प्रमुखा विकल्पसूचिः उद्घाट्यताम्
नाटकचन्द्रिका
रूपगोस्वामी

रूपगोस्वामिकृता नाटकचन्द्रिका

श्रीश्रीकृष्णचैतन्यचन्द्राय नमः ।

वीक्ष्य भरतमुनिशास्त्रं रसपूर्वसुधाकरं च रमणीयम् ।
लक्षणमतिसंक्षेपाद्विलिख्यते नाटकस्येदम् ॥ १ ॥
नातीवसङ्गतत्वाद्भरतमुनेर्मतविरोधाच्च ।
साहित्यदर्पणीया न गृहीता प्रक्रिया प्रायः ॥ २ ॥
दिव्येन दिव्यादिव्येन तथाऽदिव्येन वा युतम् ।
धीरेणाढ्यमुदात्तेन कृष्णश्च ललितेन च ॥ ३ ॥
शृङ्गारवीरान्यतरमुख्यं रम्येऽनिवृत्तयुक् ।
प्रस्तावनान्तसम्बन्धं सन्धिसन्ध्यङ्गसङ्गतम् ॥ ४ ॥
सन्ध्यन्तरैकविंशत्या षट्त्रिंशद्भूषणैर्युतम् ।
पताकास्थानकैर्युक्तमथोपेक्षेपकैस्तथा ॥ ५ ॥
भाषाविधानसंयुक्तं सत्काव्यगुणगर्भितम् ।
नाटकं दोषरहितं सर्वामन्दप्रदायकम् ॥ ६ ॥

तत्र नायकः

स्वयं प्रकटितैश्वर्यो दिव्यः कृष्णादिरीरितः ।
दिव्योऽपि नरचेष्टत्वाद्दिव्यादिव्यो रघूद्वहः ॥ ७ ॥
अदिव्यो धर्मपुत्रादिरेषु कृष्णो गुणाधिकः ।
नायकानां गुणाः सर्वे यत्र सर्वविधाः स्मृताः ॥ ८ ॥
लालित्यौदत्त्ययोरत्र व्यक्ता शोभाभरोऽधिकः ।
तेनैष नायको युक्तः शृङ्गारोत्तरनाटके ॥ ९ ॥
यत्परोढोपपत्योस्तु गौणत्वं कथितं बुधैः ।
तत्तु कृष्णं च गोपीश्च विनेति प्रतिपादितम् ॥ १० ॥

तथा चोक्तं रसविलासे (सुदेवकृते)

नेष्टा यदङ्गिनि रसे कविभिः परोढा
तद्गोकुलाम्बुजदृशां कुलमन्तरेण ।
आशंसया रसविधेरवतारिकाणां
कंसारिणा रसिकमण्डलशेखरेण ॥ ११ ॥

अथ रसाः

रसाः शृङ्गारवीराद्या ज्ञेया रससुधार्णवे ।
अन्ये हास्यादयः कार्या अस्मिन्नङ्गतया बुधैः ॥ १२ ॥

अथेतिवृत्तम्

इतिवृत्तं भवेत्ख्यातं क्प्तं मिश्रमिति त्रिधा ।
शास्त्रप्रसिद्धं ख्यातं स्यात्क्प्तं कविविनिर्मितम् ।
तयोः सङ्कुलता मिश्रं क्प्तं रम्यं तु नाटके ।
नाटकं ख्यातवृत्तं स्यात्क्प्तवृत्ता तु नाटिका ।
ईहामृगो मिश्रवृत्त इति नाट्याङ्गभाषितम् ॥

अथ प्रस्तावना

अथास्य प्रतिपाद्यस्य तीर्थं प्रस्तावनोच्यते ।
प्रस्तावनायां तु मुखे नान्दी कार्या शुभावहा ॥
आशीर्नमस्क्रियावस्तुनिर्देशान्यतमान्विता ।
अष्टभिर्दशभिर्युक्ता किं वा द्वादशभिः पदैः ॥
चन्द्रनामाङ्किता प्रायो मङ्गलार्थपदोज्ज्वला ।
मङ्गलं चक्रकमलचक्रोरकुमुदादिकम् ॥

तत्राशीरन्विता, यथा ललितमाधवे (१.१)

सुररिपुसुदृशांमुरोजकोकान्
मुखकमलानि च खेदयन्नखण्डः ।
चिरमखिलसुहृत्चकोरनन्दी
दिशतु मुकुन्दयशःशशी मुदं वः ॥

नमस्क्रियान्विता, यथा तत्रैव (१.२)

अष्टौ प्रोक्ष्य दिगङ्गना घनरसैः पत्राङ्कुराणां श्रिया
कुर्वन्मञ्जुलताभरस्य च सदा रामावलीमण्डनम् ।
यः पीने हृदि भानुजामतुलभां चन्द्राकृतिं चोज्ज्वलां
रुन्धानः क्रमते तमत्र मुदिरं कृष्णं नमस्कुर्महे ॥

वस्तुनिर्देशान्विता चात्रैव अष्टौ प्रोक्ष्य दिगङ्गना इत्यादिरेव ।

अष्टपदयुक्ता यथा वीरचरिते प्रथमाङ्के (प्रस्तावनायाः प्रथमः
श्लोकः)

अन्तःस्वच्छाय नित्याय देवाय हृतपाप्मने ।
त्यक्तक्रमविभागाय चैतन्यज्योतिषे नमः ॥

कश्चिदष्टपदां पादैरष्टभिः पद्ययोर्जगौ ॥ १७ ॥

दशपदान्विता यथा अभिरामराघवे

क्रियासु कल्याणं भुजगशयनादुत्थितवतः ।
कटाक्षाः कारुण्यप्रसररसवेणीलहरयः ।
हरेर्लक्ष्मीलीलाकमलदलसौभाग्यसुहृदः
सुधासारस्मेराः सुचरितविशेषैकसुलभाः ॥

द्वादशपदान्विता यथा सुररिपुसुदृशामुरोजकोकानित्यादि (लल्म् १.१) ।

अत्रैव चन्द्रनामाङ्किता मङ्गलार्थता चास्ति ।
भारत्यत्रोचिता वृत्तिरेषा तु चतुरङ्गिका ।
प्ररोचना मुखे चैव वीथीप्रहसने तथा ॥ १८ ॥

तत्र प्ररोचना

देशकालकथानाथसभ्यादीनां प्रशंसया ।
श्रोतॄणामुन्मुखीकारः कथितेयं प्ररोचना ॥ १९ ॥

यथा ललितमाधवे (१.७)

सूत्रधारः । किमित्येवमुच्यते । पश्य पश्य

चकास्ति शरदुत्सवः स्फुरति वैष्णवानां सभा
चिरस्य गिरिरुत्द्गिरत्यमलकीर्तिधारां हरेः ।
किमन्यदिह माधवो मधुरमूर्तिरुद्भासते
तदेष परओदयस्तव विशुद्धपुण्यश्रियः ॥

अथ आमुखम्

सूत्रधारो नटीं ब्रूते स्वकार्यं प्रति युक्तितः ।
प्रस्तुताक्षेपि चित्रोक्त्या यत्तदामुखमीरितम् ॥ २० ॥
यदामुखमिति प्रोक्तं सैव प्रत्सावनोच्यते ।
पञ्चामुखाङ्गान्युच्यन्ते कथोद्घातः प्रवर्तकम् ॥ २१ ॥
प्रयोगातिशयश्चेति तथा वीथ्यङ्गयुग्मकम् ।
उद्घात्यकावलगितसङ्गकं मुनिनोदितम् ॥ २२ ॥

तत्र कथोद्घातः

सूत्रिवाक्यं तदर्थं वा स्वेतिवृत्तसमं यदा ।
स्वीकृत्य प्रविशेत्पात्रं कथोद्घातः स कीर्तितः ॥ २३ ॥

यथा हरिविलासे

निरुपममहिमधुराणां जगतीदुर्बोधभावानाम् ।
लोकोत्तरचरितानां हृदयं को ज्ञातुमीशति ॥

(नेपथ्ये) हन्त भोः सत्यमात्थ लोकोत्तरचरितानां हृदयं को ज्ञातुम्
ईशतीति ॥

अथ प्रवर्तकम्

आक्षिप्तं कालसाम्येन प्रवृत्तिः स्यात्प्रवर्तकम् ॥ २४ ॥

यथा केशवचरिते

उल्लासयन् सुमनसां परितः कलापं
संवर्धयन् सपदि वैभवमुद्धवस्य ।
धीरं नुमेरपि मनो मदयन् समन्ताद्
आनन्दनो मिलति सुन्दरि माधवोऽयम् ॥

इति निष्क्रान्तौ ततः प्रविशति माधवः ।

यथा वा विदग्धमाधवे (१.१०)

सोऽयं वसन्तसमयः समियाय यस्मिन्
पूर्णं तमीश्वरमुपोढनवानुगागम् ।
गूढग्रहा रुचिरया सह राधयासौ
रङ्गाय सङ्गमयिता निशि पौर्णमासी ॥

अथ प्रयोगातिशयः
एषोऽयमित्युपक्षेपात्सूत्रधारप्रयोगतः ।
प्रेवेशसूचनं यत्र प्रयोगातिशयो हि सः ॥ २५ ॥

यथा ललितमाधवे (४.१६) गर्भाङ्के

वृद्धया शश्वदारब्धनिरोधामपि राधिकाम् ।
निराबाधं सदा साधु रमयत्येष माधवः ॥

अथोद्घात्यकम्

पदानि त्वगतार्थानि तदर्थगतये नराः ।
योजयन्ति पदैरन्यैस्तदुद्घात्यकमुच्यते ॥ २६ ॥

यथा ललितमाधवे (१.११)

नटता किरातराजं निहत्य रङ्गस्थले कलानिधिना ।
समये तेन विधेयं गुणवति ताराकरग्रहणम् ॥

(नेपथ्ये) हन्त राधामाधवयोः पाणिबन्धं कंसभूपतेर्भयाद्
अभिव्यक्तमुदाहर्तुमसमर्थो नटता किरातराजमित्युपदेशेन बोधयन्
धन्यः कोऽयं चिन्ताविक्लवां मामाश्वासयतीति तत्र पौर्णमासीप्रवेशः ॥

अथावलगितम्

यत्रैकस्मिन् समावेश्य कार्यमन्यत्प्रसाध्यते ।
पुरानुरोधात्तज्ज्ञेयं नाम्नावगलितं बुधैः ॥ २७ ॥

यथा कंसवधे

नटराजपुरुषोत्तम कथं विलम्बसे ।

(नेपथ्ये) भोः कस्त्वमसि यदत्र मां त्वरयसि ।

सूत्रधारः कथमयं गोपालवेशो भगवानुपस्थित एव पश्य पश्य
इत्यादि ॥

शृङ्गारप्रचुरे नाट्ये युक्तमामुखमेव हि ।
वीथी प्रहसनं चेति द्विविधे नात्र लक्षिते ॥ २८ ॥
अत एवामुखं तत्र भवेल्ललितमाधवे ।
प्रस्तावनास्थापने द्वे आमुखस्यापरे भिदे ।
इत्याख्याय स्फुटं केचित्तयोः कुर्वन्ति लक्षणम् ॥ २९ ॥

यथा
नटीविदूषकनटसूत्रसंलापसङ्गतम् ।
स्तोकवीथ्यादिसहितं भवेत्प्रस्तावनामुखम् ॥
सर्ववीथ्यादिसहितं तदेव स्थापनोच्यते ।
वीराद्भुतादि प्रायेषु भवेत्प्रस्तावनोचिता ॥
हास्यबीभत्सरौद्रादौ प्रायेण स्थापना मतेति ।
वीथीप्रहसने द्वे तु रूपकाणां भिदे स्मृते ॥

अथ सन्धिः

एकैकस्यास्त्ववस्थायाः प्रकृत्या चैकयैकया ।
योगः सन्धिरिति ज्ञेयो नाट्यविद्याविशारदैः ॥ ३० ॥

तत्र प्रकृतिः

पाञ्चविध्यात्कथायास्तु प्रकृतिः पञ्चधा स्मृता ।
बीजं बिन्दुः पताका च प्रकरी कार्यमेव च ॥ ३१ ॥

तत्र बीजम्

यत्तु स्वल्पमुपक्षिप्तं बहुधा विस्तृतिं गतम् ।
कार्यस्य कारणं धीरैस्तद्बीजमिति कथ्यते ॥ ३२ ॥

यथा ललितमाधवे प्रथमद्वितीययोरङ्कयोः कल्पिते मुखसन्धौ निरूढो
राधामाधवयोरनुरागो बीजमुच्यते ।

अथ बिन्दुः

फले प्रधाने बीजस्य प्रसङ्गोक्तैः फलान्तरैः ।
विच्छिन्ने यदविच्छेदकारणं बिन्दुरुच्यते ॥ ३३ ॥

यथा तत्रैवे तृतीयचतुर्थयोः कल्पित प्रतिमुखसन्धौ
कृष्णपुरगमनादिना मुख्यफले विच्छिन्ने तेनैव समाशासनं एतास्तूर्णं
नयत कियतीः इत्यादि सूर्यवाक्यश्रवणजनितकृष्णप्रत्याशां नीरे
मङ्क्षुमिमङ्क्षुम् (४.१०) इत्याद्युक्त्या गर्भाङ्कश्च बिन्दुः ।

अथ पताका

यत्प्रधानोपकरणं प्रसङ्गात्स्वार्थमृच्छति ।
सा पताका बुधैः प्रोक्ता यादवामात्यवृत्तवत् ॥ ३४ ॥

यथा तत्रैव पञ्चमषष्ठ्योः कल्पिते गर्भसन्धौ
पौर्णमास्युद्धववृत्तं पताका ।

अथ प्रकरी

यत्केवलं परार्थस्य साधकं च प्रदेशभाक् ।
प्रकरी सा समुद्दिष्टा नववृन्दादिवृत्तवत् ॥ ३५ ॥

यथा तत्रैव सप्तमाष्टयोः कल्पिते विमर्षसन्धौ यथा
नववृन्दादिकुलादिवृत्तं प्रकरी ॥

अथ कार्यं

वस्तुनस्तु समस्तस्य साध्यं कार्यमिति स्मृतम् ।
राधामाधवयोः सङ्गो यथा ललितमाधवे ॥ ३६ ॥

यथात्र नवमदशमयोः कल्पिते निर्वहःणसन्धौ राधामाधवयोः
पुनः सङ्गमपुरःसरक्रीडादि ॥

प्रधानमङ्गमिति च तत्तु स्याद्द्विविधं पुनः ।
प्रधानं नेतृचरितं व्यापि कृष्णस्य चेष्टितम् ॥ ३७ ॥
नायकार्थं कृदङ्गं स्यात्नायकेतरचेष्टित्म् ।
नित्यं पताका प्रकरी चाङ्गं बीजादयः क्वचित् ॥ ३८ ॥
बीजत्वाद्बीजमादौ स्यात्फलत्वात्कार्यमन्ततः ।
तयोः सन्धानहेतुत्वात्मध्ये बिन्दुं मुहुः क्षिपेत् ॥ ३९ ॥
यथायोगं पताकायाः प्रकार्याश्च निवेशनम् ॥ ४० ॥

अतएव बिन्दुर्, यथा पञ्चमे (लल्म् ५.२३)

स्फुरन्मणिसराधिकं नवतमालनीलं हरेर्
उदूढनवकुङ्कुमं जयति हारि बक्षःस्थलम् ।
उडुस्तवकितं सदा तडिदुदीर्णलक्ष्मीभरं
यदभ्रमिव लीलया स्फुणमदभ्रमुद्भ्राजते ॥

एवं षष्ठसप्तमादिष्वपि बिन्दुर्द्रष्टव्यः ॥

अथावस्था

कार्यस्य पञ्चधावस्था नायकादिक्रियावशात् ।
आरम्भयत्नप्राप्त्याशानियताप्तिफलागमाः ॥ ४१ ॥

तत्रारम्भः

बुधैर्मुख्यफलोद्योग आरम्भ इति कथ्यते ।

यथा ललितमाधवे मुखसन्धौ राधामाधवयोरन्योन्यसङ्गमाय
व्यवसाय आरम्भः ।

अथ यत्नः

यत्नस्तु तत्फलप्राप्तावौत्सुक्येन तु वर्तनम् ॥ ४२ ॥

यथा तत्रैव प्रतिमुखसन्धौ राधया कृष्णस्यान्वेषणे कृष्णेन च
गन्धर्वकृतनृत्यादौ राधावलोकायोद्यमो यत्नः ।

अथ प्राप्त्याशा

प्राप्त्याशा तु निजार्थस्य सिद्धिसम्भावना मता ॥
[*नोते सिद्धसद्भावना मता.]

तथा च मुनिनाप्य्(१९.११) उक्तम्

ईषत्प्राप्तिर्यदा काचित्फलस्य परिकल्प्यते ।
भावमात्रेण तं प्राहुर्विधिज्ञाः प्राप्तिसम्भवम् ॥

यथा, तत्रैव गर्भसन्धौ राधायाः सत्राजिति समर्पण्कृष्णस्य च
ललिताशङ्खचूडरत्नादिलाभादिना सम्भावनायोग्यत्वात्प्राप्त्याशा ।

अथ नियताप्तिः

नियताप्तिरविघ्नेन कार्यसंसिद्धिनिश्चयः ।

यथा, तत्रैव विमर्शसन्धौ राधादर्शनादविघ्नेन फलसंसिद्धिनिशयान्
नियताप्तिः ।

अथ फलागमः

निजाभीष्टफलावाप्तिर्भवेदेव फलागमः ॥ ४३ ॥

यथा तत्रैव निर्वहणसन्धौ
व्रजबन्धुसमागमराधालाभरत्नाभिषेकादिः फलागमः ।

पताकायास्त्ववस्थानं क्वचिदस्ति न वा क्वचित् ।
पताकया विहीने तु बीजबिन्दू निवेशयेत् ॥ ४४ ॥

अथ सन्ध्यङ्गानि

मुख्यप्रयोजनवशात्कथाङ्ग्.नां समन्वये ।
अवान्तरार्थसम्बन्धः सन्धोः सन्धानरूपकः ॥ ४५ ॥
मुखप्रतिमुखे गर्भविमर्शावुपसंहृतिः ।
पञ्चैते सन्धयस्तेषु मुखलक्षणमुच्यते ॥ ४६ ॥

अथ मुखम्

मुखं बीजसमुत्पत्तिर्नानार्थरससम्भवा ।
अत्र तु द्वादशाङ्गानि बीजारम्भानुरोधतः ॥ ४७ ॥
राधामाधवयोरत्र प्रेमबीजसमुद्भवः ।
सूचितः सौष्टवात्तत्र यथा ललितमाधवे ॥ ४८ ॥
उपक्षेपः परिकरः परिन्यासो विलोभनम् ।
युक्तिः प्राप्तिः समाधानं विधानं परिभावना ॥ ४९ ॥
उद्भेदभेदकरणान्येषां लक्षणमुच्यते ।

तत्रोपक्षेपः
उपक्षेपस्तु बीजस्य सूचनं कथ्यते बुधैः ॥ ५० ॥

यथा ललितमाधवे प्रथमेऽङ्के (१.१४)

पौर्णमासी (हन्त राधामाधवयोरिति पठित्वा) वत्से गार्गि श्रूयताम् ।

कृष्णापाङ्गतरङ्गितद्युमणिजासम्भेदवेणीकृते
राधायाः स्मितचन्द्रिकासुरधुनीपुरे निपीयामृतम् ।
अन्तस्तोषतुषारसम्प्रवलवव्यालीढतापोच्चयाः
क्रान्त्वा सप्त जगन्ति सम्प्रति वयं सर्वोर्ध्वमध्यास्महे ॥

अत्र राधामाधवयोरनुरागबीजस्य सूचनमुपक्षेपः ।

अथ परिकरः

बीजस्य बहुलीकारो ज्ञेयः परिकरो बुधैः ।

यथा तत्रैव (१.२४)

गार्गी (संस्कृतेन)

ह्रियमवगृह्य गृहेभ्यः कर्षति राधां वनाय या निपुणा ।
सा जयति निसृष्टार्थी वरवंशजकाकली दूती ॥

अत्र वनाकर्षणादिना अनुरागबीजस्य बहुलीकरणात्परिकरः ॥

अथ परिन्यासः

बीजनिष्पत्तिकथनं परिन्यास इतीर्यते ॥ ५२ ॥

यथा तत्रैव प्रथमेऽङ्के
राधा (सरोमाञ्चम्) ललिदे का क्खु कह्नत्ति सुनीअदि जेण केअलं कण्णस्स ज्जेअ
अदिधीहोन्तेण उम्मतीकिज्जह्मि ॥ [ललिते, कः खलु कृष्ण इति श्रूयते? येन केवलं
कर्णस्यैव अतिथीभवता उन्मत्तीक्रियेऽहम् ।]

अत्र उन्मत्तीकरणेन बीजनिष्पत्तिकथनात्परिन्यासः ।

अथ विलोभनम्

नायकादिगुणानां यद्वर्णनं तद्विलोभनम् ।

यथा तत्रैव प्रथमेऽङ्के

तत्र कृष्णः (सन्निधाय)

समीक्ष्य तव राधिके वदनबिम्बमुद्भास्वरं
त्रपाभरपरीतधीः श्रयितुमस्य तुल्यश्रियम् ।
शशी किल कृसीभवन् सुरधुनीतरङ्गोक्षितां
तपस्यति कपर्दिनः स्फुटजटाटवीमास्थितः ॥

तत्र राधासौन्दर्यगुणवर्णनाद्विलोभनम् ।

अथ युक्तिः

सम्यक्प्रयोजनानां हि निर्णयो युक्तिरिष्यते ॥ ५४ ॥

यथा तत्रैव (पर १.१११२)

यशोदा भअदि चन्दाअली णोमालिआ राहा माहरिअ सब्बाओ मह आसाओ
गुणासोहरपूरेण पुरेइ । तत्थबि बच्छो बिअ बच्चा लैई णेत्तभिङ्गं
सोन्दरमरन्देण आणन्देइ ॥ [भगवति चन्द्रावली नवमालिका राधा माधवी
च सर्वथा मम आशा गुणसौरभपूरेण पूरयति । तत्रापि वत्स इव वत्सा
लघ्वी नेत्रभृङ्गं सौन्दर्यमकरन्देन आनन्दयति । ]

भगवती गोकुलेश्वरि । सर्वेषां गोकुलवासिनां ईदृगेव समुदाचार इति ।

अत्र राधायां सर्वतोऽधिकानां गुणोत्कर्षाणां निर्णयो युक्तिः ।

अथ प्राप्तिः

प्राज्ञैः सुखस्य सम्प्राप्तिः प्राप्तिरित्यभिधीयते ॥ ५५ ॥

यथा तत्रैव (१.५१)
तत्र कृष्णः (पुनरुत्कर्णो भवन् सपुलकम्)

मधुरिमलहरीभिः स्तम्भयत्यम्बरे या
स्मरमदसरसानां सारसानां रुतानि ।
इयमुदयति राधाकिङ्किनीझङ्कृतिर्मे
हृदि परिणमयन्ती विक्रियाडम्बराणि ॥

अत्र राधाझङ्कृतिश्रवणात्कृष्णस्य सुखसम्प्राप्तिः प्राप्तिः ।

अथ समाधानं

बीजस्य पुनराधानं समाधानमिहोच्यते ॥ ५६ ॥

यथा तत्रैव

राधा (सास्रं) कुन्दलैए, अबि णाम इमस्स एकस्स बि हदण्त्तस्स मग्गं क्खणं
बि आरोहिस्सदि सो मह धण्णस्स कण्णस्स अदिधी । [कुन्दलते! अपि नाम
तस्यैकस्यापि हतनेत्रस्य मार्गं क्षणमपि आरोहिष्यति स मे धन्यस्य
कर्णस्यातिथिः ।]

अत्र स्वयं राधया पुनरनुरागबीजस्याधानात्समाधानम् ।

अथ विधानं

सुखदुःखकरं यत्तु तद्विधानं बुधा विदुः ॥ ५७ ॥

यथा तत्रैव द्वितीयाङ्के

राधिका (दूरतः कृष्णमीषदवलोक्य, जनान्तिकं संस्कृतेन)

सहचरि निरातङ्कः कोऽयं युवा मुदिरद्युतिर्
व्रजभुवि कुतः प्राप्तो माद्यन्मतङ्गजविभ्रमः ।
अहह चटुलैरुत्सर्पद्भिर्दृगअङ्चलतस्करैर्
मम धृतिर्धनं चेतःकोषाद्विलुण्ठयतीह यः ॥ (२.११)

(पुनरवेक्ष्य) हद्धी हद्धी प्पमादो, ललिदे पेक्ख पेक्ख एणं बम्हआरिणं
दट्ठूण विक्खुहिदं मह हदहिअअम् । ता इमस्स महापाबस्स अग्गिप्पवेसो जेब्ब
पराअचित्तम् । [ह धिखा धिक्प्रमादः । ललिते प्रेक्ष्य प्रेक्ष्य । एतं
ब्रह्मचारिणं दृष्ट्वा विक्ष्ब्धं मे हतहृदयम् । तदेतस्य महापापस्य
अग्निप्रवेश एव प्रायश्चित्तम् ।]

ललिता हला, सच्चं कधेसि । ता णूणं सबण्णतणं भामेदि । [हला, सत्यं
कथयसि, तन्नूनं सवर्णत्वं भ्रमयति ।]

राधिका (पुनर्निभाल्य, संस्कृतेन)

सहचरि हरिरेष ब्रह्मवेशं प्रपन्नः
किमयमितरथा मे विद्रवत्यन्तरात्मा ।
शशधरमणिवेदी स्वेदधारां प्रसूते
न किल कुमुदबन्धोः कौमुदीमन्तरेण ॥ (२.१२)

अत्र राधायाः कृष्णबुद्ध्या विप्रबुद्ध्या च सुखदुःखकथनाद्विधानम् ।
अथ परिभावना

श्लाघ्यैश्चित्तचमत्कारो गुणौघैः परिभावना ॥ ५८ ॥

यथा तत्रैव प्रथमेऽङ्के

राधा (सचमत्कारं संस्कृतेन)

कुलवरतनुधर्मग्राववृन्दानि भिन्दन्
सुमुखि निशितदीर्घापाङ्गटङ्कच्छटाभिः
युगपदयमपूर्वः कः पुरो विश्वकर्मा
मरकतमणिलक्षैर्गोष्ठकक्षां चिनोति ॥ ५२ ॥

ललिता हला, सो एसो दे पराणनाधो । [हला, स एष ते प्राणनाथः ।]

राधा (सोन्मादं पुनः संस्कृतेन)

स एष किमु गोपिकाकुमुदिनीसुधादीधितिः
स एष किमु गोकुलस्फुरितयौवराज्योत्सवः ।
स एष किमु मन्मनःपिकविनोदपुष्पाकरः
कृशोदरि दृशोर्द्वईममृतवीचिभिः सिञ्चति ॥ (१.५३)

अत्र कृष्णस्य वैदग्धसौन्दर्यादिगुणनिदर्शनेन च
राधाचमत्कारकथनात्परिभावना ।

अथोद्भेदः

बीजस्य तु य उद्घातः स उद्भेद इति स्मृतः ॥ ५९ ॥

यथा तत्रैव द्वितीयाङ्के

राधिका (अपवार्य, संस्कृतेन)

चलाक्षिगुरुलोकतः स्फुरति तावदन्तर्भयं
कुलस्थितिरलं तु मे मनसि तावदुन्मीलति ।
चलन्मकरकुण्डलस्फुरितफुल्लगण्डस्थलं
न यावदपरोक्षतामिदमपैति वक्त्राम्बुजम् ॥ (२.२६)

अत्रादौ संवृत्तस्यानुरागबीजस्य स्वमुखेनैवोध्घातनादुद्भेदः ।

अथ भेदः

बीजस्योत्तेजनं भेदो यद्वा सङ्घातभेदनम् ॥ ६० ॥

यथा तत्रैव

कुन्दलता राहे, अक्खलिदं तुम्ह सदीब्बदं, ता अलं सअं विक्खाबिदेण । [राधे,
जाने सस्खलितं तव सतीव्रतं, तदलं स्वयं विख्यापितेन । ]

विशाखा (सप्रणयाभ्यसूयम्) कुन्दलदे! का क्खु अबरा तुमं बिअ वंसीए
तिण्णिसञ्झं आअड्ढीअदि ? [राधे, का खल्वपरा त्वामिव वंश्या त्रिसन्ध्यम्
आकृष्यते ।]
कुन्दलता (सनर्मस्मितं, संस्कृतेन)

ददामि सदयं सदा विशदबुद्धिराशीःशतं
भवादृशि पतिव्रताव्रतमखण्डितं तिष्ठतु ।
श्रुतैर्निखिलमाधुरीपरिणतेऽपि वेणुध्वनौ
मनः सखि मनागपि त्यजति वो न धैर्यं यथा ॥ (२.२०)

अत्र कुन्दलतया राधादिप्रेमस्योत्तेजनाद्भेदनाच्चात्मनस्ताभ्यो भेदः ।

अथ करणम्

प्रस्तुतार्थसमारम्भं करणं परिचक्षते ॥ ६१ ॥

यथा, तत्रैव

कुन्दलता (संस्कृतेन)

त्रपां त्यज कुडङ्गकं प्रविश सन्तु ते मङ्गला
न्यनङ्गसमराङ्गणे परमसांयुगीना भव ।
विवस्वदुदये भवद्विजयकीर्तिगाथावली
पुरः स्कहि मुरद्विषः सहचरीभिरुद्गीयताम् ॥ २.२४ ॥

अत्र प्रस्तुतस्य क्रीडारूपस्यार्थस्य समारम्भकथनात्करणम् ।

अथ प्रतिमुखसन्धिः

भवेत्प्रतिमुखं दृश्यं बीजप्रकाशनम् ।
बिन्दुप्रयत्नोपगमादङ्गान्यस्य त्रयोदश ॥ ६२ ॥
विषमात्यन्तविश्लेषाद्राधामाधवयोरिह ।
दृश्यादृश्यं प्रेमबीजं यथा ललितमाधवे ॥ ६३ ॥
विलासः परिसर्पश्च विधुतं शमनर्मणी ।
नर्मद्युतिः प्रगमनं विरोधः पर्युपासनम् ।
पुष्पं वज्रमुपन्यासो वर्णसंहार इत्यपि ॥ ६४ ॥

तत्र विलासः

विलासः सङ्गमार्थस्तु व्यापारः परिकीर्तितः ॥ ६५ ॥

यथा तत्रैव चतुर्थाङ्के

माधवः (अधरे वेणुं विन्यस्य)

अक्ष्णोर्बन्धुं हरिहयहरिन्नागरिप्रागरिक्तां
रोगेणाविष्कुरु गुरुरुचं भानवीयां नवीनाम् ।
चक्राभिख्यः किमपि विरहादाकुलः काकूलक्षं
कुर्वन्मुख्यस्त्वयि स वयसामर्थिभावं तनोति ॥४.२२॥

अत्र माधवस्य सङ्गमार्थव्यापारकथनाद्विलासः ।

अथ परिसर्पः

स्मृतिर्नष्टस्य बीजस्य परिसर्प इति स्मृतः ॥ ६६ ॥
यथा तत्रैव

कृष्णः सखे सत्यमाशयैव कदर्थ्यमानोऽस्मि । यतः

नीरे मङ्क्षुमिमङ्क्षुमार्तमुखरामुद्दिश्य चण्डद्युतेर्
दूरान्मण्डलतः कृपातुरतया यत्प्रादुरासीत्तदा ।
हा धिग्वागमृतेन तेन जनितस्तस्याः पुनः सङ्गम
प्रत्याशाङ्कुर उच्चकैर्मम सखे स्वान्तं हठाद्विध्यति ॥१०॥

अत्र राधातिरोधानान्नष्टस्यानुरागबीजस्य पुनः सूर्यवचनेनानुस्मरणात्
परिसर्पः ।

अथ विधुतम्

विधुतं कथितं दुःखमभीष्टार्थानवाप्तितः ।
अथवानुनयादीनां विधुतं स्यान्निराकृतिः ॥ ६७ ॥

यथा तत्रैव तृतीयाङ्के

राधा (साक्रन्दम्)

निपीता न स्वैरं श्रुतिपुटिकया नर्मभणितिर्
न दृष्टा निःशङ्कं सुमुखि मुखपङ्केरुहरुचः ।
हरेर्वक्षःपीठं न किल घनमालिङ्गितमभूद्
इति ध्यायं ध्यायं स्फुटति लुठदन्तर्मम मनः ॥ (३.२६)

अत्र प्रकटमेव दुःखं विधुतम् । यथा वा तत्रैव

पौर्णमासी समाकर्णय वरवर्णिनीवर्णितम् (नेपथ्ये)

नाश्वासनं विरचय त्वमिदं हताशो
शुष्यन्मुखी मम गुणं परिकीर्तयन्ती ।
दूरादमार्दवभृतोऽपि मुहुः क्षमायाः
कुक्षिं विदारयति पश्य रथाङ्गनेमिः ॥ (३.१७)

अत्र विशाखाकृतानुनयस्य राधया ग्रहणाद्विधुतम् ।

अथ शमः

अरतेः शमनं धीरैः शम इत्यभिधीयते ॥ ६८ ॥

यथा तत्रैव चतुर्थेऽङ्के

वृन्दा नागरेन्द्र! मुञ्च वैमनस्यम् । साम्प्रतं भवदभीष्टसिद्धये
शारिकामुखेन ललितां सन्दिश्य विशाखया भवन्तं निवेदयिष्यामि ।

अत्र जटिलया राधायां नीतायां वृन्दया माधवस्यारतिशमनाच्छमः ।

अपठित्वा शमं कश्चित्स पठत्यत्र तापनम् ।

तथा हि (साहित्यदर्पणम् ६.९१),

उपायादर्शनं यत्तु तापनं नाम तद्भवेत् ॥ इति ।

यथा तृतीयेऽङ्के

वृन्दा हा धिक्, हा हा धिक् । पश्य

न वक्तुं नावक्तुं पुरगमनवार्तां मुरभिदः
क्षमन्ते राधायै कथमपि विशाखाप्रभृतयः ।
समन्तादाक्रान्ता निविडजडिमश्रेणिभिरिमाः
परं कर्णाकर्णिव्यवसितिमधीरो विदधति ॥ (३.१२)

अत्रोपायदर्शनं प्रकटमेव ।

अथ नर्म

परिहासप्रधानं यद्वचनं नर्म तद्विदुः ॥ ६९ ॥

यथा तत्रैव चतुर्थेऽङ्के

जटिला (नासिकाग्रे तर्जनीं विन्यस्य स्थिता धुन्वन्ती साश्चर्यम्) अरे
बालिआभुजङ्ग! कं डंसिदुं एत्थ भम्मसि । [अरे बालिकाभुजङ्ग! कां
डंशितुमत्र भ्राम्यसि ।]

माधवः लम्बोष्ठि! भवतीमेव गोष्ठपिशाचीम् ।

अत्र प्रकटमेव नर्म ।

अथ नर्मद्युतिः

नर्मजाता रुचिः प्राज्ञैः नर्मद्युतिरुदाहृता ॥ ७० ॥

यथा तत्रैव

ललिता (स्मित्वा) अपि सरले, तुज्झ हिअए कत्थूरिआपत्तभंगं लिहन्तीए मए
पच्चक्खीकिदा सिविणसंगिणाअरकुंजर बिब्भमासि । ता फुडं कधेहि,
तैअजणसंगजोग्गे तस्मिं ओसरे दीहसुत्ता नीवीसहअरी झत्ति णिक्कन्ता ण वेत्ति । [अयि
सरले! तव हृदये कस्तूरिकापत्रभङ्गं लिखन्त्या मया प्रत्यक्षीकृता
स्वप्नसङ्गिनागरकुञ्जरविभ्रमासि । तत्स्फुटं कथय । तृतीयजनसंयोग्ये
तस्मिन्नवसरे दीर्घसूत्रा नीवीसहचरी झटिति निष्क्रान्ता न वेति ]

राधिका (स्वगतम्) कधं तक्किदं अक्खिधुत्ताए । (प्रकाशम्,
सभ्रूभङ्गम्) वामे, कित्ति अलिअं आसंकसि? [कथं तर्कितमतिधूर्तया? वामे,
किमित्यलीकमाशङ्कसे?] (अच्त्४, परस्. ९२९३)
अत्र ललितानर्मजातया राधाया रुच्या धृत्या वा नर्मद्युतिः ।

अथ प्रगमणम्

उत्तरोत्तरवाक्यं तु भवेत्प्रगमनं पुनः ॥ ७१ ॥

यथा तत्रैव

राधा
बअणरवईणन्दणं सबन्धुं,
रहपबरोबरि पेक्खिअ फ्फुरन्तम् ।
[व्रजनृपतिनन्दनं सबन्धुं
रथप्रवरोपरि प्रेक्ष्य स्फुरन्तम्]
स्खलति मम वपुः कथं धरित्री
भ्रमति कुतः किममी नटन्ति नीपाः ॥ (३.१४)

ललिता सहि राहे, मा विसीद । पब्बदपरिक्कमोबक्कमो एसो । [सखि राधे, मा
विषीद, पर्वतपरिक्रमोपक्रम एषः ।]

राधिका

सहचरि, परिज्ञातं सद्य समस्तमिदं मया
पटिमपञलैस्त्वं निह्नोतुं कियत्प्रभविष्यसि ।
विरम कृपणे भावी नायं हरेर्विरहक्लमो
मम किमभवन् कण्ठे प्राणा मुहुर्निरपत्रपाः ॥ (३.१५)

इत्यत्र राधाललितयोरुत्तरोत्तरं प्रगमनम् ।

अथ विरोधः

यत्र व्यसनमायाति विरोधः स निगद्यते ॥ ७२ ॥

यथा तत्रैव

राधिका

चेतः खिन्नजने हरेः परिणतं कारुण्यवीचीभरैर्
इत्याभीरनतभ्रुवां त्वै भवदालोकसम्भावना ।
मर्मग्रन्थविकृन्तनव्यसनिनी तं तादृशं वैरिणी
क्रूरेयं विरहव्यथा न सहते मद्भागधेयोत्सवम् ॥ (३.२७)

अत्र स्पष्ट एव राधागमनेन विरोधः ।

अथ पर्युपासनम्

रुष्टस्यानुनयो धीरैः पर्युपासनमीरितम् ॥ ७३ ॥

यथा तत्रैव चतुर्थे

जटिला ऐ अहिसारसग्गावेज्झाइणि ललिदे, एण्हिं पुत्तौ मे अहिमण्णु बिदूरे गदोत्थि,
ता सुण्णं घरं मुक्किअ कीस तुए आणीदा बहुडी । [अयि अभिसारमार्गोपाध्यायिनि
ललिते! इदानीं पुत्रको मेऽभिमन्युर्विदूरे गतोऽस्ति । तत्शून्यं गृहं मुक्त्वा
कस्मात्त्वया नीतात्र वधूटी ?]

ललिता (सशङ्कमात्मगतम्) हद्धी, डाइनीए अडाहिणपैदीए ड्दहिठम्मि
बुठ्ठिआए । (प्रकाशम्) अय्ये गग्गीए भणिदं अज्ज माहबीपुप्फेहिं पूइदो सूरो
सुरहिकोड्प्पदो होदुत्ति माहबीमण्डबं लंहिखदा मए राहिआ, ता प्पसीद
प्पसीद । [हा धिक्! डाकिन्या दक्षिणप्रवृत्त्या दग्धास्मि वृद्धया । आर्ये, गार्ग्या
भणितम्, अद्य माधवीपुष्पैः पूजितः सूर्यः सुरभिकोटिप्रदो भवति । इति
माधवीमण्डपं लम्भिता मया राधिका । तत्प्रसीद प्रसीद ।

अत्र रुष्टाया जटिलाया ललितयाप्यनुनयात्पर्युपासनम् ।

अथ पुष्पम्

परिशेषो विधानं यत्पुष्पं तदिति संज्ञितम् ॥ ७४ ॥

यथा तत्रैव तृतीये

विदूरे कंसारिर्मुकुटितशिखण्डावलिरसौ
पुरे गौराङ्गीभिः कलितपरिरम्भो विलसति ।

(इति साभ्यसूयं पुनर्निरूप्य, सखेदम्)

न कान्तोऽयं शङ्के सुरपतिधनुर्धाममधुरस्
तडिल्लेखाहारी गिरिमवललम्बे जलधरः ॥ (३.४०)

अत्र पुनर्जलधरतया विशेषज्ञानात्पुष्पम् ।

अथ वज्रम्

वज्रं तदिति विज्ञेयं साक्षान्निष्ठुरभाषणम् ॥ ७५ ॥

यथा तत्रैव चतुर्थे

जटिला (पृष्ठतः परिक्रम्य पुत्रस्य हस्तमाकर्षन्ती साक्षेपम्) रे
गोउलकिसोरीलंपडओ, अरे परघरलण्ठनओ । कहं तुमं बि अप्पणो पुत्तं
मण्णिस्सदि जडिला ? [रे गोकुलकिशोरीलम्पट, अरे परगृहलुण्ठक । कथं
त्वामप्यात्मनः पुत्रं मंस्यति जटिला ।]

अत्र जटिलायाः पुत्रं प्रति निष्ठुरभाषणं वज्रम् ।

अथोपन्यासः

युक्तिभिः सहितो योऽर्थः उपन्यासः स उच्यते ॥ ७६ ॥
यथा तत्रैव तृतीये
(नेपथ्ये)

अद्य प्राणपरार्धतोऽपि दयिते दूरं प्रयाते हरौ
हा धिग्दुःसहशोकशङ्कुभिरभूद्विद्धान्तरा राधिका ।
तेनास्याः प्रतिषेधमर्थचरिते त्वं मा कृथा मा कृथाः
क्षीणेयं क्षणमत्र सुष्ठु विलुठत्यार्तस्वरं रोदितुम् ॥ (३.२९)

अत्र युक्तिसहितार्थता प्रकटैव । केचितुपन्यासः प्रसादनमिति (साह्द्६.९३)
वदन्ति । तत्रोदाहरणं चतुर्थे

जटिला कुलपुत्ति, सिरेण मे साबिदासि । [कुलपुत्रि, शिरसा मे शापितासि ।]

अत्र जटिलायाः राधाप्रसादनम् ।

अथ वर्णसंहारः

सवर्णोपगमनं वर्णसंहार इष्यते ॥ ७७ ॥
यथा तत्रैव, चतुर्थे

दैत्याचार्यस्तदास्ये विकृतिमरुणतां मल्लवर्याः सखायो
गण्डौन्नत्यं खलेशाः प्रलयमृषिगणा ध्यानमुञ्चास्रमम्बा ।
रोमाञ्चं सांयुगीनाः कमपि नवचमत्कारमन्तः सुरेन्द्राः
लास्यं दासाः कटाक्षं ययुरसितदृशां प्रेक्ष्य रङ्गे मुकुन्दम् ॥ (४.४)

अत्र दैत्याचार्यनारदादयः ब्राह्मणाः क्षितीशसांयुगीनादयः क्षत्रियाः,
मल्ला दासादयो वैश्याः शूद्रादयश्च इति वर्णसंहारः ।

अथ गर्भसन्धिः

दृष्टादृष्टस्य बीजस्य गर्भो हासगवेषणात् ।
द्वादशाङ्गो भवेदेष पताकांशानुसारतः ॥ ७८ ॥
राजेन्द्रता प्रसङ्गेन हासो वन्दिजनोक्तितः ।
पुनरन्वेषणं जातं प्रसेनान्वेषणात् ॥ ७९ ॥
ह्रासोद्भूः पुनरन्वेष्टिर्ललितादर्शनादभूत् ।
हरेः प्रणयबीजस्य यथा ललितमाधवे ॥ ८० ॥
अभूताहरणं मार्गो रूपोदाहरणे क्रमः ।
सङ्ग्रहश्चानुमानं च तोटकाधिबले तथा ॥ ८१ ॥
उद्वेगः सम्भ्रमाक्सेपावेषां लक्षणमुच्यते ।

तत्राभूताहरणम्

अभूताहरणं तत्स्याद्वाक्यं यत्कपटाश्रयम् ॥ ८२ ॥

यथा तत्रैव पञ्चमेऽङ्के

विरचयन् जनईमतिविस्मितां
भुजचतुस्टयवानजनिष्ट यः ।
स भगिनीं तव शूरसुतात्मजो
यदुवरः परिणेष्यति रुक्मिणीम् ॥ (५.९)

अथ कपटवाक्यमिदमभूताहरणम् ।

अथ मार्गः

मार्गस्तत्त्वार्थकथनम्...

यथा तत्रैव

कृष्णः (पत्रिकां वाचयित्वा)
[*व्.ल्. fओर्कृष्णः नारदः]

निखिला शिखिनि नयन्नपि सुखानि जात्यासितापाङ्गी ।
रमयति कृष्णः सुघनो वृन्दावनगन्धिनीरेव ॥ (५.१०)

अत्र हरिणा हृदयत्वप्रकटनान्मार्गः ।

अथ रूपम्

... रूपं वाक्यं वितर्कवत् ॥ ८३ ॥
यथा तत्रैव

कृष्णः (सानन्दम्) सखे, कथमनुभूतपूर्वेव कापि शिञ्जितसरणी प्रसह्य
मामाद्रीकरोति ।
[*नोते कृष्णःसाशङ्कम्]

अत्र चन्द्रावलीनूपुरादिशिङ्जितश्रवणात्कृष्णस्य वितर्को रूपम् ।

अथोदाहरणम्

सोत्कर्षं वचनं यत्तु तदुदाहरणं मतम् ॥ ८४ ॥

यथा तत्रैव

सुपर्णाः (निर्वर्ण्य सविस्मयम्)

सौन्दर्याम्बुनिधेर्विधाय मथनं दम्भेन दुग्धाम्बुधेर्
गीर्वाणैरुदहारि हारि परितो या सारसम्पन्मयी ।
सा लक्ष्मीरपि चक्षुषां चिरचमत्कारक्रियाचातुरीं
धत्ते हन्त तथा न कान्तिभिरियं राज्ञः कुमारी यथा ॥ (५.३०)

अत्र चन्द्रावलीरूपोत्कर्षकथनमुदाहरणम् ।

अथ क्रमः

भावज्ञानं क्रमो यद्वा चिन्त्यमानार्थसङ्गतिः ॥ ८५ ॥

यथा षष्ठे

नववृन्दा (स्वगतम्)

जनितकमललक्ष्मीविभ्रमे नेत्रवीथीं
गतवति चिरकालादंशुके कंसहन्तुः ।
अलघुभिरपि यत्नैर्दुस्तरां संवरीतुं
विकृतिमतुलबाधां हन्त राधा दधाति ॥ (६.२५)

अत्र नववृन्दाया राधाया भावज्ञानात्चित्न्यमानहरिचिह्नस्य राधया
दर्शनाद्वा क्रमः ।

अथ सङ्ग्रहः

सङ्ग्रहः सामदानार्थसंयोगः परिकीर्तितः ॥ ८६ ॥

यथा तत्रैव पञ्चमे

भीष्मः (सानन्दम्)
[*नोते भीष्मकः (सादरम्)]

अविदितस्तनयामनयान्नयन्न्
उपकृतिं कृतवान्मम जाम्बवान् ।
मुनिमनःप्रणिधेयपदाम्बुजस्
त्वमसि येन वरो दुहितुर्वरः ॥ (५.३७)
अत्र सामनिमित्तकन्यासमर्पणादिना सङ्ग्रहः ।

अथानुमानम्

लिङ्गादूहोऽनुमानता...

यथा तत्रैव षष्ठे

चन्द्रावली (संस्कृतेन)

साधर्म्यं मधुरिपुविप्रयोगभाजां
तन्वङ्गी मुहुरियमङ्गकैस्तनोति ।
आकृत्या श्रियमपि माधवीं किमेनां
दैन्येऽपि प्रथयितुमार्तयः क्षमन्ते ॥ (६.२३)

अत्र दैन्येऽपि माधुरीदर्शनेन लिङ्गेन
कृष्णविप्रयोगभाक्त्वस्याभ्यूहोऽनुमानम् ।

अथ तोटकम्

... वचः संरम्भि तोटकम् ॥ ८७ ॥

यथा तत्रैव षष्ठे

नारदः

मणीन्द्रं पारीन्द्रप्रवरमहरन्निघ्नतनयं
विनिघ्नन्ते तं च प्रबलमथ भल्लूकनृपतिः ।
पराभूय स्वैरी तमपि मुरवैरी तव धनं
तदाहर्ता पाप त्वमसि पतितस्तापजलधौ ॥ (६.१५)

अत्र संरम्भेन तोटकं प्रकटमेव ।

अथाधिबलम्

बुधैरधिबलं प्रोक्तं कपटेनाधिवञ्चनम् ॥ ८८ ॥

यथा तत्रैव पञ्चमे

श्रीकृष्णः

पर्यशीलि पशुबालघटायां
केलिरङ्गघटनाय मया यः ।
सुष्ठु सोऽयमकओर्त्परदुर्गे
वैशयन् सचिवतां नटवेषः ॥ (५.२७)

अत्र नटवेषकपटेन परवञ्चनमधिबलम् ।

अथोद्वेगः

शत्रुवैरादिसम्भूतं भयमुद्वेग उच्यते ॥ ८९ ॥

यथा तत्रैव षष्ठे

चन्द्रावली (जनान्तिकम्) सहि माहवि ! पेक्ख । एसो अज्जौत्तस्स सच्चसंकप्पिदा
सेइबिमद्दणो सच्चभामाए सोन्देरपूरो धीरं बि मं आन्दोलेदि । [सखि माधवि,
पश्य । एष आर्यपुत्रस्य सत्यसङ्कल्पिता सेतुविमर्दनः सत्यभामायाः
सौन्दर्यपूरो धीरामपि मामान्दोलयति ।]

अत्राविर्भूतसपत्नीदर्शनाच्चन्द्रावल्या उद्वेगः ।

अथ सम्भ्रमः

शत्रुव्याघ्रादिसम्भूता शङ्का स्यादिह सम्भ्रमः ॥ ९० ॥

यथा तत्रैव पञ्चमे

(नेपथ्ये)

सप्तिः सप्ती रथ इह रथः कुञ्जरो मे
तूणस्तूणो धनुरुत धनुर्भोः कृपाणी कृपाणी ।
का भीः का भीरयमयमहं हा त्वरध्वं त्वरध्वं
राज्ञः पुत्री बत हृतहृता कामिना वल्लवेन ॥(५.३०)

अत्र स्पष्ट एव सम्भ्रमः ।

अथाक्षेपः

गर्भबीजसमुत्क्षेपमाक्षेपं परिचक्षते ॥ ९१ ॥

यथा तत्रैव षष्ठे

कृष्णः (सवैक्लव्यम्)

निखिलसुहृदामर्थारम्भे विलम्बितचेतसा
मसृणितशिखो यः प्राप्तोद्भूद्मनागिव मार्दवम् ।
स खलु ललितासान्द्रस्रेहप्रसङ्गघनीभवन्
पुनरपि बलादिन्धे राधावियोगमयः शिखी ॥ (६.४३)

अस्य सुहृदर्थसम्पादने गर्भितस्य पुनः ललितादर्शनेनोत्क्षेपादाक्षेपः ।

अथ विमर्शसन्धिः

यत्र प्रलोभनक्रोधय्व्यसनाद्यैर्विमृश्यते ।
बीजवान् गर्भनिर्भिन्नः स विमर्श इतीर्यते ॥ ९२ ॥
प्रकरीनियताप्तानुगुण्यादत्राङ्गकल्पनम् ।
बकुलानववृन्दादिप्रलोभनवशाद्यथा ॥ ९३ ॥
देवी शङ्कादितश्चात्र प्रेमबीजविमर्शनम् ।
राधामाधवयोः प्रोक्तं स्फुटं ललितमाधवे ॥ ९४ ॥
अववादोऽयं सम्फेटो विद्रवद्रवशक्तयः ।
द्युतिप्रसङ्गश्छलनं व्यवसायो विरोधनम् ।
प्ररोचना विवलनमादानं स्युस्त्रयोदश ॥ ९५ ॥

अथाववादः
दोषप्रख्याववादः स्यात्...

यथा तत्रैव सप्तमे

राधिका (सव्यथम्)

चिरादद्य स्वप्ने मम विविधयत्नादुपगते
प्रपेदे गोविन्दः सखि नयनयोरक्षणभुवम् ।
गृहीत्वा हा हन्त त्वरितमथ तस्मिन्नपि रथं
कथं प्रत्यासन्नः स खलु पुरुषो राजपुरुषः ॥ (७.२२)

अत्रातुरस्य क्रौर्यकीर्तनादववादः ।

अथ सम्फेटः

सम्फेटो रोषभाषणम् ।

यथा तत्रैव

राधिका (संस्कृतेन)

शास्तु द्वारवतीपतिंस्त्रिजगतीं सौन्दर्यपर्याचितः
किं नस्तेन विरम्यतां कथमसौ शोकाग्निरुज्ज्वाल्यते ।
युष्माभिः स्फुटयुक्तिकोटिगरिमव्याहारिणीभिर्बलाद्
आकर्ष्टुं व्रजराजनन्दनपदाम्भोजान्न शक्या वयम् ॥ ७.२ ॥

अत्र बकुलां प्रति गूढदोषोक्त्या सम्फेटः ।

अथ विद्रवः

विद्रवो वधबन्धादिः...

यथा तत्रैवाष्टमे

कृष्णः प्रिये, युष्माकमद्भुतमाकर्ण्यतां साम्प्रतमहं
सूरसौगन्धिकमाहरिष्यन् पाण्डवेन सह खाण्डवाडवीं प्राविशम् । तत्र
मृगानाहण्डिनो गाण्डीविनः श्येनाभ्यां निगृहीतयोः पक्षिणोरेकः प्राहेत्यादि ।

अत्र पक्षिनिग्रहादिना विद्रवः ।

अथ द्रवः

...द्रवो गुरुतिरिस्क्रिया ॥ ९६ ॥

यथा तत्रैव

माधवी भट्टोदारिए कासारे पसारिदणि अब्बदं वगीं समरिअ हसामि ।
[भर्तृदारिके कासारे प्रसारितनिजव्रतां बकीं स्मृत्वा हसामि ।]

अत्र स्वामिन्या राधाया उपहासेन द्रवः ।

अथ शक्तिः

विरोधशमनं शक्तिः...

यथा तत्रैव

नववृन्दा (लतान्तरे स्थित्वा) हन्त कथमङ्गीकृतराधाप्रसाधना देवीयम्
उपलब्धा । तदेष माधवो यावदेनां राधिकां प्रतीत्य न प्रमादम्
आदधाति तावदहं पद्यमेकं हारीतेन हारयामीति ।

अत्र राधात्वेन चन्द्रावलीज्ञानादुत्पन्नस्य विरोधस्य शमनात्शक्तिः ।

अथ द्युतिः

...तर्जनोद्वेजने द्युतिः ॥ ९७ ॥

यथा तत्रैव

राधा (सभयम्) हन्त, चंचल चंचरीअ चिट्ठ चिट्ठ । एसा लीलाकमलेण
ताडेमि तुमं धिठ्ठम् । [चञ्चल चञ्चरीक तिष्ठ तिष्ठ । एषा लीलाकमलेन
ताडयामि त्वां धृष्टम् ।]

इत्यत्र भ्रमराद्युद्वेगेन भ्रमरं प्रति तर्जनेन च द्युतिः ।

अथ प्रसङ्गः

प्रस्तुतार्थस्य शमनं प्रसङ्गः परिकीर्तितः ।
प्रसङ्गं कथयन्त्यन्ये गुरूणां परिकीर्तनम् ॥ ९८ ॥

तत्राद्यं, यथा तत्रैवाष्टमे

चर्चां सिञ्चति शोषयत्यपि मिथो विस्पर्धते वासकृत्
नेत्रद्वन्द्वमुरश्च यद्विरहतो बाष्पायमाणं मम ।
हन्त स्वप्नशतेऽपि दुर्लभतरप्रेक्ष्योत्सवा प्रेयसी
प्राप्योत्सङ्गमतर्कितं मम कथं सा राधिका वर्तते ॥ ८.३ ॥

अत्र प्रस्तुतस्य विरहदुःखस्य शमात्प्रसङ्गः ।

द्वितीयं यथा सप्तमे

राधा (संस्कृतेन)

खेलन्मञ्जुलवेणुमण्डितमुखी साचिभ्रमंल्लोचना
मुग्धे मूर्ध्नि शिखण्डिनी धृतवपुर्भङ्गीत्रयाङ्गीकृतिः ।
कैशोरे कृतसङ्गतिः सुरमुनेराराध्यते शासनाद्
अस्माभिः पितुरालये जलधरश्यामच्छविर्देवता ॥ ७.२४ ॥

अत्रेष्टदेवनारदयोः पितुश्च कीर्तनाद्गुरुकीर्तनम् ।

अथ छलनम्

अपमानादिकरणं छलनं परिकीर्तितम् ॥ ९९ ॥
यथाष्टमे

कृष्णः हन्त कलिकण्डूलतुण्डमात्रसर्वस्वे तमोमयि माधविके!
विरम्यताम् । द्वयोः परं जेतुमशक्येयं चन्द्रावली ।

अत्र माधवीभर्त्सनापमानाच्छलनम् ।

अथ व्यवसायः

व्यवसायस्तु सामर्थ्यस्याख्यापनमुदीर्यते ॥ १०० ॥

यथा सप्तमे

राधिका (सन्निवृत्य सलज्जं संस्कृतेन)

कंसारेरवलोकमङ्गलविनाभावादधन्येधुना
बिभ्राणा हतजीविते प्रणयितां नाहं सखि प्राणिमि ।
क्रूरेयं न विरोधिनी यदि भवेदाशामयी शृङ्खला
प्राणानां ध्रुवमर्बुदान्यपि तस्य त्यक्तुं सुखेनोत्सहे ॥ ७.१३ ॥

अत्र प्राणार्बुदत्यागार्थसामान्यकथनाद्व्यवसायः ।

कश्चित्तु, व्यवसायस्तु विज्ञेयः प्रतिज्ञाहेतुसम्भवः ॥ इत्याह (साह्द्६.१०३) ।

यथा तत्रैव सप्तमे

यस्योत्तंसः स्फुरति चिकुरे केकिपत्रप्रणीतो
हारः कण्ठे विलुठति कृतः स्थूलगुञ्जावलीभिः ।
वेणुर्वक्त्रे रचयति रुचिं हन्त चेतस्ततो मे
रूपं विश्वोत्तरमपि हरेर्नान्यदङ्गीकरोति ॥ (७.६)

अथ विरोधनम्

विरोधनं विरोधोक्तिः संरब्धानां परस्परम् ॥ १०१ ॥

यथाष्टमे

चन्द्रावली (सोल्लुण्ठस्मितम्) ऐ लोलुहे आलि, कीस मं अनापेक्खिअ तं
णिअमहाब्बदं तुए सुट्ठु पडिट्ठिदम् । [अयि लोलुपे आलि, कस्मान्मामनापृच्छ्य
तन्निजमहाव्रतं त्वया सुष्ठु प्रतिष्ठितम् ।]
राधिका देइ, सरण्णस्स जणस्स संरक्खणे अक्खमासि तहबि परिहसेसि । णूणं
ईसरीणां क्खु जुत्तं एदम् । [देवि, शरण्यस्य जनस्य संरक्षणे अक्षमासि तथापि
परिहससि । नूनं ईश्वरीणां खलु युक्तमेतत् ।]

अत्र निगूढसंरम्भयोश्चन्द्रावलीराधयोः विरोधोक्त्या विरोधनम् ।

अथ प्ररोचना
सिद्धवद्भाविनोऽर्थस्य सूचनात्स्यात्प्ररोचना ॥ १०२ ॥

यथा तत्रैव सप्तमे

नववृन्दा
अलं विलापैः समयक्रमस्य
दुरूहरूपा गतयो भवनित् ।
शरन्मुखे पश्य सरस्तटीषु
खेलन्त्यकस्मात्खलु खञ्जरीटाः ॥ ७.५ ॥

इत्यत्र कञ्जरीटदृष्टान्तेन भाविकृष्णसङ्गमस्य सूचनात्प्ररोचना ।

यद्वा तत्रैव

राधा (संस्कृतेन)

अजनि सफलः सौख्यं भूयान् कलेवरधारणे
सहचरि परिक्लेशो योऽभून्मया किल सेवितः ।
अहह यदिमाः श्यामश्यामा पुरो मम वल्लवी
कुलकुमुदिनीबन्धोस्तास्ताः स्फुरन्ति मरीचयः ॥ ७.२७ ॥

अत्र प्रतिमासन्दर्शनानन्देन भाविकृष्णसङ्गमनस्य सिद्धवत्सूचनात्
प्ररोचना ।

अथ विवलनम्

आत्मश्लाघा विवलनम् ।

यथा तत्रैवाष्टमे

कृष्णः (सविस्मयम्) कोऽयं माधुर्येण ममापि मनो हरन्मणिकुड्यम्
अवष्टम्ब्य पुरो विराजते । (पुनर्निभाल्य) हन्त कथमत्राहमेव
प्रतिबिम्बितोऽस्मि । (इति सौत्सुक्यम्)

अपरिकलितपूर्वः कश्चमत्कारकारी
स्फुरति मम गरीयानेष माधुर्यपूरः ।
अयमहमपि हन्त प्रेक्ष्य यं लुब्धचेताः
सरभसमुपभोक्तुं कामये राधिकेव ॥८.३४।

अत्र विस्मयेन निजरूपश्लाघनं विवलनम् ।

अथादानं

आदानं कार्यसङ्ग्रहः ॥ १०३ ॥

यथा तत्रैवाष्टमे

नववृन्दा (राधामवेक्ष्य) हन्त हन्त!

आलोके कमलेषणस्य सजलासारे दृशौ न क्षमे
नाश्लेषे किल शक्तिभागतिपृथुस्तम्भा भुजावल्लरी ।
वाणी गद्गदकुण्ठितोत्तरविधौ नालं चिरोपस्थिते
वृत्तिः कापि बभूव सङ्गमनये विघ्नः कुरङ्गीदृशः ॥ ८.११ ॥

अत्र कृष्णदर्शनादिरूपकार्यसङ्ग्रहादादानम् ।

कश्चित्तु विद्रवविवलनछलनाद्यत्र न पठित्वा खेदप्रतिषेधछादनानि
पठन्ति लक्षयन्ति च ।

तत्र खेदः

मनश्चेष्टासमुत्पन्नः श्रमः खेद इतीर्यते ॥ १०४ ॥

यथा तत्रैव सप्तमे

राधिका (संस्कृतेन)

ममायासीद्दूरे दिगपि हरिसङ्गप्रणयिनी
प्रपेदे खेदेन त्रुटिरपि महाकल्पपदवीम् ।
दहत्याशासर्पिर्विरचितपदप्राणदहनो
बलान्मां दुर्लीलः कमिव करवै हन्त शरणम् ॥ ७.१ ॥

अथ प्रतिषेधः

ईप्सितार्थप्रतीघातः प्रतिषेध इतीर्यते ॥ १०५ ॥

यथा तत्रैव

राधा (समीक्ष्य सखेदमात्मगतम्) कहं इंदीअरेण रहंगीए
संगमिट्ठं अहिणंदिदे मच्छरा कलहंसी मिलिदा । [कथं इन्दीवरेण
रहङ्ग्या सङ्गमितुं अभिनन्दिते मत्सरा कलहंसी मिलिता ।

अत्र देव्यागमनात्कृष्णसङ्गप्रतीघातः ।

अथ छादनम्

कार्यार्थमपमानादेः सहनं छादनं मतम् ।

यथा सप्तमे नववृन्दा (प्रविश्य) सखि, मा विषादं कृथाः पश्य

पादे निपत्य बदरीमवलम्बमाना
कान्तं रसालमनुविन्दति माधवीयम् ।
प्राणेशसङ्गमविधौ विनिविष्टचित्ता
नो पारवश्यकदनं मनुते हि साध्वी ॥ (७.३)

स्पष्टमेव छादनम् ।

अथ निर्वहणसन्धिः

मुखसन्ध्यादयो यत्र विकीर्णा बीजसंयुताः ।
महत्प्रयोजनं यान्ति तन्निर्वहणमुच्यते ॥ १०७ ॥
अत्राङ्गकल्पनाकार्यफलागमसमागमात् ।
राधादीनां तु सर्वासां कुमारीणामवाप्तितः ॥ १०८ ॥
उद्वाहाद्युत्सवः प्रोक्तो यथा ललितमाधवे ।
सन्धिर्विरोधो ग्रह्तनं निर्णयः परिभाषणम् ॥ १०९ ॥
प्रसादानन्दसमयाः कृतिर्भाषोपगूहने ।
पूर्वभावोपसंहारौ प्रशस्तिश्च मनीषिभिः ॥ ११० ॥
इति निर्वहणस्याङ्गान्युक्तान्यस्य चतुर्दश ।
तत्र सन्धिः

बीजोपगमनं सन्धिः...

यथा तत्रैव नवमेऽङ्के

निह्नूतामृतमाधुरीपरिमलः कल्याणि बिम्बाधरौ
वक्त्रं पङ्कजसौरभं कुहरितश्लाघाभिदस्ते गिरः ।
अङ्कश्चन्दनशीतलस्तनुरियं सौन्दर्यसर्वस्वभाक्
त्वामासाद्य ममेदमिन्द्रियकुलं राधे मुहुर्मोदते ॥ (९.९)

अत्रानुरागबीजोपगमनात्सन्धिः ।

अथ विरोधः

... विरोधः कार्यमार्गणम् ॥ १११ ॥

यथा तत्रैव नवमाङ्के नववृन्दा

माधवीविरहितां मधुवीरः
कुण्डिनेश्वरसुतां निशमय्य ।
नन्दयन् स्फुरदमन्दविलासैर्
हासकन्दललसन्मुखमाह ॥ (९.७)

सत्याख्यस्य विलोकाय लोकस्यात्मभुवार्थितः ।
प्रतिष्ठासुरहं देवि तत्रानुज्ञा विधीयताम् ॥ (९.८)

अत्र राधासङ्गमकार्यस्य मारणाद्विरोधः ।

अथ ग्रथनम्

ग्रथनं सदुपेक्षेपः...

यथा तत्रैव राधिका (कृष्णं पश्यन्ती)
अंजलिमेत्तं सलिलं सभरीए अहिलसंतीए ।
ओबरि सअं णअजलदा धारावरिसी समुल्लसई ॥ ९.१९

[अञ्जलिमात्रं सलिलं शफर्या अहिलषन्त्या ।
उपरि स्वयं नवजलदो धारावर्षी समुल्लसति ॥]

अत्र पुनः सहसा कृष्णदर्शनरूपस्य सदर्थस्योपक्षेपाद्ग्रथनम् ।

अथ निर्णयः

निर्णयस्त्वनुभूतोक्तिः ॥ ११२ ॥

यथा तत्रैव कृष्णः

नवमदनविनोदैः केलिकुञ्जेषु राधे
निमिषवदुपरामं काम आसेदुषीणाम् ।
उपचितपरितोषप्रोषितापत्रपाणां
स्मरसि किमिव तासां शारदीनां क्षपाणाम् ॥ (९.४७)
अत्र स्पष्ट एव निर्णयः ।

अथ परिभाषणम्

परिभाषा मिथो जल्पः परिवादोऽथवा भवेत् ॥ ११३ ॥

तत्राद्यं यथा तत्रैव

मधुमङ्गलः भोदि किं ति आअदासि? [भवति किमित्यागतासि?]

सुकण्ठी इमस्स पण्होत्तरस्स सदिक्खं अण्णं बि महुरं सुणिदुम् । [अस्य
प्रश्नोत्तरस्य सदृक्षमन्यदपि मधुरं श्रोतुम् ।]

मधुमङ्गलः भोदि पण्णोत्तरं बि तुए सुणिदम्? [भवति प्रश्नोत्तरमपि
त्वया श्रुतम्]

सुकण्ठी ण केअणं इदं ज्जेब । [न केवलमिदमेव ।]

मधुमङ्गलः अबरं किं? [अपरं किम् ?]

सुकण्ठी जा किं पि दिठ्ठं तं गदुअ देइए णिवेदिस्सम् । [यत्किमपि दृष्टं तद्
गत्वा देव्यै निवेदयिष्यामि ।]

अत्र विदूषकसुकण्ठ्योर्मिथो जल्पः । द्वितीयो यथा तत्रैव

मधुमङ्गलः (संस्कृतेन)

असि विषकण्ठीकठिने किमिति सुकण्ठीति भण्यते चेटि ।
अथवा का मम शस्ता भद्रेत्यभिधीयते विष्टिः ॥ ९.२१

अत्र सुकण्ठ्याः दोषदर्शनात्परीवादः ।

अथ प्रसादः

शुश्रूषाद्युपसम्पन्ना यत्प्रसादः प्रसन्नता ॥ ११४ ॥

यथा नवमे

कृष्णः (सहर्षम्) सुकण्ठिके! बाढमस्मिन्नर्थे दुष्करस्ते मया
निष्क्रयः ।

अत्र श्रीकृष्णस्य प्रसादः स्पष्ट एव ।

अथानन्दः

आनन्दोऽभीष्टसम्प्राप्तिः...

यथा तत्रैव दशमे

नयनयोः स्तनयोरपि युग्मतः
परिपतद्भिरसौ पयसाञ्झिरैः ।
अहह वल्लवराजगृहेश्वरी
स्वतनयं प्रणयादभिषिञ्चति ॥(१०.१४)॥

अत्र यशोदाया आनन्दः ।

यथा वा तत्रैव

कृष्णः (सानन्दम्) चिरेणाद्य गोकुलवासिनामिवात्मानमभिमन्यमानः
प्रमोदमुग्धोऽस्मि ।

अत्र कृष्णस्यानन्दः ।

अथ समयः

समयो दुःखसङ्क्षयः ॥ ११५ ॥

यथा तत्रैव दशमे

राधिका (मुखादञ्चलमपास्य, सविक्रोशम्) हा हा कधं पिअसही मे ललिदा ।
हा कधं बच्चला भअवदी । हा कधं अज्जिआ मुहरा । [हा हा कथं प्रियसखी
मे ललिता । हा कथं वत्सहा भगवती । हा कथं आर्या मुखरा ।] (इत्यानन्देन
घूर्णन्ती भूमौ स्खलति ।)

अत्र सुहृद्दर्शनाद्राधाया दुःखसङ्क्षयः ।

अथ कृतिः
लब्धार्थस्य कृतिः स्थैर्यम् ...

यथा तत्रैव चन्द्रावली (जनान्तिकम्)

भअवदि बहिणीए करं गेण्हिदुं मह बअणेण अब्भत्थीअदु... अज्जौत्तो ।
[भगवति भगिन्याः करं ग्रहीतुं मम वचनेन अभ्यर्थ्यतामार्यपुत्रः ।]

अत्र यशोदादिसमागमाल्लब्ध्यस्य राधिकारूपार्थस्य चन्द्रावलीप्रार्थनेन
स्थैर्यकृतिः ।

अथ भाषणम्

मानाद्याप्तिश्च भाषणम् ॥ ११६ ॥

यथा तत्रैव

(भगिन्यौ पौर्णमासीमन्तराकृत्य गोपेन्द्रं प्रणमतः)

नन्दः वत्से, परस्परस्य प्राणाधिक्यं भजन्त्यौ सौभाग्यवत्यौ भूयासम् ।

अत्र नन्दकृताशीर्वादादिमानप्राप्त्या भाषणम् ।

अथोपगूहनम्

अद्भुतार्थपरिप्राप्तिरुपगूहनमुच्यते ॥ ११७ ॥

यथ तत्रैव
राधा (सर्वासां पादानभिवाद्य सोत्कण्ठम्) कुसलिणी किं मे बहिणी
चन्दाअली । [कुशलिनी किं मे भगिनी चन्द्रावली ।]

चन्द्रावली (गाढं परिष्वज्य) बहिणी एसाम्हि दुज्जणीहतचन्दाअलिआ । [भगिनी,
एषास्मि दुर्जनी हतचन्द्रावलिका ।] (इति रोदिति)

राधिका (सानन्दं ससम्भ्रमं पादयोः पतन्ती) हद्धि हद्धि, बिडम्बिदह्मि
हददेब्बेण । [हा धिक्! हा धिक्!, विडम्बितास्मि हतदैवेन ।]

अत्रादृष्टपूर्वभगिन्योः परस्परालिङ्गनाद्यद्भुतार्थपरिप्राप्तिर्
उपगूहनम् ।

अथ पूर्वभावः

मुख्यकार्यस्य संसर्गः पूर्वभावः प्रकीर्तितः ॥ ११८ ॥

यथा तत्रैव

पौर्णमासी यशोदामातः, उपस्थितोऽयं सर्वोऽभिषेकसम्भारः । तद्
अलङ्क्रियतां प्रथमं राधया सह पर्ववेदी ततः क्रमेण कुमारीभिश्च ।

अत्र मुख्यकार्यस्य राधामाधवयोः परिणयमहोत्सवस्य संसर्गात्
पूर्वभावः । केचित्पूर्ववाक्यं केचित्पूर्वभाषामिति पठन्तो लक्षयन्ति
(साह्द्६.११३) पूर्ववाक्यं तु विज्ञेयं यथोक्तार्थोपदर्शनम् । यथा तत्रैव
(नेपथ्ये)

विनीते राधायाः परिणयविधानानुमतिभिः
स्वयं देव्या तस्मिन् पितुरिह निबन्धे मुदितया ।
कुमारीणां तासामयमुपनयन् षोडश कृती
सहस्राणि स्मेरः प्रविशति शताढ्यानि गरुडः ॥ (१०.३१)

अत्र पूर्वं कृष्णेन तृतीयाङ्के यदुक्तं एतास्तूर्णं नयत कियतीरित्यादिना
पुनः स्वयं गमनं तस्यैवोपदर्शनम् ।

अथोपसंहारः

कृतार्थतोपसंहारः सर्वाभीष्टोपलक्सितः ॥ ११९ ॥

यथा तत्रैव दशमे

कृष्णः (सर्वमभिनन्द्य जनान्तिकम्) प्राणेश्वरि राधे प्रार्थयस्व किमतः
परं ते प्रियं करवाणि । (इत्यारभ्य)

राधिका (सानन्दं संस्कृतेन)

सख्यस्ता मिलिता निसर्गमधुरप्रेमाभिरामीकृता
यामी मे समगंस्तु संस्तववती श्वश्रूश्च गोष्ठेश्वरी ।
वृन्दारण्यनिकुञ्जधाम्नि भवता सङ्गोऽयं रङ्गवान्
संवृत्तः किमतः परं प्रियतरं कर्तव्यमत्रास्मि मे ॥ (१०.३६) ॥

अत्र प्रकटमेवोपसंहारः ।

अथ प्रशस्तिः

मङ्गलाशंसनं सम्यक्प्रशस्तिरभिधीयते ॥ १२० ॥

यथा तत्रैव

तथापीदमस्तु

चिरादाशामात्रं त्वयि विरचयन्तु स्थिरधियो
विदध्युर्ये वासं मधुरिमगभीरे मधुपुरे ।
दधानः कैशोरे वयसि सखितां गोकुलपतेः
प्रपद्येथास्तेषां परिचयमवश्यं नयनयोः ॥ १०.३७ ॥

अत्र माथुरमञ्जुलनिबद्धवासानां नेत्रपथे
कृष्णावाप्तिरूपमङ्गलाशंसनात्प्रशस्तिः ।

पञ्चानामेव सन्धीनां चतुषष्टिः क्रमादिह ।
कीर्तिरानि मयाङ्गानि सम्यग्ललितमाधवे ॥ १२१ ॥
रसभावानुबोधेन प्रयोजनमवेक्ष च ।
साफल्यं कार्यमङ्गानामित्याचार्याः प्रचक्षते ॥ १२२ ॥
केषांचिदेषामङ्गानां वैफल्यं केचिदूचिरे ।
दशरूपककाराद्यास्तत्सर्वेषां न सम्मतम् ॥ १२३ ॥
मुखादिसन्धिष्वङ्गानां क्रमोऽयं न विवक्षितः ।
क्रमस्यानादरादाद्यैः लक्ष्येषु व्युत्क्रमादपि ॥ १२४ ॥
अङ्गान्निष्पादयेदेतान्नायका प्रतिनायका ।
तदभावे पताकाद्यास्तदभावे तथेतरः ॥ १२५ ॥

अथ सन्ध्यन्तराणि

सुखादिसन्धिष्वङ्गानामशैथिल्याय सर्वदा ।
सन्ध्यन्तराणि योज्यानि तच्च तत्रैकविंशतिः ॥ १२६ ॥
सामदाने भेददण्डौ प्रत्युत्पन्नमतिर्वधः ।
गोत्रस्खलितमोजश्च धीः क्रोधः साहसं भयम् ॥ १२७ ॥
माया च संवृतिर्भ्रान्तिर्दूत्यं हेत्ववधारणम् ।
स्वप्नलेखौ मदश्चित्रमेषां लक्षणमुच्यते ॥ १२८ ॥

तत्र साम

भवेत्साम प्रियं वाक्यं स्वानुवृत्तिप्रकाशनम् ॥ १२९ ॥

यथा ललितमाधवे दशमेऽङ्के

कृष्णः प्रिये मैवं ब्रवीः

सन्तु भ्राम्यदपाड्गभङ्गिखुरलीखेलाभुवः सुभ्रुवः
स्वस्ति स्यान्मदिरेक्षणे क्षणमपि त्वामन्तरा मे कुतः ।
ताराणां निकुरुम्बकेन वृतया श्लिष्टेऽपि सोमाभया
नाकाशे वृषभानुजां श्रियमृते निष्पद्यते स्वश्छटा ॥ (१०.१०)

अथ दानं

दानं तु कथितं धीरैः प्रिअयवस्तुसमर्पणम् ॥ १३० ॥
यथा तत्रैव अष्टमे
माधवी भट्टिदारिए सहत्थेण तुए गंठिदा एसा सूरसोअंधिअमाला ।
[भर्तृदारिके, स्वहस्तेन त्वया ग्रथितैषा सूरसौगन्धिकमाला ।] २१

चन्द्रावली (मालामादाय) अज्जौत्त, एसा कौत्थुहस्स सहबासिणी होदु ।
[आर्यपुत्र, एषा कौस्तुभस्य सहवासिनी भवतु ।] (इति वक्षसि विन्यस्यति ।) २२

अथ भेदः

भेदस्तु कपटालापैः सुहृदां भेदकल्पना ॥ १३१ ॥

यथा चतुर्थे

जटिला (अपवार्य, सालीकस्नेहम्) अयि बच्छे, सदा मं पलोहिअ ललिदा अहिसारेदि त्ति
मह पुत्तस्स पुरदो बहूडिआ अलिअं जेब्ब तुमं सन्दूसेदि । ता कित्ति लाहवं सहेसि ।
[अयि वत्से, सदा मां प्रलोभ्य ललिता अभिसारयति इति मम पुत्रस्य पुरतो
वधूटिकालीकमेव त्वां दूषयति । तत्किमिति लाघवं सहसे? ।] १०५

अत्र जटिलया कपटेन ललिताया भेदः कृतः ।

अथ दण्डः

दण्डस्त्वविनयादीनां दृष्ट्या श्रुत्या च तर्जनम् ॥ १३२ ॥

यथा द्वितीये

कृष्णः (साटोपम्) रे रे दुष्ट!

राधापराधिनि मुहुस्त्वयि यन्न शस्तं
शक्ष्यामि कर्तुमखिलां गुरुरेष खेदः ।
सर्वाङ्गिलेयमभिधावति लुप्तधर्मा
त्वां मुक्तिकालरजनी बत किं करिष्ये ॥ २.२८ ॥

अत्र शङ्खचूडतर्जनं दण्डः ।

अथ प्रत्युत्पन्नमतिः

तात्कालिकी च प्रतिभा प्रत्युत्पन्नमतिर्मता ॥ १३३ ॥

यथा तत्रैव द्वितीये

ललिता कुन्दलदे, अस्सुदपुब्बा एसा कीरिसी रिचा बहुएण पडिज्जै । [कुन्दलते,
अश्रुतपूर्वैषा कीदृशी ऋग्बडुकेन पठ्यते ।]

मधुमङ्गलः (साट्टहासम्) बुट्टिए, आहीरीमुद्धिआ तुमं री री गीदं च्चेअ
जाणासि । अम्हअ वेदस्स तुमं कासि । ता सुणाहि कोसुमेस्वईए साहाए तैअ वग्गस्स
ललणासुहअरी रिचा एसा । [वृद्धे, आभीरीमुग्धिका त्वम्, री री गीतमेव जानासि ।
अस्मद्वेदस्य त्वं कासि । तत्शृणु कौसुमेषव्याः शाखायास्तृतीयवर्गस्य
ललनाशुभकरी ऋगेषा ।]

अत्र मधुमङ्गलस्य प्रतिभा ।

अथ वधः

वधस्तु जीवितद्रोहक्रिया स्यादाततायिनः ॥ १३४ ॥

यथा द्वितीये (नेपथ्ये)

मुष्टिना झटिति पुणजनोऽयं
हन्त पापविनिवेशितचेताः ।
पुण्डरीकनयनेन सखेलं
दण्डितः सकलजीवितवित्तम् ॥ (२.३०)

अथ गोत्रस्खलितम्

तद्गोत्रस्खलितं यत्तु नामव्यत्ययभाषणम् ॥ १३५ ॥

यथा सप्तमे

चन्द्रावली कण्ह (इत्यर्धोक्ते सलज्जम्) अज्जौत्त!

कृष्णः (सानन्दस्मितम्) प्रिये! दिष्ट्या सुधाधारां पायितोऽस्मि । तदलम्
आर्यपुत्रेति कूपाम्बुना ।

अत्र चन्द्रावल्याः समयोल्लङ्घनाद्गोत्रस्खलितम् ।

अथौजः

ओजस्तु वागुपन्यासो निजशक्तिप्रकाशकः ॥ १३६ ॥

यथा पञ्चमे

सुपर्णः देव बाढमातपत्रफणापटलीलधीयसः किङ्करस्यास्य
गरुत्मतः सकृत्पक्षविक्षेपकेलयेऽपि न पर्याप्तिमेष्यति, दूरे विश्राम्यतु
सखा मे सुदर्शनः कल्पान्तकुशलः ।

अत्र गरुडेन स्वशक्तिप्रकाशनादोजः ।

अथ धीः

इष्टार्थसिद्धिपर्यन्ता चिन्ता धीरिति कथ्यते ॥ १३७ ॥

यथा द्वितीये

राधिका कुन्दलदे! प्पसीद अनुकम्पेहि । अज्ज सा क्खु सामला कोमुदी जेण
पीदा । ता जेब्ब पुण्णवन्तं अप्पणो वामलोअणंचलं एत्थ खिण्णे मन्दभाइणि
जणे खणं अप्पेहि । [कुन्दलते! प्रसीद अनुकम्पय । अद्य सा खलु श्यामला
कौमुदी येन पीता । तमेव पुण्यवन्तमात्मनो वामलोचनाञ्चलमेतस्मिन्
खिन्ने मन्दभागिनि जने क्षणमर्पय ।] ३८

कुन्दलता (सासूयमिवालोक्य) अलं परपुरिसे गिञ्चन्तीहिं तुम्हेहिं
संभासणेण (इति धावन्ती जटिलामुपेत्य) अज्जे! कहं पढमं ब्रह्मणं ण
मग्गेसि, जो क्खु सुरं पुआबैस्सदि । [अलं परपुरुषे गृध्यन्तीभिर्युष्माभिः
सम्भाषणेन । आर्ये कथं प्रथमं ब्राह्मणं न मृगयसे, यः खलु सूर्यं
पूजापयिष्यति ।] ३९

जटिला बच्छे, सच्चं कहेसि । ता पसीद । आणेहि एक्कं बिअक्खणं बम्हणम् ।
[वत्से, सत्यं कथयसि । तस्मात्प्रसीद । आनयैकं विचक्षणं ब्राह्मणम् ।] ४०

अत्र राधिकोत्कण्ठातिशयदर्शनेन जटिलासमक्समेव विप्रवेशेन
कृष्णप्रवेशचिन्तनं कुन्दलतायाः धीः ।

अथ क्रोधः

क्रोधस्तु मनसो दीप्तिरपराधादिदर्शनात् ॥ १३८ ॥

यथा द्वितीये (नेपथ्ये)

फुल्लत्यारान्नवविचकिले केलिकुञ्जेषु फुल्ला
शेफालीनां स्खलति कुसुमे हन्त चस्खाल बाला ।
मीलत्युच्चैः कुवलयवने मीलिताक्षी किलासीत्
वाच्यं किं वा परमुपहसीर्मा प्रणामच्छलेन ॥ (२.७)

अत्र पद्मासखीनां हरये रोषः ।

अथ साहसम्

स्वजीवितनिराकाङ्क्षो व्यापारः साहसं भवेत् ॥ १३९ ॥

यथा दशमे

राधिका (सखेदमात्मगतम्) साहु रे कीर साहु । बाट्ठं अणुग्गहिदम्हि, ता
दाणिं दुल्लहाहिट्ठदाणदच्छिणं तित्थवरं कालिअदेहं प्पविसिय अप्पाणं
सप्पाणं तुरिअं उबहिरस्सम् । [साधु रे कीर साधु । बाढं अनुगृहीतास्मि, तद्
इदानीं दुर्लभाभीष्ठदानदक्षिणं तीर्थवरं कालियह्रदं प्रविश्य
आत्मानं सर्पेभ्यस्त्वरितमुपहरिष्यामि ।] ९८

अत्र राधायाः कालियह्रदप्रवेशः साहसम् ।

अथ भयम्

भयं त्वाकस्मिकत्रासः...

यथा नवमे चित्रदर्शने

मधुमङ्गलः एसो संखऊडो । [एष शङ्खचूडः ।]

राधा (सभयम्) परित्ताहि परित्ताहि (इति कृष्णमालिङ्गति) ।

अत्र शङ्खचूडप्रसङ्गेन राधात्रासो भयम् ।

अथ माया

... माया कैतवकल्पना ॥ १४० ॥

यथा चतुर्थे

वृन्दा (सानन्दम्) किं नाम राधासखीनां धियामक्षुण्णं पश्य पश्य ।

मन्दा सान्ध्यपयोदसोदररुचिः सैवाभिमन्योस्तनुर्
वक्त्रं हन्त तदेव खर्वटघटीघोणं विगाढेक्षणम् ।
व्यस्ता सैव गतिः करीरकुसुमच्छायं तदेवाम्बरं
मुद्रा कापि तथाप्यसौ पिशुनयत्यस्य स्वरूपच्छटाम् ॥ (४.३३)

अत्र संवृत्तिः

संवृत्तिः स्वयमुक्तस्य स्वयमाच्छादना भवेत् ॥ १४१ ॥

यथा नवमे

कृष्णः (वृन्दामवलोक्य) सत्यभामा, मयि कथम् (इत्यर्धोक्तेः । नववृन्दा
दृशं कूणयति ।)

चन्द्रावली (सखेदं नीचैः) विण्णादं पेम्मगोरवम् । [विज्ञातं
प्रेमगौरवम् ।]

कृष्णः (विभाव्य, स्वगतम्) हन्त, कथमसौ देवी । भवतु संवरीतुं
प्रयतिष्ये । (प्रकाशम्)

सती कथमसौ भामा देवी नाद्य प्रसीदति ।
निदानमविदं सद्यः खिद्यते हृदयं मम ॥ (९.५९)

अत्र स्वयमुक्तस्य सत्यभामेत्यस्य शब्दस्य सती कथमभामा इत्य्
अर्थान्तरेण संवरणात्संवृत्तिः ।

अथ भ्रान्तिः

भ्रान्तिर्विपर्ययज्ञानं प्रसङ्गस्यापि निश्चयात् ॥ १४२ ॥

यथा नवमे कृष्णः

अत्र भावि निरातङ्कमारो मे रमणं मम ।
दुरत्यन्ते कुशस्थल्या यदि दर्भाङ्गभूरियम् ॥ (९.५८)

चन्द्रावली माहवि, णूणं दिट्ठह्मि जं विदब्भंगभुत्ति बाहरीअदि ।
[माधवि नूनं दृष्टास्मि, यद्विदर्भआङ्गभूरिति व्याह्रियते ।]

अत्र विदर्भाङ्गभूरित्यस्य विगतदर्भभूमित्वाज्ञानं देव्याः भ्रान्तिः ।

भ्रान्तिस्तु केचिदिच्छन्ति भृङ्गबाधाविचेष्टितम् ।

अथ दूत्यम्

दूत्यं तु सहकारित्वं दुर्घटे कार्यवस्तुनि ॥ १४३ ॥

यथा प्रथमे, कुन्दलता

तिह्णाउला चऊरी पञ्जरिआसञ्जदा चिरं जलै ।
पाअं बंजुलकुञ्जे ताराही सप्पधारेहि ॥ (१.५८)
[तृष्णाकुला चकोरी पञ्जरिकासंयता चिरं ज्वलति ।
पादं बञ्जुलकुञ्जे ताराधीश प्रसारय ॥]

अत्र जटिलाप्रातिकूल्येन कुन्दलताया दुर्घटे राधासङ्गमकार्ये सहकारित्वं
दूत्यम् ।

अथ हेत्ववधारणम्

निश्चयो हेतुनार्थस्य मतं हेत्ववधारणम् ॥ १४४ ॥

यथा द्वितीये

वृन्दा स्थाने खल्वियं तव चिन्ता । तथ्यमेषा दुष्टेनाक्रान्ता त्रिलोकीमेव
सन्तापयेत् । यतः

विद्योतन्ते गुणपरिमलैर्याः समस्तोपरिष्टात्
ताः कस्यार्तं दधति न खल्स्पर्शदग्धास्तरुण्यः ।
भूयो भूयः स्वयमनुपमां क्लान्तिमासादयन्ती
मन्दाक्रान्ता भवति जगतः क्लेशदात्री हि चिन्ता ॥ (२.९)

अत्र चित्रनिदर्शनोपबृंहितेन सर्वगुणोत्तमस्त्रीदुःखरूपेण हेतुना
सर्वजनदुःखस्य निश्चयाद्धेत्ववधारणम् ।

अथ स्वप्नः

स्वप्नो निद्रान्तरे किञ्चिज्जल्पितं परिचक्षते ॥ १४५ ॥

यथा सप्तमे

नववृन्दा

श्वाफल्केः सफलीबभूव ललिते हृल्लालसावल्लरी
हा धिक्पश्य मुरान्तकोऽयमुररीचक्रे रथारोहणम् ।
इत्थं ते करुणस्वरस्तवकितं स्वप्नायितं शृण्वती
मन्ये तन्वि पतत्तुषारकपटाच्चक्रन्द यामिन्यपि ॥ (७.१०)
अत्र राधायाः स्वप्नायितम् ।

अथ लेखः

विवक्षितार्थकलिता पत्रिका लेख ईरितः ॥ १४६ ॥

यथा पञ्चमे

पौर्णमासी

अचिरं निरस्य रसितैः प्रतिपक्षं राजहंसनिकुरम्बम् ।
कृष्णघनस्त्वाममृतैस्तृषितां चन्द्रकवतीं सिञ्च ॥ (५.७)

इत्यसौ चन्द्रावलीपत्रिकालेखः ।

अथ मदः

मदस्तु मद्यजः...

यथा पञ्चमे

भीष्मः (पुनरवधाय, सस्मितम्)

बिले क्व नु विलिल्यिरे नृपपिपीलिकाः पीडिताः
पिनस्मि जगदण्डकं ननु हरिः क्रुधं धास्यति ।
शचीगृहकुरङ्ग रे हससि किं त्वमित्युन्नदन्न्
उदेति मदडम्बरस्खलितचूडमग्रे हली ॥(५.४१)॥

अत्र बलदेवस्य मदः ।

अथ चित्रम्

चित्रं त्वाकाराणां विलोकनम् ॥ १४७ ॥

यथा नवमे

नववृन्दा (प्रविश्य) समीक्ष्यतां विचित्रमिदं चित्रम् ।

अत्र माथुरचरित्रं चित्रलिखितम् ।

सन्ध्यन्तराणां विज्ञेयः प्रयोगस्त्वविभागतः ।
तथैव दर्शनादेषामनैयत्येन सन्धिषु ॥ १४८ ॥

अथ विभूषणानि

एवमङ्गैरुपाङ्गैश्च सुश्लिष्टं रूपकश्रियः ।
शरीरं वस्त्वलङ्कुर्यात्षड्त्रिंशद्भूषणैः स्फुटम् ॥ १४९ ॥
भूषणाक्षरसङ्घातौ हेतुः प्राप्तिरुदाहृतिः ।
शोभासंशयदृष्टान्तावभिप्रायो निदर्शनम् ॥ १५० ॥
सिद्धिप्रसिद्धिर्दाक्षिण्यमर्थापत्तिर्विभूषणम् ।
पदोच्चयस्तुल्यतर्को विचारस्तद्विपर्ययः ॥ १५१ ॥
गुणातिपातोऽतिशयो निरुक्तं गुणकीर्तनम् ।
गर्हणानुनयौ भ्रंशो लेशः क्षोभो मनोरथः ॥ १५२ ॥
अनुक्तिसिद्धिः सारूप्यं माला मधुरभाषणम् ।
पृच्छोपदिष्टदृष्टानि षड्त्रिंशद्भूषणानि हि ॥ १५३ ॥

तत्र भूषणम्

गुणालङ्कारबहुलं भाषणं भूषणं स्मृतम् ॥ १५४ ॥

यथा नवमे

कृष्णः (समन्तादवलोक्य)

लक्ष्मीः कैरवकाननेषु परितः शुद्धेषु विद्योतते
सन्मार्गद्रुहि सर्वशार्वरकुले प्रोन्मीलति क्षीणता ।
नक्षत्रेषु किलोद्भवत्यपचितिः क्षुद्रात्मसु प्रायिकी
शङ्के शङ्करमौलिरभ्युदयते राजा पुरस्ताद्दिशि ॥९.१०॥

अत्र प्रसादमाधुर्यादिगुणानामनुप्रासश्लेषानुमानाद्यलङ्काराणां च
सत्तया भूषणम् ।

अथाक्षरसङ्घातः

वाक्यमक्षरसङ्घातो भिन्नार्थं श्लिष्टशब्दकम् ॥ १५५ ॥

यथा पञ्चमे

सुपर्णः देव! पश्य पश्य

वक्त्राणि भान्ति परितो हरिणेक्षणानाम्
आरुढहर्म्यशिरसां भवदीक्षणाय ।
यैर्निर्मितानि तरसा सरसीरुहाक्ष
चन्द्रावलीपरिचितानि नभस्तलानि ॥ (५.३२)

अत्र चन्द्राणामावल्या परिचितानीत्यत्र चन्द्रावली नाम प्रतिभानाद्
अक्षरसङ्घातः ।

अथ हेतुः

स हेतुरिति निर्दिष्टो यत्साध्यार्थप्रसाधकम् ॥ १५६ ॥

यथा सप्तमे

मधुमङ्गलः (निरीक्ष्य) पिअबअस्स! पेक्ख काए बि अणुराइणीए सेवा किदत्थि ।
[प्रियवयस्य, पश्य कयाप्यनुरागिण्या सेवा कृतास्ति ।]

कृष्णः सखे! साधु लक्षितम् ।

असौ व्यस्तन्यासा विशदयति माला विवशतां
विभक्तेयं चर्चा नयनजलवृष्टिं कथयति ।
करोत्कम्पं तस्या वदति तिलकं कुञ्चितमिदं
कृशाङ्ग्याः प्रेमाणं वरिवसितमेव प्रथयति ॥ (७.३२)

अत्रानुरागसाधनाय विवशत्वादिहेथेतूनां कथनादयं हेतुः ।

अथ प्राप्तिः

एकदेशविलोकेन प्राप्तिः शेषाभियोजनम् ॥ १५७ ॥

यथा नवमे

कृष्णः (परिक्रम्य)

लब्धा कुरङ्गि नवजङ्गमहेमवल्ली
रम्या स्फुटं विपिनसीमनि राधिकात्र ।
अस्यास्त्वया सखि गुरोर्यदियं गृहीता
माधुर्यवल्लितविलोचनकेलिदीक्षा ॥ ९.१७ ॥

अत्र लोचनसौन्दर्यदीक्षालालसस्य एकदेशस्य त्वयि विलोकनेन सालं त्वया
लब्धेति विशेषार्थस्य योजनात्प्राप्तिः ।

अथोदाहरणम्

वाक्यं यद्गूढतुल्यार्थं तदुदाहरणं मतम् ॥ १५८ ॥

यथा द्वितीये

कुन्दलता (सस्मितम्) राहि, देहि मे पारितोसिअं, यं सुट्ठु दुल्लहं दे
अब्भत्थिदं मए णिब्बाहिदम् । [राधे, देहि मे पारितोषिकम् । यत्सुष्ठु दुर्लभं
तेऽभ्यर्थितं मया निर्वाहितम् ।] ८०

राधिका (वक्रमवेक्ष्य) कुन्दलदिए, किं मे अब्भत्थिदं? [कुन्दलते, किं
मेऽभ्यर्थितम्?] ८१

कुन्दलता अई, कीस भुअं भंगुरेसि, जअ सूराराहणं भणामि । [अयि, कस्माद्
भ्रुवं भङ्गुरयसि, यत्सूर्याराधनं भणामि ।] ८२

अत्र कुन्दलता भणितस्य साभिप्रायगूढार्थतया उदाहरणम् ।

यत्र तुल्यार्थयुक्तेन वाक्येनाभिप्रदर्शनात् ।
साध्यतेऽभिमतश्चार्थस्तदुदाहरणं मतम् ॥ इति (साह्द्६.११७)

तद्यथा, षष्ठे

नारदः ततस्तेनोक्तम्

ज्वलितो जनः कृशानौ शाम्यति तप्तः कृशानुनैवायम् ।
भगवति कृतागसो मे भगवानेवाधुना शरणम् ॥ (६.१७)

अथ शोभा

शोभा स्वभावप्राकट्यं यूनोरन्योन्यमुच्यते ।

यथा चतुर्थे

राधिका (माधवमवलोक्य, सानन्दमात्मगतम्) भो भअवं,
आणन्दपज्जण्ण, ण क्खु रुन्धीऐ जलासारेण उक्कंठिदा तवस्सिणीहि मे
दिट्ठीचौरी । क्खणं पिबेदु एसा दुल्लहं इमस्स मुहचन्दस्स जोण्हम् । [भो
भगवन्, आनन्दपर्जन्य, न खलु रुन्ध्यतां जलासारेणोत्कण्ठिता तपस्विनी मे
दृष्ट्चकोरी । क्षणं पिबत्वेषा दुर्लभामस्य मुखचन्द्रस्य ज्योत्स्नम् ।] ९९

कृष्णः (राधामवेक्ष्य, सहर्षम्)

धावत्याक्रमितुं मुहुः श्रवणयोः सीमानमक्ष्णोर्द्वयी
पौष्कल्यं हरतः कुचौ बलिगुणैरारब्धमानं ततः ।
मुष्णीतश्चलतां भ्रुवौ चरणयोरुद्यद्धनुर्बिभ्रमे
राधायाः तनुपत्तने नरपतौ बाल्याभिधे शीर्यति ॥ (४.२७) १०१

अत्र परस्परभावप्राकट्याच्छोभा । कैश्चित्तु

सिद्धैरर्थैः समं यत्राप्रसिद्धोऽर्थः प्रकाशते ।
श्लिष्टलक्षणचित्रार्था सा शोभेत्यभिधीयते ॥ इत्याह । (साह्द्६.१७६)

यथा नवमे

नववृन्दा (पुरोऽवलोक्य, सहर्षम्)

निर्मितभुवनविशुद्धिर्विधुर्मधुरालोकसाधने निपुणा ।
उल्लसितपरमहंसा भक्तिरिवेयं शरन्मिलिअति ॥ ९.१ ॥

अथ संशयः

अनिश्चयात्तु यद्वाक्यं सन्देहस्य निगद्यते ॥ १५९ ॥

यथा द्वितीये (नेपथ्ये)

स्थूलस्तालभुजोन्नतिर्गिरितटीवक्षाः क्व यक्षाधमः
क्वायं बालतमालकन्दलमृदुः कन्दर्पकान्तः शिशुः ।
नास्त्यन्यः सहकारितापटुरिह प्राणी न जानीमहे
हा गोष्ठेश्वरि कीदृगद्य तपसां पाकस्तवोन्मीलति ॥ (२.२९)

अत्र संशयेनैव वाक्यसमाप्तेरयं संशयः ।

अथ दृष्टान्तः

स्वपक्षे दर्शनं हेतोर्दृष्टान्तः साध्यसिद्धये ॥ १६० ॥

यथा नवमे

कृष्णः (विमृश्य) अथवा

धीरः प्रकृत्यापि जनः कदाचिद्
धत्ते विकारं समयानुरोधात् ।
क्षान्तिं हि मुक्त्वा बलवच्चलन्ती
सर्वंसहा भूरपि भूरि दृष्टा ॥ (९.२०)

अत्र धीरेऽपि जने विकारसद्भावे साध्ये तत्साधकस्य चलनरूपविकारस्य
हेतोः सर्वंसहायां भुवि दर्शितत्वाद्दृष्टान्तः ।

अथाभिप्रायः

अभिप्रायस्त्वभूतार्थो हृद्यः साम्येन कल्पितः ।
अभिप्रायं परे प्राहुर्ममतां हृद्यवस्तुनि ॥ १६१ ॥

यथा चतुर्थे

कृष्णः (सोत्सुकं रोमाञ्चमुन्मील्य)

उद्गीर्णाद्भुतमाधुरीपरिमलस्याभीरलीलस्य मे
द्वैतं हन्त समक्षयन्मुहुरसौ चित्रीयते चारणः ।
चेतः केलिकुतूहलोत्तरलितां सद्यः सखे मामकं
यस्य प्रेक्ष्य सुरूपतां व्रजवधूसारूप्यमन्विष्यति ॥ (४.१९)
अत्राभूतार्थरूपस्य भगवद्द्वितीयत्वस्य नटे कल्पनमभिप्रायः । हृद्य्
अवस्तुनि स्वसौन्दर्ये भोगेच्छया ममता वा ।

अथ निदर्शनं

यथार्थानां प्रसिद्धानां क्रियते परिकीर्तनम् ।
परोपेक्षाव्युदासार्थं तन्निदर्शनमुच्यते ॥ १६२ ॥

यथा चतुर्थे

गार्गी (संस्कृतेन)

कामं सर्वाभीष्टकन्दं मुकुन्दं
या निर्बन्धात्प्राहिणोदिन्धनाय ।
आचार्यानी सा करोति स्म पण्यं
पिण्याकार्थं हन्त चिन्तामणीन्द्रम् ॥ (४.६)
अत्र बिम्बानुबिम्बवस्तुबोधनात्निदर्शनम् ।

अथ सिद्धिः

अतर्कितोपपन्नः स्यात्सिद्धिरिष्टार्थसङ्गमः ।

यथा षष्ठे

कृष्णः (यथा कृत्वा सगद्गदम्)

उपतरु ललितां तां प्रत्यभिक्षाय सद्यः
प्रकृतिमधुररूपां वीक्ष्य राधाकृतिं च ।
मणिमपि परिचिन्वन् शङ्खचूडावतंसं
मुहुरहमुद्घूर्णं भूरिणा सम्भ्रमेण ॥ (६.४०)

अत्र इष्टस्य ललितादर्शनस्यातर्कितोपपन्नत्वात्सिद्धिः । कश्चित्तु बहूनां
कीर्तनं सिद्धिरभिप्रेतार्थसिद्धये इत्य्(साह्द्६.१८६) आह । तद्यथा दशमे


कृष्णः प्रिये त्वदास्यं पश्यतो मे नोपमानवस्तूनि हृदयमारोहन्ति नः ।
यतः

धत्ते न स्थितियोग्यतां चरणयोरङ्केऽपि पङ्केरुहं
नाप्यङ्गुष्ठनखस्य रत्नमुकुरः कक्षासु दक्षायते ।
चण्डि त्वन्मुखमण्डलस्य परितो निर्मञ्छनेऽप्यञ्जसा
नौचित्यं भजने समुज्ज्वलकला सान्द्रापि चन्द्रावली ॥ (१०.११)

अत्र स्पष्टं गुणकीर्तनम् ।

अथ प्रसिद्धिः

प्रसिद्धिर्लोकविख्यातैरर्थैः स्वार्थप्रसाधनम् ॥ १६३ ॥

यथा षष्ठे

नववृन्दा (स्वगतम्)
वसन्ती शुद्धान्ते मधुरिमपरीता मधुरिपोर्
इयं तन्वी सद्यः स्वयमिह भवित्री करगता ।
वृताङ्गीमुत्तुङ्गैरविकलमधूलीपरिमलैः
प्रफुल्लां रोलम्बे नवकमलिनीं कः कथयति ॥ (६.२८)

अत्र लोकविख्यातस्य प्रफुल्लकमलिनीरोलम्बसङ्गमस्य कथनेन स्वार्थस्य
राधामाधवयोः सङ्गमस्य साधनं प्रसिद्धिः ।

अथ दाक्सिण्यम्

दाक्षिण्यं तु भवेद्वाचा परचित्तानुवर्तनम् ॥ १६४ ॥

यथा द्वितीये

ललिता (सालीकम्) अज्जे, पेक्ख । एसो कण्हो मोट्टिमं अह्म विडम्बणं करेदि ।
[आर्ये, पश्य । एष कृष्णः बलादस्मद्विडम्बनं करोति ।] ११७

अत्र ललितया मुखरायाः चित्तानुवृत्तिर्दाक्षिण्यम् ।

अथार्थापत्तिः

उक्तार्थानुपपत्त्याऽन्यो यस्मिन्नर्थः प्रकल्पते ।
वाक्यान्माधुर्यसंयुक्तात्सार्थापत्तिरुदाहृता ॥ १६५ ॥

यथा नवमे

नववृन्दा

कुन्ददन्ति दृशोर्द्वन्द्वं चन्द्रकान्तमयं तव ।
उदेति हरिवक्त्रेन्दौ स्यन्दते कथमन्यथा ॥ ९.१३

अत्र स्यन्दनान्यथानुपपत्त्या नेत्रस्य चन्द्रकान्तमयत्वअकल्पनादियम्
अर्थापत्तिः । यथा वा दशमे

चन्द्रावली देअ! तुह्म विलास सोक्खाणं बाहादेण किद महापराहम्हि । ता
कारुण्णेण आणबेहि जधा गोठ्ठबैणो गोट्ठं गदुअ बसंती तुमं सुहिणं
करेमि । [देव! तव विलाससौख्यानां व्याघातेन कृतमहापराधास्मि । तत्
कारुण्येन आज्ञापय यथा गोष्ठपतेर्गोष्ठं गत्वा वसन्ती त्वां सुखिनं
करोमि । १०२

अत्र गोष्ठगमनार्थस्यानुपपत्त्या सत्यासङ्गमनिषेधः प्रकल्प्यते ।

अथ विशेषणम्

सिद्धान् बहून् प्रधानार्थानुक्त्वा यत्र प्रयुञ्जते ।
विशेषयुक्तं वचनं विज्ञेयं तद्विशेषणम् ॥ १६६ ॥

यथा चतुर्थे, कृष्णः

लक्ष्मीवानिह दक्षिणानिलसखः साक्षान्मधुर्मोदते
माद्यद्भृङ्गविहङ्गहारिविहसत्यत्रापि वृन्दावनम् ।
राधा यद्यभिसारमत्र कुरुते सोऽयं महानेव मे
सान्द्रानन्दविलाससिन्धुलहरीहिन्दोलकोलाहलः ॥ (४.१७)

अत्र प्रसिद्धार्थान्मधुवृन्दावनादीनुक्त्वा राधाभिसारस्य
वैशिष्यकथनाद्विशेषणम् । कश्चित्तु लेखिष्यमाणं
नवनवसुधासम्बन्धोऽपि (१.३३)
इत्यादिपद्यमत्रोदाहरति ।
[*नोते fउल्ल्वेर्से गिवेन् बेलोw, अत्१७१ (अतिशयः).]

अथ पदोच्चयः

बहूनां तु प्रयुक्तानां पदानां बहुभिः पदैः ।
उच्चयः सदृशार्थो यः स विज्ञेयः पदोच्चयः ॥ १६७ ॥

यथा चतुर्थे, कृष्णः

मतिरघूर्णत सार्धमलिव्रजैः
धृतिरभून्मधुभिः सह विच्युता ।
व्यकसदुत्कलिका कलिकालिभिः
सममिह प्रियया वियुतस्य मे ॥ (४.२१)

अत्र मत्यादीनां घूर्णादिक्रियासु अलिव्रजादिभिः समावेशादयं पदोच्चयः ।
कश्चित्तु उच्चयोऽर्थानुरूपो यः पदानां स पदोच्चयः इत्य्(साह्द्६.१८०) आह ।
यथा दशमे
[*नोते संचयो]

सुतनु किञ्चिदुदञ्चय लोचने
चलचकोरचमत्कृतिचुम्बिनी ।
स्मितसुधां च सुधाकरमाधवी
विधुरतो विधयेऽत्र धुरन्धराम् ॥१०.८॥

अथ तुल्यार्थकः

रूपकैरुपमाभिर्वा तुल्यार्थाभिः प्रयोजितः ।
अप्रत्यक्षार्थसंस्पर्शः तुल्यतर्क इतीरितः ॥ १६८ ॥

यथा तत्रैव नवमे, कृष्णः

कदर्थनादप्युरुबाल्यचापलैर्
उत्सर्पतो स्नेहभरेण विक्लवाम् ।
विलोकमानस्य ममाद्य मातरं
हविर्विलायं हृदयं विलीयते ॥ (९.२६)

अत्र हविर्विलायमिति लुप्तोपमयाऽप्रत्यक्षस्य चित्तद्रवस्य कथनं
तुल्यतर्कः । कश्चित्तु तुल्यतर्को यदर्थेन तर्कः प्रकृतगामिना इत्य्(साह्द्
६.१८०) आह । यथा चतुर्थे

जटिला णूणं नूउरसहेन आहडिट्टा एदे हंसा हंसणंदिणीजलादो वणे
धाअन्ति । ता बहूडिआ णादिदूरे हबिस्सदि । [नूनं नूपुरशब्देन आकर्षिता एते
हंसा हंसनन्दिनीजलात्वने धावन्ति । तद्वधूटिका नातिदूरे भविष्यति ।]

अथ विचारः

विचारस्त्वेकसाध्यस्य बहुसाधनवर्णनम् ।

यथा प्रथमे, कृष्णः

सखे, मधुमङ्गल, पश्य

अतनुतृणकदम्बास्व्>अदशैथिल्यभाजाम्
अविरलतरहंभारम्भताम्यन्मुखीयम् ।
चटुलितनयनश्रीरवली नैचिकीनां
पथि सुवलितकण्ठी गोकुलोत्कण्ठिताभूत् ॥ (१.२८)

अत्रोत्कण्ठितस्यअ साध्यस्य साधनानि तृणास्वादशैथिल्यादीनि । यद्वा अग्रे
लेख्यं शरणमिह यो भ्रातुः (५.२५) इत्यादि पद्यमत्रोदाहरणं ज्ञेयम् ।
कश्चित्तु विचारो युक्तिवाक्यैर्यदप्रत्यक्षार्थदर्शनमित्य्(साह्द्६.१८२) आह ।
अत्रोक्तमुदाहरणमपि सङ्गच्छते ।

अथ तद्विपर्ययः

विचारस्यान्यथाभावो विज्ञेयस्तद्विपर्ययः ॥ १६९ ॥

यथा षष्ठे

राधा (सव्यथमाकाशे संस्कृतमाश्रित्य)

विचित्रायां क्षौण्यामजनिषत कन्याः कति न वा
कठोराङ्गी नान्या निवसति मया कापि सदृशी ।
मुकुन्दं यन्मुक्त्वा समयमहमद्यापि गमये
धिगस्तु प्रत्याशामहह धिगसून् धिङ्मम धियम् ॥ (६.२१)

अत्रोद्वेगातिशयेन प्रत्याशाधिकरणाद्विपर्ययः ।

अथ गुणातिपातः

गुणातिपातो व्यत्यस्तगुणाख्यानमुदाहृतः ॥ १७० ॥

यथा चतुर्थे

जटिला (सोल्लुण्ठं विहस्य, संस्कृतेन)

व्रजेश्वरसुतस्य कः परवधूविनोदक्रिया
प्रशस्तिभरभूषितं गुणमवैति नास्य क्षितौ ।
यदेष रतितस्करः पथि निरुध्य साध्वीर्बलात्
तदीयकुचकुट्मले करजमों नमो विष्णवे ॥ (४.३१)

अत्र प्रकटश्च गुणातिपातः । कश्चित्तु गुणातिपातः कार्ये यद्विपरीतं गुणान्
प्रति इत्याह (साह्द्६.१८४), यथा पञ्चमे चन्द्रावली (संस्कृतेन)

शरणमिह यो भ्रातुस्तस्य प्रतीपविधायिना
हितकृदपि ता देव्यास्तस्याः समग्रमुपेक्षणम् ।
गतिरविकलो यो मे तस्य प्रियस्य च विस्मृतिर्
बत हतविधो वामे सर्वं प्रयाति विपर्ययम् ॥ (५.२५)

अथ अतिशयः

बहून् गुणान् कीर्तयित्वा सामान्येन च संश्रितान् ।
विशेषः कीर्त्यते यत्र ज्ञेयः सोऽतिशयो बुधैः ॥ १७१ ॥

यथा प्रथमे कृष्णः

नवनवसुधासम्बन्धोऽपि प्रियोऽपि दृशां सदा
सरसिजवनीं म्लानां कुर्वन्नपि प्रभया स्वया ।
विधुरपि कलापूर्णोऽप्युच्चैः कुरङ्गधरः शशी
व्रजमृगदृशां वक्त्रैरेभिः सुरङ्गधरैर्जितः ॥ १.३३

अत्र चन्द्रमुखयोः सुधासम्बन्धत्वादिसामान्यगुणकीर्तनानन्तरं
मुखेषु सुरङ्गत्वकीर्तनं विशेषः ।

अथ निरुक्तम्

निरुक्तं निरवद्योक्तिर्नामान्यर्थप्रसिद्धये ॥ १७२ ॥

यथा प्रथमे कृष्णः (चन्द्रावलीमासाद्य सानन्दम्)

नीतस्तन्वि मुखेन ते परिभवं भ्रूक्षेपैविक्रीडया
बिभ्यद्विष्णुपदं जगाम शरणं तत्राप्यधैर्यं गतः ।
आसाद्य द्विजराजितां विजयिनः सेवार्थमस्योज्ज्वलच्
चन्द्रोऽयं द्विजराजतापदमगात्तेनासि चन्द्रावली ॥ (१.४०)

अत्र चन्द्रावली नाम निरुक्तम् ।

अथ गुणकीर्तनम्

लोके गुणातिरिकानां बहूनां यत्र नामभिः ।
एकः संशब्द्यते तत्तु विज्ञेयं गुणकीर्तनम् ॥ १७३ ॥

यथा द्वितीये, कृष्णः (पुरो राधां पश्यन्नपवार्य)

विहार सुरदीर्घिका मम मनःकरीन्द्रस्य या
विलोचनचकोरयोः शरदमन्दचन्द्रप्रभा ।
उरोम्बरतटस्य चाभरणचारुतारावली
मयोन्नतमनोरथैरियमलम्बि सा राधिका ॥ २.१० ॥

अत्र सुरदीर्घिकाशब्दैः राधासंशब्दनं गुणकीर्तनम् ।

अथ गर्हणम्

यत्र सङ्कीर्तयन् दोषान् गुणमर्थेन दर्शयेत् ।
गुणान् वा कीर्तयन् दोषं दर्शयेद्गर्हणं हि तत् ॥ १७४ ॥

त्र्त्राद्यं यथा सप्तमे,

माधवी देअ, कटोरप्पा एसा भट्टिदारिआ सुट्ठु ताबं सोढुं पारेदि जं
तुम्ह पच्चक्खं च्चेअ चंदभाआमंदिरे जलंतं जलनकुंडं जलकेलिकुण्डं
बिण्णादबदी । [देव, कठोरात्मैषा भर्तृदारिका सुष्ठु तापं सोढुं पारयति
तत्तव प्रत्यक्षमेव चन्द्रभागामन्दिरे ज्वलन्तं ज्वलन्तकुण्डं
जलकेलिकुण्डं विज्ञातवती ।] १४९

कृष्णः (स्वगतम्) माधवि, साधु साधु यदत्र स्नेहातिरेकं सूचयन्ती समये
सख्यसेवां वितनोषि । १५०

अत्र कठोरादिरूपस्य दोषस्य कथनमपि
कृष्णविषयानुरागगुणकीर्तनतया पर्यवसितम् । द्वितीयं यथा चतुर्थे

कुन्दलता बीराहिमण्णो, पुण्णबदी मे सही राहा । जाए दक्खिणा सच्चबादिणी
सिणिद्धा तुम्ह मादा सुस्सू लद्धा । [वीराभिमन्यो! पुण्यवती मे सखी राधा,
यया दक्षिणा सत्यवादिनी स्निग्धा तव माता श्वश्रूर्लब्धा ।] १३३

अत्र गुणकीर्तनमप्यर्थतो दोष इति गर्हणम् ।

अथानुनयः

अभ्यर्थनापरं वाक्यं विज्ञेयोऽनुनयो बुधैः ।

यथा पञ्चमे, कृष्णः सास्रम्

अयं कण्ठे लग्नः शशिमुखि जनस्ते प्रणयवान्
यदप्राप्त्या धन्यां तनुमतनुरूपां तृणयसि ।
प्रसीदाद्य प्राणेश्वरि विरम मास्मिन्ननुगते
कृथाः पत्यावत्याहितमिदमुरो मे विदलति ॥ ५.३५ ॥

अत्र कृष्णेन चन्द्रावलीप्रार्थनमनुनयः ।

अथ भ्रंशः

पतनात्प्रकृतादर्थादन्यस्मिन् भ्रंश ईरितः ॥ १७५ ॥

यथा नवमे, माधवी

देअ, इमाणं पेम्मकोमलाणं अक्खराणं मा क्खु णं अहिरूबं जाणाहि । जं
एसा ण होदि । [देव, एषा प्रेमकोमलानामक्षराणां मा खल्वेतामभिरूपां
जानीहि । यदेषा सत्या न भवति ।] १९४

कृष्णः साधु माधविके! साधु । मदीयहृदयाशङ्का त्वया निरस्ता । तद्
इन्द्रजालाभिज्ञया नववृन्दयैव निर्मितेयं मायिकी देवी रसालमूलवर्तिनी
खलु सत्या ।

अत्र सत्याशब्दस्य प्रकृतार्थं सत्यभामारूपं परित्यज्य तथार्थलक्षणस्य
कथनाद्भ्रंशः । कश्चित्तु कथयन्ति बुधाः भ्रंशं वाच्यादन्यतरद्वचः
इत्याह । यथा प्रथमे, कृष्णः
[*नोते साह्द्६.१८७ हस्दृप्तादीनां भवद्भ्रंशो वाच्यादन्यतरद्वचः ।]

सरोजाक्षि परोक्षं ते कदापि हृदयं मम ।
न स्प्रष्टुमप्यलं बाधा राधा त्वाक्रम्य गाहते ॥ १.४२

अत्र वाच्याद्राधाया अस्पर्शादन्यद्बाधाक्रमणं भ्रंशः ।

अथ लेशः

लेशः स्यादिङ्गितज्ञानकृद्विशेषणवद्वचः ॥

यथा पञ्चमे, भीष्मकः

अयमिह किल कन्याबान्धवानां निबन्धः
समुचित इति लक्ष्मीकान्त विज्ञापयामि ।
मम दुहितुरनुज्ञोल्लङ्घनादङ्गनायाः
कथमपि न परस्याः पाणिसङ्गो विधेयः ॥ ५.३८॥

(इत्याद्युक्तौ श्रीकृष्णः पौरमासीमुखमीक्षते)

पौर्णमासी मुकुन्द! गोकुलकुमारीकुलानि चन्द्रावलीमात्रावशेषाणि
दुर्विदग्धेन विधिना कृतानि । तदत्र का क्षतिः?

अत्र चन्द्रावलीमात्रावशेषाणीति विशेषणवद्वचः कृष्णेङ्गितज्ञापकतया
संवृत्तमिति लेशः ।

अत्र क्षोभः

क्षोभस्त्वन्यगते हेतावन्यस्मिन् कार्यकल्पनं ॥ १७६ ॥

यथा सप्तमे, कृष्णः

त्वदङ्गसङ्गतैरेभिस्तप्तोऽस्मि मिहिरातपैः ।
विन्दन्ती वन्दनच्छायां मां देवि शिशिरीकुरु ॥ ७.३७ ॥

अत्र सूर्यातपेषु चन्द्रावल्यङ्गसङ्गतेषु तत्कार्यभूतस्य तापस्य कृष्णेन
स्वस्मिन् कल्पनात्क्षोभः । कश्चित्तु क्षोभस्थाने सङ्क्षेपं पञ्हन् लक्षयन्ति
सङ्क्षेपो यत्तु सङ्क्षेपादात्मान्यर्थे प्रयुज्यते । (साह्द्६.१९२) यथाष्टमे


कृष्णः देवि, त्रिलोककक्षासु किं तवाभीष्टं? तदभिव्यज्य
निजनिदेशभाजनमन्यतयैव पर्याप्तसमस्तनिश्रेयसे प्रेयसि विधेहि
प्रसादमाधुरीम् ।

अथ मनोरथः

मनोरथस्तु व्याजेन विवक्षितनिवेदनम् ॥ १७७ ॥

यथा चतुर्थे

राधिका (सौत्सुक्यं पुरो दृष्ट्वा) हला ललिदे, पेक्ख पेख धण्णा एसा
तरंगलेहा जा खु सेवालबल्ली णिबद्धपाअं णं हंसिअं मोआबेदि । ता फुडं
भिसिणीपत्तन्तरिदेण कलहंसेण संघडैस्सदि । [हला ललिते, पश्य पश्य धन्या
एषा तरङ्गलेखा या खलु शैवालवल्लीनिबद्धपादामेनां हंसिकां
मोचयति । तत्स्फुटं बिसिनीपत्रान्तरितेन कलहंसेन संघट्टिष्यति ।] ७१

अत्र हंसीव्याजेन राधायाः कृष्णसङ्गमाभिलाषकथनं मनोरथः ।

अथानुक्तसिद्धिः
प्रस्तावनैव शेषार्थो यत्रानुक्तोऽपि बुद्ध्यते ।
अनुक्तसिद्धिरेषा स्यादित्याह भरतो मुनिः ॥ १७८ ॥
[*नोते fइर्स्त्रेfएरेन्चे तो भरत, wहों हे हस्नोत्बेएन् fओल्लोwइन्ग्वेर्य्च्लोसेल्य्.
नाट्१६.१६९ = प्रस्तावेनैव शेषोऽर्थः कृत्स्नो यन्न प्रतीयते । वचनेन
विनानुक्तसिद्धिः सा परिकीर्तिता ॥]

यथा चतुर्थे राधा

हला लबंगकुडुङ्गे आहरन्ती तुमं बुंदाअणबासिणा मत्तकलहिन्देण आअदुअ
हत्थेण गहीदहत्थासि संबुत्ता । तदो संभमेन घुस्मन्तीए तुह हढेण
ओट्ठपल्लअं डंसन्तेण तिना बामे त्थबअस्मि फुरन्ततिक्खकामङ्कुसं
करपुक्खरम् । [हला लवङ्गकुञ्जे आहरन्ती त्वं वृन्दावनवासिना
मत्तकलभेन्द्रेण आगत्य हस्तेन गृहीतहस्तासि संवृत्ता । ततः सम्भ्रमेन
घूर्णन्त्यस्तव हठेण ओष्ठपल्लवं दंशता तेन वामे स्तवके
स्फुरत्तीक्ष्णकामाङ्कुशं करपुष्करम् ।] ९१

अत्रानुक्तस्यापि स्तने नखरार्पणस्य बोधादनुक्तसिद्धिः ।

अथ सारूप्यं

दृष्टश्रुतानुभूतार्थकथनादिसमुद्भवम् ।
सादृश्यं यत्र सङ्क्षोभात्तत्सारूप्यं निरूप्यते ॥ १७९ ॥

यथा चतुर्थे

जटिला अरे आहिण्डिआ कीस मुखं ढकेसि? जं दे बिज्जा न बिक्काइदा । [अरे आहिण्डिक"
कस्मान्मुखमाच्छादयसि? यत्ते विद्या न विक्रीता ।] (इति प्रसह्य
सम्मुखयति) १२६

अभिमन्युः (स्वगतम्) हद्धी हद्धी बाउलिअआए अम्माए लज्जापज्जाउलो किदम्हि ।
ता इदो अबक्कमिस्सम् । [हा धिक्, हा धिक्! बातूलिकया अम्बया लज्जापर्याकुलः
कृतोऽस्मि । तदितोऽपक्रमिष्यामि ।] १२७

अत्र सारिकामुखश्रुतकृष्णप्रवेशसङ्क्षोभाज्जटिलायाः स्वपुत्रे
कृष्णबुद्धिकथनात्सारूप्यम् ।

अथ माला

बहूनि कारणान्येव सा मालेत्यभिधीयते ॥ १८० ॥

यथा द्वितीये

राधा ललिदे प्पसीद प्पसीद सुठ्ठु संकौलम्हि । [ललिते प्रसीद प्रसीद
सुष्ठु शङ्काकुलास्मि ।] (पुनः संस्कृतेन)

गतप्रायं सायं चरितपरिशङ्की गुरुजनः
परीवादस्तुङ्गो जगति सरलाहं कुलवती ।
वयस्यस्ते लोलः सकलपशुपालीसुहृदसौ
तदा नम्रं याचे सखि रहसि सङ्चारय न माम् ॥ २.१९

अत्र सायं गमनादिबहुकारणानां स्वेष्टसञ्चारणाभावाय कथितत्वात्माला ।

अथ मधुरभाषणम्

यत्प्रसन्नेन मनसा पूज्यं पूजयितुर्वचः ।
स्तुतिप्रकाशनं तत्तु ज्ञेयं मधुरभाषणम् ॥ १८१ ॥

यथा पञ्चमे

नृपौ (सप्रश्रयम्)

एकस्मिन्निह रोमकूपकुहरे ब्रह्माण्डभाण्डावली
यस्य प्रेक्षयते गवाक्षपदवीघूर्णत्पराणूपमा ।
केयं तस्य समृद्धये तव विभो राजेन्द्रताग्रामटी
शौटीर्येण चमत्कृतिं तदपि नः कामप्यसौ पुष्यति ॥(५.१७)

अत्र प्रकटमेव मधुभाषणम् ।

अथ पृच्छा

प्रश्न एवोत्तरे यत्र सा पृच्छा परिकीर्तिता ॥

यथा नवमे

कृष्णः (पुरो दाडिमीमुपेत्य)

कान्तिं पीतांशुकस्फीतां बिभ्रती विक्षिता वने ।
मयाद्य मृग्यमाणा सा त्वया मृगविलोचना ॥ (९.१८)

अत्र हे शुक, पीतां कान्तिं बिभ्रती मया मृग्यमाणा सा दृष्टेति प्रश्च्ने, हे
पीतांशुक, त्वया मृग्यमाणा सा मया दृष्टेत्युत्तरेण पृच्छा ।

अथोपदिष्टम्

शास्त्रानुसारि यद्वाक्यमुपदिष्टं तदुच्यते ॥ १८२ ॥

यथा षष्ठे नारदः

प्रेयस्यः पशुपालिका विहरतो यास्तत्र वृन्दावने
लक्ष्मीदुर्लभचित्रकेलिकलिका कान्तस्य कंसद्विषः ।
राधा तत्र वरीयसीति नगरीं तामाश्रितायां क्षितौ
सेवां देवि समस्तमङ्गलकरी यस्यास्त्वमङ्गीकुरु ॥ (६.१९)

अत्र हरिप्रियजनसेवा समस्तमङ्गलकरीति शास्त्रानुसारित्वम् ।

अथ दृष्टम्

जात्यादिवर्णनं धीरैर्दृष्टमित्यभिधीयते ॥ १८३ ॥

यथा द्वितीये

वृन्दा (पुरो दृष्टिं क्षिपन्ती)

करोति दधिमन्थनं स्फुटविसर्पिफेनच्छटा
विचित्रितगृहाङ्गणं गहनगर्गरीगर्जितम् ।
मुहुर्गुणविकर्षणप्रवणताक्रमाकुञ्चित
प्रसारितकरद्वयीक्वणितकङ्कणं मालती ॥ (२.३)

अत्र दधिमथनक्रियास्वभाववर्णनं दृष्टम् ॥

सन्ध्यन्तराण्यनुक्त्वैव भूषणं लक्षणाख्यया ।
प्रोच्यतेऽन्यत्त्रय्स्त्रिंशत्सङ्ख्या कश्चिद्विभूषणम् ॥ १८४ ॥
मुनेरसम्मत्तत्वेन तत्तु सर्वमुपेक्षितम् ।
केषाञ्चिदत्र सन्ध्यङ्गगुणालङ्कारलक्ष्मणाम् ॥ १८५ ॥
अन्तर्भावेऽपि यत्नेन कर्तव्यत्वाय कीर्तितम् ।

अथ पताकास्थानानि

अर्थस्य तु प्रधानस्य भाव्यवस्थस्य सूचकम् ॥ १८६ ॥
यदागन्तुकभावेन पताकास्थानकं हि तत् ।
एतद्द्विधा तुल्यसंविधानं तुल्यविशेषणम् ॥ १८७ ॥
तत्राद्यं त्रिप्रकारं स्याद्द्वितीयं त्वेकमेव हि ।
एवं चतुर्विधं ज्ञेयं पताकास्थानकं बुधैः ॥ १८८ ॥

तत्राद्यम्

सहसिअवार्थसम्पत्तिर्गुणवत्युपचारतः ।
पताकास्थानकमिदं प्रथमं परिकीर्तितम् ॥ १८९ ॥

यथा ललितमाधवे सप्तमे

राधिका (परिक्रम्य पीतोत्तरीयाञ्चलं गृह्णन्ती सकम्पम्)

दग्धं हन्त दधानया वपुरिदं यस्यावलोकाशया
सोढा मर्मविपाटने पटुरियं पीडातिवृष्टिर्मया ।
कालिन्दीयतटीकुटीरकुहरक्रीडाभिसारव्रती
सोऽयं जीवितबन्धुरिन्दुवदने भूयः समालिङ्गितः ॥ ७.१८ ॥

अत्र प्रतिबिम्बे सोऽयं जीवितबन्धुरित्युपचारप्रयोगेण भाविनः कृष्णस्य
सूचनात्सहसार्थसम्पत्तिरूपमिदं पताकास्थानकम् ।

अथ द्वितीयम्

वचःसातिशयश्लिष्टं काव्यवस्तुसाश्रयम् ।
पताकास्थानकमिदं द्वितीयं परिकीर्तितम् ॥ १९० ॥

यथा द्वितीयेऽङ्के कृष्णः

स्मररोधनानुबन्धी क्रमविस्तारितकलाविलासभवः ।
क्षणदापतिरिव दृष्टः क्षणदायी राधिकासङ्गः ॥ (२.१७)

(नेपथ्ये) दुर्लभः पुण्डरीकाक्ष वृत्तस्ते विप्रकर्षतः । ९०

कृष्णः (सव्यथमुच्चैः) भोः कोऽयं दुर्लभः? ९१

(पुनर्नेपथ्ये)
यत्नादन्विष्यमाणोऽपि वल्लवैः पशुमण्डलः ॥ (२.१८) ९२

अत्र भविष्यतो राधासङ्गमदुर्लभत्वस्य सूचनादिदं श्लिष्टं नाम
द्वितीयं पताकास्थानकम् ।

अथ तृतीयम्

अर्थोपक्षेपणं यत्तु लीनं सविनयं भवेत् ।
श्लिष्टोत्तरयुतं नाम तृतीयं परिकल्पितम् ॥ १९१ ॥
यथा सप्तमे, कृष्णः

(सर्वतः प्रेक्ष्य) प्रियवयस्य! कियद्दूरे सा वृन्दाटवी ?

मधुमङ्गलः (संस्कृतेन)

स्फुटच्चटुलचम्पकप्रकररोचिरुल्लासिनी
मदोत्तरलकोकिलावलिकलस्वरालापिनी ।
मरालगतिशालिनी कलय कृष्णसाराधिका
(इत्यर्धोक्ते)

कृष्णः (ससम्भ्रमौत्सुक्यम्) वत्स क्वासौ ?

मधुमङ्गलः (अङ्गुल्या दर्शयन्)

पुरः स्फुरति वल्लभा तव

कृष्णः (सव्यग्रम्) वयस्य! नाहं पश्यामि । तदाशु दर्शय । क्व सा मे
राधिका ?

मधुमङ्गलः ... मुकुन्द वृन्दाटवी ॥ (७.१७)

अत्र सज्जल्पितेन मधुमङ्गलवाक्येन भाविनो राधादर्शनस्य
सूचनाच्छ्लिष्टोत्तरं नाम तृतीयं पताकास्थानम् ।

अथ दर्शनम्

द्व्यर्थो वचनविन्यासः सुश्लिष्टः काव्ययोजितः ।
उपन्यासेन युक्तस्तु चतुर्थं परिकीर्तितम् ॥ १९२ ॥

यथा पञ्चमे सुपर्णः

नभसि रभसवद्भिः श्लाघमाना मुनीन्द्रैर्
महितकुवलयाक्षी कीर्तिशुभ्रांशुवक्त्रा ।
नृपकुलमिह हित्वा चेदिराजप्रधानं
मुरदमन गमिष्यत्युत्सुकां त्वां जयश्रीः ॥ (५.२८)

अत्र सुपर्णस्य द्व्यर्थवचनेन चन्द्रावलीप्राप्तिसूचनात्तुल्यविशेषणम् ।

अथार्थोपक्षेपकाः

वस्तु सर्वं द्विधा सूच्यमसूच्यमिति भेदतः ।
रसहीनं भवेदत्र वस्तु तत्सूच्यमुच्यते ॥ १९३ ॥
अदर्शनीयमङ्के तदवश्यं वाच्यमेव चेत् ।
अर्थोपक्षेपकैरेतत्सूचयेत्सुष्ठु पण्डितः ॥ १९४ ॥
विष्कम्भचूलिकाङ्कास्याङ्कावतारप्रवेशकैः ।

अथ विष्कम्भः

भवेद्विष्कम्भको भूतभाविवस्त्वंशसूचकः ॥ १९५ ॥
अमुख्यपात्रैः सङ्क्षेपादादावङ्कस्य दर्शितः ।
स शुद्धो मिश्र इत्यु क्तो मिश्रः स्यान्नीचमध्यमैः ॥ १९६ ॥
विदग्धमाधवे यद्वद्द्वितीयाङ्कमुखे कृतः ।
मुखरायुक्तया नानीद्मुख्यासौ मिश्रसंज्ञकः ॥ १९७ ॥
शुद्धः केवलमध्येऽयमेकानेककृतो भवेत् ।
विनिर्मितो बहुत्रायं तस्मिन् ललितमाधवे ॥ १९८ ॥

अथ चूलिका
प्राज्ञैर्यवनिकान्तःस्थैरदृश्यैर्या तु निर्मिताः ।
आदावङ्कस्य मध्ये वा चूलिका नाम सा भवेत् ॥ १९९ ॥

स्पष्टं बहुत्रोदाहरणम् ।

अथाङ्कास्यम्

यत्र स्यादङ्क एकस्मिन्नङ्कानां सूचनाखिला ।
तदङ्कास्यमिति प्राहुर्बीजार्थख्यापकं च यत् ॥ २०० ॥
गार्गीसंयुक्तया पौर्णमास्या ललितमाधवे ।
प्रथमाङ्के यथा सुष्ठु सुहितं निखिलं स्फुटम् ॥ २०१ ॥

केचित्तु
पूर्वाङ्कान्ते सम्प्रविष्टैः पात्रैर्भाव्यङ्कवस्तुनः ।
सूचनं तदविच्छेद्यैर्यत्तदङ्कास्यमीरितम् ॥ २०२ ॥
इति लक्षयन्ति ।

एतदङ्कावतारेण गतार्थत्वात्तु केचन ।
प्रथमोक्तार्थमेवेदं वदन्त्यङ्कमुखं बुधाः ॥ २०३ ॥

अथाङ्कावतारः
अङ्कावतारः पात्राणां पूर्वाङ्कार्थानुवर्तिनाम् ।
अविभागेन सर्वेषां भाविन्यङ्के प्रवेशनम् ॥ २०४ ॥
स्पष्टमुदाहरणम् ।

अथ प्रवेशकः
यन्नीचैः केवलं पात्रैर्भाविभूतार्थसूचनम् ।
अङ्कयोरुभयोर्मध्ये स विज्ञेयः प्रवेशकः ॥ २०५ ॥
यदा स्यान्नीरसं सूच्यमामुखानन्तरं तदा ।
विष्कम्भोऽङ्कास्यकं वा स्यादामुखाक्षिप्तपात्रकम् ॥ २०६ ॥
यदा तु सरसं वस्तु मूलादेव प्रवर्तते ।
आदावेव तदाङ्कः स्यादामुखाक्षेपसंश्रयः ॥ २०७ ॥
असूच्यं तु शोभोदाररसभावनिरन्तरम् ।
प्रारम्भे यद्यसूच्यं स्यादङ्कमेवात्र कल्पयेत् ॥ २०८ ॥
असूच्यं तु द्विधा दृश्यं श्रव्यं चाद्यं तु दर्शयेत् ।
द्वेधा द्वितीयं स्वगतं प्रकाशं चेति भेदतः ॥ २०९ ॥
स्वगतं स्वैकविज्ञेयं प्रकाशं तद्द्विधा भवेत् ।
सर्वप्रकाशं नियतप्रकाशं चेति भेदतः ॥ २१० ॥
सर्वप्रकाशं सर्वेषां स्थितानां श्रवणोचितम् ।
द्विधा विभज्यते तच्च जनान्तमपवारितम् ॥ २११ ॥
त्रिपताककरेणान्यानपवार्यान्तरा कथाम् ।
या मिथः क्रियते द्वाभ्यां तज्जनान्तिकम् उच्यते ॥ २१२ ॥
रहस्यं कथ्यतेऽन्यस्य परावृत्यापवारितम् ।

अथाङ्कस्वरूपम्
प्रत्यक्षनेतृचरितः क्षुद्रचूर्णकसंयुतः ॥ २१३ ॥
नातीवगूढशब्दार्थो नातिप्रचुरपद्यवान् ।
अयुतो बहुभिः कार्यैर्बीजसंहरणेन च ॥ २१४ ॥
अनेकदिननिर्वर्त्यकथया च विवर्जितः ।
दिनार्धदिनयोर्योग्यवस्तुना परिकल्पितः ॥ २१५ ॥
वधेन दूराह्वानेन युद्धराज्यादिविप्लवैः ।
शापोत्सर्गविहाराभ्यां रतभोजनमृत्युभिः ॥ २१६ ॥
स्नानानुलेपनिद्राद्यैश्चुम्बनालिङ्गनादिभिः ।
व्रीडाहेतुर्भिरन्यैश्च बीभतैश्च विना कृतः ॥ २१७ ॥
अन्तनिष्क्रान्तनिखिलपात्रोऽङ्क इति कीर्तितः ।

अथ गर्भाङ्कः
अङ्कप्रसङ्गाद्गर्भाङ्कलक्षणं वक्ष्यते मया ॥ २१८ ॥
अङ्कस्य मध्ये योऽङ्कः स्यादसौ गर्भाङ्क ईरितः ।
वस्तुसूचकनान्दीको दिङ्मात्रमुखसङ्गतः ॥ २१९ ॥
अर्थोपक्षेपकैर्हीनो युतः पात्रैस्तु पञ्चषैः ।
अन्वेष्यवस्तुविषयः स्वाधाराङ्कान्तशोभितः ॥ २२० ॥
नातिप्रपञ्चेतिवृत्तः प्रस्तुतार्थानुबन्धकः।
प्रथमाङ्के न कर्तव्यः सोऽयं काव्यविशारदैः ॥ २२१ ॥
चतुर्थेऽङ्के तु गर्भाङ्को यथा ललितमाधवे ।

अथ सामान्यनिर्णयः
नाटकेऽङ्का न कर्तव्या पञ्चन्यूना दशाधिकाः ॥ २२२ ॥
विष्कम्भकाद्यैरपि नो वधो वाच्योऽधिकारिणः ।
अन्योन्येन तिरोधानं न कुर्याद्रसवस्तुनोः ॥ २२३ ॥
यत्स्यादनुचितं वस्तु नायकस्य रसस्य वा ।
विरुद्धं तत्परित्याज्यमन्यथा वा प्रकल्पयेत् ॥ २२४ ॥
अविरुद्धं च यद्वृत्तं रसाभिव्यक्तयेऽधिकम् ।
तदप्यन्यथयेद्धीमान्न वदेद्वा कदाचन ॥ २२५ ॥
लास्याङ्गानि दश तथा वीथ्यङ्गानि त्रयोदश ।
अङ्केष्वपि निबध्यानि केचिदेवं प्रचक्सते ॥ २२६ ॥
प्रायस्तान्यपि सन्त्येव तस्मिन् ललितमाधवे ।
क्वचिदत्र विनिष्पाद्यं धीरैराकाशभाषितम् ॥ २२७ ॥
अन्येनानुक्तमप्यन्यो वचः श्रुत्वैव यद्वदेत् ।
इति किं भणसीत्येतद्भवेदाकाशभाषितम् ॥ २२८ ॥

अथ भाषाविधानम्
नाटके तत्र पात्राणां भाषारूपं निरूप्यते ।
तत्र भाषा द्विधा भाषा विभाषा चेति भेदतः ॥ २२९ ॥
चतुर्दश विभाषाः स्युः प्राच्याद्या वाक्यवृत्तिभिः ।
आसां संस्कारराहित्याद्विनियोगो न गद्यते ॥ २३० ॥
भाषा द्विधा संस्कृता च प्राकृती चेति भेदतः ।

तत्र संस्कृता
संस्कृता देवतादीनां मुनीनां नायकस्य च ॥ २३१ ॥
लिङ्गिविप्रवणिक्क्षत्रमन्त्रिकञ्चुकिनामपि ।
अरण्यदेवीगणिकामन्त्रिजाधीतियोषिताम् ॥ २३२ ॥
योगिन्यप्सरसोः शिल्पकारिण्या अपि कीर्तिता ।

तत्र प्राकृती
षोढान्तिमा प्राकृती स्याच्छौरसेनी च मागधी ॥ २३३ ॥
पैशाची चूलिकापैशाच्यपभ्रंश इति क्रमात् ।
अत्र तु प्राकृतं स्त्रीणां सर्वासां नियतं भवेत् ॥ २३४ ॥
ऐश्वर्येण प्रमत्तानां दारिद्र्योपहतात्मनाम् ।
ये नीचाः कर्मणा जात्या तेषां च प्राकृतं स्मृतम् ॥ २३५ ॥
तत्रापि नायिकादीनां शौरसेनी प्रकीर्तिता ।
आसामेव तु गाथासु महाराष्ट्री स्मृता बुधैः ॥ २३६ ॥
अत्रोक्ता मागधी भाषा राजान्तःपुरचारिणाम् ।
तथा विदूषकादीनां चेटानामपि कीर्तिता ॥ २३७ ॥
रक्षःपिशाचनीचेषु पैशाचीद्वितयं भवेत् ।
अपभ्रंशस्तु चण्डालयवनादिषु युज्यते ॥ २३८ ॥
सर्वेषां कारणवशात्कार्यो भाषाव्यतिक्रमः ।
माहात्म्यस्य परिभ्रंशान्मदस्यातिशयात्तथा ॥ २३९ ॥
प्रच्छादनं च विभ्रान्तिर्यथालिखितवाचनम् ।
कदाचिदनुवादं च कारणानि प्रचक्षते ॥ २४० ॥
नायिकानां सखीवेश्याकितवाप्सरसां तथा ।
वैदग्ध्यार्थं प्रयोक्तव्यं संस्कृतं चान्तरान्तरा ॥ २४१ ॥
स्पष्टान्येषामुदाहरणानि ।

अथ वृत्तयः
अथोच्यन्ते स्वभावेन वृत्तयः परमाद्भुताः ।
जाता नारायणादेता मधुकैटभयोर्वधे ॥ २४२ ॥
नेतृव्यापाररूपास्तु रसावस्थानसूचिकाः ।
चतस्रो वृत्तयो धीरैः प्रोक्ता नाट्यस्य मातरः ॥ २४३ ॥
भारत्यारभटी चैव सात्वती कैशिकी तथा ।
तत्र भारती
एषा वाणीप्रधानत्वाद्भारतीति निगद्यते ॥ २४४ ॥
प्रस्तावनोपयोगित्वात्तत्रैव परिकीर्तिता ।
स्त्रीहीना पुरुषश्रेष्ठप्रयोज्या वाक्प्रधानिका ॥ २४५ ॥
भारती संस्कृतैर्युक्ता वृत्तिः स्याच्चतुरङ्गिका ।

अथारभटी
मायेन्द्रजालप्रचुरचित्रयुद्धक्रियामया ॥ २४६ ॥
आटोपच्छेद्यभेदाढ्या वृत्तिरारभटी मता ।
अङ्गान्यस्यास्तु चत्वारि सङ्क्षिप्तिरवपातनम् ॥ २४७ ॥
वस्तूत्थापनसम्फेटावित्याह भरतो मुनिः ।

तत्र सङ्क्षिप्तिः
सङ्क्षिप्तिरुक्ता सङ्क्षिप्तवस्तुसृष्टिर्महाद्भुता ॥ २४८ ॥

यथा
विधिना हते शिशुकुले तादृशमपरं हरिस्तथा व्यतनोत् ।
विरमतु परस्य वार्तां स्वयमेव विसिस्मये स यथा ॥

अथावपातनम्
विभ्रान्तिरवपातः स्यात्प्रवेशद्रवविद्रवैः ।
यथा
निघ्नन् विघ्नमिवाग्रतः कुवलयापीडं मृदुक्रीडया
तुङ्गां रङ्गभुवं प्रविश्य तरसा प्रत्यर्थिनां त्रासनः ।
दृप्यन्मल्लदवाम्बुदश्चलदृशा क्षुद्रानपि द्रावयन्
पश्याराद्गरुडायते सरुडयं कंसोरगे केशवः ॥

अथ वस्तूत्थापनम्
तद्वस्तूत्थापनं यत्तु वस्तु मायोपकल्पितम् ॥ २४९ ॥

यथा
दौर्जन्यानि हृदि स्फुटानि कपटस्नेहेन संवृण्वती
मायाकल्पितसुन्दरी मधुरिमा लेभे व्रजं पूतना ।
तस्याः सुष्ठु तथा पयोधररसः प्रीतः शिशुक्रीडया
वैकुण्ठेन हठाद्यथा न स पुनः मातुस्तथा पास्यते ॥

अथ सम्फेटः
सम्फेटः स्यात्समाघातः क्रुद्धसङ्क्रुद्धयोजितः ॥ २५० ॥

यथा
चाणूरमल्लेन यथा मुरारेर्
अन्योन्यमासीद्गुरुसम्प्रहारः ।
कंसस्य येनानकदुन्दुभेश्च
सन्तापचिन्ताभिरुरः पफाल ॥

अथ सात्वती
सात्त्विकेन गुणेन्पै त्यागशौर्यादिना युता ।
हर्षप्रधाना निःशोका सात्वती परिकीर्तिआत् ॥ २५१ ॥
अङ्गान्यस्यास्तु चत्वारि संलापोत्तापकावपि ।
सङ्घात्यपरिवर्तौ चेत्येषां लक्षणमुच्यते ॥ २५२ ॥

अथ संलापः
ईर्ष्याक्रोधादिभिर्भावै रसैर्वीराद्भुतादिभिः ।
परस्परं गभीरोक्तिः संलाप इति कीर्त्यते ॥ २५३ ॥

यथा
वयं बालास्तुल्यैः सह रचयितुं युद्धमुचितं
पुरो यूयं मल्लाः प्रकटितकरालाचलरुचः ।
मदेनोन्मत्तानां मृदुलतनुभिः कः कलभकैः
करीन्द्राणां धीरः परिणमनरङ्गं रचयति ॥

अवितथमसि बालः कालरूपं विभिन्दन्
द्विरदपतिमुदग्रं बालविक्रीडयैव ।
इह किल भुजयुद्धप्रस्तुतेरुच्चलेयं
तव तनुकृतसख्या साक्षिणी बालराजिः ॥

अथोत्थापकः
प्रेरणं यत्परस्यादौ युद्धायोत्थापकस्तु सः ।

यथा
लुञ्छन्नस्मि पुरस्त्रिविष्टपपुरीसौभाग्यसारश्र्यं
गीर्वाण्श्वरपारिजातममरीकन्दर्पसन्दर्पदम् ।
पौलोमीकुचकुम्भकेलिमकरीव्यापारवैज्ञानिकः
पाणिस्तेन हि दक्षिणः कथमसुअ दम्भोलिमुद्यच्छते ॥

अथ सङ्घात्यः
प्रभावमन्त्रदेवाद्यैः सङ्घात्यः सङ्घभेदनम् ॥ २५४ ॥

तत्र प्रभावेन, यथा

दुकूलं धुन्वाना जयजयजयेत्युच्चभणितिः
स्थिता रङ्गाभ्यर्णे प्रणयगरिमोद्दामितमुखी ।
प्रभावं पश्यन्ती कमपि कमनीयाद्भुतरसं
हरेः कंसोपेक्षां वधित बत साक्षान्मधुपुरी ॥

मन्त्रेण, यथा

निशम्य युक्तिं दनुजार्दनस्य
गोवर्धनाराधनबद्धरागाम् ।
आभीरगोष्ठी रभसेन सर्वा
गीर्वाणराजस्य मखाद्व्यरंसीत् ॥

अथ परिवर्तकः
प्रारब्धकार्यादन्यस्य करणं परिवर्तकः ।

यथा
व्रजभुवि गुरुगर्वात्कुर्वतस्तीव्रवृष्टिं
हृदि भवदनुभावादद्यभीतिर्ममासीत् ।
त्वमसि किल कृपालुर्दोग्धुकामोऽपि कामं
तदिह मयि शरण्ये गोकुलेन्द्र प्रसीद ॥

अथ कौशिकी
नृत्यगीतविलासादिमृदुशृङ्गारचेष्टितैः ।
समन्विता भवेद्वृत्तिः कैशिकी श्लक्ष्णभूषणा ॥ २५५ ॥
हरेः केशाभिसम्बन्धात्कैशिकीति प्रथां गता ।
अङ्गान्यस्यास्तु चत्वारि नर्मतत्पूर्वका इमे ॥ २५६ ॥
स्फञ्जः स्फोटश्च गर्भश्चेत्येषां लक्षणमुच्यते ।

तत्र नर्म
शृङ्गाररसभूयिष्ठः प्रियचित्तानुरञ्जकः ॥ २५७ ॥
अग्राम्यः परिहासः स्यान्नर्म तत्तु त्रिधा मतम् ।
शृङ्गारहास्यजं शुद्धहास्यजं भयहास्यजम् ॥ २५८ ॥
शृङ्गारहास्यजं नर्म त्रिविधं परिकीर्तितम् ।
सम्भोगेच्छाप्रकटनादनुरागनिवेशनात् ॥ २५९ ॥
तथा कृतापराधस्य प्रियस्य प्रतिभेदनात् ।
सम्भोगेच्छाप्रकटनं त्रिधा वाग्वेषचेष्टितैः ॥ २६० ॥

तत्र वाचा, यथा पद्यावल्याम् (२०७)

गच्छाम्यच्युत दर्शनेन भवतः किं तृप्तिरुत्पद्यते
किं त्वेवं विजनस्थयोर्हतजनः सम्भावयत्यन्यथा ।
इत्यामन्त्रणभङ्गिसूचितवृथावस्थानखेदासलाम्
आश्लिष्यन् पुलकोत्कराञ्चिततनुर्गोपीं हरिः पातु वः ॥

वेशेन यथा रसार्णवसुधाकरे (१.२७३)
अभ्युद्यते शशिनि पेशलकान्तदूती
सन्तापसंवलितमानसलोचनाभिः ।
अग्रा हि मण्डनविधिर्विपरीतभूषा
विन्यासहासितसखीजनमङ्गनाभिः ॥

चेष्टया, यथा

श्यामे यामनुरोधसि प्रियसखीवर्गान्तरस्थायिनी
सव्यां स्मेरमुखी दृशं मधुभिदः स्मेरे मुखाम्भोरुहे ।
भृङ्गोद्भासिनि दक्षिणां तु किरती क्रीडानिकुञ्जे मुहुः
सूर्ये रज्यति सच्छलं विचिनुते तपाय पुष्पावलिम् ॥

अनुरागप्रकाशोऽपि भोगेच्छानर्मवत्त्रिधा ।

तत्र वाचा, यथा

देहि कुन्दमिति देवि वक्ष्यती
यन्मुकुन्दमविलम्बमब्रवीः ।
तावकीनकुलपालिकाव्रतं
तेन साम्प्रतमभूद्विकरस्वरम् ॥

वेशेन, यथा
यदुपहससि मां सदाभिसारोत्
सुकहृदयामभितस्तदत्र युक्तम् ।
वपुषि हरिकथाप्रसङ्गमात्रे
तव च कथं पुलकालिरुन्मिमील ॥

चेस्टया, यथा
सखि कुर्वती विविक्ते वनमालागुम्फनाभ्यासम् ।
विदितासि त्वमखण्डितपातिव्रत्ये कृतं भणितैः ॥

तत्र वाचा, यथा
व्रजराजकुमार मा कृथाः
स्तुतिमुद्राभिरनल्पचातुरीम् ।
अनिमित्तविशङ्कितेन ते
वचसाहं गुरुणास्मि बोधिता ॥

वेशेन, यथा ललितमाधवे

चन्द्रावली (सोत्प्रासस्मितम्)

कज्जलसामलमज्झं पल्लअसाणुज्जलं मुउंदस्स ।
गुंजाफल्लं ब्ब अहरं सहि पेक्खन्ती पमोदामि ॥

[कज्जलश्यामलमध्यं पल्लवशोणोज्ज्वलं मुकुन्दस्य ।
गुञ्जाफलं इवाधरं सखि पश्यन्ती प्रमोदे ॥] ९.५४

चेष्टया, यथा रससुधाकरे (१.२७३)

लोलभ्रूलतया विपक्षदिगुपन्यासे विधूतं शिरस्
तद्वृन्दस्य निशामनेऽकृत नमस्कारं विलक्षस्मितम् ।
रोषात्तामरकपोलकान्तिनि मुखे दृष्ट्या नतं पादयोर्
उत्सृष्टो गुरुसन्निधावपि विधिर्द्वाभ्यां न कालोचितः ॥

अथ शुद्धहास्यजम्
शुद्धहास्यजमप्युक्तं तद्वदेव त्रिधा बुधैः ॥ २६२ ॥

तत्र वाचा, यथा
वृद्धे चन्द्र इति प्रतारय न मामज्ञासिषं मद्भयान्
निक्षिप्तं नवनीतपिण्डमुपरि स्थानेऽद्य राधाम्बया ।
गूढं पातयितास्मि दीर्घतरया यष्ट्येति वाचं हरेर्
इन्दुन्यस्तदृशो निशम्य मुखरा क्षेमं हसन्ती क्रियात् ॥

वेशचेष्टाभ्यां, यथा
कम्बलकृतवृषवेषं भृङ्गाभृङ्गी प्रणीतसंरम्भम् ।
प्रेक्ष्य हरिं विधिरहसीन्मुदिरच्छन्नो गभीरोऽपि ॥

अथ भयहास्यजम्
हास्याद्भयेन जनितं कथितं भयहास्यजम् ।
तद्द्विधा मुखमङ्गं तु तद्द्वयं पूर्ववत्त्रिधा ॥ २६३ ॥

मुख्यं वाचा, यथा

शैलेन्द्रोद्धृतिलीलया किल परित्राते गवां मण्डले
तत्र स्तोत्रविधित्सयाभ्युपगतं दृष्ट्वा सहस्रेक्षणम् ।
प्रत्यासीदति पश्य राक्षसपतिः साक्षादयं पाहि मां
इत्युत्क्रोशति मुग्धवल्लवशिशौ स्मेरो हरिः पातु वः ॥

एवं वेशचेष्टाभ्यामप्युदाहार्यम् ।

अथान्याङ्गम् । तत्र वाचा, यथा

यद्युल्लङ्घ्य गिरं विसर्पति ततः स्वाङ्गे व्रणं पाणिजैः
कुर्वन्नेव कृतं त्वयेति जरतीलक्साय वक्ष्याम्यहम् ।
इत्युक्ते स्वरमाकुलामिव भयादालोक्य राधां पुनः
स्तब्धीभूतगतिं हरिः स्मितमुखः श्लिष्यन्मुदं वः क्रियात् ॥

वेषेण, यथा

राधापुरः स्फुरति संविहिताभिमन्यु
वेषे मुरद्विषि मनागुपलब्धभीतिः ।
नैसर्गिकीं प्रणयतः स्वमनःप्रवृत्तिं
तत्रावधार्य चतुरा स्मितमाततान ॥

चेष्टया, यथा रससुधाकरे (१.२७५)

प्रह्लादवत्सल वयं बिभिमो विहाराद्
अस्मादिति ध्वनितनर्मसु गोपिकासु ।
लीलामृदु स्तनतटेषु नखाङ्कुराणि
व्यापारयन्नवतु वः शिखिपिच्छमौलिः ॥

नर्मेदमष्टादशधा विस्पष्ञमभिदर्शितम् ।

अथ नर्मस्फञ्जः
नर्मस्फञ्जः सुखोद्योगो भयार्तो नवसङ्गमः ॥ २६४ ॥

यथा
साशङ्कं क्षिपतोर्दृशं प्रतिदिशं व्रीडाजडस्वान्तयोर्
याता क्वासि निशीति तीव्रजरतीवाचाधिकत्रस्तयोः ।
गोष्ठद्वारि निवेशितस्य कुहरे गोग्रन्थिराशेस्तदा
राधामाधवयोरभूत्क्वणिकरस्तस्मिन्नवः सङ्गमः ॥

अथ नर्मस्फोटः
नर्मस्फोटो भावलेशैः सूचितोऽल्परसो मतः ॥ २६५ ॥

यथा विदग्धमाधवे

मधुमङ्गलः (कृष्णं पश्यन् स्वगतम्)

फुल्लप्रस्¨नपटलैस्तपनीयवर्णम्
आलोक्य चम्पकलता किल कम्पतेऽसौ ।
शङ्के निरङ्कनवकुङ्कुमपङ्कगौरी
राधास्य चित्तफलके तिलकीबभूव ॥ (२.२५)

अथ नर्मगर्भः
नेतुर्वा नायिकाया वा व्यापारः स्वार्थसिद्धये ।
प्रच्छादनपरो यस्तु नर्मगर्भः स उच्यते ॥ २६६ ॥

यथा, रससुधाकरे (१.२७९)

श्रियो मानग्लानेरनुशयविकल्पैः स्मितमुखे
सखीवर्गे गूढं कृतवसतिरुत्थाय सहसा ।
समनेष्ये धूर्तं तमहमिति जल्पन्नतमुखीं
प्रियान्तामालिङ्गन् हरिररतिखेदं हरतु वः ॥

तिस्रोऽर्थवृत्तयः प्रोक्ता शब्दवृत्तिस्तु भारती ।
अथैतासां चतसॄणांरसनैयत्यमुच्यते ॥ २६७ ॥
शान्तवीराद्भुतप्रीतवत्सलेषु तु सात्वती ।
प्रेयः शृङ्गारहास्येषु प्रोक्ता वृत्तिस्तु कैशिकी ॥ २६८ ॥
बीभत्से करुणे चारभटी वीरे भयानके ।
प्रायो रसेषु सर्वत्र भारती करुणादिषु ॥ २६९ ॥

इति ध्वनिप्रस्थापनपरमाचार्यश्रीमद्रूपगोस्वामिप्रभुपादप्रणीता
श्रीनाटकचन्द्रिका समाप्ता ॥

"https://sa.wikisource.org/w/index.php?title=नाटकचन्द्रिका&oldid=84995" इत्यस्माद् पुनः प्राप्तिः