प्रमुखा विकल्पसूचिः उद्घाट्यताम्

नाट्यशास्त्रम् अभिनवभारतीव्योख्योपेतम्

प्रथमोऽध्यायः

प्रणम्य शिरसा देवौ पितामहमहेश्वरौ ।
नाट्यशास्त्रं प्रवक्ष्यामि ब्रह्मणा यद् उदाहृतम् ॥ 1.1.

यस्तन्मयान्हृदयसंवदनक्रमेण द्राक्चित्रशक्तिगणभूमिविभागभागी ।
हर्षोल्लसत्परिविकारजुषः करोति वन्देतमां तमहमिन्दुकलावतंसम् ॥1॥
षट्त्रिंशकात्मकजगद्गगनावभास-संविन्मरीचिचयचुम्बितबिम्बशोभम् ।
षट्त्रिंशकं भरतसूत्रमिदं विवृण्वन् वन्दे शिवं श्रुतितदर्थविवेकिधाम ॥2॥
विश्वबीजप्ररोहार्थं मूलाधारतया स्थितम् ।
धर्तृशक्तिमयं वन्दे धरणीरूपमीश्वरम् ॥3॥
सद्विप्रतोतवदनोदितनाट्यवेद-तत्त्वार्थमर्थिजनवाञ्छितसिद्धिहेतोः ।
माहेश्वराभिनवगुप्तपदप्रतिष्ठः संक्षिप्तवृत्तिविधिना विशदीकरोति ॥4॥
उपादेयस्य सम्पाठस्तदन्यस्य प्रतीकनम् ।
स्फुटव्याख्याविरोधानां परिहारः सुपूर्णता ॥5॥
लक्ष्यानुसरणं श्लिष्टवक्तव्यांशविवेचनम् ।
सङ्गतिः पौनरुक्त्यानां समाधानसमाकुलम् ॥6॥
सङ्ग्रहश् चेत्ययं व्याख्याप्रकारोऽत्र समाश्रितः ॥
भरतमुनिरुचितदेवतानमस्कारपूर्वकमभिधेयगुणीभावेन प्रयोजनं मुख्यया वृत्त्या प्रतिजानानो विशेषणद्वारेण गुरुपूर्वकमर्थाक्षिप्ततया चाभिधेयप्रयोजनतत्सम्बन्धान्दर्शयति -- प्रणम्येत्यादिना --- `पितामहो ऽत्र पितुः पिता महेश्वरश्च न राजादिरिति देवशब्दः । एतच्च नाशङ्कनीयं प्रसिद्धेः । एको विजिगीषुर्नाट्यप्रवर्तयितेति देवः । भगवांस्त्वानन्दनिर्भरतया क्रीडाशीलः सन्ध्यादौ नृत्यतीति नाट्ये तदुपस्कारिणि च नृत्ते तदुपज्ञं प्रवृत्तिरिति तावेवात्राधिदैवतं गुरू चेति नमस्कार्यौ । लक्ष्मीपतिस्तु यद्यपि वृत्तीनां निर्माता तथापि पितामहादिवदसौ स्वकर्तव्यमात्र-निष्ठस्तथाचरन्नात्र नाट्ये लोकवदुपजीवित इति गुरुत्वाभावान्न नमस्कृतः । (इत्ये)तदपि नमस्कारहेतुनिरूपणस्यानुचितत्वादसत् । तस्मात्प्रणमनं प्रह्वीभावः कायेन वाचा मनसा च । आद्यः शिरसेति दर्शितः । द्वितीयो देवावित्यनेन । प्रणम्यस्य निरुपपदनामग्रहणानौचित्यात् । तेन प्रथमं देवावित्युक्तम् । अभिनेयप्राधान्याच्चाङ्गिकः शिरसेति । वाचिकश्च देवावित्यादिना [च] वाक्याभिनयो दर्शितः । लोकसिद्धो ह्ययमभिनयो न च नाट्यधर्मिरूपः । चतुर इव भुजादावूर्ध्वादिभिन्न इत्यभिनेयोऽपि प्रदर्शनीय एव । मानसी तु प्रह्वता वाक्कायव्यापारगम्येति नासौ पृथगुक्ता । पितामहमहेश्वराविति क्रमः छेकानुप्रासार्थः । सालङ्कारस्य च वाक्याभिनयतां दर्शयितुं । सालङ्कारस्य देवतापरितोषहेतुत्वं च दर्शयितुम् । पितामह-महेश्वरावित्यनेन देवयोर्लोकहितैषित्वमुक्तम् । नाट्यस्य नटवृत्तस्य शास्त्रं शासनोपायं ग्रन्थं प्रवक्ष्यामीति । नैतदित्यन्ये । `नाट्यवेदः नाट्यशास्त्रम्' इति हि पर्यायौ । तत्र नाट्यशास्त्र-शब्देन चेदिह ग्रन्थः । तद्ग्रन्थस्येदानीं करणम् । न तु प्रवचनम् । तद्धि व्याख्यानरूपं करणाद्भिन्नं कठेन प्रोक्तमिति यथा । ग्रन्थस्य च नाट्यवेदत्वे उत्पत्त्यादिपञ्चकस्य तद्गतस्यान्यग्रन्थसाधारण्यात् प्रश्नासङ्गतिः । उत्तरग्रन्थस्य चानुपपत्तिः -- `दृश्यं श्रव्यं च यद्भवेत्'(ना॰ शा॰ 1-11) `जग्राह पाट्यमृग्वेदात्'(ना॰ शा॰ 1-17) इत्यादेर्ग्रन्थं प्रत्यसङ्गतत्वात् । तस्मान्नाट्यं च तच्छास्त्रञ्च । व्युत्पत्तिप्रदत्वात् । प्रवक्ष्यामि व्याख्यास्ये । नाट्याख्यं वेदं लक्षणतो निरूपयिष्य इत्यर्थः । एतदप्यमनोहरम् । शब्दात्मताव्यतिरेकेण प्रवचनायोगात् । नाट्यस्य चाशब्दात्मकत्वात् । निरूपणमात्रे च प्रवचने ग्रन्थस्यापि प्रवचनोपपत्तेः । नाट्यस्य च प्रोच्यमानतयैवालाक्षणिकबाह्यस्वरूपनिरासलाभे शास्त्रशब्दा-नर्थक्यप्रसङ्गात् । `य इमं शृणुयात्प्रोक्तं नाट्यवेदम्' इति शास्त्रान्ते यद्वक्ष्यन्ते यद्वक्ष्यते तस्यासङ्गत्यापत्तेः । शब्दविषयतातिरेकेण शृणुयादित्यस्यावाचकत्वात् ।
तस्मादित्थमेतदिति मद्गुरवः । `सकलहितकरणप्रवृत्त उत्साहसम्पदोपेतस्तदभिवृद्धये तत्प्रत्यूहापसिसारयिषया स्वविज्ञानक्रमोपारूढगुरुरूपब्रह्मसर्वाधिपतिपरमेश्वरविषयां स्मृत्यौत्सुक्यधृतिमत्यादिलक्षणां व्यभिचारसरणिं बाह्यकरणीयविषयं च जडतावहित्थप्रभृतिभावगणं पुरस्सरीकृत्य धर्मवीरानुप्रविष्टस्तदुचिताङ्गिकवाचिकानुभाव-प्रकटनपूर्वं स्वप्रवृत्तिप्रयोजनमेव निरूपयति । प्रयोजनस्यैव प्रवर्तकत्वात् । यदाहुः -- यमर्थमधिकृत्य प्रवर्तते तत्प्रयोजनम्'(न्या॰ सू॰ 1-1-24) तत्र नाट्यं नाम लौकिकपदार्थव्यतिरिक्तं तदनुकारप्रतिबिम्बालेख्यसादृश्यारोपाध्यवसायोत्प्रेक्षा-स्वप्नमायेन्द्रजालादिविलक्षणं तद्ग्राहकस्य सम्यग्ज्ञानभ्रान्तिसंशयानवधारणानध्यवसाय-विज्ञानभिन्नवृत्तान्तास्वादनरूपसंवेदनसंवेद्यं वस्तु रसस्वभावमिति वक्ष्यामः । तस्य शास्त्रं शासनं बाह्यभाण्डनाट्यादिवैलक्षण्येन सम्यक्तत्स्वरूपावगमोपायं प्रकर्षेणापरब्रह्मशिष्यो-दीरितानुपयोगिविकासावधानेन वक्ष्यति । यद्वक्ष्यति --
य इमं शृणुयात्प्रोक्तं नाट्यवेदं स्वयम्भुवा ।
कुर्यात्प्रयोगं यश्चैनं तथाधीयीत वा नरः ॥
या गतिर्वेदविदुषां या गतिर्यज्ञवेदिनाम् ।
या गतिर्दानशीलानां तां गतिं प्राप्नुयात्तु सः ॥इति॥(ना॰ शा॰ अ॰ 36)
एतेन ``कामजो दशको गणः(मनु॰ 7-47) इति वर्जनीयत्वेन नाट्यस्यानुपादेयतेति यत्केचिदाशशङ्किरे यदयुक्तीकृतम् । याज्ञवल्क्यस्मृतिपुराणादौ चास्य प्रशंसाभूयस्त्वश्रवणात् । न चागमादृते धर्मो ऽनुमानगम्य इति न्यायात् । एतत्तु वृथैवास्थानभूरून्प्रति शङ्काशमनार्थमभिधीयते नाम । तथा हि -- नटानां तावद् एतत्स्वधर्माम्नायरूपतयानुष्ठेयमेव । न चास्माकं तच्चेष्टितं विचार्यम् । सोमक्रयोपदेशिनो हि वाक्यस्य न तद्विक्रयि ब्राह्मणान्तरगतकृत्याकृत्यविचारणोद्योगो युक्तः । न चाप्यस्योपदिश्यते `गायेन्नृत्येत्' इति । किन्तु प्रथमनाट्यावसरक्रमप्रवृत्तविरिञ्चवचनप्रवर्तकभरतमुनिशासनानुवर्तिशिष्यपरम्परा-परिचयागताद्यतनकालावधिमहानटजनस्वकप्रवृत्तिविशेषोपदेशपरम् । अत एव तद्गतसिद्धसदुपायोपदेशनपरमिदं शास्त्रमिति । नटस्य तावन्नानेन किञ्चिदुपदिश्यते तं प्रत्युपकारादृते । कवेरपि स्वहृदयायतनसततोदितप्रतिभाभिधानपरवाग्देवतानुग्रहोत्थित-विचित्रापूर्वार्थनिर्माणशक्तिशालिनः प्रजापतेरिव कामजनितजगतः । परं प्रत्याशङ्का यदि परमत्रावशिष्यते व्युत्पाद्योपकारः । तस्यापि तु नेह `गायेन्नृत्येद्वादयेत्तन्निरतो वा भवेत्' इत्युपदेशः क्रियते । अपि तु स्वरसत एव तावन्मनोज्ञविषयास्वादप्रवृत्तस्यात एव वेदशास्त्रपुराणादिभीरुहृदयस्य तन्मनोज्ञवस्तुमध्ये तादृगिदं वस्त्वनुप्रवेशितं यद्बलादेव पुमर्थोपायावगतिं करोतीति वक्ष्यामः । उत्पत्त्यादिप्रश्नास् तु ये भविष्यन्ति ते नाट्याख्यवेदविषयाः । न तु नाट्यवेदशास्त्रविषयाः । यतो ``नाट्यवेदः कथं ब्रह्मन्(ना॰ शा॰ 1.25) इत्यत्र नाट्यमेव वेद इति व्याख्यास्यामः ।
एतच्च नाट्यशास्त्रं ब्रह्मणोदाहृतं मह्यमुक्तम् । यद्वक्ष्यते -- ``आज्ञापितो विदित्वाहं नाट्यवेदं पितामहात् । पुत्रानध्यापयामास(ना॰ शा॰ 1-25) इति । अत्र तु नाट्यस्य वेदः
शास्त्रम् इति समासः । अन्यथाऽध्यापनासम्भवात् । तेन ब्रह्मप्रोक्तमेव मया यथापरिपाटि निरूप्यत इति यावत् । नाट्यं च ब्रह्मणोद्धृत्योद्धृत्य वेदाङ्गान्याहृतमिति तद्विषयं शास्त्रमप्युदाहृतमित्युक्तम् । यदि हि नाट्यस्य वेदनं सत्तालाभो विचारश्च यत्र तन्नाट्यवेदशब्देन नाट्याश्रयरूपं दशरूपकमित्युच्यते -- यद्वक्ष्यति ``इतिहासो मया दृष्टः इति (ना॰ शा॰ 1-19) । अत्र पक्षे ब्रह्मणोदाहृतं प्रदर्शितोदाहरणं कृतनिदर्शनमित्यर्थः । अन्ये तु नटनीयमनुकरणं दशरूपकमेव नाट्यम् । तस्येदं शास्त्रम् । दशरूपकलक्षणमेव हीदम् । एवं दशरूपकं कविना कार्यम् । एवं नटनीयमिति ग्रन्थतात्पर्यात् । रसादीनां पदार्थानां तत्रैव पर्यवसानात् । तच्च ब्रह्मणोदाहृतं कृतनिदर्शनम् । अन्ये तु ब्रह्मणा वेदाख्येन भगवता शब्दराशिनोदाहृतं निरूपितं त्याज्यानुष्ठेयरूपमायदागच्छत् व्युत्पाद्यतया स्वीकुर्वन्नाट्यशास्त्रं प्रवक्ष्यामीति प्रयोजनमनेनैव स्वीकृतमित्याहुः । भट्टनायकस्तु `ब्रह्मणा परमात्मना यदुदाहृतमविद्याविरचितनिस्सारभेदग्रहे यदुदाहरणीकृतं तन्नाट्यं तद्वक्ष्यामि । यथा हि कल्पनामात्रसारं तत एवानवस्थितैकरूपं क्षणेन कल्पनाशतसहस्रं स्वप्नादिविलक्षणमपि सुष्ठुतरां हृदयग्रहनिदानमत्यक्तस्वालम्बन-ब्रह्मकल्पनटोपरचितं रामरावणादिचेष्टितमसत्यं कुतो ऽप्यभूताद्भुतवृत्त्या भाति । तथा भासमानमपि च पुमर्थोपायतामेति । तथा तादृगेव विश्वमिदमसत्यनामरूपप्रपञ्चात्मकमथ च श्रवणमननादिवशेन परमपुमर्थप्रापकमिति लोकोत्तरपरमपुरुषार्थसूचनेन शान्तरसोपक्षेपो ऽयं भविष्यति ।
`स्वं स्वं निमित्तस्य शान्तादुत्पद्यते रसः ।' इति ॥ (ना॰ शा॰ 6)
तदनेन पारमार्थिकं प्रयोजनमुक्तम् ।' इति व्याख्यानं सहृदयदर्पणे पर्यग्रहीत् । यदाह --
नमस्त्रैलोक्यनिर्माणकवये शम्भवे यतः ।
प्रतिक्षणं जगन्नाट्यप्रयोगरसिको जनः ॥' इति ॥
एवं नाट्यशास्त्रप्रवचनं प्रयोजनमुक्तम् । तत्प्रयोजनन्तु दर्शितमेव । अभिधेयश्च नाट्यवेदः । व्युत्पाद्यव्युत्पादकभावलक्षणश्च सम्बन्धः । यच्च शास्त्रं यो जिज्ञासते स तावत्तदवसरे तच्छास्त्रप्रणेतरि प्रसिद्धे सिद्धवदेव प्रामाण्यम् अभिमन्यत इति तद्वचनोक्ताय सम्बन्धाभिधेय-प्रयोजनाय तदैव निर्विशङ्कः प्रवर्तते । परस्त्वधिगतसकलशास्त्रार्थो बहु मन्यते न वेति तदिदमन्यत् । प्रथमं तावत्प्रवृत्तमादिवाक्यं प्रयुक्तमेवेति स्वानुभवप्रसिद्धम् । तेनार्थसंशयतर्ककौतुकजनादिवाक्यं (न) प्रवर्तकमिति किमनेन ॥ (1)