प्रमुखा विकल्पसूचिः उद्घाट्यताम्

सम्पाद्यताम्

. .. . .. . .. . .. . ..

(पूर्वरङ्गविधिं श्रुत्वेति । पञ्च प्रश्नानिति । रसानां केन रसत्वमित्येकः प्रश्नः ।)

. .. . .. . .. . .. . ..

तथापि नाट्यतत्त्वे सम्यङ्निर्ज्ञाते निर्णीतं

सम्यङ्निर्णीतम् भवति । न वचनमात्रात् । अनेनैवाभिप्रायेण दशरूपकनिरूपणे प्रथमप्रश्नार्थो निगमयिष्यते— “भविष्यति युगे प्रायो भविष्यन्त्यबुधा नराः ।” (ना. शा. १९-१५०) इत्यादि । तथा— “बुद्धयः कर्मशिल्पानि वैचक्षण्यं कलासु च ॥” (ना. शा. १९-१५१) इत्यादि । सिद्ध्यध्याये च द्वितीयप्रश्नार्थविषयो निर्णेष्यते । “तुष्यन्ति तरुणाः कामे” (ना. शा. २७-५८) इत्यादिना । एवमन्यत्रापि तत्र तत्रेति । एतच्च तद्व्याख्यानप्रसङ्ग एव दर्शयिष्यामः । तेन पूर्वप्रश्नितवस्तुतत्त्वनिर्णय एव क्रियतामिति तात्पर्यम् । प्रश्नान् पञ्चेति । ये रसा इत्यादि तु यत्प्रश्नत्रयं तत्रायं भावः— इहाङ्गणनायां “जग्राह पाठ्यम्” (ना. शा. १-१७) इत्यादौ पाठ्यगीतयोस्तावत्सुप्रसिद्धं रूपम् । अभिनयानामपि “महागीतेषु चैवार्थान्सम्यगेवाभिनेष्यसि” इति (ना. शा. ४-१५)
“यदा प्राप्त्यर्थमर्थानां तज्ज्ञैरभिनयः कृतः” (ना. शा. ४-२६१) इत्यादिवचनबलाच्च स्वरूपं तावन्नातीव हृदयङ्गमम् । ये तु “रसानाथर्वणात्” (ना. शा. १-१७) इति रसा उक्तास्ते तावत्प्रसिद्धाः षाडवादयः। न प्रकृतौ न विकृतौ युक्ताः । ये त्वन्ये शृङ्गारादयः केचन रसशब्देन सह प्रयुक्ताः “शृङ्गाररसम्भवः” (ना. शा. ४-२६९) इति “ततो रौद्ररसं श्लोकम्” (ना. शा. ५-१३२) इति तत्रापि शृङ्गारादिषु कथं रसशब्दावाच्यत्वम् । वैशब्दोऽक्षर-क्षमायाम् । रसनेन्द्रियग्राह्ये हि रसशब्दः प्रसिद्धः। न चायमनादरस्थानभूतोऽर्थो येनाविचारित एवोपेक्ष्यते “खिन्नानां रसभावेषु” (ना. शा. ५-१५९) इत्यादावादरातिशयप्रतीतेः। अत एव शब्दप्रादुर्भाव इति शब्दो रसा इति पठ्यन्त इति । तेन प्राधान्यादङ्गाभिनयप्रश्नान्तर्भूतमप्येतत्पुनः प्रश्नितमित्यर्थः। पुनः प्रश्नाभिप्रायेणैवाख्यातुमर्हसीत्युपपन्नम् । पूर्वाख्यानेषु तु पुनरुक्तमभिधत्स्वेत्युक्तत्वात् ।
भावाश्चेति चशब्दस्तुशब्दार्थे । भावास्त्वपठिता अपि कथं प्रोक्ताः । अथ पाठ्यादय एव भावाः । तत्किमेषां रूपम् । तेनादरविषयत्वाद्रसे प्रश्नान्तरम् । (अ ?) भूतावृत्त्या विस्मयस्थानत्वाद्भावेषु प्रश्नचतुष्कम् । तथा हि—रससहभावेन भावाः केचन प्रोक्ताः “खिन्नानाम्” इत्यत्र । ते च केन प्रकारेणोक्ताः। “जग्राह” इत्यादौ हि तेषां नामापि न श्रुतम् । अथैतेष्वेव भावशब्दः प्रवर्तितः।तत्रापि भवन्तीति 256व्युत्पत्तिः । भावयन्तीति किमेतत् । किमुत्पादयन्ति । अथ व्याप्नुवन्ति । द्वयोः कर्म किं स्यादिति वाशब्देन चशब्देनापिशब्देन च चत्वारो भावेषु प्रश्नाः । एवं प्राधान्यात्प्रश्नपञ्चकान्तरम् । वस्तुतः पुनः पञ्चप्रश्नी पूर्वोक्तैवेयं विष्फार्यते । सङ्ग्रहादिति चा(दि चा)भिधत्स्व । ननु तैरिह किं प्रयोजनम् । आह—तत्त्वत इति । (१-३)
तुशब्दो हेतौ । तदित्याख्यानं परामृष्टम् । यतस्तदाख्यानमत एवा(वै)भ्यः सङ्ग्रहादिभ्य उद्देशलक्षणपरीक्षादिषु प्राधान्यात्तदुपक्रममेव सर्वमभिधेयम् । तदाह । निखिलेन सङ्ग्राह्यलक्षणीयनिर्वचनीयात्मनोपलक्षितं सङ्ग्रहादित्रयमेव वक्ष्यामीति त्रय (त्रि)प्रकाररूपेभ्यः सदुपायेभ्यः । तस्मान्नोऽभिधत्स्वेति । पुनश्शब्दो भिन्नक्रमः । भरतमुनिः पुनः रसभावा विकल्प्यन्ते निश्चिचीयन्तेऽनेन (येन वचनेन) तादृग्वाक्यमुवाच न तु तदीयं वचनमुक्तमुत्तरदानेन समादृतमिति पुनश्शब्दार्थः । मुनेश्चायं भावो रसादिषु समुच्चयार्थश्चः । तदभिधानेऽन्यन्न किंचिदभिधेयमवशिष्यत इत्येवशब्दः । यथाक्रममिति । पूर्व (प्राप्त)सङ्ग्रहः । उद्देशप्रकारत्वादित्यादिक्रमेण स (स्व)बुद्धिविषयं बहुमानं गृहणताममीषामित्यभिप्रायेण भवद्भिर्युक्तमेतदुक्तम् ।

सङ्ग्रहमित्यादि । तान्निदर्शयन्मुनिराह—न शक्यमस्येति । शक्यमिति (युक्तमिति) सामान्योपक्रमात् माध्यस्थ्यविवक्षा । गन्तुमिति प्राप्तुम् । अन्तो निश्चयः । कथञ्चनेति । अमुं सङ्ग्रहादिप्रकारं वर्जयित्वाऽन्येन प्रतिपदनिरूपणादिनेत्यर्थः । यत्किल प्रतिपदं निरूपयितुं न शक्यं तल्लक्षणद्वारेणोच्यते । लक्षणस्यैवाङ्गमुद्देशपरीक्षे । तस्य विषयप्रदर्शने परिशुद्धौ च तयोर्व्यापारात् । न चात्र प्रतिपदं निरूपणं युक्तमिति ।
अत्र हेतुमाह—बहुत्वादिति । ज्ञानाख्यानि व्याकरणादीनि शास्त्राणि । शिल्पानि चित्रपुस्तादिकर्माणि । तेषामनन्ता(न्तत्वा)दन्ताभावात् । (४-६)

एतदेवोद्बलयत्येकस्येति । नाट्याङ्गभूतस्य कस्यचिदिति शेषः । अर्थस्याभिधेयस्य तत्त्वतः। तननं विस्तारः। तेन । अन्येषामिति । अङ्गभूतस्यापि यान्यङ्गत्वेनायान्तीत्यर्थः।

सङ्ग्रहादयस्त्वत्र सदुपाया इति दर्शयति—किन्त्विति । नाट्यस्य नाट्यविषयस्यार्थस्य सङ्ग्रहं संक्षिप्य गृह्यतेऽनेनेति तमुद्देशं वक्ष्यामीति । कथं रसभावादि कृत्वा प्राधान्यात्तदुपक्रममित्यर्थः । किं तेनेत्याह । अनुमानप्रसाधकं लक्षणं तद्धि केवलव्यतिरेकिहेतुरूपम् । तस्य चोद्देशो धर्मिणः प्रकृष्टः साधकः आश्रयासिद्धश्च । शङ्काशमनेन पक्षधर्मत्वमूलाङ्गपोषकत्वात् । तस्य सङ्ग्रहस्य स्वरूपमाह—सूत्रग्रन्थयोर्लक्षणपरीक्षयोर्योऽर्थो लक्ष्यपरीक्षितस्य लक्षणस्तस्य संक्षेपः सोऽल्पः सङ्कुचितो नाममात्रेणोद्देश्यतया यत्र । अन्येऽप्येवमेव मन्यन्त इति दर्शयति—विस्तरेणेति । सूत्रं लक्षणम् । भाष्यं तद्व्यक्तीकरणरूपा परीक्षा । अल्पौ सूत्रग्रन्थौ यत्रार्थे सोऽर्थो यत्रेति तु व्याख्यानमनेन श्लोकेन न संवदते । (७-९)
सङ्ग्रहं दर्शयति—रसा भावा इत्यादिना । चशब्द इतिशब्दार्थे । अभिनयत्रयं गीतातोद्ये चेति पञ्चाङ्गं नाट्यम् । नटस्य हि रसभावयोगे मरणादौ तत्त्वावेशो लयाभिभङ्गश्च स्यात् । दृष्टस्तु तत्प्रत्ययो नटे भ्रमः । अनेन तु श्लोकेन कोहलमतेनैकादशाङ्गत्वमुच्यते । न तु भरतेन सङ्गृहीतस्यापि
न तु भरते । तत्सङ्गृहीतस्यापि पुनरत्रोद्देशात् । निर्देशे चैतत्क्रमव्यत्यासनादित्यौद्भटाः । नैतदिति भट्टलोल्लटः। रसभावानामपि वासनावेशवशेन नटे सम्भवादनुसन्धिबलाच्च लयाद्यनुसरणादन्तर्भूतस्यापि प्रयोजनवशेन पुनरुद्देशदर्शनात् क्रमस्य चाविवक्षितत्वादिति । वयञ्चात्र तत्त्वमग्रे वितनिष्याम इत्यास्तां तावत् ।
अथ कारिकां लक्षयति—अल्पाभिधानेनेति । अनेनार्थस्य कारिकात्वं लक्षणरूपस्य दर्शयति । तद्वाचकस्य सूत्रस्य तत्संक्षिप्तार्थविवरणात्मकस्य च श्लोकस्य । अनेन लक्षणवाक्यं द्विधेति तात्पर्यम् । योऽर्थोऽल्पैः शब्दैः समासेन बहुतरलक्ष्यसङ्ग्रहेण सूत्रं वाचकमाश्रित्योच्यचे सोऽर्थः कारिका । ज्ञप्तिसाधकत्वात्तदर्थिनी कारिका । सूत्रतः सूत्रेण । तेन सूत्रमपि कारिका । तत्सूत्रमपेक्ष्य या अनु पश्चात्पठिता श्लोकरूपा सापि कारिका । तथा हि—सूचनात्मकत्वात्सूत्राल्लब्धो योऽर्थो लक्षणात्मकः स एव सम्यगिति श्रय्य(सम्यगतिश्रव्य)तया वर्णान्यनेनेति (वर्णनात्मनेति) वृत्तबन्धेनोच्यमानोऽल्पैश्च शब्दैनिरूप्यमाणोऽर्थस्य लक्षणीयस्य प्रकर्ष धर्म्यन्तराद्व्यवच्छेदं दर्शयन् धर्मं कारिका । क्रियतेऽनेन ज्ञप्तिरिति कारिका । लक्षणमिति यावत् । तदर्थप्रकाशकत्वात् श्लोकोऽप्युपचारात्कारिका ।
एतदुक्तं भवति—उद्दिष्टस्य धर्म्यन्तरव्यवच्छेदकं लक्षणं वक्तव्यम् । तच्च पूर्वं सूत्रेण । ततोऽप्यकृताक्षेपोत्तरप्रपञ्चेन तद्विवरणमात्ररूपेण सुखग्राह्येण श्लोकेन । उभयोरपि हि लक्षणमेव प्रतिपाद्यम् । तदेव कारिकोच्यते । सूत्रश्लोकावुपचारादिति । (१०-११)
अथ परीक्षात्मकं निरुक्तं लक्षयति श्लोकद्वयेन—नानानामेत्यादिना । समासेन संक्षेपेणानेकव्यक्तिभेदभिन्नस्यार्थस्य लक्षणीयस्य यः सूचकोऽर्थो लक्षणात्मकः स यत्राक्षेपप्रतिसमाधानलक्षणे वस्तुनि सति स्थापितो भवतीति तत्परीक्षारूपनिरुक्तम् । नचैवं परिभाषा । किन्त्वर्थमेतं निर्भज्याक्षेपप्रतिसमाधानाभ्यां लक्षणस्य वचनमिति । एतदाह—धात्वर्थवचनेनेति ।

कथं तल्लक्षणं स्थाप्यत इत्याशङ्क्य क्रियाविशेषणाभिधानद्वारेणाक्षेपप्रतिसमाधानप्रकारं दर्शयति—नानानामेत्यादिना । नानाप्रकाराणि यानि नामानि लक्षणवाक्येऽर्थप्रतिपादकाः सुबन्ताः शब्दास्तानाश्रित्योत्पन्नः उत्पाद आक्षेपप्रतिसमाधानयोर्यत्र । ननु नामपदेषु कथमाक्षेपप्रतिसमाधाने । आह—निघण्टुनाऽभिधानकोशेन रूढिषु । अन्येषु प्रकृतिप्रत्ययविभागनिगमनया । अन्वितमन्वयो यत्रेति । एतत्पदद्वयं क्रियाविशेषणम् । यानि त्त लक्षणवाक्ये तिडन्तानि पदानि तेषु प्रकारमाह—धात्वर्थस्य क्रियाया हेतूनां च क्रियानिमित्तानां कारकाणां संयोजनं विचारो यत्र स्थापने । एतदपि क्रियाविशेषणम् । इयता लक्षणवाक्ये पूर्वं शब्दपरीक्षा दर्शिता । अयं शब्दः कथमत्रार्थे वर्तत इत्याक्षेपः । इत्थमिति च प्रतिसमाधानम् । एतत् प्रदर्शितवस्तुप्रणीतमेव ।
अर्थपरीक्षामपि दर्शयति—नानाप्रकारैः सर्वतन्त्रप्रतितन्त्रादिभिः सिद्धान्तैः । प्रमाणमूलैरर्थैः साधितमाक्षेपोत्तरयोः साधनं यत्र स्थापने । एवं परीक्षाऽनेन दर्शिता । तन्त्रादिन्यायास्तु तदङ्गम् । निरुक्तमपि । तच्चतुर्धा—नाम्ना, धातुना, नामधातुभ्यां समयेन चेति । तत्र नाम्ना यथा—ऊर्ध्वे खमस्योलूखलः । धातुना यथा—रस्यत इति रसः । द्वाभ्यां—पिशितमश्नातीति पिशाचः । समयः-सोऽपि त्रिधा—लौकिकः, वैदिकः प्रतिशास्त्रपार्शदश्चेति । तत्र लौकिको यथा—भू सत्तायाम् । वैदिको यथा—दीधीङ् दीप्तिदेवनयोः, वेवीङ्वेतिना तुल्ये । प्रतिशास्त्रपार्षदो यथा—गान्धर्ववेदे गीतकविशेषे वैणकादिशब्दः । तदेतदुक्तं नानानामेत्यादिना । निरुक्तस्य तु प्रयोजनं संक्षेपेणार्थावधारणम् । तदुक्तं स्थापित इति । (१२-१३)

अथोद्दिष्टानां विभागं सूचयति—सङ्ग्रहो यो मयेति । तस्येति सङ्ग्रहस्य । सङ्ग्रह एव विस्तारितो विभाग इत्यर्थः । किं तदुक्तावेव सर्वं सम्पन्नम् । सनिरुक्तं परीक्षापर्यन्तमित्यर्थः । अन्तवचनेना(?)व्ययीभावः । न चालक्षितस्य परीक्षेत्याह—सकारिकं कारिकासम्पदोपेतम् । सम्पत्तौ समासः ।

तत्र विभागं तावदाह—शृङ्गारहास्येत्यादिना नाट्यसङ्ग्रह (६-३१) इत्यन्तेन । तत्र नाट्यं नाम नटगताभिनयप्रभावसाक्षात्कारायमाणैकघनमानसनिश्चलाध्यवसेयः समस्तनाटकाद्यन्यतमकाव्यविशेषावद्योतनीयोऽर्थः । स च यद्यप्यनन्तविभावाद्यात्मा तथापि सर्वेषां जडानां संविदि तस्याश्च भोक्तरि भोक्तृवर्गस्य च प्रधाने भोक्तरि पर्यवसानान्नायकाभिधानभोक्तृविशेषस्थायिचित्तवृत्तिस्वभावः ।

सा चैकचित्तवृत्तिः स्वपरकीयमिति (परमिति प्रतीय)मानानन्तचित्तवृत्त्यन्तरशतविशेषिता लौकिकगीतगेयपदादिलास्याङ्गदशकोपजीवनस्वीकृतलक्षणगुणा अलङ्कारगीतातोद्यादिसम्यक्सुन्दरीभूतकाव्यमहिमप्रयोगमालाऽभ्यासविशेषाश्रयत्वात् प्रच्याविता अत एव साधारणीभूततया सामाजिका*नपि स्वात्मसद्भावेन समावेशयन्ती तादात्म्यादेवचानुमानागमयो गिप्रत्यक्षादिकरणकतटस्थप्रमातृप्रमेयपरकीयलौकिकचित्त261 वृत्तिविलक्षणतया निर्भासमाना परिमितस्वत्मन्याश्रयतानिर्भासनाविरहाच्च लौकिकप्रमादिजनितनिजरतिशोकादिवत् षड्ज(तज्ज)हानादिचित्तवृत्त्यन्तरजननाक्षमा तत एव निर्विघ्नस्वसंवेदनात्मक(हर्ष)विश्रान्तिलक्षणेन रसनापरपर्यायेण व्यापारेण गृह्यमाणत्वाद्रसशब्देनाभिधीयते ।
तेन रस एव नाट्यम् । यस्य व्युत्पत्तिः फलमित्युच्यते । तथा च रसादृत (ना. शा. ६-३१) इत्यत्रैकवचनोपपत्तिः । ततश्च मुख्यभूतात् महारसात् स्फोटदृशीवासत्यानि वा अन्विताभिधानदृशीवोभयात्मकानि सत्यानि वा अभिहितान्वयदृशीव तत्समुदायिरूपाणि वा रसान्तराणि भागा(वा)भिनिवेशदृशा निरूप्यन्ते । तद्वक्ष्यन्ते “काव्यार्थान् भावयन्ति” इति । (रसस्य प्राधान्यात् प्रथमनिर्देशः) तेन प्रथमं रसाः । ते च नव । शान्तापलापिनस्त्वष्टाविति तत्र पठन्ति ।
तत्र कामस्य सकलजातिसुलभतयाऽत्यन्तपरिचितत्वेन सर्वान्प्रतिहत्येति (हृद्यतेति) पूर्व शृङ्गारः । तदनुगामी च हास्यः । निरपेक्षभावत्वात् तद्विपरीतस्ततः करुणः । ततस्तन्निमित्तमर्थप्रधानो
रौद्रः । स चामर्षप्रधानः। ततः कामार्थयोर्धर्ममूलत्वाद्वीरः। स हि धर्मप्रधानः । तस्य च भीताभयप्रदानसारत्वात् । तदनन्तरं भयानकः । तद्विभावसाधारण्यसंभावनात् ततो बीभत्सः । इति इयद्वीरेणाक्षिप्तम् । वीरस्य पर्यन्तेऽद्भुतः फलमित्यनन्तरं तदुपादानम । तथा च वक्ष्यते “पर्यन्ते कर्तव्यो नित्यं हि रसोऽद्भुतः ।” (ना. शा. १८-४३) इति । ततस्त्रिवर्गात्मकप्रवृत्त(त्ति)धर्मविपरीतनिवृत्त(त्ति)धर्मात्मको मोक्षफलः शान्तः । तत्र स्वात्मावेशेन रसचर्वणेत्युक्तम् ।
स च विभावादिबलादिति भावा वक्तव्याः । तत्र नाज्ञातलौकिकरत्यादिचित्तवृत्तेः कवेर्नटस्य वा तद्विषयविशिष्टविभावाद्याहरणं शक्यमिति स्थायिन उद्दिष्टाः । तत्र शान्तस्य 262स्थायी ‘विस्मयशमा’ इति कैश्चित्पठितः । उत्साह एवास्य स्थायीत्यन्ये । जुगुप्सेति केचित् । सर्व इत्येके । तत्त्वज्ञानजो निर्वेदोऽस्य स्थायी। एतदर्थमेवोभयधर्मोपजीवित्वख्यापनायामङ्गलभूतोऽप्यसौ पूर्व निर्दिष्टो व्यभिचारित्वा (षु। अ)भिनयत्वो(स्यो)पजीवका इति (तदनन्तरं) सात्त्विकाः । स्थायिषु च सङ्ख्या नोक्तेत्यपरे । अत एव स्थायिन एते तु व्यभिचारिणोऽपि भवन्ति । एतच्चाग्रे वितनिष्यामः।

व्यभिचारिण एत इत्युभयतो नियमार्थ सङ्ख्योपादानम् । सात्त्विका व्यभिचारिवृत्तमभिनयवृत्तं चोपजीवन्तीति पृथगभिनयादिभ्यो गणिताः।

चत्वार इति । आहार्यस्यापि धनुःप्रतिशीर्षकमुकुटादेः प्रत्यक्षबुद्धावुपयोगेऽन्तरङ्गत्वं सूचयति । नाट्यसंश्रया इति । लोके तु कदाचिन्न भवत्यपि गृहीतत्वात् । नाट्ये तु त एव जीवितम् । अत एव रसभावानन्तरमभिनया उद्दिष्टाः । (१४-२३)

अभिनयाश्च लौकिकं धर्म तन्मूलमेव तदुपजीविनं सामयिकं वानुवर्तन्त इत्यतस्तदनन्तरं धर्मी । न चाभिनयोऽभिनेतव्यमन्तरेणास्तीति दशरूपकयोगद्वारेण तदुपकारिण्यो वृत्तयः । द्वे तिस्रः पञ्चेति निराकरणाय चतस्र इत्युक्तम् । ता अपि देशवशादद्भूयसा भवन्तीति तदनन्तरं प्रवृत्तयः। सर्वमेतत्सिद्धिपर्यवसानमिति ततो द्विविधा सिद्धिः। स्वराः पाठ्यं गानसंगृहीता अपि पृथगुपात्ताः । केवलानामपि प्रयोगोपरञ्जकत्वं यल्लक्ष्ये दृश्यते । यत्रान्तरालाप इति प्रसिद्धिस्तदभ्युपगमार्थम् । लक्षणान्वितमिति। अन्यत्तु मल्लकपटफलकज्वालामुखपक्षवाद्यादि लौकिकं नैतत्सङ्गृहीतं बाध्यत्वादित्यर्थः । एतच्चान्ते लक्ष्यते । यदपि चतुर्विधं न सर्वमिदं बहुलचर्मकारादिवाद्यमपि च वक्ष्यमाणलक्षणान्वितम् । आतूद्यतेऽभिहन्यत इत्यर्थः । पुष्करशब्दश्रवणादागतं पुष्करवर्तकदेवताधिष्ठितं पद्मपत्राकारं चर्मपुटभाषं चेति पौष्करम् । हन्यते कलासाम्यार्थमिति घनः । अत एव तालैकप्रमाणत्वात्स्वरवर्णसम्भवात्ताल इत्युक्तः । कांस्यतालादिः । एवकारः काहलादिव्युदासाय ।
पात्रस्य प्रवेशे भावप्रकृत्यवस्थानादिसूचकं यद्गीयते तत्प्रवेशगानम् । प्रविष्टस्यान्तर्गतां चित्तवृत्तिं सामाजिकान्प्रति प्रसादयितुं प्रथयितुं प्रासादगानम् रसान्तरोपक्षेपार्थमाक्षेपगानम् । आन्तरमिति गतिपरिक्रमणनिरूपणादिरवसरः तत्र । यद्गीयते तदान्तरं गानम् । पात्रस्य निष्क्रमणे तु निष्क्रामगानम् । प्रवेशादय उपचाराद्गाने । प्रसादोऽस्य प्रयोजनं प्रासादिकम् । अन्ये तु समासान्मत्वर्थीयं ठनं कृत्वा प्रसादिकमिति । ध्रुवा गीत्याधारो नियतः पदसमूहः । तत्र योगेन युज्यमानतया समन्वितं तदर्थप्राधान्येन नियतरूपत्वादिति गानस्य गान्धर्वाद्भेदः सूचितः ।
कक्ष्याविभागेन गत्युपकारेण सर्वाभिनयानुभावोपकारी गानातोद्योपकारी च मण्डपः यथोक्तम् “यश्चाप्यास्यगतो भाव” (ना.शा. २-२०) इति, तथा “गम्भीरस्वरता येन कुतपस्य” इत्यादि (ना. शा. २-८२) । रङ्गेणैव च कक्ष्याविभागः सङ्गृहीत इति नानुदृ(द्दि)ष्टत्वं कक्ष्यायाः । (२४-३०)
एतदुपसंहरत्येवमित्यादिना ।

एवमुद्देशविभागभेदेन द्विधा सङ्ग्रहमभिधाय लक्षणपरीक्षे वक्तुं प्रतिजानीते—अतःपरमिति । सूत्रग्रन्थविकल्पनमिति पाठः । सूत्रं सूत्रकं लक्षणं वक्ष्यामि। तेनैव च कारिका सङ्गृहीता । ग्रन्थो भाष्यम् । तत्कृतं च विकल्पनमाक्षेपप्रतिसमाधानात्मकमिति परीक्षा निरुक्तशब्दवाच्या प्रतिज्ञाता । सूत्रविवरणस्वभावा तु कारिका सूत्रमपि प्रकाशयन्ती बहुतराक्षेपसमाधानव्याकुलशिष्यजन(नं)स्थिता(र)पक्षनिरूपणेनोपकरोतीति भाष्यस्य पश्चादस्याः पाठः ।

एवं सूत्रं भाष्यं परीक्षां च प्रवक्ष्यामीति प्रतिज्ञाय रसविषयमेव सूत्रप्रभृति प्रथममेव वक्तव्यमित्यत्र परिकरबन्धं घटयितुमाह—तत्रेति । तेषां रसादीनां मध्ये । एवकारोऽवधारणे । तावदिति क्रमे । अभितः आदितः सूत्रग्रन्थपरीक्षाक्रमेण विभज्य व्याख्यास्यामः ।

उद्देशक्रमस्यैव पर्यनुयोज्यतामाशङ्क्यापरं क्रमहेतुमाह—न हीति । हि यस्मात् रसं विना विभावादिरर्थो बुद्धौ व्याख्येयतया न प्रवर्तते यतश्च तं विनाऽर्थः प्रयोजनं च प्रीतिपुरस्सरं व्युत्पत्तिमयं न प्रवर्तते यतश्च रसं प्रत्यादृते रसनात्मकप्रतीत्येकघनविश्रान्ते सामाजिकलोकेऽन्यो भावादिरर्थः प्रविभागेन बुद्धौ न वर्तते । सर्वस्य जडस्य चित्तवृत्त्यन्तरोपकृतप्रधानस्थायिनामधेयचित्तवृत्तिमग्नत्वेन विभावानुभावादिवर्गस्यावभासात् । अतो व्याख्यातृनटसामाजिकाभिप्रायेण तस्यैव प्राधान्यमिति रस एव तावत्पूर्वमुद्दिष्ट इति तस्यैव लक्षणादि कर्तव्यमिति तात्पर्यम् ।
पूर्वत्र बहुवचनमत्र चैकवचनं प्रयुञ्जानस्यायमाशयः—एक एव तावत्परमार्थतो रसः सूत्रस्थानीयत्वेन रूपके प्रतिभाति । तस्यैव पुनर्भागदृशा विभागः।सोऽपि च न तदेकमुखप्रेक्षितामतिवर्तते । एतच्चोद्देश एवास्माभिरभिहितचरम् । अभिधास्यते चाग्रे ।
 एवं क्रमहेतुमभिधाय रसविषयं लक्षणसूत्रमाह—विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः । अत्र भट्टंलोल्लटप्रभृतयस्तावदेवं व्याचख्युः—विभावानुभावव्यभिः संयोगोऽर्थात् स्थायिनस्ततो रसनिष्पत्तिः । तत्र विभावश्चित्तवृत्तेः स्थाय्यात्मिकाया उत्पत्तौ कारणम् । अनुभावाश्च न रसजन्या अत्र विवक्षिताः । तेषां रसकारणत्वेन गणनानर्हत्वात् । अपि तु भावानामेव । ननु येऽनुभावाः व्यभिचारिणश्च चित्तवृत्त्यात्मकत्वात् यद्यपि न सहभाविनः स्थायिना तथापि वासनात्मनेह ते
तस्य विवक्षिताः। दृष्टान्तेऽपि अभिव्यञ्जनादिमध्ये कस्यचिद्वासनात्मकता स्थायिवत्, अन्यस्य तूद्भूतता व्यभिचारिवत्। तेन स्थाय्येव विभावानुभावादिभिरुपचितो रसः, स्थायी भवत्य*नुपचितः । स चोभयोर*पि मुख्यया वृत्त्या रामादौ* अनुकार्येऽनुकर्तर्यपि चानुसन्धानबलात् —इति ।
चिरन्तनानां चायमेव पक्षः । तथा हि दण्डिना स्व(काव्या?)लङ्कारलक्षणेऽभ्यधायि । “रतिः शृङ्गारतां गता
 । रूपबाहुल्ययोगेन” इति (काव्यादर्शे २-२८१) । “अधिरुह्य परां कोटिं कोपो रौद्रात्मतां गतः ।” (२-२८३) इत्यादि च ।
एतन्नेति श्रीशङ्कुकः । विभावाद्ययोगे स्थायिनो लिङ्गाभावेनावगत्यनुपपत्तेर्भावानां पूर्वमभिधेयताप्रसङ्गात्;
स्फीतदशायां लक्षणान्तरवैयर्थ्यात्, मन्दतरतममाध्यस्थ्याद्यानन्त्यापत्तेः, हास्यरसे षोढात्वाभावप्राप्तेः, कामावस्थासु दशस्वसङ्ख्यरसभावादिप्रसङ्गात्, शोकस्य प्रथमं तीव्रत्वं कालात्तु* मान्द्यदर्शनं क्रोधोत्साहरतीनाममर्षस्थैर्यसेवाविपर्यये ह्रासदर्शनमिति विपर्ययस्य दृश्यमानत्वाच्च ।
तस्माद्धेतुभिर्विभावाख्यैः कार्यैश्चानुभावात्मभिः सहचारिरूपैश्च व्यभिचारिभिः प्रयत्नार्जिततया कृत्रिमैरपि तथानभिमन्यमानैरनुकर्तृस्थत्वेन लिङ्गबलतः प्रतीयमानः स्थायी भावो मुख्यरामादिगतस्थाय्यनुकरणरूपः । अनुकरणरूपत्वादेव च नामान्तरेण व्यपरिष्टो रसः ।

विभावा हि काव्यबलानुसन्धेयाः। अनुभावाः शिक्षातः। व्यभिचारिणः कृत्रिमनिजानुभावार्जनबलात् । स्थायी तु काव्यबलादपि नानुसन्धेयः । ‘रतिःशोक’ इत्यादयो हि शब्दा रत्यादिकमभिधेयीकुर्वन्त्यभिधानत्वेन । न तु वाचिकाभिनयरूपतयाऽवगमयन्ति। न हि वागेव वाचिकम् । अपि तु तया निर्वृत्तम् । अङ्गैरिवाङ्गिकम् । तेन— (“विवृद्धात्माऽप्यगाधोऽपि दुरन्तोऽपि महानपि ।)

वाडवेनेव जलधिः शोकः क्रोधेन पीयते ॥” इति ।
तथा—
“शोकेन कृतः स्तम्भः तथा *स्थितो योऽनवस्थिताक्रन्दैः ।
हृदयस्फुटनभयार्तै रोदितुमभ्यर्थ्यते सचिवैः ॥”) (तापसवत्सराजनाटके विनीतदेवोक्तिः) इत्येवमादौ न शोकोऽभिनेयः । अपि त्वभिधेयः ।
“भाति पतितो लिखन्त्याः (तस्या बाष्पाम्बुशीकरकणौघः ।
स्वेदोद्गम इव करतलसंस्पर्शादेष मे वपुषि॥”) (रत्ना २-११) इत्यनेन तु वाक्येन स्वार्थमभिदधता उदयनगतः सुखात्मा रतिः स्थायीभावोऽभिनीयते, न तूच्यते अवगमनशाक्तिर्ह्यभिनयनं वाचकत्वादन्या । अत एव स्थायिपदं सूत्रे भिन्नविभक्तिकमपि नोपात्तम् । तेन रतिरनुक्रियमाणा शृङ्गार इति तदात्मकत्वं तत्प्रभवत्वं च युक्तम् । अर्थक्रियापि मिथ्याज्ञानाददृष्टा, यथा—
(“मणिप्रदीपप्रभयोर्मणिबुद्ध्याभिधावतोः ।
मिथ्याज्ञानाविशेषेऽपि विशेषोऽर्थक्रियां प्रति ॥” इति ।) ( प्रमाणवार्तिके, प्रत्यक्षपरिच्छेदे ७७) न चात्र नर्तक एव सुखीति प्रतिपत्तिः। नाप्ययमेव राम इति । न चाप्ययं न सुखीति । नापि रामः स्याद्वा न वायमिति । न चापि तत्सदृश इति । किन्तु (सम्यङ्मिथ्यासंशयसादृश्यप्रतीतिभ्यो विलक्षणा चित्रतुरगादिन्यायेन) यः सुखी रामः असावयमिति प्रतीतिरस्तीति । यदाह—
“प्रतिभाति न सन्देहो न तत्त्वं न विपर्ययः ।
धीरसावयमित्यस्ति नासावेवायमित्यपि ॥
विरुद्धबुद्ध्यसम्भेदादविवेचितसंप्लवः।
युक्तया पर्यनुयुज्येत स्फुरन्ननुभवः कया ॥ ” इति ।
तदिदमप्यन्तस्तत्त्वशून्यं न विमर्दक्षममित्युपाध्यायः । तथा हि—अनुकरणरूपो रस इति यदुच्यते तत्किं सामाजिकप्रतीत्यभिप्रायेण उत नटाभिप्रायेण किं वा वस्तुवृत्तविवेचकव्याख्यातृबुद्धिसमवलम्बनेन ‘यथाहुर्व्याख्यातारः खल्वेवं विवेचयन्ति’ (प्रमाणवार्तिके स्ववृत्तिः) इति ।

अथ भरतमुनिवचनानुसारेण तत्राद्यः पक्षोऽसङ्गतः । किञ्चिद्धि प्रमाणेनोपलब्धं तदनुकरणमिति शक्यं वक्तुम् । यथा—‘एवमसौ सुरां पिबति’ इति सुरापानानुकरणत्वेन पयःपानं प्रत्यक्षावलोकितं प्रतिभाति । इह च नटगतं किं तदुपलब्धं यद्रत्या*नुकरणतया भातीति चिन्त्यम् । तच्छरीरं तन्निष्ठं प्रतिशीर्षकादि रोमाञ्चकगद्गदिकादिभुजाक्षेपवलनप्रभृति भ्रूक्षेपकटाक्षादिकं च न रतेश्चित्तवृत्तिरूपा यानुकारत्वेन कस्यचित्प्रतिभाति । जडत्वेन भिन्नेन्द्रियग्राह्यत्वेन भिन्नाधिकरणत्वेन च ततोऽतिवैलक्षण्यात् । (मुख्याव)लोकने च तदनुकरणप्रतिभासः । न च रामगतां रतिमुपलब्धपूर्विणः केचित् । एतेन रामानुकारी नट इत्यपि निरस्तः प्रवादः ।
अथ नटगता चित्तवृत्तिरेव प्रतिपन्ना सती रत्यनुकारः शृङ्गार इत्युच्यते, तत्रापि किमात्मकत्वेन सा प्रतीयत इति चिन्त्यम् । ननु प्रमदादिभिः कारणैः कटाक्षादिभिः कार्यैः धृत्यादिभिश्च सहचारिभिर्लिङ्गभूतैर्या लौकिकी कार्यरूपा कारणरूपा सहचारिरूपा च चित्तवृत्तिः प्रतीतियोग्या तदात्मकत्वेन नटचित्तवृत्तिः प्रतिभाति । हन्त तर्हि रत्याकारेणैव सा प्रतिपन्नेति दूरे रत्यनुकरणतावाचोयुक्तिः।

ननु ते विभावादयोऽनुकार्ये पारमार्थिकाः, इह त्वनुकर्तरि न तथेति विशेषः । अस्त्वेवम् । किन्तु ते हि विभावादयोऽतत्कारणातत्कार्यातत्सहचाररूपा अपि काव्यशिक्षादिबलोपकल्पिताः कृत्रिमाः सन्तः किं कृत्रिमत्वेन सामाजिकैः गृह्यन्ते न वा? यदि गृह्यन्ते तदा तैः कथं रतेरवगतिः?

नन्वत एव तत्प्रतीयमानं रत्यनुकरणं मुग्ध बुद्धेः कारणम् । कारणान्तरप्रभवे हि कार्ये (सु)शिक्षितेन वा तथा ज्ञाते* वस्त्वन्तरस्यानुमानं तावद्युक्तम् । असुशिक्षितेन तु तस्यैव प्रसिद्धस्य कारणस्य । यथा वृश्चिकविशेषाद्गोमयस्यैवानुमानम् । वृश्चिकस्यैव वा तत्परं मिथ्याज्ञानम् । यत्रापि लिङ्गज्ञानं मिथ्या तत्रापि वा तदाभासानुमानमयुक्तम् । न हि बाष्पाद्धूमत्वेन ज्ञातादग्न्यनुकारानुमानम् । तदनुकारत्वेन प्रतिभासमानादपि लिङ्गात्तदनुकारानुमानं न युक्तम् । धूमानुकारत्वेन हि ज्ञायमानान्नीहारान्नाग्न्यनुकारजपापुष्पप्रतीतिर्दृष्टा ।
नन्वक्रुद्धोऽपि नटः क्रुद्ध इव भाति । सत्यम् । क्रुद्धेन सदृशः। सादृश्यं च भ्रुकुट्यादिभिः। गोरिव गवयेन मुखादिभिरिति नैतावताऽनुकारः कश्चित् । न चापि सामाजिकानां सादृश्यमतिरस्ति । सामाजिकानां च न भावशून्या नर्तके प्रतिपत्तिरित्युच्यते । अथ च तदनुकारप्रतिभास इति रिक्ता वाचोयुक्तिः ।
यच्चोक्तं रामोऽयमित्यस्ति प्रतिपत्तिः, तदपि यदि तदात्वे निश्चितं तदुत्तरकालभाविबाधकवैधुर्याभावे कथं न तत्त्वज्ञानं स्यात् ? बाधकसद्भावे वा कथं न मिथ्याज्ञानम् ? वास्तवेन च वृत्तेन* बाधकानुदयेऽपि मिथ्याज्ञानमेव स्यात् । तेन विरुद्धबुद्ध्य*संभेदादित्यसत् । नर्तकान्तरेऽपि च रामोऽयमिति प्रतिपत्तिरस्ति । ततश्च रामत्वं सामान्यरूपमित्यायातम् ।
यच्चोच्यते विभावाः काव्यादनुसन्धीयन्ते (इति) तदपि न विद्मः। नहि ‘ममेयं सीता काचित्’ इति स्वात्मीयत्वेन प्रतिपत्तिर्नटस्य । अथ सामाजिकस्य तथा प्रतीतियोग्याः क्रियन्त इत्येताव*देवानुसन्धानमुच्यते तर्हि स्थायिनि सुतरामनुसन्धानं स्यात् । तस्यैव हि मुख्यत्वेन ‘अस्मिन्नयम्’ इति सामाजिकानां प्रतिपत्तिः‘वाग्वाचिकम्’ इत्यादिना भेदाभिधानसंरम्भगर्भमहीयानभिनयरूपताविवेकः कृतः स उत्तरत्र स्वावसरे (ना.शा. अ-१४) चर्चयिष्यते । तस्मात्सामाजिकप्रतीत्यनुसारेण स्थाय्यनुकरणं रस इत्यसत् ।
न चापि नटस्येत्थं प्रतिपत्तिः ‘रामं तच्चित्तवृत्तिं वाऽनुकारोमि’ इति । सदृशकरणं हि तावदनुकरणमनुपलब्धप्रकृतिना न शक्यं कर्तुम् । अथ पश्चात्करणमनुकरणं तल्लोकेऽप्यनुकरणात्मतातिप्रसक्ता । अथ न नियतस्य कस्यचिदनुकारः अपि तूत्तमप्रकृतेः शोकमनुकरोमीति । तर्हि केनेति चिन्त्यम् । न तावच्छोकेन तस्य तदभावात् । न चाश्रुपातादिना शोकस्यानुकारः तद्वैलक्षण्यादित्युक्तम् । इयत्तु स्यात्—उत्तमप्रकृतेर्ये शोकानुभावाः ताननुकरोमीति । तत्रापि कस्योत्तमप्रकृतेः । यस्य कस्यचिदिति चेत्सोऽपि विशिष्टतां विना कथं बुद्धावारोपयितुं शक्यः । य एवं रोदितीति चेत् स्वात्मापि मध्ये नटस्यानुप्रविष्ट इति गलितोऽनुकार्यानुकर्तृभावः ।
किञ्च नटः शिक्षावशात्स्वविभावस्मरणाच्चित्तवृत्तिसाधारणीभावेन हृदयसंवादात्केवलमनुभावान्प्रदर्शयन् काव्यमुपचितकाकुप्रभृत्युपस्कारेण पठंश्चेष्टत इत्येतावन्मात्रेऽस्य प्रतीतिर्नत्वनुकारं वेदयते । कान्तवेषानुकारवृद्धि न रामचेष्टितस्यानुकारः । एतच्च प्रथमाध्यायेऽपि दर्शितमस्माभिः । नापि वस्तुवृत्तानुसारेण तदनुकारत्वम् । अनुसंवेद्यमानस्य वस्तुवृत्तत्वानुपपत्तेः । यच्च वस्तुवृत्तं तद्दर्शयिष्यामः । न च मुनिवचनमेवंविधमस्ति क्वचित्स्थाय्यनुकरणं रसा इति । नापि लिङ्गमत्रार्थे मुनेरुपलभ्यते । प्रत्युत ध्रुवागानतालवैचित्र्यलास्याङ्गोपजीवनं(न)निरूपणादि विपर्यये लिङ्गमिति सन्ध्यङ्गाध्यायान्ते वितनिष्यामः । ‘सप्तद्वीपानुकरणम्’ (ना. शा. १-११७) इत्यादि त्वन्यथापि शक्यगमनिकमिति तदनुकारेऽपि च क्व नामान्तरं कान्तवेषगत्यकरणादौ ।
यच्चोच्यते वर्णकैर्हरितालादिभिः संयुज्यमान एव गौरित्यादि । तत्र यद्यभिव्यज्यमान इत्यर्थोऽभिप्रेतः, तदसत् । न हि सिन्दूरादिभिः पारमार्थिको गौरभिव्यज्यते प्रदीपादिभिरिव। किन्तु तत्सदृशः समूहविशेषो निर्वर्त्यते । त एव हि सिन्दूरादयो गवावयवसन्निवेशसदृशेन सन्निवेशविशेषेणावस्थिता गोसदृगिति प्रतिभासस्य विषयः, नैवं विभावादिसमूहो रतिसदृशताप्रतिपत्तिग्राह्यः। तस्माद्भावानुकरणं रसा इत्यसत् ।
येन त्वभ्यधायि—सुखदुःखजननशक्तियुक्ता विषयसामग्री बाह्यैव साङ्ख्यदृशा सुखदुःखस्वभावा
रसः । तस्यां च सामग्य्रा दलस्थानीया विभावाः, संस्कारकाः अनुभावव्यभिचारिणः । स्थायिनस्तु तत्सामग्रीजन्या आन्तराः सुखदुःखस्वभावा इति। तेन ‘स्थायिभावान् रसत्व (मुपनेष्याम)’ इत्यादावुपचारमङ्गीकुर्वता ग्रन्थविरोधं स्वयमेव बुध्यमानेन दूषणाविष्करणमौखर्यात्* प्रामाणिको जनः परिरक्षित इति किमस्योच्यते । यत्त्वन्यतन्त्र*प्रतीतिवैषम्यप्रसङ्गादि तत्कियदत्रोच्यताम् ।
भट्टनायकस्त्वाह —रसो न प्रतीयते, नोत्पद्यते, नाभिव्यज्यते। स्वगतत्वेन हि प्रतीतौ करुणे दुःखित्वं स्यात् । न च सा प्रतीतिर्युक्ता, सीतादेरविभावत्वात्, स्वकान्तास्मृत्यसंवेदनात्, देवतादौ
साधारणीकरणायोग्यत्वात्, समुद्रलङ्घना*देरसाधारण्यात् । न च तद्वतो रामस्य स्मृतिः अनुपलब्धत्वात्, न च शब्दानुमानादिभ्यः तत्प्रतीतौ लोकस्य सरसता युक्ता प्रत्यक्षादिव नायकयुगलकावभासे हि प्रत्युत लज्जाजुगुप्सास्पृहादिस्वोचितचित्तवृत्त्यन्तरोदयव्यग्रतया का सरसत्वकथापि स्यात् । परगतत्वेन प्रतीतौ ताटस्थ्यमेव भवेत् तत्र प्रतीतिरनुभवस्मृत्यादिरूपा रसस्य युक्ता । उत्त्पत्तावपि तुल्यमेतद्दूषणम् । शक्तिरूपत्वेन पूर्वं स्थितस्य पश्चादभिव्यक्तौ विषयार्जनतारतम्यापत्तिः । स्वगतत्वपरगतत्वादि च पूर्ववद्विकल्प्यम् ।
तस्मात्काव्ये दोषाभावगुणालङ्कारमयत्वलक्षणेन, नाट्ये चतुर्विधाभिनयरूपेण निबिडनिजमोहसङ्कटतानिवारण
कारिणा विभावादिसाधारणीकरणात्मनाऽभिधातो द्वितीयेनांशेन भावकत्वव्यापारेण भाव्यमानो रसोऽनुभवस्मृत्यादिविलक्षणेन रजस्तमोऽनुवेधवैचित्र्यबलाद्द्रुतिविस्तारविकासलक्षणेनसत्त्वोद्रेकप्रकाशानन्दमयनिजसंविद्विश्रान्तिलक्षणेन परब्रह्मास्वादसविधेन भोगेन परं भुज्यत इति ।
“(अभिधा भावना चान्या तद्भोगीकृतमेव च ।
अभिधाधामतां याते शब्दार्थालङ्कृती ततः ॥)
भावनाभाव्य एषोऽपि शृङ्गारादिगणो हि यत् ।
(तद्भोगीकृति*रूपेण व्याप्यते सिद्धिमान्नरः ॥ )”
तत्र पूर्वपक्षोऽयं भट्टलोल्लटपक्षानभ्युपगमादेव नाभ्युपगत इति तद्दूषणमनुत्थानोपहतमेव । प्रतीत्यादिव्यतिरिक्तश्च संसारे को भोग इति न विद्मः । रसनेति चेत्, सापि प्रतिपत्तिरेव । केवलमुपायवैलक्षण्यान्नामान्तरं प्रतिपद्यतां दर्शनानुमितिश्रुत्युपमितिप्रतिभानादिनामान्तरवत् । निष्पादनाभिव्यक्तिद्वयानभ्युपगमे च नित्यो वा असद्वा रस इति न तृतीया गतिः स्यात् न चाप्रतीतं वस्त्वस्तिता*व्यवहारे योग्यम् ।
अथोच्यते—प्रतीतिरिति रसस्य भोगीकरणम् । तच्च द्रु*त्यादिस्वरूपम् । तदस्तु, तथापि न तावन्मात्रम् । यावन्तो हि रसास्तावत्य* एव रसनात्मानः प्रतीतयो भोगीकरणस्वभावाः । (सत्त्वादि)*गुणानां चाङ्गाङ्गिवैचित्र्यमनन्तं कल्प्यमिति कात्रित्वेनेयत्ता—
इति तु यत् “काव्येन भाव्यन्ते रसाः” इत्युच्यते तत्र विभावादिजनितचर्वणात्मकास्वादरूपप्रत्ययगोचरतापादनमेव यदि भावनं तदभ्युपगम्यत एव ।
यत्तूक्तम्— “भावसंयोजनाव्यङ्ग्यपरसंवित्तिगोचरः ।
आस्वादनात्माऽनुभवो रसः काव्यार्थ उच्यते ॥” इति ।
(संसर्गादिर्यथाशास्त्र एकत्वात् फलयोगतः ।
वाक्यार्थस्तद्वदेवात्र शृङ्गारादि रसो मतः ॥) तत्र व्यज्यमानतया व्यङ्ग्यो लक्ष्यते । अनुभवेन च तद्विषय इति मन्तव्यम् । नन्वेवं कथं रसतत्त्वमास्ताम् ।
किं कुर्मः ।

आम्नायसिद्धे किमपूर्वमेतत्संविद्विकासेऽधिगनागमित्वम् ।
इत्थं स्वयंग्राह्यमहार्हहेतुद्वन्द्वेन किं दूषयिता न लोकः ॥
ऊर्ध्वोर्ध्वमारुह्य यदर्थतत्त्वं धीः पश्यति श्रान्तिमवेदयन्ती ।
फलं तदाद्यैः परिकल्पितानां विवेकसोपानपरम्पराणाम् ॥
चित्रं निरालम्बनमेव मन्ये प्रमेयसिद्धौ प्रथमावतारम् ।
सन्मार्गलाभे सति सेतुबन्धपुरप्रतिष्ठादि न विस्मयाय ॥
तस्मात्सतामत्र न दूषितानि मतानि तान्येव तु शोधितानि ।
पूर्वप्रतिष्ठापितयोजनासु मूलप्रतिष्ठाफलमामनन्ति ॥
तर्ह्युच्यतां परिशुद्धतत्त्वम् ।

उक्तमेव मुनिना न त्वपूर्वं किञ्चित् । तथाह्याह—“काव्यार्थान् भावयतीति भावाः” इति (ना. शा. -७) तत्काव्यार्थो रसः । यथा हि ‘रात्रिमासत’ । ‘वपां (तै-ब्रा) तामग्नौ प्रादात्’ इत्यादावर्थितादिलक्षितस्याधिकारिणः प्रतिपत्तिमात्रादितिवृत्तप्ररोचितात्प्रथमप्रवृत्तादनन्तरमधिकैवोपात्तकालतिरस्कारेणैवास्ते संप्रददानीत्यादिरूपा संक्रमणादिस्वाभावा । यथादर्शनं प्रतिभाभावनाविध्युद्योगादिभाषाभिर्व्यवहृता प्रतिपत्तिस्तथैव काव्यात्मकादपि शब्दादधिकारिणोऽधिकाऽस्ति प्रतिपत्तिः ।
अधिकारी चात्र विमलप्रतिभानशालिहृदयः । तस्य च “ग्रीवाभङ्गाभिरामम् ।” इति (शाकु-अ. १) “उमापि नीलालक” इति (कुमा-३-६२) “हरस्तु किञ्चित्” (कुमा-३-६७) इत्यादिवाक्येभ्यो वाक्यार्थप्रतिपत्तेरनन्तरं मानसी साक्षात्कारात्मिकाऽपहस्तिततत्तद्वाक्योपात्तकालादिविभागा तावत्प्रतीतिरुपजायते । तस्यां च यो मृगपोतकादिर्भाति तस्य विशेषरूपत्वाभावाद्भीत इति त्रासकस्यापारमार्थिकत्वाद्भयमेव परं देशकालाद्यनालिङ्गितम्, तत एव, ‘भीतोऽहं भीतोऽयं शत्रुर्वयस्यो मध्यस्थो’ वा इत्यादिप्रत्ययेभ्यो दुःखसुखादिकृतहानादिबुध्यन्तरोदयनियमवत्तया विघ्नबहुलेभ्यो विलक्षणं निर्विघ्नप्रतीतिनिग्राह्यं साक्षादिव हृदये निधीयमानं चक्षुषोरिव विपरिवर्तमानं भयानको रसः । तथाविधे हि भये नात्माऽत्यन्ततिरस्कृतो न विशेषत उल्लिखितः ।
एवं परोऽपि । तत एव न परिमितमेव साधारण्यम्, अपि तु विततम् । व्याप्तिग्रह इव धूमाग्न्योः, भयकम्पयोरेव वा तदत्र साक्षात्कारायमाणत्वे परिपोषिका नटादिसामग्री । यस्यां वस्तुतः स
तां काव्यार्पितानां च देशकालप्रमात्रादीनां नियमहेतूनामन्योन्यप्रतिबन्धबलादत्यन्तमपसरणे, स एव साधारणीभावः सुतरां पुष्यति । अत एव सर्वसामाजिकानामेकघनतैव प्रतिपत्तेः सुतरां रसपरिपोषाय । सर्वेषामनादिवासनाचित्रीकृतचेतसां वासनासंवादात् । सा चाविघ्ना संविच्चमत्कारः ।तज्जो हि कम्पपुलकोल्लुकसनादिर्विकारः । चमत्कारो यथा—
“अज्ज वि हरी चमक्कई कहकहविण* मंदरेण दळिआइं ।
चंदकळाकंदळसच्छहाइं ळच्छीए अंगाई ॥”
तथा हि—स चातृप्तिव्यतिरेकेणाविच्छिन्नो भोगावेश इत्युच्यते ।भुञ्जानस्याद्भुतभोगस्पन्दाविष्टस्य च
मनःकरणं चमत्कार इति । स च साक्षात्कारस्वभावो मानसोऽध्यवसायो वा सङ्कल्पो वा स्मृतिर्वा तथात्वेन स्फुरन्नस्तु ।
यदाह—
“रम्याणि वीक्ष्य मधुरांश्च निशम्य शब्दान् पर्यत्सुको भवति यत्सुखितोऽपि जन्तुः ।
तच्चेतसा स्मरति नूनमबोधपूर्वं भावस्थिराणि जननान्तरसौहृदानि ॥” (शाकु ५-) इत्यादि ।
(अत्र हि स्मरतीति या स्मृतिरुपदर्शिता सा न तार्किकप्रसिद्धा, पूर्वमेतस्यार्थस्याननुभूतत्वात् । अपि तु प्रतिभानापरपर्यायसाक्षात्कारस्वभावेयमिति ।)
सर्वथा तावदेषास्ति प्रतीतिरास्वादात्मा यस्यां रतिरेव भाति । तत एव विशेषान्तरानुपहितत्वात्सा रसनीया सती न लौकिकी, न मिथ्या, नानिर्वाच्या, न लौकिकतुल्या, न तदारोपादिरूपा । एषैव चोपचयावस्थासु देशाद्यनियन्त्रणादनुकारोऽप्यस्तु, भावानुगामितया करणात् । विषय*सामग्र्यपि भवतु विज्ञानवादावलम्बनात् ।
सर्वथा रसनात्मकवीतविघ्नप्रतीतिग्राह्यो भाव एव रसः ।
तत्र विघ्नापसारका विभावप्रभृतयः । तथा हि — लोके सकलविघ्नविनिर्मुक्ता संवित्तिरेव चमत्कारनिर्वेशरसनास्वादनभोगसमापत्तिलयविश्रान्त्यादिशब्दैरभिधीयते । विघ्नाश्चास्यां सप्त । प्रतिपत्तावयोग्यता संभावनाविरहरूपा ।(१) स्वगतत्वपरगतत्वनियमेन देशकालविशेषावेशः(२) निजसुखादिविवशीभावः(३) प्रतीत्युपायवैकल्यं(४) स्फुटत्वाभावो(५) अप्रधानता(६) संशययोगश्च(७) ।
तथाहि—संवेद्यमसंभावयमानः संवेद्ये संविदं विनिवेशयितुमेव न शक्नोति । का तत्र विश्रान्तिरिति प्रथमो विघ्नः । तदपसारणे हृदयसंवादो लोकसामान्यवस्तुविषयः । अलोकसामान्येषु तु चेष्टितेष्वखण्डितप्रसिद्धिजनितगाढारूढप्रत्ययप्रसरकारी प्रख्यातरामादिनामधेयपरिग्रहः । अत एव निस्सामान्योत्कर्षोपदेशव्युत्पत्तिप्रयोजने नाटकादौ प्रख्यातवस्तुविषयत्वादि नियमेन निरूपयिष्यते, न तु प्रहसनादौ एतच्च स्वावसर एव वक्ष्याम इत्यास्तां तावत् ।
स्वैकगतानां च सुखदुःखसंविदामास्वादे यथासंभवं तदपगमभीरुतया वा तत्परिरक्षाव्यग्रतया वा तत्सदृशार्जिजीषया वा तज्जिहासया वा तत्प्रचिख्यापयिषया वा तद्गोपनेच्छया वा प्रकारान्तरेण वा संवेदनान्तरसमुद्गम एव परमो विघ्नः ।
परगतत्वनियमभाजामपि सुखदुःखानां संवेदने नियमेन स्वात्मनि सुखदुःखमोह- माध्यस्थ्यादिसंविदन्तरोद्गमनसंभावनादवश्यंभावी विघ्नः । तदपसारणे
 ‘कार्यो नातिप्रसङ्गोऽत्र’ (ना. शा. ५-१५८) इत्यादिना (पूर्वरङ्गविधिं प्रतीति)पूर्वरङ्गानिगूहनेन (“*नटी विदूषको वापि” इति लक्षित)प्रस्तावनावलोकनेन च यो नटरूपताधिगमस्तत्पुरस्सरः प्रतिशीर्षकादिना तत्प्रच्छादनप्रकारोऽभ्युपायः अलौकिकभाषादिभेदलास्याङ्गरङ्गपीठ275मण्डपगतकक्ष्यादिपरिग्रहनाट्यधर्मिसहितः । तस्मिन् हि सति* ‘अस्यैवात्रैवैतर्ह्यैव च सुखं दुःखं वा’ इति न भवति प्रतीतिः,स्वरूपस्य निह्नवात्, रूपान्तरस्य चारोपितस्यप्रतिभास*विश्रान्तिवैकल्येन स्वरूपे विश्रान्त्यभावात् । सत्यतदीयरूपनिह्नवमात्र एव पर्यवसानात् ।
तथा हि—आसीनपाठ्यपुष्पगन्धिकादि लोके न दृष्टम् । न च तन्न किञ्चित् । कथञ्चित्संभाव्यत्वात् इति एष सर्वो मुनिना साधारणीभावसिद्ध्या रसचर्वणोपयोगित्वेन परिकरबन्धः समाश्रित इति तत्रैव स्फुटीभविष्यतीति तदिह तावन्नोद्यमनीयम् । ततः स एष स्वपरनियतताविघ्नापसरणप्रकारो व्याख्यातः ।

तथा निजसुखादिविवशीभूतश्च कथं वस्त्वन्तरे संविदं *विश्रमयेदिति *तत्प्रत्यूहव्यपोहनाय प्रतिपदार्थनिष्ठैः साधारण्यमहिम्ना सकलभोग्यत्वसहिष्णुभिः शब्दादिविषयमयैरातोद्यगानविचित्रमण्डपपद*विदग्धगणिकादिभिरुपरञ्जनं समाश्रितम् । योनाहृदयोऽपि हृदयवैमल्यप्राप्त्या सहृदयीक्रियते । उक्तं हि “दृश्यं श्रव्यं च” (ना. शा. १-११) इति ।
किञ्च प्रतीत्युपायानामभावे कथं प्रतीतिः? अस्फुटप्रतीतिकारिशब्दलिङ्गसम्भवेऽपि न प्रतीतिर्विश्राम्यति । स्फुटप्रतीतिरूपप्रत्यक्षोचितप्रत्ययसाकाङ्क्षत्वात् ।
यथाऽऽहुः ‘सर्वा चेयं प्रमितिः प्रत्यक्षपरा’ (न्यायसू. भा. १-१-१३) इति स्वसाक्षात्कृते आगमानुमानशतैरप्य
नन्यथाभावस्य स्वसंवेदनात् । अलातचक्रादौ साक्षात्कारान्तरेणैव बलवता तप्तमित्यपसारणादिति लौकिकस्तावदयं क्रमः । तस्मात्तदुभयविघ्नविघातेऽभिनया लोकधर्मिवृत्तिप्रवृत्त्युपस्कृताः समभिषिच्यन्ते । अभिनयनं हि सशब्दलिङ्गव्यापारविसदृशमेव प्रत्यक्षव्यापारकल्पमिति निश्चेष्यामः ।
अप्रधाने च वस्तुनि कस्य संविद्विश्राम्यति ? तस्यैव प्रत्येयस्य
प्रधानान्तरं प्रत्यनुधावतः स्वात्मन्यवि*श्रान्तत्वात् । अतोऽप्रधानत्वं जडे विभावानुभाववर्गे व्यभिचारिनिचये च संविदात्मकेऽपि नियमेनान्यमुखप्रेक्षिणि संभवतीति तदतिरिक्तः स्थाय्येव तथा चर्वणापात्रम् ।
तत्र पुरुषार्थनिष्ठाः काश्चित्संविद इति प्रधानम् । तद्यथा—रतिः कामः तदनुषङ्गिधर्मार्थनिष्ठा; क्रोधस्तत्प्रधानेष्वर्थनिष्ठः; कामधर्मपर्यवसितोऽप्युत्साहः; समस्तधर्मादिपर्यवसितः शमश्च
तत्त्वज्ञानजनितनिर्वेदप्रायोऽपि भावो मोक्षोपाय इति तावदेषां प्राधान्यम् । यद्यपि चैषामप्यन्योन्यं गुणभावोऽस्ति तथापि तत्तत्प्रधाने रूपके तत्तत्प्रधानं भवतीति रूपकभेदपर्यायेण सर्वेषां प्राधान्यमेषां लक्ष्यते । अदूरभागाभिनिविष्टदृशा*त्वेकस्मिन्नपि रूपके पृथक्प्राधान्यम् ।
तत्र सर्वेऽमी सुखप्रधानाः, स्वसंविच्चर्वणरूपस्यैकघनस्य प्रकाशस्यानन्दसारत्वात् । तथा हि—एकघनशोकसंविच्चर्वणेऽपि लोकेऽस्ति स्त्रीलोकस्य हृदयविश्रान्तिरन्तरायशून्यविश्रान्तिशरीरत्वात्* । अविश्रान्तिरूपतैव दुःखम् । तत एव कापिलैर्दुःखस्य चाञ्चल्यमेव प्राणत्वेनोक्तं रजोवृत्तितां वदद्भिरित्यानन्दरूपता सर्वरसानाम् । किन्तूपरञ्जकविषयवशात्केषामपि कटु किम्ना अस्ति । स्पर्शो वीरस्येव । स हि क्लेश सहिष्णुतादिप्राण एव ।
एवं रत्यादीनां प्राधान्यम् । हासादीनां तु सातिशयं सकललोकसुलभविभावतयोपरञ्जकत्वमिति
प्राधान्यम् । अत एवानुत्तमप्रकृतिषु बाहुल्येन हासादयो भवन्ति । पामरप्रायः सर्वोऽपि हसति, शोचति, बिभेति, परनिन्दामाद्रियते, अल्पसुभाषितत्वेन च सर्वत्र विस्मयते । रत्याद्यङ्गतया तु पुमर्थोपयोगित्वमपि स्यादेषाम् । एतद्गुणप्रधानभावकृत एव च दशरूपकादिभेद इति वक्ष्यामः ।
स्थायित्वं चैतावतामेव । जात एव हि जन्तुरियतीभिः संविद्भिः परीतो भवति । तथा हि— “दुःखसंश्लेषविद्वेषी सुखास्वादनसादरः ।” इति न्यायेन सर्वो रिरंसया व्याप्तः स्वात्मन्युत्कर्षमानितया परमुपहसन्नभीष्टवियोगसंतप्तस्तद्धेतुषु कोपपरवशोऽशक्ततया
च ततो भीरुः, किञ्चिदार्जिजीषुरप्यपरिचितवस्तुविषयवैमुख्यात्मकतयाक्रान्तः, किञ्चिदनभीष्टतयाऽभिमन्यमानस्तत्तत्स्वकर्तव्यदर्शनसमुदितविस्मयः किञ्चिच्च जिहासुरेव जायते । न ह्येतच्चित्तवृत्तिवासनाशून्यः प्राणी भवति । केवलं कस्यचित्काचिदधिका चित्तवृत्तिः काचिदूना; कस्यचिदुचितविषयनियन्त्रिता कस्यचिदन्यथा । तत्काचिदेव पुमर्थोपयोगिनीत्युपदेश्या । तद्विभाग*कृतश्चोत्तमप्रकृत्यादिव्यवहारः ।
ये पुनरमी ग्लानिशङ्काप्रभृतयश्चित्तवृत्तिविशेषास्ते समुचितविभावाज्ज
गन्मध्येऽपि न भवन्त्येव । तथा हि—रसायनमुपयुक्तवतो मुनेर्ग्लान्यालस्यश्रमप्रभृतयो नोत्तिष्ठान्ति । यस्यापि वा भवन्ति विभावबलात्तस्यापि हेतुप्रक्षये क्षीयमाणाः संस्कारशेषतां तावत् नावश्यमनुबध्नन्ति । उत्साहादयस्तु संपादितस्वकर्तव्यतया प्रलीनकल्पा अपि संस्कारशेषतां नातिवर्तन्ते, कर्तव्यान्तरविषयस्योत्साहादेरखण्डनात् ।
यथाह पतञ्जलिः
—“न हि चैत्र एकस्यां स्त्रियां रक्त इत्यन्यासु विरक्तः ।” (पातञ्जल. व्यास. भा-२-४ ) इत्यादि ।
तस्मात्स्थायिरूपचित्तवृत्तिसूत्रस्यूता एवामी व्यभिचारिणः स्वात्मानमुदयास्तमयवैचित्र्यशतसहस्रधर्माणं प्रतिलभमाना रक्तनीलादिसूत्रस्यूतविरलभावो(गो) पलम्भनसम्भावितभङ्गीसहस्रगर्भस्फटिककाचा*भ्रकपद्मरागमरकतमहानीलादिमयगोलकवत्तस्मिन् सूत्रे स्वसंस्कारवैचित्र्यमनिवेशयन्तोऽपि तत्सूत्रकृतमुपकारसन्दर्भं बिभ्रतः स्वयं च विचित्रार्थस्थायिसूत्रं च विचित्रयन्तोऽन्तरान्तरा शुद्धमपि स्थायिसूत्रं प्रतिभासावकाशमुपनयन्तोऽपि पूर्वापरव्यभिचारिरत्नच्छायाशबलिमानमवश्यमानयन्तः प्रतिभासन्त इति व्यभिचारिण उच्यन्ते ।
तथा हि—ग्लानोऽयमित्युक्ते कुत इति हेतुप्रश्नेना स्थायितास्य सू्च्यते, न तु राम उत्साहशक्तिमानित्यत्र हेतुप्रश्नमाहुः । अत एव विभावास्तत्रोद्बोधकाः सन्तः स्वरूपोपरञ्जकत्वं विदधाना रत्युत्साहादेरुचितानुचितत्वमात्रमावहन्ति । न तु तदभावे सर्वथैव ते निरुपाख्याः, वासनात्मना सर्वजन्तूनां तन्मयत्वेनोक्तत्वात् । व्यभिचारिणां तु स्वविभावाभावे नामापि नास्तीति वितनिष्यते चैतद्यथायोगं व्याख्यावसरे । एवमप्रधानत्वनिरासः स्थायिनिरूपणायां ‘स्थायिथावान् रसत्वम्’ (ना. शा. अ. ६)इत्यनया सामान्यलक्षणशेषभूतया विशेषलक्षणनिष्ठया च कृतः ।
तत्रानुभावानां विभावानां व्यभिचारिणां च पृथक्स्थायिनि नियमो नास्ति, बाष्पादेरानन्दाक्षिरोगादिजत्वदर्शनात्, व्याघ्रादेश्च क्रोधभयादिहेतुत्वात् श्रम
चिन्तादेरुत्साहभयाद्यनेकसहचरत्वावलो*कनात् । सामग्री तु न व्यभिचारिणी। तथा हि—बन्धुविनाशो यत्र विभावः परिदेविताश्रुपातादिस्त्वनुभावः चिन्ताश्च दैन्यादि व्यभिचारी सोऽवश्यं शोक एवत्येवं संशयोदये शङ्कात्मकविघ्नशमनाय संयोग उपात्तः ।
तत्र लोकव्यवहारे कार्यकारणसहचारात्मकलिङ्गदर्शने* स्थाय्यात्मपरचित्तवृत्त्यनुमानाभ्यासपाटवादधुना तैरेवोद्यानकटाक्षवीक्षा*दिभिर्लौकिकीं कारणत्वादिभुवमतिक्रान्तैर्वि भावनानु भावनासमुपरञ्जकत्वमात्रप्राणैः, अत एवालौकिकविभावादिव्यपदेशभाग्भिः प्राच्यकारणादिरूपसंस्कारोपजीवनख्यापनाय विभावादि*नामधेयव्यपदेश्यैर्भावाध्यायेऽपि वक्ष्यमाणस्वरूपभेदैर्गुणप्रधानतापर्यायेण सामाजिकधियि सम्यग्योगं सम्बन्धमैकाग्र्यं वाऽसादितवद्भिरलौकिकनिर्विघ्नसंवेदनात्मकचर्वणागोचरतां नीतोऽर्थश्चर्व्यमाणतैकसारो न तु सिद्धस्वभावः तात्कालिक एव, न तु चर्वणातिरिक्तकालावलम्बी स्थायिविलक्षण एव रसः । न तु यथा शङ्कुकादिभिरभ्यधीयत, “स्थाय्येव विभावादिप्रत्याय्यो रस्यमानत्वाद्रस उत्यते” इति । एवं हि लोकेऽपि किं न रसः । असतोऽपि हि यत्र रसनीयता स्यात्तत्र वस्तुसतः कथं न भविष्यति? तेन स्थायिप्रतीतिरनुमितिरूपा वाच्या । न रसः । अत एव सूत्रे मुनिना स्थायिग्रहणं न कृतम् । तत्प्रत्युत शल्यभूतं स्यात् । केवलमौचित्यादेवमुच्यते स्थायी रसीभूत इति । औचित्यं तु तत्स्थायिगतत्वेन कारणादितया प्रसिद्धानामधुना चर्वणोपयोगितया विभावादित्वावलम्बनात् ।
तथा हि लौकिकचित्तवृत्त्यनुमाने का रसता? तेनालौकिकचमत्कारात्मा रसास्वादः स्मृत्यनुमानलौकिक
संवेदनविलक्षण एव ।
तथाहि—लोकिकेनानुमानेन संस्कृतः प्रमदादि न ताटस्थ्येन प्रतिपद्यते । अपि तु हृदयसंवादात्मकसहृदयत्वबलात्पूर्णीभविष्यद्रसास्वादाङ्कुरीभावेनानुमानस्मृत्यादिसोपानमनारुह्यैव
तन्मयीभावोचितचर्वणाप्राणतया । न च सा चर्वणा प्राङ्मानान्तरात् (जाता) येनाधुना स्मृतिः स्यात् । न चात्र लौकिकप्रत्यक्षादिप्रमाणव्यापारः । किन्त्वलौकिकविभावादिसंयोगबलोपनतैवेयं चर्वणा । सा च प्रत्यक्षानुमानागमोपमानादिलौकिकप्रमाणजनितरत्याद्यवबोधतः तथा योगिप्रत्यक्षजनितटस्थपरसंवित्तिज्ञानात्सकलवैषयिकोपरागशून्यशुद्धपरयोगिगतस्वानन्दैकघनानुभवाच्च विशिष्यते । एतेषां यथायोगमर्जनादिविघ्नान्तरोदयात्ताटस्थ्यहेतुकेनास्फुटत्वेन विषयावेशवैवश्येन* च* सौन्दर्यविरहात् । अत्र तु स्वात्मैकगतत्वनियमासंभवात् न विषया*वेशवैवश्यम्, स्वानुप्रवेशात्परगतत्वनियमाभावात् न ताटस्थ्य(हेतुका) स्फुटत्वं तद्विभावादिसाधारण्यवशसंप्रबुद्धोचितनिजरत्यादिवासनावेशवशाच्च न विघ्नान्तरादीनां सम्भव इत्यवोचाम बहुशः । अत एव विभावादयो न निष्पत्तिहेतवो रसस्य, तद्बोधापगमेऽपि रससंभवप्रसङ्गात् । नापि ज्ञप्तिहेतवः येन प्रमाणमध्ये पतेयुः । सिद्धस्य कस्यचित्प्रमेयभूतस्य रसस्याभावात् । तर्हि किमतद्विभावादय इति । अलौकिक एवायं चर्वणोपयोगी विभावादिव्यवहारः । क्वान्यत्रेत्थं दृष्टमिति चेद्भूषणमेतदस्माकमलौकिकत्वसिद्धौ । पानकरसास्वादोऽपि किं गुडमरीचादिषु दृष्ट इति समानमेतत् ।
नन्वेवं रसोऽप्रमेयः स्यात् । एवं युक्तं भवितुमर्हति—रस्यतैकप्राणो ह्यसौ न प्रमेयादिस्वभावः । तर्हि सूत्रे निष्पत्तिरिति कथम्? नेयं रसस्य, अपि तु तद्विषयरसनायाः । तन्निष्पत्त्या तु यदि तदेकायत्तजीवितस्य रसस्य निष्पत्तिरुच्यते तन्न कश्चिदत्र दोषः । सा च रसना न प्रमाणव्यापारो न कारकव्यापारः । स्वयं तु नाप्रामाणिकी । स्वसंवेदनसिद्धत्वात् । रसना च बोधरूपैव; किन्तु बोधान्तरेभ्यो लौकिकेभ्यो विलक्षणैव, उपायानां विभावादीनां लौकिकवैलक्षण्यात् । तेन विभावादिसंयोगाद्रसना यतो निष्पद्यतेऽतस्तथाविधरसनागोचरो लोकोत्तरोऽ र्थो रस इति तात्पर्यं सूत्रस्य ।

अयमत्र संक्षेपः ।

मुकुटप्रतिशीर्षकादिना तावन्नटबुद्धिराच्छाद्यते । गाढप्राक्तनसंवित्संस्काराच्च काव्यबलानीयमानापि न तत्र रामधीर्विश्राम्यति । अत एवोभयदेशकालत्यागः । रोमाञ्चादयश्च भूयसा रतिप्रतीतिकारितया दृष्टास्तत्रापि लोकिका ( त्रावलोकिता) देशकालानियमेन तत्र रतिं गमयन्ति । यस्यां स्वात्माऽपि तद्वासनावत्त्वादनुप्रविष्टः । अत एव न तटस्थतया रत्यवगमः । न च नियतकारणतया, येनार्जनाभिषङ्गादि सम्भावना । न च नियतपरात्मैकगततया । येन दुःखद्वेषाद्युदयः । तेन साधारणीभूता सन्तानवृत्तेरेकस्या एव वा संविदो गोचरीभूता रतिः शृङ्गारः । साधारणी भावना च विभावादिभिरिति । तत्र विभावप्राधान्यस्य धामणिमया (प्राधान्येन साधारणीभावो यथा—)
“केलीकन्दलितस्य विभ्रममधो(:)धुर्यं वपुस्ते दृशो- र्भङ्गी भङ्गुरकामकार्मुकमिदं भ्रूर्नर्मकर्मक्रमः ।
आपाते(घ्रातो)ऽपि विकारकारणमहो वक्त्राम्बुजन्माऽ ऽसवः सत्यं सुन्दरि वेध सस्त्रिजगतीसारं त्वमेका कृतिः ॥” अत्र च विभावकृतं तत्सौन्दर्यं प्राधान्येन भाति । तदनुगतत्वेन केलीविभ्रमभङ्गुरनर्मादिपद महिम्ना चानुभाववर्गो भङ्गीक्रमविकारादिशब्दबलाच्च व्यभिचारिवर्गः प्रतिभातीत्यत एव नास्फुटत्वाशङ्काऽत्र रत्यास्वादमये शृङ्गारे विधेया ।
अनुभावप्राधान्यं यथा-शुद्धसारस्वतप्रवाहपवित्रसकलवाङ्मयमहार्णवपूर्णभावसंपादनद्विजराजस्येन्दुराजस्य
“यद्विश्रम्य विलोकितेषु बहुशो निस्थेमनी लोचने यद्गात्राणि दरिद्रति प्रतिदिनं लूनाब्जिनीनालवत् ।
दूर्वाकाण्डविडम्बकश्च निबिडो यत्पाण्डिमा गण्डयोः कृष्णे यूनि सयौवनासु वनितास्वेषैव वेषस्थितिः ॥” अत्र विश्रम्येति बहुश इति प्रतिदिनमिति च पदसमर्पितो(ऽभिलाषचिन्तौत्सुक्यनिद्राधृतिग्लान्यालस्यश्रमस्मृतिवितर्कादि) व्यभिचारिगणः कृष्णइति पदार्पितश्च विभावो गुणत्वेन प्रतिभासते । विश्रान्तिलक्षणस्तम्भविलोकनवैचित्र्यगात्रतानवतारतम्यपुलकवैवर्ण्यप्रभृतिस्त्वनुभावसञ्चयः प्रधानतया (प्रतिभासते)। व्यभिचारिणां तु प्राधान्यं तद्विभावानुभावप्राधान्यकृतम् । तत्राद्यम् । यथा—
“आत्तमात्तमधिकान्तमुक्षितुं कातरा शफरशङ्किनी जहौ ।
अञ्जलौ जलमधीरलोचना लोचनप्रतिशरीरलाञ्छितम् ॥” इत्यत्र सुकुमारमुग्ध प्रमदाजनभूषणभूतस्य व्यभिचारिवर्गस्य वितर्कत्रासशङ्कादेः प्राधान्यं तद्विभावानां सौन्दर्यातिशयकृतां प्राधान्यात् । आत्तमित्याद्यर्पितानुभाववर्गस्तु तदनुयायी ।
एवं द्वयप्राधान्ये सर्वप्राधान्ये चोदाहार्यम् । किन्तु समप्राधान्य एव रसास्वादस्योत्कर्षः। तच्च प्रबन्ध एव भवति । वस्तुतस्तु दशरूपक एव । यदाह वामनः—“सन्दर्भेषु दशरूपकं श्रेयः। तद्विचित्रं चित्रपटवद्विशेषसाकल्यात्” (काव्यालं-सू. १-३३०-३१) इति । तद्रूपसमर्पणया तु प्रबन्धे भाषावेषप्रवृत्त्यौचित्यादिकल्पनात् । तदुपजीवनेन मुक्तके । तथा च तत्र सहृदयाः पूर्वापरमुचितं परिकल्प्य ईदृगत्र वक्ताऽस्मिन्नवसरे इत्यादि बहुतरं पीठबन्धरूपं विदधते । तेन ये काव्याभ्यासप्राक्तनपुण्यादिहेतुबलादिति(भिः) सहृदयास्तेषां परिमितविभावाद्युन्मीलनेऽपि परिस्फुट एव साक्षात्कारकल्पः काव्यार्थः स्फुरति । अत एव तेषां काव्यमेव प्रीतिव्युत्पत्तिकृदनपेक्षितनाट्यमपि । तेषामपि तु नाट्यं “निपतिताः स्फुरिताः शशिरश्मयः” इति न्यायेन सुतरां निर्मलीकरणम् । अहृदयानां च तदेव नैर्मल्याधायि । यत्र पति(प्रती)ता गीतवाद्यगणिकादयो न व्यसनितायै पर्यवस्यन्ति नाट्योपलक्षणात् । तत्र च नटो ध्यायिनामिवेदं ध्यानपदम् । न हि तत्रायमेव सिन्दूरादिमयो वासुदेवः स्मरणीय इति प्रतिपत्तिः। अपि तु तदुपायद्वारेणातिस्फुटीभूतसङ्कल्पगोचरो देवताविशेषो ध्यायिनां फलकृत् । तद्वन्नटप्रक्रिया द्वारोदितातिस्फुटाध्यवसायविषयीकृतो नियतदेशकालाद्यस्पृष्टो ‘अत इदं फलम्’ इति विधिस्थानीयोऽर्थो व्युत्पत्तिं वितरति । युते (यत्र) दृश्या(दृश्येऽ)न्यनियमादौ चित्तवृत्त्यादौ वा न बाधकोदयः सम्यग्ज्ञानभूतं ह्येवेदं पूर्णम् । तेन राम इत्येव प्रतीतिर्न त्वयं (यं न) रामोऽन्योऽयमिति। स्फुटीकरिष्यते चैतदग्रतः ।
तंत्रालौकिकोऽयमर्थो न दृष्टान्तमन्तरेण हृदयङ्गमो भवेदित्याशयेनाह—को दृष्टान्त इति । बहूनां संयोगादपूर्वो रस उत्पद्यमानः क्व दृष्ट इत्यर्थः ।
अत्र प्रश्ने भाष्येण प्रतिवचनमाह—यथेत्यादिना आप्नुवन्तीत्यन्तेन । व्यञ्जनमुपसेचनद्रव्यम् । तच्च नानान्तप्रम(नानातिक्तम) धुरचु
क्रादिभेदादधिकाञ्जिकादि । ओषधयश्चिञ्चागोधूमदलहरिद्रादयः।द्रव्यं गुडादि। एषां पाकक्रमेण सम्यग्योजनारूपात्कुशलसम्पाद्यात्संयोगात् । षाडवादय इति लोकप्रसिद्धेभ्यः परस्परविविक्तेभ्यो मधुरतिक्ताम्ललवणकटुकषायेभ्यो मिश्रेभ्यश्च विलक्षणः षाडवशब्दवाच्यः । तत्प्रधाना बहुतरा रसनयोग्याः क्रियन्ते । तथैव नानाभूतैर्विभावादिभिरुप समीपं प्रत्यक्षकल्पतां गता लोकापेक्षया ये स्थायिनो भावास्ते रस्यमानतैकजीविनं रसत्वं तत्र प्रतिपद्यन्ते ।
एतदुक्तं भवति—पाकरूपया सम्यग्योजनया तावदलौकिको रसो जायते । तत्र च प्रधानत्वेन जलस्य रसाभिव्यञ्जकत्वमिति व्यञ्जनं विभावस्थानीयम् । चिञ्चाहरिद्राद्यनुभावप्रायम् । द्रव्याणि तु गुडा(दीनि) तदीयचुक्रादिरसविलक्षणमधुरादियोगद्व्यभिचारिकल्पम् । स्वात्मनि तदुपजीवनेन च परत्र च स्वरससङ्क्रमणया वैचित्र्याधायकत्वात् । अत्र तु स्थायिकल्पस्तन्मिश्रणासमयभावी रसविशेषो विभावकल्पव्यञ्जनजनितो मन्तव्यः । स हि लौकिकः । अयन्तु कुशलैकनिर्वर्त्यस्तद्विदां रसनीयो भवति । तेनाद(दनीय)स्येत्यध्याहारो न युक्तः। यथा हि दार्ष्टान्तिकसूत्रे स्थायिग्रहणं शल्यकल्पमिति त्रयमेवोपात्तं तथा दृष्टान्तेऽपि त्रयस्यैवोपादानं युक्तम् ।

एवं सूत्रं व्याख्याय लक्षणपदं परीक्षितुमाक्षिपति—रस इति क इत्यादिना । मधुरादौ पारदे विषे सारे जलसंस्कारेऽभिनिवेशे क्वाथे देहधातोर्नि(तौ नि)र्यासे वाऽयं प्रसिद्धो न त्वन्यत्र । तेन रस इति पदस्य शृङ्गारादिषु प्रवर्तितस्य कोऽर्थः । कि प्रवृत्तिनिमित्तं कथ्यते स्वाभिधेयनियमाय शब्देन यदि वा तत्प्रयोक्तृप्रतिपत्तृभिरिति । अर्थः प्रवृत्तिनिमित्तम् । अत्रोत्तरम् । आस्वाद्यत्वात् । प्रवृत्तिहेतोर्यतः प्रश्नस्तेनोत्तरं हेतुविभक्त्यैव दत्तम् । तेन क्रिया प्रवृत्तिनिमित्तमस्येत्युक्तं भवति । यस्तु भङ्क्त्वा व्याचष्टे—रस इति योऽयं (कोऽयं) शब्दः । तत्रोत्तरम् । पदार्थः। उच्यत इति । तस्यानेनेत्यध्याहारं विना प्रकृतपदार्थवाचकोऽयं शब्द इति (न)तात्पर्यकल्पनं विना नातीव सङ्गतमुत्तरम् । प्रश्नमन्तरेण चास्वाद्यत्वादित्यल्पपदप्रायमित्यास्तामेतत् ।

अथ प्रवृत्तिनिमित्तं व्याक्षिपति—कथमास्वाद्यत इति । आस्वादनं हि रसनेन्द्रियजज्ञानं प्रसिद्धमिति भावः । अत्रोपचरितक्रियाश्रयेणोत्तरमाह—यथा नानेत्यादिना । यथातथाशब्दाभ्यां सादृश्यमत्रोपचारे निमित्तमिति दर्शयति । तत्र भोग्यस्य भोक्तुः फलस्य च साम्यं दर्शयति । यथा हि व्यञ्जनसंस्कृतेऽन्ने आस्वाद्यता । एकाग्रमनसि च भोक्तर्या स्वादयितृता । अन्यचित्तस्य भुञ्जानस्याप्यास्वादाभिमानाभावात् । प्रहर्ष
 (प्यायजीवन)पुष्टिबलारोग्याणां चास्वादफलता । तथाभिनयव्यञ्जिते स्थायिशब्दव्यपदेश्ये रसे आस्वाद्यता । एकाग्रमनसि च सामाजिके तन्मयीभूत आस्वादयितृता । हर्षप्रधानानां धर्मादिव्युत्पत्तिवैदग्ध्यादीनामास्वादफलत्वमिति कर्मकर्तृफलसादृश्याद्विभावादिजः प्रतीतिविशेषो रसनाक्रियेति व्यपदिष्ट इति तात्पर्यम् । येन सुमनसो भुञ्जाना हर्षादींश्च यान्ति तेन रसानास्वादयन्तीत्यनेन शब्देन । अभितः सर्वत्र । विशेषेण अन्यभोक्तृविलक्षणतया । आ समन्तात् । ख्याताः प्रसिद्धाः । यथा चैते तथा प्रेक्षका अपि । तेन तेऽपि स्थायिनः आस्वादयन्तीति आभिमुख्येन सादृश्ये व्याख्याता अस्माभिर्व्यवहृताः । अत्रोपसंहारः। तस्मान्नाट्यरसाः ।
अन्ये वादिशब्देन शोकादीनामत्र सङ्ग्रहः । स च न युक्तः । सामाजिकानां हि हर्षैकफलं नाट्यं न शोकादिफलम् । तथात्वे निमित्ताभावात्तत्परिहारप्रसङ्गाच्चेति मन्यमाना हर्षाश्चाधिगच्छन्तीति पठन्ति ।

एवं ग्रन्थयोजनायां स्पष्टयां यत् कैश्चिदत्र चोदितं दृष्टान्ते आत्मा रसना मनश्चेति त्रयम् । प्रकृते तु रसनै
वेति । परिहृतं चात्मन एवात्र स्थानान्तरसङ्क्रान्तस्य मनःस्थानीयता । मनसश्च रसनास्थानीयतेति । तत्सर्व वृथा नाट्यमात्रम् । उपचारबीजस्य सादृश्यस्यात्र प्राधान्येन प्रतिपिपादयिषितत्वादित्यास्ताम् ।
एवं रसत्वं केन तेषामिति यत्प्रश्नितं तत्प्रतिसमाहितम्। अत्रेति भाष्ये । अनुवंशे भवौ शिष्याचार्यपरम्परासु वर्तमानौ श्लोकाख्यौ वृत्तविशेषौ सूत्रार्थसंक्षेपप्रकटीकरणेन कारिकाशब्दवाच्यौ भवतः। तौ पठति—यथेत्यादि । मधुरादिभेदाद्वहूनि द्रव्याणि गुडादीनि । बहुभिरिति दधिकाञ्जिकादिभिः । अनेन विभावभेदं रसभेदे हेतुत्वेन सूचयति । भुञ्जाना आस्वादयन्तीति । रसनाव्यापाराद्भोजनादधिको यो मानसो व्यापारः स एवास्वादनमिति दर्शयति ।

एतदुक्तं भवति—न रसनाव्यापार आस्वादनम् । अपि तु मानस एव । स चात्राविकलोऽस्ति । केवलं लोके रसनाव्यापारानन्तरभावी स प्रसिद्ध इत्युपचार इह दर्शित इति। (शुद्धतत्स्वरूपज्ञानस्वभावा) अत्र भावा विभावव्यभिचारिणः। आभिनया अनुभावा एव। (इयं (दं) पृथग्वचनं प्राधान्यात् । तैर्ये सम्यग्बद्धा हृदयसंवादक्रमेण तन्मयीभावापन्नप्रमातृभूम्यभेदमुपसम्प्राप्ता अचिन्त्याः स्थायिनः तान् आ समन्तात्साधारणीभावेन निर्विघ्नप्रतिपत्तिवशात् । मनसा इन्द्रियान्तरविघ्नसंभावनाशून्येन स्वादयन्ति स्वपरविवेकशून्यस्वादचमत्कारपरवशतया लौकिकात्प्रत्ययादुपार्जनादिविघ्नबहुलाद्योगिप्रत्ययाच्च विषयास्वादशून्यतापरुषाद्विलक्षणाकारसुखदुःखादिविचित्रवासनानुवेधोपनतह्यद्यतातिशयसंविच्चर्वणात्मना भुञ्जते । बुधा इति पूर्वो (र्णो)पयोगो लौकिकानां प्रत्यक्षादीनामत्र दर्शितः।
एतदुपसंहरति—तस्मादिति । नाट्यात्समुदायरूपाद्रसाः । यदि वा नाट्यमेव रसाः । रससमुदायो हि नाट्यम् । (न)नाट्य एव च रसाः । काव्येऽपि नाट्यायमान एव रसः । काव्यार्थविषये हि प्रत्यक्षकल्पसंवेदनोदये रसोदय इत्युपाध्यायाः ।

यदाहुः काव्यकौतुके— “प्रयोगत्वमनापन्ने काव्ये नास्वादसम्भवः ।” इति ।
“वर्णनोत्कलिताभोगप्रौढोक्त्या सम्यगर्पिताः ।
उद्यानकान्ताचन्द्राद्या भावाः प्रत्यक्षवत्स्फुटाः ॥” इति ॥

अन्ये तु काव्येऽपि गुणालङ्कारसौन्दर्यातिशयकृतं रसचर्वणमाहुः । वयं तु ब्रूमः—काव्यं तावन्मुख्यतो दशरुपकात्मकमेव । तत्र ह्युचितैर्भाषावृत्तिकाकुनैपथ्यप्रभृतिभिः पूर्यते रसवत्ता । सर्गबन्धादौ हि नायिकाया अपि संस्कृतैवोक्तिरित्यादि बहुतरमनुचितं केवलं शक्तिरहितत्वाद्व्यावर्ण्यते । तावतीव ह्यद्यमिति न्यायेनानौचित्यं न प्रतिहारि (न प्रतिभाति ) । तत एवोच्यते ‘सन्दर्भेषु दशरूपकम्’ (वामन. का) इति । तेन तदंश(दङ्ग)सन्ध्यादिसङ्घटनमुद्धृत्य सर्गबन्धादि यावन्मुक्तं(वतकम्)। यत्तु दशरूपकं तस्य योऽर्थस्तदेव नाट्यम् । यद्वक्ष्यते ‘नाट्यस्यैषा तनूः’ (ना. शा. १४-२) इति तस्य हृदयसंवादतारतम्यापेक्षया श्रोतृप्रतिपत्तृस्फुरणं स्फुटास्फुटत्वेनातिविचित्रम् । तत्र ये स्वभावतो निर्मलमुकुरहृदयास्तत एव संसारोचितक्रोधमोहाभिलाषपरवशमनसो न भवन्ति तेषां तथाविधदशरूपकाकर्णनसमये साधारणरसनात्मकचर्वणग्राह्यो रससञ्चयो नाट्यलक्षणः स्फुट एव । ये त्वतथाभूतास्तेषां प्रत्यक्षोचिततथाविधचर्वणालाभाय नटादिप्रक्रिया । स्वगतक्रोधशोकादिसङ्कटहृदयग्रन्थिभञ्जनाय गीतादिप्रक्रिया च मुनिना विरचिता । सर्वानुग्राहकं हि शास्त्रमिति न्यायात् । तेन नाट्य एव रसा न लोक इत्यर्थः । काव्यञ्च नाट्यमेव ।
अत एव च नटे न रसः। कुत्र तर्हि । विस्मृतिशीलो न बोध्यते । उक्तं हि देशकालप्रमातृभेदानियन्त्रितो रस इति केयमाशङ्का । नटे तर्हि किम् । आस्वादनोपायः । अत एव च पात्रमित्युच्यते । न हि पात्रे मद्यास्वादः । अपि तु तदुपायकः । तेन प्रमुखमात्रे नटोपयोग इत्यलम् ।
चित्रपुस्ताद्यपि च नाट्यस्यैवार्थभागाभिष्यन्दो यथा सर्गबन्धादि शब्दभागाभिष्यन्दः । एतच्च ‘योऽर्थो हृदयसंवादी ।’ (ना.शा.७.१०) इत्यत्र वितत्य वक्ष्यामः ।

अन्ये त्वभिनयादिसामग्रीमयं बहिर्दृश्यमानं नाट्यं नटधर्मः कर्म रूपमित्याशयेन नाट्याद्रसा इत्याहुः । स्मृता इति सम्प्रदायाविच्छेदं दर्शयति । ये तु रत्याद्यनुकरणरूपं रसमाहुः अथ चोदयन्ति शोकः कथं सुखहेतुरिति । परिहरन्ति च अस्ति कोऽपि नाट्यगतानां विशेष इति । तत्र चोद्यं तावदसत् । शोको हि प्रतीयमानः किं स्वात्मनि प्रत्येतुर्दुःखं वितनोतीति नियमः । शत्रुदुःखे प्रहर्षात् । अन्यत्र च मध्यस्थत्वात् । उत्तरं तु भावना वस्तु स्वभावमात्रेणे(तत्रे)ति न किञ्चिदत्र तत्त्वम् ।

अस्मन्मते संवेदनमेवानन्दनघनमास्वाद्यते । तत्र का दुःखाशङ्का । केवलं तस्यैव चित्रताकरणे रतिशोकादिवासनाव्यापारः। तदुद्बोधने चाभिनायादिव्यापारः। (३३)

यदेतदुक्तं रसतत्त्वं तदेवोपशोधयितुमुपक्रमते—अत्राहेत्यादिना चोद्यमुखेन । नर्तकगतेभ्यो रसेभ्यो भावाः सामाजिके । यथा करुणाच्छोकः । ततो विभावाद्युपचितसामाजिके करुण इति रसाद्भावो भावाद्रस इति सन्देहः । अत एव परस्परमपि जन्म कालभेदेनेति तृतीयः पक्षः । यदि वा नट एव राम एव वा पूर्व भावः, तत उपचये रसः । ततो प्यपचये भाव इत्येवं पक्षत्रयोत्थानम् । इदं चासत्। एवम्भूतस्य रसस्वरूपस्य निराकृतत्वात् ।
श्रीशङ्कुकस्त्वाह—अनुकर्तरि रसानास्वादयतोऽनुकार्ये भावप्रतीतिः प्रयोगे। लोके प्रकृति(तिः)रसं निष्पादयतीति । द्वितीयपक्षो नाट्याचार्याभिप्रेतशिक्षानुसारेण । अत एव च तृतीयोऽपि संभवतीति । एतदप्यसत् । न हि सामाजिकोऽनुकार्यानुकर्तृविभागमवैति । दूषितः स्वा(दूषितश्चा)नुकरणवादः।
तस्मादित्थमेतत्—किं रसेभ्यो भावा, उत विपर्ययः, आहो अन्योन्यजनकतेति त्रयः प्रश्नाः। आहोशब्दो भिन्नक्रमः। विभावादिभ्यस्तावद्रसनिष्पत्तिरुक्ता । स एव द्वितीयः पक्षोऽभ्युपगतपूर्वमे (गतः पूर्वम् । ए) तच्च कथम् ? न हि लोके विभावानुभावादयः केचन भवन्ति । हेतुकार्यावस्थामात्रत्वाल्लोके तेषाम् । अथ त एव रसनोपयोगित्वे विभावादिरूपतां प्रतिपद्यते । तर्हि रसप्रसादाद्धावा विभावादयः । अथोच्यते विभावादिप्रसादाद्रसो यथोक्तं प्राक् । रसप्रसादाच्च विभावादिरूपत्वम् । तर्हि परस्पराश्रयत्वम् । ‘इतरेतराश्रयाणि च (कार्याणि) न प्रकल्पन्त’ (महाभाष्ये I.i.3) इत्याक्षेपः ।

अत्र सिद्धान्तमाह—दृश्यते हीति । प्रमदादयः प्रतीताः सन्तो रसास्वादं विदधते यथोक्तं प्राक् । अतो न रसेभ्यो भावाः । भावशब्दार्थपर्यालोचनया चैतदेवोपपन्नमिति 287श्लोकनाह—नानाभिनयैः सम्यग्बद्धान्
हृदयं गतान् भावयन्ति सम्पादयन्ति रसांस्तस्माद्भावाः । (३४)
नन्वेतद्भावशब्दप्रवृत्तिनिमित्तम् । न तत्प्रकृतं किञ्चिदुक्तमित्याशङ्क्य प्रकृते योजयितुमाह—नानाद्रव्यैरिति । व्यज्यत इति व्यञ्जनञ्चानुपानादि रसोऽत्राभिप्रेतः । बहुविधैरिति व्यञ्जनस्योपलक्षणम् । अभिनयौरित्यस्य वा विशेषणम् ।

एवं स्थितपक्षमुपसंहरति—न भावहीनोऽस्ति रस इति । अत्र चोद्यवादी स्वाशयमुन्मीलयति—न भावो रसवर्जित इति । लोके हि न कश्चिद्विभावादिव्यवहार इति भावः । अथोत्तरमाह—परस्परकृता सिद्धिस्तयोरभिनये भवेत् । अभिनये साक्षात्कारे संपन्ने तदुपयोगितया विभावादिव्यपदेश इत्यतो या परस्परकृता सिद्धिः सा (भद्रं) भवेदिति संभाव्यते । एवम्भूतमितरेतराश्रयजं न दूषणामित्यर्थः ।
अत्रैव दृष्टान्तमाह—व्यञ्जनौषधिसंयोग इति । व्यञ्जनौषधिसंयोगोऽन्नं च कर्तृ यथा परस्परमन्योन्यं कर्मभूतं स्वादुतां नयेत् तथा भावा रसाश्चान्योन्यं भावयन्ति । भावा रसान्भावयन्ति निष्पादयन्ति । रसास्तु भावान् भवयन्ति । भावान्कुर्वन्ति । (वि)भावादिव्यपदेश्यान्कुर्वन्तीत्यर्थः।
एतदुक्तं भवति—एकत्रैकदा क्रियायामन्योन्याश्रयत्वं दोषो न तु क्रियाभेदे । यथा व्यञ्जनादिसंयोगेनान्नस्याह्लादिरसवत्ता क्रियते । अन्नेन वाश्रयरूपेण सता व्यञ्जनसुख भोग्यता कियते । एवं भावै रस्यमानता । रसैश्च विभावादिव्यपदेश्यता 288कारणादीनाम् । यथा पदापेक्षया तन्तवः पटकारणमिति व्यपदेश्याः । तन्त्वपेक्षया पटः कार्यः । न चेत(रेत)राश्रयं(यत्वं) तथा प्रकृतेऽपीति । (३७)
ननु यदि भावेभ्यो रसास्तर्हि कथमुक्तं ‘न हि रसादृते कश्चिदप्यर्थः प्रवर्तते इति । तेन पूर्व न एवोद्देश्याः’ इत्याशंक्याह—यथेत्यादिना । बीजं यथा वृक्षमूलत्वेन स्थितं तथा रसाः । तन्मूलादि(हि) प्रीतिपूर्विका व्युत्पत्तिरिति ततरे(त एव) च व्याख्यानार्हात् कविगतसाधारणीभूतसंविन्मूलश्च काव्यपुरस्सरो नटव्यापारः । सैव च संवित्परमार्थतो रसः । सामाजिकस्य च तत्प्रतीत्या वशीकृतस्य पश्चादपोद्धारबुदध्या विभावादिप्रतीतिरिति प्रयोजने(ज्ये) नाट्ये काव्ये सामाजिकधियि च । तदेवं मूलबीजस्थानीयात्क (यः क) विगतो रसः कविर्हि सामाजिकतुल्य एव । तत एवोक्तं “शृङ्गारी चेत्कविः ।” (ध्वन्यालो. ३-४२) इत्याद्यानन्दवर्धनाचार्येण । ततो वृक्षस्थानीयं काव्यम् । तत्र पुष्पादिस्थानीयोऽभिनयादिनटव्यापारः। तत्र फलस्थानीयः सामाजिकरसास्वादः । तेन रसमयमेव विश्वम् ।
अत्र च विज्ञानवादो द्विधाभिधानं (स्फोटतत्त्वं) सत्कार्यवाद एकत्वदर्शनमित्यादि च द्रष्टव्यम् (इति केचित्) । वयं तु प्रकृतानुपयोगिश्रुतलवसन्दर्शनमिथ्याप्रयाससंश्रयमशिक्षितपू्र्विण इत्यास्ताम् ।
अन्ये तु बीजादिव भावाद्रसवृक्षस्ततोऽप्यभिनयकुसुमसुन्दरात्फलमिव भावः प्रतीत्या भुज्यत इति व्याचक्षते । तैः प्रकृतविरुद्धं सर्व व्याख्यातम् । एवं हि भावस्यैवोपक्रमपर्यवसानवर्तित्वमुक्तं स्यादित्यास्तां चैतत् । एवं त्रयोऽपि पक्षाः कथञ्चिदुपगता अभिप्रायवैचित्र्येणेति तात्पर्यम् ।

एवमुद्दिष्टानां विभक्तानां च रसानां सामान्यलक्षणं परीक्षापरिशुद्धमभिधाय तदनुवादपूर्वकं विशेषलक्षणं वक्तुं पीठबन्धं दर्शयति—तदेषामित्यादिना । यतः सामान्यलक्षणमेतेषां कृतं तस्माद्विशेषलक्षणांशपूरकाण्युत्पत्त्यादीनि व्याख्यास्यामः । तत्रोऽत्पत्तिरुत्पादकानामुत्पाद्यानां च विशेषलक्षणम् । अन्योन्यतो व्यवच्छेदात् । उत्पादकानामप्येतदुत्पादकत्वमुत्पादकान्तराद्वैलक्षण्यमुत्पाद्य कृतम् । एवमुत्पाद्यानामुत्पादककृतमिति परस्परलक्षणत्वम् । वर्णः श्वेतादि तु(स्तु) सुस्पष्टं वि(शेष) लक्षणादि । एवं निदर्शनं तु शृङ्गारो नामेत्यादिना विभावादिविशेषसंयोगः । उत्पत्तिलक्षणा(णे) ह्यन्योन्याश्रयश्रङ्का वर्णदेवतयोस्त्वागमानुविद्धत्वमिति स्फुटं निश्चयदर्शनोपायत्वमुत्पत्त्यादीनां न संभवति । विभावादिविशेषसंयोगस्तु तद्वैलक्षण्यान्निदर्शनमित्युक्तम् । (३८)

तत्रोत्पत्तिं तावदाह—तेषामित्यादिना । तेषां रसानामुत्पत्तौ हेतवः सूचकाश्चत्वारः । रसानामुत्पाद्योत्पादकप्रकारो यावान् सम्भवति स चतुर्भिरेव सूचित इति यावत् । तथा हि—
तदाभासत्वेन तदनुकाररुपतया हेतुत्वं शृङ्गारेण सूचितम् । यतो विभावाभासादनुभावाभासाद्व्यभिचार्याभासाद्रत्याभासे प्रतीते चर्वणाभाससारः शृङ्गाराभासः । कामना अभिलाषमात्ररूपा हि रतिरत्र व्यभिचारिभावो न स्थायी । तस्य स तु स्थायिकल्पत्वेनाभाति । तद्वशाद्विभावाद्याभासता । अतश्च स्थाय्याभासत्वं रतेः । यतो रावणस्य सीता द्विष्टा मय्युपेक्षिका वेति हृदयं नैव स्पृशतीति । तत्स्पर्शे ह्याभिमानो ऽस्यापि लीयेतैव । ‘मयीयमनुरक्ता’ इति तु निश्चयो ह्यानुपयोगी । कामजमोहसारत्वात् । शुक्तौ रूप्याभासवत् । यद्यपि—
“दूराकर्षणमोहमन्त्र इव मे तन्नाम्नि याते श्रुतिं (चेतः कालकलामपि प्रसहते नावस्थितिं तां विना।
एतैराकुलितस्य विक्षतरतेरङ्गैरनङ्गातुरैः सम्पद्येत कथं तदाप्तिसुखमित्येतन्न वेद्मि स्फुटम् ॥”) 290इत्यादौ रावणवाक्ये तावति रत्याभासतैव । न तु हासः स्फुरति । तथापि सीताविभावल(विल)क्षणं रावणवयःप्रकृतिविरुद्धश्च चिन्तादैन्यमोहादिकव्यभिचारिगणम(णोऽ)-श्रुपातपरिदेवितादि चानुभावजातमनौचित्यात्तदाभासरूपं सद्धास्यविभावरूपम् । तद्वक्ष्यते—विकृतपरवेषालङ्कारेत्यादि । एवं तदाभासतया(तायाः) प्रकारः शृङ्गारेण सूचितः । तेन करुणाद्याभासेष्वपि हास्यत्वं सर्वेषु मन्तव्यम् । अनौचित्यप्रवृत्तिकृतमेव हि हास्यविभावत्वम् । तच्चा(त्रा)नौचित्यं सर्वरसानां विभावानुभावादौ सम्भाव्यते । तेन व्यभिचारिणामप्येषैव वार्ता । अत एव संवित्सतत्त्वनिपुणैश्चिचरन्तनै रसभावतदाभासव्यवहारस्तत्र तत्र क्रियते । अमोक्षहेतावपि तदाभासतायां शान्ताभासो हास्य एव। प्रहसनरूपकेण अनौ(स्वानौ) चित्यत्यागः सर्वपुरुषार्थेषु व्युत्पाद्यः(राजपुत्रादीनाम् ?)। एतच्च लक्षणे वक्ष्यते । तत्र हास्याभासो यथाऽस्मत्पितृव्यस्य वामनगुप्तस्य ।
“लोकोत्तराणि चरितानि न लोक एष सम्मन्यते यदि किमङ्गं वदाम नाम ।
यत्त्वत्र हासमुखरत्वममुष्य तेन पार्श्वोपपीडमिह को न विजाहसीति ॥” एवं यो यस्य न बन्धुस्तच्छोके करुणोऽपि हास्य एवेति सर्वत्र योज्यम् । एतदेवोदाहरणम् । एवमन्यत्तेनानुमेयमिति मुनिना यथाग्रहणं कृतम् ।
यदीयफलानन्तरं द्वितीयरसोऽवश्यंभावी तस्योदाहरणं रौद्रः। रौद्रस्य हि फलं वधबन्धादि । तद्विभावकेनावश्यं करुणेन भाव्यम् । यथा वेणीसंहारे—
“अद्यैवावां रणमुपगतौ तातमम्बां च दृष्ट्वा घ्रातस्ताभ्यां शिरसि विनतोऽहं च दुश्शासनश्च ।
तस्मिन्बाले प्रसभमरिणा प्रापिते तामवस्थां पित्रोः पार्श्व व्यपगतघृणः किं नु वक्ष्यामि गत्वा ॥” एवं रौद्रनन्तरं नियमेन भयानकः। शृङ्गारानन्तरं नियमेन करुणं(णः) । व्याप्रियते त्वसौ तज्जन्मनि यथा तापसवत्सराजे वासवदत्तादाहाद्वत्सराजस्य । ननु तत्रा(त्र)रतेरवि(तेर्वि)च्छेदाद्बन्धुताकृतः शोकः। नैतत् । करुणोत्पत्तिकालेऽपि हि क्रोधस्य विच्छेद एव ।

यदाह ‘निर्वाणवैरदहनाः प्रशमादरीणां नन्दन्तु पाण्डुतनयाः।’ (वेणी. अ-१-७) इति । न च बन्धुमा(तामा)त्रं हेतुः । एवं हि सति—
(‘उत्कम्पिनी भयपरिस्खलितांशुकान्ता) ते लोचने प्रतिदिशं विधुरे क्षिपन्ती ।
(क्रूरेण दारुणतया सहसैव दग्धा धूमान्वितेन दहनेन न वीक्षिताऽसि ॥’) (तापसवत्सराजे २-१६) इत्यादौ ते इति प्राणभूतं (पदं) निरुपयोगतां गमितं स्यात् । रतिप्रलापेषु च शृङ्गार एव करुणस्य जीवितम्—
‘हृदये वससीति (मत्प्रियं यदवोचस्तदवैमि कैतवम् ।
उपचारपदं न चेदिदं त्वमनङ्गः कथमक्षता रतिः ॥’ (कुमार. ४-९) इत्याद्युक्तिषु ।

एवं वीराद्भयानकोत्पत्तिः । यथा ‘कर्णस्यात्मजमग्रतः शमयतो भीतं जगत् फाल्गुनात्’ (वेणी.५.५)

यत्त्वत्र श्रीशङ्कुकेनोक्तम्—नात्रोत्साहस्य व्यापार इति । तदसत् । एवं हि निर्विषय एवोत्साहः स्यात् । कर्तव्याननुसन्धानात् । युद्धवीरे च परपराजयजनितः प्रतापापरपर्यायः शत्रुहृदयदाहदायी तद्वनितादिषु भयानक एव जीवितम् । यथा—
‘स पातु वो यस्य हतावशेस्तत्तुल्यवर्णाञ्जनरञ्जितेषु ।
 लावण्ययुक्तेष्वपि वित्रसन्ति दैत्याः स्वकान्तानयनोत्पलेषु ॥’ नियमेन तु भवतीति वक्तव्यम् । नियमश्चकारेणोक्तो रौद्रादित्यानन्तर्यसूचकपञ्चम्यनन्तरं प्रयुक्तेन ।
यस्तु रसो रसान्तरं फलत्वेनाभिसन्धाय प्रवर्तते रस्योदाहरणं वीरः । महापुरुषोत्साहो हि जगद्विस्ययफलाभिसन्धानेनैव ।
यथा—‘दोर्दण्डाञ्चितचन्द्रशेखरधनुर्दण्डावभङ्गोद्यत’ (महावीर २-५४) इत्यादि । रौद्रस्तु परविनाशनं फलत्वेनाभिसन्धाय प्रवर्तते न करुणामिति शे(विशे)षः । विदूषकहासस्तु नायिकाहासं फलत्वेनाभिसन्धत्त इति मन्तव्यम् ।
यस्तु रसस्तुल्यविभावत्वान्नियमेन रसान्तरं हि परमाक्षिपति तस्योदाहरणं बीभत्सः । तस्य हि ये विभावा रुधिरप्रभृतयस्तेऽवश्यं भयहेतवः । तथा तदव्य भिचारिणो मरणमोहापस्माराद्याः । तदनुभावास्तु मुखविकूणनादयः ।
यथा वेणीसंहारे—
‘संस्तभ्यन्तां निहतदुश्शासनपीतशेषशोणितपी(तस्नपि)तबीभत्सवृकोदरदर्शनवैक्लव्यस्खलितप्रहरणानि रणाद्विद्रवन्ति बलानि’
इति (वेणी.४)
एव तदाभासतद्द्वा(तदनु)रेण रसान्तराक्षेपकत्वे श्रृङ्गार उदाहरणम् । तेन श्रृङ्गारानुकृतिरित्यत्र तुशब्दो वीप्सायाम् । द्वितीयो हेतौ । तेनैवं योजना—या अनुकृतिः स हास्यो यतः प्रकीर्तितः(अतः) एवंविभावको हास्य इति शेषः । तद्यथा श्रृङ्गारा अर्श आद्यच् । श्रृङ्गारवत्यनुकृतिरित्यर्थः ।
यत्त्वत्र श्रृङ्गाराद्भुतोत्पत्तेराशङ्का ‘दृशः प्रथुतरीकृता’ (रत्ना२-१५) इत्यादौ (तत्) निर्मूलमेव ।
उदयने हि श्रृङ्गारः । ब्रह्मणि विस्मयसम्भावना । सा च न तात्कालिकत्वेन नोत्तरकालिकत्वेन । किन्तु पूर्वतरमेवेति न किञ्चिदेतत् ।
परस्पर(रम्परा)फलत्वेन रसान्तराक्षेपे रौद्र उदाहरणम् । रौद्रस्य यत्कर्म फलात्मकं वधादि चकारात्तस्य यत्कर्म फलरूपं स एव करणः । एवकारेणात्यन्तव्यवहितां परम्परां पराकरोति । (४०)
समनन्तरफलत्वेन रसान्तराक्षेपे वीरस्यापि उदाहरणम् । चस्सन्नियोगे वीरस्य सम्यङ्गनिकटं यत्फलं सोऽद्भुतः परितः समन्ताद्या कीर्तिः यशः प्रतापरूपा ततो हेतोः । अपिशब्दाच्छृङ्गारोऽपि वीरस्यानन्तरं फलं द्रौपदीस्वयंवरादौ । सहभावेन रसान्तराक्षेपे बीभत्स उदाहरणम् ।
यदेव बीभत्सस्य दर्शनं विभावादिरूपं स एव भयानकः । तद्विभावत्वादुपचारस्य । सहभावप्रतीतः(तिः) फलम् । तमेव चशब्दो द्योतयति । तुः पूर्वतो विशेषमाह । अयमेव चाक्षेपप्रकाशश्चतुर्धैव संभाव्यते न त्वधिक इति । सा त्वस्यापि सन्न नोक्तः । ये चात्रोत्पत्तिहेतव उक्तास्ते यथा स्वयं पुरुषार्थचतुष्कव्याप्ताः । तद्धि तत्सौन्दर्यतिशयजननरूपम् । रञ्जका भा(हा)सादयस्तदनुगामित्वेन रूपकेषु निबन्धनीयाः ।
एतावन्त एव च रसा इत्युक्तं पूर्वम् । तेनानन्त्येऽपि पार्षदप्रसिद्ध्यैतावतां प्रयोज्यत्वमिति यद्धट्टलोल्लटेन निरूपितं तदवलेपेनापरा मृश्येत्यलम् । (४१)
वर्णाभिधानं पूजादौ ध्यान उपयोगि । मुखरागेऽपीत्यन्ये । स्वच्छपीतौ शमाद्भुताविति शान्तवादिनां पाठः । तत्तद्रससिद्धौ सा सा देवता पूज्येति देवतानिरूपणम् । विष्णुः कामदेवः । प्रमथा भगवतो गणाः क्रीडापराः । रुद्रस्त्रैलोक्यसंहारकर्ता । अत एव चोदयतीति निय(च यमयतीति य)मेन वधादिके293सम्पादिते करुणः । महाकालोऽधिदैवतमिति शेषः । स हि तद्विभावं कङ्कालं श्मशानादि सेवते । महेन्द्रस्त्रैलोक्यराजः । ब्रह्मा अचिन्त्याद्भुतस्रष्टा । (४५)
‘बुद्धः शान्तेऽब्जजोऽद्भुते’ इति शान्तवादिनः केचित्पठन्ति । बुद्धो जिनः परोपकारैकपरः प्रबुद्धो वा । तत्रोत्पत्तिलक्षणमन्योन्याश्रयत्वान्न निश्चयकारि । वर्णदैवतात्मकमप्यागमसिद्धत्वादित्येकप्रघट्टकेनोपसंहरत्येवमित्यादिना । एतेषामिति सर्वेषामित्यर्थः ।
अथ विशेषलक्षणानि वक्तुमासूत्रयतीदानीमित्यादिना । विशेषलक्षणं सजातीयाद्व्यवच्छेदकम् । न विजातीयाद्व्यवच्छेदं विना सजातीयत्वम् । न चासौ सामान्यलक्षणं विनेति तत्पृष्ठे विशेषलक्षणमिति दर्शयितुं सामान्यलक्षणमनुवदत्यनुभावेत्यादिना । लक्षणानि चं तानि निदर्शनानि च विशेषात्मकानि । तेन प्रत्येकं लक्षणाविशेषा उच्यन्त इत्यर्थः । विशेषलक्षणानि वा सामान्यलक्षणस्य निदर्शनानि । येषु सामान्यलक्षणं योज्यते उदाह्नियते च । तद्विना तस्योदाहर्तुमशक्यत्वात् । चकारो लोकोत्तरतयाऽऽदरं सूचयति । ये स्थायिनो भावा लोके चित्तवृत्त्यात्मानो बहुप्रकारपरिश्रमप्रसवनिबन्धनकर्तव्यताप्रबन्धाभिधायिनस्तानपि नाम रसत्वं विश्रान्त्येकायतनत्वेपदेशदिशा नेष्यामः । विभावान् यथायोगमुपहरद्धिः कविनटैर्हि रसतां नीयन्ते । यदाह—
“या व्यापारवती रसान्रसयितुं काचित्कवीनां नवा (दृष्टिर्या परिनिष्ठितार्थविषयोन्मेषा च वैपश्चिती ।
ते द्वे अप्यवलम्ब्य विश्वमनिशं निर्वर्णयन्तो वयं श्रान्ता नैव च लब्धमब्धिशयन त्वद्भिक्तितुल्यं सुखम् ॥)” इति । (ध्वन्या. ३.४३)
नटानां तु तदुपजीवितत्वान्न नवा दृक्पश्यति न रसयत्यतो नवेति । तस्माद्रसनोपयोगिविभावाद्यौचित्यमस्माभिरुपदिशद्भिः स्थायिनो रसतां नीता भवन्तीत्यनेन लक्षणरूपस्य फलं दर्शयति ।

श्रृङ्गाररसप्रकरणम्सम्पाद्यताम्


तत्र कामस्य फलत्वादशेषहृदयसंवादित्वाच्च तत्प्रधानं शृङ्गारं लक्षयति—तत्रेत्यादिनोज्ज्वलवेषात्मक इत्यन्तेन सूत्रेण । तत्रेति क्रमनिर्धारणे । एवं सतीत्यर्थे वा । एतत्सूत्रभाष्येण व्यक्तम् । यल्लक्ष्यपदं नामेति । व्याचष्टे यत्किञ्चिदित्यादिना । हस्तपृष्ठतादि(हारादि)मण्डितः शृङ्गारवान् । तेन शुचिमेध्याद्युपमीयते । तेनोज्ज्वलवेषात्मके शृङ्गारशब्दः । न चातिप्रसङ्गः । आप्तोपदेशस्य नियामकत्वादिति चिरन्तनाः । तदनुपपन्नम् । उपमानोपमेययोर्विशेषविषयविभागानवभासात्तथा ।
तस्मादयमत्रार्थः । रतिरेवास्वाद्यमानो मुख्यः शृङ्गारः । रतिमास्वादयद्भिस्तद्बहुमानपरः शृङ्गारीत्युच्यते ।
यस्तु सज्जनादिप(दिःअप)र एव तद्यूसनिता (तु व्यसनी) । सा रसनास्वाददशा लोके भवन्त्यपि न चिरमवतिष्ठे । तदास्वादे चोपयोगि यथास्वविभावादि 295तथा शास्त्र(स्त्रा)निषिद्धमजुगुप्सितं संस्फुटं(यत् स्फुटं)मनोहरं च तदुपचाराच्छृङ्गारशब्दवाच्यम् । तदाह—उपमीयते । तदुपयोगितया तथा मीयते लक्ष्यत इति यावत् ।
क्व य(त)थेति दर्शयति-यस्तावदिति । तावद्ग्रहणेनावधारणवाचिना शृङ्गारवाच्यो मुख्योऽर्थस्तत्र नास्तीति दर्शयति—स शृङ्गारवानिति । तदनु(दु)ज्ज्वलवेषे शृङ्गारशब्द उपचरित इत्याह । ननु मुख्यतया रत्यास्वादे शृङ्गारशब्दस्य प्रवृत्तौ किं निबन्धनमित्याशङ्क्याह—यथा चेत्यादि । गोत्रं पितृसन्तानादि । कुलं मातृसन्तानं सूचयति । आचारो व्यवहारः । तत उत्पन्नानि लोके प्ररूढानि । मूले तु न । आद्याप्तोपदेशेन नामकरणलक्षणेन समयेन सिद्धानि । पुंसामिति मनुष्यजातेर्नराणां नारीणां च । नराणां हि पितृसन्तानानुसारि नाम विष्णुशर्मेत्यादि । स्त्रीणां तु मातृवंशानुसारि कनकप्रभा चन्द्रप्रभेति । एवं रसादीनां तच्छास्त्रवेदिवृद्धव्यवहारतो निरूढानि प्राक्तनब्रह्माद्याप्तप्रणीतानि नामानि ।

तदेवोपसंहरति—एवं श्रृङ्गारो रसः । स आचारव्यवहाराल्लोकेऽपि सिद्धः । कुतो हेतोः । हृद्यादिवेषात्मकत्वात् । एतदुक्तं भवति—प्रतिशास्त्रसमयानुसारिणोऽपि शब्दास्तद्वृद्धव्यवहारपरम्परया लोके प्रसिद्धा उपचारतोऽन्यत्रापि व्यवह्नियन्ते । यथा—‘साङ्ख्यपुरुषोऽयं न किञ्चित्करोति’ । ‘पूर्वरङ्गोऽत्र तेन मे विरचितः’ । ‘अत्र महत(त्ता)न्योन्यमस्य’ इति । तद्वदमी शृङ्गारादिशब्दा इहैव विषये रसेषु मुख्याः । लोके तु (औपचारिकाः) साङ्ख्यपुरुषादिशब्दवत् । यस्तु शृङ्गारशब्दस्या न्मीयेन(स्य मत्वर्थीयेन) व्युत्पत्तिमाह तस्य रूपमिति विस्मृतम् । आरकान् हि प्रत्य योऽत आरब्धः । (‘शृङ्गवृन्दाभ्यामारकन्’) (वार्तिक. ५.२-१२१) वृन्दारक इति यथा । अत एवोणादिषु निपातितोऽयं शब्दः । (शृङ्गारभृङ्गारौ. उ.सु.) ।
यस्तु पृथग्भावेन गोत्रादिनामानि व्याचष्टे व्यावर्त्याभावात् तत्तदीक्षितानि । तस्य प्रकृते न किञ्चिदियमु(दप्यु)पयुज्यते । न च गोत्राचारोत्पन्ने नामनि नियामक आप्तोपदेशो लोके इत्यास्तामेतत् ।
अथ रतिः स्थायिति सूत्रभागं भाष्येण स्पष्टयति—स चेत्यादिना । स्त्रीपुरुषशब्देन परस्पराभिलाषसंभोग
लक्षणया लौकिक्या ‘अस्येयं स्त्री’ इति या (धिया) । तेनाभिलाषमात्रसारायाः कामावस्थानुवर्तिन्या व्यभिचारि रूपाणिति या विलक्षणैव इयं स्थायिरूपा प्रारम्भादिफलप्राप्तिपर्यन्ता व्यापिनी परिपूर्णसुखैकफला रतिश(रु)क्ता भवति हेतुरस्य ।
कविर्हि लौकिकरतिवासनानुविद्धस्तथा विभावादीनाहरति नाट्यं चा(नटश्चा)नुभावान् यथा रत्यास्वादः श्रृङ्गारो भवतीति । आस्वादयितुरपि प्राक्कक्ष्यायां रत्यवगम उपयोगीत्युक्तं प्राक् । एतदुक्तं भवति—रतिक्रीडासार्ध च (रतिः क्रीडा । सा च) परमार्थतः कामिनोरेव । तत्रैव सुखस्य धाराविश्रान्तेः । अपरस्य तु माल्यादिविषयसौन्दर्यस्य कविना कृतस्य संकल्पत्वात् । सवंदेनाद्वितयान्योन्यनिमज्जनात्मकमीलनाख्यो हि परमो भोगः । संविद एव प्रधानत्वात् । अन्यत्र तु जडस्य भोग्यत्वात् ।
अत एवाह—‘श्वासायासविडम्बनैव वपुषि प्राणाः पुनर्जानकी’ इति । अत एव यत्कैश्चिदचोद्यत—रतेराधारभेदेन भेदात्कथमेको रस इति, तदनभिज्ञतया । एकैव ह्यसौ तावती रतिः । यत्रान्योन्यसंविदा
एकवियोगो न भवति । अत एवोत्तमयुवप्रकृतिः । उत्तमश्चोत्तमा चोत्तमौ । एवं युवानौ । तत्रोत्तमयुवशब्देन तत्संविदुच्यते । न तु कायः । चैतन्यस्यैव हि परमार्थत उत्तमयुवत्वं विशेषः । स (सा) चावस्थावान् तत्र तत्र (स्था यत्र तत्र) व्यवहारस्य (सं)भूतत्वात् तत्प्रकृतिः । सा संविदास्वादयोग्यत्वात् शृङ्गाररसीभवतीति । अनुत्तमत्वे तु (न) दार्ढ्यमयुक्त्वे चेति न सा रतिसंवित् । वियोगस्य संभावनात् । अवियुक्तसंवित्प्राणस्तु शृङ्गारः । यथा—
“वारिसिणिच्चरिहिअदि हिलग्गणाहुकंहविएक्व ।
हुहिमुळजळमरणिमअळहुतीतिहविपस्सि ॥ ” इति ।
व्याख्याता(तः) परस्परं जीवितसर्वस्वाभिमानरूपा(पः) । वेषयति व्यापयति 297चित्तवृत्तिमन्यत्र ज्ञापनया संक्रमयतीति वेषो विभावानुभावात्मा । वेषयति(न्ति) व्याप्नुवन्ति स्थायिनमिति व्यभिचारिणः । ते चोज्ज्वला उत्कृष्टा यस्मिंस्तथाभूत आत्मा यस्येति ।
सूत्रे संक्षिप्य यद्विभावादि निरूपितं तद्विभागेन व्याख्येयमित्याशयेन शृङ्गारस्यावस्थाभेदमाह—तस्य द्वे इत्यादिना । अधिष्ठाने अवस्थे इत्यर्थः । अधिष्ठीयतेऽवस्थात्र(त्रा) शृङ्गाररूपेण । तेन न
शृङ्गारस्येमौ भेदौ । गोत्वस्येव शाबलेयत्वाबाहुलेयत्वे । अपि तु तद्दशाद्वयेऽप्यनुयायिनी या रतिरास्थाबन्धात्मि का तस्याश्चास्वाद्यमानं रूपं शृङ्गारः । यदाहु—
“(एतस्मान्मां कुशलिनमभिज्ञानदानाद्विदित्वा मा कौलीनादसितनयने मय्याविश्वासिनी भूः ।)
स्नेहानाहुः किमपि विरहह्रासिनस्तेऽप्यभोगा- दिष्टे वस्तुन्युपचितरसाः प्रेमराशीभवन्ति” ॥ इति ॥ (मेघ. २.४५) अत एव सम्भोगे विप्रलम्भसम्भावनाभीरुत्वं विप्रलम्भेऽपि सम्भोगमनो राज्या(रथा)नुवेध इति इयच्छृङ्गारस्य वपुः । अभिलाषेर्ष्याप्रवासादिदशास्त्वत्रैवान्तर्भूताः सत्यामास्थाबन्धात्मिकायां रतौ । तेन सम्भोगशृङ्गार इत्यादिव्यपदेशोऽभोगेऽप्युपचारात् । अत एतद्दशाद्वयमेलन एव सत्यतः सातिशयचमत्कारः । यथा—
“कस्मिन् शयने पराङ्मुखतया वीतोत्तरं ताम्यतो- रन्योन्यं हृदयस्थितेऽप्यनुनये संरक्षतोर्गौरवम् ।
दम्पत्योः शनकैरपाङ्गवलनान्मिश्रीभवच्चक्षुषो- र्भग्नो मानकलिः सहासरभसव्यासक्तकण्ठग्रहम् ॥ ” (अमरुक-२३.) तत्र हीर्ष्याविप्रलम्भसम्भोगमेलनात्मिकैवैकप्राणीभूतोभयगतविभावानुभावव्यभिचारिकृता सातिशया रसा नुभूतिः । तेन यच्चोदितं श्रीशङ्कुकेन पुरूरवस उन्मादे वत्सराजस्य तापसत्वे चानुज्ज्वलवेषत्वं (कथं) विप्रलम्भशृङ्गारेऽपि (इति) तदनवकाशमेव । भोगस्य 298रसत्वाभावात् स्नानाद्यवस्थानमिव । यत्त्वत्रोत्तरं तावद्दतं स्थैर्यादुज्ज्वलवेषाभावेऽपि रतिमुत्तमा न विजहतीति तद्यक्षभाषितम् । प्रकृतचोद्यापरिहारात् ।
न हि(नु) चोदितमनुज्ज्वलवेषे कथं शृङ्गार इति । तदेवास्तु चोद्यमिति चेत्—न वचनस्यातिभारोऽस्ति । न तु मुनिनैवमुक्तं सत्युज्ज्वलवेषे शृङ्गार इति । अपि तु विपर्यय इत्यास्तामेतत् ।
तत्रेति । द्वयोरवस्थयोर्मध्ये सम्भोगावस्था तावदुच्यते । तत्रेह वस्तुतः स्त्रीपुंसौ परस्परं विभावौ । तयोरुत्तमत्वे चोपयोगीनि ऋत्वादीनि । उत्तमस्यानवसरे रत्यभावात् । ऋतुर्वसन्तादिः । माल्यं कुसुमादि । अनुलेपनं समालम्भनं यद्यत्कामस्योद्दीपकम् । अलङ्कारः कटकादिः । इष्टजनः विदूषकादिः । एतदुभयमुत्तत्वसूचकम् । यदाह—
‘असमाप्तजिगीषस्य स्त्रीचिन्ता का मनस्विनः ।
अनाक्रम्य जगत्कृत्स्नं किं सन्ध्यां भजते रविः ॥’ इति ॥ (राज. तर. ४. ४४२.) विषया गीतादयः । तदन्तर्भूतमपि माल्यादि प्राधान्यात्पृथगुक्तम् । वरभवनं इर्म्यादि । एतद्देशविशेषोपलक्षणम् । एषामुपभोगः । उपवनस्योद्यानस्यानुभवनं श्रवणं वा प(व)रभवनस्थस्यापि । एतत्सङ्कल्पादेरप्युपलक्षणम् । क्रीडा जलावगाहनादिका । लीला इष्ट जनस्यानुकृतिः । अनु(आदि)ग्रहणादन्यदपि हृद्यं हंसयुगलकचित्रपुस्तदर्शनादि । एतच्च समस्तमेव शृङ्गारविभावत्वेन मन्तव्यम् । यावान्कश्चिदयं विषयसम्भारो हृद्यतमस्तत्पूर्णतायां सत्यामुत्तमस्य रत्युदयः । अत एव रत्नावल्यां हर्म्यवर्णनमुद्यानगमनं कामदेवपूजा वसन्त इत्यादि सर्वमेवात्र संगृहीतं ‘राज्यं निर्जितशत्रु योग्यसचिवे न्यस्तः’ इत्यादिना । एवञ्च सर्व एव समुदितो विभाव इति काल्पनिकमालम्बनविभाव उद्दीपनविभाव इति । अत एव मुनिना नायं क्वचिद्विभाग उक्तः सूचितो वा । युक्तञ्चैतत् । यथैकत्रैव रूपके उद्यानर्तुमाल्यादीनां सर्वेषां दर्शनादेको रसः स्यात् । विभावाभेदात् ।
ननु प्रथमं (प्रमदामात्र)दर्शने नोद्यनभवनादिसम्भवः । क एवमाह? ऐश्वर्यपूर्णस्य हि तावदात्मीयसमृद्धिसम्भारसंस्कारानव(राव)गमात् पूर्णतैव विभाववर्गस्य । तत्प्रधानं हि रूपकं तत्र तत्रोदाहरणम् । तेन पृथक्पृथगुदाहरण दानमनुपपन्नम् ।
या तु मुक्तकादौ पृथक्तया भावेऽपि रससंवित् तापसस्तत्रानुसन्धानाच्चमत्कार इति । इत्यांस्त्वनुत्तमादिविषयेऽपरिपूर्णोद्दीपनत्वे न चमत्कारो दृश्यते—299 यथा हि
 “दीवडि तैल्लु नाहि पलु द्रम्मि गमिट्ठा ।
लावण्णुज्जलड्गु घरि ढोप्लु पइट्ठा ॥”
छाया —
दीपके तैलं नास्ति पलं द्रम्मं गवेषितम् ।
लावण्योज्ज्वलाङ्गो गृहे प्रियतमः प्रविष्टः ॥ इति

तथा
“मासपसूअं छम्मासगब्भिणिं एक्कदिअहजरिअं च ।
रंगुत्तिण्णं च पिअं पुत्तअ कामंतओ होहि ॥”
छाया —
मासप्रसूतां षण्मासगर्भिणीमेकदिवसज्वरितां च ।
रङ्गोतीर्णा च प्रियां पुत्रक कामयमानो भव ॥

इत्यादि (?)। तत्रैकाङ्गस्य सौभाग्यस्य प्रधान्याच्चमत्कारोदय इति तात्पर्यम् । न तु तदभावकृता चमत्कृतिः ।
एतैः कविनोपनिबद्धैर्नटेन च साक्षात्कारकल्पतामानीतैः सम्यगित्यविघ्नभोगात्मकसम्भोगो रस उत्पद्यते झटित्येव । न हि गमनक्रियावत् पर्यन्ते रसनाक्रिया निष्पद्यते । अपि तु प्रथम एवावसरे । स च विभावसाक्षात्कारात्मक एव । तस्य तु प्रथमकक्ष्यायामेव रसनागोचरत्वाभिमतस्य नयनचातुर्यादिभी रसै(सो) रसनाद्याभिमुख्यं नीयते । अत एव तेऽभिनया अनुभावश्च । आभिमुख्यनयनमनुभावनं च । तद्रसास्वादे समर्थाचरणमुद्दीपनम् । अत एव तदभावे विभावादिवर्णनप्रधानेऽपि काव्ये न चमत्कारः । रसनायास्तत्राभावात् । यथा विन्दो(कवीन्दो)र्भट्टेन्दुराजस्य—
“उपपरिसरं गोदावर्याः परित्यजताध्वगाः सरणिमपरो मार्गस्तावद्भवद्भिरवेक्ष्यताम् ।
इह हि विहितो रक्ताशोकः कयापि हताशया चरणनलिनन्यासोदञ्चन्नवाङ्कुरकञ्चुकः ॥” इति । एवमन्यत्राप्युपपद्यत इति तस्याभिनयादिर(दि यो) जनीयम् ।

ननु विभावानां साधारण्ये कथं नियमनम् ? एवं न हि नाट्ये । इदं चात्र कविप्रयत्नसमर्प्यमाणम्- Kan
साधारण्यं कथम् । नियमेनैवं हि न नाट्ये । इयांश्चात्र कविप्रयत्नसमर्प्यमाणः तेन तद्भावात्प्रयोजकधर्मोद्रेकप्रकाशविशिष्टसमब लात्प्रमुख एव विशेषविश्रान्ततां याति । तथा ‘हा प्रिये जनकराजपुत्रीति’ इत्ययं श्रुत एव न रतिव्यतिरेकेण भावान्तरविभावता शङ्क्या । ‘एतेन कुणपं(पे) कामिनी’ इत्यादिसम्भावनं प्रत्युक्तम् ।
तत्र नयनचातुर्यादिना कान्ता दृष्टिर्लक्ष्यते । यत्तु भ्रवोर्मूलसमुत्क्षेपश्चतुरमिति (ना. शा. ८.४७) वक्ष्यते ।
तत् सभ्रूक्षेपेण चोक्तम्—‘विवर्तनं कटाक्ष’ (ना. शा. ८-१००) इति ताराकर्म । एवं च योजना—नयनानां चातुर्येण 300 सभ्रूक्षेपेण कटाक्षेण च यद्यत्सञ्चारणं ललितं मन्थरं मधुरं नयनाभिरामं कृत्वा यान्यङ्गानां हरणानि स्वकर्तव्यकाले ललितानि सुकुमाराभिधेयानि मधुराणि च श्रवणसुखकराणि यानि वाक्यानीत्युपाङ्गाभिनय आङ्गिको वाचिकश्च लक्षितः ।
अत एव सामान्याभिनयाध्याय(ना.शा. अ-२२)वक्ष्यमाणाशेषचेष्टालङ्कारलाभ इति ललितमधुरशब्दौ तदर्थावित्यसत् । आदिग्रहणात्सात्त्विको मुखरागपुलकादिर्गृह्यते । अनुभावकत्वेन ताटस्थ्यपरिहारः । आभिमुख्यनयनेन स्वात्मैकविश्रान्तिशङ्कानिरासः । एवमुत्तरत्रापि ।

एवं विभावसमय एव रसनीयस्यानुभावावसरेऽवस्थावेशवैरस्यास्पदस्य पश्चादव्यभिचारिणः स्वामेव रसनीयतां चित्रयन्तः सातिशयं पुष्यन्तीति पश्चात्ते निरूप्यन्ते—व्यभिचारिणश्चास्येति । आलस्यौग्र्यजुगुप्सा वर्ज्यमाना येभ्यस्ते सर्वे व्यभिचारिणः । अस्येति दशाद्वयमयस्येत्यर्थः । जुगुप्सा स्थायिन्यपीह निषिद्धा न्यायसिद्धं स्थायिनामपि व्यभिचारित्वमनुज्ञापयति । आलस्यादि च स्वविभावप्रमा (म)दादिविषयमेव निषिद्धम् । तेन ‘वपुरलसलसद्बाहु लक्ष्म्याः’ (वेणी. १-२) इति तथा ‘कतिचिदहानि वपुरभूत् केवलमलसेक्षणं तस्याः’ (विक्र. ५-८) इत्यादि न विरूपकं मन्तव्यम् । एवं प्रयोगे काव्ये च विभावादीनां क्रम एव समाश्रयणीयः । उत्पूर्वस्य (उद्भूतस्य) लब्धप्रतिष्ठता । तथाभूतस्य परिवारसंघटनमिति हि प्रतीतिक्रमः ।
ननु निर्वेदादयः सम्भोगे न व्यभिचारिण इत्याशङ्क्याह—विप्रलम्भकृतस्त्विति । तुशब्दो विशेषं द्योतयति

वाक्यैकवाक्यतया दुःखप्रायनिर्वेदादि मुक्त्वा आलस्यादिव्यतिरिक्ताश्च सुखमया एव धृत्यादयोऽत्र व्यभिचारित्वेन सम्भोग उपन्यस्ता इति प्रकटयति । परस्परा शोपजीवनं 301चात्र जीवितमिति दर्शयितुमस्येत्यनुद्भिन्नमेवोक्तम् । तत एव च भगवदनुग्रहपवित्रवाचा कालिदासेन रघुवंशे सम्भोगविप्रलम्भात्मकव्यामिश्ररसनासम्पत्तये प्रत्यनीकोद्देशेन रामभद्रस्य स्वकर्म पूर्वावस्थावर्णनेनादृतम् ।
सुप्तान्तर्भूतोऽपि स्वप्नः प्राधान्यादुपात्तः । ‘क्व नीलकण्ठ व्रजसि’

त्रिभागशेषासु निशासु च क्षणं निमील्य नेत्रे सहसा व्यबुध्यत ।
क्वनीलकण्ठ व्रजसीत्यलक्षवागसत्यकण्ठार्पितबाहुबन्धना ॥

इति (कुमा-५-५४) । सिविणअखणसुत्तुटिआए पुणरु1त्तदसणमणाए । बालाए णिमीलिअलोअणाए दिवसो वि वोलीणो’
छाया —
स्वप्नक्षणसुप्तोत्थितयां पुनरुक्तदर्शनमनस्कायाः ।
बालायाः निमीलितलोचनायाः दिवसोऽपि व्युत्क्रान्तः ॥ VMK

 ॥ तथा ‘आहूतोऽपि सहायैः’
‘आहुतोऽपि सहायैरेमीत्युक्त्वा विमुक्तनिद्रोऽपि ।
गन्तुमना अपि पथिकः सङ्कोचं नैव शिथिलयति ॥’

इत्यादौ हि स एव प्राणः । सम्भोगदशायां तु विभावसान्निध्ये निद्राद्यभावाद्विबोधोऽपि व्यभिचारी । सम्भोगेऽपि रतिश्रमकृतनिद्रादि यद्यप्यस्ति तथाऽपि न रतौ तच्चित्रतामाधत्ते । विप्रलम्भे तु तद्रतिभावना परम्परोदितमेव । निद्रादिबाहुल्यापेक्षं चेत्थमभिधानम् ।
उन्मादापस्मारव्याधीनां या नात्यन्तं कुत्सिता दशा सा काव्ये प्रयोगे च दर्शनीया । कुत्सिता तु सम्भवेऽपि नेति वृद्धाः । वयं तु ब्रूमः । तादृश्यां दशायां स्वजीवितनिन्दात्मिकायां तद्देहोपभोगसाररत्यात्मका

स्थाबन्धोऽपि विच्छिद्यत एवेति असम्भव एव । मरणमचिरकालप्रत्यापत्तिमयमत्र मन्तव्यम् । येन शोकोऽवस्थानमेव न लभते । यथा—
“तीर्थे तोयव्यतिकरभवे जह्नुकन्यासरय्वो- र्देहत्यागादमरगणनालेख्यमासाद्य सद्यः ।
पूर्वावस्थाधिकचतुरया सङ्गतः कान्तयाऽसौ लीलागारेष्वरमत पुनर्नन्दनाभ्यन्तरेषु ॥” (रघु. ८-९५) अत एव सुकविना वाक्यभेदेनापि मरणं ना ख्यातम्।(तस्य) प्रतीतिविश्रान्तिस्थानत्वपरिहाराय तृतीयपादेन विभावानुसन्धानकं दर्शनम्। पुनर्ग्रहणेन स एवार्थः सुतरां द्योतितः ।
अन्ये त्वाहुः मरणमिति न जीवितवियोग उच्यते । अपि तु चैतन्यावस्थैव प्राणत्यागकर्तृतात्मिका
पाश बन्धाद्यवसरगता मन्तव्या व्यभिचारिभावेनेति सुलभोदाहरणमेतदिति । आदिशब्देन दैन्यमोहादयः । एते व्यभिचारिणोऽपि स्वानुभावैरनुभाविता विप्रलम्भमनुभावयन्ति । तस्मादनुभावैरित्युक्तम् ।
302अन्ये त्वादिशब्दं करुणवाचिनमाश्रित्य तदीयानुभावान्प्राधान्येन दर्शयन्ति । एकशेषेण द्वयमप्यन्ये । विप्रलम्भो विडम्बनं प्रसिद्धमिह तूपचारात्तदीयं फलं विरहात्मकं गृह्यते । ते न हि परस्परं रतिमतो रत्रविडम्बनमस्ति । तेन विरहेण कृतः सुष्ठुतमां पोषित इति दर्शयन्मुनिरनेन विना शृङ्गारो न प्रयोगे न काव्ये हृद्यतामवलम्बत इति दर्शयति ।
तथा हि—सम्भोगेऽप्येकघनशर्करास्वादस्थानीयतापरिहाराय वैषम्यं गोत्रस्खलितं स्पर्धामन्यद्वा कलहविप्रलम्भहेतुभूतं कवयो निबध्नन्ति । ‘वामो हि कामः’ (काम. शा. २-७-१) इति वात्स्यायनादिभिरभिहितम् । मुनिनापि वक्ष्यते ‘यद्वामाभिनिवेशित्वम्’ इति (ना. शा. २२-२०७) । एते च व्यभिचारिणो विद्युदुन्मेषनिमेषयुक्त्यैव स्थायिसूत्रमध्ये प्रकटयन्तस्तिरोदधतश्च तद्वैचित्र्यमावहन्ति । न तु स्थिराः । यद्यपि स्थाय्यपि न स्थिरः तथाऽपि संस्काररूपतया धारावाहिसजातीयप्रवाहरूपतया च स्थिर एव । व्यभिचारिणस्तु नैवं क्षणमपि भवन्ति । संस्कारमपि स्वकं स्थायिसंस्कार एव प्रौढयन्ति । तथैव स्मरणाच्च ।

तेन व्यभिचारिषु पृथक्पृथग्यैः क(थग्यत्कै)श्चिदुदाहृतं तन्न तन्त्रन्यायानुपाति । तथा हि —धृतौ यदुदाहृतं ‘असम्भाव्यं देवात्’ इत्यादि तत्रापि हर्षविस्मयगर्वमतिप्रभृतीनां ‘च ते’ इति ‘माम इति’, ‘वलित’ इत्यादिसूचितानां सम्भार एव । ‘किमपरं त्रैलोक्यम् ’ इत्यादौ चावान्तरवाक्यारम्भे स्मृतिप्रभृतिभिः सर्वत्र भाव्यम् । अन्यथा हि धृत्येकवचनत्वे सर्वत्र श्लोकार्थे दृष्टिरेकैव चित्रन्यस्तेव भवेत् । ‘अस्यास्सर्गविधौ’ (विक्रमोर्व. १.१०) इत्यत्राप्यवान्तरवाक्यसमाप्तौ धृतिहर्षविस्मयादयो भवन्त्येव । अत एव विच्छिद्य वितर्कान्तरं समुदेति । न तु व्यभिचारी क्षणमप्यवतिष्ठते । चलं हि गुणवृत्तमिति हि तत्रभवन्तः । अत एव प्रयोगवैचित्र्यम् । अन्यथाऽवैचित्र्यात्स एव प्रयोगः स्यात् । मध्येऽन्ते चाश्रयाः स्फुटाः । ते च विस्मयधृतिप्रभृती त्यास्तामेतत् ।
वाक्यैकवाक्यत्वेनावस्थाद्वयस्यूतस्य शृङ्गारस्य यत्स्वरूपमुक्तमेतदेव परिशोधयितुं पूर्वपक्षयति—अत्राहेति। करुणविषये आश्रयणं विद्यते येषां भूम्ना । अत एव कर्मधारयमत्वर्थीयाभ्यामितीह नाश्रितम् । भूम्ना वहति ह्यत्र (वहतीत्यत्र) पूर्वपक्षस्य प्राणितम् ।

ननु त्वयोक्तमसदेवास्त्वित्याशङ्क्याह—वैशिख्ये(के)त्यादि । वेशो वेश्यावर्गः । करणं च सम्भोगात्मकम् । तत्प्रयोजनं शास्त्रं कामसूत्रं ये कृतवन्तस्तैः। शृङ्गारो दशभिरभिलषितादिभिर्मरणान्ताभिरवस्थाभिर्युक्तो दर्शितः । अवस्थाग्रहणेन च तावन्तो बहवो विप्रलम्भा इत्याशङ्कां निराकरोति । तेन चिन्तादयोऽपि व्यभिचारित्वेन रतेस्तैरनुज्ञाता इति तात्पर्यम् । चकारेणेदमाह—परस्परास्थाबन्धात्मकत्वे रतिरूपे स्थिते सति तदङ्गंभूता दशावस्था विप्रलम्भाङ्गम् । यथोदयनस्य चित्रफलकावलोकनतः प्रभृति ।
ननु तत्रापि (न)रतिः क्व। अ(त)स्य विषयस्यानवगमात् । न हि चित्रमात्रम् । नलिनीसंस्तरादेः साक्षिणो विद्यमानत्वात् । आकृत्या च काम्यमानतौचित्यस्य लाभात् । यदि परं नाम तज्ज्ञास्त(न ज्ञातं त)त्कुत्रोपयोगीति । यदा तु विप्रलम्भाङ्गता न भवति तदा स्वातन्त्र्यं — यथा रावणस्यापि । तदुक्तमस्मदुपाध्यायभट्टतोतेन—‘स्वातन्त्र्येण प्रवृत्तौ तु सर्वप्राणिषु सम्भवः ।’ इति ।
304नन्वेवं व्यभिचार्यभेदाक्तरुणः कथं विप्रलम्भाद्भिद्यत इत्याशङ्क्याह—करुणस्त्विति । अधमप्रकृतेस्तावन्न विप्रलम्भः । स्थाय्यभावात् । तदभावो विभावसामग्रीवैकल्यादिति । तत्र तावत्करुणः पृथक् लब्धप्रतिष्ठः । एवमुत्तमप्रकृतावपि रतिविपरीतः शोकः करुणे स्थायी । अत एवाह निरपेक्षः । बन्धुजनादिविषये याऽपेक्षा रताविवालम्बनम् ।

यथोक्तम् —“आशाबन्धः कुसुमसदृशं प्रायश” इति (मेघ. १-१०) । ततो निष्क्रान्तो भावः शोकाख्यो यस्मिन् । शापक्लेशे विनिपतितस्येष्टजनस्य यो विभवनाशो वधो बन्धो वा ततः समुत्थानं यस्य। शापग्रहणेनाप्रतिकार्यत्वे सत्युत्तमप्रकृतेः शोकोदयस्थानमेतदिति दर्शयति । अन्यथोत्साहक्रोधादिविभावत्वं स्यात् । शोकत्वमेव च पराकर्तु कविकुलचक्रवर्तिना पुरूरवस ऊर्वशीशापप्राप्तिरनु रूप(रनुप)लक्षितत्वेन निबद्धा। एवं विभावस्थायिविभेदो दर्शितः। येऽपि चैते निर्वेदाद्यास्तेऽपि वस्तुतो रत्यननुगृहिता निरपेक्षाच्छोकाद्भवन्त्यऽन्योन्य(न्तोऽन्य) एव । ततो ऽप्याह निरपेक्षभाव इति ।
एवं प्रसङ्गात्करुणस्य स्वरूपमभिधाय प्रकृते योजयति—औत्सुक्यचिन्तेति । चिन्ताशब्दोऽशेषनिर्वेदाद्युपलक्षणंम् । औत्सुक्यप्रधाना ये चिन्तादयस्तेभ्यः सम्यगुत्थानं विजृम्भो यस्य । अत एव सापेक्षो यत्र रत्याख्यो भावः। ते च सापेक्षाद्रत्याख्याद्भवन्ति । न हि विप्रलम्भे विभावः स्थायि च सम्भोगाद्भिद्यते । एक एवासाविति हि बहुश उक्तम् ।

एतदुक्तं भवति । औत्सुक्यं विषयौन्मुख्यम् । तच्च नष्टे विषये न सम्भवति । 305एवं परीक्ष्य परीक्षाफलमुपसंहारति—एवमेष इति । शृङ्गार इत्येकवचनेनैक एव शृङ्गार इत्युपसंहृतम् ।

एवं सूत्रार्थे परीक्ष्य स्थापिते तदर्थस्य सुखग्रहणार्थ सूत्रार्थविवरणरूपत्वात्सूत्रसमीपेऽप्युपचितपाठात्कारिकामधुना पठति—अपि चेति । न केवलं सूत्रं परीक्षाऽपि यावदियं कारिकेति समुच्चयार्थः। एवं सर्वत्र मन्तव्यम् ।

तामेव कारिकां पठति—सुखेति । पुरुष इति भोक्ता संवेदनात्मकोऽभिप्रेतः । भोक्तैव च स्थायिसंविद्रूपः। व्यभिचारिणस्तु भोगस्वभावाः । तेन रतिरेव पुरुषः । तथा चोक्तम्—‘श्रद्धामयोऽयं पुरुष’ इति । एवं प्रमदाऽपि । तत्र भोक्तृत्वे पुरुषस्य प्राधान्यम् । प्रमदायास्तु भोग्यत्वम् । प्राधान्यादेव च तस्य भोग्येनापरतन्त्रीकरणमिति नायिकान्तरयोगेऽपि न शृङ्गारहानिः । भोगस्य तु पारतन्त्र्यादेवान्यसम्मीलने शृङ्गारभङ्ग इति दर्शितम् । अत एव न स्थायिभेदः शङ्कनीयः । सुखप्रायेषु सम्पन्न इत्यादिपुरुषविशेषणत्वेन समुदितस्य विभावत्वं दर्शयति । विभावादयो (न) रसोदयं विनाऽऽस्वादैश्च भोक्तरीति निमग्नत्वे भोक्तृप्रधानत्वं च दर्शयन्ति । विषयसम्भारपूर्णताभिताभिमानजैव रतिरुचिता ।
एतदर्थमेव ‘जस्स म जंस ए अहं भए अग्ग
अहं तादेण दिण्णेति’ ‘ईरिसस्सकण्वारअणस्स अवस्सं एव्व इरिसे वरे अहिलासेण होदव्वं’ (Ratnāvalí II) इति (?) च । एतत्सर्वसम्पन्नत्वमेव नायिकायाः प्रदर्शितम् । अन्यथा नोत्तमत्वं स्यात् । निजजातिकुलानुरूपसम्पदभावे तु रतिः पुरुषार्थ रूपत्वा(भावाद)नुपदेश्या । अत एव तत्र सर्वस्य प्रतीतिवैर(स्य)स्यानन्तरसंभावनमिति श्लोकस्य तात्पर्यार्थः ।
विषयसामग्रीसम्पूर्णो रस इति ये मन्यन्ते तेषामभ्रान्तिकारणमयं श्लोकः । स चेत्थं व्याख्यातो न भ्रान्तिजनकः । संश्रीयत (संज्ञित) इत्यनेनान्वर्थतां पराकरोति । तथा हि—उणादिषु (अव्युत्पन्नः) शृङ्गारशब्दो निपातित इति । (‘शृङ्गारभृङ्गारौ’ इत्युणादिसूत्रम् ४१६)
न केवलं श्लोकवृत्तमिदं सूत्रार्थानुविद्धे यावदार्ये अपित्यपि चेत्यस्य भिन्नक्रमस्यार्थः। प्रियो जनो विदूषकादिः। गान्ध्रर्वशब्दो गीतादिहृद्यविषयोपलक्षणम् । काव्यसेवाशब्देन विषयसङ्कल्पं विभावत्वेन लक्षयति ।

यस्त्वाह काव्यार्थीभूताद्रसात्काव्यार्थविदो भावान्तरं प्रादुर्भवति । अतः सुखजनकत्वात्काव्यार्थो रस इति । स प्रत्युक्तः । न हि विषयसामग्री रस इति पूर्व दर्शितम् । धृतिप्रमोदशब्देन व्यभिचारिणो लक्षयति । एक एव च परमार्थतः शृङ्गार इत्यभिप्रायेणादाववस्थोपलक्षणद्वारेण सर्व एवोपसंहृतो मन्तव्यः ॥
इति शृङ्गाररसप्रकरणम्

हास्यरसप्रकरणम्सम्पाद्यताम्


अथ हास्यं लक्षयितुमाह—अथेति । आत्मशब्देनेदमाह—रतिरास्वादनाख्यां प्रतीतिं विदधाना न तां रतिरूपामेव विधत्ते । प्रमुखे विभावादौ साधारण्यात् । हासे तु य आस्वादः सोऽपि विकृतवेषादीनां सामाजिकान्प्रति लोकवृत्तेन हासहेतुतेति विभावसाधारण्यद्वारेण तदेकस्वभाव एवेति हासात्मकरसनाख्यचर्वणाचर्वणीयत्वाच्चास्य रतिशोकावेव परमतज्जातीयसंविदास्वादौ धारारूढसुखदुःखरूपत्वेन निस्साधारणात्मीयंत्वनियमग्रहगृहीतहेतुबलादेवोत्पद्येते यतः अतोऽनयोर्मुनिना प्रभवग्रहणं कृतम् । अन्येषु तु विभावे साधारण्यसम्भावनात्तदात्मकग्रहणम् । नयविनयादेरन्यायकारिणः समानं कालादेरपूर्ववस्तुनश्च सर्वान्प्रत्युत्साहक्रोधभयजुगुप्साविस्मयहेतुत्वेन साधारण्यविभावत्वादित्यलं बहुना ।
तत्र वेषः केशादिरचना। अलङ्कारः कटकादिः। स चोभयोऽपि विकृतो देशकालप्रकृतिवयोऽवस्थाविपरीतो हास्यस्य विभावः। एतेन सर्वे रसा हास्येऽन्तर्भूता इति दर्शितम् । अथ विदुषकोऽपि तद्वेषं विदधद्धास्याभासं प्रथयतीत्येतच्च प्रागेवोक्तम् । परस्य सम्बन्धी परः। एवंभूतो देवदत्तस्य वेषोऽयमलङ्कारो वा इत्युद्धट्टक (ना.शा ४-१८७)भाण्डनृत्तादौ दर्श्यमानो हासं करोति । वेषालङ्कारौ गतागतिकादेरप्युपलक्षणम् । धाष्टर्य निर्लज्जता । लौल्यं विषयेष्वनियतता । कुहकं कक्षग्रीवादिस्पर्शनं विस्मापनविधिप्रसिद्धं बालानाम् । अङ्गविगमो विखुनादि व्यङ्गम् । एषां दर्शनमिति समासः । दोषा अतत्प्रकृतेरपि भयादयः अकार्यकरणादयश्च विकृतवेषादय एव वा । तेषामुदाहरणं वर्णनम् । आदिग्रहणात्सङ्कल्पस्मृत्यादि ।

ओष्ठादेः स्पन्दनशब्देन संबन्धः । व्याकोशनं विकासो निमीलनं च । आकुञ्चनं त्वीषत् । एतद्दृष्ट्या योज्यम् । आस्यरागो मुखरागः । पार्श्वयोर्ग्रहणं पीडनम् । तन्द्राशब्देन मोहः । एते च विभावा अनुभावा व्यभिचारिणश्च प्रकृतित्रयभेदेन ये स्मितादिभेदा वक्ष्यन्ते तेषु यथायोगं योजनीयाः ।

द्विविधश्चायमिति । आत्मस्थैर्विभावैर्विकृतवेषादिभिर्विदूषकः स्वयं हसति स, तस्यात्मस्थः । देवी च हासयतीति तस्याःपरस्थः—तदिदमसत् । एवं हि विभावाना308मात्मस्थत्वविभागः स्यात । न हासस्य । किञ्च स्वामिन शोकोऽनुजीविषु शोकं करोतीति परस्थता सर्वत्र स्यात् । स्वयंभूर्हि परत्र देव्यादौ व्यक्तः परस्थ इति चेद्गम्भीरस्य प्रभोरनुजीविगतानुभावव्यक्तः क्रोधोऽपि परस्थो भवेत् । तद्विभाव आत्मस्थोऽतो (न्य)विभावकस्त्वन्य इत्यप्यसत् । परहासोऽपि तद्धासे विभावः स्यात् । एतच्च रत्यादिषु सर्वेष्वप्यस्ति । तस्मादयमत्रार्थः—परं हसन्तं दृष्ट्वा स्वयं विभावानपश्यन्नपि हसन्लोके दृष्टः । तथा विभावादिदर्शनेऽपि गाम्भीर्यादनुदितहासोऽपि परकीयहासावलोकने तत्क्षणं हासविवशः सम्पद्यत एवेति स्वभावः।यथाऽम्लदाडिमादिरसास्वादः सङ्क्रमणस्वाभावो309ऽन्यत्रापि दन्तोदकविकारानु रूपसङ्क्रमदर्शनादेव सङ्क्रामति एवं हासः स्वभावतः सङ्क्रमशील इति काष्ठकाऽस्य भूयिष्ठता । नानाभेदा इत्याह—षड्भेदाश्चेति । द्वौ द्वाविति । यथाक्रमं विभावतारतम्यमित्यादीति केचित् । तत्त्वसत् । भेदान्तराणामपि प्रसङ्गात् । तस्मात्सङ्क्रमणाभिप्रायेणैतत् । स्मितं हि यदुत्तमप्रकृतौ तत्सङ्क्रान्तं हसितं सम्पद्यते । अत एव व्यवस्थो हास इति वक्ष्यते । षडवस्थो ह्यन्यथा स्यात् ।
स्मितस्येषत्तायां व्यपगतायां हसितं ततो विशेषेण, ततोऽपि परस्य समीपं गतम्, अन्यदपहसितमतिशयेन चेत्युपसर्गभेदादर्थभेदः । (५३)
सौष्ठवमनुल्बणता । द्विजा दन्ताः धीरमिति मन्थरं कृत्वा ईषत्त्वं निवार्याह विकासितैरिति । अथेति । स्मितानन्तरं संक्रमणकाल इत्यर्थः । तदिति । स्मितमेव संक्रान्तं सदेवंरूपतामेतीत्यर्थः ।
जिह्माख्याया भाविन्या दृष्ट्या निरीक्षणं यत्र काल उचितं तेन संस्थानादौ । (५७)
अस्थान इत्यकाले शोकाद्यवसरे । विकृष्टं श्रवणकटु । नाटक इति । नाटकशब्दो रूपकमात्रवृत्तिः । स्वसमुत्थ इत्यसंक्रान्तस्मितविहसितापहसितलक्षणः । परसमुत्थः संक्रान्तो हसितोपहसितातिहसितरूपः । हसितादिरूपसंक्रमणयो(मेवो)त्कृष्टप्रकृतौ स्मितादिरूपम् । रतिक्रोधशोकादेस्तु न संक्रमणं भवतीत्युक्तमेव । तत्र हि युगपदेव वा स एव विभावस्तच्चित्तवृत्तिमान्वा पुरुषो विभावतामेति । न तु त एव विभावास्तस्य चित्तवृत्तिं प्रस्तूय संक्रमयाद्यस्य (मयन्त्यन्यस्य) प्रस्तुवतः । हासमिव(स एव) सर्वेषामात्मस्थपरस्थभेदोपलक्षणमेतदित्यन्ये । एतच्चासत् । अनुभवसिद्धमेव हीदं हासः संक्रामतीति ।
311अन्यस्त्वाह—तिसृषु प्रकृतिषु त्र्यवस्थो विभावतारतम्यात् द्विरूपः । पुनरात्मपरस्थत्वेन द्विधेति द्वादशभेदोऽयमिति कारिकातात्पर्यमिति । अत्र च पृथग्विभावनमपि भवति । तत्त्वतिप्रसङ्गावहं तन्मतमिति नोदाहृतम । (६१)
इति हास्यरसप्रकरणम् ॥

करुणरसप्रकरणम्सम्पाद्यताम्

इदानीमवसरायातं करुणं लक्षयति—अथ करुणो नामेति । अथेति क्रमे । तत्र चायं क्रमः—सम्भोगेन हास्योऽङ्गत्वेनापेक्षितः। विप्रलम्भेन च समानव्यभिचारीकत्वात्करुण इति टीकाकारः ।
एतच्च पूर्वापरविरुद्धम् । अस्माभिस्तूद्देशविभाग एव क्रमो दर्शितः। तस्याभिनयः प्रयोज्यो यस्यास्वाद्यमानस्य करुण इति व्यपदेशः । ‘सदहृदयता हि करुणा लोके प्रसिद्धा । सा च लिङ्गैरनुकर्तरि शोकं प्रतीयतां सामाजिकानामिति करुणव्यपदेशः’, इति श्रीशङ्कुकः ।
एतच्च पूर्वापरविस्मरणविजृम्भितमस्य । यतः शोकप्रतिकृतिस्तस्य करुणा । दया च नाम परित्राणेच्छा । सा कथं शोकानुकरणम् । किं प्रति तेषां दयेति न विद्मः ।
तस्मात् करुण इति शोकस्य सर्वसाधारणत्वेन प्राग्युक्त्या आस्वाद्यमानस्य संज्ञा । तदर्थमेव नामशब्दः। तत्प्रभवत्वं शृङ्गारवद्व्याख्येयम् । अशक्यप्रतीकारहेतूपलक्षणं शापग्रहणम् । शापक्लेशे पतितस्येष्टजनस्य ये विप्रयोगादयः। तत्र विप्रयोगोऽयं सङ्गमः (योगोऽसङ्गमः) विभवनाशादि प्रसिद्धम् । विद्रवो देशादुच्चाटनम् । तच्च विप्रयोगेऽपीति विशेषः । उपघातः पुत्रादिम रणम् । अग्न्यादिकृतो विद्रवः चोरादिकृत उपघात इति त्वसत् । विभवनाशेन गतत्वात् । व्यसनेन मृगयाक्षादिनाऽनर्थजनकेन संयोगः । विभवनाशादयोऽपि स्वात्मगता नत्तोमप्रकृतेः शोकं कुर्युः । मध्यमाधमप्रकृतीनां तु कुर्युरेवेत्यादिग्रहणम् । परिदेवनमात्मानो दैवसान्यस्य चोपालम्भः । निश्वासशब्देन तदनन्तरभावी उच्छ्वासोऽप्यूर्ध्वश्वसनरूपो लक्ष्यते । स्मृतिलोपेन स्तम्भप्रलयौ लक्ष्येते । वैवर्ण्याश्रुस्वरभेदा अत्र बहिरुद्भिन्नस्वभावाश्चित्तवृत्त्यात्मानो गृह्यन्ते । तथा हि वक्तारो भवन्ति ‘अश्रुणा पूर्णोऽस्य कण्ठो न च नयनजलं दृष्टम्’ इति । एते ह्यश्रुप्रभृतयो व्यभिचारित्वाभिनेयत्वोपजीवनायैव मध्ये निर्दिष्टा इत्यवोचाम वक्ष्यामश्च । तेन न पौनरुक्त्यम् । एवमन्यत्रापि । व्याधेरुन्मादापस्मारौ भेदेन वक्ष्यामः ।
वधशब्दो बन्धादेरप्युपलक्षणम् । विप्रियमिष्टजनवधादि येन वाक्येनोच्यते तस्य श्रवणात् । तेन चेष्टजनस्य विभवनाशादि दृश्यमानं श्रूयमाणं वा कविभिः करुणविभावत्वेनोपनिबन्धनीयमिति तात्पर्यम् । एभिरित्येवंप्रकारैः। भावशब्दोऽत्रार्यायां विभाववाची । अनुभावांस्तद्द्वारेण च व्यभिचारिणोऽप्युपलक्षयितुमार्यान्तरं सस्वनेत्यादि । बहुवचनं प्रकृतिदेशकालदशाहेत्वादिभेदेनानेकप्रकारत्वज्ञापनार्थम् । मोहो जडता ।

तेनान्ये व्यभिचारिण उपलक्ष्यन्ते । देहस्यायासनं पातनवेष्टनादि । अभिघात उरस्ताडनादिः। एते चानुभावाः प्रकृतिभेदेन यथायोगं विभजनीयाः करुणो रौद्रादित्युक्तम् । स की(ही)दृग्रौद्र इति क्रमं केचिदाहुः॥ (६३)
इति करुणरसप्रकरणम् ॥

रौद्ररसप्रकरणम्सम्पाद्यताम्

अधुना रौद्ररसं लक्षयति—अथ रौद्रो नामेति । आत्मग्रहणस्यायमाशयः। अन्यायकारिता प्राधान्येन क्रोधस्य विषयः । तादृशि च जने सर्वो(र्वे)ऽपि मनोरथैरपि रुधिरपानमपि नामाद्रियन्ते । तथा चाह लोकः- तादृशो यदि लभ्यते तत्तदीयं रुधिरमपि पीत्वा न तृप्यते । महाकविना भासेनापि स्वप्रबन्घ उक्तम्—
‘त्रेतायुग तद्धि न मैथिली सा रामस्य रागपदवी मृदु चास्य चेतः ।
लब्धा जनस्तु यदि रावणमस्य कायं प्रोत्कृत्य तन्न तिलशो न वितृप्तिमेति ॥’ इति ।
तेन हास्यवस्ताधारणविभावत्वाच्चर्वणापि क्रोधमय्येवेति तद्रसनाचरणौ(चर्वणो) रौद्रः क्रोधात्मक एव । उद्रिक्तं हन्तृत्वं येषां त उद्धताः। तद्वेषधारिणो ये नटास्ते प्रकृतिश्चर्वणोदयहेतुरस्य । अत्र व्याचक्षते — ‘युद्धहेतुक उद्धतमनुष्येषु भीमसेनादिषु रुधिरपानादिलक्षणः। रक्षोदानवास्तु स्वभावरौद्रा’ इति । तदसत् । भीमस्य रुधिरपानं न युद्धहेतुकम् । अपि तु विपर्ययेण । उद्धतस्वभावत्वादेव ह्यसौ क्रोधपरवशः सन्ननुचितमपि प्रतिज्ञातवान् । तन्निर्वाहायैव च राक्षसाधिष्ठानमस्य कविना वेणीसंहारे वर्णितम् । तस्मात्सर्व एवैते स्वभावात् क्रोधनाः। तदनुकारिणि नटे रौद्र आस्वाद्यत इति स तस्य प्रकृतिः
। सङ्ग्रामहेतुक इति चायमर्थः—युद्धस्य कविनटप्रदर्श्यमाने हेतुकः कुस्तितहेतुः वीरो हि तस्योचितो हेतुर्न क्रोधः। तथा च प्राधान्येन युद्धेन वीर एव व्यपदेक्ष्यते ।
नन्वेते स्वभावक्रोधना अपि किमुद्दीपनमेक्षन्ते । ओमित्याह—स चेति। क्रोधादि परकर्तृकम् । आधर्षणं दारादिखलीकरणम् । अविक्षेपो देशजात्यभिजनविद्याकर्मनिन्दा । अनृतस्य कस्याप्यपसत्यस्य वचनम् । उपघातो गृहभृत्याद्युपमर्दनम् । वाक्पारुष्यं वधाद्युपन्यासेन तर्जनम् । अभिद्रोहो जिघांसा । मात्सर्य गुणेष्वसूया । आदिग्रहणाद्राज्यापहरणादि । एतैरुत्पद्यते कविना विभावत्वेन वर्ण्यमानैः ।

अस्य ताडनादीनि कर्माणि रक्तनयनादयोऽनुभावा इति पृथङ्निरूपणं तुल्येऽप्यनुभावत्वे विशेषख्यापनार्थम् । विशेषस्तु पूर्वेषां वचनमात्रेण व्यावर्णनम् । रङ्गे प्रत्यक्षतोऽप्रदर्शनीयत्वात् । यद्वक्ष्यते —
‘युद्धं राज्यभ्रंशो मरणं नगरोपरोधनं चैव ।
अप्रत्यक्षकृतानि प्रवेशकैः संविधेयानि ॥’ इति । (ना. शा. १८-३८) रक्तनयनादि रङ्गे प्रत्यक्षेण कृतम् ।

प्रहरणाहरणं तु पूर्वत्र प्रमादपठितमिति केचित् । इदं तु पृथगभिधाने तुच्छं प्रयोजनम् । अयं चात्राशयः—रक्षोदानवोद्धतमनुष्या उद्दीपनहेतुभिर्विनाऽपि चेष्टितमात्रं यदपि कुर्वते नर्मगोष्ट्याद्यपि च तत्र ताडनादि प्रधानम् । तद्वक्ष्यति — ‘यच्च किञ्चिदारभन्ते’ इति । उद्दीपनाम्भते ताडनादिग्रस्त एव रक्तनयनाद्यधिकीभवति । अत एव पुनश्शब्दः। तत्र ताडन तलाद्यभिघातः । पाटनं द्विधाकरणम् । पीडनं मर्दनम् । (छेदनं) कर्तनम् । भेदनं परस्परं मित्रादि वियोजनम् । भावे ल्युङन्ताः । प्रहरणानामासमन्ताद्धरणम् ।
शस्त्रस्य सम्पातनमविदारयतोऽपि । सम्प्रहरणं विदारयतः पातनम् । तेन रुधिरस्याकर्षणम् । रक्षःप्रभृतयो हि नर्मणाऽपि प्रहरन्ति । किन्तु रुधिरागमनमात्रफलं न त्वधिकम् । रक्ते च ते नयने । भ्रुवोर्मूलसमुत्क्षेपो भ्रुकुटी । दन्तोष्ठस्य यथायोगं पीडनम् । हस्ताग्रयोरन्योन्यनिष्पेषः सङ्घर्षणम् ।

भावा इति व्यभिचारिणः । असंमोहः सम्मोहविपरीतः । विरोधे नञ् । तत्रावृत्तिसङ्गृहीतः सम्यग्बोधः । उत्साहोऽत्र व्यभिचारी । क्रोधस्य प्राधान्येन रसनीयत्वात् । स्वेदादयो बाह्याः । आभ्यन्तर-सात्त्विकाभावेऽपि विषस्पर्शज्वरादिना भवन्ति । ततोऽनैकान्तिकाः । आन्तरा अनुद्रिक्ता व्यजनग्रहणादिभिः, उद्रिक्ता बाह्यैः स्वेदादिभिर्व्यक्ता व्यभिचारिरूपाः पठिताः ।

एष्वेव रौद्ररस इत्याभिप्रायं गृहीत्वा चोदक आह—यदभिहितमिति । सिद्धान्ती त्वेषु रौद्रो भवत्येवेत्यभिप्रायेणाह—अस्त्यन्येषामिति। अन्येषां कविनटाभ्यां प्रयुज्यमानानां सम्बन्धी जन्यत्वेन । अधिकारोऽनुवृत्तिः । अत्रेति — राक्षसादिषु । एतदेव व्यनक्ति—ते हीति । स्वभावशब्दानन्तरमेवकारेण भवन्त्येवेत्ययोगव्यवच्छेद एव सूचितः । स्वयं तेषां भवनं तत इत्यर्थः। तेनाङ्गरौद्रोपन्यासोऽप्यविरुद्धः। अन्यथा स्वभावरौद्र एव रक्ताक्षादिभिरभिधेयः स्यात् । न बहुबाहुमुखादि । तत्र राक्षसादयोऽपि न परिजने सदा क्रुद्धा इति प्रतीयन्त इत्याशयेनाह कस्मादिति ।

अत्रोत्तरं बहुबाहव इति । लोकप्रसिद्धाकारविपरीतो हि तेषामाकारः । तत्र च परविनाशनाभिसन्धिजनितं तपश्चर्यादिकं दृष्टं वा कर्म तेषां व्याप्रियते । अतस्तादृशेष्वदृ(षुदृ)ष्टेषु स एव क्रोधात्मकोऽभिसन्धिर्गम्यत इति सामाजिकानां नान्तर्दृ(कानान्तर्दृ)श्यते रौद्रास्वादः । तेन च रागादिव यत्क्रोधकाले दृष्टं तत्सदैव तेषामुद्वृत्तं तारकयोः रक्तविलोचनम् । अत एव भीममसितं कृष्णं सदैव रूपं येषाम् । नित्ययोग इनिः। अत एव च न बहुव्रीहिरत्र कृतः । (भीमासितरूपाः इति बहुव्रीहिपदप्रयोगः न कृतः इत्यर्थः ।)
न केवलं कायस्तदीय इत्थं यावच्चेष्टितमपि तदीयं दृश्यमानं रौद्रास्वादजनकमेवेति दर्शयति—यच्चेति । स्वभावेनेति (वेति) । चित्तस्याविकारेऽपि यच्चेष्टितं वाचिकं कायिकं वा तदेषां ताडनादिप्रधानमिति दृश्यमानं काव्ये प्रयोगे च रौद्रास्वादहेतुः । वागङ्गे आदिकारणे यस्य । मानसं तु चेष्टितमप्रत्यक्षत्वान्नोक्तम् ।

सर्वमिति यदुक्तं तत्स्फुटयति—शृङ्गारश्चेति । शृङ्गारशब्देनात्र तद्विभावः प्रमदोद्यानादिः। सोऽपि तैः प्रसभमिति क्रूराकारतया सेव्यते । यत्रौग्र्यस्य वर्जनमुक्तं किं पुनरन्यदिति चशब्दस्यार्थः । तथा ‘आ । सीते पतिगर्वविभ्रमह(भ)रभ्राम्यद्भ्रूः’ (उदात्तराघवनाटके) इत्याद्युदाहरणम् । तथा नानादेवसे वापि ‘गाढाम्रेडं मलयमरुतः शृङ्खलादाम दत्त’ (बाल. रामा. ५-५१) इति रौद्ररसत्वेन कदाचिदनुनयेनापीति दर्शयति—प्रायश इति । ननूद्धतमनुष्येषु तर्हि कथं रौद्रादिविकारः। न हि ते बहुबाहुत्वादियुक्ता इत्याशङ्क्याह—तेषां चेति । राक्षसादीनाम् । अनुकारिण इति । तामसप्रकृतितया तत्सदृशा अनुगामित्वेन मन्तव्या इत्यर्थः । कथमित्याह—सङ्ग्रामेतिसम्प्रहारग्रहणेन पूर्वोक्तं ताडनपाटनादि गृह्यते । तेन बहुबाहुत्वाद्यभावेऽप्युद्धतमनुष्या वागङ्गचेष्टितेन क्रोधोचितेन रौद्रप्रकृतय इति लक्ष्यन्ते । एवं रक्षोदानवेत्यादावयोगव्यवच्छेदो निश्चितः । अन्येऽपि तु वीरप्रधाना अश्वत्थामजामदग्न्यादयः । तेषु कारणमहिम्ना भवत्येव क्रोधो रौद्रास्वादयोग्यः। राक्षसादीनामपि च हासशोकादिः स्वकारणोदितोऽभिभूतक्रोधः । हास्यकरुणादेश्चेह योगो भवत्येव । तेनैषां न रौद्र एव रसः । ननु सामाजिकानां तथाभूतराक्षसादिदर्शने कथं क्रोधात्मक आस्वादः? उच्यते—हृदयसंवाद आस्वादः । क्रोधे च हृदयसंवादस्तामसप्रकृतीनामेव सामाजिकानामिति दानवादिसदृशास्तन्मयीभूता एवान्यायकारिविषयं क्रोधमास्वादयन्तीति न किञ्चिदवद्यम् ।

विकृतं यच्छेदनं व्यङ्गादिकरणम् । युद्धादीति परेण क्रियमाणौचित्यम् । तेन युद्धाद्यनुमितस्य परक्रोधादेर्विभावत्वमुक्तम् । सङ्ग्रामाय सम्भ्रमः । शस्त्राहरणे त्वरा ।

अनुभावानाह—नानेति। मारणप्राधान्यं नानाप्रहरणेन दर्शयति । शिरःकर्तनादिमृतशरीरस्यापि क्रोधातिशयं सूचयन्वीराद्भेदमाह । युद्धवीरेऽपि हि तन्नास्ति । इह तु 318वक्ष्यते—उग्रकर्मेति । उग्राण्यौग्य्रप्रधानानि यानि शिरःकर्तनादीनि तेषां या क्रिया अप नीतिः सा आत्मा प्रधानं यस्येति । भरतमुनिस्त्वेकेन श्लोकेनोपसंहरति—इति रौद्ररस इति ॥(६६)
इति रौद्ररसप्रकरणं समाप्तम् ।

वीररसप्रकरणम्सम्पाद्यताम्

क्रमप्राप्तं वीरं लक्षयति—(अथ वीरेति) संग्रामसम्प्रहारयोगो रौद्रेऽपीति वीरेऽजिघांसेति । आनन्तर्यमथशब्देनाह । उत्तमानां प्रकृतिः स्वभावो यत उत्साहोऽतो वीररसोऽपि तथा । यदि वा काव्ये नाट्ये च प्रयुज्यमान उत्तमप्रकृतिर्हेतुर्यस्य । उत्तमवर्णानां हि सर्वत्रोत्साह आस्वाद्यो भवति । अत एव चतुर्ष्वपि नायकेषु वीरत्वमनुयायित्वेन वक्ष्यते धीरोदात्त इत्यादि । यद्यपि सर्वो जन उत्साहवानेव । तथापि तदुत्साहस्याविषयप्रवृत्तत्वात्तदीयं चरितं काव्यनाट्ययोर्नोपदेश्यम् । यदीयं तु चरितमुपदेशार्ह तेषामुचित एवावसरे उत्साहाभिव्यक्तिः । उचितत्वं चावसरस्यासंमोहादिसम्पत्तिरिति सैव विभावत्वेनोपदिष्टा । असंमोहेनाध्यवसायो हि वस्तुतत्त्वनिश्चय इति मन्त्रशक्तिर्दर्शिता । असद्वस्त्वभिनिवेशोऽसंमोहो रावणादिगत उत्साहकारीत्यसत् । अशब्दार्थत्वात् । तत्रापि च पराक्रमनयादिरेव विभावः । सन्ध्यादिगुणानां सम्यक्प्रयोगो नयः । इन्द्रियजयो विनयः । बलं हस्त्यश्वरथपादातम् । पराक्रमः परकीयमण्डलाद्याक्रमेणावस्कन्दः । युद्धादिके सामर्थ्यं शक्तिः । प्रतापः शत्रुविषये सन्तापकारिणी प्रसिद्धिः । प्रभावोऽभिजनधनमन्त्रिसम्पत् । आदिग्रहणेन यशःप्रभृति । एते च सम्पूर्णस्वभावा एव विभावा भवन्ति । उत्तमस्य कदाचित्कश्चिदधिक इति पृथक्पृथगुदाहरणमसत् । वस्तुतो ह्यत्रोदाहरणं सर्वमेव रामादिचरितम् । सचिवायत्तसिद्धौ च वत्सराजप्राये नायके यथायोगं सचिवगता अप्येते मन्तव्याः । प्रतिनायकगता अपि च ते उत्साहव्यञ्जका इति यथायोगं व्यस्तसमस्तभेदकल्पनं कविना कार्यम् ।
स्थैर्यमचलनम् । गाम्भीर्यकृतं संवरणं धैर्यम् । शौर्य युद्धादिक्रिया । त्यागो दानम् । वैशारद्यं सामाद्युपायचतुष्कस्यैकद्वित्रिचतुरादिभेदैर्यथाविषयं नियोजनम् ।
अर्थ्यते इत्यर्थः । कर्मणि घञ् । धर्मादि चतुर्वर्गः । कर्मव्युत्पत्त्यैव हि धर्मादयः पुरुषार्थाः इत्युच्यन्ते । पुरुषेणार्थनीयत्वात् । अर्थविशेषस्य विविधत्वं धर्मादिभेदात् । तदयमर्थः । विविधं धर्मादिरूपमर्थविशेषमभिसन्धायं अविषादित्वात् अविस्मयासंमोहश्चेति द्वन्द्वे एकवद्भावः । अविस्मयादसंमोहाच्च हेतोर्योऽध्यवसायो निश्चयः स चोत्साहयतीति णिजन्तात् पचाद्यजन्तत्वेन व्युत्पत्त्या उत्साहहेतुः । उत्साहश्चासावध्यवसायश्चेति कर्मधारयः ।
एतदुक्तं भवति—आपदि हृदयस्य निमग्नत्वं, तत्परवशत्वं, विषादित्वं, स्वल्पेऽपि सन्तोषो विस्मयः । मिथ्याज्ञानं मोह एतत्त्रयमपास्य यस्तत्त्वनिश्चयः स एवोत्साहहेतुः प्रधानतया । रौद्रे तु ममता
प्राधान्यादशास्त्रीयानुचितयुद्धा द्यपीति मोहविस्मयप्राधान्यम् । एवं च विषादित्वादित्रयापासनपूर्वकमुद्भूतेनाध्यवसायेन हेतुना य उत्साह उत्पद्यते स वीररसो नाम ।
स्थितिः स्थैर्यम् । वीर्य शौर्यम् । गर्वपदेन तदनुभावो लक्ष्यते । उत्साहनमुत्साहोऽबलस्य विषण्णप्रायस्योत्तेजनं यथा सेतुबन्धकाव्ये । पराक्रमः पराक्रमणा। इत्थमत्र भवद्भिरासितव्यं योद्धव्यमिति बलस्य व्यापारणादितिकर्तव्यतायां भृत्यानां प्रभावना प्रभावसम्पादनम् । आक्षेपो वस्त्वन्तरस्य सूचनं तेन कृतानि तत्प्रधानानि यानि वाक्यानीति गम्भीरदुरवगाहार्थत्वं वाक्यानामित्युक्तम् ।(६८)

इति वीररसप्रकरणं समाप्तम् ।

भयानकरसप्रकरणम्सम्पाद्यताम्

वीरस्य भीतावयव(भीताभय)प्रधानत्वाद्भयानकं लक्षयति—अथेति । विकृतो रवोऽट्टहासादिः । सत्त्वानां पिशाचानां दर्शनम् । त्रासोद्वेगौ परगतौ । शून्यागारस्यारण्यस्य च गमनं प्राप्तिः । स्वजनस्य यौ बधबन्धौ तयोर्दर्शनं प्रत्यक्षेण । श्रवणमागमेन । कथाचिरातिक्रान्तयोरपि पुनरनुसन्धानेन स्मरणम् ।
वेपितुं प्रवृत्तं यत्करचरणं आ(तदा)दिकर्मैव भयव्यञ्जकं व्याध्यादिवैलक्षण्यसूचनात् । पुलको रोमकूपोन्नतिः । स्वरस्य भेदः स्वभावविपर्ययः।

गुरुनृपयोरिति । अयमाशयः—भयं तावत्स्त्रीनीचबालादिषु वक्ष्यते । नोत्तममध्यमप्रकृतिषु । तेऽपि
उत्तममध्यमप्रकृतयोऽपि तु गुरुभ्यो राज्ञश्च ( कृत्रिमं) भयं दर्शयेयुः । तद्भावेऽप्येषां सुतरामुत्तमत्वं भवति । अप्रभुत्वं चामात्यानाम् । यथाह—‘स्वेच्छाचारी भीत एवास्मि’ इति । (रत्ना.१.७) । अनुभावाश्च तथा श्लिष्टास्तत्र 321क्रियन्ते लोके येन सत्यत एव भीतोऽयमिति गुर्वादीनां प्रतीतिर्भवति । अस्वाभाविकत्वाच्च कृतकत्वं, बहुतरकालानुवर्तनेनास्वाद्यत्वाच्च रसत्वम् । न च व्यभिचारित्वम् । तद्धि तदा स्याद्यदि स्वभावत एव किञ्चित्काललवमुत्पद्यते (६९)
गात्रादीनां भेदो वर्णकर्मसंस्थानादिविपर्ययः । वीक्ष्यमति(भि)क्रा(क्रा)म्यति वीक्षणं कान्दिशीकत्वेन निर्लक्षचक्षुःकृतम् । उद्वेगः चलनम् । सादो गात्राणां स्रस्तता । मुखस्य तालुनि शोषः । हृदयस्यन्दनमतिवेगेन । इह भयमित्यभिनेयमिति वीररस इत्यार्यातः सम्बध्यते ।
ता एता ह्यार्या एकप्रघट्टकतया पूर्वाचार्यैर्लक्षणत्वेन पठिताः । मुनिना तु सुखसङ्ग्रहाय यथास्थानं निवेशिताः ।

सत्त्वसमुत्थमिति । सत्त्वं मनस्समाधानं तज्जन्मकमिति नटस्येयं शिक्षा ।
सा च सर्वविषयेति टीकाकारः । तदिदमसत् । कविनटशिक्षार्थमेव सर्वमिदं प्रकरणम् । लोके विभावानुभावाभिनयादिव्यवहाराभावात् । तस्मादयमत्रार्थः—322एतत्तावद्धयं स्वभावजं रजस्तमःप्रकृतीनां नीचानामित्यर्थः । येऽपि च सत्त्वप्रधानास्तेषां सत्त्वसमुत्थं प्रयत्नकृतमेभिरेवानुभावैः कार्यम्, किन्तु मृदुचेष्टितैः यतस्तत्कृतकम् । पुनःशब्दो विशेषद्योतकः । ननु च राजादिः किमिति गुर्वादिभ्यो भयं कृतं(तकं) दर्शयति । दर्शयित्वा किमिति मृदून् गात्रकम्पनादीन्प्रदर्शयति । किमिति च भयानक एव कृतकत्वमुक्तम् । सर्वस्य हि कृतकत्वमुक्तं भवति । यथा वेश्या
धनार्थिनी कृतकां रतिमादर्शयति—इत्याशङ्क्य साधारणमुत्तरमाह—तथैव कार्यमिति । भये हि प्रदर्शिते गुरुर्विनीतं तं जानाति । मृदुचेष्टिततया चाधमप्रकृतिमेन न गणयति । कृतकशृङ्गाररत्यादेश्चो पदिष्टान्न काचित्पुरुषार्थसिद्धिः । तेनैव ह्युक्तेन प्रकारेण कार्यपुरुषार्थविशेषो लभ्यते । यत्र तु राजा न कृतकं परानुग्रहाय क्रोधविस्मयादीन्दर्शयति तत्र व्यभिचारितैव तेषां न स्थायितेत्येतदर्थसूचिकामेव गुरुवंशान्तरप्रसिद्धामार्यां पठति—करचरणेति । नित्यमिति । कृतकत्वेऽकृतकत्वे च । (७२)

इति भयानकरसप्रकरणम् ॥

बीभत्सरसप्रकरणम्सम्पाद्यताम्

अवसरप्राप्तं बीभत्सरसं लक्षयति—अथेति ।
अहृद्यं हृद्यमपि किञ्चित्कस्यचिन्निसर्गतोऽप्रयतं (तोऽप्रियं) लशुनमिव द्विजानाम् । अप्रियं जात्यादिदोषात् । यथा श्लेष्मोपहतस्य क्षीरम् । अचोक्षं स्वरूपेणादुष्टमपि तु मलाद्युपहतम् । अनिष्टं यत्रानिशं भुक्तत्वेनेच्छा निवृत्ता । संहारः पिण्डीकरणम् । मुखस्येति तदङ्गानां सङ्कोचनम् । उल्लेखनमुल्लाघः । निष्टीवनं कफनिरासनम् । 323उद्वेजनं गात्रोद्धूननम् । नासाप्रच्छादनं दुर्गन्धप्राये दृष्टम् । प्रतिघातादव्यक्तानि पादयोः पतनानि । यदि वाऽस्थिकङ्कालाद्याकुले पितृवने सञ्चरतोऽस्फुटितानि पादपतनानि क्वचिद्दीर्घाणि अन्यत्र ह्रस्वानि इति । (७४)

इति बीभत्सरसप्रकरणम् ॥

अद्भुतरसप्रकरणम् ।सम्पाद्यताम्


सर्वत्रान्तेऽद्भुत इत्युक्तं लक्षयितुमाह—अथेति । दिव्या गन्धर्वादयः । ईप्सितः शक्यप्राप्तिरर्थः । अन्यो मनोरथः । तयोः प्राप्तिः । उपवने देवकुले च गमनम् । तस्याद्भुतविभावत्वं येन तत्रत्यं सरः सं निवेशादि न क्वचित् दृष्टम् । सभा गृहविशेषः । विमानादीनि दिव्यरथाः । माया रूपपरिवर्तनादिका । इन्द्रजालं मन्त्रद्रव्यहस्त युक्त्यादिना असम्भद्वस्तुप्रदर्शनम् । तस्येत्यद्भुतस्य । हर्षशब्देनात्र तदनुभावाः । साध्विति वदनं साधुवादः । दानं धनादेः । प्रबन्धं सततं कृत्वा हाहाशब्दस्य करणम् । चेलस्याङ्गुलेश्च भ्रमणम् ।
अतिशेत इत्यतिशयः । अन्यापेक्षया योऽर्थ उत्कुष्टः । तेन वाच्यभूतेन यु्क्तं यद्वाक्यं यच्च शिल्पं कर्मरूपं (प्रशस्त)कर्मात्मकं, ‘प्रशंसायां रूपम्’ । सर्वमित्येवंप्रकारमिति यावत् । स्पर्शग्रहशब्देन तद्विभावादयः । अभिनयो ल(व)क्ष्यमाणो लक्ष्यते ।
‘किञ्चिदाकुञ्चिते नेत्रे कृत्वा भ्रूक्षेपमेव च ।
तथांसगण्डयोः स्पर्शात्स्पर्शमिवं विनिक्षिपेत् ॥’ (ना. शा. २२.७७) इति । गात्रस्योर्ध्वं साह्लादं धूननमुल्लुकसनम् । बहुवचनं प्रकृतिभेदेन प्रकारवैचित्र्यं सूचयति ॥ (७६)
इत्यद्धुतरसप्रकरणं समाप्तम् ।
अथ प्रधानभूतविभावानुगुणभावप्रतिपादनं भेदप्रदर्शनव्याजेन करोति—शृङ्गारमित्यादिना । वाक्यरौद्रो हि तत्र स्वभावरौद्र इति व्यवहरिष्यते । स्वभावानुसारित्वाद्वा325क्यस्य । धर्मोपघातज उत्तमानामपि शोभ(च)नहेतुत्वात् । शोकशब्देन स्वजनादिनाशश्च एते त्रयो विभावाः । धर्मशब्देनाग्निनष्टोमादिक्रिया । अत एतद्यजनादि न नियमेनानुभावात्मकम् । प्रतिनायकगतं तु विभावरूपमपि । व्याजादिति । कृतक इत्यर्थः । अनेनानुभावमार्दवं दर्शितम् । अपराध्यन्तीत्यपराद्धा(धा)श्चोरादयः । यत्तु स्वभावत्रस्तहृदयानां स्त्रीबालादीनां तृणेऽपि कम्पमाने भयं तद्वित्रासितकम् । विशेषेण त्रास्यत इति वित्रासितो बालादिः । तत्प्रकृतित्वाद्भयानकं तथोक्तम् । ततः संज्ञायां कन् ।
गुर्वाद्यपराधात्परमार्थतोऽप्युत्तमानां भयावेग इति त्वसत् । भयं हि विनाशशङ्कात्मकं नोत्तमेषु संभवति । तथा च भयं नाम स्त्रीनीचप्रकृतिकमिति सामान्येन लक्ष्यते ।
रुधिरान्त्रादिदर्शनाद्यो बीभत्सः क्षोभणत्वाच्छुद्धः । यस्तु विष्ठादिभ्यः स उद्वेगी हृदयं चलयति सोऽशुद्धः । अशुद्धविभाकत्वात् । उपाध्यायस्त्वाह—बीभत्सस्तावद्विभावविशेषात् द्विविधः । यत्र तु संसारनाट्यनायकराग —प्रतिपक्षतया मोक्षसाधनत्वाच्छुद्धः । यदाहुः—‘शोकात्स्वाङ्गजुगुप्सा’ इति तथा ‘वितर्कबाधने प्रतिपक्षभावनम् ।’ (योगसू. २.४०,३३) इति । तेन सोऽपि परमार्थतस्त्रिविध एव द्वितीयक इत्यनेन तस्य दुर्लभत्वेनाप्राचुर्यं सूचयति । दिव्य इति । यत्र सभाविमानादयोऽनुभावाः । आनन्दयतीत्यानन्दो मनोरथावाप्त्यादिः । स एव हर्षयतीति हर्षः । एषु च ‘शृङ्गारम्’ इत्यादिषु श्लोकेषु चकारा विभावानुभावान्तरनिरासशङ्कां पराकर्तुम् । एवकाराः इयन्त एव तेषां मुख्यत्वेन सङ्गता इति दर्शनार्थाः । तथाशब्दा अनुक्तविभावाद्यूहनार्था इति यथायोगं योज्यम् । (८२)
इत्यद्भुतरसप्रकरणं समाप्तम् ।

शान्तरसविचारः ।सम्पाद्यताम्

<poem> ये पुनर्नव रसा इति पठन्ति तन्मते शान्तस्वरूपमभिधीयते । तत्र केचिदाहुःशान्तः शमस्थायिभावात्मकस्तपस्या योगिसम्पर्कादिभिः विभावैरुत्पद्यते । तस्य कामक्रोधाद्यभावरूपैरनुभावैरभिनयः । व्यभिचारी धृतिमतिप्रभृतिः (इति) । एतदपरे न सहन्ते । शमशान्तयोः पर्यायत्वात् । एकान्न(एकेन)पञ्चाशद्भावा इति सङ्ख्यात्यागात् । किञ्च विभावा ऋतुमाल्यादयस्तत्समनंन्तरभाविनि शृङ्गारादावनुसन्धीयन्ते इति युक्तम् । तपोऽध्ययनादयस्तु न शान्तस्य समनन्तरहेतवः । तत्त्वज्ञानस्यानन्तरहेतव इति चेत्पूर्वतरोदिततत्त्वज्ञानेऽपि तर्हि प्रयोज्यतेति तपोऽध्ययनादीनां विभावता त्यक्ता स्यात् । कामाद्यभावोऽपि नानुभावः । शा(अशा)न्ताद्विपक्षादव्यावृत्तेः । अगमकत्वात्प्रयोगासमवायित्वाच्च । न हि चेष्टाव्युपरमः प्रयोगयोग्यः । सुप्तमोहादयोऽपि हि निःश्वासोच्छ्वासपतनभूश यनादिभिरश्चेष्टाभिरेवानुभाव्यन्ते । धृतिप्रभृतिरपि प्राप्तविषयोपभोगः कथं शान्ते स्यात् । न चाकिञ्चित्करत्वमात्रेण तत्त्वज्ञानोपाये व्युत्पाद्यन्ते विनेयाः । नैते परदुःखदुःखितमनसो दृश्यन्ते सम्यग्दर्शनसमावस्थां प्राप्ताः । अपि तु संसारे । तन्न शान्तो रस इति । अत्रोच्यते—यथा इह तावद्धर्मादित्रितयमेवं मोक्षोऽपि पुरुषार्थः । शास्त्रेषु स्मृतीतिहासादिषु च प्राधान्येनोपायतो व्युत्पाद्यत इति सुप्रसिद्धम् । यथा च कामादिषु समुचिताश्चित्तवृत्तयो रत्यादिशब्दवाच्याः कविनटव्यापारेणास्वादयोग्यताप्रापणद्वारेण तथाविधहृदयसंवादवतः सामाजिकान्प्रति रसत्वं शृङ्गारादितया नीयन्ते तथा मोक्षाभिधानपरमपुरुषार्थोचिता चित्तवृत्तिः किमिति रसत्वं नानीयत इति वक्तव्यम् । या चासौ तताभूता चित्तवृत्तिः सैवात्र स्थायिभावः । एतत्तु चिन्त्यम् । किं नामासौ—तत्त्वज्ञानोत्थितो निर्वेद इति केचित् । तथा हि—दारिद्र्यादिप्रभवो यो निर्वेदः स ततोऽन्य एव । हेतोस्तत्त्वज्ञानस्य वैलक्षण्यात् । स्थायिसञ्चारिमध्ये चैतदर्थमेवायं पठितः । अन्यथा माङ्गलिको मुनिस्तथा न पठेत् । जुगुप्सां च व्यभिचारित्वेन शृङ्गारे निषेधन्मुनिर्भावानां सर्वेषामेव स्थायित्व सञ्चारित्व चित्तोपात्तत्वानुभावस्थत्वान्नि(भावत्वानि) योग्यतोपनिपातितानि शब्दार्थबलाकृष्टान्यनुजानाति । तत्त्वज्ञानजश्च निर्वेदः स्थाय्यन्तरोपमर्दकः । (उपमर्दक) भाववैचित्र्यसहिष्णुभ्यो रत्यादिभ्यो यः परमः स्थायिशीलः स एव हि स्थाय्यन्तराणामुपमर्दकः । इदमपि पर्यनुयुञ्जते—तत्त्वज्ञानजो निर्वेदो(प्यव) (दोऽस्य च) स्थायीति वदता तत्त्वज्ञानमेवात्र विभावत्वेनोक्तं स्यात् । वैराग्यस बीजादिषु कथं विभावत्वम् ? तदुपायता(त्वा)दिति चेत्कारणकारणो(णे)ऽयं विभावताव्यवहारः । स चातिप्रसङ्गावहः । किञ्च निर्वेदो नाम सर्वत्रानुपादेयताप्रत्ययः वैराग्यलक्षणस्य च (णः । स च) तत्त्वज्ञानस्य प्रत्युक्तो(तो)पयोगी । विरक्तो हि तथा प्रयतते यथाऽस्य तत्त्वज्ञानमुत्पद्यते । तत्त्वज्ञानाद्धि मोक्षः । न तु तत्त्वं ज्ञात्वा निर्विद्यते निर्वेदाच्च मोक्ष इति । ‘वैराग्यात्प्रकृतिलयः ।’ इति हि तत्रभवन्तः (ई. कृ. सांख्यकारिका ४५) । ननु तत्त्वज्ञानिनः सर्वत्र दृढतरं वैराग्यं दृष्टम् । तत्रभवद्धिरप्युक्तं—‘तत्परं पुरुषख्यातेर्गुणवैतृष्णयम्’ इति (योगसूत्र-१-१६) । भवत्येवम् । तादृशं तु वैराग्यं ‘ज्ञानस्यैव परा काष्ठा ।’ इति (व्यासभाष्य-१-१६) भुजङ्गविभुनैव भगवताऽभ्यधायि । ततश्च तत्त्वज्ञानमेवेदं तत्त्वज्ञानमालया परिपोष्यमाणमिति न निर्वेदः स्थायी । किन्तु तत्त्वज्ञानमेव स्थायीति भवते । यत्तु व्यभिचारिव्याख्यानावसरे वक्ष्यते तच्चिरकालविभ्रमविप्रलब्धस्योपादेयत्वनिवृत्तये । यत्सम्यग्ज्ञानम्— यथा— ‘वृथा दुग्धोऽनङ्वांस्स्तनभरनता गौरिति परं परिष्वक्तः षण्ढो युवतिरिति लावण्यरहितः । कृता वैडूर्याशा विकचकिरणे काचशकले मया मूढेन त्वां कृपणमगुणज्ञं प्रणमता ॥’ इति 329तन्निर्वेदस्य खेदरूपस्य विभावत्वेन । एतच्च तत्रैव वक्ष्यामः । ननु मिथ्याज्ञानमूलो विषयगन्धस्तत्त्वज्ञानात्प्रशाम्यतीति दुःखजन्म

दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः । गौतम-न्याय-सूत्र-(१.१२)

सूत्रेणा—क्षपादपादैर्वदद्भिर्मिथ्याज्ञानापचयकारणं तत्वज्ञानं वैराग्यस्य दोषापायलक्षणस्य कारणमुक्तम् । ननु ततः किम् ? ननु वैराग्यं निर्वेदः ? क एवमाह ? निर्वेदो हि शोकुप्रवाहप्रसररूपश्चिमत्तवृत्तिविशेषः । वैराग्यं तु रागादीनां प्रध्वंसः । भवतु वा वैराग्यमेव निर्वेदः । तथापि तस्य स्वकारणवशान्मध्यभाविनोऽपि न मोक्षे साध्ये सूत्रस्थानीयता प्रत्यपादि आचार्येण । किञ्च तत्त्वज्ञानोत्थितो निर्वेद इति शमस्यैवेदं निर्वेदनाम कृतं स्यात् । न च शमशान्तयोः पर्यायत्वमाशङ्कनीयम् । हासहास्ययोरिव सिद्धसाध्यतया लौकिकालौकिकतया साधारणासाधारणतया च वैलक्षण्यात् । शमशान्तयोरपि सुलभमेव तस्मान्न निर्वेदः स्थायीति । अन्ये मन्यन्ते रत्यादय एवाष्टौ चित्तवृत्तिविशेषा उक्ताः । त एव कथितविभावविविक्तया(तया) श्रुता(त्या)द्यलौकिकविभावविशेषसंश्रया विचित्रा एव तावत् । ततश्च तन्मध्यादेवान्यतमोऽत्र स्थायी । तत्राना(व्या)हतानन्दमयस्वात्मविषया रतिरेव मोक्षसाधनमिति सैव शास्त्रे रतिस्थायी । यथोक्तम्— ‘यश्चात्मरतिरेव स्यादात्मतृप्तश्च मानवः । आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते ॥’ (गीता ३-१७) एवं समस्तविषयं वैकृतं पश्यतो विश्वं च शोच्यं विलोकयतः सांसारिकं च वृत्तान्तमपकारित्वेन पश्यतः सातिशयमसम्मोहप्रधानं वीर्यमाश्रितवतः सर्वस्माद्विषयसार्था द्बिभ्यतः सर्वलोकस्पृहणीयादपि प्रमदादेर्जुगुप्समानस्यापूर्वस्वात्मातिशयलाभाद्वि330स्मयमानस्य मोक्षसिद्धिरिति । ( रतिहासादीनां विस्मयान्तानामन्यतमस्य स्थायित्वं निरूपणीयम् । न चैतन्मुनेर्न सम्मतम् । यावदेव हि विशिष्टान् भावान्परिगणयति रत्यादिशब्देन च तत्प्रकारानेवान्यान्संगृह्णीते तावदेव तद्व्यतिरिक्तालौकिकहेतूपनतानां रत्यादीनामनुजानात्येवापवर्गविषयत्वम् । एवंवादिनां तु परस्परमेव विशारयतामेकस्य स्थायित्वं विशीर्यत एव । तदपायभेदात्तस्य तस्य स्थायित्वमित्यप्युच्यमानं प्रत्युक्तमेव । स्थायिभेदेन प्रतिपुरुषं रसस्याप्यनन्त्यापत्तेः । मोक्षैकफल त्वादेको रस इति चेत् । क्षयैकफलत्वे वीररौद्रयोरप्येकत्वं स्यात् । अन्ये तु पानकरसवदविभागं प्राप्ताः सर्व एव रत्यादयोऽत्र स्थायिन इत्याहुः । चित्तवृत्तीनामयुगपद्भावादन्योन्यं च विरोधादेतदपि न मनोज्ञम् । कस्तर्ह्यत्र स्थायी । उच्यते—इह तत्त्वज्ञानमेव तावन्मोक्षसाधनमिति तस्यैव मोक्षे स्थायिता युक्ता । तत्वज्ञानं च नामात्मज्ञानमेव ।

आत्मनश्च व्यतिरिक्तस्य विषयस्येव ज्ञानम् आत्मनश्च(श्चा)व्यतिरिक्तमिन्द्रिय(क्तं स्याद)स्यैव ज्ञानम् ? परो ह्येवमात्माऽनात्मैव स्यात् । विपञ्चितं चैतदस्मद्गुरुभिः । अस्माभिश्चान्यत्र वितन्यत इतीह नातिनिर्बन्धः कृतः । तेनात्मैव ज्ञानान्दादिविशुद्धधर्मयोगी परिकल्पितविषयोपरागरहितोऽत्र स्थायी । न चास्य स्थायितयास्थायित्वं वचनीयम् । रत्यादयो हि तत्तत्कारणान्तरोदयप्रलयोत्पद्यमाननिरुध्यमानवृत्तयः कञ्चित्कालमापेक्षिकतया स्थायिरूपात्मभित्तिसंश्रयाः षट्(सन्तः) स्थायिन इत्युच्यन्ते । तत्त्वज्ञानं तु सकलभावान्तरभित्तिस्थानीयं सर्वस्थायिभ्यः स्थायितमं सर्वाः रत्यादिकास्स्थायिचित्तवृत्तीर्व्यभिचारीभावयत् निसर्गत एव सिद्धस्थायिभावमिति तन्त्रवचनेन । अत एव पृथगस्य गणना न युक्ता । न हि खण्डमुण्डयोमर्मध्ये तृतीयं गोत्वमिति गण्यते । तेनैकान्न(नैकोन)पञ्चाशद्भावा इत्यव्याहतमेव ।

अस्यापि कथं (न) पृथग्गणनेति चेत्-पृथगास्वाद(दा)योगादिति ब्रूमहे । न हि रत्यादय इवेतरासम्पृक्तेन वपुषा तथाविधमात्मरूपं लौकिकप्रतीतिगोचरः (रम् ।) स्वगतमप्यविकल्परूपं व्युत्थानावसरेऽनुसन्धीयमानं चित्तवृत्त्यन्तरकलुषमेवावभाति । भासतां वा लोके तथा । तथापि न सम्भवन्मात्र स्थायिनां गणनम् । रसेषूक्तेष्वनुपयोगात् । अपि तु व्यभिचारित्वाल्लक्षणीयत्वं नेति विज्ञायते । तथाह्येकान्न(ह्येकोन)पञ्चाशत्ता भावैरित्येतत्प्रघट्टकोपपत्तिः । न चास्यात्मस्वभावस्य व्यभिचारित्वमसम्भवादवौचित्र्यावहत्वादनौचित्याच्च । शमआत्मस्वभावः स शम शब्देन मुनिना व्यपदिष्टः । यदि तु स एव शमशब्देन व्यपदिश्यते निर्वेदशब्देन वा तन्न कश्चिद्बधः । केवलं शमाश्चित्तवृत्यन्तरम् । निर्वेदोऽपि दारिद्र्यादिविभावान्तरोत्थितनिर्वेदतुल्यजातीयो न भवति तज्जातीय एव । हेतुभेदेऽपि तद्व्यपदेश्यो रतिभयादिरिव । तदिदमात्मस्वरूपमेव तत्त्वज्ञानं शमः । तथा च यत्कालुष्योपरागविशेषा एवात्मनो रत्यादयः । तदनुगमेऽपि विशुद्धमस्य रूपमव्यवधानसमाधिबलादधिशय्य व्युत्थानेऽपि प्रशान्तता भवति । यथोक्तं ‘(तस्य) प्रशान्तवाहिता संस्कारात्’ (योगसू. ३.१०) इति । तत्त्वज्ञानलक्षणस्य च स्थायिनः समस्तोऽयं लौकिकालौकिकचित्तवृत्तिकलापो व्यभिचारितामभ्येति । तदनुभावा एव च यमनिमाद्युपकृता अनुभावा उपाङ्गाभिनयाद्य ध्यायत्रये च ये स्वभावाभिनया वक्ष्यन्ते । अत एते एतद्विषया एव । अयमेव हि स्वभावः । विभावा अपि कथं ईश्वरानुग्रहप्रभृतयः प्रक्षयो न्मुखाश्च रत्यादयोऽत्रास्वद्यान्ते । केवलं यथा विप्रलम्भे औत्सुक्यं संभोगेऽपि वा ‘प्रेमासमाप्तोत्सवम्’ (तापसवत्सराज. १-१७) इति, यथा च रौद्रे औग्र्यं; यथा च करुणवीरभयानकाद्भुतेषु निर्वेदधृतित्रासहर्षा व्यभिचारिणोऽपि प्राधान्येनावभासन्ते तथा शान्ते जुगुप्साद्याः , सर्वथैव रागप्रतिपक्षत्वात् । तथा हि-महाव्रते नृकपालादिधारणम्—असु भार्यादिसम्बन्धा दि विस्तारसंक्षेपादिकर्मीकृतिर्हि धर्मे (?) जुगुप्साहेतुत्वेनैव । निजाभ्यञ्जन देवरात्पुत्रजन्मान्युपदिष्टम् । स्वात्मनि च कृतकृत्यस्य परार्थघटनायामेवोद्यम इत्युत्साहोऽस्य परोपकारविषयेच्छाप्रयत्नरूपो दयापरपर्यायोऽभ्यधिकोऽन्तरङ्गः । अत एव (एतद्व्याभिचारिबलात् ?) केचिद्दयावीरत्वेन व्यपदिशन्ति । अन्ये धर्मवीरत्वेन । ननूत्साहोऽहङ्कारप्राणः । शान्तस्त्वहङ्कारशै थिल्यात्मकः । व्यभिचारित्वं हि विरुद्धस्यापि न नोचितं रताविव निर्वेदादेः । ‘शय्या शाद्वलम्’ (आसनं शुचि शिला सद्म द्रुमाणामधः शीतं निर्झरवारि पानमशनं कन्दाः सहाया मृगाः । इत्यप्रार्थितसर्वलभ्यविभवे दोषोऽयमेको वने दुष्प्रापार्थिनि यत्परार्थघटनावन्ध्यैर्वृथा स्थीयते ॥) (नागानन्द. ४.२) इत्यादौ हि परोपकारकरणे ह्युत्साहस्यैव प्रकर्षो लक्ष्यते । न तूत्साहशून्या काचिदप्यवस्था । इच्छाप्रयन्तव्यतिरेकेण पाषाणतापत्तेः । यत एव परिदृष्ट परावरत्वेन स्वात्मोद्देशेन कर्तव्यान्तरं नावाशिष्यते अत एव शान्तहृदयानां परोपकाराय शरीरसर्वस्वादिदानं न शास्त्र विरोधि । ‘आत्मानं गोपायेत्’ (गौतमधर्मसूत्र ९.३५) इत्यादिना ह्यकृतकृत्यविषयं शरीररक्षण मुपदिश्यते । सन्न्यासिनां तद्रक्षादितात्पर्याभावात् । तथा हि— ‘धर्मार्थकाममोक्षाणां प्राणाः संस्थितिहेतवः तान्निघ्नता किन्न हतं रक्षता किं न रक्षितम् ॥’ (हितोपदेश-१.८३) इति । सुप्रसिद्धचतुर्वर्गसाधकत्वमेव देहरक्षायाः निदानं दर्शितम् । कृतकृत्यस्य ‘जलेऽग्नौ श्वभ्रे वा पतेत्’ इति सन्न्यासित्वे श्रवणात् । तद् यथाकथञ्चित्त्याज्यं शरीरं यदि परार्थ त त्त्यज्यते तत्किमिव न सम्पादितं भवति । जीमूतवाहनादीनां न यतित्वमिति चेत् किं तेन नः? तत्त्वज्ञानित्वं तावदवश्यमस्ति । अन्यथा देहात्ममानिनां देह एव सर्वस्वभूते धर्माद्यनुद्देशेन परार्थे त्यागस्यासम्भ वात् । युद्धेऽपि हि न वीरस्य देह त्यागायोद्यमः । परा वज योद्देशेनैव प्रवृत्तेः । भृगुपतनादावपि शुभतरदेहान्तरसम्पिपादयिषैवाधिकं विजृम्भते । तत्स्वार्थानुद्देशेन परार्थसम्पत्त्यै यद्यच्चेष्टितं देहत्यागपर्यन्तमुपदेशदानादि तत्तदलब्धात्मतत्त्वज्ञानानामसम्भाव्यमेवेति तेऽपि तत्त्वज्ञानिनः । ‘ज्ञानिनां सर्वेष्वाश्रमेषु मुक्तिः’ इति स्मार्तेषु श्रुतौ च । यथोक्तम्— ‘देवार्चनरतस्तत्त्वज्ञाननिष्ठोऽतिथिप्रियः । श्राद्धं कृत्वा ददद्द्रव्यं गृहस्थोऽपि हि मुच्यते ॥’ इति । केवलं परार्थाभिसन्धिजाद्धर्मात्परोपकारात्मकफलत्वेनैवाभिसंहितात् पुनरपि देहस्य तदुचितस्यैव प्रादुर्भावो बोधिसत्त्वादीनां तत्त्वज्ञानिनामपि । दृष्टश्चाङ्गेष्वपि विश्रान्तिलाभः, स्वभावौचित्यात् । यथा रामस्य वीराङ्गे पितुराज्ञां पालयितुः । एवं शृङ्गाराद्यङ्गेष्वपि मन्तव्यम् । अत एव शान्तस्य स्थायित्वेऽप्यप्राधान्यम् । जीमूतवाहने त्रिवर्गसम्पत्तेरेव परोपकृतिप्रधानायाः फलत्वात् । अनेनैवाशयेन नाटकलक्षणे वक्ष्यते ‘ऋद्धिविलासादिभिर्गुणैः’ (ना. शा. १८-११) इति । अनेन हि ऋद्धिविलासप्रधानमर्थकामोत्तरं सर्वं चरितं सकललोकहृदयसंवादसुन्दरप्रयोजनं नाटके निवेशयितव्यमित्युक्तम् । एतच्च तत्रैव वर्णयिष्यामः । अनेनैव चाशयेन न शान्ते कश्चन मुनिना जात्यङ्गको विनियोक्ष्यते (ना शा. २९. १-४) । तेन जात्यङ्गकविनियोगाभावात्तदसत्त्वमिति प्रत्युक्तम् । अन्ये तु जीमूतवाहनः ‘कस्ते पुत्र त्राता भविष्यति’ (नागनन्द. ४-९) इति शरणार्थिनीं वृद्धामेव त्रातवान् । शक्तिश्चास्य न काचित् । परहिंसा च न काचिदित्येवमाहुः । तच्चानुमतमेव (तच्चासङ्गतमेव?) । न हि बोधिसत्त्वानां पुनरप्युत्थानात्मकजीवितमभिसन्धानानुप्रविष्टं शक्ति (श्चोदेति)। न च काकतालीयवृत्त्या शास्त्रमुपदिशति । तत्सिद्ध दयालक्षणो ह्युत्साहोऽत्र प्रधानम् । अन्ये तु व्यभिचारिणो यथायोगं भवन्ति । यथोक्तं ‘तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः ।’ (योगसू. ४.२-७) इति । अत एव निश्चेष्टत्वादनुभावाभाव इति प्रत्युक्तम् । यदा तु पर्यन्तभूमिकालाभेऽनु भावाभावस्तदास्यारप्रयोज्यत्वम् । रतिशोकादावपि पर्यन्तदशायामप्रयोगस्यैव युक्तत्वात् । हृदयसंवादोऽपि तथाविधतत्त्वज्ञानबीजसंस्कारभावितानां भवत्येव । यद्वक्ष्यति—‘मोक्षे चापि विरागिणः’ (ना. शा. २७-५८) इति । ‘सर्वस्य न सर्वत्र हृदयसंवादो भयानके वीरप्रकृतेरभावात् । ननु तादृशि प्रयोगे वीरस्य क आस्वादः । उच्यते—यत्रेयं(त्रायं) निबध्यते तत्रावश्यं पुरुषार्थोपयोगि शृङ्गारवीराद्यन्यतममस्त्येव । तन्निष्ठस्तेषामास्वादः । यत्रापि प्रहसनादौ हास्यादेः प्रधानता तत्राप्यनुनिष्पादित रसान्तरनिष्ठ एवास्वादः । भिन्नभिन्नधिकार्यास्वादोद्देश एव रूपकभेद चिन्तननिमित्तमिति केचित् । तस्मादस्ति शान्तो रसः । तथा च चिरन्तनपुस्तकेषु ‘स्थायिभावान् रसत्वमुपनेष्यामः’ (ना.शा.पु. २९९) इत्यनन्तरं शान्तो नाम शमस्थायिभावात्मकः (ना. शापु. ३३२) इत्यादिशान्तलक्षणं पठ्यते । तत्र सर्वरसानां शान्तप्राय एवास्वादो विषयेभ्यो विपरिवृत्त्याऽतर्न्मुखतालाभात्केवलं वासनान्तरोपहित इत्यस्य सर्वप्रकृतित्वाभिधानाय पूर्वमभिधानम् । लोके च पृथक्पृथक्सामान्यस्य न गणनमिति स्थाय्यस्य पृथङ्नोक्तः । सामान्यमपि तु विवेचकेन पृथगेव गणनीयमिति विवेचकाभिमतसामाजिकास्वादलक्षणप्रतीतिविषयतया स पृथग्भूत एव । इतिहासपुराणाभिधानकोशादौ च नव रसाः श्रूयन्ते श्रीमत्सिद्धान्तशास्त्रेष्वपि । तथा चोक्तम्— ‘अष्टानामिह देवानां शृङ्गारादीन् प्रदर्शयेत् । मध्ये च देवदेवस्य शान्तं रूपं प्रकल्पयेत् ॥’ (इति) । तस्य च वैराग्यसंसारभीरुतादयो विभावाः । स हि तैरुपनिबद्धैर्विज्ञायते । मोक्षशास्त्रचिन्तादयोऽनुभावाः । निर्वेदमतिस्मृतिधृत्यादयो व्यभिचारिणः । अत एवेश्वरप्रणिधानविषये भक्तिश्रद्धे स्मृतिमतिधृत्युत्साहाद्य नुप्रविष्टेभ्योऽन्यथैवा (स्यैवा)ङ्गमिति न तयोः पृथग्रसत्वेन गणनम् । अत्र सङ्ग्रहकारिका— मोक्षाध्यात्मनिमित्तस्तत्त्वज्ञानार्थहेतुसंयुक्तः । निःश्रेयसधर्मयुतः शान्तरसो नाम विज्ञेयः ॥ विभावस्थाय्यनुभावयोगः क्रमाद्विशेषणत्रयेण दर्शितः । स्वं स्वं निमित्तमा साद्य शान्ताद्भावः प्रवर्तते । पुनर्निमित्तापाये तु शान्त एव प्रलीयते ॥ इत्यादिना रसान्तरप्रकृतित्वमुपसंहृतम् । यत्तु डिमे ‘शृङ्गारहास्यवर्जं’ हास्यशृङ्गारपरिहारेण षड्रसत्वं च वक्ष्यते तत्रायं भावः । ‘दीप्तरसकाव्ययोनिः’ (ना. शा. १८-८५) इति भाविना लक्षणेन रौद्रप्रधाने तावड्डिमे तद्विरुद्धस्य शान्तस्य सम्भावनैव न । किं निषेधेन? शान्तासम्भवे तु दीप्तरसकाव्ययोनिरित्येतेन किं व्यवच्छेद्यम् । ‘शृङ्गारहास्यवर्ज षड्रसयुक्तः’ (ना. शा. १८-८४) इति ह्युक्ते कस्तत्र प्रसङ्गः ।

ननु करुणबीभत्सभयानकप्राधान्यमनेन पादेन व्यवच्छेद्यते । नैतत् । ‘सात्त्वत्यारभटीवृत्तिसम्पन्नः’ (१८-८८) इत्यनेनैव तन्निरासात् । शान्ते तु सात्त्वत्येव वृत्तिरिति न (?) तद्व्यवच्छेदकमेवैतत् । तेन डिमलक्षणं प्रत्युत शान्तरसस्य सद्भावे लिङ्गम् । शृङ्गारस्तु प्रसभं सेव्यमानः सम्भाव्य एव । तदङ्गं च हास्य इति तयोरेव प्रतिषेधः कृतः प्राप्तत्वात् । स सर्वसाम्याच्च विशेषतो वर्णदेवताभिधानमनुचितमप्यस्य तत्कल्पितमिति ज्ञेयम् । उत्पत्तिस्तु शान्तस्यापि दर्शितैव । सत्त्वाभावो हि हास्यः । सहविभाव त्वेन चास्य वीरबीभत्सौ । अत एवास्य रसस्य यमनियमेश्वरप्रणिधानाद्युपदेशः अनुपयो(भो)गितया महाफलत्वं सर्वप्राधान्यमितिवृत्तव्यापकत्वं चोपपन्नमित्यलमतिप्रसङ्गेन । तत्त्वास्वादोऽस्य कीदृशः? उच्यते—उपरागदायिभिरुत्साहरत्यादिभिरुपरक्तं यदात्मस्वरूपं तदेव विरलोम्भितरत्नान्तरालनिर्भासमानसिततर सूत्रव दाभातस्वरूपं 335सकलेषु रत्यादिषूपरञ्जकेषु तथाभावेनापि सकृद्विभातोऽयमात्मेति न्यायेन भासमानं परो न्मुखतात्मसकलदुःखजालहीनं परमानन्दलाभसंविदेकत्वेन काव्यप्रयोगप्रबन्धाभ्यां साधारणतया निर्भासमानमन्तर्मुखावस्थाभेदेन लोकोत्तरानन्दघनं तथाविधहृदयं विधत्त इति । एवं ते नवैव रसाः । पुमर्थोपयोगित्वेन रञ्जनाधिक्येन वा इयतामेवोपदेश्यत्वात् । तेन रसान्तरसंभवेऽपि पार्षदप्रसिद्ध्या सङ्ख्यानियम इति यदन्यैरुक्तं तत्प्रत्युक्तम् । भावाध्यायेऽपि चैतद्वक्ष्यते । आर्द्रतास्थायिकः स्नेहो रस इति त्वसत् । स्नेहो ह्यभिषङ्गः । स च सर्वो रत्युत्साहादावेव पर्यवस्यति । तथा हि—बालस्य मातापित्रादौ स्नेहो भये विश्रान्तः । यूनोर्मित्रजने रतौ । लक्ष्मणादेः भ्रातरि स्नेहो धर्मवीर एव । एवं वृद्धस्य पुत्रादाविति द्रष्टव्यम् । एषैव गर्ध स्थायिकस्य लौल्यरसस्य प्रत्याख्याने सरणिर्मन्तव्या । हासे वा रतौ वान्यत्र पर्यवसानात् । एवं भक्तावपि वाच्यमिति । अध्यायार्थमुपसंहरन् भाविनोऽवकाशं ददत्सङ्गतिं प्रकटीकर्तुमाह—एवमेते रसा ज्ञेया नवेति (स्त्वष्टाविति) । रसवद्गीतमित्यादिव्यपदेशात् स्तूयते । स (शास्तु ये ते रस? मूला एवोपचारा इति दर्शयति—लक्षणलक्षिता इति । भावानामपि लक्षणं रसलक्षणमेव पूरयति । विभावव्यभिचार्यनुभावलक्षणेन रसलक्षणमेव पूर्यते । रतिस्थायिभावप्रभवः ऋतुमाल्यादिविभावको नयनचातुर्याद्यनुभावक इत्युक्तमपि साकाङ्क्षमेव । कीदृशी हि रतिः कश्च विभावः कश्चानुभावः । तेन यद्यप्यापाततो भावानां लक्षणमिदं प्रतिभाति महाचार्या (साहचर्यात्) तथापि वाक्यैकवाक्यतया रसलक्षणमेवेदमित्यपिशब्दस्यार्थ इति शिवम् ।

इ(र)त्यादिशक्त्यष्टकमध्यवृत्तिर्यस्य स्वहृन्मण्डलसम्प्रयोज्या(ज्यः)। स्थायी शिवश्चेतसि तेन वृत्तिः कृता रसाध्याय इह क्रमेण ॥

इति श्रीमहामाहेश्वराभिनवगुप्तविरचितायां नाट्यवेदविवृतावभिनवभारत्यां रसाध्यायः षष्ठः समाप्तः।