← दशकम् ६७ नारायणीयम्
दशकम् ६८
[[लेखकः :|]]
दशकम् ६९ →

तव विलोकनाद्गोपिकाजनाः प्रमदसंकुलाः पङ्कजेक्षण ।
अमृतधारया संप्लुता इव स्तिमिततां दधुस्त्वत्पुरोगताः ॥ ६८१ ॥

तदनु काचन त्वत्कराम्बुजं सपदि गृह्णती निर्विशङ्कितम् ।
घनपयोधरे संविधाय सा पुळकसंवृता तस्थुषी चिरम् ॥ ६८२ ॥

तव विभो पुरा कोमळं भुजं निजगळान्तरे पर्यवेष्टयत् ।
गळसमुद्गतं प्राणमारुतं प्रतिनिरुन्धतीवातिहर्षुला ॥ ६८३॥

अपगतत्रपा कापि कामिनी तव मुखाम्बुजात्पूगचर्वितम् ।
प्रतिगृहय्य तद्वक्त्रपङ्कजे निदधती गता पूर्णकामताम् ॥ ६८४ ॥

विकरुणो वने संविहाय मामपगतोऽसि का त्वामि स्पृशेत् ।
इति सरोषया तवदेकया सजललोचनं वीक्षितो भवान् ॥ ६८५॥

इति मुदाकुलैर्वल्लवीजनैः सममुपागतो यामुने तटे ।
मृदुकुचाम्बरैः कल्पितासने घुसृणभासुरे पर्यशोभथाः ॥ ६८६ ॥

कतिविधा कृपा केऽपि सर्वतो धृतदयोदयाः केचिदाश्रिते ।
कतिचिदीदृशा मादृशेष्व्पीत्यभिहितो भवान्वल्लवीजनैः ॥ ६८७ ॥

अयि कुमारिका नैव शङ्क्यतां कठिनता मयि प्रेमकातरे ।
मयि यु चेतसो वोऽनुवृत्तये कृतमिदं मयेत्यूचिवान्भवान् ॥ ६८८ ॥

अयि निशम्यतां जीववल्लभाः प्रियतमो जनो नेदृशो मम ।
तदिह रम्यतां रम्ययामिनीष्वनुपरोधमित्यालपो विभो ॥ ६८९॥

इति गिराधिकं मोदमेदुरैर्व्रजवधूजनैः साकमारमन् ।
कलितकौतुको रासखेलने गुरुपुरीपते पाहि मां गदात् ॥ ६८१०॥

"https://sa.wikisource.org/w/index.php?title=नारायणीयम्/दशकम्_६८&oldid=32307" इत्यस्माद् प्रतिप्राप्तम्