धातुकाव्यम्
नारायण भट्टतिरि
१९१५

धातुकाव्यम् ।

स्मरत हरेर्मधुरतरं मुरलीनिनदामृतं हि शब्दमयम् । पदयुगलं च भवान्या महिषारेर्मुक्तिनिलयवासिन्याः ॥ गुरुपादाब्जसंसेवानितान्त विमलाशयैः । सतीर्थ्यैरद्य लिख्यन्ते धातुकाव्यार्थलोचनाः ॥

अथ वासुदेवकविविरचितस्य वासुदेवविजयाभिधस्य काव्यरत्नस्य शेषपरिपूरणाय चिकीर्षितं प्रतिजानीते--

उदाहृतं पाणिनिसूत्रमण्डलं प्राग्वासुदेवेन तदूर्ध्वतोऽपरः । उदाहरत्यद्य वृकोदरोदितान्धातून्क्रमेणैव हि माधवाश्रयात् ॥ १ ॥

वासुदेवेन प्राक् पाणिनिसूत्रमण्डलमुदाहृतम् । अद्यापरस्तदूर्ध्वतो धातूनुदाहरति इत्य- १२२ काव्यमाला ।

न्वयः । वासुदेवो नाम केरलेषु पुरुवनग्रामजन्मा कश्चिद् द्विजन्मा । पाणिनेः सूत्राणि पाणिनिसूत्राणि तेषां मण्डलं समूहः उदाहृतमुदाहरणैः प्रकाशीकृतम् । अपर इत्यौद्धत्यपरिहाराय नामानुक्तिः । तदूर्ध्वत इति सप्तम्यर्थे तसिः। तस्य सूत्रोदाहरणस्योर्ध्वभागे धातूनुदाहरतीत्यर्थः । अन्योदाहरणकाव्येषु क्वचिदप्यदृष्टमिदमितीहातिशयं प्रतिपादयति--क्रमेणैवेति । अयं भावः-अस्ति तावद्दुर्लभप्रयोगाणामखिलधातूनामक्रमेणाप्येकत्रावगमे जिज्ञासूनां महानुपयोगः । इह पुनः क्रमेणैवोदाहरणादेतस्मिन् प्रकरणभागे एतावति योऽयं धातुरिति सम्यगवगम्यमाने श्रोतृजनस्य कौतुकातिशयः किमु वक्तव्य इति । हिशब्देन च क्रमेणैवेत्यस्यातुद्भूतत्वं सूचयतान्यान्यपि गणविभजनादीनि दुष्करतराण्यद्भुतान्यत्र भविष्यन्तीति सूचयति ॥ ननु धातुपाठानां बहुत्वात् कोऽयं क्रमोऽस्मिन्नाश्रीयत इत्यत्राह-वृकोदरोदितानिति । भीमसेनप्रणीतानित्यर्थः । न च भीमसेनप्रणीतत्वं प्रसिद्धिमात्रत्वादप्रामाणिकमिति मन्तव्यम् । 'तस्माद् भीमसेनस्याप्ययमेव पाठो युक्तः' इति पुरुषकार एव कथितत्वात् । ननु भीमसेनपाठस्यापि मैत्रेयादिधातुवृत्तिभेदकृतैः मतभेदादिभिः व्याकुलत्वाद् दुःसाधमुदाहरणमित्याशङ्कयाह--माधवाश्रयादिति । माधवो नाम धातुवृत्तिकारः । तेन तद्रचितो ग्रन्थो लक्षणीयः । तद्रूपस्याश्रयस्यावलम्बस्य सद्भावादयमुदाहरति । अतो न दुःसाधत्वमिति । किं च । माधवस्य लक्ष्मीवल्लभस्य मधुकुलावतीर्णस्य पूर्णब्रह्मणः आश्रयात् सर्वात्मना शरीरकरणात् तत्करुणयैवेदं क्रियते । अतो न दुःसाधत्वमिति भावः । अपि च । माधव एवाश्रयः प्रतिपाद्यः । तस्माद्धेतोरेवेदं क्रियते । अतो माधवविषयकथाकथनचिन्तनाद्यर्थमेव क्रियमाणत्वात् सदोषमपि खेदाय न भवतीति भावः । एवं च माधवाश्रयादित्यनेनैवेष्टदेवतानुस्मरणमपि कृतं वेदितव्यम् । 'कंसहिंसाप्रबन्धार्थो वीरभक्त्यादयो रसाः । त्रिभिर्दिनैः कृतं कर्म त्रिभिः सर्गैश्च कथ्यते ॥ अक्रूरयोगो यात्रादिचापच्छेदान्तचेष्टितम् । मल्लोद्योगादिकं सान्तपर्यन्तं च त्र्यहे कृतम् ॥ धातुपाठे च भूवादिभूयान् भवति तत्र च । अगणः प्रथमो भागो द्यूताद्यो गणवान् परः ॥ अनयो रगणो भागः प्रथमः सर्ग उच्यते । द्वितीयभागमारभ्य तुदाद्यन्तं द्वितीयके ॥ रुधादितश्चुराद्यन्तं तृतीयेनोपवर्ण्यते । व्यज्यते गणभेदादिः कथाभेदादिलाञ्छनैः ॥ तात्पर्यभेदाद्योज्यन्ते तुल्यार्था अपि धातवः ॥'

अथैवंभूतं काव्यमारभते-- स गान्दिनीभूरथ गोकुलैधितं स्पर्धालुधीगाधितकार्यबाधिनम् । द्रक्ष्यन्हरिं नाधितलोकनाथकं देधे मुदास्कुन्दित्तमन्तरिन्द्रियम् ॥२॥ अथ स गान्दिनीभूर्हरिं द्रक्ष्यन् अन्तरिन्द्रियं मुदास्कुन्दितं देधे । अथ श्रीकृष्णानयनार्थं कंसनियोगानन्तरं स तत्तादृशभगवद्भक्तिशाली गान्दिनीतो भवत्युत्पद्यते इति गान्दिनीभूरक्रूरः। गान्दिनी श्ववल्कभार्या । द्रक्ष्यन्निति भविष्यत्प्रत्ययस्यात्रासन्नभविष्यत्काल-


१. 'शरणीकरणात् पाठः.

२. 'माश्रित्य पाठः. धातुकाव्यम् । १२३ परत्वाद् द्रष्टुमारब्ध इत्यर्थः । भोक्ष्यमाण आचरतीतिवत् । अन्तरिन्द्रियं मनः । तदानीमाभ्यन्तरतमे भगवद्रूपे एवात्याविष्टत्वेन बहिर्मनोवृत्तीनामसत्प्रायत्वात् अन्तरिन्द्रियत्वमेव मनसो जातमिति भावः । मुदि संतोषे समुद्रस्थानीये आस्कुन्दितमाप्लुतं स्नातं निमग्नमित्यर्थः । मुदायां स्कुन्दितमिति वा । हलन्तादपि वा टाप् स्यात् इत्याकारान्तस्यापि मुदाशब्दस्य सद्भावात् । अथवा मुदा हेतुना उत्प्लुत्य गतं कृतनर्तनमित्यर्थः । यद्वा मुदा कर्त्र्या उद्धृतमुन्नमितं वर्धितमिति यावत् । कीदृशं हरिं इत्यत्राह--गोकुलैधितं गोकुले प्रवृद्धम् । गोकुलं गोष्ठः । स्पर्धालुधीगाधितकार्यबाधिनं स्पर्धालूनां स्पर्धावतां धियि बुद्धौ गाधितं प्रतिष्ठितं लब्धस्थानमित्यर्थः । लिप्सतं वा कार्यं बाधितुं शीलं यस्य तम् । नाधितलोकनायक नाघितलोकस्य उपतृप्तजनस्य नाथकमीशितारं रक्षकमित्यर्थः । नाधितस्य प्रार्थितस्य निजलोकस्य आशीरूपेणानुग्रहितारं वा ॥-गान्दिनीभूरिति । गान्दिन्या भवत्युत्पद्यत इति गान्दिनीभूः । १ भू सत्तायाम् । उदात्तः परस्मैभाषः । अस्मात् 'क्विप् च' इति क्विप् । एधितमिति । २ एध वृद्धौ । एतदादयः कत्थान्ता उदात्ता अनुदात्तेतः। अस्मात् 'गत्यर्थाकर्मक-' इत्यादिना कर्तरि क्तः । स्पर्धालुरिति । ३ स्पर्ध संघर्षे । संघर्षः पराभिभवेच्छा । पराभिभवस्य धात्वर्थान्तर्भावादकर्मकः । अस्माद् 'गुरोश्च हलः' इत्यप्रत्यये स्पर्धा । स्पर्धा लात्यादत्ते मितद्र्वादित्वाद्डुः। ४ गाधृ प्रतिष्ठालिप्सयोर्ग्रन्थे च । आत्मयापनास्थानलाभश्च प्रतिष्ठा । एकत्र स्थापनं संदर्भो वा ग्रन्थः । संदर्भः शब्दविषयोऽर्थविषयोऽपि । अस्मात् कर्तरि कर्मणि वा क्तः । कार्यबाधिनमिति । ५ बाधृ लोडने। लोडनं प्रतिघातः । अस्मात् 'सुप्यजातौ णिनिः' इति णिनिः। नाधितलोकनाथकमिति । ६ नाधृ ७ नाथृ याञ्चोपतापैश्वर्याशीःषु । ऐश्वर्यमाधिपत्यं नियन्तृत्वं च । 'नृति-नन्दि-नार्द्दि-नक्कि-नाटि नाधृ-नाथृ-नृवर्जिताः सर्वे नादयो णोपदेशाः' इत्युक्त्या द्वावप्यणोपदेशौ । आद्यो णोपदेश इत्येके । आद्यात् कर्तरि कर्मणि वा क्तः द्वितीयाण् ण्वुल् । देधे । ८ दध धारणे । लिट् । स्कुन्दितम् । ९ स्कुदि आप्रवणे । आप्रवणमाप्लवनमुत्प्लुत्य गमनं वा । उद्धरणं बा । अस्मादिदित्त्वान्नुमि प्राग्वत् क्तः ॥

यद्यस्य भगवतीयान् प्रेमातिशयः तर्हि कथं पूर्वमेव न प्रस्थितवान् इत्यत्राह--- प्रश्विन्दिताशं यशसा पुराप्यसौ विवन्दिषुस्तं नतभन्दिनं विभुम् । स्वमन्दिरात्स्पन्दितुमेव नाशकत्कंसात्परिक्लिन्दितसज्जनाद्भिया ॥३॥ अपिरुभयत्र योजनीयः। असौ पुरा अपि तं विभुं विवन्दिषुरपि स्वमन्दिरात् स्पन्दितुमेव नाशकत् । असावक्रूरः । पुरापि पुरैव विवन्दिषुर्वन्दितुमिच्छुः । इहापिर्विरोधे । स्पन्दितुं किंचिदपि चलितुं नाशकत् न शक्तोऽभूत् । कीदृशम् । यशसा प्रश्विन्दिताशं प्रश्विन्दिताः सम्यग्धवलीकृता आशा दिशो येन तम् । नतभन्दिनं नतान् नमनकर्तॄन् भन्दयितुं सुखयितुं कल्याणवतः कर्तुं वा शीलं यस्य तम् । कंसात् भिया । हेतौ तृतीया ।


१. 'लोटने पाठः. १२४ काव्यमाला ।

कीदृशान् ! परिक्लिन्दितसज्जनात् । परिक्लिन्दिताः परिदेविता: सज्जना येन तस्मात्॥-प्रश्विन्दितेति। १० श्विदि श्वैत्ये । णिजन्तात् कर्मणि क्तः । विवन्दिषुरिति । ११ वदि अभिवादनस्तुत्योः। प्रणतिपूर्वकमाशीर्वचनं नतिमात्रं वाभिवादनम् । अस्मात् सन्नन्तात् 'सनाशंसभिक्ष उः' इत्युप्रत्ययः । नतभन्दिनमिति । १२ भदि कल्याणे सुखे च । कल्याणं कल्याणवद्भावः । अस्माण्णिजन्ताण् णिनिः । मन्दिरादिति । १३ मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु । स्वप्न आलस्यम् । अस्मादधिकरणार्थे 'इषि-मदि-मुदि-खिदि-श्विदि-मिदि-मन्दि' इत्यादिना किरच् । स्पन्दितुमिति । १४ स्पदि किंचिच्चलने । तस्मात् 'शकधृष-'इत्यादिना तुमुन् । परिक्लिन्दितेति। १५ क्लिदि परिदेवने। अस्माण्णिजन्तात् कर्मणि क्तः ॥

अस्य संतोषातिशयं दर्शयति- मुदा स चेतो दददे चिरं हरौ स्वादात्सुरैः स्वर्दितमङ्गलोर्दने । अकूर्दतेवास्य पुरः स्वखूर्दकैर्वनान्तगूर्दी रिपुगोदसूद्यसौ ॥ स मुदा चिरं हरौ चेतो दददे। मुदा हेतुना दददे समर्पितवान् । स्वादात् माधुर्यात् हेतोः सुरैः स्वर्दितमङ्गलोर्दने स्वर्दितानि आस्वादितानि मङ्गलरूपाण्यूर्दनानि क्रीडनानि यस्य तस्मिन् । मनोलयस्यातिशयमाह-असौ अस्य पुरः स्वखूर्दकैरकूर्दतेव । असौ हरिः स्वखुर्दकैः स्वकीयैः क्रीडनकैर्वयस्यैरित्यर्थः । सहार्थे तृतीया । अकूर्दत क्रीडितवान् । वनान्तगूर्दी वनान्ते वनमध्ये गूर्दितुं क्रीडितुं शीलं यस्य सः । रिपुगोदसूदी रिपूणां गोदं क्रीडां सूदितुं हिंसितुं शीलं यस्य॥--मुदा । १६ मुद हर्षे । अस्मात् संपदादिक्विप् । दददे । १७ दद दाने । धारणे च कल्पद्रुमे । अस्माल्लिटि 'न शसदद-' इत्येत्वाभ्यासलोपाभावः । स्वादात् । १८ स्वद १९ स्वर्द आस्वादने । आस्वादमनुभवः । 'धात्वादेः षः सः' । स्वदेर्घञ् । स्वर्दितेति कर्मणि क्तः । अनयो राघःषोपदेशः । अन्यो नः। अदन्त्य(?)पराः सादयः षोपदेशाः । स्मिड्-स्विदि-स्वदि-स्वञ्जि-स्वपयश्च' इत्युक्तेः । ऊर्दनेति । २० उर्द माने क्रीडायां च । अस्माल्ल्युटि । 'उपधायां च' इति दीर्घः । अकूर्दतेति । २१ कुर्द २२ खुर्द २३ गुर्द २४ गुद क्रीडायामेव । कुर्देर्लङ् । खूर्दकैः खूर्देण्वुल् । वनान्तगूर्दी । रिपुगोदसूदी । गूर्देर्णिनिः । गुदेश्च घञ् । २५ षूद क्षरणे । निःसरणं तदहिंसार्थेऽप्यस्ति अस्माण्णिनिः ॥

गभीरनिर्ह्लादमथास्थितो रथं ह्लदादनुस्वादितकृष्णसत्कथः । पृदाकुजिद्वेगमयत्नतो ययौ वियोयुतत्काननजोतिनाध्वना ॥ ५ ॥ अथ स रथमास्थितोऽयत्नतो वियोयुतत् काननजोतिनाध्वना पृदाकुजिद्वेगं ययौ । आस्थितः आरुह्य स्थितः । अयत्नतोऽप्रयासेन । वियोयुतत् काननजोतिना वियोयुतता अत्यर्थे भासमानेन काननेन जोतितुं भासितुं शीलं यस्य तेन । पृदाकुजिद्वेगम् । फूत्कारा-


१. 'दन्त्याजन्तसादयः' इति फलितोऽर्थः. धातुकाव्यम् । १२५

दिकुत्सितशब्दकरणात् पृदाकुः सर्पः । तं जयतीति पृदाकुजित् गरुडः । तस्य वेग इव वेगो यस्य इति क्रियाविशेषणं रथविशेषणं वा । गभीरनिर्ह्रादं गभीरो निर्ह्रादो ध्वनिः यस्य तं रथम् । ह्लादादनुस्वादितकृष्णसत्कथः । ह्लादात् सुखेन हेतुना अनुस्वादिताः पुनःपुनश्चर्व्य॑माणाः कृष्णस्य सत्कथाः येन सः ॥-निर्ह्रादमिति । २६ ह्राद अव्यक्ते शब्दे । अस्माद् घञ् । ह्लादात् । २७ ह्लादी सुखे च । चादव्यक्तशब्देऽपि । अस्मादपि धञ् । अनुस्वादितेति । २८ स्वाद आस्वादने । कर्मणि क्तः । पृदाकुरिति । २९ पर्द कुत्सिते शब्दे । अस्मात् 'पर्देर्नित्संप्रसारणमल्लोपश्च' इत्याकुप्रत्ययो रेफस्य संप्रसारणं पकारस्थिताकारस्य लोपश्चायत्नतः । ३० यती प्रयत्ने । अस्माद् 'यजयाचयत-'इति नड्प्रत्ययः । वियोयुतदिति । ३१ युतृ ३२ जुतृ भासने । युतेः यड्लुगन्ताच्छता । जोतिना । जुतेर्णिनिः ॥

एवं गोकुलं प्रति प्रस्थितोऽक्रूरो निजेप्सितप्रतिबन्धमाशङ्कमानः प्रार्थयते-- स वेथते स्माखिलवेथितं विधिं प्रश्रन्थितग्रन्थनधीरकत्थनः । अतेन्मुरारिर्मम चिन्मयोऽन्तिके च्योतन्दिशः प्रश्च्युतितैः स्मितामृतैः ६ स विधि वेथते स । विधिमीश्वरं वेथते स्म प्रार्थितवान् । अखिलवेथितं सर्वजनैः प्रार्थितमिति विधिविशेषणं प्रधानकर्म वा। प्रश्नन्थितमन्थनधीः प्रकर्षेण श्रन्थितं शिथिलीभूतं ग्रन्थनं कौटिल्यं यस्यास्तादृशी धीर्यस्य सः । अकत्थनः । न कत्थनमात्मश्लाघाशीलं यस्य सः । अस्य विष्णोः श्लाघाशील इति वा । प्रार्थनीयमेवाह-मुरारिर्ममान्तिके अतेत् सततं गच्छेत् । चिन्मयो ज्ञानस्वरूपः । प्रश्चयुतितैः स्मितामृतैर्दिशश्च्योतन् । प्रश्च्युतितैर्गलितैः । च्योतन् आसिञ्चन् ॥--वेथत इति । ३३ विथृ ३४ वेथृ याचने । विथेः 'लट् स्मे' इति भूते लट् । वेथितम् । वेथेः कर्मणि कः प्रश्रन्थितेति । ३५ श्रथि शैथिल्ये । तच्च विशिष्टता अगाधता वा । अस्मात् कर्तरि क्तः । ग्रन्थनेति । ३६ ग्रथि कौटिल्ये । शाठ्यं वक्रता वा तत् । अस्माल्ल्युट् । अकत्थन इति । ३७ कत्थ श्लाघायाम् । सा च परविषया स्वविषया च स्यात् । अस्माद् 'अनुदात्तेतश्च-' इति युच् । अत्र युजन्तोक्त्या तवर्गान्तानुदात्तेतां समाप्तिः सूचिता । अतेदिति । ३८ अत सातत्यगमने। शुन्धन्ता उदात्ताः उदात्तेतः । अस्माल्लिड् । उदात्तेत् प्रकरणारम्भर्कद्योतकमिदम् । चिन्मय इति । ३९ चिती संज्ञाने । तच्च चैतन्यं स्मरणं च । भट्टिमते(?) ज्ञानमात्रं च । अस्मात् संपदादिक्किबन्तान्मयट् । तद्रूप इति केचित् । इति कौमुद्युक्तेः । ताद्रूप्ये मयट् । च्योतन् । ४० च्युतिर् आसेचने । आर्द्रीभवनं तत् । अस्माच्छता । प्रश्च्युतितैरिति । ४१ श्च्युतिर् क्षरणे। स्रुतिस्तत् । अस्मात् कर्तरि क्तः॥

कंसं प्रति हितानुक्तिदोषेण प्रार्थनप्रतिबन्धमाशङ्कय परिहरति- ममन्थ विश्वं सुजनानकुन्थकान्प्रपुन्थ्य बन्धूनपि लुन्थति स्म यः । स भोजराडद्य हरिं मिमन्धिषुः प्रमान्थनं सेधतु को निषेत्स्यति ॥७॥


१. 'प्रार्थितप्रतिबन्ध' पाठः, १२६ काव्यमाला । यो विश्वं ममन्थ क्षोभितवान् । अकुन्थकान् सुजनान् प्रपुन्थ्य बन्धूनपि लुन्थति स्म अकुन्थकान् अहिस्रकान् प्रपुन्थ्य हिंसित्वा क्लेशयित्वा वा लुन्थति स्म हृतवान् । स भोजराट् अद्य हरि मिमन्थिषुः प्रमान्थनं सेधतु कः निषेत्स्यति । मिमन्थिषुर्हन्तुमिच्छुः । प्रमान्थनं हिंसां सेधतु प्राप्नोतु ॥-ममन्थेति । ४२ मन्थ विलोडने । क्षोभणं तत् । अस्माल्लिट् । अकुन्थकानिति । ४३ कुथि ४४ पुथि ४५ लुथि ४६ मथि ४७ मान्थ हिसासंक्लेशनयोः । कुन्थेर्ण्वुल् । प्रपुन्थ्येति । पुन्थेर्ल्य॑प् । लुन्थति । लुन्थेर्भूते लट् । मिमन्थिषुः । मन्थेः सनि उप्रत्ययः । प्रमान्थनम् । मान्थेर्ल्युट् । सेधतु । ४८ षिध गत्याम् । अतिसर्गे प्राप्तकाले वा लोट् । निषेत्स्यति । ४९ षिधू शास्त्रे माङ्गल्ये च । शास्त्रं शास्त्रगतं शासनं शासनमात्रं वा । माङ्गल्यं मङ्गलक्रिया । अस्माल्लृट् ॥

पलान्यखाद्यानि खदन्बदद्वपुर्गदन्नवाच्यानि रदन्सतां मनः । नदन्मदादर्दितसंक्षयोऽधुना क्षणं खलो नर्दतु गर्दभस्वरैः ॥ ८ ॥ खल एषोऽधुना गर्दभस्वरैः क्षणं नर्दतु । गर्दभस्वरैगर्दभसदृशैः स्वरैः । क्षणं 'कालाध्वनोः' इति द्वितीया । नर्दतु शब्दं करोतु । अखाद्यानि पलानि खदन् अभक्ष्याणि मांसानि भक्षयन् । अत एव बदद्वपुः स्थिरीभवद्देहः अवाच्यानि गदन् सतां मनः रदन विलिखन् पीडयन् मदात् नदन् । अत एव अर्दितसंक्षयः अर्दितः प्राप्तः सर्वैः प्रार्थितो वा संक्षयो नाशो यस्य सः ॥-अखाद्यानीति । ५० खादृ भक्षणे । अस्माद् ण्यत् । खदन्निति । ५१ खद स्थैर्ये हिसायां च । चाद्भक्षणेऽपि । वदन्निति । ५२ बद स्थैर्ये । गदन्निति । ५३ गद व्यक्तायां वाचि । रदन्निति । ५४ रद विलेखने । तच्च विदारणं क्षोभणं वा । नदन्निति । ५५ णद अव्यक्ते शब्दे । 'णो नः' एभ्यः शता । अर्दितेति । ५६ अर्द गतौ याचने च । अम्मात् कर्मणि क्तः। नर्दत्विति । ५७ नर्द ५८ गर्द शब्दे । नर्देरतिसर्गे लोट् । गर्दभ इति । 'कृशॄशलिगर्दिभ्योऽभच्' इत्यभच्प्रत्ययः ॥

अतर्दकास्त्वद्य विकर्दमाशया: प्रखर्दवृत्तैरसमन्तितान्तिकाः । श्रुतान्दुकैश्चित्तगजेन्द्ररोधिनस्तुष्यन्तु सन्तो गुणबिन्दुलोलुपाः ॥९॥ सन्तोऽद्य तुष्यन्तु । अतर्दका अहिसकाः । विकर्दमो विगतदोष आशयो येषां ते । प्रखर्दवृत्तैः क्रूरव्यापारैरसमन्तितमसंबद्धमन्तिकं येषां ते । श्रुतान्दुकैः शास्त्ररूपैरन्दुकैः पादकटकैः चित्तरूपं गजेन्द्रं रोद्धुं शीलं येषां ते । गुणस्य बिन्दौ लेशे लोलुपाः सश्रद्धाः॥-अतर्दका इति । ५९ तर्द हिसायां । ण्वुल् । विकर्दमेति । ६० कर्द कुत्सिते शब्दे । बाहुलकात् औणादिकोऽमच् । प्रखर्देति । ६१ खर्द दन्दशूके । दन्दशक इति तत्कर्तृकं धातुकाव्यम् । १२७

दंशनमुक्तम् । अस्मात् पचाद्यत् । असमन्तितेति । ६२ अति ६३ अदि बन्धने । अन्तेः कर्मणि क्तः । अन्दुकेति । 'अन्दूदृम्भूकफेलूकर्कन्धूदिधिषू' इत्यूप्रत्ययान्ता अन्देः स्वार्थे कनि । 'केऽणः' इति ह्रस्वः । इन्द्रेति । ६४ इदि परमैश्वर्ये । अस्माद् 'ऋज्रेन्द्र-'इत्यादिना निपातितो रन् । बिन्दुरिति । ६५ बिदि अवयवे । बाहुलकादुप्रत्ययः ॥

मनोज्ञगण्डं तमनिन्दिताननं नन्दात्मजं शारदचन्द्रशीतलम् । पराक्रमत्रन्दनकन्दितासुरं संक्रन्दनक्लन्दितमीक्षितास्महे ॥ १० ॥ वयं तं नन्दात्मजमीक्षितास्महे द्रक्ष्यामः । तद्दिवसे एव भगवद्दर्शनानिश्चयात् लुट्प्रयोगः । मनोज्ञगण्डमित्यादीनि त्रीणि विशेषणानि स्पष्टानि । पराक्रमत्रन्दनकन्दितासुरं पराक्रमरूपेण त्रन्दनेन चेष्टया कन्दिता रोदिता असुरा येन तम् । संक्रन्दनक्लन्दितमिन्द्रेण बहुकृत्वः स्वरक्षणार्थमाहूतम् ॥--गण्डम् । ६६ गडि वदनैकदेशे । अस्मात् पचाद्यच् । वदनैकदेश इति तदारम्भक्रियोक्ता । अनिन्दितेति । ६७ णिदि कुत्सायाम् । कर्मणि क्तः । नन्देति । ६८ टुनदि समृद्धौ । समृद्धिर्हर्षे पर्यवस्यति । पचाद्यच् । चन्द्रेति । ६९ चदि आह्लादे दीप्तौ च । 'स्फायि-तञ्चि-वञ्चि-शकि-क्षिपि-क्षुदि-सृपि-तृपि-दृपि-वन्दि-उन्दि-श्विति-वृति-अजि-नी-पदि-मदि-मुद-खिदि-छिदि-भिदि-मन्दि-चन्दि-दहि-दसि-दम्भि-वसि-वाशि-शीङ्-हसि-सिधि-शुभिभ्यो रक् इति रक् । त्रन्देति । ७० ऋदि चेष्टायाम् । ल्युट् । कन्दितेति । ७१ कदि ७२ क्रदि ७३ क्लदि आह्वाने रोदने च । कन्देर्णिजन्तात् क्तः। संक्रन्दनेति । 'समि-क्रन्दि-कृषि-हृदिभ्यः' इति नन्दादिपाठाल्ल्युट् । क्रन्दितमिति । क्रन्देः कर्मणि क्तः ॥

अक्लिन्दनीयान्शुधितात्मनो जनान्प्रशीकते यः करुणावलोकनैः तमुत्तमश्लोकमवेक्ष्य तत्स्तुतिद्रेकैरुपध्रेकयितास्मि दिक्तटम् ॥ ११ ॥ यः करुणावलोकैः शुधितात्मनो जनान् प्रशीकते । शुधितः शुद्ध आत्मा मनो येषां तान् प्रशीकते नितरां सिञ्चति । अक्लिन्दनीयान् परिदेवयितुमनहर्हान् । अहं तमुत्तमश्लोकमवेक्ष्य तत्स्तुतिद्रेकैर्दिक्तटमुपध्रेकथितास्मि तत्स्तुतिद्रेकैस्तस्य स्तुतिरूपैर्द्रेकैः शब्दैरुपध्रेकयितास्मि शब्दयिष्यामि ॥--आक्लिन्दनीयानिति।७४ क्लिदि परिदेवने। अस्माण् णिजन्तादनीयर् । शुधितेति । ७५ शुन्ध शुद्धौ । अस्मात् कर्तरि क्तः । 'अनिदिताम्' इति नकारस्य लोपः । अतादय उदात्ता उदात्तेतः । प्रशीकत इति । ७६ शीकृ सेचने । एतदादयः श्लाघ्यन्ता उदात्ता अनुदात्तेतः । अस्माल्लट् । आत्मनेपदारम्भसूचकस्तशब्दः। अवलोकनैरिति । ७७ लोकृ दर्शने । ल्युट् । उत्तमश्लोकमिति । ७८ श्लोकृ संघाते । स च ग्रन्थनम् । तच्च कर्मगतं कर्तृगतं वा । अस्मात् कर्मणि घञ् । द्रेकैरिति । ७९ द्रेकृ ८० ध्रेकृ शब्दोत्साहयोः । शब्दोत्साह इत्येके । उत्साहो वृद्धिरौद्धत्यं वा । द्रेकेर्घञ् । उपध्रेकयितास्मि । ध्रेकेर्लुट् ॥ १२८ काव्यमाला ।

स एवमादीन्विमृशन्नरेकधीरसेकतः स्रेकिमानसो हरौ । दुःस्रङ्कमाश्रङ्कय हरेः पदं जनः प्रश्लङ्कते कुत्र रुचं क्व शङ्कते ॥१२॥ स एवमादीन् विमृशन् असेकत गतवान् । अरेकधीररेकाशङ्का धीर्यस्य सः । हरौ स्रेकितमानसो गतमना जनो दुःस्रङ्कं हरेः पदमाश्रङ्क्य कुत्र रुजं प्रश्लङ्कते क्व शङ्कते । दुःस्रङ्कं दुष्प्रापं आश्रङ्क्य प्राप्य कुत्र रुजं पीडां प्रश्लङ्कते प्राप्नोति । न क्वापीत्यर्थः । क्व कार्ये ॥--अरेकेति । ८१ रेकृ शङ्कायाम् । घञ् । असेकत । ८२ सेकृ ८३ स्रेकृ ८४ स्रकि ८५ श्रकि ८६ श्लकि गत्यर्थाः । सेकेर्लङ् । स्रेकितेति । स्रेकेः कर्तरि क्तः । दुःस्त्रङ्कमिति । स्रङ्केः 'ईषद्दुःसुषु कृच्छ्रा' इत्यादिना खल् । आश्रङ्क्येति । श्रङ्केर्ल्यप् । प्रश्लङ्कत इति श्लङ्केर्लट् । शङ्कत इति । ८७ शकि शङ्कायाम् । लट् ॥

फलाङ्कितान्वङ्कितवल्लिमङ्कितान्वनप्रदेशानुरुकाककोकिलान् । वृकावृतान्मुग्धचकोरकूजितानुड्डीनकङ्कानयमत्यवङ्कत ॥ १३ ॥ अयं वनप्रदेशान् अत्यवङ्कत अतिक्रान्तवान् । फलाङ्कितान् फलैश्चिह्नितान् । वङ्कितवल्लिमङ्कितान् वङ्किताभिः कुटिलाभिर्वल्लिभिर्लताभिर्मङ्कितान् मण्डितान् । मुग्धं चकोरकूजितं येषु तान् । उड्डीनाः कङ्काः येषु तान् ॥-अङ्कितेति । ८८ अकि लक्षणे । कर्मणि क्तः । वङ्कितेति । ८९ वकि कौटिल्ये । कर्तरि क्तः । मङ्कितानिति । ९० मकि मण्डने । कर्मणि क्तः । काक इति । ९१ कक लौल्ये । इच्छायां च द्रुमे । अस्माद् बाहुलकात् कर्तरि घञ् । कोकिलः । ९२ कुक ९३ वृक आदाने । 'सलि-कलि-अनि-महि-भडि-भण्डि-शण्डि-पिण्डि-तुण्डि-कुकि-भूभ्य इलच्' । इनि कुकेरिलच्' । वृकेति । वृकेरिगुपधत्वात् कः । चकोरेति । ९४ चक तृप्तौ प्रतिघाते च । अस्मात् 'कठिचकिभ्यामोरच्' इत्योरच् । कङ्केति । ९५ ककि ९६ वकि ९७ श्लकि ९८ त्रकि ९९ ढौकृ १०० त्रौकृ १०१ ष्वष्क १०२ वष्क १०३ मस्क १०४ टिकृ १०५ टीकृ १०६ तिकृ१ ०७ तीकृ १०८ रघि १०९ लघि गत्यर्थाः । कङ्केः पचाद्यच् । अत्यवङ्कतेति । वङ्केर्लङ् ॥

प्रश्वङ्कनोत्रङ्किततद्रथस्वनादढौकि भीतैरपि नो शिखावलैः । विष्वक्परिनौकितलोचनैः स्थितं विष्वकमाणाम्बुदनादशङ्कया ॥१४॥ शिखावलैः प्रश्वकनोत्त्रङ्किततद्रथस्वनाद्भीतैरपि नो अडौकि । शिखावलैर्मयूरैः । प्रश्वङ्कनेन वेगगमनेन उनङ्कितादुद्गतात् तद्रथस्वनात् । नो न अढौकि गतम् । विष्वष्कमाणाम्बुदनादशङ्कया विष्वक्परित्रौकितलोचनैः स्थितम् । विष्वष्कमाणस्य वेगेन गच्छतो मेघस्य नाद इति शङ्कया विष्वक् परितः परित्रौकिते सचारिते लोचने यैः तथाभूतैः ॥-प्रश्वङ्कनेति । श्वङ्केल्युट् । उनङ्कितेति । त्रङ्के कर्तरि क्तः । अढौकीति । भावे चिण् । परित्रौकितेति । त्राकेः णिचि कर्मणि क्तः । विष्वष्कमाणेति । ष्वष्केः शानच् । 'सुब्धातुष्टिवुष्वष्कतीनां न' इति धात्वादेः षः साभावः ॥ धातुकाव्यम् । १२९

अवस्कि रोहिद्भिरमस्कि विष्किरैरटेकि गोधाभिरटीकि पन्नगैः । अरङ्घि कोलैर्लघु तद्रथस्वनात्प्रबुध्य सिंहै: पुनरङ्घ्रितं तदा ॥ १५ ॥ तद्रथस्वनात् रोहिद्भिरवस्कि धावितम् । विष्किरैरमस्कि पक्षिभिरुद्गतम् । गोधाभिरटेकि गतम् । पन्नगैरटीकि अपसृतम् । कोलैर्लघु अरङ्घि शीघ्रं गतम् । सिंहैः पुनः प्रबुध्य तदा अङ्घितम् । अन्येषां गतिराक्षिप्ता निन्दिता वा ॥--अवस्कि, अमस्कि, अटेकि, अटीकि, अरङ्घि । वस्कादीनां पञ्चानां भावे लुडि चिण् । लघ्विति । 'रङ्घिलङ्घ्योर्नलोपश्च' इत्युप्रत्ययः । अङ्घितम् । ११० अधि १११ वधि ११२ मधि गत्याक्षेपे । गतौ गमनारम्भे चैके । कैतवे च । अङ्घेः साध्ये भावे क्तः ॥

प्रवङ्घमानस्य च तस्य सत्वरं विमङ्घनस्याधिकाधितात्मनः । निकाममुल्लाघतनोः समत्यगात्प्रद्राधिता श्लाघ्यगुणस्य वर्तनी ॥ १६ ॥ सत्वरं प्रवङ्घमानस्य तस्य प्रंद्राधिता वर्तनी समत्यगात् च । प्रवङ्घमानस्य सम्यग्गच्छतः प्रद्राघिता अत्यर्थमायता समत्यगात् अतिक्रान्ता । विमङ्घनस्य विगतं कैतवं यस्य तस्य । अधिकराघितात्मनोऽधिकं राघितः समर्थ आत्मा मनो यस्य तस्य । निकाममुल्लाघतनोः उल्लाघा निर्गतरोगा तनुर्यस्य तस्य ॥--प्रवङ्घमानस्येति । वङ्घेः शानच् । विमङ्घनस्य । मङ्घेर्ल्युट् । राधितेति । ११३ राघृ ११४ लाघृ ११५ द्राघृ सामर्थ्ये। दाघृ आयामे चास च दैर्घ्यं क्रियासमर्थनं वा । राघेः कर्तरि तः । उल्लाघेति । 'अनुपसर्गात्फुल्लक्षीब-' इति लाघेर्निपातितः । प्रद्राघितेति । द्राघेः कर्तरि क्तः । श्लाघ्येति । ११६ श्लाघृ कत्थने । अस्मात् कर्मणि ण्यत् । शीकादय उदात्ता अनुदात्तेतः ॥

अफक्कतातक्यगुणेन तङ्कता खलश्चबुक्कापरुषे पुरेऽमुना । फेनैः कखन्तीमिव तां कलिन्दजां संतीर्यवृन्दावनमैक्ष्यनोखितम्॥१७॥ अफक्कता अमुना तां कलिन्दजां संतीर्य वृन्दावनमैक्षि । अफक्कताः मन्दगमनमसद्व्यापारं वा कुर्वता । अतक्यगुणेन । अतक्याः अपरिहसनीया गुणा यस्य तेन । खलश्वबुक्कापरुषे पुरे तङ्कता । खला एव श्वानस्तेषां बुक्काभिर्भषणैः परुषे पुरे तङ्कता कृच्छ्रेण जीवता । कीदृशी कलिन्दजामित्यत्राह-फेनैः कखन्तीं हसन्तीमिव । कीदृशं वृन्दावनमित्यत्राह-अनोखितं क्वचिदप्यशुष्कम् ॥--अफक्कतेति । ११७ फक्क नीचैर्गतौ । शिङ्घ्यन्ता उदात्ता उदात्तेतः । नीचैगतिर्मन्दगमनमसद्व्यापारो वा । अस्मात् परस्मैपदारम्भद्योतकः शता । अतक्येति । ११८ तक हसने । अस्मात् कर्मणि 'तकिशसिचतियतिजनीनां यद्वाच्यः' इति यत् । तङ्कता । ११९ तकि कृच्छ्रजीवने' । शता वुक्केति । १२० वुक्क भषणे । भषणं श्वरवः । 'गुरोश्च हलः' इत्यप्रत्ययः । १२१ कख हसने । शत्रन्तान्डीप् । अनोखितम् । १२२ ओखृ १२३ राखृ १२४ लाखृ १२५ दाखृ १२६ ध्राखृ शोषणालमर्थयोः । ओखे: कर्तरि क्तः ॥ १३० काव्यमाला

वृन्दावनं विशिनष्टि चतुर्दशभिः-- अराखितत्वग्भिरलाखितच्छदैः प्रदाखिताध्राखिफलैश्च शाखिभिः । प्रश्लाखितं प्रोखितसत्वमुङ्खितं खगैर्वखन्मारुतवङ्खिसौरभम् ॥ १८ ॥ शाखिभिः प्रश्लाखितं व्याप्तम् । कीदृशैरित्यत्राह–अराखितत्वग्भिः। अराखिता अशुष्का त्वग् येषां तैः । अलाखितास्तरुणाश्छदा येषां तैः । प्रद्राखितानि अत्यन्तपर्याप्तानि अध्राखीन्यशोषणशीलानि फलानि येषां तैः । प्रोखितसत्वम् । प्रोखितानि इतस्ततो गच्छन्ति सत्वानि जन्तवो यस्मिंस्तत् । खगैरुङ्खितं प्राप्तम् । वखन्मारुतवङ्खिसौरभम् । वखता संचरता वायुना सह गमनशीलं सौरभं सौरभ्यं यस्य तत् ॥ अराखितेति । राखेः कतर्रि क्तः। अलाखितेति । लाखेः क्तः।प्रदाखितेति । द्राखेः क्तः । अध्राखीतिध्राखेर्णिनिः । शाखीति । १२७ शाखृ १२८ श्लाखृ व्याप्तौ । शाखेरप्रत्ययान्ताद्व्रीह्यादित्वादिनिः । प्रश्लाखितम् । श्लाखेः क्तः। प्रोखितेति । १२९ उख १३० उखि १३१ वख १३२ वखि १३३ मख १३४ मखि १३५ णस्त्र १३६ णखि १३७ रख १३८ रखि १३९ लख १४० लखि १४१ इख १४२ इखि १४३ ईखि १४४ वल्ग १४५ रगि १४६ लगि १४७ अगि १४८ वगि १४९ मगि १५० तगि १५१ त्वगि १५२ श्रगि १५३ श्लगि १५४ इगि १५५ रिगि १५६ लिगि गत्यार्थाः। उखेः कर्तरि क्तः । उखितमिति । उङ्खेः कर्मणि क्तः । वखदिति । वेखेः शता । वङ्खीति । वङ्खेर्णिनिः ॥

मखत्कपोतं मदमङ्खिबर्हिणं लखत्पिकं नङ्खितखञ्जनोत्करम् । रखच्छशं रङ्खितरङ्कु रिङ्खितद्विपं लखत्केसरिलङ्खदारवम् ॥ १९ ॥ मखन्त उद्गच्छन्तः कपोता यस्मिंस्तत्। मदेन मङ्खन्तो गमनशीला बर्हिणो यस्मिस्तत् । नखन्तः संचरन्तः पिकाः यस्मिस्तत् । नङ्खितः संचरन् खञ्जनानामुत्करो यस्मिंस्तत् । रखन्तः शशा यस्मिंस्तत् । रङ्खिता रङ्कवो यस्मिंस्तत् । रिङ्खिताश्चलिता द्विपा यस्मिस्तत् । लखद्भ्यः इतस्ततो गच्छद्भ्यः केसरिभ्यो लङ्खन्नुद्गच्छन्नारवो यस्मिंस्तत् ॥– मखेः शता । मिङ्खेर्णिनिः । नखेः शता । नखे: क्तः। रङ्खेः शता । रङ्खेः क्तः । लखिलङ्घ्योः शता ॥

एखच्चकोरोत्करमिङ्खितं शुकैः प्रेङ्खल्लतावल्गनरङ्गमण्डपम् । विलङ्गदेणं शबराङ्गनाजनप्रवङ्गितं मङ्गलधेनुतङ्गितम् ॥ २० ॥ एखन्त उद्गच्छन्तश्चकोरोत्कराः यस्मिंस्तत् । शुकैरिङ्खितं प्राप्तम् । प्रेङ्खन्त्याश्चलन्त्या लतारूपायाः नर्तक्याः वल्गनस्य नर्तनस्य रङ्गमण्डपम् । विलङ्गन्तो विशेषेण गच्छन्त एणा यस्मिंस्तत् । शबराङ्गनाजनैः प्रवङ्गितं प्राप्तम् । मङ्गलधेनुतङ्गितं मङ्गलरूपाभिर्धेनु-


१. 'चकोरोत्सराः' इति पाठः. धातुकाव्यम् । १३१ मिस्तङ्गितं व्याप्तम् ॥--एखदिति । इखेः शता । इङ्खितम् । इङ्खेः कर्मणि क्तः । प्रेङ्खदिति । ईङ्खेः शता । वल्गेनेति । वल्गेर्ल्युट् । रङ्गेति । रङ्गोः गच्छन्त्यस्मिन् प्रेक्षकाणां मनांसीति । 'हलश्च' इति संज्ञायामधिकरणे घञ् । अङ्गेः प्राप्नोत्यवयवानित्यङ्गम् । प्राग्वद् घञ् । अस्मात् 'अङ्गात् कल्याणे' इति पामादिपाठान्मत्वर्थीयो नः । प्रवङ्गितमिति । वङ्गेः कर्मणि क्तः । मङ्गलेति । 'मङ्गोरलच्' इत्यलच् । तङ्गोः कर्मणि क्तः ॥

त्वङ्गत्खगश्रङ्गितपक्षमारुतश्लङ्गद्रजोराजिभिरिङ्गिताम्बरम् । रिङ्गत्प्रियालिङ्गितभृङ्गसंगमत्वङ्गत्प्रसूनं रवितापयुङ्गितम् ॥ २१ ॥ त्वङ्गतां दयमानानां खगानां श्रङ्गितैश्चलितैः पक्षमारुतैः श्लङ्गन्तीभी रजोराजिभिरिङ्गितं व्याप्तमम्बरं यस्मिस्तत् । रिङ्गन्त्या चलन्त्या प्रिययालिङ्गितानां मृगाणां संगमेन त्वङ्गन्ति चलन्ति प्रसूनानि यस्मिंस्तत् । रवितापेन युङ्गितं वर्जितम् ॥ त्वङ्गदिति । त्वङ्गेः शता । श्रङ्गेः कर्तरि क्तः । श्लङ्गेः शता । इङ्गेः कर्मणि क्तः । रिङ्गदिति । रिङ्गेः शता । आलिङ्गितेति । आड्पूर्वत्वादाश्लेषार्थत्वम् । कर्मणि क्तः । त्वङ्गदिति । त्वगि कम्पने । अस्माच्छता । युङ्गितमिति । १५७ युगि १५८ जुगि १५९ बुगि वर्जने । युङ्गेः कर्मणि क्तः ॥

विजृङ्ग्य बुङ्ग्यं गुणसंघदङ्घका अलङ्घितानन्दरसात्तर्घनाः । सुमङ्घिता; शिङ्घितपुष्पसौरभा यद्बर्चमानाः पशुपाः प्रसेचिरे ॥२२॥ पशुपा. यत् प्रसेचिरे यत् वृन्दावनं प्रसेचिरे सम्यक् सेवितवन्तः । कीदृशा इत्यत्राह--वुङ्ग्य विजृङ्ग्य गुणसंघदङ्घकाः । वर्जनीयं वर्जयित्वा गुणसंघस्य दङ्घकाः पालकाः । अलङ्घितस्य अशुष्कस्य परिपूर्णस्य आनन्दस्य रसेनास्वादनेनात्तं स्वीकृतं घर्घनं हासो यैस्ते । सुष्टु मङ्घिताः मण्डिताः। शिङ्घित आघ्रातः पुष्पाणां सौरभो यैस्ते ॥-विजृङ्ग्येति । जृङ्गेर्ल्यप् । बुङ्ग्यमिति । बुङ्गेर्ण्यत् । दङ्घका इति । 'दघि पालने त्यागे व द्रुमे' । अस्माण्ण्वुल् । अलङ्घितेति । 'लघि शोपणे' । कर्तरि क्तः । घर्घनेति । १६० घर्घ हसने । ल्युट् । सुमङ्घिताः । १६१ मघि मण्डने । कर्तरि क्तः । १६२ शिघि आघ्राणे । कर्मणि क्तः। फक्कादय उदात्ता उदात्तेतः । वर्तमाना इति । १६३ वर्च दीप्तौ ईजन्ता उदात्ता अनुदात्तेतः । अस्माच्छानच् । प्रसेचिरे । १६४ षच सेचने सेवनेऽपि । लिट् ॥

सुलोचना यत्र शचीसमप्रभा अशाश्वचुः श्वञ्चितसौरभाः कचे । सकञ्चुका: काञ्चनकाञ्चिभूषिता व्रजाङ्गना निर्मचनेन नर्मणा ॥२३॥ यत्र व्रजाङ्गना निर्मचनेन नर्मणा अशाश्वचुः । निर्मचनेन निर्गतं मचनं शाठ्यं यस्मात् तेन । नर्मणा सह अशाश्वचुः इतस्ततश्चरितवत्यः । कचे केशे श्वञ्चितं व्याप्तं सौरभं यासां ताः । सुलोचना इत्यादि विशेषणचतुष्कं स्पष्टम् ॥--सुलोचना । १६५ लोचृ दर्शने । करणे


१. स्वार्थणिचमाश्रित्य ‘घाघनाः' इति पठनीयम्. २. धातुपाठे तु 'घघ हसने' इत्युपलभ्यते. १३२ काव्यमाला । ल्युट् । शतीति । १६६ शच व्यक्तायां वाचि । इन्नन्तात् 'कृदिकारादक्तिनः' इति ङीष् । अशाश्वचुः । १६७ श्वच १६८ श्वचि गतौ । यङ्लुगन्तात् श्वचेर्लङि 'सिजभ्यस्त-' इति झेर्जुस् । श्वञ्चितेति । श्वञ्चेः कर्तरि क्तः। कचेति । १६९ कच बन्धने । दीप्तौ च द्रुमे । यूनां मनो बध्नातीति पचाद्यच् । कञ्चुकेति । १७० कचि १७१ काचि दीप्तिबन्धनयोः । कञ्चेः बाहुलकादुक्प्रत्ययः । काञ्चनेति । काञ्चीति । काञ्चेरनुदात्तेत्त्वाद्युच् । औणादिक इन्नपि । मचनेति । १७२ मच १७३ मुचि कल्कने । मचीत्येके । मुचेत्यन्ये । कल्कन दम्भः । शाठ्यं कत्थनं वा । लोकरञ्जनार्थं साध्वाचारो दम्भः । मचेर्ल्युट् ॥

अमुञ्चनैर्मञ्चितचित्तपञ्चितत्रयीमतप्रस्तुचितैः शुभार्जकैः । समृञ्जितं कन्दमभृक्तसत्फलान्यदद्भिरेकत्र यदेजितं जनैः ॥ २४ ॥ यद् एकत्र शुभार्जकैर्नरैरेजितम् । शुभस्य पुण्यस्य तत्फलभूतस्य ब्रह्मज्ञानस्य वा अर्जकैः । एजितं शोभितम् । अमुञ्चनैः । न मुञ्चनं दम्भः शाठ्यमात्मश्लाघा वा येषां तैः । मञ्चितचित्तपञ्चितत्रयीमतप्रस्तुचितैः मञ्चिते हरौ धारिते पूजिते उन्नते वा चित्ते मञ्चितेन व्यक्तीकृतेन त्रयीमतेन वेदान्तसिद्धान्तेन प्रस्तुचितैः प्रसन्नैः । समृञ्जितं कन्दमभृक्तसत्फलानि चोदद्भिः समृञ्जितमग्निपक्वम् । अभृक्तानि अनग्निपक्वानि । कालपक्वानीति यावत् ॥--अमुञ्चनैरिति। मुञ्चेर्ल्युट् । मञ्चितेति । १७४ मचि धारणोच्छ्रायपूजनेषु । कर्मणि कर्तरि वा क्तः । पञ्चितेति । १७५ पचि व्यक्तीकरणे । कर्मणि क्तः । प्रस्तुचितैः । १७६ ष्टुच प्रसादे । कर्तरि क्तः । [अर्जकैः] । १७७ ऋज गतिस्थानार्जनोर्जनेषु । अर्जनोपार्जनेष्विति वा पाठः । अर्जनं स्वीकारः । ऊर्जनं शक्तिप्राप्तिः प्राणनं वा । आड्पूर्वाद् ऋजेर्ण्वुल् । समृञ्जितम् । १७८ ऋजि १७९ भृजी भर्जने । भर्जनं पाकः । ऋजेः कर्मणि क्तः । अभृक्तेति । भृजेः प्राग्वत् क्तः । ईदित्त्वादनिट्त्वम् । एजितम् । १८० एजृ १८१ भेजृ १८२ भ्राजृ दीप्तौ । एजेः कर्तरि क्तः ॥

अभ्रेजि विभ्राग्भिरनीजितैश्च यत्कदाप्यशोचद्भिरशेषजन्तुभिः । चुकोच यत्रोत्कुचिताङ्गमुन्मुदःक्रौञ्चोऽपि लुञ्चन्हृदि सम्यगार्तताम्२५ यदशेषजन्तुभिरभ्रेजि च । अभ्रेजि शोभितम् । विभ्राग्भिः विशेषेण शोभमानैः। अभीजितैरकुत्सितैः । कदाप्यशोचद्भिः सदा संतुष्टैः । यत्र क्रौञ्चोऽपि हृद्यार्ततां सम्यग्लुञ्चन्नुन्मुदः उत्कुचिताङ्गं चुकोच । क्रौञ्चः पक्षी लुञ्चन्नपनयन्नुत्कुचितान्युच्चैः कुचितानि कुटिलीभूतान्यङ्गानि यस्मिन् तथेति उत्कोचनक्रियाविशेषणम् । चुकोच उच्चैः कूजितवान् ॥--अभ्रेजि । भ्रेजेर्णिजन्तात् कर्मणि चिण् । विभ्राग्भिः । भ्राजेः क्विपि 'चोः कुः' इति कुत्वम् । व्रश्चादिषत्वं तु राजेत्यनन्तरपठितस्यैव । अनीजितैः। १८३ ईज गतिकुत्सनयोः । कर्मणि क्तः। वर्चादयः पचिवर्ज्य॑मुदात्ता अनुदात्तेतः । अशोचद्भिः । १८४ शुच शोके । व्रजान्ता उदात्ता उदात्तेतः। अस्माच्छता। चुकोच । १८५ कुच शब्दे तारे। गतावित्येके । अस्माल्लिट् । उत्कुचितेति । १८६ कुञ्च १८७ क्रुञ्च गतिकौटिल्याल्पीभावयोः । गतेः धातुकाव्यम् । १३३ कौटिल्ये द्रव्यस्याल्पीभावे चेत्यर्थः । 'गतिकौटिल्ययोः' इति द्रुमे । कुचेः कर्तरि क्तः। क्रौञ्च इति । कुञ्चेः 'ऋत्विग्दधृग्-' इत्यादिना क्विनि क्रुड् । अस्मात् पुनः प्रज्ञादित्वादण् । लुञ्चन् । १८८ लुञ्च अपनयने । शता । सम्यगिति । १८९ अञ्चु गतिपूजनयोः । 'ऋत्विग्' इत्यादिना क्विन् । 'क्विन्प्रत्ययस्य कुः' इति कुत्वम् ॥

आवक्रचञ्चूपुटतञ्चदारवत्वञ्चत्खगम्रुक्तशिखैलताद्रुमैः । अम्लुक्तरश्मौ शशिना निमुम्रुचे निमुम्लुचेऽर्केण च यत्र संततम्२६ यत्र शशिना निमुम्रुचे । अक्रे(र्के)ण च निमुम्लुचे । उभयोरस्तमितमित्यर्थः । कीदृशे वने । लताद्रुमैरम्लुक्तरश्मौ अप्रविष्टरश्मौ । कीदृशैलताद्रुमैः । आवक्रचञ्चूपुटतञ्चदारवत्वञ्चत्खगम्रुक्तशिखैः । ईषद्वक्रचञ्चूमध्यात् तञ्चता उद्गच्छता आरवेण शब्देन सह त्वञ्चद्भिर्गच्छद्भिः खगैर्म्रुक्ताः प्राप्ताः शिखाः अग्राणि येषां तैः॥-आवक्रेति । १९० वञ्चु १९१ चञ्चु १९२ तञ्चु १९३ त्वञ्चु १९४ च १९५ म्लुञ्चु १९६ म्रुचु १९७ म्लुचु गत्यर्थाः । वञ्चेः 'स्फायितञ्चि-' इत्यादिना रकि नलोपश्च । चञ्चू इति । चञ्चेः 'पटिचटिचञ्चिभ्यश्च' इति भोजोक्या उप्रत्ययः । 'अप्राणिजातेश्च' इत्यूड्। तञ्चतू-त्वञ्चदिति । तञ्चेः त्वञ्चेश्च शता । म्रुक्तेति । म्रुञ्चेः कर्मणि क्तः । अम्लुक्तेति । म्लुञ्चेः कतरि क्तः। निमुम्रचे निमुम्लुचे । म्रुचिम्लुच्योर्भावे लिट् । निपूर्वत्वाद्द्वयोरस्तमयार्धत्वम् ॥

समग्रुचत्क्षीरमथाग्लुचद्धृतं चुकोज वासांसि चुखोज मानसम् । समग्लुचत्केलिषु सज्जमानधीः स यत्र गुञ्जन्मणिनूपुरो हरिः ॥२७॥ हरिर्यत्र क्षीरं समग्रुचदचोरयत् ॥ अथ धृतं अग्लुचज्जहार । वासांसि चुकोज हृतवान् । मानसं चुखोज । वृ(व्र)जवासिनां हृदयं लीलाभिरपहृतवानित्यर्थः । यत्र केलिषु सज्जमानधीर्गुञ्जन्मणिनूपुरः स समग्लुचत् । सज्जमाना सनह्यन्ती धीर्यस्य सः । गुञ्जन्तौ क्वणन्तौ मणिनूपुरौ यस्य सः । समग्लुचत् संचचार ॥–समग्रुचत् । १९८ ग्रुचु १९९ ग्लुचु २०० कुजु २०१ खुजु स्तेयकरणे । ग्रुचेः 'जृस्तम्भु-' इत्यादिना लुड्यङ् । अग्लुचत् । ग्लुचेः प्राग्वदड् । चुकोज-चुखोज । कुजेः खुजेश्च लिट् । समग्लुचत् । २०२ ग्लुञ्चु २०३ षस्ज गतौ । 'षचे' इत्यप्येके । षस्जेर्लक्षणया संनाहार्थता । ग्लुञ्चेरडि नलोपः । सज्जमानेति । 'यदभिप्रायेषु सज्जते' इति भाष्यप्रयोगादात्मनेपदम् । तेन शानच् । गुञ्जदिति । २०४ गुजि अव्यक्ते शब्दे । शता ॥

सुरार्चिते म्लेच्छजनैर्दुरासदे श्रीलच्छिताङ्गे सितपुष्पलाञ्छिते । यत्र स्थिते वाञ्छितदे हरिद्रुमे तदाञ्छितह्रीच्छनमास्त नन्दनम् ॥२८॥

१. 'चोः कुः' इत्येतद्दृष्टयास्यासिद्धतत्वेन 'चोः कुः' इत्यस्योपन्यासो युक्तः. २. 'नकारजावनुस्वारपञ्चमौ झलि धातुषु । सकारजःशकारश्च षाट्टवर्गस्तवर्गजः॥' इत्यभियुक्तोक्त्या धातूना नकारोपधत्वात्. १३४ काव्यमाला । यत्र हरिद्रुमे स्थिते तत् नन्दनमाञ्छितह्रीच्छनमास्त । हरिद्रुमे हरिरूपे हरिचन्दने च नन्दनं नन्दनोद्यानमाञ्छितह्रीच्छनं आञ्छितमायतं ह्रीच्छनं लज्जा यस्य तत् । हरिद्रुमं विशिनष्टि-सुरार्चिते सुरैर्देवैः पूजिते । म्लेच्छजनैर्दुरासदे प्राकृतजनैर्दुष्प्रापे । श्रीलच्छिताङ्गे श्रिया लक्ष्या शोभया च लच्छितमङ्कितमङ्गं यस्य तस्मिन् । स्मितपुष्पलाञ्छिते सितैरेव पुष्पैः स्मितैर्विकसितैः पुष्पैश्च लाञ्छिते । वाञ्छितदे ईप्सितदे ॥--अर्चितेति । २०५ अर्च पूजायाम् । 'अच' इत्येके । अर्चेः कर्मणि क्तः । म्लेच्छेति । २०६ म्लेछ अव्यक्ते शब्दे । स चास्पष्टशब्दः । अपशब्दो वा । म्लेच्छेः पचाद्यच् । लच्छितेति । २०७ लछ २०८ लाछि लक्षणे । लच्छेः कर्मणि क्तः । 'च्छे च' इति तुक् । पूर्वत्र 'दीर्घात्' इति तुक् । लाञ्छितेति । लाञ्छेः कर्मणि क्तः । वाञ्छितेति । २०९ वाछि इच्छायाम् । कर्मणि क्तः। आञ्छितेति । २१० आछि आयामे । कर्तरि क्तः । ह्रीच्छनम् । २११ ह्रीछ लज्जायाम् । ल्युट् । प्राग्वत्तुक् ॥

अहूर्णचित्ता: परिमूर्छितव्रताः स्फूर्णामया अप्रयुशः कृतोञ्छनाः । भजन्ति यां व्युष्टिमतोऽपि भूयसीं ध्रजन्ति यद्ध्रञ्जनमात्रतो जनाः २९ ईदृशा यां व्युष्टि भजन्ति जनाः । यद्ध्रञ्जनमात्रतोऽपि भूयसीं ध्रजन्ति । व्युष्टि फलम् । यद्ध्रञ्जनमात्रतो यस्य वृन्दावनस्य ध्रञ्जनमात्रतः प्राप्तिमात्रेण । ध्रजन्ति प्राप्नुवन्ति। कीदृशा इत्यत्राह--अहूर्णचित्ताः अहूर्णमकुटिलं चित्तं येषां ते । परिमूर्छितव्रताः परिमूर्छितं परिपूर्णं व्रतं येषां ते । स्फूर्णामयाः स्फूर्णा विस्मृता आमया यैस्ते । अप्रवुशोऽप्रमत्ताः । कृतोञ्छनाः वृत्त्यर्थं कुतमुञ्छनं धान्यानां पृथक्पृथगादानं यैस्ते ॥--अहूर्णेति । २१२ हुर्छा कौटिल्ये । इह कौटिल्यमपसरणमित्येके । कर्तरि क्तः । आदित्वादनिट्त्वम् । परिमूर्छितव्रताः । २१३ मूर्छा मोहसमुच्छ्राययोः । 'गुरोश्च हलः' इत्यप्रत्यये मूर्छा । तस्मात् 'तदस्य संजातम्' इति तारकादित्वादितचि मूर्छितम् । स्फूर्णेति । २१४ स्फुर्छा विस्मृतौ । कर्मणि क्तः । अप्रयुशः । २१५ युछ प्रमादे । अस्मात् क्विपि 'च्छ्वोः शुड्-' इति छस्य शः । उञ्छनेति । २१६ उछि उञ्छे । उञ्छो धान्यानां पृथक्पृथगादानम् । अस्माल्ल्युट् । व्युष्टिमिति । २१७ उछी विवासे । स च समाप्तिः । प्रायेण विबन्धनवर्जनातिक्रमेषु च द्रुमे अस्मात् क्तिन् । ध्रजन्ति । २१८ ध्रज २१९ ध्रजि २२० धृज २२१ धृजि २२२ ध्वज २२३ ध्वजि गतौ । 'व्रजि' इत्येके । ध्रजेर्लट् । ध्रञ्जेर्ल्युट् ॥

अथ वनवर्णनमुपसंहृत्याक्रूरस्य प्रवृत्तिमाह--- प्रध्रज्य मोदं स दधृञ्ज तद्वनं ध्वजोद्गतिध्वञ्जितकूजदण्डजम् । स्वर्गोपमं सर्जितपुण्यसंचयो गभीरगर्जद्रथतर्जिताम्बुदः ॥ ३०॥ स मोदं प्रध्रज्य तद्वनं दधृञ्ज । प्रध्रज्य प्राप्य दधृञ्ज प्राप । ध्वजोद्गतिध्वञ्जितकूजदण्डजं ध्वजस्योद्गत्योर्ध्वगमनेन ध्वञ्जिता गताः कूजन्तो अण्डजाः यस्मात्तत् । सर्जितपुधातुकाव्यम् । १३५ ण्यसंचयोऽर्जितसुकृतौघः । गभीरगर्जद्रथतर्जिताम्वुदः गभीरं यथा तथा गर्जता शब्दायमानेन रथेन तर्जितो भर्त्सितोऽम्बुदो येन सः॥--प्रध्रज्येति । ध्रजेर्ल्यप् । दधृञ्ज धृञ्जेर्लिट् । ध्वजेति । ध्वजेः पचाद्यच् । ध्वञ्जितेति । ध्वञ्जेः कर्तरि क्तः । कूजदिति । २२४ कूज अव्यक्ते शब्दे । शता । स्वर्गेति । २२५ अर्ज २२६ षर्ज अर्जने । सुत्रु अर्जते । अर्जेर्घञि वार्तिकमते न्यड्क्वादित्वात् कुत्वम् । सर्जितेति । षर्जेः कर्मणि क्तः । [गर्जदिति] । २२७ गर्ज शब्दे । मेधशब्दे द्रुमे । अस्माच्छता । तर्जितेति । २२८ तर्ज भर्त्सने । कर्मणि क्तः ॥

अकर्जितोऽसौ हरिखर्जनोत्कधीरजत्पशुव्रातमजेन तेजितम् । लसत्खजाकं व्रजमासदत्क्रमादखञ्जितैरेजितचामरैर्हयैः ॥ ३१ ॥ असौ हयैः क्रमात् व्रजमासददपगतोऽभूत् । अकर्जितोऽभीतो दुःखरहितो निश्चलवुद्धिश्च । हरिखर्जनोत्कधीः । हरेः खर्जने पूजायामुत्का धीर्यस्य सः । अजत्पशुव्रातमजन्तो गच्छन्तः पशुव्राता यस्मिंस्तत् । अजेन तेजितं पालितम् । लसत्खजाकं लसन्तः खजाका मन्थनदण्डा यस्मिंस्तत् । अखञ्जितैरपङ्गुभिः । एजितचामरैरेजिताः कम्पिताश्चामरा येषु तैः ॥--अकर्जित इति । २२९ कर्ज व्यथने । तच्च भयदुःखं चलनं च अस्मात् कर्तरि क्तः । खर्जनेति । २३० खर्ज पूजने । मार्जने व द्रुमे । ल्युट् । [अजदिति] । २३१ अज गतिक्षेपणयोः । शता । तेजितम् । २३२ तेज पालने । कर्मणि क्तः । खजाकेति । २३३ खज मन्थे । 'खजेराकः' इत्याकप्रत्ययः । अखञ्जितैः २३४ खजि गतिवैकल्ये । कर्तरि क्तः । एजितेति । २३५ एजृ कम्पने । कर्तरि क्तः ॥

विस्फूर्जदक्षीणघनाघनोपमक्षीजा लजन्तस्त्रिदशानलाञ्जितान् । लाजादिहोतृष्वपि लञ्जनप्रदा यस्मिन्विनेशुर्जजनेषु दानवाः ॥ ३२ ॥ दानवा यस्मिन् जजनेषु विनेशुः । यस्मिन् व्रजे । जजनेषु युद्धेषु । कीदृशा इत्यत्राह--विस्फूर्जदक्षीणघनाघनोपमक्षीजाः । विस्फूर्जद्भिः स्तनयद्भिः, अक्षीणैः पूर्णैर्घनाघनैर्मेघैरुपमा यस्य तादृशः क्षीजोऽव्यक्तशब्दो येषां ते । अलाञ्जितान् कैरप्यभर्त्सितांस्त्रिदशांल्लजन्तो भर्त्सयन्तः । लाजादिहोतृष्वपि लञ्जनप्रदा भर्त्सनप्रदाः ॥--विस्फूर्जदिति । २३६ टु ओ स्फूर्जा वज्रनिर्घोषे । शता । अक्षीणेति । २३७ क्षि क्षये । कर्तरि क्तः । 'निष्ठायामण्यदर्थे' इति दीर्घे 'क्षियो दीर्घात्' इति निष्ठानत्वम् । क्षीजेति । २३८ क्षीज अव्यक्ते शब्दे । घञ् । लजन्त इति । २३९ लज २४० लजि भर्त्सने । २४१ लाज २४२ लाजि भर्त्सने । भर्जने चेति लीलाशुकः । लजेः शता । अलाञ्जितान् । लाजे: कर्मणि क्तः । लाजेति । लाजेः कर्मणि घञ् । लञ्जनेति । लञ्जेर्ल्युट् । जजनेषु २४३ जज २४४ जजि युद्धे । जजेर्ल्यट् ॥


१. 'व्रजनिष्पेषे' इति पाठः. १३६ काव्यमाला ।

जहर्ष जञ्जातुजितस्थलैरसौ वृषैरतुञ्जैर्गजगञ्जिभिर्वृतम् । गर्जत्खरं गृञ्जितधेनुमोमुजद्वत्सोत्करं मुञ्जदजं वजन्व्रजम् ॥ ३३ ॥ असौ व्रजं वजञ्जहर्ष । वजन् प्राप्नुवन् । कीदृशं व्रजम् । वृषैर्वृतं व्याप्तम् । कीदृशैवृषैः । जञ्जातुजितस्थलैः जञ्जया परस्परयुद्धेन तुजितानि पीडितानि स्थलानि यौस्तैः । अतुञ्जैर्नराणामहिसकैः । गजगञ्जिभिर्गज इव शब्दायमानैः । कीदृशं व्रजम् । गर्जत्खरं गर्जन्तः शब्दायमानाः खरा यस्मिंस्तम् । गृञ्जितधेनुमोमुजद्वत्सोत्करं गृञ्जिताः हुंकाररवं कुर्वाणा धेनवो नवप्रसूता गावो यस्मिंस्तच्च । मोमुजतः पुनः पुनः शब्दायमाना वत्सोत्करा यस्मिंस्तच्च । मुञ्जदजं मुञ्जन्तो नदन्तोऽजाश्छागा यस्मिस्तं च ॥--जञ्जेति । जञ्जेः 'गुरोश्च-' इत्यकारः । तुजितेति । २४५ तुज हिंसायाम् । कर्मणि क्तः । अतुञ्जैः । २४६ तुजि पालने च । प्राणने च द्रुमे । अच् । गजेति । २४७ गज २४८ गजि २४९ गृज २५० गृजि २५१ मुज २५२ मुजि शब्दार्थाः । गज मदने च । मज मजि इत्यप्येके । शब्दायते माद्यति वेत्यर्थे गजेरच् । गञ्जीति । गजेः 'कर्तर्युपमाने' इति णिनिः । गर्जदिति । गृजेः शता । गृञ्जितेति । गृञ्जेः कर्तरि क्तः । मोमुजदिति । मुजेर्यङ्लुकि शता । मुञ्जदिति मुञ्जेः शता । वजन् । २५३ वज २५४ व्रज गतौ । वजेः शता । व्रजेः 'गोचरसंचर-' इत्यादिना घः ॥

मार्गात्स दृष्ट्वा हरिपादलाञ्छनं व्यवेष्टतोर्व्यां महनीयचेष्टितः । तत्केलिसंगोष्टितलोष्टमानमद्वने मरुद्धट्टितपोस्फुटद्द्रुमे ॥ ३४ ॥ मार्गात् स हरिपादलाञ्छनं दृष्ट्वोर्व्यां महनीयचेष्टितो व्यवेष्टत । मार्गात् मार्गमतिकान्तवान् । व्यवेष्टत विलुठितवात् । महनीयचेष्टितो महनीयं चेष्टितं व्यापारो यस्य सः। वने तत्केलिसंगोष्टितलोष्टमानमत् । तस्य भगवतः केल्या संगोष्टितं संघातीकृतं लोष्टमिष्टकाखण्डम् । कीदृशे वने । मरुद्धट्टीतपोस्फुटद्द्रुमे मरुद्धट्टिता वायुभिः कम्पिताः । अत एव पोस्फुटतः अत्यर्थं दलन्तो द्रुमा यस्मिंस्तस्मिन् ॥-मार्गादिति । २५५ अट्ट अतिक्रमहिंसनयोः । शाड्रन्ता उदात्ता अनुदात्तेतः । दोपधस्तोपधो वायम् । टोपधोऽपि द्रुमे । अस्मात् क्विपि संयोगान्तलोपः । व्यवेष्टत । २५६ वेष्ट विलुठने । अकर्मकः । लड् । चेष्टितेति । २५७ चेष्ट चेष्टायाम् । अस्मात् सिद्धभावे क्तः । गोष्टितेति । २५८ गोष्ट २५९ लोष्ट संघाते । गोष्टेर्णिजन्तात् कर्मणि क्तः । लोष्टमिति । पचाद्यच् । घट्टितेति । २६० घट्ट चलने । कर्तरि क्तः । पोस्फुटदिति । २६१ स्फुट विकसने । यङ्लुगन्तात् शता ॥

अनन्कुमार्गेषु शुभाध्वनैव वन्प्रमन्भृशोत्कण्ठितगोपिके हरौ । स पापमुन्भिर्बुधहेड्भिरुन्मदैरनेठितां क्ष्मां पुनरप्यहिण्डत ॥ ३५ ॥ स उन्मदैरनेठितां क्ष्मां पुनरप्यहिण्डत । उन्मदैरुद्भूतमदैरनेठितामपीडितामहिण्डताधातुकाव्यम् ।१३७ गच्छत् । कीदृशः । कुमार्गेषु अनन्नगच्छन् । शुभाध्वना एव वन्नसहाय एव गच्छन् । भृशोत्कण्ठितगोपिके हरौ प्रमन् भृशमुत्कण्ठिता गोपिका यस्मिंस्तस्मिन् । सोत्कण्ठस्मृतिमान् । कीदृशैरुन्मदैः । पापमुन्भिः पापस्य पालकैः । वुधहेड्भिः वुधानां बाधकैः ॥-अनन्निति । २६२ अठि गतौ । अस्मात् क्विपि संयोगान्तलोपे अन् । तस्मान्नञ्समासे नुट् । वन्निति । २६३ वठि एकचर्यायाम् । सा चासहायगमनम् । प्राग्वत् । क्विप् । प्रमन्निति । २६४ मठि २६५ कठि शोके । अत्र शोकः सोत्कण्ठस्मरणम् । उत्कण्ठामात्रे त्वकर्मकः । मण्ठेः प्राग्वत् क्विप् । संयोगान्तलोपश्च । उत्कण्ठितेति । कण्ठः कर्तरि क्तः। पापमुन्भिः । २६६ मुठि पालने । क्विप् । बुधहेड्भिः । २६७ हेठ विबाधायाम् । २६८ एठ च । हेठेः क्विप् । अनेठिताम् । एठेः कर्मणि क्तः। अहिण्डत । २६९ हिडि गत्यनादरयोः लड् ॥

प्रहुण्डितानैक्षत चारुकुण्डलान्प्रवण्डितार्थानविमण्डिताशयान् । स भण्डिलो भोजनृपालपिण्डभुक्प्रमुण्डितांस्तत्र जनानतुण्डकान् ३६॥ भण्डिलः स तत्र प्रहुण्डिताञ्जनानैक्षत् । भण्डिलो दूतः । प्रहुण्डितान् संघातीभूतान् । चारुकुण्डलान् चारूणि कुण्डलानि येषां तान् । प्रवण्डितार्थान् प्रवण्डिताः सम्यक् विभक्ता अर्थाः पुरुषार्था धनानि वा येषां तान् । अविमण्डिताशयान् । अविमण्डितोऽविभक्त आशयो येषां तान् । एकमनस्कानित्यर्थः । प्रमुण्डितान् अत्यन्तशुद्धान् । अतुण्डकान् अहिसकान् । पिण्डमन्नम् ॥--प्रहुण्डितानिति । २७० हुडि संघाते कर्तरि क्तः । कुण्डलेति । २७१ कुडि दाहे । 'मृदिमण्डिकुण्डिकन्दिभ्योऽलच्' इत्यलच् । प्रवण्डितेति । २७२ वडि विभाजने । २७३ मडि च । द्वौ वेष्टनेऽपीत्येके । वण्डेः कर्मणि क्तः । अविमण्डितेति । मण्डेः कर्मणि क्तः। भण्डिल इति । २७४ भडि परिभाषणे । तच्च परितो भाषणम् । सनिन्दवचनं । परिहास इत्येके । अस्मात् 'सलिकल्यनिभटिभण्डितण्डिभ्य इलच्' इतीलच् । पिण्डेति । २७५ पिडि संघाते । पचाद्यच् । प्रमुण्डितान् । २७६ मुडि मार्जने । शुद्धिन्यग्भावौ तत् । कतीरे क्तः । अतुण्डकान् । २७७ तुडि तोडने । दारणं हिंसनं वा तत् । अस्माण् ण्वुल् ॥

अभुण्डितोचण्डगतीनशण्डनान्कुमार्गवैतण्डिकपण्डितावृतान् । स तानकण्डान्दधिखण्डनादिकस्वधर्मसक्तान् गतहेडमानमत् ॥ ३७ ॥ स तान् गतहेडमानमत् । गतहेडं गतावज्ञं यथा तथा नमस्कृतवान् । कीदृशान् । अभुण्डितोचण्डगतीन् अस्वीकृतक्रूरव्यापारान् । अशण्डनान् न शण्डनं परिपीडा येषां तान् । कुमार्गवैतण्डिकपण्डितावृतान् असन्मार्गस्य वैतण्डिकाः खण्डनैकपरा ये पण्डितास्तैरावृतान् मिश्रान् । अकण्डान् मदरहितान् । दधिखण्डनादिकस्वधर्मसक्तान् दधिखण्डनादिके दधिमथनादिके स्वधर्मे सक्तान् ॥-अभुण्डितेति । २७८ भुडि वरणे । स्वीकारस्तत् । हरण इत्येके । कर्मणि क्तः । उच्चण्डेति । २७९ चडि कोपे । पचाद्यच् । १३८ काव्यमाला । क्रूरत्वार्थो लक्षणया । शण्डनेति । २८० शडि रुजायां संघाते च । ल्युट् । वैतण्डिकेति । २८९ तडि ताडने । अस्माद 'गुरोश्च' इत्यकारे वितण्डा परपक्षस्य ताडनं निरसनं तथा दीव्यति व्यवहरतीति वैतण्डिकः ॥-पण्डितेति । २८२ पडि गतौ। प्राग्वदकारे पण्डा ज्ञानं गत्यर्थानां ज्ञानार्थत्वात् । अस्मात् तारकादित्वादितचि पण्डितः । अकण्डान् । २८३ कडि मदे । घञ् । खण्डनेति । २८४ खडि मन्थे । ल्युट् । हेडेति । २८५ हेडृ २८६ होडृ अनादरे हेडेर्घञ् ॥

अहोडनीयान्पशुपालयानसौ अपश्यदानन्दपयोधिबाडितः । सुपाकविद्रालिफलालिभिर्द्रुमैः स्निग्धानविध्राडितचारुशालिकान् ३८ असौ पशुपालयानपश्यत् । कीदृश इत्यत्राह-आनन्दपयोधिबाडितो मोदपयोधावाप्लुतः । कीदृशानित्यत्राह–अहोडनीयान् अनादर्तुमयोग्यान् । सुपाकविद्रालिफलालिभिर्द्रुमैः । स्निग्धान् । सुपाकेनातिपक्वतया विशरणशीलाः फलानां आलयो येषां तैर्दुमैः स्निग्धान् निबिडान् । अविध्राडितचारुशालिकान् अविध्राडिता अविशीर्णमञ्जरीयुक्ता अत एव चारवः शालयो येषु तान् । 'शेषाद्विभाषा' इति कप् ॥--अहोडनीयानिति । होडेरनीयर् । बाडितेति । २८७ बाडृ आप्लाव्ये । आप्लवनं तत् । कर्तरि क्तः । विद्रालि । २८८ द्राडृ २८९ ध्राडृ विशरणे । द्राडेर्णिनिः । 'डलयोरुक्तिभेदस्तु डकारो नाक्षरान्तरम्' इत्युक्त्या डस्य लः । अविध्राडितेति । ध्राडेः कर्तरि कः । शालीति । २९० शाडृ श्लाघायाम् । डलयोरभेदाल्लकारः । अस्मादौणादिक इन् । अट्टादय उदात्ता अनुदात्तेतः ॥

पशुपालयानेव वर्णयति पञ्चदशभि-(त्वष्टभिः)- प्रशौटदुस्रागणयौटितान्तिकान्मेटद्वृषाम्रेडितघोषमेदुरान् । अम्लेटकैश्चाकटुचाटुभाषितैरटैः पटत्संरटिताञ्जनोत्करैः ॥ ३९ ॥ प्रशौटद्भिर्गर्वायमाणैरुस्रागणैर्गोगणैः । यौटितं संबद्धमन्तिकं येषां तान् । मेटतां माद्यतां वृषाणामाम्रेडितेन पुनः पुनः कृतेन घोषेण नर्दनेन मेदुरान् पूर्णान् । जनोत्करैः पटत्संरटितान् पटत् व्याप्नुवत् संरटितं शब्दो येषां तान् । कीदृशैः । अम्लेटकैरमाद्यद्भिः । अकटु अतीक्ष्णं चाटु प्रियं भाषितं येषां तैः । अटैः संचरद्भिः ॥–-प्रशौठदिति । २९१ शौट्ट गर्वे । गण्यन्ता उदात्ता उदात्तेतः । अस्माच्छता । यौटितेति । २९२ यौट्ट बन्धे । कर्मणि क्तः । मेटदिति । २९३ मेट्ट २९४ म्रेड्ट २९५ म्लेट्ट उन्मादे । मेटेः शता । म्रेडेः कर्मणि क्तः । आड्पूर्वत्वादुत्तयर्थः । अम्लेटकैः । म्लेटेर्ण्वुल् । अकटु इति । २९६ कटे वर्षावरणयोः । चटे इत्येके । कटेः 'कटिबन्ध्यन्धिभ्यश्च' इत्युत्प्रत्ययः । चाट्विति । 'दसनिजनिवारचटिरहिभ्यो ञुण् । अटैः । २९७ अट २९८ पट गतौ । अटेः पचाद्यच् । पटेः शता । संरटितेति । २९९ रट परिभाषणे । 'नपुंसके भावे क्तः' ॥ धातुकाव्यम् । १३९ लाटार्हशाटीवटितैर्वटुव्रजैर्वृतान्खलैश्चाकिटितान्प्रखेटकैः । अशेटनीयैः सुधियामसेटकैर्युताञ्जटाझाटधरैश्च कैश्चन ॥ ४० ॥ वटुव्रजैर्वृतान् व्याप्तान् । कीदृशैः । लाटार्हशाटीवटितैः । लाटार्हाभिर्बाल्ययोग्याभिः शाटीभिर्वस्त्रैर्वटितैर्वेष्टितैः । प्रखेटकैः खलैरकिटितांश्च । प्रखेटकैस्त्रासकैः । अकिटितान् अत्रासितान् । कैश्चन जटाझाटधरैश्च युतान् । जटाझाटो जटासंघः । कीदृशैः । सुधियामशेटनीयैरत्यन्तमादर्तव्यैः । स्वयं चान्येषामसेटकैरादर्तृभिः॥-लाटेति । ३०० लट बाल्ये । घञ् । शाटीति । ३०१ शट रुजाविशरणगत्यवसादनेषु । घञन्तात् 'जातेरस्त्रीविषयाद्-' इति ङीष् । वटितैः । ३०२ वट वेष्टने । कर्मणि क्तः । वट्विति । 'वटिचटिचञ्चिभ्यश्च' इति भोजोक्त्या तस्मादेव उन् । अकिटितान् प्रखेटकैरिति । ३०३ किट ३०४ खिट त्रासे । त्रासनायामित्यर्थः । भीमार्थे च द्रुमे । कर्मणि क्तः । ण्वुल् च अशेटनीयैः । ३०५ शिट ३०६ षिट अनादरे । शिटेरनीयर् । असेटकैः । षिटेर्ण्वुल् । जटाझाटेति । ३०७ जट ३०८ झट संघाते । जटेरच् । झटेर्घञ् ॥

क्वचिद्भटाधिष्टितवेदिकातटान्क्वचिच्च खट्वाविहरन्नटीजनान् । क्वचिच्च पेटीशतपूर्णहाटकान्क्वचित्सटालोटनलोलघोटकान् ॥४१॥ भेटैरधिष्ठित आस्थितो वेदिकानां तट उन्नतप्रदेशो येषु तान् । खट्वायां विहरन्तः क्रीडन्तो नटीजना येषु तान् । पेटीशतेषु पूर्णानि हाटकानि हेमानि येषु तान् । सटानां गलरोम्णां लोटनेन क्षोभणेन लोलाश्चलन्तो घोटका अश्वा येषु तान् ॥- भटेति । ३०९ भट भृतौ । भृतिर्वेतनप्राप्तिः । अस्मात्पचाद्यच् । तटेति । ३१० तट उच्छ्राये । अच् । खट्वेति । ३११ खट काङ्क्षायाम् । 'अशिप्रुषिलटिकणिखटिविशिभ्यः क्वन्' इति क्वन् । नटीति । ३१२ णट नृत्तौ । हिंसायां च द्रुमे । नृत्तिर्नर्तनम् । तच्चात्र नटव्यापारः । अस्मादचि जातिडीष् । पेटीति । ३१३ पिट शब्दसंघातयोः । घञन्ताद् गौरादिङीष् । हाटकानिति । ३१४ हट दीप्तौ । संज्ञायां ण्वुल् । बाहुलकात् स्त्रीत्वाभावः । सटेति । ३१५ षट अवयवे । अजन्ताट्टाप् । लोटनेति । ३१६ लुट विलोटने । 'लुल' इत्यन्ये । लुटेर्ल्युट् । लोलेति । लुलेरच् ॥

चेटैर्विटैश्चानुगतानबेटकैरेटत्पशूत्केटिरजःकटन्मलान् । प्रकण्टिताशोदयदंशुमण्डितैरकुण्डरत्नैर्मुडितार्कदीधितीन् ॥ ४२ ॥ चेटैर्विटैश्वानुगतान् व्याप्तान् । कीदृशैः अवेटकैरनाक्रोशकैः । परेषामनिन्दकैः । एटद्भ्यः पशुभ्य उत्केटिभिरूर्ध्वं गच्छद्भी रजोभिर्हेतुभिः कटदपगच्छन् मलं पापं येभ्यस्तान् । अकुण्डरत्नैरकुण्डैरविकलैः संपूर्णैः रत्नैः पद्मरागादिरत्नैर्मुडिता मर्दिता तिरस्कृतार्कप्रभा येषु तान् । कीदृशै रत्नैः। प्रकण्डिताशोदयदंशुमण्डितैः । प्रकण्टिताशं व्याप्तदिक्कं


3. 'विरुजा' पा०. २. 'वित्रासे' पा०. १४० काव्यमाला । यथा तथोदयद्भिद्गच्छद्भिरंशुभिर्मण्डितैरलंकृतैः ॥-चेटैरिति । ३१७ चिट परप्रेष्ये । अच् । विटैः । ३९८ विट शब्दे । इगुपधत्वात् कः । अवेटकैः । ३१९ बिट आक्रोशे । ण्वुल् । एटदिति । ३२० इट ३२१ किट ३२२ कटी गतौ । इटेः शता । पशूत्केटीति । 'बहुलमाभीक्ष्ण्ये' इति णिनिः । कटदिति । कटेः शता । प्रकण्टितेति । 'इदितं कटिमिच्छन्ति केचिदन्ये तमेदितम् । इधातुमत्र प्रश्लिष्टमधातुं वा परे जगुः ॥' इत्युक्तेः कटेरित्त्वपक्षे कर्मणि क्तः । उदयदिति । इधातुप्रश्लेषपक्षे शता । मण्डितैः । ३२३ मडि भूषायाम् । कर्मणि क्तः । अकुण्डेति । ३२४ कुडि चैकल्ये । अच् । मुण्डितेति । ३२५ मुड ३२६ मुडि मर्दने । कर्मणि क्तः ॥

अचुन्ननुन्मुण्डितपुण्डरीकभृत्सरःश्रियो रुण्डकलुण्डनोज्झितान् । अस्फोटदग्र्यस्फटिकादिभाजनान्पाठोत्सुकैश्चावठरैर्लसन्मठान् ॥ ४३ ॥ अचुण्ड्यनल्पीभवन्त्यनुन्मुण्डितान्यखण्डितानि । अविकसितानीति यावत् । पुण्डरीकाणि बिभ्रति यानि सरांसि तैः श्रीः शोभा येषां तान् । तथा रुण्डकानां चोराणां लुण्डनेन चौर्येणोज्झितांस्त्यक्तान् । अस्फोटन्त्यभिन्नानि अग्र्याणि श्रेष्ठानि स्फटिकादिभाजनानि येषां तान् । पशुपालयान् अवठरैरमूर्खैः पाठोत्सुकैर्लसन्मठांश्च । पाठो विद्याभ्यासः । मठो गृहविशेषः ॥-अचुन्निति । ३२७ चुडि अल्पीभावे । क्विप् । अनुन्मुण्डितेति । ३२८ मुडि खण्डने। पुडीत्येके । मुण्डेः कर्मणि क्तः । पुण्डरीकेति । 'पपरीकादयश्च' इत्यत्र 'मृद्वीक-तन्तिडीक-बाह्लीक-वलीक-कल्मलीक-पुण्डरीक-चञ्चरीक-प्रतीक-सभीक-पूतिकादयश्च' इत्यत्र(?) भोजेन निपातितः । रुण्डक-लुण्डनेति। ३२९ रुटि ३३० लुटि स्तेये । 'रुठि लुठि' इत्येके । 'रुडि लुडि' इत्यपरे । ण्वुल्ल्युटौ । अस्फोटदिति । ३३१ स्फुटिर् विशरणे । स्फुट स्फुटि स्फुटे इत्येके । स्फुटेः शता । स्फटिकेति । 'अलिकलिदलिस्फटिकाभ्यश्च' इति भोजोक्त्या स्फटेः किकन् । पाठेति । ३३२ पठ व्यक्तायां वाचि । घञ् । अक्ठरैरिति । ३३३ वठ स्थौल्ये । अस्मादौणादिकोऽरप्रत्ययः । मठेति । ३३४ मठ ३३५ कठ मदनिवासयोः । मठेर्घञर्थे कः ॥

वनाश्रयत्वेऽपि सकाठपर्यठद्रठन्मृगालीहठकर्मवर्जितान् । रोठन्नृशंसालुठितैरनोठकैर्वृतान्धनाढ्यैर्मणिपीठसंश्रयैः ॥ ४४ ॥ वनाश्रयत्वे सकाठं समदं यथा तथा पर्यंठन्त्याः चरन्त्या. रठन्याः शब्दायमानाया मृगाल्या हठकर्मणा क्रूरकर्मणा वर्जितान् । मणिपीठसंश्रयैर्धनाढ्यैवृतान् । कीदृशैः । रोठन्नृशंसालुठितैः । रोठद्भिर्हिंसकैर्नृशंसैः क्रूरैरलुठितैरपीडितैरनोठकैरन्येषामहिंसकैः ॥--काठेति । कठेर्घञ् । पर्यठदिति । 'अठ गतौ' इत्यप्येके । शता । रठदिति । ३३६ रठ परिभाषणे । [ रट इत्येके । ] शता हठेति । ३३७ हठ प्लुतिशठत्वयोः । बलात्कार इत्येके । पचाद्यच् । रोठदिति। ३३८ रुठ ३३९ लुठ ३४० उठ उपघाते । ऊठेत्येके । रुठेः शता । अलुठितैरिति । लुठेः कर्मणि क्तः । ओठकैरिति । उठेर्ण्वुल् । पीठेति । ३४१ पिठ हिंसासंक्लेशनयोः । घञर्थे कः । 'अन्येषामपि दृश्यते' इति दीर्घः ॥ धातुकाव्यम् । १४१

शठत्वमार्गे शुठितैरकुण्ठितैरलुण्ठिताशुण्ठितसौहृदान्वितैः । प्ररुण्ठिताघैरनुलुण्ठकैर्हरेः प्रचुड्डबोधाद्भिरतीव शोभितान् ॥ ४५ ॥ हरेरनुलुण्ठकैरतीव शोभितान् । अनुलुण्ठकैरनुचरैः। अतीवात्यर्थम् । कीदृशैः । शठत्वमार्गे शुठितैः प्रतिहतगतिभिः । अकुण्ठितैः स्वकृत्येष्वप्रतिहतैः । अलुण्ठितेनाप्रयासेनाप्रतिहतेन वा अशुण्ठितेनाशुष्केण क्षीणेन च सौहृदेनान्वितैः । प्ररुण्ठितं सम्यग्गतमघं येषां तैः । प्रचुड्ढस्य अभिप्रायाविष्करणस्य बोधे अद्भिरभियुक्तैः ॥–शठत्वेति । ३४२ शठ कैतवे च । अस्मात्पचाद्यजन्तात् त्वप्रत्ययः । शुठितैः । ३४३ शुठ गतिप्रतिघाते । ३४४ कुठि च । अयं प्रतिघातमात्र एवेति माधवः। आलस्ये गतिप्रतिघाते वास्ति द्रुमे । शुठेः कर्मणि क्तः । अकुण्ठितैः । कुठेः कर्तरि क्तः । अलुठितेति । ३४५ लुठि आलस्ये प्रतिघाते च । कर्तरि क्तः । अशुण्डितेति । ३४६ शुठि शोषणे । प्राग्वत् क्तः । प्ररुण्ठितेति । ३४७ रुठि ३४८ लुठि गतौ । रुण्ठेः कर्तरि क्तः । लुण्ठेर्ण्वुल् । प्रचुड्डेति । ३४९ चुड्डु भावकरणे । अभिप्रायाविष्करणं तत् । अस्माद् घञ् । अद्भिरिति । ३५० अड्ड अभियोगे । दोपधादस्मात् क्विपि संयोगान्तलोपः ॥

अकद्धरिक्रीडनधूततोडकान्प्रहूडितान्होदडरोड्यभिक्षुकैः । प्ररोडकानङ्गविलोलितैर्वृतान् रतावडद्भिर्ललनाजनैः कलैः ॥ ४६ ॥ अकड्डा अकर्कशेन हरिक्रीडनेन धूता निरस्तास्तोडकाः पीडका येषु तान् । होडद्भिः संचरद्भिः । अरोड्यैः आदरणीयैर्भिक्षुकैः संन्यासिभिः प्रहूडितान् प्राप्तान् । ललनाजनैर्वृतान् । कीदृशैः । प्ररोडकेन सर्वोन्मादकेन अनङ्गेन विलोलितैर्मादितैः । रताबडद्भिरुद्यच्छद्भिः । कलैर्मधुरैः ॥--अकदिति । ३५१ कड्डु कार्कश्ये । चुड्डादयस्त्रयो दोपधाः । डोपधाश्च द्रुमे । कड्डेः प्राग्वत् क्विप् । क्रीडनेति । ३५२ क्रीड विहारे । ल्युट् । तोडकानिति । ३५३ तुडृ तोडने । 'तूडृ' इत्येके । तोडनमुक्तम् । तुडेर्ण्वुल् । प्रहूडितान् । ३५४ हडृ ३५५ होडृ गतौ । हुट्ट इत्येके । हूडेः कर्मणि क्तः । होडदिति । होडे: शता । अरोड्येति । ३५६ रोडृ अनादरे । ण्यत् । प्ररोडकेति । ३५७ रोडृ ३५८ लोडृ उन्मादे । रोडेर्णिजन्ताद् ण्वुल् । विलोलितैः लोडेर्णिजन्तात् कर्मणि क्तः । अडद्भिः। ३५९ अड उद्यमे । शता । ललनेति । ३६० लड विलासे । लडेर्युच् । कलैः । ३६१ कड मदे । कडि इत्येके । कडेरच् । शौटादय उदात्ता अयतिवर्जं(?) उदात्तेतः ॥

अथ गोपगृहान् पश्यतोऽक्रूरस्य हर्षातिशयमाह- अतिप्त हर्षाश्रु धृतिश्च तेपिता गृहानिमान्प्रस्तिपितार्ति पश्यतः । अस्तेपितानन्दरसस्य तस्य न व्यग्लेपि चाङ्गैर्विपिनाध्वकेपनात्॥४७॥ इमान् गृहान् प्रस्तिपितार्ति पश्यतः तस्य हर्षांश्रु अतिप्त । प्रस्तिपिता क्षरिता गता आर्तिर्यस्मिन् तथा पश्यतस्तस्याक्रूरस्य हर्षाश्रु अतिप्ताक्षरत् । धृतिश्च तेपिता गता ।

द.१४ १४२ काव्यमाला ।

विपिनाध्वकेपनादङ्गैर्न व्यग्लेपि च । विपिनाध्वनो वनमार्गस्य केपनात् संचरणादङ्गैर्न व्यग्लेपि न विशेषतः ग्लानीभूतम् । कीदृशस्य । अस्तेपितोऽगतः आनन्दातिशयो यस्य तस्य ॥-अतिप्तेति । ३६२ तिपृ ३६३ तेपृ ३६४ ष्टिपृ ३६५ ष्टेपृ क्षरणार्थाः । 'विपृ धेपृ' इत्येके । तेपृ कम्पने च । स्तुभान्ता अनुदात्तेतः उदात्तास्तिपिवर्जम् । तिपेर्लुड् । तेपितेति । प्रस्तिपितेति । अस्तिपितेति । तेप्यादीनां त्रयाणां कर्तरि क्तः । व्यग्लेपि । ३६६ ग्लेपृ दैन्ये । भावे लडि चिण् । विपिनेति । ३६७ टुवेपृ कम्पने । 'वेपितुह्योर्ह्रस्वश्च' इतीनच् । केपनात् । ३६८ केपृ ३६९ गेपृ ३७० ग्लेपृ च । चकारात् कम्पने गतौ च । केपेर्ल्युट् ॥ अगेपनोऽग्लेपत स व्रजं यदा रविस्तदामेपत पश्चिमां दिशम् । प्ररेपितात्कोरकतां सरोरुहादलेपि भृङ्गैः कुमुदं त्रपान्वितैः ॥ ४८ ॥ स यदा व्रजमग्लेपत तदा रविः पश्चिमां दिशममेपत गतवान् । अगेपनो निश्चलधीः । तदा च त्रपान्वितैर्भृङ्गैः कोरकतां प्ररेपित्तात् प्राप्तात् सरोरुहात् कुमुदमलेपि प्राप्तम् ॥-अगेपनेति । गोपेः 'अनुदात्तेतश्च-' इति युच् । अग्लेपत । ग्लेपेर्लड् । अमेपतेति । ३७१ मेपृ ३७२ रेपृ ३७३ लेपृ गतौ । मेपेर्लङ् । प्ररेपितात् । रेपेः कर्तरि क्तः । अलेपि । लेपेः कर्मणि लुडि चिण् । त्रपेति । ३७४ त्रपूष् लज्जायाम् । 'षिद्भिदादिभ्योऽड्' इत्याडि त्रपा ॥

संध्यां वर्णयत्यष्टभिः-- सकम्पहेरम्बसमानलम्बनाः समाव्रजन्नम्बितघण्डिकास्तदा । प्रलम्बसास्नाः कबरत्विषो वृषा अक्लीबिताः क्षीबतयातिशीभराः॥४९॥ तदा वृषाः समावजन् वनादागतवन्तः । कीदृशा इत्यत्राह-सकम्पं हेरम्बेण गणेशेन समानं लम्बनं शब्दो येषां ते । अक्लीबिताः अतिप्रगल्भाः क्षीबतया मत्तत्वेनातिशीभरा नितरां रम्याः । अम्बिताः शब्दिता घण्डिका येषां ते । प्रलम्बा अवस्रस्ताः [ सास्ना येषां ते ] कबरा नानारूपा त्विट् येषां ते ॥-सकम्पेति । ३७५ कपि चलने । घञ् । हेरम्बेति । ३७६ रबि ३७७ लबि ३७८ अबि शब्दे । ३७९ लबि अवस्रंसने च । हे इत्येवं रम्बते इति हेरम्बः । रम्बेः कर्मण्यण् । लम्बनेति । लम्बेर्ल्युः । अम्बितेति । अम्बेः कर्तरि क्तः । प्रलम्बेति । अवस्रंसनार्थाल् लम्बेः पचाद्यच् । कबरेति । ३८० कबृ वर्णे । बाहुलकादरप्रत्ययः । अक्लीबिताः । ३८१ क्लीबृ अधार्ष्ट्ये । कर्तरि क्तः । क्षीबतयेति । ३८२ क्षीबृ मदे । 'अनुपसर्गात्फुल्लक्षीब-' इति निष्ठायामिडभावो लोपश्च निपातितः । शीभराः । ३८३ शीभृ कत्थने । ३८४ चीभृ च । पूर्ववदरप्रत्ययः ॥

प्रचीभ्यरेभैः पशवोऽम्भसांनिधिप्ररम्भणस्तम्भिभिरागता व्रजम् । अस्कम्भिताः प्राप्य शिशून्सजम्भनानुज्जृम्भहर्षा लिलिहुः सशल्भनम् धातुकाव्यम् । १४३ पशवः प्रचीभ्यरेभैः सह व्रजमागताः प्रचीभ्याः प्रशंसनीया रेभाः शब्दास्तैः। कीदृशैः। अम्भसां निधेः समुद्रस्य प्ररम्भणं शब्दं स्तम्भयितुं रोद्धुं शीलं येषां तैः । अस्कम्भिताः शिशुन् प्राप्य उज्जृम्भहर्षाः सशल्भनं लिलिहुः । अस्कम्भिताः प्रतिबन्धरहिताः । उज्जृम्भो वर्धमानो हर्षो यासां ताः । सशल्भनं शल्भनेन सहितं यथा तथा । शल्भनं श्लाघा । लिलिहुः । शिशून् विशिनष्टि-सजम्भनान् जम्भनेन सहितान् । जम्भनं जृम्भा ॥-प्रचीभ्येति । चीभेर्ण्यत् । रेभैः । ३८५ रेभृ शब्दे । अभि रभि इत्येके । रेभेर्धञ् । अम्भसामिति । अम्भेरसुन् । अम्भसांनिधीति 'तत्पुरुषे कृति बहुलम्' इत्यलुक् । प्ररम्भणेति । रम्भेर्ल्युट् । स्तम्भिभिरिति । ३८६ ष्टभि ३८७ स्कभि प्रतिबन्धे । स्तम्भेर्णिजन्ताण्णिनिः । अस्कम्भितः । स्कम्भेः कर्तरि क्तः । सजम्भनान् । ३८८ जभि ३८९ जृभि गात्रविनामे । आद्य ईदिदित्येके । जम्भेर्ल्युट् । रधिजभोरचीति नुम् । उज्जृम्भेति । जृम्भेः पचाद्यच् । सशल्भनम् । ३९० शल्भ कत्थने । ल्युट् ॥

वल्भप्रगल्भाः पथिकाश्च तत्क्षणं सुश्रम्भणस्तोभयुतानगुर्गृहान् । गोपायतां धर्ममधूपितात्मनां जल्पान्विमुच्याभवदुद्यमो जपे ॥ ५१ ॥ पथिकाश्च तत्क्षणं गृहान् अगुः । यथा गावस्तथा पान्था अपि तं कालमभिव्याप्य संध्यावसितिरितपर्यन्त(?)मागताः । कीदृशाः । वल्भे भोजने प्रगल्भाः समर्थाः । कीदृशान् गृहान् । सुश्रम्भणस्तोभयुतान् समीचीनपाकव्यापारयुक्तान् । [ततश्च ] धर्म गोपायतामधूपितात्मनां जल्पान् विमुच्य जपे उद्यमोऽभवत् । गोपायतां परिरक्षताम् । अधूपितोऽसंतप्त आत्मा मनो येषां तेषां सतामित्यर्थात् ॥--वल्भेति। ३९१ वल्भ भोजने । घञ् । प्रगल्भाः ।३९२ गल्भ धार्ष्ट्ये । पचाद्यच् । सुश्रम्भणेति । ३९३ श्रम्भु पाके । ल्युट् । स्तोभेति । ३९४ ष्टुमु स्तम्भे । अयं व्यापारार्थे प्रसिद्धः । अस्मात् घञ् । तिपादयोऽनुदात्तेतः । तिपिवर्जमुदात्ताः । गोपायतामिति । ३९५ गुपू रक्षणे । स्तम्भान्ता उदात्ता उदात्तेतः । अस्मात् 'गुपूधूपविच्छिपणिपनिभ्य आयः' इत्यायप्रत्ययान्तः शता । अधूपितेति । ३९६ धूप संतापे । कर्तरि क्तः । जल्पान् । ३९७ जल्प ३९८ जप व्यक्तायां वाचि । जप मानसे च । जल्पेर्घञ् । जप इति । 'व्यधजपोरनुपसर्गे' इत्यप् ॥

चेपुः सपन्तोऽसचितां प्रियां प्रियाः संध्येति रेपुः कललापिनः शुकाः । श्येनाश्चुपित्वा तुतुपुः कपोतकान्काकानतुम्पन्नभितुत्रुपुः शशान् ॥५२॥ प्रिया सपन्तोऽसचितां प्रियां चेपुः । प्रियाः पादप्रणामादिभिर्मिलिता अरञ्चितां प्रियां सान्त्वयामासुः । कललापिनः शुकाः संध्या इति रेपुर्व्यक्तमवदन् । श्येनाश्चुपित्वा कपोतकांस्तुतुपुः । पक्ष्याखेटाय विसृष्टाः श्येनाश्चुपित्वा मन्दं गत्वा तुतुपुरपीडयन् । काकान् अतुम्पन् विव्यथुः । शशानभितुत्रुपुरहिंसन् ॥--चेपुरिति । ३९९ चप सान्त्वने । लिट् । सपन्तः । ४०० षप समवाये । पचेत्येके । समवायः संबन्धः सम्यगवबोधो वा । सपेः शता । असचिताम् । सचेः कर्तरि क्तः । रेपुः । ४०१ १४४ काव्यमाला । रप ४०२ लप व्यक्तायां वाचि । रपेर्लिट् । कललापिनः । लपोर्णिनिः । चुपित्वा । ४०३ चुप मन्दायां गतौ । अस्मात् 'समानकर्तृकयोः पूर्वकाले' इति क्त्वा । तुतुपुः । ४०४ तुप ४०५ तुम्प ४०६ त्रुप ४०७ त्रुम्प ४०८ तुफ ४०९ तुम्फ ४१० त्रुफ ४११ त्रुम्फ हिंसार्थाः । तुपेर्लिट् । अतुम्पन् । तुम्पेर्लड् । अभितुत्रुपुः । त्रुपेर्लिट् ॥

अत्रुम्प्यधामानमिनं प्रतोफितुं प्रतुम्फशीलान्मिलतोऽथ राक्षसान् । अत्रोफकास्तुम्फितुमुद्यता जलैर्वापीमपर्पन्नरफन्नदीं द्विजाः ॥ ५३ ॥ अथ द्विजाः अत्रुम्प्यधामानमिनं प्रतोफितुं मिलतः राक्षसान् जलैस्तुम्फितुमुद्यताः वापीमपर्पन् । नदीमरफन् । अत्रुम्प्यमहिंस्यं धाम तेजो यस्य तमिनं सूर्यं प्रतोफितुं हिंसितुं मिलतः संघीभवतो राक्षसान् मन्देहनाम्नो जलैः संध्याञ्जलिभिस्तृम्फितुं हन्तुमपर्पन्नगच्छन् । केचित् नदीमरफन्नगच्छन् । कीदृशाः द्विजाः । अत्रोफका अहिंसकाः । कीदृशान् राक्षसान् । प्रत्रुम्फशीलान् । प्रतुम्फो हिंसनं शीलं येषां तान् ॥–अत्रुम्प्येति। त्रुम्पेर्ण्य॑त् । प्रतोफितुम् । तुभेस्तुमुन् । प्रतुम्फेति । तुम्फेर्घञ् । अत्रोफकाः । त्रुफेर्ण्वुल् । तुम्फितुम् । त्रुफेस्तुमुन् । अपर्पन्निति। ४१२ पर्प ४१३ रफ ४१४ रफि ४१५ अर्ब ४१६ पर्ब ४१७ लर्ब ४१८ बर्ब ४१९ मर्ब ४२० कर्ब ४२१ खर्ब ४२२ गर्ब ४२३ शर्ब ४२४ षर्ब ४२५ चर्ब गतौ । अर्बादयो नोपधा इत्येके । पर्पेर्लड् । रफेश्च लड् ॥

हयैः सुरम्फैर्द्रुतमर्बतो रवेः पर्वद्भिरालर्ब्यत रक्तिमा करैः । प्रबर्ब्य शैलानुपमर्ब्य पद्मिनीं प्रकर्ब्य चाशा: श्रमशोणितैरिव ॥५४॥ सुरम्फैर्हयैर्द्रुतमर्बतो रवेः पर्वद्भिः करैः रक्तिमा आलर्ब्यत । सुरम्फैः शोभनगमनशीलैः । अर्बतः गच्छतः । पर्बद्भिः प्रसरद्भिः करैः रश्मिभिः । रक्तिमा रक्तत्वम् । आलर्ब्य॑त सम्यगवापि । शैलान् प्रबर्ब्य, पद्मिनीमुपमर्ब्य, आशाः प्रकर्ब्य च, श्रमशोणितैरिव । शैलाग्रगमनेन पद्मिनीप्राप्त्या सर्वदिक्संचारेण च जातेन परिश्रमेण शोणितैरिव ॥----सुरम्फैरिति । रम्फेर्घञ् । अर्बे शता । पर्बेश्च । आलर्ब्यत । कर्मणि लड् । बर्बिमर्बिकर्बीनां ल्यप् ॥

अखर्वि शैलाप्रमगबि सौधभूरशर्बि शाखाशिखरं च रश्मिभिः । ऊर्ध्वप्रसर्वान्न तु चर्विता मही दिक्कुम्बितेऽर्के परिलुम्बिताम्बुजे ॥५५॥ रश्मिभिः शैलाग्रमखर्बि । सौधभूरगर्बि । शाखाशिखरं च अशर्बि । सर्वत्र प्राप्तमित्यर्थः । अर्के परिलम्बिताम्बुजे दिक्कुम्बिते ऊर्ध्वप्रसर्वात् मही न तु चर्बिता । परिलम्बितानि अर्दितानि अम्बुजानि येन तादृशे अर्के दिशाच्छादिते सति । ऊर्ध्वगमनात् हेतोर्मही रश्मिभिः न प्राप्ता अखर्बि । अगर्बि । अशर्बि । एषु कर्मणि चिण् । प्रसर्बेति । धातुकाव्यम् । १४५ सर्वेर्घञ् । चर्वेः कर्मणि क्तः । कुम्बितेति । ४२६ कुघि आच्छादने । प्राग्वत् क्तः । परिलम्बितेति । ४२७ लुबि ४२८ तुबि अर्दने । लुम्बेः प्राग्वत् क्तः ॥

वियोगसंतुम्बितकोकचुम्बिता संतापसृब्धापि जगाद तद्वधूः । मा त्वां स्मरः मृम्भतु शोभनाकृते चिन्ता न शुम्भेन च सुम्भतु व्यथा ५६ वियोगसंतुम्बितकोकचुम्बिता तद्वधूः संतापसृब्धा अपि जगाद । वियोगेन भविष्यता संतुम्बितेनार्दितेन कोकेन चुम्बिता तद्वधूस्तस्य कोकस्य वधूः स्वयं संतापेन सूब्धा पीडिता अपि जगाद । हे शोभनाकृते भासमानाकृते प्रिय, त्वां स्मरो मा सृम्भतु पीडयतु । चिन्ता न शुम्भेत् न स्फुरतु । पीडयतु वा । व्यथा न च सुम्भतु ॥--संतुम्बितेति तुबेः कर्मणि क्तः । ४२९ वुबि वक्रसंयोगे । प्राग्वत् क्तः । सृब्धा । ४३० षृभु ४३१ षृन्भु हिंसार्थौ । षिभु षिन्भु इत्येके । ष्टभेः प्राग्वत् क्तः । सृन्भेर्लोट् । शोभदिति । ४३२ शुभ ४३३ शुन्भ भाषणे । हिंसायां च भासन इत्येके । षुन्भेत्यन्ये । शुभेः शता शुभेर्लिड् । सुन्भेर्लोट् । गुपादय उदात्ता उदात्तेतः ॥

प्रघिण्य भूषाः परिघुण्य मालिकाः प्रघृण्य घोणापुटघूर्णिचन्दनम् । पणाय्यरूपाः पनिताकृतीन्ययुर्भामिन्य एवाक्षमया स्वकामुकान्॥५७॥ भामिन्य एव भूषाः प्रघिण्य मालिकाः परिघुण्य घोणापुटघूर्णिचन्दनं प्रघृण्य च अक्षमया स्वकामुकान् ययुः । भामिन्यः प्रणयकुपिताः स्त्रियः । एवेत्यप्यर्थे । भूषा मालिकाः चन्दनं च गृहीत्वेत्यर्थः । घोणापुटं नासान्तर्भागं घूर्णयति भ्रमयतीति तथा । कीदृश्यः । पणाय्यं स्तुत्यं रूपं यासां ताः । कीदृशान् कामुकान् । पनिता स्तुता आकृतिर्येषा तान् ॥-प्रघिण्य । परिघुण्य प्रघृण्वेति । ४३४ घिणि ४३५ धुणि ४३६ घृणि प्रहणे । इदित्त्वाद् नुमि ष्टुत्वं ल्यप् । घोणेति । ४३७ धुण ४३८ धूर्ण भ्रमणे । धुणेरचिकोडादिनिपातनात् टाप् । घूर्णीति । घूर्णेणिजन्ताण्णिनिः । पणाय्येति । ४३९ पण व्यवहारे स्तुतौ च । ४४० पन च । पन स्तुतावेव। 'गुपूधूप-' इत्यायान्ताण्ण्यत् । पनितेति । पनेः कर्मणि क्तः। भामिन्यः । ४४१ भाम क्रोधे । घञन्तान्मत्वर्थीय इनिः । अक्षमयेति । ४४२ क्षमूष् सहने । षित्वादड् । कामुकानिति । ४४३ कमु कान्तौ । कान्तिरिच्छा । 'लषपत-' इत्यादिना उकञ् । घिण्यादय उदात्ता अनुदात्तेतः ॥

अणद्दिशः केलिरणैर्मनोज्ञया वाण्या भणन्तो मणिभूषणोत्कणाः । वनात्कुमारा: क्वणिताग्र्यवेणवो व्रणद्विषाणभ्रणिताभ्रमाययुः ॥५८॥ कुमारा वनात् क्वणिताग्र्यवेणवो व्रणद्विषाणभ्रणिताभ्रमाययुः । व्रणता शब्दायमानेन विषाणेन भ्रणितं शब्दितमभ्रमाकाशं यस्मिन् तथा आययुः । कीदृशा बालाः । केलिरणैः अणद्दिशो अण्यन्त्यः शब्दायमानाः दिशो येषां ते । मनोज्ञया वाण्या भणन्तः । मणिभूषणैः उत्कणाः सशब्दाः । क्वणिता अग्र्या वेणवो येषां ते ॥-अणदिति । ४४४ अण ४४५ रण ४४६ वण ४४७ भण ४४८ मण ४४९ कण ४५० क्वण १४६ काव्यमाला । ४५१ व्रण ४५२ भ्रण ४५३ ध्वण शब्दार्थाः । धण इत्येके । अणेः शता । मणीति । मणेरौणादिक इन् । उत्कणा । कणेरप् । क्वणितेति । क्वणेः कर्तरि क्तः । व्रणदिति । व्रणेः शता । भ्रणितेति । भ्रणेः प्राग्वत् क्तः ॥

ध्वणच्छिशून्धाणसमोणिताशुभाञ्शोणान्पृथुश्रोणिजनो दुदोह च । प्रश्लोणितान्प्रैणनविध्रणत्क्षितीननुल्बणान्धेनुगणान्कनत्स्तनान् ॥५९॥ पृथुश्रोणिजनो धेनुगणान् दुदोह । गोपस्त्रीजनो नवसूतान् पशुगणान् अदुहत् (?) । कीदृशान् । ध्वणच्छिशून् शब्दायमाना बाला येषां तान् धाणसमोणिताशुभान् धाणेन शब्देन सम्यगोणितमपनीतमशुभं यैस्तान् । शोणान् रक्तवर्णकपिलप्रायान् प्रश्लोणितान् एकत्र संघातीभूतान् । प्रैणनेन गया विध्रणन्ती शब्दायमाना क्षितिर्येषां तान् । अनुल्बणान् सौम्यान् । कनन्तः शोभमानाः स्तना येषां तान् ॥-ध्वणदिति । ध्वणेः शता । धाणेति । धाणेर्घञ् । ओणितेति । ४५४ ओणृ अपनयने । कर्मणि क्तः । शोणान् । ४५५ शोणृ वर्णगत्योः पचाद्यच् । श्रोणीति ४५६ श्रोणृ संघाते । ४५७ श्लोणृ च । श्रोणेरिन् । प्रश्रोणितान् । श्रोणेः कर्तरि क्तः । प्रैणनेति । ४५८ प्रैणृ गतिप्रेरणश्लेषणेषु । ['पैणृ' इत्यपि क्वचित्पठ्यते। ] ल्युट् । विध्रणदिति । ४५९ ध्रण शब्दे । बण इत्येके । ध्रणेः शता । 'रषाभ्याम्' इति णः । उल्बणेति । बणेः पचाद्यच् । कनदिति । ४६० कनी दीप्तिकान्तिगतिषु । शता । स्तनेति । ४६१ ष्टृन ४६२ वन शब्दे । पचाद्यच् ॥

वनाद्वनं सानुममन्द्रमन्गृहं व्याधोत्करोऽहमतिमीमिताशयः । चान्तामिषश्छान्तजलः फलावलीं जान्त्वा झमञ्जेमनमक्रमीगुहाम्॥६० वनाद् वनं सानुं चामन्, गृहं द्रमन्, व्याधोत्करः चान्तामिषः, छान्तजलः, फलावलीं जान्त्वा जेमनं झमन् गुहामक्रमीत् । अमन् संचरन् । द्रमन् प्राप्नुवन् । चान्तं भक्षितं मांसं येन सः। छान्तं पीतं जलं येन सः। जान्त्वा भुक्त्वा । जेमनं लेह्यं आहारम् । झमन्नदन् । अक्रमीत् प्रविवेश । अहंमतिः अज्ञानं तेन मीमितः प्राप्तः आशयो यस्य सः ॥--वनादिति । वनेरच् । वनमिति । ४६३ वन ४६४ षण संभक्तौ । अर्थभेदमात्रेण पुनः पठितस्य वनेरप्यच् । सानुमिति । 'दृसनि' इति सनेः ञुण् । अमन् । ४६५ अम गत्यादिषु । आद्युक्तेः शब्दसंभक्तिरोगेषु । अस्माच्छता । द्रमन् । ४६६ द्रम ४६७ हम्भ ४६८ मीमृ गतौ । मीम शब्देऽपीत्येके । द्रमेः शता । अहम्मतिः । हम्मेर्भावे श्तिप् शप् च । हम्मतिर्ज्ञानम् । नञ्समासः । मीमितेति । मीमेः कर्मणि क्तः । चान्तेति । छान्तेति । ४६९ चमु ४७० छमु ४७१ जमु ४७२ झमु अदने । जिमेति चैके । चमिछम्योः कर्मणि क्तः । जान्त्वा । जमेः क्त्वा झमन् झमेः शता । जेमनम् । जिमेर्ल्युट् । अक्रमीत् । ४७३ क्रमु पादविक्षेपे । लुड् ॥


१. 'मालाः' इति पाठः. धातुकाव्यम् । १४७ अन्तस्थया कौतुकमूर्छया व्रजं तदायतासौ वयमानवात्सकम् । पयः प्रदोहादिरताः प्रमथ्य तं प्रैक्षन्त नूत्नाचयितं कुतूहलात् ॥६१॥ असौ तदा अन्तस्थया कौतुकमूर्च्छया व्रजमायत् आगच्छत् । कीदृशं व्रजम् । वयमानं ततस्ततो गच्छत् वात्सकं वत्ससमूहो यस्मिस्तम् । पयः प्रदोहादिरता जनाः प्रमथ्य नूत्नाचयितं तं कुतूहलात् प्रैक्षन्त । प्रमथ्य प्राप्य नूत्नया आचयितं आगतम् ॥-आयतेति । ४७४ अय ४७५ वय ४७६ पय ४७७ मय ४७८ चय ४७९ तय ४८० णय गतौ । षय इत्यप्येके । 'तय णय रक्षणे च' इत्येके । अयेर्लड्। वयेः शानच् । पयेरसुन् । मयेर्ल्यम् । आचयितं । चयेः कर्तरि क्तः ॥

प्रतथ्य किंचिन्नयितो गृहान्तिकं ददर्श धन्यः स दयालुमीश्वरम् । गोदोहदेशे रयितं सहाग्रजं तमूतसत्कीर्तिमपूतिभिर्गुणैः ॥ ६२ ॥ धन्यः स किचित् प्रतथ्य गृहान्तिकं नयितः दयालुमीश्वरं सहाग्रजं ददर्श । प्रतथ्य चरित्वा । नयितः प्राप्तः । कीदृशमीश्वरम् । गोदोहदेशे रयितमुपगतम् । अपूतिभिर्गुणैरूतसत्कीर्तिम् । सुरभिभिः सर्वेन्द्रियानन्दिभिः स्वगुणरूपैर्गुणैस्तन्तुभिरूता कृता सती प्रशस्ता कीर्तिरूपा पटी येन तम् । प्रतथ्येति । तयेर्ल्यप् । नयितः णयेः कर्तरि क्तः । दयालुमिति । ४८१ दय दानगतिरक्षणहिंसादानेषु । 'स्पृहिगृहिपतिदयि-'इत्यादिनालुच् । रयितम् । ४८२ रय गतौ । कर्तरि क्तः । ऊतेति । ४८३ ऊयी तन्तुसंताने । कर्मणि क्तः । अपूतिभिरिति । ४८४ पूयी विशरणे दुर्गन्धे च । क्विन् ॥

ईश्वरं विशिनष्टि चतुर्दशभिः- प्रक्रोपयन्तं मुरलीं महीभरक्ष्मायं बलस्फीतसुपीनदोर्युगम् । अशेषतां भ्रूशलनैर्वलदृशा प्रबल्लमानं प्रियबल्लवीशुचम् ॥ ६३ ॥ मुरलीं प्रक्रोपयन्तं शब्दयन्तं महीभरक्ष्मायं महीभरस्य क्ष्मायं विधूनयितारं त्यक्तारं बलेन स्फीतमतिस्थूलं दोर्युगं यस्य तम् । भ्रूशलैर्भ्रुवोश्चलनैरशेषतामशेषस्य नायितारं पालकम् । वलदृशा । वलन्या संचरन्या दृशा प्रियबल्लवीशुचं प्रवल्लमानं छादयन्तम् ॥-प्रक्रोपयन्तमिति । ४८५ क्रूयी शब्दे उन्दे च । 'अस्माण्णिचि अर्तिह्री-' इत्यादिना पुकि शता । भरक्ष्मायम् । ४८६ क्ष्मायी विधूनने । कर्मण्यण् । स्फीतसुपीनेति । ४८७ स्फायी ४८८ ओप्यायी वृद्धौ । द्वयोः कर्तरि क्तः । अशेषतां । ४८९ तायृ संतानपालनयोः । क्विपि 'लोपो व्योः' इति यलोपः । शलनैरिति । ४९० शल चलनसंवरणयोः। ल्युट् । वलदिति । ४९१ वल ४९२ वल्ल संवरणे संचरणे च । अनुदात्तेतां तडोऽनित्यत्वाद्वलेः शता । प्रवल्लमानमिति । वल्लचीति वल्लेः शानच् । औणादिकोऽवक्च ॥

मामल्यमानं स्मितमल्लिकावलीमाभाल्यदैत्याधिपभल्लनोद्धुरम् । कलोरुकल्लोलकलिन्दजाजले बालैस्तयूभिः सह देवनोत्सुकम् ॥६४॥ १४८ काव्यमाला । स्मितमल्लिकावलीं मामल्यमानं पुनः पुनः धारयन्तम् आभाल्यानासहिंस्यानां दैत्याधिपानां भल्लने हिसने उद्धुरमुद्युक्तम् । तयूभिः क्रीडकैर्बालैः सह कलाः शब्दायमानाः उरवो महान्तः कल्लोला यस्मिस्तादृशे कलिन्दजाजले देवनोत्सुकं कीडनोत्सुकम् -मामल्यमानमिति । ४९३ मल ४९४ मल्ल धारणे । मलेर्यङ् । मल्लिकेति । मल्लेः 'संज्ञायाम्' इति ण्वुल् । आभाल्येति । ४९५ भल ४९६ भल्ल परिभाषणहिंसादानेषु । भलेर्ण्य॑त् । भल्लनेति । भल्लेर्ल्युट् । कलेति । ४९७ कल शब्दसंख्यानयोः । पचाद्यच् । कल्लोलेति । ४९८ कल्ल अव्यक्ते शब्दे । 'बहुलमन्यत्रापि' इत्यलक्प्रत्ययः । तयूभिरिति । ४९९ तेवृ ५०० देवृ देवने । तेवेः 'क्विपि शूङ्' इत्यूठि अयादेशः । देवनेति । देवेर्ल्युट् ॥

सेव्यं सतां शंकरगेव्यमब्जभूग्लेव्यं सुरैः पेव्यममेव्यमुन्मदैः । प्रम्लेवितं रेवितवत्समण्डलीं मव्यद्भिराभीरजनैरसूर्क्ष्यकैः ॥ ६५ ॥ सतां सेव्यं सेवितव्यं शंकरेण गेव्यं सेवनीयम् अब्जभुवा ग्लेव्यं सेव्यं सुरैः पेव्यं सेवितुं शक्यम् उन्मदैरमेव्यं सेवितुमशक्यम् आभीरजनैः प्रम्लेवितं सेवितम् । कीदृशैः। रेवितानामुत्प्लुत्य गच्छतां वत्सानां मण्डलीं मव्यद्भिर्बध्नद्भिः । असूर्क्ष्यकैरन्योन्यमीर्ष्यामकुर्वद्भिः ॥--सेव्यं, गेव्यं, ग्लेव्यं, पेव्यं, अमेव्यमिति । ५०१ षेवृ ५०२ गेवृ ५०३ ग्लेवृ ५०४ पेवृ ५०५ मेवृ ५०६ म्लेवृ सेवने । पञ्चानां ण्यत् । प्रम्लेवितं । म्लेवेः कर्मणि क्तः । रेवितेति । ५०७ रेवृ प्लवगतौ । प्लवगतिः प्लुतगतिः । अयादय उदात्ता अनुदात्तेतः । मव्यद्भिः। ५०८ मव्य बन्धने । अवान्ता उदात्ता उदात्तेतः । अस्माच्छता । सूर्क्ष्यकैः । ५०९ सूर्क्ष्य ५१० ईर्क्ष्य ५११ ईर्ष्य ईर्ष्यार्थाः । सूर्क्ष्येर्ण्वुल् ॥

राधाकृतेर्क्ष्याकलहावलोकनादीर्ष्यां हयन्त्या रमया प्रमोदितम् । प्रशुच्य सोमं कृतहर्यतैर्नुतं समालितं फुल्लसरोजमालया ॥६६॥ राधाकृतेर्क्ष्याकलहावलोकनात् राधाकृतस्य ईर्क्ष्याकलहस्य दर्शनादीर्ष्यां अक्षमा हयन्त्या प्राप्नुवत्या रमया प्रमोदितं सोमं प्रशुच्य कृतहर्यतैर्नुतं प्रशुच्याभिषुत्य कृतो हर्यतो यज्ञो यैस्तैः । फुल्लसरोजमालया समालितं विभूषितम् ॥-ईर्क्ष्या । ईर्ष्या इति । 'गुरोश्च हलः' इत्यकारः। हयन्त्या । ५१२ हय गतौ 'भक्तिशब्दयोः' इत्येके । शन्नन्तान्डीप् । प्रशुच्येति । ५१३ शुच्य अभिषवे । अभिषवो निष्पीडनस्नपनसुरासन्धानस्नानादिः । ल्यप् । हर्यतेति । ५१४ हर्य गतिकान्त्योः । अस्मात् 'भृमृदृशियञीपर्व्यमिनमिहर्यिभ्योऽतच्' इत्यतच् । समालितं । ५१५ अल भूषणपर्याप्तिवारणेषु । कमणि क्तः । फुल्लेति । ५१६ ञिफला विशरणे । तच्च विशीर्णत्वम् । विकसनम् । 'अनुपसर्गात्फुल्ल-' इत्यादिना निपातितः ॥

उन्मीलनश्मीलनलीलया दृशोरुत्स्मीलितक्ष्मीलितविश्वविष्टपम् । पिच्छस्रजा पीलितनीलकुन्तलं शीलेन संकीलितलोकमानसम् ॥६७॥ धातुकाव्यम् । १४९ दृशोरुन्मीलनेश्मीलनश्मीनलीलयोन्मीलननिमीलनरूपया लीलयोत्स्मीलितं प्रकाशितम् क्ष्मीलितं तिरोहितं च सर्वविष्टपं येन तम् । पिच्छस्रजा पीलितं बद्धं नीलकुन्तलं येन तम् । शीलेन संकीलितं बद्धं वशीकृतं लोकमानसं येन तमीश्वरम् ॥--उन्मीलनश्मीलनेति । ५१७ मील ५१८ श्मील ५१९ स्मील ५२० क्ष्मील निमेषणे । संकोचनं तत् । मीलश्मीलाभ्यां ल्युट् । उत्स्मीलितक्ष्मीलितेति । स्मीलक्ष्मीलाभ्यां णिजन्ताभ्यां कर्मणि क्तः । पीलितेति । ५२१ पील प्रतिष्टम्भे । रोधनं तत् । कर्मणि क्त: । नीलेति । ५२२ णील वर्णे । इगुपधत्वात् कः । शीलेनेति । ५२३ शील समाधौ । समाधिर्निष्ठाकरणम् । घञ् । संकीलितेति । ५२४ कील बन्धने । कर्मणि क्तः ॥

सन्मार्गसंकूलिषु शूलदायिनं दहन्तमेनांसि च तूलपूलवत् । मूलं फलं वाप्यदतामचुल्लतां प्रफुल्लभक्त्युन्नतिचिल्लचेतसाम् ॥ ६८ ॥ अवेलितानां प्रतिचेलधारिणामकेलिलोले हृदि बद्धखेलनम् । फणीश्वरक्ष्वेलरुधं प्रवेल्लितस्रजं मुहुः पेलववातफेलनात् ॥ ६९ ॥ सन्मार्गसंकूलिषु सन्मार्गनिरोधशीलेषु दुष्टेषु । शूलदायिनं पीडाकरम् । तूलपूलवदेनांसि दहन्तं च । प्रतिचेलधारिणां प्रतिचेलानि वल्कलादीनि दधानानां यामिनामकेलिलोले हृदि बद्धलेखनं कृतपीडनम् । मूलं फलं वा अपि अदतां भक्षयताम् अचुल्लतामनाविष्कृताभिप्रायाणां प्रफुल्लया विकसितया भक्त्युन्नत्या चिल्लचेतसामार्द्रीभवन्मनसामवेलितानां केनाप्यचलितानां फणीश्वरक्ष्वेलरुधं कालियस्य विषं रुन्धन्तम् । पेलवस्य मृदोर्वातस्य फेलनाच्चलनान्मुहुः प्रवेल्लितस्रजं दोलायमानवनमालम् ॥–सन्मार्गसंकूलिष्विति । ५२५ कूल आवरणे । णिनिः । शूलेति ५२६ शूल रुजायां संघाते च । धञ् तूलपूलवत् । ५२७ तूल निष्कर्षे । निष्कोषणं तत् । ५२८ पूल संघाते च । द्वयोर्घञ् । मूलं फलम् । ५२९ मूल प्रतिष्ठायाम् । ५३० फल निष्पत्तौ । द्वयोः पचाद्यच् । अचुल्लताम् । ५३१ चुल्ल भावकरणे । शता । प्रफुल्लेति । ५३२ फुल्ल विकसने । पचाद्यच् । चिल्लेति । ५३३ चिल्ल शैथिल्ये भावकरणे च । अच् । अवेलितानाम् । ५३४ वेलृ. ५३५ चेलृ. ५३६ केलृ ५३७ खेलृ ५३८ क्ष्वेलृ ५३९ वेल्ल चलने । वेलेः कर्मणि क्तः चेलेति । चेलेरच् । केलीति । केलेरिन् । खेलनमिति । खेलेर्ल्युट् । द्वयोः क्रीडार्थत्वं धातूनामनेकार्थत्वात् । क्ष्वेलेति क्ष्वेलेर्घञ् । प्रवेल्लितति । वेल्लेः कर्तरि क्तः । पेलवेति । ५४० पेलृ ५४१ फेलृ ५४२ शेलृ गतौ । 'कुडिकितिपणिपेलृपल्लिवल्लिगालिभ्योऽवक्' इति पेलेरवक् फेलनात् फेलेर्ल्युट् ॥

सुमार्गशेलात्स्खलतां खलात्मनां गलच्छिदार्थं सलितं महीतलम् । दलत्तनुप्रश्वलितान्परान्प्रतिप्रश्वल्लिताखोडसुदर्शनायुधम् ॥ ७० ॥ सुमार्गशेलात् सन्मार्गगमनात् स्खलतां चलतां खलात्मनां गलच्छिदार्थे महीतलं सलितं प्राप्तं युद्धे दलत्तनु विदीर्यमाणदेहं यथा भवति तथा प्रश्वलितान् आशु गतान् परान् १५० काव्यमाला । प्रति प्रश्वल्लितमाशु गमितमखोडमप्रतिहतगति अखञ्जं सुदर्शनायुधं येन तम् ॥-शेलादिति । शेलेर्धञ् । स्खलताम् । ५४३ स्खल संचलने । प्रतिधातेऽप्यस्ति । शता। खलेति । ५४४ खल संचये । पचाद्यच् । गलेति । ५४५ गल अदने । अच् । सलितम् । ५४६ षल गतौ कर्तरि क्तः । दलदिति । ५४७ दल विदारणे । शता । प्रश्वलितान् । ५४८ श्वल ५४९ श्वल्ल आशुगमने । श्वलेः कर्तरि क्तः । प्रश्वल्लितेति । श्वल्लेर्णिजन्तात् कर्मणि क्तः । अस्त्रोडेति । ५५० खोऌ ५५१ खोर्ऋ गतिप्रतिघाते । खोलेरच् । डलयोरभेदाड्डः ॥

अखोरधौरत्पतगेन्द्रवाहनं स्वसेविनां तित्सरिषां निराडिनम् । क्मरन्मनोदुर्गममभ्रमेचकं बभ्रद्वधूविभ्रमवृष्टिमभ्रितम् ॥ ७१ ॥ अखोरमप्रतिहतगति यथा तथा धौरच्चतुरं गच्छत् पतगेन्द्रवाहनं यस्य तम् । स्वसेविनां तित्सरिषां व्याजकरणेच्छां निरसितुं शीलं यस्य तम् । क्मरतां कुटिलानां मनसो दुर्गमम् । अभ्रमिव मेचकम् । वभ्रन्तीनां चरन्तीनां वधूनां बिभ्रमवृष्टिमभ्रितं प्राप्तम् ॥-अखोरेति । खोरेः पचाद्यच् । धौरदिति । ५५२ धोर्ऋ गतिचातुर्ये । शता । तित्सरिषेति । ५५३ त्सर छद्मगतौ । सन्नन्तादकारः । क्मरदिति । ५५४ क्मर हूर्च्छने । कौटिल्यं तत् । शता । अभ्रेति । ५५५ अभ्र ५५६ वभ्र ५५७ मभ्र ५५८ चर गत्यर्थाः । अभ्रेः पचाद्यच् । वभ्रे शता । मभ्रेः कर्मणि क्तः ॥

संचारनिष्ठ्यूतनखेन्दुचन्द्रिकं लोके जयन्तं सकलैकजीवनम् । अपीवितां नाप्यतिमीवितां श्रितं तनुं सुवीतोरुमनीवमध्यमाम् ॥७२॥ पूर्वार्धः स्पष्टः । न अपीवितामतिमीवितामपि तनुं श्रितम् । अपीवितां कृशाम् । अतिमीवितां अतिस्थूलाम् । कीदृशीं तनुम् । सुतिवौ सम्यक् पीनावूरू यस्यास्ताम् । अनीवं कृशं मध्यमं मध्यप्रदेशो यस्यास्ताम् ॥-- संचारेति । चारेर्घञ् । निष्ठ्यूतेति । ५५९ ष्ठिवु निरसने । आस्यान्निःसारणं तत् । 'सुब्धातुष्ठिवुष्वष्कतीनां न' इति सत्वाभावः । कर्मणि क्तः। जयन्तम् ।५६० जि जये। जय उत्कर्षप्राप्तिः जीवनम् । ५६१ जीव प्राणधारणे । ल्युट् । अपीविताम् । अतिमीविताम् । ५६२ पीव ५६३ मीव ५६४ तीव ५६५ णीव स्थौल्ये । पीविभीव्योः कर्तरि क्तः । तीविनीव्योरिगुपधत्वात्कः ॥

प्रक्ष्यूतगोपीशुचमूर्णपूतनं तूर्णानसं थूर्णवकादिदानवम् । दुदूर्विषून् धूर्वितुमेव गूर्वणं मूर्वन्तमापूर्वितपर्वताध्वरम् ॥ ७३ ॥ प्रक्ष्यूता निरस्ता गोपीनां शुक् येन तम् । ऊर्णा हिसिता पूतना येन तम् । तूर्णं चूर्णीकृतमनः शकटं येन तम् । थूर्णाः हताः बकादिदानवाः येन तम् । दुदूर्विषून् हन्तुमिच्छून् । घूर्वितुं हन्तुमेव गूर्वणमुद्यमं मूर्वन्तं बध्नन्तं परिगृह्णन्तमित्यर्थः । आपूर्वितः संपूरितो निर्वर्तितः पर्वताध्वरो येन तत् ॥-प्रक्ष्यूतेति । ५६६ क्षिवु ५६७ क्षेवु निरसने । धातुकाव्यम् । कर्मणि रतः। 'क्षयूतगोपी' इति पाठे क्षेवुधातुर्बोध्यः । ] ऊर्णेति । ५६८ उर्वी ५६९ तुर्वी ५७० थुर्वी ५७१ दुर्वी ५७२ धुर्वी हिंसार्थाः । ऊर्वेः कर्मणि क्तः । 'लोपो ब्योर्वली' वलोपे । 'रदाभ्यां' इति नत्वम् । 'वोरुपधाया दीर्घ इकः' । तूर्गभ्रूणे- ति। तुर्वीथुर्योः प्राग्वत् क्तः । दुर्विषून् । दुर्वैः सन्युप्रत्ययः । धूवितुं । धुर्वेस्तुमुम् । गूर्वणम् । ५७३ गुर्वी उद्यमने । ल्युट् । मूर्वन्तम् । ५७४ मुर्वी बन्धने । शता । अपूर्वितेति । ५७५ पुर्व ५७६ पर्व ५७७ फर्व ५७८ मर्व पूरणे । अन्यो गतौ च द्रुमे । पूर्वेः कर्मणि कः । पर्वतेति । 'भृमृदृशि-' इत्यादिना पर्वेरतच् ।।

अफर्विताकासितमर्वकं सतां मांसादिसंचर्वकदुष्टभर्वकम् ।
कर्वद्वधूकेलिरसेन खर्वितं गर्विकं शर्वपरेण सर्वताम् ।। ७४ ॥

सतामफर्चितस्यापूर्णस्याकासितस्य मर्वकं पूरकम् । मांसादेः संचर्वकाणां दुष्टानां भ- र्वकं हन्तारम् । कर्वन्तीनां दृप्यन्तीनां वधूनां केलिरसेन खर्वितं माद्यन्तम् । शर्वपरेण हिसापरेण सर्वतां लोकं हिंसतां गर्वस्यार्वकं नाशकम् ॥-अफर्वितेति । फर्वेः कर्तरि क्तः। मर्वकम् । मर्वेण्वुल् । संचर्वकम् ५७९ चर्व अदने । ण्वुल् । भर्वकम् । ५८० अर्व हिंसायाम् । प्रवुल् । कर्वदिति । ५८१ कर्व ५८२ खर्व ५८३ गर्व दपै । आद्य इंदि- दियेके । तस्माच्छता । खर्वितम् । सर्वेः कर्तरि कः । गर्वेति । गर्घञ् । अर्चकमिति । ५८४ अर्व ५८५ शर्व ५८६ पर्व हिसायाम् । अर्वेर्चुल् । सर्वेति । शर्वेर्ध सर्वताम् । सर्वः शता॥

विश्वेन्वितं स्रङ्मधुपिन्विताङ्गकं मिन्वन्तमुच्चैः कृपयैव निन्वकान् ।
हिन्वन्तमाभीरकुलं विलासिनीदिन्वन्तमाधिन्वितदेवमण्डलम् ॥७॥

विश्वस्मिन्निन्वितं व्याप्तं सर्वैः प्रीणितं वा । नड्मधुना पिन्वितानि सिक्तानि अङ्ग- कानि यस्य तम् । कृपया कृपामृतेन एव निन्वकान् सेवकान् उच्चैरधिकं मिन्यन्तं सि- चन्तम् । आभीरकुलं हिन्वन्तं प्रीणयन्तम् । विलासिनीदिन्वन्तं तोषयन्तम् । आधि- न्वितं सम्यक्प्रीणितं देवमण्डलं येन तम् ॥ इन्वितमिति ५८७ इवि ब्याप्तौ । प्रीणने चैके । इदित्त्वानुम् । कर्तरि क्तः । पिन्वितमिति ! ५८८ पिवि ५८९ मिवि ५९० णिवि सेचने । सेवन इत्येके । पिन्वेः कर्मणि क्तः। मिन्विन्तम् । मिन्वेः शता। निन्वकान् । निन्येवुल् हिन्वतम् । दिन्वन्तम् । ५९१ हिवि ५९२ दिवि ५९३ विवि ५९४ जिवि प्रीणनार्थाः । हिन्विदिन्त्र्योः शता। आधिन्वितेति । धिन्वेः कर्मणि क्तः॥

जिन्वन्तमुर्वी निजरिवनैः सतां रण्वन्तमन्तर्भवधन्वपादपम् ।
कृण्वन्तमाश्चर्यगतीरभूतिदं जगन्त्यवन्तं त्रिदशोपधावितम् ।। ७६ ॥

निजरिण्वनैरात्मीयसंचारैरुर्वी जिन्वन्तं प्रीणयन्तम्। सतामन्तर्मनो रण्वन्तं प्राप्नुवन्तम् । भवरूपे धन्वनि मरुभूमौ पादपं छायाकरं वृक्षम् । आश्चर्यगतीः कृण्वन्तं कुर्वन्तम् १५२ काव्यमाला। अमूतिदं बन्धाभावस्य मोक्षस्य दातारम् । जगन्ति अवन्तं रक्षन्तम् । त्रिदशैरुपधावित स्तुतं सेवितं वा ॥-जिन्वन्तम् । जिन्वेः शता । रिण्वनैः । ५९५ रिवि ५९६ रवि ५९७ घवि गत्यर्थाः । रिण्वेल्युट । रण्वन्तम् । रण्वः शता । धन्वेति । 'कनिन्यु- वृषितक्षिराजिधन्विद्युप्रतिदिवः' इति धन्वेः कनिन् । कृण्वन्तम् । ५९८ कृवि हिसा- करणयोश्च । चाद् गतौ । शता । अमूतीति । ५९९ भव बन्धने। किनि 'ज्वर- त्वर-' इत्यूत् । अवन्तमिति । ६०० अव रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेश- श्रवणखाम्यर्थयाचनक्रियेच्छादीप्त्यवाप्यालिङ्गनहिंसादानभाववृद्धिषु । 'दानभागवृद्धिषु' इति वा पाठः । अस्माच्छता । मध्यादय उदात्ता जयतिवर्जमुदात्तेतः। उपधावितम् । ६०१ धावु गतिशुद्ध्योः । शुद्धिः शोधना । जवे च द्रुमे । उपपूर्वत्वात् स्तुत्यर्थता । उदात्तः खरितेत् । अस्मात् कर्मणि कः॥  ईदृशं भगवन्तं दृष्टवतोऽङ्करस्य भाग्यमभिनन्दति-

संधुक्षमाणमरिधिक्षकमूष्मजालं
संवृक्ष्यवेदमतशिक्षकभिक्षुगम्यम् ।
संक्लेशितखकथदक्षणदीक्षितं तं
प्रेक्ष्यैष जन्मफलमीषितवान्महात्मा ॥ ७७ ॥

 एष तं प्रेक्ष्य जन्मफलमीषितवान् प्राप्तवान् । कीदृशमित्याह---अरीणां धिक्षकं क्लेशकं दाहकं वा । ऊष्मजालं प्रतापं संधुक्षमाण संदीपयन्तम् । ऊष्मान्तधातुजालमत्रारभ्यते इति भाति । संवृक्ष्यं संवरणीयं परिग्राह्यं यत् वेदमतं तस्य शिक्षकैरभ्यासकैभिक्षुभिर्गम्यम् । संक्लेशिता सम्यकथिता स्वकथा यस्तेषां दक्षणे वर्धनायां जीवने वा दीक्षितं संप्राप्तवतम् ।। -संधुक्षमाणमिति । ६०२ धुक्ष ६०३ धिक्ष संदीपनक्लेशनजीवनेषु । धाषान्ता उ- दात्ता अनुदात्तेतः । धुक्षेः शानच् । धिक्षकमिति । धिक्षेषुल्। संवृक्ष्येति । ६०४ वृक्ष वरणे । ण्यत् । शिक्षकेति । ६०५ शिक्ष विद्योपादाने ण्वुल् । भिक्षु इति । ६०६ भिक्ष याच्ञायामलाभे लाभे च । क्लेशे व्यक्तायां वाचि चेसेके। 'सनाशंसभिक्ष उः' इति उसं- क्लेशितेति । ६०७ क्लेश अव्यकायां वाचि । बाधन इत्येके ! उपतापे च द्रुमे । कर्मणि क्तः । दक्षणेति । ६०८ दक्ष वृद्धौ शीघ्रार्थे च । ल्युट । दीक्षितमिति। ६०९ दीक्ष मौण्ड्येज्योपनयननियमव्रतादेशेषु । 'अस्मार्थों व्रतसंप्राप्तिस्तद्भेदाः कथिता इमे । सा च मौण्ड्यातू क्वचित् कापि दीक्षणीयादिकेज्यया ॥ उपनील्या क्वचित् क्वापि नियमग्रहमा- त्रतः । क्वविद् गुर्वादिनन्दे ते व्रतमस्त्विति शासनात् ॥......दीक्षते वाग्मी यजमानस्तु माशयः । तपसे च महानाम्यै तन्त्र ह्यादेशना व्रतम् ॥' अस्माद्दीक्षेः कतरिक्तः । प्रेक्ष्येति । ६१० ईक्ष दर्शने । ल्यप् इषितवानिति । ६११ ईष गतिहिसादर्शनेषु । क्तवतुः ॥

भाषितुं स खलु हर्षवर्षितो गेषितुं समुचितं च नाशकत् ।
येषणासहरिजेषसंभ्रमान्नेषितस्मृतिरपेषितो रथात् ॥ ७८ ॥

धातुकाव्यम् ।

स खलु हर्षवर्षितो हर्षेण वर्षितः स्निग्धीभूतः पूर्णः सन् भाषितुं समुचितं च गेषितुमन्वेष्टुं नाशकत् । येषणाप्तहरिजेषसंभ्रमात् येषणाप्तेन प्रयत्नलब्धेन हरिजेषेण श्रीकृष्ण- प्राप्त्या जातात् संभ्रमाद्धेतोनेषितस्मृतिर्गतस्मृती रथात् अपेषितोऽपगतोऽवतीर्णवान्।।--- भाषितुम् । ६१२ भाष व्यक्तायां वाचि । तुमुन् । वर्षितः । ६१३ वर्ष स्नेहने । स्नेहनं स्निग्धीभावः । कर्तरि क्तः । गेषितुम् । ६१४ गेष अन्विच्छायाम् । ग्लेषृ इत्येके । गेधेस्तुमुन् । येषणेति । ६१५ ये प्रयत्ने । ल्युट् । जेषेति । ६१६ जेष ६१७ णेष ६१८ पेषु ६१९ प्रेषु गतौ जेषेर्घञ् । नेषितस्मृतिः । अपेषितः। नेष्पेष्योः कर्तरि क्तः ॥

सुप्रेषितान्पथि सरेषवृके सहेषं
ह्रेषास्तकासरमदानतिभासुराङ्गान् ।
नासोत्थरासलसितानसितेन दाना
सूतो ययाम समराभ्यसितांस्तुरंगान् ॥ ७९ ॥

सूतः सारथिर्नसितेन सम्यग्वर्तनात् कुटिलेन दाना तुरंगान् ययाम बबन्ध । कीदृ- शान् । सरेषवृके सशब्दवृके पथि मार्गे सहेषं सशब्दं यथा तथा सुप्रेषितान् सम्यक् चरित्वा गतान् । हेषया शब्देनास्तो निरस्तः कासराणां महिषाणां मदो यैस्तान् । अतिभासुराङ्गान् । नासोत्थेन रासेन शब्देनश्वास्वभावजेन शोभितान् । समरेऽभ्यसितान- भीतान् ॥-सुप्रेषितानिति । प्रेषेः कर्तरि क्तः । रेषेति । ६२० रेषे ६२१ हे ६२२ हे अव्यक्त शब्दे । अत्र रेपिर्वृकशब्दे हेविरश्वशब्दे हेषेति चाश्वशब्दे पठितव्यम् । रेषेषन् । हेषेरकारः । हेषेश्च । कासरेति । ६२३ कास् शब्दकुत्सायाम् । रोगजे कुत्सितशब्देऽयं प्रसिद्धः । शब्दमात्रे शोभार्थेऽप्याह महिः। 'मुन्दिकन्दिमन्दिमन्थिमजि- पञ्जिपिजिपिठिनासिकुटिकुशिकदिवेदिभ्योऽरन्' इति भोजोक्त्या कासेररन् । भासुरेति । ६२४ भासृ दीप्तौ । 'भञ्जभासमिदो धुरच्' इति भासेर्घुरच् । नासेति । ६२५ णासृ ६२६ रासृ शब्दे । नासेरकारः । रासेर्धञ् । नसितेति । ६२७ णस कौटिल्ये । कर्तरि क्तः । अभ्यसितान् । ६२८ भ्यस भये। प्राग्वत् क्तः ।।

आशंसिताप्तिमुदितो भुवनग्रसिष्णुं
विष्णुं तमेनमसतां ग्लसमानमीहाम् ।
अक्रूर एत्य बहुधागतमंहितांहा
गर्होज्झितोऽपतद्गल्ह्यतमे पदाजे ॥ ८० ॥

अक्रूर एनं तं विष्णुमेत्याशंसिताप्तिमुदितोऽगल्ह्यतमे पदाब्जेऽपतत् । अगल्ह्य्तमे- ऽत्यन्तमगर्हणीये । कीदृशः । बहुधा गतं मंहितं प्रवृद्धमंहो यस्य सः । महयोज्झितः । कीदृशम् । भुवनस्य असिष्णुं संहर्तारम् । असतामीहां चेष्टामिच्छां वा ग्लसमानं ना

काव्यमाला।

शयन्तम् ॥-आशंसितेति । ६२९ आङः शसि इच्छायाम् । नोयधोऽयमित्येके । कर्मणि क्तः । प्रसिष्णुः । ६३० असु ६३१ ग्लसु अदने । 'भुवश्च' इति चकारादिष्णुच् । ग्लसेः शानच् । ईहाम् । ६३२ ईह चेष्टायांम् । बहुधेति । ६३३ बहि ६३४ महि वृद्धौ । 'बहेर्नलोपश्च' इत्युप्रत्ययः । 'संख्याया विधार्थे धा' इति धाप्रत्ययः । महेः कर्तरि कः । अह इति । ६३५ अंह गतौ । औणादिकोऽसुन् । गर्हेति । ६३६ गर्ह ६३७ गल्ह कुत्सायाम् । गर्हेरकारः । गल्हेर्ण्यत् ॥ बर्हप्रबल्हसमलंकृतिरालिलिङ्ग प्रोत्थाप्य वर्हकनिवल्हदुतं तमीशः । प्लीहायितासुरभरक्षतिवेहितोर्वी- भैषज्यजेहपरया निजबाहयैव ॥ ८१ ॥ ईशस्तं प्रोत्थाप्य निजबाहया एवं आलिलिङ्ग । कीदृशः । बहप्रबल्हेन बर्हश्रेष्ठेन समलंकृतिर्यस्य सः । कीदृशम् । बहकाणां हिंसकानां निवल्हेन हिंसया दुतमुपतप्तम् । कीदृश्या बाहया । प्लीहायितानां गुल्मरोगवदाचरतामसुराणां भरक्षतौ देहितायाः सप्र- यत्नाया उर्व्याः भैषज्यजेहे चिकित्साकरप्रयत्ने परया तत्परया ॥-बर्हप्रबल्हेति । ६३८ बह ६३९ बल्ह प्राधान्ये । द्वयोः पचाद्यच् । बर्हकनिवल्हेति । ६४० वह ६४१ वल्ह परिभाषणहिसाच्छादनेषु । दाने च दुमे । परिभाषणमत्र वञ्चनवादः । वहेर्ण्वुल् । वल्हेर्घञ् । प्लीहायितेति । ६४२ प्लिह गतौ । 'श्वनुक्षन्पूषन्प्लीहनक्लेद-स्नेहन्मूर्धन्मज्जन- र्यमविश्वप्सन्पारिज्मन्मातरिश्वन्मघवन्' इति लिहेः कनिनि दीर्घो निपातितः । वेहिवेति । ६४३ वेह ६४४ जेह ६४५ वाह प्रयत्ने । बेहृ इत्येके। जेहिर्गतौ । च वेहेः कर्तरि क्तः । जेहेर्धञ् । बाहेरचि टाप् ॥

द्राहित: शुभपथप्रकाशने सस्वजेऽथ तमनूह्यवैभवः ।
गाढमैत्ररसगृह्यमाणधीभूषणग्लहनघुंषितो बलः ॥ ८२ ॥

अथ बलस्तमक्रूरं सस्वजे आलिङ्गितवान् । कीदृशः । शुभपथप्रकाशने सन्मार्गप्रवर्तने ब्राहितः उन्निद्रः । अनूह्यमतक्ये वैभवं यस्य सः । गाढेनातिमात्रेण मैत्ररसेन बन्धुत्वाला- देन गृह्यमाणा वशीक्रियमाणा धीर्यस्य सः। भूषणानां ग्लहनेन धारणेन धूषितः कृत- कान्तिः ॥-द्राहितेति । ६४६ दाह निद्राक्षये । क्षेपे चेत्येके । कर्तरि क्तः । प्रकाशनेति । ६४७ काश दीप्तौ । ल्युट् । ऊह्येति । ६४८ ऊह वितर्के । ण्यत् । गाढेति । ६४९ गाहू विलोडने । क्षोभणं तत् । लक्षणया जलाद्यवतरणेऽपि । भावे तः । गृह्यमाणेति । ६५० गृहू ग्रहणे । ६५१ ग्लहू च । गृहेः कर्मणि शानच् । ग्लनेति । ग्लहेर्ल्युट् । धुंषितेति । ६५२ घुषि कान्तिकरणे । घषी इत्येके । घषेत्यन्ये

। धुक्षादय उदात्ता अनुदात्तेतः । कर्तरि क्तः॥

धातुकाव्यम्।

घोषभूषः पङ्कजाक्षस्तमूचे पापश्रेणी तक्षणे त्वष्ट्रधर्मा ।
उक्षन्नेनं मन्दहासेन रक्षन्विश्वनिक्षन्बल्लवीस्तृक्षिताघाः ॥ ८३ ।।

पङ्कजाक्षस्तमूचे । कीदृशः। धोषन्त्यः शब्दायमाता भूषा यस्य सः । पापश्रेण्यास्तक्षणे तनूकरणे वटुरिव तक्ष्ण इव धर्मो व्यापारो वस्य सः । एनमक्रूरं मन्दहासेनोक्षनार्द्रीकुर्वन् । तृक्षिताधा गताघाः बल्लवीनिक्षन् चुम्बन् ॥--घोषदिति । ६५३ धुषिर् अवि- शब्दने । ऋदित्येके । अर्हान्ता उदात्तेतः शिषिवर्जमनुदात्ताः । आविष्कृताभिप्रायं वदनं विशब्दनम् । तद्व्यतिरिक्तेऽर्थेऽयं धातुः । सचार्थः शब्दमानं वा यथाप्रयोगमन्यो वा । अस्माच्छता । पङ्कजाक्षः । ६५४ अक्षु व्याप्तौ । संघाते च द्रुमे । अस्मादौणादिकेऽन्नन्तादक्षिशब्दात् समासान्तः पच् । तक्षणे । ६५५ तथु ६५६ त्वथू तनूकरणे । तक्षेल्युट् । त्वष्ट । 'नप्तृनेष्ट्रुत्वष्टृ–इत्यादिना तृन्नन्तो निपातितः । उक्षन् । ६५७ उक्ष सेचने । रक्षन् । ६५८ रक्ष पालने । निक्षन् । ६५९ णिक्ष चुम्बने। त्रिभ्यः शता। तृक्षितेति । ६६० तृक्ष ६६१ ष्टक्ष ६६२ णक्ष गतौ । तृक्षेः कर्तरि क्तः ॥

आस्तृक्षितोऽद्य वितनोषि महत्सुखं नो
नक्षत्रराडिव परं विकलङ्कवक्षाः ।
संमृक्षितोरुगुलमाक्षिकहृद्यवाच-
स्तक्षन्ति नाम शुचमिष्टकराः सपक्षाः ॥ ८४ ॥

हे अक्रूर, आस्तृक्षित आगतस्त्वमद्य नो महत् सुखं वितनोषि । नक्षत्रराट् चन्द्र इव । परं केवलं विकलङ्कवक्षा विकलङ्कं निर्दोष वक्षो हृदयं यस्य सः। चन्द्रस्तु सकलङ्कमध्य इत्येव भेदः । तवास्मासु सुखकरणं न चित्रम् । यस्मात् संमृक्षितोरुगुलमाक्षिकहृद्यवाचः संमृक्षितः संघातीकृतः उरुगुलो माक्षिकं मधु च । ते इव हृद्यवाक् येषां तादृशाः प्रियतराः सपक्षा बन्धवः शुचं तक्षन्ति नाम च्छादयन्ति खलु ।-आस्तृक्षिता इति ।वृक्षेः कतरि क्तः । नक्षत्रेति । 'अमिनक्षियजि-' इत्यादिना नक्षेनन् । वक्ष इति । ६६३ वक्ष रोषे संघात इत्येके। संघातीभवन्त्यस्थीन्यत्रेति असुन् । संमृ- क्षेति। ६६४ मृक्ष संघाते । म्रक्ष इत्येके । मृक्षेः कर्मणि कः। माक्षिकेति । "पिपीलिकेतिकहृदिकमक्षिकाद्यप्' इति भोजेन निपातिता मैक्षिका । तस्मात् 'तेन कृतम्' इत्यर्थे अण् । तक्षन्ति । ६६५ तक्ष त्वचने । तच्च संवरणं त्वचो ग्रहणं वा । ग्रहणमात्रे च द्रुमे । पक्षेत्वप्येके । तक्षेर्लट् । पक्षेति । पक्षेरच् ॥

सूर्क्ष्य त्वदीक्षा चिरकाङ्क्षिता नो वाङ्क्ष्याम्यमाङ्क्ष्यान्न तु नीचलोकान् ।
द्राक्षां जनो वाञ्छति नो फलानि घ्राङ्क्षाद्बहुध्वाङ्क्षाविचूषितानि ॥ ८५ ॥


१. माधवस्तु '’क्वुन् शिल्पिसंज्ञयोः' इत्यनेन क्वुनि मक्षिकारूपसिद्धिमाह. १५६ काव्यमाला। हे सूर्क्ष्य आदरणीय सखे अक्रूर, त्वदीक्षा नश्चिरकाङ्क्षिता । अहममाङ्क्ष्यान् काङ्क्षितु मयोग्यान् नीचलोकान् न तु वाङ्क्ष्यामि द्रष्टुमिच्छामि । जनो । द्राक्षां वाञ्छति । ध्राङ्क्ष्याभिर्घोरं शब्दायमानैर्बहुभिर्वा ध्वाङ्क्ष्यैर्विचूषितानि पीतरसानि फलानि नो वाञ्छति ॥--सू. क्ष्येंति । ६६६ सूर्क्ष आदरणे । ण्यत् । का्क्षितेति । ६६७ काक्षि ६६८ वाक्षि ६६९ माक्षि काङ्क्षायाम् । काङ्क्षेः कर्मणि क्तः । वाङ्क्षेर्लट्  : माङ्क्षेर्लट् । द्राक्षामिति । ६७० द्राक्षि ६७१ ध्राक्षि ६७२ ध्वाक्षि घोरवासिते च । चात् काङ्क्षायाम् लायाम् । द्राङ्क्षेराकारे द्राक्षा । द्राक्षेति यवादौ निपातनानलोपः । ध्राङ्क्षादितिः । ध्राङ्क्षेः शता । ध्वाङ्क्षेति । ध्वाङ्क्षेरच् । विचूषितानि । ६७३ चूष पाने । कर्मणि क्तः । तूषं तनोषि कमलस्य यथैव पूषा खेदं च मूषसि कृपारसरूषितात्मन् । शूषन्दृशोरमृत्तयूषमजूषकस्त्वं भूषस्यनूषमतिरीषभुजां प्रियः क्ष्माम् ॥ ८६ ॥ हे कृपारसरूषितात्मन् कृपातिशयेन रूषितो रञ्जितः आत्मा मनो यस्य तादृश हे अ- क्रूर, त्वं तूषं संतोषं तनोषि । पूषा सूर्यः कमलस्य यथा तथा। खेदं मूषसि हरसि च । खं क्षमा भूषसि अलंकरोषि । कीदृशस्त्वम् । तत्राह-दृशोः पानपात्रभूतयोरमृतयूषं घनीभूतामृतरसं शूषन्नुत्पादयन् । अजूषकोऽहिसकः । अनूषा अन्येषामपीडाकरा मति- र्यस्य सः । ईषभुजामुञ्छवृत्तीनां प्रियः ॥-तूषमिति । ६७४ तूष तुष्टौ । धञ् । पूषेति । ६७५ पूष वृद्धौ । 'श्वनुक्षन्-' इत्यादिना कानिनि नियातितः । मूषसि । ६७६ मूष स्तेये । लट् । रूषितेति । ६७७ लूष ६७८ रूष भाषायाम् । रूष आलेपन इत्येके । रूषेः कर्मणि क्तः । शूषन्निति । ६७९शूष प्रसवे । स चाभ्यनुज्ञा । 'या पीडा श्रवसापि शौति (१) महती (ता) मौत्सुक्यपीडासिकाम्' इत्यत्र सौतेरुपादानार्थप्रयोगात् उपादान- मपि प्रसवः अस्माच्छता । यूषमिति । ६८० यूष हिंसायाम् । ६८१ जूष च । यूष्यते हिस्यते पाकेनेति पनि यूषो घनीभूतः क्षीरादिः । अजूषकः । जूषेर्वुण्ल् । भूषसि । ६८२ भूष अलंकारे । लट् । अनूषेति । ६८३ ऊष रुजायाम् । पचाद्यचि नञ्समासः । ईषेति ६८४ ईष उञ्छे । घञ् ॥ इत्युक्तः सुरकाषिखाषिणमसावूचे जगच्छेषका- नित्यं ते जपते झषादिवपुषे रक्षश्चमूशाषिणे । केश्यादीन्वषणोत्सुकान्प्रशमते भूयोऽपि रोषिष्यते रेषोऽन्यान्भषतो नमोस्तु कमलाकोष्णस्तनं जोषते ॥ ८७ ।। १. 'वाशिते' इति पाठः, धातुकाव्यम् । इत्युक्तोऽसौ सुरकाषिणः सुरहिसाशीलान् असुरान् खषितुं हिंसितुं शीलं यस्य ते श्रीकृष्णमूचे । किमूचे तत्राह-झपादिवपुषे ते नमोऽस्तु । कीदृशाय । जगतः शेषकान् हिंसकान् नित्यं जपते हिंसते । रक्षष्कम्बाः शाषिणे हननशीलाय । वषणे हिंसने उत्सुकान् केश्यादीन् प्रषमते हिंसते । अन्यान् भषतः श्वरक्समशब्दं कुर्वतः पिशुनोति वा कुर्वतो रेषो हिसकान् भूयोऽपि रोषिध्यते हनिष्यते । कमलाया लम्याः कोष्णस्तन जोषते सेवमानाय ॥–सुरक्राषिखाषिणमिति ! ६८५ कष ६८६ खष ६८७ शिष ६८८ जष ६८९ झष ६९० शष ६९१ वष ६९२ मष ६९३ रुष ६९४ रिष हिंसार्थाः । कषिखध्योर्णिनिः । शिषण्वुल् । जषेः शता । झषेर्घअर्थे कः । शर्णिनिः ।।वषेर्युट् । मषेः शता । रुषेर्लटि शता । रिषेः 'अन्येभ्योऽपि दृश्यते' इति विच् । भषतः । ६१५ भष भर्त्सने । तच्चेह श्वरवः । पिशुनोत्तौ च द्रुमे । शता । उष्णेति । ६९६ उष दाहे । 'इण्सिजिदीडुष्यविभ्यो नक्' इति नक् । जेषते । ६९७ जिषु ६९८ विषु ६९९ मिषु सेवने । जिषेः शता ॥ वेश्

वेषैर्मेष्यतमैः प्रपोषदशुभप्रश्रेषिभिः श्लेषति
प्रोष्यान्प्लुष्टजनान्कृपामृतपृषद्वर्षी भवान्दानवान् ।
सामर्षं परधार्षिणोऽपि हृषितास्त्वां नोपयान्त्याहवे
तोसह्रासविहीनशङ्खजनितहासाद्रसद्दिक्तटम् ॥ ८८ ।।

भवान् वैषैर्मत्स्यादिरूपैर्दानवान् श्लेषति भस्मीकरोति । कीदृशो भवान् । कृपारूपस्यामृतस्य पृषतं बिन्दुं वर्षितुं शीलं यस्य सः । कीदृशैषैः । मेध्यतमैः सर्वैरुपास्यतमैः।प्रपोषन्तं वर्धमानमशुभं प्रश्रेषितुं दग्धुं शीलं येषां तैः । कीदृशान् दानवान् । प्रोष्यान् भस्मीकर्तुं योग्यान् । शुष्टाः दग्धा जना यैस्तान् । सामर्षे सक्रोधं यथा तथा परान् घर्षितुमभिभवितुं शीलं येषा तेऽपि हृषिताः प्रतिहता आहवे त्वां नो उपयान्ति । कीदृशं त्वाम् ।तोसस्य शब्दस्य ह्रासेनाल्पतया विहीनो यः शङ्खस्तेन जनितात् हासात् शब्दाद्धतोः रसन्तः शब्दायमाना दिक्तटा यस्य तम् ॥---वेधै-रिति । विषेर्धन । मिषेय॑त् । प्रपोषदिति । ७०० पुष पुष्यै । शता प्रवेषिभिः ।७०१ श्रिषु ७०२ श्लिषु ७०३ म॒षु ७०४ प्लुषु दाहे । निषेणिनिः श्लिषेः लट् ।श्रुषेय॑त् । शुषेः कर्मणि कः । पृषदिति । ७०५ पृषु ७०६ वृषु ७०७ मृषु सेचने ।आद्यौ हिंसाक्लेशयोश्च । मृषु सहने च । मृषु हिंसाक्लेशदैन्येष्वित्येके । पृषेः 'वर्तमानेपृषद्वृहत्' इत्यतो निपातितः । वृषेणिनिः भूषेर्धन् । परघर्षिणः। ७०८ घृषुसंघर्षे । गिनिः ।हृषितः । ७०९ हृषु अलोके । तुष्टौ च मे । कर्तरि कः । 'हुषेर्लोमसु' इतीडि-कल्पः । तोसह्रासेति । ७१० तुस ७११ ह्रस ७१२ ह्लस ७१३ रस शब्दे । ह्रसिरल्पीभावेऽपि । तुसिह्रस्योर्घञ् । ह्रसेरपि पञ् । रसेः शता॥

इत्यादिवादिनमजो लसितस्मितस्तं
संवार्य धर्मपथघस्मरदुर्जनोज्जः ।
जीमूतचिरवझर्झरवाद्यहृद्यं
तेनैव चानुपिसितो निलयं पिपेस ॥ ८९ ।।

 अज इत्यादिवादिनं तं लसितस्मितः सन् सखे अलं स्तुत्वेति संवार्य तेनैव अ- सुपिसितोऽनुगतः सन् निलयं पिपेस प्राप्तवान् । कीदृशोऽजः । धर्मपथघस्मराणां धर्ममार्गनाशकानां दुर्जनानामुन्ज उच्चैहिँसकः । कीदृशं निलयम् । जीमूतचर्चि मेधान् तर्जितुं शीलं यस्य तादृशो रखो यस्य तेन झर्झरवाद्येन हृद्यम् ॥ लसितेति । ७१४ लसलेषणक्रीडनयोः । शोभायां प्रसिद्धः । कर्तरि कः। घस्मरेति । ७१५ घस्ल अ- दने । 'सृघस्यदः क्मरच्' इति क्मरच् । उज्नः । ७१६ जर्स ७१७ चर्च ७१८ झझं परिभाषणहिंसातर्जनेषु । जर्सेः क्विपि रात्सस्य' इति संयोगान्तलोपः । 'अत्व- सन्तस्य' इति दीर्घस्तु धातुत्वान्न । जीमूतचर्चि । चर्चेः णिनिः । झरिरः । अनुपिसितः। ७१९ पिस ७२० पेस गतौ । पिशू पेश इत्येके । पिसेः कर्मणि क्तः । पेसेलिँट् ॥

भूषापिशङ्गरुचिपेशलमाममित्र-
मक्रूरमागतमवेक्ष्य हसन्स नन्दः ।
संभाव्य साधु ससुतो निशि पर्यपृच्छ-
न्मेशोद्भुतारिमशकस्य नृपस्य वृत्तम् ॥ ९ ॥

 स नन्द आत्ममित्रमकूरमागतमवेक्ष्य साधु संभाव्य हसन् ससुतो निशि नृपत्य वृत्तं पर्यपृच्छत् । कीदृशमक्रूरम् । भूषाणां पिशङ्गया रुच्या पेशलं मनोहरम् । कीदृशस्य नृ- पस्य । मेशेन कोपेन शब्देन वोद्भुतास्त्यका अरिरूपा मशका येन तस्य ॥-पिशङ्गेति। 'पतेरङ्गच् पक्षिणि' "विडादिभ्यः कित्' इत्यत्र 'कुरिपिडिमृदिपिशिभ्यः कित्' इति भोजोक्तेः पिशेरगच् पेशलमिति । [ औणादिके कलप्रत्यये बाहुलकाद्गुणः । ] हसन्निति । ७२१ हसे हसने । शता। निशीति । ७२२ णिश समाधौ । अधिकरणे संपदादि- क्विम् । मेशेति । ७२३ मिश ७२४ मश शब्दे रोषकृते च । शब्दकोपयोरिति दु. मोक्या रोषकृतं रोष एव । मिशेर्घञ् । मशकस्य मशेः 'कुन्छिस्पिसंज्ञयोः' इति कुन् ।


१. 'जर्ज झझं चर्च एषां चर्गीयान्तेषु पाठ उचितः । नत्विहोष्मान्तेषु' इति प्रौढ- मनोरमा ॥ नत्विहेति । केचित्तु-आद्यो दन्त्योष्मान्तः। द्वावप्यर्थसाम्यात्पठितौ-इत्याहुः।। 'मूलं त्वाद्यस्यापि ववर्गतृतीयान्तत्वमिति मते बोध्यम्' इति शब्दरत्नम् ॥माधवोऽपि- 'चर्च झर्शयोस्तुदादौ पठिष्यमाणयोरिह पाठः स्वा(शब)र्थ इति दोवमैत्रेयपुरुषकारेषु । ऊष्मान्वेषु पाठोऽर्थानुरोधादिति मैत्रेयः' इति अन्थेनाद्यस्योष्मान्तत्वमभिप्रैति । 'जर्स' इति पाठे 'अत्वसन्तस्य' इति दीर्घशक्षा वृथा, 'जस्स' इति पाठे 'रात्सस्य' इत्यस्योप- न्यासो वृथा इति देवा एव विदांकुर्वन्तु ॥ धातुकाव्यम् । सोऽप्यूचे शवतां गतस्य शशिवंशोत्थस्य भोजेशितु- वृत्तं प्रस्तुतमत्र शस्त्रनिलये शस्तं च चापोत्सवम् । चाहेनामहितस्य चास्य निधनोद्योग रहस्यूचिवा- नान्तव्यं खलु रहसेति च दृढामाज्ञां प्रभोरभ्यधात् ।। ९१॥ सोऽपि भोजेशितुत्तमत्र शस्त्रनिलये चापोत्सवं प्रस्तुतं चोच उक्तवान् । कीदृशस्त्र कंसस्य । शवतां गतस्य मृतप्रायस्य शशिवंशादुत्थितस्य जातस्यास्य निधनोद्योगं च रहस्यूचिवान् । चाहेन दम्भेन शाम्येन चामहितस्यापूजितस्य निन्दितस्य रहसा गन्तव्यं खलु इति । प्रभोईढामाज्ञामभ्यधात् चाभिहितवांश्च ॥---शवतामिति । ७२५शव गतौ । अज- न्तात्तल। शशीति।७२६ शश प्लुतगतौ । अजन्तान्मत्वर्थीय इनिः। शस्त्रेति । ७२७शसु हिंसायाम्। सर्वधातुभ्यः ष्ट्रन्' इत्यौणादिकः ट्रन् । शस्तम्। ७२८ शंसुस्तुतौ । हिंसायामि- त्येके । कर्मणि कः। 'अनिदिताम्' इति नलोपः। चाहेन।७२९ चह परिकल्कने । पञ्। अमहितः । ७३० मह पूजायाम् । कर्मणि क्तः । रहसि । ७३१ रह लागे । रंहसा । ७३२ रहि गतौ । द्वयोरसुन् । दृढाम् । ७३३ दृह ७३४ दहि ७३५ बृह ७३६ बहि वृद्धौ । बृहिर इत्येके । बृहि शब्दे च । स च गजशब्दः। दृहः हः स्थूलबलयोः' इति निपातितः क्तः॥ तच्छ्रुत्वा परिइंहितादरमसौ नन्दो बृहद्भोजन- -नैरप्युपबृंहितो विहितवान्प्रातः प्रयातुं मनः । गोबिन्दस्तुहिनांशुरम्यवदनः कसं जगद्दोहिनं पोहिष्यञ्जगदहणीयमहिमा मोदेन निन्ये निशाम् !! ९२ ॥ असौ नन्दः परिदंहितादरं परिवृद्ध आदरो यत्र तथा तच्छ्रुत्वा बृहद्भोजन-नैरप्युप- बंहितः पूर्णः सन् प्रातः प्रयातुं मनो विहितवान् । गोविन्दो जगद् दोहितुं मर्दयितुं शीलं यस्य तादृशं कंसं प्रोहिध्यन्नधिकमर्दयिष्यन् निशां मोदेन निन्ये नीतवान् । जगतामह- शीयो महिमा यस्य तादृशो गोविन्दः ॥---परिटंहितेति रहे: । बृंहः कर्तरि क्तः । बृहदिति । बृहेः 'वर्तमाने पृषहद्' इति बृहेरतिनिपातितः । उपबंहित इति । बृहेः कर्तरि क्तः । तुहिनेति । ७३७ तुहिर् ७३८ दुहिर् ७३९ उहिर् अर्दने । 'वेपितुह्योः' इति तुहेरिनच् । जगद्दो हिनामिति । दुहिरो णिनिः । प्रोहियन्निति । उहिरो लूटः शता । अ- हणीयेति । ७४० अर्ह पूजायाम् । योग्यत्वेऽपि अनीयर् । धुषादय उदात्तेतः शिषिवर्ज- मुदात्ताः॥ इति सव्याख्याने धातुकाव्ये प्रथमः सर्गः । काव्यमाला। द्वितीयः सर्गः। एवमङ्करस्य ब्रजप्राप्तिरूयं पूर्वदिनवृत्तान्तमुक्त्वा द्वितीयदिनवृत्तान्तं वक्तुमारभते- प्रद्योतनस्योदयमाप्य गोपाः श्वेतांशुकोन्मेदुरचारुवेषाः । अखिन्नरुग्घोटकरुट्यमानमार्गा जवेनालुटिता निरीयुः ॥ १॥ गोपाः प्रद्योतनस्योदयमाप्य जवेनालुटिता निरीयुः । प्रद्योतनः सूर्यः । उदयमाप्य लब्ध्वा इत्युदयमात्रस्य लाभत्वेनोक्त्या तेषा प्रस्थाने कौतुकातिशय उक्तः । अलुटिता अप्रतिहताः । कीदृशा इत्यत्राह---श्वेतांशुकेनोचैर्मेदुरः स्निग्धः पोषणशीलः चारर्वेषो येषां ते। अखिन्ना अमुक्ता अगता रुक् शोभा प्रीतिर्वा येषां तैर्घोटकैरश्वैर्भिद्यमानमार्गाः।- प्रद्योतनस्येति । ७४१ धुत दीप्तौ । कृपूपर्यन्ता उदात्ता अनुदात्तेतः । अस्माद्युच् । श्वेतेति । ७४२ श्विता वर्णे । पचाद्यच् । उन्मेदुरेति । ७४३ मिमिदा स्नेहने । 'भञ्जभासमिदो घुरच्' । अस्विन्नेति । ७४४ जिष्विदा स्नेहनमोचनयोः । मोहनयो- रित्येके । विदेः कर्तरि क्तः। रुगिति । ७४५ रुच दीप्तावभिप्रीतौ च । भावे संपदादि- क्विप् । बोटकेति । ७४६ घुट परिवर्तने । बुल् । रुळ्यमानेति । ७४७ रुट ७४८ लुट ७४९ लुठ प्रतिधाते । रुठेत्येके । रुटे: कर्मणि शानच् । लुटेः कर्तरि कः ॥ दुष्टनिग्रहभक्तानुपहरूपप्रधानकार्यार्थ भगवतः प्रस्थानमाह- कृष्णोऽपि तापोल्लुठिताङ्गशोभा आश्वास्य मारक्षुभिता महेलाः । अनभ्यसंतोभककंसजीवसंसाय पापध्वदयं प्रतस्थे ॥ २॥ अयं कृष्णोऽपि भारेण क्षुभिताश्चलिताः महेला आश्चास्यानभ्यानामहिंस्यानां संतो- भकस्य निहन्तुः कंसस्य जीवसंत्राय प्राणं शिथिलीकत व्यक्तुं प्रतस्थे जगाम । पायध्वत् पापनाशकः। तापेनोल्लुठिला प्रतिहताशशोभा यासां ताः । उल्छुठितेति ।-लुठेः कर्मणि क्तः। शोभेति । ७५० शुभ दीप्तौ । धनि टाप् । 'नानि तु पुंस्त्वं प्रायिकम्' इति घअन्त- स्यापि स्त्रीत्वम् । क्षुभितेति । ७५१ क्षुभ संचलने । तच पूर्वप्रकृतिविपर्यासो मथनं वा। आयेथे कर्तरि क्तः । अन्यत्र कर्मणि । अनभ्यसंतोभकेति । ७५२ णम ७५३ तुभ हिंसायाम् । नभेः 'पोरदुपधात्' इति यत् । तुभेण्वुल । संस्रायेति । ७५४ स्त्रंसु ७५५ ध्वंसु ७५६ भंसु अवस्रंसने । भ्रंशु इत्येके । ध्वंसु गतौ च । अयं नाशने प्रसिद्धः । संसेर्धञ् । पापध्वदिति । ध्वसेः क्विपि सौ 'वसुसंसुध्वंसु-' इति दः ।। अभ्रस्तविलम्बजुषा बलेन समं प्रवृत्तो भुवनाभिवृद्धवै । अशर्धनैर्गोपकुलैः सहासौ ययौ कृपास्यन्दसुक्लप्तमोदैः ॥ ३ ॥ असौ गोपकुलैः सह ययौ । अभ्रस्तविनम्भजुषा बलेन समं भुवनाभिवृध्यै प्रवृत्तः । अभ्रस्त अशिथिलं दृढं श्रीकृष्णे बिसम्भं विश्वासं जुषते सेवते इति तथा तेन बलेन । १. 'पुंभूनि चासुघु' इति मेदिनीतो जीववाचिप्राणशब्दस्य बहुवचनान्तत्वेन 'प्रा- गान्' इत्युचितम्. २. 'त्याजयितुम्' इत्युचितं प्रतिभाति. धातुकाव्यम् । कीद्वशर्योपकुलैः । अशनैः कुत्सितशब्दमकुर्वाणैः । कृपास्सन्देन कृपामृतप्रवाहेण स- म्यक्लप्तो मोदो येषां तैः ॥-अभ्रस्तेति । अंसेः कर्तरि क्तः। विस्तम्भेति । ७५७ स्तम्भु विश्वासे । घञ्। प्रवृत्त इति । ७५८ वृतु धर्तने । कर्तरि क्तः । अभिवृद्ध्यै । ७५९ वृधु वृद्धौ । किन् । अशर्धनैः । ७६० शुधु शब्दकुत्सायाम् । युन् । स्यन्देति । ७६१ स्यन्दू प्रस्रवणे । घम् । सुक्लप्तेति । ७६२ कृपू सामर्थ्ये । सामर्थ्य शक्तिर्योग्यता वा । अन्तर्गतण्यर्थात् कर्मणि क्तः। कृपो रो लः' इति कुत्वम् । धुतादय उदात्ता अनुदात्तेतः । वृत् । द्युतादयो वृत्ता इत्यर्थः । वृदिति वृतेर्भूते किम् ॥ अतिप्रियस्य भगवतः प्रस्थाने गोपीनां वृत्तमाह---- गोपीघटाः प्रव्यथितास्तदानीं पृथूपतापप्रसमानचिन्ताः । मृदुखभावाः स्खदिताः स्मरास्त्रैः प्रक्षञ्जिते प्राणसमे विषेदुः ॥ ४ ॥ गोपीनां घटाः समूहास्त्रदानी प्राणसमे प्रियतमे श्रीकृष्णे प्रक्षजिते गते विधेदुः । की- दृश्यः । प्रव्यथिता भीताः, दुःखिता वा । पृथुनोपतापेन पीडया प्रसमाना वर्धमान! चिन्ता यासां ताः, अतीक्ष्णखभावाः । स्मरास्त्रैः स्खदिता विदारिताः॥-घटा इति । ७६३ घट चेष्टायाम् । क्वचित्संगमादौ । एतदादयः फणान्ता 'घटादयो मितः' इति मितः । आदितस्त्वरान्तानां तु 'घटादयः वितः' इति षित्वम्, अनुदात्तत्त्वं च । घटेः षित्त्वात् । विद्भिदादिभ्यः' इति संगच्छन्तेऽत्र समूहिन इत्यधिकरणेऽङ् । प्रव्यथितेति । ७६४ व्यथ भयचलनयोः । दुःखचलनयोरित्येके । कर्तरि क्तः । पृथु इति । ७६५ प्रथ प्रख्याने । विस्तारेऽप्यस्ति । 'प्रथिम्रदिनस्जा संप्रसारणं सलोपश्च, इत्युप्रत्ययः । प्रसमानेति । ७६६ प्रस विस्तारे । शानच् । मृदु इति । ७६७ ब्रद मर्दने । प्रदेः प्राग्वदुप्रत्ययः । स्खदिता । ७६८ स्खद स्खदने । विदारणं तत् । प्रयन्ताद् कर्म- णि स्तः । मित्त्वाद्रखः । प्रक्षजितेति । ७६९ क्षजि गतिदानयोः । क्षज इत्येके । क्ष) कर्तरि क्तः॥ दक्षापरेणास्तकृपेण तासामकान्दि चेतः कदनैः स्मरेण । शरीरमक्रान्दि वचोऽपि वेगादल्लान्दि चक्रे मरणत्वरापि ॥ ५॥ स्मरेण तासां चेतः कदनैर्विक्लवीकरणैः । पीडाभिरिति यावत् । अकान्दि विक्लवी- कृतम् । शरीरमकान्दि । वचोऽप्यक्लान्दि । उभयत्रापि पूर्ववदर्थः । मरणत्वरापि चक्के । कीदृशेन । दक्षायां हिंसायां परेण त्यस्तकृपेण ॥-दक्षेति। ७७० दक्ष गतिहिं- सनयोः । 'घटादिषु विहापूर्वपठिताः सर्वदा मितः। बहिःस्थस्येह पाठे तु मित्त्वमुक्तेऽर्थ एव हि ॥' इत्युक्तेर्बुद्ध्यर्थतया प्राक्पठितस्य दक्षेरनयोरथयोर्मित्त्वम् । षित्त्वादड् । कृपेति । ७७२ कप कृपायां गतौ च । 'क्रपेः संप्रसारणं च इति भिदादिपाठात् संप्रसारणमड्च ! अकान्दि । अक्रान्दि । अक्लान्दि। ७७२ कदि ७७३ ऋदि ७७४ क्लदि वैक्लव्ये । वैकल्य इत्येके । त्रयोऽप्यनिदित इत्यन्ये । इदितां कन्दादीनां णिजन्तात् कर्मणि चिणि काव्यमाला। ["विष्णमुलो दीर्थोऽन्यतरस्याम्' इति दीर्घः । ] कदनैः । अनिदितः कदेयुट् । त्वरेति । ७७५ जित्वरा संभ्रमे । पित्त्वादड् ॥ गोपीनां वचोवैलव्याटुक्ति प्रपञ्चयति-- ताः संज्वरन्तीर्गलदश्रुधारा विमोहशक्त्या हिडयन्वियोगः । मिथो निजाति वटयांचकार हरेश्च चेष्टा भटयांचकार ॥६॥ वियोगस्ता विमोहशक्त्या हिडयन् बद्धाः कुर्वन् मिथो निजाति वटयांचकार । हरे- श्वेष्टाश्च भव्यांचकार । उभयत्र भाषयांचकारेत्यर्थः ।।--संज्वरन्तीः पीड्यमानाः गलद- श्रुप्रवाहाः । संज्वरन्तीरिति । ७७६ ज्वर रोगे । फणान्ता उदात्ता उदात्तेतः । ज्वरेः शतरि डीप गलदिति । ७७७ गड सेचने । तच्च जलादेः पतनमात्रम् । गडेः शता। हिडयन् । ७७८ हेड वेष्टने । णौ मित्त्वाद्रखः । 'एच इक्' । शता । क्टयांचकार । भटयांचकार इति । ७७९ वट ७८० भट परिभाषणे । श्चेट (१) इत्येके । आद्य- योणौ लिट् ॥ वियोगवह्निं नटयन्वतान्तकृति च नः प्रस्तकयनातोऽसौ । कृष्णः पुरस्त्रीश्चकयेदिदानी नर्माणि चोक्त्वा कखयेद्रगामः ॥ ७ ॥ नोऽस्माकमन्तर्मनसि वियोगवति नदयंश्चलयन् दीपयन्, धृति प्रस्तकयन् प्रति- हतां कुर्वेश्च गतोऽसौ कृष्ण इदानीं पुरस्त्रीश्चकयेत् तर्पयेत् नर्माण्युक्त्वा कखयेत् हासयेच्च । द्वयोः संभावने लिड् । बतेति खेदे । इति वयं रगामः शङ्कामहे ॥-नटयन्निति । ७८१ णट नृत्तौ । पूर्व नटव्यापारेऽयं धातुरुक्तः । अत्र तु नर्तनव्यापारश्चलनादिश्च नृत्तिः । तत्र मित्त्वम् । पट गतावित्येके । नतावित्यन्ये । प्रस्तकयन् । ७८२ एक प्रतिधाते। द्वयोणौँ शता । बकयेत् । ७८३ चक तृप्तौ । कखयेत् । ७८४ कखे इसने । द्वयो- लिड् । रगामः ! ७८५ रगे शङ्कायाम् । लट् । श्रीकृष्णविरहदुःखं छादयितुमशक्ता काचिदाह- लग्नं हृदन्ते गये कथं वा रागं कथं तु हगयामि तापम् । असग्यमान स्थगये कथं वा कगामि किंवा हरयेऽकिताय ॥ ८॥ अहं हृदन्ते लग्नं सक्तं रागं कथं वा हृगये च्छादयामि । तापं च कथं नु हगयामिछा- दयामि । असग्यं छादयितुमक्यमात्रमश्रुजालं कथं वा स्थगये च्छादयामि । रागतापयो- रन्तःस्थत्वेनादृश्यत्वेऽपि तद्धेतुरास्रोगमो दुर्धार एवेति भावः । अकिताय कुटिलं गताय व्याजेन प्रस्थिताय हरये हरि प्राप्तुं किं वा कगामि करोमि । न किंचिदपि कर्तुं शक्यमि- त्यर्थः ।।--लग्नमिति । ७८६ लगे सझे । 'क्षुब्धस्वान्तध्वान्त-' इत्यादिना तान्तो निपातितः । हगये । हगयामि । ७८७ हगे ७८८ हगे ७८९ षगे ७९० ष्टगे से- वरणे । तच्चान तिरोधानमेव । स्थगेर्ण्यन्तस्य तिरोधापनार्थदर्शनात् । आधयोरें लट् । असग्यम् । सेगेणौ ण्यत् । स्थगये स्थगे? लट् । कगामि । ७९१ कगे नोच्यते । धातुकाव्यम् । क्रियासामान्यार्थत्वादनेकार्थत्वाच 'अस्यायमर्थः' इति नोच्यते । नोच्यत इत्यवचनमर्थ इत्यन्ये । अस्माल्ट । अकिताय । ७९२ अक ७९३ अग कुटिलायां गतौ । अके: कर्तरि क्तः ॥ पीडातिशयादरं शपन्ति- अगन्मनीषः कणयन्मुकुन्दमस्मावियोगं रणयन्स दूतः । चणन्विषादं विशणन्विचिन्तां श्रणन्विमोहं श्रथितोऽस्तु सद्यः ॥ ९॥ मुकुन्दं कणयन् गमयन् । हेतौ शता। तस्माद्धेतोः । अस्मान् वियोग रणयन् प्राप. यन् । तत एव विषादं चणन् , विचिन्तां विशणन्, निमोहं श्रणन् । त्रिषु प्रयच्छनित्यर्थः। अस्तभ्यमित्यर्थात् । स दूतः सद्यः श्रथितो हिंसितोऽस्तु । कीदृशः । गन्ती कुटिली- भवन्ती मनीषा यस्य सः ॥-अगदिति । अगेः शता। कणयन् रणयन्निति।७९४ कण ७९५ रण गतौ । द्वयोणौ शता। चणन् विशणन् श्रणनिति । ७९६ चण ७९७ शण ७९८ श्श्रण दाने च । एषां शता। श्रथितः। ७९९ श्रथ ८०० श्लथ ८०१ ऋथ ८०२ क्लथ हिंसाः । श्रथेः कर्मणि कः ॥ सर्वरक्षिणो भगवतः खरक्षादोषमाशङ्कय परिहरन्ति---

  • लथ्यात्मनां क्राथयताच्युतेन किं नाङ्गजो नः कथयन्नचानि !

वनाम किं प्रज्वलितो हरेण सोऽद्यापि यद्विवलयन्ननङ्गः ॥ १०॥ श्लथ्यात्मनां हिंस्यखरूपान् काथयता । 'जासिनिप्रहण-.' इति कर्मणि षष्ठी। अ. च्युतेन नोऽस्मान् क्लथयन् हिंसन् अङ्गजः किं न अचानि कस्मान हिंसितः । हरेण प्रज्वलितः सोऽनङ्गोऽद्यापि बिह्वलयति यत् यस्मात् तस्मात् किं बनाम करवाम । न किंचित् ॥ लथेय॑त् । काथेर्णिजन्ताच्छता । 'जासिनिग्रहणनाटकाथ-' इति निपातनाद्दीर्घः । क्लथेणौ शता । श्लथादीना णिजन्तानामपि हिंसामात्रमर्थः । जास्यादि- सूत्रे हिसायामित्युक्तेः । 'हन्त्वर्थाश्च' इति चुरादिपाठाद्वा । अचानि । चन च । हिंसार्थ इति शेषः । अस्माण्णौ चिण् । वनाम । ८०३ वनु च नोच्यते । कमिवदयमपि किया- सामान्याद्यर्थ इत्यर्थः । अस्माल्लोट् । प्रज्वलितः । ८०४ ज्वल दीप्तौ । गौ कर्मणि कः। विह्वलयति । ८०५ ह्वल ८०६ मल चलने । हलो लट् ॥ भगवत्तो बाल्यकृतं दुर्ललितत्वमप्यतिदुर्विस्मरमित्याह- प्र(अ)शल्यचित्तां स्मरयत्यसौ मां नन्दात्मज: संदरकः खलानाम् । अनारि येन अपितं पयोऽपि बालैर्मुहुः संज्ञपितासुरेण ।। ११ ।। असौ नन्दात्मजो मां सरयति सोत्कण्ठं ध्यापयति । खलानां संदरको भीषयिता । १. अत्र पुस्तकद्वयेऽपि सर्वत्र 'कृथ्यात्मनां' इति पाठः. श्रथश्लथेत्यनापि कथेति पाठ काव्यमाला। प्र(अ)ह्मल्यं चलयितुमशक्यं चित्तं यस्यास्ताम् । येन श्रपितं पकं पयोऽपि बालैः प्रयोज्यैः कर्तृभिरनारि नायितम् । मुहुरिति काकाक्षिवदुभयत्रान्वेति । मुहुः संज्ञपिता मारिता असुरा येन तेन 1-~-प्र(अ)मल्येति । हलेणौ ण्यत् । स्मरयति । ८०७ स्मृ आध्याने। सोत्कण्ठस्मरणं तत् । णौ लट् । संदरकः । ८०८ दृ भये । णौ ण्वुल् । अनारि । ८०९ नृ नये । णौ चिण् । श्रपितम् । ८१० श्रा पाके । पाको विक्लित्तिः । श्रायतिश्रात्योर- स्मिन्नर्थे मित्त्वं णौ कर्मणि क्तः । संज्ञपितेति । मारणतोषणनिशामनेषु ८११ शा। निशा- मनं प्रदर्शना । निशातेबित्येके । मारणार्थे कर्मणि क्त: ॥ तापशान्तावन्यथोपार्य संभावयन्ति- तमेव किं विज्ञपयेम मारं येनाच्युतं प्रज्ञपयेन्न बाणान् । करे सरोज चलयन्न चाल्यः स किं मुरारिश्छदयेत्पुनर्नः ॥ १२ ॥ वयं तं मारमेव विज्ञपयेम तोषयेम । किम् । येन तोषणेनासावच्युतं प्रज्ञपयेत् प्रदर्श- येत् । बाणान् न प्रज्ञपयेत् निशातयेत् । स मुरारिलीलया करे सरोजं चलयन् नः छद- येत् किं प्राणनं बा कुर्यात् । अचाल्याः भावादन्यथाकर्तुं अन्यत्र हर्तु नेतुं खचिन्तितं क्षेप्तुं निरसितुं च वा न शक्याः ॥-विज्ञपयेदिति । तोषणे णिचि लिड् । प्रज्ञपयेदिति। निशामननिशातनयोः । चलयनिति । कम्पने ८१२ चलिः। णौ शता । अचाल्यः। कम्पनादन्यत्र मित्त्वाभावे णिजन्ताण्यत् । अन्यथाकरणं हरणं क्षेपो वा तन्नार्थाः । छदयेत् । ८१३ छदिर ऊर्जने । बलनं प्राणनं वा तत् । छदेो लिड् ॥ भगवतो दर्शन व प्रार्थयन्ते- यद्वर्णने को लडयेन जिहां भक्तांश्च दुष्टान्मदयत्यलं यः । दृश्येत वेणुं ध्वनयन्कदा वा स नन्दसूनुः खनयन्कलापम् ॥ १३ ॥ यद्वर्णने को जिहां न लड़येत् क्षोभयेत् । यो भक्तान् दुष्टांश्चालं मदयति अत्यर्थ हर्षयत्ति दीनयति च । स नन्दसूनुर्वेणुं वनयन् शब्दयन् कलापं खनयन् अवतंसीकुर्वन् कदा वास्माभिद्देश्येत ॥-लडयेदिति । जिह्वोन्मथने ८१४ लडिः। उन्मथनं क्षोभणम् । तच्च जिह्वायाः । जिह्वायाः क्षोभणं वा । जिह्वायाः क्षोभणाथै णिचि लिड् । मदयति । ८१५ मदी हर्षग्लेपनयोः । ग्लेपनं दैन्यम् । लट् । ध्वनयन् । ८१६ ध्वन शब्दे । णौ शता । खनयन्। ८१७ स्वन अवतंसने च । चाच्छब्दे । णौ शता। दर्शनप्रकार एव प्राीते- दलं दलं धैर्यभरं कटाक्षान्वलं वलं प्रस्खलयन्मनो न; ! जपं त्रपं नर्मगिरा विषादं क्षष क्षपं कि जनयेत्स मोदम् ।। १४ ॥ मनः प्रस्खलयंश्चलयन् स श्रीकृष्णः कटाक्षान् वलं वलं पुनः पुनः संचारयन् धैर्यस्य भरमतिशयं दलं दलं पुनः पुनर्विदारयन नर्मगिरा पं त्रयं पुनः पुनर्लज्जयन् विषादं घातुकाव्यम् । क्षपंक्षप पुनः पुनर्विनाशयन् नो मोदं जनयेत् किम् ॥-दलं दलसिलादिचतुए 'दलि- वलि-स्खलि-अपि-क्षपयश्च' इति भोजोक्त्या मित्त्वे ण्यन्तादाभीक्ष्ण्ये णमुल् । 'निलवीप्सयोः' इति द्विरुक्तिः । 'विण्णमुलोर्दीर्घोऽन्यतरस्याम्' इति दीर्घाभावे रूपम् । प्रस्खलयन् । स्खलेगौ शता । जनयेत् । घटायो मितः । 'जनी-जृष्-नसु-रो- ऽमन्ताश्च' इति णौ सित्त्वे जनेलिट् ॥ श्रीकृष्णेन पूर्व सुखितत्वादिदानी पीडाधिक्यमित्याहुः- वाग्भिर्विशङ्कां विजरय्य मारं परिकसय्य स्वसितत्रपेण । अराजि येनाभिरमय्य गूढं वधूजनः स ज्वलयत्यलं नः ।। १५ ।। स्नसितत्रपेण । नसिता निरस्ता या येन तादृशेन । येन वाग्भिर्विशङ्का विजरय्य नाशयित्वा मारं परिकसय्य दीपयित्वा वर्धयित्वा गूढमभिरमय्य वधूजनोऽराजि रञ्जितः स श्रीकृष्णोऽस्मान् अलं ज्वलयति संतापयति ॥--विजरथ्य ! जृषो गिजन्ताल्ल्यप् । 'ल्यपि लघुपूर्वात्' इत्ययादेशः । परिक्लसय्य कसेः प्राग्वल ल्यप् । नसितेति । 'जनीज़- ष्णसु' इति पाठे णिजन्तात् कर्मणि क्तः । अराजि । रजेणौ चिणि 'चिण्णमुलो:-' इति दीर्घः । अभिरमथ्य । अमन्तापिणचि प्राग्वत् ल्यप् । ज्वलयति । 'ज्वल-हल-मल- नमामनुपसर्गाद्वा' इति मित्व विकल्पान्मित्त्वपक्षे णिचि लट् ॥ हा ज्वालयन्ति ह्वलयन्ति चित्तमह्वाल्यवैरिझलकस्य लीलाः । अह्मालितात्मा नमयन्ननाम्यान्स ग्लापयत्यग्लपकः कुतो नः ॥१६॥ अह्वाल्यवैरिह्मलकस्याक्षोभणीयशत्रुक्षोभकस्य तस्य लीलाश्चित्तं ज्वालयन्ति ताप- यन्ति, हलयन्ति क्षोभयन्ति च । हा कष्टममालितात्माक्षोभितमनाः । अनाम्यान् प्रहीकर्तुमशक्यान् नमथन् । अग्लपकोऽपीडकः स कुतो हेतो! स्लापयति पीडयति॥-- ज्वालयन्तीति । ज्वलेरमित्त्वे लट् । हलयन्ति । बलेमित्त्वे लट् । अह्वाल्येति । हुलेर- मित्त्वे ण्यत् । मलकस्य । मलेणौ मित्त्वे प्रवुल् । अल्लालितेति । अमित्त्वे कर्मणि क्तः । नमयन् । अनाम्यान् । नमः शतृण्यत्तौ । ग्लापयति । अग्लपकः । 'ग्ला-वा-व-व- मां च' इति मित्त्वविकल्पे ग्लाधातोर्लण्ण्वुल् च ॥ भगवतो जलक्रीडादिषु स्वाभिमतसिद्धि बकवधायद्भुतकर्म चानुस्मृत्य तस्मिन्नेव मनो लीयत इत्याहुः-- यः नाप्यमानः स्नपयंस्तथास्मान्कृत्स्नं च वान्यं वनयन्नरस्त । अवामयत्संवमितामृजा यो बकेन तं कामयते मनो नः ॥ १७ ॥ योऽस्माभिः स्नाप्यमानः सिच्यभानोऽस्मान् स्वपयन् प्रतिषिचन् कृत्स्नं वान्यम. स्माभिः कारयितव्यं बहु कर्म वनयन् कारयंधारस्त क्रीडितवान् । यो नमितासृजा छ. र्दितरक्वेन बकेन अवामयत् छर्दयामास तं नो मनः कामयते.॥--स्लाप्यमानःस्लपयन्निति। माधातोणी शानच्छता च । वान्यं दनयनिति । वनेय॑च्छता च । अवामयत् वमितेति । काव्यमाला। वमेणौ लङ् । कर्मणि कश्च । कामयते इति । 'न कस्यमिचमाम्' इत्यमित्त्वे मिडि वृद्धिः॥ दर्शनमेव प्रार्थयमावा विरमन्ति- तमामयन्तं द्विषतस्तुणं गाः प्रचामयन्तं क निशामयेयम् । निशम्यया मनुगिरा कदा नः स यामयेद्वा यमनादिकायें ॥ १८॥ तं व काले देशे वा निशामयेयं पश्येयम् । कीदृशं तम् । द्विषत आमयन्त पीडय- न्तम् । गास्तृणं प्रवामयन्तमाद्यन्तम् । स निशम्यया श्राव्यया मञ्जगिरा कदा नो यम- नादिकाय परिवेषणादिकर्मणि यामयेत् व्यापारयेत् ॥--आमयन्तमिति । अमेणिचि शतरि मित्त्वाभावे दीर्घः । प्रचामयन्तमिति । चमेः प्राग्वद् । निशामयेयमिति । ८१८ 'शमो- दर्शने' इत्यमित्त्वे णौ लिड् । निशम्यया। अदर्शनार्थत्वेन मित्त्वे णिचि ण्यत् । यामयेत्। ८१९ 'यमोऽपरिवेषणे' इत्यमित्त्वे गौ लिड् । व्यापारणात्रार्थः । यमनेति । परिवे- षणार्थे णौ मित्त्वे ल्युट् ॥ उक्तं गोपीविलासमुपसंहरति- इत्याद्यवस्खादितमानसास्ता बालाः परिस्खादितधैर्यबन्धाः । दुष्टानपस्खादयितुं प्रयाते कृष्णे विलेपुः फणिता विमोहम् ॥ १९॥ कृष्णे दुष्टानपस्खादयितुं विदारयितुं प्रयाते सति । ता बाला विमोहं फणिताः प्राप्ता इत्यादि विलेपुः । कीदृश्यः। अवस्खादितं विदारितं मानस यासां ताः। परिस्खा- दत्तो नाशितो धैर्यवन्धो यासां ताः ॥-अवस्खादितेति । ८२० 'स्खदिर् अवपरिभ्यां च' इति मित्त्वनिषेधाणिचि दीर्घे कर्मणि क्तः। परिस्खादितेति तद्वत् । अपस्खादयि- तुमिति । 'अपावपरिभ्यश्चेत्येके' इत्यपात् परस्य स्खदेरमित्त्वे णिचि तुमुन् । फणिता इति । ८२१ फण गतौ । कतरि । वृत् घटादिवृत्तः । ज्वरादय उदात्ता उदात्तेतः ॥ प्रस्थितस्य भगवतः श्रीकृष्णस्यावस्थामाह- कृष्णोऽपि रेजे पथि गोपबालैोजिष्णुभिर्धाशितपार्श्वदेशः । विभ्लाशितेऽकररथे सरामः स्यमत्पयोदस्वभाजि तिष्ठन् ॥ २० ॥ कृष्णोऽप्यक्रूररथे सरामस्तिष्ठन् पथि रेजे । भ्राजिष्णुभिः शोभमानैर्गोपबालैना- शितपार्श्वदेशः शोभितपार्श्वभागः । स्यमत्पयोदस्य शब्दायमानमेघस्य खनमिव खनं भ- जलाश्रयति यत्तस्मिन् रथे ॥--रेजे इति । ८२२ राज दीप्तौ । उदात्तः स्वरितेत् । अस्मालिटि 'फणां च सप्तानाम्' इत्येत्त्वाभ्यासलोपविकल्पः । ८२३ टुभ्राजू ८२४ टुम्राट ८२५ टुझ्लास्ट दीप्तौ । उदात्ता अनुदात्तेतः । प्राजेः 'अलंकृन्-' आदिना ताच्छील्ये इष्णुच् । भ्राशितभ्लाशिवेति । द्वयोः कर्तरि क्तः । स्थमदिति । ८२६ स्यमु ८२७ स्वन ८२८ ध्वन शब्दे । क्षमान्ता उदात्ता अनुदात्तेतः । स्थमेः शता । स्वनेति 'वनहसोवा' इत्यप् । खनान्ताः सप्त फणादयः ।। धातुकाव्यम् । १६७ गोपैनद्भिः समितैर्वृतोऽपि देवो न तस्ताम' विचिन्य गोपीः । बालेन तापेन चला जडाङ्गीरटालशोकवलितप्रतापाः ।। २१ ।। ध्वनद्भिः शब्दायमानैः समितैरविक्लवीभवद्भिर्गोपैर्वृतोऽपि देवो गोपौर्विचिन्त्य न त- ताम अविक्लवीबभूव पीडित एवासीत् । ज्वालेन दीप्तेन तापेन संतापेन चलाः क- म्पिताः । जडान्यसमर्थान्यङ्गानि यास ताः । अटालेन पूर्णेन शोकेन दलिता विक- लीभूताः प्रलापाः यास ताः ॥–ध्वनद्भिरिति । ध्वनेः शता । समितैः । ८२९ षम ८३० ष्टम अवैक्लव्ये । समेः कतरि क्तः। तस्ताम । स्तमेलिट् । ज्वालेन ! ८३१ ज्वल दीप्तौं । 'ज्वलितिकसन्तेभ्यः' इति णः । चलाः। ८३२ चल कम्पने । पचाद्यन् अडेति । ८३३ जल धान्ये । धान्यमतेश्यम् । अच् । लडयोरभेदाः । अटालेति । ८३४ टल ८३५ ट्वल वैकल्ये । टलेणः । ट्सलेः कर्तरि क्तः ॥ स्थलीहली सन्नलिनीश्च तीवो पलन्हरिश्चात्मबलप्रपोलः । कुलीरशालह्वलिताम्बुपूरह्मलत्पतङ्गां यमुनामवाप्तौ ॥ २२ ॥ पलन् हरिहली चोभौ स्थलीः सन्नलिनीश्च तीर्खा यमुनामवाप्ती । पलन् गच्छन् । स्थलीरकृत्रिमदेशान् । अवाप्तौ प्राप्तौ । आत्मबलेन स्वबलेन प्रपोलो महान् कुलीराणां कर्कटकानां शालेन गमनेन हलिते चलिते अम्बुपूरे जलपूरे हलन्तो गच्छन्तः पतझाः पक्षिणो यस्यां तां यमुनाम् ॥-स्थलीरिति । ८३६ष्टल स्थाने । अस्मादचि स्थलम् । स्थलशब्दात् 'जानपदकुण्डगोणस्थल-' इत्यादिना अकृत्रिमार्थे डीषि स्थली। हलीति ८३७ हल विलेखने । कर्षणं तत् । अचि हलं तस्मात् 'अत इनि' इतीनिः। नलि- नीरिति । ८३८ णल गन्थे । बन्धन इत्येके । अस्मात् 'बहुलमन्यत्रापि' इति कठिन- बदिनचि नलिनम् । तस्मादिनौ डीप् । पलन् । ८३९ पल गतौ । शता बलमिति । ८४० बल प्राणने धान्यावरोधने च। धान्यावरोधनं कुसूलादिव्यापारः । अस्मादचि ब- लम् । प्रपोल इति । ८४१ पुल महत्त्वे । ज्वलादिणः । कुलीरेति । ८४२ कुल संस्त्याने बन्धुषु च । संतान इत्येके । संस्त्यानं संघातः । अस्मात् संघाती भवतीति 'कुलेश्च भोजः। इतीरक् । शालेति । ८४३ शल [हल झल] ८४४ हुल ८४५ पत्ल गतौ । शलेर्घञ् । हलितेति । हलेः कर्तरि कः। झलदिति । गलेः शतः पतझेति । 'पत्रणच् पक्षिणि' इत्यनच् ॥ यमुनां वर्णयति षभिः- अहोलसत्त्वा रविरश्मिजालेऽप्यविकथन्ती तटपाथिपाथाः। तापं मथन्ती कणिका वसन्ती भ्राम्यत्तरङ्गा क्षरति स्फुटं या ॥२३॥ १. धातुपाठे तु 'घातने' इति पाठः, २. स्थलेति धातुपाटपाठः. ३. 'हलतेमलतेश्च घटादिपठितस्येह पाटो णविकल्पार्थः. घटादिपाठस्त्वर्थविशेष मित्वार्थ इति बोद्धव्यम् इति माधवग्रन्थानुरोधेन हलहालौ पठितौ इति बोध्यम्. 'काव्यमाला। या भ्राम्यत्तरजा स्फुट क्षरति । भ्राम्यन्तश्चलन्तस्तरमा यस्यां सा क्षरति प्रवहति । अहोल- सत्त्वा अहोलान्यहिंसकानि सत्त्वानि जलजन्तवो यस्यां सा रविरश्मिजालेऽप्यविक्कथन्यप- च्यमानानुष्णीभवन्तीत्यर्थः । तटपाथिपाथः तट पथितुं गन्तुं शीलं यस्य तादृशं पायो यस्याः सा। लापं मथन्ती क्षोभयन्ती त्यजन्ती। कणिकाः विन्दून् वमन्ती उद्गिरन्ती॥--अहोलेति। हुल हिसासंवरणगतिषु इत्येके । अस्माण्णः । अविक्वथन्ती। ८४६ क्वथे निष्पाके शतरि डीप् । तटपाथि । ८४७ पथे गतौ । णिनिः। असुन्नपि । मथन्ती ८४८ मथे विलो- डने । शतरि डीप् । वमन्ती । ८४९ टुवम् उद्गिरणे । श्राम्यदिति । ८५० भ्रम चलने। 'वा भ्राशालाश-' इति श्यनि शता। क्षरति। ८५१ क्षर संचलने । गलनं तत् । 'क्षर संचये' इति चैके। चलने च द्रुमे । स्यमादय उदात्ता उदात्तेतः ॥ सेहे च रामाजनखेलनं या कुचोरुसीदत्परिशद्भुतोया । क्रोशैर्जना: कोचगलान्मरालान्बोधन्ति यत्राम्बुरुहां विकासे ॥२४॥ या रामाजनखेलनं सेहे च । खेलनं क्रीडा । भगवत्क्रीडासुखमनुभूतवती । चेति चकारस्था पिरर्थः । कुचोरुसीदत्परिशद्भुतोया कुचोरुभिः स्तनसक्थिभिस्तदाघातेन सीदत् पौड्यमानं परिशद्ध विशरणशीलं तोयं यस्यां सा इति लीलाया असह्यत्वे हेतुः । जना यत्राम्बुरुहां पद्मानां विकासे क्रोशै रोदनैः सख्याह्वानशब्दैर्वा मरालान् हंसान कोच- गलान् कुटिलीभवत्कण्ठान् बोधन्ति जानन्ति ॥ सेहे इति । ८५२ षह मर्षणे । उ- दात्तोऽनुदात्तेत् । लिट् । रामेति । ८५३ रमु क्रीडायाम् । उदित्त्वमस्यानार्षम् । अ- नुदात्तोऽनुदात्तत् । अस्माण्णे टाप् । सीददिति । ८५४ षद्ल विशरणगत्यवसादनेषु शतरि 'पाघ्राध्मा-' इति सीदादेशः। परिशगु इति । ८५५ षद्ल शातने । तीक्ष्णीभावस्तत् । विशीर्णतायामित्येके । गतावप्यस्ति । 'दाधेसिशदसदः' इति रुः । कोशैः। ८५६ कुश आह्वाने रोदने च । पञ् । सदादयोऽनुदाता उदात्तेतः । कोचेति । ८५७ कुच. संपर्चनकौटिल्यप्रतिष्टम्भविलेखनेषु । अस्माण्णः । ८५८ बुध अवगमने । उद्बोधज्ञाने अस्यार्थावित्ययमकर्मकः सकर्मकश्च । अस्मालट् । अम्बुरुहामिति । ८५९ रुह बीजज- न्मनि । अस्मात् क्विम् । विकास इति । ८६० कस गतौ। विपूर्वत्वात् स्फुटनार्थता । अस्माद् घम् ॥ कुचादय उदात्ता उदात्तेतो रुहिवर्जम् ॥ हिद्भिः सुखमञ्चमानै खैरचद्भिर्मधु याचमानैः । रेटत्तटा या खलु चातकैश्च चाद्यं जलं प्रोथति दातुमुाम् ॥२५॥ या खलु चातकैरपि चायं प्रार्थनीयं जलं कणरूपं दातुमुव्यो प्रोथति पर्याप्नोति स- मर्था भवति । हिक्कद्भिर्जातिखभावप्राप्तमव्यक्तशब्दं कुर्वाणैः सुखं यथा तथाश्चमान- स्ततस्ततः संचरद्भिश्च । एतद्वयमृक्षविशेषणम् । अचद्भिर्डयमानैः मधु पुष्परसं याच- मानैरिव च । एतद्धयं भृङ्गविशेषणम् । तादृशै जैश्च रेटत्तटा शब्दायमानतीरा अनेन यमुनायाः सर्वजन्तूनां सुखकरत्वमुपकारित्वं चोक्तम् ॥-हिकद्भिरिति । ८६१ धातुकाव्यम्। हिक अव्यक्ते शब्दे । शता । अचमानैः । अचद्भिः। ८६२ अञ्च गतौ याचने च । अचु इत्येके । अत्रु गतावित्यन्ये । अञ्चेः शानच् । अचेः शता । याचमानैः । ८६३ टु यावृ यानायाम् । डु याच इत्येके । शानच् । रेटदिति । ८६४ रेटू परिभाषणे । याचने च द्रुमे । शता । चातकैः । ८६५ चते ८६६ चदे याचने । चतेवुल् । चाद्यम् । चदेय॑त् । प्रोथति । ८६७ प्रो, पर्याप्तौ । अयं शब्दार्थोऽपि । अपपूर्वस्तु मारणे हुंकरणे वा । अस्मालट् ॥ यमुनाया अतिपुण्यत्वं शैत्यातिशयं चाह- नित्यं प्रमोहामिदितोरुमेदैः प्रमेधिता सद्भिरनिद्यमानैः । या लेदितोर्वीपरिशर्घिवीचीविमृद्धवृक्षादिविबोध्यशैत्या ॥ २६ ॥ या सद्भिनित्यं प्रमेधिता संगता । प्रमोहेणामिदितोऽपीडित उस्मेदो मेघा येषां तैः सद्भिः । अनिद्यमानैरकुत्स्यमानः । नेदितोर्वी नेदितां समीपभूतामुर्वी भुवं परिशर्धितु- मुन्दितुं सेक्तुं शीलं यासां ताभिर्वांचीभिर्विमृद्धरुन्दितैर्वृक्षादिभिर्विवोध्यं शैल्यं यस्याः सा 1- अमिदितेति । ८६८ मिट ८६९ मेह मेधाहिंसनयोः । मिथू मेथू इत्येके । मिथ मेधृ इत्यन्ये । ८७० मेच संगमे च । मिदेः कर्मणि क्तः । अनिद्यमानैः । ८७१ णिह ८७२ णे कुत्सासंनिकर्षयोः । निदेः कर्मणि शानच् । नेदितेति । नेदेः कर्तरि क्तः । परिशधि, विमृद्ध इति । ८७३ शृधु ८७४ मृधु उन्दने । धेणिनिः । मृधेः क- तरि क्तः । विबोध्येति । ८७५ बुधिर् बोधने । तत्तु ज्ञानमेव । अस्माज्यत् ॥ प्रवुन्धवणीजववेनमाना खातान्तिका चीवरिभिनिषादैः । चाच्या व्ययहाशविलोकभेषभ्रेषज्झषा यासघं स्पशन्ती ।। २७॥ या अघ स्पशन्ती परिहरन्ती आसदशोभत । प्रवुन्छन दर्शनीयेन वेणीजवेन प्रवाहवे- गेन सह वेनमाना गच्छन्ती । चीवरिभिः पटचरवद्भिर्निषादैः खातान्तिका । चाच्या पूज्या । दर्शनीया वा । व्ययतां गच्छतां दाशानां विलोकेन यो भेषो भयं तेन भ्रषन्तः संचरन्तश्चलन्तो झषा यस्यां सा ||---प्रबुन्द्येति । ८७६ उवुन्दिर निशामने । दर्शन तत् । ण्यत् । वेणीति । ८७७ वेणु गतिज्ञानचिन्तानिशामनवादित्रग्रहणेषु । वे इ- त्येके । वादित्रग्रहण वाद्यानां वादनार्थमादानम् । अस्मादौणादिके इनि 'कृदिकाराद. किनः' इति डीए । वेनमाना । वेनेः शानच् । खातेति । ८७८ खनु अवदारणे ! क- मणि क्तः । चीवरिभिः । ८७९ ची आदानसंवरणयोः। अनूदिदित्येके । अस्माद्ध- णादौ 'छित्वरच्छत्वर-' इत्यादिना निपातितश्चीवरशब्दः । अत इनिः । चाय्या ८८० चाय पूजानिशामनयोः । ण्यत् । व्ययदिति । ८८१ व्यय गतौ । शता । वित्तत्यागे त्वस्य निखं तड्डेव । दाशेति।८८२ दाश दाने। 'दाशगोनौ संप्रदाने' इत्यच् । भेषेति । ८८३ भेष भये। अगताविलेके । घञ् । भ्रषदिति ।८८४ भ्रष गतौ । चलन इत्येके । काव्यमाला। ८८५ श्लेष इत्लन्ये । श्रेषेः शता । आसदिति । ८८६ अस गतिदीप्त्यादानेषु । अब इत्येके । असेलड् । स्पशन्ति । ८८७ स्पश बाधनस्पशनयोः । पशेलेके । पत्यन्ये। हिसार्थ दोषसूचनं स्पशनम् । स्पशेः शतरि डीप् ॥ लाषेण चाषांछषिताम्झषित्वा प्रलक्ष्य भक्षन्ति यदम्बु नीचाः । या दासते मोदममाडधान्नां गूढाशयानामपि तापसानाम् ॥ २८ ।। नीचाश्छषितान् हिसितांश्चाषान् बनकाकान् लाषेणेच्छया झषित्वा आदाय संबृत्य च अभ्लक्ष्य भक्षयित्वा यदम्बु यस्या जलं भक्षन्ति पिबन्ति । या तापसानामपि मोद दासते ददाति । अमाद्यममेयं धाम येषां तेषाम् । गूढो गुप्त आशयो येषां तेषाम् । अनेन नी- चानामुत्तमानां च सुखकरत्वमुक्तम् ॥-लाणेति । ८८८ लष कान्तौ । कान्तिरिच्छा। घञ् चाषान् । ८८९ चष भक्षणे । कर्मणि घम् । छषितान् । ८९० छष हिसायाम् । कर्मणि क्तः । झषित्वा । ८९१ झष आदानसंवरणयोः । क्त्वा । अभ्लक्ष्य । ८९२ लक्ष अदने । ८९३ प्रक्ष इत्येके । भक्षेत्यन्ये । भ्लक्षेय॑प । भक्षन्ति । भक्षेर्लट् । दासते। ८९४ दास दाने । लट् । अमायेति । ८९५ माह माने । ण्यत् । गूढेति । ८९६ गुहू संवरणे । क्तः । हिकाय उदात्ताः खरितेतः ।। यमुनायामङ्करस्य व्यापार वक्तुमारभते- अजं तमत्र स्वरथे निवेश्य श्रियं भरन्ती हरिकान्तितुल्याम् । धृतप्रमोदो दुरितापनेत्रीं स्नातुं नदीमाप स गान्दिनेयः ॥ २९॥ स्पष्टार्थः श्लोकः । अजन्तधात्वारम्भोऽत्रेति च भाति ।-श्रियमिति । ८९७ श्रि सेवायाम् । उदात्त उभयतोभाषः। 'किव्वचिपच्छिश्रिदुस्रुकटपुजुवां दीर्घोऽसंप्रसारणं च' इति कर्मणि क्विप् । दीर्घश्च । भरन्तीम् । ८९८ भृञ् भरणे । पूरणेऽपीति भष्टिः। शतरि डीप् । हरीति । ८९९ हू हरणे । प्रापणं स्वीकारः स्तेयं नाशनं वा । अस्मादोणादिक इन् ।धृतेति । ९०० वृञ् धारणे । कर्मणि क्तः । अपनेत्रीमिति । ९०१ णीप्रापणे। प्रापणं गमना । तूचि डीप् । भृादयोऽनुदात्ता उभयतोभाषाः ॥ धयन्दृशाम्लानरुचिं स कृष्णं म्लानिं त्यजन्धानमले जलान्ते । निद्रायदिन्दीवरभाजि मजन्ननाणधीस्तत्र च तं ददर्श ॥ ३०॥ स दृशा कृष्ण धयन् पिबन्नध्राणधीरतृप्तधीरपि म्लानि त्यजन् । पीडात्यागाद्धेतोः । जलान्ते मजन् तत्र च तत्रापि जले तं कृष्णं ददर्श । अग्लानरुचिमक्षीणशोभ धानं न्याकृतं निरस्तं मलं यरिसन्जलान्ते निद्रायन्ति मीलयन्ति मुकुलितानि इन्दीवराणि मज- तीति निद्रायदिन्दीवरभाक्तस्मिन् ॥-धयन्निति।९०२ धेट पाने । शता अग्लानेति। १. 'स्पर्शनयोः' इति धातुपाठे. २. 'क्विब्वचिपच्छिश्रिसुगुज्यां दीर्घोऽसंप्रसारणं च' इति औणादिकपाठः, धातुकाव्यम् । ९०३ ग्लै ९०४ ग्लै हर्षक्षये। हर्षक्षयः शक्तिक्षयः । ग्लैधातोः कतरिक्तः। 'संयोगादे:-' इति निष्ठानत्वम् । म्लानिम् । म्लायतेः 'ग्लाम्लान्याहाभ्यो निर्वाच्यः' इति निः । द्या- नेति । ९०५ चै न्यकरणे । न्यङ्गविधान इत्येके । कुत्सिताङ्गकरणं तत् । कर्मणि क्तः । प्राग्वन्नत्वम् । निद्रायदिति । ९०६ नै खप्ने । शता । अघ्राणेति । ९०७ नै तृप्तौ । कर्तरि क्तः । धीरिति । ९०८ ध्यै चिन्तायाम् । विपि 'ध्याप्योः संप्रसारणम्' इती- त्वम् । भगवद्दर्शनकौतुकेन जलादुन्मन्नस्यावस्थामाहे- रायद्धयत्यानरुचौ रथेऽपि तं भक्तितिथ्यापयियुं स दृया । खाताशयोऽक्षाममुदा पुनश्च मग्नोऽन्यथापश्यदजानमीशम् ॥ ३१ ॥ स तं भक्तेः तिष्टयापयिषु संघातीकतु वर्धयितुमिच्छु सन्तं रथेऽपि दृष्ट्वा । अक्षाम- मुदा पूर्णमोदेन पुनश्र पुनरपि भन्नः सन्नीशमन्यथा अपश्यत् । रायद्धयैः शब्दायमानाश्चै. स्त्यानरुचौ प्रवृद्धशोभे रथे खाताशयः स्थिरीभूतमना अगाधमना वा अजानमक्षयं नित्यम् ॥–रायदिति । ९०९ रै शब्दे । शता । स्त्यानेति । ९१० स्त्यै ९११ श्यै शब्दसंघातयोः । आद्यात् कर्तरि क्तः । नत्वम् । तिष्टयापयिषुम् । द्वितीयाण्णिजन्तात् सन्युः। 'स्तौतिण्योरेव--' इति षत्वम् । तदर्थमेव षोपदेशस्य पाठः । खातेति । ९१२ खै खदने । तच्च स्थैर्य हिंसे । 'खै खनने' इत्येव शंकराचार्यः । तस्मात् कतरि क्तः । अक्षामेति । ९१३ : ९१४ जै ९१५ चै क्षये । क्षेधातोः कर्तरि के 'क्षायो मः' इति मत्वम् । अजानन् । जैधातोल्युट् ।। अन्यथेत्युक्तं रूपं वर्णयति- प्रसातकातर्यसुरोपगीतं पूज्यं शृतास्त्राणहविर्विशेषैः । आपातमाल्यं शयितं सुवानकाशत्विषि स्ताततनौ फणीन्द्रे ॥ ३२ ॥ प्रसातकातयः प्रक्षीणभयैः सुरैरुपगीतं स्तुतं शताखाणः पक्कापक्कैश्चरुपुरोडाशक्षीरसव- नीतादिरूपैहविर्विशेषैः पूज्यम् । अपातमशुष्कमम्लाने माल्लं यस्य तम् । सुवानकाशस्य सम्यक्शुष्ककाशमञ्जास्त्विडिवातिधवला शोभा यस्य तसिन् । स्ताता वेषिता कुण्ड- लीकृता तनुर्थस्य तस्मिन् । फणीन्द्रे शयितम् । ईदृशमीशमपश्यदिति पूर्वेणान्वयः ॥- प्रसातेति । सायतेः कर्तरि क्तः । कातर्येति । ९१६ कै ९१७ गै शब्दे। कायतेः 'का- राभ्यान्तरन्' इति भोजोक्ततरनि कातरः । तस्मात् ष्यञ् । उपगीन मिति । गायतेः श. ब्दविशेषार्थत्वात् सकर्मकात् कर्मणि क्तः । तेति । ९१८ 3 ९१९ मै पाके । श्रा- यतेः 'शृतं पाके' इति निपातः । अखाणेति । वैधातोः कर्तरि ते यण्वत्त्वान्नत्वम् । १. 'ध्यायतेः संप्रसारणं च' इति वार्तिकेनेति सारम्. यथाश्रुतस्य तु क्रनिपि संप्रसार- विधायकस्योणादिसूत्रस्य 'धीवा' इत्युदाहरणम्. २. 'शै भै' इति धातुपाठे. काव्यमाला अपादेति । ९२० १९२१ ओ चै शोषणे। पैधातोः कतरिक्तः। सुवानेति । वै- धातोः प्राग्वत् क्तः । ओदित्वान्नत्वम् । स्तावेति । ९२२ है वेष्टने। ९२३ ष्णो इत्येके । णै शौच इत्यन्ये । स्वैधातोः कर्तरि क्तः ॥ एतद्रूपं पश्यतोऽङ्करस्य प्रवृत्तिमाह- स्नातावदातः स पिबंस्तदाभां जिघन्सुगन्धं विधमन्नधानि । तिष्ठन्निहानायगमिष्टदं तमस्तौत्स्फुटेनाद्धृतधीः स्वरेण ॥ ३३ ॥ स नातावदात्तः नातश्चावदातश्च शुद्धः सन् तदाभां पिबन् सुगन्धं जिघ्रन्नघानि वि- धमंस्त्वजन्निह तिष्ठन् स्फुटेन स्वरेण तमस्तोत् स्तुतवान् । आम्नायगं वेदगतम् । अढता- कुटिला वीर्यस्य सः ॥--नातेति । ष्णै शौचे । कर्तरि क्तः। अवदातः। ९२४ दैप शोधने । पकारः 'अदाप्' इति सामान्यग्रहणार्थः । शोधनं शुद्धिः । अस्मात् कर्तरि कः । पिबन् । जिघ्रन् । विधमन् । तिष्ठन् । ९२५ पा पाने । ९२६ घ्रा गन्धोपा- दाने । ९२७ ध्मा शब्दाग्निसंयोगयोः । इह शब्दः शब्दना । अग्निसंयोगश्च मुखवायुना लक्षणया विधूल्ने, संतापेन पूरणे च । ९२८ ष्ठा गतिनिवृत्तौ । चतुर्णा शतरि 'पाघ्रा-' इत्यादिना पिवाद्यादेशाः । आम्नायेति । ९२९ ना अभ्यासे । प्रायेणाड्पूर्वः। कर्मणि घञ् । इष्टदेति । ९३० दाण् दाने । 'पाघ्रा' इत्यादिसूत्रे दाणिति विशेषणार्थों णः । अस्मात् 'आतोऽनुपसर्गे कः' । अढतेति । ९३१ ह कौटिल्ये । कर्तरि क्तः । खरेणेति । ९३२ स्वृ शब्दोपतापयोः । अस्मात् 'क्षुब्धखान्त-' इति सूत्रे खरेति निर्देशादच् ॥ स्मार्य शुभद्वारमुपासरामि त्वत्पादमृच्छामि न मोहगतम् । घृणास्तु ते विध्वृतशूरदैत्यस्रुतास्रसिक्तायुध विश्वसोतः ॥ ३४ ॥ अहं त्वत्पादमुपासरामि प्राप्नोमि मोहरूपं गते न ऋच्छामि न प्राप्नोमि। द्वयोः 'आ- शंसायां भूतबच्च' इति चकारात् प्रार्थनायां लट् । कीदृशं पादम् । स्मार्य चिन्तनीयम् । शुभद्वारं सुखकरमित्यर्थः । विवृतशूरदैत्यनुतास्रसित्तायुधः विध्वृतेभ्यो हिसितेभ्यः शूर- दैत्येभ्यः सुतैरानः रक्तैः सिक्तमायुधं यस्य तादृश, हे विश्वसोतः, जगतस्तत्तत्कर्मसु अनुज्ञाकर्तः, ईश्वर इति वा । तव घृणा दया मयि अस्तु ॥---स्मार्यमिति । ९३३ स्मृ चिन्तायाम् । ण्यत् । द्वारमिति । ९३४ हूँ वरण इत्यप्येके । घञ् । उपासरामि । ९३५ स गतौ । लट् । सरतेर्धावादेशस्तु द्रुतगतावेव । ऋच्छामि । ९३६ ऋ गति- प्रापणयोः । लटि ऋच्छादेशः। गर्तम् ।९३७ गृ ९३८ सेचने । 'असिमृग्रिण्वाभि- द्रलूपधुर्विभ्यस्तन्' इति कर्मणि तन् । तत्र गरतेरपि ग्रहणात् । घृणा । 'हण भ्रूणस्थूण- मणादयः' इति भोजोक्वधरतेणः । विवृतेति । ९३९ वृ हळुने। कौटिल्यं तत् । १. 'आम्' इति पाठः, २. 'इ' इति धातुपाठे. धातुकाव्यम् । हिंसार्थेऽप्यस्ति । कर्मणि कः । ९४० त्रु गतौ । सुतौ च द्रुमे । शु सु गतावित्येके । 'शुसिंचिमिजां दीर्घश्च' इति क्रन् । सुतेति । नुधातोः कर्तरि क्तः । सोतः । ९४१ षु प्रसवैश्वर्ययोः। प्रसवोऽभ्यनुन्ना । तृच् ॥ श्रुत्यन्तवाचा ध्रुवया प्रदूनं घोरद्रवञ्चक्रजिताज्ञितारिम् । स्मितावक्र गवमानभूषं गै त्वां घुताशं कुतशङ्खघोषैः ॥ ३५ ॥ अहं त्वां गै प्राप्त प्रार्थये । श्रुत्यन्तवाचोपनिषदा ध्रुवया नित्यया प्रदूनं ज्ञातम् । गत्य- ाज ज्ञानार्थता । घोरं यथा तथा द्रवता चक्रेण जिता अभिभूता अज्ञिता अन्यैरनभि- भूता अरयो येन तम् । मितेन मन्दहासेनार्द्रवक्त्रम् । गवमानाः शब्दायमाना भूषा यस्य तम् । कुतशङ्खस्य शब्दायमानशङ्खस्य घोषैर्युताशं शब्दितदिशम् ॥–श्रुतीति ।९४२ श्रु श्रवणे । 'श्रुयजषिस्तुभ्यः करणे' इति क्तिन् ।ध्रुवया।९४३ धु स्थैर्ये । बाहुलकात्कः । यद्वा 'ध्रुवमपाये' इति निर्देशात् साधुरिति माधवः । प्रदूनम् । ९४४ दु ९४५ द्रु गतौ । दोः कर्मणि क्तः । 'दुग्वोदीर्घश्च' इति निष्ठानत्वदीघौं । द्रवदिति । दुधातोः शता । जि- ताज्ञितेति । ९४६ जि ९४७ झिं अभिभवे । 'जि जि अभिभवे' इति लीलाशुकः । जिझ्योः कर्मणि क्तः । धयत्यादयोऽनुदात्ताः परस्मैभाषाः । स्मितेति । ९४८ मिङ् ईषद्धसने । नपुंसके भावे कः । गवमानेति । ९४९ गुण अव्यक्ते शब्दे । शानच् । गै इति । ९५० गाङ् गतौ । लोट् । घुतकुतेति । ९५१ घुङ् ९५२ कुङ् ९५३ उङ् ९५४ र्दुङ् शब्दे । कुड् अव्यक्तशब्दार्थ इति केचित् । द्वयोः कर्तरि क्तः ॥ स्तोत्रावमानैर्दुतवेणुवीणैञ्युताशुभैयामचरैर्युतं ते । प्रवे भवाब्धिप्लवमारुतानां धृतामयं भक्तिनिमेयमद्धिम् ।। ३६ ।। अहं भक्तिनिमेयं भक्त्या निमेयं व्यत्यसनीयं दानपूर्वं परिग्राह्यं ते अझिं प्रवे प्राप्नोमि ! कीदृशमनिम् । व्योमचरैर्दिव्यैर्युतं प्राप्तम् । आरुतानां प्राप्तानां धृत्तामयं ध्वस्तपीडम् । कीदृशैयामचरैः । स्तोत्रेणावसानैः शब्दायमानैः । तथा दुताः शब्दिता वेणवो वीणा च येषां तैः । च्युतं गतमशुभं येषां तैः ॥–अवमानैः । उड्धातोः शानच् । दु- तेति । दुडः कर्तरि तः । च्युतेति । ९५५ च्युङ् ९५६ ज्युङ् ९५७ फुङ्९५८ मुङ् गतौ । क्लुड् इति चैके । झुङ् इति चान्ये ! च्युडः कर्तरि क्तः । ज्युतम् । ज्युडः कर्मणि क्तः । प्रवे । मुडो लट् । प्लवम् । प्लुडः पचायच् । आरुतानाम् । ९५९ रुङ् गतिरेषणयोः । रेषणं हिंसा । कर्तरि क्तः । धृतेति । ९६० धृङ् अवध्वंसने । कर्तरि तः। निमेयम् । ९६१ मेङ् प्रणिदाने । तच्च विनिमयः । प्रत्यर्पणं वा । अचो यत् ॥ दयख मां देव कृपाम्बुशीत प्यानौजसा त्रातजगत्रयं लाम् । पूताखिलं मूतबलिं सुडीतौ ताक्ष्ये स्थितं प्राप्य तरामि मायाम् ॥३७॥ १. 'जि' इति धातुपाठे. २. 'डुड्' इति धातुपाठे. ३. 'क्लुड्' इति पाठः, 1 १७४ काव्यमाला। हे कृपाम्बुशीत देव, त्वं मां दयख रक्ष । अहं त्वां प्राप्य मायां तरासि । प्यानौजसा प्रवृद्धबलेन परिपालितजगत्रयम् । मूतो बद्धो बलियन तम् । सुडीतौ शोभनडयने ताये स्थितम् ॥-दयखेति । ९६२ दे रक्षणे । लोट् । शीतेति । ९६३ श्यैङ् गतौ । कर्तरि क्तः । 'द्रवमूर्तिस्पर्शयोः श्यः' इति संप्रसारणम् । प्यानेति । ९६४ प्यैङ् वृद्धौ । प्राग्वत् क्तः । यण्वत्त्वान्नत्वम् । नातेति । ९६५ त्रेङ् पालने । कर्मणि क्तः। मिड्डा- दयोऽनुदात्ता आत्मनेभाषाः । पूतेति । ९६६ पूङ् पवने । शोधन तत् । कर्मणि क्तः । मूतेति । ९६७ मूङ् बन्धने । प्राग्वत् क्तः। सुडीतौ । ९६८ डी विहायसा गतौ क्तिन् । पूडादय उदात्ता आत्मनेभाषाः । तरामि । ९६९ तृ प्लवनतरणयोः । अभिभवे व द्रुमे । प्लवनं जलादावमङ्क्वा गमनम् । उदात्तः परस्मैभाषः । अस्मालट् ।। अहं त्वां प्राप्य मायां तरामीत्युक्तम् । तत्र त्वत्कृपां विना त्वत्प्राप्तिरपि दुर्लभेलाह-- जुगुप्सतेऽघाब्यसनं तितिक्षुर्मीमांसते ब्रह्म च यो दृढात्मा । स खल्वबीभत्सितवृत्तिरची तवारभेतापि कृपां लभेत ॥ ३८॥ योऽधाज् जुगुप्सते अघं निन्दति । व्यसनं दुःखं तितिक्षुः क्षममाणो दृढात्मा व सन् ब्रह्म मीमांसते विचारयति । स खलु तवा मारंभेत कृपां लभेत अपि । अबीभत्सित- वृत्तिः बीभत्सितमन्येषां चित्तविकारो न यस्यां तादृशी वृत्तिापारो यस्य सः॥-जु- गुप्सत इति । ९७० गुप गोपने । ९७१ तिज निशाने । ९७२ भान पूजायाम् । ९७३ बध बन्धने । एषां क्रमात् निन्दायाम्, क्षमायाम्, पूजितविचारे, दुर्गन्धादिज-. चित्तावकारे च सन्नुतः । नित्यसन्नन्तत्वसाधनाच धातोः पृथक्प्रयोगाभावात् गोपना- वर्थपाठो व्यर्थ इति हरदत्तादयः । 'गुप्तिकिझ्यः सन्' इति सन् । एषामनुदात्तत्त्वात् सन्नन्तस्यापि तड् । ईदृशात् गुपेर्लट् । तितिक्षुरिति । तिजेः सन्युप्रत्ययः । मीमांसत इति । मानेः 'मान्बध-' इति सनि लट् । अबीभत्सितेति । बधेः सनि नपुंसके भावे क्तः । आरभेत । ९७४ रम रामस्थे । उपक्रमस्तत् । तत्रायं प्रायेणाड्पूर्वः । लभेत । ९७५ डु लभ प्राप्तौ । द्वायो. संभावने लिट् । त्वत्कृपया जितेन्द्रियाणां त्वं सुलभ इत्याह- असक्तयोषैः पशुहनशुद्धक्ष्वेदन्मृगास्कन्दवनान्तवासैः । यामाद्यकामैनमनातायैः सृप्योऽसि विष्णो यमिभिर्वितापैः ॥३९॥ हे विष्णो, लं यमिभिः सृप्योऽसि प्राप्योसि । असक्तयोषरैनालिङ्गितस्त्रीकैः । तदि- च्छाभावात् पशूनां हन्नेन पुरीषोत्सर्गेण शुद्धः श्वेदद्भिः अव्यक्तशब्दं कुर्वाणैः मृगैः क्रूरमृगैरस्कन्नोऽप्राप्तः, अनभिभूतो वा, वनान्ते वासो येषां तैः। यामादिषु रतादिष्व- सामैः । --अमक्तेति । ९७६ पन्ज परिवढे । कर्मणि तिः। हन्नेति । ९७७ हद पुरीपोत्सर्ने । 'नपुंसके भावे क्तः' । रभादयोऽनुदात्ता अनुदात्तेतः । वेददिति । ९७८ . धातुकाव्यम् । १७५ शिक्षिवदा अव्यक्ते शब्दे । उदात्त उदात्तेत् । शता । अस्कन्निति । ९७९ स्कदिर गतिशोषणयोः । कर्मणि क्तः। याभेति । ९८० यम विपरीते मथुने । तच पुरुषायि- तम् । यम मैथुन इत्येवैके । धञ् । नमनात् । ९८१ म प्रहृत्वे शब्दे व द्रुमे । युट् । गतेति । ९८२ गमु९८३ सून गतौ । गमेः कर्तरि क्तः । सृप्यः । सृपेः 'ऋ- दुपधाद्-' इति क्यम् । यमिभिः । ९८४ यम उपरमे । उदिदिति केचित् । 'यमः स- मुपनिविघु बइति अवन्तान्मत्वर्थीय इनिः । वितापैः । ९८५ तप संतापे । अन् । अङ्करस्य कृत्यशेषमाह-- वक्तातिरेवं तमसङ्गचेताः स्तुवन्नदृष्ट्वा च पुनः क्षणात्तम् । कृत्वा स कृत्यं दशनांशुगौरं कृष्णं ययौ दैत्यनिदायमेथम् ॥ ४० ॥ स तमेवं स्तुवन् पुनस्सं क्षणादृष्ट्वा च कृत्यमवश्यं कर्तव्यं कृत्वा, दशनाशुगौरं मन्द- स्मितसितात्मानं कृष्णं रथस्थं श्रीकृष्णं ययौ प्राप । त्यक्ता आतिथन सः । असद्धं चेतो यस्य सः । दैत्यरूपस्य निदाघस्य ग्रीष्मर्तोः मेधं वर्षतुम् । तन्नाशकमित्यर्थः । त्यति। ९८६ त्यज हानौ । कर्मणि क्तः । असझेति ! ९८७ पन्ज सङ्के । घन् । अदृष्ट्वा । ९८८ दशिर प्रेक्षणे । वत्वा । दशनेति । ९८९ दश दशने । दशनशब्देन दन्तार्थन तकिया लक्ष्यते । 'दशेः करणे ल्युटि नलोपो वाच्यः' इति नलोपः। कृष्णमिति । ९९० कृष विलेखने । विलेखनमिहाकर्षणम् । 'कृषेवणे' इति नक् । निदाघेति । ९९१ दह भस्मीकरणे । घनि । न्यवादित्वात्कृत्वम् । मेघमिति । ९९२ मिह सेचने । अचि प्राग्वत् कुः । स्कन्धादयोऽनुदात्ता उदात्तेतः ॥ भगवतोऽब्रानुग्रहमाह-- मोहं चिकित्सन्वचसास्य कृष्णो दीदांसुचित्तस्य सुविस्मितस्य । जगाम शीशांसितशस्त्रहत्तैर्गोपैः सहासौ परिपकपुण्यैः॥ ४१ ।। असौ कृष्णो वचसास्य मोहं चिकित्सन्नपनयन् गोपैः सह जगाम । दीदांसुचित्तस्य दीदांसु ऋजूभवनशीलं चित्तं यस्य तस्य । शीशासितशत्रहस्तैः । शीशांसितं तीक्ष्णी- कृतं शस्त्रं हस्ते येषां तैः ॥--चिकित्सन्निति । ९९३ कित निवासे रोगापनयने च । अयमुदात्तेत् । सन्नन्तः। उदात्तत्त्वात् सन्नन्तस्य परस्मैपदमेव । अत्र निवासार्थो व्यर्थः । रोगापनयने हि सन्नुच्यते । संशयनिग्रहापनयनाशनादयश्चास्यार्थाः । अस्मात् 'गु- प्तिकिझ्यः' इति सनि शता । दीदांसु इति । ९९४ दान अवखण्डने । ९९५ शान तेजने । इमावपि नित्यसन्नन्तौ खरितेतौ । दानेरार्जवे सनुक्तेः अबखण्डनोक्तिया । दानेः 'मान्बध-' इति सनि उः । शीशांतितेति । शानेः निशातने प्राग्वत्सनि कर्मणि क्तः । परिपक्वेति । ९९६ डु पच पाके । कर्तरि क्तः । 'पचो वः' इति निष्ठावत्वम् ।। १. 'निविदा' इति धातुपाठे. २. 'न्यङ्खादित्वात् इत्याद?. ३. खण्डने' इति धातुपाठे. काव्यमाला। ते संसचन्तो धृतभक्तिरागाः कृष्णेन कंसं मनसा शपन्तः । त्वेषन्मुखा इष्टिनिवापहीनां कष्टां पुरी प्रापुरुदूढदर्पाः ॥ ४२ ॥ ते कृष्णेन संसचन्तः संघनन्तः पुरी प्रापुः । त्वेषत् दीप्यमानं मुखं येषां ते । इष्टिनि- वापहीनाम् । इष्टिदेवपूजा निवापः पितृक्रिया ताभ्यां हीनाम् । अत एव कष्ट नि- न्दिताम् ॥–संसचन्त इति । ९९७ षच समवाये । स च संबन्धः । शता । भक्तीति। ९९८ भज सेवायाम् । विभजने च द्रुमे । किन् । रागेति । ९९९ रन्ज रागे। पञ् । 'बभि च भापकरणयोः' इति नलोपः । शपन्तः । १००० शप आक्रोशे । शता । त्वेषदिति । १००१ त्विष दीप्तौ । शता। इष्टीति । १००२ यज देवपूजासंगतिकरण- दानेषु । किन् । 'वविखपि-' इति संप्रसारणम् । निवापेति । १००३ डुवा बी- जसंताने । तच्च क्षेत्रे बीजानां विकरणम् । अयं केशखण्डनेऽपि । निपूर्वत्वात् पितृक्रिया- र्थता । धञ् । उढेति । १००४ वह प्रापणे । कर्मणि कः । यजादित्वात्संप्रसारणम् । पचादयोऽनुदात्ताः खरितेतः । षचिस्तूदात्तः । ततो निवत्स्यन्दिवसोभागे चारुतकीयम्बरवीतलोकः । हरिः समाहूय वदन्सहायान्पुरस्य बाह्योपवनं शुशाव ॥ ४३ ॥ ततो हारदिवसो–भागे निवत्स्यन् निवासं करिष्यन् सहायान् समाहूय वदन् पुरस्म वास्योपवनं शुशाव प्राप । कीदृशः हरिः । चारूतकीखंम्बरवीतलोकः । चारु यथा तथा उतेन विस्तारितेन कीर्तिरूपेण वस्त्रेण वीतश्छदितो लोको येन सः । निवत्स्यन्निति । १००५ वस निवासे । अनुदात्त उदात्तेत् । 'लुटः सदा' इति शता । उतेति । १००६ वे तन्तुसंताने । व्याप्ती छादने चाह भष्टिः । कर्मणि क्तः । वीतेति । १००७ व्यञ् संवरये । प्राग्वत् कः। समाहूय । १००८ हृञ् स्पर्धायां शब्दे च । शब्द: शब्दनं चाह्वानम् । ल्यप् । देादयोऽनुदात्ता उभयतोभाषाः । वदन् । १००९ वद व्यक्तायां वाचि । उदात्त उदात्तेत् । शता । शुशावेति । १०१० टु ओश्चि ग- विवृद्ध्योः । उदात्तः परस्सैभाषः लिट् । 'लिट्यभ्यासस्योभयेषाम्' इति संप्रसारणम् । वृत् । यजादयो वृत्ताः । भूवादयस्त्ववृत्कृताः । तेन चुलुम्पादीनां शसिद्धिः । शब्विकर- गभूवादयो गताः ॥ अथ मधुरोपवनप्राप्त्यनन्तरं राजमार्गयानादितहिनशेषभाविनीमवस्थामाह- अहन्मधुनो द्विषते विसृज्य श्ववल्कजं विश्वमुदं दुहानः । मालेयदिग्धो जनदृष्टिलेह्यश्चक्षीमहीमा पुरमित्युपैः ॥ ४४ ॥ मधुन्नः श्रीकृष्णः श्ववल्कजमक्रूरं द्विषते द्विषन्तं बोधयितुं विसृज्य अदन भुञ्जानः सन् बयमिमा पुरं वक्षीमहि पश्येम इति । एवम्-सहायान् उक्त्वोपैत समीपमगच्छत् । को- दृशः श्रीकृष्णाः । मालेयेन चन्दनेन दिग्धो लिप्तः । अनेन निसर्गकमनीयस्यापि तस्य त- दानीमनन्यसाधारणशोभातिशयमाह । अत एव जनदृष्टिलेह्य आखाद्यः, न तु दृश्य एव । घातुकाव्यम् । अत एवानुक्तसिद्धामपि सर्वमनस्तुष्टिं स्पष्टयति--विश्वषां सर्वेषां मुदं दुहानः पूरयन् । तंद्रूपममृतं क्षारयन् वा ॥-अदनिति । १०११ अद भक्षणे । 'व्यलदन्ति वृका मेषान्' इलादौ हिंसार्थोऽपि । अस्माच्छता।मधुन इति। १०१२ हन हिंसागत्योः। अमनुष्यकर्तृके च' इति टक् । अनुदात्ताबुदात्तेतौ । द्विषते । १०१३ द्विष अप्रीतौ । शता। दुहानः । १०१४ दुह प्रपूरणे । अपूरणं पात्रादिपूरणार्थ क्षारणम् । तस्मात् शानच् । दिग्ध इति । १०१५ दिह उपचये । उपचयो लेपनम् । कर्मणि कः । लेह्य इति । १०१६ लिह आखादने । ण्यत् । द्विषादयोऽनुदात्ताः स्वरितेतः । चक्षीमहि । १०१७ चक्षिङ् व्यक्तायां वाचि । तत्र प्रायेणाड्पूर्वोऽयं दर्शनार्थोऽपि निमन्त्रणे लिड् । उपैत । १०१८ ईर गतौ । कम्पने च द्रुमे । अस्माल । पुरावलोकनव्याजेन भक्तानुग्रहार्थं प्रस्थितस्य तस्य प्रवृत्तिमाह- ईड्योऽयमीशः समुपास्तिशीलैराशासित्तः पीतपटीं वसानः । स्वीयैश्चकंसे कशनीयकासी रमोष्ठनिसी नतचित्तनिजी ॥ ४५ ॥ अयमीशः पीतपटीं वसानस्तदानी विशेषरम्यां परिदधानः सन् स्वीयैः वकंसे संचरि- तवान् । पीतपर्टी वसान इत्यनेन मनोहरत्वमुक्तम् । कीदृशः । ईड्यः स्तुत्यः। समुपास्ति- शीलैराशासितः । समीचीनामुपास्ति ध्यानं शीलयन्ति अन्यस्यन्ति ये तैराशासित इष्टः । कशनीयान् शासचीयान् कसितुं शासितुं शीलं यस्य सः । रमाया ओष्ठं निसितुं चुम्बितुं शीलं यस्य सः । नतानां चित्तं निञ्जयितुं शोधयितुं शीलं यस्य सः ॥--ईज्य इति । १०१९ ईड स्तुतौ । ण्यत् । ईश इति । १०२० ईश ऐश्वर्ये ! पचाद्यचि ईशः । समुपा- स्तीति । १०२१ आस उपवेशने । उपपूर्वत्वात् सेवार्थत्वम् । तिन् । आशासितः । १०२२ औड् शालु इच्छायाम् । उदित्येके । कर्मणि क्तः । वसानः । १०२३ वस आच्छादने । शानच् । चकंसे । १०२४ कसि गतिशासनयोः । कत्येके । कसेत्यन्ये कशनीयकासी । कशेरनीयर् । कसेणिनिः । रमोष्ठनिसी । १०२५ णिसि चुम्बने । णिनिः । चित्तनिञ्जी । १०२६ णिजि' शुद्धौ । अस्माण्ण्यन्ताणिनिः ॥ भगवद्दर्शनेन पौराणां स्वखवासनानुरूपं विकारं वक्तुमाह-- शिजानपिज्ञानसुवर्णभूषासंपृञ्जितो वृज्यविवृजिसेव्यः । पृक्ताग्रजः पृश्चितगोपसूनुर्दृष्टोऽब्धिशायी स जनैर्युवद्भिः ॥ ४६ ॥ अब्धिशायी स पृस्ताग्रजः संयुक्ताप्रजः पृजितगोपसूनुः संयुक्तगोपवालश्च सन् युवद्भिः कौतुकातिशयात् तत्र मिश्रीभवद्भिर्जनदृष्टः । आसीदिति शेषः । कीदृगित्याह-शिक्षा- नाभिरव्यक्तशब्दं कुर्वाणाभिः पिञ्जानाभिर्वर्णाधिक्येन पिङ्गलीभविन्नीभिः सुवर्णभूषाभिः संपृञ्जितः पिङ्गलीभूतो वृज्यविवृजिसेव्यः वर्जनीयवर्जनशीलैः सद्भिः सेव्यः ॥---शिजान- पिञ्जानेति । १०२७ शिजि अव्यक्ते शब्दे । १०२८ पिजि वर्णे । पिङ्गलत्वं तत् । १. 'मद्रूप' इति पाठः. २. 'आडः शस इच्छायाम्' इदि पाठः. द.१७ । कैतेर्लिट् । काव्यमाला। संपर्चन इत्येके । अवयव इत्यन्ये । अव्यक्ते शब्द इत्यपरे। पृजि इत्यप्येके शिञ्जिपिज्योः शा- नच् । पृझेः कतरि क्तः । वृज्यविवृतीति । १०२९ वृजी वर्जने । इदिदिति केचित् । तस्मात् क्यप् । इदित्त्वपक्षे णिनिः पृक्तेति । पृजितेति । १०३० पृजी संपर्चने । इदि- दिति केचित् । द्वयोः कर्मणि क्तः। ईरादय उदात्ता अनुदात्तेतः । सूनुः । १०३१ षङ् प्राणिगर्भविमोचने । 'सुवः कित्' इती नुः । अधिशायी। १०३२ शीङ्खने । उदात्ता- वात्मनेभाषौ । शीडो णिनिः । युवद्भिः । १०३३ यु मिश्रणे : अमिश्रणेऽप्येके । शता । अत्यन्तभक्तानामवस्थासाह- केऽप्यल्परावं नुनुवुः खलेषु क्षुरक्ष्णुतात्मानममुं स्नुतास्त्राः । सोऽनूर्गुतोऽद्यौजनसुत्कुवत्या काश्येक कामं स्तुवतां ब्रुवाणः ॥४७॥ केऽप्यमेयभाग्या अमुं नुतानाः सुतो भक्तिक्लिन्नहृदयतया स्रुतो बाष्पप्रवाहो येषां तादृशाः । अत एव गद्गदेनाल्पो रावो यस्मिंस्तथा नुनुवुस्तुष्टुवुः । कीदृशम् । खलेषु दुर्ज- नेषु क्षुरवत् क्ष्णुतस्तेजितस्तीक्ष्णः आत्मा मनो यस्य तम् । भगवतो भक्तेषु कृपाति- शयमाह-सोऽनूर्णतोऽनाच्छन्नखरूप एवात्मानं प्रकाशयन् । कुवत्या क्वणन्त्या काच्या स्तुवतां काममिष्टं युष्माकं भवत्विति ब्रुवाण इवाद्यौत् तेषामभिमुखमगच्छत् । जनान् तत्तत्कर्मसु सौति प्रेरयतीति जनसुत् । ईश्वर इति वा ॥रावेति । १०३४ रु शब्दे । 'कृत्यल्युटो बहुलम्' इति बाहुलकाव धम् । नुनुवुः । १०३५ णु स्तुतौ । लिट् । क्षुरेति १०३६ टुक्षु शब्दे । 'ऋजेन्द्र-' इत्यादिना रनि निपातितः।क्षौति वपनकाले कृदिति स्वन- तीति क्षुरः । श्णुतेति । १०३७ क्ष्णु तेजने । कर्मणि क्तः । नुतेति । १०३८ ष्णु प्रस्सवणे । कर्तरि तः। यौत्यादय उदात्ताः परस्मैभाषाः। अनूर्णत इति । १०३९ ऊर्गुञ् आच्छादने। उदात्त उभयतोभाषाः। कर्तरि तः। 'वाच्य ऊर्णोर्णबद्भावः' इति णुधातुवेदका- च्त्वादनिटत्वम् । अद्यौत् । १०४० द्यु अभिगमने । लड् । 'उतो वृद्धिः-' इति वृद्धिः । जनसुत् ॥ १०४१ षु प्रसवैश्वर्ययोः। प्रसवोऽनुज्ञा । 'या पीडा श्रवसापि सौति महतीमौ- सुक्यदुःखासिकाम् । इति प्रयोगादुत्पादनमपि प्रसवः । तस्मात् क्विप् । कुवत्या । १०४२ कु शब्दे । शतरि डीप् । अनुदात्ताः परस्सैभाषाः । स्तुवताम् । १०४३ ष्टुञ् स्तुतौ । शता । अवाणः । १०४४ जून व्यक्तायां वाचि । शानच् । अनुदात्तावुभयतोभाषौ । पुरान्तर्भागं गतस्य महामार्गप्राप्त्या सर्वसुकृतिजनानुग्रहमाह---- इत्यः स्वधीतोपनिषद्भिरेषामधीत्यरूपः स वियन्क्रमेण । इयञ्जनं राजपथं समायाद्वाताकुलोद्भातपताकमीशः ॥४८॥ स ईशो वियन् संचरन् क्रमेण राजपथं समायात् प्राप । कीदृशः । स्वधीतोपनिष- द्भिर्वेदान्तपारगैरिसः प्राप्तुं शक्यः । एषां ज्ञानिनामधीसं स्मरणीयं रूपं यस्य सः । कीदृशं राजपथम् । इयअनमियन्त इतस्ततो गच्छन्तो जना यस्मिस्तम् । तथा वातेन आकुला १. 'ततस्ततः' इति पाठः, धातुकाव्यम् । उद्भाताः पताका यस्मिस्तम् ॥-इत्य इति । १०४५ इण गतौ । 'एतिस्तु-' इति क्यप् । खधीतेति । १०४६ इङ् अध्ययने । कर्मणि कः । अधीत्यति । १०४७ इकू स्मरणे । 'इण्वदिक इति वाच्यम्' इति क्यप् । वियन् १०४८ वी गतिव्याप्तिप्रजनकान्त्यसनखाद- नेषु । जन्मोपक्रमत्वात् गर्भग्रहणं प्रजनः । शता । इयदिति । वी ई इति प्रश्लेषादीधातोः शता । सामायात् । १०४९ या प्रापणे। इह प्रापणं गतिः । लट् वातेति । १०५० वा गतिगन्धनयोः । 'गन्धनं सौरभ्यकरणम्' इति सहननामभाष्ये । 'अर्दनं हिंसनं च गन्धनम्' इति लीलाशुकः ! उद्भातेति । १०५१ मा दीप्तौ । द्वयोः कर्तरि क्तः ॥ भगवद्दर्शनोत्सुकानां नारीणामवस्थामाह चतुर्दशभिः- स्नान्यस्तदा आणमुपाश्य चान्नं निद्रां गताः प्सातिपरास्तथान्याः । पान्त्यः शिशून्धान्यधनानि रान्यो लान्त्यश्च काश्चित्कुसुमानि दान्त्यः४९ ख्यान्यः कथा: प्राणमुदां पतीनां निर्मान्य इष्टानि चटून्वचत्यः । नार्यो विदित्वोपगमं मुरारेरासन्गता राजपथं सुभृष्टम् ॥ ५० ॥ तदा नार्यो मुरारेरुपगमं विदित्वा सुमृष्टं सम्यक्शोधितं राजपथं गता आसन् । स्लान्त्यः स्नानं कुर्वलः। अन्याः श्राणं पक्कमन्नमुपाश्य भुक्त्वा निद्रां गताः। तथा-प्साति- परा भोजनपराः । शिशून पान्त्यो रक्षन्त्यः । धान्यधनानि रान्त्यः तत्तजनेभ्यो यच्छन्त्यः। लान्यः तान्येव तेभ्य आददानाश्च । काश्चित् कुसुमानि दान्त्यः लुनत्यः । कथाः ख्यान्यः कथयन्त्यः । प्राणमुदां पूर्णहर्षाणां पतीनाभिटानि निर्मान्यः कुर्वाणाः । चटून् प्रियवाक्यानि वचत्यः भाषमाणाश्च । एवं तत्तत्प्रवृत्तिं कुर्वाणाः ।—लान्य इति । १०५२ कणा शौचे। शतरि डीप् । 'आच्छीनद्योर्नुम्' इति नम्। श्राणम् । १०५३ श्रा पाके। पाकोऽत्र विक्लित्तिः । कतरि से यण्वत्त्वानत्वम् । निद्राम् । १०५४ द्रा कुत्सायां गतौ । सा च पलायनखापौ । खापे निपूर्वः । आतचोपसर्गे' इत्लड् । साति । १०५५ सा भक्षणे । क्तिन् । पान्त्यः । रान्सः। लान्यः । दान्यः । ख्यान्यः ।१०५६ पा रक्षणे । १०५७ रा दाने । १०५८ ला आदाने । द्वावपि दानार्थावित्येके । १०५९ दाप् लवने। १०६० ख्या प्रकथने । क्ला इत्यपि केचित् । एभ्यः शतरि डीप् । प्राणेति । १०६१ मा पूरणे । कर्तरि के लत्वम् । निर्मान्यः । १०६२ मा माने । मानमिहा- न्तर्भावः । निष्पूर्वत्वादर्थभेदः । शतरि डीप् । वचत्यः । १०६३ वच परिभाषणे । शतरि डीपि सत्यकाराभावाद् 'आच्छीनद्योः' इति नुम् न । इणादयोऽनुदात्ताः परस्मैभाषाः । इड् त्वात्मनेपदी । विदित्वा । १०६४ विद ज्ञाने । क्त्वा । आसन् । १०६५ अस भुवि । लड् । सुमृष्टम् ।१०६६ मृजू शुद्धौ । शोघना सा । कर्मणि क्तः ॥ विलम्बहेतोः समरोददन्या विलोक्य सुप्ता इव तस्थुरन्थाः । उदश्वसन्प्राणमिवाप्य काश्चिदृष्ट्वा सलील मृदु जक्षतं तम् ।। ५१ ॥ १. 'गतिप्रजनकान्वशनखादनेषु' इति पाठः, काव्यमाला। भन्या मृदु मन्दं जक्षतं हसन्तं सलीलं तं दृष्ट्वा विलम्बहेतोः पूर्वमेव दर्शनाभावेन हेतुना समरोदत् । अन्या विलोक्य सुप्ता इव तस्थुः स्तब्धाः सत्य इव तस्थुः । काश्चित् प्राणमाप्य लब्ध्वा इथ उदश्वसन् । उच्छासमकुर्वन् ।--समरोददिति । १०६७ रुदिर अश्रुविमोचने । लडि 'अड् गायेगालवयोः' इत्यडागमः । विदाद्य उदात्ता उदात्तेतः। सुप्ताः । १०६८ नि ष्वप् शये । हलन्त्यम्' इतीत्त्वप्रसङ्गात् नि ष्वप् शये' इत्यप- पाठः । अस्मात् कर्तरि क्ते 'चचिखपि-' इत्युत्वम् । उदश्वसन् । १०६९ श्वस प्राणने । लड् । प्राणम् । १०७० अन च प्रपूर्वत्वाल्लयुट् । जक्षतम् । १०७१ जक्ष भक्षहस- नयोः । शतरि 'नाभ्यस्ताच्छतुः' इति नुमभावः । रुदादि पञ्चकं गतम् ॥ तं जाग्रतं दीनदरिद्रपोषे चकासतं शासतमप्रशान्तान् । देवं स्फुरद्दीधितिमम्बुजाक्ष्यो वेव्यानमालोक्य विमोहमापुः ॥५२॥ अम्बुजाक्ष्यो वेव्यानं गच्छन्तं तं देवमालोक्य विमोहमापुः । कीदृशम् । दीनदरिद्रपोषे जाग्रतम् । दीनानामनाथानां दरिद्राणां च पोषणे अर्धने च जाग्रतमुनिद्रम् । चकासतं खतः शोभमानम् । अप्रशान्तान् । पर्युदासे नञ् । शासतं शिक्षयन्तम् । स्फुरद्दीधिति प्रसरत्कान्तिम् ॥---जाग्रतमिति । १०७२ जागृ निद्राक्षये । शता । दरिद्रेति ।१०७३ दरिद्रा दुर्गतौ । कः । चकासतम् । १०७४ चकासू दीप्तौ । शासतम् । १०७५ शासुअनुशिष्टौ । विविच्य ज्ञापनं तत्। द्वयोः शता। प्राग्वन्नुमभावः । श्वसादय उदात्ताः परस्सैभाषाः । दीधितिम् । १०७६ दीधीङ् दीप्तिदेवनयोः । देवनं क्रीडाविजिगीषादि । अस्मात् क्तिनि ग्रहादित्वादिट् । वेव्यानम् । १०७७ वेवीङ् वेतिना तुल्ये। 'वी गतिप्रजनकान्यसनखादनेषु' इत्युक्तेन वेतिना तुल्येऽर्थ इत्यर्थः । अस्माच्छानच् ॥ कदा न्वहं सस्मि समं रतान्ते प्रसंस्ततानेन वशानुगेन । इत्यादि संबोभुवतोऽभिलाषांस्ता निढुवाना ददृशुस्तमीशम् ॥ ५३ ॥ ताः 'अहं रतान्ते प्रसंस्तता निद्रां गतेन वशानुगेन वाधीनतां प्राप्तेनानेन सह कदा नु सस्मि स्वपिमि' इत्यादि संबोभुवत एवमाद्यहमहमिकया पुनः पुनर्जायमानानभिलाषान् निढुवानाश्चादयन्यः सत्यः तमीशं दहशुः ॥---ससीति । १०७८षस १०७९ सस्ति खप्ने । ससेलेट् । प्रसंस्खता। संस्तः शता । इदित्त्वात् सकारात्पूर्व नुम् । वशेति । १०८० वश कान्तौ । कान्तिरिच्छा । 'वशिरण्योरब्वाच्यः' इत्यप् । घसादय उदात्ता उदात्तेतः । संबोभुवत इति । १०८१ चर्करीत च इति भुवो यड्लुकि शब्लुक् । परस्मैपदे ततः शता । निढुवानाः १०८२ ढुङ् अपहवे । शानच् । अनुदात्त आत्मनेभाषः । लुग्वि- करणं समाप्तम् ॥ १. "प्रपूर्वाल्ल्युडर्थे 'हलच' इति पञ्” इति पाठो भवेत्. २, 'पस्ति' इति पाठः. ३. 'अफ्नयने' इति धातुपाठस्थपाठः. १८१ धातुकाव्यम् । एवं रागाकुलासु स्त्रीषु भगवतो वृत्तिमाह- जुह्वप्रियो भीरुजनं हियात पिप्रत्कृपाभारभृतैरपाङ्गैः । अमेयधामा स जहेऽधहानि ददजनेभ्यो मुद्मादधानः ।। ५४ ॥ जुह्वत्प्रियः स जहे । जुह्वतामग्निकर्मानुष्ठातॄणां प्रियः स कृष्णो राजमार्ग एव किंचित् संचरितवान् । कीदृशः । कृपाभारेण मृतैः पूर्णैरपा (रुजनं स्त्रीजनं पिप्रत् संकटात् पालयन् ह्रिया लज्जया आर्त व्याकुलं स्त्रीजनं जनेभ्यो भक्तजनेभ्योऽघहानि दुरितक्षयं ददत् प्रयच्छन् । मुदमानन्दातिशयमादधानश्च ॥--जुह्वदिति । १०८३ हु दानादनयोः। प्रीणनेऽपीति भाष्ये। दानमन्न्यादौ प्रक्षेपः तन्त्रेण । शतरि 'नाभ्यस्ताच्छतुः' इति नुम- भावः । भीरु इति । १०८४ अिभी भये । 'भियः कुक्कुकनौ' इति कुः । हिया। १०८५ ह्री लजायाम् । भावे क्विप् । ह्वादयोऽनुदात्ताः परस्मैभाषाः। पिप्रत् । १०८६ पृ पालनपूर- णयोः । ह्रखान्त इत्येके । उदात्तः परस्मैभाषाः । हस्तान्तस्त्वनुदात्तः शता। भारभूतैः । १०८७ हुभृञ् धारणपोषणयोः । टु भृञ् इति दुमे । कर्मणि पञ् । क्तश्च । अनुदात्त उभयतोभाषः । अमेयेति ।१०८८माङ्माने शब्दे च । 'अचो यत्' । जहे ।१०८९ ओ हा गतौ । लट् । भृजादित्रयं गतम्। अनुदात्तावात्मनेभाषौ । हानिम् । १०९०ओहाद त्यागे। पलाम्ला-' इति निः। अनुदात्तः परस्मैभाषः। ददत् । १०९१ डु दाम् दाने। शता । आद्घानः । १०९२ दुधाञ् धारणपोषणयोः । दानेऽपीलेके । शानच् ॥ मथुरां प्राप्तस्य भगवतः स्वज्ञातीनां यदूनां प्रथमसंगममाह- प्रणेनिजद्भिर्मतिमर्थतत्त्वं सुवेक्जिानैर्यदुभिः स विष्णुः । धर्मोष्मभिस्तत्र समारताने नभस्तुरैस्तैः प्रधने प्रवीणैः ॥ ५५ ॥ स विष्णुस्तत्र तस्मिन्देशे तैर्यदुभिरग्रे समारत संगतोऽभूत् । कीदृशैर्यदुभिः । मति प्रणेनिजद्भिः शुद्धां परिपुष्टां च कुर्वाणैः । अर्थतत्त्वं पुरुषार्थानां सारासारतत्त्वं सुवेविजानैः सुतरां विभजद्भिः। धर्मोष्मभिध्मसदृशप्रतापैनभस्तुरैमेघवद्वेगवद्भिः । प्रधने युद्धे प्रवी- णैः ।।---प्रणेनिजद्भिः । १०९३ णिजिर् शौचपोषणयोः । शता। सुवेविजानैः।१०९४ विजिर् पृथग्भावे । शानच् । विष्णुः । १०९५ विष्ल व्याप्तौ । उदिदित्येके । इरिदिति द्रुमे । “विषेः किन्च' इति चुप्रत्ययः । निजादयोऽनुदात्ताः स्वरितेतः ।धर्मेति । १०९६ धृ क्षरणदीप्योः । समारतेति । १०९८ क गतौ । संपूर्वात् 'समो गम्युच्छि-' इति तड् । अनुदात्ताः परस्मैभाषाः । नम इति । ११०० भस भर्त्सनदीयोः । उदात्त उदात्तेत् । नपूर्वात् क्विप् । तुरिति । ११०२ तुर त्वरणे । उदात्त उदात्तेत् । 'इगुपध-'इति कः । प्रधनेति । ११०४ धन धान्ये । अन्यमरणार्थीदमाद्धार्थे कः । अयमप्युदात्त उदात्तेत् । वृत् । जुहोत्यादयो वृत्ताः । इलुविकरणं समाप्तम् ॥ १. अत्र १०९७ ह प्रसह्यकरणे' १०९९ 'सृ गतौ एतौ धातू नोदाहृतो. २. अत्र '११०१ कि ज्ञाने नोदाहृतः. ३. अत्र '११०३ धिष शब्दे ११०५ जन जनने ११०६ गा स्तुतौ एतेऽपि नोदाहृताः. १८२ काव्यमाला। अथ रजकवधप्रसङ्गसाह-- दीव्यन्देवो विचित्रस्युवमथ रजक प्रेक्षतास्यूतमत्रे ष्ठीव्यन्तं तत्रतत्र स्नुसितफलंगणान्नोव्युषः प्योसहीनन् । तं प्लुष्यदृष्टिनृत्यद्रुषमपि च गतत्रासमुत्कुथ्यदङ्गं पोथ्यं प्रोचे स्वरेण स्वजनविगुधितं क्षिप्यता पुष्पमाध्वीम् ॥५६॥ अथ दीच्यन् गच्छन् देवः क्रीडादि. कुर्वन् हरिरग्रे आख्यूतमागतं रजकं प्रेक्षत । कीहक् देवः । कोव्युषः कसां कुटिलीभवतां व्युषः दाहकः । कीदृशं रजकम् । विचित्र- स्युवम् । नानारूपं सूचिकर्म कुर्वन्तम् । स्नुसितान् भक्षितान्' फलगणान् प्योसहीनं विभागशून्यं यथा तथा तत्र तत्र ष्टीव्यन्तं ष्ठीवनं कुर्वन्तम् । प्योसहीनमिति रजकविशे- षणं वा । अपि च पुष्पमाध्वी क्षिप्यता निरस्यता स्वरेण तं प्रोचे । कीदृशं तम् । पुष्यन्ला ज्वलन्त्यां दृष्टौ नृत्यन्ती रुट् यस्य तम् । उत्कुश्यत् पूतीभवदङ्गं यस्य तम् । पोथ्यं हिंसनीयम् । खजनेन विगुधितं परिवृतम् ॥-दीव्यन्निति । ११०७ दिवुक्रीडा- विजिगीषाव्यवहारद्युतिस्तुतिगतिषु । व्यवहार उक्तिक्रियादिश्च । विदि (दिवि) रैश्वर्यार्थ इति देवतान्तादिसूत्रे प्राह हरः । अस्मात् गत्यर्थे शता । देव इति क्रीडादौ पचायच् । विचित्रस्युवम् । ११०८ षिषु तन्तुसंताने । विपि ऊ । आख्यूतम् । ११०९ स्त्रि गतिशोषणयोः । कर्तरि क्ते 'ज्वरत्वरसिव्य-' इत्यूठ । ष्टोव्यन्तम् । १११० ष्ठिवु निरसने। आस्यान्निःसरणं तत् । शता । स्नुसितेति । ११११ ष्णुसु अदने। कर्मणि कः।१११२ ष्णुसु निरसने इति केचित् । इति । १११३ कसु हरणदीप्त्योः । किम् । व्युषः ।१११४ व्युषं दाहे । 'इगुपध-' इति का । प्योसेति । प्युस विभाग इत्येके । घञ् । प्Yष्यदिति । १९१५ प्लुष च । दाहे इति शेषः । शता । नृत्यदिति । १११६ नृती गात्रविक्षेपे । शता । त्रासेति । १९१७ त्रसी उद्वेगे। पञ् । उत्कुष्यदिति । १११८ कुथ पूतीभावे । दुर्गन्धीभावस्तत् (!)। शताः । पोथ्यम् । १९१९ पुथ हिंसायाम् । ण्यत् । विगुधितम् । ११२० गुध परिवेष्टने । कर्मणि क्तः । क्षिप्यता । ११२१ क्षिप प्रेरणे । तच्च निरस- नम् । शंता । पुष्पेति । १९२२ पुष्प विकसने । घनर्थे कः । तिम्यन्मते स्तिम्यति नाम मन्मनः स्तीम्यत्सु तद्रीलमृते वदाम्यहम् । देहि प्रभोः प्रेष्य सुसोहनाय मे जीर्णाशुकायः त्वमझीर्णमंशुकम् ॥ ५७॥ हे तिम्यन्मते आर्दीभवयुद्धे रजक, मन्मनः स्तीम्यत्सु आर्दीभवत्सु स्तिम्यति आर्दी- भवति नाम । तत् तस्मादहं ब्रीलं लज्जामृते वदामि । हे प्रभोः प्रेष्य (सुसोहनाय मे.) जीणोंशुकाय भिन्नाम्बराय मे मां सुसोहनाय सम्यक्तृप्त्यर्थमझीर्ण नवमंशुकै देहिाजीणांशुः क्षीणशोभः कायो यस्य तस्य संबुद्धिर्वा ॥-तिम्यदिति । ११२३ तिम ११२४ स्तुतिमोदमदखानकान्तिगतिषु' इति धातुपाठस्थपाठः धातुकाव्यम् । टिम ११२५ ष्टीम आद्रोभावे । तीम इत्यप्येके । तिमः शता । सिम्यति । प्टिमेर्लट् । स्तीम्यत्सु । 'संधिसाम्यात् तीम्यत्खिति वा छेदः। टीमितीम्योः शता। नीलम् । ११२६ ब्रीड चोदने । चोदनं लज्जा । प्रेरणे च द्रुमे । पञ् । प्रेष्यः । ११२७ इष गतौ । ण्यत् । सुसोहनाय । ११२९ षुह चक्यर्थे । स च तृप्तिः ल्युट् । सहेत्यप्येके । जीर्ण इति । झीर्ण इति । ११३० जथ् ११३१ पृष् वयोहानौ । द्वयोः कर्तरि क्तः । दिवादय उदात्ता उदात्तेतः क्षिपिवर्जम् ॥ रजकवाक्यमाह- के सूयसे गिरमदूम नितान्तदीना- मुड्डीनकाकसम भूपतिधीनमेतत् । मीयस्व रीणनय मा क्षितिपालयेऽस्मि- न्द्रीयस्व धाष्टर्यमिति दुर्मतिरीशमूचे ॥ ५८ ॥ हे अदून अपीडित, उड्ढीनकाकसम, त्वं नितान्तदीनां गिरं सूयसे उत्पादयसि । एतत् त्वया याच्यमानमंशुकं भूपतिधीनं भूपाधारं तदायत्तम् । हे रीणनय गतविनय । अस्मिन् क्षितिपालये राजगृहे मा मीयस्व मृतो भव । धाष्टथै नीयस्व च्छादय । दुर्मतिरिति ईश- मूचे ॥--सूयसे इति । ११३२ धूङ् प्राणिप्रसवे । प्राणिग्रहणमतन्त्रम् । अयमसूयार्थोऽपि । अत्मालट् । अदून । ११३३ दूङ् परितापे । खादय ओदित इति ओदित्त्वान्निष्ठानत्वम् । दीनाम् । ११३४ दीङ् क्षये । उड्डोनेति । ११३५ डीङ् विहायसा गतौ । यतिमात्रे च । धीनम् । ११३६ धीङ् आधारे । एषु कर्तरि क्तः । सीयस्व ! ११३७ सीड् हिंसायास् । हिंसात्र मृतिः लोट् रीणेति । ११३८ री स्रवणे । प्राग्वत् क्तः । आलये ११३९ लीन श्लेषणे । 'एर । ब्रीयस्व । ११४० बीङ । घृणोत्सर्थे । छादनं परिग्रहो वा तत् । लोट । स्वादय ओदितः॥ आपीय तद्दिरममाननिरीतरोषः प्रीति श्यतोऽस्य स करेण शिरोधिमच्छात् । धर्मावसायजनदः खलु योऽजनिष्ट दीप्तोष्मपूर्णभुजतूर्णविधूर्णवैरी ॥ ५९ ॥ स तद्विरममापीय श्रुत्वा अमाननिरीतरोषोऽमानमनवधि यथा तथा निरीतो निर्गतो रोषा यस्य तादृशः सन् खस्य प्रीति इयतस्तनूकुर्वतो वासोदानाभावेन नाशयतोऽस्य रजकस्य शिरोधि करेणाच्छात् चिच्छेद । यःखलु धावसायजनदो धर्मनाशकजनानामवखण्डिता सन् अजनिष्ट । दीप्तोष्मपूर्णेन भुजेन तूर्ण यथा तथा विधूर्णा हिंसिता वैरिणो येन सः ।।---- १. 'खरे शरि वा विसर्गलोपो वक्तव्यः' इति विसर्गलोपे 'मनः स्तीम्य' इति च्छेदः. पक्षान्तरे 'मनातीम्य' इति बोध्यम्. २. 'चोदने लज्जायां च इति धातुपाठः. ३. अत्र ११२८ वह बक्यर्ये नोपयुक्तः. काव्यमाला। आपीयेति । ११४१ पीङ् पाने । ल्यप् । अमानेति । १९४२ माइ माने । ल्युट् । निरी- तेति । ११४३ ईङ् गतौ ! कर्तरि क्तः । प्रीतिमिति । ११४४ प्री प्रीतौ । क्तिन् । अकर्मकोऽयम् । धूडादय आत्मनेपदिनः । षूड् दूड् डीड्वर्जमनुदात्ताः। श्यतः। ११४५ शो तनूकरणे । शता । 'मोतः श्यनि' इति लोपः । अच्छात् । ११४६ छो छेदने । लुडि "विभाषा घ्राधेट्शा-' इति सिज्लुक् । अवसायेति । ११४७ षो अन्तकर्मणि । जनद इति । ११४८ दो अवखण्डने । विप् । श्यत्यादयोऽनुदात्ताः परस्मैपदिनः । अजनिष्ठ । ११४९ जनी प्रादुर्भावे । अयमुत्पादनायामपि । लुड् । दीप्तेति । ११५० दीपी दीप्तौ । पूर्णेति । ११५१ पूरी आप्यायने । अकर्मकोऽयम् । द्वयोः कर्तरि तः । सूर्णेति । ११५२ तूरी गतिवरणहिंसनयोः । त्वरणमात्रे च द्रुमे । अस्मात् क्तः । विधूर्णेति । ११५३ धूरी ११५४ गूरी हिंसागत्योः । धूरेः कर्मणि क्तः ॥ गूर्णेऽस्मिन्वहुजन्तुघूरिणि खले जूर्णैः शशंसे नृभिः शौरिः शूरकगर्वचूरणपरः संतप्यमानः सताम् । देवौघस्य तपन्भुवं च पतितावावृत्तभूमाप्यसौ वृत्तक्लेशलबैरकाश्यत समं संवाश्यमानैः स्वकैः ॥ ६ ॥ शौरिरस्सिन्खले पूर्णे हिंसिते सति जूणैद्धैर्विद्यादिवृद्धैर्नृभिर्जनैः शशंसे स्तुतः । बहुजन्तुधूरिणि सर्वजन्तुधूरिणि सर्वजन्तुहिंसाशीले । कीदृशः शौरिः । शूरकगर्वचूरणपरः शूरकाणा हिंसकानां स्तम्भनकर्तृणां च दर्पस्य दाहपरः । सतां संतप्यमान ईश्वरो देवी- घस्य तपन् ईश्वरो भवन् भुवश्च पतिता ईशिता । इत्थंभूतोऽसौ(साव) वावृत्तमूमा अवि- च्छादितैश्वर्योऽपि सन् वृत्तक्लेशलवैश्छादितक्लेशलेशैः। अत एव संवाश्यमानैः 'जय केशवा- च्युत' इति शब्दायमानैः खकैः सममकाश्यत दीप्तोऽभूत् ॥-पूर्णेति । गूरेः कर्मणि क्तः। जन्तुघूरिणि । ११५५ पूरी १९५६ जूरी हिंसावयोहान्योः। घूरेणिनिः । जूणैः । जूरेः कर्तरि कः शूरकेति । ११५७ शूरी हिंसास्तम्भनयोः । ण्वुल् । चूरणेति । ११५८चूरी दाहे । ल्युट् । संतप्यमानः । ११५९ तप ऐश्वर्ये वा । तपिरस्मिन्नर्थे वा तड्क्यनौ ग्रा- मोतीत्यर्थः । कोपे च द्रुमे । शानच् । तपन् । तझ्यनोरभावेऽपि शता । पतिता । पत ऐश्वर्ये वा इत्येके । तस्मिन् पक्षे तृच्। वावृत्तेति ।वृत्तेति।११६० वृतु वरणे । केचित् पूर्वत्र [पठितं] वाग्रणमस्यादिं कृत्वा 'वात वरणे' इत्याहुः । द्वयोः कर्मणि कः । क्लेशेति । ११६१ क्लिश उपतापे । बञ् । अकाश्यत । ११६२ काश्य दीप्तौ । लङ् । संवाश्य- मानैः।११६३ काश शब्दे । शानच् । जन्यादय उदात्ता अनुदात्तेतः। तपिस्त्वनुदात्तः। तन्मृष्यसाणास्त्वथ शुच्यदङ्गका भृत्याः सुनद्धं बहुरक्तमंशुकम् । विसृज्य शप्यन्त इमं प्रदुद्रुवुः कृष्णः प्रपेदे वसनान्यखेदवान् ॥६॥ 'अथ भृत्यास्तत्स्वाभिवधादिकं मृष्यमाणाः सहमानाः सुनद्धं भन्नायां निधाय सम्य- 3."विधाय' इति पाठः धातुकाव्यम्। ग्बद्धं बहु अनल्पमंशुकं विसृज्य वक्त्वा इमं शप्यन्तो निन्दन्तः प्रदुवुः । शुच्य दलकाः स्वेदादिभिः पूतीमवत्कुत्सिताझाः । रकं कुसुम्भादिभिः कृतनानावर्णम् । कृष्णो वसनान्यं- शुकानि प्रपेदे उद्धृतवान् ॥-मृध्यमाणा इति । ११६४ मृष तितिक्षायाम् । शानच् । शुच्यादिति । १९६५ ई शुचिर पूतीभावे । दुर्गन्धीभावस्तत् । शौचविशरणक्लेशेषु च द्रुमे शता । द्वावुदात्तौ । सुनद्धम् । ११६६ णह बन्धने । कर्मणि कः । रक्तम् ॥११६७ रन्ज रागे। कर्तरि क्तः । शप्यन्तः । ११६८ शप आक्रोशे । शता । त्रयोऽनुदात्ताः। मृषादयः पञ्च खरितेतः । प्रपेदे । १९६९ पद गतौ । लिट् । खेदेति । ११७० खिद दैन्ये धञ् ॥ प्राग्विद्यमानवसनेष्वधृतैकमीशो बुवा ददौ च रिपुवोधजयी निजेभ्यः । कंसानुरोध्यणनहृन्मतिमागर्च्यः शेषं व्यसृज्यत पटौघमलिश्यमानम् ॥ ६२ ॥ ईशो विद्यमानवसनेव्वनवस्नेष्वेकं प्राक् अन्येभ्यः पूर्वमधृत परिहितवान् , बुद्धा निजेभ्यो ददौ च । स्वीयानां तारतम्यमवगम्य दत्तवांश्च । शेषं पटौथं व्यसृज्यत त्यक्त- वान् कंसानुरोध्यणनहृत् कंसानुवर्तिनामणनहत् प्राणहृत् । मतिमद्युगों मतिमतां ज्ञानिनां युजां समाधिकर्तृणामर्थ्यः । अलिश्यमानमनल्पीभवन्तं पटौघम् ॥---विद्यमाने- ति । ११७१ विद् सत्तायाम् । शानच् ।बुद्धा । ११७२ बुध अवगमने ज्वलादिगतबो- धतिबदुद्बोधो ज्ञानं चार्थः । तस्मात् क्त्वा । योधेति । ११७३ युध संग्रहारे । अच् । कंसानुरोधीति । १९७४ अनो रुध कामे । अनुपूर्वो रुधिः कामेऽर्थे तक्यनौ भजते। तस्मादन तु णिनिः । अणनेति । ११७५ अण प्राणने । अन इत्येके । ल्युट् । मतीति । ११७६ मन ज्ञाने। क्तिन् । युगिति । १९७७युज समाधौ । अकर्मकोऽयमिति माधवः । क्विप् । व्यसृज्यत । ११७८ सृज विसर्गे । स चोत्पादनत्यागौ । लङ् । अलिश्यमानम् । ११७९ लिश अल्पीभावे। शानच् । पदादयोऽनुदात्ता अण्यतिवर्जमनुदात्तेतः ॥ राध्यद्वेषगुणोऽथ कवरादैत्याविदेषोऽपुष- च्छोषं तोषकृतोऽस्य दोषविततेराश्लिष्टलक्ष्मीस्तनः । शक्यन्गर्वमशक्यमानमनसामाखिद्यदास्योऽधं क्षुध्यक्तदमाप मालिकवरं शुद्धं स सिद्धेप्सितम् ।। ६३ ।। अथैष दैत्याविद् दैत्यच्छेत्ता वायकवरात् सौचिकश्रेष्ठात् तद्दत्तोष्णीषादिभी राध्यद्वेष- गुणः सिध्यन्मनोज्ञवेषः सन् तोषकृतोऽस्य दोषवितते शमपुषदवर्धयत् । तदनन्तरं च स मालिकवरमालाकारश्रेष्ठमाप । कीदृशः । अशक्यमानमनसामसहमानमनसांगवे शक्यन् १. 'शुचिर्' अनादिद् धातुपाठे. काव्यमाला। सहमानः । आखिद्यदास्य ईषत् खिद्यन्मुखः कीदृशं मालिकवरम् । अक्रुधं क्रोधहीनम् क्षुध्यतां युभुक्षमाणानां भक्तमन्नप्रदम् । शुद्धं सिद्धप्रार्थितं च ॥-राध्यदिति ।१९८० राधोऽकर्मकादृद्धावेव । वृद्धयर्थ इव । अकर्मकादेव राधः श्यन् । अस्य तु सिद्धिद्रोहदै- वपालोचनादयोऽर्थाः । शता दैत्यावित् । १९८१ व्यध ताडने । तच्च प्रायेण विदा- रणपर्यन्तम् । विधि नहि वृतिवृषि-' इत्यादिना दीर्घः । अपुषत् । १९८२ पुष पुष्टौ । अयमकर्मकोऽपि । इतो गणान्ताः पुषादयः । तेन 'पुषादिद्युतादि-' इत्यड् । शोषतोष- दोषेति । १९८३ शुष शोषणे । ११८४ तुष प्रीतौ । ११८५ दुष वैकृत्ये । वैकृत्यं विकृतता । त्रयाणां पञ्। आश्लिष्टेति । ११८६ श्लिष आलिङ्गने । कर्मणि क्तः । शक्यन् अशक्यमानेति । ११८७ शक विभाषितो मर्षणे । विभाषित इत्युभयपदीनां पूर्वाचा- यसंज्ञा । शतृशानचौ। आस्विदिति । ११८८ जि विदा पात्रप्रक्षरणे । शता । अक्रुधम् । ११८९ क्रुध कोपे । भावे क्विम् । क्षुध्यदिति । ११९० क्षुध बुभुक्षायाम् । शता । शुद्धम् । सिद्धति । ११९१ शुध शोचे । ११९२ षिधु संराद्धौ । संसिद्धिः सा । द्वयोः कर्तरि काः॥ रद्धारये सोऽयमनश्वराय तृप्यन्मना सजनदुहेऽस्मै । मुग्धस्मितस्नोहिमुखाय मालां स्निह्यन्ददौ सादरमस्तवीच्च ॥६४॥ सोऽयमस्मै स्निह्यन्सादरं माला ददौ अस्तवीच । कीदृशाय । अनश्वराय निलाय । मुग्धस्सितस्नोहिमुखाय मुग्धस्मितोद्गिरणशील मुखं यस्य तस्मै । रद्धारये निहतशत्रवे। दृप्तजनदुहे दुष्टजनहन्त्रे । तृप्यन्मनाः प्रीणितान्तरात्मा ॥शब्देति । १२९३ रध हिंसा- संराध्योः । संराद्धिः पाकः। कर्मणि क्तः । अनश्वराय । ११९४ श अदर्शने । इ. ग्नश-' इति क्वरम् । तृप्यदिति । ११९५ तृप प्रीणने । तच तृप्तिस्तर्पणं च । शता। दृप्तेति । ११९६ ६प हर्षमोहनयोः । मोहनं गर्वः। मोचनयोरिलेके । कर्तरि क्तः। द्रुह इति । ११९७ दुह जिघांसायाम् । क्विम् । नुग्धेति । ११९८ मुह वैचित्ये । अविवेकस्तत् । कर्तरि क्तः । नोहीति । ११९९ रुणुह उद्गिरणे । णिनिः । स्निह्यन् । १२०० व्णिह प्रीतौ । शता । युत् विकल्पितेट उदात्तेतो रधादयो वृत्ताः ॥ अशाम्यदासापि तमी नमामि दुमिप्रियं श्रान्तिहरं भवन्तम् । भ्राम्यामि भोः क्षाम्य ममापराधं क्लान्तं मनो माद्यति दर्शनान्ते ॥६५॥ अह्मशाम्यदात्मा अशान्तमना अपि त्वां नमामि । तमी त्वयि कासाशीलः । संसारेण पीडाशीलो वा । दमिप्रियं दमशीलानामिष्टम् । अहं भ्राम्यामि अनवस्थितो भवामि । भवा. धावित्वर्थात् । भो मम अनादरादिकमपराधं क्षाम्य क्षमख । क्लान्तं तवादर्शनात् पी- डितं मनस्ते दर्शनान् माद्यति । श्रान्तिहरं संसरणदुःखनिरासकम् ॥-अशाम्यदिति । १२०१ शमु उपशमे । शतरि 'शमामष्टानाम्-'इति दीर्घः । तमीति १२०२ तमु १. 'गरण' इति पाठः. धातुकाव्यम् । काङ्क्षायाम् । ग्लानावेव प्रयोगः । मुरारिस्तु 'द्रष्टुं कलकारमाने होत नाहीवाहूँ । 'शमित्वष्टाभ्यः' इति घिनुण । दमीति । १२०३ दनु उपशमने । अयमकमकोऽपि आग्वत् घिनुण । श्रान्तीति । १२०४ श्रमु तपसि खेदे च । तिन् । भ्राम्यामि । १२०५ भ्रमु अनवस्थाने । अयमकर्मकः सकर्मकश्च लट् । क्षाम्येति । १२०६ क्षमू सहने । अयमषित् । लोट् । क्लान्तम् । १२०७ क्लसु ग्लानौ । कर्तरि क्तः । मायति । १२०८ मदी हर्षे । होऽत्र गर्वः । वृत् । शमादयो वृत्ताः ॥ अस्तायासदिजस्तविश्वतसनो निर्दस्तकासैतो 'वेदव्योषकृदप्लुषो विसितधीकुस्यजनांहोबुसम् । मुस्तामोय॑मसः किटिस्त्वमसमो लुट्यन्खलानोकसो भृश्यभ्रंशनवर्शकाकृशदयस्तृष्णाहरो हृष्य मे ।। ६६ ।। त्वं बिसितधीकुस्यन्जनाहोब्बुसमप्लुषः । बिसितया प्रेरितया धिया कुस्थतां संश्लिष्यतां जनानामहोरूपं बुसमनुषो दग्धवानसि । कीदृशः । अस्तायासं त्यक्तप्रवासं यथा तथा विज- स्तविश्वतसनः मोक्षितलोकक्षयः । निर्दस्तवासैनिर्दस्त उपक्षीणो वासः स्तम्भो नम्रताभावो येषां तैः। भुतः । वेदव्योषकृद् व्यासरूपेण वेदानां विभागकृत् । अमसोऽपरिमाणः परि- माणहीनो वा त्वं मुस्तामोषी मुस्ताखण्डी किटिराहरूपो असमः परिणतवानसि । बलान् ओकसः स्थानान् लुट्यन् क्षोभयन् । भृश्यद्भशनवर्शकाकृशदयो भृश्यतामधःपततां स्व- भक्तानां भ्रंशस्त्राधःपतनस्य वर्शका छादयित्री अकृशा दया यस्य स तादृशस्त्वं मे हृष्य तुष्टो भव ॥-अस्तेति । १२०९ असु क्षेपणे । कर्मणि कः । आयासेति । १२१० यसुप्रयत्ने । घञ् । विजस्तेति । १२११ जनु भोक्षणे । कर्मणि क्तः । तसनेति । १२१२ तसु उपक्षये । ल्युट् । निर्दस्तेति । १२१३ दसु च । कमणि क्तः । वासेति। १२१४ वसु स्तम्भे । बखिलेके । वसेपञ् । शमादयः शनिदमि (मदि) वर्जमुदितः । व्योषेति । १२१५ न्युष विभागे । व्युसेति । चैके । व्युषेधञ् । अनुष इति । १२१६ मुष दाहे । लुङि पुषायड् । विसितेति । १२१७ विस प्रेरणे । कर्मणि क्तः । कुस्य- दिति । १२१८ कुस संश्लेषणे । शता। बुसम् । १२१९ वुस उत्सर्गे । इगुपधात् कः। मुस्तेति । १२२० मुस खण्डने । 'बातालातसुतपुतचित्तनिमित्तमुस्त-' इत्यादिना भोजेन ते निपातितः । मोषी । मुष इसके । णिनिः । अमसः । १२२१ मसी परि- णामे । परिमाणे इति हुमे । असम इति । 'समी परिणामे' इति दन्त्यादिरिसके । तस्मा- लुडि पुषाद्यड् । लुध्यन् । १२२२ लुठ विलोडने । शता । ओकसः । १२२३ उच समावाये । 'ओक उचः के' इति निपातितः । भृशद्भशनेति । १२२४ भूशु १२२५ भ्रन्शु अधःपतने । द्वयोः शतृल्युटौ । वर्शकेति । १२२६ वृश वरणे । [बुला अकृशेति । १२२७ कृश तनूकरणे । 'अनुपसर्गात्फुल्लक्षीबकृश-' इति निपातितः । १. 'घिराण् इति पाठः, २. 'उपशमे' इति धातुपाठे. ३. 'विलोटने इति पाठः. काव्यमाला। तृष्णेति । १२२८ तृष पिपासायाम् । 'तृषिशुषिरसिभ्यः कित्' इति मन् प्रत्ययः । हृष्य । १२२९ हृष तुष्टौ । लोट् ॥ रुष्यद्रिष्यदरातिडेपक विभो कोपादिगोपोन ते किं चायोप्यविरोपिलोपक न वा लोभादिसंक्षोभिता । नभ्यांस्तुभ्य विभो जयेति नुवते क्लिधन्प्रमेयगुर्ज क्ष्विद्यन्नृद्धिमगृनवेऽपि स विमृश्याक्षीयमाणां ददौ ।। ६७ ।। वृष्यतां कुप्यतां परान रिष्यतां हिसतां च रिपूणां डेपक क्षेपक हे विभो, ते तव को- पादिभिर्गोपो व्याकुलत्वं न । किंच। अयोप्यविरोपिलोपक अयोप्यविरोपिनाममोह्यमो. हयितॄणां लोपक मोहक, ते लोभादिसंक्षोभिता वा न । त्वं नभ्यान् हिंस्यान् तुभ्य हिं- सय । विभो त्वं जयेति नुवते तस्मै क्लियन् कृपया आद्रीभवन् । अमेघद्वजं वर्धमानां पीडां दिवद्यन् मोचयंश्च स विमृश्य खयमेव विचिन्त्य अगृनवेऽनिच्छवेऽक्षीयमाणा- मक्षीणामृद्धिं ददौ ॥ष्यद्रिष्यदिति । १२३० रुष रोषे । १२३१ रिष हिसायां चेत्येके । द्वयोः शता। डेपक इति १२३२ डिप क्षेपे । ण्वुल् । कोपादिगोप इति । १२३३ कुप क्रोधे । १२३४ गुए व्याकुलत्वे । द्वयोर्धम् । अयोप्यविरोपिलोपकेति । १२३५ युपु १२३६ रुषु १२३७ लुपु विमोहने । क्रमेण ण्यणिनिण्वुलः । लो- भादिसंक्षोभिवेति । १२३८ लुभ गाय । १२३९ क्षुभ संचलने । द्वयोर्धञ् णिनिश्च (१) नभ्यान् तुभ्य । १२४० णभ १२४१ तुभ हिंसायाम् । यल्लोट् च । क्लियन् प्रमेछन् श्विद्यनिति । १२४२क्लिदू आर्द्राभावे । १२४३ निमिदा स्नेहने । १२४४ जिश्वि- दा स्नेहनमोचनयोः । प्रयाणां शता। मिदेस्तु "मिदेर्गुणः' इति गुणः । ऋद्धिम् । १२४५ ऋधु वृद्धौ । क्तिन् । अग्रनवे । १२४६ गृधु अभिकालायाम् । 'त्रसि. गृधि-' इति नुः । वृत् । वृषादयो दिवादयश्च वृत्ताः । दिवादयस्त्ववृत्कृता इलेके । तेन मृश्यति क्षीयते इत्याद्यपि। तत्र मृशेयप् । शीयतेः शानच् । शमादय उदात्ता उदात्तेतः ॥ अथ कुजानुग्रहकथामाह- सुन्वत्प्रियं तमथ रागसिताशितान- मारोन्मितास्त्रनिचयास्तृतमानसान्ता । कुब्जा कृतारिबलमैक्षत वृण्वती सा पात्रं समीरधुतसौरभधूतभृङ्गम् ॥ ६८ ॥ अथ सा कुब्जा सैरन्ध्री सुन्वत्प्रियं सुन्वन्तो यज्ञं कुर्वन्तो द्विजाः प्रिया यस्य तं श्री- कृष्णभैक्षत । कीदृशी कुब्जा । रागसिता रागेण बद्धा । शितानेण मारोन्मितेन काम- क्षिप्तेनाननिचयेनास्तृतं छादितं मानसान्तं यस्याः सा । तथा--समीरधुतेन वायुचलि- १. 'रुष हिंसायाम्' इति धातुपाठे. २. त्रयोऽप्यनुदिताः पुस्तके. धातुकाव्यम्। लेन सौरभेण धूताः संभ्रान्ता भृङ्गा यस्मिंस्तत् तादृशं पात्रं वृण्ववी स्वीकुर्वती । कीदृशं हरिम् । कृतारिवलं कृतं हंसितमरिबलं येन तम् ॥-सुन्वदिति । १२४७ षुञ् अभि- षवे । अभिषवो निष्पीडननपनसुरासंधानम्नानादिः । शता सिता । १२४८ षि ब. न्धने । कर्मणि कः । शितेति । १२४९ शिजू निशाने । प्राग्वत् कः । उन्मितेति । १२५० डुमि प्रक्षेपणे । प्राग्वत् क्तः । निचवेति । १२५१ चिबू चयने । 'एरच्' । आस्तृतेति । १२५२ स्तृञ् छादने । लक्षणया विक्षेपे । प्राग्वत् क्तः । कृतमिति । १२५३ कृञ् हिसायाम् । प्राग्वत् क्तः । वृण्वती । १२५४ वृञ् बरणे । स्वीकार- श्छादनं वा तत् । शतरि डोप् । धुतेति । धूवेति । १२५५ धुञ् कम्पने । धूइत्येके । द्वयोः कर्मणि क्तः । खाद्य उभयतोभाषाः । अनुदात्ता धुञ्बर्जम् ॥ कन्दर्पण दुता विलेपकुशला सा चान्तिकं हिन्वता पृष्टा तेन पृता विलेपनमदास्पार्याय लोकस्मृते । संप्राप्यो निजशक्तिराद्धतपसः साधोः स देवोऽपि ता- मृज्वीकर्तुमुपानशे सुकृतिनी प्रस्तित्रुवानः खलान् ॥ ६९ ॥ कन्दर्पण दुता पीडिता सा च विलेपे तत्संपादने कुशला अन्तिकं हिन्वता प्राप्नुवता तेन पृष्टा पृता प्रीणिता स्पार्याय प्रीणनीयाय लोकस्मृते लोकपालकाय भगवते विलेपनं कलभमदात् । निजशक्तिराद्धतपसो निजशक्त्या स्वस्य सेवाशक्त्या राद्धं सिद्धफलं तपो यस्य तस्य साधोः संप्राप्यः स देवोऽपि तामृज्वीकर्तुमृजुदेहां कर्तुमुपानशे समीपं प्राप । यत:--सा सुकृतिनी । कीदृशो देवः । खलान्प्रस्तिप्नुवान् आस्कन्दन्नभिभवन् ।-दु- वेति । १२५६ छ दु उपतापे । कर्मणि क्तः । हिन्वता । १२५७ हि गतौ वृद्धौ च । शता।पृता । १२५८ पृ प्रीतौ । कर्मणि क्तः । स्पास्य ११२५९ स्पृ प्रीतिपालनयोः । घयत् । लोकस्मृते । स्मृ इत्येके । क्विम् । संप्राप्यः । १२६० आप्ल व्याप्तौ । ण्यत् । शक्तीति । १२६१ शक्ल शकौ । किन् । राद्धति । १२६२ राध १२६३ साध सं- सिद्धौ । राधेः कर्तरि कः। साधोः । 'कृवापाजिमिस्खदिसाध्यशूभ्य उण्' इति साधेरुण- प्रत्ययः । द्वादयोऽनुदात्ताः परस्सैभाषाः । उपानशे । १२६४ अशू व्याप्तौ संघाते च द्रुमे । 'अश्नोवेश्च' इति नुट् । प्रस्तिनुवानः । १२६५ ष्ट्रिय आस्कन्दने । शानच् । ऋज्वीकसित्युक्तम् । ऋज्वीकृतिप्रकारमाह- तामातिक्य पदे पदेन चिबुके चातिनुवन्पाणिना चक्रे सन्नुवतां वधे दधृगसावृज्वी मनोज्ञाकृतिम् । किं चानुवतीमिमा मम गृहानेहीति याच्यापरा- मेष्यामीत्यसुचत्समृद्धकरुणः क्षिण्वन्कटाक्षैधृतिम् ॥ ७० ॥ १. 'निशातने' इति पाठः काव्यमाला। असौ तो पदे चरणे पदेनातिक्याक्रम्य चिबुके पाणिना चातिग्नुवन्नाक्रमवैज्वीमवक्र- देहां मनोज्ञाकृतिं चक्रे । कीदृशः । सनुवतां हिंसतां वधे दधृक् प्रगल्मः । किं च 'मम गृहानेहि इति याच्यापरामदनुवतीं व्याजमकुर्वाणामव्याजभक्तामिमामेष्यामीत्युक्त्वा अमु- चत् । अत्र हेतु:-समृद्धकरुणः । कटाक्षैधृति धैर्य क्षिण्वन् नाशयन् ॥-आतिश्येति । १२६६ तिक १२६७ तिग च एतावप्यास्कन्दने । आद्यालयप् । अतिमुवन् । तिगेः शता । सध्नुवताम् । १२६८ षध हिंसायाम् । शता । दधृक् ।१२६९ अिधृषा प्रागल्भ्ये । 'ऋत्विग्दधृक्-' इति क्विप् । अदभुवतीम् । १२७० दन्भु दैम्भे । दम्भो लोकरञ्जनार्थ कर्मानुष्ठानम् । शतरि डीप् । समृद्धेति । १२७१ ऋधु वृद्धौ । अयमक- मेक: सकर्मकश्च । कर्तरि कः। क्षिण्वन् । *१२७३रि १२७४ क्षि १२७५ चिरि १२७६ जिरि १२७७ दाश १२७८ लै हिंसायाम् । 'एषु छान्दसेषु क्षिधातुः सर्वथा लोकेऽस्ति' इत्युक्तस्य क्षेः शता ॥ कुजावैरूप्यहरणानन्तरं केऽपि भाग्यवन्तो भगवन्तं ज्ञातवन्त इत्याह- क्ष्मां नुवन्मखचमिव्यसनानि रिणव- अक्षिण्वतां चिरयणैरपथं जिरिण्वन् । कंसं प्रदाश्यमतिदुईवमुद्द्दूषु- श्छन्दः श्रुतोऽपि स हि कैश्विबोधि लोके ॥ ७१ ॥ छन्दःश्रुतश्छन्दसि वेदे एवं श्रुतः प्रसिद्धोऽपि स लोके मनुष्याणां मध्ये कैश्चित् भाग्य- वद्भिरबोधि ईश्वरत्वेन ज्ञात आसीत् । कीदृशः । मां महीं दनुवन् पालयन् मखचमिना ऋतुगसहध्या(रा)शिनां देवानां व्यसनानि दुःखानि रिण्वन् नाशयन् ऋक्षिण्वता हिंस- कानां चिरयणैर्वधैरपथं कुमार्ग जिरिण्वन् नाशयन् । प्रदाश्यं हिंस्यमतिदुर्द्रवमन्येषामत्यन्तं हिसितुमशक्यं कंसमुद्दुदुघुरुरैरधिकं हिसितुमिच्छुः ॥--दन्नुवन्निति।१२७९ दयघातने पालने च शता। मखचमीति । १२८० चमु भक्षणे । णिनिः। रिण्वन् । रि क्षि इत्यत्रादौ धातोः शता । ऋक्षिण्वताम् । 'आद्य ऋक्षीत्येके' इत्युक्तस्य धातोः शता । चिरयणैः । चिरिबातोल्युट् । जिरिण्वन् । जिरेः शता । दुईवम् । दुधातोः खल् । उडुदूधुः । दुट् इत्यपि केचित् । इत्यस्य सन्युः । केचित् 'छ- न्दस्यह व्याप्तौं' इति पठित्वा दधादिर्लोकेऽप्याहुः । एतदेव छन्दःश्रुतोऽपीतिवादेन योतितम् । तिकादय उदात्तेतः । रिक्षिद्वदुड्वर्जमुदात्ताः । दुड्त्वात्मनेभाषः । वृद । खादयो वृत्ताः ॥ १. 'गतौ च' इति धातुपाठे. २. 'दम्भने' इति धातुपाठे. ३. धातुपाठे तु 'द' इत्ये- चोपलभ्यते, तथाच 'दुर्दवम्' इत्येव पाटः स्यात्. *. १२७२ 'अह व्याप्तौ' नोदाहृतः. धातुकाव्यम् । एवं राजमार्गसंचारैण तत्रत्यभक्कानन्दमुक्त्वा गोपुरान्तर्गतानां सुकृतातिशयेन तत्प्राप्तिमाह- तुदन्कुचरिताशुभे प्रणुदमान इष्टं दिश- न्प्रभृष्टपललाक्षिपन्नरिमति कृषन्माधवः । ऋषन्नजुषत क्रमानगरगर्भमुद्वेजय- नलग्नमनसः खलानवशलजमानाङ्गनम् ।। ७२ ।। माधवः क्रमात् तत्र तत्र विलम्बमान ऋषन् गच्छन् नगरगर्भमभ्यन्तरप्राकारान्तर्भा- गमजुषतासेवताश्रितवान्। तत्रत्यजनं प्रीणितवानिति वा । कीदृशं कुर्वन्नित्यत्राह-कुच- रितान् रजकादीस्तुदन् । मालाकारादीशुभे प्रणुदमानः प्रेरयन् । तेषामेव इष्टं ददन्। (द) प्रभृष्टं पक्कं पललं मांसं यैस्तान् दुष्टान् क्षिपन् प्रेरयन् निरस्यन् । अत एव अरि- मतिं कृषन् विलिखन् विदारयन् । अलग्नमनसो दुर्व्यापारेषु अलममलज्जितं मनो येषां तान् खलान् उद्वेजयन् भीषयन् कम्पयन् वा एतानि षट् तत्कालविशेषणानि । कीदृशं नगरगर्भम् । भगवत्प्रेम्णा अवशा व्याकुला लजमानाः सलजा अङ्गना यस्मिंस्तम् ॥-- तुदन्निति । १२८१ तुद व्यथने । शता । अणुदमानः । १२८२ णुद प्रेरणे शानच् । दिशन् । १२८३ दिश अतिसर्जने । दानं तत् । शता । प्रभृष्टेति । १२८४ भ्रस्ज पाके। कर्मणि क्तः । कित्वात् संप्रसारणम् । 'स्को:-' इति सलोपः । क्षिपन् । १२८५ क्षिप प्रेरणे । निरसननिन्दादयोऽपि प्रेरणभेदा एव । कृषन् । १२८६ कृष विलेखने । तदत्र हलकम । द्वयोः शता । तुदादयोऽनुदात्ताः खरितेतः । ऋषन् । १२८७ ऋषी गतौ । शता उदात्त उदात्तेत् । अजुषत । १२८८ जुषी प्रीतिसे- वन्योः । लड् । उद्वैजयन् । १२८९ ओविजी भयचलनयोः। प्रायणोत्पूर्वः । अस्मा- णिचि शता । १२९० ओलजी १२९१ ओलस्जी बीर्डने । लजेः कतरि क्तः । लज्जमानेति । लस्जेः शानच् । सस्य जश्त्वम् । 'ओलजी ओलस्जी बीलने' इति चान्द्रमतं माधवदूषितम् । जुषादय उदात्ता अनुदात्तेतः ॥ नगरगर्भ वर्णयति पञ्चभिः- वृक्णव्याचरसोञ्छती फलगणानव्युच्छितायां निशि स्लान्ती नछंति मिच्छिता सुजनता यस्मिन्हितं जर्जती । चर्चन्ती कटु झर्झती बुधजनं दोषं त्वचित्वर्चती नित्यं भूपतिमुब्जनोज्झितमना यत्रास्त खल्या सुखम् ॥७३॥ सुजनता सज्जनसमूहः । 'ग्रामजन-' इति तल् । 'सामूहिकेषु तदन्तविधिरिष्यते' इति जनान्तादपि । मिच्छिता क्लेशिता यस्मिन् न ऋच्छति प्राप्नोति ! कीदृशी सुजनता। १. 'नीलने' इति पाठः. १९२ काव्यमाला वृषणव्याचरसा । वृषणश्छिन्नो व्याचे व्याजे रस आग्रहो यस्याः सा । फलगणान् उञ्छती पृथक्पृथगाददाना । निशि अव्युच्छितायामनतिक्रान्तायां प्रत्यूषे एव स्नान्ती । एतैरत्यु- त्तमत्वमुक्तम् । हितं श्रेय एव जर्जती सर्वतो वदन्तीति कंसस्यानिष्टत्वे हेतुः । खल्या ख- लसमूहो यत्र सुखं यथा तथा आस्त स्थितवती । कीदृशी खल्या । कटु क्रूर चर्चन्ती परिभाषमाणा । बुधजनं झझती संतर्जयन्ती । भूपति राजानं दोषं त्वचित्वा आच्छाद्य नित्यं सर्वदा ऋचती प्रशंसन्ती । उब्जनोज्झितमनाः । उब्जनेनार्जवेनोज्झितं त्यक्तं मनो यस्याः सा ॥--वृक्णेति । १२९२ ओ व्रश्च छेदने । कर्मणि क्तः । व्याचेति । १२९३ व्यच व्याजीकरणे । पञ् । उञ्छती । १२९४ उछि उञ्छे । शतरि डीप् । 'आच्छी- नद्योर्नुम्' इति विकल्पान्नुमभावः । अव्युच्छितायाम् । १२९५ उछी विवसे । अतिक्र- मवन्धनवर्जनेषु च द्रुमे । कर्तरि क्तः । ऋच्छति । १२९६ ऋछ गतीन्द्रिप्रलयमू- तिभावेषु । इन्द्रियप्रलयो मोहः। मूर्तिभावः काठिन्यम् । अस्मालट् । मिच्छिता । १२९७ मिछ उत्क्लेशे । स च पीडा । कर्मणि क्तः । जर्जती । चर्चती । झर्झती। १२९८ जर्ज १२९९ चर्च १३०० झई परिभाषणसंतर्जनयोः । आद्यान्त्यावपि चान्तावित्येके । एषां शत्तरि डीम् । त्वचित्वा । १३०१ त्वच संवरणे । क्त्वा । ऋचती। १३०२ ऋच स्तुतौ । शतरि डीप्। उब्जनेति । १३०३ उब्ज आर्जवे । ल्युट् । ज्झितेति । १३०४ उज्झ उत्सर्गे । दस्य चुत्वम् । कर्मयि क्तः ॥ शत्रूल्लोभकरेफरीढितृपिता तृम्फाय तोपार्थिनो राज्ञो नित्यमतुम्पकान्वितुफती बन्धूंश्च संतुम्फती। युद्धेषूडपिता हितेष्वदृफिता यस्मिन्नुफन्ती सुरा- नृम्फाही पृतना स्थिता सुगुफितैर्माल्यैः कचान्गुम्फती ॥७४॥ यस्मिन् पृतना स्थिता । पृतनां विशिनष्टि---शत्रूल्लोभकरेफरीडितृपिता । शत्रूणामु- लोभकस्य मोहकस्य रेफस्य युद्धस्य रीढ्या कथनेनास्माभिरेवं शत्रूनाकुलीकृत्य युद्धं कृत- मिलि परस्परोक्त्या तृपिता सदा संतुष्टा । तोपार्थिनो हिंसेच्छो राशस्तृम्फाय संतोषाय अतुम्पकान् अहिसकान् सदा वितुफती हिसती बन्धूंश्च संतुम्फती हिसती । उदृपि उच्चैः क्लेशिताः शत्रवो येषु तेषु दुद्धेषु अपिता अक्लेशिता अप्रयत्ना । सुरान् ऋफन्ती हिंसती । एवंरूपत्वात् ऋम्फाहीं भगवत्कृतं वधमहंतीति ऋम्फास् । सुगुफितैः सम्य- ग्बद्धाल्यैः कवान् गुम्फती बनती । अनेन तस्या जितशत्रुत्वमुक्तम् ॥---उल्लोभकेति । १३०५ लुभ विमोहने । विमोहनं व्याकुलीकरणम् । एबुल् । रेफेति । १३०६ रिफ कत्थनयुद्धनिन्दाहिँखादानेषु । अस्माद् घभि रेफः । रीढीति । रिह इत्येके । क्तिन् । तृपिता । १३०७ तृप १३०८ तृन्फ तृप्तौ । प्रीणने द्रुमे । आधः तृफेत्येके । तृपेः १. 'भर्सनयोः' इति धातुपाठे. २. अयं च धातुर्दकारोपधः दकारस्य भत्वं भवति- श्चसंनिधाने ततो जश्त्वम्. तेन 'उब्जिजिषति' इतीष्टसिद्धिरिति स्पष्ट हयवरट्सूत्रे भाष्ये. धातुकाव्यम् । कर्तरि क्तः। तृम्फाय । तृम्फेर्धञ् । तोपेति । १३०९ तुप १३१० तुम्प १३११ तुफ १३१२ तुन्फ हिंसायाम् । तुपेर्घञ् । अतुम्पकान् । तुम्पेषुल् । वितुफती । संतु- म्फती ! तुफितुम्फ्योः शतरि डीप् । उपितेति । १३१३ वफ १३१४ इन्फ उ- लेशे । आद्योऽपि फान्त इत्येके । दृपेः कर्मणि क्तः । अफिता । दृम्फेः कर्मणि क्तः । नकारलोपः । ऋफन्ती । १३१५ ऋफ १३१६ ऋम्फ हिंसायाम् । ऋफेः शतार डीप् । ऋम्फेति । ऋम्फेर्घन् । सुगुफितैः । १३१७ गुफ १३१८ गुन्फ ग्रन्थे । गुफेः कर्मणि क्तः । गुम्फतीति । गुम्फेः शतरि डीप् ॥ पीयूषोभितहेमकुम्भविशुभद्वक्षोजशुम्भत्तमा दृब्धस्रग्धरवृत्तकैश्यविधितां शोभा जुडन्योऽजुनन् । नार्यः संमृडदालिकेलिपृडिता यस्मिन्पृणन्त्यः प्रिया- नित्यं तैर्वृणिता मृणालकमनीयाङ्ग्यो वितोणाशयाः ॥ ७५ ।। यस्मिन्नार्योऽजुनन्समचरन् । कीदृश्यः । पीयूषेणोभितः पूरितो यो हेमकुम्भ- स्तद्वद्विशुभयां शोभमानाभ्यां वक्षोजाभ्यां शुम्भत्तमा अत्यन्तं शोभमानाः । दृब्धसजो ग्रथिताया मालाया धरै धारकं वृत्तं भङ्गयनुरूपं बद्धं च यत्कैश्यं केशसमूहस्तेन विधितां विहितां शोभा जुडन्त्यः प्राप्नुवत्यः । संमृडदालिकेलिपृडिता संमृडन्तीनां सुखायमानाना- मालीनां केल्यां पृडिताः सुखिताः । प्रियान्मृणन्त्यः । तैनित्यं वृणिताः प्रीणिताः । मृणालकमनीयाइयो मृणालवत्कोमलमङ्गं यासां ताः । वितोणाशयाः। वितोणो विगत- कौटिल्य आशयो यास ताः। अनेन नगरगर्भस्य सुखकरत्वमुक्तम् ॥–उभितेति । १३१९ उस १३२० उन्भ पूरणे । उभेः कर्मणि क्तः। कुम्भेति । केन जलेन उभ्यते इति कुम्भः । कुम्भेः कर्मणि घञ् । पृषोदरादित्वादकारलोपः। विशुभत् । शुम्भदिति । १३२१ शुभ १३२२ शुन्भ शोभार्थे । हिसायां च द्रुमे । द्वयोः शता । दृब्धेति । १३२३ घभी ग्रन्थे । कर्मणि क्तः । तेति । १३२४ घृती हिसाग्रन्थनयोः । प्रा- ग्वत् क्तः । विविताम् । १३२५ विध विधाने । प्राग्वत् क्तः । जुडन्यः । १३२६ जुड गतौ । जुन इत्येके । जुडेः शतरि डीप् ! अजुनन् । जुनेलँड् । संमृडदिति । १३२७ मृड सुखने । शता । पृडितेति । १३२८ पृड च । कर्मणि क्तः। पृणन्त्यः । २३२९ पृषण प्रीणने । शतरि डीप् । वृणिताः । १३३० वृणेति च भाष्ये । कर्मणि तः। मृणालेति । १३३१ मृण हिंसायाम् । 'तमिबिडिमृणिकुलिपलिपश्चिभ्यश्च' इति भोजोक्तेः कालन् । तोणेति । १३३२ तुण कौटिल्ये । घम् ॥ चाणूरादयोऽपि पुरे सुखं स्थिता इत्याह--- ईशस्य पुण्यसुगमस्य वधं मुणन्तो मल्लाश्च यत्र चुकुणुः शुनका इवोच्चैः । धातुकाव्यन् । विभुं विशिष्टि-चिलितपीतपटेन वेष्टितेन पीताम्बरेण चलन् विलसन् । जगसिलका- कृतिर्लोकालंकारभूतश्रीदेहः । अविलितोरुकृपामविलिता असंवृता प्रकाशिता उर्वी कृपा यस्यां तां दृशं परित इलन् प्रेरयन् । एतैर्भक्कानन्दकरत्वमुक्तम् ।।---निमेषेति । १३५२ मिष स्पर्धायाम् । अयमुन्मीलनार्थोऽपि । अस्माद्धञ् । किलन् । १३५३ किल वैस- क्रीडनयोः श्वैत्य इत्येके ।] शता । तिलकेति । १३५४ तिल बहने । इगुपधात् के- ति कः । अस्मादिवाथै कन् । चिलितेति । १३५५ चिल वसने । कर्मणि क्तः । च- लन् । इलन् । १३५६ चल विलसने । १३५७ इल स्वप्नप्रेरणयोः । द्वयोः शता। अविलितेति । १३५८ विल संवरणे । कर्मणि कः॥ भक्तमनोनन्दाय अतिक्रूरेऽप्यत्र क्रीडितबानियाह- बिलशयप्रतिनिलिते पुरे स हि सुहृत्सु हिलन्नचरत्सुखम् । शिलितधान्यसिलप्रणतो हरिः प्रमिलता हृदये लिखिताकृतिः ॥७९॥ स हरिः । हि प्रसिद्धौ । बिलशयप्रतिमैः सर्पसमैर्दुटैनिलिते गहनीभूते पुरे सुहृत्सु अक्रूरादिषु हिलन् स्वाभिप्रायं प्रकाशयन् यथा तथा अचरत् । कीदृशः । शिलितधान्य- सिलप्रणतः शिलितं कणश आत्तं धान्यानां सिलं क्षेत्रविकीर्णबीज यैस्तैः प्रणतः । प्रमि- लतां खस्मिन् सम्यक् संश्लिष्यतां हृदये लिखिता तद्वस्थिरीभूता आकृतिः श्रीमूर्ति यस्य सः॥-बिलेति । १३५९ बिल भेदने । अस्याकर्मकत्वं खाम्याह । अस्मादिगु- पधात् कः । निलिते । १३६०णिल गहने । कर्तरि क्तः । हिलन् । १३६१ हिल भावकरणे । अभिप्रायसूचनं तत् । शता । शिलितेति । १३६२ शिल १३६३ षिल उञ्छे । शिलेः कर्मणि क्तः । सिलेति । उच्यत इति सिलः । घबर्थे कः । प्रमिलताम् । १३६४ मिल श्लेषणे । शता । लिखितेवि १३६५ लिख अक्षरविन्यासे । कर्मणि तिः । अथ कंसस्यातिभयेन दृढध्यानसिद्धये धनुर्भञ्जनं कृतमित्याह- ततोऽतिकुबिलाशयैः प्रपुटितैः कुचज्जीवितै- गुंजद्भिरपि सैनिकैः सुगुडितां डिपद्भिर्जनान् । सुधाच्छुरितविस्फुटस्मितरुचैव धैर्य मुट- न्धनुस्खुटनतो मनाक्प्रतुटनाय शालामगात् ।। ८०॥ ततो धनुत्रुटनतश्चापच्छेदनेन मनाक् प्रतुटनाय कंसस्य कलहं कर्तुं शालां धनुःशाला- मगात् प्राप्तः। कथमगात् । सुधया छुरिता लिप्ता विस्फुटा विकसिता प्रकाशिता या स्मितरुक् तयैव धैर्य मुटन् प्रमर्दयन् नाशयन् । कीदृशीं शालाम् । सैनिकै टैर्योद्धृभिः । सुगुडितां सभ्यअक्षिताम् । कीदृर्भरैः । अतिकुटिलाशयैर्वक्रचित्तैः । प्रपुटितैः सम्यगेक- त्र संघातीभूतैः । जनान् डिपद्भिः क्षिपद्भिनिरस्यद्भिः । गुजद्भिः सदा क्रन्दद्भिः । १. क्षेपणयोः' इति धातुपाठः, काव्यमाला। कुचज्जीवितैः कुचत् संकुचितं गतप्रायं जीवितं प्राणा येषां तैः ॥--कुटिलेति । १३६६ कुट कौटिल्ये । इतः कुडन्ताः कुटादयः। अस्मात् 'गुपादिभ्यः कित्' इतीलच् । अत्र कित्त्वं वृथा । डित्वेनैव गुणाभावात् । प्रपुटितैः । १३६७ पुट संश्लेषणे । कर्तरि कः। कुचदिति । १३६८ कुच संकोचने । शता। गुजद्भिः । १३६९ गुज शब्दे । अ. व्यक्त इत्येके । शता । सुगुडिताम् । १३७० गुड रक्षायाम् । कर्मणि क्तः। डिपद्भिः। १३७१ डिप क्षेपे । शता । छुरितेति । १३७२ छुर छेदने । लेपनेऽपि दृष्टः । कर्मणि क्तः । विस्फुटेति । १३७३ स्फुट विकसने । कः । मुटन् । १३७४ मुट आक्षेपमर्दनयोः । शता । त्रुटनतः । १३७५ त्रुट छेदने । प्रायोऽस्य द्वैधीभावे वृत्तिः । ल्युट् । प्रतुटनाय ! १३७६ तुट कलहकर्मणि । ल्युट् पोड्योऽयं चुडतेति केऽपि जुडतेत्यन्ये कडन्तोऽलुठ- न्देवे खैललिते कृडलिषि कुडद्गात्रे पुडित्वादरम् । ईशश्चाघुटितस्तुडन्खलमुदं रोष थुडन्प्रस्फुड- धाम स्वं स्फुरितो जगाम धनुष: पार्श्व क्षणादस्फुलन् ॥८१ ॥ केऽपि भटाः 'अयं पोज्यश्छेद्यः । एनं सर्वे चुडत छिन्त' इत्येवं वदन्तः, अन्ये 'जु- डत बनीत' इति वदन्तः, कडन्तो माद्यन्तः सन्तः खैरात्मीयललिते संश्लिष्टे कृडविषि घनीभवच्छोभे कुडद्गात्रे शिशुभवदेहेऽपि देवे आदरं बहुमानं पुडित्वा त्यक्त्वा अलुठन् संश्लिष्टाः संघातीभूता आसन् । ईशश्च ईशोऽपि अधुटितोऽप्रतिहतः खलमुदं तुडन् दार- यन् नाशयन् रोष थुडन्नाच्छादयन् स्त्रमसाधारणं धाम तेजः प्रभावं प्रस्फुडन् तिरोहितं कुर्वन् स्फुरितः शोभमानः अस्फुलन्नकम्पमानश्च सन् क्षणाच्छीघ्रं धनुषः पार्श्व समीपं जगाम ॥-पोड्य इति । १३७७ पुड १३७८ चुड छेदने । पुडेय॑त् । चुडत। चु- डेर्लोट् । जुडत । १३७९ जुड बन्धने । लोट् । कडन्तः । १३८० कड मदे। शता । अलुठन् । १३८१ लुठ संश्लेषणे । लुडेयेके। लुटेर्लङ् । लुलिवेति । लुडे: क- तरि कः । कृडदिति । १३८२ कृड धनत्वे । सान्द्रता तत् । शता। कुडदिति । १३८३ कुड बाल्ये । संघात इत्येके। भक्षणे च द्रुमे । शता । पुडित्वा । १३८४ पुड उत्सर्गे । क्त्वा । अघुटितः । १३८५ घुट प्रतिधाते । कर्तरि क्तः । तुडन् । १३८६ तुड तोडने । तच्च भेदनम् । शता । थुडन् । प्रस्फुडन् । १३८७ थुड १३८८ स्फुड संवरणे । कुड छुड इत्येके । आद्ययोः शता । स्फुरितः । १३८९ स्फुर १३९० स्फुल संचलने । स्फुर स्फुरणे । स्फुर संचलने इति केचित् । तत्र स्फुरणं शोभा । स्फुरेः कर्तरि क्तः । अस्फुलन् । स्फुलेः शता ॥ क्षौमेण स्फुडितं सजा निचुलितं चाब्रोड्यशोभं धनु- गेंहनोडतले स मोदकुलितो दृष्ट्वागुरिष्ट क्षणात् । १. 'चुट छुट' इति धातुपाठे. २. 'जुट' इति धातुपाठे. ३. 'स्थुड' इति धातुपाठे. धातुकाव्यम्। नूत्या किं भयधूतविद्रुतगुवल्लोकं तदा तद्भव- कोदण्डं कुवमानमैक्षि दलितं भोजेश्वराकूतवत् ॥ ८२ ।। स क्षौमेण स्फुडितं छादितं सजा निचुलित संवृतं चैवंरूपमप्यत्रोड्यशोभमनाच्छाद- नीयप्रभं धनुर्गेहकोडतले गृहस्य संवृतप्रदेशेऽन्तर्भागे दृष्ट्वा मोदे निमग्नः सत् क्षणातू शीघ्रमगुरिष्टोद्धृतवान् । नूत्या किं बहुप्रशंसया किम् । न किचित् कार्यम् । तदा ध्रुवत् स्थिरीभवत् तत् कोदण्ड भयधूतविद्रुतगुवल्लोकं भयेन धूतो वेपितो विद्रुतो धावितो गु- बत् पुरीषमुत्सृजश्व लोको जनो यस्मिशब्दे तथा कुवमानं शब्दायमानं भोजेश्वरस्य कंसस्याकूतमभिप्राय इव दलितं खण्डितमैक्षि सर्वैर्दष्टम् ॥-स्फुडितमिति १३९१स्फुड १३९२ चुड १३९३ ब्रुड संवरणे । क्रुडेलप्येके । स्फुडेः कर्मणि चः। निचुलितम् । चुडेः प्राग्वत् क्तः । अब्रोड्येति । त्रुडेयेत् । कोडेति । ब्रुडेर्घन्। कुलितः। १३९४ कुड १३९५ रुड निमज्जने इति चैके। कुड़ेः कर्तरि क्तः । ब्रश्चादय उदात्ता उदात्तेतः । अगुरिष्ट । १३९६ गुरी उद्यमने । उद्धरणं तत् । अयमुदात्तोऽनुदात्तेत् । लुड्' । नूल्या । १३९७ णू स्तवने । क्तिन् । धूतेति ! १३९८ धू विधूनने । क्तः । सुवदिति । १३९९ गु पुरीषोत्सर्ने । उवट् । शता। ध्रुवत् । १४०० च गतिस्थैर्ययोः । ध्रुव इत्येके । द्वयोः सह शता । अनजन्तस्य सेट्त्वं भेदः । गुधू अनुदात्तौ । ध्रुव उदात्तः । शूप्रभृतयः परस्मैभाषाः । कुवमानम् । १४०१ कुङ् शब्दे । शानच् । आकृतेति । कू- डित्येके । क्तः । वृत् । कुटादिर्वृत्तः।। अनेन धनुर्भशन कंसस्य महद् भयं जातमित्याह- व्यापारेऽत्र तदामरानपिरियन्नाशा पियन्नाधित- क्रौर्योत्क्षीणधनुष्प्रसूतनिनदः कसे व्यकारीद्गरम् । येनानादरवान्धृतोऽपि स चलन्वृच्छन्किमित्युत्सृज- न्धैर्य मग्नमनाश्च द्रुजि चिरं भुग्नाननस्तस्थिवान् ॥ ८३ ।। तदा अदृशे व्यापारेऽमरानपि रियन्प्राप्नुवन्नाशा दिशः पियन्च्यामुवनाधितक्रौर्यो- क्षीणधनुष्प्रसूतनिनदः । आधितक्रौर्यः सम्यग्धारितक्रौर्यः, उत्क्षीण उद्गतः धनुषा प्रसूतः प्रेरितश्च यो निनदः स कंसे गरं विषं व्यकारीक्षिप्तवान् । अत्यन्तपीडामकरोदित्यर्थः । येन सोऽनादरवानिरस्तबहुमानः सन् धृतोऽवस्थितोऽपि चलन्वेपमानः किमिद मिति पृच्छ- न्धैर्यमुत्सृर्जस्त्यजन्हगुजि मनमनाश्च चिरं भुनाननोऽवनतमुखस्तस्थिवान्स्थितोऽभूद ॥-- व्यापार इति । १४०२ पृङ् व्यायामे ! स च प्रवृत्तिमात्रम् । प्रायेण व्यापूर्वोऽयम् । घञ् । अमरान् । १४०३ मृङ्प्राणत्यागे। अच् । कुङादयोऽनुदात्ता आत्मनेभाषाः । कुवर्जम् । रियन् । पियन् । १४०४ रि १४०५ पि गतौ । द्वयोः शता। आधिवेति । १४०६ धि धारणे । गताविति द्रुमे । कर्मणि क्तः । उत्क्षीणेति । १४०७ क्षि निवास- १ 'क्रुड भृड निमजने' इति धातुपाठे. २. 'उद्यमे ' इति पाठः, काव्यमाला। गयोः । कर्तरि क्तः । 'निष्ठायामण्यदर्थे' इति दीर्घः । 'क्षियो दीर्घात्' इति नत्वम् । प्रसूतेति । १४०८ धू प्रेरणे । कर्मणि क्तः । व्यकारीत् । १४०९ कृ विक्षेपे । लुड् । गरम् । १४१० गृ निगरणे । अच् । रियत्यादयः परस्मैभाषाः । अनादरेति । १४११ दृङ् आदरे । अत्रैव निपातनात् पञ्यवृद्धिः । धृतः । १४१२ धृङ् अवस्थाने । बार- णे व द्रुमे । अनुदात्तावात्मनेभाषौ । पृच्छन् । १४१३ प्रच्छ ज्ञीप्सायाम् । तुन् । शता। 'अहिज्या-' इति संप्रसारणम् । वृत् । किरादिवृत्तः । उत्सृजन् । १४१४ सृज विसर्गे । विसर्गः उत्पादनं त्यागश्च । शता । भन्नेति । १४१५ टु मस्जो शुद्धौ । क- तरि कः । रुजि । १४१६ रुजो भझे । भावे क्विप् । भुन्नेति । १४१७ भुजो को- टिल्ये। कर्तरि क्तः ॥ वापरक्षकेषु ह्तेषु कंसः पर्याकुलचित्तोऽपि मल्लयुद्धोद्योगमकरोदित्याह-- रोषच्छुप्तधियाथ रोष्टुमभितो योधान्द्विषद्रेशका- नालिष्टानजितो जघान धनुषः खण्डेन मर्मस्पृशा । ते विच्छायघा दिवं प्रविविशुः कंसो विमर्शाकुलो मल्लादीननुदुत्परेद्यवि हरेरुत्सन्नशत्रोर्वधे ।। ८४ ॥ अथ अजितो रोषच्छुप्तधिया रोषेण छुप्तया स्पृष्टया धिया हेतुभूतया रोष्टुं हन्तुमभितः सर्वत आलिष्टानागतान् योधान भटान् मर्मस्पृशा मर्मवेधिना धनुषः खण्डेन जघान। कीदृशान् योधान् । द्विषतां रेशकान् हिसकान् । ते योधाः विच्छायदधा गच्छदधाः सन्तः दिवं भगवल्लोकं प्रविविशुः । कंसो विमर्शाकुलश्चिन्तया व्याकुलोऽपि मल्लादीन् परेद्यवि ऊर्ध्वदिने उत्सन्नशत्रोरपि हरेधेऽनुदत् प्रेरितवान् ।-छुप्तेति । १४१८ छुप स्पर्श । कर्मणि क्तः रोष्टुम् । १४१९ रुश १४२० रिश हिंसायाम् । रुशेस्तुमुन् । रेशकान् । शेवुल् । आलिष्टान् । १४२१ लिश गतौ । कर्तरि क्तः । मर्मस्पृशा । १४२२ स्पृश संस्पर्शने । 'स्पृशोऽनुदके-' इति क्विन् । विच्छाअदिति । १४२३ विच्छ गतौ । 'गुपूधूपविच्छि-' इत्यायान्ताच्छता। प्रविविशुः । १४२४ विश प्रवेशने । लिट् । विमर्शेति । १४२५ मृश आमर्शने स्पर्शनं तत् । घञ् । अनुदत् । १४२६ णुद प्रेरणे। लड्। उत्सन्नेति । १४२७ षद्ल विशरणगत्यवसादनेषु । कर्मणि क्तः। शत्रोः । १४२८ शदल शातने । अस्मापिणजन्तात् 'शादेहखश्च' इति भोजोक्तेः कुन् । प्रच्छादय उदात्तेतः अनुदात्ता विच्छिवर्जम् ॥ मित्रैः संमिलमान एत्य नगरोद्यानं विमुञ्चभियं गोपानां भयलोपिवाग्भिरबलाविन्नानुलेपं वहन् । १. स्पर्शने' इति पाठः. २. 'शातेः ' इति पाठः, कौमुद्यां तु 'रुशातिभ्यां कुन् शातयतीति शत्रुः । प्रज्ञादौ पाठाद्रखत्वम्' इत्युक्तम्. धातुकाव्यम् । भुक्त्वा गोरससिक्तमन्नमजित: कंसस्य कृन्तन्मुदं तं खेत्स्यन्पिशिताशदारुणमसौ मोदेन निन्ये निशाम् ॥८४॥ असावजितो मित्रैः संमिलमानो नगरोद्यानमेत्य भयलोपिवाग्मिर्मयनिरासकैर्वचनैर्गो- पानां भयं विमुञ्चस्त्यजन् अबलाविघ्नं कुब्जाया लब्धमनुलेयं वहन् धारयंश्च गोरससिक- मन्नं भुक्त्वा कंसस्य मुदं कृन्तश्छिन्दन निरस्यन् तं कंसं खेत्स्यन् निहनिष्यन् । हेतौ शता । मोदेन निशां निन्ये ।।-संमिलमान इति । १४२९ मिल संगमे । उदात्तः खरितेत् । शानच् । विमुञ्चन् । [१४३० मुच्ल मोक्षणे । ] इतः परं मुचादित्वानुम् । शता । भयलोपीति । १४३१ लुप्ल छेदने । णिनिः विनेति । १४३२ विद्ल लाभे। कर्मणि क्तः । अनुलेपम् । १४३३ लिप उपदेहे। अस्य दहतार्थत्वमप्याह शंकराचार्यः । अस्माद्धञ् । सिक्कम् । १४३४ षिच क्षरणे । तत्रेहाद्रीभवनम् । कमणि कः । मुत्रा- दयोऽनुदात्ताः खरितेतः । विन्दिः सेडिति केचित् कृन्तन् । १४३५ कृती छेदने । उदात्त उदात्तेत् । छता। खेत्स्यन् । १४३६ खिद परिघाते । अनुदात्त उदात्तेत् । लडन्ताच्छता । पिशितेति । १४३७ पिश अवयवे । अयं दीपनायामपि । उदात्त उदात्तेत् । भक्षणार्थमवयवशः क्रियते इत्यर्थे 'पिशिषिभ्यां कित्' इति भोजोक्तरितच् । वृत् । तुदादयो मुचादयश्च वृत्ताः । शविकरणं समाप्तम् ।। इति सव्याख्याने धातुकाव्ये द्वितीयः सर्गः । तृतीयः सर्गः। अथानन्ताभारहरणोद्यतस्थानन्तस्य भगवतः श्रीकृष्णमा ही दिवसानं सत्रानं वाई- यिष्यन् प्रथमतो रङ्गप्रवेशं वक्तं पीटिकां प्रतिष्ठापयति---- रुन्धन्दिशो दिनमुखेऽथ जगन्ति भिन्द- न्प्रच्छिन्नसंशयमतिर्मुदमाशु रिश्चन् । भेरीरवश्चतुरघातविविक्तताल- चुक्षोद कर्णमुद्युत च मल्ललोकः ॥ १॥ अथ दिनमुखे भेरीरवः कणे चुक्षोद श्रोत्रपुटं चूर्णीचकार ! कीदृशो भेरीरवः । दिशो रुन्धन् पूरयन् । जगन्ति लोकान् भिन्दन् विभिद्य बहिर्गच्छन् । प्रच्छिन्नसंशया कंसव्य- वसायबोधिनी मतिर्येन (?)सः। अत एव सर्वेषां मुदं रिश्चन् त्यजन् चतुरेण विदग्धेन घाते- नाभिहननेन विविक्ताः स्पष्टीकृतास्ताला यस्मिन् सः । मल्ललोक उदयुत चोद्युत्तोऽभूछ।- रुन्धनिति । १४३८ रुधिर् आवरणे । भिन्दन् । १४३९ भिदिर विदारणे । द्वयोः शता । प्रच्छिन्नेति । १४४० छिदिर द्वैधीकरणे । कर्मणि क्तः । रिञ्चन् । १४४१ रि- १. 'स्त्याजयन्' इति भवेत्. २. 'सेडिसि' इति पाठः. काव्यमाला। चिर् विरेचने । शता। विविक्तेति । १४४२ विचिर पृथग्भावे । कर्मणि क्तः । चुक्षोद । १४४३ क्षुदिर् संपेषणे । लिट् । उदयुत । १४४४ युजिर योगे । लड् । 'अजादे- रप्यजन्तादप्युपसर्गात्तड्डिष्यते' इति तड्डेव । रुधादयोऽनुदात्ताः [स्वरितेत उभयतो- भाषाः ॥ संच्छृण्णगात्रमथ शात्रवर्दिनस्ते चाणूरमुष्टिकमुखा वसनान्यकृन्तन् । इन्धानखेदमुद्विन्त विशिष्टलोकः पेक्ष्यत्सु माधवमभङ्गभुजेषु तेषु ॥ २ ॥ अथ ते चाणूरमुष्टिकमुखाः संच्छृष्णगात्रं सम्यक् दीप्तं गात्रं यस्मिन् तथा वसनानि मल्लयुद्धोचितानि अकृन्तन्नवेष्टन्त । शात्रवाणां शत्रूणां तदनं हिंसनमनादरो वा शीलं येषां ते मल्लाः । विशिष्टलोकः सज्जनस्तेषु माधवं पेक्ष्यत्सु संचूर्णयिष्यत्सु । हेतौ शता। इन्धानखेदं वर्धमानं दुःखं यस्मिन् तथा । उदविन्त उच्चैर्विचारमकरोत् । अभङ्गभुजेषु भङ्गरहितः शक्तिक्षयरहितो भुजो येषां तेषु ॥-संच्छृण्णेति । १४४५ उच्छृदिर दीप्तिदे- वनयोः । देवनं क्रीडाविजिगीषादि । 'दीप्तिवमनयोः' इत्येके । अस्मिन् कर्तरिः कः । शात्रवतर्दिनः ।१४४६ उतृदिर हिंसानादरयोः । णिनिः। द्वावुदात्तौ।रुधादयः खरितेत इरितश्च । अकृन्तन् । १४४७ कृती वेष्टने । उदात्त उत्तात्तेत् । लड् । इन्धानेति ।१४४८ जि इन्धी दीप्तौ । दीपनायामपि । उदात्तोऽनुदात्तेत् । अस्माच्छानच् । खेदम् । १४४९ खिद दैन्ये । पञ्। उदविन्त । १४५० विद विचारणे । लड् । अनुदात्तावनुदात्तेतौ । वि- शिष्टेति । १४५१ शिष्ल विशेषणे। उत्कर्षार्थत्वात् । अकर्मकादस्मात् कर्तरि कः । पे- क्ष्यत्सु । १४५२ पिष्ल संचूर्णने । सृदि हेतौ शता । अभङ्गेति । १४५३ भो आमदने । घन् । भुजेति । १४५४ भुज पालनाभ्यवहारयोः । अनुभवेऽपि । 'भुजन्यु- ज्जौ पाण्युपतापयोः' इति निपातितः । शिषादयोऽनुदात्ता [ उदात्ततः ] ॥ को नस्तृणेढि हिनसाम समुत्तमात्रै- स्तं गोपसूनुमिति तैललवाक्तगात्राः ।। संतक्तनद्धवसनाः परिवेगवृक्ता रॉ समेत्य पपृचुः खजनांश्च मल्लाः ॥ ३ ॥ को नोऽस्सांस्तृणेढि निहन्ति । न कोऽपि तं गोपसूनुमासै रुधिरैः समुत्तं सिक्काई कृत्वा वयं हिनसाम मारयाम । मल्ला इति एवमुक्त्वा रङ्गं समेत्य खजनान् पपृचुर्योजित- वन्तः। कीदृशा मलाः। संतक्तं संकोचितं यथा तथा नद्धं बद्धं वसनं यैस्ते। परिवेगेन भ- येन कम्पन वा वृक्ता हीनाः ॥-तृणेढीति । १४५५ तृह १४५६ हिसि हिंसायाम् । धातुकाव्यम् । तृहेर्लट् । हिनसाम । हिंसेर्लोट् । समुत्तम् । १४५७ उन्दी क्लेदने । कर्मणि क्तः । 'नुद्- विदोन्द-' इति नत्वाभावे रूपम् । अक्तेति । १४५८ अन्जू व्यक्तिम्रक्षणकान्तिगतियु। व्यक्तिः प्रकाशनम् । प्रक्षणं मिश्रीकरणम् । अस्मात्कमणि क्तः। संततेति । १४५९ तन्चू संकोचने । तन्जू इत्येके । द्वयोस्तन्त्रेण कर्मणि कः । परिवेगेति । १४६० सोविजी भन्यचलनयोः । धम् । वृत्ताः । १४६१ वृजी वर्जने । वृतौ च द्रुमे । 'ची वरणे' इति केचित् । कर्मणि क्तः । यत्रुः । १४६२ पृची संपर्के । सकर्मकोऽयं महिनोक्तः । तस्मालिट् । तृहादय उदात्ता उदात्तेतः । वृत् रुबायो वृत्ताः । इति श्रमूनिकरणम् ॥ तन्वन्स मञ्चभुवि सातरसः स्वबन्धू- नक्षण्वतां क्षितिकरो मुदमर्णवानः । कंसस्तृणीकृतरिपुणिमान्यताप्ति मन्वान एकमथ मञ्चमलंचकार ॥४॥ अथ स कंसः स्वबन्धून मञ्चभुवि तन्वन् विस्तारेण निवेशयन् तत्तत्स्थानेषु कुर्वन् वा। वताप्ति प्रार्थितप्राप्ति मन्वानः एक मञ्चमलंचकार अलंकृतवान् । सातरसो दत्त- रसः । बन्धूनामित्यर्थात् । अक्षम्वतामहिंसकानां क्षितिकरः हिंसनकृत् । मुदमर्णवानः प्रा. मुवन् । घृणिमाशोभावान् ॥ तन्वन् । १४६३ तनु विस्तारे । अयं कृञर्थेऽपि । अस्माच्छता । सातेति । १४६४ षणु दाने । कर्मणि क्के । 'जनसन-' इति आत्वम् । अक्षण्वताम् । १४६५ क्षणु हिंसायाम् । १४६६ क्षिणु च । क्षणे: शता । क्षि- तीति । क्षिणेः तिन् । 'अनुदात्तोपदेश-' इति नलोपः । अर्णवानः । १४६७ ऋणु गतौ । शानच् । तृणीकृतेति । १४६८ तृणु अदने । घबर्थे कः । तृणम् । तस्मात् अ- भूततद्भावे इति च्विः । धृणीति । १४६९ घृणु संदीपने । घण इत्येके । 'इकृषादिभ्यः' इति घृणेरिक् । तनादय उदात्ताः खरितेतः । वतेति । १४७० वनु याचने । बनेः कर्मणि कः । मन्वानः । १४७१ मनु अवबोधने । शानच् । उदात्तावनुदात्तेतौ । बनुः परस्मैपदीति चान्द्राः अलंचकार । १४७२ ड क करणे । अनुदात्त उभय- तोभाषः । अस्माल्लिट् । उविकरणं समाप्तम् ॥ अथ भगवतो रङ्गप्रवेशमाह- क्रीणन्गुणैर्जनमति प्रियरूप ईशो मांसनियां प्रमयकृत्सितपीतचेलः । १. 'अवृतकृता इत्येके । तेन लुनत्तीति सिद्धम्' इति कचिदधिकः पाठः. २. 'दीप्तौ' इति धातुपाठे. २०२ काव्यमाला। मोदस्कुतोऽथ कबरी प्रयुनन्सरामः नन्मृदङ्गमिह रङ्गमगादरिद्रः ॥ ५ ॥ अर्थशः कबरीं प्रयुनन् बनन् सरामो रामेण सहित इह अस्मिन् काले रङ्गमगात् । कीदृशः । गुणैर्जनमति क्रीणन् विनिमयन् वशीकुर्वन् मांसश्रियां मांसपाचकानां तद्भ- क्षिणां प्रमयकृत् हिंसनकृत् सितपीतचेलो बद्धपीताम्बरो मोदे स्कुत आप्ठतः । अरिद्रूः शत्रुहिसकः । नूनन्मृदङ्गम् । नूनन् शब्दायमानो मृदङ्गो यस्मितं रङ्गम् ॥---क्रीण- निति । १४७३ ड क्रीजू द्रव्यविनिमये । शता । नियेति । १४७४ प्री तर्पणे कान्तौ च । कान्तिः कामना । 'इगुपधज्ञाप्रीकिरः कः' इति कः। मांसश्रियाम् । १४७५ श्री पाके । विप् । प्रमयेति । १४७६ मीङ् हिंसायाम् । एरच्' । सितेति । १४७७ षिव् बन्धने । कर्मणि क्तः । स्कुतेति । १४७८ स्कुभू आप्रवणे । आल. • बनं तत् । आवरण इत्येके । उद्धृताविति द्रुमे । अस्मात्कर्तरि तः । सुनन । १४७९ युञ् बन्धने । शता । श्यादयोऽनुदात्ता उभयतोभाषाः । छूनदिति । १९८० कुल्लू शब्दे । शता । अरिद्रूः । १४८१ दूनू हिसायाम् । इत्यप्येके । किम् ।। द्वारं पुनन्पदतलेन स लूनवैरी स्तीर्णाननं मदजलेन करीतुकामम् । नागं ददर्श पटवूर्णमुखं धुनानं कौं शृणन्तमखिलानभिपूर्तरोषम् ॥ ६ ॥ स श्रीकृष्णः पदतलेन द्वारं पुनन् श्रीपादारविन्द रङ्गद्वारि निदधानः सन् । तत्र क- रीतुकामं हिंसितुमिच्छु नाग कुवलयापीडाख्यं गजश्रेष्ठं ददर्श । लूनवैरी छिन्नशत्रुः । की- दृशं नागम् । मदजलेन स्तीर्णाननं छन्नवक्त्रम् । पटवूर्णमुखं पटच्छादितं मुखं यस्य तम् । कर्णी धुनानं कम्पयन्तम् । अखिलान् शृणन्तं हिसयन्तम् । अभिपूर्तरोषं संपूर्ण- रोषम् ॥-पुननिति । १४८२ पूञ् पवने । पवनं शोधना । शतरि ‘प्वादीनां हवः' इति ह्रखः । लूनेति । १४८३ लू छेदने । कर्मणि क्ते 'ल्वादिभ्यः' इति नत्वम् । स्तीर्णेति । १४८४ स्तृञ् छादने । कर्मणि क्तः। करीतुकामम् । १४८५ कृञ् हि. सायाम् । तुमुनि 'तुमः कामे मनस्यपि' इति मलोपः । बूर्णेति । १४८६ बृजू वरणे । भरण इत्यप्येके । धुनानम् । १४८७ धूञ् कम्पने । शानच् । यादय उदात्ता उभयतो- भाषाः । शृणन्तम् । १४८८ शू हिंसायाम् । शता । अभिपूर्तेति । १४८९ पालन- पूरणयोः । कर्तरि ते 'न ध्याख्यापृमूर्छिमदाम्' इति नत्वाभावः ॥ तत्र स्परीतुमनसं रुषमावृणन्त- मम्वष्टमुन्मदभरं स भृणन्बभाषे। धातुकाव्यम्। २०३ त्वामेष संप्रति मृणामि दृणामि नागं नो चेज्जणत्तम नरानकृणन्नृणीहि ॥ ७ ॥ स तत्राम्बष्टं हस्तिपकं भृणन् भर्स्यन् बभाषे । कीदृशं हस्तिपकम् । स्परीतुमनसं हन्तुकामम् । रुषमावृणन्तं स्वीकुर्वन्तं छादयन्त वा । उन्मदभरमुद्भूतदतिशयम् । एषोऽहं स्वां संप्रति मृणामि हिंसयामि । नागं गजं दृणामि विदारयामि । हे ऋणत्तम वृद्धतम नो चेत् एतन्नेच्छसि चेत् । त्वं नरान् अकृणन् अहिंसन् ऋणीहि मार्गात् अपगच्छ ॥--- स्परीतुमनसामिति । १४९० स्पृ हिसायाम् । तुमुन् । प्राग्वन्मलोपः । आवृणन्तम् । १४९१ वृ वरणे । शता। वृ वरणभरणयोरित्येके । भरम् । भृणन् । १४९२ भृ भ- सने । भरणे इति केचित् । 'ऋदोरप्' । शता च । मृणामि । १४९३ भू हिंसायाम् । दृणामि । १४९४ दृ विदारणे । भये च । द्रुमे । द्वयोर्लट् । ऋणदिति । १४९५ १ ब- योहानौ । झु इसके । जृणातेः शता । नरान् । १४९६ नू नये । पचाद्यच्। अकृणन् । १४९७ कृ हिसायाम् । शता । ऋणीहि । १४९८ ऋ गतौ । लोट् ॥ इत्थं हरौ गृणति हस्तिपकोऽपि कोपी जीनोऽस्यहं न तु रिणामि भियेति बादी। पार्श्वे लिननगजमचोदयदुन्मदान्ध- मन्लीनशक्तिमतिघोरजवं प्लिनन्तम् ॥ ८ ॥ हरौ इत्थं गृणति वदति सति, हस्तिपकोऽपि कोपी सन् अहं जीनो वृद्धोऽपि भिया न तु नैव रिणामि गच्छामीति वादी वदनशीलो गजं पा लिनन् श्लिष्टो भवन् अ. चोदयत् हन्तुं प्रेरितवान् । उन्मदान्धमुद्भूतेन मदेनान्धम् । अन्लीनशक्तिमन्लीना आ- च्छादिता शक्तिर्यस्य तादृशं सन्तम् । अतिघोरजवं यथा तथा ग्लिनन्तं गच्छन्तम् ॥- गणतीति । १४९९ गृ शब्दे ! शता । शप्रमृतय उदात्ताः परस्मैभाषाः । जीनः । १५०० ज्या वयोहानौ । कर्मणि ते 'अहिज्या-'इति संप्रसारणे हलः' इति दीः ल्वा- दित्वानखम् । रिणामि । १५०१ री गतिरेषणयोः । रेषणं वृकशब्दः । लट् । लिनन् । १५०२ ली श्लेषणे । शता अग्लीनेति । १५०३ क्ली वरणे । गतौ श्लेषणे च द्रुमे । कर्मणि कः । प्लिनन्तम् । १५०४ श्ली गतौ । शता । वृत् । प्वादयो वृत्ताः । ल्वा- दस्तु गणान्तः॥ जीताशचंहितजुषाभ्रिणता गजेन प्रक्षेतुमज्ञमनसा समनुद्रुतेन । बद्धः करण भगवान्विहतिं वृणानः श्रश्नन्निबद्धममुभाशु तलैरमश्नात् ॥ ९ ॥ १. अधातुपाठस्थोऽयमू.

२०४

काव्यमाला। अक्षेतुं हन्तुं समनुद्रुतेन वेगानुगतेन गजेन करेण बद्धो भगवान् विहातें वृणानः वी. कुर्वन् निबद्धं श्रश्नन् विमोचयन्नमुं गजं तलैराशु अमनात् ताडयामास । कीदृशेन ग- जेन । बीताशबंहितजुषा बीताशं छादितदिक्तटं बृंहितं गर्जितं कुर्वता । अम्रिणता अभीतेन ॥--नीति ।१५०५ बी बरणे । गतौ च द्रुमे । कर्मणि कः । अभिणता । १५०६ भ्री भये । भरणे' इति केचित् । शता । अस्य ल्वादित्वमप्यस्ति द्रुमे । प्रक्षे- तुम् । १५०७ क्षीय हिंसायाम् । तुमुन् । अज्ञेति । १५०८ झा अवबोधने । 'इगु- पधज्ञाप्रीकिरः कः' इति कः । बद्धः । १५०९ बन्ध बन्धने । कर्मणि कः । ज्यादयो- ऽनुदात्ताः परस्मैभाषाः । वृणानः । १५१० वृङ् संभक्तौ । संभक्तिः खीकारः । उदात्त आत्मनेभाषः । शानच् । श्रनन् । १५११ श्रन्थ विमोचनप्रतिहर्षयोः । प्रतिहत न ज्ञातः । अस्माच्छता । अमश्नात् । १५१२ मन्थ विलोडने । लड् ॥ तगन्थनं परिहरन्गतिभिर्विकुथ्य पृष्ठे करोन्मृदितपुच्छमकर्षदेनम् । भूयो निपात्य मृडितस्वजन: स गुन्ध- न्दन्तौ विकुष्य गजमुक्षुभितं व्यनन्नात् ॥ १० ॥ स श्रीकृष्णो गतिभिः संचारभेदैस्तद्वन्यनं तस्य बन्धनं परिहरन् वर्जयन् । एनं पृष्ठे विकुथ्य संश्लिष्य निलीय करोन्मृदितपुच्छं हस्तसंचूर्णितलाशूलं सन्तमकर्षत् । क्रिया- विशेषणं वा । भूयो गुथ्नन् कुप्यनुत्क्षुभितं गजं निपात्य दन्तौ विकुष्य उन्मील्य व्यनन्नात् अहिंसीत् । मृडितखजनः सुखितबन्धुजनः ॥-ग्रन्थन मिति । १५१३ ग्रन्थ संदर्भ । श्रन्थमपि केचित् पठन्ति । ग्रन्थेयुट् । विकुथ्य । १५१४ कुन्थ संश्लेषणे । संक्लेशे इति केचित् । कुथ इत्येके । द्वयोतन्त्रेण ल्यप् । उन्मृदितेति । १५१५ मृद क्षोदे। संचूर्णनं तत् । कर्मणि क्तः । १५१६ मृड च । क्षोदे इति शेषः । सुखे चेति केचित् । सुखने इत्यन्ये । अस्मात् कर्मणि क्तः । गुन्धन् । १५१७ गुध रोषे । शता । विकुष्य । १५१८ कुष निष्कर्षे । स च बहिनिःसारणम् । ल्यप् । उत्क्षुभितम् । १५१९ शुभ संचलने । कर्तरि क्तः । व्यनन्नात् । १५२० णम १५२१ तुभ हिंसायाम् । लड् ॥ आधोरणानपि च दन्तवरेण तुम्नन् क्लिभन्मतिं पलसुरादिकमश्नतां सः। भ्रस्तं फलप्रकरमुभ्रसितांश्च शाली- न्प्रादद्भिरैष्यत गिरा परिविष्टपापैः ॥ ११ ॥ आधोरणान् हस्तिपकान् अपि च दन्तवरेण तुम्नन् हिंसन् स श्रीकृष्णः प्रस्तमुञ्छ- नेनार्जितं फलप्रकरमुध्रसितान्' उञ्छनार्जितान् शालींच प्रादर्भिक्षयद्भिः सद्भिगिरा ऐ- ष्यत पुनः पुनः भृशं वा स्तुतोऽभूत् । कीदृशः श्रीकृष्णः । पलसुरादिकं मांसमद्यादिकमधातुकाल्यम् । नतां दुष्टानां मतिं क्लिनन् पीडयन् । परिविष्टं विप्रयुक्तमपगतं पापं येषां तैः सद्भिः।- तुम्ननिति । तुभेः शता । क्लिन्नन् । १५२२ क्लिशू विवाधने । अश्नताम् । १५२३ अश भोजने । द्वयोः शता । ध्रस्तम् । उध्रसितान् । १५२४ उध्रस उञ्छे । उकार इदित्येके । मतद्वये कर्मणि निष्ठा । ऐष्यत । १५२५ ईष आभीक्ष्ण्ये । पौनःपुन्यं भृशार्थो वा आभीक्ष्ण्यम् । तन्त्र प्रकरणादिप्राप्तायाः क्रियाया इत्यौचित्याज्ज्ञेयम् । अमा. कमणि लड् । परिविष्टेति । १५२६ विष विप्रयोगे । कर्तरि क्तः ॥ ग्रुष्णन्सतां प्रियमयं प्लुषिताङ्गरागः पुष्णन्मुदं मृगदृशां रिपुधाम मुष्णन् । अकारविन्दखचितस्मितखौनदाभो रङ्गं गतोऽसभुवि दन्तवरं प्रगृहन् ॥ १२ ॥ अय भगवान् अंसभुवि दन्तवरं प्रगृह्णन् रङ्गं गतः प्राप्तः । कीदृशः । सतां प्रियं फु. भणन् पूरथन् । लुषितः स्निग्धो निविडो अङ्गरागो यस्य सः। रिपूणां धाम प्रतापं मुष्णन् । मृगदृशां मुदं पुष्णन् । वकारविन्दात् खचितेन नितान्तोत्पन्नेन स्मितेन खौनती नितान्तं उत्पद्यमाना आभा यस्य सः॥पृष्णन् । १५२७ पुष १५२८ प्लुष स्नेहनसेचनपूर- गेषु । मोहनदाहनयोरप्याह शंकरः । ग्रुषेः शता । शुषितेति । षेः कर्तरि क्तः। पुष्ण- न् । १५२९ पुष पुष्टौ । मुष्णन् । १५३० मुष स्त्रेये। द्वयोः शता । खचितेति । १५३१ खच भूतप्रादुर्भावे । भूतप्रादुर्भावो नितान्तोत्पत्तिः । खच इत्येके । हेट इत्ल. प्येके । खचेः कर्तरि कः । खौनदिति । खरनुनासिकादौ नि परे ऊठ् । तस्य शता। श्रन्यादय उदात्तेतः । क्लिशिविषिवर्जमुदात्ताश्च । प्रगृह्णन् । १५३२ ग्रह उपादाने । उदात्तः स्वरितेत् । असाच्छता । इति नाविकरणम् ॥ अध मल्लरहं गते भगवति कंसस्यावस्थामाह--- संचोरयन्तमरिगर्वमशेषभद्रं चिन्तन्तमन्तकमिवाप्तमयन्त्र्यवीर्यम् । प्रस्फुण्डयन्नपि तमप्युपलक्ष्य कंस- स्तत्रास कुन्दकसुलालितमिन्दितश्रीः ॥ १३ ॥ प्रस्फुण्डयन् परिहसन्नपि केस आप्तं प्राप्तं तं श्रीकृष्णमन्तकमिवाभ्युपलक्ष्य दृष्ट्वा त- त्रास भीतवान् । कुन्दकैः अनृतभाषिभिः सुलालिता मिन्दिता प्रवृद्धा श्रीर्यस्य सः । की- दृशं तम् । अरिगर्व संचोरयन्तम् । अशेषभद्रमशेषाणां मङ्गलम् । चिन्तन्तं निरूपय- न्तम् । अयन्वयमसंकोच्यमनिवारणीयं वीर्यं यस्य तम् ॥-संचारयन्तमिति । १५३३ चुर तेये । अकार उक्त्यर्थः । णिचश्च' इति तद् चुरादेर्नेति मतं माधवदृषितं ते. १. 'सेवन' इति धातुपाठः २०६ काव्यमाला। नोभयपदित्वमेव । अस्माञ्चुरेणिचि शता । 'केचित्सर्वचुरादीनामनित्यण्यन्ततां जगुः । येषां विकल्पचिह्न स्यात्तेषामेवेति माधवः ॥' चिन्तन्तम् । १५३४ चिति स्मृत्याम् । मिचि 'अनिदितां हल-' इति नलोपाप्रसङ्गात् तनिषेधार्थमिदित्त्वानुपयोगादिदितां गिजनित्यः । तेन णिजभावे शपि शता । अयच्येति । १५३५ यत्रि संकोचने । णिज- न्तादचो यत् । प्रस्फुण्डयन् । १५३६ स्फुडि परिहासे । स्फुटि इत्येके । स्फुण्डेः शता। अभ्युपलक्ष्य । १५३७ लक्ष दर्शनाङ्कनयोः । ल्यप् । कुन्दकेति । १५३८ कुदि अनु. तभाषते । कुछ इत्येके । कुन्देण्वुल् । सुलालितेति । १५३९ लड उपसेवायाम् । क. मणि क्तः । मिन्दितेति । १५४० मिदि स्नेहने । मिद इलेके । मिन्देः कर्तरि क्तः ॥ ओलण्डिताद्रिरपि जालितदिव्यधामा निष्पीडितारिरनुनाटितमयंभावः । अश्राथबाधितमनाः स निरीक्षकाणा- मानन्दमन्तरपरत्परमूर्जयन्तम् ॥ १४ ॥ निरीक्षकाणामश्राथबाधितमना अप्रयत्नवशीकृतचित्तः सन् स भगवान् अन्तर्मनसि परमधिकमानन्दमपरत् पूरयामास । कीदृशः । ओलण्डितादिः उत्क्षिप्तगोवर्धनोऽपि जालितदिव्यधामा छादितामानुषप्रभावः । अनुनाटितमखंभावः अनुकृतमनुष्यस्वभावः। ऊर्जयन्तं बलीभवन्तमानन्दम् ॥-ओलण्डितेति । जालितेति । निष्पीडितेति । अनुनाटि- तेति । १५४१ ओलडि उत्क्षेपणे । ओकार इदित्येके । १५४२ जल अपवारणे। १५४३ पीड अवगाहने । तच बाधनम् । बाधगाहनयोरिति हमे । १५४४ नट अव- स्यन्दने । तच नाट्येनार्थप्रकाशनम् । एषां कर्मणि कः । अश्राथेति । १५४५ श्रथ प्रयत्ने । प्रस्थाने इति केचित् । एरच्' । 'एरजण्यन्तानाम्' इति मते घञ् । बाधितेति । १५४६ बध संयमने । बन्धे इति केचित् । बाधेः कर्मणि क्तः । अपरत् । १५४७ पृ पूरणे । दीर्घोक्तिफलं परितेतीडणिच्येव स्यादिति णिज्विकल्पः । णिजभावे शपि घञ् । ऊर्जयन्तम् । १५४८ ऊर्ज बलप्राणनयोः । शता॥ श्रीकृष्णदर्शनसंजातानन्दानां संभाषणमाहाष्टभिः श्लोकैः- संपक्ष्य तन्निजदृशैवमवर्णि लोकै- रेषोऽजनिष्ट किल दुष्टविचूर्णनार्थम् । अप्रार्थितो ब्रजगृहेऽपि च पर्थिभूतोऽ- दासम्बयञ्जनमति निजशाम्बरीभिः ॥१५॥ लोकैनिंजदृशा तं संपक्ष्य परिगृह्य दृष्ट्वा एवमवर्णि कथितम् । एष दुष्टविचूर्णनार्थ- मजनिष्ट किल । अपि च व्रजगृहेऽप्रार्थितोऽप्रख्यातः सन् पर्थितः प्रक्षिप्तोऽभूत् । निज- १. 'अयत्ने' इति पाठः,

  • &

धातुकाव्यम् । २०७ शाम्बरीभिः खमायाभिर्जनमतिमासम्बयन स्वसंवन्धी कुर्वन् ।-संपश्यति । १५४९ पक्ष परिग्रहे । ल्यप् । अवणि । १५५० वर्ण वर्णने । प्रेरणेऽपीति केचित् । भावे चिण् विचूर्णनेति । १५५१ चूर्ण प्रेरणे । अस्य क्षोदनमप्यर्थः । तदेव वा प्रेरणमित्यु- क्तम् । अस्माल्युट । अप्रार्थितः । १५५२ प्रथ प्रख्याने । क्षेपे च द्रुमे । कर्तरि क्तः। पर्थितः । १५५३ पृथ प्रक्षेपे । पथ इत्येके । कर्मणि कः । आसम्बयन् । १५५४ पन्ब संबन्धने । १५५५ शन्बेलेके । साम्बेत्यन्ये । साम्बेः शता । शाम्बरीभिः । शम्बेर्बाहुलकादरप्रत्यये शम्बरः । तस्येयं शाम्बरी ॥ सा पूतना च शिशुभक्षणकुट्टनोत्का जन्ने प्रपुट्टितकपेण विचुट्टिताधा । नात्यासुरः पुनरनट्टयविसुट्टकः स- नेतेन लुण्ठितबलोऽजनि शाठितात्मा ॥ १६ ॥ एतेन सा पूतना जन्ने । अपुहिताल्पीभूता कृपा यस्य तेन । शिशूनां भक्षणे कुट्टने छेदने चोत्कोत्सुका विचुट्टितमल्पीभूतं गतमघ यस्याः सा । पुनः--वाल्यासुर एतेन लु- ण्डितबलो मुषितबलोऽजनि जनितः । अनभ्यविसुदृकः आदरणीयानामनादरकृत् सन् भवन् शाठितात्मा असंस्कृतचित्तः ॥--भक्षणेति । कुट्टनेति । १५५६ भक्ष्य अदने । १५५७ कुट्ट छेदनभनियोः पूरणे इत्येके । द्वयोल्युट् । प्रहितेति । विचुट्टितेति । १५५८ पुट्ट १५५९ चुट्ट अल्पीभावे । द्वयोः कर्तरि कः । अनछ्यविसुट्टकः । अट्ट १५६० घुट्ट १५६१ अनादरे । अल्पीभावे च द्रुमे । क्रमात् 'अचो यत्' इति यत् , बुल् च । झुण्ठितेति । १५६२ लुण्ठ स्तेये । अनादरे च द्रुमे । शाठितेति । १५६३ शठ १५६४ श्वष्ठ असंस्कारगत्योः । श्वठि इति केचित् । संस्कारे च द्रुमे । आद्य आलस्ये च । लुण्ठिशाठ्योः कर्मणि क्तः ।। आश्वाठितारिकुलतुजविपिञ्जशीलः संपेसयन्गृहमसान्त्वयदेष गोपीः । सुश्वल्कनाः सुमधुरप्रियवल्कनाभिः प्रस्नेहयन्न च कदाचिदसिस्मिटत्ताः ॥ १७ ॥ एष गृहं संपेसयन् प्राप्नुवन् गोपीरसान्त्वयत् । आश्वाठितस्थागतस्यारिकुलस्य तुञ्ज विपिञ्जशीलो हिंसाग्रहणशीलः । हननशील इति यावत् । ताः सुमधुरप्रियवल्कनाभिः सुमधुरैः प्रियभाषणैः प्रस्नेहयन स्निग्धाः कुर्वन् कदाचिदपि नासिस्मिटदनादृतवान् । सुश्वल्कनाः शोभनोक्तीर्गोपीः ॥--आश्वाठितेति । श्वः कर्तरि क्तः । तुञ्ज विपिजेति । १५६५ तुजि १५६६ पिजि हिंसाबलादाननिकेतनेषु । दाने बहुमे । तुज पिज इसके । लजि लुजि इत्यन्ये । तुजिपिज्योर्घञ् । संपेसयन् । १५६७ पिस गतौ । काव्यमाला। शता । असान्त्वयत् । १५६८ षान्त्व सामप्रयोगे । लड् । सुश्वल्कनेति । १५६९ श्वरक १५७० वल्क परिभाषणे । श्वल्केयुट् । वल्कनाभिः । बल्केः 'वास- श्रन्थ:--' इति युच् । प्रस्नेहयन् । १५७१ पिाह स्नेहने । शता । असिस्मिटत् । १५७२ स्मिट अनादरे । लुडि बड़ ॥ कः स्माययेत विभुमेनमशिश्लिषद्यः पन्थन्ब्रजेऽत्र भवपिच्छनभारिभरेव । छन्दछुचं वरमशिश्रिणदाश्रितानां संताडनैर्वृषभदैत्यमखाडयञ्च ॥ १८ ॥ योऽत्र बजे पन्थन् संचरन् भवपिच्छनभाग्भिः संसारच्छेदभारिभरासनमुक्तिभिरे- वाशिश्लिषत् सैपक्षं प्राप्तवान् । एनं विभुं कः स्माययेतानाद्रियेत । आश्रितानां शुचं छ- न्दन नाशयन् वरं प्रार्थितमशिश्रिणत् दत्तवान् । संताडनैः प्रहारैः धृषभदैत्यमखाडयत् विदारितवांश्च ॥-स्माययेत । १५७३ स्मिङ् अनादरे इत्येके । डित्वात्तठेव । अस्मा- ल्लिङ् । अट स्मिट गतावित्यप्यन्ये । अशिश्लिषत् । १५७४ श्लिषश्लेषणे । लुङि चड्। पन्धन् । १५७५ पथि गतौ । शपि शता । पिच्छनेति । १५७६ पिच्छ कुटने । ल्युट्। छन्दन् । १५७७ छदि संवरणे । शपि शता । अशिश्रणत् । १५७८ श्रण दाने । प्रायेण विपूर्वः । अस्सा डि चड् । संताडनैः । १५७९ तड आघाते । शोभा- यांच द्रुमे । ल्युट अालयन् । १५८० खड १५८१ खडि १५८२ कडि भेदने । अन्त्यो रक्षणे च द्रुमे । खडेलड् ॥ अश्वं व्यखण्डदचकण्डद्घासुरादी- न्धेनूरकुण्डभिगुण्डितपीतचेलः । किंच स्वगात्रमवकुण्ठयतो महाहे- ईपै चुखुण्ड विषमेष मुखाद्विवण्टन् ॥ १९ ॥ किं च । अश्वं व्यखण्डत् , अघासुरादीन् अचकण्डत् । द्वयोरखण्डयदित्यर्थः । धेनूरकुण्डत रक्षितवान् । अभिगुण्डितं चेष्टितं पीतचेलं येन सः । खगात्रमवकु- ण्ठयतश्छादयतः । महाहेः कालियस्य मुखात् विषं विवण्टन विभाजयन् छर्दयन् दर्प चु- खुण्ड खण्डितवान् ॥व्यखण्डदिति । खण्डेः शपि लड् । अचकण्डत् । कण्डेणिचि चङ् । अकुण्डत् । १५८३ कुडि रक्षणे । शपि लड् । अभिगुण्डितेति । १५८४ गुडि वेष्टने । रक्षणे चैके। कुठि इत्यन्ये । गुण्डेः कर्मणि क्तः । अवकुण्ठयतः । कुण्ठेः शता। चुखुण्ड । १५८५ खुडि खण्डने । णिजभावे लिट् । विवण्टन् । १५८६ वटि विभाजने । वडि इसके । वण्टेः सपि शता॥ १. 'छेदनामिः पाठः. २. संपर्क पाठः

"https://sa.wikisource.org/w/index.php?title=धातुकाव्यम्&oldid=328597" इत्यस्माद् प्रतिप्राप्तम्