निर्गुणमानसपूजा (मूलसहितम्)

निर्गुणमानसपूजा (मूलसहितम्)
शङ्कराचार्यः
१९१०

॥ श्री ॥

॥ निर्गुणमानसपूजा ॥

शिष्य उवाच-

अखण्डे सच्चिदानन्दे निर्विकल्पैकरूपिणि ।
स्थितेऽद्वितीयभावेऽपि कथं पूजा विधीयते ।। १ ।।

पूर्णस्यावाहनं कुत्र सर्वाधारस्य चासनम् ।
स्वच्छस्य पाद्यमर्ध्ये च शुद्धस्याचमनं कुतः ॥ २ ॥

निर्मलस्य कुतः स्नानं वासो विश्वोदरस्य च ।
अगोत्रस्य त्ववर्णस्य कुतस्तस्योपवीतकम् ॥ ३ ॥

निर्लेपस्य कुतो गन्धः पुष्पं निर्वासनस्य च ।
निर्विशेषस्य का भूषा कोऽलंकारो निराकृतेः ॥ ४ ॥

निरञ्जनस्य किं धूपैर्दीपैर्वा सर्वसाक्षिणः
निजानन्देकतृप्तस्य नैवेद्यं किं भवेदिह ॥ ५ ॥

विश्वानन्दयितुस्तस्य किं ताम्बूलं प्रकल्पते
स्वयंप्रकाशचिद्रूपो योऽसावर्कादिभासकः ॥ ६॥

गीयते श्रुतिभिस्तस्य नीराजनविधिः कुतः ।
प्रदक्षिणमनन्तस्य प्रमाणोऽद्वयवस्तुनः ॥७॥

वेदवाचामवेद्यस्य किं वा स्तोत्रं विधीयते ।
अन्तर्बहि संस्थितस्योद्वासनविधिः कुतः ॥८॥

श्रीगुरुरुवाच-
आराधयामि मणिसंनिभमात्मलिङ्गम्
 मायापुरीहृदयपङ्कजसंनिविष्टम् ।
श्रद्धानदीविमलचित्तजलाभिषेकै-
 र्नित्यं समाधिकुसुमैरपुनर्भवाय ॥९॥

अयमेकोऽवशिष्टोऽस्मीत्येवमावाहयेच्छिवम् ।
आसनं कल्पयेत्पश्चात्स्वप्रतिष्ठात्मचिन्तनम् ॥१०॥

पुण्यपापरजः सङ्गो मम नास्तीति वेदनम् ।
पाद्यं समर्पयेद्विद्वान्सर्वकल्मषनाशनम् ॥११॥

अनादिकल्पविधृतमूलाज्ञानजलाञ्जलिम् ।
विसृजेदात्मलिङ्गस्य तदेवार्ध्यसमर्पणम् ॥१२।।

ब्रह्मानन्दाब्धिकल्लोलकणकोट्यंशलेशकम् ।
पिबन्तीन्द्रादय इति ध्यानमाचमनं मतम् ॥१३॥

ब्रह्मानन्दजलेनैव लोकाः सर्वे परिप्लुताः ।
अच्छेद्योऽयमिति ध्यानमभिषेचनमात्मनः ॥ १४ ॥

निरावरणचैतन्यं प्रकाशोऽस्मीति चिन्तनम् |
आत्मलिङ्गस्य सद्वस्त्रमित्येवं चिन्तयेन्मुनिहः ॥ १५ ॥

त्रिगुणात्माशेषलोकमालिकासूत्रमस्म्यहम् ।
इति निश्चयमेवात्र ह्युपवीतं परं मतम् ॥ १६ ॥

अनेकवासनामिश्रप्रपञ्चोऽयं धृतो मया ।
नान्येनेत्यनुसंधानमात्मनश्चन्दनं भवेत् ॥ १७ ॥

रजःसत्त्वतमोवृत्तित्यागरूपैस्तिलाक्षतैः ।
आत्मलिङ्गं यजेन्नित्यं जीवन्मुक्तिप्रसिद्धये ॥ १८ ॥

ईश्वरो गुरुरात्मेति भेदत्रयविवर्जितैः ।
बिल्वपत्रैरद्वितीयैरात्मलिङ्गं यजेच्छिवम् ॥ १९ ॥

समस्तवासनात्यागं धूपं तस्य विचिन्तयेत् ।
ज्योतिर्मयात्मविज्ञानं दीपं संदर्शयेद्बुधः ॥ २० ॥

नैवेद्यमात्मलिङ्गस्य ब्रह्माण्डाख्यं महोदनम् ।
पिबानन्दरसं स्वादु मृत्युरस्योपसेचनम् ॥ २१ ॥

अज्ञानोच्छिष्टकरस्य क्षालन ज्ञानवारिणा ।
विशुद्धस्यात्मलिङ्गस्य हस्तप्रक्षालन स्मरेत् ॥ २२ ॥

रागादिगुणशून्यस्य शिवस्य परमात्मन ।
सरागविषयाभ्यासत्यागस्ताम्बूलचवणम् ॥ २३ ॥

अज्ञानध्वान्तविध्वसप्रचण्डमतिभास्करम् ।
आत्मनो ब्रह्मताज्ञान नीराजनमिहात्मन ॥ २४ ॥

विविधब्रह्मसदृष्टिार्मालिकाभिरलकृतम् ।
पूर्णानन्दात्मतादृष्टिं पुष्पाञ्जलिमनुस्मरेत् ॥ २५ ॥


परिभ्रमन्ति ब्रह्माण्डसहस्राणि मयीश्वरे ।
कूटस्थाचलरूपोऽहमिति ध्यान प्रदक्षिणम् ॥ २६ ॥

विश्ववन्धोऽहमेवास्मि नास्ति वन्धो मदन्यत ।
इत्यालोचनमेवात्र स्वात्मलिङ्गस्य वन्दनम् ॥ २७ ॥

आत्मन सत्क्रिया प्रोक्ता कर्तव्याभावभावना ।
नामरूपव्यतीतात्मचिन्तन नामकीर्तनम् ॥ २८ ॥

श्रवण तस्य दवस्य श्रोतव्याभावचिन्तनम् ।
मनन स्वात्मलिङ्गस्य मन्तव्याभावचिन्तनम् ॥ २९ ॥

ध्यातव्याभावविज्ञान निदिध्यासनमात्मन ।
समस्तभ्रान्तिविक्षेपराहित्येनात्मनिष्ठता ॥ ३० ॥

समाधिरात्मनो नाम नान्यश्चित्तस्य विभ्रम ।
तत्रैव ब्रह्मणि सदा चित्तविश्रान्तिरिष्यते ॥ ३१॥

एव वेदान्तकल्पोक्तस्वात्मलिङ्गप्रपूजनम् ।
कुर्वना मरण वापि क्षण वा सुसमाहित ॥ ३२ ॥

सर्वदुर्वासनाजाल पदपासुमिव त्यजेत् ।
विधूयाज्ञानदु खौघ मोक्षानन्द समश्नुते ॥ ३३ ॥

इति श्रीमत्परमहंसपरिव्राजकाचायस्य
श्रीगोविदभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवत कृतौ
निर्गुणमानसपूजा संपूर्णा