जयति गिरिसुतायाः कामसन्तापवाहि- न्युरसि रसनिषेकश्चान्दनश्चन्द्रमौलिः । तदनु च विजयन्ते कीर्तिभाजां कवीना- मसकृदमृतबिन्दुस्यन्दिनो वाग्विलासाः ।। जयति मधुसहायः सर्वसंसारवल्ली- जननजरठकन्दः कोऽपि कन्दर्पदेवः । तदनु पुनरपाङ्गोत्सङ्गसञ्चारितानां जयति तरुणयोषिल्लोचनानां विलासः ।। अगाधान्तःपरिस्पन्दं विबुधानन्दमन्दिरम् । वन्दे रसान्तरप्रौढं स्रोतः सारस्वतं वहत् ।।

"https://sa.wikisource.org/w/index.php?title=नलचम्पू&oldid=322084" इत्यस्माद् प्रतिप्राप्तम्