
मित्त्वात्मनेपदार्थोऽयं पाठो ञीत्तु त्वरा इह।
सम्भ्रमे स्यादिह घटादयष्षित उदीरिताः।।244।।
फणान्ता अथ कथ्यन्ते परस्मैपदिनः क्रमात्।
ज्वरो रोगे सेचने तु गडो हेड स्तु वेष्टने।।245।।
अनुदात्तेत्सु यः पूर्वं गतौ हेडृ अनादरे।
इत्यसावेव मुक्तानुबन्धोऽर्थस्य प्रभेदतः।।246।।
अनूद्यतेऽत्र मित्त्वार्थं ज्वरादि गणतः पृथक्।
अनुवादं विहायैतन्मध्यभागेऽनुवादजात्।।247।।
सामर्थ्याद् भवति ह्यस्मात्परस्मैपदमत्र च।
वटो भटश्चापि भवेत्परिभाषणकर्मणि।।248।।
वट वष्टेन इत्येवं यौ प्राग्भाटभृताविति।
उदितावत्र मित्त्वार्थं परिभाषण एव हि।।249।।
अनूद्येते नटो नृत्तावित्थमेव पुरोदितः।
बोध्यो विवेकस्तत्राऽयं भवेद्येषु नटा इति।।250।।
व्यपदेसस्तु वाक्यार्थाभिनयात्मकनाट्यकम्‌।
तत्पूर्वं पठितस्यार्थो यत्कारिषु भवेत्पुनः।।251।।
नर्तकव्यपदेशस्तत्पदार्थाभिनयात्मकम्।
नृत्यं यदगात्रविक्षेपसूत्ररूपं तु नृत्तकम्।।252।।
यत्तच्चापि घटादिस्थनटतेरर्थ ईरितः।
केचिद्‌घटादौ तु नटो नताविति पठन्ति हि।।253।।
नतावित्यपरेणोपदेशे भाष्यकृता पुनः।
नाटीति दीर्घस्य पाठाद्घटादौ नटति स्त्वयम्।।254।।
स्यण्णोपदेश एवेति ब्रुवते सर्वसूरयः।
ष्टकस्तु प्रतिघाते स्याच्चकस्तृप्तौ प्रकीर्तितः।।255।।
य स्तृप्तौ प्रतिघाते च पठितः प्राच्कको ह्यसौ।
अनूद्यते तृप्तिमात्रे मित्त्वहेतोर्गणे त्विह।।256।।
आत्मनेपदिनां मध्ये पठितस्य पुनस्त्विह।
अनुवादस्य सामर्थ्यात्परस्मैपदमेव हि।।257।।
कखे तु हसने प्रोक्त श्शङ्कायामुच्यते रगे।
लगे सङ्गे ह्रगे चैव ह्लगे चैव षगे ष्ठगे।।258।।
चत्वारस्स्युः संवरणे विशेषान्नोच्यते कगे।
अकोऽगश्‌च भवेतान्तौ कुटिलायां गतावुभौ।।259।।
गतौ कण रणौ स्यातामथ दाने च कीर्तितः।
चणश्शण श्श्रण श्चान्ये प्राहुश्शण गताविति।।260।।
श्रथ क्रथ क्रथा श्‌चैव क्लथो हिंसार्थका स्स्मृताः।
चनश्‌चाथ वनुश्चैव नोच्यते दीपने ज्वलः।।261।।
णार्थं पठिष्यमाणोऽयं मित्त्वायाऽनूद्यते त्विह।
ह्वल ह्यलौ तु चलन आध्याने स्मृ प्रकीर्त्यते।।262।।
चिन्तायां वक्ष्यमाणस्याद्‌ध्याने मित्त्वाय सङ्ग्रहः।
औत्कण्ठ्यपूर्वं स्मरणमाध्यानमिह कथ्यते।।263।।
दृ स्याद्भये क्य्रादिस्थो मित्त्वायानूद्यते त्विह।
श्रा स्स्यात्पाके कृता त्वस्य श्रोतश्‌चानुकृतिस्त्वियम्।।264।।
ज्ञा स्स्यान्मिन्मारणे चैव तोषणे च निशामने।
निशामनं चाक्षुषं स्याज्ज्ञानमित्याह माधवः।।266।।
ज्ञानमात्रमिति त्वन्ये निशानेष्विति चापरः।
पाठोऽपि दृश्यते तच्च तीक्ष्णीकरणमीरितम्।।267।।
चलतिः कम्पने मिस्त्याच्छदस्स्यादूर्जने तु मित्।
स्वार्थण्यभावे मित्त्वार्थं चौरादिक इहोच्चते।।268।।
ऊर्जे रर्थे वृत्तिरस्.य धातोर्बह्र्थकत्वतः।
विलासे पठितः प्राङ्गिमत्स्याज्जिह्वोन्मथने लङः।।269।।
ज्ञापनं स्यादुन्मथनं मदीस्तु ग्लेपने तथा।
हर्षे च मित्स्याद्दैन्यं हि ग्लेपनं समुदीरितम्।।।270।।
दैवादिकस्य मित्त्वार्थमनुवादोऽस्य कीर्तितः।
ध्वनश्शब्दे भाव्ययं हि मित्त्वायानूद्यते त्विह।।271।।
दलिर्वलि स्स्खलिरणी ध्वनिश्च त्रपि रेव च।
क्षपि श्चेति पपाठत्र भोजस्तत्र ध्वनो रणः।।272।।
दलतदि र्वलति श्चैव स्खलति स्त्रपतिस्तथा।
गतास्तेषां णिचि ह्रस्वो भवति क्षैः क्षये पुनः।।273।।
निर्दिश्यते वक्ष्यमाणः पुगागमपुरस्सरः।
स्वनोऽवतंसने वक्ष्यमाणो मित्त्वार्थमुच्यते।।274।।
घटादयो मित इति गणसूत्रमिदं मतम्।
जनी जृष् क्रसु रञ्जो मन्ताश्चेति त्वपरं मतम्।।275।।
केचिदत्र क्नसो स्थाने पठन्ति ष्णसुमेव हि।
ज्वल-ह्वल-ह्यल नमामुपसर्गसमागमम्।।276।।
विहाय वर्तमानानां विकल्पान्मित्त्वमिष्यते।
विनोपसर्गं मित्त्वं वा ग्लास्नावनुवमापि च।।277।।
न कम्यमिचमां मित्त्वं शमोऽदर्शन ईरितम्।
न मित्त्वं स्यादिह यमोऽपरिवेषणकर्मणि।।278।।
स्खदेरवपरिभ्यां च परस्येह तु नेष्यते।
अपात्परस्यापि मित्त्वं न्यसकारो नहीच्छति।।279।।
फणो गतौ मिद्‌भवति घटादेः पूर्तयेऽत्रवृत्।
फणात्पूर्वं वृदित्येके वदन्तीह मनीषिणः।।280।।
स्वरितेद्राजृ दीप्तौ स्यादनुदात्तानुबन्धकाः।
भ्राजृ-भ्राशृ-भ्लाशृ-दीप्तौ त्रयोऽपि द्वित ईरिताः।।281।।
द्वितीयश्च-तृतीयश्च तालव्यान्तौ प्रकीर्तितौ।
स्यम्वादयः क्षरत्यन्ताः) परस्मैपदिनो मताः।।282।।
स्यमु स्स्वनो ध्वनश्शब्दे षमश्च ष्टमतिस्तथा।
अवैकल्ये ज्वलो दीप्तौ चलः कमपन ईरितः।।283।।
जल स्स्याद्‌घातने तैक्ष्ण्‌यं घातनं प्रोच्यते बुधैः।
टलट्‌वलौ तु वैक्लब्ये ष्टलस्स्थाने प्रकीर्तितः।।284।।
विलेखने हलो गन्धे णलो बन्धन इत्यपि।
केचिदाहुः पलो गत्यां बलः प्राणनकर्मणि।।285।।
धान्यावरोधने च स्यान्महत्त्वे पुल उच्यते।
बन्धुष्वपि च संस्त्याने कुल उक्तोऽत्र बन्धुना।।286।।
तद्‌व्यापारो लक्ष्यते हि संस्त्यानं त्विहं संहतिः।
शलो हुलः पल्लृ च स्युर्गातौ निष्पाककर्मणि।।287।।
क्वथे पथे ति गत्यां स्यान्मथे तु स्याद्विलोडने।
टु वमुस्स्यादुद्गिरणे भ्रम स्तु चलने स्मृतः।।288।।
कसन्ता अथ सम्प्रोक्ताः परस्मैपदिनः क्रमात्।
षद्‌लनिट्को विशरणे गतावप्यवसादने।।290।।
शद्‌लनिट्कश्शातनेऽयं विशीर्णत्वस्य बोधकः।
निर्दिश्यते शातनं तु विषयत्वेन सम्प्रति।।291।।
आह्वाने रेदने चानिट् क्रुशोऽथ स्यादिधकोचतिः।
सम्पर्चने च कौटिल्ये प्रतिष्टम्भे विलेखने।।292।।
बुधोपगमनेऽथ स्याद् बीजजन्मन्यनिडुहः।
प्रादुर्भाव च गत्यां स्यात्कसो वृत्करणं त्विह।।293।।
ज्वलादिगणसम्पूर्तिबोधनाय प्रकीर्ततम्।
गूहत्यन्ता अथोच्यन्ते स्वरितेतोह्यनुक्रमात्।।294।।
हिक्कोऽव्यक्ते शब्द उक्तोऽञ्चुस्तु गत्यां च याचने।
अचु इत्येक आहिश्चापरेऽचिरिति चक्षते।।295।।
याञ्चायां तु टु याचृ स्याद्रेटृ स्यात्परिभाषणे।
चते ददे याचनेऽथ पर्याप्तौ प्रोधृ कीर्त्यते।।296।।
मेधायां हिंसने चैव मिदृमेदृ च कीर्तितौ।
थान्ताविमाविति स्वामी प्राह न्यासस्तु धान्तिमौ।।297।।
मेधृ स्स्यात्सह्गमे चाथ णिदृ-णेदृ च कुत्सने।
सन्निकर्षे चाथ शृधुर्मुधुश्चोन्दन ईरितौ।।298।।
उन्द संक्लेदनं प्रोक्तं बुधिर् बोधन ईरितः।
निसामने तूबुन्दिर स्याद्वेणृ स्याज्झानचिन्तयोः।।299।।
गतौ निशामने चैव वादित्रग्रहणेऽपि च।
नान्तोऽयमुपदेशेऽथ खनुस्स्यादवधारणे।।300।।
आदानसंवरणयोश्‌चीवृ स्यादथ चायृ तु।
स्यात्पुजायां निशमने गतौ व्यय उदीरितः।।301।।
दाशृ दाने भेषृ भयो गतावित्यपरे जगुः।
भ्रेषृ भ्लेषृ- गतौ स्यातामसो दीप्त्‌यां गतौ तथा।।302।।
आदाने चैष षान्तोऽपि स्पशस्स्पर्शनबाधयोः।
स्पर्शनं ग्रथनं प्रोक्तं लषः कान्तौ प्रकीर्तितः।।303।।
चषो भक्षण आख्यातो हिंसायां छषतिर्झषः।
आदानसंवरणयोर्भ्रक्ष भ्लक्षावथादने।।304।।
भक्ष इत्याह मैत्रेयो दाशृ दाने प्रकीर्तितः।
माह्र माने संवरणे गुहूरथङितः क्रमात्।।305।।
अजन्ताः पञ्च कथ्यन्ते श्रिञ् सेवायां प्रकीर्तितः।
भरणे भृञ् ह्रञ्हरणे धारणे धृञ्प्रकथ्यते।।306।।
णीञी प्रापणे भृञाद्यास्तु चत्वारोऽनिट ईरिताः।
परस्मैपदिनोऽजन्ताः कथ्यन्तेऽथानुपूर्व्यतः।।307।।
धेट् पाने स्यात्तथा ग्लै-म्लैर्हर्षक्षय उदीरितौ।
धातुक्षयोऽत्र विद्वद्भिर्हर्षक्षयपदेदितः।।308।।
द्यैस्स्यादथन्यक्करणे न्यक्कृतिस्तु तिरिस्क्रिया।
द्रै स्स्यात्स्वप्रे भवे द्धै तु तृप्तौ ध्यै चिन्तने स्मृतः।।309।।
शब्दसङ्घातयोस्स्त्यैष्ट्‌यै खदने खैर्भवेदथ।
क्षै जै षै च क्षये प्रोक्ताः कै च गै शब्द ईरितौ।।310।।
शैश्रै पाके भवेत्प्रैओ वै च शोचण कर्मणि।
ष्टै भवेद्वेष्टने ण्षै तु वेष्टने समुदीरितः।।311।।
ष्णै-शोभायां चैष भवेदित्येके दैप्तु शोधने।
पाः पाने घ्रास्तु गन्धोपादाने सम्परिकीर्त्यते।।312।।
ध्मास्तु शब्देऽग्निसंयोगेऽपि च सद्भिः प्रकीर्तितः।
इहीग्निसंयोग उक्तो मुखवाय्वग्नियोजनम्।।313।।
गतेर्निवृत्तौ ष्ठास्तु स्यान्मना आभ्यासे प्रकथ्यते।
दा दाने स्यात् ह्व कौटिल्ये स्वृ स्याच्छब्दोपतापयोः।।314।।
स्मृ चिन्तायां संवरणे द्वृ भवेत्सु गतौ स्मृतः।
ऋ स्याद्‌गतिप्रापणयोः सेचने गृ घृ च स्मृतः।।315।।
ध्वृ हूर्छने हतौ स्रु ष्षुः प्रसवैश्‌वर्ययोस्स्मृतः।
प्रसवस्त्वभ्यनुज्ञानं श्रवणे श्रुः प्रकीर्त्यते।।316।।
ध्रु-स्थैर्ये स्याद्गतौ दुर्द्रुर्जिज्री अभिभवे स्मृतौ।
न्यूनिक्रियावाथ न्यूनीभावो वाऽभिभवस्स्मृतः।।317।।
आद्ये सकर्मको ज्ञेयोऽपरस्मिन्नप्यकर्मकः।
धेडादयो धातवोऽमी अजन्ता अनिट स्स्मृताः।।318।।
ङी ङ्ङन्ता अथ कथ्यन्ते आत्मनेपदिनो ङितः।
स्मिङ्ङीषद्धसने शब्देऽव्यक्ते गुङ् परिकीर्त्यते।।319।।
गाङ् गतौ कुङ्घु ङुङ्चैव ङुङ्च शब्दे प्रकीर्तितः।
अन्ये तह्कु ङ्खु ङ्च गुङ्च घुङ्च दृङ्चेति चक्षते।।320।।
च्यु-ञ्ज्‌यु ङ्‌प्रु ङ्‌प्लु ङीतो ज्ञेयाः क्लुङ्जित्येके पठन्ति हि।
रुङ् स्याद्गतौ रोषणे च प्रोक्तं हिंसा हि रोषणम्।।321।।
धृङ् स्यादपध्वंसनेऽथ प्रणिदाने स्मृतो हि मेङ्।
प्रणिदानं विनिमयः प्रत्यर्पणमपीष्यते।।322।।
देङ् रक्षणे गतौ श्यैङ् स्यात्प्यै ङ्वद्धौत्रैङ् तु पालने।
पवने पूङ् बन्धने मूङिम्सङ्जाद्या अनिटो ह्यमी।।323।।
विहाय सा गतौ ङीङ् स्यात्प्लवने तरणे च तृः।
परस्मैपद्यथाष्टौ स्युरनुदात्तानुबन्धकाः।।324।।
गुपो गोपन आख्यातो निशाने तिज उच्यते।
मानस्तु पूजने प्रोक्तो बधो बन्धनकर्मणि।।325।।
राभस्ये रभ आख्यातो डुलभष् प्राप्तिकर्मणि।
परिष्वङ्गे ष्वञ्झ उक्तः पुरीषोत्सर्जने हदः।।326।।
रभादयोऽमी चत्वारो धातवोऽनिट ईरिताः।
परस्मैपदिनोऽथ स्यु र्धातवष्षोडशः क्रमात्।।327।।
ञी त्क्षिवदाव्यक्तशब्दे स्यात्स्कन्दिर् स्याच्छोषणे गतौ।
यभो मैथिन आख्यातो णमुः प्रह्वत्वशब्दयोः।।328।।
गम्लृ-सृप्लृ-गतौ स्यातां यमस्तूपरमे स्मृतः।
तपस्सन्ताप आख्यातस्त्यजो हानौ प्रकीर्तितः।।330।।
षञ्जस्सङ्गेऽथ दंशस्तु दशने प्रेक्षणे दृशिर्।
कृषो विलेखने तत्त्वाकर्षणं समुदीरितम्।।331।।
भस्मीकरण आख्यातो दहस्स्यात्सेचने मिहः।
स्कन्दादयोऽमी अनिटश्चतुर्दश च सम्मताः।।332।।
कितो निवासे रोगापनयने च प्रकथ्यते।
प्रायेणायं विपूर्वस्स्यादथैकादश धातवः।।333।।
दानादयो वहत्यन्ता स्सवरिततो यथाक्रमम्।
दानस्स्यात्खण्डने शानस्तेजने समुदाहृतः।।334।।
डुपचष्पाक उक्तोऽथ समवाये षचस्स्मृतः।
सेवायां स्यद्‌भजो रञ्जो राग आक्रोशने शपः।।335।।
त्विषो दीप्तौ यजो देवपूजायां सङ्गतेः कृतौ।
दानेऽथ डुवपो बीजसन्ताने परिकीर्तितः।।336।।
बीजसन्ताशब्देन क्षेत्रे विकिरणं तथा।
गर्भादानं च सम्पोक्तं छेदनेऽप्ययमिष्यते।।337।।
वहस्स्यात्प्रापणे ऽनिट्काः पचाद्याष्षच वर्जिताः।
निवासे स्याद्वसोऽयं तु परस्मैपदभाजनम्।।338।।
वेञ्भवेत्तन्तुसन्ताने व्येञ्तु संवरणे स्मृतः।
ह्वेञ् स्पर्धायां च शब्दे च वसाद्या अनिटोऽखिलाः।।339।।
वेञादयस्त्रयौ ञित्त्वात्पदद्वितयभाजनम्।
परस्मैपदिनौ स्यातामथ द्वौ वदति स्तयोः।।340।।
व्यक्तायां वाच्यथो वृद्धौ टु ओ श्वि स्स्याद्गतावपि।
यजादिगणसम्पूर्ते स्सूचनायेह वृत्कृतिः।।341।।
भ्वादि स्यादाकृतिगणश्चुलुमापाद्या स्ततोऽपरे।
सङ्गृहीता भवन्तीह ऋतस्सौत्रोऽपर स्स्मृतः।।342।।
बहवोऽयं जुगुप्सायां कृपायां चेति चापरे।।
इति भ्वादयः
अथ आदादयः
परस्मैपदिनौ स्यातामथ द्वौ भक्षणे त्वदः।
हिंसागत्यो र्हनोऽनिट्कावुभावेतौ स्मृतावथ।।1।।
स्वरितेश्च चत्वारो द्विषोऽप्रीतौ स्मृतो दुहः।
प्रपूरणे दोहनं हि प्रपूरणमूदाहृतम्।।2।।
तथोपचय आख्यातो दिह आस्वादने लिहः।
व्यक्तायां वाचि चक्षिङ् स्याद्दिवषाद्याः पञ्च चानिटः।।3।।
दर्शनेऽपि च चक्षिङ् स्यादनुदात्तानुबन्धकाः।
पृच्यन्तास्स्युः पञ्चदशेरस्तु स्याद्गतिकम्पयोः।।4।।
ईरिस्स्तुतावथैश्‌वर्य ईशोऽथासः पुनर्बुधैः।
उपवेशन आख्यात इच्छायां शासुराङ्युतः।।5।।
वस आच्छादने प्रोक्तो गतिशासनयोः कसिः।
एके त्वनिदिदित्याहुश्शान्तोऽप्यनिदिष्यते।।6।।
णिसिस्स्याच्चुम्बने दन्त्यान्तोऽयं तालव्यपश्चिमः।
इत्याभरणकारस्तु बभ्रामणि रुच्यते।।7।।
शुद्धावव्यक्तशब्दे स्याच्छिजि वर्णेऽपि जः स्मृतः।
एके समर्चन इति ह्युभयत्रेति केचन।।8।।
अन्येऽवयव इत्याहु श्शब्देऽव्यक्त इतीतरे।
पृजीत्येकवर्जने स्याद्वृजीर्दन्योष्ठयपूर्वकः।।9।।
प्रोक्तोऽसाविदिदित्यन्ये पृची स्सम्पर्जनस्स्मृतः।
षूज्भवेत्प्राणिनां गर्भप्रविमोचनकर्मणि।।10।।
शीङ् स्वप्नेऽथ स्तुचरमाः परस्मैपदिनो ञितः।
यु र्मिश्रणेऽमिश्रणे च रुश्शब्दे हिंसने गतौ।।11।।
वृद्धौ च सौत्र स्तुरनिडथणस्स्तुतिकर्मणि।
टुक्षुश्शब्दे पर्स्रवणे ष्णुराच्छदनकर्मणि।।12।।
ऊर्णुञ् द्युस्स्यादभिगमे प्रसवैश्वर्ययोस्तुषुः।
प्रसवस्त्वभ्यनुज्ञानं कुश्शब्दे ह्यनिटाविमौ।।13।।
ष्टुञ्स्यात्त्सुन्तौ ब्रुञ् तु वाचि व्यक्तायामनिटाविमौ।
ञित्त्वात्पदद्वयार्हौ च परस्मैपदिनस्त्विङम्।।14।।
विहाय शासु पर्यन्ता अष्टाविंशति सङ्खायकाः।
इण्‌गताविङ्त्वध्ययनेऽधिपूर्वोऽभिमतस्सदा।।15।।
स्मरणे स्यादिगयमप्यधिपूर्वस्सदा मतः।
वीरस्स्यद्गतिव्याप्तिकान्तिप्रजनासमखादने।।16।।
गर्भग्रहस्स्यात्प्रजनो ह्यसनं क्षेपणं मतम्।
ईकारोऽत्रान्यधातुस्सन् प्रश्लेषात्सम्मतस्स्ताम्।।17।।
याः प्रापणे गतिस्तद्धि वा गतौ गन्धनेऽपि च।
गन्धनं सूचनं दीप्तौ भाश्शौचे ष्णा इहोच्यते।।18।।
श्रातिरत्र भवेत्पाक आदन्तानां हि मध्यभाक्।
द्राः कुत्सायां गतौ प्सा स्याद् भक्षणे पास्तु रक्षणे।।19।।
रा स्याद्दाने ला आदानो दाने स्यातामभाविति।
प्राह चन्द्रो दाब्लवने ख्याः स्यात्प्रकथनेऽस्य तु।।20।।
संपूर्वकस्याप्रयोगं न्यासकारोऽनुमन्यते।
मा स्स्यान्मानेऽकर्मकोऽयमुपसर्गवशेन तु।।21।।
आर्थान्तरे सकर्मातः प्रयोगो विदुषामसौ।
उदरं मुष्टिना कोऽपि परिमातीति सङ्गतः।।22।।
पच धातुस्तु विदुषां संमतः परिभाषणे।
प्रयुज्यते नान्तिपरो बहुसंख्यापरो न हि।।23।।
इत्यन्ये झिपरो नेति परे प्राहुर्मनीषिणः।
इण्णाद्यावचपर्यन्ता धातवस्त्वनिटो मताः।।24।।
विदो ज्ञानेऽस्तिराख्यातो भुवि शुद्धौ मृजूभवेन्।
रुदिरश्रुविमोके स्या स्याञ्ञिष्वाप्छय उदाहृतः।।25।।
श्वसस्स्यात्प्राणनेऽनश्च जक्षो भक्षणहासयोः।
जागृनिद्राक्षये प्रोक्तो दरिद्रा दुर्गतौ स्मृतः।।26।।
तथा दीप्तौ च कासृ स्याच्छासु स्स्सयादनुशासने।
दीप्तिदेवनयोः प्रोक्तो दीधीङ्ङित उपक्रमात्।।27।।
छन्दसा धातवः पञ्च प्रोक्तावेवीङ्तु वेतिना।
तुल्येऽथस्यु र्धातवोऽत्र परस्मैपदिनस्त्रयः।।28।।
षसस्सस्तिर्भवेत्स्वप्ने वशः कान्तौ प्रकीर्तितः।
कान्तिरिच्छा चर्करीतं चेत्यत्र गणसूत्रकम्।।29।।
यङ्लुगन्तमदादौ हि बोध्यमित्यर्थकं स्मृतम्।
उक्तोऽपनयने हानुङ्तु सम्मतोऽनिडयं सताम्।।30।।
इत्यदादयः
अथ जुहोत्यादयः
हर्दानादनयोः प्रोक्त आदाने चेति केचन।
प्राहुर्भाष्ये प्रीणनेऽपीत्युक्तं दानपदस्य तु।।1।।
प्रेक्षपोऽर्थस्सोऽपि वै धा धारे च हविषामिति।
स्वभावाल्लभ्यत इतश्चत्वारस्स्युरनुक्रमात्।।2।।
परस्मैपदिनोऽथ स्याञ्ञिभीर्भय उदाहृतः।
ह्रीर्लज्जायां पालने च पूरणे चापि पृर्मुतः।।3।।
ह्रस्वान्तोऽयमिति त्वन्ये धारणे पोषणे डुभृञ्।
मङ्स्यान्माने च शब्दे च गतावे ह्ङ्स्मृतस्ततः।।4।।
ओहाक्त्यागे भवेत्सोऽयं परस्मैपदभाजनम्।
डुदाञ्दाने डुधाञ्तु स्याद्धारणे पोषणेऽपि च।।5।।
त्रकयस्स्युस्स्वीरितेतोऽथ णिजिर् शौचे च पोषणे।
विजिर् भवेत्पृथग्बावे विष्लृ व्याप्तौ प्रकीर्त्यते।।6।।
परस्मैपदिनोऽथ स्स्युश्छान्दसा अगणान्ततः।
घृस्यात्क्षरणदीप्तयो र्हृ प्रसह्यकरणे स्मृतः।।7।।
गतावृसृ भवेतां द्वावृ भाषायामपि स्मृतः।
भसो भर्त्सनदीप्त्यो स्स्यात्किर्ज्ञाने त्वरणे तुरः।।8।।
धिषश्शब्देऽथ धान्ये स्याद्धनोऽथ जनने जनः।
गास्स्यात्सुतौ जुहोत्याद्याः ससर्त्यन्ताश्च धातवः।।9।।
चिकेतिश्च जिगातिश्चाप्यनिटस्स्युरिगोदिताः।।10।।
इति जुहोत्यादयः
अथ दिवादयः
परस्मैपदिनोऽथ स्युः झृषन्ताः पञ्चविंशतिः।
क्रीडायां विजिगीषायां व्यवहरे द्युतौ स्तुतौ।।1।।
मोदे -मदे-स्वप्नकान्त्योर्गतौ चापि दिवुस्स्मृतः।
षिवु स्स्यात्तन्तुसन्ताने गतिशोषणयोस्स्रिवुः।।2।।
ष्ठिवुर्निरसने प्रोक्तः केचिन्नेहस पठन्त्यमुम्।
ष्णुसु स्स्याददने केचिदादान इति चक्षते।।3।।
अपरेऽदर्शने इति ष्णसुर्निरसने मतः।
क्न-सुर्ह्वरणदीप्त्यो स्स्यात्कौटिल्यं ह्वरणं मतम्।।4।।
व्युषो दाहे प्लुषश्चाथ गात्रविक्षेपणे नृतीः।
त्रसीद्वेग आख्यातः पूतीभावे कुथो मतः।।5।।
पूतीभावस्तु दौर्गन्ध्यं हिंसायां पुथ ईरितः।
परिवष्टेन आख्यातो गुधोऽथ प्रेरणे क्षिपः।।6।।
पुष्पो विकसेन प्रोक्त स्तिमतीमौ तथा ष्टिमः।
ष्टीश्चार्द्रीभाव उक्ता व्रीडश्चोदनलज्जयोः।।7।।
इषो गतौ षह षुहौ चक्यर्थे समुदाहृतौ।
चक्यर्थस्स्तृप्तिरुक्ता जृष् झृष् वयोहानिकर्मणि।।8।।
पूज्भवेत्प्राणिनां गर्भविमोचनकर्मणि।
दूङ् भवेत्परितापे दीह्क्षयेऽनिट्कोऽयमीरितः।।9।।
विहायसा गतौ डीङ्घि ङाधारे मीङ् तु हिंसने।
हिंसाप्राणवियोगोऽत्र स्रवणे रीङ् प्रकीर्तितः।।10।।
पीङ् पाने माङ्तु माने स्यादीङ्गतौ प्रीङ् सकर्मकः।
प्रीतौ स्यादथ चत्वारः परस्मैपदिनः स्मृताः।।11।।
शो तनूकरणे छो तु छेदने षोऽन्तकर्मणि।
दोऽवखण्‍डन आख्यातो धीङाद्या अनिट स्स्मृताः।।12।।
अथ पञ्चदशोच्यन्त आत्मनेपदिनः क्रमात्।
प्रादुर्भावे जनीर्दीपी र्दीप्तिवाप्यायने त्विह।।13।।
पूरीरथ भवेत्तूरी र्गति त्वरणाहिंसयोः।
धूरीर्गूरीश्च हिंसायां गत्यां च परिकीर्तितौ।।14।।
घूरी-र्जूरीश्‌च हिंसायां वयोहान्या च कीर्तितौ।
हिंसास्तम्भनयो श्शूरीश्चूरीर्दाहे प्रकीर्तितः।।15।।
तप ऐश्‌वर्य इति वा चरमं सूत्रमिष्यते।
ऐश्वर्येऽयं तङ् श्यनौ वा भजतीत्यर्थकं स्मृतम्।।16।।
परस्मैपद्यन्यथा शब्दः ब इत्यर्थबोधकम्।
इच्छन्ति केचिद्वा शब्दमत्राद्यावयवं वृतोः।
अतो वा वृत्यमाना सा रामशालां न्यविक्षत।।17।।
इति भट्टिप्रयोगस्तु तन्मूल इति चक्षते।
पाठान्तरम् पतेत्येवं व्यत्यासेन प्रकीर्तितम्।
वृतुर्वरण आख्यात उपतापे क्लिशस्स्मृतः।
काशृ दीप्तौ वाशृं शब्दे स्वरितेतोऽथ पञ्च च।।18।।
तितिक्षायां मृषः प्रोक्त ईशुचिर् तु प्रकीर्त्यते।
पूतीभावे स तु क्लेदो बन्धने णह इष्यते।।19।।
रञ्जो राग अथाक्रोशे शपोऽनिट् काणहादयः।
त्रयोऽप्येकादशाथ स्युरनुदात्तानुबन्धकाः।।20।।
गतौ पदः खिदो दैन्ये सत्तायां विद इष्यते।
स्याद्‌बुधोऽवगमे सम्प्रहारे युध उदाहृतः।।21।।
अनौ रुधः काम उक्तः पदाद्या अनिटोऽत्र ष़ट् ।
अणस्तु प्राणने दन्त्यान्तोऽयमित्येत ऊचिरे।।22।।
मनो ज्ञाने समाधौ स्याद्युजश्चित्तनिरोधनम्।
समाधिरुच्यते तस्मादकर्मक उदाहृतः।।23।।
सृजो विसर्गेऽकर्मायं लिशोऽल्पीभाव इष्यते।
मनादयोऽनिटोऽथस्यु रागणान्ताद्यताक्रमम्।।24।।
परस्मैपदिनो वृद्धावेवराधो ह्यकर्मकात्।
इत्यस्य गणसूत्रस्य त्वर्थ एवं स्मृतो बुधैः।।25।।
भिन्नक्रमोऽत्रैव शब्दोऽकर्मकादेव राध्यतेः।
श्यन् स्यादिति ततो वृद्धावित्युदाहरणं ह्यतः।।26।।
न दूये सात्वती सूनुर्यन्मह्यमपराध्यति।
इत्यत्र राध्यतीत्यस्य द्रुह्यतीत्यर्थ इष्यते।।27।।
क्रियासमभिहारेण विराध्यन्तं क्षमेत कः।
इत्यत्रार्थस्तु द्रुह्यन्तमुत्यूह्यो हि मनीषिभिः।।28।।
राध्यत्योदन इत्यत्र सिध्यतीत्यर्थ इष्यते।
कृष्णाय राध्यतीत्यत्र दैवं चिन्तयतीति च।।29।।
अयं स्वादौ चुरादौ च पठ्यते हि गणद्वये।
व्यध स्स्यात्ताडने पुष्टौ पुष स्स्याच्छोषणे शुषः।।30।।
तुः प्रीतौ दुषः प्रोक्तो वैकृत्येऽथ श्लिषो भवेत्।
आलिङ्गेऽत्र राधाद्या धातवस्सप्त चाऽनिटः।।31।।
शको विभाषित इह मर्षणे समुदाहृतः।
अत्रोभयपदीत्यर्थो विभाषितदस्य हि।।32।।
ष्विदा गात्रप्रक्षरणे तत्तुघर्म सृतिस्स्मृता।
न्यासकारादयोऽयं हि ञीद् भवेदिति चक्षते।।33।।
हरदत्तादयो नेति क्रुधः क्रोधे प्रकीर्तितः।
बुभुक्षायां क्षुधश्शौचे शुधस्संराद्धिकर्मणि।।34।।
षिधु रुदित्त्व पाठोऽस्य प्रामादिक उदाहृतः।
शकादयोऽनिटष्षट्स्स्यु स्सेट्कमाहुश्शकं परे।।35।।
संराद्धौ चैव हिंसायां रधस्संराद्धिरत्र तु।
निष्पत्ति रुक्ताऽथ णशोऽदर्शने प्रीणने तृपः।।36।।
तर्पणं तृप्तिरप्यत्र प्रीणनं परिकीर्तितम्।
हर्षमोहनयोः प्रोक्तो दृपो गर्वोऽत्र मोहनम्।।37।।
जिघांसायां द्रुहः प्रोक्तो मूहो वैचित्त्य ईरितः।
वैचित्त्यमविवेकोऽत्र ष्णुह उद्गिरणे स्मृतः।।38।।
ष्णिहः प्रीतौ रधादीनां समाप्तिद्योतकोऽत्रवृत्।
शमुस्तूपशमे प्रोक्तः काङ्क्षायां तमुदीरितः।।39।।
दमु स्तूपशमेऽत्रोपशमो ण्यन्तः प्रकीर्तितः।
तस्मात्सकर्मकोऽयं माकर्मकश्शमवत्स्मृतः।।40।।
श्रमु स्तपसि खेदे चानवस्थाने भ्रमुर्मतः।
क्षमूस्सहन उक्तोऽथ क्लमुर्ग्लानौ प्रकीर्तितः।.41।।
मदीहर्षे क्षेपणेऽसुः प्रयत्ने यसुरीरितः।
जसु स्स्यान्मोक्षण उपक्षये तसु रुदाहृतः।।42।।
दसुश्चाथ वसु स्तम्भे बशाद्योऽयमितीतरे।
व्युषो विभागे पाग्दाहे पठितोऽप्यर्थभेदकः।।43।।
अङर्थं पठ्यते भूय ओष्ठ्याद्यो दन्त्यपश्चिमः।।44।।
व्युसेत्यन्येऽयकारोऽयं बुसित्यपर ऊचिरे।
प्लुषो दाहे प्रेरणे स्याद्बिस संश्लेषणे कुसः।।45।।
उत्सर्गे तु बुसः प्रोक्तः खण्डने मुस ईरितः।
परिणामे मसीः प्रोक्तः परिणामस्तु विक्रिया।।46।।
क्चित्समीरिति प्राहुर्लुट उक्तो विलोडने।
समवाय उचः प्रोक्तो भृशुर्भ्रंशुरु भावपि।।47।।
अधःपतन आख्यातौ वृशस्स्याद्वरणे कृशः।
तनूकरण उक्तो ञीत्पिपासायां तृषस्स्मृतःष।।48।।
हृषस्तुष्टौ रुषरिषौ हिंसायां परिकीर्तितौ।
डिपः क्षेपे कुपः क्रोधे व्याकुलत्वे गुपस्स्मृतः।।49।।
युपूरुपुर्लुपुश्‌चैव विमोहन उदीरिताः।
लुभो गार्ध्ये गर्ध्यमत्र ह्याकाङ्क्षा परिकीर्तिता।।50।।
क्षुभस्सञ्चलने प्रोक्तो हिंसायां णभतुभ्यती।
आर्द्रीभावे क्लिदूः प्रोक्तो ञिमिदा स्नेहेन मतः।।51।।
स्नेहेन मोचने चापि ञिष्विदाः परिकीर्तितः।
ऋधुर्वुद्धौ गृधुरभिकांक्षायां वृत्कृतिस्त्विह।।52।।
वुषादेश्च दिवादेश्‌च समाप्तिद्योतनीमता।
वुषादिपरिपूर्त्यर्थमेव वृत्कृरणं स्मृतम्।।53।।
तथा क्षीयत इत्यादि सिध्यतीत्यपरे जगुः।।54।।
इति दिवादयः
अथ स्वादयः
षुञ्स्यादभिषवे स्नानं स्नपनं पीडनं तथा।
इहाभिषवशब्दोक्तं सुरसन्धानमेव च।।1।।
तत्र स्नानेऽकर्मकोऽयं षिञ्तु बन्धन ईरितः।
तालव्यादि श्शिञ् निशाने डुमिञ्प्रक्षेपणे स्मृतः।।2।।
चयने चिञ् कथ्यते स्तृञ् प्रोक्त आच्छादनेऽथ कृञ्।
हिंसायामनिटस्सप्त सुनोत्याद्याः प्रकीर्तताः।।3।।
वरणे वृञ् कम्पने धुञ् दीर्घान्तो धूञपीष्यते।
ह्रस्वान्तोऽयमनिट्कः स्यात्परस्मैपदिनस्ततः।।4।।
भवन्ति नव तत्राद्य उपतापे टुदु स्स्मृतः।
हिस्स्याद्‌गतौ च वृद्धौ च पृ प्रातौ परिकीर्तितः।।5।।
प्रीतिपालनयो स्स्पृस्स्यात्प्रीतौ च चलनेऽपि च।
इत्यन्ये चलनं स्वामी प्राह जीवनमित्यपि।।6।।
स्म्रित्येकेऽन्ये स्पृणोक्यादींस्त्रीनाहुश्छान्दसा इति।
आप्लृ-व्याप्तौ शक्लृ शक्‌तौ राधसाधौ मताविह।।7।।
संसिद्धौ च दुनोत्याद्या नवापीहानिटो मताः।
अथ द्वावनुदात्तेतावशूर्व्याप्तावथ ष्टिघः।
आस्कन्दनेऽथागणान्तात्परस्मैपदिनो मताः।।8।।
तिक स्तिगो गतौ च स्याच्चात्स्यादास्कन्दने षघः।
हिंसायां ञि धृषा तु स्यात्प्रागल्भ्ये परिकीर्तितः।।9।।
दम्भुर्दम्भन आख्यातो दम्भनं दम्भ उच्यते।
ऋधु र्वृद्धौ प्रीँणनेऽत्र तृप इत्येक ऊचिरे।।10।।
छन्दसीत्यत्रागदणान्तादधिकार स्समीरितः।
अङो व्याप्तौ दघस्तु स्याद् घातने पालनेऽपि च।।11।।
चमुस्स्याद्भक्षणेऽथ स्युर्हिंसायां रिक्षिरेव च।
चिरिर्जिरिर्दाशृदृच त्रयोरिक्षिर्दृचानिटः।।12।।
क्षिर्भाषायामपीत्येक एक एव क्षिरित्यपि।
अजादिर्धातुरित्यन्ये वृत्स्वादेरिह पूर्तये।।13।।
इति स्वादयः
अथ तुदादयः
तुदस्स्याद्‌व्यथने प्रोक्त स्स्वरितेतोऽनिटश्च षट्।
णुदः प्रेरण आख्यातो दिशस्स्यादतिसर्जने।।1।।
अत्रातिसर्जनं दानं भ्रस्जः पाके प्रकीर्तितः।
क्षिपः प्रेरण आख्यातः कृषस्तु स्याद्विलेखने।।2।।
परस्मै पृद्यषीरत्र गत्यर्थः परिकीर्तितः।
जुषीः प्रीतौ सेवने च चत्वार इत आदितः।।3।।
आत्मनेपदिनः प्रोक्‌ता ओविजीश्‌चलने भये।
उत्पूर्वः प्रायशश्चायमोलस्जी रोलजीरपि।।4।।
परस्मैपदिनोऽथ स्यु र्दशोत्तरशतंत्विह।
ओव्रश्चूश्छदने प्रोक्तो व्यचो व्याजीकृतौ मतः।।5।।
उछिरुञ्छे विवासार्थ उछीः प्रोक्तोऽथ ऋच्छतिः।
गतीन्द्रिय प्रलययोर्मूर्तिभावे च कीर्तितः।।6।।
उत्क्लेशे स्यान्मिच्छति स्तु पीडोत्क्लेश इहेष्यते।
जर्जश्चर्चो झर्झतिश्च तर्जने परिभाषणे।।7।।
त्वचस्संवरणे प्रोक्‌तः स्तुतावृच उदाहृतः।
उष्जस्स्यादार्जवे ह्युज्झ उत्सर्गेऽथ विमोहने।।8।।
लुभो विमोहनमीहाकुलीकरणमीरितम्।
निन्दा-हिंसा-दान-युद्ध-कत्थनेषु रिफो मतः।।9।।
रिहेत्येके तृपस्तृम्फ स्तुप्तौ हि परिकीर्तितौ।
आद्य स्स्यात्प्रथमान्तोऽत्र द्वितीयान्तो द्वितीयकः।।10।।
द्वितीयान्तौ द्वावपीति परेऽथ तुपतुम्पती।
तुफस्तम्फश्च हिंसायामुत्क्लेशे दृप-दृम्फती।।11।।
प्रथमः प्रथमान्तोऽत्र द्वितीयान्त इतीतरे।
ऋफ-ऋम्फौ तु हिंसायां ग्रन्थेऽत्र गुफ गुम्फती।।12।।
उभोम्भौ पूरणे स्यातां शोभार्थे शुभ शुम्भती।
दृभीर्ग्रन्थेऽथ हिंसायां ग्रन्थने च चृतीस्स्मृतः।।13।।
विधो विधानेऽथ जुडो नुडश्चापि गतौ स्मृतौ।
तवर्गपञ्चमान्तोऽयमाद्य इत्येक ऊचिरे।।14।।
मृडस्स्यात्सुखने तद्वत्पृडश्च प्रीणने पृणः।
वृणश्चाप्यथ हिंसायां मृणतिः परिकीर्तितः।।15।।
तुणः कौटिल्येऽथ शुभे कर्मणि प्रोच्यते पुनः।
प्रतिज्ञाने मुणश्शब्दे तथोपकरणे कुणः।।।16।।
शुनो गतौ द्रुणो हिंसागतिकौटिल्यकर्मसु।
भ्रमणे घुणघूर्णौ तु दीप्त्यैश्वर्यार्थकष्षुरः।।17।।
कुरश्शब्दे छेदने स्यात्कुरस्संवेष्टने मुरः।
क्षुरो विलेखने प्रोक्तो घुरो भीमार्तशब्दयोः।।18।।
पुरस्स्यादग्रगमने वृहूरुद्यमने त्वयम्।
दन्त्योष्ट्यादिः पवर्गीयादिस्स्यादित्यन्य ऊचिरे।।19।।
तृहूस्तृहूश्च तृंहूश्च हिंसार्था परिकीर्तिताः।
इच्छायां त्विष आख्यातस्स्पर्धायां मिष ईरितः।।20।।
कलश्श्‌वैत्यक्रीडनयो स्तिलस्नेहे चिलस्तुः सः।
वसने स्याद्विलसने चलस्तु परिकीर्तितः।।21।।
इलस्स्वप्नक्षेपणयो र्विलस्सञ्चरणे स्मृतः।
दन्त्योष्ट्‌यादिरयं प्रोक्तोस्त्वोष्ट्‌यादिर्भेदने बिलः।।22।।
गहने स्याण्णिलो भावकरणे हिल उच्यते।
उञ्छे प्रोक्तौ शिलषिलौ मिलस्तु श्लेषणे मतः।।23।।
लिखस्त्वक्षविन्यासे कुटः कौटिल्य ईरितः।
पुटस्संश्लेषणे प्रोक्तः कुचस्सङ्कोचने मतः।।24।।
गुजशशब्देऽथ रक्षायां गुडः क्षेपे डिपस्स्मृतः।
छुरशछेदन आख्यात स्सफुटो विकसेन मतः।।25।।
प्रमर्दने तथाक्षेपे मुटस्स्याच्छेदने त्रुटः।
वाश्यन्विकरणोऽयं स्यात्तुटः कलहकर्मणि।।26।।
चुटच्छुटौ छेदनेऽथ जुडो बन्धन ईरितः।
कडो मदेऽथ लुटति स्संश्लेषण उदीरितः।।27।।
कृडो घनत्वेऽथ भवेद्घनत्वं सान्द्रता मता।
कुडो बाल्ये पुटस्तु स्यादुत्सर्गे घुटति स्तु सओः।।28।।
पर्तिघाते तोडने स्यात्तुडो भदस्तु तोडनम्।
थुढस्थुडौ संवरणे खुडश्छुड इतीतरे।।29।।
स्फुर-स्फुलौ सञ्चलने स्फुरस्तु स्फुरणे स्मृतः।
स्फुल स्सञ्चलने प्रोक्त इत्येके परिचक्षते।.30।।
अकारोपधकं केचित्पठन्ति स्फर इत्यपि।
स्पुडश्चुडो ब्रुडश्श्चैते मतास्संवरणे त्रयः।।31।।
निमज्जने क्रुडभृडावित्येके ब्रुवते बुधाः।
गुरीरुद्यमने प्रोक्तो ह्यनुदात्तेदयं मतः।।32।।
स्तवने णूस्तु दीर्घान्तः परस्मैपदिनस्त्वितः।
आरभ्य स्युर्हि चत्वारो धूर्विधूनन इष्यते।।33।।
गुः पुरीषोत्सर्ग उक्तो ध्रुर्गतिस्थैर्ययोरिमौ।
अनिटौ ध्रुव इत्येत्पाठान्तरमपीष्यते।।34।।
कुङ् शब्दे ऽनिडिमं प्राहुर्दीघान्त कैयटादयः।
ह्रस्वान्तं न्यासताराद्याः कुटादेः पूर्तयेऽत्र वृत्।।35।।
पृङ् व्यायमे प्रायशोऽयं व्याङ् पूर्वः कथ्यते बुधैः।
प्राणत्यागे मृङ् सप्त स्युः परस्मैपदिनो ह्यथा।।36।।
रिःपिर्गतौ धारणे धिः क्षिर्निवासे गतावपि।
पृङ्ङादयः षडनिटः षूस्तु प्रेरण ईरितः।।37।।
कृर्विक्षेपनिगरणे गृर्दृङादर आङ्युतः।
अवस्थाने धृङ्दश षट् परस्मैपदिनस्त्वथ।।38।।
ञीप्सायां प्रच्छ उदितो वृत्किरादेः समाप्तये।
सृजो विसर्गे कथितः शुद्धौ मस्जो निगद्यते।।39।।
रुजो भङ्गे निगदितो भुजो कौटिल्य ईरितः।
छुपः स्पर्शे रुशरिशौ हिंसायां लिशतिर्गतौ।।40।।
स्पृशः संस्पर्शनेऽनिट्कादृङ्ङाद्या द्वादश क्रमात्।
विच्छो गतावथविशः प्रवेशन उदाह्रतः।।41।।
मृश आमर्शने प्रोक्‌तः स्पर्श आमर्शनं मतम्।
णुदस्तु प्रेरणे षद्लृ प्रोक्तो विशरणे गतौ।।42।।
तथावसादने चाथ शद्लृ शातन ईरितः।
विशादयोनिटः पञ्च स्वरितेतोऽथ षणमताः।।43।।
मिलस्स्यात्सङ्गमे मृच्लृ मोक्षणे छेदने लुप्लृ।
विद्लृ लाभे लिप उपदेहे वृद्धिः स इष्यते।।44।।
षिचः स्यात्क्षरणेऽनिट्का मुचाद्याः पञ्च कीर्तिताः।
विन्दतिर्व्याघ्रभूत्यादिमते सेट्कः प्रकीर्तितः।।45।।
परस्मैपदिनोऽथ स्युः त्रयोऽथच्छेंदने कृतीः।
खिदो दैन्ये ह्यनिट्कोऽयं पिशोऽवयव ईरितः।।46।।
मुदादेश्च तुदादेश्च समाप्तिद्योतनाय वृत्।।
इति तुदादयः
अथ रुधादयः
रुधिरावरणे प्रेक्तः स्वरितेत इतो नव।
इरितश्च भिदिर्तु स्याद्विदारण उदाहृतः।।1।।
छिदिर्तु द्वैधीकरणे रिचिर्तु स्याद्विरेचने।
विचिर्पृथग्भाव उक्तः क्षुदिर् सम्पेषणे मतः।।2।।
युजिर्योगेऽनिटः सप्त रुधाद्याः परिकीर्तिताः।
उच्छृदिर्देवने दीप्तावथानादरहिंसयोः।।3।।
उतृदिस्स्यात्कृतीः प्रोक्त श्छेदने वेष्टनेऽपि च।
परस्मैपद्ययमथो ञीदिन्धीर्दीप्तिबोधकः।।4।।
आत्मनेपदिनोऽथस्युसरित आरभ्य तु त्रयः।
खिदो दैन्ये विदः प्रोक्तो विचारे ह्यनिटा विमौ।।5।।
परस्मैपदिनोऽथ स्युर्दश द्वौ च यथाक्रमम्।
विशेषणे शिष्लृ प्रोक्तः पिष्लृ सञ्चूर्णने स्मृतः।।6।।
भञ्जो त्वामर्दने प्रोक्तः पालनाभ्यवहारयोः।
भुजोऽनिटोऽमी चत्वारः शिषाद्याः परिकीर्तिताः।।7।।
तृहो हिसिश्च हिंसायामुन्दी स्यात्क्लेदनार्थकः।
भवेदधाञ्जू र्व्यक्तौ च श्लक्ष्णे कान्तौ गतावपि।।8।।
तञ्चू सङ्कोचने प्रोक्त ओव्जीश्चलने भये।
वृजी स्स्याद्वर्जनार्थोऽथ पृची स्सम्पर्चनार्थकः।।9।।
रधादिगणसम्पूर्तिद्योतनायात्र वृत्कृतिः।।
इति रुधादयः
अथ तनादयः
विस्तारे स्यात्तनुस्सप्त स्वरितेत इतः क्रमात्।
षणुर्दानेऽथ हिंसायां क्षणु स्स्यात्क्षिणुरेव च।।1।।
ऋणु र्गतौ स्यददने तृणुर्दीप्तौ घृणुः स्मृतः।
अथ द्वावनुदात्तेतौ वनुर्याचन ईरितः।।2।।
परस्मैपद्यसौ चान्द्रमतेऽथो अवबोधने।
मनु डुकृञ् तु करणेऽनिङ्वृद्गणसमाप्तये।।3।।
इति तनादयः
अथ क्य्रादयः
डु क्रीञ्विनिमये द्रव्यकर्मके समुदीरितः।
प्रीञ् तर्पणे स्यात्कान्तौ च श्रीञ् पाकै मीञ् तु हिंसने।।1।।
षिञ् बन्धनेऽथाप्रवमे स्कुञ् क्रीञाद्या इहानिटः।
स्तन्भुस्स्कुन्भु स्तथा स्कन्भु स्स्कुश्चेति चतुष्टयम्।।2।।
सौत्रं सर्वं रोधनार्थं परस्मैपदिसेङ्भवेत्।
प्रथमश्‌च तृतीयश्‌च स्तम्भार्थी परिकीर्तितौ।।3।।
निष्काषणे द्वितीयस्याच्चतुर्थ स्त्ववधारणे।
इत्याह माधवो युञ् तु बन्धनेऽनिट् प्रकीर्तितः।।4।।
क्नूञ् शब्दे तु हिंसायां पवने पूञ् प्रकीर्तितः।
लूञ् छेदने कथ्यतेऽथ स्तृञ् आच्छादनईर्यते।।5।।
कृञ् हिंसायां वृञ् वरणे धूञ् कम्पन उदार्यते।
त्रयोविंशतिराख्याता बदृनात्यन्ता यथाक्रमम्।।6।।
परस्मैपदिनः शृस्स्याद्दिंसायामथ पृर्मतः।
पालने पूरणे चाथ वरणे वृर्निगद्यते।।7।।
आहुर्भरण इत्येके भर्त्सने भृरुदीर्यते।
प्राहुस्तं भरणेऽप्येके मृर्हिंसायां प्रकीर्त्यते।।8।।
दृः स्याद्विदारणे सृस्तु वयोहानौ निगद्यते।
झृरित्येके धृरिति च परे नृ स्स्यान्नयेऽथ कृः।।9।।
हिंसायामृस्तु गत्यां गृश्शब्दे ज्या वयसः क्षये।
री स्स्याद्गतौ रेषणे च वृक् शब्दोऽत्र रेषणम्।।10।।
ली श्श्लेषणे व्लीर्वरणे प्लीर्गतौ वृत्कृति स्त्विह।
ल्वादीनां पूर्त्यार्थमीष्टा प्वादीनां चेति केचन।।11।।
वरणे वृञ् भये भृञ् स्याद्भरणेऽन्येत्विमं विदुः।
क्षीष् हिंसायां ज्ञा अथ स्यादवबोधनबोधकः।।12।।
बन्धः स्याब्दन्धने ज्याद्या अवृञ्भृञोऽनिटो मताः।
वृङ् सम्भक्तौ भवेच्छ्रन्थः प्रतिहर्षे विमोचने।।13।।
चतुर्विंशतिराख्याताः परस्मैपदिनस्त्वितः।
मन्थो विलोडने श्रन्थः सन्दर्भे ग्रन्थ एव च।।14।।
कुन्थः संशलेषणे प्रोक्तः संक्लेशन इतीतरे।
कुथ इत्याह दुरिगोऽथ मृदः क्षोदे मृडस्त्विह।।15।।
क्षोदे सुखेऽप्यथ गुधो रोषे निष्कर्ष कुषः।
क्षुभः सञ्चलने स्यातां हिंसायां हि णभस्तुभः।।16।।
क्लिशू र्विबाधने प्रोक्तो भोजनेऽशः प्रकीर्तितः।।
उञ्छ-उध्र-स एके ऽत्रोकारं धात्वङ्गमूचिरे।।17।।
इष स्त्वाभूक्ष्ण्य आख्यातः पौनः पुन्यं तदीरितम्।
भृशार्थो वाऽप्यथ विषो विप्रयोगेऽनिडिष्यते।।18।।
प्रुष-प्लुषौ-स्नेहने वा पुरणेषु पुशस्तु सः।
पुष्टौ स्तेये मुषो-भूतप्रादुर्भावे खचः स्मृतः।।19।।
भूतप्रादुर्भाव इहातिक्रान्तोत्पत्तिरिष्यते।
वान्तोऽयमित्येक आहिर्हेठस्चोक्तार्थकः स्मृतः।।20।।
उपादाने ग्रहः प्रोक्तः स्वरितेदयमिष्यते।
वृत्कृतिः क्य्रादिधाचूनां समाप्तिद्योतनीमता।।21।।
इति क्य्रादयः
अथ चुरादयः
चुरस्तेये चिति स्स्मृत्यां यत्रिस्सङ्कोचने मतः।
स्फुडिस्स्यात्परिहासेऽत्र पाठान्तरमिति स्फुटिः।।1।।
दर्शनाङ्कनयोर्लक्षः कुद्रिस्त्वनृतभाषणे।
कुडीत्येके प्राहुरथोपसेवायां लडः स्मृतः।।2।।
मिदिर्भवेत्स्नेहनेऽथौ लडिरुत्क्षेपणे मतः।
इदत्रौकार इत्येक उकारादिरितीतरे।।3।।
जलोपवारणे प्रोक्तो लज इत्येक ऊचिरे।
पीडोऽवगाहने प्रोक्तो नटोऽवस्यन्दने मतः।।4।।
नाट्यं त्ववस्यन्दनं स्यात्प्रयत्ने श्रथ ईरितः।
एके प्रस्थान इत्याहु र्बदस्संयमने मतः।।5।।
बन्धेति प्राह चन्द्रः पृः पूरणेथोऽर्ज उच्यते।
बलप्राणनयोः पक्षः परिग्रह उदीरितः।।6।।
वर्णश्चूर्णः प्रेरणेऽन्ये वर्णो वर्णन इत्यपि।
उक्तः प्रथस्तु प्रख्याने पृथः प्रक्षेप ईरितः।।7।।
प्राहुरेके पथ इति सम्बन्धे षम्ब ईर्यते।
शम्बश्च साम्ब इत्येके भक्षस्त्वदन इष्यते।।8।।
चेदने भर्त्सने कुटृ एकते पूरण इत्यपि।
अल्पीभावे पुटृ चुट्टावटृ-षुट्टावनादरे।।9।।
लुण्टस्स्त्येये श्वठ शठावसंस्कारे गतावपि।
श्वठीत्येके तुजिपिजी हिंसादानबलेष्वथ।।10।।
निकेतने चाथ तुजः पिज इत्यपरे जगुः।
एके प्राहुर्लज लुजी इति गत्यां पिसः स्मृतः।।11।।
षान्त्वस्सामप्रयोगेऽथ परिभाषण ईरितौ।
श्वल्कवल्कौ स्नेहने स्यात्-ष्णिह स्स्फिट इतीतरे।।12।।
अनादरे स्मिटः स्यात् ष्मिङ्ङनादर इतीतरे।
श्लिषस्स्याच्छ्लेषणे गत्यां पथिः पिच्छस्तु कुट्टने।।13।।
छदिः स्संवरणे दाने श्रणः प्रायो विपूर्वकः।
आघाते तड उक्तोऽथ खडः खडि कडी त्रयः।।14।।
बेदने रक्षणेऽथ स्यात्कुडि स्स्याद्वेष्टने गुडिः।
इमं रक्षण इत्येके कुठिरित्यपरे जगुः।।15।।
गुडिरित्यपि केचित्तु खुडिः खण्डन ईरितः।
वडिर्विभाजने प्रोक्तो वडिरित्येक ऊचिरे।।16।।
चण्डे चडि कपी हर्षे भूषायां च मडिः स्मृतः।
कल्याणे भडिराख्यातो वमने छर्द ईरितः।।17।।
आदरानादरार्थौ हि पुस्तबुस्तौ प्रकीर्तितौ।
चुदः संचोदने प्रोक्तो णक्क-धक्कौ तु नाशने।।18।।
व्यथने चुक्क-चक्कौ स्तः क्षलः स्याच्छौचकर्मणि।
प्रचिष्ठायां तलः प्रोक्त उन्माने तुल ईरितः।।19।।
उत्क्षेपणे दुलः प्रोक्तो महत्त्वे पुल उच्यते।
चुलः समुच्छ्राय उक्तो रोहणे मूल ईरितः।।20।।
कलो विक्षेप उदितो भेदने बिल ईर्यते।
स्नेहनो तिल आख्यातो भृतौचल उदीरितः।।21।।
पालः स्याद्रक्षणे लूषो हिंसायां मान इष्यते।
शुल्बः शूर्पश्चाथ चुटश्चेदने समुदीरितः।।22।।
पिटः सञ्चूर्णने प्रोक्तो नाशने पडिरुच्यते।
पसिश्चाथ वजो मार्गसंस्कारे च गतावपि।।23।।
शुल्कोऽतिस्पर्शने प्रोक्तश्चपिर्गत्यां प्रकीर्ततः।
क्षपिः क्षान्त्यां क्षजिः कृच्छ्रजीवने समुदाहृतः।।24।।
गत्यां श्वर्तश्च श्वभ्रश्च सूत्रं स्याज्ज्ञपमिच्चहि।।
अयं ज्ञाने ज्ञापने च वर्तते ह्रस्वबाङिणचि।।25।।
परिवेषण आख्यातो यमश्च परिवेषणम्।
इह प्रोक्तं वेष्टनं न भोजना नापि वेष्टना।।26।।
परिकल्कन आख्यातश्चहश्चप इतीतरे।
स्याद्रहस्स्त्याद इत्येके बलस्तु प्राणने मतः।।27।।
चिञ् स्यात्तु चयने नान्ये मितोऽहेताविदं गणे।
सूत्रं घट्टस्तु चलने मुस्तस्सङ्घात इष्यते।।28।।
खट्ट स्संवरणे षट्टः स्फिट्टश्चुबिरितित्रयः।
हिंसायामथ सङ्घाते पूलः पूर्ण इतीतरे।।29।।
अन्ये पुण इति प्राहुः पुंस स्यादभिवर्धने।
बन्धने स्याट्टकिः कान्तिकरणे धूस इष्यते।।30।।
दन्त्यान्तोऽयं परे मूर्धन्यान्तं तालव्यपश्चिमम्।
अन्ये चाहुः तथा कीटो वर्णे सङ्कोचने त्विह।।31।।
चूर्णोऽथ पूजः पूजायामर्कस्स्तवन ईरितः।
एके तपन इत्याहुरालस्ये शुठ इष्यते।।32।।
शुठि श्शोषण आख्यातो जडस्तु प्रेरणे मतः।
गजो मार्जश्च मर्चश्च शब्दार्थाः परिकीर्तिताः।।33।।
घृतुः प्रस्रवणे प्रोक्त एके स्रावण इत्यपि।
वचिर्विस्तारवचने तिजस्तु स्यान्निशातने।।34।।
कृतस्संशब्दने वर्धश्छेदने पूरणेऽपि च।
कुबिराच्छादने प्रोक्तः कुभिरित्येक ऊचिरे।।35।।
अदर्शने लिबि तुबी एक इत्याहुरर्दने।
व्यक्तायां वाचि गदितो ह्लपः क्लप इतीतरे।।36।।
ह्रप इत्यपरे प्राहुश्चुटिस्तु च्छेदने मतः।
इलः स्यात्प्रेरणे म्रक्षो म्लेच्छने समुदाहृतः।।37।।
अव्यक्तवाचि ल्मेच्छ स्स्यात् ब्रूसो हर्ष स्तथापरः।
बर्हश्च हिंसार्थाः केचिद्गर्जो गर्दश्च निस्वने।।38।।
गर्धः स्यादभिकाङ्क्षायां इति चात्र पठन्ति हि।
पूर्वे निकेतने गुर्दो जसी रक्षण ईरितः।।39।।
केचुन्मोक्षण इत्याहुः स्तुतावीडः प्रकीर्तितः।
हिंसायां जसु राख्यातऋ पिडिः सङ्घात उच्यते।।40।।
रोषे रुषो रुट इति केचित्क्षेपे डिपो मतः।
ष्टूपः समुच्छ्राय उक्तोऽथानुदात्तानुबन्धकाः।।41।।
आकुस्मादथ विज्ञेयाः चितस्सञेतने स्मृतः।
दामृ दाने दंशने तु दशिस्स्याद्दिसिरप्यथ।।42।।
दंशने दर्शने च स्याद्दस इत्येक ऊचिरे।
डपो डिपश्च सङ्घाते प्रोक्तौ तत्रिरथोच्यते।।43।।
कुटुम्बधारणे चान्द्राः कुटुम्बमपरं जगुः।
स्याद्गुप्तभाषणे मत्रिः स्पशः स्यादहणे तथा।।44।।
संश्लेषणे चाथ तर्जो भर्त्सश्चापीह तर्जने।
वस्तो गन्धश्चार्दने स्यात् हिंसायां विष्क ईरितः।।45।।
एके हिष्क इति प्राहुः निष्कस्तु परिमाणवाक्।
बवेच्चलल ईप्सायां वितर्के स्यम ईर्यते।।46।।
गुरीरुद्यमने प्रोक्तः शमो लक्ष उभावपि।
आलोचने कुत्सयतिरवक्षेपण उच्यते।।47।।
त्रुट स्स्याच्छैदने केचित्कुट इत्याहुरत्र तु।
गलः प्रस्रवणे प्रोक्तो भल आभण्डने स्मृतः।।48।।
कूटोऽप्रदाने स्यादेषोऽवसादन इतीतरे।
कुट्टः प्रतापने वञ्चुः प्रलम्भन उदीरितः।।49।।
शक्तिबन्धन आख्यातो वृषस्तच्छक्तचिबन्धनम्‌।
सामर्थ्यं स्यात्प्रजनने शक्तिसम्बन्ध एव च।।50।।
मदस्तु तृत्पियोगेऽथ दिवुः ल स्यात्परिकूजने।
गृर्विज्ञाने विदः प्रोक्तः चेतनायां तथैव च।।51।।
विवासाख्यानयोश्चासौ चतुर्गण्यां प्रपठ्यते।
सत्तायां विद्यते वेत्ति विन्ते विचारणे।।52।।
विन्दते विन्दति प्राप्तौ श्यन्लुक्शनशेष्विदं क्रमात्।
मनस्तम्भे जुगुप्सयां युरयं परिकीर्तितः।।53।।
कुस्म नाम्नो वेति गणसूत्रं ह्यत्र प्रकीर्तितम्।
कुस्मेत्ययं धातुरत्र कुत्सित स्मयनार्थकः।।54।।
चर्चो भवेदध्ययने बुक्कः स्याद्भषणे तथा।
आविष्कारे चोपसर्गाच्छब्दस्स्याद्भाषणे मतः।।55।।
स्यात्तथानुपसर्गाच्च कणः प्रोक्तो निमीलने।
जभिस्स्यान्नाशने षूदः क्षरणे ताडने जसुः।।56।।
पशो बन्धन आख्यातः स्त्वमो रोगे प्रकीर्तितः।
चटस्फुटौ भेदने स्तःसङ्घाते घट ईरितः।।57।।
हन्त्यर्था श्चेत्यत्र गणसूत्रं स्यान्मर्दने दिवुः।
अर्जः स्यात्प्रतियत्नेऽथ घुषिर् प्रोक्तो विशब्दने।।58।।
मोक्षोऽवसाने सम्प्रोक्तोऽवसानं क्षेप उच्यते।
आङः क्रन्दो हि सातत्येऽन्ये घुषं प्राहुराङ्ययुतम्।।59।।
लसः स्याच्छिल्पयोगेऽथालङ्कारे स्यात्तसि स्तथा।
बूषश्चाथ भवेद्घोषोऽसने तत्क्षेपणं मतम्।।60।।
पूजायामर्ह उदितो ज्ञानियोगे प्रकीर्तितः।
भजो विश्राणने प्रोक्तः शृधुः प्रहसने मतः।।61।।
निकारोपस्कारयोः स्यात् यतोऽतास्वादने रकः।
लगश्च रघ इत्येके रग इत्यपरे विदुः।।62।।
अञ्चुर्विशेषणे प्रोक्तः स्यात् चित्रीकरणे लिगिः।
मुदः संसर्ग आख्यात स्त्रसो धारण इष्यते।।63।।
प्राहुर्ग्रहण इत्येके स्याद्वारण इतीतरे।
उञ्छे स्यादुध्र स्य इहोकारो धात्वङ्गमिष्यते।।।64।।
इत्याहुः केचिन्नेत्यन्ये मुचोऽथ स्यात्प्रमोचने।
मोदने च वस स्तु स्यात् स्नेहेऽपहरणे तथा।।65।।
छेदे चाथ चरः प्रोक्तः संशये च्यस्तु कथ्यते।
सहने हसने चैके च्युस इत्यपरे विदुः।।66।।
भुवोऽवकल्कने केचित्तभिश्रीकरणं विदुः।
प्राहुश्चिन्तनामित्यन्ये कृपे श्चात्रैवणिज्भवेत्।।67।।
सकर्मकादिति पदं परस्कृत्यास्पदः पदम्।
गणसूत्रं स्पदिमभिव्याप्य णिच्तु भवेदिह।।68।।
सम्भलत्कर्मकादेवेत्यर्थकं परिचक्षते।
ग्रसस्स्यादहणे स्याण्णिच्फलं ग्रासयतीति हि।।69।।
सुव्यक्त एव विज्ञेयः कर्मणीत्यर्थकं विदुः।
पुषो धारण आख्यातो दलः प्रोक्तो विदारणे।।70।।
पटः पुटो लुटकुटौ तुजि र्मिज पिजी लुजिः।
भजिर्लघिस्त्रसि पिसी कुसि र्दशि कुशि घटः।।71।।
घटि र्बृहि र्बर्ह बल्हौ गुपो धीपायति स्तथा।
विच्छचीवौ योधयतिर्लोकृ लोचृ णदः कुपः।।72।।
लुपस्तर्को वृतु वृधू भाषार्थाः परिकीर्तिताः।
रुटो रजि र्लजि रजि र्दसि र्भृशि रुशि रुसिः।।73।।
शीको नटः पुटपुटी रुचिर्लघि रघी अघिः।
रहि र्महि श्चाथ लडि स्तडिर्नलयतिश्च सः।।74।।
अमी अपि स्युर्भाषार्थाः पूर्वदण्डकगा इव।
अथाप्यायन आख्यातः पूरीर्हिंसार्थको रुजः।।75।।
ष्वद आस्वादने प्रोक्तः स्वाद इत्येक ऊचिरे।
आधृषाद्वा सूत्रमितो धृषान्ता धातवोऽखिलाः।।76।।
णिचं वामी प्राप्नुवन्तीत्यर्थकं गणमध्यगम्।
धातू-इमौ युजपृचौ मतौ संयमनार्थकौ।।77।।
अर्चः पूजार्थकः प्रोक्तः षहो मर्षमे ईरितः।
ईरः क्षेपे भवेल्लीसु स्स्याद्द्रवीकरणार्थकः।।78।।
वृजी स्स्याद्वर्जने वृञ् तु प्रेक्त आवरणार्थकः।
वयोहान्यर्थको जृः स्याज्जिश्च रेचयतिस्तु सः।।79।।
वियोजने तथा सम्पर्चने च परिकर्तितः।
शिषोऽसर्वोपयोगे स्याद्विपूर्वोऽतिशये मतः।।80।।
तपो दाहे तृपस्तृप्तौ सन्दीपन इतीतरे।
छृदीः सन्दपने प्रोक्तः चृप श्छृप दृपावपि।।81।।
स्युः सन्दीपन इत्येके दृभीर्भये उदाहृतः।
दृभ स्सन्दर्भ आख्यातो मोक्षणे श्रथ ईरितः।।82।।
हिंसार्थमन्ये ब्रुवते मीर्गतौ परिकीर्तितः।
ग्रन्थो बन्धन आख्यातः शीक आमर्षणे मतः।।83।।?
चीकश्चाथार्द उदितो हिंसायां स्वरितेदयम्।
हिसिर्हिंसार्थकोऽर्हः स्यात् पूजायामाङ्युतष्षदः।।84।।
पद्यर्थे स्याच्छुन्धयति शौचकर्मणि कीर्तितः।
छदोऽपवारणे प्रोक्तो जुष स्स्यात्परिकर्णने।।85।।
परिकर्णनमूहो वा हिंसा वा परिकीर्तितौ।
परितर्पण इत्यन्ये परितृप्तिक्रिया हि तत्।।86।।
धूञ् कम्पने भवेत्प्रीञ् तु तर्पणे परिकीर्तितः।
श्रन्धो ग्रन्थश्च सन्दर्भ आप्लृ लम्भन ईरितः।।87।।
एकेऽयं सान्त्वन इति स्वरितेदिति केचन।
श्रद्धोपकरणार्थं स्यात्तनु र्दैर्घ्यै भवेदयम्।।88।।
उपसर्गात्परश्चाथ श्रद्धायां कीर्त्यते चनः।
तथोपहसने चेति केचिदाहुर्मनीषिणः।।89।।
वदः सन्देशवचने स्वरितेदयमिष्यते।
एकेऽनुदात्तेदित्याहुर्वचस्स्यात्परिभाषणे।।90।।
पूजायां मान आख्यातो भूः प्राप्तावात्मनेपदी।
गर्हो विनिन्दने प्रोक्तो मार्ग स्त्वन्वेषणार्थकः।।91।।
शोके स्यात्कठिरूत्पूर्व उत्कण्ठायामथो मृजूः।
शौचेऽलङ्कारेऽथमृषस्तितिक्षायां प्रकीर्तितः।।92।।
स्वरितेत्स्यादयमथ धृषः प्रसहने स्मृतः।
आथादन्ताः प्रकथ्यन्ते कथाद्याश्च यथाक्रमम्।।93।।
कथो वाक्यप्रबन्धे स्यादीप्सायांत वर ईरितः।
गणस्सङ्खयान उक्तस्तज्ज्ञानं सङ्खयां निमित्त्तकम्।।94।।
असुद्युग्भाषणे स्यातां शठ श्वठयती उभौ।
पटो वटश्च ग्रन्थे स्यट्ठान्तावित्येक ऊचिरे।।95।।
रहस्त्यागे स्तगनदौ देवशब्दे प्रकीर्तितौ।
पतो गतौ वा णिजन्तो वादन्त इति केचन।।96।।
पषस्त्वनुपसर्गात्स्यीत्स्वर आक्षेप ईरितः।
प्रतियत्ने रचः प्रोक्तः सङ्ख्याने च गतौ कलः।।97।।
परिकल्कनवाची स्याच्चहस्तत्परिकल्कनम्।
दम्अभ श्श्याठ्यं चेह मतं पूजायां मह ईरितः।।98।।
सारः कृपश्श्रथ श्चैते दौर्बल्ये परिकीर्तिताः।
ईप्‌सायां स्यात्स्पृहो भामः क्रोधे सूचयति स्तु सः।।99।।
पैशुन्ये भक्षणे खेटः तृतीयान्तं परे विदुः।
अन्ये खोट इति प्राहु क्षोटः क्षेपे प्रकीर्तितः।।100।।
उपलेपे गोम उक्तः क्रीडायां परिकीर्त्यते।
कुमारोऽथोच्यते शील उपधारणाबोधकः।।101।।
उपधारणभ्यासः सामस्सान्त्वप्रयोजने।
वेलः कालोपदेशे स्यात्कालं धात्वन्तरं विदुः।।102।।
लवने पवने चैव पल्पूलः परिकीर्तितः।
सुखसेवनयोर्वातः सेवागत्योरितीतरे।।103।।
गवेषः स्यान्मार्गँणेऽथोपसेवायां प्रकीर्त्यते।
वासोऽथाच्छादने प्रोक्तो निवासोऽथ पृथक्कृतौ।।104।।
भाजोऽथ दर्शने प्रीतौ सभाजः परिकथ्यते।
प्रीतौ सेवन इष्यते परिहाणे निगद्यते।।105।।
ऊनोऽथ स्याद्‌ध्वनश्शब्दे कूटस्तु परितापवाक्।
परिदाहेऽयमित्येके सङ्केतो ग्राम एव च।।106।।
कुणो गुणश्च सम्प्रोक्ता अमी आमन्त्रणार्थकाः।
चात्कूटोऽपि समानार्थः पाठान्तरमपीष्यते।।107।।
केतो निकेतश्च भवेच्छ्रावणे च निमन्त्रणे।
कुणो गुणश्चेह तथाऽऽमन्त्रणे समुदीरितौ।।108।।
चात्केतकूटौ कूणः स्यात् ग्रहणेऽन्वेषणे मृगः।
स्तेन श्चौर्ये ह्यथागर्वादात्मनेपदिनो मताः।।109।।
पदो गतौ गृहस्तु स्यात् ग्रहणेऽन्वेषणे मृगः।
कुहो विस्मापने शूरवीरौ विक्रन्तिबोधकौ।।110।।
भवेत् स्थूलयति स्त्वत्र परिबृंहणवाचकः।
अर्थः स्यादुपयाञ्चायां सत्रस्सन्तामकर्मणि।।111।।
गर्वो माने भवेत्सूत्रो वेष्टने परिकीर्तितः।
मूत्रः प्रस्रवणे प्रोक्तः रूक्षः पारुष्य ईरितः।।112।।
पारस्तीर उभौ कर्मसमाप्तेः प्रतिबोधकौ।
उत्सर्गे स्यात्पुटो धेको दर्शनार्थ इतीतरे।।113।।
शैथिल्ये स्यात्कत्रयतिः कर्त इत्येक ऊचिरे।
स्यात्पर्तिपदिताद्‌धातो रर्थे बहुलमिष्टवत्।।114।।
तत्करोति तदाचष्टे तेनातिक्रामतीति च।
धातुरूपं चाथ कर्तृकरणप्रतिबोधकात्।।115।।
धात्वर्थे णिजितीमानि गणसूत्राणि पञ्च हि।
बष्को दर्शन आख्यात श्चित्रश्चित्रीकृतौ मतः।।116।।
कदाचिद्दर्शने तत्तु भवेदद्भुतदर्शनम्।
अथांसनामको धातुः समाघाते प्रकीर्तितः।।117।।
वटो विभाजने प्रोक्तो लजस्तु स्यात्प्रकाशने।
वटिर्लजिरिति ह्येके मिश्रस्सम्पर्कबोधकः।।118।।
सङ्ग्रामो युद्ध आख्यातो ह्यनुदात्तानुबन्धकः।
श्लाघायां स्तोम उदितः छिद्रकर्णौ तु भेदने।।119।।
कर्णच्छेदन इत्येके कर्णं धात्वन्तरं परे।
अन्दो दृष्ट्यापघाते स्यादुपसंहार वाच्ययम्।।120।।
इत्यन्ते चक्षते दण्डः प्रोक्तो दण्ड निपातने।
अङ्कः पदे लक्षणे चाप्यङ्गश्च परिकथ्यते।।121।।
सुखदुःखौ तत्क्रियायां रस आस्वादने तथा।
स्नेहने च व्ययो वित्तसमुत्सर्गे प्रकीर्तितः।।122।।
रूपो रूपक्रियायां स्याद्रूपस्येह हि दर्शनम्।
रूपक्रियेति सम्प्रोक्तं रूपस्य कृतिरेव वा।।123।।
छेदो द्वैधीकृतौ प्रोक्तः छद उक्तोऽपवारणे।
इत्येके कथयन्तीह लाभस्स्यात्प्रेरणार्थकः।।124।।
व्रणस्त्विह भवेद्गात्रविचूर्णनविबोधकः।
वर्णो वर्णक्रियायां स्याद्विस्तारे च गुणोक्तचिषु।।125।।
एतन्निदर्शनमिह बहुलं गणसूत्रकम्।
अन्येऽपि धातवो बोध्या इह बाहुलकाद्यथा।।126।।
पर्णो हरितभावे स्याद्विष्को दर्शने इष्यते।
क्षपस्तु प्रेरणे बोध्यो निवासे वस इत्यपि।।127।।
तुत्थ आवरणे बोध्या एवमन्येऽपि धातवः।
णिडङ्गात्स्यान्निरसन इत्येतद्गणसूत्रकम्।।128।।
(श्वेताश्वाश्वतरगालोडिताह्वारकाणामश्वतरे-
तक लोपश्च पुच्छादिषु धात्वर्थ इत्येव सिद्धम्।
गणसूत्रे इमे स्यातां ग्रन्थान्ते मङ्गलार्थकः।।
सिद्धशब्द इति ज्ञेयमत्रैवं सर्वधातवः।
कारिकाभिस्सुसंगृह्य कथिता बालतुष्टये।।)
इति चुरादयः
अथ कण्ड्वादयः
कण्डूञ् गात्रविघर्षे स्यान्मन्तुराग (सि) प्रकीर्तितः।
एके रोष इति प्राहुः चन्द्र आह ञि दित्यमुम्।।1।।
पूजामाधुर्ययो र्वल्गुरुपतापेऽसुरीरितः।
अस सूञिति चैकेऽथ लेट् लोटौ स्वप्न धौर्त्ययोः।।2।।
पूर्वभावे चाथ दीप्तावित्येके प्रवदन्ति हि।
लेला दीप्तावथेर्ष्यायामिरस् चेरजिरञ् तथा।।3।।
उषस् प्रभातभावे स्याद्वेदस्स्यात्स्वप्नधोर्त्ययोः।
आशुग्रहण वाची स्यन्मेधाः क्षेपे कुषुभ्यतिः।।4।।
नीचः स्याद्दास्य इत्यन्ये मगधः परिवेष्टने।
तन्तस् पम्पसिमौ दुःखे तत्क्रियायां तु कीर्तितौ।।5।।
सुखदुःखावथ बुधैः पूजायां स परो मतः।
आरायाः कर्मणि भवेदररोऽथ चिकित्सने।।6।।
बिषक्स्यादथ भिष्णज् तूपसेवायां प्रकीर्तितः।
इषुधस्स्याच्छरधृतौ चरणो वरणो गतौ।।7।।
चुरणश्चौर्य आख्यातस्त्वरायां तुरणस्स्मृतः।
धारणे पोषणे च स्याद्भुरणो गद्गदस्तु सः।।8।।
वाक्स्खालित्ये ऽथस्युरेळा केला खेला विलासेन।
इल इत्यपरे प्राहुः लेखा स्यात्स्खलनेऽपि च।।9।।
अदन्तोऽयमिति त्वन्ये ह्यल्पकुत्सनयोर्लिटः।
लाजो जीवन आख्यातो लज्जारोषणयोर्हृणीङ्।।10।।
पूजायां स्यान्महीङ् रेखा श्लाघायां साधनेऽपि च।
परितापे चापि परिचरणे च द्रवस्स्मृतः।।11।।
तिरत्स्वन्तर्धिवाची स्यान्नीरोगत्वेऽगदो मतः।
उरस्तु स्याद्बलार्थोऽथ गतौ तरण ईरितः।।12
पयस्प्रसृतिवाची स्यात्सम्भूय सथ चेष्यते।
प्रभूतत्वे सम्भरणे संवरोऽम्बर एव च।।13।।
कण्ड्वादिराकृतिगणः प़ञ्चाशदुपलक्षणः।
तेन स्यात्समरो युद्धे लाटो ग्रहण ईरितः।।14।।
मर्यादायां भवेद्वेला नमस्पूजार्थको मृगः।
अन्वेषणे जनस्तु स्यात्परितापार्थकस्तथा।।15।।
परिचर्यार्थकश्चापीत्यादीनामुपसङ्गहः।
अञि न्ङितोऽत्र सर्वेऽपि परस्मैपदिनो मताः।।16।।
। इति कण्ड्वादयः ।
उदात्ता अनुदात्ताश्चेत्येवं द्वेधा हि धातवः।
उदात्तोभ्यो वलाद्यार्थधातुकस्येड्भवेदिह।।1।।
न स स्यादमुदात्तेभ्योऽतस्सह्गृह्य पुरातनैः।
पठिताः कारिकाभिस्ते कथ्यन्ते धातवः क्रमात्।।2।।
उदृदन्तै र्यौतिरु क्ष्णु शीङ् ष्णु, णु, क्षु, श्वि, डीङ्, श्रिभिः।
वृङ्वृञ्भ्यां च विनैकाचोऽजन्तेषु निहता स्सृताः।।3।।
शक्ल पच्,मुच्,रिच्,वच्,विच्,विच्,सिङ्,प्रच्च्छ,त्यज्, निजिर, भजः।
भञ्ज्,भुज्, भ्रस्ज्, मस्जि, यज्, युज्, रुज्, रञ्ज्, विजिर्, स्वञ्जि सञ्ज् सुजः।।4।।
अद्,क्षुद्,खिद्,छिद्, तुदि,नुदः पद्य भिद्, विद्यति र्विनिद्।
शद्, सदी,स्विद्यति स्स्कन्दि हदी, क्रुध्, क्षुधि,बुध्यती।।5।।
बन्धि र्युधि रुधी, राधिव्यध्, शुधः साधिः सिध्यती।।6।।
मन्य,हन्न्,आप्,क्षिप्,छुपि,तप्,तिप,स्तृप्यति,दृप्यती।
लिप्,लुप्,वप्,शप्,स्वप्,सृपि यभ्,रभ्,लभ्,गम्,नम्,यमो,रमिः।
क्रुशि,र्दंशि, दिशी,दृश्,मृश्,रिश्,रुश्,लिश्,विश्,स्पृशः कृषिः।।7।।
त्विष्,तुष्,द्विष्,दुष्,पुष्य,पिष्,विष्,शिष्,शुष्, श्लिष्यतयो घसिः।
वसति र्दह,दिहि,दुह नल्, मिल्,रुल्, लिल्, वहिस्तथा।।8।।
अनुदात्ता हलन्तेषु धातवो द्‌व्यधिकं शतम्।
कचच्छजादधनपाभमशाष्षसहाः क्रमात्।।9।।
कचकाणणटाः खण्डो गघञाष्टखजास्स्मृताः।
तुदादौ मतभेदेन स्थितौ यौ च चुरादिषु।।10।।
तृप्,दृपी तौ वारयितुं श्यनानिर्देश आदृतः।
किञ्च-
स्विद्यपद्यौ सिध्यबुध्यौ मन्यपुष्य श्लिषश्श्यना।।11।।
वसिश्शपालुकायौ तिर्निर्दिष्टोऽन्यनिवृत्तये।
णिजिर्,विजिर्,शक्ल इति सानुबन्धा अमी तथा।।12।।
विदन्ति श्चन्द्र दौर्गादेरिष्टो भाष्येऽपि दृश्यते।
व्याघ्रभूत्यादयस्त्वेनं नेह पेठुरिति स्थितम्।।13।।
ऱञ्जि मस्जी अदि पदी, तुद् क्षुध्, शुषि पुषी, शिषिः।
भाष्यानुक्ता न वेहोक्ता व्याघ्र भूत्यादिसम्मतेः।।14।।
इति धातुकारिका समाप्ता।

"https://sa.wikisource.org/w/index.php?title=धातुकारिका&oldid=401876" इत्यस्माद् प्रतिप्राप्तम्