नारायणीयम्/दशकम् ८०
← दशकम् ७९ | नारायणीयम् दशकम् ८० [[लेखकः :|]] |
दशकम् ८१ → |
सत्राजितस्त्वमथ लुब्धवदर्कलब्धं
दिव्यं स्यमन्तकमणिं भगवन्नयाचीः ।
तत्कारणं बहुविधं मम भाति नूनं
तस्यात्मजां त्वयि रतां छलतो विवोढुम् ॥ ८०१॥
अदत्तं तं तुभ्यं मणिवरमनेनाल्पमनसा
प्रसेनस्तद्()भ्राता गलभुवि वहन्प्राप मृगयाम् ।
अहन्नेनं सिंहो मणिमहसि मांसभ्रमवशात्
कपीन्द्रस्तं हत्वा मणिमपि च बालाय ददिवान् ॥ ८०२॥
शशंसुः सत्राजिद्गिरमनु जनास्त्वां मणिहरं
जनानां पीयूषं भवति गुणिनां दोषकणिका ।
ततः सर्वज्ञोऽपि स्वजनसहितो मार्गणपरः
प्रसेनं तं दृष्ट्वा हरिमपि गतोऽभूः कपिगुहाम् ॥ ८०३॥
भवन्तमवितर्कयन्नतिवयाः स्वयं जाम्बवान्
मुकुन्दशरणं हि मां क इह रोद्धुमित्यालपन् ।
विभो रघुपते हरे जय जयेत्यलं मुष्टिभि
श्चिरं तव समर्चनं व्यधित भक्तचूडामणिः ॥ ८०४॥
बुद्ध्वाथ तेन दत्तां नवरमणीं वरमणीं च परिगृह्णन् ।
अनुगृह्णन्नमुमागाः सपदि च सत्राजिते मणिं प्रादाः ॥ ८०५॥
तदनु स खलु व्रीडालोलो विलोलविलोचनां
दुहितरमहो धीमान्भामां गिरैव परार्पिताम् ।
अदित मणिना तुभ्यं लभ्यं समेत्य भवानपि
प्रमुदितमनास्तस्यैवादान्मणीं गहनाशयः ॥ ८०६॥
व्रीलाकुलां रमयति त्वयि सत्यभामां
कौन्तेयदाहकथयाथ कुरून्प्रयाते ।
ही गान्दिनेयकृतवर्मगिरा निपात्य
सत्राजितं शतधनुर्मणिमाजहार ॥ ८०७॥
शोकात्कुरूनुपगतामवलोक्य कान्तां
हत्वा द्रुतं शतधुनं समहर्षयस्ताम् ।
रत्ने सशङ्क इव मैथिलगेहमेत्य
रामो गदां समशिशिक्षत धार्तराष्ट्रम् ॥ ८०८॥
अक्रूर एष भगवन् भवदिच्छयैव
सत्राजितः कुचरितस्य युयोज हिंसाम् ।
अक्रूरतो मणिमनाहृतवान्पुनस्त्वं
तस्यैव भूतिमुपधातुमिति ब्रुवन्ति ॥ ८०९॥
भक्तस्त्वयि स्थिरतरः स हि गान्दिनेय
स्तस्यैव कापथमतिः कथमीश जाता ।
विज्ञानवान्प्रशमवानहमित्युदीर्णं
गर्वं ध्रुवं शमयितुं भवता कृतैव ॥ ८०१०॥
यातं भयेन कृतवर्मयुतं पुनस्त
माहूय तद्विनिहितं च मणिं प्रकाश्य ।
तत्रैव सुव्रतधरे विनिधाय तुष्यन्
भामाकुचान्तरशयः पवनेश पायाः ॥ ८०११॥