← द्वितीयः सर्गः नैषधीयचरितम्‌
तृतीयः सर्गः
श्रीहर्षः
चतुर्थः सर्गः →

आकुञ्चिताभ्यामथ पक्षतिभ्यां नभोविभागात्तरसावतीर्य ।
निवेशदेशाततधूतपक्षः पपात भूमावुपभैमि हंसः ॥ ३.१ ॥

आकस्मिकः पक्षपुटाहतायाः क्षितेस्तदा यः स्वन उच्चचार ।
द्रागन्यविन्यस्तदृशः स तस्याः संभ्रान्तमन्तः करणं चकार ॥ ३.२ ॥

नेत्राणि वैदर्भसुतासखीनां विमुक्ततत्तद्विषायग्रहाणि ।
प्रापुस्तमेकं निरुपाख्यरूपं ब्रह्मेव चेतांसि यतव्रतानाम् ॥ ३.३ ॥

हंसं तनौ सन्निहितं चरन्तं मुनेर्मनोवृत्तिरिव स्विकायाम् ।
ग्रहीतुकामादरिणा शयेन यत्नादसौ निश्चलतां जगाहे ॥ ३.४ ॥

तामिङ्गितैरप्यनुमाय मायामयं न भैम्या वियदुत्पपात ।
तत्पाणिमात्मोपरिपातुकं तु मोघं वितेने प्लुतिलाघवेन ॥ ३.५ ॥

व्यर्थ्(कृतं पत्ररथेन तेन तथाऽवसाय व्यवसायमस्याः ।
परस्परामर्पितहस्ततालं तत्कालमालीभिरहस्यतालम् ॥ ३.६ ॥

उच्चाटनीयः करतालिकानां दानादिदानीं भवतीभिरेषः ।
यान्वेति मां द्रुह्यति मह्यमेव सात्रेत्युपालम्भि तयालिवर्गः ॥ ३.७ ॥

धृताल्पकोपा हसिते सखीनां छायेव भास्वन्तमभिप्रयातुः ।
श्यामाथ हंसस्य करानवाप्तेर्मन्दाक्षलक्स्या लगति स्म पश्चात् ॥ ३.८ ॥

शस्ता न हंसाभिमुखी पुनस्ते यात्रेति ताभिश्छलहस्यमाना ।
साह स्म नैवाशकुनीभवेन्मे भाविप्रियावेदक एष हंसः ॥ ३.९ ॥

हंसोऽप्यसौ हंसगतेः सुदत्याः पुरः पुरश्चारु चलन्बभासे ।
वैलक्ष्यहेतोर्गतिमेतदीयामग्रेऽनुकृत्योपहसन्निवोच्चैः ॥ ३.१ ॥

पदे पदे भाVइनि भाविनी तं यथा करप्राप्यमवैति नूनम् ।
तथा सखेलं चलता लतासु प्रतार्य तेनाचकृषे कृशाङ्गी ॥ ३.११ ॥

रुषा निषिद्धालिजनां यदैनां छायाद्वितीयां कलयांचकार ।
तदा श्रमाम्भः कणभूषिताङ्गीं स कीरवन्मानुषवागवादीत् ॥ ३.१२ ॥

अये कियद्यावदुपैषि दूरं व्यर्थं परिश्राम्यसि वा किमित्थम् ।
उदेति ते भीरपि किं नु बाले विलोकयन्त्या न घना वनालीः ॥ ३.१३ ॥

वृथार्पयन्तीमपथे पदं त्वां मरुल्ललत्पल्लवपाणिकम्पैः ।
आलीव पश्य प्रतिषेधतीयं कपोतहुंकारगिरा वनाली ॥ ३.१४ ॥

धार्यः कथंकारमहं भवत्या वियद्विहारी वसुधैकगत्या ।
अहो शिशुत्वं तव खण्डितं न स्मरस्य सख्या वयसाप्यनेन ॥ ३.१५ ॥

सहस्रपत्त्रासनपत्त्रहंस वंशस्य पत्त्राणि पतत्रिणः स्मः ।
अस्मादृशां चाटुरसामृतानि स्वर्लोकलोकेतरदुर्लभानि ॥ ३.१६ ॥

स्वर्गापगाहेममृणालिनीनां नालामृणालाग्रभुजो भजामः ।
अन्नानुरूपां तनुरूपऋद्धिं कार्यं निदानाद्धि गुणानधीते ॥ ३.१७ ॥

धातुर्नियोगादिह नैषघीयं लीलासरः सेवितुमागतेषु ।
हैमेषु हंसेष्वहमेक एव भ्रमामि भूलोकविलोकनोत्कः ॥ ३.१८ ॥

विधेः कदाचिद्भ्रमणीविलासे श्रमातुरेभ्यः स्वमहत्तरेभ्यः ।
स्कन्धस्य विश्रान्तिमदां तदादि श्रम्यामि नाविश्रमविश्वगोऽपि ॥ ३.१९ ॥

बन्धाय दिव्ये न तिरश्चि कश्चित्पाशादिरासादितपौरुषः स्यात् ।
एकं विना मादृशि तन्नरस्य स्वर्भोगभाग्यं विरलोदयस्य ॥ ३.२ ॥

इष्टेन पूर्तेन नलस्य वश्याः स्वर्भोगमत्रापि सृजन्त्यमर्त्याः ।
महीरुहा दोहदसेकशक्तेराकालिकं कोरकमुद्गिरन्ति ॥ ३.२१ ॥

सुवर्णशैलादवतीर्य तूऋणं स्वर्वाहिनीवारिकणावकीर्णैः ।
तं वीजयामः स्मरकेलिकाले पक्षैर्नृपं चामरबद्धसख्यः ॥ ३.२२ ॥

क्रियेत चेत्साधुविभक्तिचिन्ता व्यक्तिस्तदा सा प्रथमाभिधेया ।
या स्वौजसां साधयितुं विलासैस्तावत्क्षमानामपदं बहु स्यात् ॥ ३.२३ ॥

राजा स यज्वा विबुधव्रजत्रा कृत्वाध्वराज्योपमयैव राज्यम् ।
भुङ्क्ते श्रितशृओत्रियसात्कृतश्रीः पूर्वं त्वहो शेषमशेषमन्त्यम् ॥ ३.२४ ॥

दारिद्र्यदारिद्रविणौघवर्षैरमोघमेघव्रतमर्थिसार्थे ।
संतुष्टमिष्टानि तमिष्टदेवं नाथन्ति के नाम न लोकनाथम् ॥ ३.२५ ॥

अस्मत्किल श्रोत्रसुधां विधाय रम्भा चिरं भामतुलां नलस्य ।
तत्रानुरक्ता तमनाप्य भेजे तन्नामगन्धान्नलकूबरं सा ॥ ३.२६ ॥

स्वर्लोकमस्माभिरितः प्रयातैः केलीषु तद्गानगुणान्निपीय ।
हा हेति गायन्यदशोचि तेन नाम्नैव हाहा हरिगायनोऽभूत् ॥ ३.२७ ॥

शृण्वन्सदारस्तदुदारभावं हृष्यन्मुहुर्लोम पुलोमजायाः ।
पुण्येन नालोकत लोकपालः प्रमोदबाष्पावृतनेत्रमालः ॥ ३.२८ ॥

सापीश्वरे शृण्वति तद्गुणौघान्प्रसह्य चेतो हरतोऽर्धशंभुः ।
अभूदपर्णाङ्गुलिरुद्धकर्णा कदा न कण्डूयनकैतवेन ॥ ३.२९ ॥

अलं सजन्धर्मविधौ विधाता रुणद्धि मौनस्य मिषेण वाणीम् ।
तत्कण्ठमालिङ्ग्य रसस्य तृप्तां न वेद तां वेदजडः स वक्राम् ॥ ३.३ ॥

श्रियस्तदालिङ्गनभूर्न भूता व्रतक्षतिः कापि पतिव्रतायाः ।
समस्तभूतात्मतया न भूतं तद्भर्तुरीर्ष्याकलुषाणुनापि ॥ ३.३१ ॥

धिक् तं विधेः पाणिमजातलज्जं निर्माति यः पर्वणि पूर्णमिन्दुम् ।
मन्ये स विशः स्मृततन्मुखश्रीः कृत्वार्धमौज्झद्धरमूर्ध्नि यस्तम् ॥ ३.३२ ॥

निलीयते ह्रीविधुरः स्वजैत्रं शृउत्वा विधुस्तस्य मुखं मुखान्नः ।
सूरे समुद्रस्य कदापि पूरे कदाचिदभ्रभ्रमदभ्रगर्भे ॥ ३.३३ ॥

संज्ञाप्य नः स्वध्वजभृत्यवर्गान्दैत्यारिरत्यब्जुनलास्यनुत्यै ।
तत्संकुचन्नाभिसरोजपीताद्धातुर्विलज्जं रमते रमायाम् ॥ ३.३४ ॥

रेखाभिरास्ये गणनादिवास्य द्वात्रिंशता दन्तमयीभिरन्तः ।
चतुर्दशाष्टादश चात्र विद्या द्वेधापि सन्तीति शशंस वेधाः ॥ ३.३५ ॥

श्रियौ नरेन्द्रस्य निरीक्ष्य तस्य स्मरामरेन्द्रावपि न स्मरामः ।
वासेन तस्मिन्क्षमयोश्च सम्यग्बुद्धौ न दध्मः खलु शेषबुद्धौ ॥ ३.३६ ॥

विना पतत्रं विनतातनूजैः समीरणैरीक्षणलक्षणीयैः ।
मनोभिरासीदनणुप्रमाणैर्न लङ्घिता दिक्कतमा तदश्वैः ॥ ३.३७ ॥

संग्रामभूमीषु भवत्यरीणामस्रैर्नदीमातृकतां गतासु ।
तद्बाणधारापवनाशनानां राजव्रजीयैरसुभिः सुभिक्षम् ॥ ३.३८ ॥

यशो यद्स्याजनि संयुगेषु कण्डूलभावं भजता भुजेन ।
हेतोर्गुणादेव दिगापगालीकूलंकषत्वव्यसनं तदीयम् ॥ ३.३९ ॥

यदि त्रिलोकी गणनापरा स्यात्तस्याः समाप्तिर्यदि नायुषः स्यात् ।
पारेपरार्धं गणितं यदि स्याद्गणेयनिः शेषगुणोऽपि स स्यात् ॥ ३.४ ॥

अवारितद्वारतया तिरश्चामन्तः पुरे तस्य निविश्य राज्ञः ।
गतेषु रम्येष्वधिकं विशेषमध्यापयामः परमाणुमध्याः ॥ ३.४१ ॥

पीयूषधारानधराभिरन्तस्तासां रसोदन्वति मज्जयामः ।
रम्भादिसौभाग्यरहः कथाभिः काव्येन काव्यं सृजतादृताभिः ॥ ३.४२ ॥

काभिर्न तत्राभिनवस्मराज्ञा विश्वासनिक्षेपवणिक् त्रियेऽहम् ।
जिह्रेति यन्नैव कुतोऽपि तिर्यक्कश्चित्तिरश्चस्त्रपते न तेन ॥ ३.४३ ॥

वार्तापि नासत्यपि सान्यमेति योगादरन्ध्रे हृदि यं निरुन्धे ।
विरञ्चिनानाननवादधौतसमाधिशास्त्रश्रुतिपूर्णकर्णः ॥ ३.४४ ॥

नलाश्रयेण त्रिदिवोपभोगं तवानवाप्यं लभते बतान्या ।
कुमुद्वतीवेन्दुपरिग्रहेण ज्योत्स्नोत्सवं दुर्लभमम्बुजिन्या ॥ ३.४५ ॥

तन्नैषधानूढतया दुरापं शर्म त्वयास्मत्कृतचाटुजन्म ।
रसालवन्या मधुपानुविद्धं सौभाग्यमप्राप्तवसन्तयेव ॥ ३.४६ ॥

तस्यैव वा यास्यसि किं न हस्तं दृष्टं मनः केन विधेः प्रविश्य ।
अजातपाणिग्रहणासि तावद्रूपस्वरूपातिशयाश्रयश्च ॥ ३.४७ ॥

निशा शशाङ्कं शिवया गिरीशं शृइया हरिं योजयतः प्रतीतः ।
विधेरपि स्वारसिकः प्रयासः परस्परं योग्यसमागमाय ॥ ३.४८ ॥

वेलातिगस्त्रैणगुणाब्धिवेणिर्न योगयोग्यासि नलेतरेण ।
संदर्भ्यते दर्भगुणेन मल्लीमाला न मृद्वी भृशकर्कशेन ॥ ३.४९ ॥

विधिं वधूसृष्टिमपृच्छमेव तद्यानयुग्यो नलकेलियोग्याम् ।
त्वन्नामवर्णा इव कर्णपीता मयास्य संक्रीडति चक्रिचक्रे ॥ ३.५ ॥

अन्येन पत्या त्वयि योजितायां विज्ञत्वकीर्त्या गतजन्मनो वा ।
जनापवादार्णवमुत्तरीतुं विधा विधातुः कतमा तरीः स्यात् ॥ ३.५१ ॥

आस्तां तदप्रस्तुतचिन्तयालं मयासि तन्वि श्रमितातिवेलम् ।
सोऽहं तदागः परिमार्ष्टुकामः किमीप्सितं ते विदधेऽभिधेहि ॥ ३.५२ ॥

इतीरयित्वा विरराम पत्त्री स राजपुत्रीहृदयं बुभुत्सुः ।
ह्रदे गभीरे हृदि चावगाढे शंसन्ति कार्यावतरं हि सन्तः ॥ ३.५३ ॥

किंचित्तिरश्चीनविलोलमौलिर्विचिन्त्य वाच्यं मनसा मुहूर्तम् ।
पतत्रिणं सा पृथिवीन्द्रपुत्री जगाद वक्त्रेण तृणीकृतेन्दुः ॥ ३.५४ ॥

धिक्चापले वत्सिमवत्सलत्वं यत्प्रेरणादुत्तरलीभवन्त्या ।
समीरसङ्गादिव नीरभङ्ग्या मया तटस्यस्त्वमुपद्रुतोऽसि ॥ ३.५५ ॥

आदर्शतां स्वच्छतया प्रयासि सतां स तावत्खलु दर्शनीयः ।
आगः पुरस्कुर्वति सागसं मां यस्यात्मनीदं प्रतिबिम्बितं ते ॥ ३.५६ ॥

अनार्यमप्याचरितं कुमार्या भवान्मम क्षाम्यतु सौम्य तावत् ।
हंसोऽपि देवांशतयासि वन्द्यः श्रीवत्सलक्ष्मेव हि मत्स्यमूर्तिः ॥ ३.५७ ॥

मत्प्रीतिमाधित्ससि कां त्वदीक्षा मुदं मदक्ष्णोरपि यातिशेताम् ।
निजामृतैर्लोचनसेचनाद्वा पृथक्किमिन्दुः सृजति प्रजानाम् ॥ ३.५८ ॥

मनस्तु यं नोज्झति जातु यातु मनोरथः कण्ठपथं कथं सः ।
का नाम बाला द्विजराजपाणिग्रहाभिलाषं कथयेदलज्जा ॥ ३.५९ ॥

वाचं तदीयां परिपीय मृद्वीं मृद्वीकया तुल्यरसां स हंसः ।
तत्याज तोषं परपुष्टघुष्टे घृणां च वीणाक्वणिते वितेने ॥ ३.६ ॥

मन्दाक्षमन्दाक्षरमुद्रमुक्त्वा तस्यां समाकुञ्चितवाचि हंसः ।
तच्छंसिते किंचन संशयालुर्गिरा मुखाम्भोजमयं युयोज ॥ ३.६१ ॥

करेण वाञ्छेव विधुं विधर्तुं यमित्थमात्थादरिणी तमर्थम् ।
पातुं शृउतिभ्यामपि नाधिकुर्वे वर्णं शृउतेर्वर्ण इवान्तिमः किम् ॥ ३.६२ ॥

अवाप्यते वा किमियद्भवत्या चितैकपद्यामपि विद्यते यः ।
यत्रान्धकारः किल चेतसोऽपि जिह्मेतरैर्ब्रह्म तदप्यवाप्यम् ॥ ३.६३ ॥

ईशाणिमैश्वर्य विवर्तमध्ये लोकेशलोकेशयलोकमध्ये ।
तिर्यञ्चमप्यञ्च मृषानभिज्ञरसञ्जतोपञ्जसमज्ञमज्ञम् ॥ ३.६४ ॥

मध्ये श्रुतीनां प्रतिवेशिनीनां सरस्वती वासवती मुखे नः ।
ह्रियेव ताभ्यश्चलतीयमद्धा पथान्न सत्सङ्गगुणेन नद्धा ॥ ३.६५ ॥

पर्यङ्कतापन्नसरस्वदङ्कां लङ्कां पुरीमप्यभिलाषि चित्तम् ।
कुत्रापि चेद्वस्तुनि ते प्रयाति तदप्यवेहि स्वशये शयालु ॥ ३.६६ ॥

इतीरिता पत्त्ररथेन तेन ह्रीणा च हृष्टा च बभाण भैमी ।
चेतो नलङ्कामयते मदीयं नान्यत्र कुत्रापि च साभिलाषम् ॥ ३.६७ ॥

विचिन्त्य बालाजनशीलशैलं लज्जानदीमज्जदनङ्गनागम् ।
आचष्ट विस्पष्टमभाषमाणामेनां स चक्राङ्गपतङ्गशक्रः ॥ ३.६८ ॥

नृपेण पाणिग्रहणस्पृहेति नलं मनः कामयते ममेति ।
आश्लेषि न श्लेषकवेर्भवत्याः श्लोकद्वयार्थः सुधिया मया किम् ॥ ३.६९ ॥

त्वच्चेतसः स्थैर्यविपर्ययं तु संभाव्य भाव्यस्मि तमज्ञ एव ।
लक्ष्ये हि बालाहृदि लोलशीले परापराद्धेषुरपि स्मरः स्यात् ॥ ३.७ ॥

महीमहेन्द्रः खलु नैषधेन्दुस्तद्बोधनीयः कथमित्थमेव ।
प्रयोजनं सांशयिकं प्रतीदृक्पृथग्जनेनेव स मद्विधेन ॥ ३.७१ ॥

पितर्नियोगेन निजेच्छया वा युवानमन्यं यदि वा वृणीषे ।
त्वदर्थमर्थित्वकृति प्रतीतिः कीद्श्ङ्मयि स्यान्निषधेश्क्रस्य ॥ ३.७२ ॥

त्वयापि किं शङ्कितविक्रियेऽस्मिन्नधिक्रिये वा विषये निधातुम् ।
इतः पृथक्प्रार्थयसे तु यद्यत्कुर्वे तदुर्वीपतिपुत्रि सर्वम् ॥ ३.७३ ॥

श्रवः प्रविष्टा इव तद्गिरस्ता विधूय वैमत्यधुतेन मूर्ध्ना ।
ऊचे ह्रियोऽपि श्लथितानुरोधा पुनर्धरित्रीपुरुहूतपुत्री ॥ ३.७४ ॥

मदन्यदानं प्रति कल्पना या वेदस्त्वदीये हृदि तावदेषा ।
निशोऽपि सोमेतरकान्तशङ्कामोंकारमग्रेसरमस्य कुर्याः ॥ ३.७५ ॥

सरोजिनीमानसरागवृत्तेरनर्कसंपर्कमतर्कयित्वा ।
मदन्यपाणिग्रहशङ्कितेयमहो महीयस्तव साहसिक्यम् ॥ ३.७६ ॥

साधु त्वया तिर्कतमेतदेव स्वेनानलं यत्किल संश्रयिष्ये ।
विनामुना स्वात्मनि तु प्रहर्तुं मृषागिरं त्वां नृपतौ न कर्तुम् ॥ ३.७७ ॥

मद्विप्रलभ्यं पुनराह यस्त्वां तर्कः स किं तत्फलवाचि मूकः ।
अशक्यशङ्काव्यभिचारहेतुर्वाणी न वेदा यदि सन्तु के तु ॥ ३.७८ ॥

अनैषधायैव जुहोति तातः किं मां कृशानौ न शरीऋअशेषाम् ।
ईष्टे तनूजन्मतनोः स नूनं मत्प्राणनाथस्तु नलस्तथापि ॥ ३.७९ ॥

तदेकदासीत्वपदादुदग्रे मदीप्सिते साधु विधित्सुता ते ।
अहेलिना किं नलिनी विधत्ते सुधाकरेणापि सुधाकरेण ॥ ३.८ ॥

तदेकलुब्धे हृदि मेऽस्ति लब्धुं चिन्ता न चिन्तामणिमप्यनर्घ्यम् ।
चित्ते समैकः सकलत्रिलोकीसारो निधिः पद्ममुखं स एव ॥ ३.८१ ॥

श्रुतः स दृष्टश्च हरित्सु मोहाद्ध्यातः स नीरन्ध्रितबुद्धिधारम् ।
ममाद्य तत्प्राप्तिरसुव्ययो वा हस्ते तवास्ते द्वयमेकशेषः ॥ ३.८२ ॥

संचीयतामाश्रुतपालनोत्थं मत्प्राणविश्राणनजं च पुण्यम् ।
निवाऋयतामार्य वृथा विशङ्का भद्रेऽपि मुद्रेयमये भृशं का ॥ ३.८३ ॥

अलं विलङ्घ्य प्रियविज्ञ याCजां कृत्वापि वाम्यं विविधं विधेये ।
यशः पथादाश्रवतापदोत्थात्खलु स्खलित्वास्तखलोक्तिखेलात् ॥ ३.८४ ॥

स्वजीवमप्याऋतमुदे ददद्भ्यस्तव त्रपा नेदृशबद्धमुष्टेः ।
मह्यं मदीयान्यदसूनदित्सोर्धर्मः कराद्भ्रश्यति कीर्तिधौतः ॥ ३.८५ ॥

दत्वात्मजीवं त्वयि जीवदेऽपि शुध्यामि जीवाधिकदे तु केन ।
विधेहि तन्मां त्वदृणान्यशोद्धुममुद्रदारिद्र्यसमुद्रमग्नाम् ॥ ३.८६ ॥

क्रीणीष्व मज्जीवितमेव पण्यमन्यन्नचेदस्ति तदस्तु पुण्यम् ।
जीवेशदातर्यदि ते न दातुं यशोऽपि तावत्प्रभवामि गातुम् ॥ ३.८७ ॥

वराटिकोपक्रिययापि लभ्यान्नेभ्याः कृतज्ञानथवाद्रियन्ते ।
प्राणैः पणैः स्वं निपुणं भणन्तः क्रीणन्ति तानेव तु हन्त सन्तः ॥ ३.८८ ॥

स भूभृदष्टावपि लोकपालास्तैर्मे तदेकाग्रधियः प्रसेदे ।
न हीतरस्माद्धटते यदेत्य स्वयं तदाप्तिप्रतिभूर्ममाभूः ॥ ३.८९ ॥

अकाण्डमेवात्मभुवार्जितस्य भूत्वा पि मूलं मयि वीरणस्य ।
भवान्न मे किं नलदत्वमेत्य कर्ता हृदश्चन्दनलेपकृत्यम् ॥ ३.९ ॥

अलं विलम्ब्य त्वरितुं हि वेला कार्ये किल स्थैर्यसहे विचारः ।
गुरूपदेशं ग्रतिभेव तीक्ष्णा प्रतिईक्षते जातु न कालमर्तिः ॥ ३.९१ ॥

अभ्यर्थनीयः स गतेन राजा त्वया न शुद्धान्तगतो मदर्थम् ।
प्रियास्यदाक्षिण्यबलात्कृतो हि तदोदयेदन्यवधूनिषेधः ॥ ३.९२ ॥

शुद्धान्तसंभोगनितान्ततुष्टे न नैषधे काऋयमिदं निगाद्यम् ।
अपां हि तृप्ताय न वारिधारा स्वादुः सुगन्धिः स्वदते तुषारा ॥ ३.९३ ॥

त्वया निधेया न गिरो मदर्थाः कुधा कदुष्णे हृदि नैषधस्य ।
पित्तेन दूने रसने सितापि तिक्तायते हंसकुलावतंस ॥ ३.९४ ॥

धरातुराषाहि मदर्थयाब्जा काऋया न कार्यान्तरचुम्बिचित्ते ।
तदार्थितस्यानवबोधनिद्रा बिभर्त्यवज्ञाचरणस्य मुद्राम् ॥ ३.९५ ॥

विज्ञेन विज्ञाप्यमिदं नरेन्द्रे तस्मात्त्वयास्मिन्समयं समीक्ष्य ।
आत्यन्तिकासिद्धिविलम्बिसिद्ध्योः कार्यस्य कार्यस्य शुभा विभाति ॥ ३.९६ ॥

इत्युक्तवत्या यदलोपि लज्जा सानौचिती चेतसि नश्चकास्तु ।
स्मरस्तु साक्षी तददोषतायामुन्माद्य यस्तत्तदवीवदत्ताम् ॥ ३.९७ ॥

उन्मत्तमासाद्य हरः स्मरश्च द्वावप्यसीमां मुदमुद्वहेते ।
पूर्वः परस्पर्धितया प्रसूनं नूनं द्वितीयो विरहाधिदूनम् ॥ ३.९८ ॥

तथाभिधात्रीमथ राजपुत्रीं निर्णीय तां नैषधबद्धरागाम् ।
अमोचि चञ्चूपुट मौनमुद्रा विहायसा तेन विहस्य भूयः ॥ ३.९९ ॥

इदं यदि क्ष्मापतिपुत्रि तत्त्वं पश्यामि तन्न स्वविधेयमस्मिन् ।
त्वामुच्चकैस्तापयता नृपं च पञ्चेषुणैवाजनि योजनेयम् ॥ ३.१ ॥

त्वदबद्धबुद्धेर्बहिरिन्द्रियाणां तस्योपवासव्रतिनां तपोभिः ।
त्वामद्य लब्ध्वामृततृप्तिभाजां स्वदेवभूयंचरितार्थमस्तु ॥ ३.१०१ ॥

तुल्यावयोर्मूर्तिरभून्मदीया दग्धा परं सास्य न ताप्यतेऽपि ।
इत्यभ्यसूयन्निव देहतापं तस्यातनुस्त्वद्विरहाद्विधत्ते ॥ ३.१०२ ॥

लिपिं दृशा भित्तिविभूषणं त्वां नृपः पिबन्नादरनिर्निमेषः ।
चक्षुर्झरैरर्पितमात्मचक्षू रागं स धत्ते रचितं त्वया नु ॥ ३.१०३ ॥

पातुर्दृशालेख्यमयीं नृपस्य त्वामादरादस्तनिमीलयास्ते ।
ममेदमित्यश्रुणि नेत्रवृत्तेः प्रीतेर्निमेषच्छिदया विवादः ॥ ३.१०४ ॥

त्वं हृद्गता भैमि बहिर्गतापि प्राणायिता नासिकयास्यगत्या ।
न चित्रमाक्रामति तत्र चित्रमेतन्मनो यद्भवदेकवृत्ति ॥ ३.१०५ ॥

अजस्रमारोहसि दूरदीर्घां संकल्पसोपानततिं तदीयाम् ।
श्वासान्स वर्षत्यधिकं पुनर्यद्ध्यानात्तव त्वन्मयतां तदाप्य ॥ ३.१०६ ॥

हृतस्य यन्मन्त्रयते रहस्त्वां तद्व्यक्तमामन्त्रयते मुखं यत् ।
तद्वैरिपुष्पायुधमित्रचन्द्र सत्यौचिती सा खलु तन्मुखस्य ॥ ३.१०७ ॥

स्थितस्य रात्रावधिशय्य शय्यां मोहे मनस्तस्य निमज्जयन्ती ।
आलिङ्ग्य या चुम्बति लोचने सा निद्राधुना न त्वदृतेऽङ्गना वा ॥ ३.१०८ ॥

स्मरेण निस्तक्ष्य वृथैव बाणैर्लावण्यशेषां कृशतामनायि ।
अनङ्गतामप्ययमाप्यमानः स्पर्धां न सार्धं विजहाति तेन ॥ ३.१०९ ॥

त्वत्प्रापकात्त्रस्यति नैनसोऽपि त्वय्येष दास्येऽपि न लज्जते यत् ।
स्मरेण बाणैरतितक्ष्य तीक्ष्णैर्लूनः स्वभावोऽपि कियान्कमस्य ॥ ३.११ ॥

स्मारं ज्वरं घोरमपत्रपिष्णोः सिद्धागदङ्कारचये चिकित्सौ ।
निदानमौनादविशद्विशाला साङ्क्रामिकी तस्य रुजेव लज्जा ॥ ३.१११ ॥

बिभेति रुष्टासि किलेत्यकस्मात्स त्वां किलापेति हसत्यकाण्डे ।
यान्तीमिव त्वामनु यात्यहेतोरुक्तस्त्वयेव प्रतिवक्ति मोधम् ॥ ३.११२ ॥

भवद्वियोगाच्छिदुरार्तिधारा यमस्वसुर्मज्जति निःशरण्यः ।
मूर्च्छामयद्वीपमहान्ध्यपङ्के हा हा महीभृद्भटकुञ्जरोऽयम् ॥ ३.११३ ॥

सव्यापसव्यत्यजनाद्द्विरुक्तैः पञ्चेषुबाणैः पृथगर्जितासु ।
दशासु शेषा खलु तद्दशा या तया नभः पुष्प्यतु कोरकेण ॥ ३.११४ ॥

त्वयि स्मराधेः सततास्मितेन प्रस्थापितो भूमिभृतास्मि तेन ।
आगत्य भूतः सफलो भवत्या भावप्रतीत्या गुणलोभवत्याः ॥ ३.११५ ॥

धन्यासि वैदर्भि गुणैरुदारैर्यया समाकृष्यत नैषधोऽपि ।
इतः स्तुतिः का खलु चन्द्रिकाया यदब्धिमप्युत्तरलीकरोति ॥ ३.११६ ॥

नलेन भायाः शशिना निशेव त्वया स भायान्निशया शशीव ।
पुनःपुनस्तद्युगयुग्विधाता योग्यामुपास्ते नु युवां युयुक्षुः ॥ ३.११७ ॥

स्तनद्वये तन्वि परं तवैव पृथौ यदि प्राप्स्यति नैषधस्य ।
अनल्पवैदग्ध्यविवर्धिनीनां पत्त्रावलीनां वलना समाप्तिम् ॥ ३.११८ ॥

एकः सुधांशुर्न कथंचन स्यात्तृप्तिक्षमस्त्वन्नयनद्वयस्य ।
त्वल्लोचनासेचनकस्तदस्तु नलास्यशीतद्युतिसद्वितीयः ॥ ३.११९ ॥

अहो तपः कल्पतरुर्नलीयस्त्वत्पाणिजाग्रस्फुरदङ्कुरश्रीः ।
त्वद्भ्रूयुगं यस्य खलु द्विपत्री तवाधरो रज्यति यत्कलम्बः ॥ ३.१२ ॥

यस्ते नवः पल्लवितः कराभ्यां स्मितेन यः कोरकितस्तवास्ते ॥

अङ्गम्रदिम्ना तव पुष्पितो यः स्तनश्रिया यः फलितस्तवैव ॥ ३.१२१ ॥

कांसीकृतासीत्खलु मण्डलीन्दोः संसक्तरश्मिप्रकरा स्मरेण ।
तुला च नाराचलता निजैव मिथोनुरागस्य समीकृतौ वाम् ॥ ३.१२२ ॥

सत्त्वस्रुतस्वेदमधूत्थसान्द्रे तत्पाणिपद्मे मदनोत्सवेषु ।
लग्नोत्थितास्त्वत्कुचपत्त्रलेखास्तन्निर्गतास्तं प्रविशन्तु भूयः ॥ ३.१२३ ॥

बन्धाढ्यनानारतमल्लयुद्धप्रमोदितैः केलिवने मरुद्भिः ।
प्रसूनवृष्टिं पुनरुक्तमुक्तां प्रतीच्छतं भैमि युवां युवानौ ॥ ३.१२४ ॥

अन्योन्यसंगमवशादधुना विभातां तस्यापि तेऽपि मनसी विकसद्विलासे ।
स्रष्टुं पुनर्मनसिजस्य तनुं प्रवृत्तमादाविव द्व्यणुककृत्परमाणुयुग्मम् ॥ ३.१२५ ॥

कामः कौसुमचापदुर्जयममुं जेतुं नृपं त्वां धनुर्वल्लीमव्रणवंशजामधिगुणामासाद्य माद्यत्यसौ ।
ग्रीवालंकृतिपट्टसूत्रलतया पृष्टे कियल्लम्बया भ्राजिष्णुं कषरेखयेव निवसत्सिन्दूरसौन्दर्यया ॥ ३.१२६ ॥

त्वद्गुच्छावलिमौक्तिकानि गुलिकास्तं राजहंसं विभोर्वेध्यं विद्धि मनोभुवः स्वमपि तां मञ्जुं धनुर्मञ्जरीम् ।
यन्नित्याङ्कनिवासलालिततमज्याभज्यमानं लसन्नाभीमध्यबिला विलासमखिलं रोमालिरालम्बते ॥ ३.१२७ ॥

पुष्पेषुश्चिकुरेषु ते शरचयं त्वद्भालमूले धनू रौद्रे चक्षुषि तज्जितस्तनुमनुभ्राष्ट्रं च यश्चिक्षिपे ।
निर्विद्याश्रयदाश्रयं स वितनुस्त्वां तज्जयायाधुना पत्रालीस्त्वदुरोजशैलनिलया तत्पर्णशालायते ॥ ३.१२८ ॥

इत्यालपत्यथ पतत्त्रिणि तत्र भैमीं सख्यश्चिरात्तदनुसंधिपराः परीयुः ।
शर्मास्तु ते विसृज मामिति सोऽप्युदीर्य वेगाज्जगाम निषधाधिपराजधानीम् ॥ ३.१२९ ॥

चेतोजन्मशरप्रसूनमधुभिर्व्यामिश्रतामाश्रयत्प्रेयोदूतपतङ्गपुंगवगवीहैयङ्गवीनं रसात् ।
स्वादंस्वादमसीममिष्टसुरभि प्राप्तापि तृप्तिं न सा तापं प्राप नितान्तमन्तरतुलामानर्च्छ मूर्च्छामपि ॥ ३.१३ ॥

तस्या दृशो नृपतिबन्धुमनुव्रजन्त्यास्तं वाष्पवारि नचिरादवधीबभूव ।
पार्श्वेऽपि विप्रचकृषे यदनेन दृष्टेरारादपि व्यवदधे न तु चित्तवृत्तेः ॥ ३.१३१ ॥

अस्तित्वं कार्यसिद्धेः स्फुटमथ कथयन्पक्षतेः कम्पभेदैराख्यातुं वृत्तमेतन्निषधनरपतौ सर्वमेकः प्रतस्थे ।
कान्तारे निर्गतासि प्रियसखि पदवी विस्मृता किं नु मुग्धे मारोदीरेहि यामेत्युपहृतवचसो निन्युरन्यां वंयस्याः ॥ ३.१३२ ॥

सरसि नृपमपश्यद्यत्र तत्तीरभाजः स्मरतरलमशोकानोकहस्योपमूलम् ।
किसलयदलतल्पम्लायिनं प्राप तं स ज्वलदसमशरेषुस्पर्धिपुष्पर्द्धिमौलेः ॥ ३.१३३ ॥

परवति दमयन्ति त्वां न किंचिद्वदामि द्रुतमुपनम किं मामाह सा शंस हंस ।
इति वदति नलेऽसौ तच्छशंसोपनम्रः प्रियमनु सुकृतां हि स्वस्पृहाया विलम्बः ॥ ३.१३४ ॥

कथितमपि नरेन्द्रः शंसयामास हंसं किमिति किमिति पृच्छन्भाषितं स प्रियायाः ।
अधिगतमथ सान्द्रानन्दमाध्वीकमत्तः स्वयमपि शतकृत्वस्तत्तथान्वाचचक्षे ॥ ३.१३५ ॥

श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
तार्तीयीकतया मितोऽयमगमत्तस्य प्रबन्धे महाकाव्ये चारुणि नैषधीयचरिते सर्गो निसर्गोज्ज्वलः ॥ ३.१३६ ॥