क्षेमेन्द्र : नर्ममाला


प्रथमः परिहासः सम्पाद्यताम्

येनेदं स्वेच्छया सर्वं मायया मोहितं जगत् ।
स जयत्यजितः श्रीमान् कायस्थः परमेश्वरः ॥ १.१ ॥
अस्ति स्वस्तिमतामग्र्यं मण्डितं बुधमण्डलैः ।
खण्डिताखण्डलावासदर्पं कश्मीरमण्डलम् ॥ १.२ ॥
यस्मिन् प्राज्यभुजस्तम्भस्तम्भिताहितविक्रमः ।
त्रिविक्रम इव श्रीमाननन्तो बलिजिन्नृपः ॥ १.३ ॥
तेन प्रजोपसर्गेषु वारितेषु विवेकिना ।
दुर्नियोगिषु .. .. .. नीतेषु स्मृतिशेषताम् ॥ १.४ ॥
विदग्धचूडामणिना केनचित्केलिशालिना ।
विद्वद्गोष्ठीगरिष्ठेन कश्चित्सहृदयो जनः ॥ १.५ ॥
हासायातीतकायस्थचरितं कर्तुमीरितः ।
करोति तत्प्रसङ्गेन दुराचारविडम्बनाम् ॥ १.६ ॥
कृतविश्वप्रपञ्चाय नमो मायाविधायिने ।
उत्पत्तिस्थितिसंहारकारिणे पुरहारिणे ॥ १.७ ॥
व्यापिने जन्महीनाय निर्गुणाय कलाभृते ।
सर्वाधिकारिणे सर्वकालकूटाशनाय ते ॥ १.८ ॥
पुरा हतेषु दैत्येषु विष्णुना प्रभविष्णुना ।
दुःखितो दीर्घवैराग्यस्तद्गेहगणनापतिः ॥ १.९ ॥
गत्वा वैतरणीतीरं तपो वार्षसहस्रकम् ।
स्वमूत्रचुलकाहारः सुरवैराच्चकार सः ॥ १.१० ॥
तुष्टस्तमेत्य वरदः कलिः साक्षादभाषत ।
सर्वदेवविनाशाय गच्छ वत्स महीतलम् ॥ १.११ ॥
अनेन कलमास्त्रेण मद्दत्तेन प्रहारिणा ।
विच्छिन्नदीपकुसुमान्धूपहीनान्निरम्बरान् ॥ १.१२ ॥
भ्रष्टालयान्धूलिलिप्तान्हाहाभूतान्श्वभिर्वृतान् ।
करिष्यसि सुरान्सर्वान्भक्तपानीयकाङ्क्षिणः ॥ १.१३ ॥
जगति ब्राह्मणानां च वृत्तिच्छेदे त्वया कृते ।
यज्ञच्छेदाद्विनङ्क्ष्यन्ति दिवि देवा न संशयः ॥ १.१४ ॥
दैत्यक्षये कृते यस्माद्भवता दिवि रोदितम् ।
तस्मात्त्वं दिविरो नाम भुवि ख्यातो भविष्यसि ॥ १.१५ ॥
मषी सकलमा यस्य काली कवलिताखिला ।
सदा सकलमायस्य तस्य सर्वार्थसिद्धिदा ॥ १.१६ ॥
त्वद्वंशेऽत्र भविष्यन्ति दैत्या दिविररूपिणः ।
यैरियं लब्धविभवैः पृथिवी न भविष्यति ॥ १.१७ ॥
इत्युक्त्वान्तर्हिते तस्मिन्कलौ कल्मषमानसः ।
याति काले सुविपुले महीमवततार सः ॥ १.१८ ॥
सौनिकेन प्रजातोऽथ भूतले मर्मघातिना ।
स *कुद्दालिकभार्यायां जगदुन्मूलनव्रतः ॥ १.१९ ॥
तीक्ष्णैस्तदन्वये जातैः सर्ववृत्तिविलोपिभिः ।
रूक्षैर्न कस्यचिन्मित्रैः पापैः सर्वापहारिभिः ॥ १.२० ॥
कल्पान्तैरिव सर्वत्र ग्रस्तस्थावरजङ्गमैः ।
मषीविलिप्तसर्वाङ्गैः कालेनालिङ्गितैरिव ॥ १.२१ ॥
अधोगतैर्मृदुतरैः स्तब्धैरभ्युद्गतैः क्षणात् ।
पुरीषैरिव कायस्थैः कायस्थैर्दोषकारिभिः ॥ १.२२ ॥
सेवाकाले बहुमुखैर्लुब्धकैर्बहुबाहुभिः ।
वञ्चने बहुमायैश्च बहुरूपैः सुरारिभिः ॥ १.२३ ॥
व्याप्तासु नगरग्रामपुरपत्तनभूमिषु ।
तस्मिन्काले मषीलिप्तकलमेन खमुल्लिखन् ॥ १.२४ ॥
ननर्त कर्तरीहस्तो भूर्जप्रावरणः कलिः ।
भस्त्राकक्ष्याभिधानोऽयं सर्वभक्षो महासुरः ।
जातो जगत्क्षयायेति पिशाचनिचया जगुः ॥ १.२५ ॥
देवापहारिणा तेन गोघासलवणच्छिदा ।
भुज्यते पीयते भूरि दिविरेण दिवानिशम् ॥ १.२६ ॥
भक्त्या भगवतो विष्णोस्त्रैलोक्याक्रमणे पुरा ।
धर्मः प्रयातो द्रवतां मषीरूपेण तिष्ठति ॥ १.२७ ॥
देवनागमनुष्याणां नित्यनैमित्तिकच्छिदः ।
तस्य कायस्थनाथस्य त्रैलोक्याक्रमणे पुनः ॥ १.२८ ॥
कलिः प्रयातो द्रवतां मषीरूपेण तिष्ठति ।
यथा स्वर्गप्रदा गङ्गा तथैषा नरकप्रदा ॥ १.२९ ॥
व्यथितः प्रथितैर्ग्रामैर्निगडैर्लगुडैस्तथा ।
भयाद्वैराग्यमापन्नः स बभूव महाव्रती ॥ १.३० ॥
भग्नव्यथोऽथ सन्त्यज्य व्रतं प्रायाद्दिगन्तरम् ।
कालेन विस्मृतोऽभ्येत्य भूर्जज्ञोऽलीकनिःस्पृहः ॥ १.३१ ॥
क्रमाद्ग्रामनियोगेन नगरे गणनापतेः ।
दम्भसम्भावितः प्राप गृहकृत्यं विधेर्वशात् ॥ १.३२ ॥
तस्यानुजीविभिः क्रूरैरनुवर्तनजीविभिः ।
वसुहीना वसुमती कृता प्रकटतस्करैः ॥ १.३३ ॥
दम्भध्वजो निष्प्रपञ्चो लुब्धकः कलमाकरः ।
सूचीमुखो भूर्जगुप्तो महीमण्डश्च दुःसहाः ॥ १.३४ ॥
दैत्यावताराः सप्तैते तन्माहात्म्यान्नियोगिनः ।
लुण्ठ्या वध्याश्च पूज्या ये सर्व इत्यवदन्मदात् ॥ १.३५ ॥
उपतापो वज्रपातः परिघो द्वारभञ्जकः ।
धूमकेतुः कपिमुखः कुक्षिभेदो गृहोल्मुकः ॥ १.३६ ॥
अष्टौ पिशाचास्तस्यैते भटमुख्याः पुरःसराः ।
मर्त्यलोकविनाशाय बभ्रमुर्यष्टिपाणयः ॥ १.३७ ॥
स वृतः सेवकशतैः सदा दम्भहरार्चने ।
स्तोत्रं पठति हाहेति कुर्वन्सास्रुविलोचनः ॥ १.३८ ॥
सुगिरा चित्तहारिण्या पश्यन्त्या दृश्यमानया ।
ह्यः कियन्तो मया दत्ताः प्रायस्था विजयेश्वरे ॥ १.३९ ॥
जयत्युल्लासितानन्तमहिमा परमेश्वरः ।
आदौ स्थितानामुपरि प्रयान्त्वेते त्रिसप्ततिः ॥ १.४० ॥
यः स्फीतः श्रीदयाबोधपरमानन्दसम्पदा ।
प्रायस्थाने मृता भट्टाः कृष्यन्तां गुल्फदामभिः ॥ १.४१ ॥
विद्योद्द्योतितमाहात्म्यः स जयत्यपराजितः ।
{निर्धामधूमकर्तारो} ग्रामान्यान्तु नियोगिनः ॥ १.४२ ॥
सर्वानन्दस्वरूपाय सर्वमङ्गल्यहेतवे ।
सर्वस्वहरणं कृत्वा वध्या दण्डनिषेधिनः ॥ १.४३ ॥
सर्वक्लेशापहर्त्रे च चिद्रूपब्रह्मणे नमः ।
पीडिताः प्रस्रवन्त्येव प्रजा गुग्गुलुबीजवत् ॥ १.४४ ॥
इत्यादिस्तोत्रमुखरो घण्टाबधिरिताखिलः ।
समादिश्याविशच्चाशु नियोगिनिबिडां सभाम् ॥ १.४५ ॥
मरीचः प्रथितस्थानमास्थितो जनदुष्कृतैः ।
ददर्श दूरादायान्तं कार्यदूतं नियोगिनम् ॥ १.४६ ॥
पदाल[ग्ना]शिवं देवगृहोच्चाटनचाक्रिकम् ।
सुसूक्ष्मदलविन्यासविभागोन्नतटुप्पिकम् ॥ १.४७ ॥
अतसीकुसुमच्छायं मृदुस्पर्शाङ्गरक्षिकम् ।
जात्यकस्तूरिकामोदस्थूलतूलपटीवृतम् ॥ १.४८ ॥
हस्ताङ्गुलीन्यस्तहैमत्रिगुणावर्तवालिकम् ।
दूराध्वक्लमसोच्छ्वासात्कुर्वाणं विकृतीर्मुखे ॥ १.४९ ॥
दृष्ट्वा पिशुनमायान्तं तं भागवतमन्तिके ।
उत्थाय हर्षादालम्ब्य पाणौ पार्श्वे न्यवेशयत् ॥ १.५० ॥
इति गृहकृत्याधिपतिः ।
पिशुनेभ्यो नमस्तेभ्यो यत्प्रसादान्नियोगिनः ।
दूरस्था अपि जायन्ते सहस्रश्रोत्रचक्षुषः ॥ १.५१ ॥
सोऽब्रवीत्त्वामहं श्रुत्वा स्थितं शक्तिमतां धुरि ।
प्राप्तो देवगृहादेष राशिमार्गप्रदर्शकः ॥ १.५२ ॥
वस्त्रालङ्काररत्नादि यत्किंचिद्देववेश्मसु ।
विद्यमानमशेषं तत्करिष्ये प्रकटं तव ॥ १.५३ ॥
विजयेश्वरवाराहमार्तण्डादिषु विद्यते ।
त्वद्भाग्योपचयाद्राशिरपोष्यपरिपूरकः ॥ १.५४ ॥
अभीरुरपवादेषु निःशङ्कः पातकेषु च ।
तत्र तीक्ष्णो भृशं शश्वत्क्रियतां परिपालकः ॥ १.५५ ॥
स चास्ति भुवि विख्यातः कायस्थो भवता समः ।
विना धनं विनायासं सर्वस्वहरणं विना ॥ १.५६ ॥
ब्रह्महत्या न गण्यन्ते गोवधेषु कथैव का ।
प्रभुभक्तिकृता येन मूलादुन्मूल्यते जनः ॥ १.५७ ॥
अन्येऽपि सन्ति सर्वत्र तद्विधस्तु न लभ्यते ।
नीतः स्वजनको येन निधनं बन्धने धनी ॥ १.५८ ॥
यदि नाम भवत्पुण्यैः स समेष्यति मद्गिरा ।
तत्स्वगेहं निधानानां विद्धि स्वच्छन्दमन्दिरम् ॥ १.५९ ॥
इति ब्रुवाणमसकृत्कर्णे विहितसंविदम् ।
महत्तमस्तमवदत्तूर्णमानीयतामिति ॥ १.६० ॥
ततः स सत्वरं द्वित्रैरादराय गतागतैः ।
तमानिनाय निश्चित्य पापिनं परिपालकम् ॥ १.६१ ॥
इति चाक्रिकः पुंश्चलको वा ।
काष्ठस्तब्धोन्नतग्रीवः सनिःस्पन्दोर्ध्वलोचनः ।
कामलाहरितच्छायशिरःशाटककञ्चुकः ॥ १.६२ ॥
लम्बमानेन महतामेध्यक्रोडानुकारिणा ।
*उदरेण दरेणेव व्याप्तः पिशितवेश्मना ॥ १.६३ ॥
तीव्रदर्पो महाकोपः प्राणहृन्निष्प्रतिक्रियः ।
सोपद्रवः सोपतापः सन्निपात इव ज्वरः ॥ १.६४ ॥
स महान्तं समासाद्य दुःसहं दंशनं विटम् ।
लीलयैव वशीकृत्य लेभे देवगृहान्बहून् ॥ १.६५ ॥
ततो मूर्तैरिवायासैः सहसैव पुरःसरैः ।
अर्घ वेलां ययौ कर्तुमसङ्ख्यैः परिवारितः ॥ १.६६ ॥
काचरोऽयं हिरण्याक्षः पूर्ववैरमनुस्मरन् ।
देवानवाप्तः संहर्तुमिति तं बुबुधे जनः ॥ १.६७ ॥
भयात्पलाय्य यातेषु धनिकेषु सुरालयात् ।
तमयुः पुनरक्षीणा देवागारनिवासिनः ॥ १.६८ ॥
भटैरर्गलितद्वारकवाटस्फोटनाकुलैः ।
प्रारब्धे गृहभाण्डादिविलुण्ठनमहोत्सवे ॥ १.६९ ॥
सहसा हृतवस्त्राणां गृहिणीनां समाययौ ।
सन्त्रस्तबालकानां च करुणो रोदनध्वनिः ॥ १.७० ॥
इति परिपालकः ।
अथाययौ चिरावाप्तबहुहर्षस्खलद्गतिः ।
कृशः शनैश्चराकारो धूसरः क्षुत्क्षतोदरः ॥ १.७१ ॥
बहुच्छिद्रशिरःशाटलडत्पर्यन्ततूस्तकः ।
शतचक्रलिकास्यूतमललिप्ताङ्गरक्षकः ॥ १.७२ ॥
शीर्णजीर्णपटीगुप्तकक्ष्यानियमिताञ्चलः ।
याचितानीतसंशुष्कपाद[त्र]व्यथितः खलः ॥ १.७३ ॥
लेखाधिकारी निःस्वोऽपि लेखसंस्कारगर्वितः ।
परिपालकनिर्दिष्टो वायुभक्ष इवोरगः ॥ १.७४ ॥
तद्गेहिनी शीर्णवस्त्रख[ण्डा]वृतकटीतटा ।
कज्जलालिप्तनासाग्रा लडन्मृत्कर्णभूषणा ॥ १.७५ ॥
क्षुधितापत्यकुपिता शूर्पार्धावृतमस्तका ।
समुत्थाय सशूत्कारं कषन्ती बहुशः स्फिजौ ॥ १.७६ ॥
पत्यौ चिरात्प्राप्तपदे हृष्टादाय यतस्ततः ।
..क्षेपापूपधूपाद्यैर्गणाधिपमपूजयत् ॥ १.७७ ॥
सोऽप्यनेकार्थसन्देशानाकर्ण्यावहितः प्रभोः ।
दाप्यप्रसारितकरो लेखानस्खलितोऽलिखत् ॥ १.७८ ॥
धावत्कलमचीत्कारतारः कपिरिवाहतः ।
दीनारान्गणयन्नाशु ददौ लेखशतद्वयम् ॥ १.७९ ॥
परिपालकपादानां यत्किंचिदुपयुज्यते ।
दर्वी बृसी पटलिका कुण्डभाण्डकरण्डिका ॥ १.८० ॥
इत्यादिलेखदानेन प्रसिद्धिं परमां गतः ।
सोऽचिरेणाभवत्पुष्टः पूर्णपाणिर्मदोद्धतः ॥ १.८१ ॥
लेखपत्त्राणि विगलल्लोचनः परिवाचयन् ।
चकार विकृतीस्तास्ता नानाभ्रूनेत्रकुञ्चनैः ॥ १.८२ ॥
इति लेखकोपाध्यायः ।
ततो गृहीतमध्यस्थच्छत्त्रभङ्गव्यवस्थया (?) ।
आययौ गञ्जदिविरो भट्टभागवतार्थितः ॥ १.८३ ॥
स प्रायस्थखलीकारान्मानी सन्त्यक्तकर्पटः ।
शिरःशाटकविन्यासश्वित्रितार्धललाटभूः ॥ १.८४ ॥
सर्वदेवगृहग्रामराशिसंहारतत्परः ।
रज्जुशेषीकृताशेषनिर्जर..रिपालकः ॥ १.८५ ॥
स प्राप्य प्रददौ दीर्घां शरत्षण्मासकल्पनाम् ।
यस्या मध्येऽस्ति लिखितं सार्धं लक्षचतुष्टयम् ॥ १.८६ ॥
स्वार्थोपायं ततः पृष्टस्तेन स्वीकारसंविदा ।
उवाच भागसन्तोषात्किंचित्सद्भावमास्थितः ॥ १.८७ ॥
अस्मिन्देवगृहे ते ते प्रसिद्धाः परिपालकाः ।
विक्रीतनिजसर्वस्वाः प्रयाता मद्विरोधिनः ॥ १.८८ ॥
भवतोऽद्य तु कर्तव्या स्नेहादुपकृतिर्मया ।
कुलाचार्यः स भगवानेको हि गुरुरावयोः ॥ १.८९ ॥
स्वीकृतैरिह दानेन पञ्चषैश्चाक्रिकाशिवैः ।
भुज्यते निखिलं देवद्रव्यं भुक्तिश्च पार्षदी ॥ १.९० ॥
विक्रीतशेषं यत्किञ्चिद्विद्यते सुरमण्डले ।
तन्मतेनैव तत्सर्वं भुज्यते निजवत्त्वया ॥ १.९१ ॥
तथा हि ताम्रजः पूर्वं महान्नीतो घटो मया ।
भक्तितस्तच्छतांशेन कृता घण्टा सुरालये ॥ १.९२ ॥
कालेन घण्टां विक्रीय तदंशेन कृता घटी ।
क्रमेण भक्षिता सापि कृता शेषेण घण्टिका ॥ १.९३ ॥
चिरं सञ्चूर्णिता सापि कृता सूक्ष्मझिलीमली ।
इति कृत्वा ततः स्तोकघण्टांशः परिपालितः ॥ १.९४ ॥
एवं चतुर्भुजा लुण्ठिः क्रियते शिवपूजया ।
सन्ति धान्यसहस्राणि क्रियतां भवतात्र तु ।
क्रयविक्रयिका नाम ततो विज्ञप्यसे मया ॥ १.९५ ॥
इत्युपायशतैस्तैस्तैस्तदुक्तैः परिपालकः ।
*जरठाखुरिवाक्षोटं शून्यं चक्रे सुरालयम् ॥ १.९६ ॥
इति गञ्जदिविरः ।
अथान्यराशिप्रवणः प्रवीणः साधुलुण्ठने ।
आपत्प्रशमनं प्राप ग्रामं तस्मान्नियोगवित् ॥ १.९७ ॥
तस्यावस्करसंछन्नमहारौरवसोदरे ।
खण्डस्फुटितनासाग्रवारिधानीमहाधने ॥ १.९८ ॥
दामप्रोतजरद्द्वारस्खलत्खडखडारवे ।
यस्य स्थितिरभूद्गेहे कुकुट्टीकोटरोदरे ॥ १.९९ ॥
दग्धकम्बलिकाखण्डकृतमुण्डावगुण्ठनः ।
श्वजग्धजीर्णशीर्णाग्रोपानत्खञ्जः शनैर्व्रजन् ॥ १.१०० ॥
कर्पटीतिलमृद्दर्भपवित्रार्घसमुद्गकैः ।
दारुपात्त्रीं वहन्पूर्णां भग्नामाखुविखण्डिताम् ॥ १.१०१ ॥
स्नायी जपोच्चलत्कूर्चः सदाचारपदे स्थितः ।
दिनार्धमपठत्स्तोत्रं गत्वा यः सुरमन्दिरम् ॥ १.१०२ ॥
गोप्रदक्षिणकृद्विप्रप्रणतो द्वादशीव्रतः ।
ददौ दीनजने मार्गे यत्नेनैककपर्दिकाम् ॥ १.१०३ ॥
तस्यैव दैवादायातकार्यस्याशु नियोगिनः ।
उपस्करणभाण्डादिपरिपूर्णमभूद्गृहम् ॥ १.१०४ ॥
शिशिरे यस्य नाङ्गारं प्रददुः प्रातिवेश्मिनः ।
अयाचितं ददुस्तस्य वस्त्रालङ्करणेप्सितम् ॥ १.१०५ ॥
ततः सुधाधवलितं तस्य सम्मार्जिताङ्गनम् ।
बहुदासमभूद्गेहं सिन्दूरोदरमन्दिरम् ॥ १.१०६ ॥
मिष्टभोजनसञ्जातनवलावण्यसच्छविः ।
तस्याभूत्तरुणी भार्या दि[नै]रप्सरसः समा ॥ १.१०७ ॥
ततोऽपि व्रजतो ग्रामं करण्डशयनादिकम् ।
निर्ययौ पुरतश्छत्त्रं कलशं ताम्रकुण्डकम् ॥ १.१०८ ॥
शक्तिः पतद्ग्रहो घण्टा ताम्रपात्रमुपानहौ ।
करिका भगवत्पादा भूर्जभस्त्राथ स्रुक्स्रुवौ ॥ १.१०९ ॥
अक्षसूत्रं मषीभाण्डं दर्पणः स्नानशाटिका ।
सम्पुटीटुप्पिकाखड्गाः पादुके मन्त्रपुस्तिका ॥ १.११० ॥
नक्षत्रपत्त्रिका खड्गपत्रं लोहितकम्बलः ।
पवित्रसूत्रकं तन्त्री सूची कलमकर्तरी ॥ १.१११ ॥
वचा जतुमयी रक्षा क्षुरिका योगपट्टकः ।
स्तोत्रमन्त्राणि गङ्गामृद्बिल्वमुच्छिष्टफालकम् ॥ १.११२ ॥
इत्येकीकृत्य तस्याग्रे भाण्डोपस्करणं ययौ ।
इतस्ततः समानीतमपुनर्दानचेतसा ॥ १.११३ ॥
उच्चैःकृतलतापाणिर्भाटकानीतघोटकः ।
झाङ्कारपार्ष्णिप्रहतिर्वदनेनाञ्चता मुहुः ॥ १.११४ ॥
सन्तर्जयन्निव जनं ज्यो..र्तमिव कुर्वता ।
शिथिलस्थूलवसनः स ययौ पुरमुत्फलन् ॥ १.११५ ॥
प्रविवेश ततो ग्रामं सुधौतसितकर्पटः ।
क्षयाय ग्राम्यमत्स्यानां वृद्धो बक इवागतः ॥ १.११६ ॥
अथ भोजनचर्यादिव्यपदेशैः सहस्रशः ।
तस्य यक्षेश्वरस्येव निधानान्याययुः पुरः ॥ १.११७ ॥
योगी हरणचिन्तासु प्रयोगी भूर्जयोजने ।
वियोगी निजदाराणां भोगी नरकसम्पदाम् ॥ १.११८ ॥
नोपयोगी फलोत्पत्तौ दोषोद्योगी तु केवलम् ।
अशो[कः] सततं रोगी नियोगी जयति प्रभुः ॥ १.११९ ॥
वृक्षारोहसहस्रेषु प्रायःक्लान्तशतेषु च ।
ग्रामे तस्य विपन्नेषु नरकप्रतिमाभवत् ॥ १.१२० ॥
गवां दण्डाय यश्चक्रे निधनावधिबन्धनम् ।
का नाम गणना तस्य नृषु सर्वापराधिषु ॥ १.१२१ ॥
सर्वस्वहरणं बन्धो निग्रहो गृहभञ्जनम् ।
इति तस्य मुखाद्घोरं न चचाल वचः सदा ॥ १.१२२ ॥
पञ्चषाः सततं तस्य करभा इव भारिकाः ।
घृतमाक्षिकदीनारमरिचार्द्रकसैन्धवम् ॥ १.१२३ ॥
मुद्गकम्बलमायूरोपानन्मेषविहङ्गमम् ।
बिसद्राक्षामधुघटाक्षोटपर्यङ्कपीठिकम् ॥ १.१२४ ॥
कांस्यताम्रायसानेकगृहोपस्करणादिकम् ।
निन्युस्तत्तदविश्रान्ता गृहं यच्चावदद्वचः ॥ १.१२५ ॥
दण्डत्याजनलेखांश्च स प्राप्तान्स्वामिनोऽन्तिकात् ।
साधिक्षेपं सथूत्कारं चकार तिलशो नखैः ॥ १.१२६ ॥
नित्यं मांसघृताहारः स राजपुरुषे स्थिते ।
भुङ्क्ते विलवणं दम्भादेको मुद्गपलद्वयम् ॥ १.१२७ ॥
इति मार्गपतिर्व्यापारिको वा ।
निरस्य मूलदिविरं चौर्याणामचिकित्सकम् ।
चकार वारिकं सोऽथ चिकित्साचतुरं परम् ॥ १.१२८ ॥
स मुक्तो बन्धनात्तेन क्षिप्रं द्वादशवार्षिकात् ।
लिलेख कूटकपटं प्रकटाक्षरकोविदः ॥ १.१२९ ॥
कृत्ताङ्गुष्ठः स वामेन पाणिना दिविरो रहः ।
खल..स्य गृहं गत्वा विदधे भूर्जयोजनम् ॥ १.१३० ॥
गृहीत्वा मद्यकलशं स जानुयुगलान्तरे ।
मुहुर्मुहुः परिमितं पिबन्बहुतरं शनैः ॥ १.१३१ ॥
लिलेख चीरीचीत्कारतारं कलमरेखया ।
अन्त्याङ्गुल्या सनिर्घोषं लालयोत्पुंसिताक्षरः ॥ १.१३२ ॥
विलुम्पन्विप्रगोदेवनित्यनैमित्तिकव्ययम् ।
श्रीचर्मकारगुरुणा रुग्णनाथेन भाषितम् ॥ १.१३३ ॥
शिवभक्तिभराक्रन्दं मुहुर्गायन्खरस्वरः ।
यूकाः पिषन्नखाग्रेण मुहुरुच्चित्य कम्बलात् ॥ १.१३४ ॥
मुहुर्निःश्वस्य निःश्वस्य निन्दन्संसारचेष्टितम् ।
व्ययेन स समीकुर्वन्प्रवेशं हर्षनिर्भरः ॥ १.१३५ ॥
आविष्ट इव वेतालश्चकम्पे मद्यघूर्णितः ।
उत्सरत्पटलीमिश्रकङ्कावलयमालितः ॥ १.१३६ ॥
स्थूलभूर्जफडत्कारस्फारवाद्यरसाकुलः ।
कर्परीच्छिद्रनिर्यातव्यावल्गिवृषणद्वयः ॥ १.१३७ ॥
लुठत्पूर्णमषीभाण्डच्छटाच्छुरितविग्रहः ।
ननर्त दिविरः क्षीबो नग्नो भग्नबृसीघटः ॥ १.१३८ ॥
धूसरो मलदिग्धाङ्गः स पिशाच इवोत्थितः ।
जनजीवापहारेण ननन्द मदनिर्भरः ॥ १.१३९ ॥
कक्षाकुट्टनसङ्घट्टटांकारा..जकारिणः ।
स्कन्धवाद्यरसः कोऽपि तस्याभून्निर्जने चिरम् ॥ १.१४० ॥
इति ग्रामदिविरः ।
व्यापृतोऽप्यनिशं तेन दिविरेणापहारिणा ।
वातेनेवानलः सार्धं जज्वाल जनकाननम् ॥ १.१४१ ॥
अचिरादथ संवृत्ते गृहे तस्य महाधने ।
अलङ्कृता माल्यवती ताम्बूलदलनव्रता ॥ १.१४२ ॥
गृहिणी दर्पणपरा राजमार्गावलोकिनी ।
बभार तद्विरहिता भूपालललनामदम् ॥ १.१४३ ॥
हारो भारायते हेमताटङ्कं मे न वल्लभम् ।
धिग्वणिग्वनितायोग्यां गुर्वीं कनकसूत्रिकाम् ॥ १.१४४ ॥
एकैवैकावली कान्ता ललितेयं प्रिया मम ।
इति दर्पगिरा तस्या नाभवत्कस्य विस्मयः ॥ १.१४५ ॥
अहो भगवती कार्यसर्वसिद्धिप्रदा मषी ।
अहो प्रबलवान्कोऽपि कलमः कमलाश्रयः ॥ १.१४६ ॥
या पपौ याचितं चामं भग्नस्यूताश्मभाजने ।
तयैव पीयते रौप्यपात्रे कस्तूरिकामधु ॥ १.१४७ ॥
इत्यधस्तां समालोक्य हर्म्ये कायस्थसुन्दरीम् ।
तत्प्रातिवेश्मिकसुताः कुलीना जगुरङ्गनाः ॥ १.१४८ ॥
[इति] नर्ममालायां प्रथमः परिहासः ॥


द्वितीयः परिहासः सम्पाद्यताम्

सापि बालकुरङ्गाक्षी यौवनेन प्रमाथिना ।
भिद्यमानेव दर्पेण न ददर्श वसुन्धराम् ॥ २.१ ॥
श्वश्रूजनविरुद्धा सा तरुणप्रातिवेश्मिका ।
परिहासकथाशीला गीतवाद्यानुरागिणी ॥ २.२ ॥
चारुसौरभलिप्ताङ्गी न सा जग्राह कञ्चुकम् ।
दर्शयन्ती स्तनाभोगमर्धस्रस्तशिरोंशुका ॥ २.३ ॥
जृम्भमाणा परावृत्त्य साचीकृतविलोचना ।
जनमैक्षत लोलाक्षी वलितत्रिवलीलता ॥ २.४ ॥
अयत्नसाध्यां तां वीक्ष्य विटा ललितलोचनाम् ।
बभ्रमुस्तद्गृहोपान्ते निर्व्यापारगतागताः ॥ २.५ ॥
चिरं तदर्थिनश्चित्रवस्त्र*वेषविभूषिताः ।
सुगन्धितैलताम्बूलधूपादिव्ययकारिणः ॥ २.६ ॥
नियोगिधनबद्धाशाः स्त्रीरत्नप्राप्तिसोत्सुकाः ।
सस्मिताक्षिनिकोचादिविकारशतकारिणः ॥ २.७ ॥
तज्ज्ञैरप्यपरिज्ञातपदाश्छिद्रप्रतीक्षिणः ।
दंशकामा भुजङ्गास्ते लीलाकुटिलगामिनः ॥ २.८ ॥
शून्यां देवकुटीं गत्वा प्रसिद्धाः पारदारिकाः ।
द्वित्रास्तत्सङ्गमोपायं प्रातिवेश्म्या व्यचिन्तयन् ॥ २.९ ॥
एकोऽवदत्तत्र विटः सुलभैषा न संशयः ।
खल्वाटं तुन्दिलं वृद्धं स्वपतिं सहते कथम् ॥ २.१० ॥
नित्यप्रवासिनं लुब्धमीर्ष्यालुं सुरतासहम् ।
मत्तच्छागमदामोदं बहलष्ठीविनं शठम् ॥ २.११ ॥
सुतोपरोधोवन्ध्याया नास्या न च वयःक्षयः ।
न च दुःखाभिभूतासौ रागदग्धा न लक्ष्यते ॥ २.१२ ॥
एतैर्हि दोषैर्नायान्ति दुःशीला अपि योषितः ।
अपरः प्राह भवता साभिप्रायं विचिन्तितम् ।
प्रत्यासत्त्या परिचये किन्तु यत्नो विधीयताम् ॥ २.१३ ॥
विवाहयज्ञतीर्थादिदेवयात्रोत्सवैर्विना ।
न लभ्यते परिचयः परदारोपसर्पणे ॥ २.१४ ॥
सुचिरं प्रेक्षणं लोलकुन्तलोत्तालनं मुहुः ।
तत्सम्बद्धाः सापदेशाः कथास्त्यागप्रकाशनम् ॥ २.१५ ॥
भोगसौभाग्ययशसां प्रसिद्धिप्रतिपादनम् ।
मन्दमन्दं वचः स्वैरं तद्वाक्यश्रवणादरः ॥ २.१६ ॥
तन्मुखन्यस्तनयनं चुम्बनालिङ्गनं शिशोः ।
शिल्पसम्पादनं चास्या वस्त्रालङ्कर*णेक्षितम् ॥ २.१७ ॥
जाते परिचये माल्यताम्बूलादिसमर्पणम् ।
भित्तौ निपीडनं गाढं विजने परिचुम्बनम् ॥ २.१८ ॥
गुह्यस्पर्शो रतिश्चेति शीलविध्वंसयुक्तयः ।
इत्थं का नाम न मया कृता शीलपराङ्मुखी ॥ २.१९ ॥
नियोगिभार्या लभ्यैव सर्वदा गमनोन्मुखी ।
इति पारदारिकः ।
अथावदत्तृतीयोऽपि स्वाधीनं सर्वमेव नः ।
किन्त्वत्र विधिवैमुख्याद्विघ्नः समुपलक्ष्यते ॥ २.२० ॥
योऽयं तीक्ष्णाक्षपटले चित्रगुप्तविचेष्टितः ।
निःशेषजीवनातङ्कविधायी निर्गुटान्तकः ॥ २.२१ ॥
भारकोच्छृङ्खलायासखण्डलेख्यादियुक्तिभिः ।
निर्गुटाः प्रापिता येन गोपालपशुपालताम् ॥ २.२२ ॥
न कालो यदि नामासौ तत्किं जीवनहृन्नृणाम् ।
पक्षा .. .. .. .. .. श्चेत्तत्किमेकाङ्गनाशनः ॥ २.२३ ॥
कियन्तोऽद्य मृताः कुत्र पृच्छन्निति मुहुर्मुहुः ।
मृतजीवी श्वतुल्योऽसौ भुङ्क्ते कापालिकव्रतम् ॥ २.२४ ॥
हरणोद्यतहस्तोऽसौ साधूनामपि वर्तने ।
सदोषैर्दीयतेऽस्माभिर्न[र]काय तिलाञ्जलिः ॥ २.२५ ॥
यद्यप्यसौ स्नुषाकामी कल्यपालकुलोज्ज्वलः ।
तथापि सर्वः सर्वज्ञः परदोषानुदर्शने ॥ २.२६ ॥
अथवास्त्येव मे मित्रं शक्तिमान्राजवल्लभः ।
वाङ्मात्रेणैव नः सर्वं संरक्षिष्यति जीवनम् ॥ २.२७ ॥
अगारदाहिनो धेनुस्त्रीशिशुब्राह्मणान्तकाः ।
बहवो रक्षितास्तेन दिग्वार्तामात्रसेवकाः ॥ २.२८ ॥
इति जीवनदिविरः ।
गृहं नियोगिकान्तायाः प्रविशत्यतिनिर्भरम् ।
एषा श्रमणिका नित्यं कुट्टनी वज्रयोगिनी ॥ २.२९ ॥
या माता वश्ययोगानां जाराणां सिद्धदूतिका ।
नरोपपत्तिदीक्षासु स्त्रीणां समयदेवता ॥ २.३० ॥
अरुन्धतीमपि क्षिप्रं प्रतारयति लीलया ।
पुराणपुंश्चली सा हि जाह्नवीं मन्यते तृणम् ॥ २.३१ ॥
सा समीहितमस्माकमचिरेण विधास्यति ।
इत्युक्त्वा ते ययुर्धूर्ता वृद्धश्रमणिकागृहम् ॥ २.३२ ॥
श्रमणिका ।
कदाचिदथ तामेव हर्म्ये हरिणलोचनाम् ।
सत्त्रभोजनपूर्णाङ्गः पुनरायातयौवनः ॥ २.३३ ॥
निर्दग्धचन्दनस्फारतिलकः पृथुजूटभृत् ।
मायूरोपानदामन्दमन्दरारावगर्वितः ॥ २.३४ ॥
कक्षान्तसंवृतपटो ब्राह्मणानपि न स्पृशन् ।
रे रे दासीसुतेत्यादि जनं कोपेन भर्त्सयन् ॥ २.३५ ॥
मलपत्रं वहन्मूर्खो ददर्श मठदैशिकः ।
सहसा विस्मयाविष्टो दष्टो मकरकेतुना ॥ २.३६ ॥
नियोगिगृहबालानामुपाध्यायमुपेत्य सः ।
आययौ मासमूल्येन नित्यमक्षरशिक्षकः ॥ २.३७ ॥
लब्धप्रवेशस्तामेव ध्यायन्धू[र्तः] पपाठ सः ।
जानन्नपि लिपिं सर्वामोंकारमलिखच्छनैः ॥ २.३८ ॥
कौतुकाद्गृहनारीभिर्वृतस्तस्थौ तदुन्मुखः ।
उपाध्यायोऽपि दीनारगणनां विदधद्धिया ॥ २.३९ ॥
अष्टावतारस्तोत्रेण सर्वज्ञ इव गर्वितः ।
दैशिकं पाठयामीति सोऽभूदधिकमुद्धतः ॥ २.४० ॥
पान्तु नो भगवत्पादा जघन्यजनवत्सलाः ।
परलोकस्य हन्तारो गमने क्षेमकारिणः ॥ २.४१ ॥
भाभूतो कुङ्कुमार्द्रौ _ रैनैसद्दृशौ
_ _ _ _ _ _ मुसिमुसि लक्षणौ फेनपर्वौ ।
_ _ _ _ _ _ मणिकनकधरौ दिव्यगन्धानुलिप्तौ
सङ्ग्रामेण प्रविष्टौ पलुप नौ लभ्यतां राज्यलक्ष्मीः ॥ २.४२ ॥
गङ्गायमुनयोर्बिल्ववृषभं *पूर्णकुम्भयोः ।
पञ्चचन्दन ली पट्टबन्धं भविष्यति (?) ॥ २.४३ ॥
इत्यादि दत्त्वा बालानां नित्यं फलहकेषु सः ।
वर्षं तिष्ठति निःशंको गणयन्मासवेतनम् ॥ २.४४ ॥
कर्तनं लिखनं सूचीपट्टिकावानमौषधम् ।
कुर्वन्न *वेत्ति पुरतः स्थितान्नो वा कुमारकान् ॥ २.४५ ॥
उपाध्यायेत्यभिहितो वक्ति क्रोधाग्निना ज्वलन् ।
गान्धर्विकश्चर्मकृद्वा किं तवास्मीति निष्ठुरः ॥ २.४६ ॥
इति दार्कोपाध्यायः ।
सस्मितं सस्मितालापं मुहुर्गोष्ठीविधायिनम् ।
नियोगिकान्ता पश्यन्ती दैशिकं नाचलत्ततः ॥ २.४७ ॥
स भाषां बुद्ध्यमानोऽपि तत्तत्स्त्रीभिरुदाहृताम् ।
किं भणन्तीति पप्रच्छ प्रोल्लसद्भ्रूलतो मुहुः ॥ २.४८ ॥
स ताभिर्नर्मसोत्प्राससाधिक्षेपविडम्बनैः ।
आयास्यमानो मत्ताभिरभूत्प्रहसिताननः ॥ २.४९ ॥
नायं किञ्चिन्महाभागो जानाति न च बुध्यते ।
इति नो भेजिरे लज्जा विवस्त्रा अपि तस्य ताः ॥ २.५० ॥
ऋष्यशृङ्गव्रतः सोऽथ वि .. .. .. .. .. .. .. ।
तासां गोष्ठीरसाभिज्ञः स्तनौ पस्पर्श पाणिना ॥ २.५१ ॥
स बीजाश्व इवोत्सृष्टो वडवामण्डले युवा ।
सिषेवे ललनाः सर्वाः प्रोषितस्य नियोगिनः ॥ २.५२ ॥
भ्रातृजायां स्वसारं च तां च भार्यां मृगीदृशम् ।
अन्याश्चास्य सदा स्वैरमकामयत दैशिकः ॥ २.५३ ॥
तास्तेन जारगुरुणा कृतदीक्षा वराङ्गनाः ।
बभूवुः सर्वगामिन्यो निर्विकल्पव्रते स्थिताः ॥ २.५४ ॥
इति मठदैशिकः ।
तया श्रमणिकादूत्या ततस्तेऽपि कृतोद्यमाः ।
धूर्ताः स्वाधीनतां प्राप्तां स्वैरिणीं तां सिषेविरे ॥ २.५५ ॥
अथाधिकारी तरुणीं सोत्कण्ठस्तां स्मरन्प्रियाम् ।
भृतवस्त्रो विवेशाशु मिथ्याग्रामचिकित्सया ॥ २.५६ ॥
स सेवार्थं समानीतघृतमाक्षिकसर्पिषा ।
भारिकैर्धनिकैर्भीत्या नगरं समपूरयत् ॥ २.५७ ॥
प्राप्तं विलोक्य सुचिरात्तं दृष्टानेककामुका ।
पीवरं ग्राम्यमासन्नरोगं पूर्णमिवाम्बुना ॥ २.५८ ॥
तां च मेषघृतामिक्षाकिलाटमधुसम्पदम् ।
रुरोदैकेन नेत्रेण जहासान्येन तद्वधूः ॥ २.५९ ॥
इदं सुरुचिरं वस्त्रं क्रीतमाभरणञ्च ते ।
तस्येतिवादिनो दृप्ता सा चक्रे सर्वमश्रुतम् ॥ २.६० ॥
सा शिरोवेदनाव्याजनिबद्धाभ्यङ्गपट्टिका ।
स्तनन्ती सस्वनं पत्युर्नाभवत्पार्श्ववर्तिनी ॥ २.६१ ॥
ततो वाचाल[वा]चालमालाकलकलाकुले ।
गृहे तस्याभवद्व्यग्रग्राम[दा]से महोत्सवः ॥ २.६२ ॥
दिनान्ते बहुभक्ताशी लोहितासवदुर्मदः ।
नियोगी शयने तस्थौ कुम्भकर्ण इवापरः ॥ २.६३ ॥
अथ कृच्छ्रादिवाभ्येत्य रात्रिशेषे तदङ्गना ।
आलिङ्गने समुद्विग्ना चुम्बने वलितानना ॥ २.६४ ॥
रुन्धाना जघनस्पर्शमूरुस्वस्तिकनिश्चला ।
गृहव्यापारखिन्नेव निद्रां चक्रे मुधैव सा ॥ २.६५ ॥
ततः प्रभाते प्रसृते भूर्जभाण्डादिके पुरः ।
वदन्ती सर्वगात्रेषु शूलं साप्यकरोत्क्लमम् ॥ २.६६ ॥
अथाहूतः परिजनैर्वैद्यो मद्यामिषप्रियः ।
निधिं हस्तगतं दैवान्मन्यमानः समाययौ ॥ २.६७ ॥
सभार्तृका ।
नमो विद्याविहीनाय वैद्यायावद्यकारिणे ।
निहतानेकलोकाय *सर्पायेवापमृत्यवे ॥ २.६८ ॥
भ्रान्तो गृहशतं तूर्णं भाराक्रान्त इवोच्छ्वसन् ।
ललाटस्वेदसलिलं पाणिना विक्षिपन्मुहुः ॥ २.६९ ॥
वहन्नौषधसङ्केतनामसंयोगचीरिकाम् ।
कृतान्ताधिकृतस्याग्राद्यः प्रायस्थ इवागतः ॥ २.७० ॥
चिकित्सकोऽर्थप्राणानां व्याधीनामचिकित्सकः ।
आजीवमीश्वरः शूली येन न त्यज्यते जनः ॥ २.७१ ॥
स वैद्यः कालकूटो वा व्यालो वेताल एव वा ।
भूयसा याति मांसेन यः क्षिप्रमनुकूलताम् ॥ २.७२ ॥
स वैद्य एव कुपितो वायुरायुःक्षयङ्करः ।
हस्तस्पर्शेन त्रिमलक्षालकः क्षपितेन्द्रियः ॥ २.७३ ॥
कृच्छ्रसन्न्यासकृत्पुंसां प्राणाचार्यः किमुच्यते ।
स्थितं भुक्तं नु पीतं नु वैद्येनेति प्रलापिनः ॥ २.७४ ॥
या .. विधत्ते यत्नेन भिषगार्तोपजीवकः ।
नगरोत्सवयात्रासु विवाहेष्वतिभोजनात् ।
जनता याति यन्मान्द्यं तद्वैद्यस्य शनेः फलम् ॥ २.७५ ॥
गुह्याङ्गस्पर्शकृत्स्त्रीणां बह्वाशी जीवितापहः ।
नृणां त्रिदोषकृत्सत्यं वैद्य एव न तु ज्वरः ॥ २.७६ ॥
विद्याविरहिता वैद्याः कायस्थाः प्रभविष्णवः ।
दुराचाराश्च गुरवः प्रजानां क्षयहेतवः ॥ २.७७ ॥
उपसृत्य स पस्पर्श स्तनौ तस्याः सुसंहतौ ।
कठिनौ सततस्पर्शौ खलः खलतराविव ॥ २.७८ ॥
लङ्घनं सहते नैषा हितं शूले न वृंहणम् ।
करोतु मम चिन्तासु सर्वाहारं मया सह ॥ २.७९ ॥
जडा ह्यस्याः स्थिता बुद्धिर्धातुश्च विषमः स्थितः ।
{तस्मात्स्निग्धा दधि} पूर्वमत्र योज्यं सशर्करम् ॥ २.८० ॥
इत्युक्ते वैद्यनाथेन स्त्रीभिः तूर्णं ससम्भ्रमम् ।
आहूतः पादपतनैर्ज्योतिर्गणक आययौ ॥ २.८१ ॥
वैद्यः ।
ज्योतिःशास्त्रविदे तस्मै नमोऽस्तु ज्ञानचक्षुषे ।
वर्षं पृच्छत्यवर्षं वा धीवरान्यो विनष्टधीः ॥ २.८२ ॥
ग्रहनक्षत्रताराणां संख्यानेऽप्यकृतश्रमः ।
अतीतानागतज्ञानदम्भाय मलपत्रभृत् ॥ २.८३ ॥
तव वर्षत्रयीमध्ये कश्चिद्वित्तव्ययो भवेत् ।
ज्वरश्च नेत्रपीडा च लाभांशोऽप्यविचिन्तितः ॥ २.८४ ॥
न कश्चिदुपकारं ते मन्यते शत्रवश्च ते ।
सन्ति तेभ्यो भयं देहरक्षायां नैव बाधते ॥ २.८५ ॥
दुर्बलो दृश्यसे भ्रातर्यूषं न कुरुषे कथम् ।
अप्यस्ति कामला नूनं तां मन्त्रेण नुदाम्यहम् ॥ २.८६ ॥
इति साधारणज्ञानमन्त्रवैद्यकमिश्रितम् ।
ज्योतिःशास्त्रं विगणयन्यो मुष्णाति जडाशयान् ॥ २.८७ ॥
प्राङ्नियोगिवधूवृत्तं जानन्नपि जनश्रुतम् ।
धूर्तो धूलिपटे चक्रे राशिचक्रं मुधैव सः ॥ २.८८ ॥
क्षिप्ते नियोगिना तत्र दीनारकुसुमोत्करे ।
दम्भस्तब्धश्चिरं तस्थौ स्वाङ्गुलीगणनापरः ॥ २.८९ ॥
ततोऽवदन्मन्दमन्दं प्रोत्क्षिप्तभ्रूलतो मुहुः ।
इयमापाण्डुरमुखी रतिकामेन पीडिता ॥ २.९० ॥
दुर्निवारश्च नारीणां पिशाचो रतिरागकृत् ।
पुनः शून्यगृहे स्नाता गुह्यकेन निरम्बरा ।
गृहीतेत्यत्र पश्यामि चक्रे शुक्रसमागमात् ॥ २.९१ ॥
इति गणकः ।
ततः प्रयाते गणके चिन्तिते शुक्रपूजने ।
निर्यत्पलालपूलीकः पादतो धूलिधूसरः ॥ २.९२ ॥
दामबद्धकटिर्ग्राम्यः शीर्णनिष्क .. .. लकः ।
विसृष्टं तत्सहायेन ददौ लेखं नियोगिनः ॥ २.९३ ॥
एडिकाव्यपदेशेन गावः पादैर्हृता दश ।
तासां मध्यान्मृताः पञ्च पञ्च शेषाः स्थिताः खले ॥ २.९४ ॥
तन्मुक्तये त्वरायाताः सहन्तोऽपि दिनत्रयम् ।
तदभावेऽपि लाभस्ते ग्रामे दण्डः पतिष्यति ॥ २.९५ ॥
घृतनाडीनिमित्तेन यश्चासौ बन्धने धृतः ।
सोऽपि विप्रो निराहारस्तीक्ष्णः पञ्चत्वमागतः ॥ २.९६ ॥
पादान्तिके च प्रहितं तस्य प्रधनपत्रकम् ।
बद्धं मया तत्कलत्रं मुद्रितं सकलं गृहम् ॥ २.९७ ॥
यान्स्कन्धकनिमित्तेन प्रायस्थान्परिपालकः ।
प्रददौ मासवृत्त्यैव ते मया तद्गृहे धृताः ॥ २.९८ ॥
धान्यराशिः प्रभूतोऽस्ति तूर्णमागम्यतामिह ।
तात्पर्यमिति विज्ञप्ताः पादा ज्येष्ठार्कवासरे ॥ २.९९ ॥
ख्वाशपतिः तूणरक्षको ।
वाचयन्नित्यसौ लेखं तस्य कर्मण्यतां *ततः ।
प्रशशंस सहायस्य नियोगी हर्षनिर्भरः ॥ २.१०० ॥
सोऽभूत्पूर्वतरं बौद्धस्ततो दम्भाय वैष्णवः ।
रक्षार्थमथ भार्याया जातकौलागमादरः ॥ २.१०१ ॥
आनिनाय गुरुं गर्वदम्भलोभनिकेतनम् ।
मायाकुहकलौल्यानां दीक्षासमयमण्डलम् ॥ २.१०२ ॥
नमस्ते गुरुनाथाय धनदारापहारिणे ।
क्षोभिणे सर्वभक्षाय यक्षायेव क्षपाशिने ॥ २.१०३ ॥
*भालन्यस्तार्धसिन्दूरपत्त्रिकापुष्पगुच्छकः ।
बि[न्दू]पबिन्दुनित्यार्द्रमहालालाटकर्परः ॥ २.१०४ ॥
कर्णमूलशिखामात्रग्रथितस्वल्पजूटिकः ।
कुङ्कुमाङ्कितकर्णाग्रः काचराक्षो महाहनुः ॥ २.१०५ ॥
खल्वाटो विरलश्मश्रुर्दीर्घवाक्प्रस्खलन्क्वचित् ।
बिभ्राणो वदनं वृद्धमहिषीभगविभ्रमम् ॥ २.१०६ ॥
क्षणात्पिबति यो मद्यघटं घटघटारवैः ।
तस्य कण्ठप्रणालस्य स्थौल्यं केनोपमीयताम् ॥ २.१०७ ॥
मद्यमांसदुरामोदमलिनं योगपट्टकम् ।
दधानः स्तनसम्पूर्णं वक्षसा *राक्षसाकृतिः ॥ २.१०८ ॥
सिन्दूरपूर्णगम्भीरनाभिरन्ध्रोपशोभितः ।
लोपिकापूप*शफरामिक्षाभृतमहोदरः ॥ २.१०९ ॥
मधुमांसकृताजीर्णप्रत्यग्रामोददुःसहान् ।
धूमोद्गार*गडत्कारान्मुञ्चन्मेघ इवाकुलः ॥ २.११० ॥
गुरुर्गुरुतराविद्यावद्यमद्यमदान्धधीः ।
अहंकार इवाकारमागतः प्रत्यदृश्यत ॥ २.१११ ॥
आकारेण गुरुर्गुरुश्च वचसा कौसीद्यमौर्ख्यैर्गुरुर्
मेढ्रेणातिगुरुस्तथास्यकुहरश्मश्रूदरस्फिग्गुरुः ।
वेश्याकामिनियोगिवञ्चनगुरुः सद्वृत्तशून्यो गुरुश्
चित्रं सर्वगुरुः शिवोदितमहाशिक्षासु नित्यं लघुः ॥ २.११२ ॥
अपि नाम स जायेत पवित्रचरितः क्षितौ ।
अशौचनिधयो येन गुरवो नोपसेविताः ॥ २.११३ ॥
अहंपूर्विकया सर्वे पतितास्तस्य पादयोः ।
चक्रुः शिरोभिर्भूकम्पलुठत्पिठरकभ्रमम् ॥ २.११४ ॥
रक्षायै निजभार्यायाः सम्पदां च विवृद्धये ।
नियोगिना यागविधौ विज्ञप्तो भगवान्गुरुः ॥ २.११५ ॥
लिखित्वा कुङ्कुमेनाशु स्वल्पसम्भारचीरिकाम् ।
हृष्टः प्रातः समेष्यामीत्युक्त्वा प्रायात्सहानुगैः ॥ २.११६ ॥
गुरुः ।
श्वशुरो यागसम्भारे यत्नाहूतो नियोगिना ।
*पापी धर्माधिकरणदिविरोऽथ समाययौ ॥ २.११७ ॥
तस्मै नमोऽस्तु नगराचार्यवर्याय भोगिने ।
यस्य हस्ते स्थिता भूमिः सशैलवनकानना ॥ २.११८ ॥
करोति प्रश्रयं वक्ति मधुरं दिविरः पुरः ।
जरच्छगलशृङ्गाभां न च त्यजति वक्रताम् ॥ २.११९ ॥
कलमाङ्कितकर्णेन भूर्जपत्रकपाणिना ।
आस्थानदिविरेणेयं ग्रस्ता भगवती मही ॥ २.१२० ॥
मिथ्या महावराहेण दैत्येष्वाडम्बरः कृतः ।
आस्थानदिविरैर्ग्रस्ता यदियं नोद्धृता क्षितिः ॥ २.१२१ ॥
उत्थाय वेश्याशयनात्प्रभाते मद्यघूर्णितः ।
धनार्थी दिविरः शस्तमुखं द्रष्टुं प्रतीक्षते ॥ २.१२२ ॥
नूनं निशि भगापानं करोति दिविरः सदा ।
प्रातः प्रातर्मृदा वक्त्रं क्षालयत्यन्यथा कथम् ॥ २.१२३ ॥
स्नातो मृद्दर्भतिलभृत्करोति सुचिरं जपम् ।
दिविरः कूटसंकेतपटीपात्राणि चिन्तयन् ॥ २.१२४ ॥
विप्रं पुरः समायान्तं थूत्कृत्य त्वरितः पुनः ।
प्रविश्य गेहं निर्याति शङ्कमानः पराभवम् ॥ २.१२५ ॥
श्रीकामो गोमयभ्रान्त्या वन्दते श्वशकृत्पथि ।
पुरश्चाप्तां सिद्धिकामश्चण्डालीं सकरण्डकाम् ॥ २.१२६ ॥
सुप्रभाततरायातैः सकष्टशटिलैर्वृतः ।
आस्थानं याति कलयन्भृष्टमांसं सपानकम् ॥ २.१२७ ॥
भूर्ज*पेटलडत्क्लिन्नमषी सुभृतभाजनः ।
कथयन्निव गन्धेन भाविनीं नरकस्थितिम् ॥ २.१२८ ॥
मषीविषार्द्रया निघ्नन्साधून्कलमदंष्ट्रया ।
आस्थानजलधेरन्तर्दिविरो मकरायते ॥ २.१२९ ॥
तन्मषीविप्रुषस्तस्य दृश्यन्ते कलमच्युताः ।
भुवो विलुण्ठ्यमानायाः साञ्जनाश्रुकणा इव ॥ २.१३० ॥
अधोमुखा विमानेभ्यः पतन्तो दिवि रोदनम् ।
कुर्वन्ति पितरस्तस्य यो भुङ्क्ते दिविरोदनम् ॥ २.१३१ ॥
जामातुः श्रीमतो दृष्ट्वा स गृहं हर्षनिर्भरः ।
अचिन्तयत्कदास्यापि षटिर्दैवाद्भवेदिति ॥ २.१३२ ॥
आस्थानदिविरः ।
तत्सङ्गत्याप्यदृश्यन्त भूर्जभट्टा भयङ्कराः ।
तद्गृहे कलयन्तोऽन्तस्तस्य स्थावरविप्लवम् ॥ २.१३३ ॥
संहरन्ति सदा लोकान्ये सस्थावरजङ्गमान् ।
तेभ्यः प्रलयकारिभ्यो भट्टेभ्योऽस्तु नमो नमः ॥ २.१३४ ॥
षटीपाशसमाकृष्टः प्राप्तोऽधिकरणं भयात् ।
साधुर्निगीर्यते भट्टैर्मत्स्यैरिव जले बलिः ॥ २.१३५ ॥
भट्टैर्भट्टैः सदिविरैः शटीनिपतितो जनः ।
मुच्यते नास्थिशेषोऽपि रक्तक्षीबैरिव श्वभिः ॥ २.१३६ ॥
ब्राह्मण्याद्ये हता नैव रामेण ब्रह्मराक्षसाः ।
आस्थानभट्टास्ते मन्ये सदा खादन्ति मानुषान् ॥ २.१३७ ॥
कृतः पराजितो जेता जयी यैश्च पराजितः ।
तेषां स्वतन्त्रवचसां वचसा केन जीव्यते ॥ २.१३८ ॥
अन्ते नरकपालैर्ये वृता वेतालतां गताः ।
षट्यन्तःकृतहृद्घण्टा भट्टास्ते कस्य नान्तकाः ॥ २.१३९ ॥
पश्यन्नन्धो वदन्मूकः शृण्वंश्च बधिरोऽधमः ।
उत्कोचेन विना भट्टश्चिरं निद्रायते शठः ॥ २.१४० ॥
उत्कोचभक्षणं छिद्रशिक्षणं साधुतक्षणम् ।
षटिसन्धुक्षणं कूटरक्षणं भट्टलक्षणम् ॥ २.१४१ ॥
चर्मकृन्नर्तकीभ्राता सङ्गत्या नर्तकोऽभवत् ।
सोऽथ गारुडकल्पज्ञः प्रयातः सस्यपालताम् ॥ २.१४२ ॥
सोऽपि ग्रामगणेशस्य प्राप्तः प्रासादपालताम् ।
सन्धिविग्रहकायस्थचाक्रिकासेवकोऽधमः ॥ २.१४३ ॥
भट्टत्वमाप्तवान्दूतो *द्रङ्गदेशगतागतात् ।
तस्य पुत्राश्च पौत्राश्च सर्वेऽधिकरणद्विजाः ॥ २.१४४ ॥
कुतोऽन्यथा भवत्येषां वचश्चर्मकृतामिव ।
कक्षे सुमहती भस्त्रा शटिदीनारभाजनम् ॥ २.१४५ ॥


इति अधिकरणभट्टाः सातिका वा ।
इति नर्ममालायां द्वितीयः परिहासः ॥


तृतीयः परिहासः सम्पाद्यताम्

अथ यागोत्सवे तस्मिन्सर्वे दिविरबान्धवाः ।
अलङ्कृताश्च ललना नियोगिगृहमाययुः ॥ ३.१ ॥
खटिका करणी हैमी पारतो रत्नमूटिका ।
सिन्दूराद्या रजोभेदाः पञ्चरङ्गकसूत्रकम् ॥ ३.२ ॥
शालिचूर्णं सितच्छत्रं श्वेतवस्त्रं वितानकम् ।
नाराचाः क्षुरिका सूत्रं दर्पणं वीरकर्तरी ॥ ३.३ ॥
पताका व्यजनं कूर्चः पुष्पलक्षाणि षोडश ।
वार्धनीकलशौ ताम्रौ तिलास्तैलं मृगाजिनम् ॥ ३.४ ॥
स्रुक्स्रुवौ समिधो दर्भा लाजाः सिद्धार्तका घृतम् ।
बिल्वपूगफलाक्षोटजातीफलयवाक्षतम् ॥ ३.५ ॥
धूपकुङ्कुमकर्पूरकौतुकौषधिचन्दनम् ।
पादुकापीठपर्यङ्कघण्टिकाघटकुण्डकम् ॥ ३.६ ॥
मद्यमांससुरापूपपलाण्डुशफरौदनम् ।
पिष्टभृष्टरसस्वच्छभक्ष्यरोचकमोदकम् ॥ ३.७ ॥
चटकापूर्णपात्राणि क्षीरिणी कृसरा दधि ।
दश कृष्णा दश श्वेताश्छागा मेषाश्चतुर्दश ॥ ३.८ ॥
भस्त्रा चेत्यादिसम्भारश्चीरिकालिखितं क्षणात् ।
सज्जीकृतं श्रीसचिवैर्भोगमित्रैर्नियोगिनः (?) ॥ ३.९ ॥
ततो नित्यावधानेन भगलिङ्गविभूषितम् ।
चकार मण्डलं शिष्यः सिन्दूरान्तरितान्तरम् ॥ ३.१० ॥
अथात्मारामतादम्भमीलिताघूर्णितेक्षणः ।
गुरुर्गृहीतः शिष्याभ्यां सव्यदक्षिणहस्तयोः ॥ ३.११ ॥
शतमात्रेणानुयातः शिष्याणामाययौ शनैः ।
लुण्ठिं कर्तुमिवात्युग्रो नगराधिपतिः स्वयम् ॥ ३.१२ ॥
चर्मकृत्सौनिकश्चक्री धीवरो हट्टतापसः ।
वृद्धवेश्या कल्यपालो मद्यभट्टो जरद्विटः ॥ ३.१३ ॥
पञ्च नारङ्गका रुग्णास्त्रिटाङ्कारोऽथ पाचकः ।
गोभक्षो भैरवाचार्यः कुलाचार्योऽथ वायकः ॥ ३.१४ ॥
चूलिकाकृतरुद्राक्षो घटिलश्छिन्ननासिकः ।
महाव्रती भगमुखः शैवाचार्यस्त्रिघण्टिकः ॥ ३.१५ ॥
नग्नो वेलाव्रती मौनी स्तोत्रकृज्जानुघण्टिकः ।
द्वित्राश्चोन्मत्तवनिताः श्वभिः परिवृतास्तथा ॥ ३.१६ ॥
गूथलिप्तस्तथोन्मत्तो मन्त्रवादी रसायनी ।
इन्द्रजाली लतावेशी विज्ञानी कामतात्त्विकः ॥ ३.१७ ॥
भट्टाश्चान्ये गुरोर्धूर्ताः पानभोजनसेवकाः ।
विविशुः स्विन्ननैवेद्यामोदवक्त्रोदकाकुलाः ॥ ३.१८ ॥
अथामपक्वसंहारकारिणः सर्वहारिणः ।
मत्ता गुरुभट्टाश्चक्रुस्तिलधूपघृतक्षयम् ॥ ३.१९ ॥
एको द्वौ बहवः पश्चान्निन्युस्ते भस्त्रया तथा ।
शालिचूर्णयवाक्षोटबिल्वार्घघृतचन्दनम् ॥ ३.२० ॥
इति गुरुभट्टाः
ततः स्वभगिनी रण्डा बालैव व्रतशालिनी ।
धृता नियोगिना यागपरिचर्याविधौ गुरोः ॥ ३.२१ ॥
जयत्यखण्डशीतांशुमण्डलद्युतितस्करी ।
पुण्डरीकमुखी रण्डा नवयौवनमण्डिता ॥ ३.२२ ॥
मदशौण्डं समुद्दण्डचण्डं सुखकरण्डकम् ।
विना चण्डरतोद्घृष्टं रण्डा खण्डितमानसा ॥ ३.२३ ॥
विस्तीर्णश्रोणिपुलिना पीवरोरुकुचस्थली ।
हरिणीहारिनयना रण्डा नेत्ररसायनम् ॥ ३.२४ ॥
रण्डा स्कन्धद्वयासक्तमुक्तकेशी विराजते ।
नेत्रोत्पलमुखाम्भोजभृङ्गव्याप्तेव पद्मिनी ॥ ३.२५ ॥
निःसूत्ररुचिरः कण्ठः सुवर्णसुभगो भगः ।
रण्डायाः कर्णपाशौ च निराभरणसुन्दरौ ॥ ३.२६ ॥
पुष्पताम्बूलरहिता रण्डा सन्त्यक्तभूषणा ।
लावण्येनातिमात्रेण संविभक्तेव वेधसा ॥ ३.२७ ॥
हारेण किं सुमध्यायाः सुकेश्याः कुसुमेन किम् ।
किमञ्जनेनायताक्ष्या रण्डाया मण्डनेन किम् ॥ ३.२८ ॥
किं धर्मो यत्र नो रण्डा धिक्सुखं रण्डया विना ।
रण्डाहीनोऽस्तु मा मोक्षः प्रौढैरित्युदितं विटैः ॥ ३.२९ ॥
रण्डा विलोक्य तरुणं करोति भ्रुकुटिं मृषा ।
कण्ठग्रहं चिन्तयन्ती मनसा तु प्रहृष्यति ॥ ३.३० ॥
संस्मरन्ती रतिसुखं पीवरोरुकुचस्थली ।
रण्डा भगस्थलीं रात्रौ मृद्नात्युच्छ्वासिनी सदा ॥ ३.३१ ॥
वीक्षते तरुणं तिर्यक्कान्तं सुभगमानता ।
स्रवन्ती निर्भरं रेतो रण्डा धेनुः पयो यथा ॥ ३.३२ ॥
गौरः सुपीवरो धत्ते रण्डाया मुण्डितो भगः ।
मेरोरर्कहयोल्लीढशष्पहेमतटभ्रमम् ॥ ३.३३ ॥
तुरगाद्याचितानीतस्तब्धदीर्घध्वजो नरः ।
यदि नाम रते शक्तो रण्डां तोषयितुं न वा ॥ ३.३४ ॥
श्राद्धेषु मुग्धविप्राणां जटिनां च तपस्विनाम् ।
वशे पतति धन्यानां रण्डा रसतरङ्गिणी ॥ ३.३५ ॥
चूलिकान्यस्तकुसुमः कर्णे कृतपवित्रकः ।
युवा रण्डाप्रियो विप्रः कन्दर्पेणोपमीयते ॥ ३.३६ ॥
उदञ्चद्गुरुदण्डस्य चण्डस्य ब्रह्मचारिणः ।
रण्डा ददाति सततं श्रद्धया मृतभोजनम् ॥ ३.३७ ॥
तमेव तीर्थयात्रासु पश्चान्नयति सर्वदा ।
वहन्ती खड्गपात्रेण बलिधूपसमुद्गिकाम् ॥ ३.३८ ॥
परस्परप्रार्थनया सुमुण्डितभगध्वजौ ।
भूकम्पकारिणौ रात्रौ तौ रण्डाब्रह्मचारिणौ ॥ ३.३९ ॥
दिवा दम्भनिधानाय नमस्तीर्थोपसेविने ।
रात्रौ रण्डाभगापानक्षीबाय ब्रह्मचारिणे ॥ ३.४० ॥
रण्डा जटाभृतां भीत्या गौडलाटतपस्विनाम् ।
ददाति .. र्जितां प्रीत्या तल्लिप्तोरु .. वासकृत् ॥ ३.४१ ॥
गत्वा गुरुगृहं रण्डा पत्युः पर्वदिने सती ।
कषन्ती कटिमा .. भी रण्डा निर्दयमोहनैः ॥ ३.४२ ॥
रण्डा तत्तन्मृतोद्धारदीक्षादिव्रतकारिणी ।
ददाति निशि निःशङ्का कामसत्त्रं तपस्विनाम् ॥ ३.४३ ॥
लिङ्गार्चनापदेशेन दत्त्वा वेश्मनि तालकम् ।
करोति चर्मलिङ्गेन रण्डा कण्डूविखण्डनम् ॥ ३.४४ ॥
तयोपचर्यमाणोऽथ मृगाक्ष्या गुरुराकुलः ।
शिष्याश्च तां पपुर्नेत्रैः क्षुधार्ताः क्षीरिणीमिव ॥ ३.४५ ॥
[इति] रण्डा ।
ततः प्रविविशुस्ते ते दीक्षासमयिनो नराः ।
बद्धनेत्रपटा मिथ्यामोहेनेवान्धकारिताः ॥ ३.४६ ॥
अथ व्यजिज्ञपद्भूमिन्यस्तजानुः कृताञ्जलिः ।
गुरुं नियोगिनः {श्रद्धाशुद्धान्तं} हट्टतापसः ॥ ३.४७ ॥
इहैव सुचिरं नाथ यागव्यग्रे त्वयि स्थिते ।
प्रतीक्षन्ते परे शिष्या यागोत्सवसमुत्सुकाः ॥ ३.४८ ॥
य एष प्रथितो लोके गृहकृत्ये महत्तमः ।
कृतयागसमारम्भः स भवन्तमुदीक्षते ॥ ३.४९ ॥
ब्रह्महत्यादि पापं यन्निःसंख्यं तस्य विद्यते ।
एकघण्टाटनत्कारमात्रेण भवता हृतम् ॥ ३.५० ॥
मन्यते स तृणं सर्वं सर्वसंहारपातकम् ।
यतो मूर्ध्नि त्वया हस्तस्तस्य पञ्चफणो धृतः ॥ ३.५१ ॥
त्वत्प्रसादात्समुत्तीर्णां स कामपि दशां श्रितः ।
शङ्करायतनेभ्योऽपि शैवः सर्वं जहार यत् ॥ ३.५२ ॥
सर्वस्वहरणं धर्मसत्कार्यं ब्राह्मणक्षयः ।
यत्तस्य निर्विकल्पस्य तत्तवैव विजृम्भितम् ॥ ३.५३ ॥
[इति] *गृहकृत्यमहत्तमः स्वकषणकामिकारो वा ।
त्वामियं नाथ गणिका निमन्त्रयितुमागता ।
घटीप्रतिष्ठा गेहेऽस्याः क्रियतां शिष्यवत्सल ॥ ३.५४ ॥
वितीर्णैर्भवता नित्यं वशीकरणचूर्णकैः ।
अस्थिशेषाः कृतास्ते ते यया धनिककामुकाः ॥ ३.५५ ॥
श्मशानकोशशपथैः क्षीणजिह्वाकराधरा ।
त्वद्रक्षारक्षितैवैषा कामुकच्छद्मचारिणी ॥ ३.५६ ॥
तैलोन्मृष्टे मनाक्स्नेहो वदने न तु चक्षुषि ।
वेश्यायाः क्षीणवित्तेषु संकोचो नान्त्यजातिषु ॥ ३.५७ ॥
यदि सद्भाविनी *वैश्या यदि कालः कृपापरः ।
अचौरो यदि कायस्थस्तद्वेश्याप्यनुरागिणी ॥ ३.५८ ॥
वेश्या ।
चक्षुर्वैद्योऽयमायातस्तपस्वी सर्वसंश्रयः ।
किंशारुवर्तिभिर्येन सर्वमन्धीकृतं जगत् ॥ ३.५९ ॥
ग्रीष्मेऽक्षिकोपबाहुल्यादस्य लग्ने शरत्फले ।
सम्पूर्णः क्रियतां यागः पाण्डुवल्लीनिरन्तरः ॥ ३.६० ॥
इति चक्षुर्वैद्यः ।
नापितः शल्यहर्तायं नृणां येनोपजीविना ।
नीतान्यण्डानि दुर्लेपैः स्थूलस्थालीप्रमाणताम् ॥ ३.६१ ॥
प्राक्प्रतिष्ठापिता येन चामुण्डामुण्डकार्थिना ।
*योऽसौ तस्यास्त्वया वर्षदिने यागं समीहते ॥ ३.६२ ॥
मूल्येन महता धीमान्नासासंश्लेषणाय यः ।
मांसपेषीमपि छित्त्वा ददाति स्ववधूभगात् ॥ ३.६३ ॥
शल्यहर्ता ।
अयञ्च तरुणीभार्यो वणिग्वृद्धो महाधनः ।
मैथुने शक्तिदारिद्र्याद्वाजीकरणमिच्छति ॥ ३.६४ ॥
लालिना स्रुतनेत्रेण वृद्धेन श्वासकासिना ।
श्लथप्रलम्बशिश्नेन तरुणी रमते कथम् ॥ ३.६५ ॥
आरूढोऽपि रते यत्नादुत्थानोपहतध्वजः ।
वृद्धः प्राप्नोति नो निद्रामृणं ध्यायन्निवाधनः ॥ ३.६६ ॥
निष्पीडितान्त्रसंकाशशिश्नोऽपि सुरतोत्सुकः ।
हस्तं दत्त्वा भगे वृद्धो निधानमिव रक्षति ॥ ३.६७ ॥
मांसक्षीरघृताहारं कृत्वा वृद्धो रताशया ।
रात्रौ वमति तत्सर्वं भजते वा विषूचिकाम् ॥ ३.६८ ॥
शुष्कचर्मोपमं वृद्धं मधुपर्के क्षणं पतिम् ।
सजने तरुणी दृष्ट्वा ह्रीता याति रसातलम् ॥ ३.६९ ॥
एतेन वृद्धवणिजा द्रव्यैर्वृद्धविटोदितैः ।
लिप्तलिङ्गेन सततं दग्धेवायासिता वधूः ॥ ३.७० ॥
स एष बहुनिक्षेपसंभक्षणकृतक्षणः ।
द्रविणावस्करक्षेत्रं वणिग्वासरतस्करः ॥ ३.७१ ॥
नृत्यति व्याधिकालेषु कुटिलः कलिपन्नगः ।
अज्ञाततृणकाष्ठादिविक्रयी द्रव्यनामभिः ॥ ३.७२ ॥
तरुणाकाङ्क्षिणीं वृद्धः प्रियामविचलेक्षणः ।
सोऽयं निरीक्षते दूरान्मृष्टं भोज्यमिवातुरः ॥ ३.७३ ॥
तस्मात्पौष्पिकमासाद्य क्रियतां मन्त्रसंपदा ।
गृहिणी रागिणी येन लब्धशक्तेः प्रजायते ॥ ३.७४ ॥
वृद्धवणिक् ।
इत्यादिशिष्यैराह्वानं श्रुत्वा तेन निवेदितम् ।
सर्वं करोमीत्यवदद्भ्रूविकाराकुलो गुरुः ॥ ३.७५ ॥
ततो दिनान्ते विपुलां कृत्वाग्रे शिवकुण्डिकाम् ।
गुरुणा सह ते शिष्याः पपुर्भुक्तोत्तरं चिरम् ॥ ३.७६ ॥
नियोगिललनाः सर्वास्ते च तन्मित्रबान्धवाः ।
कपालेषु तदुच्छिष्टं *वमित्वा बहुशः पपुः ॥ ३.७७ ॥
कश्चिद्गातुं प्रवृत्तोऽथ कश्चिद्रोदिति सस्वनम् ।
कश्चिद्व्याघूर्णते कश्चित्प्लवते कृतशूत्कृतिः ॥ ३.७८ ॥
कश्चिदत्यन्तवैकल्यं नाटयन्भक्तिसम्भवम् ।
निश्चेष्टस्तिष्ठति चिरं संप्राप्तः शवतामिव ॥ ३.७९ ॥
कश्चिद्विलोलस्रग्दामभूषितो मदनिर्भरः ।
कृतकण्ठग्रहः पुंसां चुचुम्ब ललना अपि ॥ ३.८० ॥
ततः क्षीबो गुरुः किं चित्स्वकाव्यं देशभाषया ।
वीणावंशरवोदग्रं कोच्छिकावाद्यकृज्जगौ ॥ ३.८१ ॥
अथैकभुजमानन्दादुद्यम्यैकेन पाणिना ।
गुरुर्ननर्त द्वाभ्यां च शनैरुत्थाय चासनात् ॥ ३.८२ ॥
ततः शिष्याः समुत्तस्थुरट्टहासनिनादिनः ।
कृताङ्गनापरिष्वङ्गा विस्रस्तकटिकर्पटाः ॥ ३.८३ ॥
शनैः प्रयाते रात्र्यर्धे विनष्टे दीपमण्डले ।
निर्विभागोऽभवत्तेषां रतिचक्रमहोत्सवः ॥ ३.८४ ॥
प्रभाते गुरुरुत्थाय त्वरया कलशप्रदः ।
कृतवद्विदधे सर्वं शिष्यैरन्यैर्निमन्त्रितः ॥ ३.८५ ॥
ज्वरादिकाले वैद्यानां शरत्काले नियोगिनाम् ।
पुष्पकाले गुरूणां च हेमपूर्णा वसुन्धरा ॥ ३.८६ ॥
अथाविशत्पृथुश्वासः कम्पमानः स्फुटन्निव ।
पार्श्वावलोकी पुरुषः परमाप्तो नियोगिनः ॥ ३.८७ ॥
सोऽब्रवीदद्य रात्र्यर्धे गृहकृत्यमहत्तमः ।
राजराशिधनं भूरि हृत्वा यातः सहानुगः ॥ ३.८८ ॥
अनुक्त्वापसृते तस्मिंस्तत्सम्बन्धिनियोगिनाम् ।
पलायनव्यतिकरः कोऽपि जातो गृहे गृहे ॥ ३.८९ ॥
चपेटोत्स्फोटितमुखस्त्वत्स्वामी बन्धनं भटैः ।
नीतः पतत्पुरीषोऽग्रे स तावत्परिपालकः ॥ ३.९० ॥
यावन्नो*ल्लुञ्चितश्मश्रुर्बद्ध्वा त्वमपि नीयसे ।
तावद्राजभये घोरे नीतिरस्मिन् विधीयताम् ॥ ३.९१ ॥
इति ब्रुवाणे तन्मित्रे तैः शिष्यैः सहिते गुरौ ।
तूर्णं प्रयाते निःश्वस्य नियोगी दुःखितोऽवदत् ॥ ३.९२ ॥
अहो नु कालदौरात्म्याद्घोरता कियती कलेः ।
साधवः सर्वथा नष्टाः कष्टं धर्मोऽस्तमागतः ॥ ३.९३ ॥
इत्युक्त्वा सानुगो यावत्पलायनकृतोद्यमः ।
स सुस्राव भयान्मूत्रं तावदेत्य भटैर्वृतः ॥ ३.९४ ॥
स राज्ञा हृतसर्वस्वः प्रक्लिन्नो बन्धने चिरम् ।
धनेन वेश्यया स्वस्रा मोचितो निरगात्ततः ॥ ३.९५ ॥
ततो विभवहीनोऽसौ जापी स्वप्ननिरीक्षकः ।
बभूव सर्वप्रणतश्चाटुकारः प्रियंवदः ॥ ३.९६ ॥
योऽभूदभ्युत्थितस्तब्धो नियोगी लिङ्गसन्निभः ।
अधिकारपरिभ्रंशात्स वृद्धवृषणायते ॥ ३.९७ ॥
अधिकारमदान्धानां दृष्टिकोपवतां सदा ।
नेत्रनैर्मल्यजननं बन्धनं परमाञ्जनम् ॥ ३.९८ ॥
यः पादपतितानार्तान्पूज्यानप्यवमन्यते ।
भ्रष्टाधिकारश्चरणौ शकृल्लिप्तौ स वन्दते ॥ ३.९९ ॥
अहो बत मुहूर्तेन भवन्ति न भवन्ति च ।
पलालदहनज्वालाचपला दिविरश्रियः ॥ ३.१०० ॥
स्वयमुत्थाय यातायां जायायां निर्धनोऽथ सः ।
बभ्राम लौल्यनिलयः पिण्डार्थी बन्धुवेश्मसु ॥ ३.१०१ ॥
रूक्षः कृशोऽतिमलिनः स्यूतदग्धपटच्चरः ।
पिशाच इव दुष्प्रेक्ष्यो दिनैरेव बभूव सः ॥ ३.१०२ ॥
तुषाग्निकुण्डिकातापदग्धस्फिग्वृषणोदरः ।
वातशूलापनोदाय जानुग्रथितदामकः ॥ ३.१०३ ॥
देवद्विजधन*ग्रासजातकोष्ठगलग्रहः ।
क्षुत्क्षामकुक्षिः शुष्कास्यः पतितोऽवस्करे भ्रमन् ॥ ३.१०४ ॥
श्वजग्धजानुचरणः प्रस्रवद्भूरिशोणितः ।
कृपार्द्रोच्छिष्टभुग्दत्तभक्तगोलकनिर्वृतः ॥ ३.१०५ ॥
दग्धार्धकर्पटीनिर्यत्सकेशवृषणद्वयः ।
भस्मप्रलिप्त*शीर्षांसवक्षःपार्श्वो गतत्रपः ॥ ३.१०६ ॥
प्रलपन्काञ्चिकाकाङ्क्षी केनचिद्दत्तमण्डकः ।
प्रपापालिकया डोम्बभ्रान्त्या पाने तिरस्कृतः ॥ ३.१०७ ॥
रजस्वलापलालेन छन्नाङ्गस्तुहिनागमे ।
शरावकर्परादानकलहे याचकार्भकैः ।
वह्निपात्रप्रहारेण दग्धभ्रूश्मश्रुलोचनः ॥ ३.१०८ ॥
चण्डालैः प्रेतकार्येषु लगुडैराहतोऽसकृत् ।
पङ्कशायी स चुक्रोश सत्त्रतीर्थाग्रवर्त्मसु ॥ ३.१०९ ॥
नृपुरीषप्रणालेऽथ पतितोऽसावधोमुखः ।
उच्चैःकृतकटिः प्राणानुत्ससर्ज नराधमः ॥ ३.११० ॥
इति दौर्गत्यतपसा प्रयातः सोऽस्थिशेषतां ।
सशरीरः स्वयं प्राप्तो नरकं नरकण्टकः ॥ ३.१११ ॥
एवं क्रमेण शान्तेषु नियोगिदिविराग्निषु ।
मोदते गतसन्तापः सन्तोषसुभगो जनः ॥ ३.११२ ॥
इति दिविरनियोगिव्रातदुश्चेष्टितानां
कुसृतिचरितचर्चा नर्ममाला कृतेयम् ।
अपि सुजनविनोदायोम्भिता हास्यसिद्ध्यै
कथयति फलभूतं सर्वलोकोपदेशम् ॥ ३.११३ ॥


इति नर्ममालायां तृतीयः परिहासः ॥
समाप्तेयं नर्ममाला ।
कृतिर्व्यासदासापरनाम्नः क्षेमेन्द्रस्येति शिवम् ॥

स्रोतः सम्पाद्यताम्

"https://sa.wikisource.org/w/index.php?title=नर्ममाला&oldid=308318" इत्यस्माद् प्रतिप्राप्तम्