← विंश: सर्गः नैषधीयचरितम्‌
एकविंश: सर्गः
श्रीहर्षः
द्वाविंश: सर्गः →

तं विदर्भरमणीमणिसौधादुज्जिहानमनुदर्शितसेवैः ।
अपर्णान्निजकरस्य नरेन्द्रैरात्मनः करदता पुनरूचे ॥ २१.१ ॥

तस्य चीनसिचयैरपि बद्धा पद्धतिः पदयुगात्कठिनेति ।
तां प्यधत्त शिरसां खलु माल्यैराजराजिरभितः प्रणमन्ती ॥ २१.२ ॥

द्रागुपाह्रियत तस्य नृपैतद्दृष्टिदानबहुमानकृतार्थैः ।
स्वस्य दिश्यमथ रत्नमपूर्वं यत्नकल्पितगुणाधिकचित्रम् ॥ २१.३ ॥

अङ्गुलीचलनलोचनभङ्गिभ्रूतरङ्गविनिवेदितदानम् ।
रत्नमन्यनृपढौकितमन्ये तत्प्रसादमलभन्त नृपास्तत् ॥ २१.४ ॥

तानसौ कुशलसूनृतसेकैस्तर्पितानथ पितेव विसृज्य ।
अस्त्रशस्त्रखुरलीषु विनिन्ये शैष्यकोपनमितानमितौजाः ॥ २१.५ ॥

मर्त्यदुष्प्रचरमस्त्रविचारं चारुशिष्यजनतामनुशिष्य ।
स्वेदबिन्दुकितगोधिरधीरं स श्वसन्नभवदाप्लवनेच्छुः ॥ २१.६ ॥

यक्षकर्दममृदून्मृदिताङ्गं प्राक्कुरङ्गमदमीलितमौलिम् ।
गन्धवार्भिरनुबन्धितभृङ्गैरङ्गना सिषिचुरुच्चकुचास्तम् ॥ २१.७ ॥

भृभृतं पृथुतपोघनमाप्तस्तं शुचिः स्नपयति स्म पुरोधाः ।
संदधज्जलधरस्खलदोघस्तीर्थवारिलहरीरुपरिष्टात् ॥ २१.८ ॥

प्रेयसीकुचवियोगहविर्भुग्जन्मधूमविततीरिव बिभ्रत् ।
स्नायिनः करसरोरुहयुग्मं तस्य गर्भधृतदर्भमराजत् ॥ २१.९ ॥

कल्प्यमानममुनाचमनाअर्थं गाङ्गमम्बु चुलुकोदरचुम्बि ।
निर्मलत्वमिलितप्रतिबिम्बद्यामयच्छदुपनीय करे नु ॥ २१.१ ॥

मुक्तमाप्य दमनस्य भगिन्या भूमिरात्मदयितं धृतरागा ।
अङ्गमङ्गमनुकं परिरेभे तं मृदो जलमृदूर्गृहयालुम् ॥ २१.११ ॥

मूलमध्यशिखरस्थितवेधःशौरिशंभुकरकाङ्घ्रिशिरःस्थैः ।
तस्य मूर्ध्नि चकरे शुचि दर्भैर्वारि वान्तमिव गाङ्गतरङ्गैः ॥ २१.१२ ॥

प्राणमायतवतो जलमध्ये मञ्जिमानमभजन्मुखमस्य ।
आपगापरिवृढोदरपूरे पूर्वकालमुषितस्य सितांशोः ॥ २१.१३ ॥

मर्त्यलोकमदनः सदशत्वं बिभ्रदभ्रविशदद्युतितारम् ।
अम्बरं परिदधे विधुमौलेः स्पर्धयेव दशदिग्वसनस्य ॥ २१.१४ ॥

भीमजामनु चलत्प्रतिवेलं संयियंसुरिव राजऋषीन्द्रः ।
आववार हृदयं न समन्तादुत्तरीयपरिवेषमिषेण ॥ २१.१५ ॥

स्नानवारिघटराजदुरोजा गौरमृत्तिलकबिन्दुमुखेन्दुः ।
केशशेषजलमौक्तिकदन्ता तं बभाज सुभगाप्लवनश्रीः ॥ २१.१६ ॥

श्वैत्यशैत्यजलदैवतमन्त्रस्वादुताप्रमुदितां चतुरक्षीम् ।
वीक्ष्य मोघधृतसौरभलोभं घ्राणमस्य सलिलघ्रमिवासीत् ॥ २१.१७ ॥

राज्ञि भानुमदुपस्थितयेऽस्मिन्नात्तमम्बु किरति स्वकरेण ।
भ्रान्तयः स्फुरति तेजसि चक्रुस्त्वष्टृतर्कुचलदर्कवितर्कम् ॥ २१.१८ ॥

सम्यगस्य जपतः श्रुतिमन्त्राः संनिधानमभजन्त कराब्जे ।
शुद्धबीजविशदस्फुटवर्णाः स्फाटिकाक्षवलयच्छलभाजः ॥ २१.१९ ॥

पाणिपर्वणि यवः पुनराख्यद्देवतर्पणयवार्पणमस्य ।
न्युप्यमानजलयोगितिलौघैः स द्विरुक्तकरकालतिलोऽभूत् ॥ २१.२ ॥

पूतपाणिचरणः शुचिनोच्चैरध्वनानितरपादहतेन ।
ब्रह्मचारिपरिचारि सुरार्चा वेश्म राजऋषिरेष विवेश ॥ २१.२१ ॥

क्वापि यन्नभसि धूपजधूमैर्मेचकागुरुभवैर्भ्रमराणाम् ।
भूयते स्म सुमनःसुमनःस्रग्दामधामपटले पटलेन ॥ २१.२२ ॥

साङ्कुरेव रुचिपीततमा यैर्यैः पुरास्ति रजनी रजनीव ।
ते धृआ वितरितुं त्रिदशेभ्यो यत्र हेमतिलका इव दीपाः ॥ २१.२३ ॥

यत्र मौक्तिकमणेर्विरहेण प्रीतिकामधृतवह्निपदेन ।
कङ्कुमेन परिपूरितमन्तः शुक्तयः शुशुभिरेऽनुभवन्त्यः ॥ २१.२४ ॥

अङ्कचुम्बिधनचन्दनपङ्कं यत्र गारुडशिलाजममत्रम् ।
प्राप केलिकवलीभवदिन्दोः सिंहिकासुतमुखस्य सुखानि ॥ २१.२५ ॥

गर्भमैणमदकर्दमसान्द्रं भाजनानि रजतस्य भजन्ति ।
यत्र साम्यमगमन्नमृतांशोरङ्करङ्कुकलुषीकृतकुक्षेः ॥ २१.२६ ॥

उज्जिहानसुकृताङ्कुरशङ्का यत्र धर्मगहने खलु तेने ।
भूरिशर्करकरम्भबलीनामालिभिः सुगतसौधसखानाम् ॥ २१.२७ ॥

स्खर्वमाख्यदमरौघनिवासं पर्वतं क्वचन चम्पकसंपत् ।
मल्लिकाकुसुमराशिरकाऋषीद्यत्र च स्फटिकसानुमनुच्चम् ॥ २१.२८ ॥

स्वात्मनः प्रियमपि प्रति गुप्तिं कुर्वती कुलवधूमवजज्ञौ ।
हृद्यदैवतनिवेद्यनिवेशाद्यत्र भूमिरवकाशदरिद्रा ॥ २१.२९ ॥

यत्र कान्तकरपीडितनीलग्रावरश्मिचिकुरासु विरेजुः ।
गातृमूर्धविधुतेरनुबिम्बात्कुट्टिमक्षितिषु कुट्टिमितानि ॥ २१.३ ॥

नैकवर्णमणिभूषणपूर्णे स क्षितीन्दुरनवद्यनिवेद्ये ।
अध्यतिष्ठदमलं मणिपीठं तत्र चित्रसिचयोच्चयचारौ ॥ २१.३१ ॥

सम्यगर्चति नलेऽर्कमतूर्णं भक्तिगन्धिरमुनाकलि कर्णः ।
श्रद्दधानहृदयप्रति चातः साम्बमम्बरमणिर्निरचैषीत् ॥ २१.३२ ॥

तत्तदर्यमरहस्यजपेषु स्रङ्नयः शयममुष्य बभाज ।
रक्तिमानमिव शिक्षितुमुच्चै रक्तचन्दनजबीजसमाजः ॥ २१.३३ ॥

हेमनामकतरुप्रसवेन त्र्यम्बकस्तदुपकल्पितपूजः ।
आत्तया युधि विजित्य रतीशं राजितः कुसुमकाहलयेव ॥ २१.३४ ॥

अर्चयन्हरकरं स्मितभाजा नागकेसरतरोः प्रसवेन ।
सोयमापयदतिर्यगवाग्दिक्पालपाण्डुरकपालविभूषाम् ॥ २१.३५ ॥

नीलनीररुहमाल्यमयीं स न्यस्य तस्य गलनालविभूषाम् ।
स्फाटिकीमपि तनुं निरमासीन्नीलकण्ठपदसान्वयतायै ॥ २१.३६ ॥

प्रीतिमेष्यति कृतेन ममेदृक्कर्मणा पुररिपुर्मदनारिः ।
तत्पुरः पुरमतोयमधाक्षीद्धूपरूपमथ कामशरं च ॥ २१.३७ ॥

तन्मुहूर्तमपि भीमतनूजाविप्रयोगमसहिष्णुरिवायम् ।
शूलिमौलिशशिभीततयाऽभूद्ध्यानमूर्च्छननिमीलितनेत्रः ॥ २१.३८ ॥

दण्डवद्भुवि लुठन्स ननाम त्र्यम्बकं शरणभागिव कामः ।
आत्मशस्त्रविशिखासनबाणान्न्यस्य तत्पदयुगे कुसुमानि ॥ २१.३९ ॥

त्र्यम्बकस्य पदयोः कुसुमानि न्यस्य सैष निजशस्त्रनिभानि ।
दण्डवद्भुवि लुठन्किमु कामस्तं शरण्यमुपगम्य ननाम ॥ २१.४ ॥

व्यापृतस्य शतरुद्रियजप्तौ पाणिमस्य नवपल्लवलीलम् ।
भृङ्गभङ्गिरिव रुद्रपराक्षश्रेणिरश्रयत रुद्रपरस्य ॥ २१.४१ ॥

उत्तमं स महति स्म महीभृत्पूरुषं पुरुषसूक्तविधानैः ।
द्वादशापि च स केशवमूर्तीर्द्वादशाक्षरमुदीर्य ववन्दे ॥ २१.४२ ॥

मल्लिकाकुसुमदुण्डुभकेन स भ्रामीवलयितेन कृते तम् ।
आसने निहितमैक्षत साक्षात्कुण्डलीन्द्रतनुकुण्डलभाजम् ॥ २१.४३ ॥

मेचकोत्पलमयी बलिबन्द्धुस्तद्वलिस्रगुरसि स्फुरति स्म ।
कौस्तुभाख्यमणिकुट्टिमवास्तुश्रीकटाक्षविकटायितकोटिः ॥ २१.४४ ॥

स्वर्णकेतकशतानि स हेम्नः पुण्डरीकघटनां रजतस्य ।
मालयारुणमणेः करवीरं तस्य मूर्ध्नि पुनरुक्तमकार्षीत् ॥ २१.४५ ॥

नाल्पभक्तबलिरन्ननिवेद्यैस्तस्य हारिणमदेन स कृष्णः ।
शङ्खचक्रजलजातवदर्चः शङ्खचक्रजलपूजनयाभूत् ॥ २१.४६ ॥

राज्ञि कृष्णलघुधूपनधूमाः पूजयत्यहिरिपुध्वजमस्मिन् ।
निर्ययुर्भवधृता भुजगा भीदुर्यशोमलिनिता इव जालैः ॥ २१.४७ ॥

अर्घनिःस्वमणिमाल्यविमिश्रैः स्मेरजातिमयदामसहस्रैः ।
तं पिधाय विदधे बहुरत्नक्षीरनीरनिधिमग्नमिवैषः ॥ २१.४८ ॥

अक्षसूत्रगतपुष्करबीजश्रेणिरस्य करसंकरमेत्य ।
शौरिमुक्तजपितुः पुनरापत्पद्मसद्मचिरवासविलासम् ॥ २१.४९ ॥

कैटभारिपदयोर्नितमूर्ध्ना सञ्जिता विचकिलस्रगनेन ।
जह्नुजेव भुवनप्रभुणाऽभात्सेवितानुनयतायतमाना ॥ २१.५ ॥

स्वानुरागमनघः कमलायां सूचयन्नपि हृदि न्यसनेन ।
गौरवं व्यधित वागधिदेव्याः श्रीगृहोर्ध्वनिजकण्ठनिवेशात् ॥ २१.५१ ॥

इत्यवेत्य वसुना बहुनापि प्राप्नुवन्न मुदमर्चनया सः ।
सूक्तिमौक्तिकमयैरथ हारैर्भक्तिमैहत हरेरुपहारैः ॥ २१.५२ ॥

दूरतः स्तुतिरवाग्विषयस्ते रूपमस्मदभिधा तव निन्दा ।
तत्क्षमस्व यदहं प्रलपामीत्युक्तिपूर्वमयमेतदवोचत् ॥ २१.५३ ॥

स्वप्रकाश जड एष जनस्ते वर्णनं यदभिलष्यति कर्तुम् ।
नन्वहर्पतिमहः प्रति स स्यान्न प्रकाशनरसस्तमसः किम् ॥ २१.५४ ॥

मैव वाङ्मनसयोर्विषयो भूस्त्वां पुनर्न कथमुद्दिशतां ते ।
उत्कचातकयुगस्य घनः स्यात्तृप्तये घनमनाप्नुवतोऽपि ॥ २१.५५ ॥

छद्ममत्स्यवपुषस्तव पुच्छास्फालनाज्जलमिवोद्धतमब्धेः ।
श्वैत्यमेत्य गगनाङ्गणसङ्गादाविरस्ति विबुधालयगङ्गा ॥ २१.५६ ॥

भूरिसृष्टिधृतभूवलयानां पृष्ठसीमनि किणैरिव चक्रैः ।
चुम्बितावतु जगत्सितिरक्षाकर्मठस्य कमठस्तव मूर्तिः ॥ २१.५७ ॥

दिक्षु यत्खुरचतुष्टयमुद्रामभ्यवैमि चतुरोऽपि समुद्रान् ।
तस्य पोत्रिवपुषास्तव दंष्ट्रा तुष्टयेऽस्तु मम वाऽस्तु जगत्याः ॥ २१.५८ ॥

उद्धृतिस्खलदिलापरिरम्भाल्लोमभिर्बहिरितैर्बहुहृष्टैः ।
ब्राह्ममण्डमभवद्वलिनीपं केलिकोल तव तत्र न मातः ॥ २१.५९ ॥

दानवाद्यगहनप्रभवस्त्वं सिंह मामव रवैर्घनघोरैः ।
वैरिदारिदिविषत्सुकृतास्त्रग्रामसंभवभवन्मनुजार्धः ॥ २१.६ ॥

दैत्यभर्तुरुदरान्धुनिविष्टां शक्रसंपदमिवोद्धरतस्ते ।
पातु पाणिशृणिपञ्चकमस्माञ्छिन्नरज्जुनिभलग्नतदन्त्रम् ॥ २१.६१ ॥

स्वेन पूर्यत इयं सकलाशा भो बले न मम किं भवतेति ।
त्वं बटुः कपटवाचि पटीयान्देहि वामन मनःप्रमदं नः ॥ २१.६२ ॥

दानवारिरसिकायविभूतेर्वश्मि तेऽस्मि सुतरां प्रतिपत्तिम् ।
इत्युदग्रपुलकं बलिनोक्तं त्वां नमामि कृतवामनमायम् ॥ २१.६३ ॥

भोगिभिः क्षितितले दिवि वासं बन्धमेष्यसि चिरं ध्रियमाणः ।
पाणिरेष भुवनं वितरेति छद्मवाग्भिरव वामन विश्वम् ॥ २१.६४ ॥

आशयस्य विवृतिः क्रियते किं दित्सुरस्मि हि भवच्चरणेभ्यः ।
विश्वमित्यभिहितो बलिनास्मान्वामन प्रणतपावन पायाः ॥ २१.६५ ॥

क्षत्त्रजातिरुदियाय भुजाभ्यां या तवैव भुवनं सृजतः प्राक् ।
जामदग्न्यवपुषस्तव तस्यास्तौ लयार्थमुचितौ विजयेताम् ॥ २१.६६ ॥

पांसुला बहुपतिर्नियतं या वेधसारचि रुषा नवखण्डा ।
तां भुवं कृतवतो द्विजभुक्तां युक्तकारितरता तव जीयात् ॥ २१.६७ ॥

कार्तवीर्यभिदुरेण दशास्ये रैणुकेय भवता सुखनाश्ये ।
कालभेदविरहादसमाधिं नौमि रामपुनरुक्तिमहं ते ॥ २१.६८ ॥

हस्तलेखमसृजत्खलु जन्मस्थानरेणुकमसौ भवदर्थम् ।
राम राममधरीकृततत्तल्लेखकः प्रथममेव विधाता ॥ २१.६९ ॥

उद्भवाजतनुजादज कामं विश्वभूषण न दूषणमत्र ।
दूषणप्रशमनाय समर्थं येन देव तव वैभवमेव ॥ २१.७ ॥

नो ददासि यदि तत्त्वधियं मे यच्छ मोहमपि तं रघुवीर ।
येन रावणचमूर्युधि मूढा त्वन्मयं जगदपश्यदशेषम् ॥ २१.७१ ॥

आज्ञया च पितुरज्ञभिया च श्रीरहीयत महीप्रभवा द्विः ।
लङ्घितश्च भवता किमु नद्विर्वारिराशिरुदकाङ्कगलङ्कः ॥ २१.७२ ॥

कामदेवविशिखैः खलु नेशं माऋपयज्जनकजामिति रक्षः ।
दैवतादमरणे वरवाक्यं तथ्ययत्स्वमपुनाद्भवदस्त्रैः ॥ २१.७३ ॥

तद्यशो हसति कम्बुकदम्बं शम्बुकस्य न किमम्बुधिचुम्बि ।
नामशेषितससैन्यदशास्यादस्तमाप यदसौ तव हस्तात् ॥ २१.७४ ॥

मृत्युभीतिकरपुण्यजनेन्द्रत्रासदानजमुपाऋज्य यशस्तत् ।
ह्रीणवानसि कथं न विहाय क्षुद्रदुर्जनभिया निजदारान् ॥ २१.७५ ॥

इष्टदारविरहौर्वपयोधिस्त्वं शरण्य शरणं स ममैधि ।
लक्ष्मणक्षाणवियोगकृशानौ यः स्वजीविततृणाहुतियज्वा ॥ २१.७६ ॥

क्रौञ्चदुःखमपि वीक्ष्य शुचा यः श्लोकमेकमसृजत्कविराद्यः ।
स त्वदुत्थकरुणः खलु काव्यं श्लोकसिन्धुमुचितं प्रबबन्ध ॥ २१.७७ ॥

विश्रवःपितृकयाप्तुमनर्हं सश्रवस्त्वमनयेत्युचितज्ञः ।
किं चकर्तिथ न शूर्पणखाया लक्ष्मणेन वपुषा श्रवसी वा ॥ २१.७८ ॥

ते हरन्तु दुरितव्रततिं मे यैः स कल्पविटपी तव दोर्भिः ।
छद्मयादवतनोरुदपाटि स्पर्धमान इव दानमदेन ॥ २१.७९ ॥

बालकेलिषु तदा यदलावीः कर्परीभिरभिहत्य तरङ्गान् ।
भाविबाणभुजभेदनलीलासूत्रपात्र इव पातु तदस्मान् ॥ २१.८ ॥

कर्णशक्तिमफलां खलु कर्तुं सज्जितार्जुनरथाय नमस्ते ।
केतनेन कपिनोरसि शक्तिं लक्ष्मणं कृतवता हृतशल्यम् ॥ २१.८१ ॥

नापगेयमनयः सशरीरं द्यां वरेण नितरामपि भक्तम् ।
मा स भूत्सुरवधूसुरतज्ञो दिव्यपि व्रतविलोपभियेति ॥ २१.८२ ॥

घातितार्कसुतकर्णदयालुर्जैत्रितेन्दुकुलपार्थकृतार्थः ।
अर्धदुःखसुखमभ्यनयस्त्वं सास्रुभानुविहसद्विधुनेत्रः ॥ २१.८३ ॥

प्राणवत्प्रणयिराध न राधा पुत्रशत्रुसखिता सदृशी ते ।
श्रीप्रियस्य सदृगेव तवश्रीवत्समात्महृदि धर्तुमजस्रम् ॥ २१.८४ ॥

तावकापरतनोः सितकेशस्त्वं हली किल स एव च शेषः ।
साध्वसाववतरस्तव धत्ते तज्जरच्चिकुरनालविलासः ॥ २१.८५ ॥

हृद्यगन्धवहभोगवतीशः शेषरूपमपि बिभ्रदशेषः ।
भोगभूतिमदिरारुचिरश्रीरुल्लसत्कुमुदबन्धुरुचिस्त्वम् ॥ २१.८६ ॥

रेवतीशसुषमा किल नीलस्याम्बरस्य रुचिरा तनुभासा ।
कामपाल भवतः कुमुदाविर्भावभावितरुचेरुचितैव ॥ २१.८७ ॥

एकचित्तततिरद्वयवादिन्नत्रयीपरिचितोऽथ बुधस्त्वम् ।
पाहि मां विधुतकोटिचतुष्कः पञ्चबाणविजयी षडभिज्ञः ॥ २१.८८ ॥

तत्र मारजयिनि त्वयि साक्षात्कुर्वति क्षणिकतात्मनिषेधौ ।
पुष्पवृष्टिरपतत्सुरहस्तात्पुष्पशस्त्रशरसंततिरेव ॥ २१.८९ ॥

तावके हृदि निपात्य कृतेयं मन्मथेन दृढधैर्यतनुत्रे ।
कुण्ठनादतितमां कुसुमानां छत्त्रमित्त्रमुखतैव शराणाम् ॥ २१.९ ॥

यत्तव स्तवविधौ विधिरास्ये चातुरीं चरति तच्चतुरास्यः ।
त्वय्यशेषविदि जाग्रति शर्वः सर्वविद्ब्रुवतया शितिकण्ठः ॥ २१.९१ ॥

भूमवत्कलयता युधि कालं म्लेच्छकल्पशिखिनां करवालम् ।
कल्किना दशतयं मम कल्कं त्वं व्युदस्य दशमावतरेण ॥ २१.९२ ॥

देहिनेव यशसा भ्रमतोर्व्यां पाण्डुरेण रणरेणुभिरुच्चैः ।
विष्णुना जनयितुर्भवताभून्नाम विष्णुयशसश्च सदर्थम् ॥ २१.९३ ॥

सन्तमद्वयमयेऽध्वनि दत्तात्रेयमर्जुनयशोर्जनबीजम् ।
नौमि योगजयितानघसंज्ञं त्वामलर्कभवमोहतमोर्कम् ॥ २१.९४ ॥

भानुसुनुमनुगृह्य जय त्वं राममूर्तिहतवृत्रहपुत्रः ।
इन्द्रनन्दनसपक्षमपि त्वां नौमि कृष्न निहतार्कतनूजम् ॥ २१.९५ ॥

वामनादणुतमादनुजीयास्त्वं त्रिविक्रमतनूभृतदिक्कः ।
वीतहिंसनकथादथ बुद्धात्कल्किना हतसमस्त नमस्ते ॥ २१.९६ ॥

मां त्रिविक्रम पुनीहि पदे ते किं लगन्नजनि राहुरुपानत् ।
किं प्रदक्षिणनकृद्भ्रमिपाशं जाम्बवानदित ते बलिबन्धे ॥ २१.९७ ॥

अर्धचक्रवपुषार्जुनबाहून्योऽलुनात्परशुनाथ सहस्रम् ।
तेन किं सकलचक्रविलूने बाणबाहुनिचयेऽञ्चति चिक्रम् ॥ २१.९८ ॥

पाञ्चजन्यमधिगत्य करेणापाञ्चजन्यमसुरानिति वक्षि ।
चेतनाः स्थ किल पश्यत किं नाचेतनोऽपि मयि मुक्तविरोधः ॥ २१.९९ ॥

तावकोरसि लसद्वनमाले श्रीफलद्विफलशाखिकयेव ।
स्थीयते कमलया त्वदजस्रस्पर्शकण्टकितयोत्कुचया च ॥ २१.१ ॥

त्यज्यते न जलजेन करस्ते शिक्षितुं सुभगभूयमिवोच्चैः ।
आननं च नयनायितबिम्बः सेवते कुमुदहासकरांशुः ॥ २१.१०१ ॥

ये हिरण्यकशिपुं रिपुमुच्चै रावणं च कुरुवीरचयं च ।
हन्त हन्तुमभवंस्तव योगास्ते नरस्य च हरेश्च जयन्ति ॥ २१.१०२ ॥

केयमर्धभवता भवतोहे मायिना ननु भवः सकलस्त्वम् ।
शेषतामपि भजन्तमशेषं वेद वेदनयनो हि जनस्त्वाम् ॥ २१.१०३ ॥

प्राग्भवैरुदगुदग्भवगुम्फान्मुक्तियुक्तिविहताविह तावत् ।
नापरः स्फुरति कस्यचनापि त्वत्समाधिमवधूय समाधिः ॥ २१.१०४ ॥

ऊर्ध्वदिक्कदलनां द्विरकार्षीः किं तनुं हरिहरीभवनाय ।
किं च तिर्यगभिनो नृहरित्वे कः स्वतन्त्रमनु नन्वनुयोगः ॥ २१.१०५ ॥

आप्तकाम सृजसि त्रिजगत्किं किं भिनत्सि यदि निर्मितमेव ।
पासि चेदमवतीर्य मुहुः किं स्वात्मनापि यदवश्यविनाश्यम् ॥ २१.१०६ ॥

जाह्नवीजलजकौस्तुभचन्द्रान्पादपाणिहृदयेक्षणवृत्तीन् ।
उत्थिताब्धिसलिलात्त्वयि लोला श्रीःस्थिता परिचितान्परिचिन्त्य ॥ २१.१०७ ॥

वस्तु वास्तु घटते न भिदानां यौक्तनैकविधबाधविरोधैः ।
तत्त्वदीहितविजृम्भिततत्तद्भेदमेतदिति तत्वनिरुक्तिः ॥ २१.१०८ ॥

वस्तु विश्वमुदरे तव दृष्ट्वा बाह्यवत्किल मृकण्डुतनूजः ।
स्वं विमिश्रमुभयं न विविञ्चन्निर्ययौ स कतमस्त्वमवैषि ॥ २१.१०९ ॥

ब्रह्मणोऽस्तु तव शक्तिलतायां मूर्ध्नि विश्वमथ पत्युरहीनाम् ।
बालतां कलयतो जठरे वा सर्वथासि जगतामवलम्बः ॥ २१.११ ॥

धर्मबीजसलिला सरिदङ्घ्रावर्थमूलमुरसि स्फुरति श्रीः ।
कामदैवतमपि प्रसवस्ते ब्रह्म मुक्तिदमसि स्वयमेव ॥ २१.१११ ॥

लीलयापि तव नाम जना ये गृह्णते नरकनाशकरस्य ।
तेभ्य एव नरकैरुचिता भीस्ते तु बिभ्यतु कथं नरकेभ्यः ॥ २१.११२ ॥

मृत्युहेतुषु न वज्रनिपाताद्भीतिमर्हति जनस्त्वयि भक्तः ।
यत्तदोच्चरति वैष्णवकण्ठान्निष्प्रयत्नमपि नाम तव द्राक् ॥ २१.११३ ॥

सर्वथापि शुचिनि क्रियमाणे मन्दिरोदर इवावकरा ये ।
उद्भवन्ति भविनां हृदि तेषां शोधनी भवदनुस्मृतिधारा ॥ २१.११४ ॥

अस्मदाद्यविषयेऽपि विशेषे रामनाम तव धाम गुणानाम् ।
अन्वबन्धि भवतैव तु कस्मादन्यथा ननु जनुस्त्रितयेऽपि ॥ २१.११५ ॥

भक्तिभाजमनुगृह्य दृशा मां भाष्करेण कुरु वीततमस्कम् ।
अर्पितेन मम नाथ न तापं लोचनेन विधुना विधुनासि ॥ २१.११६ ॥

लङ्घयन्नहरहर्भवदाज्ञामस्मि हा विधिनिषेधमयीं यः ।
दुर्लभं स तपसापि गिरैव त्वत्प्रसादमहमिच्छुरलज्जः ॥ २१.११७ ॥

विश्वरूप कृतविश्व कियत्ते वैभवाद्भुतमणौ हृदि कुर्वे ।
हेम नह्यति कियन्निजचीरे काञ्चनाद्रिमधिगत्य दरिद्रः ॥ २१.११८ ॥

इत्युदीर्य स हरिं प्रति संप्रज्ञातवासिततमः समपादि ।
भावनाबलविलोकितविष्णौ प्रीतिभक्तिसदृशानि चरिष्णुः ॥ २१.११९ ॥

विप्रपाणिषु भृशं वसुवर्षी पात्रसात्कृतपितृक्रतुकव्यः ।
श्रेयसा हरिहरं परिपूज्य प्रह्व एष शरणं प्रविवेश ॥ २१.१२ ॥

माध्यंदिनादनु विधेर्वसुधाषुधांशुरास्वादितामृतमयौदनमोदमानः ।
प्राञ्चं स चित्रमविदूरितवैजयन्तं वेश्माचलं निजरुचीभिरलंचकार ॥ २१.१२१ ॥

भीमात्मजापि कृतदैवतभक्तिपूजा पत्यौ च भुक्तवति भुक्तवती ततोऽनु ।
तस्याङ्कमङ्कुरिततत्परिरिप्समध्यमध्यास्त भूषणभरातिभरालसाङ्गी ॥ २१.१२२ ॥

तामन्वगादशितबिम्बविपाकचञ्चोः स्पष्टं शलाटुपरिणत्युचितच्छदस्य ।
कीरस्य कापि करवारिरुहे वहन्ती सौन्दर्यपुञ्जमिव पञ्जरमेकमाली ॥ २१.१२३ ॥

कूजायुजा बहुलपक्षशितिम्नि सीम्ना स्पष्टं कुहूपदपदार्थमिथोऽन्वयेन ।
तिर्यग्धृतस्फटिकदण्डकवर्तिनैका तामन्ववर्तत पिकेन मदाधिकेन ॥ २१.१२४ ॥

शिष्याः कलाविधिषु भीमभुवो वयस्या वीणामृदुक्वणनकर्मणि याः प्रवीणाः ।
आसीनमेनमुपवीणयितुं ययुस्ता गन्धर्वराजतनुजा मनुजाधिराजम् ॥ २१.१२५ ॥

तासामभासत कुरङ्गदृशां विपञ्ची किंचित्पुरः कलितनिष्कलकाकलीका ।
भैमीतथामधुरकण्ठलतोपकण्ठे शब्दायितुं प्रथममप्रतिभावतीव ॥ २१.१२६ ॥

सा यद्धृताखिलकलागुणभूमभूमीभैमीतुलाधिगतये स्वरसंगतासीत् ।
तं प्रागसावविनयं परिवादमेत्य लोकेऽधुनापि विदिता परिवादिनीति ॥ २१.१२७ ॥

नादं निषादमधुरं ततमुज्जगार साभ्यासभागवनिभृत्कुलकुञ्जरस्य ।
स्तम्बेरमीव कृतसश्रुतिमूर्धकम्पा वीणा विचित्रकरचापलमाभजन्ती ॥ २१.१२८ ॥

आकृष्य सारमखिलं किमु वल्लकीनां तस्या मृदुस्वरमसर्जि न कण्ठनालम् ।
तेनान्तरं तरलभावमवाप्य वीणा ह्रीणा न कोणममुचत्किमु वालयेषु ॥ २१.१२९ ॥

तद्दम्पतिश्रुतिमधून्यथ चाटुगाथा वीणास्तथा जगुरतिस्फुटवर्णबन्धम् ।
इत्थं यथा वसुमतीरतिगृह्यकस्ताः कीरः किरन्मुदमुदीरयति स्म विश्वाः ॥ २१.१३ ॥

अस्माकमुक्तिभिरवैष्यथ एव बुद्धेर्गाधं युवामतिमती स्तुमहे तथापि ।
ज्ञानं हि वागवसरावचनाद्भवद्भ्यामेतावदप्यनवधारितमेव न स्यात् ॥ २१.१३१ ॥

भूभृद्भवाङ्कभुवि राजशिखामणेः सा त्वं चास्य भोगसुभगस्य समः क्रमोऽयम् ।
यन्नाकपालकलनाकलितस्य भर्तुरत्रापि जन्मनि सती भवती स भेदः ॥ २१.१३२ ॥

एषा रतिः स्फुरति चेतसि कस्य यस्याः सूते रतिं द्युतिरथ त्वयि वा तनोति ।
त्रैयक्षवीक्षणखिलीकृतनिर्जरत्वसिद्धायुरध्वमकरध्वजसंशयं कः ॥ २१.१३३ ॥

एतां धरामिव सरिच्छविहारिहारामुल्लासितस्वमिदमाननचन्द्रभासा ।
बिभ्रद्विभासि पयसामिव राशिरन्तर्वेदिश्रियं जनमनः प्रियमध्यदेशाम् ॥ २१.१३४ ॥

दत्ते जयं जनितपत्त्रनिवेशनेयं साक्षीकृतेन्दुवदना मदनाय तन्वी ।
मध्यस्थदुर्बलतमत्वफलं किमेतद्भुक्तिर्यदत्र तव भर्त्सितमत्स्यकेतोः ॥ २१.१३५ ॥

चेतोभवस्य भवती कुचपत्त्रराजधानीयकेतुमकरा ननु राजधानी ।
अस्यां महोदयमहस्पृशिमीनकेतो के तोरणं तरुणि न ब्रुवते भ्रुवौ ते ॥ २१.१३६ ॥

अस्या भवन्तमनिशं भवतस्तथैनां कामः श्रमं न कथमृच्छति नाम गच्छन् ।
छायैव वामथ गतागतमाचरिष्णोस्तस्याध्वजश्रमहरा मकरध्वजस्य ॥ २१.१३७ ॥

स्वेदाप्लवप्रणयिनी नवरोमराजी रत्यै यदाचरति जागरितव्रतानि ।
आभासितेन नरनाथ मधूत्थसान्द्रमग्नासमेषुशरकेशरदन्तुराङ्गः ॥ २१.१३८ ॥

प्राप्ता तवापि नृप जीवितदेवतेयं घर्माम्बुशीकरकरम्बनमम्बुजाक्षी ।
ते ते यथा रतिपतेः कुसुमानि बाणाः स्वेदस्तथैव किमु तस्य शरक्षतास्रम् ॥ २१.१३९ ॥

रागं प्रतीत्य युवयोस्तमिमं प्रतीची भानुश्च किं द्वयमजायत रक्तमेतत् ।
तद्वीक्ष्य वां किमिह केलिसरित्सरोजैःकामेषुतोचितमुखत्वमधीयमानम् ॥ २१.१४ ॥

अन्योन्यरागवशयोर्युवयोर्विलासस्वच्छन्दताच्छिदपयातु तदालिवर्गः ।
अत्याजयन्सिचयमाजिमकारयन्वा दन्तैर्नखैश्च मदनो मदनः कथं स्यात् ॥ २१.१४१ ॥

इति पठति शुके मृषा ययुस्ता बहु नृपकृत्यमवेत्य सांधिवेलम् ।
कुपितनिजसखीदृशार्धदृष्टाः कमलतयेव तदा निकोचवत्यः ॥ २१.१४२ ॥

अकृत परभृतः स्तुहिस्तुहीति श्रुतवचनस्रगनूक्तिचुञ्चुचञ्चुः ।
पठितनलनुतिं प्रतीव कीरं तमिव नृपं प्रति जातनेत्ररागः ॥ २१.१४३ ॥

तुङ्गप्रासादवासादथ भृशकृशतामायतीं केलिकुल्यामद्राक्षोदर्कबिम्बप्रतिकृतिमणिना भीमजा राजमानाम् ।
वक्रं वक्रं व्रजन्तीं फणियुवतिरिति त्रस्नुभिर्व्यक्तमुक्तान्योन्यं विद्रुत्य तीरे रथपदमिथुनैः सूचितामर्तिरुत्या ॥ २१.१४४ ॥

अथ रथचरणौ विलोक्य रक्तावतिविरहासहताहताविवास्रैः ।
अपि तमकृत पद्मसुप्तिकालं श्वसनविकीर्णसरोजसौरभं सा ॥ २१.१४५ ॥

अभिलपति पतिं प्रति स्म भैमी सदय विलोकय कोकयोरवस्थाम् ।
मम हृदयमिमौ च भिन्दतीं हा क इव विलोक्य नरो न रोदितीमाम् ॥ २१.१४६ ॥

कुमुदमुदमुदेष्यतीमसोढा रविरविलम्बितुकामतामतानीत् ।
प्रतितरु विरुवन्ति किं शकुन्ताः स्वहृदि निवेशितकोककाकुकुन्ताः ॥ २१.१४७ ॥

अपि विरहमनिष्टमाचरन्तावधिगमपूर्वकपूर्वसर्वचेष्टौ ।
इदमहह निदर्शनं विहंगौ विधिवशचेतनचेष्टनानुमाने ॥ २१.१४८ ॥

अङ्घ्रिस्थारुणिमेष्टकाविसरणैः शोणे कृपाणः स्फुटं कालोऽयं विधिना रथाङ्गमिथुनं विच्छेत्तुमन्विच्छता ।
रश्मिग्राहिगरुत्मदग्रजसमारब्धाविरामभ्रमौ दण्डभ्राजिनि भानुशाणवलये संसज्य किं निज्यते ॥ २१.१४९ ॥

इति स विधुमुखीमुखेन मुग्धालपितसुधासवमर्पितं निपीय ।
स्मितशबलवलन्मुखोऽवदत्तां स्फुटमिदमीदृशमीदृशं यथात्थ ॥ २१.१५ ॥

स्त्रीपुंसौ प्रविभज्य जेतुमखिलावालोचितौचित्ययोर्नम्रां वेद्मि रतिप्रसूनशरयोश्चापद्वयीं त्वद्भ्रुवौ ।
त्वन्नासाच्छलनिह्नुतां द्विनलिकीं नालीकमुक्त्येषिणोस्त्वन्निश्वासलते मधुश्वसनजं वायव्यमस्त्रं तयोः ॥ २१.१५१ ॥

पीतो वर्णगुणः स चातिमधुरः कायेऽपि तेऽयं यथा यं बिभ्रत्कनकं सुवर्णमिति कैरादृत्य नोत्कीर्त्यते ।
का वर्णान्तरवर्णना धवलिमा राजैव रूपेषु यस्तद्योगादपि यावदेति रजतं दुर्वर्णतादुर्यशः ॥ २१.१५२ ॥

खण्डक्षोदमृदि स्थले मधुपयःकादम्बिनीतर्पणात्कृष्टे रोहति दोहदेन पयसां पिण्डेन चेत्पुण्ड्रकः ।
स द्राक्षाद्रवसेचनैर्यदि फलं धत्ते तदा त्वद्गिरामुद्देशाय ततोऽप्युदेति मधुराधारस्तमप्प्रत्ययः ॥ २१.१५३ ॥

उन्मीलद्गुडपाकतन्तुलतया रज्ज्वा भ्रमीरर्जयन्दानान्तःश्रुतशऋकराचलमथः स्वेनामृतान्धाः स्मरः ।
नव्यामिक्षुरसोदधेर्यदि सुधामुत्थापयेत्सा भवज्जिह्वायाः कृतिमाह्वयेत परमां मत्कर्णयोः पारणाम् ॥ २१.१५४ ॥

आस्ये या तव भारती वसति तल्लीलारविन्दोल्लसद्वासे तत्कलवैणनिक्वणमिलद्वाणीविलासामृते ।
तत्केलिभ्रमणार्हगैरिकसुधानिर्माणहर्म्याधरे तन्मुक्तामणिहार एव किमयं दन्तस्रजौ राजतः ॥ २१.१५५ ॥

वाणी मन्मथतीर्थमुज्ज्वलरसस्रोतस्वती कापि ते खण्डः खण्ड इतीदमीयपुलिनस्यालप्यते वालुका ।
एतत्तीरमृदैव किं विरचिताः पूताः सिताश्चक्रिकाः किं पीयूषमिदंपयांसि किमिदं तीरे तवैवाधरौ ॥ २१.१५६ ॥

परभृतयुवतीनां सम्यगायाति गातुं न तव तरुणि वाणी यं सुधासिन्धुवेणी ।
कति न रसिककण्ठे कर्तुमभ्यस्यतेऽसौ भवदुपविपिनाम्रे ताभिराम्रेडितेन ॥ २१.१५७ ॥

ऊर्ध्वस्ते रदनच्छदः स्मरधनुर्बन्धूकमालामयं मौर्वी तत्र तवाधराधरतटाधःसीमलेखालता ।
एषा वागपि तावकी ननु धनुर्वेदः प्रिये मान्मथः सोऽयं कोणधनुष्मतीभिरुचितं वीणाभिरभ्यस्यते ॥ २१.१५८ ॥

स ग्राम्यः स विदग्धसंसदि सदा गच्छत्यपाङ्क्तेयतां तं च स्प्रस्ष्टुमपि स्मरस्य विशिखा मुग्धे विगानोन्मुखाः ।
यः किं मध्विति नाधरं तव कथं हेमेति न त्वद्वपुः कीदृङ्नाम सुधेति पृच्छति न ते दत्ते गिरं चोत्तरम् ॥ २१.१५९ ॥

मध्ये बद्धाणिमा यत्सगरिममहिमश्रोणिवक्षोजयुग्मा जाग्रच्चेतोवशित्वा स्मितधृतलिघिमा मां प्रतीशित्वमेषि ।
सूक्तौ प्राकाम्यरम्या दिशि विदिशि यशोलब्धकामावसाया भूतीरष्टावपीशस्तददित मुदितः स्वस्य शिल्पाय तुभ्यम् ॥ २१.१६ ॥

त्वद्वाचः स्तुतये वयं न पटवः पीयूषमेव स्तुमस्तस्यार्थे गरुडामरेन्द्रसमरः स्थाने स जानेऽजनि ।
द्राक्षापानकमानमर्दनसृजा क्षीरे दृढावज्ञया यस्मिन्नाम धृतोऽनया निजपदप्रक्षालनानुग्रहः ॥ २१.१६१ ॥

शोकश्चेत्कोकयोस्त्वां सुदति तुदति तद्व्याहराज्ञाकरस्ते गत्वा कुल्यामनस्तं व्रजितुमनुनये भानुमेतज्जलस्थम् ।
बद्धे मय्यञ्जलावप्यनुनयविमुखः स्यान्ममैकग्रहोऽयं दत्त्वैवाभ्यां तदम्भोञ्जलिमिह भवतीं पश्य मामेष्यमाणम् ॥ २१.१६२ ॥

तदानन्दाय त्वत्परिहसितकन्दाय भवती निजालीनां लीनां स्थितिमिह मुहूर्तं मृगयताम् ।
इतिव्याजात्कृत्वालिषु चलितचित्तां सहचरीं स्वयं सोयं सायंतनविधिविधित्सुर्बहिरभूत् ॥ २१.१६३ ॥

श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
तस्यागादयमेकविंशगणनाकाव्येऽतिनव्ये कृतौ भैमीभर्तृचरित्रवर्णनमये सर्गो निसर्गोज्ज्वलः ॥ २१.१६४ ॥