नवरत्नमालिका
शङ्कराचार्यः
१९१०

॥ श्रीः॥

॥ नवरत्नमालिका॥


हारनूपुरकिरीटकुण्डलविभूषितावयवशोभिनीं
 कारणेशवरमौलिकोटिपरिकल्प्यमानपदपीठिकाम् ।
कालकालफाणिपाशबाणधनुरङ्कुशामरुणमेखलां
 फालभूतिलकलोचनां मनसि भावयामि परदेवताम् ॥१॥

गन्धसारधनसारचारुनवनागवल्लिरसवासिनीं
 सान्ध्यरागमधुराधराभरणसुन्दराननशुचिस्मिताम् ।
मन्धरायतविलोचनाममलबालचन्द्रकृतशेखरी
 इन्दिरारमणसोदरीं मनसि भावयामि परदेवताम् ॥२॥

स्मेरचारुमुखमण्डलां विमलगण्डलम्बिमणिमण्डलां
 हारदामपरिशोभमानकुचभारभीरुतनुमध्यमाम् ।
वीरगर्वहरनूपुरां विविधकारणेशवरपीठिका
 मारवैरिसहचारिणीं मनसि भावयामि परदेवताम् ॥३॥

भूरिभारधरकुण्डलीन्द्रमणिबद्धभूवलयपीठिकां
 वारिराशिमणिमेखलावलयवह्निमण्डलशरीरिणीम् ।
वारिसारवहकुण्डलां गगनशेखरी च परमात्मिकां
 चारुचन्द्ररविलोचनां मनसि भावयामि परदेवताम् ॥४॥

कुण्डलत्रिविधकोणमण्डलविहारषड्दलसमुल्लस-
 त्पुण्डरीकमुखभेदिनीं च प्रचण्डभानुभासमुज्ज्वलाम् ।
मण्डलेन्दुपरिवाहितामृततरङ्गिणीमरुणरूपिणीं
 मण्डलान्तमणिदीपिकां मनसि भावयामि परदेवताम् ।। ५ ॥

वारणाननमयूरवाहमुखदाहवारणपयोधरां
 चारणादिसुरसुन्दरीचिकुरशेखरीकृतपदाम्बुजाम् ।
कारणाधिपतिपञ्चकप्रकृतिकारणप्रथममातृकां
 वारणान्तमुखपारणां मनसि भावयामि परदेवताम् ।। ६॥

पद्मकान्तिपदपाणिपल्लवपयोधराननसरोरुहां
 पद्मरागमणिमेखलावलयनीविशोभितनितम्बिनीम् ।
पद्मसंभवसदाशिवान्तमयपञ्चरत्नपदपीठिकां
 पद्मिनीं प्रणवरूपिणीं मनसि भावयामि परदेवताम् ।। ७ ॥

आगमप्रणवपीठिकाममलवर्णमङ्गलशरीरिणीं
 आगमावयवशोभिनीमखिलवेदसारकृतशेखरीम् ।
मूलमन्त्रमुखमण्डलां मुदितनादबिन्दुनवयौवनां
 मातृकां त्रिपुरसुन्दरीं मनसि भावयामि परदेवताम् ।। ८ ॥

कलिकातिमिरकुन्तलान्तघनभृङ्गमङ्गलविराजिनीं
 चूलिकाशिखरमालिकावलयमल्लिकासुरभिसौरभाम् ।
वालिकामधुरगण्डमण्डलमनोहराननसरोरुहां
 कालिकामखिलनायिकां मनसि भावयामि परदेवताम् ।। ९ ॥

नित्यमेव नियमेन जल्पतां
 भुक्तिमुक्तिफलदामभीष्टदाम् ।
शंकरेण रचितां सदा जपे-
 न्नामरत्ननवरत्नमालिकाम् ॥ १० ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
नवरत्नमालिका संपूर्णा ॥

"https://sa.wikisource.org/w/index.php?title=नवरत्नमालिका&oldid=289351" इत्यस्माद् प्रतिप्राप्तम्