निबन्धसाहित्यम्
निबन्धसाहित्यस्य परिचयः
भूमिकाः
सम्पाद्यताम्पवित्रतमायामस्यां भारतभूमौ आर्याणां धर्मनिष्ठजीवनमासीदिति। तेषां वेदेन मूलधर्मग्रन्थत्वेन भूयते। धर्मस्य प्रमाणत्वेन भगवती श्रुतिः सर्वप्रमाणसम्पन्ना, धर्मशास्त्राणि च तदनुमापकत्वेन प्रमाणभूतानि सन्ति। सूत्रस्मृतिभाष्यादिधर्मशास्त्रसाहित्येषु निबन्धा अपि धर्मनिर्णायकतया प्रामाण्यं भजन्ते। यतो हि तेष्वेव विभिन्नानां धर्मवचनानां सामञ्जस्यसमन्वययोः स्थापनाविवक्षाविशेषात् तात्पर्यनिर्णयद्वारा धर्माः स्वरूपतः साधनतः फलतश्च निरूपिताः। सूत्रस्मृतिभाष्यात्मकेभ्यो धर्मशास्त्रग्रन्थेभ्यो यदैव धर्मनिर्णयोत्यन्तकष्टसाध्यो भवति तदैवावसरे तदुपजीविनां निबन्धग्रन्थानां भूयस्यावश्यकता परिलक्ष्यते। अतः देशकालभेदानुसारेण समुत्पद्यमानानामावश्यकतानां परिपूर्त्तये निबन्धकाराः स्वकीयान् निबन्धग्रन्थान् विरचितवन्तः। समासेन निबन्धविषये अध आलोचना विधीयते।
निबन्धशब्दस्य व्युत्पत्तिः
सम्पाद्यताम्निबन्धशब्दस्य व्युत्पत्तिस्तावद्भवति नि इत्युपसर्गात् बन्ध धातोः घञ् प्रत्यये कृते निबन्धशब्दो निष्पद्यते। अस्य निबन्धशब्दस्यार्थो बहुत्र बहुधा भवन्ति यथा निबन्धो नाम शब्दस्य वृत्तिरिति हेमचन्द्रः, निबध्नातीति निबन्धः शब्दकल्पद्रुमे उच्यते। अपि च संग्रहग्रन्थभेदे रोगभेदे बन्धने च निवन्धशब्दो व्यवह्रियते इति हेमचन्द्रवचनमुट्टङ्कितं वाचस्पत्ये। धर्मशास्त्रविदश्च विभिन्नेभ्यः प्रामाणिकग्रन्थेभ्यः प्रमाणवचनानां संग्रहपूर्वकं यस्यैव ग्रन्थस्य रचनां कुर्वन्ति स तु निबन्धग्रन्थनाम्नाभिधीयते।
रचनाकालः
सम्पाद्यताम्सूत्रस्मृतिभाष्यादिभ्योरर्वाक्कालिकतया निबन्धसाहित्यस्य कालः सप्तमशतकादारभ्य अष्टादशशतकं यावदिति ऐतिहासिकैः स्वीकृतः। भाष्यनिबन्धग्रन्थयोर्मध्ये अभेद इति कालनिर्धारका ऐतिहासिकाः। कारणं हि निबन्धग्रन्थानुरूपं बहुश्रुतिस्मृतिप्रतिपादितवचनानि संगृह्य स्मृतिग्रन्थानां सूत्रग्रन्थानाञ्च टीकाकृताभाष्यकारैः। यथा विज्ञानेश्वरस्य मिताक्षराटीकां दृष्ट्वा शङ्करभट्टो विज्ञानेश्वरं स्वश्रेष्ठस्मृतिनिबन्धकाररूपेण उद्घोषितवान्। याज्ञवल्क्यस्मृतेः टीकाकारेण अपरार्केणापि अपरार्कयाज्ञवल्क्यधर्मशास्त्रनिबन्ध इति स्थापितः। एकादशशताब्दीं यावत् प्रायश अनेके भाष्यकारा अनेकेषां धर्मशास्त्रग्रन्थानां भाष्यं कृतवन्तः। तदनन्तरं यवनानामाक्रमणस्य प्रभावोऽस्माकं भारतस्य राजनीतिकसामाजिकशैक्षणिकजीवनोपरि दृढं पतितः। ततः द्वादशशतकादेवारभ्यो धर्मशास्त्रे नूतना कापि शैली प्रचलिता येन स्मृतिसूत्रग्रन्थानां व्याख्यां विहाय स्वमतमुपस्थापनाय स्वतन्त्ररुपेण निबन्धग्रन्थानां प्रणयने सम्पादने च मतिं दद्युः। एतेषां स्मृतिनिबन्धानां भारते शनैः शनैः प्रसारः प्रचारश्च सञ्जातः।
निबन्धग्रन्थकाराः
सम्पाद्यताम्निबन्धसाहित्येषु भारतस्य विभिन्नप्रान्तीयानां लेखकानामवदानं वर्तते। यथा केचन भवन्ति दाक्षिणात्याः, ते हि देवणभट्ट, हिमाद्रि,माधवाचार्यो, नन्दपण्डितादयः। केचन भवन्ति महाराष्ट्रीया यथा- कमलाकरभट्ट-नीलकण्ठभट्ट-अनन्तदेव-नागोजीभट्टादयः। लक्ष्मीधर-श्रीदत्तोपाध्यायचण्डेश्वर-वाचस्पतिप्रभृतयो भवन्ति मैथिलीयाः। जीमूतवाहन-गोविन्दानन्द-रघुनन्दनादयो भवन्ति वङ्गीयाः। शतानन्द-प्रतापरुद्रदेव-गदाधरादयश्च उत्कलीयाः स्मृतिनिबन्धकारा भवन्ति।
निबन्धृणां सामान्यतया परिचयः
सम्पाद्यताम्उपर्युल्लिखितानां निबन्धकर्तृणां सामान्यतया परिचयः कार्यते-
लक्ष्मीधरभट्टः
सम्पाद्यताम्धर्मशास्त्रसम्बन्धीयनिबन्धसाहित्याकाशे सर्वप्रथमः सर्वप्राचीनतमश्च निबन्धकारोऽयं लक्ष्मीधरः। अयं लक्ष्मीधरः राठौरराजगोविन्दचन्द्रस्य सान्धिविग्रहिकमन्त्री आसीत्। अस्य पिता श्रीहृदयधरभट्टः राठौरराज्ञां प्रधानमन्त्रीपदे नियुक्त आसीत् ११०८ तमे ख्रीष्टसंवत्सरे यवनानामाक्रमणसमये राजागोविन्दचन्द्रः स्वविचक्षणमन्त्रिणा लक्ष्मीधरसाहाय्येन साहसेन च हम्मीरं पराजितवान्। अस्य लक्ष्मीधरस्य वैदुष्यप्रतिभादिविषयेषु व्यवहारकाण्डगतोपक्रमादेव ज्ञायते। अनेन स्वपाण्डित्यगुणेन १११०-११३० ख्रीष्टाब्दमध्ये कृत्यकल्पतरुनामकस्य सुबृहद्धर्मशास्त्रीयनिबन्धग्रन्थस्य रचना विहिता। लक्ष्मीधरस्य कृत्यकल्पतरुः, कल्पतरुः, कल्पवृक्षश्चेति त्रयः प्रसिद्धाः निबन्धसाहित्ये। ऐतिहासिकाः अस्य कालविषये सुस्पष्टं मतमुपस्थापयन्ति यथालक्ष्मीधरोयं गोविन्दचन्द्रस्य राजमन्त्री आसीत्, तस्मात् द्वादशशतकमस्य समय इति पि. वि. काणेमहोदयानामभिमतम्। अनिरुद्धस्य कल्पतोरुद्धरणानि प्राप्यन्ते अतोऽस्य समयः ११००-११५० ख्रीष्टाब्दयो मध्यभागे भवितुमर्हतीति प्रमाणयितुं शक्यते इति।
जीमूतवाहनः
सम्पाद्यताम्वङ्गीयधर्मशास्त्रनिबन्धकारेषु जीमूतवाहनो मूर्धन्यभूतः। स्वजन्मनाऽयं राढा इति स्थानमलञ्चकार। अस्य कालविषये बहवो विसंवादाः सन्ति। तेन धारेश्वर-गोविन्दराज-भोजदेवादीनां नामान्युट्टङ्कितानि, तस्मात्तस्य समयः कदापि एकादशशतकान्तिमभागात् पूर्वं भवितुं नार्हति। पुनश्च जीमूतवाहनेन स्वीयग्रन्थे कालविवेके किञ्चन गाणितिकज्योतिषतथ्यं प्रकटितं। अतस्तेन तस्य कालः १०१३ शकाब्दात् (१०९३ ख्रीष्टाब्दात्) पूर्वं भवितुं नार्हतीति। अतः ज्ञायते यत् जीमूतवाहनस्य ग्रन्थलेखनकालः १०९२ ख्रीष्टब्दादारभ्य १९३० ख्रीष्टाब्दं यावत् भवेदिति पि वि काणेमहोदयाः प्रमाणयन्ति। जीमूतवाहनस्य प्रथमा कृतिः कालविवेकः, तदनन्तरं व्यवहारमातृका, ततो दायभागश्चेति क्रमेण वक्तुं शक्यते। अस्य जीमूतवाहनस्य प्रतिभा कीदृशी तत्प्रणीतेन ग्रन्थेन दायभागेन कल्पयितुमस्माभिः शक्यते। तत्र तेन सुस्पष्टतया लिखितं यत् मन्वादिवचनव्याख्यायां व्याख्याकाराणां यो विवादस्तद्दूरीकरणार्थं सुश्लिष्टा व्याख्या मयाऽत्र विहितेति। यथा-
- मन्वादिवाक्यान्यविमृश्य येषां यस्मिन् विवादो बहुधा बुधानाम्।
- तेषां प्रबोधाय स दायभागो निरूपणीयः सुधीय शृणुध्वम्।। इति।
हेमाद्रिः
सम्पाद्यताम्दक्षिणभारतीयस्मृतिनिबन्धकारेषु हेमाद्रेः स्थानमन्यतममस्ति। अस्य पितुर्नाम कामदेवः, पितृव्यस्य नाम वासुदेवश्चासीत्। वत्सगोत्रोत्पन्नः हेमाद्रिः देवगिर्यां यादवराज्ञः महादेवस्य मन्त्री आसीत्। अनेनास्य कालो निश्चितोऽस्ति यत् १२५०-१३०० ख्रीष्टाब्द पर्यन्तम्। अनेन बहवो ग्रन्था विरचितास्ते हि चतुर्वर्गचिन्तामणिः, श्राद्धकल्पो, मुक्ताफलस्य कैवल्यदीपकभाष्यमित्यादयः। अयमेव पूर्वमीमांसाया महान विद्वानासीत्।
चण्डेश्वरः
सम्पाद्यताम्स्मृतिनिबन्धसाहित्याकाशे चण्डेश्वरस्य मैथिलधर्मशास्त्रनिबन्धकारत्वेन बहुसम्मानो विद्यते। अस्य कालस्तावत् १३०० ख्रीष्टसंवत्सरस्य निकटवर्ती कालो भवितुमर्हतीति। अनेन स्मृतिरत्नाकरनाम्ना ग्रन्थः प्रणीतो, ग्रन्थोऽयं सप्तखण्डेनैव विभक्तः अस्य अन्ये ग्रन्थस्तावत् कृत्यचिन्तामणि, शिववाक्यावलि, दानवाक्यावलिरित्यादयः। अन्ये केचनग्रन्थकाराः- देवणभट्टः- अस्य पिता केशवादित्यः अस्य देवणभट्टस्य समयः ११२५ ख्रीष्टाब्दात्पूर्वं भवेदिति काणेमहोदयानामभिमतम्। देवणभट्टविरचिता स्मृतिचन्द्रिका अतीवमहत्वपूर्णा।
माधवाचार्यः
सम्पाद्यताम्निबन्धसाहित्याकाशे अस्य कालमाधवनाम ग्रन्थो विद्यते। माधवाचार्यस्य कालविषये यद्यपि निश्चितरूपेण किमपि कथयितुं नैव शक्यते तथापि पि वि काणेमहोदयस्य मतानुसारमेवमेव स्वीक्रियते यदयं माधवाचार्यः स्ववार्धक्यावस्थायां १३७७ तमे ख्रीष्टाब्दे विद्यारण्यनाम्ना विभूषितो भूत्वा सन्नासाश्रमं गृहीतवानिति।
अन्ये च रघुनन्दनः, कमलाकरभट्टो, नीलकण्ठभट्टो, वाचस्पतिमिश्रः, शतानन्दः प्रभृतयः सन्तीति शिवम्।