नक्षत्रमाला
शिवरामत्रिपाठी
१९३७

त्रि[]पाठिश्रीशिवरामप्रणीता

नक्षत्रमाला ।

सटीका।

राजभ्रलमानीता मुनिन्नन्त्रपरिष्कृताम् ।
जाह्नवीं शब्दविद्यां च चिन्त्याभिष्ठसिद्धये ॥
सिविधाताय कृतं मङ्गलं शिल्यशिक्षार्थ नियनाति----

धरात्मजारम्यमुखारविन्दमरन्दरोलम्ब उदारकीर्तिः ।
शेषाव्यसंयोगविशेषशोभो देवो मुदे वोऽस्तु शिवः स रामः ॥ १ ॥

 धरेनि | धरस्य पर्वतस्यात्मजा तस्या रम्यमुखारविन्दस्य मरन्दो मकरन्द्स्तस्यरोलम्बो भ्रमर: |उदारकीर्ति:| शेषाख्यस्य संयोगेन विशेषशोभ: | शेषस्य भूषणत्वादिति भाव: | एतादृशो देव: शिव: स प्रसिद्धो रामो वो


(१)कादम्बरीटीका,(२) दशकुनारचरितटीका ( ३ ) नक्षत्रमाला सटीका (४) रसस्नहारः सटीक (५) वासवदताटीका, एतदन्थपञ्चकमयावधिः समुपलब्धमरितः मुदेऽस्तु |पक्षे—धरादा आत्मजा सीता |शेषाख्ये लक्ष्मणेन विशेषशोभा सौभ्रातृत्वात् |श्लेषालेकार:--‘वाच्यभेदेन भिन्ना यद्युगपद्भाषणस्पृश | श्लोषोऽसौ इति लक्षणात् | वृत्त्यमुप्रास:--‘वर्णसाम्यमनुप्रासश्छेकवृत्तिगतो द्विधा |सोऽनेकस्च सकृत्पूर्व एकस्याय्यकृत्पर ||’ इति लक्षणात् | यमकालंकार:--‘अर्थे सत्यर्थभिन्नाना चर्णानां सा पुन: श्रुति: | यमकं पादतद्भागवृत्ति तद्यात्यनेकताम् ॥’ इति लक्षणात् | संभोगशृङ्गार: --‘अनुकूलौ निपेवेते यवान्योन्यं विलासिंनौ नाथक:--‘अनुकूलस्त्वेकनायिक:’ इति दशरूपकात् | उपजातिवृत्तम्—‘अपन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातचस्ता ? इति तल्लक्षणात् ॥

 गोत्रस्खलनेन मानवतीं प्रत्वाह—

   गोत्रस्खलने भ्रान्तिं भानिनि जानीहि केवलां भेऽत्र

   व्याख्यानतो विशेषप्रतिपत्ति: पाणिनीय इव ॥ २॥

 गोत्रेति | हे मानिनि, गोत्रस्खलने गोत्रं नाम तस्य स्खलने च्यवने मे मम केवलां भ्रान्तिं जानीहि | ननु गोत्रस्खलनं त्वदुक्ति: |मया भ्रान्त्या तन्नामग्रहणं कृतं न त्वहर्निशं तस्वामासक्तेरित्यपि त्वदुकिरेव |तत्र क्व प्रामाण्यसुररीकर्तव्यम् | तत्राह –व्याख्यानतो विशिष्टादाख्यानाद्विशेषस्येष्टस्य ??तिपतिर्बोध: |किमत्र मानं तत्रोपमारीत्याह—पाणिनीय इव | पाणिनीये सत्प्रोक्तशास्त्रे | एवं हि तत्रोक्ति:--ल ण् अ इ उ ण् सूत्रयोर्णकारस्यैवोपादानेन अ ण् उ ण् ग्रहणेषु संदेह: | तत्राह –‘व्याख्यानतो विशेषप्रतिपत्तिर्न हि संदेहादलक्षणम्’ |व्याखानाच्छिष्टकृताद्विशेषस्यान्यतरार्थस्य प्रतिपत्तिर्निश्रय: हि संदेहादलक्षणम्’ |व्याख्यानाच्छिष्टकृताद्विशेषस्यान्यतरर्थस्य प्रतिपत्तिर्निश्रय: | हि यत: संदेहाच्छास्त्रमननुष्ठापकं न | अणुदित् – इत्यत्रैव परेण णकारेणाणूप्रत्याह |इण् तु सर्वत्र परेण | यदत्र परिभान्दुशेखरे दूषणं तदस्मत्कृते विधातिलासे द्र??मू | अत्र श्लोषालंकार:-क्ष्लेष: स एकवाक्येऽस्मिन्यत्रानेकार्थता भवेत् ‘ इति लक्षणात् |अत्र प्रमाणालंकारेषु शब्दप्रमाणालंकार:| क्ष्लौती पूर्णोपमा—‘साधर्म्यमुप?? भेदे पूर्णा लुप्ता च साग्रिमा | श्रौत्यार्थी च भवेदाक्ये समासे तद्धिते तथा |’ इति लक्षणात् |काव्यादर्शे तु दण्डिनेय घर्मोपमेति व्यवह्यता—‘इति घर्मोपमा साक्षात्तुल्यघर्मनिदर्शनात्’ इति| भागवत्पन्न नायिका मानश्शात्रजन्य:- प्रत्युरन्यप्रियासने यूटेशानुमित्रे श्रुते । ईश्यामानो भदल्लीः तत्र वननिसिलिया ॥ इति सरबहारः । स व मध्यम मानो लघुसंध्यम गुस्वति निमा भनेत् । अपरशीदर्शनायो बोनस्खलनजस्तथा । अन्यत्रीसङ्गाजनितः ऋण निनिधो भवेत् ॥ इत्यापि तन्त्रत्र । पख्यार्थी छन्दःविवशकेषु पाहो दुलपोशमेषु श्यते यस्याः यस्योति नरम तस्याः प्रीति नागराजेन:॥ इति लक्षणात् ॥

 अन्यसंभोगदुःखित प्रति संभुगसल्यवाह-

   मौष्ठवणान्मामपरामिव त्वमवेहि तामेव निजैकदासौम् ।

   न चैकदेशे विकृतेस्पति भिन्नत्वमञ सखि कोऽपि लोके ॥ ३॥

 नौष्ठति । ओष्ठे व्रणोऽधरधानजस्तान्मामपरां सपत्रीमिव मा अमेहि । अज्ञे सस्वि, एकदेशे विकृर्विकारान कोऽपि भिन्नत्वमुपैति लाप्नोति । नाहि छिन्नपुच्छे शुनि माजोरस्यवहारो लोके । लोकन्यायसिद्धेय इति व्याकरकोऽप्युक्तम् । इयं ज्ञापकसिट्रापि । 'ग्राग्दीव्यतोऽण् इति सूत्रे भाष्ये दीग्तन्ब्दैतिशदीव्यच्छब्दानुकरणमिदमित्युक्त्वा किमर्थ विकृतनिर्देशः । एतदेव ज्ञारवल्याचार्य:-भवत्येषा परिभाषा - एकराविकरमानन्नवत्' इति । तेन निर्जरशन्दे जरसादेशः फलम् । अन्त्यमपि दूधष्पं विद्यानिलाले द्रष्टव्यम् । कान्यालेसमलंकारः-- समर्थनीयस्वार्थस्य कामाला समर्थनम् इति लक्षणात् ॥

 पूर्वमीयामानेऽनुनीता पुनः प्रणयमानिनी अमाह-

   अनुनीता पुना रोपं भेजे तामाह मानिनीम् ।

   एकस्या लक्षणं व्यक्ती सकृदेव प्रवर्तते ॥ ४ ॥

 अनुनीतेति । या पूर्वमनुनीता पुना रोषं भेजे । अत्र से प्रति लोये कृते दिलो-इति दीधः । तामाह. नायक एकत्या व्यक्त एक लक्षण सकदेव एकवारमेव प्रवर्तते । पुनः कोपो न योग्य इति भावः । प्रणयमानिलीयम् । लिये लक्षणं स्कूदेव प्रवर्तते । त्र ज्ञापक 'समा सुटि इति शुभम् । नमो वा झोपमे के इति भाष्येण लोपखापि रुपकरणस्थत्वात्मकारलोपे एकसकारके पुनस्तत्र सफारदिवे द्विसकारके पुनः सकारद्विवे त्रिसकारकरूपसिद्धौ कि सूत्रेोति तदेव शापकम् । रहित्य पुनारदिल्लं । युगमविपुलद च छन्द यस्थाल: सक्षमो थुम्ने सा सुभविपुला इति लक्षणात् ।

 सख्युपभोगेच साशका नायिका गौणमुख्यन्यायं मनति निधाय दासी घटस्थ सेवने योजयामालेति वर्षयति-

   मुख्य कार्यस्य विज्ञानादासी धृष्टस्य सेवने ।

   नियोजयामास तयो रतिं ज्ञात्वा चुकोप सा ॥ ५ ॥

 मुख्य इति । मुख्य अंधाने कार्यस्य विधेयस्य विज्ञानाहासी अष्टस्य. मग भय सेवने नियोजयामास । सा तयो रति ज्ञात्वा चुकोप सरोषा बभूव । परकीयान्यसंभोगदुःखिता नायिका । नन्बेवमपि महद्भूतश्चन्द्रमाः इलन 'आमहत्तः इत्यामापत्तिस्त आह- गोणामुख्ययोर्मुख्य कार्यसंप्रत्ययः ।। गुणादागतो गौणः । अथा गोशब्दस्य जाब्यादिगुणनिमित्तोऽथी बाहीकः । प्रसिद्ध संज्ञादिरपि तदुपारोपादेव बुध्यते । मुखमिव प्रधानत्वान्मुख्यः प्रधान इत्यर्थ: । गौणे ह्यः शब्दः प्रयुज्यमानो सुख्यारेषेण प्रवर्तते । एवं चाप्रसिद्धत्वं गौणलाक्षणिकरवं चात्र गौणत्वम् । सेन नियन्त्रयामामियादों यादेशो भवत्येव । तन्त्र विशब्दार्थस्येतर विशेषणत्वेऽन्युक्तरूपमौणत्वाभावात्। अन्ये तु “परिवैविधीवामित्यत्र ढव्वव्यावृत्तये नियमापान इणः पीन्द- इत्यत्राशनहगादर्थवत्परिभाषानिया । तन्मूलकामदम् इत्याहुः ॥

 दासी नायिकायाः सान्त्वनं करोति--

   यदागमास्तगुणास्ते गृह्यन्ते तद्ब्रहाद्धिते ।

   अतस्त्वय्याबद्धभावो मामैक्षत स. सादरम् ॥ ६ ॥

 बदामा इति । यसकाशादागमो येषां ते बदाममाः, तस्यं यत्साशादोरमस्तद्वेणीमूना अशाभूतास्तद्रहाते गृह्यन्ते । अतस्त्वय्याबद्धभावः स नायको सो साडरमेक्षन । ननु प्रणिदापयतीत्यादौ दारूपस्य विधीयमाना धुसंज्ञा दापने स्वादत आह यदागमास्तद्गुणी भूतास्तद्रहणेन गृह्यन्ते' । यमुदिश्यागमो विहितः स जीमूतः शानेण तदवयववेन बोधितोऽतस्तहणेन तहारका तरोधकेन शब्दन गॅशनेबाध्यत इत्यर्थः । सन्न नहुणीभूता इत्यशों बीजकथनम्। लोकेऽपि दुरदत्तवाधिक्ये तद्विशिष्टस्यैव देवदासंग्रहणेन ग्रहण दृश्यते । अमुद्दिश्य निहित इत्युक्तः । अनिदारयतीलादो नारियर सुरक्षन । आने मुग्विधानसामथ्यादेशातिया ! अन्यथा पचनान इत्यांदावकारल मुख्यनया परिभाषया प्रवेशिष्टस्य सवर्णदीधै नहरयं स्पटमेव । सेन दिलीय इत्यादी यणादिक न । जहारेत्यादी आव औ पला' इति न ॥

 रसाद वर्णयति--मृष्टाधरेति युग्मेन।

   मुशायरालसामनञ्जनाक्षं पत्रावलीशेषविशेषशोभम्

   रतान्त आसेचनक निधीय कान्ताननं कान्त उवाचः कान्ताम् ॥ ७ ॥

   कृतेऽङ्गकायें पुनरङ्ककार्य न जायते सुन्दर दर्शनेऽपि ।

   ततो वृथयोऽस्ति परिश्रमस्ते असाधनार्थ करमोपमोर ॥ ८ ॥(युग्मम् ).

 मृष्टति । ष्टोऽशालतको यस्याः । अधरपानादित्यर्थः । अनञ्जने अक्षिणी यस्य । चुम्बनात ! बहुव्रीही सक्थ्यक्ष्णोः स्वाहास्यन्' इति पच् । विधेयस्वाभावादविमृष्टवियांशदोषाभावः । पत्रावल्या पचरनमायाः शेषेण शोभा यस पत्ररचनाच्युतिस्तु विपरीतसुरते वेदोडमादित्यर्थः । आलेचन कम् । तदासे चनक सोनारमन्तो यस्य दर्शनात्' इत्यमरः । कास्तानन निधीय सादरं व प्रसाधनोग्रता नायिका प्रत्याह । करभोपमावूरू यस्यास्त संबोधनम् । करस्थ करभो बहिः' इत्यमरः । ऊरूतरपवादोपस्थे इल्लू नु न । उपमाशब्देन दावधानान् । एतेन धात्री कराभ्यां करमोपमोहः' इति कालिदासप्रयोगोऽपि व्याख्यातः । सुन्दार, अशकायें अङ्गाना कार्य प्रसाधने कृते पुनरङ्गकार्य प्रसाधनं नास्ति । अङ्गस्य कार्य कृते पुनरस्य कार्य न भवति । अथात्रैत्र सुन्दरीस्वन्त्र संबुद्धौ ‘अस्वार्धनधोहस्वः' इति हस्खे कृते हिरवस्य गुणः इति गुणों न भवति । न चात्र लक्षणप्रतिपदोक्तपरिभाषया निर्वाह । हे चित्रगोत्रमित्यनेन विरोधापत्तेः । अन्न ते ग्रसाधनार्थ परिश्रमी वृथैव । नतु रत्तान्ते प्रसाधनवर्णनं न कविसंप्रदाय इति, तन्न । शान्ते अन्मथसंगरे रणकृतां सत्कारमातन्वती वासोऽवाजधनस्य पीनकुञ्योहार श्रुतेः कुण्डलम् । बिस्बोधस्य दीटिकां सुनयना पाण्यों रणकणे पश्चालम्बिन केशपाशनिचये युक्तो. बन्धक्रमः ॥ इति दर्शनात् । यत्तुं तत्वबोधिल्याम् हस्वविधाजसासोद्गुणों न प्रवर्तते अन्यथा अम्बार्थनकोपाः' इति श्रूयात', तत्र । सति गुणाग्रहणे इक्परिभाषोपस्थितः अम्बाथै दोषः । अथाम्बार्थग्रहणसांसध्वात्तत्रानिक्यापि प्रवृत्तिरिति चे । उभय सामथ्र्यकल्पनापेक्षया अन्यार्थया: परिभाषया राहस्य सुगमवाद । तत्रैवान्ये तु कृते हस्ने यदि गुण इष्टस्ताहि अवार्थानां इस्त्रो नदीहनयोगः इत्येव भूयात् । तदपि न ! जिसि च' इति सूत्रे एकदेशानुवृस्तिकल्पनापतेः । अस्यां परिभाषायां शापर्क 'साजनोर्जा इति जावेशविधानम्', 'ज्यादादीग्रल' इत्पन्नाकानिधानं च । जकारादेशे कृते जानातीत्यत्र 'अतो दीघों यमि' इति ज्यायान् इत्यादी अनुत्सार्व- इति दीर्व इष्टलिखा कि दीर्घविधानेन । 'तयोविचि-' इति निर्देशादनित्येषा परिभाषा । रूमास आर्थो धर्मलुसोपमा । काच्यादर्श वियं वस्तूपमेति व्यवहता-'इति प्रतीयमानकधर्मा वस्तूपमैव सा' इति लक्षणात् । ऋमेगाव- रखुम्बनायुत्कर्षदर्शनासारालंकार:- उत्तरोत्तरभुत्कर्षः : सार इसभिधीयते' इति तल्लक्षणात् ॥

 कश्चन मानिदीभृती दिराकरोति सोनियोगशिष्टन्यायेन:-

   निवृत्तिस्ते संनियोगशिष्टन्यायेन नो कुतः ।

   द्वयोमानोदये दूत्यास्तदनित्यत्वमुत्तरम् ॥ ९ ॥

 निवृत्तिरिति । सिनियोगशिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिः इति संनियोगशिष्टन्यायः । तत्संनियोगेनागता व तस्था निवृत्तौ वं कथं न निवर्तसे । द्वयोमानोदये दूस्याः तदनिललमुन्तरम् । गजु पञ्चन्द्राण्यो देवता अस्य पञ्चेन्द्र इत्यादौ द्विगोल' इत्मणो लुकि लु तद्धित' इति स्त्रीप्रत्ययल्लकि मानुका श्रवणाएत्तिरत आह-संनियोशिधानां सह वा अलतिः सह वा निवृत्तिः । एवार्थों वाशब्दः । अत्र मिस्वकादिभ्यश्छस्य लुक इति सूत्रस्नग्रहणं ज्ञापकम् । तद्धि छमात्रस्य लुम्बोधनद्वारा कुकोऽनिश्रुतियथा स्यादित्यर्थम् । कूतकुगागमा नखाधन्तर्गणा बिल्वादय एवं तन्त्र निर्दिष्टा बिल्वप्राविशब्देन । समुच्चयार्थचशब्दयोगेज विधेययोरेककालिकत्वैकदेशात नियमाय न्यायसिद्धापीय माविष्टवत्इत्यनेन मुंवत्स्वविधानमेतदनित्यत्वज्ञापनार्थम् । अन्यथा एनीमाचष्टे पूत्यतीत्यादी टिलोपेनैव डीनियनौ संदियोगशिष्टपरिभाषया नस्यापि निचूतौ पुंवत्त्वस्थानावश्यकत्वात् । झापसिद्ध न सर्वत्र' इति ज्ञापकसिद्धेयमन्त्येिति वा । अन्न परिभाषेन्दुशेखरे यहषर्ण तद्रियादिलासे स्फुटम् ॥  दूती भायकं भर्त्सयन्त्याह ----

   कारोः शज्ञक्ष्वेतकीर्तेर्व्युत्पतिस्तव कुत्रचित् ।

   अव्युत्पत्ती से तेऽन्ति ततोऽसि त्वमुणादिवत् ॥ १० ॥

 कारोरिति । कारोः शियिनः । 'कुवापा--' इल्युम् । शवकम्बुवच्छेता कीर्तिस्य ताशय शिवः अत्र साल व्युत्पती : वश्वेनादेशः स्यात् । इति हेतोरथ्युलातिपक्षोऽपि । उणादयो व्युत्पन्नाः, अव्युपक्षाच कुत्रचित शिल्पादिविषये । र ते अन्युत्पतिः । तत्र मुणादिनदसि । अव्युत्पत्ती रस इत्यत्र शेरि' इति लोये दिलो-' इति दीर्घः । यथासंभालंकार ! 'यथासंख्या मेणैव झामका समन्वये' इति सदसणात तदिते आर्थी लुतोपमा ।

   निर्दिश्यमानस्यादेशाः संभवन्ति सुनो अतः ।

   अतः प्रत्यादेशपात्रं रोषासैव न दृतिका ॥ ११ ॥

 लिदिश्यमानस्येति । हे सुनः सुनासिक, यत्रो निर्दिश्यमानस्यादेशाः संभयन्ति अतः प्रत्यादेश निराकरणस्य । प्रत्यादेशो निराकृतिः इत्यमरः । पात्र सैव दूतिका । प्रकृते-सुन इत्पन्न पहन्-' इति सूत्रे निर्दिश्यमान नासिकाशब्दय नसादेशः । न तु पदाधिकारे--' इति प्रातः सुनासिकाशहरस मलादेश या समासान्तविधेरनियत्वेन अम्नासिकायाः- इत्या भावेऽपिः सनियोगशिष्टन्यायस्यानित्यत्वे प्रकृतसूत्रेणा नसादेशः । नन्वेवमुदस्थादियादी उदः स्थास्तम्भो: इलि. पूर्वसवर्णापतिरत आहे---निदिश्यमानत्यादेशा भवन्ति । षष्टी स्थानेयोगा' इलि सूत्रमावर्तते । तत्र दि. तीयस्थायमर्थः । पञ्चन्त निर्दिश्यमानमुम्बार्यमाणसजातीयमेव निर्दिश्यमाना अपवरूपमेव वा स्थानेन स्थाननिरूपितसंबन्धेन युज्यते न. प्रतीयमन्नामत्यर्थः । तेनेदं सिद्धम् । अन्नत्वं दूषणं विधाविलासे नव्यम् ।

 नायकाया मानवीजमाह---

   आगमानित्यता शब्दे उगाद्यादौ मनोहरा ।

   मनोहरा न ते यस्मात्तन्नित्यत्वमतोऽर्थये ॥ १२ ॥

 आगतिः । उणावादी शुढे आगमाना उसुडादीनामनित्यता मनोहरा। ते आगमरमागतसानियता न. मनोहरा । अतस्तनित्यत्वमर्थये । था: उष्णा दयो बहुलम्' इत्यत्र उमुडागमोऽनित्यत्वा जैव तथा आगलो युक्तः मासमनित्यम्' इति परिमायास्वपडनोद्धारोऽपि विद्याविलास दृष्टव्यः ॥

 वेश्या बर्णयति-

   अर्थचहणे यस्मान्नानर्थकपरिग्रहः ।

   सुरूपधनिनोर्वेश्या गृहाति धनिने ततः ॥ १३ ॥

 अर्थवादिति । अर्थवतः सार्थस्थ, अहोऽनर्थकस्य अर्थत्यः अतः परिग्रहों नास्ति ततो देतोः सुरूमधामनोर्मध्ये वेश्या धनिनो ग्रहणं करोति । अर्थक्त्वादिति भावः नंदु प्रोडवानियत्र ‘प्रादूहोट-' इति वृद्धिः स्यादत आह-अथैवद्हणे नालार्थकस्य । विशिष्टरूयोपादाने उपस्थितार्थव विशेषणतयान्वनसंभवे त्यागे मानाभावोऽस्या मूलम् । 'अश्च-' इति सूने राजेः पृथग्भाजिअहणमत्त्या हि ज्ञापकम् ॥

 काचन दूती नायकस्य समीपे गला; नायकत्व गोत्रस्खलन जादम्, तदनुकरणमागत्य नाविकायाः समीपे कृतममुं प्रसङ्गं वर्णयति----

   गोत्रस्खलनाजुकृतौ दृष्टारुणचक्षुषा दूती।

   इत्याहाशयमस्या अनुकरणं प्रकृतिवद्भवति ॥ १४ ॥

 गोनेति । दूत्यने नायककृतस्य गोत्रस्खलनत्यानुकतावनुकरणे अक्षा : चक्षुषी यस्यान्तथा । कोपारुणचक्षुषेत्यर्थः । दूवी दृष्टा । अस्या आशयमाह--- अनुकरण प्रकृतिबद्धवतीति । यथा नायकोपरि कोपस्तथा मव्यापि शास्त्रप्रायः । ननु क्षियः इत्यादी इबा कयामत आह--'प्रकृतिवडनुकरणं भवति । क्षिय इलि इयनिर्देशोऽस्या. झापकः । तत्रैव प्रातिपाईकस्वनिबन्धनविभक्तिकरणादनित्या चेयम् । उपगीतिच्छन्दः ॥

 नायको तृतीमुखाड़ोत्रस्खलनश्रवणेन मानिनी प्रत्याह--

   नास्ति तदन्तग्रहणं संज्ञाविधौ प्रत्ययग्रहणे हि ।

   तस्माद्यापराध दण्ड्यो वध्यस्तु वाहम् ॥ १५ ॥

 नास्तीति । संज्ञा नाम तद्विधौ प्रत्ययग्रहणे शपथग्रहणे तदन्तग्रहणं तस्यापराधिनोऽन्तो नाशस्तस्य ग्रहण नास्ति । हि यस्मात् । संना स्थाचेतना नाम प्रस्तावार्थसूचना', 'प्रत्ययोऽवीनशपथज्ञाननियासबस्तु, मन्तो नाशी द्वयोमत्युः इति नियमरः । तस्मादभराधमनतिक्रम्य वापराधम दण्ल्य: वध्यस्तु दैव । अन्यभावादशपथारने यस्तु मम इति । मानो लधुमेंध्यमवः गुरुति त्रिधा भवेत् । भएरौदर्शनोत्थों गोबरखलनजस्तथा अपरलीसमामात्यः पानिनिधो मनेन्द्र ॥ इति राहारः। नन्वे 'तरसभा छ।इत्याडिमा तरचन्ताः संज्ञा स्लादत आह-ज्ञानिधौं प्रत्यअग्रहणे तदन्तमहणं नास्ति' । 'सुसिडन्त : इत्यन्तहमस्या मारकम् । गीतिच्छन्दः ॥

 पुनस्तामाह -----

   अनुदात्तत्वप्रथितं युवति निबोधात्मनेपदमनित्यम् ।

   उदयति सविता चन्द्रोन निर्गतं यौवनं हि तथा ॥ १६ ॥

 अनुदातेदिति । है युवति, अनुदाते मम हदि इत्वं मीत्वं यत्र ताहशस्वात्मथितं ख्यातमात्मने स्त्री पद स्थानमनिय निबोध जानीहि । लक्ष्म्यपेलेय सुरूपति पदप्रातिनित्येत्यर्थः । हि यसानिरीतः लपिता चन्द्र श्रोत्पति तर्गत यौवन तथा न। उदासमहतोः इति विश्वप्रकाश । अनुदालेखलक्षणमात्मनेपदमनिलम् । जक्षिको डिस्करणाझाषकात्' । तेन प्रकृते दद अतीत्यरात्मन्देपटं न । अन्नत्यपरिमायेन्दुशेखरदूषणोद्धारो विवादिलासे स्फुटः कान्यलिङ्गसलंकारः---कास्यसिहं हेतोक्यपदार्थता इति क्षणात् परिकरालंकारोऽपि-'अलंकारः परिकरः साभिप्राय विशेषणेः इति लक्षप्रणात । उपगीतिच्छन्दः ।

   सर्वद्वन्द्वैकवद्भावः याणिनीये विकल्पितः ।

   विहाय मामिति सखी कायाह प्रेमगर्विता ॥ १७ ॥

 सर्वेति । सर्वश्चासौ द्वन्द्वश्व । 'चार्थेः इन्द्रः इति विहितः समासः तस्मैकबनाः पाणिनीये विकस्पितः । सर्वो द्वन्छो विभाषकवद्भवति । इन्द्रसामान्येन स्वमिथुनप्राप्त परिहरतिमा निहाय । त्यक्त्वेत्यर्थः । स्त्रीधुसोमिथुन द्वन्द्वम्' इत्यमरः । कापि प्रेमगर्विता. सखी प्रत्याह । घटपट घटपटौं इत्यादि सिद्धये आहे. सर्वो राम्रो विभाषकवचति', इन्द्रश्च प्राणि- इत्यादि प्रकरणाविषयः स! इन्द्र इमर्थः । 'चार्थ इन्द्रः इति सूत्रेण समाहारेतरतस्थोमसोरविश देणड द्वन्द्वविधानानाथसिद्धयन । परिसंख्यालेकारोऽव -- परिसंख्या विवेकमेकरिमन्त्रस्तुयन्त्रणम् इति सलमान ॥

   तुल्ये वयसि रूप च माये मज्जति यन्मनः ।

   पत्युस्तत्कारणं ब्रूहि सरयूचे भेदका गुणा: ॥ १८ ॥

 तुल्य इति । वयसि रूपे च तुल्ये सति सम सपत्याश्च । प्रत्युमनो सन्मय निभजति तस्कारणं हि इति नायिकामनः । गुण्या दाक्षिण्यादयः मेहका व्यावसकाः । उत्कर्षजनका इत्यथैः । इति सख्या उत्तरं । हेवलंकारोऽन्त्र - तोहेतुमता साध वर्णनं हेतुरुच्यते' इति लक्षणात् ॥

 प्रेमगर्दिता भानभाजो दूषयति--

   कृतमापि कार्य केचिनिवर्तयन्तीह शास्त्रवलोम

   प्रायत एवं पूज्या ये न प्रागेव कुर्वन्ति ॥ १९ ॥

कृतमिति । केचित्कृतमपि प्रेम कार्य शामनिवर्तयन्ति । तेभ्यस्त एवं पूज्या के आगेव न कुर्वन्ति । “अऋतम्यूहाः पाणिनीयाः' इति दुयोर्मध्ये अकृ- खच्चूहा इति श्रेष्ठ प्रक्षालनाद्धि पकस्य दूरादस्पर्शनं बरम्' इति न्यायात ॥ दूत्युपसोगकामः कश्चन मिवारयन्ती दूती प्रत्याह---

   स संनिपातलक्षणो विधिविधूपमानने ।

   न मन्यतेऽधुना मया धुनोपि किं कराम्बुजम् ॥ २० ॥

 स इति । हे विधूपमनाननं यस्याः, स संनिपातलक्षणों विधिरधुना मया न मन्यते । त्वं कराम्बुज के धुनोपि । तस्याः नित्यत्वात् । उपजीन्यविरोबोईस्था मूलम् । सा काय ऋमणे' इति निर्देशादनित्या । उपमालंकारः । प्रमाणिकोवृत्त प्रमाणिका जरी लगौ इति लक्षणात् । कचिलगवरूपि- गोत्यस्याः संज्ञा ॥

   आकारयन्कामपि ना दृष्टः स्वप्रिययावदत् ।

   बत्संज्ञापूर्वकविधेनित्यत्वमवेहि तत् ॥ २१ ॥

 आकारयन्निति । कोऽपि कामपि परिमय संज्ञया हस्तच या संज्ञा खाचेतना नाय हस्ताय वाथसूचना इत्यमरः । प्राकारयस्वप्रियया घटः सनि स्ववदर । सत्संज्ञापूर्वकविधरनित्यत्वं तददेहि । ओर्गुण' इत्यत्र ओरोद इति वक्रव्ये गुणोक्तिः सनापूर्वविधादित्यत्वं ज्ञापयति । तेन स्वायंभुवमिति सिट्रस ॥

   स्थिरो न रागो दयिताजनस्य श्रुत्वेति बाचं दायितस्य नूनम् ।

   पर्जन्यबस्टक्षणसंप्रवृत्त्या वस्यामपामं गुरुदोषमूहे ॥ २२ ॥

 स्थिरैति । नायिकायाः सखी प्रत्युक्ति दयिताअनस्य रागः स्थिरो न इति दयितस्य प्रियस्य वाचं श्रुत्वा पर्जन्यवलक्षणतंप्रवृत्त्या स्वस्थामधीमं गुरुदोषमुहै। लिट उत्तमपुरुषैकवचनम् । 'पर्जन्यो मेवशयोः' इति लक्ष्मीनिवासः । लोकरिनन्दवं परिभाषा ॥

 ननु तथा सति को दोष इति चेदाशयः सख्यास्तन्निराकरणासाह----

   पूर्व अपवादोऽमिनिविशते पश्चाद्भवति किलोत्सर्गः ।

   इति मत्वा मम चेतः खिन्ते नित्य सखि क्षमशः ॥ २३ ॥

 पूर्वमिति । पूर्वमपवादोऽपवादशायमभिनिविशते । 'अमितिविशथ' इति कर्मसंज्ञा, 'लेविशाः' इत्यात्मनेपदम् । पश्चादुस्सर्गशालम् । पक्षेऽपवादो निन्दा । 'अवर्णयिनिर्वादपरीचादापवादबत् इत्यमरः । उत्सर्गस्वागः । हे सखि, इति मत्वा मम चेतः क्षणशो नित्यं खिन्ते विद्यते । ननु दधतीत्यादावन्तरत्वादन्तादेशेऽल्विधौ स्थानिवत्त्वाभावाददादेशो न स्यादिति तद्वैर्यापत्तिस्त आह- 'पूर्व पधादा अभिनिविशन्ते पश्चादुल्सर्गाः । लक्षणैऋचअल्को हि अपवादाविषयं पालोच्य सद्विषयल्यात्रिश्रये उत्सर्गेण तल्लक्षणं संस्करोति । अन्यथा विकल्पापत्तिरित्यर्थः । अभिग्निविशन्त इत्यस्य बुद्ध्यारूढा भवन्तीत्यर्थः । 'अपवादो यदन्यत्र' इति न्यायस्य तु मात्र प्राप्तिः । अन्तादेशाप्रातिविषये चारिताथ्याँभावात् । आर्याच्छन्दः ।

 सखी तो सान्त्वमति -----

   गणकार्यमनित्यं स्यादिति किं न श्रुतं त्वया ।

   अनार्जवमतश्चित्तांदपाकुरु कृपां कुरु ॥ २४ ॥

 गणेति । नगमकार्य स्वादिधातुगणकार्यम नित्यमिति त्वया न श्रुतम् । पझे गणक समुदायस्य कार्यम् । अतश्चिन्तादनावं कौटिल्यमपाकुहः कमां कुरु । तनादिन्यादेव सिद्धे कृझहणं गणकार्यस्यानित्यत्वे, लिङ्गम् । तेन न बिशलेदविश्वतम् इत्यादि सिद्धम् ॥

   वादाङ्गं बलीयः स्वादिति मत्वा विलासिनी ।

   नोवाच वचनं किंचिदालिङ्गनमदान्मुदा ॥ २५ ॥

 वार्णति । कार्णाद्वर्णमयात्संतोषापादनादाङ्ग बलवदिति मत्वा सा न किंचिदुवाच । किंतु मुदा आलिङ्गन अदात् । पावावर्णसंधन्धिकार्यादाङ्गमनाधिकारीयकार्य बलवत् । नन्वेवामियायेत्यादौ हिल्ने कृतेऽन्तरङ्गवासवर्णदीर्थत्वे तदसिद्धिरत आह--'वादाझं बलीयों, भवति । नेतान्तरङ्गमपि सवर्णदीप बाधित्वा वृद्धिरिति तसिद्धिः। अभ्यासस्थासवणे इतीयविधायकसूत्रस्थमसवर्णग्रहणमस्या शापकम् । तद्धीयरित्यादावियाच्यावृत्यर्थम् ॥

   यान्तं निशम्य कान्तं तद्गृहसविधेऽस्मि साशङ्का ।

   एना प्रतारयति सा ज्ञायकसिद्धं न सर्वत्र ॥ २६ ॥

आन्तमिति । तस्याः सपल्या गृहसविधे तत्सनी । सदेशाबाशचिअसमर्यादसदेशवत्' इत्यमरः । साशास्मि । एना भतारयति सा जूती- ज्ञापक्रसिद्ध सर्वत्र न भवति । स्पष्टोव पदितव्येऽनुमानाद्वोधनमसार्वशिकवायम् ॥

 काविन्यायिका सपत्यास पति ज्ञात्वा कांचित्कार्मणकारिणी प्रवाह-

   योगविभागादृष्टा सिद्धिः खेष्टस्य पाणिनीयेऽपि ।

   तस्मात्योस्तमाचर मत्सौख्यं तावतवार्ये ॥ २७ ॥}}

योगदि । योग सून तस्य विभागाद्विभजनारवेष्टस्याभिप्रेतलक्ष्यस्य सिद्धिः पाणिनीयऽपि दृष्टा । पले योगः संगतिः। योगः संनहनोपायध्यानसंगतियुधिषु' इत्यमरः । तस्याः विभागस्तस्माद्योगविभागादिष्टसिद्धहेस्तयोः पतिसपल्योस्त योगविनागमाचर । है आर्थे हे पूज्ये, तावरौव मत्सौख्यम् । कवियोगविभागादिष्टसिद्धि । आर्याच्छन्दः ॥

   वर्णाश्रये प्रत्यययणं न रागोदथे बन्धनमल घुसः ।

   अभेद्का अस्य गुणाः सुवाणि त्वया मना चापि किमत्र वाच्यम् ॥ २८ ॥  वर्णाश्रये इति । अस्य पुंसो वर्माश्रये वर्णो गौरादिः स आभयो यस्य ताशो सोयो समस्ल प्रतिपदयातिन्प्रत्ययलक्षणं प्रपथलक्षमा प्रत्ययोऽधीनाप-' इलामः ! अन्धनं न ! हे सुवाणि, अरूम सो गुमा अभेदकाः, न भेदकतार बारिमन्विक्ष्ये वापि किं वारयसू, सवापि कि वास्यम्। ननु गवे हित मोहितमित्यादी प्रत्ययलक्षणेनावाशाग्रापचिरत आह-बर्णाश्रये नास्ति प्रत्ययलक्षण वर्णनाधान्यविषयमेतत् । सत्वं च प्रत्ययलोये-' इति सूत्रे स्थानिवदित्यनुवृष्यत्र सिद्धे प्रत्ययलक्षणग्रहणं प्रत्ययस्यतरा- विशेषणत्वरूपं यत्र जाधान्य तत्रैव प्रवृत्यर्थमेतसिन्दम् । उपजातिवृत्तम् ॥

 काचिती नायिकान्तरादु, नायकं स्वनायिकासमीचे अतुं वदति-

   एकस्या आकृतेश्चरितः प्रयोगो न द्वितीयादेहिं ।

   तस्याँ रोषसमातिर्जातानुसर मत्सरवी धीर ॥ २९ ॥

 एकस्या इति । एकस्या आक्वेश्चरितः कृतः प्रयोगों में द्वितीयस्याः । पो—एकस्पा नास्वाधुदाहरणायकेश्वरित प्रयोको द्वितीयादेन । अतस्तरयां रोषसमालिजीवा । है धीर, वं मत्सरजीमनुसर । ननु गोधु चान्चेषु च स्वाभीत्यादिवदोश्वाना स स्वामीत्यपि स्यात् । 'स्वामीश्वरा-' इति सूत्रेण षष्ठी सहयोर्विधानादाह--एकस्या आकृतेश्चारतः प्रयोगो द्वितीयस्वास्तृतीयस्वाचन भविष्यति' । यनान्याकृतिकरणे मिनस्वसभावना तद्विषयोऽयं न्याय इत्यन्यन्त्र विस्तरः । आर्याछिन्दः ॥

   द्विजराजो यथा माति कण्टे नक्षत्रमालया ।

   द्विजराजस्तथा भातु कण्ठे नक्षत्रमालया ॥ ३० ॥

 द्विजराज इति । द्विजराजश्चन्द्रः कण्ठे समीपे नक्षत्रमालया नक्षत्रपरम्पस्या यथा माति शोमते, तथा द्विजराजो विजश्रेष्ठः पण्डितः कण्ठे नक्षन्नमालया नक्षत्रमालास्येन अन्यन भातु । कण्ठों गले गलध्याने समीपेच इति विश्वप्रकाशः ॥

   त्रिलोकचन्द्रात्मजकृष्णरामसुनोः कृतिः श्रीशिवरामनाम्नः ।

   नक्षत्रमालेयमनल्पशोभा तनोतु सूरेः प्रथितास्तु दिक्षु ॥ ३१ ॥  त्रिलोकचन्द्रति । निलोकचन्द्रस्यात्मजः पुनः । आत्मजस्तनयः सूनुः' इत्यमरः । यः कृष्णारामः कृपारामाभिधस्तस्य सूनोः श्रीशिवरामनानः कृतिरियं नक्षत्रमाला । 'व' नक्षत्रमाला स्वात्साविंशतिमौक्तिकैः' इत्यमरः । सूरः पगिद्धतस्य धीमान्सूरिः कृती कृष्टिंः' इत्यमरः । अनल्पशोभा तनोतु । दिक्षु अथिता प्रतिद्धा अस्तु ॥

परिश्रमो व्याकरणे काव्यांदावपि यः कृतः।
दिगियं दर्शिता तस्य शिवराण सन्मुदे ॥
लक्ष्मीकीती रसामध्ये शिवरामप्रसादतः ।
कुरुला वसति शुक्रतुल्यभूपालपालिने ॥

अन्यान्मया विरचिता परिशीलअन्तु शीलान्विताः सुमनसो मनसो मुदे ते। यहटिशोधितमनल्पाचा समेतं जाम्बूनदं तदिह] मौल्यविशेषलभ्यम् ॥ काव्यानि पञ्च तनुतेऽपि च पञ्चसंख्याधीकास्तु सप्तदश चैक उणादिकोषः भूपालभूषणमथो रसरतहारो विद्याविलास इनपूर्वशरफलाधाः ॥

व्याख्या लक्ष्मीविलासाख्या लक्ष्मीप्रीत्यैव निर्मिता ।
यावश्चक्षत्रमालाम्ति सावतिष्टतु भूतले ॥

इति श्रीत्रिलोकचन्द्रामकृष्यपराससूनुशिवरामनिपाठिकृता लक्ष्मीविलासाख्यीकासमेता नक्षत्रमाला समाता ।


  1. अयं शिवरामत्रिपाठी ख्रिस्तसंवत्सरीयाटादशशतकपूर्वाधसमुत्पन्नानागेशमहादप्यर्वाचीनः, यतोऽयमत्रैव दीकाया तत्कृतपरिभाषेन्दुशेखरस्मरण करोतिएतत्कृतमन्यास्तु स्वयमेवानेनात्रैव टीकासमाप्तौ. गणिताः सन्तिः तेष्वस्माभिः.
"https://sa.wikisource.org/w/index.php?title=नक्षत्रमाला_(सटीका)&oldid=309208" इत्यस्माद् प्रतिप्राप्तम्