← दशकम् ४३ नारायणीयम्
दशकम् ४४
[[लेखकः :|]]
दशकम् ४५ →

गूढं वसुदेवगिरा कर्तुं ते निष्क्रियस्य संस्कारान् ।
हृद्गतहोरातत्वो गर्गमुनिस्त्वद्गृहं विभो गतवान् ॥ ४४१॥

नन्दोऽथ नन्दितात्मा वृन्दिष्टं मानयन्नमुं यमिनाम् ।
मन्दस्मितार्द्रमूचे त्वत्संस्कारान् विधातुमुत्सुकधीः ॥ ४४२॥

यदुवंशाचार्यत्वात् सुनिभृतमिदमार्य कार्यमिति कथयन् ।
गर्गो निर्गतपुळकश्चक्रे तव साग्रजस्य नामानि ॥ ४४३॥

कथमस्य नाम कुर्वे सहस्रनाम्नो ह्यनन्तनाम्नो वा ।
इति नूनं गर्गमुनिश्चक्रे तव नाम नाम रहसि विभो ॥ ४४४॥

कृषिधातुणकाराभ्यां सत्तानन्दात्मतां किलाभिलपत् ।
जगदघकर्षित्वं वा कथयदृषिः कृष्णनाम ते व्यतनोत् ॥ ४४५ ॥

अन्यांश्च नामभेदान् व्याकुर्वन्नग्रजे च रामादीन् ।
अतिमानुषानुभावं न्यगदत्त्वामप्रकाशयन्पित्रे ॥ ४४६॥

स्निह्यति यत्सव पुत्रे मुह्यति स न मायिकैः पुनश्शोकैः ।
दृह्यति यस्स तु नश्येदित्यवदत्ते महत्त्वमृषिवर्यः ॥ ४४७ ॥

जेष्यति बहुतरदैत्यान् नेष्यति निजबन्धुलोकममलपदम् ।
श्रोष्यति सुविमलकीर्तीरस्येति भवद्विभूतिमृषिरूचे ॥ ४४८॥

अमुनैव सर्वदुर्गं तरितास्थ कृतास्थमत्र तिष्ठध्वम् ।
हरिरेवेत्यनभिलपन्नित्यादि त्वामवर्णयत् स मुनिः ॥ ४४९॥

गर्गेऽथ निर्गतेऽस्मिन् नन्दितनन्दादिनन्द्यमानस्त्वम् ।
मद्गदमुद्गतकरुणो निर्गमय श्रीमरुत्पुराधीश ॥ ४४१०॥

"https://sa.wikisource.org/w/index.php?title=नारायणीयम्/दशकम्_४४&oldid=32282" इत्यस्माद् प्रतिप्राप्तम्