आ त्वाहार्षमन्त रेधि ध्रुवस्तिष्ठाविचाचलिः |

विशस्त्वा सर्वा वाञ्छन्तु मा त्वद्राष्ट्रमधि भ्रशत् ||10.173.01

इहैवैधि माप च्योष्ठाः पर्वत इवाविचाचलिः |

इन्द्र इवेह ध्रुवस्तिष्ठेह राष्ट्रमु धारय ||10.173.02

इममिन्द्रो अदीधरद् ध्रुवं ध्रुवेण हविषा |

तस्मै सोमो अधि ब्रवत्तस्मा उ ब्रह्मणस्पतिः ||10.173.03

ध्रुवा द्यौर्ध्रुवा पृथिवी ध्रुवासः पर्वतो इमे |

ध्रुवं विश्वमिदं जगद् ध्रुवो राजा विशामयम् ||10.173.04

ध्रुवं ते राजा वरुणो ध्रुवं देवो बृहस्पतिः |

ध्रुवं त इन्द्रश्चाग्निश्च राष्ट्रं धारयतां ध्रुवम् ||10.173.05

ध्रुवं ध्रुवेण हविषा ऽभि सो मं मृशामसि |

अथो त इन्द्रः केवलीर्विशो बलिहृतस्करत् ||10.173.06


अभीवर्तेन हविषा येनेन्द्रो अभिवावृते |

तेनास्मान्ब्रह्मणस्पतेऽभि राष्ट्राय वर्तय ||10.174.01

अभिवृत्य सपत्नानभि या नो अरातयः |

अभि पृतन्यन्तं तिष्ठाभि यो न इरस्यति ||10.174.02

अभि त्वा देवः सविताभिऽ सोमो अवीवृतत् |

अभि त्वा विश्वा भूतान्यभीवर्तो यथाससि ||10.174.03

येनेन्द्रो हविषा कृत्व्यभवद् द्युम्न्युत्तमः |

इदं तदक्रि देवा असपत्नः किलाभुवम् ||10.174.04

असपत्नः सपत्नहा ऽभिराष्ट्रो विषासहिः |

यथाहमेषां भूतानां विराजानि जनस्य च ||10.174.05

"https://sa.wikisource.org/w/index.php?title=ध्रुव_सूक्तं&oldid=41010" इत्यस्माद् पुनः प्राप्तिः