धात्वर्थनिरूपणम्
[[लेखकः :|]]

  धात्वर्थनिरूपणम्।
  ------------
  अवसरसङ्गत्या पूर्वानन्तरम्,उपजीव्यत्वादग्रिमात्पूर्वंधात्वर्थनिरूपणमित्याह - अथेति। - तत्र-- निरूपणीयधात्वर्थविषये।
  अत्र प्रभाकरानुयायिनः---फलमेव धात्वर्थो भावना तु वाच्यैव न, तद्विषयकशाब्दबोधस्य सर्वत्राननुभावत्। किन्तु लिङ्‌येव। परं सा आख्यातवाच्येति।
  तन्न। " कर्त्तरि कृद् " इत्यत एव कर्तृग्रहणस्य " लः कर्मणि " इत्यत्रानुकूलो व्यापारो धात्वर्थो यत्न आख्यातार्थः, धात्वर्थे कारकान्वय इति गुरुमतं " तत्तु समन्वयाद् " इतिसूत्रस्थवाचस्पत्यादिग्रन्थेभ्यो लभ्यमानं भूषणकारोक्तयत्नाख्यातार्थ्ववादिनैयायिकमतदूषणग्रस्तं, तदेतत् ध्वनयन्नाह - यत्नेति। अनेन सर्वत्र यत्नोऽर्थ इति सूचितम्। मण्डनमिश्रानुयायिमतं खण्डयति - यत्त्विति। ननु कर्त्तृपदस्य धर्मपरत्वेन तल्लाभोऽत आह - किञ्चपजतीति ।यत इति शेषः। एवमग्रे सर्वत्र यतासम्भवम्। नन्वियं सिद्धान्तेऽपि तुल्येत्यतं आह - किञ्चफूत्कारेति। इष्टापत्तौ आह - किञ्च सङ्केतेति। इमं दोषमुद्धरति - नचेति। वाच्यमित्यत्रान्वयः। नन्वेवं जानातेः सकर्मकत्वानापत्तिः, धात्वर्थज्ञानव्यधिकरणव्यापारस्य देवदत्तादावननुभवादित्यत आह - जानातावपीति। - विषयतया फले-- तत्सम्बन्धावच्छिन्नफले । - अन्यथा-- व्यापारतावच्छेदकसम्बन्धानिवेशे। - सम्बन्धेन-- कालिकादिना। - सर्वेषामेव---धातूनाम्। - कर्तृत्वमिति। अतएव घटम्भावयतित्यादौ कर्मणोऽति घटस्य घटो भवतीत्यादौ कर्तृत्वमेव। तत्राख्यातस्य धात्वर्थसमानाधिकरणकर्तृव्यापारमात्रार्थकत्वात्। कर्मत्वमपि प्रत्ययार्थव्यपाराव्यधिकरणधात्वर्थाश्रयत्वमेवेति सूचयन्नाह - घटमिति। - णिजर्थेति। प्रयोजकव्यापारेत्यर्थः। अन्तर्भावितण्यर्थेऽपि प्रत्ययस्यैव णिजर्थलक्षणेति न दोष इति भावः। इममपि दोषमुद्धरति - नचेति। अत्र व्यापार्सयानाक्षेपकत्वायाह - प्रधानेनेति। एतेन तत्रापि वैपरीत्यं निरस्तम्। ननु यास्कः अनाक्षेपबोधाशयको मतान्तरपरो वाऽत आह - किञ्चेति। - इत्यस्य--इत्यंशस्य। ननुक्तिरीत्या लाभेऽपि प्राधन्याय पुनः शास्त्रेण प्रत्ययार्थबोधनं, द्वावित्यादिवच्च न बोधावृत्ति, भाववत्तदनुवादकत्वं वा, तत्फलं प्राधान्यमेव, अत आह - कर्मेति। कर्मणि कृताम्, कर्मकर्त्तरि कृतां चेत्यर्थः। अत एव सामानाधिकरण्यम् ओदनस्य पक्तेत्यादौ कारकान्वयश्च । इष्टापत्तावाह - किञ्चेति। दोषान्तरमाह - किञ्च गुरुरिति। - अनापत्तिरिति। तदभावापत्तिरित्त्यर्थः। एवमग्रेऽपि। नचात्र फलं धात्वर्थो व्यापारानुकूलप्रयोजकव्यापारो ण्यर्थः, तत्र फलस्यानुकूलतयाऽऽद्यव्यापारेऽन्वयः , तिङस्तु कालसंख्ये प्रयोजकव्यापारश्चार्थः, द्वावित्यादिवन्न बोधावृत्तिः, प्रधानत्वाल्लः कर्मणीत्यादिसौत्रानुवादबलाच्च प्रयोजकव्यापारेणैव धर्मिण आक्षेपः। " अनभिहित " इत्यादेश्च शक्त्याक्षेपे साधारमाबोधित इत्येवार्थ इति न दोष इति वाच्यम्। " हेतुमति च " इति सूत्रेण तथाऽवलाभात्। अस्मद्रीत्याऽक्लेशेनैव सकलसामञ्जस्ये क्लिकल्पनानुपयोगादुक्तदोषग्रासाच्चेति दिक्। तदाह - इत्यन्यत्रेति। गुरुमञ्जूषायामित्यर्थः।। 1.1।।

   प्राजीननैयायिकोक्तिं खण्डयति - यदपीति। - कर्मेति। कर्मप्रत्ययापेक्ष्या बहूनां धातूनां फले शक्तिकल्पनस्य गुरुत्वात्। किञ्च धातोः फलबोधकत्वे नामार्थधात्वर्थयोराश्रयतासम्बन्धेन साक्षादन्वयासंभवेन फलाश्रयत्वस्य प्रत्ययार्थत्वे च वृत्तित्वं सम्बन्ध इति लाघवमिति भावः। आदिनोभयभिन्नेऽन्यसमभिव्याहारसंग्रहः। - त्याग इति। एकस्या एव संयोगविभागजनकत्वादित भावः। तत्र तत्र लक्षणायां सैव दोषोऽत आह - तत्रेति। चतुर्थ्योरित्यादेर्विधानेऽन्वयः। - कर्मेति। परच्यते तण्डुलः स्वयमेवेत्यादावित्यर्थः। समभिव्याहारस्य कारण्तवमपि दुर्वचमित्याह - त्यजतीति। ननु तत्पुरुषीयत्वनिवेशे नायं दोषोऽत आह - कार्यतेति। नैयायिकोक्तिं खण्डयति - यत्त्विति । फलावछिन्नव्यापावाचित्वे ग्रामङ्गच्छतीतिवाक्ययज्ञानघटितसामाग्र्याः। सामनविषयकानुमितिप्रतिबन्धकतायां फलावच्छिन्नव्यापारविषयकधातुजन्योपस्थितेर्निवेश्यतया तस्याः फलनिष्ठप्रकारतानिरूपितव्यापारविशेष्यताशालित्वेन व्यारारनिष्ठविशेष्यतानिरूपितफलप्रकारताशालित्वेन वा निवेश इत्यत्र विनिगमनाविरहात्सामग्रीप्रतिबन्धकताधिक्यमवच्छेदकगौरवं। मम मते द्वीतीयाजन्यफलोपस्थितेः सामग्यन्तर्निवोशो भवन्मतसिद्धतज्जन्योपस्थितिस्थानीय इति लाघवमित्यर्थः। यद्यपि धातोः फलवाच्छिन्नव्यापारे द्वितीत्यादिशाब्दसामग्यां सत्यां तादृशानुमित्यनुदयेन तदनुरोधात्तादृप्रतिबध्यप्रतिबन्धकभावस्य तवाप्यावश्यकत्वं तथापि वास्तवमेव साधिमाह - तत्तु तादृशेति। बाधकबुद्धेर्बोधसामान्ये प्रतिबन्धकत्वाभावस्य व्यवस्थापितत्वादिति भावः। प्रासाङ्गीकमाह - अनुमितीति। तयोः कार्थकारण भाव एव न, तं विनाऽपि तदुदयेन तस्य कारणताऽनुपयोगात्। यथा चानुमितिप्रकिया तथा प्रागेवोपपादिता। आदिना व्याप्तिज्ञानादि। - काकेति।
  काकस्य कति वा दान्ता मेषस्याण्डं कियत्पलम्। इत्यादिनेति भावः। इदमप्यभ्युपेत्योक्तम्। वस्तुतोऽसम्भव एवेत्याह - किञ्चेति। परमते मनसोऽणुपत्वादाह - मनोलिङ्गेति। परमताववलम्बनं विनाऽसम्भवादाह - आञ्जस्येनेति। सर्वथाऽसत्त्वं वारयति - अनुभवेति। तथाच परीत्येदं दूषाणम्। एवं यत्त्वितिमतं संखण्ड्य बोध्यमित्यन्ते प्रक्रान्तमते दोषान्तरमाह - किञ्चत्वयेति। - प्रत्ययार्थेति ।तदन्वितेत्यादिः । अकर्मकत्वं च तदभाव एवेति भावः। - धात्वर्थत्वेनेति। अन्वयव्यतिरेकाभ्यामित्यादिः। - लभ्यतयेति। गौरवेण चेत्यपि बोध्यम्। किञ्च विष्णुं यजते, विष्णुर्यष्टव्य इत्यदौ चुतर्थ्यविहित द्वितीयादेरुद्देश्यत्वेनैवान्वबोधकत्वाद्यजेरप्यकर्मकत्वापत्तिः। विष्णोर्धात्वर्थकर्मत्वाभावेन तस्मिन्कर्मणि लतव्यादेरभावापत्तिश्च। उद्देश्यताख्यविषयतया विष्णुर्यागविषय इति चेद्भोजनमभि यत्यर्थस्यापि सकर्मकत्वापत्तिः। नचाकर्मकभिन्नत्वं सकर्मकत्वं तत्र च प्रयोगानुरोधात्कृञ्‌जानात्यादिभेदो न विवेश्य इति वाच्यम्। सकर्मकाणामप्यर्थान्तरेऽकर्मकत्वेनासम्भवापत्तेः। तुल्ययुक्त्याऽकर्मकत्वमपि सकर्मकान्यत्वमेव वाच्यम्, अन्यादृशस्य तस्य दुर्वचत्वात्। एवञ्चान्योन्याश्रयापत्त्या " लः कर्मणि " इत्यादेरबोधकत्वापत्तिश्चेति दिक्। तदाह - इत्यन्यत्रेति। उक्तोऽर्थः। 1.2।।

   विशेषमाह - अत्रेति। धातुविषये इत्यर्थः। तत्रादौ प्राजां दीक्षितादीनां मतमाह - पृथगिति। नन्वेवं तयोरन्वयो न स्यात् भिन्नपदोपस्थितेस्तत्र तन्त्रत्वादत आह - एकेति। तथाच तत् धातुभिन्नविषयमिति भावः। इदम्परसंमतमपीत्याह - परेषामिति । ननु द्वितीयार्थाश्रयान्वयस्यैकदेशे फलेऽन्वयानुपपत्त्या न पृथक्‌शक्तिस्वीकारः " कर्मणि द्वितीया" इत्यनुशासनाद् व्युत्पत्तिवैचित्र्याच्च तस्य सौलभ्यादत आह - अन्यथेति। पृथक्शक्त्यनङ्गीकारे इत्यर्थः। - तथा --तेन रूपेण। शक्तिद्वकृततुल्यत्वेऽप्याह - गुर्विति। नन्वेवमपि फलाशयेन गमनं न व्यापार इति प्रतीत्यापत्तिरत आह - अत्रेति। पृथक्शक्तिपक्षे इत्यर्थः। अन्वयानां मध्ये इत्यर्थो वा। कर्मप्रत्ययतदन्यप्रयभेदेनाह - फलेति। अन्तरङ्गत्वं प्रथमोपस्थितत्वरूपम्। - अतएव--- फलस्य स्वातन्त्र्येणानुपस्थइतरेव। नन्वेवमपि व्यापारविशेषणकफवलाशयेन तथाप्रयोगापत्तिरेवात आह - फलांश इति। फलरूपोंऽशं इत्यर्थः। - उत्सर्गतः---कर्मप्रत्ययभिन्नस्थले। तथा च गमनपदतो व्यापारस्यैव तादृशस्य विशेष्यतया प्रतीतिर्न विपरीतस्येति न तदापत्तिरिति भावः। औत्सर्गिकमिदमिति सूचयितुमाह - क्वचित्त्विति। अप्रसिद्धत्वादस्य विषयमाह - यथेति। प्रसङ्गादत्रैव सिद्धान्तमतेन फलपदार्थमाह - फलत्वञ्चेति।प्रागुक्ते पत्ये शेते इत्यादौ वस्तुतोऽजन्य्तवादाह - जन्यातेचति। पर्णं पततीत्यादौ विभागजन्यसंयोगस्यैव धात्वर्थत्वे विभागे विशेष्यवत्त्वेऽपि न सत्यन्तम्, संयोगे तत्त्वेऽपि न विशेष्मित्युभयोपादानमित्याह - विभागेति। - विभागसयोगयोरिति। मिथ इति शेषः। कर्त्तृप्रत्ययेत्यस्य फलमाह - कर्मेति।। 1.3।।

   सिद्धान्तमाह - परेत्विति। परमेतेनैवाह - पृथगिति। तन्मते तत्र तस्यास्तन्त्रत्वादिति भावः। राज्ञः पुरुष इत्यादौ तदभावादाह - औत्सर्गिकेति। - तत्तद्बोधस्य- फलव्यापारोपस्थितेः। अव्यवस्थां निराचष्टे - कर्त्तृकर्मेति। ननु गुरुशक्यतावच्छेदकप्रयुक्तगौरवं प्राचोक्तमेव, अत आह - गौरवञ्चेति। इदमप्यभ्युपेत्य। वस्तुतस्तथाऽप्यत्र ततो लाघवमेवेत्याह - किञ्चैकेति। - अन्यथा -- तृतीयकल्पनानङ्गीकारे। - अन्यत्रापि---जातिव्यक्त्यादावपि ।।1.4।।

   यत्तु कर्मान्यसर्वसाङ्त्यं तद् ध्वनयन्नाह - सर्वेति। साधुत्वमष्टकस्य क्रिययैवेति प्राचाम्, कारकामां भावानान्य इति परेषां च सिद्धान्तोऽपि धात्वर्थपर एवेत्याह - धात्वर्थे इति। फलावच्छिन्नव्यापारादावित्यर्थः। साक्षात्परंपरया वा यथाकथंचिदिति भावः। धात्वर्थे वक्ष्यमाणस्वरूपे क्रियाशब्दस्य सांकेतिकी शक्तिरित्याह - अयमेव चेति। एवेन मतान्तरव्यवच्छेदः। निर्मूलत्वनिरासायाह - भूवादीति। भाष्यसिद्धान्तार्थेत्यर्थः। तत्र हि---" क्रिया नामेयमत्यन्तारदृष्टा" इत्याद्युक्तम्। द्वितीयकारिका बुद्धिस्थत्वादिरूशक्यतावच्छेदकानुगमकबोधिकानतु क्रियास्वरूपबोधिकेति भूषणाद्यसांगत्यं ध्वयन्नाद्ये धर्मविशेषाद्युक्तवपि तत्स्वरूपानुक्त्या व्यत्क्रमेण व्याचष्टे - क्रमेत्यादि । क्रमेण जन्म येषां तेषाम्। एषां बुद्धिस्थानामधिश्रयणादीनां समूह इत्यत्रान्वयः। प्रत्यासत्त्या आह - समूहं प्रतीति। गुणभूतैरित्यसङ्गभूतैरित्यर्थः पौनरुक्त्तापत्तिरतो गुणशब्दो धर्मपरः, भूतशब्दो ` ये प्राप्त्यर्था ' इत्युक्तेर्ज्ञानपरो वर्तमानक्तान्त इत्याह - तत्तद्रूपेणेति। प्रकल्पितेत्यत्र कर्मधारयो न तु भूषणाद्युक्तो बहुव्रीहिरित्याह - प्रकल्पिताभेदरूप इति। विरोधं परिहरति - अत्रेति। क्रियालक्षणे इत्यर्थः। अत एव सरूपसृत्रस्थाभाष्यविरोधो नेत्याह - एतेनेति। समुदायाश्रितैकत्वेनेत्यर्थः। - बुद्ध्येत्युक्तमिति। - प्रल्पितेत्यत्र कर्मधारयो न तु भूषणाद्यक्तो बहुव्रीहिरित्याह - प्रकल्पिताभेदरूप इति। विरोधं परिहरित - अत्रेति। क्िरयालक्षणे इत्यर्थः। अत एव सरूपसृत्रस्थभाष्यविरोधो नेत्याह - एतेनेति। समुदायाश्रितैकत्वेवनेत्यर्थः। - बुद्ध्येत्युक्तमिति। समूहेऽपि तस्या अन्वयः। समूहव्यहारो बुद्धिकृतो विकल्परूप एव न वास्तवः। तथा च पूर्वापरीभूतावयवा साध्यमानावस्था भूतभविष्यद्वर्त्तमानसदसदेनेकावयवसमूहरूपैका क्रियेत्यर्थः। मतद्वयसाधारण्येनाह - त्प्रकारेणेति। प्रकारो भेदः। नन्वेवं प्रत्येकाशयेन रचतीति न स्यादत आह - एकैकेति। तदुक्तम्----
    एकदेशे समूहे वा व्यापाराणां पचादयः।
    स्वभावतः प्रवर्तन्ते तुल्यरूपं समाश्रिताः।। इति।
   कैयटमतेनाह - समूहेति। अधिश्रयमएत्युपलक्षणम्। वस्तुतस्तु अधिश्रयमादिरपि नैकक्षणात्मकस्तस्यापि हस्तप्रसारणपात्रादानचुल्लीसंयोजनादयो नैकक्षणात्मकस्तस्यापि हस्तप्सारणपात्रागानुल्लीसंयोजनादयोऽवयवाः सन्त्येवेति सोऽपि समूहरूप एव। यस्तु तेषामप्यवयवः परमाणुप्रख्यः स तु शब्दशक्तिस्वभावान्नेव वाच्यो नापि प्रत्यक्ष इति बोध्यम्। अत एव मतद्वयसाधारण्येनाह - अध्यासेति - एवम्---अध्यस्तस्य धातुवाच्यत्वे। - ईदृशस्य---अध्यस्तस्य। तस्य सम्बन्धिशब्दत्वादिति भावः। एतेन यदनन्तरमव्यवधानेन फलोत्पादः। सा क्रिया यथा तण्डुलं पचतीत्यत्र विक्लेदनम्। अधिश्रयणादीनां तज्जनकतया क्रियात्वमौपचारिकम्। तदुक्तम्----
  अनन्तरं फलं यस्याः कल्पते तां क्रियां विदुः।
  प्रधानभूतां तादर्थ्यादन्यासां तु तदाख्यता ।। इति
   इत्यपास्तम्। तदा तस्य गौणतापत्तेः। आरब्धेऽपि पाके क्रियाया भावित्वेन पक्ष्यतीति प्रयोगापत्तेश्च।
     जातिमन्ये क्रियामाहुरनेकव्यक्तिवर्त्तिनीम्।
     असाध्या व्यक्तिरूपेण सा साध्येवोपलक्ष्यते।। इति---
   हर्युक्तेराह - यद्वेति। पचतीत्यनुगतव्यवहाराच्च तत्सिद्धिः। ननु तदभिव्यञ्जकत्वं प्रागुक्तरीत्या दुर्वचमत आह - स्फोटवदिति। नन्वेवमपि फलस्य कथं तदन्तर्गतस्य क्रियात्वं तथाप्रतीत्यभावादत आह - फलस्यापीति। - तथैव--- तादृशसमूहरूपतयैव।। 1.5।।

   - तत्र---क्रियाशरीरघटकसाध्य्तवविषये। तत्रादौ भूषणकारादिमतमाह - केचिदिति। तत्राप्यादौ व्यावर्त्त्यतया वक्तव्यमाह - सिद्धत्वमिति। - वैजात्यम्--- सत्त्वभूतत्वम्। - पूर्वापरीति बहुव्रीहिः। आदिना सम्बोधनान्तादिसप्तकपरिग्रहः। इदमेव परोक्तमित्याह क्रियान्तरेति। - यद्वेजत्यम्-- आसत्त्वभूतत्वम्। नन्वेवं हिरुगाद्यव्ययानां क्रियाप्राधान्तवव्यवहारस्य " तद्धितश्च " इतिसूत्रे भाष्ये क्रियमाणस्यानुपपत्तिस्तदर्थस्य तत्त्वेनाबानादत आह - हिरूगदीति। - क्रियामात्रेति। क्त्वान्तादिवदित्यादिः। तथा च गौणस्तत्रव्यवहार इति भावः। मात्रव्यवच्छेद्यमेवाह - स्वरादीनां त्विति। अतएव वैलक्षण्यसूचकस्तुः। अपिना स्वः पश्येत्यादौ क्रियासमुच्चयः। ननूक्तभाष्यात्तदर्थस्य तत्त्वमेवास्त्विति किमर्थं तस्य गौणत्वमत आह - अत एवेति। - तेषाम्-- हिरुदद्यर्थानाम्। आकाङ्क्षाचेतिपाठः। उभयोरुभयं व्यावर्त्त्यं क्रमेण। तथा च क्रियान्तराकाङ्क्षानुत्थापकतावच्छेदकवैजात्येनाभानान्न तस्य तत्त्वमिति भावः। - तत्र--- तयोर्मध्ये । अत एवोक्तम्---
    साध्यत्वेन क्रिया तत्र धातुरूपनिबन्धना।
    सिद्धभावस्तु यस्तस्याः स घञादिनिबन्धनः।। इति।
  - चेदिति। भुक्त्वेत्यत्रापि धातुसम्बन्धे विधीयमानक्त्वासमभिव्याहारात् सा। पचति भवतीत्यदौ पचतीत्यादेराकाङ्क्षाया अभावेऽपि भवतीत्यदेः कर्त्राद्यपेक्षत्वाद्योग्यतावशादन्यतराकाङ्क्षयैवान्वयेन न दोष इति बोध्यम्।। 1.6।।

  सिद्धान्तमाह - वस्तुत इति। यौगिकोऽर्थ इत्याह - निष्पाद्येति। उत्पाद्यमानत्वमेवेत्यर्थः। एवेनोक्तव्यवच्छेदः। सिद्धान्ते " प्रातिपदिकानामपि " इतिभाषअयोक्तदोष ` स्वभावसिद्धं तु द्रव्यम् " इतिभाष्योक्त्यैव परिहर्त्तुमाह - यद्यपीति। - स्वतस्तु-- तदसमभिव्याहारेतु ननु स्थूलरूपस्य द्रव्यस्य सिद्धत्वं बाधितमेवात आह - सिद्धत्वञ्चेति। सत्कार्यवादादाह - यद्यपीति। - तथा-- सूक्ष्मरूपेण। - द्रव्यस्यत्विति। एतेनोक्तभाष्यस्य " द्रव्यं स्वभावेन शब्दशाक्तिस्वभावेन सिद्धं सूक्ष्मरूपेण सिद्धावस्थमेव शब्दवाच्यम् " इत्यक्षरार्थः सूचितः। तथाच क्रियायास्तत्त्वेऽपि शब्दवाच्यत्वं तथा नेति भेद इति भावः। केचिन्मते दोषमाह - पचतिभवतीति। पचतीत्यस्यानाकाङ्क्षत्वादाह - भवतीति। अत्र क्रियात्वेन तदभावेऽपि कर्त्तृत्वेन साऽस्त्येवेत्याह - क्रियाकाङ्क्षेति। आदिः प्राग्वद्‌ भुक्त्वेत्याद्यशयकः। दोषामन्तरमाह - एवमिति। अपिः क्त्वाऽऽदिसमच्चये। - तथेति। उत्थापितक्रियाऽऽकाङ्क्षायामित्यर्थः। स्वमतेऽत्रापि न दोष इत्याह - हिरुगिति। पञ्चमीयम्। वर्जनादेरितिशेषः। - नेति। तदर्थे इति शेषः।
  एतेन `नच साध्यत्वेनाभिधाने मानाभावः, पचति पाकः करोति कृतिरित्यादौ धात्वर्थावगमविशेषेऽपि क्रियान्तराकाङ्क्षानाकाङ्क्षयोरर्दर्शनस्यैव मानत्वाद् ' इत्यपि तदुक्तमपास्तम्।
  " ज्योतिष्टमेन यजेत " इत्यादौ यथाऽत्र पक्षे न दोषस्तथाऽग्रे स्फुटीभविष्यति तदाह - दिगिति।। 1.7।।

   - तत्र--- तयोर्मध्ये। - कारिकाभ्याम्--- सर्वानुभवसिद्धार्थप्रदर्शिकाभ्याम्। एवेन सामान्यरूपव्यच्छेदः। तमेवाह - अतएवेति। अन्यथा सामान्येन बोधेऽपि विशेषरूपेणाबोधेनैकतरकोटिनिश्चयाभावेन सन्देहापत्तिरिति भावः। - इष्टमेवेति।
  एतेन तदादिन्यायेन बुद्धिस्थत्वादेः शक्यताच्छेदकानामनुगमकस्य सत्वात्तत्वं नेति तदुक्तमापास्तम्।
  - तत्र । तेषां व्यापाराणां मध्ये। - यः --- व्यापारः। अनेनाव्यवस्था निराकृता। - अतएव-- तदैव तदाश्रयस्य कर्त्तृत्वादेव।
  एतेन काष्ठक्रियाया वाच्यत्वे तृतीया न स्याद्, अवाच्यत्वे प्रथमा न स्यान्नियमतस्तृतीया स्यादित्यपास्तम्।
  धातुत्वादीति। आदिना परस्मैपदित्वादि।
    एतेन कृत्यन्यव्यापारे प्रतीयमानत्वेन तत्र सर्वसाधारणधातुत्वमेव शक्तताऽवच्छेदकमित्यप्यपास्तम्।
   उभयथा दीक्षिताद्युक्तिं खण्डयति - एतेनेति। मात्रं कार्त्स्ये। नानार्थत्वाभावायेदमुक्तं तैः। स च क्रियात्वं धातुवाच्यात्वसमानाधिकरणो जातिविशेषः। स च क्रियापदशक्ततावच्छेदकत्वादिना सिद्धः। जलपदशक्यतावच्छेदकतया जलत्वजातिसिद्धेर्लोलावत्युपाये दर्शनात्। प्रत्यभिज्ञाऽनुगत्वायवहाराभ्यां जातिसिद्धेस्तद्वाच्वतायाश्च सरूपसूत्रे भाष्ये उक्तत्वाच्च। तद्‌घटकधातुत्वं च जातिविशेषः। तत्परिचायकं च भूवादिसूत्रमिति तात्पर्यम्। सर्वधातुभ्यः सर्वक्रियाबोधापत्तिवारणायाह - तत्तदूपेणचेति। तथाच पचतीत्यादिसमभिव्याहारस्य तत्तद्‌बोधनियामकत्वमिति तात्पर्यम्। एतेनेत्यस्यार्थमाह - गौरवादिति। उभयकल्पनात इत्यर्थः। दोषान्तरमाह - तादृशेति। सामान्यरूपेत्यर्थः। - उदृष्टमात्रार्थत्वाच्चेति। तत्त्वापत्तेश्चेत्यर्थः। समभिव्याहारस्य बोधनियाकमकताया विषयासम्बद्धे बोधकत्वानुपपत्त्या दुर्वचत्वेन तथासम्बन्धकल्पनायास्तवाप्यावश्यकत्वादिति भावः।
  किञ्च तेन रूपेण बोधाननुभवात्। किञ्च तत्तद्रूपेण बोधस्यैवानुभवाच्च।
  एतेन सकलसाधारणानुगतैकधर्मान्तरस्य वक्तुमशक्यत्वेऽपि विक्लित्त्यानुकूलत्वमेव तथेत्यप्यपास्तम्। अतिप्रसक्तस्य शक्यतानवच्छेदकत्वाच्च। प्रामाणिकत्वाच्च नानाक्तिकल्पनान दोषाय। अन्यथा सैन्धवादिपदशक्यतावच्छेदकतयाऽश्वलवणादिवृत्त्येकधर्मकल्पनाऽऽपत्त्या तत्रापि तत्त्वोच्छेदापत्तिः। अश्वत्वादिनैव तत्प्रतीतिरनुसिद्धेति चेत्। प्रकृतेऽपि समम्। अत एव विभुपदशक्यतावच्छेदकतया न विभुत्वजातिसिद्धिः। परममहत्परिमाणत्वेनैव सर्वमूर्त्तसंयोगित्वैनैव वा ततो बोधादिति दिक्।
   ननु तत्तद्रूपेण शक्तौ फूत्कारं निनाऽपि चैत्रनिष्ठक्रियान्तरेण सिद्धज्वालया जायमाने ओदने `चैत्रः पचति' इति प्रयोगो न स्यादत आह - फूत्कारेएवेति। एवेन तत्रापि तत्त्वे तु तस्येष्टत्वं सूचितम्। इदं तवाप्यावश्यकमित्याह - फूत्कारेति। नन्वेवमपि तथा सति यागइच्छा ज्ञानं वेति वादिविप्रतिपत्तिर्न स्यादन्यतरकोटिनिश्चयसत्त्वादत आह - यागइति। - तत्तत्पुरुषीयेति। स्वीयेति पाठान्तरम्। नह्ययं संशयो येनैकस्य कोटिद्वयज्ञानापेक्षेति भावः। इदं दोषद्वयं मीमांसकन्वयोक्तं बोध्यम्। नन्वेवमपि तथा सति सामान्यरूपेण बोधः कादाचित्को न स्यादत आह - धातूनामिति। एतेन लक्षणया स इत्यपास्तम्। नन्वेवमपि फूत्कारस्यातीतत्वमात्रेण व्यापारान्तरवर्त्तमानतादशायामपाक्षीदिति स्यादत आह - फूत्कारेति। - भूतत्वादेरिति। इदमग्रे स्फुटीभविष्यति।। 1.8।।

   नन्वेवमस्त्यादीनां धातुत्वनानापत्तिस्तेषां सत्तामात्रार्थत्वेन व्यापाररूपक्रियावाचकत्वाभावादात आह - अस्तीति। - आत्मेति। क्रियास्वरूपऊभूत इत्यर्थः। यत्रेदं कालदर्शनमस्या आत्मभूतः क्रमोऽप्यस्तीत्यन्वयः। तदेवाह - पौर्वोति। आदिना समूहत्वम्। अत्र प्रागुक्तिविरोधादाह - यद्वेति। - आषष्ठादित्याङ्‌ मर्यादायाम्। जनननानन्तरमिति बोध्यम्। यद्यप्युत्पत्तिविनाशयोरपि सूक्ष्मरूपेण वस्तुनो भावस्तथापि तद्वारणायाह - सदिति। विशिष्टस्वरूपमाह - तद्विषयेति। स्वस्वरूपेति पाठः। तदेव स्पष्टयति - आ्तमेति। सदित्युक्तेः फलमाह - साचेति। आषष्ठादित्यक्तेः फलमाह - म्रियताविति। - अत्र --चतुर्षुष। - स्पष्टं चेदमिति। द्वितीयमतमित्यर्थः। तत्रहि--- " कारकाणां प्रवृत्तिविशेषः क्रिया" इति सिद्धान्ते भोजनक्रियाणां मिथो वैलक्षण्याद्यर्थं प्रवृत्ितविशेषरूपत्वं नैवमस्त्यादीनामिति तेषां धातुत्वासिद्धिरिति शङ्कानिरासायोक्तम्, " यद्येवं सिद्धाऽस्त्यादीनां धातुसंज्ञं । अन्यथा हि कारकायम्यस्तौ प्रवर्त्तन्ते अन्यथा हि म्रियतौ " इति। कारककर्त्तृकास्तौ वाच्यत्वेन स्थिता प्रवृत्तिरन्यथेत्यादिरक्षरार्थः। तदुक्तं - म्रियताविति। तत्र तद्धारणं स्थूलस्वरूपधारणम् । एवं च म्रियत्यपेक्षया प्रवृत्तिविशेषरूपताऽस्त्येवास्त्यर्थस्येति तत्सिद्धिरिति तात्पर्यम्। " षड्‌ भावविकारा इति ह स्माह वार्प्यायणिर्जायते,ऽस्ति, विपरिणमते, वर्द्धतेऽपक्षीयते, विनश्यतीति " तदग्रिमभाष्यं तु अस्त्यादीनां क्रियावाचकत्वे युक्त्यन्तरबोधनपिमिति ध्वनयन्नाह - तदुक्तिमिति। - वार्ष्यायणिः। आहेति शेषः। तद्भाष्यग्रन्थमाह - भावस्येत्यादि । - एतेक्रियाप्रकाराः । निरुपपदेत्यस्य फलमाह - अन्यत्रेति। अस्यैव व्याख्या - प्रधानादिष्विति। आदिना ईश्वरभाव इत्यादि। अतोन ते केवलभावशब्दवाच्या इत्यर्थः। - भारते---मोक्षधर्मेषु। - कृत्स्त्रमिति।
   प्रतिष्ठास्यति ते वेदः सोत्तरः सखिलो द्विज।----
  इत्यादिः। - भविष्यतीति।
  प्राप्स्यते व्यपदिष्टं तत्साख्ययोगेप्सितं पदम्।-----
  इत्यन्तः। पूर्वत्वस्य सापेक्षत्वादाह - षडिति। - जनेः-- उत्पत्तिरूपभावस्य । - आदिः---प्रारम्भः। तथा सति न्यूनतां निराचष्टे - आदिमित्युपेति। - अपवर्गस्तत्समाप्तिः। तदाह - जात इतीति। अव्यवहितत्वादाह - अस्त्याखायमिति। ननु तदा तस्यासत्त्वादेव नाख्यानमत आह - असतइति। अन्यथा शशशृङ्गादेरप्युत्पत्त्यापत्तेरिति भावः। नन्वेवं तेन तन्निषेध एवोच्यतामत आह - नापीति। सत्त्वस्येत्यस्य व्याख्या- सत्तावत इति। सूक्ष्मरूपतया तस्याः पूर्वमपि सत्त्वादाह - तादृशेति। उत्पन्नेत्यर्थः। नात्रावधारणं निश्चय इत्याह - धारणमिति । एवं च ब्रह्मसत्तैवानेकक्रियाविवर्त्तात्मिका कारकैः संबन्धादवसीयमानसाध्यस्वरूपा जन्मादिरूपतया भासते इति तस्यापि तत्त्वमिति भावः।। 1.9।।

  नन्वेवं घटं करोतीत्यादाविव घटोऽस्तीत्यादावपि स्पष्टं कुतो न बुध्यत इति, अत आह- भावनेति। क्रमो जन्यजनकयोरिति तत्त्रमेण पूर्वनिपातः। तथाचास्यास्तत्सामानाधिकरण्यं तत्स्पष्टत्वे दोष इति भावः। एवं तदर्थस्य क्रियात्वे भाष्याद्युक्तप्रकारेण साधिते सामान्यविशेतया प्रश्नोत्तरभावेन सामानाधिरण्यं पच्याद्यर्थस्य क्रियात्वसाधकं भाष्याद्युमप्यत्राव्यापकमस्तीत्याह - आसन्नेति। - प्रश्ने--- कृते इति शेषः। - उत्तराच्च--- उत्तरस्य सर्वसंमतत्वाच्च। एनेनैवं सति किं करोतीति प्रश्ने पचतीत्युत्तरवदस्तीत्युत्तरमपि स्यादित्यपास्तम्। नन्वेवमन्यत्रापि तथा कुतो न, अत आह - अन्यत्रेति। आसन्नविनाशभिन्न इत्यर्थः। वस्तुतस्तद्भिन्नेऽपि तत्त्वेनाज्ञातेऽपि तस्येष्टत्वादाह - सुस्थतयेति। इदमपि तत्रैव भाष्ये स्पष्टम्। लौकिकवच्छास्त्रीयमपि अव्यापकं तस्य तत्त्वसाधकमस्तीत्याह - किञ्चव्यतीति। षत्वस्य सामर्थ्यादपि सिद्धिरित्याशयेमाह - कर्त्तरीति। तत्र बीजमाह - कर्मेति। चो यत इत्यर्थः। लक्ष्यानुरोधकृत्रिमस्यैव तस्य तत्र ग्रहणमिति भावः। एवं लडादिव्यवस्थाऽपि तस्यापि तत्त्वसाधिका भाष्येऽष्येवमित्यादिनोक्ता बोध्या। अन्योऽपि तस्यार्थ इत्याह - घटइति। अत्र तु प्रवृत्तिविशेषरूपपक्रियात्वं स्पष्टमेव। अत्र मानम्----
   रोहितो लोहितादासीद् धुन्धुस्तस्य सुतो भवद्।
  इत्यादि। ननु ततस्तत्त्वेनाभिधनेऽपि धर्मरूपत्वेनैकत्वात्पूर्वापरभावाभावेन कथं तत्त्वमत आह - पातञ्जलेति। - तत्रेति। स्थूलरूपप्रतिपत्तिरूपसत्तायां तत्प्रतिपत्तिप्रापकचैत्रनिष्ठव्यापारेत्यर्थः। - तस्याः-- तत्सत्तायाः। भेदस्यासिद्धिन्तत्वादाह - भाव इति। सिद्धावस्थापन्नधात्वर्थ इत्यर्थः। ताश्च----
    निष्क्रियं निष्कलं शान्तं निरवद्यं निरञ्जनम्।
    अमृतस्य परं सेतुः साक्षी चेता केवलो निर्गुणश्च।।
    इत्यादयः।
    कारणं परमेशानो यः शुद्धोऽप्युपचारतः।
   इत्यादिस्मृतिरप्यनुसन्धेया ।- तस्य--- भावत्वस्य। प्रागुक्तरीत्या आह - शुद्धेति। - अन्यत्रेव --" तत्त्वमसि" इत्यादाविव। - विषेधेति।" नेह नानाऽस्ति" इत्यादीत्यर्थः। प्रागुक्तमेव द्वितीयमतमाह - निषेधेति। - एवमेव--- आरोपेणैव। आदिना सङ्ख्या।।1.10।।

   प्राचामनुरोधेन सिद्धान्तेऽसत् तावदाह - सकर्मकत्वं चेति। केवलफलस्य व्यापारस्य वा वाच्यत्वे क्वचिदकर्मकलक्षणाव्याप्तेराह - यद्वेति । एवं चाद्ये एव तात्पर्यं द्वीतीयं त्वर्थलब्धमिति भावः। - यथेति। तत्र समानाधिकरणम् उभयं वाच्यमिति तत्र तद्व्यधिकरणत्वाभावप्रयुक्तस्तदभाव इत्यर्थः। - अन्यथा--- व्यापारस्य तत्रावाच्यत्वे फलस्यैव वाच्यत्वे। ऊर्ध्वदेशसंयोगरूपोत्थानस्यैव तत्र धात्वर्थतया तत्रैव भूतत्वेन क्तो वाच्य इति तस्य विद्यमानत्वे तत्त्वाभावात् " गत्यर्थाकर्मक ---" इति भूते कर्त्तरि क्तो न स्यात्तदाह - उत्थित इति। - मम तु--- तत्रोभयवाचकत्वाङ्गीकर्त्तुः। - तस्य--- ऊर्ध्वदेशसंयोगस्य। नन्वेवं व्यापारस्यैव तत्र वाच्यत्वमस्तु न तस्यात आह - एतएवेति। तस्यापि वाच्यत्वादेवेत्यर्थः। एवेन केवलव्यापारवाचकत्वमकर्मकत्वं फलव्यापारोभयवाचकत्वमेव सकर्मकत्वमित्यपास्तम्। लक्षणान्तरकरणफलं प्रतिपादयन्नाह - क्वचिदिति। तदभावप्रयुक्त एव तदभाव इत्यर्थः। अस्य लक्ष्यमाह - एवंचेति। केवलेत्यनेन तस्याव्यापारत्वमेव न फलत्वम्, प्रागुक्तफलत्वस्य तत्र दुर्वचत्वादिति सूचितम्। एवेन प्रागुक्तयद्वेतिमतनिरासः। भाष्यादेसत्वत्रापि सुयोजत्वेन तदविरोधान्निरुक्तविरोधं परिहरति - निरुक्तइति। सत्तावत इति तद्भाष्योक्तो नार्थ इत्याह - द्रव्यस्येति। एतच्छास्त्रपरिभाषालब्धस्येत्यर्थः। - स्वरूपेति। एतेन भाष्यकैयटार्थोऽपि सूचितः।- तस्या अपि --- सत्तया अपि। तस्यापीति पाठे सत्तादेरपीत्यर्थः। - उपपादितमिति। यद्वा सत्कार्येत्यादिनेत्यर्थः। अतएव सत्तायामिवेत्यादिनाऽपुनरुक्तिः प्राक्। एवं च फलावच्छेन्नव्यापारो धात्वर्थ इति प्रागुक्तं प्रायिकमिति बोध्यम्।
  साक्षाद्यभिचारेण धात्वर्थो यत्र कर्मभाक्।
  सकर्मकः स धातुः स्यात्पारंपर्ये त्वकर्मकः।। इति।----
 भावार्थाधिकरणस्थभट्टोक्तिफलितं जीवत्याद्रिवारकं मीमांसकमतं खण्डयति - यद्धात्विति। तदर्थस्येति शेषः। तदन्यत्वमकर्मकत्वमिति त्वर्थाल्लब्धम्। साच समार्थकेष्वपिधातुविशेषोपनिबन्धाना यत्रास्ति स सकर्मकः । एवं च कृञो यतेरिव यत्नमात्रार्थकत्वेऽपि न दोषः। कर्मत्वादिपदोपस्थाप्यस्य क्रियाकाङ्क्षत्वाभावेऽपि द्वितीयोपस्थाप्यस्य तत्सकाङ्क्षत्ववत् कृञुपस्थाप्यस्य यत्नस्य कर्माकाङ्क्षोपपत्तोरिति तद्भावः। अविवक्षितकर्माव्याप्तिनिरासाय वक्ष्यमाणविशेषणमप्यत्र बोध्यम्। एवमेकस्यैवार्थभेदेन सकर्मकत्वमकर्मकत्वं चोपपन्नम्। यदर्थेऽविवक्षाभावविशिष्टकर्माकाङ्क्षा यस्य स तत्रार्थे सकर्मक इत्यनुगतस्यैव लक्षणत्वादिति तद्भावः। पचतीत्यादौ सत्त्वेऽपि अन्यत्र नेत्याह - गच्छत्यादीति। सर्वधातूनां यत्किञ्चित् फलादिवाचकत्वेन तत्त्वापत्त्या स्वराथफलेत्यादिवाच्यमित्यननुगमापत्त्याऽकर्मकभिन्नत्वं तद्वाच्यं तत्र प्रयोगानुरोधाज्जनानात्यादिभेदो न निवेशनीय इति न तेषु व्यवहारभाक्तत्वमिति नैयायिकमतं खण्डयति 8 अकर्मकेति। तान् क्रोडीकृत्यैतदन्यतमत्वमकर्मकत्वं तदन्यत्वं सकर्मकत्वमिति वाच्यमित्यर्थः। स्वस्मिन्स्वभेदासम्भवादाह - असम्भवेति। - सकर्मकेति। स्वरूपनिर्देशपरमिदं न तु लक्षणान्तर्गतम्। तान् क्रोडीकृत्यैतदन्यतमत्वं सकर्मकत्वं तदन्यत्वमकर्मत्वमिति वाच्यमित्यर्थः। एतेनेत्यस्याद्येऽसम्भवेनेत्यर्थोऽन्त्येऽव्याप्तिदोषेणेत्यर्थः।। 1.11 ।
 
  योगार्थानुरोधेन सिद्धान्तमाह - वस्तुतस्त्वित्यादि। प्रत्यासत्तेस्तन्त्रान्तरस्थतद्वारणायाह - एतदिति। पूर्वसकर्मकलक्षणे दोषं सूचयन्नाह - तेनेति। एतदङ्गीकारेणेत्यर्थः। ` मास आस्यते' इत्यस्य तत्रापि सिद्धेराह - आध्यासिता इति। सकर्मकत्वेन कर्मणि भूते " निष्ठा " इति क्तः । तेनासिद्धिं सूचयन्नाह - अत्रेति। नन्वेवं जीवत्यादिषु ` प्रामान्धारयति ' इत्याद्यर्थेनातिव्याप्तिराद्यस्यात आह - अन्वयश्चेति। तथोपस्थितेन यः संसर्गस्तद्रूप इत्यर्थः। आदिना नृत्यादि। प्रकृताशयेनाह - धात्वर्थादिति। - स्पष्टंचेदमिति। तत्र हि--- इच्छाक्यजन्ताद् भावकर्त्रधिकरमादौ प्रत्ययेऽपि न कर्मणि, यतः " अभिहितं तत्कर्मान्तर्भूतं धात्वर्थः सम्पन्नः। नचेदानीमन्यत्कर्मास्ति येन सकर्मकः स्याद् " इत्याक्तम्। जीवत्यादिवदिच्छाक्यजन्तस्याकर्मकत्वात्सः। तत्र पूर्वसकर्मकलक्षणे त्वयमपि दोषः। प्राणधारणगात्रविक्षेपादिफलस्य तत्र सत्त्वात्तस्य व्यापारव्यधिकरणत्वाच्चेति सूचयन् भूषणोक्तवारणप्रकारे दोषमाह - पूर्वेति। - एतदर्थम्---अत्रातिप्रसङ्गवारणार्थम्। - फलम्--- प्राणधारणादि। - तदाश्रयः---प्राणादि। प्रागुक्तलाघवमत्रापि, इति न तदभावप्रयुक्तगौरवमित्याह - अत्रेति। अत्रापीत्यर्थः। प्रसङ्गात्कैयटमपि दूषयितुं तन्मतमुपपादयति - नचेति। अर्थभेदाच्छब्दभेद इति भावः। - दर्शनेन--- तत्त्वे सतीति शेषः। प्रत्ययो ज्ञानम्। - स्पष्टं चेदमिति। तत्र हि ---" अकर्मकग्राहक---' सिद्धंतु कालकर्मकाणामकर्मकवद् " इत्यतिदेशखण्डक---" अकर्मकाणामित्युच्यते। न च केचिदपि कालभावाध्वभिरकर्मकाः। त एवं विज्ञास्यामः क्वचिद्येऽकर्मका इति " इतिभाष्ये अविवक्षितकर्मतया तत्त्वमाशङ्क्य, सर्वथा कर्मशून्यानामेवेह शास्त्रे तेन ग्रहणं न त्वविवक्षितकर्मणामपि अन्यथा पचादेस्तदविवक्षायां भावे लाद्यापत्तिरति समाधाय, ` अकर्मकशब्दस्य च धातवोऽन्यपदार्थत्वेनाश्रीयन्ते न त्वर्थाः। अर्थाश्रयणेहि कर्माविवक्षायामर्थस्याकर्मकव्यपदेशः स्यात्। धातुषु त्वाश्रीयमाणेषु क्वचिदपि कर्मसम्बन्धदर्शनेन सारूप्यात् ` त एवैते' इति तत्त्वप्रत्ययविषया नाकर्मकत्वेन व्यपदिश्यन्ते। अर्थास्तु कारकदिभेदाद्भिन्ना एवेत्यन्ये सकर्मका अन्ये एवाकर्मका इति सायद्व्यापदेशः। यदा तु ` अर्थस्यापि स्वतो नास्ति भेद ' इतिदर्शनं तदाऽर्थेष्वन्यपदार्थेष्वदोष इति ' तदुपपादितं तेन। - मातुरिति। तत्रहि ----" कर्मादिष्वकर्मकवद् " इति वार्त्तिकखण्डजनायेत्थम् उक्तम्। तमुपपादयति - तत्रहीति।यत इत्यर्थः। दोषान्तरमाह तत्र - धातोरिति। कर्मण इत्यस्य पूर्वैस्त्रिभिः संबन्धः। अनार्षत्वायाह - अभियुक्तेति। अकर्मकेतिबहुव्रीहिः। पृथक्त्वमाद्यापेंक्षयेत्याह - भवद्रीत्यति। कैयटरीत्यैव। तत्र दोषान्तरमाह - किञ्चविशेषणेति। नचेतिशेकोक्तिरीत्या। तद्दातुराशयमाह- यदित्विति। - उक्तेति। शंकोक्तरीत्येत्यर्थः। तेषु फलवाचकत्वाभावादेवेति यावत्। कैयटोक्तरीतिस्तु चिन्त्यैव। " लः कर्मणि " इत्यादावेव दुर्वचत्वात्। कृतपूर्वो्तयादौ क्तस्याविवक्षितकर्मतया भावे साधनस्य " कर्त्तृकर्मणोः " इति भष्यादौ स्पष्टत्वात्। अकर्मकेत्यादि तदुपपादनमप्ययुक्तम्, कर्मसंज्ञाया अर्थसंज्ञात्वेनार्थानामेवान्यपदार्थत्वस्यौचित्यात्। अर्थस्यापि स्वतो नास्ति भेद इति मतमप्ययुक्तम्, धातुनां नानार्थत्वोच्छेदापत्तेः। भाष्याशयस्त्वनुपदमेव स्फुटीभविष्यतीति बोध्यम्। अथ पूर्वसकर्मकलक्षणसाधारणमत्र दोषान्तरमाह - किञ्चेति। - अलाभात्--- तेन रूपेण ततोऽप्कतीतेः। ननु गोः सास्नादिमत्त्ववदिदं तल्लक्षणमत आह - लक्षणत्वेऽपीति। अनुभवोऽपि तथा नेत्याह - तथेति। - तत्करणेति। लक्षणकरणेत्यर्थः। सिद्धान्तमुपंसहरति। - तस्मादिति। योगशक्त्यैव तादृशार्थलाभ इति भावः।। 1.12।।

     ननु सिद्धान्ते कथं कारिकास्थतदविवक्षासङ्गतिरत आह - कारिकायामिति। - विशेष्येति। अन्वयेत्यर्थः। तदन्वययोग्यधात्वर्थत्यागादिति भावः। ` नेह पच्यते ' इत्यादावित्यादिना भुज्यते इत्यादि। - विशेषणेति। तद्रूपेत्यर्थः। सत्येव त्समिन्नर्थे कर्मत्वनान्वयाविवक्षायां सम्बन्धित्वेनान्वयस्य विवक्षणादिति भावः। मातुः स्मर्यते इत्यादावित्यादिना पितुः स्मर्यते इत्यादि। तत्रापि विशेषमाह - कार्येति। कटमित्यादावित्यादिनाऽनुभूतपूर्वोत्यादि। अनतिप्रसङ्गायाह - कृतेति। अनभिधानात् ।स्पष्टं चेदं " कर्त्तृकर्मणोः" इति सूत्रे भाष्ये। एतेन गङ्गाधरादौ तथा स्वीकुर्वन्तः परास्तः। प्रसङ्गात्तदुदाहरणनुक्तमाह - धातोरिति। `यक्षानुरूप ' इतिन्यायेन प्राचां मतेनाह - अ्ध्याहारेणेति। तत्त्वं तु प्रागुक्तं बोध्यम्। प्राजोक्तं खण्डयति - प्रसिद्धेरिति। प्रसिद्धातिरिक्तवृत्तत्विमपि फले विशेषणं देयमिति, अयं फलितोर्थः। शाब्दस्तु कर्मणः प्रसिद्ध्या तथा लाभात्त्रियाऽकर्मिका तत्पदप्रयोगरहितवाक्यप्रतिपाद्येत्यनेनैव सूचितः। यथाश्रुतार्थत्यागे बीजमाह - नत्विति। - भष्ये इति। तथोपस्थितस्य तस्यान्वयस्वीकारेण तावन्मात्रेणाकर्मकत्वस्य भाष्येऽनुक्तत्वादित्यर्थः। अतएव " नदी वहतीत्यकर्मकः " इति भाष्यं " नदी स्यन्दते " इत्यर्थकतया कैयटेन व्याख्यातम्। एतत्सूचनार्थमेवेदमेव तदुबाहरणं दत्तम्। नन्वेवं ` मासमास्यत इत्यादि ' इति कथमतिदेशखण्डनं तत्र भाष्ये, अत आह - शास्त्रे इति। ज्ञापकं सामान्यापेक्षमिति भावः। - सामर्थ्यादिति। अयंभावः---किम् अकर्मकपदे कर्मपदस्य कर्मसंज्ञाप्रयोजके लक्षणया न विद्यते कर्मसंज्ञांप्रयोजकोऽर्थो येषां धातूनामित्यर्थः, उत लक्षणया कर्मरहितार्थप्रतिपादकानामित्यर्थः? तत्राद्यं खण्डितम्--- नचकोचिदति। तथाच कर्मसंज्ञाप्रयोजकार्थरहितानामित्यर्थे सर्वेषां तदर्थसम्भवेनाकर्मकाणामित्यस्योदाहरणासम्भव इत्यर्थः। अन्त्येऽविवक्षितकर्मतयोदाहरणसम्भवो वाच्यः। नच कालस्य क्रियामात्रेणआकाङ्क्षितया तदविवक्षाऽसम्भवः। आख्यातार्थकालेनैव तदाकाङ्क्षाशान्त्या बाह्यकालकर्मणोऽविवक्षासम्भवात्। एवञ्च सति गत्यादिसूत्रे तुल्यजातीयापेक्षतया नियमस्य सकर्मकविषयताऽकर्मविषये " कर्तुरीप्सिततमम्" इत्यनेन तदुपपत्तौ अकर्मकग्रहणं व्यर्थम्, तत्सामर्थ्यं हृदि निधायेक्तं " त एवम् " इत्यादि। " क्वचिद् " इत्यस्य कालादीनां कर्मत्व प्रयोजकत्वाप्त्यादिरहितेऽर्थे इत्यर्थः। तत्सामर्थ्यात्तदवस्थायां कर्मरहिता गृह्यन्त इति तत्त्वम्। - इतीति---इत्यादौ ।। 1.13।।


  एवं सामान्यतो धात्वर्थं निरूप्य परमतनिरासायकेषांचिद्धिशिष्यार्थान्निरूपयति - पचेरित्यादिना। पुनः कथनफलं सूचयन्नाह - सचानेकेति। एतेन चेजः संयोगानुकूलव्यापारमात्रं पच्यर्थ इति निरस्तम्। अग्निसंयोगानुकूलकृत्यभाववति भक्तविक्लित्त्यनुकूलप्रस्रवणकर्त्तरि ` पचति' इति प्रयोगानापत्तेः। - ध्वंसासमग्रीति। प्रतियोगित्वघटितत्समवधानेत्यर्थः। ध्वंसानुकृलेत्येव वाच्येऽदर्शनेत्युक्तिफलमाह - व्यवेति। तत्राद्ये प्रसिद्ध्तवात् द्वितीये मानमाह - उत्पतिते इति। - नष्टम्--- बुद्ध्यानारूढम्। - हृतमित्यस्य---
  कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रवान् ।
  तस्य संस्मरमादेवेत्यादिः। एतेन लक्षणा तत्रेत्यपास्तम्। अनुपपत्तिप्रतिसन्धानं वनिनाऽपि ततो बोधात्। - तत्र---तयोर्मध्ये। - एतेन---तत्र कालान्वयेन। - नाशस्य-- ध्वंसजन्यादर्शनस्य। - नित्य्तवात्--- तस्य जन्यत्वेऽप्यविनाशित्वात्। ध्वंसानुकूलव्यापार एव सर्वत्र धात्वर्थ इति न शक्तिद्वयकल्पनेति साघवात्सत्कार्यवादेन सिद्धान्तमाह - ध्वंसश्चेत्यादि---` अन्येइत्यन्तेन। - शक्तिः---सूक्ष्मावस्था। नन्वेवं प्रागुक्तनिरुक्तादिविरोधः, वस्तुत उत्पत्तिध्वंसयोरभावादत आह - तत इति। तद्रूपप्रागभावत इत्यर्थः। द्वितीयदिनिरासायाह -अभिव्यक्तीति। क्रियात्वायाह - लब्धेति। - अतएव---तस्य तत्त्वेन तद्‌वृत्तित्वादेव। संयोगोपपत्तेये सिद्धान्तमाह - आत्माचेति। - तत्र-- तथा सति। नैयायिकमते दोषमाह - मन इति। - ज्ञानाश्रयः--- चेतनो जीवः। - संयोगानुपपत्तेरिति। ' मनो जानाति' इत्यनुपपत्तिः स्पष्टैवेति शेषः। ज्ञानाश्रय इत्यनेन ज्ञानाश्रयेणापि न तदुपपत्तिरिति सूचितम्। तद् ध्वनयन्नाह - तदभ्युपेति। युगपदनेकज्ञानानुत्पत्त्या मनसोऽणुरूपत्वम्, न विभुत्वम्, एवं च विभुद्व्यसंयोगानङ्गीकारेऽपि तद्ङ्गीकारे न बाधकम्, तस्याव्याप्यवृत्तित्वं तु बाह्यपदार्थसंयोगविषयमिति तदाकूतम्। - उपयन्निति। उत्पत्तिविनाशशालीत्यर्थः। - विकरोति---तन्नाशं बोधयति। मनसस्तत्त्वस्यष्टत्वादाह - आत्मेति। तथाच स्वसिद्धान्तस्यैव भङ्ग इति भावः। आकाशङ्गच्छतीत्यादिप्रयोगाय प्रसङ्गादाह - एवमिति। अन्तः करणमनसोरित्वेत्यर्थः। सर्वत्र संमतिमाह - तदुक्तिमिति। श्रीहर्षेणेत्यर्थः। - अव्याप्येति। अवच्छेदकभेदेन स्वाभावसमानाधिकरणत्वादित्यर्थः। - संमत इत्यनेन तस्य निर्विवादत्वं सूचितम्। - तदेकेति यदेकदेशेऽस्ति तदेकदेशरूपसंयोगीयदेशविषयकप्रश्ने इत्यर्थ एव पूर्वपक्षे। प्रागुक्तस्थलेऽग्रीमा सिद्धान्तोक्तिरिति सूचयन् चूर्णिकामाह - तस्मादिति। कथमिदं प्रकृतसाधकम् अत आह - निरंशेऽपीति। नितरामित्याग्रेऽन्वय इत्याह - सर्वथेति। एवेन परसंमतनित्यत्वनिरासः। ननु विरंशेऽप्यणौ कल्पित इति यथाश्रुतप्रतीतयमानार्थमपहाय किमर्थं संयोगेति शेषपूरणेन व्याख्यातम्, तथाच नेष्टासिद्धिरत आह - कणाद इति। पारिमाण्डल्यम्, परमाणुः। एवं च सर्वेषां सावयवत्वेन प्रागुक्तिसिद्धिः। एतेन तत्तद्दिगवच्छिन्नपरमाणुद्वयसंयोगात्सृष्टिरिति नैयायिकोक्तमपास्तम् । उक्तयुक्तेः। आद्यसृष्टौ दिशोऽप्यभावाच्चेति दिक्।।1.14।।




july 1 continue

     भूषणाद्युक्तिं खण्जयति। - नन्वावरणभङ्गस्योक्तफललक्षणाक्रान्ततत्त्वेऽपि विषयतास्तत्त्वं तदमावादत आह - विषयतायाश्चेति। व्यवस्थाचेति चो ह्यर्थे। - अस्यार्थ इत्यस्य व्यवस्थितेतिघटकेतावन्वयः। यत्रेत्युभयार्थकमित्याह - कर्मणीति। असिद्धान्तत्तवादाह - इत्युच्यत इतीति। अत आह उत्तरार्द्धे तुरुक्तवैलक्षण्येन सिद्धान्तत्वद्योतकः। शब्दैरेवेत्येवेन दर्शनव्यवच्छेदः। अत एवाह - मते इतीति। - यत्र आख्याते। - सः ---तद्‌घटको धातुः। एवमग्रेऽपि । - तत्र--- तेषां मध्ये। - एवमिति। सम्बन्धभेदेनोभयनिष्ठ इत्यर्थः। -न च---नहि। - एवम्---उभयनिष्ठै। -कथमपि----तदवच्छेदकसन्बन्धेन। नयन्तीति पाठः। अत्र भाष्यसंमतिमाह - अतएवेति। द्वितीयार्धोक्तमतस्य सिद्धान्तत्वादेवेत्यर्थः। - तेषाम्--- कर्तृस्थभावकानाम्। अन्यपदार्थो धातुरित्याह - धातूनामिति । वाच्यवाचकभावः षष्ठ्यर्थ इत्याह - वाच्यायाइति। क्रियायाः परिनिष्पत्तिरितिवत्तत्प्रयोग इत्याह - फलरूपेति। तस्यापि तत्त्वं प्रागुपपादितम्। उक्तरीत्या तत्रापि सत्त्वाद्यथाश्रुतासङ्गतेः सर्वं वाक्यमिति न्यायेनाह - कर्ममात्रे इति। कर्मण्येवेत्यर्थः। ननु यथाश्रुतभाष्यस्य साधारणत्वेन पूर्वार्द्धोक्तार्तपरतैव कुतो न, अत आह - कारिकेति। ज्ञानादीत्यादिना भिदादिकर्तृसमुच्चयः। तस्मात्सोऽसिद्धान्त एवेति, तथाभूषणाद्युक्तमयुक्तमेवेति बोध्यम्।। 1.15।।

  - एवमिति। जानातिवदित्यर्थः। नन्वतीतादौ तदाश्रयत्वस्य दुर्वचत्वेन कथं तत्तवमत आह - अतीतेति। एवमेव घटं करोतीत्यादावपि बोध्यमा। सत्कार्यवादे तु न काचिद्दोषाशङ्कैव। नन्वेवमप्यात्मन एव कथं तत्र तत्त्वमत आह - आत्मानमिति। - कर्मेतिति। तथाच कल्पितात्मेभेदेन फलव्यापारयोर्भिन्ननिष्ठत्वाक्षत्या सकर्मकत्वादिति भावः। - कर्मवदिति। " द्वावात्मानौ शरीरात्माऽन्तरात्मा च । शरीरात्मा तत्कर्म करोति येन सरीरात्मा सुखदुःखे अनुभुवति " इति हि तत्रोक्तम्। एतेन " आत्मानमात्मना हन्ति सृजत्यात्मानमात्मना " इत्यपि व्याख्यातम्। ननु विषयतासम्बन्धावच्छिन्नज्ञानरूपफलानुपफलवानुकूलात्ममनः संयोगरूपव्यापारस्योक्तेषु सम्भवेन तदुपपत्तावपि ब्रह्म जानातीत्यादौ स्वस्वरूपातिरिक्तज्ञानाभावात्तस्य चाजन्यत्वादात्ममनः संयोगस्य चाभावात्कथं तत्त्वमत आह - ब्रह्मेति। स्पष्टं " ईक्षतेर्नाशब्दम् " इतिसूत्रे भाष्यभामत्योः। एवमेव " स ऐक्षत " इत्यादेरुपपत्तिः। तत्र प्रथमतोऽव्याकृतनामरूपेक्षणम्, ततः समान्येन तद्व्याचिकीर्षा, ततो विशेषाकारेण सा, तत्सतदभिव्यक्तिरिति सिद्धान्त इति बोध्यम्। उत्तरदेशसंयोगरूपफलभेदेन धात्वर्थभेदेऽपि तद्व्‌यधिकरणत्वस्य तत्र तुल्यत्वेन सकर्मकत्वं तुल्यमित्याह - सकर्मक इति। " द्वीतीयाश्रित" इतिसूत्रोदाहरणमाह-नरकमिति। वृक्षात्पर्णं पततीत्याद्यर्थमाह - विभागजन्यसंयोगमात्रेति। मात्रपदेन तदनुकूलव्यापारव्यावच्छेदः। तस्य तत्रोक्तफलत्वाभावेऽप्युरीत्या क्रियात्वान्नानुपपत्तिः । एतेन व्यापारमात्रपरत्वेनाकर्मकत्वमित्यापास्तम्। जनिवन्नोत्पत्तिसमानाधिकरणव्यापारार्थकत्वमिति सूचयन्नाह - उत्पत्तिव्यधीति। नैयायिकादिमतं खण्डयति - यत्नमात्रेति। तथा च घटं कोरतीत्यादि न स्यात्। दोषान्तरमाह - किञ्चेति। यगादीत्यादिना तङादि। नन्वेवं कृतिरित्यात्र कथं यत्नप्रतीतिरत आह - कृतिरिति। आदिना करणादि। एतेन तत्र लक्षणेत्युपास्तम्। इदमपि पररीत्योक्तमिति सूचयन् सिद्धान्तमाह - यद्वेति। कृतियत्नसब्दयोरपीति पाठः। अन्यथा पाठे तु यत्नश्च कृतिशब्दश्चेति द्वन्द्वो बोध्यः। - कथ्यमाने इति। सा कर्त्रोति शेषः। जनेरुत्पत्तिसमानाधिकरणव्यापारोऽर्थः। तत्रोत्पत्तिस्वरूपं प्रागुक्तमेव। स्रंसादेर्जोवत्यादिवदकर्मकत्वं दधात्यादेस्त्वथात्वात्सकर्मकत्वं तदाह - इत्यलमिति।।1.16।।

  एवं सामान्यतो विशेषतश्च केषांचित्तदर्थमर्थान् शुद्धान् निरूप्य मिश्रिते तद्विशेषे परप्राचीनोभयोक्तिनिरपातविषयकमतनिरासार्थन्निरूपयति - अनुभूयते इत्यादि।वक्ष्यमाणसमत्वोपपत्तये आह - साक्षादिति। आदिना " अलं क्रियते " इत्यादिपरिग्रहः। उभयसाधारण्येनाह - निपातानामिति। - साक्षात्कारेति। तदादीत्यर्थः। प्रकृतानुरोधेन तु तावन्मात्रमुक्तम्। - सकर्मकत्वं न स्यादनुभवादिफलस्य निपातार्थत्वेऽपि इति शेषः। - धात्वर्थफले एवेति। प्रत्यासत्तेः। अन्यथा ` नवं त्यजति' इत्यादौ ग्रामादिनाऽपि सकर्मकत्वापत्तेरिति भावः। अथ प्रसङ्गात्तदर्थं तन्निरूपयति - द्योतकत्वंचेति।
 अत्र केचित्--- तत्तद्वातोस्तत्र तत्रार्थे लक्षणा निपातास्तात्पर्यग्राहकाः, एतदेव द्योतकत्वामित्याहुः।
  अन्येतु---अनेकार्थत्वाद्धातूनां तत्राप्यर्थे शक्तिः, उपसर्गसमभिव्याहारस्तु तादृशशक्त्युद्बोधकः। शक्त्युद्बोधकत्वमेव च द्योतकत्वम्। इदमेव शक्त्याधायकत्वपदेनोच्यते व्यतिसे इत्यादावित्याहुः। - वृत्त्युद्बोधेति। एतेन जये क्लृप्तशक्तेः प्रकर्षे शक्तौ तेषां शक्त्‌यवच्छेदकत्वम्। शक्ततावच्छेदके विशेषणत्वमात्रमेव तत्त्वम्। एवञ्च प्रोत्तरजित्वेन प्रकर्षेशक्तिः। नच जिपूर्वप्रत्वेन शक्तिः। अधिककल्पनापत्तेः, आख्यातार्थानन्वयप्रसङ्गाच्च। शक्त्यवच्छेदकत्वमेव च द्योतकत्वमिति ---तदर्थं विशेषमाह - प्रायेणेति। तत्फलमाह - क्वचिदिति। ननु ` लिखन्नास्ते भूमिम्' इतिवदत्रं कृतो न, अत आह - प्राद्देशमिति। - विमायपरिच्छिद्य। वि--- प्रादेशपदोपादानेन वक्तुस्तथैव तात्पर्यात्। अन्यथा तदुक्त्यसङ्गतिः स्पष्टैव। लिखधातोर्जोवत्यादिवदकर्मत्वात्। अक्षररूपकर्मणो धात्वर्थेनोपसंग्रेहात्। नचैवं कथं दृष्टान्ते इति वाच्यम्। तत्र बहुदिनव्यापिमानवतीं प्रति सखीवाक्ये--- त्वत्प्राणवदस्माकं रक्षणीयोऽपि ---भूमिं नतु भूमौ, तेनाकाङ्क्षितकर्मणः अनुद्देश्यत्वं ध्वन्यते। लिखन् नतु लिखतीति, तेन लिखनस्याबुद्धि पूर्वकत्वरूपमप्राधान्यं ध्वन्यते। बहिर्नतु मध्ये, तेन नायकस्यात्युद्वेगः। आस्ते नत्वासीत्, तेनैवमवस्थानस्य प्रसादपर्यन्तता ध्वन्यते--- इत्यर्थेन धातूनामनेकार्थतया रेखाऽनुकूलव्यापारार्थकत्वेनादोषात्। तृतीयमाह - वक्चित्त्विति। सम्बन्धविशेषेत्यर्थः। इदं च " कर्मप्रवचनीय " इत्यत्र भाष्ये स्पष्टम्। तत्र हि ---" कर्म प्रोक्तवन्तः कर्मप्रवचनीया" इत्यत्र भाष्ये ये सम्प्रति क्रियान्नाहुः। ये अप्रयुज्यमानस्य क्रियामाहुस्ते कर्मप्रवचनीया " इत्यन्वर्थसंज्ञात्वमुक्तम्।
  तत्र हरिः-----
  क्रियाया द्योतको नायं सम्बन्धस्य न वाचकः।
  नापि क्रियापदाक्षेपी सम्बन्धस्य तु भेदकः।। इति।
  तथाच भाष्ये क्रियापदम् अग्रे तत्सम्बन्धपरमिति भावः । द्वितीयस्योदाहरणान्तरमाह - अथेति। अनेकक्रियाविषयस्यापि शब्दानुशासनस्य आरम्भमाणताऽथशब्दसंनिधाने प्रतीयते इति कैयटः। आदिना मिश्राद्युक्त्यादि। सर्वथा तदनियमायाह - एवमिति। ननु लोके तत्राविलक्षणत्वादाह - अडादीति। आदिना द्विर्वचनम्। नैयायिकमतं खण्डयति - एतेनेति।
  इत्थं हि तदाकूतम्--- प्रजयतीत्यादौ प्रकृष्टजयादिर्नोपसर्गवाच्यः। एवं हि तस्याप्रकृत्यर्थतयाऽऽख्यातार्थकृतावनन्वयापत्तेः। ' प्रत्ययानाम्" इति व्युत्पत्तेः। नच -जयोधात्वर्थः , प्रकर्षः प्रशब्दार्थः। नामार्थधात्वर्थयोर्विभक्त्यर्थमद्वारीकृत्य साक्षाद्भेदसम्बन्धेन नान्वय इति व्युत्पत्त्या तस्य तथाऽपि धात्वर्थेऽन्वयासम्भवात्। नच विशिष्टजयो धात्वर्थः। अर्थान्तरस्येवोपसर्गं विनाऽप्येतदर्थप्रत्ययापत्तेः। तस्मात् `जये क्लृप्तशक्तेरित्यादित्तवम् इत्यन्तं ' प्रागुक्तं बोध्यम्।

  किञ्चानुभूयते सुखमित्यत्र तस्य तद्वाचकत्वे धातो रकर्मकत्वात् कर्मणि लाद्यनापत्तिः। स्वार्थफलव्यधिकरणव्यापारवाचकत्वस्यैव सकर्मकत्वाद्। अन्यथा यत्किञ्चित्फलवैयधिकण्यस्य सर्वत्र सत्‌तवानातिप्रसङ्गात्। तस्मादुपसर्गणां द्योतकत्वम्, चादयस्तु वाचका एव। ` साक्षात्क्रियते' इत्यादौ विषयतासम्बन्धेन प्रत्यक्षादिरूपतत्फलवाचकत्वस्य साक्षात्पदादेः सम्भवात् तदुत्पत्त्यनुकूलो व्यापारो धात्वर्थः। तथाच ` साक्षात् क्रियते गुरुः ' इत्यादौ गुर्वभिन्नाश्रयनिष्ठो विषयतासम्बन्धेन यः साक्षात्कारस्तदुत्पत्त्यनुकूलो व्यापार इत्यादिर्बोध इति। तदाह - तदितरेति। तस्य तत्त्वे मानमाह - साक्षादिति।
  अलम्भूषणपर्याप्तशक्तिवारणवाचकः।
  उरर्यूरी चोररीच विस्तारेऽङ्गीकृतौ त्रयम्।।----

  इत्यपि बोध्यम्‌। नन्वर्थविशेषान्तर्भावेणाकर्मकत्वादिविभजनादत्र प्रत्यक्षाद्यर्थे कथं कर्मणि लः ? । फवव्यधिकरणव्यापारवाचित्वमेव सकर्मकत्वमिति तु न युक्तम्। अनुपदं किञ्चेत्याद्युक्तदोषापत्तेः। तथाच तस्य धात्वर्थत्वादर्थादेषां द्योतकत्वमेवावश्यकमिति कथं तत्त्वमत आह - सकर्मकत्वञ्चेति। नन्वेवमप्यनतिप्रसङ्गाय धात्वर्थफलाश्रयत्वस्यैव कर्मत्वेनात्र तदभावात्कर्मत्वमेव तस्य कथमत आह - कर्मत्वेमपीति। - एतादृशेति। स्वस्वयुक्तनिपातान्यतरार्थफलेत्यर्थः। एतेनेत्यस्यार्थमाह - वैषम्येइति। " नामार्थधात्वर्थयोः ' इत्याद्युक्तरीत्या तत्र तथात्वे अत्रापि तथा। एतदनुरोधेन तद्‌व्युत्पत्तेर्निपातातिरिक्तविषयत्वम्। तत्राऽपि वाचकत्वमेवोचितम्। स्तोकं पचतीतितुवल्यता तु द्योतकत्वं विनाऽनुपपन्नेति भावः, तदाह - अनुभूयते इति। सिद्धान्तमतेन दोषमाह - कर्मेति। - बोधस्येति। ततः शब्दमर्यादयाऽप्रतीतेरिति भावः। अतिगुरुत्वं दुर्ज्ञेयत्वे हेतुः। तस्य च भेदघटित्वेनैतदुभयभिन्नानेकज्ञानसापेक्षत्वेन, यावतस्तस्य ज्ञानासम्भवेन च तत्त्वात्तत्वाच्चेत्यर्थः।। 1.17।।

   कौस्तुभाद्युक्तिं खण्डयति - यत्त्विति। - उपसर्गस्तत्पदवाच्यः। नातो हेतुपक्षताऽवच्छेदकयोरैक्यम्। - अनुमानेन। व्यतिरेकिणा। - परेण---नैयायिकेन ।साधने इत्यस्य---दोषादुक्ते इति शेषः। चतुष्टयीपक्षे आह - शक्तीति। त्रयीपक्षे आह - अखण्डं वेति। उपाधिरूपं जातिरूपं वेत्यर्थकत्वे सति चादिगणादिपठितत्वरूपं सखण्डमपि सम्भवति, तथाऽपि तस्य चादिगणादिभेदेनाननुगत्वमिति तत्त्यागः। - निपातत्वेनैव--- निपातपदावच्यत्वेनैव। एतेन सामान्यावच्छेदेन तत्साधकहेतोरुभयवादिसंमतस्याभावादिदमयुक्तमित्यपास्तम्। अत्र पक्षे तद्वत् द्योतकत्वाभावेन व्यभिचारादत आह - वाचकत्वाभावेति। एवञ्च सम्भवे द्योतकत्वामार्थसमाजग्रस्तमिति भावः। युक्तत्वे हेतुमाह - प्रमाणानामिति। प्रमाकरणानां व्यापकधर्मोपस्थितेरावश्यकत्वादिति भावः। प्रमाणस्य सामान्यावच्छेदेन प्रवृत्तौ बाधकाभावसहकृतं लाघवं बीजमिति तत्त्वम्। - तत्सिद्ध्यापत्तेरिति। नचेष्टापत्तिः। स्वरादीनामपि स्वातन्त्रयेण प्रयोगानापत्तेः। अतएव अन्यथा भूषणाद्युक्तिङ्खण्डयति - निपातत्वमिति। तद्रूपमित्यर्थः। व्यापकत्वेन उक्तन्यायादिति भावः। एवञ्च नोक्तदोषइति तात्पर्यम्। सामान्यग्रहस्यानुपयोगादाह - तत्तदिति। - तद्वृत्तिति। तत्तद्‌वृत्तीत्यर्थः। ननु " यद्विशेषयोः" इतिन्यायेन तस्याप्युपयोग एव, अत आह - निपात्तवादीति। तथा चासति बाधके तथाऽङ्गीकारेपि प्रकृते बाधकसत्त्वान्न तथेति भावः। कौस्तुभाद्युक्तिमेवान्यां खण्डयति- यदपीति। धातुघञाद्‌दुप्थाप्यक्रिययोरिव, रामावित्यादौ द्वितत्वादेः परविशेषणात्वे एव साधकप्रत्ययानामितिव्युत्पत्तिवदत्र गमाकभावात्स्वातन्त्र्येण पदादुपस्थितिसत्त्वादिदं दुर्वारमितिभूषणासाङ्गत्यायाह - शब्दशक्तिति ।" पदार्थः " इति न्यायात्, तस्य तत्र प्रतियोगितयाऽनन्वयाच्चेति भावः। षष्ठीप्राप्तिमभ्युपेत्यान्त्ये वारितम्। वस्तुतः सैव नेत्याह - किञ्चेति। - द्वितीया--- द्वितीयादि। अनतिप्रसङ्गायार्थिकार्थमाह - तत्रेति। विशेषणे इत्यर्थः - घटस्य---तस्यैव। एवं च तत्र तस्य शाब्दान्वयाभावान्न तदापत्तिरिति भावः। तदाह - क्वेति। ` नन्वेवमपि ' " नामार्थयोः " इति प्राचां मतमभ्युपेत्येदम्। वस्तुतोऽयुक्तमेतदित्याह - वस्तुत इति। - अग्रे----अत्रैव प्रकरणेऽनुपदमेव। - अत एव---तेषां नित्यरतन्त्रतया विशेषण्तवेन घटादेस्तत्र शाब्दान्वयाभावेन तस्यैव तत्र शाब्दान्वयेन। द्वन्द्वादौ तु मिथः--- समुच्चयार्थमनेकचप्रयोग इति बोध्यम्। एतेन निपातानां वाचकत्वेऽभेदान्वयापत्तिर्निपातातिरिक्तत्वविशेषणदाने मानाभावश्चेति कौस्तुभभूषणाद्‌युक्तदोषोऽपि परास्तः। शब्दशक्तिस्वभावादराविशेषात्। पररीत्या परमतेनैव तदभावप्रयुक्तवलाघवादाह - यद्वेति। ` समुच्चतिः स घट' इत्यभेदेनैवान्वयान्न भेदनिबन्धना षष्ठी, नापि तद्विशेषमांशदानम्, नापि शोभनाद्यन्वयः, एकदेशत्वादिति भावः नन्वेवं सत्त्वार्थकत्वाद्विमक्तिश्रवणापत्तिरत आह - स्वभावतइति। शब्दशक्तीत्यादिः। - वादीति। समुच्चितानबिधाने निपातेभ्यो विभक्तिरेव न स्यात्तावत्तेषामर्थवत्त्वाभावेन प्रातिपदिकसंज्ञाया अभावात्। किञ्च नञ्समासादावुत्तरपदार्थः प्रधानमिति व्यवस्था न स्यात्, पूर्वपदस्य नञादेरनर्थकत्वादिति चाद्युपस्थाप्यत्वं तस्य आवश्यकं किन्तु तस्य तत्रासत्तवभूतत्वम्। समुच्चितपदोपस्थाप्यत्वे तु तस्य सत्त्वभूतत्वमेव। अत्र हरिसंमतिमाह - तदुक्तमिति। - समुच्चितेति प्रत्ययो वाचकत्वेऽपि केवलो न प्रयुज्यते।

   इत्य्सयादिः। यद्यपि प्रत्ययपरत्ववदेषां परत्वं न स्मर्यते, तद्बोध्यार्थस्य विना सम्बन्धिनमनन्वयात्केवलाप्रयोगः, चोऽप्यर्थे। तेन पूर्वमतसमुच्चयः। अतएव तेनैवोक्तम्----
   समुच्चिताभिधानेऽपि विशिष्टार्थाभिधायिनाम्।
   गुणैः पदानां सम्बन्धः परतन्त्रास्तु चादयः ।। इति,
    तथापि विशेषतस्तयोरुपस्थितिं विना प्रतीतेरपर्यवसाना न्नित्यपरतन्त्रतैवेति न भिन्नप्रयोग इति भावः। इदं पूर्वमतेऽप्यावश्यकम्। एवञ्च पूर्वत्र स्वभावद्वयाश्रयणमत्रतु एकस्यैवेति लाघवतरमिति गूढाकूतम्। - धर्म्यंशे---समुच्चेति। घटस्यचेति विना विभक्त्यर्थं तयोर्भेदनान्वयायोगादन्यथाऽतिप्रसेङ्गापत्तेरन्यथाऽन्वयायोगादिति भावः। घटादेर्विशिष्टशक्तिवदिति भावः।।1.18।।

   एवं वाचकत्वे तेषां परोक्तदूषणानि संखण्ड्य प्रागुक्तयुक्त्याऽऽवश्यके तेषां द्योतकत्वे सिद्धान्तमादाय परोक्तदूषणद्वयमुद्धरति - निपातानामित्यादि । - आदायैवेत्यस्य बोध्यमिति शेषः। एतेन साक्षादित्याद्यनुशासनादेरप्येवमेवोपपत्तिरिति सूचितम्।
 ननु शक्तिलक्षणाऽन्यतररूपवृत्त्यर्थबोधजनकत्वरूपार्थवत्त्वम् अर्थवत्---सूत्रेऽनतिप्रसङ्गाय निविष्टमिति कथं ततो निर्वाहः।
  यत्तु भूषणादौ--- संख्यान्वयाभावाद्वा एकाजद्विर्वचनन्यायाद्वा, तथाऽपि लुकाऽदोषाद्वा, राम इत्यादो राजपूरुषादिवत्समासत्वाद्वा, यद्यपि नातिप्रसङ्गः तथापि आद्ये निपातानामपि संख्याद्यभावा द्विभक्तिर्न स्याद् औसर्गिकैकवचनाङ्गीकारे राम इत्यादावपि ततस्तदापत्तिः, एकाज्‌द्विर्वचनन्यायस्यापि नायं विषयः, समुदायकार्येणावयवानामननुग्रहाद्‌, एवं च तथा कैयटाद्युक्तं चिन्त्यम्‌ ; तृतीये प्रातिपदिकानवयवत्वाल्लुकोऽप्राप्त्या विभक्तिश्रवणापर्त्तिर्धनमित्यादौ जश्त्वनलोपापत्तिरिति । अतश्चतुर्थपदक्षोऽप्यसङ्गतः। तस्मात् " अव्ययादाप्सुपः " इति ज्ञापकादेव न विभक्त्युत्पत्तिरिति केचित्।

 " निपातस्य" इति वार्त्तिकादित्यन्ये। तस्य " अधिपरी" इति ज्ञापकेन प्रत्याख्यानपक्षे तस्य सामान्यापेक्षत्वाश्रयणेन सिद्धिरित्यपरे।
  " कृत्तद्धित " इत्यत्रानुक्तसमुच्चयार्थचेन तेषां संग्रह इति दीक्षिता इति तत्त्वमित्याहुः, तन्न।
  औत्सर्गिकैकवचनस्य गमके सत्येवाङ्गीकारात्। अत एव जश्त्वाद्यापत्तिर्न। " सुपो धातु" इति लुको धातुसाहचर्येण सुबन्यानेकघटितप्रातिपदिकावयवस्यैव सुपोऽङ्गीकारात्। वार्त्तिकस्य प्रत्याख्यानात्। तस्य सामान्यापेक्षत्वे मानाभावात्। चकारस्यानर्थकसंग्राहकत्वस्य भाष्यादावुक्तत्वाच्च।
  तदेतद् ध्वनयन्नाह- शक्तीति। तादृशार्थवत्त्वस्यैव तत्सूत्रे निविष्टत्वादित्यर्थः। एतदर्थमेव व्यञ्जनावृत्तिस्वीकार इत्युक्तं प्राक्।
  एतेन विषयतापर्याप्त्याधिकरणत्वस्य निवेशेन तत्रादोषः। विशिष्टे एव तत्सत्त्वात्। प्रकृते तु प्रादेरेव तात्पर्यग्राहकत्वादुक्तरीत्याऽर्थधीप्रयोजकतया तत्प्रयोजकधीविषयतापर्याप्त्यधिकरणत्वस्यैव सत्त्वेनादोष इत्यपास्तम्।
  क्लिष्टत्वात्, व्यतिलुनत इत्यादौ दोषापत्तेश्च।
  नन्वेवं प्रातिपदिकत्वेऽपि संख्याद्यभावात्कथं विभक्तिरित चेन्न। " अव्ययादाब् " इति ज्ञापकात् " तद्धितश्च " इति सूत्रभाष्योक्त्या सर्वविभक्त्येकवचनाङ्गीकारात्। एवमुपसर्गान्यनिपातानां द्योतकत्वे वाचकत्वे च व्यवस्थितत्वेनोक्तेऽप्युपुसर्गाणां सर्वथा द्योतकत्वमेव, अन्यथा प्रतिष्ठत इत्यत्र गमनत्वेन रूपेण बोधानापत्तेः। ष्ठाधातोर्गतिनिवृत्त्यर्थकत्वेऽभावस्य प्रशब्दार्थत्वे गत्यभावो नास्तीत्येव प्रत्ययपत्तेः। न चात्र तथाबोधसम्भावनाऽपि गत्यभावपसम्बन्धित्वेनानुपस्थितेः, अन्यथा घटअभाव इत्यत्रापि तथाबोधापत्तेः। नञ्समभिव्याहारे चानादिसिद्धतथाव्युतपत्तिस्वीकारान्न दोषः। नापि तथाबोधानुभवः। अतस्तेषां द्योतकत्वमेव।

 तदेतद् ध्वनयन् तत्र भाष्यसंमतिमप्याह - प्रतिष्ठत इति। इत्यत्रापीत्यर्थः। - तदर्थेति। धातोरित्यादिः। - तद्‌गतादित्वेति। गतिनिष्ठादित्वेत्यर्थः। आदिकर्मेति यावत्। - भूवादीति।
  तत्रहि " क्रियावचने धातावुपसर्गप्रत्ययोः प्रतिषेधः " इति वार्त्तिकखण्डनावसरे " प्रकृतिः प्रकृत्यर्थे वर्तते प्रत्ययः प्रत्यार्थे " इति प्रतिपाद्य, " क्रियाविशेषक उपसर्गः , पचतीत्यत्र क्रिया गम्यते, तां प्रो विशेनष्टि" इत्युक्त्वा , तत्र धातोरुपसर्गव्यभिचारवदध्येतीत्यादौ उपसर्गस्य धातुव्यभिचारेण निर्वाहं कृत्वा, " इह तर्हि व्यक्तमर्थान्तरं गम्यते, तिष्ठति प्रतिष्ठते" इति आद्ये व्रजिक्रियानिवृत्तिरन्त्ये व्रजिक्रिया अतः " मन्यामहे उपसर्गकृतमेतद् येनात्र व्रजिक्रिया गम्यत इति। प्रोऽयं दृष्टापचारः आदिकर्मणि वर्त्तते। नचेदं नास्ति बह्वर्था अपि धातवो भवन्ति " इति। वप्यादौ यथेदं तथाऽत्रापि " तिष्ठतिरेव व्रजिकियां तन्निवृत्तिं चाह " इत्युक्तम्। प्रोऽयमिति, अन्यत्रापि प्रयोगात्। ततश्चान्यत्रास्य योऽर्थोद्योत्यः स एवेहापीत्यनुमीयते । अनेकार्थत्वाद्धातूनां तिष्ठरेव गतिवाचीति विर्णय इति कैयटः।

  विशेषं वक्तुं तत्र प्रागुक्तमपि शङ्कापूर्वं भाष्यतात्पर्यत्वेनाह - यद्यपीत्यादि। - पृथगिति।
  तदुक्तं हरिणा---
  अडादीनां व्यवस्थार्थं पृथक्त्वेन प्रकल्पनम्।
  धातूपसर्गयोः शास्त्रे धातुरेव तु तादृशः।। इति।
  तादृशोऽखण्डः। तदेवाह - एवं चेति। लोके विशिष्टादेव विशिष्टबोधेन भेदस्य कार्यार्थं कल्पितत्वेन चेत्यर्थः। - अतेएव---अन्तरङ्गत्वेन तदर्थकत्वादेव ।- इतीति। इत्यादौ। तेनानुभूयते सुखमित्यादिपरिग्रहः। एतेन परिभाषेयं स्वतन्त्रेति सीरदेवाद्युक्तिनिरासः। - प्रवाद इत्यनेनानार्षत्वं सूचितम्। उपस्थितिक्रमादेव तत्त्वमित्याह - बाह्यश्चेति। - अतएव--- तयोर्यथाक्रममन्तरङ्गत्वबहिरङ्गत्वाभ्यामेव। एवञ्च " अश्यासव्यवायेऽपि " इति न कार्यमिति भावः। नन्वेवमध्ययनमित्याद्यासिद्धिः। पूर्वमुपसर्गयोगे तन्निमित्तदीर्घः ततो ल्युटि गुणे अधयनमित्यापत्तेरत आह - अध्ययनमिति । आदिना " णेरध्यये " इत्यादिपरिग्रहः। अनतिप्रसङ्गायाह - क्वचिदिति। एवः प्राग्वत्। एवंच द्योतकत्वमपि प्रक्रियादशायां तन्निर्वाहार्थं काल्पनिकमेवेति तत्तात्पर्यम्। - नव्याः---दीक्षितादयः।।1.19।।

  सर्वथैकवाक्यत्वे सम्भवति तथा व्यवस्था न युक्तेत्याद्याशयेन सिद्धान्तमाह - वस्तुतस्त्वियादि ।अस्य बोध्यमित्यत्रान्वयः। - उक्तमित्यस्यावित्यादिः। इतीत्यत्रान्वयः। " किमन्तरङ्ग बहिरङ्गम् " इति प्रश्ने " यद्युक्तं तदेवाश्रयमीयम् " इत्युक्त्का युक्तं दर्शनमेवाह - धातूपेति। एवञ्च सुटोऽन्तरङ्गत्वेनासिद्धत्वाभावाल्लघुत्वाभावेन न दीर्घप्रसङ्गः। संयोगादित्वाच्च गुणसिद्धिरिति भावः। - हि---यतः। `उपास्यते गुरुः ' इत्यादिसिद्ध्यर्थमावअसयकमिदमिति तात्पर्यम्। वक्ष्यमाणार्थकत्वे दोषासङ्गतेरन्तरङ्गत्वासिद्धेश्चोन्यथाऽर्थमाह - उपेति। अर्थकृतबहिरङ्गत्वादेरभावादिति भावः। उपसर्गत्वं विशेषणं नतूपलक्षणामित्याह - तत्संज्ञकेनेति। - आहेति " वर्त्तमानसागीप्ये" इति लट्। एवमग्रेऽपि । - नैतदिति। वक्ष्यमाणोऽभिप्रायः। अत्र हेतुमाह - पूर्वंहीति। हि यतः। तस्यासारतां दर्शयन्--- " पूर्वं हि धातुः" इत्यस्य युक्तत्वं दर्शयति - साधनंहीति। साधनयोगेन हि साध्यत्वेन धात्वर्धप्रतीतिः, साध्यत्वस्य सकाधाननिरूप्यत्वात्। क्रियायोगे चोपसर्गत्वमिति भावः। तदाह - तामिति। स्थितिम्। - करोतीति। एवंच संकृतीत्यवस्थायामन्तरङ्गतरार्थकसंशब्दनिमित्तत्वात् द्वित्वाद्यपेक्षयाऽप्यन्तरङ्गः सुडादिरित्यर्थः। एवञ्च प्रकूष्टतयाऽऽद्यर्थकधतोः पूर्वं साधनत्कार्यप्रत्यययोगे क्रियात्वावगतावुपसर्गसंज्ञकशब्दयोग इति भावः। विपक्षे बाधकमाह - अन्यथेति। तदयोगे इत्यर्थः। उक्तरीत्यैव व्याचष्टे - साधनेनेत्यादि तदर्थ इत्यन्तेन। एवञ्च " पूर्वं धातुरूपसर्गेण " इति न सारमिति भावः। - इतर इति। एतदङ्गीकुर्वन्नेव तस्यान्तरङ्गत्वं व्युत्पादयितुमाहेत्यर्थः। - पूर्वम्--- उपसर्गसंज्ञकशब्दयोगात् पूर्वम्। - अपर्यवसानादिति। अनिश्चयादित्यर्थः। साध्यत्वस्य साधननिरूप्यत्वादिति भावः। - कथन्तर्हीति। संचस्कारेत्यादौ सुडादेरित्यर्थः। तथा नेष्टत्वादाह - यस्तवेति। धातोः पूर्वं नियमेनाकारङ्क्षितार्थत्वादाह - साधनसम्बन्धेति। - तत्र--- विशिष्टेऽर्थे । - क्रियायोगेति। बहुव्रीहिद्वयम्। - धातुः--- केवलधातुरेव। - अर्थत्वेनस्वार्थत्वेन।- साधनेनेति। तस्य साध्यत्वबोधाय कारकेण युज्यते इत्यर्थः। तत उपसर्गेणेति भावः। तदुक्तं " गतिर्गतौ " इत्यत्र कैयटेन---" विशिष्टैव क्रिया साधनेन द्योत्यते। ततश्च प्रयोक्ता विशिष्टायाः क्रियायाः साधनसम्बन्धं प्रतिपादयितुं धातूपसर्गसमुदायं प्रयङ्क्ते" इत्यादि। - यो हि मन्यते इत्यस्य शब्दसम्बन्धवदर्थसम्बन्धोऽपि पश्चादिति यो मन्यत इत्यर्थो बोध्यः। - बोध्यः। - धातोः---तत्त्वेनाभिमतस्य भ्वादेः। प्रक्रमादित्यस्य तन्निमित्तकक्रियावाचित्वस्यादावाश्रयणादित्यर्थः, तदाह - आश्रयणेनेति। - आश्रित्येत्यस्यादावित्यादिः। " भूवादय" इत्यनेनेति भावः। कर्मभावश्चेति व्याचष्टे - यथाचेति। पिपठिषतीत्यादौ " धातोः कर्मणः " इत्यनेनेति भावः। तथाऽन्यदपीति व्याचष्टे - तथाभाव्युपसर्गेति। तच्छब्देत्यर्थः। तदेव विशदयति द्वितीयकारिकयेत्याह - धातूपसर्गेति। - विषयीकृत्येत्यस्योच्चारितेनेति शेषः। धातुविशेषणं सः। ( शेष इत्यर्थः।) भेदे इत्यत्रान्वितस्य तथेत्यस्य व्याख्या - उपसर्गार्थकृत इति। भेद इत्यस्यार्थ - विशेष इति। अर्थादाह - धातुनैवेति। अर्थत्वेनाङ्गीकृत इत्यर्थः। पदकाले इत्यस्यार्थः - पदप्रयोगेति। तदर्थः - उपसर्गेति। वक्तुः प्रागेव सत्त्वादाह - श्रोतॄणामिति। हर्यन्तरमाह - तथेति। तद्वदित्यर्थः। - विशेषणैः---प्रादिभिः। - प्राक्‌त्विति। प्राक्चेति पाठेऽप्येवम्। - क्रियेति। साध्यत्वेन सा नैव प्रतीयते इत्यर्थः।। 1.20।।

   दीक्षितमतसाधकहर्यन्तरविरोधमाह - यद्यपीति। शास्त्रे इत्यन्तं पूर्वान्वयि। - तु--वस्तुतस्तु। हर्यन्तरमाह - क्रियेति। संघातैरिति। अनुभवानुकूलव्यापारादिरूपाः क्रियाविशेषाः अनुभ्वादिभिरादावेव बोध्यन्ते इत्यर्थः। - कार्याणामिति। तयोस्तेषामन्तरङ्गत्वमेवं सति सिद्धमित्यर्थः। - तथेति। संघातबोध्यैवेत्यर्थः। क्रियेति चेत्यपीति पाठः। नन्वेवं तदुक्तमन्तरङ्गत्वं स्वाभिमते कथं भाष्यमतेऽत आह - धातूपसर्गेति। अर्थकृतत्वाभापवादाह - पूर्वोपस्थितेति। एवंच नानयोरन्तरङ्गबहिरङ्गभावः, किन्तु तत्कार्यंयोरिति ` उपास्यते'इत्यादौ कर्ममि लसिद्धिः, संचस्कारेत्यादौ साधनसम्बन्धोत्तरमुपसर्गसम्बन्धे ` स कृ ति ' इति स्थितेऽन्तरङ्ग इति तत्सिद्धिश्चेति न दोष इति बोध्यम्। - इतिभाव इति। पूर्वहरेरित्यर्थः। - इदमेव--- तत्कार्यस्योक्तान्तरङ्गत्मेव। - गुणे--- " आद्‌गुण " इति। - पररूपम्---" ओमाङोश्च " इति। ह्यर्थमाह - धातोरिित। - नाङो योग इति। पृथग् उपसर्गस्यार्थाभावात् । तत्सत्त्वेऽप्याह - धात्वर्थेति। शङ्काशयमाह - आङइवेति। - समुदायेनेति । उपसर्गद्योत्यार्थसहितधातवर्थेनेत्यर्थः। तदाह - आङ इति। एवंचान्तरङ्गार्थकशब्दनिमित्तकत्वेन धातूपसर्गकार्यमन्तरङ्गमिति तात्पर्यम्। तदाह - तेनेति। सूचयतीत्यर्थः। इतोऽपि प्रागुक्तभूषणाद्युक्तमयुक्तमित्याह - एवंचेति। पूर्वं धातोः साधनयोगप्रतिरादने चेत्यर्थः। तस्यैव तदायत्तत्वं न तदुक्तस्येति तन्मते भाष्यासङ्गतिः स्पष्टैवेति भावः। उक्तसूत्रद्वयभाष्यस्य " उपपदम् " इति सूत्रभाष्याविरोधं प्रतिपादयितुं दीक्षिताद्युक्तिं खण्डयन्नाह - किञ्चेति। - उपसर्गाणाम्---तत्संज्ञकानामित्यर्थः। क्रियागतविशेषबोधकानामिति यावत्। - अतएव-- द्योतकत्वेन तेषां पश्चात्सम्बन्धादेव । इत्थं हि तत्रोक्तम्। " उपपदम् " इति सूत्रे " गतिः " इतिसूत्रेच--- अतिङ्‌ग्रणात् सुप्सुपेति निवर्त्त्य ` गतिकारकोपपदानाम् ----' इति परिभाषां प्रत्याख्याय, " यद्येतज्‌ज्ञाप्यते केनेदानीं समासो भविष्यति? ,समर्थेन । यद्येवं धातूपसर्गयोरपि समासः प्राप्नोति ---"पूर्वं धातुरुपसर्गेण युज्यते पश्चादुपसर्गेण " इति। नैतदस्ति। " पूर्वं धातुः साधनेन युज्यते पश्चादुपसर्गेण "। साधनं हि क्रियां निर्वर्त्तयति तामुपसर्गो विशिनष्टि। अभिनिर्वृत्तस्य चार्थस्योपसर्गेण विशेषः शक्यो वक्तुम् " इति।

   अस्यार्थः---यद्येतदिति, अतिङित्यस्य समासविशेषणतया शब्देनोत्तरपदस्यानुपादनात्प्रश्नः। समर्थेनेति, उपपदस्य सुबन्तत्वेन " सुप् " इत्यनुवृत्त्वा वा पदविधित्वेन समर्थपरिभाषोपस्थानात्। सुपेत्यननुवृत्तावतिप्रसङ्गमाह यद्येवमिति। " कुगति " इत्यनेन। " अतिङ्‌ " अत्यनेन तिङन्तस्यैव प्रतिषेधइति तात्पर्यम्। ततश्चैकस्वर्यादिप्रसङ्गः। न च " अतिङ्‌ " इत्यस्य पर्युदासत्वेन तिङ्‌भिन्नप्रत्ययान्तः समास इत्यर्थान्न दोषः। प्रपिपठिषतीत्यादौ ` प्रकृष्टा पठनेच्छा ' इत्याद्यर्थके सन्नन्ते धातुनोपसर्गस्य समासापत्तेर्दुर्वारत्वात् । तिङ्‌भिन्नः कृत्प्रत्यय एवेत्यत्र तु न मानम्। तथा हि सति " उपपदं कृद् " इत्येव सूत्रयेत्। धातुप्रकृतिकत्वातिरिक्तसाजात्यस्य कृत्स्तवप्यभावाच्च। प्रत्ययत्वं तु सुप्स्वतिप्रसक्तमेव। इदमेव ध्वनयितुमत्र वक्ष्यति--- प्रपिपठीति। उपसर्गेण, तत्संज्ञकशब्देन । ततस्तयोः सामर्ध्यमस्ति उपसर्गार्थविशिष्टायाः क्रियायाः साधनेन योगात्। नैतदिति, " पूर्वं धातुरुपसर्गेण" इत्यतन्नास्तीत्यर्थः। अन्यथा " नैष देष" इत्येव वदेत्। साधनेन, कर्त्तृकर्मरूपकारकेण । साधत्वेन प्रतीतस्य पूर्वं साधनाकाङ्क्षोदयेन तत्सम्बन्धस्यान्तरङ्गत्वात्। ततश्च पूर्वं सादानाभिधायिप्रत्ययोत्पत्तिः, पश्चात्साधानसंसृष्ट एव धातुरुपसर्गेण युज्यते न केवल इति, तेन सामर्थ्याभावात्तयोः समासाभावः । तत्र कृदन्तेन समासो भवत्येव, तिङन्तेन तु " अतिङ् " इति निषेधान्न भवति। पूर्वं धातोः साधनेन योगे युक्तिमाह----साधनंहीति। क्रियाम्, तत्प्रतीतिम्। निर्वर्त्तयति, निष्पादयति। साध्यत्वप्रतीतेस्तत्सम्बन्धाधीनत्वात्। साध्यत्वेन प्रतीतार्थकयोगे च तेषामुपसर्गत्वादिः। नच धातोः " भू सत्तायाम् " इत्यादितो व्याकरणात् गृहीतशक्तिकस्य तत्प्रतीतिः, कारकसम्बन्धसाध्यत्वात्। उपसर्गस्य तु क्रियागतविशेषद्योतकत्वरूपक्रियापोगवनिमित्तोपसर्गसंज्ञकत्वात् क्रियात्वज्ञानोत्तरमेव सम्बन्धः , तदुत्तरमेव " ते प्राग्धातोः " इति नियमप्रवृत्तेः। ताम्, साधत्वेन गृहीताम्। उपसर्गः, तत्संज्ञकशब्दः। द्योतकत्वेन विशिनष्टि। तत्र युक्तिमाह----अभिनिर्वृत्तस्येति, निष्पन्नत्वेन ज्ञातस्य। विशेषः, विशेषणं प्रकर्षादिः प्रजयतीत्यादावुपसर्गेण द्योतयितुं शक्यः। बोद्धारं प्रतीति शेष इति।

   तदेतदबिप्रेत्य संक्षेपेणाह - धातूपसर्गयोरिति।अतएवेत्यस्योक्तार्थं सूचयन् तद्व्यतिरेकमाह - पूर्वामिति। द्योतकत्वेऽपि स दुर्निवार इति शङ्कते - नचेति। मात्रपदेन तिङ्‌व्यवच्छेदः। - इतीति। लकाराणामपि कारकार्थकतायाः शास्त्रसिद्धत्वेन तत्सम्बन्धेनैव साद्य्तवबोधे उपसर्गसम्बन्धे सति लाव्सतायामिनामित्यर्थः। -तस्य----लत्वावच्छिन्नस्य। - विभक्तीनामिति। तदादेशास्येत्यर्थः। तेषां भावार्थकत्वस्यापि सत्त्वेन तत्प्रतीतावनियामकत्वादिति युक्तिस्तु न युक्ता , तात्पर्येण निर्णयादिति सूजयन्नाह - साधनस्येति। अत एव अध्यैयातामित्यादौ लावस्थायामाट्यपि पूर्वं न वृद्धिः. साधनकार्यस्य आताम एव पूर्वं प्रवृत्तेः, साध्यस्य साधनाकाङ्क्षानैयत्वेनान्तरङ्गत्वात्। ततो " वार्णादाङ्म् " इतीयङि यणि वृद्धाविष्टसिद्धेरिति केचित्।
  वस्तुतस्तत्पक्षेऽन्तरङ्गत्वाद् वृद्धावेतद्रूपासिद्धः। कथं चिद् " वर्णादाङ्म्" इत्याश्रयणेऽप्यनेकाच्त्वाद्यमापत्तिः। तस्मादध्यैयातामित्यादि छान्दसम्। तत्र हि " बहुलं छन्दस्यमाङ्‌योगेऽपि " इति बहुलग्रहणादादेशोत्तरं परत्वादियङि तत आटि वृद्धिरिति बोध्यम्। - तिङिति। एतद्‌भाष्यतात्पर्थं वक्तुं शङ्ते - नचैवमपीति। तिङन्तस्य, तिङ्‌भाविलान्तस्य च समासवारणेऽपीत्यर्थः। - समासइति। धातूपसर्गयोः निष्कृष्यैकार्थाभावो न समासादिप्रयोजक इति विशिष्टेनैकार्थोभावेऽवयवानामपि तत्सत्त्वादिति भावः। तदाशयमाह - वक्ष्यमाणेति। तिङर्थानिरूपणातवसरे इति भावः। - विशिष्टस्य--- कालसंख्याकारकादिविशिष्टस्य। पञ्चकं धात्वर्थ इति भावः। - तस्य--अवयेवेनासामर्थ्यस्य।
  अयं भावः---तिङन्तेन नैकार्थोभावः, " अतिङ् " इति निषेधात्ब नापि तदवयेवेन प्रत्ययार्थासंसृष्टेन, साधनसंसृष्टार्थस्यैवोपसर्गेण योगात्। तथा च तिङां द्योतकत्वमेवेति।
  नन्वेवमुपसर्गसंबन्धात्प्राक् केवलभ्वासादेः सकर्मकत्वाभावेन कर्मणि लादयो न स्युः , किञ्च सञ्चस्कारेत्यादौ सुटोऽन्तरङ्गत्वं ' सुट् कात्पूर्वं' इति सूत्रभाष्योक्तं भज्यते, अत आह - तत्रापीति। तिङा द्योतकत्वेऽपीत्यर्थः। - उपसर्गार्थः--- तद्‌द्योत्यार्थः। - द्योत्योऽपीति। आकाङ्क्षाक्रमेणोपस्थितिक्रमस्यात्रापि सत्त्वात् पञ्चकपक्षे स्वार्थादिक्रमावत्। यथा चैतत्तथोक्तं प्राक्।

  एतेनोपसर्गाणां द्योतकत्वेऽप्युसास्यत इत्यादौ सकर्मकत्वाय तद्‌द्योत्यवार्थस्य साधनसंबन्धात्पूर्वंमेव धातुना बोधनावश्यकत्वेनोपसर्गेण पूर्वयोगस्यावश्यकत्वेन सामर्थ्यस्य सत्त्वेन धातूपसर्गयोस्तत्रैव समासो दुर्वार इत्यपास्तम्।
  तदुक्तम् " उपपदम् " इत्यत्र कैयटेनोक्तप्रथमाशङ्कासमाधित्वेन ` अनुभूयते सुखम् , उपास्यते गुरुरित्यादौ केवलधातुरेव सकर्मिकां क्रियां वक्ति, उपसर्गस्तु द्योतकः श्रोतृबोधाय पश्चादेव सम्बध्यते इति नास्ति कश्चिदस्मिन्पक्षे दोष ' इति।।1.21।।


    उक्तमेव ध्वनयन् भाष्याद्यनुक्तत्वान्न्यूनतीनिरासायान्यत्रापि समासापत्तिं वारयति - प्रपिपठीति। इत्यादावपीत्यर्थः। - सनेति। प्रकृतेरिति शेषः। तथा च न केवलधातुनोपसर्गस्य सामर्थ्यमिति न तयोः स इति भावः। नन्वेवमपि सन्नन्तेनैवास्त्वत आह - तत्तद्विषेति। तथाच प्रधानकार्योत्तरमित्यर्थः। अस्याशया ` अयम्भाव' इत्यनेन व्याख्याने उक्त एव। नच " कर्मग्रहणात्सन्‌विधौ धातुग्रहणानर्थक्यम्। सोपसर्गं कर्मेति। चेत् कर्मविशेषकत्वादुपसरक्गस्यानुपसर्गं कर्म, सोपसर्गस्य हि कर्मत्वे धात्वधिकारेऽपि सनो विशिष्टविषयेच्छाया एव बोधनीयत्वादविधानमकर्मत्वाद् " इति। " एतच्चात्र युक्तं यत्सोपसर्गं कर्म। न च सनोऽनुत्पत्त्यापत्तिः। कर्मण इति षष्ठी,कर्मणोऽवयवाद्धातोरित्यार्थात्। केवलात्तु व्यपदेसिवद्‌भावेन ।महान्तं पुत्रमिच्छतीत्यादौ विशिष्टकर्मणोऽवयवात्सुबन्तात्तु क्यज्‌ न , सापेक्षत्वेनासामर्थ्याद् " इति च सन्‌सूत्रस्थवार्त्तिकभाष्यविरोध इति वाच्यम्। सोपसर्गमित्यस्योपसर्गद्योत्यार्थविशिष्टमित्यर्थेनाद्यदोषाभावात्, अग्रिमग्रन्थस्त्वेकदेशिन इति सोऽप्यदोषः। तदुक्तं कैयटेन` धातुरेव विशिष्टां क्रियामाह, उपसर्गस्तु द्योतक इति सापेक्षत्वाभाव इति। तदेतद्‌ ध्वनयन्नाह - इतोऽपीति। अस्यार्थमाह - विशिष्टायाइति। एतेन ` इषिकर्मत्वमिह विशिष्टाया एव क्रियायाः प्रतिपाद्यमिति पूर्वमुपसर्गेण सम्बन्धाद्धातुग्रहणाभावे विशिष्टात् सन आपत्तिः। भाष्यं तु उक्तसर्वभाष्याविरोधेनैव व्याख्यातम्।
  नन्वेवमपि निविशते इत्यादौ तयोः समासापत्तिस्तयोर्मिथः सम्बन्धमुपजीव्यैवात्मनेपदविधानेन ततस्तस्य पूर्वमावश्यकत्वादत आह - नेर्विश इति। आदिना " परिव्यवेभ्यः" , " विपराभ्यां जेः" इत्यादिपरिग्रहः। यद्यप्यत्र षष्ठ्या निद्योत्यार्थविशेषार्थप्रतिपादकादित्यर्थेन निर्वाहस्तथाप्यग्रिमसूत्रानुरोधेनाह - नेः परत्वेनेति। - इत्यर्थः--- क्रमेणेत्याद्यर्थः। तथाच तत्सम्बन्धात्पूर्वमेवात्मनेपदप्रवृत्तिरिति न दोषः। तत्र षष्ठ्यर्थे पञ्चमीकल्पने तु गारवम्। स्पष्टं चेदं " नेर्विश" इत्यत्र भाष्ये। एतेन सुटोऽपि संपरिभ्यामुपसृष्टस्येत्यर्थेन, ताभ्यां परत्वयोग्यस्येत्यर्थेन वा समो योगात्पूर्वमेव सुडित्येवमन्तरङ्गत्वं सूचितम्। नन्वेवमपि विभक्त्यभावेन समुदायोच्चारणेन विधेः सम्पर्कोत्यादौ तयोः समासापत्तिरत आह - संपृचेत्यादेरपीति। उक्तभाष्याविरोधायोक्तरीत्या सूत्रे द्वयोरनुकरणेन षष्ठीसमास इति भावः। आयतस्तूः कटप्रूरजस्रपमित्यादौ तथा सत्वेऽपि धातूपसर्गयोः क्वापि स नेति तात्पर्यम्। उक्तरीत्या " संप्रसारणाच्च "इति भाष्यरीत्या चेष्टमपि सिद्धान्ते सिध्यतीत्याह - गोसन्दाय इति। - विशिष्टात्--- तद्विशिष्टार्थप्रतिपादिकात्। पूर्वमसम्बन्धायाह - बुद्धिस्थेइति। ईदृशे स्थलेऽयमेव साधुत्वान्वाख्यानप्रकार इति सर्वतात्पर्यम्। एवं हरिसंमतभाष्यसिद्धान्ते हरिविरोधं हर्युक्त्यैव परिहरति- यद्यपीत्यादिना सिद्धान्तितमित्यन्तेन। तत्त्वस्य स्पष्टत्वाद्वाचकमात्रोदाहरणमाह - यथाप्रतिष्ठते इति। भूवादिसूत्रभाष्योक्तमेव। - तिष्ठतेरिति। स्थाधातोरित्यर्थः। - इत्यर्थिकया--- इतितात्पर्यिकया।चेतनविशिष्टैर्गम्यत इत्यस्य समुच्चयः। एवमन्वयव्यतिरेकयोः सत्त्वेऽपि न वाचकत्वं तयोर्द्योतकतयैवोपपत्तेरित्याह - तत्र-- तत्प्रतीतिविषये इत्यर्थः। - द्विविधात्--- अन्वयव्यतिरेकिणः। पूर्वोक्तमीदृशमेव। प्रादिरुपसर्ग एवेत्याह - क्वचिदिति। - भेदाः--- विशेषाः प्रकर्षादयः। तत्र हेतुमाह - उपसर्गेति । यत इत्यादिः।। 1.22 ।।

   नन्वेवमपि प्रत्ययो ज्ञानमित्यादौ भावप्रत्यये उक्तरीतेरसम्भवात्तयोः सप्रासापत्तिरेवेति अत आह - यत्रत्विति। तुरुक्तवैलक्षण्ये। समानपदोपात्तसाधनस्थले तथा, अत्र तु भावार्थकत्वेनान्तरङ्गत्वात् वञादौ प्रोक्तरीत्यैवागत्या बाह्यसाधनसम्बन्धेन क्रियात्वावगतौ उपसर्गसम्बन्ध इत्यर्थः। तदाह - अन्तरङ्ग्तवादिति। - निराकाङ्क्षत्वे सति। एवञ्च " वार्णादाङ्गम् " इतिन्यायेन गुणे यणारूपसिद्धिस्तदाह - अतएवेति। तत्र तथाऽङ्गीकारादेवेत्यर्थः। - आदिना प्रत्यय इत्यादि। " सम्प्रसारणाच्च " इति सूत्रभाष्यं तु समानपदोपात्तसाधनविषयमिति न तद्धिरोधः। एतेनात्र पूर्वमुपसर्गसम्बन्धेऽपि " अध्ययेन" इत्यादिनिर्देशैः पूर्वं ततः साधनकार्यप्रवृत्तिरिष्यते इति हरदत्तद्युक्तम्, उपसर्गाणां वाचकत्वमेवास्तु स्वस्वयुक्तेत्याद्युक्तमेव कर्मत्वं सकर्मकत्वं चेत्यनुभूयत इत्यदौ कर्मणि लादिसिद्धिरिति नव्योक्तं चापास्तम्। तत्रैव धातूपसर्गयोः समासापत्तेः। नन्वध्यागच्छदीत्यादावध्यादेरनर्थकत्वहारः सोऽत्रासङ्गतः। क्रियानिरूपितसम्बन्धविशेषद्योतकत्वं विना कर्मप्रवचनीयत्वस्य दुर्वचत्वात्। किञ्च तत्त्वे क्रियाविशेषणी भूतार्थद्योतकत्वमेव क्रियायोगः सच नेति तस्य गत्याद्यपवादत्वस्य दुर्वचत्वादत आह - अध्यागच्छतीति। आङस्तद्‌गतविशेषद्योतकत्वमनस्तीत्याह - आगच्छतीति। एतेन वैपरीत्यं निरस्तम्। तत्प्रयोगासङ्गतिं परिहरति - लौकिके इति। अन्यथा कलशादिप्रयोगो न स्यात्। गतित्वादिप्राप्तपे आह - सम्भूयेति। स्थितयोरिति शेषः। तत्प्रयोगे इति भावः।- उपसर्गस्येति। तत्त्वाद्यभिमत्सयाधिपर्यन्यतरस्य, तत्त्ववत आङस्चेत्यर्थः। - अर्थान्तरेति। आङ्द्योत्यार्थतोऽन्यार्थेत्यर्थः। कर्मप्रवचनीयसंज्ञा तु वचनसामर्थ्यादिति तात्पर्यम्। एवमुपसर्गाणां द्योतकत्वं त्समकक्षतदन्यनिपातानां चोक्तम्, तद्विशदयति - क्वचित्त्विति। घटश्चेत्यादावित्यर्थः। प्रादेरपि संग्रहाय - निपातानामिति। द्योतकत्वस्यापिना संग्रहः। तच्चव्यवस्थितं बोध्यम्। इदमेवोदाहरणान्तरप्रदर्शनेन पोषवति - अतएवेति। तेषां वाचकत्वादेवेत्यर्थः। अस्य दृश्यते इत्यत्रान्वयः। तेनानुभवोऽत्र प्रमाणमिति सूचितम्। - शब्देइति विषयसप्तमी ।निपातानामित्युक्तिं सफवलयन्नाह - किञ्चेति। - नस्यादिति। तथासति तस्य प्रकृत्यर्थतया तस्यादिकशब्दत्वेन तद्योगाभावादिति भावः। ननु द्योत्यार्थेनैव तत्त्वमस्तु प्राग्वदत आह - तस्येति। अर्वागित्यस्येत्यर्थः।। 1.23 ।।


    ननु द्योत्यत्वेऽपि कुतो न विशेष्यत्वमत आह - अतएवेति। तस्य विशेषणत्वादेवेत्यर्थः। - स्त्रियामिति। चातुर्थिके इत्यर्थः। प्राधान्यात्प्रत्ययविशेषण्तवे आह - स्त्रीत्यवस्येति। प्रकृतिप्रत्यययोरिति न्यायात्। - वचनेति। तस्य असत्त्वभूतत्वेन संख्यानन्वयात्। अन्यथा समाधानासङ्गतिस्स्पष्टैव। भाष्यान्तरमप्याह - अतएवचेति। नन्वाद्ये द्योतकतापक्षो न कण्ठत उक्तोऽत आह - स्त्रियामितीति। इदमपि हरिसंमतमित्याह - तदुक्तिमिति। स्पषअटत्वादाद्यमुपेक्ष्य द्वितीयमाह - केचिदिति। अध्यागच्छतीत्याद्याशयेनाह - केचिदनर्थकाइति। दृष्टान्तलब्धमिदम्। - संम्भूयेत्यत्र स्थिता इति शेषः। वाचकपदं बोधपरम्। क्वचित्तथापाठ एव।तथाच केऽपि ते यतः सम्भूय स्थिता अर्थस्य बोधका अतो आगमा इव स्युरनर्थका एवेत्यर्थो बोध्यः। - प्रातिशाख्येति। द्वितीयाध्यासमाप्तौ। जातं समूहः। तान्येवादावुक्तानि। अत्र सर्वत्र प्रयोक्तुः कर्त्तृत्वम्। - सत्त्वम्--- द्रव्यम्। अनेनाव्ययेषु नामत्वाभावः स्पष्टमेवोक्तः। उक्तमेव विशदयति - क्रियावाचकमित्यादि। क्रियेत्यनेन भावपदार्थ उक्तः।आख्यातपदवाच्यत्वं न प्रत्ययस्य किन्तु विशिष्टस्येति च स्पष्टमुक्तम्। - प्रथमेति। धातुसहितेन वक्ता क्रियामभिदधातीत्यर्थः। इतराभ्यामित्यस्य प्रक्रान्तपरत्वमित्याह - नामेति। इतरेइत्यस्यार्थमाह - नामेति। ब्राह्मणवसिष्ठन्यायलब्धमिदम्। - तथा-- ताभ्यां सहार्थवाचकाः। पूर्वतो विशेषमाह - उपसर्गइति । - पूरणा अपीत्यपिनाद्योतकत्वादिसंग्रहः। द्योत्यार्थस्य प्रकारत्वं व्यभिचरितमिति खण्डनायाह - थालिति। तत्त्वमेव सविशेषं विशदयति - नत्विति। प्रकारविशिष्टवृत्तित्वेत्यर्थः। - प्रत्ययं--- जातावेकवचनम्। आद्यद्वव्यवतिरेकमाह - योहरिरिित। अन्त्यव्यतिरेकमाह - आकरेइति। - एतेन-- तदद्योतकत्वेन। - तत्र---- थालादिविषये। अन्यत्रापि तद्व्यभिचारभ्रममन्यथा निराचष्टे - जात्यन्तादिति।- तुरुक्तवैलक्षण्ये। - आश्रयेति। जातेर्व्यक्तिरेव बन्धुः।- यदितीति। तेन विहितयदादेरपि तादर्थ्यादिवाचकत्वमित्यर्थः। तेषां तत्त्वस्य प्रायेणेत्यादिपूरणेन प्रायिकत्वे मानमाह - तत्प्रकृतेति। तत्रहि--- `प्रचुरार्थबोधकात्प्रथमासमर्थात्स्वार्थे मयड् " इति पक्षमुक्त्वा, ` प्राचुर्येण प्रस्तुतान्नादिवचनात्प्रथमासमर्थादधिकरणेऽर्थे मयड् ' इति पक्षान्तरमुक्तम्। तेन भवन्मयो ध्यायति नावनीपतिरिति। सिद्धम्। तन्त्रेणार्थद्वये सूत्रतात्पर्यं व्याख्यानादिति तदाकूतम्। अप्युक्तिं सफलयति - शरैरिति। अत एव तुः। - अन्यथा --- वाचकत्वे। तत्र प्रतियोगिविशिष्टः सदृश इवार्थः। तत्र प्रतियोगिन्युस्रस्याभेदेनान्वयः, सदृशस्य चशरेष्वभेदेन। तृतीय तूपमानोपमेययोः समानविभक्तिकत्वनियमात्। एुवञ्चोस्राभिन्नप्रतियोगिविशिष्टसदृशाभिन्नैः शरैरित्याद्यर्थस्तत्पक्षेणाह - उस्रसदृशस्येति। सादृश्यमिवार्थः, तत्र प्रतियोगितयोस्रान्वयः, तस्याश्रयतया शरेष्वन्वयस्तृतीया प्राग्वतु, तत्पक्षे तस्य तदभावसमुच्चायकोऽपिः। नैरर्थक्यस्यान्यत्रेष्टत्वादाह - असाधुत्वचेति। आद्यपक्षे आह - इवेति। - तृतीयेति। अभावेनेतिच्छेदः। ननु " अव्ययाद् " इति ज्ञापकात्तत्सत्त्वमिति ततस्तद्बोधोऽत आह - इवशब्दोत्तरमिति। अवणापत्तिवारणायाह - लुगिति। अव्ययत्वात्तेनैवेति भावः। - सत्त्वेऽपीत्यपिना तत एकवचनसत्त्वेऽपि बहुवचनाभावसमुच्चयः। उस्रपदोत्तरतृतीयया तु न सदृशगतं करणत्वं बोधयितुं शक्यम्। अप्रकृत्यर्थत्वाद्। तस्माद् द्योतकत्वमेव युक्तमिति भावः।। 1.24 ।।

     उभयत्र तेषां भाष्यसंमतिमाह - भाष्येति। यथाचैतत्तथा तत्र स्फुटम्। तत्राद्ये ' शब्दानुशासनं नाम शास्रमधिकृतं वेदितव्यम् " इत्युक्तम्। एवमन्यत्रापि तत एव बोध्यम्। - अत एव--- तेषां वाचक्वादेव। एवमग्रेऽपि। अव्ययभावत्वादाह - पूर्वेति। द्योतकत्वे द्योत्यार्थेन पूर्वपदार्थत्वेऽपि तस्य प्रागुक्तरीत्या प्राधान्यं दुर्घटमेवेति भावः। अत एव चेतिपाठः। सङ्कटे सङ्गतमित्यर्थे " संप्रोदश्च " इति कटच्। उद्वत इत्यत्रोद्रतानीत्यर्थे " उपसर्गाच्छन्दसि " इति वतिः।- उद्वतइत्यादि ---- समादेरित्यादिभ्यां निवत इत्यादौ न्यादिसंग्रहः। रूपमित्यस्य साधनेऽन्वयः। - भावये इति। " गतिश्च " इत्यादिसूत्रेष्विति भावः। तद्विना तस्य दुर्वचत्वेन ततः पूर्वं तदनुक्तवपि तदुत्तरं सूचिकटाहन्यायेनान्यदुक्त्या सिंहावलोकनन्यायेन तत्र सिद्धान्ते शङ्ते - नन्विति । - इत्यर्थेइति। वक्ष्यमाणार्थे तु नानुपपत्तिरिति भावः। पदसंस्कारपक्षेणाह - उस्रेति। परोक्तिं खण्डयति - उपमेति। वाक्यसंस्कारपक्षेणाह - यद्यपीति। - सेति। परोक्तमपि नानुशासनालभ्यं किन्तूपमेयेनाभेदान्वयमूलकमेव। योऽन्येनाभेदमापन्नस्स तत्समानशक्तिक इति व्याप्तेः। एवञ्च प्रागुक्तद्वितीयपक्षोऽसङ्गत एवेति भावः। - उक्तेति। द्योत्यार्थस्य प्रकरत्वमेवेति प्रागुक्तरीत्येत्यर्थः। तथाचोक्तबोधासम्भव यथादि। न तावन्मात्रमित्याह - उपमानत्वेनेति। स्वसमभिव्याहतस्येत्यादिः। - तादृशेति। उभयसादारणधर्मविशिष्टोपमेयेत्यर्थः। तत्कृतमेव हि तत्त्वमिति भावः। ननूपमानत्वस्योपमेयनिरूपितत्वेन तन्मात्रप्रतीतिं विना तदनुपपत्तावपि न विशिष्टतत्प्रतीतिसापेक्षत्वमिति कथमन्त्यसिद्धिरत आह - उपमानत्वं चेति। वैशिष्ट्यं तृतीयार्थः। अत एव सर्वांशेन तत्त्वासम्भवादाह - ईषदिति। नन्वत्रैव किं मानमत आह - इदमिति। तत्रहि " किं सर्वथा भेदे उपमानोपभेय भाव उताभेदे " इति प्रश्ने उभयत्रापि साधारणधर्मासम्भवाद्रौरिव गौर्गौरिवाश्व इत्यादौ उपमावाचकेव। देर्नैरर्थक्यापत्तिमुक्त्या " यत्र विशेषरूपेण भेदावगतिः साधारणधर्मरूपेणाभेदावगतिस्तत्र स " इत्युक्त्वा" कथमेतज्जातम् " इति शङ्कायां " हिनं मानमुपमानं यन्नान्यन्ताय मिमीते इत्यर्थकोपामानव्यवुहारादेतन्निर्णोतम् " इत्युक्तम्।
  

   तस्यायम्भावः---प्रस्थादि हि साकल्येन मानमिति तद् अत्यन्तभेदेनैव परिच्छेदकम्। प्रस्थः परिमाणमस्येति प्रस्थो व्रीहिरिति वा। इदं तु हीनमिति भेदाभेदाभ्यामेव परिच्छेदकमिति। अन्यन्तायेत्यव्ययमत्यन्यमित्यर्थो तदाह - अन्यत्रेति। उद्योतगुरुमञ्जूषयोरित्यर्थः। एतेनोपमानत्वं चोपमानिरूपकत्वेन विवक्षितत्वम्, तदाश्रयत्वेन विवक्षितत्वं चोपमेत्वमित्यापास्तम्।
  अन्त्यमालङ्कारिकसंमतमपीत्याह - उभयत्रेति। तद्बोध इत्यर्थः। - लिङ्गेति। लिङ्गभेदादिरूपोपमादोषेत्यर्थः। - आदिना वचनभेदः। - प्रकाशादौ---- तत्राप्यादिना प्रदीपादि।
  तत्र हीत्थमुक्तम्---" लिङ्गवचनभेदोऽपि उपमानोपमेययोः साधारणं धर्मं चेद् अन्यरूपं कुर्यात्तदैकतरस्यैव तद्धर्मंसमन्वयावगतेः सविशेषणस्यैव तस्योपमानत्वमुपमेतत्वं वा प्रतीयमानेनापि धर्मेण प्रतीयेतेति प्राकान्तार्थस्य स्फुटमनिर्वाहात्तस्य भग्नप्रक्रमरूपत्वम्। यथा---
    चिन्तारत्नमिव च्युतोऽसि करतो धिङ् मन्दभाग्यस्व मे।
    सक्तवो भक्षिता देव शुद्धाः कुलवधूरिव " इति।
  तत्र बोधं सूचवन् व्यस्ते बोधमाह - एवंचेति। तस्य तद्‌द्योतकत्वे चेत्यर्थः। ` अरविन्दमिव सुन्दरं वदनम् ' इत्यादौ सुन्दरोपमानभूतारविन्दाभिन्नं सुन्दरं वदनमित्यादिबोधसंग्राहक आदिः। एतेन ` चन्द्रनिरूपितसादृश्यप्रयोजकाह्लादवदभिन्नं मुखम् ' ` अरविन्दनिरूपितसादृश्यप्रयोजकसौन्दर्यवदभिन्नं वदनम् ' इत्यादिबोधानिरस्ताः। अस्यावश्यकतामाह - एवञ्चेति। इवादिसमभिव्याहारे इति भावः। - विभक्तिकत्वम्--- तन्नियमः। अस्यार्थमाह - तेनेति। विशिषमाह - साधारणेति। - इतिबोधइति। अतोऽत्रापि तयोः समानविभक्तिकतैवेति भावः। एवं ` गज इव गच्छति चैत्र ' इत्यादौ बोध्यम्।
  ` वनं गज इव शूरः समरभूमिं गछति' इत्यादौ ` उपमानगजकर्तृकतवनगमनाभिन्नं शूरकर्तृकसमरभूमिगमनम्' इति बोधः। अत्र साधारणधर्मरूपगमनस्य विधेयतयोपमाविधेयिका धीः। ` व्यघ्र इव यः पुरुषः स गच्छति' इत्यादौ ` उपमानव्याघ्राभित्रशूरपुरुषकर्तृकं गमनम् ' इति धीः। शूरत्वादिसाधारमधर्मस्योद्देश्यतयोपरमेद्देयकाऽत्र धीरित्यदि।। 1.25।।

  परमतं दूषयति - ये त्विति। इतिबोधं वदन्तीतिपाठः। एतेन ` अरविन्दमिव वदनं भाति इत्यत्र अरविन्दनिरूपितसादृश्यप्रकारकज्ञानविषयो मुखम् ' इति बोध इति निरस्तम्। - नोपलभ्यते इति।
  एतेनात्र निपातेवादेरुपसर्गत्ववत् द्योतकत्वमेव, कथमन्यथा " शरैरुस्रैः" इत्यादावुस्रादिपदोत्तरतृतीयादिसङ्गतिः। उस्रादेरुद्धरणाक्रियां प्रत्यकरणत्वात्, इवार्थसादृश्यान्वयित्वेन करणभूतशरविशेषण्तवाभावाच्च ।द्योतकत्वे तूस्रादिपदस्य तत्सदृशपरतयोस्रसदृशैः शरैरिति शरविशेषणत्वेन तृतीयादिसङ्गतिरिति वैयाकरणमततुन युक्तम्, ` उपास्यते गुरुः ' इत्यादौ कर्मत्वानुपपत्तिरूपबाधकस्योपस्योपसर्गस्य वाचकतायामवेवादिषु वाचकत्वे अभावेन दृष्टान्तवैवषण्यात्। विशेषणविशेष्ययोः समानविभक्तिकतायाम्---

    विशेष्येण सहैकार्थं भवेद्यत्र विशेषयणम्।
    तत्र लिङ्गादयः प्रायो विशेष्यस्था विशेषणे।।
    लिङ्गसंख्याविभेदेऽपि ह्युपमानोपमेयता।
    विभक्तिः पुनकैव उपमानोपमेययोः।।
  इत्यनुशासनस्य सत्त्वेनोपमानपदोत्तरतृतीयादेः साधुत्वार्थतयोपपत्तेश्च। तस्माद्वाचकत्वमेवेवादीनाम्। अन्यथा सकलालंकारिकसंमतेवाशब्दप्रयोगे श्रौतीत्वस्य दत्तजलाञ्जलित्वापत्तेः। रूढिफलान्यतराभावेन सदृशलक्षणायां निषिद्धलाक्षणिकत्वरूपनेयार्थत्वदोषापत्तेश्च। किञ्चेवादेर्द्योतकत्वे चन्द्राद्युपमानपदार्थैकदेशे तत्र साधारणधर्मान्वयानुपपत्तिः , तस्योपमेयमात्रान्वयाङ्गीकारे च लिङ्गवचनभेदस्य दोषत्वानुपपत्तिरिति वैद्यनाथोक्तमपास्तम्।
  " विशेषणानां च " इत्यादिसूत्नमते आद्यपद्यस्य कल्पितस्योपपत्तावपि प्रामाणिक्वापत्तेः। अनवस्थापत्तेश्च। किञ्च क्रियागतविशेषबोधकाततिरिक्तनिपातेषु पस्पशास्थ-- अधिपरी---नञ्‌---अव्ययंविभक्तीत्यादिसूत्रस्थभाष्यस्वरसाद्धर्युक्तेश्चोभयमित्यस्य वैयाकरणमतत्वेन भवदुक्तमतस्यैवाभावात्। तथा कस्य चिदुक्तेस्त्वदुक्तिल्यत्वात्। अत एव ' इति वैयाकरणमतं तु न युक्तम्' इत्युक्तिरपि ` काकस्य कति वादन्ता ' इतिन्यायायिता। तस्मात् ` शरैः 'इत्यादावुक्तरीत्या द्योतकत्वमेव। एवं च ` तस्माद्वाचकत्वमेवेवादीनाम् ' इति प्रतिज्ञानमपि शुक्तौ ` इदं रजतम् ' इति ज्ञानवदविचारितरमणीयम्। एवम् ` उपास्यते गुरुरितिवदिवादिवाचकतायां बाधकाभावेन दृष्टान्तवैषम्यम्' इत्युक्तिरपि सिद्धान्ताज्ञानविलसिता । किञ्च इवादिप्रयोगे साधारणधर्मंसम्बन्धरूपोपमाया वाच्यत्वेन सर्वालङ्कारिकसंमतश्रौतीत्वोपपत्तेः। सादृश्यप्रतीतिस्त्वार्थ्येवेति स्फुटमग्रे। अत एव--- " सदृशे लक्षणा न " इति निषिद्धलाक्षणिकत्वापत्तिरूपदोषवद् " किञ्चेत्याद्युक्तदोषोऽपि नेति दिक्। - तत्र--- चन्द्र इव मुखमित्याभ्याम्। ननूभयोः साधारणधर्मवत्त्वेनाभेदप्रतीतावपि ततो निर्वाहः कथं " सादृश्यधियोऽत आह - चन्द्रेति। नन्वार्थं प्रतीयमानमनियतधर्मकृतं प्रतीयेत उपस्थितत्वेन बोध्यधर्मकृतस्यैव प्रत्ययात्।` गजो वनं गच्छतीव शूरः समरभूमिं गच्छति' इत्यादौ क्रियासमभिव्याहतेवादेः संभावनाऽर्थत्वेन न तत्रोपमा। ` गटकर्तृकवनकर्मकगमनक्रियासम्भावनाविषयः शूरकर्तृकं समरकर्मकं गमनम् ' इति बोधः। नच ` घटो न पश्यति ' इत्यतो ` घटभेदं पश्यति ' इति बोधवारणाय धात्वर्थनिष्टविशेष्यतावनिरूपितप्रकारतया बोधं प्रति श्रूयमाणविभक्त्यन्तजन्योपस्थितेर्हेतुत्वादेतद्‌बोधानुपपत्तिरिति वाच्यम्। दधि, तूष्णीम्, आरात्, पृथग् इत्यादीनां धात्वर्थान्वयानापत्तेः। घटो न पश्यतीत्यादेस्तूक्तार्थे न साधुत्वम्, भेदार्थकनञोऽधिकरणसाकाङ्क्षतया घटो न पट इत्येव तत्र प्रयोगात्। अधिकरणप्रयोगं विना भिन्नार्थकत्वस्याभावाद्। आरोपितघटत्वस्यापि न तथाऽन्वयः। धात्वर्थ-- सत्त्ववाचिनामार्थोभयवषयकभेदसंसर्गकबोधे विभक्तिशक्तिग्रहत उद्‌बुद्धसस्कारस्य हेतुत्वात्। विशेषणविशेष्यभावान्यसंसर्गस्य वाचकप्रत्ययं विनाऽबोधाच्चेति स्फुटमग्रे षष्ठीप्रकरणे।

   एतेन ` हेसीव ' इत्यादौ सादृश्यस्य सर्वर्गङ्गावगाहनाश्रयेऽन्वयः, न त्ववगाहने धात्वर्थे। धात्वर्थनिष्ठविशेष्तानिरूपितप्रकारत। संसर्गेण शाब्दबोधे विशेष्यतया विभक्त्यर्थोपस्थितेर्हेतुत्वात्। नच निपातार्थभिन्नवृत्तित्वेन प्रकारता विशेषमीयेति वाच्यम्। ` घटो न पश्यति ' इत्यादौ घटाद्यन्विताभावस्य कर्मतासंसर्गेण दर्शनेऽन्वयापत्तेः। यदि तु धात्वर्थेऽपि तात्पर्यवशात्सादृश्यान्वयोऽनुभवसिद्धस्तदा धात्वर्थनिष्ठविशेष्यतानिरूपितप्रकारतासम्बन्धेनान्वयबुद्धिं प्रति नञ्‌जन्योपस्थितेः प्रतिबन्धकत्वमात्रं परिकल्प्य ` घटो न पश्यति ' इत्यादौ तथा बोधो विवार्य इति तदुक्तमापास्तम्। क्रियान्यसमभिव्याहृत्सयात्यन्ताभावार्थकत्वस्याभावाच्चेत्यग्रे स्फुटीभविष्यति।

       समासस्थले उक्तप्रकारं विना सर्वथा न गतिरिति तत्र तदावश्यकत्वे तदैकरूप्याय प्रागुक्तव्यस्तस्थलेऽपि तथैवोचितमिति तत्र तथोक्तं समर्थयते - इदमेव युक्तमित्यादिना। तत्र हेतुमाह - घनेति। यत इत्यादिः। - विग्रहे इति। अलौकिकविग्रहे इत्यर्थः। अन्यथा तस्यान्यार्थकत्वेन विग्रहत्वापत्त्या तत्र तदर्थान्तर्भावेण समासो न स्यात्। इवस्य तत्राप्यभावात्, असामानाधिकरण्याच्चेति भावः। सिद्धान्तमाह - उपमानत्वेनेति। अन्यथा ससम्बन्धिकत्वात् " सामान्यवचनैः " इत्येव तेन समासलाभे तद्धैयर्थ्यं स्पष्टमेव। स्वररसादारणमाह - सामान्येति। अदिकृतमाह - समानाधिकरणैरिति। उपमानपरत्वस्यैवाभावेन तत्त्वेन बोधकत्वं सुतरां नास्तीत्याशयेनाह - घनपदेति। - अपिना श्यामपदसंहग्‌रहः। " साम्प्रतिकाभावे" इति न्यायेनाह - न चेति। - उक्तेति। तत्रापि तस्व तत्परत्वावश्यकत्वमित्युक्तेत्यर्थः। लौकिकविग्रहेतु इवस्य सत्त्वेऽपि समानाधिकरण्याय तस्य तत्परत्वमावश्यकमिति तत्रापि तत्त्वाभावः, तद् ध्वनयन्नाह - घनेनेति। श्याम इति शेषः। - तथात्वेऽपीति। घनत्वेनोपमानबोधकत्वेऽपि व्यधिकरणत्वेन तस्य तदविग्रहत्वादित्यर्थः। ननु तस्य तदविग्रहत्वेऽपि अगत्या तत्रत्यमेव तद् गृह्यतेऽत आह - प्रत्यासत्त्येति। - तत्र-- तस्याम्। अन्यथा नीलोप्तलादावतिप्रसङ्गापत्तेः। अत एवाह - तस्येति। यत्र समासस्तत्र सामानाधिकरणयापेक्षा नतु लौकिकविग्रहवाक्ये इति तत्र वैयधिकरण्येऽपि यावत्तदर्थबोधकत्वमात्रेणागत्या तत्त्वाङ्गीकारे इत्यर्थः। एवंच न समासापत्तिर्दोषः। अत एवाह - पुंवत्त्वेति। ननु तदपि समासवत्सुसाधमत आह - वृत्ताविति। अत एव दर्शनीयाया माता दर्शनीयामातेत्यादौ द्वयोरेकविशेष्यकप्रतीतिजनकत्वेन तत्र सामानाधिकरण्येऽपि न पुंवत्त्वम्। अत एवात्र पक्षे पुंवत्त्वासिद्धिर्भाष्ये उक्ता। तद् ध्वनयन्न ह - एनेति। पुंवत्त्वासाधनेनेत्यर्थः। कैयटाशयान्तरमाह - केवलेति। इयमेव पू्रवावस्था नतु विग्रहवाक्यघटकत्वावस्था । - सर्वथेति। शस्त्रीत्वेन तस्य बोधकत्वेऽपि नियामकासमभिव्याहारेण तस्य तत्त्वेनाबोधकत्वात् अन्यथाऽतिप्रसङ्गापत्तेः।

   एतेन पूर्वपदं तत्सदृशे लाक्षमइकमिति द्योतयितुं लौकिकविग्रहे इवशब्दः प्रयुज्यते इति लाक्षणिकमिति। अत एव सामानाधिकरण्यान्मृगचपलेत्यादौ पुंवत्त्वम्। कथं तर्ह्युपमानपरत्वमिति चेत्। भूतपूर्वगत्या शक्यार्थमादायेत्यवेहीति। अनतिप्रसङ्गायावश्य कस्योभयत्र सामानाधिकरण्यस्य निर्वाहाय तत्र वाक्येऽपि तत् सदृशलाक्षणिकम् इवस्त्वस्यैवार्थस्य द्योतकः। ` घनसमानसदशः श्याम ' इति बोधः सर्वत्रेति च दीक्षीताद्युक्तम्, अरविन्दसुन्दरमिति समासे त्वरविन्दपदेनारविन्दनिरूपितसादृश्यप्रयोजकाभिन्नसौन्दर्यवदभिन्नं वदनमिति बोधः। एकदेशान्वयायोगादरविन्दमेव लक्षणाया सर्वार्थबोधकं सुन्दरपदं तु तात्पर्यग्राहकमित्येके इति तदुक्तं चापास्तम्। उक्तरीतिभिः समासाद्यनापत्तेस्तथाबोधासम्भवाच्च। उक्तदोषद्वयमसामानाधिकरण्यादन्यपक्षेऽतिदिशति - एवमिति । तत्र पक्षे इवेत्यर्थः। सादृश्यस्य संसर्गतया भानं नतु तद्वत् प्रकारतयेति भावः। - तत्--- उभयम्। उक्तरीत्या प्राचां मतेन समासमभ्युपेत्य पुंवत्त्वाभावदोष उक्तः। वस्तुतः सिद्धान्तरीत्या सोऽपि नेत्याह - किञ्चेति। तथाबोधे इति शेषः। श्यामत्ववैशिष्ट्येनोपमेयस्यैव प्रतीतेराह - श्यमेति। - तस्य-- घनस्य।तथाच तेनाबोघकत्वात्समासो नेति भावः।। 1.26 ।।
  तथार्थबोधलाभो न परोक्तबोधलाभ इत्याशयेनोक्तार्थे तत्ससमंतिमप्याह - तदुक्तमिति। - कैयटोऽपि --उक्तमित्यस्यानुषङ्गः। तदेवाह - न चेति। - उक्तमिति। शस्त्र्याः साधारमधर्मवत्त्वेनेतपरिच्छदेकत्वरूपमित्यर्थः। तत्त्वायैव हि तदपेक्षेति भावः। भाष्याद्यनुक्तमाह - श्यामेत्येति। गुणव्यक्तेर्विशेष्यतया स्त्रीत्वम्। ननु समामान्यवच्त्वन्तादृशमित्यत्रैव किं मानमत आह - अत एवेति। तस्य तद्रूपत्वादेवेत्यर्थः। - पक्षेइति। सादृश्यसम्बन्धेनान्वय इति भावः। उपमानाभ्रमायाह - तत्रेति। सिद्धान्ते इत्यर्थः। अनेन तस्य तद्रूपत्वं स्पष्टमेवोक्तम्। बाधनिरासायाह - उपेति। नन्वेवमपि सादृश्यस्यान्यमूलकत्वस्य वाच्यत्वादेतन्मूलकत्वस्योक्तरीत्याऽसम्भवात्, भाष्यतेऽलाभाच्चतादृशोपानत्वालाभेनोक्तभाष्यासङ्गतिरत आह - तत्रेति। उपमेये इत्यर्थः। - अस्यैव--- श्यामत्वस्यैव। - तन्त्रादीत्यादिना बोद्‌धुरावृत्तिः। तथाचात्र तन्त्रमसहविवक्षाविषयविभक्त्यन्ततन्त्रं बोध्यम्। उपात्तधर्मसत्त्वे सांनिध्यात्तेनैव सा प्रतीतिरनुभवसिद्धेति भावः। अत्र संमतिमाह - तदुक्तमिति। तात्पर्यग्राहकमाह - वृद्धेति। अत्र भाष्यसंमतिमप्याह - अतएवेति। - तस्यैव--- तत्रान्वयादेवेत्यर्थः। अस्योभयत्रान्वयः। एतदुत्तरमितिसूचितं नावधारणपरं भाष्यमित्यत आह - शस्त्रीशब्देनापीति ।नन्वेवं शङ्काऽसङ्गतिरतः सिद्धान्तानुरोधेनाह - बहूनामिति। बहुगतधर्मस्यैव सामान्यत्वमिति तत्र समासे द्विगतधर्मबोधकत्वेनातत्त्वादिति भावः। उभयत्रेत्यस्य व्यख्या - शस्त्र्यामिति। - बहूनामिति। बहूनान्तेषामेव । नन्वेतद्भाष्यत उभयत्र गुणसत्तायाः, शब्दे द्वाचकत्वस्य च लाभऽप्युभयत्रान्वयो न लब्दोऽत आह - अत्रेति। सिद्धान्तभाष्ये इत्यर्थः। अन्यथा तद्वत्त्वाच्चेत्येव सिद्धे तथोक्तिरधिकेति स्पष्टमेव। किञ्च तथासति वस्तुतो बहुधर्मवाचकताया अपि श्यामाशब्दे सत्त्वेन " नावश्यम् " इत्यादिभाष्यस्थपूर्वपक्षस्य निरालम्बनताऽऽपत्तिस्तस्माद्यावतामर्थानां शब्दजबोधेऽन्वयस्तावतां तच्छब्दवाच्यतेत्येव भाष्यतात्पर्यम्।एवं भाष्यसंमनते सूत्रसंमतिमप्याह - अतएवेति। तस्योभयोः शाब्दत्वादेवेत्यर्थः। तथासति लक्षणया लब्धमर्थमाह - तच्चेति। एतत्सर्वं विग्रहविषयम्। वृत्तौ तु " उपमानानि " इत्युक्त्यैकार्थोभावबलात्तदुपस्थितिरिति बोध्यम्। यद्यपि तयोः स्वरूपतो भेद एव तथाऽप्युक्तरीत्याऽभेदस्यापि प्रतीतेः सामानाधिकरण्यनिमित्तसमासपुंवद्भावौ सिद्धौ। अनेन भाष्येणोपमानश्यामशस्त्र्यभिन्ना श्यामा देवदत्तेति बोध इति स्पष्टमेवोक्तम्। तदभिप्रेत्य प्रकृते आह - श्यामेति। एवेन बहुगतधर्मवाचकत्वाव्यवच्छेदः। एतेन तथा लोकप्रवादो निरस्तः। - एवञ्च---तथासत्त्वे च।।1.27।।

   एवं सिद्धान्ते आलङ्कारिकसंमतिमपि तदविरोधाग्राह - काव्येति। " तत्र तस्येव" इति विहितवतेरपि पूर्वत्र संग्रह इति ध्वनयन्नाह - तेनतुल्यमिति। तथा वाक्ये, तत्र विहितवतिघटितवाक्येचेत्यर्थः। बहुव्रीहावर्थासङ्गतेराह - यदनन्तरमिति। आर्थत्वे विरोधापत्तेराह - उपमानतेति। - तेषाम्--- यथेवादीनाम्।- उपमानविशेषणानीत्यस्वोपमानं विशेषयन्ति उपमानत्ववैशिष्ट्यैन बोधयन्तीति व्युत्पत्त्योपमानविशेषणोपमानत्वद्योतकानीत्यर्थः। तदाह - उपमानेति। - अस्याः--- तत्प्रतीतेः। अस्येत्यपपाठः। उपमानता सादृश्यमिति प्राचां मतमेव प्रकाशाभिमतमिति खण्डयति - उपमानेति। तत्रेष्टापत्तिस्तथैव पाठादितति खण्डयति - उपमानेति। प्रदीपेति। तत्र हि-- तन्वयं विभागोऽनुपपन्नः उभयत्र सादृश्यप्रत्ययाविशेषात्। नचेवादिशब्दैः साधारणधर्मसम्बन्ध उभयत्र बोध्यते न तुल्यादिशब्दैरिति विशेषः, यतो यथाऽऽदयो यदनन्तरमुपात्तास्तस्यैवोपमानपताप्रतीतिरिति उपमानविशेषणानि ते; अत उपमाने तत्सम्बन्धं बोधयन्ति, नतूपमेये, अन्यविशेषणस्यान्यत्र सम्बन्धबोधकत्वादर्शनादिति चेन्न। शब्दशक्तीत्याद्युक्तम्। अन्यविशेषणत्वेऽप्यन्यत्र सम्बन्धबोधकत्वेऽदृष्टचरत्वनिरासाय षष्ठीवदिति दृष्टान्त उक्तः। सा यथा ` राज्ञः पुरुष' इत्यादौ स्वस्वामि भावादिसम्बन्धबोधिका प्रकृत्यर्थस्य विशेषणत्वबोधिका च, विशेषणस्येतरविशेषणत्वार्थं सम्बन्धस्याकाङ्क्षणादिति तन्निष्ठविशेषण्तवास्वामित्वबोधकत्वेऽपि प्रधाने पुरुषे सम्बन्धस्व द्विष्ठतास्वभावात्वात्सम्बन्धघटकं स्वत्वं बोधयति, तथेवादिना तत्रोपमानत्वं तन्निर्वाहकाल्हादकत्वादिसाधारणधर्मसम्बन्धश्च बोध्यते उक्तहेतोरिति तदर्थः। तदाह - अन्यत्रेति। काव्यप्रदीपोद्‌द्योते इत्यर्थः। - एवम्--- " उपमानानि " इति सूत्रविषये घनस्यामादौ तथाङ्गीकारे। " उपमितम् " इतिसूत्रविषयेत दोषमाह - पुरुषइति। - समासइति। तथाच " सामान्याप्रयोगे " इति सूत्रं च व्यर्थं स्यात्। शङ्गायास्तत्रापि तुल्यत्वात्। अध्यर्द्धसूत्रसाधारणगत्यन्तरसम्भवे विशिष्य सूत्रवैयर्थ्योक्तेर्हेतुत्वमयुक्तमित्याशयेनाह - उपमानेति। " उपमितम् " इत्येतत्स्वारस्यात्, तस्योपमानेन नित्यसाकाङ्क्षत्वाच्च व्याघ्रादीनामुपमानत्वे एव तत्प्रवृत्तेः तस्य रुढत्वात्। - तच्च--- तादृशोपमानत्वं च। - तत्त्वेन--- साधारणधर्मतवत्त्वेन। तथाच तस्य सिद्धत्वान्नित्यसापेक्षत्वमिति भावः। नन्वेवं पूर्वसूत्रसार्थक्येऽपि नोत्तरसूत्रसार्थक्यमित्याशयेन शङ्कते - यद्यपीति। - तस्य तत्त्वम्--- उपमेयस्योपमेयत्वम्। - विधेयमेव। तत्रासामर्थ्ये हेतोः प्रसिद्धत्वायाह - सम्भवादेवेति। एतत्सूचकमेव विशेषणमित्याह - अत एवेति। तत्रासामर्थ्याभावादेवेत्यर्थः। ननु विधेयत्वेन पूर्वमप्रतीतावपि ततः प्रतीतस्य नित्यसापेक्षत्वं दुर्वारमिति तथा प्राचां ग्रन्थासङ्गतिरेव अत आह - अस्तुवेति। अत्र मते वैलक्षम्यमाह - परन्त्विति। - तत्त्वम्--- नित्यसापेक्षत्वम्। - गमकत्वम् अर्थावबोधकत्वम्। अन्यथा दोष इत्याह - इतिसमासेति। - तस्येति। ` राटपुरुषः सुन्दर' इत्यादौ प्रधानस्यार्थावबोधकत्वमित्यर्थः। - अत्रापि--- सामान्यप्रोयगेऽपि। प्राग्वदाह - इदमिति। उक्तविशेणमेवेत्यर्थः। - तत्र--- नित्यसापेक्षप्रधानसमासे। अत एव पुरुषव्याघ्र इत्यादौ समाससिद्ध, अन्यथा आक्षिप्तसादारणधर्मान्वयस्योभयत्राप्यावश्यकत्वेन तत्रापि सामासो न स्यात्।। 1.28।।

  विशेषं वक्तुं प्रकाशतात्पर्यमाह - एवञ्चेति। तथा सिद्धान्तेचेत्यर्थः। - आर्थोति।हेतुतुमतोर्नित्सम्बन्धेन तात्पर्यतों वत्त्रादिवैशिष्ट्येन च व्यञ्चनया तत्प्रतीतेरिति भावः। नन्वयुक्तमेतत् सादृश्यस्य धर्मरूपत्वेन ततो भदाभावादात आह - सादृश्यन्त्विति।अस्य जनकमाह - साधारणेति। ज्ञापकं सिद्धान्तमतेनाह - सदृशेति। परमतेनाप्याह - अखण्डमिति । तस्य क्वचिदप्यन्तर्भावासम्भवादाह - अतिरिक्तमिति। - संख्येति। षोडशत्वसप्तत्वेत्यर्थः। आद्याविरोधसम्भवान्न तथेत्याह - प्रमेयेति। द्वितीयविरोधमाद्योक्त्याऽन्यथा परिहरति - किञ्चेति। पदार्थगतसंख्यानिबन्धनमित्यर्थः। तत्र " अथेमे संख्यैकान्ताः---सर्वमेकं सदविशेषात्, सर्वं द्वेधा नित्यानित्यभेदात्, सर्वं त्रेधा ज्ञातृज्ञानज्ञेयभेदात्, सर्वं चतुर्धां प्रमातृप्रमाणप्रमेयप्रमितिभेदात् । एवं यथासम्भवमन्येष्वपीति। तत्र परीक्षासंख्यैकान्तेति ।यदि साध्यसाधनयोर्नानात्वं तदैकान्तो न सिध्यति व्यतिरेकात्। अथ साध्यासाधनयोरभेदः एवमप्येकान्तोन सिध्यति साधनाभावात्। नहि तमन्तरेण कस्यचित्सिद्धि " इति वात्स्यायनभाष्यं तदाह - पदार्थेति। - उपपत्तौ---तत्रापि । एतेन तन्नियमपरतया व्यख्यानं तत्परिष्कारं च कुर्वन्तोऽर्वाचीननैयायिकाः परास्ताः। मूलविरोधात्। सर्वपरमतनिरासाय स्वमते साधकान्तरं विशेषं वक्तुमाह - किञ्चेति। प्रसज्यप्रतिषेधात्पर्युदासोन्याय्य इत्याह - नञिवेति। नञ्युक्तमिवयुक्तञ्चेति यत्किञ्चित् दृश्यते तत्र तस्मादिति शेषः। योगश्च प्रयोगभेदेन बोध्यः। तथाच चो वार्थे। - तत्सदृशे--- अधिकरणे द्रव्ये। - तथाहीति-- हि यतः, लोके तादृशार्थप्रतीतिरेवास्तीत्यर्थः। तदेवाह - तद्यथेति। - लोष्टम् मृत्पिण्डम्। - एवञ्चेति। पर्युदासेन तथा लाभेचेत्यर्थः। एतेन फलान्तरम्, अर्थान्तरञ्चास्वा वदन्तः सीरदेवादयः परास्ताः। नन्वेवं कथं प्रतिषेधोक्तिरत आह - कर्तृनिषेधादिति। सिद्धान्तमतेनाह - आरोपितेति। अनेनायं शाब्दः स आर्थ इति सूचितम्। प्रकृतोपयोगमाह - अनेनहीति। हि यतः, सादृश्यस्यातिरिक्तत्वात्। - तथेवेति। यथा नञ्‌योगे उक्तविषये तथाशाब्दार्थेन भेदसादृश्ययोः परिभाषाप्रतिपाद्ययोर्गम्यत्वं तथेत्यर्थः। तुल्यतया प्रतिपादनादिति भावः। - तद्वाच्ये--- इववाच्ये। नन्वेवमिवयुक्तोदाहरणासम्भवः, ` चन्द्र इव मुखम्' इत्यादावभेदवत् भेदस्यापि शाब्दत्वात्। अत एव " तत्र तस्येव " इति विहितवत्यन्तमपि न , नापि केवलं चन्द्रइवेत्यादि तस्य प्रसिद्धार्थे प्रयोगेऽपि तदर्थे शिष्टप्रयोगाभावादत आह - इवेति। अधिकारेइति। पठितेनेति शेषः। तत्रारोपितसोमबोधस्य शाब्दत्वादाह - तद्भिन्नः। - प्रतीयत इति। ननु तत्र गमकासम्भवात् उक्तार्थासम्भवेऽपि सादृश्यमिववाच्यमेवास्तु , भेदस्यतु तदर्थत्वमेव तत्प्रागुक्तं तदेतद्धृनयन्नाह - नतुसोम एवेति। एवंच परिभाषायामिवस्तादृशनञर्थसजातीयार्थक एव। तद्युक्तत्त्वमप्यर्थयो नतु शब्दत इति बोध्यम्। नैयायिकादिमतं खण्डयति - एतेनेति। अन्यपदघटितपरिभाषाव्यख्यातृभाष्यविरोधेनेत्यर्थः। मतद्वयसंग्रहायाह - भेदनियतमिति । अतएवाह - अस्याइति।। 1.29।।


    नन्वभेदे सादृश्यमतमपि दुर्घटं तत्प्रयोजकसाधारणधर्मसम्बन्धामावात्, धर्मे साधारणत्वस्य भेदनियतत्वरूपत्वादित्याशयेन शङ्कते - नचेति। धर्मस्यैवेत्येवेनोक्तब्यवचेछेदः। - तत्र अभेदस्थले । एवञ्च मुखत्वादेस्तत्त्वं सिद्धमिति नोक्तदोषः। अत्र मानमाह - अत एवेति। तस्य तत्त्वाङ्गीकारादेवेत्यर्थः। ऋषिसहस्रमित्यत्र कर्मधारय इति सूचयन्नाह - सहस्रमिति। - तथा--- एककपिलया। - सहस्रेति। सहस्रगोदक्षिणादानफला इत्यर्थः। तस्य छान्दसत्वसूचनद्वारा परसंमतभाष्यीत्वनिराससूचनायाह - श्रौतेनेति। स्पष्टं श्रौतव्यवाहरमाह - अत एवेति । उक्तोऽर्थः। एवमग्रेऽपि । - इतीत्यस्य सप्तदशत्वमित्यत्रान्वयः। - श्रुतावित्स्य पठितेत्यत्रैवान्वयः। अन्यदाह - अत एवेति। एतेनेत्यस्यार्थमाह - मुख्येति। अन्यदप्याह - उक्तरेति। तत्रैव पक्षे इति भावः। प्रासङ्गिकमाह - एवं चेति। तस्या गौणत्वेचेत्यर्थः। प्रकृते तथाऽऽह - एवमिति। त्दवदित्यर्थः। एकस्येति शेषः। - धर्मस्य--- मुखत्वस्य। नन्ववमनन्वयालङ्कारोच्छेदापत्तिरित्याशयेनाह - न चैकेति। - भेदेन--- तेनापि। एतेनानन्वयव्यवच्छेदः। - असंस्पर्शः--- पदप्रतिपाद्यत्वम्। तत्त्वं प्रतिपादकोच्चारितभिन्नशब्दनियत्। नन्वारोपिताभेदस्योपमायो यथा शब्दबोध्यत्वे तथा तत्रास्त्वत आह - अत एवेति। तस्य तदसंस्पर्शादेवेत्यर्थः। अस्योक्त्‌वा सिद्धान्तितमित्यत्रान्वयः। अभेद एव उपमानोपमेयभाव इति पक्षे आह -यदिति। - यदेवतदेवेत्येवाभ्याम् यत्तत्प्रतिपादितयोरत्यन्ताभेदः सूचितः। शङ्काशयं सार्थमाह - उपम्नेति। उपमाशब्दः प्रयोगान्ते लाक्षणिकः। अर्थशब्दः फलवाचीति भावः। - कर्मेति। रूपशब्दो भावशब्दवद् धर्मपरः। तयोरभेदः। कर्मकरणत्वरूपं यदुपमानोपमेयत्वं तद्बोधस्येत्यर्थः। धर्म्यभेदे तु व्युत्त्रमाद्यतासंख्यासम्भवेनासाधुत्वाच्चासङ्तिः स्पष्टैव। - करणत्वरूपेति पाठस्तु सुगमः। नन्वेवमप्यन्यद्यतकत्वमिवस्यास्तामत आह - इवस्येति । उत्प्रेक्षादेरसम्भवादिति भावः। - नचेति। तदभावेऽपि तत्पदप्रयोगसामर्थ्यात्। तथाच तत्र तथा दर्शनात्सर्वत्र तथैव किमिति प्रश्नतात्पर्यम्। यद्यपि तत्र नोपमानत्वादिव्यवाहारस्तथाऽप्यगत्या तदभ्युपगमेऽप्याह - गोसदृशइति। - तत्सम्भवात्। ---तद्व्यवच्छेदबोधसम्भवात्। - तद्बोधेतिच पाठान्तरेऽप्यर्थः स एव। तावता " किम् " इति शङ्कानिरासायास्याप्यावश्यकत्वात् कथं प्रयोग इति शङ्कां निराचष्टे - अभेदेऽपीति। - अबोधकेति। उक्तार्थाबोधकेत्यर्थः। प्रश्नतात्पर्यमाह - एवं चेति। फलाभावनादप्रयोगापत्तिावित्यर्थः। अत्र पक्षेऽस्यैवोदाहरत्वेन तत्र चोपमानत्वाद्यप्रतीत्वा सर्वथे्वादिघटितप्रयोगस्य बोधकस्य मुख्यस्यासम्भव इति उपमोदाहरणासम्भवः," उपमानानि" इति सूत्रवैयर्थ्यं चेत्यर्थः। - इत्याशयकमिति। एतेन कैयटोक्ताशयः परास्त इत्युद्‌द्योते स्पष्टम्। एवन्तर्होत्यस्य तत्रत्यस्यार्थः - तस्मादिति। - तत्रि-- प्रश्नभाष्ये। व्यक्तिभेदे आह - भिन्नेति। - तदिति। उपमानोपमेयभावेत्यर्थः। व्यक्त्यभेदेऽप्याह - ारोपरितेति। - तत्रगौरित्यत्र। - तस्य---अन्यतरस्य। तत्र बीजमाह - सामान्येति। शब्दैक्यादिति भावः। ननु सिद्धान्ते कथं द्वयोरुक्तिसंभवोऽत आह - अत्रेति। सिद्धान्ते इत्यर्थः। - इत्यादोः---- इवघटितप्रयोगस्येत्यर्थः। अत एव तत्र गतिमाह - गौरिवेति। किञ्चेत्याद्युक्तमुपसंहरति - तस्मादिति। अत्रालंकारिकसंमतिमप्याह - काव्येति। तत्र भेदपदस्यानन्वयव्यावृत्त्यर्थत्वेनोक्तेः। सिद्धान्तभूतोक्तभाष्यतात्पर्यमाह - यत्रेति।- साधारणधर्मेण--श्यामत्वादिना। - सामान्येति। अभेदेत्यर्थः। - प्रत्येकेति। शस्त्रीत्वादिनेत्यर्थः। - विशेषेति। भेदेत्यर्थः। नैयायिकोक्तिं खण्डयति - एतेनेति। - इत्यादौ--- अनन्वयलक्ष्ये। एवेन तत्खण्डनम्। एतेनेत्यस्यार्थमाह - तस्येति। नन्वेवमपि प्रागुक्ते गोसदृशो गौरित्यत्र कोऽलङ्कारोऽत आह - मुखेति। दृष्टानतविधया आह - गौरिवेति। तत्र तदप्रतीत्या तद्वदत्रापि तदप्रतीतेः स एवेत्यर्थः। अन्यतरत्रान्यतराप्रतीत्याऽन्यतरोपमा तूक्तरीत्या दुर्वचैवेति भावः। ननु कथं तत्र सः तद्वत् द्योतकासमभिव्याहारेणोपमात्वाद्यप्रतीत्या तल्लक्षणानाक्रान्तत्वादत आह - उपमेति। यत इत्यादिः। शब्दसंस्पृष्टभेदसमानाधिकरणसाधर्म्यरूपोपमायाः सम्बन्द उपमाया यत्रेति व्युत्पत्याऽन्वर्थमलङ्कारनामानन्वयपदमिति सूचितम्। तदभावश्च भेदाभावकृतः । साधर्म्यस्योक्तरीत्या सत्त्वात्। अत एवोपमानान्तरव्यवच्छेदः फलितः। तमेव चगृहीत्वा उपमानान्तरसम्बन्धाभावोऽनन्वय इति प्रकाशप्रदीपादावुक्तम्। व्याख्यातं तथैव तदुद्‌द्योतेऽपि गुरुचरणैः। अत एव नमिथस्तैश्च विरोधः। तथा च द्वितीयसदृशव्यवच्छेदबुद्धिफलकवर्णमात्रविषयैकनिष्ठोपमानोपमेयत्वं तथेति सिद्धम्। एवं चानन्वयविषये आपाततः शाब्दबोधोपपत्तये उपमानान्तरव्यवच्छेदबोधाय चाहार्यो भेदाभावेऽपि भेदविशिष्टसाधर्म्योपचारः इति तत्रेवादेरुद्देश्यभूतस्वसमभिव्याहृतभेदविशिष्टसाधर्म्यस्य निरुपमस्य च द्योतकत्वमिति गोभिन्नो गोसदृशो निरुपमो गौरित्यादिरीत्या बोधः। एवंच मुखसदृशं मुखमित्यादावपि गौरिव गौरित्याददाविव वस्तुतो भेदाभावेन द्विविधोपमाया अभावेऽपि दृष्टान्ते तद्‌द्योतकेवादिसत्त्वात् तस्य शाब्दत्वं केवलसादृश्यस्यार्थत्वम्, आद्ये सदृशादिपदस्य सादृश्यमात्रबोधकत्वात्तस्य चोक्तरीत्याऽभेदेऽपि सत्त्वात्ततोऽपि तद्व्यवच्छेदसम्भवात्‌तस्य केवलं शाब्दत्मुक्तान्वयस्यार्थत्वमिति भावः। नन्वेवं चन्द्रसदृशं मुखमित्यादावपि तद्वच्छब्दतस्तदप्रतीत्या तदभावसत्त्वादनन्वयापत्तिरिति सिद्धान्तविरोधापत्तिरत आह - तत्रेति। उपमाऽनन्वयविषये इत्यर्थः। - भेदे-- वस्तुतः। - प्रतीतेरिति। तथाच तत्सम्बनन्धस्यैव सत्त्वेन तदभावाभावान्नानन्वय इति। भावः । - सर्वथेति। अर्थतः, शब्दतश्चोपमाया अप्रतीतेरित्यर्थः। भेदाभावादिति भावः। ननूपमायाः शाब्दत्वे कारणसत्त्वे कार्यसत्ताऽऽवश्यकतया तात्पर्यतया सादृश्यप्रतीतेरार्थत्वेऽपि सादृश्यस्य शाब्दत्वे तत्र कथं उपमाया गम्यत्वमपि। कार्येण कारणानुमानन्यायेन तथेति चेत् तर्हि मुखसदृशं मुखमित्यादावपि तदापत्तिरिति प्रागुक्तासङ्गतिरत आह - तत्रेति। भेदविषये तत्प्रयोगे इत्यर्थः। एवंच नातिप्रसङ्ग इति भावः। नन्वेवमनेकत्वे तत्र कथं तल्लक्षणसमन्वयस्तस्यैकत्वघटिस्य प्रकाशाद्युक्तत्वादत आह - अनन्वयेति। तथा च समानार्थक एकशब्दो न संख्यापर इति भावः। अभेदे सादृश्यसत्त्वे भाष्यान्तरमपि गमकमाह - अत एवेति। सादृश्यस्याभेदे सत्त्वादेवेत्यर्थः। यथाश्रुते प्रथमवाक्येऽणुदित्सूत्रप्रवृत्त्या प्राप्तातिप्रसङ्गवारणायाह - ऊ अजित्येवेति। अभेदेनान्वयेऽचपदानर्थक्यादाह - सामर्थ्यादिति। एवेनाणुदित्सूत्रगृहीतव्यवच्छेदः। बहुवचनं व्यक्त्यभिप्रायम्। अत एवेत्यस्याशयमाह - भेदेएवेति। प्रयोगादिभेदेन भेदं स्वीकृत्य तदुपपादने तु तस्य सार्वत्रिकत्वेन व्यावर्त्त्याभावात्तदुक्तिनैष्फल्यमेव तदाह - इत्यलमिति।। 1.30।।


    तस्यातिरिक्तत्वं द्रढयति - सादृश्येति। एवव्यवच्छेद्यमाह - नत्विति। - अतएव--- तस्यातिरिक्तत्वादेव।- इत्यादि--इत्याद्यपि। प्रकृत्यादित्वादभेदतृतीययोपपत्तौ क्लेश इत्याह - आञ्जस्येनेति। नन्वेवमपि तस्यैकत्वे बहूपप्लवापत्तिरत आह - तच्चेति। सादृश्यं चेत्यर्थः। तथैव तस्य सिद्धिरत्याह - व्यञ्जकेति। नित्यत्वपक्षेणेदमिति न पू्रवविरोधः। ननूपमानस्योपमेयवृत्तित्वं बाधितमत आह - सादृश्येति। अत एवेत्यस्यार्थं सूचयन्नाह - साधारणेति। - ममत्विति। शस्त्रीश्यामेत्युक्ते इति भावः। एतेन " न तत्त्वान्तरं सादृश्यं प्रत्यक्षोपलब्धेः " इतिसांख्यसूत्रेण प्रत्यक्षेण साधारणधर्मरूपस्यैवोपलब्धेरित्यार्थकेनोक्तमपास्तम्। उक्तप्रमाणसिद्धत्वात्। कंबुग्रीवादिमत्त्वाद्यतिरिक्तघटत्वादेरपि प्रत्यक्षेणानुपलम्भात्तेषामपि तत्त्वान्तरत्वानापत्तेश्च ।तदाह - इत्यलमिति।इवांशे शरैरित्यतो विशेषस्तावत्परीत्या आह - मातेवेति। राजन् हरीतकीं भुक्ष्वेत्यादिः। - प्रतियोगीति। एनेन प्रागुक्ते शुद्धसादृश्यमिवार्थ इतिपक्षे षष्ठ्यापत्त्यनिवारमात्स पक्षोऽयुक्त एवान्यथाऽसाधुत्वमस्य स्यादिति सूचितम्। अत एव सादृश्यस्य भेदेनोपमेयेऽन्वयः नामार्थयोरिति व्युत्पत्तिर्निपातातिरिक्तविषयेतत्यति निरस्तम्। उक्तयुक्तेः। तस्या नामत्वात्, पदार्थ इतिन्यायेन प्रधानान्वये सम्भवति एकदेशान्वयासंभवेनोक्तदोषाच्च। तदेदद्ध्वनयन्नाह - सादृश्यवत इति। अत एवाह - तदेकदेशइति। प्रधानान्वयासंभवेन व्युत्पत्तिवैचित्र्यादिति भावः। कश्चिदितिसूचितारूचिं कथयन् सिद्धान्तमाह - असाध्वेवेदमिति। तथा व्युत्पन्नस्य दुर्निवारत्वादिति भावः। - वार्त्तिकमिति। जातावेकवचनम्। निपातस्थले तादृशे प्रागुक्तोभयपक्षव्यवस्थां सामान्यत आह - तत्रेति। क्रियागतविशेषबोधकाधकातिरिक्तनिरातस्थले इत्यर्थः। - तस्य--तादृशनिपातस्य ।तेषामित्यस्योभयत्रान्वयः । चैत्रस्येव मैत्रस्य धनमित्यादावुभयत्रापि धनयोगे षष्ठी। चैत्रादधीते इत्यादौ चैत्रादित्यस्य तदपादानकेऽध्ययने लक्षणा, उक्तरीतिर्वा, नत्वधीते इत्यनेनान्वयः ।आख्यातवाच्यस्योपमानत्वाभावादित्याद्यूह्यम्।।1.31।।


   अथ प्रसङ्गान्निपातविशेषनञर्थं तत्र गमकेत्याद्युक्तस्य तावदप्युदाहरणमाह - घटो नास्तीति। प्रसज्यप्रतिषेधविषये इत्यर्थः। यथाचैतत्तथाऽनुपदमेव स्फुटीभविष्यति । पर्युदासविषयमाह - नानुयाजेष्विति ।स्वमते तत्त्वमुपपादयति - आरोपितेति। " यजतिषु येयजामहं करोति " इति वक्ष्यमाणश्रुत्यर्थसिद्धं तदादिरित्याह - यजतिष्वितीति। तथाच तस्य तेन सामानाधिकरण्यात्तदुपपत्तिः। विपक्षे बाधकमाह - अन्यथेति। तथाऽर्थानङ्गीकारे इत्यर्थः। भेदस्य वाच्यत्वपक्षे विषेष्यतयैव बोधादाह - भेदेइति। तस्य द्योत्यत्वेन विशेषणत्वेऽपि नञर्थस्य प्रतीयोगिन्यन्वयेन तद्बत्तदसामानाधिकरण्यात्तदनुपपत्तिरेव, तदेतद्ध्‌यनयन्नापोपमात्रं नञर्थो विषत्वं संसर्गो लाघवादिति दीक्षितभूषणाद्युक्तेः प्रागुक्तरीत्या विना प्रत्ययं तेन सम्बन्धेन बोधासम्भवनोसाङ्गत्यात्प्रथमपक्षेत्वेन तदुक्तमेवाह - आरोपेति। - तत्र--- पर्युदासस्थले। सामसे तथाऽङ्गीकारे दोषद्वयसत्त्वादिदमत्यावश्यकमिति तदैकरूप्यमपीत्याह - तस्य तत्रेति। तद्‌द्योत्यत्वादेवेत्यर्थः। - प्राधान्यम्---भाष्योक्तम्। - सर्वेति। तदादिकार्यम्। ननु न गौणमुख्यन्याबघटकगौणत्वमत्र, अत आह - इतरेति। आरोपविषये घटादिपदानां शक्तिर्नञो द्योतकत्वमित्यपि तदुक्तमयुक्तम्। वृत्तिद्वयकल्पने विशिष्टशक्तिकल्पनेऽक्लृप्तकल्पनेच गौरवादतः शक्यतावच्छेदकारोपो लक्षणेति सिद्धान्तरीत्या सघुभूतं सिद्धान्तमाह - यद्वेति। नञित्यस्व ग्राहक इत्यत्रान्वयः। अन्यत्र तेषामनारोपितप्रवृत्तिनिमित्तवति शक्तेराह - स्वेति। आरोरितं यत् प्रवृत्तिनिमित्तन्तद्रूपेण बोधकत्वे इत्यर्थः। यद्वा बहुव्रीहिरारोपितप्रवृत्तिनिमित्तकबोधे इत्यर्थः। तथाच तद्वति ते लाक्षाणिका इति सूचयन्नाह - यथेति। अत एव वृत्त्यद्बोधकत्वमिति प्रागुक्तम्। अत्रेवं रीतिः क्लृप्तेति भावः। एवञ्च लाक्षणिकतामात्रेण न गौणत्वमिति न काऽपि शङ्केति तात्पर्यम्। एवं सति तत्सादृश्यभावश्चेत्यादिप्राचीनोक्तषडर्थोपपत्तिः। सादृश्योदाहरणस्याब्राह्मणमित्यस्य प्रागुक्तत्वात् तत्क्रमानादरेणाह - अनुदरेत्यादि । आरोप्येत्यस्य जायमामनयेति शेषः। आरोपितोदरबुद्ध्येति पाठः । विश्रम इति पाठः। तादात्म्यारोपस्य भेदसादृश्ययोः सतोरेव सत्त्वेन संसर्गरोपस्य तदभावे एव सत्त्वेनारोपितत्वबोधोत्तरं प्रकरणादितात्पयग्राहकवशादर्थतो मानसः सादृस्याभवादेर्बोध इत्यर्थः।अनश्वइति प्राचोक्तभेदोदाहरणस्याब्राह्मण इत्यतोऽविशेषाच्चिन्त्यत्वमिति सूचयन्नाह - आद्विजइति। प्रवृत्तिनिमित्तरोप इत्यर्थः। - इतिर्हेतौ। - इत्यादौचेति। तद्विरोधमूलकस्तत्प्रवृत्तिनिमित्तापरोप इतीति शेषः। - विश्रान्तिरित्यस्यानुषङ्गोऽग्रे। अपापम्, अपशवः इति अभावाप्रशस्त्ययोकुदाहरणे बोध्ये। नन्वेवं तस्य वाच्यत्वेऽपि विशेषणत्वान्न प्रागुक्तदोषा इति किमर्थं द्योतकत्वमत आह - आरोपितेति। अत्र भाष्यसंमतिमाह - तत्रेति। नञ्‌समभिव्याहारे सर्वत्र इत्यर्थः। -इदमेव--- तत्त्यागपूर्वकतत्परिग्राहकत्वमेव। एवेन पूर्वमतव्यवच्छेदः। नन्वेवं पृथगर्थाभावेनैकार्थोभावाभावात्कथं समासोऽत आह - एतावतैवेति। तद्‌द्योतकत्वेनैवेत्यर्थः। उत्तरपदार्थप्राधान्यवत् एवेन वाचकत्वव्यवच्छेदः। नन्वेवमप्युत्तरपदार्थान्यार्थस्याप्रतीत्या विशिष्टस्य शक्यभावेनानर्थकत्वात् कथं प्रातिपदिकत्वमत आह - विशिष्टेति । तत्र बीजमाह - द्योत्येति। उत्तरपदलक्ष्येत्यर्थः। समासे सर्वत्र शक्तिस्वीकारादाह - शक्ताविति। ननु रूपसिद्ध्‌या भिन्नार्थत्वमेवास्त्वत आह - समासेति। ऐकपद्यैकस्वर्यार्थमिति भावः। नन्वेवं द्योतकत्वाविशेषात्प्रजयतीत्यादावपि विशिष्टस्यैवार्थवत्त्वापत्तिरत आह - प्रजयतीति। शास्त्राप्रामाण्यं परिहरति। - अवयवेति। न केवलमत्रैवेत्थमपि तु अन्यत्रापीदमावश्यकम्। किंच रेखागवयन्यायेनापि शास्त्रोपयोगो बोध्यः। तदाह - इति दिगिति।। 1.32 ।।


    सिंबावलोकनन्यायेनाभावोदाहरममत्राग्रे विशेषं सूचयितुमाह - असन्देहइति । - भेदेति। तन्मूलकम्बन्धेनेत्यर्थः। - चस्त्वर्थे। " रक्षोहागलध्वसन्देहाः " इत्यत्र त्वगत्या तत्प्रागभावधीरित्यन्यत्र स्पष्टम्। अथ घटो नास्तीत्यद्युक्तं विशदयति - असमस्ते त्विति। समासादितो वैलक्षण्यसूचकस्तुः। - नञर्थः--- नञ्‌वाच्यः। - तत्र--- तयोर्मध्ये।
  यत्तु नैयायिकाः नित्यसंसर्गाभावस्तादात्म्येतरसंसर्गावच्छिन्नप्रतियोगिताकाभावो वाऽत्याभावस्तादात्म्यसंसर्गावच्छिन्नप्रतियोगिताकाभावोऽन्योन्याभाव इति।
  तन्न। तस्य प्रागुक्तरीत्या नित्यत्वाभावात्, गुरुत्वाच्च। तद्ध्वनयन्नाह - तादात्म्येतरेति। अन्योन्याभावेऽनतिप्रसङ्गार्थमिदम्। - सम्बन्धाभाव इति। सम्बन्धप्रतियोगिकाभाव इत्यर्थः। एवमग्रेऽपि। ननु तादात्म्यमत्र न धर्मिरूपम्, अशब्दार्थत्वात्, अत एव न सम्बन्धरूपमपि, सम्बन्धलक्षणानाक्रान्तत्वाच्च, अत एव न भेदविशिष्टाभेदरूपमपीत्यत आह - तादात्म्यमिति ।सम्बन्धविशेष इत्यर्थः। ततो लाघवादाह - तद्वृत्तीति। साधारमधर्मस्य तत्र ततोऽनुपस्थितेरतिप्रसक्तत्वाच्चाह - असाधारणेति। अत एव तादात्म्याभाव इत्येवोक्तं न तु तत्सम्बन्धाभाव इति। नन्वेवं कथमनयोः सर्वसंमतं घटादिप्रतियोगित्वमत आह - समनियतेति। द्रव्यत्वगुणाश्रयत्वक्रियाश्रयत्वाभावादिस्थले इत्यर्थः। परैस्तेषामैक्याङ्गीकारादाह - एकस्येति। अभावस्येत्यर्थः। घटादितत्सत्तातत्सम्बन्धातां समनैयत्यादेवाह - अनयोरिति। अत्यन्ताभावान्योन्याभावयोरित्यर्थः। एवं च न तदतिरिक्तः कश्चिद्‌ घटाद्यभावादिरिति भावः। कृद्वाणायाह - तिङिति। फलादिवारणाय - क्रियेति। एवेन द्रव्यादिव्यवच्छेदः। तत्रैव तत्प्रयोगसाधुत्वे बीजमाह - असमस्तेति। तत्त्वंच समाससंज्ञकशब्दघटकभिन्नत्वम्। नन्वेवमिदं विशेषणं व्यर्थम्, असन्देह इत्यादौ समासे तथा बोधस्यैवाभावात्। नच पूर्वं तदभावेऽपि पश्चाज्जायमानात्यन्तभावबोधे व्यभिचार इति तदावश्यकमिति वाच्यम्। एवमपि नऽसमासस्यापि वैकल्पिकत्वेन तदीयलौकिकवाक्ये` न सन्देहः' इत्यादावपि तथा बोधेन व्यभिचारतादवस्थ्यादिति चेन्न। तत्त्वस्य समासायोग्यसमूहघटकत्वरूपस्य विचक्षितत्वात्। नन्वेमप्यसमस्तनञर्थेत्येतावन्मात्रोक्तौ नानुयाजेषु अद्विज इत्यादौ पूर्वं तथा बोधाभावेऽपि पश्चात्तथाबोधेन व्यभिचार एवात आह - अत्यन्तेति। तत्र तु भेदविशेष्यकत्वमिति समासः। तथाच प्रसज्यप्रतिषेधीयो नञिति तात्पर्यम्। तत्र तूक्तहेतोः + पर्युदासएव। ( + अत्र 1 पुo पत्तेश्चेति खण्डतमुपलभ्यते हेत्वन्तरमसुच्चायकम्। परन्तु 2 पुo तदनुपलम्भात्खण्डितत्वाच्चात्र नोपन्यस्तम्।) सामर्थ्यसत्त्वेऽपि समासो वैकल्पिकत्वान्नाद्ये। एनेनोभयसंशये समासापत्तया पर्युदासो न किन्तु प्रसज्यप्रतिषेध इत्याशङ्क्योक्तरीत्या पर्युदासे एव समासाभावोऽपि, विभाषेति तु कार्यमेवेति बाधलक्षणे सिद्धान्तोक्त्या तस्य न क्रियान्वयनियमोऽन्यत्राप्यन्वयसिद्धेरिति परास्तम्। विभाषेत्यस्याफलत्वस्यान्यथा भाष्ये स्पष्टत्वाच्च। अत्रापि बीजमाह - अत एवेति। तस्य तदन्वये एव साधुत्वादेवेत्यर्थः। अस्योपपद्यते इत्यत्रान्वयः। व्युत्क्रमेणाह ( (1) ` अन्वयः। औत्सर्गकैकवचनेन तत्सिद्धेराह घटाविति। पुरुषविधायकसूत्रक्रमेण त्वमित्याद्युक्तिक्रमेणाह युष्मदादेरिति। तत्क्रमेमैवाह त्वदेति' इति पुस्तकातन्तरे उपलभ्यमानः पाठः। मूले उपलभ्यमानस्तु स्थापित एव।)

    - अहमिति। औत्सर्गिकैकवचनेन तत्सिद्धेराह - घटाविति। पुरुषविधायकसूत्रक्रमेणाह - युष्मदादेरिति ।उक्तक्रमेणाह - मदेति। इत्यादिवदन्वये ( (2) अन्वयेत्वित्य्रथमूले इति पाठः पु---2 )चेत्यर्थः। नन्वाख्यातार्तसंख्याया भावनान्वयिनीव परमते भावनान्वयिनञ्‌र्थसंख्यायं भावनाञर्थप्रतियोगिन्यप्यन्वयो व्युत्पत्तिवैचित्र्याद्, एवञ्च तदर्थसख्यान्वयित्वमेव तत्सामानाधिकरण्यमिति पुरुषवचनव्यवस्थोपपत्तिरत आह - आख्यातार्थेति। अभ्युपेत्येदम्। वस्तुतः स एव नेत्याह - किञ्चेति। नन्वेवं घटो नास्तीत्यादितो घटकर्तृकसत्ताऽभावादिबोधेऽपि घटाभावाद्यबोधात् घटादिविषयकसन्देहारपत्तिः, तद्वत्ताज्ञानस्याप्रतिबन्धकत्वापत्तिश्चाविरोधादित्यत आह - घटसत्तेति। आदिना तदप्रतिबन्धकत्वपरिग्रहः। एतेन ` न पचति चैत्रः ' इत्यादौ पाककृत्यभाववांश्चैत्र इत्यादिवत् घटो नास्तीत्यादावपि सत्ताश्रयत्वाभाववान् घट इति बोधात्तयोर्व्यवस्था सिद्धा। कर्तृत्वनियामकं चाख्याततत्समभिव्याहृतनञेतदन्यतरार्थाश्रयत्वमेव । संख्या तु भावनाप्रतियोगिकनञर्थान्वय्यन्वयिन्यपीति न दोष इति नैयायिकोक्तमपास्तम्। सर्वानुभवसिद्धघटाभावबोधानुपपत्तेः। ममतु घटकर्तृकसत्ताऽभावस्य घटाभावसमनियतन्वेन तद्बोधोपपत्तेः, वक्ष्यमाणदोषच्च। विशेषं वक्तुं तुल्वयुक्त्या प्रसङ्गात्तदर्थमाह - एवमिति। समनियताभाववदित्यर्थः। सन्देहादीत्यादिना तदभावबुद्धिपरिग्रहः। खण्डयितुं नैयायिकमत आह - समेति। समनियताभावानामित्यर्थः। क्वचित्तथा पाठ एव। तत्र बाधकमाह - नचेति। तस्यान्यविषयकतया न बाधकत्वमित्याह - लाघवादिति। स्वतः स्वरूपभेदेऽप्यैक्ये दृष्टान्तमाह - घटत्वेति। एकस्मिन्नेव भेदत्वेन घटप्रतियोगिकता अत्यन्ताभावत्वेन च घटत्वप्रतियोगिकतेति भावः। भावाभावयोरैक्ये दृष्टान्तमाह - घटत्वेति। - भावयोरपि---- घटतत्सत्ताऽऽद्योरपि । - तत्त्वम्--- ऐक्यम्। - हेतोः--- लाघवादित्याद्युक्तस्य। असमनैयत्वयमादाय दोषमाह - एक एवेति। उभयकल्पनेनेत्यर्थः। आदिना धर्मितात्त्विकत्ववादिसलान्यमतसंग्रहः। - अपिः सिद्धान्तमतसमुच्चये। यथा तत्र तत्त्वं तथा प्रागुक्तम्। अत एवेष्टापत्तौ समनैयत्वमादायैव दोषान्तरमाह - तद्रूपेति। उक्तयुक्त्यैव । इदं तु नेष्टं तेषां समवनायैक्यमादाय दोषापत्तिवारणाय तद्भेदावश्यकत्वात्। अत्र द्वितीयदोषं परिहरति ( पर उद्धरतीत्यपि पाठः क्वचित्।) - तत्रेत्यादिकेचिदित्यन्तेन। - तत्र--तद्रूपतद्रसादौ। तस्याप्रसक्तत्वात्। ननु रूपं भासते इत्यादिप्रतीतिर्नैव, सर्वरूपभानासम्भवात्, किन्तु विशेषप्रतीतिरिति तदवच्छेदकेन तद्रूपत्वादिना तदस्त्येत्यत आह - तद्रूपमिति। एवेन तस्य व्यावृत्तिः। नन्वेवन्तेषामभावानान्तयोर्भावाभावयोः भावयोश्च समनैयत्यं न स्यात् रूपत्वादिवदभावत्वभेदत्वसत्तात्वादेर्भासमानताऽवच्छेदकस्यातिप्रसक्तत्वादत आह - क्रियायाइति । - तत्र--- तेषु। तथा च तत्र तत्तदभावत्वतत्तत्सत्तात्वादि भासमाननताऽवच्छेदकं रूपम्, नोक्तरूपमिति न दोषः। केचिदित्यरुचिबीजं तु तत्रापि तद्रूपत्वादेर्भासमानतावच्छेदकत्वामन्यथा लक्षणाऽऽपत्तेः। किञ्च तद्वद्रूपादेरप्याश्रयविशेषालिङ्गितस्यैव भानम्। किञ्च तस्यास्तदनालिङ्गितायास्तस्य चतदनालिङ्गितस्य भानं प्राक् प्रतिपादितं तथाच उभयतः स्पाशारज्जुरिति न्याययितम्। एवञ्च द्वितीयदोषोऽपि स्थिर एवेति। स्वपरसाधारमपरमतं खण्डयति - एतेनेति। तस्य तदाकाङ्क्षत्वादाह - अधिकरमानामिति। घटाभावेत्युक्तौ वचनपुरुषव्यवस्थादि न स्यादतस्त्सिद्ध्यर्थमाह -अभावप्रतियोगीति। एतेनेत्यस्यार्थमाह - वक्ष्यमाणे इति। अत्रैव प्रकरणेति भावः। - तस्य--अभावस्य। - आकाङ्क्षाऽभावात्--तस्या अभावात्। साक्षात्तदन्वयाभावादाह - कर्तृकर्मेति। - असाधुतेति। इहेत्यादेरिति भावः। उक्तकार्यकारणभावादाह - अत्यन्तेति। एतेन तादृशो घटः सत्ताऽऽश्रय इति बोधान्न तदनुपपत्तिरित्वप्यपास्तम्। तस्य सत्तायां तत्कर्त्रादा वाऽन्वयेतु यत्किञ्चिन्निष्ठाभावप्रतियोगी घट इहान्वयेऽपि तत्समभिव्याहृतनञस्तद्वत्याभावे लक्षमाऽङ्गीकारान्न दोषः। एतद्देशवृत्त्यभावप्रतियोगिनि घटे एतद्‌वृत्तिसत्ताऽभावनिश्चयसत्त्वात्तत्र तदधिकरणकसत्ताश्रयत्वबोधानुपपत्तेः। नञ्‌वादाद्‌युक्तपरमतं विराचष्टे - एतेनेति। चरमदोषेणेत्यर्थः। अस्य विस्तर इत्यपास्तमित्यत्रान्वयः। - अन्यथा---तथाऽनङ्गीकारे क्रियाध्याहारेण तथा बोधाङ्गीकारे। ननूक्तरीत्या एतदधिकरमकघटकर्तृकसत्ताऽभाव इति बोधः सूपपन्न एव, अत आह - तथाहीति। - क्रमेण--- आकाङ्क्षाक्रमेण। अत एवाह - घटसत्तेति। तस्य सत्त्वे आह - सत इति। भ्रमत्वे आह - असतइति। - तदुक्तम्--- खण्डनकृता।

  - सः--- निषेधः। द्वितीये सार्थक्यमाह - न चेति। तस्याः सत्त्वात् क्षणिकत्वाच्चेति भावः। विरोधिबुद्धेस्तद्बुद्धिनिवर्त्तकत्त्वेऽपि प्रयुज्यमाननञ्‌वाच्यनिवृत्तेर्वाच्यसाकाङ्क्षत्वाद्तरासम्भवमाह - बुद्धेरिति। - एतेन-- उक्तहेतुना। इत्यप्यपास्तमिति पाठः। उभयसाधारणं दोषान्तरमाह - घटाभावेति। आदिना भूतलवृत्तित्वाभावपरिग्रहः। तस्मान्न तथा बोधः। किन्त्वगत्या तता बोधः कादीचित्क इति सिद्धम्। तत्र सम्मतिमप्याह - कणादेति इत्यनेन संसर्गस्य प्रतीति पाठः। सतो घटस्येति हेतुगर्भतया सफलं नान्यथेत्याह - सत इति। - गेहसंसर्गेति। तद्‌वृत्तित्वेत्यर्थः।। 1.33।।

  अत्र मते दीक्षितभूषणादिरीत्या प्राप्तदोषमुद्धर्त्तुशङ्कते - नचेति। नञ्‌तत्पुरुषस्य वैकल्पिकत्वान्न तत्प्रयुक्तदोष इत्याह - अव्यवीति। पक्षद्वयेऽपीति सूचयन्नाह - भूतले न घट इतीति। - अव्ययीभावाभावादिति ।" अचः परस्मिन् " इति सूत्रस्थात् " तत् पश्चाद् " इति भाष्यप्रयोगाद्, " यथाऽसादृश्ये" इति सूत्रे " सादृश्यसंपत्तीति प्राप्नोति " इति भाष्योक्तेश्च। तत्‌सूत्रे तत्तदर्थबोधकपदघटकतया गृहीताव्वेन तत्तदर्थकेन न समासः सः। यथाशब्देन तु भवत्येवोत्तरसूत्रारम्भादित्यर्थः।

   अत्र भाष्यान्तरमपि गमकमाह - अत एवेति। तस्तदभावाङ्गीकारादेव चेत्यर्थः। - इति --द्वितीये। - नोपन्यस्तमिति। तथा चन्यूनताऽऽपत्तिः । ननूपलक्षणं तदत आह - अत एवेति। उक्तोऽर्थः। - तत्र पक्षे--- पूर्वपदार्थप्रधानः स इति पक्षे। - शब्देति। वाक्ये नञोऽसत्त्वभूतार्थाभिधायित्वेऽपि समासे सत्त्वरूपार्थामिधायित्वं तत इत्यर्थः। नाव्ययीभावस्येष्टत्वे तु तेन तद्योगसिद्ध्या तावत्पर्यन्तगमनासंतिः। स्पष्टैव। ननु नेदं सिद्धान्तभाष्यं तत्पुरुषस्योत्सर्गत उत्तपदार्थप्रधानत्वादतः कथं ते उक्तार्थसिद्धिरत आह - अत्रात्वते। उक्तदोषद्वयाभावसूचकस्तुरिति तदंशे तस्य सिद्धान्तत्वमेति भावः। - वचनासिद्धम्--- वक्ष्यमाणाम्। - प्रधानत्वमिति। प्रथवा पुनरस्तूत्तरपदार्थप्रधान इत्यनेनेति। भावः। नन्वेवं कथम् ` अद्रुतायामसंहिति त्विंति। आरोपितः परः संनिकर्ष इति तदर्थः। - सूत्रिति। एतदुभयप्रामाण्यात्स्त्रीनपुंसकीलङ्ग इत्यर्थः। संहितशब्द इति पाठः। अत्रान्यसंमतिमप्याह - अत एवेति। क्लीवाङ्गीकारादेवेत्यर्थः। एतेन सूत्रवार्त्तिकप्रयोगादव्ययीभावेन सह नञ्‌तत्पुरुषो वैकल्पिक इति दीक्षिताद्युक्तमपास्तम्। असन्देह इत्यस्य गतिरुक्तैव । तदाह - अन्यत्रेति। शेखरादावित्यर्थः। तदुक्तदोषमुद्धरति - सत्त्वेनेति। तस्यैव तत्प्रतिबन्धकत्वात्। ननु तत्रैव न मानमत आह - कणादेति। तल्लाभे बीजमाह - संसर्गस्यापीति। अपिना सत्तादिसमुच्चयः। एवं च तत् प्रागुक्तरीत्याऽयुक्तमेवेति तद्रीत्या पूर्वं दृष्टान्तदानं न स्वरीत्येति न सिद्धान्ते तद्विरोध इति च बोध्यम्। किञ्च उक्तभाष्यादपि अत्यन्ताभावार्थकनञः क्रियादिप्रतिवोगिकाभावबोधकत्वेनोत्तरादिपदार्थेनानन्वयादसमामर्थ्येनानन्वयादसमार्थ्येनाव्ययीभावो न निर्मक्षिकमित्यादिवदिति ( (1) नामक्षिकमिति पाठः) तथा वाक्योपपत्तावपि तथा बोधस्यैव लाभ इति तथा बोधोऽयुक्त एव। न सन्देह इत्यादौ तु सन्देहस्य गुणत्वाद्भवत्येव नञा तदभावबोधनमिति सामर्थ्यमस्त्वेन । सोऽप्युक्तीरत्यैवेति न दोषः। इदमनुपदमेव स्फुंटीभविष्यतीति न पूर्वविरोधः। एतेन भूतले न घट इत्यादौ घटात्यन्ताभावे भूतलाद्यन्वितस्य सप्तम्यर्थाधेयत्वस्येवं तात्पर्यवाशात् घटादौ सप्तम्यन्तभूतलादिवृत्तित्वाभावस्यान्वयबोधोऽनुभवसिद्धः। अन्यथा तादृशवाक्यजन्यस्याप्रामाण्यज्ञानानास्कन्दिताभावाबोधस्य भूतले घट इत्यादिवाक्यजन्यघटादिविशेष्यकभूतलाधेयत्वप्रकारकबोधविरोधिताया अनुपपत्तेः। नञ्‌पदं विना यत्र धर्मिणि यस्य विशेषणतया भानं यादृशसमभिव्याहारद्भवति तादृसमभिव्याहारस्थले नञ्सत्त्वे तत्र धर्मिणि तदभावः प्रतीयते इति अनुभवापलापप्रसङ्गात् इति व्यत्पत्तिवादाद्युक्तमप्यपास्तम्। उक्तयुक्तेः। उक्तिरीत्या प्रतिबन्धकत्वोपपत्तेः ,ततोऽपि क्रियाविशेष्यकबोधस्यैवोक्तरीत्या सत्त्वंच्चेति दिक्। तदाह - इतिदिगिति। यत्तु त्वन्मते पृथिव्यामित्यादौ प्रतीतेरेकविशेष्यत्वानुभवो विरुध्येतातो मदुक्तमेव युक्तमिति सा, तत् खण्डयति- पृथिव्यामिति। तात्पर्यवशात्कदाचित्प्रातिपदिकार्थविशेष्यकविभक्त्यर्थवृत्तित्वाभावावांश्चेति बोधादाह - प्रतीतेरेकेति।अन्यथा न जले इत्यत्र गन्धपदावृत्तिप्रसङ्ग इति तद्भावः। यत्तु पृथिवीवृत्तिगन्धप्रतियोगिकाभाववज्जलमित्यर्थ इति। तन्न। जले इति सप्तम्यनुपपत्तेः। तदभावो जलवृत्तिरिति बोधे पृथिव्यामिति सप्ताम्यनुपपत्ति, तत्पदवैयर्थ्यापत्तिश्च। तस्मात्सिद्धान्तरीत्या प्रतीतिद्वयं भिन्नविशेष्यकम्। एतेनोक्तरीत्या सप्तम्यर्थान्विताभावस्य विशेषणतया प्रतियोगिन्यन्वयाद् भूतलवृत्त्यभावप्रतियोगी घट इतिवज्जलवृत्त्यभावप्रतियोगी गन्धः पृथिव्यामिति विनैवावृत्तिं बोध इति मतमपि निरस्तमिति दिक्। तदाह - इति दिगिति।।1.34।।

   सिद्धान्ते प्राप्तदोषमुद्धरति - नेक्षेतोद्यन्तमिति। अस्तं यान्तं कदाचन।
   नोपरक्तं न वारिस्थं न मध्यं नभसो गतम्।
   इत्यस्य परिग्रहः। इदं च स्नातकव्रतान्तर्गतं न मानवम्, न याज्ञवल्क्यीयम्, नाप्यपस्तम्बीम्, किन्तु ब्रह्मचारिधर्मभूतप्रजापतिव्रतान्तर्गतम्। तदुत्सर्गे " कर्माणि पुरुषार्थाय ' इत्यादितुर्याद्यपादस्थजैमिनिसूत्रविषयभूतन्तदाह - तस्येति। अस्य व्याख्या - ब्रह्मेति। - ईक्षणाभावेति। अत एव स्नातकव्रतप्रकरणे " उद्यन्तमस्तं यन्तमादित्यं दर्शने वर्जयेद् " इत्यापस्तम्बः सङ्गच्छते।एवञ्चोक्तननियमात्प्रसज्यप्रतिषेध एव तत्रेति भावः। तत्सूत्रस्थमीमांसकविज्ञानेश्वरादिमतं खण्डयति - यत्त्विति। -तत्र--- पुर्युदासे। - व्रतेति । तद्वाचीत्यादिः। अत एव सामान्यप्राप्तिः , तत्र निषेधलब्धमादायाह - तद्भिन्नेति। नञिवयुक्तन्यायेनाह - क्रियायाइति ।- प्राप्त्याचेति। तद्विशेषजिज्ञासायां पुरुषक्रियामात्रस्य सङ्कल्पपूर्वकतया प्रत्यासत्त्या तत्समभिव्याहारेण चेति शेषः। अन्यथा मन्वाश्वलायनापस्तम्बादिकृततथोपक्रमविरोधः स्पष्ट एवेति भावः। उदयास्तमयकालयोः प्रत्यहं सङ्कल्प इति तन्त्ररतनाद्युक्तमसङ्गतमिति ध्वनयन्नुक्तापस्तम्बमूलकमेवाह - नेक्षिष्यामीति। यथा चैतत्तथा स्पष्टं मिताक्षराव्याख्यायाः सूच्याम्। अतएव विज्ञानेश्वरेणापि मांसभक्षाणविधिनिषेयोर्मत्यवाद्येकवाक्यतया तथैव सङ्कल्पो दर्शितः। इदमप्यभ्युपेत्योक्तम्। वस्तुतस्तदेव नेत्याह - किञ्चेति । - यत्रेति। स्ववाक्योपात्ते इत्यर्थः। एतेन व्रतेन तत्सत्त्वाच्चिन्त्यमित्यपास्तम्। तस्य वाक्यान्तरत्वात्। तथा सति तथाऽन्वयस्यैव सत्त्वेन तदाकाङ्क्षामात्रस्यैवाभावाच्च। अन्वयस्य बीधितत्वादाह- आकाङ्क्षेति। तन्मात्रमित्यर्थः। भिन्नार्थकात्तस्य बोधेऽपि समानविभक्तिनामार्थयोरितिव्युत्पत्त्या तदाकाङ्क्षा सम्भवति, तस्या असद्धिषयाया अपि बहुशो दृष्टत्वादिति भावः। - नच--- नहि। तदविषयतया बाधेन च वयुत्पत्त्यन्तरेण भेदसम्बन्धेनैवान्वयस्य तस्य तदाकाङ्क्षायाश्च सत्त्वात्। घटो न नील इत्यादौ च वक्ष्यमाणरीत्याऽत्यन्ताभावाधीरेव, न भेदधीः। तत्र तदभावे तथाऽन्वयस्यैव सत्त्वेन तदाकाङ्क्षामात्रस्या सत्त्वाच्च। वक्ष्यमाणीरत्या विपरीतधीरपि न ।
   एतेन नञोऽभावे यत्राभेदेनान्वयबाधस्तत्र नञाऽत्यताभावधीर्यत्र तदभावेऽभेदेनान्वयस्तत्र तेन भेदधीस्तत्र च तत्तदाकाङ्क्षाज्ञानाद्येव नियामकमिति नैयायिकाद्युक्तपास्तम्।
   तद्देतद् ध्वनयन्नाह - अत एवेति। उक्तनियमादेवेत्यर्थः। परमते तु घटः पटो नेत्येतत्तुल्यतयाऽत्रापि स स्यादिति भावः। उपसंहन्नाह - अत एवेति। उक्तोऽर्थः। अतएव ` न पचति चैत्र इत्यतः ' चैत्रभिन्नकर्तृकः पाक' इत्यबोधः। विशेषं वक्तुमाह - अबमेवेति। तत्समभिव्याहृतनञ्‌बोअधयात्यन्ताभाव एवेत्यर्थः। प्रसज्येत्यस्यार्थः। - विधायेति। विशिष्टफलितार्थमाह - विहितेति। विधानं न तदसमभिव्याहृतवाक्यतो बोध्यम्। तमेव विशेषमाह - नञ्‌सूत्रे इति। - तेन--- भाष्यीयतथाकथनेन । " न एकं प्रियम् " इति तत्रोक्तम्। नद्वित्वाशयकमित्यर्थत आह - नास्माकमिति। येननाप्राप्तेइतिवन्नेत्याह - अत्रहीति । बहुप्रतियशब्दः पात्रादिः। बहुप्रियतेतिपाठस्तु सुगम एव। प्रागुक्तदार्ढ्यायोदाहरणान्तरमाह - नसन्देह इति। अभियुक्तोक्तिविरोधं परिहरति - प्रसज्येति । एवं च न तथैव कार्यकारणभावः, किन्तु तत्र तादृशधातुगुणवाचकपादन्यतपरजन्योपस्थितिः कारणमिति बोध्यः।। 1.35।।
  

    एवं तदर्थात्यन्ताभावं निरूप्य भेदं निरूपयति - यन्त्य इति। भेद इत्यर्थः। सोऽपि समासवादार्थ एव, न शाब्द इति प्रतिपादयितुं मीमांसकनैयायिकमतं खण्डयति - यत्त्विति। - नञर्थः----तद्वाच्यः। - एवं तर्हीत्यस्य यत इत्यादिः। लक्षणया आह - पटपदमिति। - भेदे---- नञर्थे। - अभेदान्वयः--- अभेदेनान्वयः। ननु व्युत्पत्तिविरुद्धमान्त्यमत आह - अभेदेति। नन्वेवमाद्यबोधोऽपि न स्यादत आह - यद्वेति। भेदेत्यस्य प्रतियोगिविशिष्टेत्यादिः। तथा च साकाङ्क्षात्वात्प्रतियोगिनि पटस्य अभेदेनान्वयो विशिष्टस्य घटे तथेति। तस्मादन्यथात्वेऽपि न कोऽपि दोषोऽत्रेति भावः। एकदेश्युक्तं खण्डयति परः - भेदवतीति। भेदे शक्तस्य पर्युदासे समानाधिकरण्यानुरोधेन तत्र लक्षणेत्यर्थः। सिद्धान्तमतेन दूषणमाह - निपातानामिति। परोक्तदोषमाह - केवलेति। घटः पटो नेत्यादौ परमते साधुत्वेन निर्वाहमभ्युपरेत्याह - नब्राह्मणैरिति । अत एव तत्साधारणं दोषान्तरं समासस्थले पूर्वं तथा प्रतिपादितत्वादाह - समासवाक्ययोरिति। - अत्रापि--- वाक्येऽपि तदीये। अपिना समामसमुच्चयः। अतएवाह - एवञ्चेति। साधुत्वार्थं प्रथमेति तु न युक्तम्। तथाऽनुशासनाभावात्। औत्सर्गिकैकवचनस्यापि गमके सत्येव सत्त्वाच्च।( प्रतीतेश्चेति पाठः) नन्वेवं कथं तद्भेदधीः सर्वजनप्रसिद्धाऽत आह - घटभेदेति। समनियताभावानामैक्यमेकस्मिन्नेव भेदत्वेन घटप्रतियोगिकत्वम्, अत्यन्ताभावत्वेन च घटत्वप्रतियोगिकत्वमिति मतस्य दूषितत्वादाह - तत्समनियत्वादिति। भेदस्य न वास्तवत्वमित्याह - यद्यपीत्यादि । घटो घटाद्भिन्न इत्यादिवारणायाह - भिन्नत्वेनेति। तत्त्वेन गृहीतौ यौ तस्याश्रयप्रतियोगिनौ तयोर्यज्ज्ञानं प्रतियोग्यधिकरमयोर्ज्ञानं तत्पूर्वकमित्यर्थः। - तत्र ----पूर्वतन तज्ज्ञाने। स्वस्मिन्साक्षात्स्वापेक्षासत्त्वाद् आह - आत्मेति। इदमुद्धरति - भेदान्तरमिति । - स चेत्--- तृतीयभेदश्चेत्। - पूर्वभेद एव ---- सर्वाद्यभेद एव। एकमन्तरा स्वस्मिन्स्वापेक्षासत्त्वादाह - अन्योन्येति। इदमप्युद्धरति - तृतीयइति। चतुर्थस्य सर्वाद्यरूपत्वेऽनेकद्वारा स्वस्मिन्स्वापेक्षासत्त्वादाह - चक्रकेति। धातोरिति सूत्रे स्पष्टणम्, " आत " इत्यान्तर्यविशेषणमित्यभ्युपेत्यापि लोपे कृते जुम् नेति समाधावलुनन् इत्यादौ लोप ईत्वेन बाध्यते, तच्चान्तिभावेन, सचजुस्‌भावेन, सच लोपेन, सचेत्वेनेमन्तिनाऽन्तिर्जूसा सच लोपेनेति चक्रकमुक्त्वाऽऽयनानादिषूपदेशिवद्भावेनान्‌तरङ्गत्वादावन्तिभावे लोपेन व्यवस्थेति परिहृतमेकदेशिना। अन्योन्याश्रयस्तु वृद्धिसूत्रभाष्यादौ प्रसिद्धरतः। एतद्दोषाभावाय चतुर्थादेरपि भिन्नत्वाङ्गीकारे आह - भेदेति। अस्या दोषत्वे बीजमाह - अन्तिमेति। एवं सति क्वचिद्विश्रान्तेरसम्भवादाह - पर्यन्तमिति । अएवोक्तम्--- " एवमप्यनवस्था स्याद्या मूलक्षयकारिणी " इति। - अत एव---- तदशक्यत्वादेव। - कैयटादाविति। - उक्तेति। तदशक्यत्वेनेत्यर्थः। न केवलमत्रैवेदं किन्त्वन्यत्रापि सर्वत्रेत्याह - घटाद्यर्थेति। इदमुपपादयति - अन्यथेति। उक्तरीत्यनङ्गीकारे इत्यर्थः। - अन्योऽन्याश्रयादिति। तदापत्तेस्तत्सि्द्धेरप्यभावापत्तेरित्यर्थः। उपसंहरति - पदार्थेति। तस्मादित्यादिः। मात्रम् कार्त्स्न्ये। अनिर्वचनीयत्वस्वरूपं प्रागुक्तम्। प्रयोजकत्वमिति पाठः। समस्तत्यादिविशेषणेनाविप्रतिपतिर्वस्तुनो धीव्यवहारयोः सूचिता। नर्तनं च सर्वदेशसम्बन्ध एव। तव तर्क्कैस्तयोः का गतिः स्यात्कुत इत्यत आह - उपपादयितुमिति। एवं प्रश्ने सिद्धान्तमाह - अनिर्वचनीयेति। ननु तत्त्वमेव कुतोऽत आह - यथेति। - सतः---- ब्रह्मणः । - एवम्---तथा । - असतः---- नृशृङ्गादेः। - नज---नहि। नैवेति पाठेऽप्येवम्। उभयत्न बीजमुक्तमेव। प्रपञ्चे त्वाह - जन्यत्वमेवेति। एवं सामान्यत उक्त्या विशेषतः प्रकृतसंमतिमाह - तथेति। सत्यमायाशब्दौ धर्मपरौ तयोर्मध्ये आह - भेदेति। - ह्यसन्--- असन्नेव। - विरोधतः--- पञ्चम्यन्तात्सर्वविभक्तिकस्तसिः। वेद मेवाह - एकेति। एकविज्ञानेन सर्वविज्ञानमित्यपि प्रागुक्तश्रुतेरित्यर्थः। - चश्रुतेः--- श्रुतेश्च। यद्यपि " तत्त्वमसि " इत्यादयोऽभेदप्रतिपादिकाः, " नित्योऽनित्यानाम् " इत्यादयो भेदप्रतिपादकाश्चेति श्रुतीनामपि द्वैविध्यम्, तथापि लाघवतर्कानुगृहीताभेदश्रुतिबलात्तासामुपाधिकल्पितव्यवहारिकभेदानुवादकत्वेमेव। किञ्च श्रुत्यैव भेदतिरस्कारोऽपि कृतः--- " नेह नानास्ति किञ्चनेति, ।" य एतस्मिन्नुदरमन्तरं कुरुतेऽथ तस्य भयं भवति मृत्योः स मृत्युमाप्नोति यदु ह नानेव पश्यति " इत्यादिस्तन्निन्दापराऽपि। नैवमभेदस्य तत्त्वपरा श्रुतिरस्ति यया भेदवाक्यानुरोधादभेदवाक्यानामविभागलक्षणादिभेदपरत्वं यथोक्तं शुद्धमाक्षिप्तं तादृगेव भवति। किञ्चाविभागो नाम विभागाभावो न संयोगविरोधी विभागाभावस्य संयोगस्वरूपत्वेन संयोगाभावरूपविभागाभावस्य सुतरां तत्स्वरूपत्वेन द्वयोर्व्यापकयोर्जावब्रह्मणोरप्राप्तिपूर्वकप्राप्तिरूपसंयोगाभावेन तदसम्भवात्। तस्माद्विभुनित्यानामविभागो नामाभेदापरपर्याय एव। एतद् ध्वननार्थमेव नेहेत्यादिहेत्वन्तरमुक्तम्। एवं च तादात्म्यमारोपितं भेद एव वास्तवो वस्तूनामिति व्यवहारोऽण्यविद्याविलसित एवेति बोध्यम्। तदाह - इतीत्यलमिति। अन्यत्रापि तथा तत्प्रतीतिमुपपादयति - एवमिति। तत्र घटत्वाभाववदित्यर्थः। - अर्थात्--- आर्थिकात्। शाब्दस्तु आरोपितघटस्यैव दर्शनमिति। - आभावाभावानेनेति। ( मुलपुस्तकत्रितये भावादिति पञ्चम्यन्तः पाठ उपलभ्वते।)तद्दर्शनाभावेऽपि तद्भिन्नदर्शनाभावेनचेत्यपि बोध्यम्। - एतच्चेति। समासे तदज्ञानं चेत्यर्थः। तत्राद्ये " त्वतल्‌भ्यां नञ्समासः पूर्वविप्रतिषेधेन " इत्यत्र युगपद्विवक्षामाश्रित्य व्याख्यातम्, तच्च तत्रैवकारान्तर्भावे सति असम्बद्धं स्यात्। भेदस्यावास्तवत्वमपि तद्भाष्यादौ स्पष्टम्। द्वितीये गुणप्रतिषेधे इत्यस्य गर्दभरथमर्हति " तदर्हति " इति ठक्, गार्दभरथिकादन्य इत्यर्थकस्यागार्दभरथिक इत्यस्य दत्तस्य प्रत्युदाहरण्सयोपपत्त्येर्थं व्याख्यातृभिर्व्याख्यातम्। नचास्य गर्दभरथार्हणकर्त्तृभिन्न इत्यर्थः, तत्रार्थत अर्हत्वाभावस्यापि बोधनादस्त्येव गुणप्रतिबेधः, यथा घटभिन्न इत्यु्क्ते घटत्वाभाववानिति प्रतीयते इति वाच्यम्। न गर्दभरथमर्हतीति गर्दभरथस्य नञर्थार्हाभ्यां युगपदेकार्थोभावविवक्षायां परत्वत्तद्धिते एकदेशद्वारकमामर्थ्यमाश्रित्य तद्धितान्तेन समासे आरोपितगर्दभरथमर्हतीत्यर्थकेऽतिप्रसङ्गवारणार्थत्वादिति। अन्यथैतदसङ्गतिरपि स्पष्टैव।। 1.36।।

   दीक्षितभूषणाकारादिमतमाद्यं खण्डयति - नञ्‌द्योत्य इति। इदंच वाक्यसमासोभयपरम्। भेद एव नञर्थः तस्य तत्त्वादेव सर्वनामकार्यम्, तस्य तत्प्राधान्यम् ,अत्वं भवसीत्यादौ पुरुषव्यवस्था, अनेकमित्यादौ तन्नियमश्च। अनेके इति त्वेकशेषेण साधु। समासे वक्ष्यमाणं त्वन्यथापरमिति न पौनकरुक्त्यम्। समासवाक्ययोस्तुल्यार्थत्वात्। अतएवाह - अघटमिति। सामर्थ्यस्योभयत्रापि सत्त्वेन विनिगमनाविरहादाह - यत्किञ्चित्प्रतीति। उत्तरपदार्थप्राधान्ये राजपुरुषमानयेत्यादौ तथा दृष्ट्त्वात्। - अतएव---- तत्र पक्षे तदापत्तेरेव। - नञिति। पूर्वान्वयि। मात्रपदेन शौचाचारादिहीनब्राह्मणस्य, क्षत्रियादेश्च निवृत्तिः। भाष्ये नञ्‌र्थत्वे तावताऽप्यवारणादाह - कः पुनरिति। नायं नञर्थमात्रविषयकः प्रश्नः सर्वनाम्नां प्रधनपरामर्शित्वस्यौत्सर्गित्वाद्, अतस्तदर्थमाह - नञर्थविशिष्ट इति। अभावस्यैव नञर्थत्वेन प्रसिद्धत्वात्प्रमितोत्तरपदार्थव्यतिरिक्तः कोऽसौ नञ्‌विशिष्ट उत्तरपदार्थ इत्यर्थः। कप्रत्ययसूचितबहुव्रीहिसूचितमर्थमाह - निवृत्त इति। कर्मणि क्त इति भावः। सर्वथा निवृत्तपदार्थत्वेविशेषणमेव न युज्येतेत्यतस्तत्तात्पर्यार्थमाह - सादृश्यादिनेति। आदिना साहचर्यादि । निवृत्तमुख्यब्राह्मण्यादारोपितद्वानिति भाष्याक्षरार्थस्तदाह - नञिति। एवं चारोपितस्वप्रवृत्तिनिमित्तवानुत्तरपदार्थ इत्यत्र ताप्तर्यग्राहको नञिति तात्पर्यम्। उत्तरपदार्थप्राधान्याक्षरार्थस्तदाह - नञिति। एवं चारोपितस्वप्रवृत्तिनिमित्तवानुत्तरपदार्थ इत्यत्र ताप्तर्यग्राहको नञिति तात्पर्यम्। उत्तरपदार्थप्राधान्यमप्येतदेवेति बोध्यम्। तदुक्तिमेव खण्डयति - यत्त्विति। - तदिति। उक्तयुक्तेः। पूर्वोत्तरसन्दर्भाच्चोक्तस्यैव भाष्येष्टत्वेन तथाऽर्थसम्भावनाया एवाभावात्। यथाचैतत्तथा स्पष्टमुद्‌द्योते। अभ्युपेत्यदोषान्तरमाह - किञ्चेति। तान्त्रिकाः----- नैयायिकादयः। परमतेनाह - नञ्ववाच्येति। प्रसिद्धयोगक्षेमतुल्यत्वाभावादाह - यत्रेति। नन्वेवं घटादिज्ञानस्य तत्प्रतिबन्धकता न स्यात्, ग्राह्याभावानहित्वादत आह - बाधेति। ननु परेषां तथैवानुभवोऽत आह - ऋष्यनुभवेति। ततस्तस्य प्राबल्यात्। तस्यार्थान्तरमप्याह - अनेनैवेति। प्रतियोग्यभावावित्युक्तेनेत्यर्थः। विनिगमनाविरहादिति भावः। किञ्चार्थिकतज्ज्ञानमादाय तादृशबाधबुद्धेरपि प्रतिबन्धकत्वसम्भवः । वस्तुतो बाधबुद्धेर्नैव ज्ञाने प्रतिबन्धकत्वमिति प्रागुक्तम्। एतेन प्रतियोग्यभावान्वयौ तुल्ययोगक्षेमौ तेन यत्पदोपस्थापितस्य प्रतियोगिनोऽनुयोगिनि आधाराधेयभावसम्बन्धेनैवान्वयबोधस्तत्र तत्संसर्गाभावस्यापि तथा, यथा पचति चैत्र इत्यादौ तिङर्थकृत्यादेः प्रथमान्तपदोपस्थाप्ये एव तत्र तथेति, तत्रैतदऊभावस्यापि तथेति उक्तसिद्धान्तं जीर्णशाब्दिकमतत्वेनानूद्य तत्र सर्वत्राभावबोधस्यानुभविकत्वादिति च नैयायिकोक्तमपास्तम्। तदाह - इतिदिगिति।। 1.37।।


     सिंहावलाकेन न्यायेन उक्तविषये बाधलक्षणे मीमांसकोक्तं खण्डयति - यत्त्वित्यादि। - नानुयाजेष्विति। " नानुयाजेषु येयजामहं करोति " इति आपस्तम्बसूत्राद्युक्ते इत्यर्थः। तत्राद्यदोषमुपपादयति - तथाहीत्यादि। तस्या एवाभावप्रतियोगित्वादाह - प्रतियोगीति। - तत्र--- अनुयाजेषु। - एवञ्च---तस्या उद्देस्यत्वेच। -रागेणेति। कदाचित् वैद्योपदिष्टतद्भक्षणेन रोगविवृत्तेरनुभूतत्वात्क्षुन्निवृत्त्यर्थत्वाच्चेति भावः। क्वचिदितिसूतचितासार्वत्रिकत्वलब्धमाह - प्रकृते चेति। यत्तु अनुयाजविषये " यजतिषु यजामहं करोति " इति ततः पूर्ववाक्येन प्राप्तिरिति सकलमीमांसकनैयायिकादिग्रन्थकाराः। तन्न। तस्य खपुष्पामाणत्वात् । नन्वेवं कथं प्राप्तिरिति चेत्। शृणु " ओश्रावयेति चतुरक्षरं अस्तुश्रौषडिति चतुरक्षरं यजेति द्व्यक्षरं येयजामहे इति पञ्चाक्षरं द्व्यक्षरो वष्ट्‌कार एष वै सप्तदशाक्षरः प्रजापतिर्यज्ञमन्वायत्तं वेद " इति अनारभ्याधीतवाक्येन तदुपदेश इति ततस्तत्प्रतिरिति। तदेतदभिप्रेत्याह - येयजेति। यद्यपि तेन सर्वप्राप्तिस्तथापि प्रकृतत्वात्तावन्मात्रमुक्तम्,। तद्‌बोधकोक्तश्रुतिकल्पितशास्त्रत एव सा प्राप्तिरित्यर्थः। ननु निषेधस्य विध्युन्मूलकत्वेन बलवत्त्वमत आह - उपजीव्येति। तथाच तस्या अपि बलवत्त्वमिति भावः। ननु विकल्पे इष्टापत्तिर्ग्रहणावद् अत आह - विकल्पेचेति। दोषान्वयोऽस्य। ननु कथमनयोरैक्यमाद्यस्यान्यार्थकत्वादत आह - वेदेति। तत्र सर्वत्रोक्तरीत्या प्रमाणशब्दत्वात्। नन्वेवमष्टदोषदुष्टस्स इति मीमांसकादिसिद्धान्तविरोधोऽत आह - यथाकथञ्चिदिति। अयं तेषांमाशयः---- यद्यपि प्रामाण्यपरित्यागो नाम प्रामाण्याभावस्वीकार एव, अप्रामाण्यस्वीकारोऽपि स एव, वेदे विपर्यासरूपप्रतीतिजनकत्वस्यासम्भवादिति नानयोर्भेदः, तथापि प्रामाण्याभावस्वीकारे दोषत्वबीजं द्विविधम्, प्रामाण्ये प्रमाणस्य निर्दोषत्वादेः सद्भावरूपमेकम्, प्रामाण्याभावे प्रमाणस्य प्रामाण्यानुपलम्भस्याभावरूपमपरम्। एवं च भावप्रमाणसद्भावोपाधिक आद्यः , अभावप्रमाणाभावोपाधिको द्वितीय इति द्वैविध्यविवक्षेति। वस्तुत एतावता भिन्नदोषत्वाङ्गीकारो न युक्त इति दोषचतुष्टयमेव सारम्। सर्वथाऽपि विकल्पो दुष्ट एवेति यथाकथञ्चिदित्यनेन सूचितमिति बोध्यम्। - आलोवने सति। प्रथममित्यादिः। मात्रपदमवधारणार्थकम्। तेन भिन्नदेशस्थत्वेन तदा तदालोचनिरासः । बाधकसम्भावनया सर्वाशे प्रमात्वासम्भवादाह - भ्रमेति। - बोधेति। प्रमेत्यर्थः। अतेवाग्रे ( यथेति। तथाच प्रमारुपत्वरूपोक्तबलवत्ताबीजाभावेन तस्य ततो बलवत्त्वे प्रमेत्यर्थो मानस इति भावः। पाठोऽयं 1 पुस्तके। ) प्रमेत्यादि वक्ष्यति। तस्याः भ्रमत्वादेवाह - विकल्पेति। तच्छशीरे प्रामाण्यनिवेसादिति भावः। तदाशयं प्रकाशयन्नुक्तदोषं खण्यति - नन्विति। प्रत्यक्षत्वाह - निषेधेति। उक्ताशयेनैवाह - शास्त्र्सयैवेति। - तादृशेति। भ्रमात्मकेत्यर्थः। - प्रमेति। तदभावेत्यादिः। - चेन्नेति। तस्यैवासम्भवादिति शेषः। तमेवाह - निषेधेति । तदभ्युपगमे मूले एव कुठारमाह - किञ्चेति। उक्तएवाशयः। - विकल्पेति। तस्या एवासम्भव इत्यर्थः। ननु ( विशेषं वक्तुमभ्युपेत्यैव सम्भावितमन्यत्र दृष्टं पक्षान्तरमाहेति पाठः 2 पुo ।) परैरप्रसिद्धप्रतियोगिकाया अप्यभावबुद्धेः स्वीकारस्य वक्ष्यमाणत्वात्तन्मते प्राक्‌निषेधज्ञानम्भवेन नन्वित्युक्तेदोष एवातस्तन्मतेनैवाह - यद्वेति। - तादृशे इति। निषेधशास्त्रस्य प्रथमालोचनविषये इत्यर्थः। इच्छायास्तत्रोत्तेजकत्वादाह - आहार्येति। इदमन्यत्रावश्यकमित्याह - एवमेवेति। एतेन खण्डशः प्रसिद्धिरित्यपास्तम्। प्रतियोगिप्रसिद्धिर्हि यस्य प्रतियोगितापर्याप्त्याधिकरणप्रसिद्धिरित्यर्थात् त्वन्मतेऽपि तत्र तद्‌वृत्तित्वाप्रसिद्धेः, अन्यथाऽतिप्रसङ्गापत्तेश्च। सिद्धान्त्यन्यसर्वसंग्रहायाह - सर्वैरिति। नन्वनाहार्यप्रतियोगिज्ञानस्यैव तत्कारणत्वात्कथं तावताऽपीष्टसिद्धिरत आह - प्रतियोगीति। ननु नायं पृथक् कार्यकारणभावः इतो व्यापकसमान्यकार्यकारणभावेनैव निर्वाहात् तत्र चातिप्रसङ्गभङ्गाय तथा निविष्टमत आह - ससम्बन्धिकेति। ततोऽपि सामान्यं व्यापरमाह - विशेषणमिति। नन्वेवमाहार्यज्ञानादनाहार्यज्ञाननापत्तिरप्यत आह - आहार्येति। - आहार्येति। बाधकालिकेच्छाजन्यज्ञानविषय एव। -सः--- प्रतियोगी। एवञ्च तथा कार्यकारणाभावेन न विशिष्टबुद्धिरित्यर्थः। तथैव कारणसामग्रीसत्त्वात्। नन्वेतावता प्रत्यक्षे निर्वाहेऽपि न शाब्दे, तत्र तस्याभावाद्, एवं च तत्रानतिप्रसङ्गाय तत्र तन्निवेशावश्यकत्वे उक्तदोष एवात आह - आहार्येति। निर्युक्तिकत्वादिति भावः। एवमेवेत्येवव्यवच्छेद्यं परोक्तमाह - ह्रदेति। इत्यादि प्रकारान्तरं त्वित्यर्थः। नन्वेवं प्रसक्तं निषिध्यते इति नैयायिकाद्युक्तेरसाङ्गत्यं स्यादत आह - प्रसक्तमिति। अर्हतामेवाह - यदीति। तन्मते दोषान्तरमाह - किञ्चेति। - तस्माद् विधेः। - एतदेवेति। तत्त्वेन ततोऽपि ते बलीयांस इति तदर्थः। अत्यन्तबाधे उपजीव्यविरोधापत्तिर्विकल्पसाधकतयोक्ता बाधकत्वे पर्यवस्यतीति तन्नैव बलवत्त्वबीजमित्याह - किञ्चेति। - यत्र-- यस्मिन्। दोषान्तरमाह - अवच्छेदकेति। नन्वेवं तद्व्यधिकरणस्य का गतिरत आह - अनुयाजेति। द्वितीयहेर्युक्तत्वात्। समासस्तु वैकल्पिकत्वान्नेत्युक्तमेव - अतएव -- उक्तरीत्या सामान्यविशेषस्थले विकल्पाभावादेव। अन्यथा विधिनिषेधाभ्यां विकल्पापत्त्या जसि तत्रेष्टसिद्ध्या " विभाषा जसि " इति व्यर्थम्। ननु तत् नियमार्थम्, उत्तरार्थत्वेऽपि सामान्यभिन्नसूत्रस्य तत्त्वसम्भवात्। अन्यतरपदं विनाऽन्यतरपदस्य तु न तत्त्वम्, अक्षरमर्यादयाऽप्रतीतेरत आह - आदीति। तेन प्रथमेत्यादिसूत्रचतुष्टयसंग्रहः। यद्यपि पूर्वेत्यादिसूत्रत्रयस्य तयनेमयोश्च प्राग्वन्नियामकत्वं सम्भवति प्रथमादौ त्वप्राप्तविभाषैव, तथापि तेषां लाघवेन तदभावज्ञापकतयैव सार्थकत्यमुचितमिति तात्पर्यम्।- अतएव--- पर्युदासवत्तव विकल्पानवसरादेव। अन्यथा तदसङ्गीतः स्पष्टैव।। 1.38।।

    अत्र भाष्यान्तरसंमतिमप्याह - एतदेवेति। ` तन्ननिषेध' इत्याद्युक्तं सर्वमित्यर्थः। - सञ्ज्ञित्वे-- अस्थिततत्पक्षे। - विधेः समानविषयस्य।- विभाषायाम्--- तद्विषये। - कृतेति। क्षीणेत्यर्थः। एवं सति जैमिनिविरोधं परिहरति - अपित्विति। - अभ्युच्चय इति। आर्षत्वाविशेषेऽपि निर्युकित्कत्वेनोक्तरीत्याऽयुक्तमित्यर्थः। तदाह - युक्तिसिद्धेति। अत एव तत् पश्चादुपात्तम् , मुख्यं तत्त्वसाधकं वाक्यत्वसम्पादनमेव, अतएव तत् प्रागुपात्तं तदाह - वाक्येति। तस्मात्सामान्यविशेषस्थले विकल्पाभावेऽपि तुल्यविषयस्थले दुष्टस्याप्यगत्या तस्वीकार इति न तदुच्छेदः। अत एव " तुल्यार्थास्तु विकल्पेरन् " इति जैमिनिना सूत्रितम्। तत्र नवेतिसूत्रभाष्यप्रसङ्गादन्यथा आह - नन्विति। - तत्तदिति। विकल्पविधायकैरित्यर्थः। शास्त्रं साधुत्वविधायकं साक्षादिति पक्षे इति भावः। - एवं च---- समानविषये विरुद्धापत्त्या तत्त्यागे च। समानविषयमेवाह - अतीति। - षोडशिनमिति । तैत्तिरीयश्रुतौ मन्त्रादौ तथा स्पष्टत्वात्। एवं च षोडशीं गृह्णतीति पाठः। केषाञ्चिद् ग्रन्थेषूपलभ्यमानश्चिन्त्य एवेति बोध्यम्। - वाक्येनेति। विधिवाक्येनेत्यर्थः। - तस्यषोडशिग्रहणस्य । यत्तु तत्र षोडशिग्रहणं नेष्टसाधनमिति नार्थः ग्रहणविधिविरोधात्, किन्तु षोडशिग्रहणाभाव इष्टसाधनमिति । व्युत्पन्नश्च नञ्‌समभिव्याहृतधात्वर्थस्या भावे विभक्त्यर्थान्वय इति नैयायिकादयः ।तन्न। प्रत्यययानामिति न्यायविरोधापत्तेर्दोषान्तरस्य विधिवादे वक्ष्यमाणत्वाच्च। तदेतत् ध्वनयन्नाह - उभयत्रापीति। तत्रानुष्ठानव्यवस्थामाह तयोरिति। सर्वादाविति भावः। व्रीह्यादावपि परिग्रहस्तथैवेत्याह - एवमिति। अल्पाच्‌तरत्वेन स्मार्तस्य पूर्वनिपातः। - अत एव--- तत्रैष्वन्यनियामकत्वाभावादेव। - आदितः---- ऐच्छेकप्रथमारम्भात्। स्पष्टञ्चेदं त्रिकाण्डमण्डने । तत्र ह्युक्तम्-----
   द्रव्यं वैकल्पिकं किञ्चेद्यत्र सङ्कल्पितं भवेत्।
   तदभावे सदृग्ग्राह्यं नतु वैकल्पिकान्तरम्।।
  एवञ्च कातीयानां तथा अनुष्ठानं चिन्त्यमिति बोध्यम्। - इतिः---- उक्तसमाप्तौ।प्रसाङ्गादाह - तत्रेति। भिन्नविषयस्थले इत्यर्थः। - प्रतिषेधे---- तद्विषये। पश्चादित्यस्य ग्रहेऽन्वयः। उत्सर्गस्यत्यस्याभावेऽन्वयः।ज्ञाने पूर्वं जाते प्रामाण्येति पाठः। अप्रामाण्येत्यपपाठः। तुल्यन्यायादाह - एवमिति। - श्रुतिः--- संप्रदानत्वेन। - दध्नि--विषये। नन्वेवमुत्तरवाक्यवैयर्थ्यमत आह - माठर इति। इत्यादौ। तद्विषयवर्जमिति णमुलन्तम्। - कालमिति--- क्रियाविशेषणम्। उक्तहेतोरेवाह - अपवादेति। - निषेधानामिति ।मिथ इति शेषः। - तदुक्तमिति। तदप्युक्तं तेनैवेत्यर्थः। भिन्नरूपमिवेत्यस्यार्थमाह - आपातत इति। - तल्लाभे--- सति। अत एवाह - तदेति। अनेकेत्यनेन तल्लक्षणानाक्रान्तत्वात्पदैकवाक्यत्वाभावप्रतिपादनाद्वाक्यैकवाक्यताऽत्रेष्टेत्याह - एकेति। एवं यतः अज्ज्ञलोर्न सावर्ण्यमतस्तदन्येषामेव तद्, यतः स्वादिविधावेव नलोपोऽसिद्धोऽतो न्यत्र नासिद्धत्वमिति बोध्यम्। एतेन यत्तु तत्र करणनिषेधे विकल्पापत्तेर्भेदपरतेति। तदसत्। विशेषनिषेधे सामान्यविधेस्तदन्यपरताया ब्राह्मणेभ्यो दधिदातव्यं कौण्डिन्यभोदो बोध्य इति तद्भिन्नेभ्य इत्यर्थः। कौण्डिन्यपदस्य विरुद्धैकवचनावरूद्धत्वात्। नहि खलु महतो राज्ञो न महतो राज्ञ इत्यत्रेव महतां राज्ञो न महतां राज्ञ इत्यत्र राजनि महदभेदभेदौ प्रतीयेते। एको न द्वावित्यादिवत्कथंचित्समर्थनेऽपि द्वितीयस्य दातव्यमित्यस्यानन्वयप्रसङ्गादिति नैयायिकोक्तमपास्तम्। द्वितीयतद्‌घटितप्रयोगस्य ऋष्टनुभवविरुद्धत्वाद्। अत एव भाष्ये " ब्राह्मणेभ्यो दधि दीयतां तक्रं कौण्डिन्याय" इत्येवोक्तम्। तदाह - इतीत्यलमिति।। 1.39।।

   सिद्धान्ते आह - नचेति। चो व्युत्क्रमे। यथासङ्ख्यमन्वयः। यथाश्रुते तदलाभाद् आह - तत्रेति। पूर्वार्द्धे इत्यर्थः। तत्रत्यवबोध्यसमुच्चयलब्धं योग्यमाह - एते इति। इत्यध्याहार इत्यनुषङ्गः। - एतेन---उक्तरीतिसम्भवेन। - नतमिति। वैष्णावमिदम्। य इत्यस्य लभ्यते इति शेषः। इत्यपीत्यपिना----
   नेमं विरिञ्चो न भवो न श्रीरप्यङ्गसंश्रया।
  प्रसादं लेभिरे गोपी यत्तत्प्रम विमुक्तिदाद्। इति भागवतसमुच्चयः। पूर्वत्र कवितात्पर्यं सूचयन्नत्र कवितात्पर्यमाह - समुदितानामिति। तथा च भगवद्भक्त्याराधनादेर्माहात्म्यातिशयसूचनद्वाराऽत्यन्तोपादेयतासूचनाय तथोक्तिरिति गूढकूतम्। भेदस्योदाहरमान्तरमाह - मैत्रस्येदमिति। नैयायिकोक्तिं खण्डयति - यत्त्विति। - स्वत्ववानिति। तस्यापि शेषत्वात्। नतु स्वामित्ववान्। तस्य धनाद्यवृत्तित्वेन चैत्रीयेऽपि धने ` नेदं चैत्रस्य' इति प्रसङ्गात्। निरूपकत्वादेः सम्बन्धस्य प्रतियोगितानवच्छेदकत्वादिति भावः। - चैत्रेति। चैत्रसम्बन्धिस्वत्ववद्भिन्नमिदं मैत्रसम्बन्धिस्वत्ववदिति बोध इत्यर्थः। एतेनात्र स्वत्वाभावस्य बोधात्प्रतिषेषार्थकनञः क्रियामात्रान्वयित्वमुयक्तमित्यपास्तम्। विनिगमनाविरहादाह - यन्निष्ठेइति। - तदर्थस्य--- तद्विभक्त्यर्यस्य।आद्ये आह - नेनैवेति। अन्त्ये आह - तत्रैवेति। प्रत्यासत्तेरिति भावः। - अन्यथा-- प्रत्यसासत्त्यनङ्गीकारे। - एकत्वेति। सति तात्पर्ये एककृत्यभाववांश्चैव इतिवत्तथा बोधसम्भवात्। दोषान्तरमाह - किञ्चेति। सामान्यतस्यस्यापि लाभादाह - विशेषेति। अन्तरकङ्गन्यायमूलकप्राह - स्वाकाङ्क्षेति। - एव़ञ्चेति। नैयायिकमतखण्डनम्।तदर्थं सूचयनानाह - नपचतीति। - तदभावेति। कृत्याद्यभावे इत्यर्थः। - सच--- तत्संमतः। आद्यरीत्या आह - प्रथमान्तेति। द्वितीयरीत्या आह - नियमतइति। - प्रत्ययः--- तिङ्‌विभक्तिः। नैयायिकाद्युक्तमपि युक्तसिद्धान्वतिसंमतत्वेनाह - अन्वयीति। तत्रात्यन्ताभावे आह - नीलेति। तत्संमतिमेवाह - ध्वनितञ्चेदमिति । तत्र हि लक्षणयोर्दोषो " भावाविरामभावित्वाच्छब्दस्यावसानलक्षणं न " इति दत्तः। वर्णानामभाव इत्युक्तेर्वर्णत्वावच्छिन्नप्रतियोगिताकाभाव इत्यर्थः, स च न वर्णसत्त्वे इति तदर्थः। - अत एव तस्य तत्र तल्लभ्यत्वादेव। यद्यपि सिद्धान्ते तत्सत्ताऽभावशाब्दो न तदभावस्तथाऽप्युक्तरीत्या तस्य आर्थत्वेन रूपसामान्याभावस्यापि सिद्धिरित्यर्थः। अत एव सामान्येनक्तम्। ननु सामान्यरुपेण विशेषप्रतिरिति तदभावकूटस्यैव ततो बोधेन न तत्सिद्धिरत आह - विशेषेति। तथा सत्येकस्यैव बोधो न सर्वेषमिति तदलाभ इति भावः। नन्वेवमपि तत्र पीतघटो नास्तीति व्यवहारो न स्यात् तत्र घटस्यैवान्वयितावच्छेदकत्वेन तदवच्छिन्नाभावप्रतीतेर्बाधितत्वादत आह - अन्वयितेति। प्रत्यासत्तेराह - नञर्थेति। सत्तावत् घटस्यापि आर्थिकनञर्थान्वयित्वादाह - पीतरूपमिति। पीतघट इति तद्धाक्यैकदेशः। प्रतियोगितावच्छेदकेत्युक्ते तु उक्तदोष एवेत्याह - प्रतीति। अपिना केवलसमुच्चयः। नचैवन्तद्वत्तस्यापि विशेष्यमात्रनिष्ठत्वान्न साऽन्वयिताऽवच्छेदकावच्छिन्नेत्युक्तदोष एवेत्यत आह - तदवच्छिन्नेति। विशेष्यवृत्तिधर्मावच्छिन्नेत्यर्थः। ननु विशेषणसत्तत्वेऽपि विशिष्टस्यातिरिक्तत्वात्केवलनिष्ठायाः कथं तन्निष्ठत्वमत आह - विशिष्टंचेति। सर्वथाऽनतिरिक्तत्वे दोषबुाहुल्यस्य स्पष्टत्वादाह - सर्वथेति। एवं च विशेषणविशिष्टव्यक्तिनिष्ठत्वात्साऽन्वयिताऽवच्छेदकावच्छिन्ना भवतीति तथोक्तौ नोक्तदोषस्तदाह - अत एवेति। ननु शक्तिग्रकहादेः समानविषयत्वात्कथं तावताऽपि व्यक्तिविशेषधीरत आह - यथेति। तथा च गमकासत्त्वविषयकः सनियम इति न दोषः। तद्वत्तदनुक्तं व्यत्पत्त्यन्तरमाह - एवमिति। एवमत्यन्ताभावे उक्त्वाऽन्येन्याभावे आह - एवमिति। अपिना घटो न नीलघट इत्यस्य समुच्चयः। नीलघटो न पीतघट इत्यादि तु भवत्येवेति भावः। प्राचा तस्य तत्रोदाहृतत्वादाह - अधर्मेति। नन्वेवमपि सोऽभावरूप एवास्तु तस्यापि तत्त्वादिति चेन्न। अस्ति कश्चिदेतद्वाक्यार्थ इति सामामीत्यनुभवात्। अभावरूपत्वे हि तत्प्रत्यक्षादावभावज्ञानस्य विशिष्टबुद्धित्वात्तज्ज्ञाने प्रतियोगितावच्छेदकावच्छिन्नप्रतियोगिज्ञानस्य कारणत्वस्य यथाकथंचिदावश्यकत्वात्प्रतियोगिज्ञानापेक्षा। नहि तत् सम्भाव्यते वाक्यार्थज्ञानत्वस्य तदानीं विद्यमाने सामान्यज्ञाने सत्त्वेन प्रतियोगितानवच्छेदकत्वात् । अभादाधिकरणवृत्तिपरदार्थावृत्तिधर्मस्यैव प्रतियोगितावच्छेदकत्वात् । तादृशस्य विशेषज्ञानत्वस्य तु प्राग् विशेषानवगतेर्ज्ञातुमशक्यत्वम्। तस्मादज्ञानम् भावरूपं सविषयम्। नहि सविषयस्य ज्ञानि विषयतावच्छेदकावच्छिन्नविषयज्ञानापेक्षानियमः । जिज्ञासाज्ञाने व्यभिचारात्। अनवगतशास्त्रार्थविशेषज्ञानेच्छायाः शास्त्रार्थं जिज्ञासे इत्यवगतसामान्याकारावच्छेदेन अनुभवात्। अत एवौपनिषदैरज्ञानं तथाऽङ्गीकृतं साक्षिणयध्यस्तं साक्षिभास्यमिति चोक्तम्। तदाह - इत्यन्यत्रेति। गुरुमञ्जूषादावित्यर्थः। एवेनाभावार्थकत्वव्यच्छेदः। तथा सति आत्माश्रयापत्तिरिति भावः। एवेनाभावप्रतियोगिकत्वव्यवच्छेदः। अत एवाह - आभावेति। नन्वेवं घटाभावो नास्तीत्यादेः का गतिरत आह - घटाभाव इति। नन्वेवमपि येन नाप्राप्ते इत्यादौ का गतिरत आह - येनेति। आदिना " नारुद्रः क्रमपाठकः " इत्यादि। विशेषणत्वायाह - प्रकृतेति। निपातानामनेकार्थत्वात् । एकस्य तु न तथा, तथा प्रयोगाभावात्। तदेतद् ध्वनयन्नाह - तदुक्तमिति। - प्रतिषेधौनञौ। नञ्द्वयाभावेनोक्तगतेरसम्भङवादभावसम्भवादभावस्यैवासत्त्वेनैकेनैव नञा तद्बोधनासम्भवाच्च। सिद्धान्ते प्रसक्तदोषमुद्धरति - मथ्नामीति। वेणीसंवरणे भीमवाक्यं कसहदेवं प्रति। आदिना दुःशासनस्य रुधिरं न पिबाम्युरस्तः। संचूर्णयामि गदया न सुयोधनोरूसन्धिं करोतु भवतां नृपतिः पणेनेत्यस्य सङ्ग्रहः। काकुर्ध्वनिविकारविशेषः। आदिना ` जातौ जातिर्नास्ति ' `ह्रदे वन्हिर्नास्ति' `नान्तरिक्षे जुहोति ' इत्यादि। अयं सिद्धान्तः , प्रागुक्तं तु पररीत्येति न विरोधः। तदेतद् ध्वनयन्नत्रापि तथैवाह - वन्हित्वेनेति। अत्रत्यं तत्त्वं तु कारकप्रकरणे स्फुटीभविष्यति । एतेन सर्वत्र विषेष्ये विशेषणाभावो नञा बोध्यते इत्यकीयमते ` जातौ न सत्ता ' इत्यादावगतिर्दोषः जातिसमवेतत्वस्य तत्राप्रसिद्धत्वात्सम्बन्धान्तरेण जातिवृत्तित्वस्य तत्रासत्त्वादिति नैयायिकोक्तमपास्तम्।। 1.40।।


    भूषणाद्यसाङ्गत्यं ध्वनयन्सिद्धान्ततत्त्वमाह - अत्रेदमित्यादिना। आद्ये आह - प्रतियोग्यतेति। द्वितीये आह - सर्षपे इति। आद्यहेतुं विघटयति - नचेति। अप्रसिद्धिमेवाह - नञ्सूत्रे इति। - एवम्--- एतादृशम् । दृश्यते इत्यत्रान्वयः। यदीत्यननेनादर्शनमेवेति ध्वनितम्। - सूचितमिति। सूचितमेव, कैयटेनेत्यर्थः। एवं तत्साधकभाष्यानुपलम्भमुक्त्वा तत्साधकतदुपलम्भमाह - किञ्चेति। - विपरीतमिति। दर्शनक्रियाविशेषणम्। - नेत्यतुक्ते इति। उत्तरत्वेनोक्ते इत्यर्थः। - सन्देहइति । समभिव्याहृतपदस्य बोधकस्या भावान्निवृत्तिरूपार्थस्य प्रतियोग्याकाङ्क्षाया अनिवृत्तेरबोधकत्वेन च तदप्रयोग एव स्यात्। वाचकत्वे तु सन्देहः स्यादित्यर्थः। तदाकारमाह - कस्येति।कस्य पदस्य पदार्थ इत्यर्थः। अभिधयपरः पदार्थशब्दः सन्देहवदेन विर्णयाभावो विवक्षित इति तत्त्वम्। एतदाशयेनैवात एव नेत्युक्तमिति प्रागुक्तम्। एतेन तत्र तथाङ्गीकारादिदं चिन्त्यमित्यपास्तम्। अन्वयमुक्त्वा व्यतिरेकमाह - एतदेवेति। - उक्तम्--- वर्धमानोपाध्यायैः। - अतएव---तस्य तत्र कारणत्वादेव। नन्वेवमभावस्य पृथगधिकरणाकाङ्क्षा समागतेति प्रागुक्तविरोधोऽत आह - आधिति। एवं सति क्रियागुणान्यसमभिव्याहृतनञ इव तत्समभिव्याहृतनञोऽप्यारोपित्वार्थकत्वमेवेति सर्वत्रैकरूपतेत्याशयेनाह - आरोपस्येति। एवञ्चेत्यादिः। - नञर्थः- नञ्‌द्योस्यः। अस्मिन्सिद्धान्ते तत्र बोधाकरामाह - अत्रेति। वाक्यघटकमिदम्। अपिना " न न एकं प्रियम् " इत्यादि। - सन्देह इत्यादि। आदिना ` पीतः शङ्खो नास्ति' इत्यादिपरिग्रहः। नच विशिष्टसत्ताया अप्रसिद्धेः कथमारोपः । उक्तोत्तरत्वात्। एवेन प्रागुक्तबोधव्यवच्छेदः नन्वनुभवसिद्धाभावबुद्धेरपलापः कथम् अत आह - आर्थस्त्विति। तमादायैव प्रतियोगिज्ञानप्रतिबन्धादि सङ्गमनीयम्। उक्तरीतिर्वा।- अत एव--- तत्रापि तथैवाङ्गीकारादेव। नञिवयुक्तन्यायेनेति भावः। अत्राप्रमाणत्वं निराचष्टे - अतएवेति। तथाप्रतीतेरेवेत्यर्थः। नन्वेवमसमासे क्व द्रव्यान्वयः,क्व क्रियाद्यन्वय इत्यत्र नियामकाभावादव्यवस्थापत्तिस्तव, मम तु भेदार्थकत्वे--- आरोपितार्थकत्वे द्रव्यान्वयोऽन्यन्ताभावार्थकत्वे क्रियाद्यन्वय इति व्यवस्थासम्भवोऽत आह - एवञ्चेति। तथाऽर्थस्य प्रमाणसिद्धात्वे चेत्यर्थः। - संसर्गोति। तदितरेत्यादिः। उक्तं समर्थयते - इदमेवेति। - अन्यथा अभावार्थकत्वे। तामेवाह - यदीति। नच तत्र लक्षणा नञ्‌ द्योतकः। तथा सति तस्य विशेषणतापत्त्या प्रागुक्तदोषापत्तेः। तद्‌ ध्वनयन्नाह - तस्मादिति। इष्टसाधनत्वं विध्यर्थो नञ्समभिव्या, हारे त्वनिष्टासधनत्वम्, इति नोक्तदोषोऽत आह - अनिष्टेति। एतेन कलञ्जभक्षणाभावविषयकं कार्यमिति प्राभाकारोक्तमप्यपस्तम्। - अत एव--- तस्यैव तच्छब्दार्थत्वादेव । अन्यथा तदसङ्गतिः स्पष्टैव। एतेन चिन्त्यमिदम् अनुभवसिद्धाभावबुद्धेरुपलापे मानाभावात्। किञ्च उक्तरीत्या तत्र अव्यवस्थापत्तेः। उक्तरीत्या व्यवस्थातु न, संसर्गारोपनियाम्कस्यैवात्यन्ताभावनियामकत्वसम्भवात्। सर्वदाऽप्यभावद्धयं बुध्यत एव व्यवजिहीर्षावशाद्व्यवहारस्य कादाचित्कत्वमित्युपपत्तेश्च। किञ्च ` घटो नास्ति ' इति बोधोत्तरं घटवत्ताबुद्धिप्रतिबन्धो न स्यात्। ममतु संसर्गारोपे आद्यस्तादात्म्यारोपे द्वितीय इति न दोषः इति वाच्यम्। संसर्गाद्यापोपनियामकस्यैव तन्नियामकत्वसम्भवात्। लौकिकप्रत्यक्षस्थले एवारोपस्य हेतुत्वाच्च। प्रतियोग्यधिकरणंससर्गज्ञानमेव ह्यारोपः। अत एव नेत्यत्राभावबोधो भाष्ये उक्तः। तेन लीलावत्युपायोक्तमपास्तमिति भूषणाद्युक्तं समासे एव आरोपित्वं नञर्थः, असमासे त्वभाव एवानुभवसिद्धाभावबुद्धेरपलापे मानाभावादिति नव्यशाब्दिकमतमनूद्य, तन्न, सर्वत्राभावबोधस्यानुभविकत्वात्। आरोपत्वस्यानुगतस्य ब्रह्मणोऽपि दुर्वचत्वेन तस्य नञर्थत्वे गौरवाच्च। एतेन तत्सादृश्यमित्याद्यपि निरस्तम्। सादृश्यादिबोधस्य लक्षणयैवोपपत्तावभावस्यैव नञर्थत्वादिति नैयायिकोक्तमपास्तम् ।उक्तयुक्तिगणात्। एवं चार्थतदभवाबोधानुसारात् प्रत्यक्षमपि तद्विषयमेव। नतु घटसत्ताप्रतियोगिकभूतलाधिकरणकाभावविषयम्, नापि भूतलाधिकरणकत्वविशिष्टघटप्रतियोगिकाभावविषयम्, कारकराणां भावनान्वयेन तस्य शब्दस्येदृशार्थपरताया दुर्वचनत्वात् । एवं च भूतले तादृशत्तारोपः सिद्धः। ` घटः पटो न ' इत्यत्राप्येवमेवोभयमिति अधिकरणे प्रतियोगितादात्म्यारोपः सिद्धः। अत एवोभयत्र प्रथमासिद्धः। उभयत्र भूतले घटोस्तीति यत्तन्न, घटः पट इति यत्तन्नेत्यन्वयात्तत्सिद्धिर्बोध्या। तदाह- दिगिति।। 1.41।।

    भूषणोक्तमेव प्रकारान्तरनिरसनमाह - यत्त्विति। - गुणस्य--- प्रमाणगतस्य । तत्र तस्यैव गुणत्वादाह - प्रतियोग्येति। - प्रमायाम्--- नतु ज्ञानमात्रे। एवं चोक्तमयुक्तमिति भावः। - तद्‌गतेति। चक्षुर्गतेत्यर्थः। वंशप्रमा तत्रैव। नन्वेवं समागतं तदभावस्य कारणत्वं कारणीभूतभावप्रतियोगित्वस्यैव तत्त्वात्तथा च लाघवाद् गुणस्यैव कारणत्वम्--- अत आह - सत्यामिति। एवेन तद्व्यवच्छेदः । साक्षादविरोधिनोऽपि ज्ञानस्य जनकज्ञानविघटकस्य प्रतिबन्धकताया बहुशो दर्शनात्। पारिभाषिकगुणत्वाभावमाह ( तदुनुरोधेनापि तद्‌दुर्वचमित्यधिकः पाठः पुo 2 ।)- आरोपे इति । तस्या ( अभ्युपेत्यत्यधिकम् पुo 2 ।) गुणजन्यत्वाग्रहे आह - प्रत्यक्षेइति। एतेन तदनुरोधेन तत्र तस्य हेतुत्वावङ्यकत्वेन सर्वत्रैव स हेतुरित्यप्यपास्तम्। उक्तरीत्या प्रतियोग्यनालिङ्गिताभावबुद्धेरेवाभावात् `न न ' ( न्मनेत्येति पाठः। ) इत्येव प्रत्यक्षापत्तिरिति तद्भीत्याऽडपि न तस्य तत्र हेतुत्वमिति बोध्यम्। भूषणाद्युक्तमेव खण्डयति - यत्त्विति। आदिना ` नामार्थयोः ' इतिव्युत्पत्तिभङ्गः। - घटभिन्न इति। पूर्वपदभूतनञर्थभेदवद्‌विशेष्यक एवेत्यर्थः। सामान्यापेक्षं ज्ञापकमित्याह - उत्तरेति। तत्फलमाह - अत एवेति। सामान्यतस्तत्र तज्ज्ञापनादेवेत्यर्थः। - सुबित्यस्य---" सुबामन्त्रित " इत्यतोऽनुवृत्तस्य । - अनुरोधात्-- योषापदोपात्ततदनुपोधादेव। एतन्मतोपपत्तिः। स्वयमेव कृता। यत्तु भूषणकारादिभिरिदं मतमित्थमुपपादितम्--- अत्वं भवसीत्यादौ नञो द्योतकत्वेन युष्मदस्तद्भिन्नलाक्षणिकत्वाद्भिन्नरूपयुष्मदर्थेन सामः नाधिकरण्यात्पुरुषव्यवस्था। अत एव ` असः ' इत्यादौ सर्वनाकार्यं लाक्षमइकत्वेऽप्यपसर्जनत्वाभावाद्। अत एव " अनञ्‌समासे" इति सङ्गच्छते इति, तत् खण्डयति - नञ इति। आदिना युष्मदादि। दोषान्तरमाह - ्सवगतेति। अत एव गुणवचानानामिति सत्त्वेऽपि न दोषस्तस्यान्यविषयत्वात्। नन्वेवं ' पतन्त्यनेके' इत्यस्य का गतिरत आह - पतन्तीति। नन्वेकशेषेण सादुतेति तत्पक्षे तैरुक्तमेवात आह - एकेनैवेति। अनेकेतिशब्देन । एवमग्रेऽपि। अप्राप्तिरपासने हेतुः। - पृथगिति। बहुव्रीहिः। - एतदेव--- वचनासिद्धिरूपदोषस्य सर्वथा अन्यथा अपरिहार्यत्वमेव। अनेकमित्यादौ बहुष्वेकत्वस्यारोपादाह - आरोपीति। अन्यथा भाष्यविरोधोऽपीति भावः। एतेन तत्पुरुषे तत्प्राधान्यनियमस्यैवाभावा दुक्तज्ञापकादस इत्यादौ सर्वनामकार्यसिद्धौ नञोऽभावार्थकत्वं युक्तमिति नैयायिकोक्तं तथाऽन्योक्तं चापास्तम्। तस्मादुक्तप्रथमपक्ष एव युक्ततर इति बोध्यम्। तदाह - इतिदिगिति। विशेषणाह - नक्वचिदिति। अत्र मानमाह - अत एवेति। तस्योक्तार्थकत्वादेवेत्यर्थः। पूर्वेत्युक्तेः फलमाह - क्वचिन्नेत्यादाविति। विरुद्धमतिकृत्त्वदोषे प्रकाशाद्युदाहृतस्यात एव सङ्गतिरिति आदिपदसंग्राह्यमाह - स्रजमिति ।ननु कुतोऽस्य विरुद्धत्वमतः आह - जलेति। अत्रानुपूर्वोव्यत्यासेन विवक्षितार्थबोधेऽपि ज्ञटिति विरुद्धार्थप्रतीतिनज्कत्वेन दुष्टत्वमित एवानित्यदोषत्वमस्येति तात्पर्यम्। इति नञर्थनिरूपमण्।। 1.42 ।।


     अथेवकारार्थं निरूपयति - एवशब्द इति। यत्तु जीर्णनैयायिकाः--- अत्यन्तायोगव्यवच्छेदोऽयोगव्यवच्छेदोऽन्ययोगव्यवच्छेदश्चैवकारार्थः। तत्राद्यः अन्वयितावच्छेदकव्यापकत्वाभावविशिष्टो योऽभावः प्रतियोगितासम्बन्धेन तद्विशिष्टव्यवच्छेदः। अयं च क्रियासङ्गतैवस्थले, तथाविधबोधे तादृशानुपूर्वोज्ञानस्य हेतुत्वात्। तथाच नीलं सरोजं भवत्येवेत्यादौ सरोजत्वव्यापकत्वाभावविशिष्टाभावव्यवच्छेदवन्नीलक्षवाश्रयत्ववत्सरोजमित्यादिबोधः। तादात्म्याभावव्यवच्छेदो द्वितीयः। सच विशेषणसङ्गतैवस्थले, तद्बोधे तज्ज्ञानस्य हेतुत्वात्। तथाच शङ्खः पाण्डुर एवेत्यादौ पाण्डुरतादात्म्याभवाव्यव्चछेदावान् शङ्ख इत्यादिबोधः। अन्यतादात्म्यादिव्यवच्छेदोऽन्त्यः। सच विशेष्यसङ्गतैवस्तले, तद्बोधे तज्ज्ञानस्य हेतुत्वात्। तथा च पार्थ एव धनुर्धर इत्यादौ पार्थान्यतादात्म्याभववद्धनुर्धराभिन्नः पार्थः इत्यादिबोध इति।
   तन्न। अक्षरमर्यादया ततस्तदर्थालाभात् ज्ञानमर्थं गृह्णात्येवेत्यादावयोगव्यवच्छेदमात्रप्रतीतेः। पचत्येवायमित्यादावन्ययोगव्यवच्छेदप्रतीतेश्च। आद्यविषये स्रवत्रात्यन्तायोगव्यवच्छेदाप्रतीतेः। सरोजत्वादेः प्रागुक्तरीत्याऽन्वयितावच्छेदकत्वाभावात्। चैत्रेणैव सदृशं मुखमित्यादौ द्वितीयविषयेऽप्यन्ययोगव्यवच्छेदप्रतीत्या तथा नियमस्य दुर्वचत्वात्। प्रागुक्तरीत्याऽभावाभाव्सयासत्वाच्च। यदि तु अयं सर्वोऽप्युत्सर्गो नतु सर्वथा नियम इति यथाऽनुभवं तात्पर्यतोऽन्यथाऽपि बोधस्तत्र तत्तदानुपूर्वोज्ञानस्य हेतुत्वादिति न प्रागुक्तदोष इत्युच्यते तदाऽप्यवशिष्टोदोषगणसत्त्वमेव। किञ्च विशिष्टशक्त्यनेकशक्तिकल्पनजं गौरवतरं दुष्परिहरमेव। तदेतत्सर्वमभिप्रेत्याह - अवधारणइति। प्रागुक्तविषयोष्वित्यर्थः। सर्वत्र तथेति तथा तदुक्त्यसाङ्ग्तयायाह - अस्मादेवेति। उक्तवार्त्तिकादेवेत्यर्थः। अन्यथा लक्ष्यासम्भवेन तदसङ्गतिः स्पष्टैव। आदिपदसङ्ग्राह्यमनुपदमेव स्फुटीभविष्यति। - सच--- ज्ञानविशेषश्च। प्रागुक्तरीत्या तस्य विशेषणत्वावश्यकत्वादाह - द्योत्य इति। - समेति। तत्प्राग्वर्त्तिनि। सच नैकरूपइति प्रागुक्तक्रमवैपरीत्येन सर्वस्वरूपप्रतिपादनायादौ विशेष्यसङ्गतेऽभेदविषये आह - तच्चेति। अवधारणंचेत्यर्थः। - स्वं पार्थः। - समेति। पार्थसमबिव्याहृतधनुर्धररूपेत्यर्थः। ननु कथं प्रसिद्धबोधापलापोऽत आह - तदन्यइति। अत एव कविप्रयोगविरोधोऽपि त्वन्मते स्फुटः मम मते नेत्याह - काचिदिति। नन्वेवं तत्र पार्थ एव धनुर्धरो नान्य इत्यादौ च नान्येनेत्यादेः पौनरुक्त्यापत्तिरुक्तरीत्या तल्लाभादत आह - आर्थ्येति।व्यञ्जनेयेत्यर्थः। शब्दमर्यादया तथैव प्रतीतेरिति भावः। अभ्युपेत्येदं वस्तुतस्तदेव नेत्याह - लवणमेवेति। निपातानामनेकार्थत्वादिति भावः। इदमेव प्रागुक्तादिपदसङ्ग्राह्यम्। अत्रावधारणार्थकत्वं तु न, बाधात्। तात्पर्येण प्रयोगाच्च। एवमग्रेऽपि। - क्वेवेति। एवमुक्ते स्थलसङ्कीर्णत्वादिना नास्ति सम्भवस्तव भोझनस्येति प्रतीतेः। - तस्य--- एवस्य। तत्रैव भेदविषये आह - शङ्खे इति। स्वम्--- पाण्डुरत्वम्। - समेति। पाण्डुरत्वासमभिव्याहृतशङ्करूपपदार्थेत्यर्थः। - शङ्खे इति। यतइत्यादिः। असुब्वत इतवद् - अनेकेति प्रयोगः । शङ्खाधिकरणकमवधाराणविशेष्यं पाण्डुरत्वमिति बोधः। अथ द्वितीये आह - शङ्खइति। स्वं पाण्डुररूपम्। - रूपानाश्रयसमेति। तदनाश्रयत्वेन गृहीतपाण्डुरसमभिव्याहृतशङ्खरूपपदार्थेत्यर्थः। - अवधारणप्रकारेति । बहुव्रीहिः। शङ्खोऽनेकरूप इति ज्ञानवन्तं प्रत्यतेत्प्रयोगात्। तृतीये आह - क्रियेति। एवं हासः ।तदन्या च प्रकरणादिवशाद्विशेषरूपैवेत्याह - बुद्धिस्थेति। तदनाश्रयत्वेन गृहीतक्रियासमभव्याहृतचैत्ररूपपदार्थेत्यर्थः। चैत्राभिन्नकर्त्तकावधाकणविशेष्या हासक्रियेति बोधः। तत्रैव विशेषादन्यहाह -नीलमिति। अत्र शुद्धस्य ग्रहणे विशेषणवैयर्थ्यादाह - नीलेति। सामानाधिकरण्येन तदभावानधिकरणं यत् सरोजं नीलबवसनसमभिव्याहृतं तत्प्रकारकेत्यर्थः। नीलाभिन्नसरोजाभिन्नकर्त्तृकमवधारणविशेष्यं भवनमिति बोधः। तत्रैवेतोऽपि विशेषादाह - ज्ञानमिति। परमते शीत एवेत्यादौ जलाद्यधिकरणकसत्ताकर्त्तृतावच्छेदकस्पर्शत्वावच्छेदेन शीतान्यातादात्म्यव्यवच्छेदवतोऽन्वयो वाच्यो व्युत्पत्तिवैचित्राद् अन्यथा यत्समभिव्याहृत एवस्तदन्वितान्ययोगव्यवच्छेदस्य तदन्वयिन्येव प्रतीतेः गन्धे पृथिव्यन्यावृत्तित्ववत्तत्र शीतान्यतादामत्म्यव्यवच्छेदवान् स्पार्शो जलवृत्तिरित्यर्थापत्या शीतएव स्पर्शो द्रव्ये इत्यस्याप्यापत्तेरिति गौरवान्तरं सूचयन् द्वितीये विशेषादाह - शीत एवेति। - शीतेति। समवाभाविकेत्यादिः। तदनधिकरणशीतस्पर्शसमाभिव्याहृतजलरूपपदार्थेत्यर्थः। जलाधिकरणकावधारमविषयशूताभिन्नः स्पर्श इति बोधः। परमते चैत्रेणैवे्तयादौ स्वेतरकारकान्वितक्रियात्वावच्छेदेन चैत्रान्यतादात्म्याभाववत्कर्तृकत्वप्रत्ययो व्युत्पत्तिवैचित्र्यादिति नोभयदृष्समाने तथा प्रयोगइति सूचयन् कर्मप्रत्यये विशेषादाह - चैत्रेणैवेति। अन्यत्र समभिव्याहारादाह - सकलेति। बुद्धिस्थयावदित्यर्थः। नान्येत्यर्थः। नान्येनेत्यादिप्रतिनिर्देशात्। अवाधारणविषयचैत्रकर्तृकमेतत्कर्मकं दर्शनमिति बोधः।परमते घटत्वामित्यादौ पृथिविवृत्तिपदस्य पृथिव्यन्यतादात्म्याभाववद्‌वृत्तिपरता एवस्तात्पर्यग्राहकः। समासे उपसर्जनस्य पृथिवीपदार्थस्यान्वयासम्भवात्। तथात्वे वा व्युत्पत्तिवैचित्र्यस्वीकार इति, तत् सूचयन् विशेषात् तत्रैवाह - घटत्वविशेष्यकज्ञानेति। तदवृत्तित्वेन गृहीतपृथिवीवृत्तिसमभिव्याहृतघटत्वरूपपदार्थविशेष्यकेत्यर्थः। घटत्वप्रकारकेत्यपपाठः। पृथिवीवृत्तित्बस्य घटत्वेप्रसिद्धत्वात्तदवृत्तित्वं तत्रेतिज्ञानवन्तं प्रति न प्रयोगः, किन्तु तत्र अन्यवृत्तित्वज्ञानवन्तं प्रत्येव प्रयोग इति पृथिव्यवृत्ति नेति न प्रति निर्देश इत्याह - नान्यवृत्तीति। - अवधारणेति। पृथिवीत्वसामानाधिकरण्येनेत्यादिः। परमते ऋतावित्यत्र क्रियासङ्गतत्वेऽप्ययोगव्यवच्छेदबोधकत्वेन ऋतुकालाधिकरणकभार्यकर्मकस्वकर्तृकगमनाभावाभावः प्रेरमाविषय इति बोधे एवार्थविशेष्यके प्रत्ययानामिति व्युत्पत्तिभङ्गः, प्रागुक्तदोषाक्रान्तत्वं चेत्यत आह- ऋताविति। स्वपदं स्पष्टार्थम्। स्वमुपगमनम्। तदनाश्रयत्वेन गृहीतकर्त्तृकारकेत्यर्थः। - स्वभार्येति। स्वकर्त्तृकमित्यपि बोध्यम्। - तस्य--- उपगमनस्य। ननु तस्य तत्त्वे एव किं मानमत आह - इष्टस्येति। सन्निधौ स्थिते इति शेषः। - तेन--अगमने दोषश्रवणेन। अत एकऋतौ गमनेऽपि ऋत्वन्तरे प्रत्यवायपरिहारार्थं प्रवृत्तिः। एवं च ऋतुकालिकविशेषणतया भार्याकर्मकगमनाभावः कर्तृतासम्बन्धेन स्वनिष्ठः प्रत्यवायसाधनमिति बोध्यम्। नन्वेवमवधारणानां नानात्वेन तद्वदनेकशक्तिकल्पनापत्तिरत्रापीत्यत आह - सकलेति। प्रागुक्तरीत्यैव तत्सिद्धिः। परमतेनाह - अखण्डोपेति। एवाघटितपरिसंख्येदाहरणेऽपि तत्रैवसमभिव्याहारे तथैव बोधात् एवमेवेत्याह - पञ्चपञ्चेति। इत्यादावपीत्यर्थः। अतिप्रसक्तत्वादितरत्वावच्छेदायाह - बुद्धिस्थेति। उभयं पञ्चत्वविशेषणम्। तद्रूपसंख्येत्यर्थः। स्वं तादृशपञ्चत्वम्। तदसम्बन्धि यद् भक्ष्यत्वं तद्वान् यः पञ्चपञ्चनखसमभिव्याहृतभक्ष्यपदार्थस्तत्प्रकारकेत्यर्थः। नन्वितस्तेषामर्थतस्तत्त्वलाभेऽपि रागतः प्राप्तस्य न निवृत्तिरिति तत् स्यादेवेत्यनिष्टमेवात आह - एवेति। तत्प्रयोगे इदम्। तदभाव आह - लक्षणेति। प्रापकप्रमाणं रागः। - बोधितस्यभक्षणस्य। - तदतिरिक्तेति। तादृशपञ्चपञ्चनखान्येत्यर्थः। अन्यथाऽदृष्टार्थमपूर्वविधौ तदकरणे प्रायश्चित्तापत्तिरनुक्तान्यभक्षणे तदुक्त्यसाङ्गत्यापत्तिश्चेति भावस्तदाह - इष्टेति।। 1.43।।


  नव्यनैयायिकोक्तिङ्खण्डयति - यत्त्विति। सर्वत्रेति शेषः। - व्यवच्छेदः-- स एव। तेन तदुभयव्यवावृत्तिरिति नानेकशक्तिकल्पनं तद्वन्। अन्ययोगश्चान्यसम्भन्धमात्रम्। एवं च नीलं सरोजमित्यादौ आख्यातस्याश्रये लक्षणया नीलभवनवदन्यत्वव्यवच्छेदः सरोजत्वसामानाधिकरण्येन प्रतीयते, शङ्खः पाण्डुर एवेत्यादौ शङ्खत्वावच्छेदेन पाण्डुरान्यत्वव्यवच्छेदबोधः। पार्थ एवेत्यादौ धनुर्धर्वावच्छेदेने पार्थान्यत्वव्यवच्छेदबोधः। ऋतावित्यत्र तादृशगमनवदन्यत्वव्यवच्छेदबोधः। पृथिव्यामित्यादौ पृथिव्यन्यवृत्तित्वव्यवच्छेदबोधो गन्धादाविति तदाकूतम्। तदाह - पृथिव्यामिति। - गन्धेचेति। अत एव पृथिव्यामेवाकाश इति न, तस्यावृत्तित्तवात् । यत्पदसमभिव्याहारेण यः सम्बन्धः प्रतीयते एवसमभिव्याहारेपि तस्यैवान्ययोगस्य व्यवच्छेदधीरिति न दोषः। ननु सप्तम्यर्थविशेषणतयोपस्थितपृथिव्याः कथमेवार्थान्यत्वेऽन्वयः एकविशेषणत्वेनोपस्थितस्यान्यत्रान्वयस्याव्युत्पन्नत्वादत आह - विभक्तिति। एवस्थले तद्‌व्युत्पात्तिसङ्कोच इति भावः। प्रचीनमते तु नायम् एवस्य द्योतकत्वेन पृथिव्यन्यतादात्म्यभाववतो लक्षणया पृथिवीपदार्थत्वेन सप्तम्याः साधुत्वार्थकत्वेन पृथिव्यन्यतादात्म्याभाववद्‌वृत्तिर्गन्ध इति बोधेनैवोपपत्तेः। एतदर्थभियाऽस्योल्लेखः एवार्थबलादेव। समभिव्याहृतपदार्थतावच्छेदकावच्छेदेन पृथिव्यन्यतदात्म्याभाववद्‌वृत्तिर्गन्ध इति बोधेनैवोपपत्तेः। एतदर्थभियाऽस्येल्लेखः एवार्थबलादेव। समभिव्याहृतपदार्थतावच्छेदकावच्छेदेन तद्‌वृत्तित्वस्य बोधान्न पृथिवीवृत्त्येवेति तु भवेत्येवोक्तरीत्येति बोध्यम्। प्राचीनमतसाधाराणं दोषमाह - अनेकेति। - तत्र--- प्राचीनमते। शीत एवेत्यादौ यथा तत् तथोक्तम्। पार्थ एवेत्यादौ धनुर्धराभिन्नः पार्थान्यातादात्म्याभाववानिति बोधेन नव्यमतोक्तव्युत्पत्तिवैचित्र्यम्। शङ्के पाण्डरत्वमेवेत्यादावप्वेवं पाण्डरत्वान्वतादात्म्यभाववच्छंन्नवृत्तिति बोधात्। शङ्खः पाण्डुर एवेत्यादावपि शङ्खत्वावच्छेदेन पाण्डुरतादात्म्याभाववान् शङ्ख इति बोधेन, एवं नीलं सरोजं भवत्येवेत्यादौ तु उक्त एव बोध इति तत् म्फुटमेव। एवमुभयमतेऽपि अन्ययोगव्यवेच्छेदादौ अन्यादिंषु भिन्नशक्ताबधिकगौरवम्, विशिष्टशक्तावप्येवम्। घटादन्य इत्यादाविवैकदेशान्वयो व्युत्पत्तिवैचित्र्यादेकपदजोपस्थितिविषयाणामन्वयोऽपि मिथो व्युत्पत्तिवैचित्र्यादेवेति बोध्यम्। एतेन व्यवच्छेदे शक्तिरन्यत्र लक्षणेत्यपि नव्यनैयायिकोक्तमपास्तम्। साधारणमेव दोषान्तरमाह - तादृशइति। ननु घटान्पश्येत्यादिवदत्र प्रातिपदिकतन्त्रेण निर्वाहोऽत आह - विभक्तिमिति। तत्र सहविवक्षाविषयत्वेन तत्सत्त्वेऽप्यत्रासहविवक्षाविषयत्वेन न तथेति भावः। एतनावृत्तिप्रयुक्तं गौरवमप्यत्र मते सूचितम्। अभ्युपेत्येदम्। वस्तुतोऽफलत्वान्नैव सेत्याह - पृथिवीति। गन्धे इत्यादिः। मानान्तरं प्रत्यक्षम्। तथाचावधारणविषयपृथिवीवृत्तित्ववान्गन्ध इ्तयोवोक्तरीत्या बोधः। अवधारणं च पृथिवायन्यावृत्तित्वेन गृहीतसमभिव्याहृतगन्धविशेष्यकज्ञानरूपं तत्। एवद्दोषचतुष्टयेन पार्थ एवेत्यादौ पार्थो धनुर्धरः पार्थान्योन धनुर्धर इत्यादिर्बोध इत्यप्युपास्तम्। - अत एव---- तत्र तस्य ततो लब्धत्वादेव। उक्तरीत्या शाब्दत्वासम्भवादाह - आर्थ्येवेति। - एवं च ---- तस्यार्थत्वे च । अपिना तदसमभिव्याहृतपञ्चेत्यस्य समुच्चयः। तत्स्वरूपमाह - साचेति। निषेधइत्यर्थः। नन्वेवं सिद्धान्ते शाब्द्युच्छेदापत्तिः । परमते तु नायं दोषः, एवासत्त्वासत्त्वाक्ष्यं तद्विभागम्भवादत आह - शाब्दीत्विति। - इत्यादौ--इत्यादावेव। आदिना किं भूषणमित्यादिः। अपिसमुच्चेयमाह - पञ्चेति। - अतिरिक्तेति। प्राप्तानुवादवैयर्थ्यन तस्य तत्र लक्षणयेत्यर्थः। नन्वेवाभावेतदर्थघटितलक्षणायामेव न मानमिति कथं तथा परिसंख्याऽत आह - अत एवेति। प्रायेणात्र शास्त्रे नियमपदेन परिसङ्ख्यैवोच्यते इति भावः। - तदभावेति। तदभावेऽपि तथार्थाङ्गीकारेणेत्यर्थः। तदेवाह - तेनहीति। भाष्यव्याख्यानेनेत्यर्थः। मीमांसकधर्मशास्त्रकारादयस्तु इयं शाब्दी परिसङ्ख्येत्याहुस्तन्मतं खण्डयति - यत्त्विति ।' युष्मद्युपपदे' इत्यादौ दोषमाह - किञ्चेति। यत इति शेषः। - एवम्--- तद्वद्‌शाब्दीत्वस्य तत्रार्थापत्तौ। नियमशास्त्रस्य निषेधपरत्वादाह - शास्त्रीयेति। - किमेति। किमेकान्ते ध्येयं चरणयुगलं कौस्तुभभृतः। किमाराध्यम् पुण्यं किमभिलषणीयञ्च करुणा यदासक्त्या चेतो निरवधि विमुक्तयै प्रभवतीति एतच्छेषः। - आर्थेति। प्रश्नपूर्वकेत्यादिः। एवमग्रेऽपि। आदिना प्रदीपादि। - अत एव ---तस्या आर्थत्वादेव ।- किम्भूषणमिति।


     किं कार्यमार्यचरितं सुकृतं न दोषः। किं चक्षुरप्रतिहतं धिषणा न नेत्रं जानाति कस्त्वदपरः सदसद्धिवेकमिति एतच्छेषः। - उदाहृतमिति। प्रकाशकारादिभिरिति भावः। तत्र भाष्यविरोधमपि सूचयन्नाह - भाष्येति। - कृतम्--- इष्टम्। - इतीतीत्यत्राहेत्यस्यान्वयः। - तत्र--- तयोर्मध्ये। - तदिति। तत्प्रयोगेत्यर्थः। यथा भाष्यतः प्रकृतलाभस्तदाह - अत्रेति। भाष्ये इत्यर्थः। अयं भावः शब्दस्य वृत्तित्रयं अर्थस्य तु व्यञ्जकत्वमेवेति प्रकाशादौ स्पष्टम्। एवं च यत्र भाष्ये शब्दप्रस्तावस्तत्र शक्यत्वमेवाभिमतम्, इहत्वर्थप्रस्तावाद्व्यञ्जकत्वमेव। एवं च गम्यते इत्येतदभावेऽपि तल्लाभे तदुक्त्या स्पष्टं तत्प्रतीतिः। एतेन विप्रतिषेधसूत्रस्थभाष्यं विरुद्धमित्यपास्तमिति। दोषान्तरमाह - किञ्चेति। - लक्षणेति। पदद्वयेत्यादिः। एकार्थतोऽर्थान्तप्रतीतेर्दार्ष्टान्तिकप्रतिपाद्यायास्तथा सति दृष्टान्ततोऽलाक्षादित्यर्थः। स्वमते समाम्यमाह - नियमेनेति।दार्ष्टान्तिके तथोक्तेराह - सन्दर्भेति। उपदेशः आद्योच्चारणमित्याशयेनाह - शब्दान्तरेणेति ।नन्वेवं तथैव कुतो नोक्तमत आह - अर्थत इति। न केवलमत्रैवेत्यथं किन्तु तद्विषये सर्वत्रैवेत्याह - ईदृशइति। शब्दतोऽप्रताप्तिरर्थतः प्राप्तिर्यस्य तद्बोधक इत्यर्थः। लोके इति शेषः।। 1.44।।

   स्वोक्तं लक्षणांविनोतिलाघवात् सिद्धान्तत्त्वमाह - परेत्विति। - लिङ्गात्--- रश्नामात्रप्रकाशनसामर्थ्यरूपात्। शब्दान्तरादप्राप्तेराह - अपूर्वेति। तल्लक्षणे तथैव विवक्षितमिति भावः। - आदत्ते इति। लेट्। अनेन मन्त्रेण तामादद्यादित्यर्थः। - निश्चितः--- निश्चितार्थबोधकः। एवं भट्टमंमतिमुक्त्या मम्मटादिसंमतिमप्याह - आलङ्कारिकाइति। आहुरिति शेषः। व्यवायः सुन्दरीगमनम्। - मुद्यसेवेति। तथाच तैत्तिरीयब्राह्मणम्--- " ब्राह्मणं परिक्रिणीयादुच्छेषणस्य पातारं यदि ब्राह्मणं न विन्देत वल्मीकवपायामवनमयेत् सा तत्र प्रायश्चित्तिः " इति ।ब्राह्मणोह्याहुत्वा उच्छेषणस्य पाता। अकरणे प्रत्यवायाभावरूपनित्यत्वाभावादाह - रागत इति। तथोक्तिस्वारस्यादाह - प्राणीति। अन्यथा तिरश्चां विधिनिषेधाविषयत्वात् तत्र प्रवृत्तिर्न स्यादिति भावः। तदाह - अत इति। ह्यर्थोऽयम्। यौगिकव्यवच्छेदायाह - विवाहेति। - तेषु---व्यवायामिषमद्येषु ।विवाहादिहेतुना विशेषेण शब्दतः अवस्थितिः प्रापणमिति शब्दार्थस्तदाह - तेष्विति। व्यवस्था नियम इति श्रीधरस्वाम्युक्तं खण्डयति - रागत इति - फलति। फलिततां सूचयति - आसु ---तेषां सेवासु। नन्वत्र पक्षे न तादृशोपदेश इति भाष्यविरोधोऽत आह - भाष्येऽपीति। नन्वेवं दोषश्रवणनर्थकं विधिवशादेवाकरणे प्रत्यवायलाभात्, अत आह - ऋतुस्नातामिति। - एवं च----प्राप्तस्य पुनः प्रापणेनेतरनिवृत्तौच। - अतएव---विनिगमनाविरहेण सर्वत्र तात्पर्यादेव। क्रमेणाद्ये आह - गृहस्थेति। द्वितीये आह - अविवाहितेति। तृतीये आह - ऋताविति ।- चोक्तम्---उक्तञ्च। स्मृतिष्वित्यस्योभयत्रान्वयात्समुच्चयः। एतेन ऋतावित्यत्र नियम एव युक्तो न परिसंख्येति न्यायविदां भारुचिविश्वरूपविज्ञानेश्वरादीनां चोक्तिः परास्तेति स्पष्टं मत्कृतमिताक्षराव्याख्यायां लक्ष्म्याख्यायाम् । नन्वेवं मीमांसकोक्तशाब्दतल्लक्षणानाक्रान्तत्वात्कथमस्यास्तत्त्वमत आह - तत्र चेति। उभयलक्षणमिदं न तस्या एवेति भावः। अत्र कैयटसंमतिमप्याह - इजादेरिति। इतरनिवृत्तिफलकसाम्यादत्र शास्त्रे परिसंख्ययाया अपि नियमपदेन व्यवहारादाह - नियमेति। कैयटान्तरमाह - यस्येति। केयटः आहेत्यस्यानुषङ्गः। भाष्यसंमतिमप्याह - अनुपरेति। -तत्र--ततः। - कर्त्रभिप्राये क्रियाफले-- हि यतः इति शेषः। द्वयोरभेदोक्त्या एवमेवासमभिव्याहारे तत्त्वमुपपाद्य तत्समभिव्याहारेऽपि प्रागुक्तभाष्यात् तथैवेत्याह - एवकारोपीति। - तदर्थेति। ततः फलितान्तरनिवृत्तीत्यर्थः। वव्यवच्छेद्यमेवाह - नत्विति। अपिस्तदऊभावसमुच्चये। नन्वेवं प्रागुक्तत्रिविधद्योतकत्वासम्भवात्कथं तथोक्तिरत आह - तदिति। एवेत्यर्थः। -मानत्वमिति। द्योतकत्वमिति पाठः। तस्यार्थस्य यतस्तथाऽत एव तत् द्योततकत्वमित्यर्थः। एवमन्यप्यूह्यमित्यस्यैकं लक्ष्यमुक्तं द्वितीयमिदमिति भावः। नन्वेवं तदभावे तत्प्रतीतिर्न स्यादत आह - एवेति। अत एव स्फुटमिति तत्रोक्तम्। नन्वेवं शाब्द्युच्छेदापत्तिरतः प्रागुक्तमेवाह - शाब्देति। अत्र बीजं प्रागुक्तमेवाह - युष्मदीति। नहिसूचितमिति पाठः। ननु परिसंख्यायां दोषत्रयमिति निर्विवादं तत्राद्यदोषौ पदनिष्ठौ अन्त्योऽर्थनिष्ठः। तच्च पदद्वयलक्षणावादिमते एव सम्भवति नात्रेतीदं पक्षद्वयमयनुक्तमेवात आह - पक्षद्वयेऽपीति। नियमोदातहरणं प्रतिपादयन्नाह - नन्विति। - प्रतीतेरिति। एवसमभिव्याहारे ततस्तथैव बोधात्। आदिना---- पादमर्दनादि। - स्वरसत इति । स्वभावत एवेत्यर्थः। - क्लृप्तबाधेति। बहुव्रीहिः। एवमग्रेऽपि। इदमेवाभिप्रेत्य न्यायविदादिभिस्तत्र नियम एवोक्त इति बोध्यम्। ननु अयं नखविदलनाद्यसम्भवेऽपूर्वविधिरेवास्तामिति कथं नियामकत्वमत आह - क्लृप्तेति। " व्रीहीनवहन्ति" इत्यादाविति शेषः। यद्यप्येतत्कृतलाघवेऽपि दोषत्रयकल्पनजगौरवमस्त्येव तथाऽप्यदृष्टानुरोधेन तत्र तथैवेति भावः। अत्र शास्त्रे तु तद्भौरवादेव विधिनियमसंभवे विधिरेव ज्यायानिति सिद्धान्त इति तद्विरोध इति बोध्यम्। तदेतद् ध्वनयन्नाह - अस्मादिति। यथाक्रममाह - प्रवृत्त्युपेति। - अत एव--- इमभिप्रेत्यैव। - समेइति। " दर्शपूर्णमासाभ्याम् " इतिवाक्यविहितयागस्य देशं विना दुष्करत्वेनार्थाद्देशप्राप्तावपि समविषयमोर्युगपद् दुर्ग्रहत्वादिति भावः। - प्रत्ययेति। ` युष्मद्येव मध्यमः ' इत्यादीत्यर्थः। - एतदिति। एतेन विधिनियम इत्यस्याप्युक्तरीत्या गतिरुक्तप्रायेति बोध्यम्। उपसंहरन्नाह - एवं चेति। उक्तपक्षद्वयस्य युक्तत्वेचेत्यर्थः। एतच्छास्त्रीयपरिसंख्योदाहरणान्तरमाह - पतिरिति।आद्यपक्षेणाह - अवधारणेति। द्वितीयपक्षेणाह - पुनरिति। अर्थतः प्राप्त्याशयेनेदम्। सामान्यप्रापकप्रमामंयथायथं रागः शास्त्रं च । द्वितीये आह - नान्यत्रेति। अत एव वृद्धाः। नियमशास्त्राणां विधिमुखेन प्रवृत्तिः समान्याशास्त्रसंकोचकताचेति। एतेन तेषां निषेधमुखेनापि प्रवृत्तिरिति प्राचोक्तमपास्तम्। पतिरित्यत्रैव विपरीतसंकोचवारणायापि सः। तस्य गतिस्तूक्तैव।
  

  ननु पञ्चेत्यत्र शशादिषु च भक्षणस्य पक्षेण यौगपद्येन च प्राप्तेर्नियमपिसंख्ययोर्मध्ये आद्ये शशाद्यभक्षणे दोषप्रसङ्गाच्छ्‌वादिभक्षण च दोषाप्रसङ्गेन प्रायश्चित्तस्मृतिविरोधाच्च, परिसख्यायां च द्वितीयदोषाभावेऽपि आद्यदोषः सिद्धान्तमते तदवस्थ इति चेन्न। नियमपक्षे तत्र तात्पर्यमिति तथा, अत्र तु न तत्र तात्पर्यमिति भेदात्।
   अन्ययोगव्यवच्छेदाद्येवकारार्थ इत्यस्यापि स एवकारोपादानस्य स्फुटं फलमित्येवार्थ इति न कोऽपि दोष इति बोध्यम्। तदाह - इत्यन्त्रेति। गुमञ्जूषादावित्यर्थः।

   इति धात्वर्थनिपातार्थनिर्णयः।



 

"https://sa.wikisource.org/w/index.php?title=धात्वर्थनिरूपणम्&oldid=402741" इत्यस्माद् प्रतिप्राप्तम्