नारदपञ्चरात्रम्‌/प्रथमैकरात्रे/अध्यायः २

← प्रथमैकरात्रे, अध्यायः १ नारदपञ्चरात्रम्‌
अध्यायः २
[[लेखकः :|]]
प्रथमैकरात्रे, अध्यायः ३ →

प्रथमैकरात्रे द्वितीयोऽध्यायः
शुक उवाच
कुत्र वा पञ्चरात्रं च नारदस्य च धीमते ।
प्रदत्तं शम्भुना तात तन्मे व्याख्यातुं अर्हसि ।। २.१ ।।

अथ नारदस्य तपोवर्णनम्
व्यास उवाच
अधीत्य सर्वान्वेदांश्च वेदाङ्गाण्पितुरन्तिके ।
जगाम तीत्र्हं केदारं सुप्रशस्तं च भारते ।। २.२ ।।

हिमालयस्य पूर्वे य गङ्गातीरे मनोहरे ।
सिद्धे नारायणक्षेत्रे सर्वेषां अभिवाञ्च्छिते ।। २.३ ।।

तपश्चकार स मुनिर्दिव्यं वर्षसहस्रकं ।
पित्रोक्तेनैव विधिना सततं संयुतः शुचिः ।। २.४ ।।

शुश्रावाकाशवाणीं च तपसोऽन्ते महामुनिः ।
स्वल्पाक्षरां च बह्वर्थां परिणामसुखावहां ।। २.५ ।।

अथ नारदं प्रति दैववाणी
अशरीरिष्युवाच
आधारितो यदि हरिस्तपसा ततः किं ।
नाधारितो यदि हरिस्तपसा ततः किं ।
अन्तर्बहिर्यदि हरिस्तपसा ततः किं ।
नान्तर्बहिर्यदि हरिस्तपसा ततः किं ।। २.६ ।।

विरम विरम ब्रह्मन्किं तपस्यासु वत्स ।
व्रज व्रज द्विज शीघ्रं शङ्करं ज्ञानसिन्धुं ।
लभ लभ हरिभक्तिं वैष्णवोक्तां सुपक्वां ।
भवनिगडनिबन्धछेदिनीं कर्तनीं च ।। २.७ ।।

इति श्रुत्वा च स मुनिर्विमनाः स्वर्णदीतटे ।
चकारार्थानुसन्धानं न प्रसन्नं च तन्मनः ।। २.८ ।।

रुरोद स्वर्णदीतीरे स्मारं स्मारं हरेः पदं ।
ददर्श पुरतस्तातं ब्रह्माणं सकुमारकं ।। २.९ ।।

ननाम सहसा मूर्ध्ना पितरं तं सहोदरं ।
पाद्यं अर्घ्यं च प्रददौ जवेन सादरं मुनिः ।। २.१० ।।

श्लोकद्वयार्थं पप्रच्छ कुमारं जगतां विधिं ।
सुखासीनं सुस्थिरं च सस्मितं च गतश्रमं ।। २.११ ।।

स्वात्मारामं पूर्णकामं ज्ञानिनां च गुरोर्गुरुं ।
साश्रुनेत्रः पुलकितो भक्त्या प्रणतकन्धरं ।। २.१२ ।।

नारदस्य वचः श्रुत्वा दृष्ट्वा तं कातरं विधिः ।
पुत्रेण सार्द्धं आलोच्य व्याख्यां कर्तुं समारेभे ।। २.१३ ।।

अथ दैववाण्यर्थः
ब्रह्मोवाच
हे वत्स पूर्वश्लोकार्थं निगूढं श्रुतिसम्मतं ।
वेदार्थं द्विविधं शुद्धं व्याख्यां कुर्वन्ति वैदिकाः ।। २.१४ ।।

आराधितो यदि हरिर्येन पुंसा स्वभक्तितः ।
किं तस्य तपसा व्यर्थं तीर्थपूतस्य नारद ।। २.१५ ।।

कृष्णमन्त्रोपासकस्य जीवन्मुक्तस्य भारते ।
तपश्चोपहासबीजं तथा चर्वितचर्वणं ।। २.१६ ।।

मन्त्रग्रहणमात्रेण पुरुषाणां शतं सुत ।
पुनाति स्वस्वभक्तं च चान्धवंश्चावलीलया ।। २.१७ ।।

नहि धर्मो नहि तपः श्रीकृष्णसेवनात्परं ।
परिश्रमं च विफलं तपसा वैष्णवस्य च ।। २.१८ ।।

कृष्णमन्त्रोपासकस्य तीर्थपूतस्य पुत्रक ।
तीर्थस्नानं अनशनं वेदेषु च विडम्बनं ।। २.१९ ।।

पूर्वकर्मानुरोधेन यत्पापं वैष्णवस्य च ।
मन्त्रग्रहणमात्रेण नष्टं वह्नौ यथा तृणं ।। २.२० ।।

पवित्रः परमो वह्निः पवित्रं चामलं जलं ।
पवित्रं भारतं वर्षं तीर्थं यत्तुलसीदलं ।। २.२१ ।।

पुनाति लीलयैतानि शुद्धः कृष्णपरायणः ।
उपस्पर्श च भक्तस्याप्येते वाञ्च्छन्ति सादरं ।। २.२२ ।।

भक्तस्य पादरजसा सद्यः पूता वसुन्धरा ।
नहि पूतस्त्रिभुवने श्रीकृष्णसेवकात्परः ।। २.२३ ।।

शालिग्रामशिलाचक्रे करोति कृष्णपूजनं ।
तत्पादोदकनैवेद्यं नित्यं भुङ्क्ते च यः पुमान् ।। २.२४ ।।

स वैष्णवो महापूतस्तन्मन्त्रोपासकः शुचिः ।
पुनाति पुंसां शतकं जन्ममात्रात्सबान्धवं ।। २.२५ ।।

वत्स श्लोकस्यैकपादं व्याख्यातं च यथागमं ।
व्याख्यातं करोम्यन्यपादं यथाज्ञानं मिशामय ।। २.२६ ।।

नाराधितो यदि हरिर्येन पुंसाधमेन च ।
किं तस्य तपसा व्यर्थं निष्फलं तत्परिश्रमः ।। २.२७ ।।

व्रतान्येव हि दानानि तपांस्यनशनानि च ।
वेदोपयुक्ता यज्ञाश्च कर्माणि च शुभानि च ।
न निष्पुनात्यभक्तं च सुराकुम्भं इवापगा ।। २.२८ ।।

अभक्तस्पर्शमात्रेण तीर्थानि कम्पितानि च ।
अभक्तभारदुःखेन कम्पिता सा वसुन्धरा ।। २.२९ ।।

श्लोकार्धं कथितं वत्स किंचिदेव यथागमं ।
तस्यार्धस्यापि व्याख्यानं करोमीति निशामय ।। २.३० ।।

वेदसारं कृष्णमतं ममापि नहि कल्पना ।
अन्तर्बहिर्यदि हैर्येषां पुंसां महात्मनां ।। २.३१ ।।

स्वप्ने जागरणे शश्वत्तपस्तेषां च निष्फलं ।
स एव विष्णुतुल्यो हि तदंशो भारते मुने ।। २.३२ ।।

तस्य रक्षानिबन्धेन तदभ्यासे सुदर्शनं ।
ध्यानमात्रेण निष्पापः पुनाति भुवनत्रयं ।। २.३३ ।।

दत्वा चक्रं च रक्षार्थं न निश्चिन्तो जनार्दनः ।
स्वयं तन्निकटं याति द्रष्टुं रक्षणाय च ।। २.३४ ।।

तत्परो हि प्रियो नास्ति कृष्णस्य परमात्मनः ।
नहि भक्तात्परश्चात्मा प्राणाश्चावयवादयः ।
न लक्ष्मी राधिका वाणी स्वयंभुः शम्भुरेव च ।। २.३५ ।।

भक्तप्राणो हि कृष्णश्च कृष्णप्राणा हि वैष्णवाः ।
ध्यायन्ते वैष्णवाः कृष्णं कृष्णश्च वैष्णवांस्तथा ।। २.३६ ।।

व्याख्यातं च त्रिपादं च हे मुनीन्द्र यथागमं ।
शेषपादस्य व्याख्यानं करोमीति निशामय ।। २.३७ ।।

नान्तर्बहिर्यदि हरिर्येषां पुंसां च नारद ।
तेषां अपि तपो व्यर्थं अन्तर्मलिनचेतसां ।। २.३८ ।।

किं तज्ज्ञानेन तपसा व्रतेन नियमेन च ।
तीर्थस्नानेन पुण्येनापि अभक्तमूढचेतसां ।। २.३९ ।।

कृष्णभक्तिविहीनेभ्यो द्विजेभ्यः श्वपचो महान् ।
शूकरो म्लेच्छनिवहः स्वधर्माचरेण च ।। २.४० ।।

स्वधर्महीना विप्राश्चाप्यभक्ष्यभक्षणेन च ।
नित्यं नित्यं विधर्मेण पतिताः श्वपचाधमाः ।। २.४१ ।।

ब्रह्मणानां स्वधर्मश्च सन्ततं कृष्णसेवनं ।
नित्यं ते भुञ्जते सन्तस्तन्नैवेद्यं पादोदकं ।। २.४२ ।।

न दत्वा हरये यस्तु यदि भुङ्क्ते द्विजाधमः ।
अन्नं विष्ठासमं मूत्रसमं तोयं विदुर्बुधाः ।। २.४३ ।।

भुङ्क्ते स्वभक्ष्यं कोलश्च म्लेच्छश्च श्वपचाधमः ।
विप्रो नित्यं अभक्ष्यं च भुङ्क्ते च पतितस्ततः ।। २.४४ ।।

श्लोकं एकं च व्याख्यातं यथाज्ञानं च नारद ।
सन्निबोध परस्यार्धं व्याख्यानं च यथोचितं ।। २.४५ ।।

तपसो विरम ब्रह्मन्व्यर्थं भक्ततपो ध्रुवं ।
शङ्करश्च गुरुं कृत्वा हरिभक्तिं लभाचिरं ।। २.४६ ।।

सुपक्वा हरिभक्तिश्च तरणी भवतारणे ।
गुरुरेव परं ब्रह्म कर्णधारस्वरूपकः ।। २.४७ ।।

इत्येवं उक्त्वा त्वां देवी प्रजगाम सरस्वती ।
व्याख्यातस्तदभिप्रायः किं भूयः कथयामि ते ।। २.४८ ।।

ब्रह्माणश्च वचः श्रुत्वा जहास योगिनां गुरुः ।
सनत्कुमारो भगवानुवाच पितरं शुक ।। २.४९ ।।

सनत्कुमार उवाच
पूर्वश्लोकस्य व्याख्यानं न बुद्धं शिशुना मया ।
पुत्रं शिष्यं अबोधं च युक्तं बोधयितुं पुनः ।। २.५० ।।

आराधितो हरिर्येन तस्य व्यर्थं तपो यदि ।
नाराधितो हैर्येन तस्य व्यर्तं तपो यदि ।। २.५१ ।।

तस्यारहितौ तौ द्वौ तपसश्च स्थलं कुतः ।
तपः कुर्वन्ति ये तात त्वं मां बोधय बालकं ।। २.५२ ।।

पुत्रस्य वचनं श्रुत्वा सन्दिग्धो जगतां गुरुः ।
दध्यौ कृष्णपदाम्भोजं परं कल्पतरुं शुक ।। २.५३ ।।

क्षणं संचित्य पादाब्जं प्राप राद्धान्तं ईप्सितं ।
व्याख्यां कर्तुं समारेभे विधाता जगतां अपि ।। २.५४ ।।

अथ नैवेद्यप्रशंसा
ब्रह्मोवाच
धन्योऽहं भवतः पुत्रात्ज्ञानिनां च गुरोर्गुरोः ।
विष्णुभक्ताच्च धर्मिष्ठात्सत्पुत्राच्च पिता सुखी ।। २.५५ ।।

धन्योऽसि पण्डितोऽसि त्वं हरिभक्तोऽसि पुत्रक ।
ममापि सफलं जन्म जीवनं च त्वया बुध ।। २.५६ ।।

निबोध पूर्वश्लोकार्थं पुनर्व्याख्यां करोमि च ।
तथापि चेन्न सन्तोषो भवान्व्याख्यां करिष्यति ।। २.५७ ।।

आशब्दः सम्यगर्थे च राधितः प्राप्तवाचकः ।
संप्राप्तश्च हरिर्येन व्यर्थस्तस्य तपःश्रमः ।। २.५८ ।।

येन सम्यक्प्रकारेण संप्राप्तो हरिरीश्वरः ।
स्वप्ने ज्ञाने च ज्ञातस्तेषां व्यर्थस्तपःश्रमः ।। २.५९ ।।

श्रीकृष्णविमुखं मूढं द्विजं एव नराधमं ।
तीर्थं दानं तापः पुण्यं व्रतं नैव पुनाति तं ।। २.६० ।।

यश्च मूढतमो लोके यश्च भक्तिं परां गतः ।
तावुभौ सुखसेधेते तपः कुर्वन्ति मध्यमाः ।। २.६१ ।।

देवानन्यांश्च भजते हरिं जानाति तत्परः ।
तपः करोति तं प्राप्तुं आकाङ्क्षन्मध्यमो जनः ।। २.६२ ।।

प्राक्तनादनुरागी च गृही संसारसंवृतः ।
तपः करोति श्रीकृष्णपादपद्मार्थं ईप्सितं ।। २.६३ ।।

परं श्रीकृष्णभजनं ध्यानं तन्नामकीर्तनं ।
तत्पादोदकनैवेद्यभक्षणं सर्ववाञ्च्छितं ।। २.६४ ।।

अतीव मूढो विप्रश्च प्राक्तनाद्गुरुदोषतः ।
तामसो हि न जानाति श्रीकृष्णं त्रिगुणात्परं ।। २.६५ ।।

अज्ञानादथ वा ज्ञानात्सत्सङ्गादेव प्राक्तनाथ् ।
भुङ्क्ते नैवेद्यं ईशस्य कृष्णस्य परमात्मनः ।। २.६६ ।।

स च मुक्तो भवेत्पुत्र मुच्यते सर्वपातकाथ् ।
स याति दिव्ययानेन गोलोकं लोकं उत्तमं ।। २.६७ ।।

शृणु वत्स प्रवक्ष्यामि पूर्वाख्यानं पुरातनं ।
अतीव सुश्रवं चारु मधुरं मुक्तिदं परं ।। २.६८ ।।

कान्यकुब्जः सुक्षुब्धश्च ब्राह्मणो ग्रामयाजकः ।
देवलो वृषवाहश्च महामूढश्च पातकी ।। २.६९ ।।

स्वप्ने ज्ञाने न जानाति पुण्यं वा कृष्णपूजनं ।
कृष्णभक्तसहालापदर्शनस्पर्शनं शुभं ।। २.७० ।।

बभूव प्राक्तनात्तस्य क्षणमात्रं सुदुर्लभं ।
तेन पुण्येन नैवेद्यं लेभे कृष्णस्य ब्राह्मणः ।। २.७१ ।।

पितुः पुण्येन पुत्रश्च मार्गे पतितं अल्पकं ।
स्वयं भुक्तावशेषं च पतितं वैष्णवाज्जनाथ् ।। २.७२ ।।

सुस्निग्धाक्षतजीर्णं च रजसा मिश्रितं परं ।
गच्छतस्तत्र विप्रस्य पतितं भक्ष्यवस्तु च ।। २.७३ ।।

नैवेद्योपरि कृष्णस्य त्वरायुक्तस्य पुत्रक ।
तद्वस्तु भुक्तं विप्रेण कृष्णनैवेद्यमिश्रितं ।। २.७४ ।।

सपुत्रेण क्षुधार्तेन तौ ययतुर्गृहं ।
विप्रोच्छिष्टं च बुभुजे तस्य पत्नी पतिव्रता ।। २.७५ ।।

परम्परानुसंबन्धात्पवित्रा सा बभूव ह ।
जीवन्मुक्तो ब्राह्मणश्च बभूव स सपुत्रकः ।। २.७६ ।।

कालेन तेन पुण्येन व्याघ्रभुक्तश्च कानने ।
सार्धं च व्याघ्रपुत्राभ्यां गोलोकं प्रययौ द्विज ।
पतिव्रता सहमृता भर्ता सार्धं जगाम सा ।। २.७७ ।।

इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे प्रथमैकरात्रे ब्रह्मसनत्कुमारसंवादे नैवेद्यप्रशंसनं नाम द्वितीयोऽध्यायः