धात्वर्थविषये वैयाकरणप्रमाणम्।



दधाति विविधान् अर्थान् यः सः धातुः। निरुक्ते, प्रातिशाख्येषु बृहद्देवतायां , गॊपथब्राह्मणे, च धातुशब्दपरामर्शः वर्तते। धातव एव शब्दानां मूलस्वरूपम्, अत एव च उच्यते सर्वं नाम धातुजमाह इति। धातुशब्दनिर्वचनम्।

“धीयते सर्वमस्मिन्निति धातुः”। धा धातोः “सितनिगमिमसिसच्य-विदाञ्क्रुशिभ्यस्तुन्” इति सूत्रेण तुन् प्रत्यये अनुबन्धलोपे विभक्तिकार्ये धातुशब्दः निष्पन्नः। “दधाति धारयति क्रियारूपमर्थं भ्वादिगणपाठमर्यादाञ्च” इति वा। “दधाति विविधं शब्दस्वरूपं यः, सः धातुः” इति वा धातुशब्दार्थः। नानाविधशब्दरूपाणां व्युत्पादकः यो मूलशब्दः सः एव धातुः। पाणिनिना “भूवादयॊ धातवः” इत्यनेन सूत्रेण धातुसंज्ञा निर्दिष्टा। गणपठितानां भू अदिशब्दानां क्रियावचनानां धातुसंज्ञा भवतीत्यर्थः। क्रियावाचित्वे सति गणपठितत्वं धातुत्वम् इति भूषणसारकारः। यः शब्दः क्रियां भावयति प्रतिपतृबुद्धौ उपस्थापयति स धातुसंज्ञः। सर्वे शब्दाः धातुजाः इत्यतः धात्वर्थः कः इति विषयस्य प्रामुख्यं वर्तते। वैयाकरणानां धात्वर्थविषयकविचारः अत्र वर्ण्यते। धात्वर्थः।

फलव्यापारयोर्धातुः इति वैयाकरणानां सिद्धान्तः। फलव्यापारनिष्ठवाच्यता-निरूपितवाचकतावान् धातुः। धात्वर्थविषये वैयाकरणेष्वपि मतभेदो वर्तते। फले व्यापारे च पृथक् शक्तिः इत्येकं मतम्। फलविशिष्टव्यापारे व्यापारविशिष्टफले च शक्तिः इत्यपरं मतम्।

फलम्।

फले व्यापारे च धातुः। यमुद्दिश्य व्यापारः क्रियते तदेव फलम्। फलं विक्लित्यादि। यथा पच् धातोरर्थः भवति व्यापारजन्यविक्लित्तिः। अतः विक्लित्तिः पच् धात्वर्थफलं भवति। शिथिलीभावः अथवा अवयवानां विशेषसंयोगविभागः विक्लित्तिः। तस्य च विक्लित्यादिविशेषरूपेण वाच्यता, न तु फलत्वेन सामान्यरूपेण। तादृशबोधः तु अनुभवसिद्धः। लोके कदाचित् यदुद्देशेन क्रियाप्रवृत्तिः तत् फलं इति कल्पना स्यात्। किन्तु शास्त्रे तु पारिभाषिकं फलमेव। नास्ति तर्हि पाकोद्देश्यायाः बुभुक्षानिवृत्तेः अनिष्पत्तौ अपाक्षीत् इति प्रयोगः अपि न भवति। विक्लित्यादिनिष्ठं पारिभाषिकफलत्वं तु - कर्तृप्रत्ययसमभिव्याहारे तद्धात्वर्थजन्यत्वे सति तद्धात्वर्थनिष्ठविशेष्यतानिरूपितप्रकारताश्रयत्वे च सति तद्धात्वर्थत्वम् इति। एवं तण्डुलं पचति इत्यत्र पच् धात्वर्थफूत्कारादिव्यापारजन्यत्वे सति तादृशव्यापारनिष्ठविशेष्यतानिरूपितप्रकारतापन्नत्वं पच् धात्वर्थे विक्लित्तौ वर्तते। एवं गम् धातोः फलं भवति उत्तरदेशसंयोगः। तिङर्थः कर्म फले आश्रयतासंबन्धेन अन्वेति। फलाश्रयः कर्म। अत एव कर्मणि द्वितीया इति द्वितीया विभक्तिः कर्मसंज्ञकस्य फलस्य सिद्ध्यति।

व्यापारः।

व्यापारस्तु भावनाभिधा - साध्यत्वेनाभिधीयमाना क्रिया। उत्पत्यर्थक भू धातुप्रकृतिकण्यन्तात् ण्यासश्रन्थो युच् इति भावे युच् प्रत्यये भावनाशब्दनिष्पत्तिः। अभिदधाति-जनयति-फलमित्यभिधा। साध्यत्वेन धातुनाभिधीयत इति वा अभिधा। तथा च भावनाभिधापरनामिका साध्यत्वेन अभिधीयमाना क्रिया व्यापारः इत्यर्थः। व्यापारलक्षणं च धात्वर्थफलजनकत्वे सति धातुवाच्यत्वम्। पचति इत्यादौ विक्लित्यादि धात्वर्थफलजनकत्वात् धातुवाच्यत्वात् च फूत्कारादेः व्यापारत्वम्। धातुवाच्यत्वं इत्येतावन्मात्रॊक्तौ विक्लित्यादेः व्यापारत्वप्रसङ्गः। अतॊ धात्वर्थफलजनकत्वे सति इत्युक्तम्। धात्वर्थफलजनकत्वमात्रॊक्तौ काष्ठैः तण्डुलैः पचति इत्यादौ काष्ठतण्डुलनिष्ठ-प्रज्वलनावयव-संयॊग-मार्दवार्हत्व-स्वस्व-अवान्तर-क्रिययॊः विक्लित्यात्मक-धात्वर्थ-फलजनकत्व-व्यापारत्वापत्तिः। एवं फलानुकूलॊ व्यापारः धात्वर्थः। अयमेव फलानुकूलॊ व्यापारः क्रियाशब्देन भाष्यादिषु व्यपदिष्टः इत्याशयेनेव भूषणसारकारः वदति- व्यापारॊ भावना सैवॊत्पादना सैव च क्रिया इति। एवं व्यापारस्यैव क्रियात्वम्। वाक्यपदीयकारः अपि वदति,

    यावत्सिद्धमसिद्धं वा साध्यत्वेनाभिधीयते।
    आश्रितक्रमरूपत्वात् सा क्रियेत्यभिधीयते।।  इति।

सिद्धम् - भूतकालावच्छिन्नम् अपाक्षीत् इत्यादि। असिद्धम् - वर्तमानभविष्यकालावच्छिन्नं, पचति, पक्ष्यति इत्यादि। सिद्धम् असिद्धं च सकलं साध्यत्वेन विवक्ष्यते। एतेन क्रियाशब्दस्य रूढिः प्रदर्शिता। आश्रितक्रमरूपत्वात् सा क्रियेत्यभिधीयते इत्यनेन क्रियायाः यैगिकत्वं विशदीकृतम्। आश्रितः क्रमः येन तत् आश्रितक्रमं, तद्रूपं यस्याः सा आश्रितक्रमरूपा, तस्याः भावस्तत्वात् आश्रितक्रमरूपत्वात्, पूर्वापरीभूतावयवकत्वादित्यर्थः। प्रत्यासत्त्या अवयवानां क्रमेणोत्पत्या यत्क्रियते समूहरूपं वस्तु तत् क्रियेत्युच्यते। अधिश्रयणाद्यधःश्रयणान्तानामवयवानां क्रमिकावयवोत्पत्तिसाध्यसमूहात्मकं वस्त्वेव क्रियास्वरूपम्। क्रियान्तराकाङ्क्षानुत्थापकतावच्छेदकरूपं साध्यत्वम्। तद्रूपवत्वम् असत्वभूतत्वम्। असत्वभूतो भावश्च तिङ्पदैरभिधीयते। निरुक्ते अपि एवमस्ति - भावप्रधानमाख्यातं सत्वप्रधानानि नामानि इति।

अयञ्च व्यापारः फूत्कारत्व- अधःसन्तापनत्व-यत्नत्वादि-तत्तद्रूपेण वाच्यः। पचति इत्यादौ फूत्कारत्वादिबॊधस्य अनुभवसिद्धत्वात्। फलानुकूलः समूहघटकः फूत्कारादिव्यापारः फूत्कारत्वादिना वाच्यः। एवं फूत्कारादिजनकः यत्नः अपि यत्नत्वेन रूपेण धातुवाच्यः एव। एकस्य धातोः विभिन्नार्थकथने नानार्थतापत्तिः तु न भवति। नानाधर्मावच्छिन्नशक्तिनिरूपकतावच्छेदकैकधर्मवत्वं नानार्थत्वम्। यथा हरिशब्दस्य नानार्थत्वं वर्तते तथा अत्र न भवति । तस्य नानार्थकत्वम् आह-

        	हरिर्विष्णाविहाविन्द्रे भेके सिंहे हये रवौ।

चन्द्रे कोले प्लवंगे च यमे वाते च कीर्तितः। वारि वारिदके वापि नवपञ्चार्थकः स्मृतः।। यस्य शब्दस्य अनेकशक्यतावच्छेदकाः सन्ति सः शब्दः नानार्थकः। हरिशब्दस्य विष्णुत्वस्थित-इन्द्रत्वस्थित-सूर्यत्वस्थितेत्यादि चतुर्दश शक्यतावच्छेदकाः सन्ति। अतः सः नानार्थकः। एवं पचति इति शब्दः फूत्कारत्वरूप-व्यापारः, अधःसन्तापनत्वविशिष्टव्यापारः, यत्नत्वविशिष्टयत्नात्मकव्यापारः इत्यादि अनेकार्थद्योतकः अपि तस्य नानार्थतापत्तिः न भवति, तदादिन्यायेन बुद्धिविशेषादेः शक्यतावच्छेदकानां अनुगमकस्य सत्वात्। पच् इत्यस्य शक्यतावच्छेदकाः फूत्कारत्वादि अनेके सन्त्यपि शक्यतावच्छेदकतावच्छेदकानुगमकधर्मबुद्धिविशेषविषयतावच्छेदकं केवलम् एकमेव, न अनेकम्। अतः शक्यतावच्छेदकता अपि एका एव। अतः पच् धातुः नानार्थकः न, एवं नानार्थतापत्तिः अपि नास्ति।

"https://sa.wikisource.org/w/index.php?title=धात्वर्थनिर्णयः&oldid=270653" इत्यस्माद् प्रतिप्राप्तम्