ध्वनितत्वसमीक्षासम्पाद्यताम्

१. ध्वनितत्वम् ( प्रथमः परिच्छेदः)


ध्वनितत्त्वम्

अहमित्येव ध्वनितत्त्वम्सम्पाद्यताम्

अर्थावबोधकमनर्थकञ्च सर्वमपि शब्दजातं ध्वनिरित्यपरनाम्ना व्यवह्रियते । उक्तञ्च पातञ्जलमहाभाष्यस्य पस्पशाह्निके-
’अथवा प्रतीतपदार्थको लोके ध्वनिः शब्दः’ इति ।
अनेन सार्थकस्य शब्दस्य ध्वनिरूपत्वं प्रमाणतामायाति । निरर्थकोऽपि शब्दो ध्वनिरिति तु लोके प्रसिद्धमेव । किञ्च, नूतनध्वनिविज्ञानलोके सर्वविधोऽपि शब्दः ध्वनिरुच्यते । संवित्स्वरूपा मन्त्रवीर्यात्मा परा वाग, अथ च पश्यन्ती, मध्यमेति वाक्त्रयमपि ध्वनिपदेन व्यपदिश्यते । तद्यथा-
एवं त्रिविधविसर्गावेशसमापत्तिधाम्नि य उदेति ।
संवित् परिमर्शात्मा ध्वनिस्तदेव मन्त्रवीर्य स्यात् ।।
(तन्त्रालोकः २५।१७२)
अत्र ’संवित् परिमर्शात्म” इति पदेन परावाग् गृह्यते । पश्यन्त्याश्च परावाङ्मूलत्वात् साऽपि ध्वनिस्वरूपा। मध्यमाया वाचो ध्वनिशब्देन व्यवहारो योग-
चूड़ामण्युपनिषदि प्रोक्तः । तद्यथा-
तैलधारामिवाच्छिन्नं दीर्घघण्टानिनादवत् ।
प्रणवस्य ध्वनिस्तद्वत् तदनं ब्रह्म चोच्यते ॥८॥
एवं सर्वविधस्यापि शब्दस्य शास्त्रकारवनीत्यपरनाम्ना व्यवहारात सर्वोऽपि शब्दो ध्वनिनामाहः । तेन ’अकारादिवर्णा एव ध्वनिपदवाच्याः, न तु परादिवाच”’इति न स्वीकरणीयम् ।
ध्वनिशब्दयोरभेदव्यवहारादेव”ध्वनिरेव शब्दः’ इति वैयाकरणानां समयः । उक्तञ्च श्रीभर्तृहरिणा वाक्यपदीयस्य ब्रह्मकाण्डे-
आत्मभेदस्तयोः केचिदस्तीत्याहुः पुराणगाः ।
बुद्धिभेदादभेदस्य भेदमेकेप्रचक्षते ॥ इति ।
पातञ्जलमहाभाष्यस्य पस्पशाह्निके च---
अथवा "प्रतीतपदार्थको लोके ध्वनिः शब्द इत्युच्यते, तद्यथा शब्दं कुरु’,”मा शब्दं कार्षीः’, ’शब्दकार्ययं माणवकः’ इति ध्वनि कुर्वन्नेवमुच्यते । तस्माद्
ध्वनिः शब्दः ।" अत्र ध्वनिरेव शब्दः । ध्वनिशब्दयोरभेदसम्बन्धः । ध्वनि विना शब्दस्य तत्त्वेन न प्रतीतिरतो ध्वनिरेव शब्दः।

"https://sa.wikisource.org/w/index.php?title=ध्वनितत्वसमीक्षा&oldid=270777" इत्यस्माद् प्रतिप्राप्तम्