नारायणाष्टकम्
नारायणाष्टकम् विष्णुस्तोत्राणि [[लेखकः :|]] |
वात्सल्यादभयप्रदानसमयादार्त्तार्तिनिर्वापणाद्
औदार्य्यादघशोषणादगणितश्रेयः पदप्रापणात् ।
सेव्यः श्रीपतिरेक एव जगतामेतेऽभवन्साक्षिणः
प्रह्लादश्च विभीषणश्च करिराट् पाञ्चाल्यहल्याध्रुवः ॥ १॥
प्रह्लादास्ति यदीश्वरो वद हरिः सर्वत्र मे दर्शय
स्तंभे चैवमिति ब्रुवन्तमसुरं तत्राविरासीद्धरिः ।
वक्षस्तस्य विदारयन्निजनखैर्वात्सल्यमापादयन्
नार्त्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ २॥
श्रीरामोऽत्र विभीषणोऽयमनघो रक्षोभयादागतः
सुग्रीवानय पालयैनमधुना पौलस्त्यमेवागतम् ।
इत्युक्त्वाऽभयमस्य सर्वविदितं यो राघवो दत्तवान्
आर्त्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ३॥
नक्रग्रस्तपदं समुद्धृतकरं ब्रह्मादयो भोः सुरा
रक्षन्तामिति दीनवाक्यकरिणं देवेष्वशक्तेषु यः ।
मा भैषीरिति तस्य नक्रहनने चक्रायुधः श्रीधरो
ह्यार्त्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ४॥
भोः कृष्णाच्युतः भोः कृपालय हरे भोः पाण्डवानां सखे
क्वासि क्वासि सुयोधनाध्यपहृतां भो रक्ष मामातुराम् ।
इत्युक्त्तोऽक्षयवस्त्रसंभृततनुर्योऽपालयद्द्रौपदीम्
आर्त्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ५॥
यत्पादाब्जनखोदकं त्रिजगतां पापौघविध्वंसनं
यन्नामामृतपूरकं च पिबतां संसारसन्तारकम् ।
पाषाणोऽपि यदङिघ्रपङ्करजसा शापान्मुनेर्मोचितो
ह्यार्त्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ६॥
पित्रा भ्रातरमुत्तमासनगतं ह्यौत्तानपादिर्ध्रुवो
दृष्ट्वा तत्सममारुरुक्षुरधिकं मात्राऽवमानं गतः ।
यं गत्वा शरणं यदाप तपसा हेमाद्रिसिंहासनं
ह्यार्त्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ७॥
आर्त्ता विषण्णाः शिथिलाश्च भीता घोरेशु च व्याधिशु वर्तमानाः ।
संकीर्त्य नारायणशब्दमात्रं विमुक्तदुःखाः सुखिनो भवन्ति ॥ ८॥
इति श्रीकूरेशस्वामिविरचितं नारायणाष्टकं सम्पूर्णम् ।