नरेश् गोयाल् नरेश् गोयाल् १९४९ तमे वर्षे जुलॅ मासस्य २९ दिनाङ्के पञाब् प्रान्त्यस्य सङुर् नगरे जन्म प्राप्तवान्। एतस्य पिता सुरेन्दर् गोयाल् इत्येव लोके प्रसिद्धः। राज् विद्यालये एतस्य प्राथमिकं शिक्षणम् अभवत्। जेट् एर्वेस् संस्थायाः निदेशकः एषः स्वदायित्वं सम्यक् जानाति स्म । सामान्यतः द्वादशवर्षैः ज्येष्ठः अग्रजः सिङ्ग गोयाल्। गोयाल् महोदय:वाणिज्य शास्त्रे पदवि शिक्षणं बिक्रम् विद्यालये प्राप्तवान्। सहोदरस्य वचनं नरेश: कदापि न उल्लङ्घयति स्म। एतस्य एव काश्चन विशिष्टाः अभिरुचयः आसन्।१९९३ तमे वर्षे नरेश: केन्द्र सर्वभोमस्य सहाहेन जेट् एर्वेस् स्तापिथवान् । नूतनतया आरब्धायाः संस्थायाः सुचारुरूपेण व्यवस्थापने तथा पितुः स्वप्नस्य साकारीकरणे नरेश: अग्रजयोः सहयोगं कृतवान्। नरेश् गोयाल्स्य जेट् एर्वेस् संस्थाय कारणेन भारतस्य निरुद्योगिभ्यः उद्योगावसरम् अक्ल्पयन्। भारतदेशस्य औद्योगिकस्थिरतायाः दृढीकरणे एते प्रमुखं पात्रम् अवहन्। नरेश: कलाराधकः कलापोषकः च। दरिद्राणाम् असहायाणां च कष्टं दृष्ट्वा एतस्य हृदयं विशेषतया स्पन्दते स्म । एषः स्वभावेन अत्यन्तम् उदारः। भारतीयता देशभक्तिभावः च एतस्य रक्तस्य कणे कणे प्रवहति स्म। पित्रार्जितं दायभागं सार्वजनिकानां कल्याणाय संरक्षितवान्। स्वसम्पदः अधिकांशः भागः दुःखितानां सन्तप्तानां च निमित्तं भवेत् इति तस्य इच्छा आसीत्। अतः नरेश: 'सर् गोयाल् ट्रस्ट' अधिकारिभ्यः स्वस्य दानवितरणनीतिं स्पष्टीकृतवान् आसीत्।कोलकातास्थास्य शान्तिनिकेतने पौर्वात्यसाहित्य-कला-शिल्प-संस्कृति-सङ्गीताभ्यासं कर्तुं यथा व्यवस्था भवेत् तथा संशोधकेभ्यः एकं वसतिगृहं निर्माय दत्तवान्। अत्र अधिकतया ऐरोप्याः आगच्छन्ति स्म। नरेश: स्वस्य एव कञ्चित् विशिष्टं लोकं सृष्टवान् आसीत्। विद्यासंस्थानां विषये जनहितकार्यविषये च तस्य विशेषासक्तिः आसीत्। वास्तुशिल्पिनां विषये सः अत्यन्तं आदरवान् आसीत्।

"https://sa.wikisource.org/w/index.php?title=नरेश्_गोयाल्&oldid=218498" इत्यस्माद् प्रतिप्राप्तम्