प्रमुखा विकल्पसूचिः उद्घाट्यताम्
नारायण कवचं
विष्णुस्तोत्राणि
[[लेखकः :|]]

राजोवाच ।
यया गुप्तः सहस्राक्षः सवाहान्रिपुसैनिकान् ।
क्रीडन्निव विनिर्जित्य त्रिलोक्या बुभुजे श्रियम् ॥ १॥

भगवंस्तन्ममाख्याहि वर्म नारायणात्मकम् ।
यथाऽऽततायिनः शत्रून् येन गुप्तोऽजयन्मृधे ॥ २॥

श्रीशुक उवाच ।
वृतः पुरोहितस्त्वाष्ट्रो महेन्द्रायानुपृच्छते ।
नारायणाख्यं वर्माह तदिहैकमनाः शृणु ॥ ३॥

विश्वरूप उवाच ।
धौताण्घ्रिपाणिराचम्य सपवित्र उदण्मुखः ।
कृतस्वाण्गकरन्यासो मन्त्राभ्यां वाग्यतः शुचिः ॥ ४॥

नारायणमयं वर्म सन्नह्येद्भय आगते ।
पादयोर्जानुनोरूर्वोरुदरे हृद्यथोरसि ॥ ५॥

मुखे शिरस्यानुपूर्व्यादोंकारादीनि विन्यसेत् ।
ॐ नमो नारायणायेति विपर्ययमथापि वा ॥ ६॥
 
करन्यासं ततः कुर्याद्द्वादशाक्षरविद्यया ।
प्रणवादियकारान्तमण्गुल्यण्गुष्ठपर्वसु ॥ ७॥
 
न्यसेद्धृदय ॐकारं विकारमनु मूर्धनि ।
षकारं तु भ्रुवोर्मध्ये णकारं शिखया दिशेत् ॥ ८॥

वेकारं नेत्रयोर्युJण्ज्यान्नकारं सर्वसन्धिषु ।
मकारमस्त्रमुद्दिश्य मन्त्रमूर्तिर्भवेद्बुधः ॥ ९॥

सविसर्गं फडन्तं तत् सर्वदिक्षु विनिर्दिशेत् ।
ॐ विष्णवे नम इति ॥ १०॥

आत्मानं परमं ध्यायेद्ध्येयं षट्शक्तिभिर्युतम् ।
विद्यातेजस्तपोमूर्तिमिमं मन्त्रमुदाहरेत् ॥ ११॥

ॐ हरिर्विदध्यान्मम सर्वरक्षां
        न्यस्ताण्घ्रिपद्मः पतगेन्द्रपृष्ठे ।
दरारिचर्मासिगदेषुचाप-
        पाशान्दधानोऽष्टगुणोऽष्टबाहुः ॥ १२॥
 
जलेषु मां रक्षतु मत्स्यमूर्ति-
         र्यादोगणेभ्यो वरुणस्य पाशात् ।
स्थलेषु मायावटुवामनोऽव्यात्
        त्रिविक्रमः खेऽवतु विश्वरूपः ॥ १३॥
 
दुर्गेष्वटव्याजिमुखादिषु प्रभुः
        पायान्नृसिंहोऽसुरयूथपारिः ।
विमुJण्चतो यस्य महाट्टहासं
        दिशो विनेदुर्न्यपतंश्च गर्भाः ॥ १४॥
 
रक्षत्वसौ माध्वनि यज्ञकल्पः
           स्वदंष्ट्रयोन्नीतधरो वराहः ।
रामोऽद्रिकूटेष्वथ विप्रवासे
            सलक्ष्मणोऽव्याद्भरताग्रजोऽस्मान् ॥ १५॥

मामुग्रधर्मादखिलात्प्रमादा-
           न्नारायणः पातु नरश्च हासात् ।
दत्तस्त्वयोगादथ योगनाथः
           पायाद्गुणेशः कपिलः कर्मबन्धात् ॥ १६॥
 
सनत्कुमारोऽवतु कामदेवा-
          द्धयशीर्षा मां पथि देवहेलनात् ।
देवर्षिवर्यः पुरुषार्चनान्तरात्
          कूर्मो हरिर्मां निरयादशेषात् ॥ १७॥
 
धन्वन्तरिर्भगवान्पात्वपथ्या-
         द्द्वन्द्वाद्भयादृषभो निर्जितात्मा ।
यज्ञश्च लोकादवताJण्जनान्ता-
         द्बलो गणात्क्रोधवशादहीन्द्रः ॥ १८॥
 
द्वैपायनो भगवानप्रबोधा-
         द्बुद्धस्तु पाखण्डगणप्रमादात् ।
कल्किः कलेः कालमलात्प्रपातु
         धर्मावनायोरुकृतावतारः ॥ १९॥
 
मां केशवो गदया प्रातरव्या-
         द्गोविन्द आसण्गवमात्तवेणुः ।
नारायणः प्राह्ण उदात्तशक्ति-
         र्मध्यन्दिने विष्णुररीन्द्रपाणिः ॥ २०॥
 
देवोऽपराह्णे मधुहोग्रधन्वा
         सायं त्रिधामावतु माधवो माम् ।
दोषे हृषीकेश उतार्धरात्रे
         निशीथ एकोऽवतु पद्मनाभः ॥ २१॥
 
श्रीवत्सधामापररात्र ईशः
         प्रत्युष ईशोऽसिधरो जनार्दनः ।
दामोदरोऽव्यादनुसन्ध्यं प्रभाते
         विश्वेश्वरो भगवान् कालमूर्तिः ॥ २२॥
 
चक्रं युगान्तानलतिग्मनेमि
         भ्रमत्समन्ताद्भगवत्प्रयुक्तम् ।
दन्दग्धि दन्दग्ध्यरिसैन्यमाशु
         कक्षं यथा वातसखो हुताशः ॥ २३॥
 
गदेऽशनिस्पर्शनविस्फुलिण्गे
         निष्पिण्ढि निष्पिण्ढ्यजितप्रियासि ।
कूष्माण्डवैनायकयक्षरक्षो-
         भूतग्रहांश्चूर्णय चूर्णयारीन् ॥ २४॥
 
त्वं यातुधानप्रमथप्रेतमातृ-
         पिशाचविप्रग्रहघोरदृष्टीन् ।
दरेन्द्र विद्रावय कृष्णपूरितो
         भीमस्वनोऽरेहृ।र्दयानि कम्पयन् ॥ २५॥
 
त्वं तिग्मधारासिवरारिसैन्य-
         मीशप्रयुक्तो मम छिन्धि छिन्धि ।
चक्षूंषि चर्मJण्छतचन्द्र छादय
         द्विषामघोनां हर पापचक्षुषाम् ॥ २६॥
 
यन्नो भयं ग्रहेभ्योऽभूत्केतुभ्यो नृभ्य एव च ।
सरीसृपेभ्यो दंष्ट्रिभ्यो भूतेभ्योंऽहोभ्य वा ॥ २७ ॥

सर्वाण्येतानि भगवन्नामरूपास्त्रकीर्तनात् ।
प्रयान्तु संक्षयं सद्यो ये नः श्रेयःप्रतीपकाः ॥ २८॥
 
गरुडो भगवान् स्तोत्रस्तोभश्छन्दोमयः प्रभुः ।
रक्षत्वशेषकृच्छ्रेभ्यो विष्वक्सेनः स्वनामभिः ॥ २९ ॥
 
सर्वापद्भ्यो हरेर्नामरूपयानायुधानि नः ।
बुद्धीन्द्रियमनःप्राणान्पान्तु पार्षदभूषणाः ॥ ३०॥
 
यथा हि भगवानेव वस्तुतः सदसच्च यत् ।
सत्येनानेन नः सर्वे यान्तु नाशमुपद्रवाः ॥ ३१॥
 
यथैकात्म्यानुभावानां विकल्परहितः स्वयम् ।
भूषणायुधलिण्गाख्या धत्ते शक्तीः स्वमायया ॥ ३२॥

तेनैव सत्यमानेन सर्वज्ञो भगवान् हरिः ।
पातु सर्वैः स्वरूपैर्नः सदा सर्वत्र सर्वगः ॥ ३३॥
 
विदिक्षु दिक्षूर्ध्वमधः समन्ता-
             दन्तर्बहिर्भगवान्नारसिंहः ।
प्रहापयं।cलोकभयं स्वनेन
             स्वतेजसा ग्रस्तसमस्ततेजाः ॥ ३४॥
 
मघवन्निदमाख्यातं वर्म नारायणात्मकम् ।
विजेष्यस्यJण्जसा येन दंशितोऽसुरयूथपान् ॥ ३५॥
  
एतद्धारयमाणस्तु यं यं पश्यति चक्षुषा ।
पदा वा संस्पृशेत्सद्यः साध्वसात्स विमुच्यते ॥ ३६॥
 
न कुतश्चिद्भयं तस्य विद्यां धारयतो भवेत् ।
राजदस्युग्रहादिभ्यो व्याघ्रादिभ्यश्च कर्हिचित् ॥ ३७॥
 
इमां विद्यां पुरा कश्चित्कौशिको धारयन् द्विजः ।
योगधारणया स्वाण्गं जहौ स मरुधन्वनि ॥ ३८॥
 
तस्योपरि विमानेन गन्धर्वपतिरेकदा ।
ययौ चित्ररथः स्त्रीभिर्वृतो यत्र द्विजक्षयः ॥ ३९ ॥
 
गगनान्न्यपतत्सद्यः सविमानो ह्यवाक्षिराः ।
स वालखिल्यवचनादस्थीन्यादाय विस्मितः ।
प्रास्य प्राचीसरस्वत्यां स्नात्वा धाम स्वमन्वगात् ॥ ४०॥
 
श्रीशुक उवाच ।
य इदं शृणुयात्काले यो धारयति चादृतः ।
तं नमस्यन्ति भूतानि मुच्यते सर्वतो भयात् ॥ ४१॥
 
एतां विद्यामधिगतो विश्वरूपाच्छतक्रतुः ।
त्रैलोक्यलक्ष्मीं बुभुजे विनिर्जित्य मृधेऽसुरान् ॥ ४२॥

॥ इति श्रीमद्भागवतमहापुराणे पारमहंस्यां संहितायां
षष्ठस्कन्धे नारायणवर्मकथनं नामाष्टमोऽध्यायः ॥

"https://sa.wikisource.org/w/index.php?title=नारायणकवचम्&oldid=92988" इत्यस्माद् पुनः प्राप्तिः