← अष्टादशः सर्गः नैषधीयचरितम्‌
एकोनविंश: सर्गः
श्रीहर्षः
विंश: सर्गः →

निशि दशमितामालिङ्गन्त्यां विबोधविधित्सुभिर्निषधवसुधामीनाङ्कस्य प्रियाङ्कमुपेदुषः ।
श्रुतिमधुपदस्रग्वैदग्धीविभावितभाविकस्फुटरसभृशाभ्यक्ता वैतालिकैर्जगिरे गिरः ॥ १९.१ ॥

जय जय महाराज प्राभातिकीं सुषमामिमां सफलयत मां दानाडक्ष्णोर्दरालसपक्ष्मणी ।
प्रथमशकुनं शय्योत्थायं तवास्तु विदर्भजा प्रियजनमुखाम्भोजात्तुङ्गं यदङ्ग न मङ्गलम् ॥ १९.२ ॥

वरुणगृहिणीमाशामासादयन्तममुं रुचीनिचयसिचयांशांशभ्रंशक्रमेण निरंशुकम् ।
तुहिनमहसं पश्यन्तीव प्रसादमिषादसौ निजमुखमितः स्मेरं धत्ते हरेर्महिषीहरित् ॥ १९.३ ॥

अमहतितरास्तादृक्तारा न लोचनगोचरास्तरणिकिरणा द्यामञ्चन्ति क्रमादपरस्पराः ।
कथयति परिश्रातिं रात्री तमस्सहयुध्वनामयमपि दरिद्राणप्राणस्तमीदयितस्त्विषाम् ॥ १९.४ ॥

स्फुरति तिमिरस्तोमः पङ्कप्रपञ्च इवोच्चकैः पुरुसितगरुच्चञ्चच्चञ्चच्चञ्चूपुटस्फुटचुम्बितः ।
अपि मधुकरी कालिंमन्या विराजति धूमलच्छविरिव रवेर्लाक्षालक्ष्मीं करैरतिपातुकैः ॥ १९.५ ॥

रजनिवमथुप्रालेयाम्भःकणक्रमसंभृतैः कुशकिसलयस्याच्छैरग्रेशयैरुदबिन्दुभिः ।
सुषिरकुशलेनायःसूचीशिखाङ्कुरसंकरं किमपि गमितान्यन्तर्मुक्ताफलान्यवमेनिरे ॥ १९.६ ॥

रविरुचिऋचामोकारेषु स्फुटामलबिन्दुतां गमयितुममूरुच्चीयन्ते विहायसि तारकाः ।
स्वरविरचनायासामुच्चैरुदात्ततया हृताः शिशिरमहसो बिम्बादस्मादसंशयमंशवः ॥ १९.७ ॥

व्रजति कुमुदे दृष्ट्वा मोहं दृशोरपिधायके भवति च नले दूरं तारापतौ च हतौजसि ।
लघु रघुपतेर्जायां मायामयीमिव रावणिस्तिमिरचिकुरग्राहं रात्रिं हिनस्ति गभस्तिराट् ॥ १९.८ ॥

त्रिदशमिथुनक्रीडातल्पे विहायसि गाहते निधुवनधुतस्रग्भागश्रीभरं ग्रहसंग्रहः ।
मृदुतरकराकारैस्तूलोत्करैरुदरंभरिः परिहरति नाखण्डो गण्डोपधानविधां विधुः ॥ १९.९ ॥

दशशतचतुर्वेदीशाखाविवर्तनमूर्तयः सविधमधुनाऽलंकुर्वन्ति ध्रुवं रविरश्मयः ।
वदनकुहरेऽप्यध्येत्ṝणामयं तदुदञ्चति श्रुतिपदभयस्तेषामेव प्रतिध्वनिरध्वनि ॥ १९.१ ॥

नयति भगवानम्भोजस्याऽनिबन्धनबान्धवः किमपि मघवप्रासादस्य प्रघाणमुपघ्नताम् ।
अपसरदरिध्वान्तप्रत्यग्वियत्पथमण्डलीलगनफलदश्रान्तस्वर्णाचलभ्रमविभ्रमः ॥ १९.११ ॥

नभसि महसां ध्वान्तध्वाङ्क्षप्रमापणपत्त्रिणामिह विहरणैः श्यैनंपातां रवेरवधारयन् ।
शशविशसनत्रासादाशामयाच्चरमां शशी तदधिगमनात्तारापारापतैरुदडीयत ॥ १९.१२ ॥

भृशमबिभरुस्तारा हाराच्च्युता इव मौक्तिकाः सुरसुरतजक्रीडालूनाद्द्युसद्वियदङ्गणम् ।
बहुकरकृतात्प्रातःसंमार्जनादधुना पुनर्निरुपधिनिजावस्थालक्ष्मीविलक्षणमीक्ष्यते ॥ १९.१३ ॥

प्रथममुपहृत्यार्घं तारैरखन्डिततण्डुलैस्तिमिरपरिषद्दूर्वापर्वावलीशबलीकृतैः ।
अथ रविरुचां ग्रासातिथ्यं नभः स्वविहारिभिः सृजति शिशिरक्षोदश्रेणीमयैरुदसक्तुभिः ॥ १९.१४ ॥

असुरहितमप्यादित्योत्थां विपत्तिमुपागतं दितिसुतगुरुः प्राणैर्योक्तुं न किं कचवत्तमः ।
पठति लुठतीं कण्ठे विद्यामयं मृतजीवनीं यदि न वहते संध्यामौनव्रतव्ययभीरुताम् ॥ १९.१५ ॥

उदयशिखरिप्रस्थान्यह्ना रणेऽत्र निशः क्षणे दधति विहरत्पूषाण्यूष्मद्रुताश्मजतुस्रवान् ।
उदयदरुणप्रह्वीभावादरादरुणानुजे मिलति किमु तत्सङ्गाच्छङ्क्या नवेष्टकवेष्टना ॥ १९.१६ ॥

रविरथहयानश्वस्यन्ति ध्रुवं वडवा बलप्रतिबलबलावस्थायिन्यः समीक्ष्य समीपगान् ।
निजपरिवृढं गाढप्रेमा रथाङ्गविहंगमी स्मरशरपराधीनस्वान्ता वृषस्यति संप्रति ॥ १९.१७ ॥

निशि निरशनाः क्षीरस्यन्तः क्षुधा।श्वकिशोरका मधुरमधुरं हेषन्ते ते विलोलितवालधि ।
तुरगसमजः स्थानोत्थायं क्वणन्मणिमन्थभूधरभवशिलालेहायेहाचणो लवणस्यति ॥ १९.१८ ॥

उडुपरिषदः किं नार्हत्वं निशः किमु नौचिती पतिरिह न यद्दृष्टस्ताभ्यां गणेयरुचीगणः ।
स्फुटमुडुपतेराश्मं वक्षः स्फुरन्मलिनाश्मनश्छवि यदनयोर्विच्छेदेऽपि द्रुतं बत न द्रुतम् ॥ १९.१९ ॥

अरुणकिरणे वह्नौ लाजानुदूनि जुहोति या परिणयति तां संध्यामेतामवैमि मणिर्दिवः ।
इयमिव स एवाग्निभ्रान्तिं करोति पुरा यतः करमपि न कस्तस्यैवोत्कः सकौतुकमीक्षितुम् ॥ १९.२ ॥

रतिरतिपतिद्वैतश्रीकौ धुरं बिभृमस्तरां प्रियवचसि यन्नग्नाचार्या वदामतमां ततः ।
अपि विरचितो विद्मः पुण्यद्रुहः खलु नर्मणः परुषमरुषे नैकस्यै वामुदेति मुदेऽपि तत् ॥ १९.२१ ॥

भव लघुयुताकान्तः संध्यामुपास्स्व तपोमल त्वरयति कथं संध्येयं त्वां न नाम निशानुजा ।
द्युतिपतिरथावश्यंकारी दिनोदयमासिता हरिपतिहरित्पूर्णभ्रूणायिता कियतः क्षनान् ॥ १९.२२ ॥

मुषितमनसश्चित्रं भैमि त्वयाद्य कलागृहैर्निषाधवसुधानाथस्यापि श्लथश्लथता विधौ ।
अजगणदयं संध्यां वन्ध्यां विधाय न दूषणं नमसितुमना यन्नाम स्यान्न संप्रति पूषणम् ॥ १९.२३ ॥

न विदुषितरा कापि त्वतस्ततो नियतक्रियापतनदुरिते हेतुर्भर्तुर्मनस्विनि मा स्म भूः ।
अनिशभवदत्यागादेनं जनः खलु कामुकीसुभगमभिधास्यत्युद्दामा पराङ्कवदावदः ॥ १९.२४ ॥

रह सहचरीमेतां राजन्नपि स्त्रितमां क्षाणं तरणिकिरणैः स्तोकान्मुक्तैः समालभते नभः ।
उदधिनिरयद्भास्वत्स्वर्णोदकुम्भदिदृक्षुतां दधति नलिनं प्रस्थायिन्यः श्रियः कुमुदान्मुदा ॥ १९.२५ ॥

प्रथमककुभः पान्थत्वेन स्फुटेक्षितवृत्रहाण्यनुपदमिह द्रक्ष्यन्ति त्वां महांसि महस्पतेः ।
पटिमवहनादूहापोहक्षमाणि वितन्वतामहह युवयोस्तावल्लक्ष्मीविवेचनचातुरीम् ॥ १९.२६ ॥

अनतिशिथिले पुंभावेन प्रगल्भबलाः खलु प्रसभमलयः पाथोजास्ये निविश्य निरित्वराः ।
किमपि मुखतःकृत्वानीतं वितीर्य सरोज्नीमधुरसमुषोयोगे जायां नवान्नमचीकरन् ॥ १९.२७ ॥

मिहिरकिरणाभोगं भोक्तुं प्रवृत्ततया पुरः कलितचुलुकापोशानस्य ग्रहार्थमियं किमु ।
इति विकसितेनैकेन प्राग्दलेन सरोजिनी जनयति मतिं साक्षात्कर्तुर्जनस्य दिनोदये ॥ १९.२८ ॥

तटतरुखगश्रेणीसांराविणैरिव साम्प्रतं सरसि विगलन्निद्रामुद्राजनिष्ट सरोजिनी ।
अधरसुधया मध्ये मध्ये वधूमुखलब्धया धयति मधुपः स्वादुंकारं मधूनि सरोरुहाम् ॥ १९.२९ ॥

गतचरदिनस्यायुर्भ्रंशे दयोदयसंकुचत्कमलमुकुलक्रोडान्नीडप्रवेशमुपेयुषाम् ।
इह मधुलिहां भिन्नेष्वम्भोरुहेषु समायतां सह सहचरैरालोक्यन्तेऽधुना मधुपारणाः ॥ १९.३ ॥

तिमिरविरहात्पाण्डूयन्ते दिशः कृशतारकाः कमलहसितैः श्येनीवोन्नीयते सरसी न का ।
शरणमिलितध्वान्तध्वंसिप्रभादरधारणाद्गगनशिखरं नीलत्येकं निजैरयशोभरैः ॥ १९.३१ ॥

सरसिजवनान्युद्यत्पक्षार्यमाणि हसन्तु न क्षतरुचिसुहृच्चन्द्रं तन्द्रामुपैतु न कैरवम् ।
हिमगिरिदृषद्दायादश्रि प्रतीतमदः स्मितं कुमुदविपिनस्याथो पाथोरुहैर्निजनिद्रया ॥ १९.३२ ॥

धयतु नलिने माध्वीकं वा न वाभिनवागतः कुमुदमकरन्दौघैः कुक्षिंभरिर्भ्रमरोत्करः ।
इह तु लिहते रात्रीतर्षं रथाङ्गविहंगमा मधु निजवधूवक्त्राम्भोजेऽधुनाधरनामकम् ॥ १९.३३ ॥

जगति मिथुने चक्रावेव स्मरागमपारगौ नवमिव मिथः संभुञ्जाते वियुज्य वियुज्य यौ ।
सततममृतादेवाहाराद्युदापदरोचकं तदमृतभुजां भर्ता शंभुर्विषां बुभुजे विभुः ॥ १९.३४ ॥

विशति युवतित्यागे रात्रीमुचं मिहिकारुचं दिनमणिमणिं तापे चित्तान्निजाच्च यियासति ।
विरहतरलज्जिह्वा बह्वाह्वयन्त्यतिविह्वलामिह सहचरीं नामग्राहं रथाङ्गविहंगमाः ॥ १९.३५ ॥

स्वमुकुलमयैर्नेत्रैरन्धंभविष्णुतया जनः किमु कुमुदिनीं दुर्व्याचष्टे रवेरनवेक्षिकाम् ।
लिखितपठिता राज्ञो दाराः कविप्रतिभासु ये शृणुत शृणुतासूर्यंपश्या न सा किल भाविनी ॥ १९.३६ ॥

चुलुकिततमःसिन्धोर्भृङ्गैः करादिव शुभ्यते नभसि बिसिनीबन्धोरन्ध्रच्युतैरुदविन्दुभिः ।
शतदलमधुस्रोतःकच्छद्वयीपरिरम्भणादनुपदमदःपङ्काशङ्काममी मम तन्वते ॥ १९.३७ ॥

घुसृणसुमनःशृएणीश्रीणामनादरिभिः सरःपरिसरचरैर्भासां भर्तुः कुमारतरैः करैः ।
अजनि जलजामोदानन्दोत्पतिष्णुमधुव्रता बलिशबलनाद्गुञ्जापुञ्जश्रियं हृगयालुभिः ॥ १९.३८ ॥

रचयति रुचिः शोणीमेतां कुमारितरा रवेर्यदलिपटली नीलीकर्तुं व्यवस्यति पातुका ।
अजनि सरसी कल्माषी तद्ध्रुवं धवलस्फुटत्कवलकलिकाषण्डैः पाण्डूकृतोदरमण्डला ॥ १९.३९ ॥

कमलकुशलाधाने भानोरहो पुरुषाव्रतं यदुपकुरुते नेत्राणि श्रीगृहत्वविवक्षुभिः ।
कविभिरुपमानादप्यम्भोजतां गमितान्यसावपि यदतथाभावान्मुञ्चत्युलूकविलोचने ॥ १९.४ ॥

यदतिमहती भक्तिर्भानौ तदेनमुदित्वरं त्वरितमुपतिष्ठस्वाध्वन्य त्वमध्वरपद्धतेः ।
इह हि समये मन्देहेषु व्रजन्त्युदवज्रतामभि रविमुपस्थानोत्क्षिप्ता जलाञ्जलयः किल ॥ १९.४१ ॥

उदयशिखरिप्रस्थावस्थायिनी खनिरक्षाया शिशुतरमहोमाणिक्यानामहर्मणिमण्डली ।
रजनिदृषदं ध्वान्तश्यामां विधूय पिधायिकां न खलु कतमेनेयं जाने जनेन विमुद्रिता ॥ १९.४२ ॥

सुरपरिवृढः कर्णात्प्रत्यग्रहीत्किल कुण्डलद्वयमथ खलु प्राच्यै प्रादान्मुदा स हि तत्पतिः ।
विधुरुदयभागेकं तत्र व्यलोकि विलोक्यते नवतरकरस्वर्णस्रावि द्वितीयमहर्मणिः ॥ १९.४३ ॥

दहनमविशद्दीप्तिर्यास्तं गते गतवासरप्रशमसमयप्राप्ते पत्यौ विवस्वति रागिणि ।
अधरभुवनात्सोद्धृत्यैषा हठात्तरणेः कृतामरपतिपुरप्राप्तिर्धत्ते सतीव्रतमूर्तिताम् ॥ १९.४४ ॥

बधुजनकथा तथ्यैवेयं तनौ तनुजन्मनः पितृशितिहरिद्वर्णाद्याहारजः किल कालिमा ।
शमनयमुनाक्रोडैः कालैरितस्तमसां पिबादपि यदमलच्छायात्कायादभूयत भास्वतः ॥ १९.४५ ॥

अभजत चिराभ्यासं देवः प्रतिक्षणदात्यये दिनमयमयं कालं भूयः प्रसूय तथा रविः ।
न खलु शकिता शीलं कालप्रसूतिरसौ पुरा यमयमुनयोर्जन्माधानेष्यनेन यथोज्झितुम् ॥ १९.४६ ॥

रुचिरचरणः सूतोरुश्रीसनाथरथः शनिं शमनमपि स त्रातुं लोकानसूत सुताविति ।
रथपदकृपासिन्धुर्बन्धुर्दृशामपि दुर्जनैर्यदुपहसितो भास्वान्नास्मान्हसिष्यति कः खलः ॥ १९.४७ ॥

शिशिरजरुजां घर्मं शर्मोदयाय तनूभृतामथ खरकरश्यानास्यानां प्रयच्छति यः पयः ।
जलभयजुषां तापं तापस्पृशां हिममित्ययं परहितमिलत्कृत्यावृत्तिः स भानुरुदञ्चति ॥ १९.४८ ॥

इह न कतमश्चित्रं धत्ते तमिस्रततीर्दिशामपि चतसृणामुत्सङ्गेषु शृइता धयतां क्षणात् ।
तरुशरणतामेत्य च्छायामयं निवसत्तमः शमयितुमभूदानैश्वर्यं यदर्यमरोचिषाम् ॥ १९.४९ ॥

जगति तिमिरं मूर्च्छामब्जव्रजेऽपि चिकित्सतः पितुरिव निजाद्दस्रावस्मादधीत्य भिषाज्यतः ।
अपिच शमनस्यासौ तातस्ततः किमु नौचिती यदयमदयः कह्लाराणामुदेत्यपमृत्यवे ॥ १९. ॥

उडुपरिवृढः पत्या मुक्तामयं यदपीडयद्यदपि बिसिनीं भानोर्जायां जहास कुमुद्वती ।
तदुभयमतः शङ्के सङ्कोचितं निजशङ्कया प्रसरति नवार्के कर्कन्धूफलारुणरोचिषि ॥ १९.५१ ॥

श्रुतिमयतनोर्भानोर्जानेऽवनेरधराढ्वना विहरणकृतः शाखा साक्षाच्छतानि दश त्विषाम् ।
निशि निशि सहस्राभ्यां दृग्भिः शृणोति सहस्वराः पृथगहिपतिः पश्यत्यस्याक्रमेण च भास्वराः ॥ १९.५२ ॥

बहुनखरता येषामग्रे खलु प्रतिभासते कमलसुहृदस्तेऽमी भानोः प्रवालरुचः कराः ।
उचितमुचितं जालेष्वन्तःप्रवेशिभिरायतैः कियदवयवैरेषामालिङ्गिताङ्गुलिलङ्गिमा ॥ १९.५३ ॥

नय नयनयोर्द्राक्पेयत्वं प्रविष्टवतीरमूर्भवनवलभीजालान्नाला इवार्ककराङ्गुलीः ।
भ्रमदणुगणक्रान्ता भान्ति भ्रमन्त्य इवाशु याः पुनरपि धृता कुन्दे किंवा न वर्धकिना दिवः ॥ १९.५४ ॥

दिनमिव दिवाकीर्तिस्तीक्ष्णैः क्षुरैः सवितु करैः स्तिमिरकबरीलूनां कृत्वा निशां निरदीधरत् ।
स्फुरति परितः केशस्तोमैस्ततः पतयालुभिर्ध्रुवमधवलं तत्तच्छायच्छलादवनीतलम् ॥ १९.५५ ॥

ब्रूमः शङ्खं तव नल यशः श्रेयसे सृष्टशब्दं यत्सोदर्यं स दिवि लिखितः स्पष्टमस्ति द्विजेन्द्रः ।
अद्धा श्रद्धाकरमिह करच्छेदमप्यस्य पश्य म्लानिस्थानं तदपि नितरां हारिणो यः कलङ्कः ॥ १९.५६ ॥

ताराशङ्खविलोपकस्य जलजं तीक्ष्णत्विषो भिन्दतः सारम्भं चलता करेण निबिडां निष्पीडनां लम्भितः ।
छेदार्थापहृताम्बुकम्बुजरजोजम्बालपाण्डुभवच्छङ्खच्छित्करपत्त्रतामिह वहन्नस्तंगतार्धो विधुः ॥ १९.५७ ॥

जलजभिदुरीभावं प्रेप्सुः करेण निपीडयत्यशिशिरकरस्ताराशङ्खप्रपञ्चविलोपकृत् ।
रजनिरमणस्यास्तक्षोणीधरार्धपिधावशाद्दधतमधुना बिम्बं कम्बुच्छिदः करपत्रताम् ॥ १९.५८ ॥

यत्पाथोजविमुद्रणप्रकरणे निर्निद्रयत्यंशुमान्दृष्टीः पूर्णयति स्म यज्जलरुहामक्ष्णा सहस्रं हरिः ।
साजात्यं सरसीरुहामपि दृशामप्यस्ति तद्वास्तवं यन्मूलाद्रियतेतरां कविनृभिः पद्मोपमा चक्षुषः ॥ १९.५९ ॥

अवैमि कमलाकरे निखिलयामिनीयामिकश्रियं श्रयति यत्पुरा विततपत्त्रनेत्रोदरम् ।
तदेव कुमुदं पुनर्दिनमवाप्य नर्भभ्रमद्द्विरेफरवघोरणाघनमुपैति निद्रामुदम् ॥ १९.६० ॥

इह किमुषसि पृच्छाशंसिकिंशब्दरूपप्रतिनियमितवाचा वायसेनैष पृष्टः ।
भण फणिभवशास्त्रे तातणः स्थानिनौ काविति विहिततुहीवागुत्तरः कोकिलोऽभूत् ॥ १९.६१ ॥

दाक्षीपुत्रस्य तन्त्रे ध्रुवमयमभवत्कोऽप्यधीती कपोतः कण्ठे शब्दौघसिद्धिक्षतबहुकठिनीशेषभूषानुयातः ।
सर्वं विस्मृत्य दैवात्स्मृतिमुषसि गतां घोषयन्यो घुसंज्ञां प्राक्संस्कारेण संप्रत्यपि धुवति शिरः पट्टिकापाठजेन ॥ १९.६२ ॥

पौरस्त्यायां घुसृणमसृणश्रीजुषो वैजयन्त्याः स्तोमैश्चित्तं हरिति हरति क्षीरकण्ठैर्मयूखैः ।
भानुर्जाम्बूनदतनुरसौ शक्रसौधस्य कुम्भः स्थाने पानं तिमिरजलधेर्भाभिरेतद्भवाभिः ॥ १९.६३ ॥

द्वित्रेरेव तमस्तमालगहनग्रासे दवीभावुकैरुस्रैरस्य सहस्रपत्त्रसदसि व्यश्राणि घस्रोत्सवः ।
घर्माणां रयचुम्बितं वितनुते तत्पिष्टपिष्टीकृतक्ष्मादिग्व्योमतमोघमोघमधुना मोघं निदाघद्युतिः ॥ १९.६४ ॥

दूरारूढस्तिमिरजलधेर्वाडवश्चित्रभानुर्भानुस्ताम्यद्वनरुहवनीकेलिवैहासिकोऽयम् ।
न स्वात्मीयं किमिति दधते भास्वरश्वेतिमानं द्यामद्यापि द्युमणिकरणश्रेणयः शोणयन्ति ॥ १९.६५ ॥

प्रातर्वर्णनयानया निजवपुर्भूषाप्रसादानदाद्देवी वः परितोषितेति निहितामान्तःपुरीभिः पुरः ।
सूता मण्डनमण्डलीं परिदधुर्माणिक्यरोचिर्मयक्रोधावेगसरागलोचनरुचा दारिद्र्यविद्राविणीम् ॥ १९.६६ ॥

आगच्छन्भणतामुषाः क्षाणमथातिथ्यं दृशोरानशे स्वर्गङ्गाम्बुनि बन्दिनी कृतदिनारम्भाप्लुतिर्भूपतिः ।
आनन्दादतिपुष्पकं रथमधिष्ठाय प्रियायौतके प्राप्तं तैरवरागतैरविदितप्रासादतो निर्गमः ॥ १९.६७ ॥

श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
एकामत्यजतो नवार्थघटनामेकान्नविंशो महाकाव्ये तस्य कृतौ नलीयचरिते सर्गोऽयमस्मिन्नगात् ॥ १९.६८ ॥