नयसङ्गतिमालिका
[[लेखकः :|]]

।। नयसङ्गतिमालिका (शारीरकीयाः) ।।

।। लक्ष्मीपुरं श्रनिवासाचार्यैः विरचिता ।।

1 - 1

कारणं सर्वजगतां शरणं संश्रितात्मनाम ।

अनन्तं सत्यमानन्दं विज्ञानममलं श्रये ।।

अभिवन्द्य महोदारामस्मद्गुरुपम्पराम् ।

कुर्वे श्रीभाष्यसिद्धान्ते नयसङ्गतिमालिकाम् ।।

सङ्गतिः

अनन्तराभिधाने या जिज्ञासा स्यात्प्रयोजिता ।

तद्धेतुज्ञानविषयसम्बन्धः सङ्गतिर्मता ।। 1 ।।

सङ्गतयः

उपोद्घातश्चापवादः प्रत्युदाहृतिरेव च ।

दृष्टान्ताक्षेपातिदेशप्रसङ्ग इति सप्तधा ।। 2 ।।

उपोद्धातः

उपोद्धातः प्रस्तुतार्थस्योपपादकता ततः ।

चिन्तां प्रकृतसिद्ध्यर्थामुपोद्धातं विदुर्बुधाः ।। 3 ।।

अपवादः

पूर्वाधिकृतिसिद्धान्तन्यायं यज्ञाऽवलम्बते ।

उत्तराधिक्रियापूर्वपक्षः , तत्राऽपवादिकी ।। 4 ।।

प्रत्युदाहृतिः

पूर्वाधिकृतिसिद्धान्तन्यायस्याऽविषयीक्रियाम् ।

आलम्ब्य पूर्वपक्षेस्योत्थाने स्यात् प्रत्युदाहृतिः ।। 5 ।।

दृष्टान्तः -4.

पूर्वाधिकृतिसिद्धान्तन्यायसाधर्म्यसंश्रयात् ।

उत्तराधिक्रियोत्थाने भवेन दृष्टान्तसङ्गतिः ।। 6 ।।

आक्षेपः - 5.

पूर्वाधिकृतिसिद्धान्तन्यायस्याऽनुपपन्नताम् ।

शङ्कित्वा पूवपक्षस्योत्थाने त्वाक्षेपसङ्गतिः ।। 7 ।।

आतिदेशः - 6.

कृत्वा यत्राऽधिकां शङ्कां पूर्वमेवातिदिश्यते ।

सङ्गतिः कथिता सद्भिः काचित् तत्राऽतिदेशिकी ।। 8 ।।

प्रसङ्गः - 7.

स्मृतस्योक्तार्थसम्बन्धात् उपेक्षाया अनर्हता ।

प्रसङ्ग इति यत् प्राहुः यस्मात् सैव हि सङ्गति ।। 9 ।।

प्रसङ्गलक्षणम् -

तस्मादुपोद्घातमुखसङ्गतिभ्यः पृथक्कृता ।

या सङ्गतिः सा प्रसङ्ग इति निष्कृष्टलक्षणम् ।। 10 ।।

सूचनाविशेषः

प्रायोण हि प्रबन्धेऽस्मिन्नपवादादिशब्दतः ।

सङ्गतिः सूच्यत इति समुद्रगृह्णन्तु सूरयः ।। 11 ।।

काण्डत्रयप्रधानार्थाः

धर्मधीः मानभेदाङ्गप्रयुक्तिक्रमकर्तृभिः ।

सातिदेशविशेषोहबाधतन्त्रप्रसक्तिभिः ।। 12 ।।

स्वरूपमादौ तद्भेदः तदुपासनपूर्वकम् ।

फलं च देवताकाण्डे देवतानां तु कथ्यते ।। 13 ।।

समन्वयोऽविरोधश्च साधनं च प्रयोजनं ।

काण्डत्रये प्रधानार्था एते विंशतिलक्षणे ।। 14 ।।

शरीरकावान्तरविभागाः

तार्तीयीकं काण्डमिदं द्विकद्वितयगर्भितम् ।

सिद्धं साध्यमिति द्वेधा विषयो विषयीत्यपि ।। 15 ।।

शरीरके चिन्तनीयाः सङ्गतयः -8

सास्त्रकाण्डद्विकाध्यायपेटिकाधिक्रियांघ्रिभिः ।

सूत्रभेदाच्चाष्टविधा वक्तव्या सङ्गतिस्त्विह ।। 16 ।।

अन्तर्भावात्मिका शास्त्रादिषु षट्स्विह सङ्गतिः ।

आनन्तर्यात्मिका ज्ञेयाऽधिक्रियासूत्रयोः पूनः ।। 17 ।।

वेदार्थन्यायरूपत्वात् मीमांसशाशीस्त्रसङ्गतिः ।

वेदान्तार्थविचारत्वात् काण्डसङ्गतिरुच्यते ।। 18 ।।

सिद्धवस्तुविचारत्वात् प्रथमद्विकसङ्गतिः ।

समन्वयप्रधानत्वात् प्रथमाध्यायसङ्गतिः ।। 19 ।।

प्रथमपादीयपेटीकाविभागः

अत्राऽयोगव्यवच्छेदपादे स्यात् पेटिकात्रयम् ।

चतुर्भिश्च त्रिभिश्चैब चतुर्भिश्च नयैः क्रमात् ।। 20 ।।

आद्यपेटिकाप्रयोजनम्

तात्राऽद्यपेटिका शास्त्रस्याऽनारम्भप्रशान्तिकृत् ।

न्यायैश्चतुर्भिः प्रथमे पुनरेषाऽवधार्यताम् ।। 21 ।।

- उपोद्धातभागः -

देवताकाण्डचरमाधिक्रियायां हि सूत्रितम् ।

अन्ते हरौ दर्शनात्स विप्णुराहेत्यतः परम् ।। 23 ।।

तं ब्रह्मेत्यादिनिर्देशात् ब्रह्मशब्दार्थगोचरात् ।

अप्रसिदिं्ध निराचष्टे तस्मादाक्षेपसङ्गतिः ।। 25 ।।

।। इति जिज्ञासाधिकरणम् ।। 1 ।।

प्रमाण - लक्षणाभ्यां च वस्तुसिद्धिरिति स्थिते ।

स्यात्प्रमेयपरीक्षाऽथ प्रमाणाक्षेपमूलिका ।। 26 ।।

।। इति जन्माद्यधिकरणम् ।। 2 ।।

ईश्वरस्याऽनुमानेन सिद्धस्यऽप्राप्त्यसम्भवात् ।

प्रामाण्यस्य समाक्षेपः शास्त्रयोनिनये धुतः ।। 27 ।।

इति शास्त्रयोनित्वाधिकरणम् ।। 3 ।।

प्राणाण्य - फल - यत्नानां क्रमे व्यापकहानितः ।

समन्वयनयस्तुर्थः प्रामण्याक्षेपमच्छिनत् ।। 28 ।।

असम्भवो लक्षणस्य लक्ष्यासिद्धिनिबन्धनः ।

योऽयोगः तद्व्यवच्छेदः प्रथमे पाद उच्यते ।। 29 ।।

अतिव्याप्तिर्योऽन्ययोगः तद्व्यवच्छेदलक्षणः ।

अर्थस्त्रिपाद्यामिति च विवेकस्स्यात् समासतः ।। 30 ।।

।। इति समन्वयाधिकरणम् ।।

- चतुस्सूत्री समाप्ता -

वेदान्तसारसद्विद्या वक्ति प्रकृतिहेतुताम् ।

इत्याक्षेपप्रतिक्षेपः स्यादीक्षतीनयेऽधुना ।। 31 ।।

एवं बह्व्यः सङ्गतयः प्रोक्ता मुखविभेदतः ।

तत्र मुख्या सङ्गृहीता शिष्यविक्षेपशान्तये ।। 32 ।।

।। इति ईक्षत्यधिकरणम् ।। 5 ।।

अथऽऽनन्दाधिकरणे जीवो मुख्येक्षणादिमान् ।

जगतः कारणं स्यादित्यपवादोऽत्र वार्यते ।। 33 ।।

।। इति आनन्दमयाधिकरणम् ।।

स यश्चायमिति श्रुत्या पूर्वाधिकृतिशेषतः ।

अन्तर्णये पुण्यजीवकारणत्वमपोद्यते ।। 34 ।।

।। इति अन्तरधिकरणम् ।। 7 ।।

विशेषलिङ्गं प्रबलं सामान्यश्रुतितो मतम् ।

विपरीतमिहाकाशनयेऽतः प्रत्युदाहृतिः ।। 35 ।।

।। इति आकाशाधिकरणम् ।। 8 ।।

अत्र कृत्वाऽधिकाशङ्कां पूर्वन्यायातिदेशतः ।

अपाकरोत् प्राणनये सङ्गतिस्त्वातिदेशिकी ।। 36 ।।

।। इति प्राणाधिकरणम् ।। 9 ।।

स्ववाक्योक्तब्रह्मलिङ्गविशेषादर्शनादिह ।

ज्योतिर्विचार्यते तस्मात् प्रत्युदाहृतिसङ्गतिः ।। 7 ।।

।। इति ज्योतिरधिकरणम् ।। 10 ।।

पूर्वोक्तात् पूर्वपक्षः स्यादुपक्रमपराक्रमात् ।

इन्द्रप्राणाधिकरणे सङ्गतिस्त्वापवादिकी ।। 38 ।।

एवं समगमन्नाद्यपादे प्रथमलक्षणे ।

पेटिकात्रितयं चैकादशाधिकरणान्यपि ।। 39 ।।

।। इन्द्रप्राणाधिकरणम् ।। 11 ।।

अथ द्वितीयपादेऽस्मिन् त्रिकद्विकविभागातः ।

अल्पस्थान - महास्थानस्थितेशोपास्तिपेटिके ।। 40 ।।

महावाक्यगतं ब्रह्मलिङ्गं प्रबलमीरितम् ।

तादृक्षलिङ्गतः सर्वनये शङ्का व्यपोद्येते ।। 41 ।।

।। इति सर्वत्रप्रसिद्ध्यधिकरणम् ।। 1 ।।

भोक्तृत्वं नास्ति चेदन्तर्यामिणो जीव एव सः ।

अत्ता स्यादिति शङ्कातः सङ्गतिः प्रत्युदाहृतिः ।। 42 ।।

।। इति अत्त्रधिकरणम् ।। 2 ।।

अत्तुर्दुर्दर्शतायां स्यादक्षिदृश्यः सुदर्शनः ।

प्रत्युदाहृतिसङ्गत्याऽथान्तराधिक्रियोदयः ।। 43 ।।

।। इति अन्तराधिकरणम् ।।

अक्षिस्थपुरुषस्यैव ब्रह्मत्वस्योपपादिका ।

अथाऽन्तर्याम्यधिकृतिः तेनोपोद्धातसङ्गतिः ।। 44 ।।

।। इति अन्तर्याभ्यधिकरणम् ।। 4 ।।

अदृश्यत्वाधिकरणे द्रष्टृत्वादेरनुक्तितः ।

प्रकृतिर्वा पुमान्वेति शङ्कातः प्रत्युदाहृतिः ।। 45 ।।

।। इति अदृश्यत्वादिगुणकाधिकरणम् ।। 5 ।।

प्राग्विश्वरूपोपन्यासः द्युमूर्धत्वादिना कृतः ।

तत्क्लृप्त्या चिन्त्यते वैश्वानरविद्याऽपवादतः ।। 46 ।।

इत्थं ह्यधिक्रियाषट्कं पेटिकाद्वयलक्षणम ।

अध्याये प्रथमे द्वैतीयीकपादे सुसङ्गतम् ।। 47 ।।

।। इति वैश्वानराधिकरणम् ।। 6 ।।

।। इति प्रथमेऽध्याये द्वितीयः पादः ।।

अथ द्वाभ्यां चतुर्भिश्च त्रिभिरेकेन च क्रमात् ।

न्यायैस्तृतीयचरणे पेटिकानां चतुष्टयम् ।। 48 ।।

द्युपृथिव्यादिसम्बन्धः प्राक् पादान्ते निरूपितः ।

जीवेऽस्तीत्यपवादेन द्युभ्वादिनयनिर्णयः ।। 49 ।।

।। इति द्युभ्वाद्यधिकरणम् ।। 1 ।।

उक्तात् प्रकरणस्यैक्यादेव सिद्धान्तयुक्तियः ।

अपवादो भूमनये जीवेनाऽत्र निराकृतः ।। 50 ।।

।। इति भूमाधिकरणम् ।। 2 ।।

प्रकृतौ पुरुषे वैषा स्वे महिम्नि प्रतिष्ठितिः ।

प्रोक्ताऽस्तीत्यपवादेन स्यादक्षरनयोदयः ।। 51 ।।

।। इति अक्षराधिकरणम् ।। 3 ।।

उक्तादृष्टद्रष्टृताऽत्र न संश्लिष्यत इत्यतः ।

भवेदीक्षतिकर्माधिकरणे प्रत्युदाहृतिः ।। 52 ।।

।। इति ईक्षतिकर्माधिकरणम् ।। 4 ।।

निर्णीतः प्राक्र पुरिशयः पुरुषश्रुतिवैभवात् ।

प्रत्युदाहृतिसङ्गत्या दहराधिक्रियोत्थितिः ।। 53 ।।

।। इति दहराधिकरणम् ।। 5 ।।

ब्रह्मणोऽस्त्वल्पमानत्वं प्रमिताधिकृतौ पुनः ।

तद्विशेषश्रुतैर्जीवः स्यादिति प्रत्युदीर्यते ।। 54 ।।

।। इति प्रमिताधिकरणम् ।। 6 ।।

उपासनं मनुष्याधिकारं चेत् प्रमितोक्तितः ।

देवाधिकारापवादो देवतानयवारितः ।। 55 ।।

।। इति देवताधिकरणम् ।। 7 ।।

यद्यप्युपास्तिसामान्ये स्यात् सामर्थ्यादिसम्भवः ।

प्रत्युदाहरणत्वेन मध्वादिनयसम्भवः ।। 56 ।।

।। इति मध्वधिकरणम् ।। 8 ।।

शूद्रो विद्याधिकारी स्यात् सामर्थ्यार्थित्वयोगतः ।

इत्याशङ्कापवादर्थमपशूद्रनयोदयः ।। 57 ।।

।। इति अपशूद्राधिकरणम् ।। 9 ।।

प्रसक्तानुप्रसक्त्येत्थमधिकारचतुष्टयम् ।

दह्ननीत्युत्थापवादमर्थान्तरनयोऽच्छिनत् ।। 58 ।।

इति अर्थान्तरत्वादिव्यपदेशाधिकरणम् ।। 10 ।।

एमचतुष्पेटिकोऽयं दशाधिकरणात्मकः ।

अध्याये प्रथमे पादस्तार्तीयीकः सुसङ्गतः ।। 59 ।।

।। इति प्रथमेध्याये तृतीयः पादः ।।

अ#ाद्याध्याये तुर्यपादे नीत्यष्टकमसूत्रयत् ।

तत्र पडूभिर्नयैः साड्ख्यान् द्वाभ्यां यौगानशीशमत् ।। 60 ।।

मुक्तवैलक्षण्यमुक्तं प्राक् पादान्ते न युज्यते ।

परस्यैव प्रतिक्षेपादाक्षेपो ह्यानुमानिके ।। 61 ।।

इति आनुमानिकाधिकरणम् ।। 1 ।।

पारिशेष्यस्थानमाने नाऽजावाक्ये स्त इत्यतः ।

प्रत्युदाहरणत्वेन चमसाख्यनयोदयः ।। 62 ।।

।। इति चमसाधिकरणम् ।। 2 ।।

वाक्यान्तरस्य चाऽभावात् तत्त्वसङ्रख्याविरोधतः ।

सङ्ख्योपसङ्ग्रहनये शङ्कातः प्रत्युदाहृतिः ।। 63 ।।

।। इति सङ्ख्योपसङ्ग्रहाधिकरणण् ।। 3 ।।

यस्मिन्निति पुरा प्रोक्तमाश्रयत्वं न विद्यते ।

इत्यशङ्का कारणत्वनयेऽतः प्रत्युदाहृतिः ।। 64 ।।

।। इति कारणत्वाधिकरणम् ।। 5 ।।

सिद्घान्तः प्राक् प्रकरणादीक्षितृत्वादियोगतः ।

जीवलिङ्गाज्जगद्वाचिनयः स्यादपवादतः ।। 65 ।।

।। इति जगद्वाचित्वाधिकरणम् ।। 8 ।।

अन्यथा चोपपत्त्याख्यन्यायस्यात्र त्वसम्भवात् ।

शङ्कातो वाक्यनीतौ स्यात् प्रत्युदाहृतिसङ्गतिः ।। 66 ।।

।। इति वाक्यान्वयाधिकरणम् ।। 6 ।।

उक्तं ह्युभयहेतुत्वं सर्वविज्ञानतः पुरा ।

प्रकृत्यधिकृतौ तस्य सम्यगाक्षिप्य निर्णयः ।। 67 ।।

।। इति प्रकृत्यधिकरणम् ।। 7 ।।

सर्वत्रोक्तप्रकारेण निर्वाहः स्वयमूह्यताम् ।

इति चात्राऽतिदिश्यन्ते प्रागुक्ताः सर्वनीतयः ।। 68 ।।

इत्थमष्टाधिकरणी पेटिकाद्वयसङ्गता ।

आद्याध्याये तुर्यपादे सन्दर्भं समुपागमत् ।। 69 ।।

इति सर्वव्याख्यानाधिकरणम् ।। 8 ।।

अथाऽविरोधाध्याये(द्वौ) पादौ कारणमूलकम् ।

अनन्तरौ कार्यमूलं विरोधं च निरास्थताम् ।। 70 ।।

आद्ये स्यात् पेटिकायुग्मं द्वाभ्यामप्यष्टभिर्नयैः ।

स्मृत्या तर्कैश्च सञ्जातौ विरोधो भज्यते क्रमात् ।। 71 ।।

सर्वव्याख्यानाधिकृतावीप्सिते चोपबृंहणे ।

साङ्ख्यस्मृत्याऽपवादेन स्मृनिन्यायः प्रवर्तते ।। 72 ।।

इति स्मृत्यधिकरणम् ।। 1 ।।

योगस्मृत्यपवादे तु पूर्वन्यायातिदेशतः ।

योगप्रत्युक्तयधिकृतिः सङ्गतिस्त्वातिदेशिकी ।। 73 ।।

इति योगप्रत्युक्तयधिकरणम् ।। 2 ।।

विलक्षणत्वाधिकृतौ साङ्ख्यस्तर्कावलम्बनः ।

पुनः प्रत्यवतिष्ठेन तस्मादाक्षेपसङ्गतिः ।। 74 ।।

शिष्टापरिग्रहनये योगाद्यास्तर्कसाधनाः ।

अतिदेशान्निरस्यन्ते सङ्गतिस्त्वातिदेशिकी ।। 75 ।।

इति शिष्टापरिग्रहाधिकरणम् ।। 4 ।।

प्रकू शरीरात्मभावेन कृताः सर्वोपपत्तयः ।

वैलक्षण्यापवादोऽतो भोक्त्रापत्तिनयोदयः ।। 76 ।।

इति भोक्त्रापत्त्यधिकरणम् ।। 5 ।।

वैलक्षण्ये कार्यहेत्वोरसत्कार्याभ्युपागमात् ।

आरम्भणाधिकरणमपवादनिरासकृत् ।। 77 ।।

इति आरम्भणाधिकरणम् ।। 6 ।।

सर्वतोऽनन्यता स्याच्चेत् ईश्वरः स्यादनीश्वरः ।

अपाकृतोऽपवादोऽयं तदनन्तरनीतितः ।। 78 ।।

इति इतरव्यपदेशाधिकरणम् ।। 7 ।।

वैलक्षण्यं सत्यकामत्वादिभिः प्रतिपादितम् ।

तन्नोपपद्यत इति ह्याक्षेपोऽत्र निवार्यते ।। 79 ।।

इति उपसंहारदर्शनाधिकरणम् ।। 8 ।।

क्षीरोदकादिकं सांशं निरंशं ब्रह्म संमतम् ।

कृत्स्नप्रसक्त्यधिकृतौ सङ्गतिः प्रत्युदाहृतिः ।। 80 ।।

इति कृत्स्नप्रसक्त्यधिकरणम् ।। 9 ।।

प्रयोजनं विना नेशो विचित्रं स्रष्टुमर्हति ।

इति प्रयोजननये प्रोक्तमाक्षेपदूषणम् ।। 81 ।।

इति प्रयोजनवत्त्वाधिकरणम् ।

एवं द्वितीयाद्यापादे मिथः समगमन् क्रमात् ।

पेठिकाद्वयगूढानि दशाधिकरणान्यपि ।। 82 ।।

इति द्वितीयाध्याये प्रथमः पादः ।।

एवं बाधः परिहृतः प्रतिपक्षो निरस्यते ।

पार्श्वस्थसंशयोच्छित्यै द्वितीये चरणे पुनः ।। 83 ।।

विफला चित्प्रवृत्तिश्चेत् तादृश्येवाचितो वरम् ।

इति शङ्कापोद्यतेऽत्र रचनासम्भवात् पुनः ।। 84 ।।

इति रचनानुपपत्त्यधिकरणम

ईश्वराधिष्ठितैरेव जगत् स्यात् परमणुभिः ।

महद्दीर्घाकरणे शङ्कैषा प्रत्युदीर्यते ।। 85 ।।

इति महद्दीर्घाधिकरणम् ।। 85 ।।

सङ्घातवादे प्रारम्भवाददोषो न विद्यते ।

समुदायनये चापि शङ्कैषा प्रत्युदीर्यते ।। 86 ।।

इति समुदायाधिकरणम् ।। 3 ।।

वस्त्वस्ति यदि बाह्यं तत् प्रोक्तदोषः प्रसज्यताम् ।

इत्यतोऽथाऽभावनयः प्रत्युदाहृतिसङ्गतेः ।। 87 ।।

इति उपलब्ध्यधिकरणम् ।। 4 ।।

न हि सर्वाभाववादे कोऽपि दोषः प्रसज्यते ।

इति माध्यमिको वादः प्रत्युदाहृतिसङ्गतेः ।। 88 ।।

इति सर्वथानुपपत्त्याधिकरणम् ।। 5 ।।

अथ सार्वात्म्यवादेन सर्वदोषनिराकृतिम् ।

अभ्युपेत्यार्हतनयस्योदयात् प्रत्युदाहृतिः।। 89 ।।

इति एकस्मिन्नसम्भवाधिकरणम् ।। 6 ।।

सर्वं पांशुपनं तन्त्रं सम्भवास्पदमिष्यताम् ।

इति शङ्कासम्भवेन चात्राऽपि प्रत्युदाहृतिः ।। 90 ।।

इति पशुपत्यधिकरणम् ।। 7 ।।

पाञ्चरात्रे तन्त्रसाम्यात् प्रामाण्यं चेदपोद्यते ।

उत्पत्त्यसम्भवनयः प्रामाण्यं प्रत्यतिष्ठिपत् ।। 91 ।।

इति उत्पत्त्यसम्भवाधिकरणम् ।। 8 ।।

इत्थमष्टाधिकरणी पेटिकाद्वयगर्भिता ।

शारीरके तर्कपादे सन्दर्भं समुपागमत् ।। 92 ।।

इति पादोपसंहारः ।।

इति द्वितीयाध्याये द्वितीयः पादः ।। 2 ।।

एवं निरस्तोपरोधा ब्रह्मकाराणता स्थिता ।

निराबाधा कार्यतापि वर्तते पादर्योर्द्वयोः ।। 93 ।।

अत्र पादद्वयमपि पेटिकाद्वयलक्षणम् ।

आद्या सप्ताधिकरणी द्वितीयाष्टनयात्मिका ।। 94 ।।

औपचारिकमित्युक्तं प्राग्जीवोत्पत्तिभाषितम् ।

तथेति वियदुत्पत्तिवादः स्यादित्यपोद्यते ।। 95 ।।

इति वियदधिकरणम् ।। 1 ।।

साक्षात्तु ब्रह्मकार्यत्वं न स्यात्तेजोजलादिषु ।

इति तेजोऽधिकरणे शङ्का पुनरपोद्यते ।। 96 ।।

इति तेजोधिकरणम् ।। 2 ।।

प्रागुक्तयुक्त्या जीवोऽपि कार्यः स्यादिति संशयात् ।

आत्माधिकरणं प्राप्तमपवादाख्यसङ्गतेः ।। 97 ।।

इति आत्माधिकरणम् ।। 3 ।।

ज्ञानरूपस्य जीवस्याऽनुत्पत्त्यैव व्यपोदिते ।

स्वभावेऽप्यन्यथाभावे स्याद् ज्ञाधिकरणोदयः ।। 98 ।।

इति ज्ञाधिकरणम् ।। 4 ।।

ज्ञानैकगुणसारस्य निर्विकारस्य चात्मनः ।

अपोदिते च कर्तृत्वे भवेत् कर्त्तृनयोदयः ।। 99 ।।

इति कर्त्रधिकरणम् ।। 5 ।।

स्वातन्त्र्यविनिवृत्त्यैव कर्तृत्वं विनिवर्तते ।

इत्याक्षेप समाधातुं परायत्तनयोदयः ।। 100 ।।

इति परायत्ताधिकरणम् ।। 6 ।।

परायत्तो च कर्तृत्वे परांशत्वं विरुध्यते ।

इति प्राप्तेऽपवादोऽथ स्यदंशाधिकृतिः पुनः ।। 101 ।।

इति अंशाधिकरणम् ।। 7 ।।

आत्माधिकरणस्यैवातिदेशो भवेदिह ।

प्राणाधिकरणे तस्मादातिदेशिकसङ्गतिः ।। 103 ।।

इति प्राणोत्पत्त्यधिकरणम् ।। 1 ।।

तथेन्द्रियाणां कार्यत्वमुक्तं तस्य प्रसङ्गतः

सङ्ख्याचिन्ताऽधुना तेषां स्यात् सप्तगतिनीतितः ।। 104 ।।

इति सप्तगत्यधिकरणम् ।। 2।।

प्रसङ्गेनैनेन्द्रियाणां प्राणानामेव चिन्त्यते ।

प्राणाणुत्वाधिकरणेऽणुत्वं वृत्तिविकासिनाम् ।। 105 ।।

इति प्राणाणुत्वाधिकरणम् ।। 4 ।।

मुख्यप्राणस्वरूपेऽपि विवादानां बहुत्वतः ।

वायु - क्रियाधिकरणे प्रसङ्कात् तत्त्वनिर्णयः ।। 106 ।।

इति वायुक्रियाधिकरणम् ।। 4 ।।

श्रेष्ठप्राणस्य कार्यत्वं स्वरूपं चोपवर्णितम् ।

श्रेष्ठाणुत्वाधिकरणेऽणुत्वं चाऽपि प्रसङ्गतः ।। 107 ।।

इति शेष्ठाणुत्वाधिकरणम् ।। 5 ।।

प्राणानां जन्यतेयत्ता परिमाणप्रसङ्गतः।

अग्न्यादिदेवतानां चाऽधिष्ठानं तत्र चिन्त्यते ।। 108 ।।

इति ज्योतिराद्यधिष्ठानाधिकरणम् ।। 6 ।।

प्राणोन्द्रियाविभागेन विचारो विफलस्त्विति ।

आक्षेपपरिहारार्थं स्यादिन्द्रियनयोदयः ।। 109 ।।

इति इन्द्रियाधिकरणम् ।। 7 ।।

समष्टिसष्टौ हेतुत्वं स्यादेव परमात्मनः ।

संज्ञामूर्त्रित्रये व्यष्टौ जीवस्य तदपोद्यते ।। 110 ।।

इति संज्ञामूर्तिक्लृप्त्याधिकरणम् ।। 8 ।।

वैराग्यसुभयं लिङ्गं विद्या घिद्याङ्गमेव च ।

तार्तियीकाध्यायपादप्रधानार्था इमे मताः ।। 111 ।।

कृतो मूर्तिप्रसङ्गः प्रागिह मूर्त्यन्तरग्रहे ।

तदन्तरनये भूतसूक्ष्मयोगो निरूप्यते ।। 112 ।।

इति तदन्तरप्रतिपत्त्यधिकरणम् ।। 1 ।।

अथैकभविकन्यायात् कर्मशेषविलोपने ।

भुक्तशिष्टस्य सम्बन्धः कृतात्ययनयोदितः ।। 113 ।।

इति कृतात्ययाधिकरणम् ।। 2 ।।

प्राक्च्छØतेष्टापूर्तदत्तकारिणां चन्द्रमोगतिः ।

आशङ्क्य सैषाऽनिष्टादिकारिणां प्रतिषिध्यते ।। 114 ।।

इति अनिष्टादिकार्यधिकरणम् ।। 3 ।।

इष्टादिकारिणामत्र मृगाङ्कादवरोहताम् ।

तत्स्वाभाव्यापत्तिनीत्याऽबादिभावपरिष्क्रिया ।। 115 ।।

इति तत्स्वाभाव्यापत्त्यधिकरणम् ।। 4 ।।

अब्भ्रादिभावावस्थायां चिराचिरविचारणा ।

कृता नातिचिरन्याये जीवदुःखप्रसिद्धये ।। 116 ।।

इति नातिचिराधिकरणम् ।। 5 ।।

व्रीह्यादिभावो जीवानामवरूढवतामिह ।

आश्लोषाऽन्याधिष्ठितेन तेन व्रीह्यादिनोच्यते ।। 117 ।।

इति अन्याधिष्ठिताधिकरणम् ।। 6 ।।

इत्थं तृतीयाध्यायाद्यपादे षण्णीतयः क्रमात् ।

प्रसङ्गसङ्गत्यैवेकपेटिकान्तर्गता मिथः ।। 118 ।।

इति तृतीयाध्यायस्य प्रथमः पादः ।। 1 ।।

जाग्रद्दोषविनिर्मुक्तः जीवः स्वप्नदशास्थितः ।

निर्दोष इति शङ्कैषा सान्ध्यनीत्या प्रतीर्यते ।। 119 ।।

इति सन्ध्याधिकरणम् ।। 1 ।।

स्वाप्नो जीवोऽथ दुष्टोऽस्तु सौषुप्तो दोषवर्जितः ।

तदभावनये चैषा शङ्कैव प्रत्युदीर्यते ।। 120 ।।

इति तदभावाधिकरणम् ।।

कर्मानुस्मृत्यधिकृतौ सुषुप्तान्यसमुत्थितौ ।

निर्दोषो जीव एव स्याच्छङ्कैषा प्रत्युदीर्यते ।। 121 ।।

इति कर्मानुस्मृतिशब्दविध्यधिकरणम् ।। 3 ।।

उक्तावस्थात्रयस्थस्य दोषभूयस्त्वसिद्धये ।

मुग्धन्यायः सम्प्रवृत्तः तेनोपोद्धातसङ्गतिः ।। 122 ।।

इति मुग्धाधिकरणम् ।। 4 ।।

अथाऽत्रोभयलिङ्गाधिकरणे परमात्मनः ।

चेतनत्वेन सामान्यात् प्राप्तो दोषो व्यपोद्यते ।। 123 ।।

इति उभयलिङ्गाधिकरणम् ।। 5 ।।

तथाऽहिकुण्डलनये प्रोक्तशुद्धिविशुद्धये ।

अचितो ब्रह्मरूपत्वं तेनोपोद्धातसङ्गतिः ।। 124 ।।

इति अहिकुण्डलाधिकरणम् ।। 6 ।।

उपादानात् प्रपञ्चस्य निमित्तं परमिष्यते ।

विशुद्धं तत्त्वमित्येवं चोद्यं परनयोऽच्छिनत् ।। 125 ।।

इति पराधिकरणम् ।। 7 ।।

फलप्रदं यदा कर्म कारणोपासना तदा ।

व्यर्थेत्याक्षेपशान्त्यर्थं दाता फलनयोदितः ।। 126 ।।

इत्थमष्टाधिकरणी पेटिकाद्वयभूषिता ।

तृतीयस्य द्वितीयेऽस्मिन् पादेऽन्योन्यं सुसङ्गता ।। 127 ।।

इति फलाधिकरणम् ।। 8 ।।

उपासनाप्रसन्नेशफलदत्वप्रसङ्गतः ।

अनुष्ठानोपयोगाय तद्भेदाभेदचिन्तना ।। 128 ।।

शाखन्तराधिकरणप्रोक्तयुक्तिसमुच्चयात् ।

तद्वैश्वानरविद्यादौ सर्ववेदान्तनीतितः ।। 129 ।।

इति सर्ववेदान्तप्रत्याधिकरणम् ।। 1 ।।

अथाऽन्यथात्वाधिकृतौ प्राग्वैश्वानरनीतिवत् ।

उद्गीथोपासनानामप्येकताऽपोद्यतेऽधुना ।। 130 ।।

इति अन्यथात्वाधिकिरणम् ।। 2 ।।

सर्वाभेदाधिकरणे रूपभेदविधानतः ।

प्राणविद्याभेदशङ्काऽपोद्यतेऽन्तर्गतत्वतः ।। 131 ।।

इति सर्वाभेदाधिकरणम् ।।

सत्यादिविद्या भिन्ना स्यात् प्रक्रियारूपभेदतः ।

इति शङ्काऽऽनन्दनये स्वरूपात् प्रत्युदीर्यते ।। 132 ।।

इति आनन्दाद्यधिकरणम् ।। 4 ।।

कार्याख्यानाधिकरणे प्राणवासस्त्वचिन्तना ।

नियतेत्याह पूर्वाधिकरणन्यायसाम्यतः ।। 133 ।।

इति कार्याख्यानाधिकरणम् ।। 5 ।।

समानाधिकृतौ चाऽपि रूपभेदाभिमानतः ।

विद्याभेदोऽपोद्यतेऽन्तर्गतं हि ! वशितादिकम् ।।

इति समानाधिकरणम् ।। 6 ।।

अथ सम्बन्धाधिकृतौ रूपभेदाभिमानतः ।

अक्ष्यर्कविद्यैक्यशङ्काऽपोद्यते स्थानभेदतः ।। 135 ।।

इति सम्बन्धाधिकरणम् ।। 7 ।।

सम्भृत्यधिकृतौ स्थानभेदाभावनिबन्धना ।

व्याप्तिः सर्वगता स्यादित्याशङ्का प्रत्युदीर्यते ।। 136 ।।

इति सम्भृत्यधिकरणम् ।। 8 ।।

ब्रूते पुरुषविद्याधिकृतिः सन्निधिमात्रतः ।

पुंविद्यां परविद्याङ्गं साधर्म्यादिह याजुषीम् ।। 137 ।।

इति पुरुषविद्याधिकरणम् ।। 9 ।।

अथ वेधाद्याधिकृतौ पुंविद्योक्तप्रयत्नतः ।

शुक्रमित्यादिमन्त्रणां शङ्किताऽपोद्यतेऽङ्गता ।। 138 ।।

इति वेधाद्यधिकरणम् ।। 10 ।।

प्रोच्यते हान्यदिकृतौ प्राग्यथा कर्मशेषता ।

तथैव वस्तुसामर्थ्यलिङ्गादन्योन्यशेषाता ।। 139 ।।

इति हान्यधिकरणम् ।।

साम्परायाधिकरणे हानोपायनचिन्तना ।

स्थाप्यते कालनिप्कर्षात्तेनोपोद्धातसङ्गतिः ।। 140 ।।

इति साम्परायाधिकरणम् ।। 12 ।।

तथैवाऽनियमन्याये सर्वेषामर्चिरादिका ।

गतिश्चेत् पूर्वसिद्धान्ता भवेयुरुपपादिताः ।। 141 ।।

इति अनियमाधिकरणम् ।। 13 ।।

अथाऽक्षरध्यधिकृतावर्चिरादिगतेरिव ।

स्यात् सम्बन्धोऽक्षरधियामिति दृष्टन्तसङ्गतिः ।। 142 ।।

इति अक्षरध्यधिकरणम् ।। 14 ।।

ब्रह्मणो हेयराहित्यात् प्राणनादेरसम्भवात् ।

अन्तरत्वाधिकरणे जीवशङ्का व्यपोद्यते ।। 143 ।।

इति अन्तरत्वाधिकरणम् ।। 15 ।।

कामाद्यधिकृतौ पूर्वन्यायेन वशितादिकम् ।

नियतं स्यादितीयं तु शङ्काऽपि प्रत्युदीर्यते ।। 144 ।।

इति कामाद्यधिकरणम् ।। 16 ।।

स्यात् तन्निर्धारणन्याये प्राङ्न्यायाधीनशङ्कया ।

उद्गीथोपासनानां च नियमोऽपि व्यपोद्यते ।। 145 ।।

इति तन्नर्धारणानियमाधिकरणम् ।। 17 ।।

अपवादसमायातं पूर्वाधिकरणं यतः ।

स्यात् प्रदानाधिकरणं कामाधिकृतिशेषतः ।। 146 ।।

इति प्रदानाधिकरणम् ।। 18 ।।

प्राक् सर्वदह्नविद्यैक्ये प्रक्रियाबलसंमते ।

लिङ्गभूयस्त्वाधिकृतौ वाक्याच्छङ्का व्यपोद्यते ।। 147 ।।

इति लिङ्गभूयस्त्वाधिकरणम् ।। 19 ।।

अपवादकवाक्यस्याऽभावात् प्रकरणात् पुनः ।

शङ्का पूर्वविकल्पाख्यनयेन प्रत्युदीर्यते ।। 148 ।।

इति पूर्वविकल्पाधिकरणम् ।। 20 ।।

अथाऽऽसत्तेरतिशयात् तत्कालाकारचिन्तनम् ।

उपासकेऽपोद्यतेऽथ शरीरे भावनीतितः ।। 149 ।।

इति शरीरे भावाधिकरणम् ।। 21 ।।

पूर्वाधिकृतिसिद्धान्तादासत्त्यतिशयेऽपि च ।

अङ्गावबद्धनीत्या स्यात् सर्वोद्गीथसमन्वयः ।। 150 ।।

इति अङ्गावबद्धाधिकरणम् ।। 22 ।।

उद्गीथोपासनन्यायाद् वैश्वानरमतावपि ।

समस्त-व्यस्तताशङ्का भूम्नो न्यायादपोद्यते ।। 151 ।।

इति भूमज्यायस्त्वाधिकरणम् ।। 23 ।।

नानाशब्दाधिकरणे वैश्वानरनयक्रमात् ।

सदक्षिहार्दादिधियामैक्यशङ्का व्यपोद्यते ।। 152 ।।

इति शब्दादिभेदाधिकरणम् ।।

विद्याभेदव्यवस्थायामेकस्यैवाऽधिकारिणः ।

समुच्चयस्याऽपवादः विकल्पनियमो यथा ।। 153 ।।

इति विकल्पाधिकरणम् ।। 25 ।।

उद्गीथोपास्तिनियमो विकल्पनियमो यथा ।

इति शङ्काऽपोद्यतेऽत्र यथाश्रयनये पुनः ।। 154 ।।

एवं तृतीयाध्यायेऽस्मिन् ततीयचरणेऽपि च ।

षड्विंशत्यधिकाराणां सङ्गतिः समुदाहृता ।। 155 ।।

इति यथाश्रयभावाधिकरणम् ।। 26 ।।

चतुर्भिः सप्तभिर्द्वाभ्यां द्वाभ्यां न्यायैश्चतुर्विधैः ।

अङ्गपादे पञ्चदशाधिक्रियाणां समन्वयः ।। 156 ।।

नोद्गीथोपास्तिवद् ब्रह्मप्राप्तेः क्रत्वर्थतेष्यते ।

पुरुषार्थाधिकरणे सङ्गतिः प्रत्युदाहृतिः ।। 157 ।।

इति पुरुषार्थाधिकरणम् ।।

ब्रह्मसंस्थार्थवादत्वाभावेऽप्याश्रमवाक्ययोः ।

शङ्कोद्गीथार्थवादत्वे स्तुतिनीत्या प्रतीर्यते ।। 158 ।।

इति स्तुतिमात्राधिकरणम् ।। 2 ।।

उद्गीथोपस्तिविधिवत् पारिप्लवविधिर्भवेत् ।

इति शङ्काऽपोद्यतेऽत्र विद्यार्थत्वव्यवस्थया ।। 159 ।।

इति पारिप्लवार्थाधिकरणम् ।। 3 ।।

स्तुतिप्रसक्तौ न्यायौ द्वौ पारिव्राज्ये स्थिते सति ।

कर्मणोऽनङ्गताशङ्काऽपोद्याऽग्नीन्धननीतितः ।। 160 ।।

इति अग्नीनधनाद्यधिकरणम् ।। 4 ।।

यज्ञानपेक्षा विद्यैषा स्यादग्नीन्धननीतिवत् ।

इति सङ्काऽपोद्यतेऽथ सर्वापेक्षानये पुनः ।। 161 ।।

इति सर्वापेक्षाधिकरणम् ।। 5 ।।

गृहस्थस्याऽपि विद्या चेच्छान्तिदान्त्याद्योगतः ।

शमाद्यनङ्गताशङ्का शमनीत्या व्यपोद्यते ।। 162 ।।

इति शमदमाद्यधिकरणम् ।। 6 ।।

नापेक्षेत प्राणविद्या शममाहारगोचरम् ।

इति सर्वान्नानुमतिन्यायाच्छङ्का व्यपोदिता ।। 163 ।।

इति सर्वान्नानुमत्यधिकरणम् ।। 7 ।।

एवं कर्माऽखिलं ज्ञाने विदुषां चेत् समाप्यते ।

अन्येषां स्वैरिताक्षेपापवादो विहितत्वतः ।। 164 ।।

इति विहितत्वाधिकरणम् ।। 8 ।।

चेद्विद्याऽऽश्रमधर्माङ्गा नाऽधिकुर्यादनाश्रमी ।

इत्याक्षेपोऽपोद्यतेऽथाऽन्तरा चापि न ये पुनः ।। 165 ।।

इति विधुराधिकरणम् ।। 9 ।।

आरूढपतितानामप्यधिकारो भवेदिति ।

तद्भूताख्यनये शङ्का वचनेन व्यपोद्यते ।। 166 ।।

इति तद्भूताधिकरणम् ।। 10 ।।

उद्गीथोपासने ऋत्विङ्नाऽधिकुर्यात् फलश्रुतेः ।

इत्याक्षेपोऽपोद्यतेऽथ स्वामिनीतौ प्रसङ्गतः ।। 167 ।।

इति स्वाम्यधिकरणम् ।। 11 ।।

कर्माविरोधान्मननं सहकार्यन्तरं मतम् ।

प्राक् पञ्चमनयेनाऽस्य सङ्गतिस्त्वापवादिकी ।। 168 ।।

इति सहकार्यन्तरविध्यधिकरणम् ।। 22 ।।

विद्याकर्मविरुद्धत्वात् बाल्यं नैवाङ्गमिष्यते ।

इत्याक्षेपापवादः स्यादनाविष्कृतिनीतितः ।। 169 ।।

इति अनाविष्काराधिकरणम् ।। 13 ।।

कर्म नाङ्गं भोगहेतूपासने व्यभिचारतः ।

इत्याक्षेपप्रतिक्षेपः स्यादैहिकनयादिह ।। 170 ।।

इति ऐहिकाधिकरणम् ।। 14 ।।

एवं मुक्तिफलोपास्तौ प्रोक्तो न्यायोऽतिदिश्यते ।

ततश्चानियमः प्रायः प्रबलं प्रतिबन्धकम् ।। 171 ।।

इति मुक्तिफलाधिकरणम् ।। 15 ।।

एवं तृतीयाध्यास्य तुर्ये पादे सुसङ्गता ।

अधिक्रियापञ्चदशी बहुसङ्कीर्णनिया ।। 172 ।।

इति चतुर्थः#ः पाद।।

अथ तुर्याध्यायपादप्रधानार्था मता इमे ।

अधाश्लेषोत्क्रान्तिमार्गपरब्रह्मोपसम्पदः ।। 173 ।।

पेटिकाद्वयमाद्याङ्घ्रावेका विद्याविशोधिनी ।

नीतिषट्काऽपरा नीतिपञ्चका फलबोधिनी ।। 174 ।।

शास्त्रार्थस्य सकृत्त्वे तु केयं निष्पत्तिचिन्तना ।

इत्याक्षेपं प्रतिक्षेप्तुमावृत्तिन्यायसम्भवः ।। 175 ।।

इति आवृत्त्यधिकरणम् ।। 1 ।।

साक्षात् सदाऽऽत्मनः स्फूर्तौ काऽसावावृत्तिसाध्यता ? ।

इत्याक्षेपं प्रतिक्षेप्तुमात्मत्वोपास्त्यधिक्रिया ।। 176 ।।

इति आत्मत्वोपासनाधिकरणम् ।। 2 ।।

स्वात्मत्वेनोपास्तिरूपा विद्यौपनिशषदी यदि ।

प्रतीकोपासनेऽप्येवमाक्षेपोऽपि व्यपोद्यते ।। 177 ।।

इति प्रतीकाधिकरणम् ।। 3 ।।

पुराऽपकृष्टे तूत्कृष्टदृष्टिर्न्याय्येत्युदीरिता ।

आदित्यादाविहोद्गीथदृष्टिशङ्का व्यपोद्यते ।। 178 ।।

इति आदित्यादिमत्यधिकरणम् ।। 4 ।।

आवर्तव्या यद्युपास्तिः स्वैरमावृत्तिरिष्यते ।

इति शङ्कापवादः स्यादासीनाधिकृतौ पुनः ।। 179 ।।

इति आसीनाधिकरणम् ।। 5 ।।

आवृत्ताऽप्युपसंहार्या स्वेच्छयेत्येष संशयः ।

आप्रयाणाधिकरणेऽपोद्यते श्रुतिदर्शनात् ।। 180 ।।

इति आप्रयाणाधिकरणम् ।। 6 ।।

प्राचीनपापानन्त्येन प्रायणान्ताऽप्युपासना ।

फलायाऽनवकाशेति चाऽऽक्षेपोऽपि ततो हतः ।। 181 ।।

इति तदधिगमाधिकरणम् ।। 7 ।।

अथेतराधिकरणे पुण्यानन्त्येऽपि पूर्ववत् ।

नाशाश्लेषाविमौ प्रामादिक (दुष्कर्म) सत्कर्मगोचरौ ।। 182 ।।

इति इतराधिकरणम् ।। 8 ।।

तथाऽनारब्धातिरिक्तविषयावित्यपि स्थितिः ।

नाऽतोध्यक्षविरोधः स्यादित्याक्षेपः प्रशाम्यति ।। 183 ।।

इति अनारब्धकार्याधिकरणम् ।। 9 ।।

सुकृतस्याऽप्यसंश्लेषे स्वैराचारः प्रसज्यते ।

इत्याक्षेपस्यापवादो ह्यद्निहोत्रनयं पुनः ।। 184 ।।

इति अग्निहोत्राधिकरणम् ।। 10 ।।

अग्निहोत्रादिसुकृतात् प्रारब्धस्य विनाशनम्

इत्याक्षेपस्याऽपवादे भोगान्तत्वव्यवस्थितेः ।। 185 ।।

इति इतरक्षपणाधिकरणम् ।। 11 ।।

इत्थं तुरीयाध्यायस्य पादे प्राथमिके पुनः ।

एकादशानां न्यायानां क्रमात् सङ्गतिसङ्ग्रहः ।। 186 ।।

इति चतुर्थस्याऽध्यायस्य प्रथमः पादः ।। 1 ।।

अत्र सप्तचतुस्सङ्ख्यैर्न्यायैः स्यात् पेटिकाद्वयम् ।

क्रमेण सामान्यगति - विशेषगतिगोचरम् ।। 187 ।।

प्रारब्धान्तेऽप्यनियतोत्क्रान्तौ फलविलम्बनम् ।

इत्याक्षेपं प्रतिक्षेप्तुं वागादिन्यायचिन्तना ।। 188 ।।

इति वगधिकरणम् ।। 1 ।।

ततो मनोऽधिकरणं प्रत्युदाहरणागतम् ।

तत् सर्वं फलपूर्वत्वाद्योगिचिन्त्यं विचिन्त्यते ।। 189 ।।

इति मनोऽधिकरणम् ।। 2 ।।

उक्तं श्रौतं क्रमं ज्ञात्वा पूर्वपक्षस्य सम्भवात् ।

आपवादिकसङ्गत्या स्यादध्यक्षनयोदयः ।। 190 ।।

इति अध्यक्षाधिकरणम् ।। 3 ।।

यथाश्रुतार्थमादाय पूर्वपक्षसमुद्भवात् ।

भूताधिकरणे चाऽपि प्रोक्ताऽऽशङ्का व्यपोदिता ।। 191 ।।

इति भूताधिकरणम् ।। 4 ।।

अत्र ब्रह्माऽश्नुते विद्वानिति स्पष्टमनुश्रवात् ।

उत्क्रान्त्याक्षेपसंशान्त्यै आसृतिन्यायचिन्तना ।। 192 ।।

इति आसृत्युपक्रमाधिकरणम् ।। 5 ।।

उत्क्रान्तिमध्ये विश्रान्तेर्वैफल्याक्षेपशान्तये ।

फलस्य कल्पनायैव परसम्पत्त्यधिक्रिया ।। 193 ।।

इति परसम्पत्त्यधिकरणम् ।। 6 ।।

परसम्पत्तिसत्वे सा लय एव भविष्यति ।

इति शङ्कापवादायाऽविभागनयनिर्णयः ।। 194 ।।

इति अविभागाधिकरणम् ।। 7 ।।

गातिसामान्येऽपि नाडी दुर्विवेका यदा भवेत् ।

अनैयत्योदिताऽऽशङ्का तदोकोनीत्यपोदिता ।। 195 ।।

इति तदोकोऽधिकरणम् ।। 8 ।।

रात्रियाने रश्म्यभावादचिन्त्या गतिचिन्तना ।

इत्याक्षेपापवादोऽपि रश्म्यनुन्यायगोचरः ।। 196 ।।

इति रश्म्यनुसाराधिकरणम् ।। 9 ।।

सत्सु सौरेषु तेजस्सु कालदोषनिबन्धनम् ।

प्रतिहन्तुमिहाऽऽक्षेपं निशाधिकरणं मतम् ।। 197 ।।

इति निशाधिकरणम् ।। 10 ।।

दक्षिणायनयाने तु चन्द्रमः प्राप्तिसम्भवात् ।

निर्निरोधगतिस्थित्यै दक्षिणायननिर्णयः ।। 198 ।।

इति दक्षिणायनाधिकरणम् ।। 11 ।।

एवं चतुर्थाध्यायस्य द्वितीये चरणेऽपि च ।

द्विपेटिकान्तरक्षाधिकारणानि समागमन् ।। 199 ।।

इति चतुर्थाऽध्यायस्य द्वितीयः पादः ।। 2 ।।

कालदोषप्रशान्तावप्यर्चिरध्वाऽव्यवस्थितौ ।

विक्षेपान्मोक्षलाभस्याऽक्षेपोऽर्चिर्नित्यपोदितः ।। 200 ।।

इति अर्चिराद्यधिकरणम् ।। 1 ।।

शाखाविरोधशान्तावप्यवान्तरविकल्पतः ।

विक्षेपस्याऽपवादाय वायुन्यायसमुद्भवः ।। 201 ।।

इति वाय्वधिकरणम् ।। 2 ।।

वरुणाधिक्रियाऽप्येवमन्तस्संशयभेदिनी ।

योगाङ्गत्वेनाऽर्चिरादिचिन्तनं निरुपद्रवम् ।। 202 ।।

इति वरुणाधिकरणम् ।। 3 ।।

आतिवाहिकनीतावप्येवं विशयधूननम् ।

आक्षेपो वाऽपवादो वा सङ्गतिस्त्ववधार्यताम् ।।203 ।।

इति आतिवाहिकाधिकरणम् ।। 4 ।।

आतिवाहिकनिर्णितावप्यतिवाह्याव्यवस्थितौ ।

वेफल्याक्षेपसंशान्त्यै कार्याधिकरणोदयः ।। 204 ।।

इति कार्याधिकरणम् ।। 5 ।।

तुर्याध्याये तुर्यपादे पेटिकाद्वयभूषिते ।

त्रिकद्विकविभागेन मुक्तयै (क्तै) श्वर्यं निरूप्यते ।। 206 ।।

मुक्तिः स्वरूपाविर्भावश्चेत्सुषुप्तिरपीदृशी ।

मार्गादिचिन्तावैयर्थ्यं सम्पन्नीत्या व्यपोदितम् ।। 207 ।।

इति सम्पद्याविर्भावाधिकरणम् ।। 1 ।।

अविभागेनेति नये स्वरूपार्थविनिर्णयात् ।

उपोद्धातप्रक्रियया सङ्गतिर्वेदितुं क्षमा ।। 208 ।।

इति अविभागेन दृष्टत्वाधिकरणम् ।। 9 ।।

ब्रह्माधिकरणे चाऽपि प्रक्रिया प्रागुदीरिता ।

प्रोक्तैव सङ्गतिरपि तत्त्रिकं ह्येकपेटिका ।। 209 ।।

इति ब्राह्माधिकरणम् ।। 3 ।।

एवं सुक्तस्य चैश्वर्ये सर्वभोगात्मके सति ।

पर्यायेणैष संसार इत्याक्षेपोऽथ वारितः ।। 210 ।।

इति सङ्कल्पाधिकरणम् ।। 4 ।।

अविघातेच्छमैश्वर्यं सङ्कल्पनयबोधितम् ।

अनन्तरनये प्रायेणान्तरातङ्कशोधनम् ।। 211 ।।

इति अभावाधिकरणम् ।। 5 ।।

जगद्व्यापारविरहे सम्पत् सावधिका भवेत् ।

इत्याक्षेपप्रतिक्षेपो जगद्व्यापारनीतितः ।। 212 ।।

एवं षण्नीतयः पादे तुरीये तुर्यलक्षणे ।

समागमन्शास्त्रसारनिरूपणपरे शुभम् ।। 213 ।।

षट्पञ्चाशद्युतशतमिताधिकरणावलेः ।

आचार्यसूक्तिकुसुमपूर्णा सङ्गतिमालिका ।। 214 ।।

इमां श्रीभाष्यनिर्णितनयसंङ्गतिमालिकाम् ।

समर्पितां मोदते स्म प्रतिगृह्य श्रियः पतिः ।। 215 ।।

मालैषा संग्रहेच्छूनां मोदाय समगृह्यत ।

लक्ष्भीपुरं श्रीनिवासविपश्चिच्चक्रवर्तिना ।। 216 ।।

।। इति नयसंङ्गतिमालिका समाप्ता ।

इति जगद्व्यापारवर्जाधिकरणम् ।। 6 ।।

"https://sa.wikisource.org/w/index.php?title=नयसङ्गतिमालिका&oldid=402936" इत्यस्माद् प्रतिप्राप्तम्