प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← प्रथमैकरात्रे, अध्यायः १४ नारदपञ्चरात्रम्‌
अध्यायः १५
[[लेखकः :|]]

प्रथमैकरात्रे पञ्चदशोऽध्यायः
गते नियमिते काले गन्धर्वश्चोपवर्हणः ।
स्वयोगेन जहौ देहं भारते प्राक्तनादहो ।। १५.१ ।।

स जज्ञे शुद्रयोनौ च पितुः शापेन च दैवतः ।
विष्णुप्रसादं भुक्त्वा च बभूव ब्रह्मणः सुतः ।। १५.२ ।।

विमुक्तस्तातशापेन सम्प्राप्य ज्ञानं उत्तमं ।
प्रतिजन्मस्मृतिस्तस्य कृष्णमन्त्रप्रसादतः ।। १५.३ ।।

पितुः सकाशादागत्य सम्प्राप चन्द्रशेखराथ् ।
श्रीकृष्णमन्त्रं अतुलं स्वर्गमन्दाकिनीतटे ।। १५.४ ।।

स्वर्गमन्दाकिनीतीराद्गुरुणा शङ्करेण च ।
सहितः प्रययौ तूर्णं पार्वतीसन्निधानतः ।। १५.५ ।।

उवास तत्र शम्भुश्च नारदश्च महामुनिः ।
पार्वती भद्रकाली स्कन्दो गणपतिः स्वयं ।। १५.६ ।।

महाकालश्च नन्दी च वीरभद्रः प्रतापवान् ।
सिद्धा महर्षयश्च मुनयः सन्कादयः ।। १५.७ ।।

योगीन्द्रा ज्ञानिनः सर्वे समूचुः शम्भुसंसदि ।
यत्स्तोत्रं कवचं ध्यानं सुभद्राय च कानने ।। १५.८ ।।

नारायणर्षिभगवान्ब्राह्मणाय ददौ पुरा ।
पूजाविधानं यद्यच्च पुरश्चरणपूर्वकं ।। १५.९ ।।

तदेव भगवान्शम्भुः प्रददौ नारदाय च ।
उवाच शम्भुं देवर्षिर्योगिनां च गुरोर्गुरुं ।
पार्वतीसन्निधौ तत्र नारदश्च महामुनिः ।। १५.१० ।।

भगवन्सर्वधर्मज्ञ सर्वज्ञ सर्वकारण ।
सद्यत्पृष्टं मया पूर्वं तन्मां व्याख्यातुं अर्हसि ।। १५.११ ।।

यद्यत्पृष्टं त्वया ब्रह्मन्प्रत्येकं च क्रमेण च ।
पुनः प्रश्नं कुरु मुने शृण्वन्तु मत्सभासदः ।। १५.१२ ।।

आध्यात्मिकं च यज्ज्ञानं वेदानां सारं उत्तमं ।
ज्ञानं ज्ञानिषु सारं यत्कृष्णभक्तिप्रदं शुभं ।। १५.१३ ।।

निर्वाणमुक्तिदं ज्ञानं कर्ममूलनिकृन्तनं ।
तत्सिद्धियोगान्मुक्तिश्च योगिनां अपि वाञ्च्छितं ।। १५.१४ ।।

संसारविषयं ज्ञानं शश्वत्सम्मोहवेष्टितं ।
आश्रमाणां समाचारं तेषां धर्मपरिष्कृतं ।। १५.१५ ।।

चतुर्णां वर्णनां विधानां महेश्वर ।
भिक्षूणां वैष्णवानां च यतीनां ब्रह्मचारिणां ।। १५.१६ ।।

वानप्रस्थाश्रमाणां च पण्डितानां तथैव च ।
पतिव्रतानां यद्यच्च श्रीकृष्णपूजनं च यथ् ।। १५.१७ ।।

यत्स्तोत्रं कवचं मन्त्रं पुरश्चरणं ईप्सितं ।
सार्वाह्निकं अभीष्टं च विपाकं कर्मजीविनां ।। १५.१८ ।।

संसारवासनाबद्धं लक्षणं प्रकृतीशयोः ।
तयोः परं वा यद्ब्रह्म तस्यावतारवर्णनं ।। १५.१९ ।।

कस्तत्कलावतीर्णश्च कस्तदंशश्तथैव च ।
परिपूर्णतमः कश्च कः पूर्णः कः कलांशकः ।। १५.२० ।।

कस्य वाराधने शम्भो किं फलं किं यशस्तथा ।
अङ्गाङ्गिनोर्भेदफलं विस्तीर्णं निरपेक्षकं ।। १५.२१ ।।

नारायणर्षिकवचं सुभद्रब्राह्मणाय च ।
यद्दत्तं किं तद्देवेश तदाराध्यश्च कः सुरः ।। १५.२२ ।।

अतिसंगोपनीयं च कवचं परमाद्भुतं ।
सुदुर्लभं च विश्वेषु नोक्तं मां ब्रह्मणा पुरा ।। १५.२३ ।।

सनत्कुमारो जानाति नोक्तं तेन पुरा च मां ।
मया ज्ञानं अनापृष्टं यद्यज्जानासि मङ्गलं ।। १५.२४ ।।

वेदसारं अनुपमं कर्ममूलनिकृन्तनं ।
तन्मे कथय भद्रेश मां एवानुग्रहं कुरु ।। १५.२५ ।।

अपूर्वं राधिकाख्यानं वेदेषु च सुदुर्लभं ।
पुराणेष्वितिहासे च वेदाङ्गेषु सुदुर्लभं ।। १५.२६ ।।

गुरोश्च ज्ञानोदिगरणात्ज्ञानं स्यान्मन्त्रतन्त्रयोः ।
तत्तन्तं स च मन्त्रः स्यात्कृष्णभक्तिर्यतो भवेथ् ।। १५.२७ ।।

ज्ञानं स्याद्विदुषां किंचिद्वेदव्याख्यानतः प्रभो ।
वेदकारणपूज्यश्त्वं ज्ञानाधिष्ठातृदेवता ।। १५.२८ ।।

तस्माद्भवान्परं ज्ञानं वद वेदविदां वर ।
मां भक्तं अनुरक्तं च शरणागतं ईश्वर ।। १५.२९ ।।

नारदस्य वचः श्रुत्वा योगिनां च गुरोर्गुरुः ।
भगवत्या सहालोच्य ज्ञानं वक्तुं समुद्यतः ।। १५.३० ।।

इत्येवं कथितं सर्वं पूर्वाख्यानं मनोहरं ।
हरिभक्तिप्रदं सर्वं कर्ममूलनिकृन्तनं ।। १५.३१ ।।

इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे
प्रथमैकरात्रे पञ्चदशोऽध्यायः
समाप्तश्चेदं नारदपञ्चरात्रैकरात्रम्