← चतुर्थः सर्गः नैषधीयचरितम्‌
पञ्चमः सर्गः
श्रीहर्षः
षष्ठः सर्गः →

यावदागमयतेऽथ नरेन्द्रान्स स्वयंवरमहाय महीन्द्रः ।
तावदेव ऋषिरिन्द्रदिदृक्षुर्नारदस्त्रिदशधाम जगाम ॥ ५.१ ॥

नात्र चित्रमनु तं प्रययौ यत्पर्वतः स खलु तस्य सपक्षः ।
नारदस्तु जगतो गुरुरुच्चैर्विस्मयाय गगनं विललङ्घे ॥ ५.२ ॥

गच्छता पथि विनैव विमानं व्योम तेन मुनिना विजगाहे ।
साधने हि नियमोऽन्यजनानां योगिनां तु तपसाखिलसिद्धिः ॥ ५.३ ॥

खण्डितेन्द्रभवनाद्यभिमानाल्लङ्घते स्म मुनिरेष विमानान् ।
अर्थितोऽप्यतिथितामनुमेने नैव तत्पतिभिरङ्घ्रिविनम्रैः ॥ ५.४ ॥

तस्य तापनभिया तपनः स्वं तावदेव समकोचयदर्चिः ।
यावदेव दिवसेन शशीव द्रागतप्यत न तन्महसैव ॥ ५.५ ॥

पर्यभूद्दिनमणिर्द्विजराजं यत्करैरहह तेन तदा तम् ।
पर्यभूत्खलु करैर्द्विजराजः कर्म कः स्वकृतमत्र न भुङ्क्ते ॥ ५.६ ॥

विष्टरं तटकुशालिभिरद्भिः पाद्यमर्ध्यमथ कच्छरुहाभिः ।
पद्मवृन्दमधुभिर्मधुपर्कं स्वर्गसिन्धुरदितातिथयेऽस्मै ॥ ५.७ ॥

स व्यतीत्य वियदन्तरगाधं नाकनायकनिकेतनमाप ।
संप्रतीर्य भवसिन्धुमनादिं ब्रह्म शर्मभरचारु यतीव ॥ ५.८ ॥

अर्चनाभिरुचितोच्चतराभिश्चारु तं सदकृतातिथिमिन्द्रः ।
यावदर्हकरणं किल साधोः प्रत्यवायधुतये न गुणाय ॥ ५.९ ॥

नामधेयसमतासखमद्रेरद्रिभिन्मुनिमथाद्रियत द्राक् ।
पर्वतोऽपि लभतां कथमर्चां न द्विजः सविबुधप्रभुलम्भी ॥ ५.१ ॥

तद्भुजादतिवितीर्णसपर्याद्द्युद्रुमानपि विवेद मुनीन्द्रः ।
स्वःसहस्थितिसुशिक्षितया तान्दानपारमितयैव वदान्यात् ॥ ५.११ ॥

मुद्रितान्यजनसंकथनः सन्नारदं बलरिपुः समवादीत् ।
आकरः स्वपरभूरिकथानां प्रायशो हि सुहृदोः सहवासः ॥ ५.१२ ॥

तं कथानुकथनप्रसृतायां दूरमालपनकौतुकितायाम् ।
भूभृतां चिरमनागतिहेतुं ज्ञातुमिच्छुरवदच्छतमन्युः ॥ ५.१३ ॥

प्रागिव प्रसुवते नृपवंशाः किं नु संप्रति न वीरकरीरान् ।
ये परप्रहरणैः परिणामे विक्षताः क्षितितले निपतन्ति ॥ ५.१४ ॥

पार्थिवं हि निजमाजिषु वीरा दूरमूर्ध्वगमनस्य विरोधि ।
गौरवाद्वपुरपास्य भजन्ते मत्कृतामतिथिगौरवऋद्धिम् ॥ ५.१५ ॥

साभिशापमिव नातिथयस्ते मां यदद्य भगवन्नुपयन्ति ।
तेन न श्रियमिमां बहु मन्ये स्वोदरैकभृतिकाऋयकदर्याम् ॥ ५.१६ ॥

पूर्वपुण्यविभवव्ययलब्धाः श्रीभरा विपद एव विमृष्टाः ।
पात्रपाणिकमलार्पणमासां तासु शान्तिकविधिर्विधिदृष्टः ॥ ५.१७ ॥

तद्विमृज्य मम संशयशिल्पि स्फीतमत्र विषाये सहसाघम् ।
भूयतां भगवतः श्रुतिसारैरद्यवाग्भिरघमर्षणऋग्भिः ॥ ५.१८ ॥

इत्युदीर्य मघवा विनयर्धिं वर्धयन्नवहितत्वभरेण ।
चक्षुषां दशशतीमनिमेषां तस्थिवान्मुनिमुखे प्रणिधाय ॥ ५.१९ ॥

वीक्ष्य तस्य विनये परिपाकं पाकशासनपदं स्पृशतोऽपि ।
नारदः प्रमदगद्गदयोक्त्या विस्मितः स्मितपुरःसरमूचे ॥ ५.२ ॥

भिक्षिता शतमखी सुकृतं यत्तत्परिश्रमविदः स्वविभूतौ ।
तत्फले यदि परं तव हेला क्लेशलब्धमधिकादरदं तु ॥ ५.२१ ॥

संपदस्तवगिरामपि दूरा यन्न नाम विनयं विनयन्ते ।
श्रद्दधाति क इवेह न साक्षादाह चेदनुभवः परमाप्तः ॥ ५.२२ ॥

श्रीभरानतिथिसात्करवाणि स्वोपभोगपरता न हितेति ।
पश्यतो बहिरिवान्तरपीयं दृष्टिसृष्टिरधिका तव कापि ॥ ५.२३ ॥

आः स्वभावमधुरैरनुभावैस्तावकैरतितरां तरलाः स्मः ।
द्यां प्रशाधि गलितावधिकालं साधु साधु विजयस्व बिडाउजः ॥ ५.२४ ॥

संख्यविक्षततनुस्रवदस्रुक्षालिताखिलनिजाघलघूनाम् ।
यत्त्विहानुपगमः शृणु राज्ञां तज्जगद्युवमुदं तमुदन्तम् ॥ ५.२५ ॥

सा भुवः किमपि रत्नमनर्घं भूषणं जयति तत्र कुमारी ।
भीमभूपतनया दमयन्ती नाम या मदनशस्त्रममोघम् ॥ ५.२६ ॥

संप्रति प्रतिमुहूर्तमपूर्वा कापि यौवनजवेन भवन्ती ।
आशिखं सुकृतसारभृते सा क्वापि यूनि भजते किल भावम् ॥ ५.२७ ॥

कथ्यते न कतमः स इति त्वं मां विवक्षुरसि किं चलदोष्ठः ।
अर्धवर्त्मनि रुणत्सि न पृच्छां निर्गमेण न परिश्रमयैनाम् ॥ ५.२८ ॥

यत्पथावधिरणुः परमः सा योगिधीरपि न पश्यति यस्मात् ।
बालया निजमनःपरमाणौ ह्रीदरीशयहरीकृतमेनम् ॥ ५.२९ ॥

सा शरस्य कुसुमस्य शरव्यं सूचिता विरहवाचिभिरङ्गैः ।
तातचित्तमपि धातुरधत्त स्वस्वयंवरमहाय सहायम् ॥ ५.३ ॥

मन्मथाय यदथादित राज्ञां हूतिदूत्यविधये विधिराज्ञाम् ।
तेन तत्परवशाः पृथिवीशः संगरं गरमिवाकलयन्ति ॥ ५.३१ ॥

येषु येषु सरसा दमयन्ती भूषणेषु यदिवापि गुणेषु ।
तत्र तत्र कलयापि विशेषो यः स हि क्षितिभृतां पुरुषार्थः ॥ ५.३२ ॥

शैशवव्ययदिनावधि तस्या यौवनोदयिनि राजसमाजे ।
आदरादहरहः कुसुमेषोरुल्ललास मृगयाभिनिवेशः ॥ ५.३३ ॥

इत्यमी वसुमतीं कमितारः सादरस्त्वदतिथीभवितुं न ।
भीमभूसुरभुवोरभिलाषे दूरमन्तरमहो नृपतीनाम् ॥ ५.३४ ॥

तेन जाग्रदधृतिर्दिवमागां संख्यसौख्यमनुसर्तुमनु त्वाम् ।
यन्मृधं क्षितिभृतां न विलोके तन्निमग्नमनसां भुवि लोके ॥ ५.३५ ॥

वेद यद्यपि न कोऽपि भवन्तं हन्त हन्त्रकरुणं विरुणद्धि ।
पृच्छ्यसे तदपि येन विवेकप्रोञ्छनाय विषये रससेकः ॥ ५.३६ ॥

एवमुक्तवति देवऋषीन्द्रे द्रागभेदि मघवाननमुद्रा ।
उत्तरोत्तरशुभो हि विभूनां कोऽपि मञ्जुलतमः क्रमवादः ॥ ५.३७ ॥

कानुजे मम निजे दनुजारौ जाङ्रति स्वशरणे रणचर्चा ।
यद्भुजाङ्कमुपधाय जयाङ्कं शर्मणा स्वपिमि वीतविशङ्कः ॥ ५.३८ ॥

विश्वरूपकलनादुपपन्नं तस्य जैमिनिमुनित्वमुदीये ।
विग्रहं मखभुजामसहिष्णुर्व्यर्थतां मदशनिं स निनाय ॥ ५.३९ ॥

ईदृशानि मुनये विनयाब्धिस्तस्थिवान्स वचनान्युपहृत्य ।
प्रांशुनिःश्वसितपृष्ठचरी वाग्नारदस्य निरियाय निरोजाः ॥ ५.४ ॥

स्वारसातलभवाहवशङ्की निर्वृणोमि न वसन्वसुमत्याम् ।
द्यां गतस्य हृदि मे दुरुदर्कः क्ष्मातलद्वयभटाजिवितर्कः ॥ ५.४१ ॥

वीक्षितस्त्वमसि मामथ गन्तुं तन्मनुष्यजगतेऽनुमनुष्व ।
किं भुवः परिवृढा न विवोढुं तत्र तामुपगता विवदन्ते ॥ ५.४२ ॥

इत्युदीर्य स ययौ मुनिरुर्वीं स्वर्पतिं प्रतिनिवर्त्य बलेन ।
वारितोऽप्यनुजगाम सयत्नं तं कियन्त्यपि पदान्यपराणि ॥ ५.४३ ॥

पर्वतेन परिपीय गभीरं नारदीयमुदितं प्रतिनेदे ।
स्वस्य कश्चिदपि पर्वतपक्षच्छेदिनि स्वयमदर्शि न पक्षः ॥ ५.४४ ॥

पाणये बलरिपोरथ भैमीशीतकोमलकरग्रहमर्हम् ।
भेषजं चिरचिताशनिवासव्यापदामुपदिदेश रतीशः ॥ ५.४५ ॥

नाकलोकभिषाजोः सुषमा या पुष्पचापमपि चुम्बति सैव ।
वेद्मि तादृगभिषज्यदसौ तद्द्वारसंक्रमितवैद्यकविद्यः ॥ ५.४६ ॥

मानुषीमनुसरत्यथ पत्यौ खर्वभावमवलम्ब्य मघोनी ।
खण्डितं निजमसूचयदुच्चैर्मानमाननसरोरुहनत्या ॥ ५.४७ ॥

यो मघोनि दिवमुच्चरमाणे रम्भया मलिनिमालमलम्भि ।
वर्ण एव स खलूज्ज्वलमस्याः शान्तमान्तरमभाषत भङ्ग्या ॥ ५.४८ ॥

जीवितेन कृतमप्सरसां तत्प्राणमुक्तिरिह युक्तिमती नः ।
इत्यनक्षरमवाचि घृताच्या दीर्घनिःश्वसितनिर्गमितेन ॥ ५.४९ ॥

साधु नः पतनमेवमितः स्यादित्यभण्यत तिलोत्तमयापि ।
चामरस्य पतनेन कराग्जात्तद्विलोलनचलद्भुजनालात् ॥ ५.५ ॥

मेनका मनसि तापमुदीतं यत्पिधित्सुरकरोदवहित्थाम् ।
तत्स्फुटं निजहृदः पुटपाके पङ्कलिप्तिमसृजद्बहिरुत्थाम् ॥ ५.५१ ॥

उर्वशी गुणवशीकृतविश्वा तत्क्षणस्तिमितभावनिभेन ।
शक्रसौहृदसमापनसीमस्तम्भकार्यमपुषद्वपुषैव ॥ ५.५२ ॥

कापि कामपि बभाण बुभुत्सुं शृण्वति त्रिदशभर्तरि किंचित् ।
एष कश्यपसुतामभिगन्ता पश्य कश्यपसुतः शतमन्युः ॥ ५.५३ ॥

आलिमात्मसुभगत्वसगर्वा कापि शृण्वति मघोनि बभाषे ।
वीक्षणेऽपि सघृणासि नृणां किं यासि न त्वमपि साऋथगुणेन ॥ ५.५४ ॥

अन्वयुर्द्युतिपयः पितृनाथास्तं मुदाथ हरितां कमितारः ।
वर्त्म कर्षतु पुरः परमेकस्तद्गतानुगतिको न महार्घः ॥ ५.५५ ॥

प्रेषिताः पृथगथो दमयन्त्यै चित्तचौर्यचतुरा निजदूत्यः ।
तद्गुरुं प्रति च तैरुपहाराः संख्यसौख्यकपटेन निगूढाः ॥ ५.५६ ॥

चित्रमत्र विबुधैरपि यत्तैः स्वर्विहाय बत भूरनुसस्रे ।
द्यौर्न काचिदथवास्ति निरूढा सैव सा चलति यत्र हि चित्तम् ॥ ५.५७ ॥

शीघ्रलङ्घितपथैरथ वाहैर्लम्भिता भुवममी सुरसाराः ।
वक्रितोन्नमितकंधरबन्धाः शुश्रुवुर्ध्वनितमध्वनि दूरम् ॥ ५.५८ ॥

किं घनस्य जलधेरथवैवं नैव संशयितुमप्यलभन्त ।
स्यन्दनं परमदूरमपश्यन्निःस्वनश्रुतिसहोपनतं ते ॥ ५.५९ ॥

सूतविशृअमदकौतुकिभावं भावबोधचतुरं तुरगाणाम् ।
तत्र नेत्रजनुषः फलमेते नैषधं बुबुधिरे विबुधेन्द्राः ॥ ५.६ ॥

वीक्ष्य तस्य वरुणस्तरुणत्वं यद्बभार निबिडं जडभूयम् ।
नौचिती जलपतेः किमु सास्य प्राज्यविस्मयरसस्तिमितस्य ॥ ५.६१ ॥

रूपमस्य विनिरूप्य तथातिम्लानिमाप रविवंशवतंसः ।
कीर्त्यते यदधुनापि स देवः काल एव सकलेन जनेन ॥ ५.६२ ॥

यं बभार दहनः खलु तापं रूपधेयभरमस्य विमृश्य ।
तत्र भूदनलता जनिकर्त्री मा तदप्यनलतैव तु हेतुः ॥ ५.६३ ॥

कामनीयकमधः कृतकामं काममक्षिभिरवेक्ष्य तदीयम् ।
कौशिकः स्वमखिलं परिपश्यन्मन्यते स्म खलु कौशिकमेव ॥ ५.६४ ॥

रामणीयकगुणाद्वयवादं मूर्तमुत्थितममुं परिभाव्य ।
विस्मयाय हृदयानि वितेरुस्तेन तेषु न सुराः प्रबभूवः ॥ ५.६५ ॥

प्रैयरूपकविशेषनिवेशैः संवदद्भिरमराः श्रुतपूर्वैः ।
एष एव स नलः किमितीदं मन्दमन्दमितरेतरमूचुः ॥ ५.६६ ॥

तेषु तद्विधवधूवरणार्हं भूषणं स समयः स रथाध्वा ।
तस्य कुण्डिनपुरं प्रतिसर्पन्भूपतेर्व्यवसितानि शशंसुः ॥ ५.६७ ॥

धर्मराजसलिलेशहुताशैः प्राणतां श्रितममुं जगतस्तैः ।
प्राप्य हृष्टचलविस्तृततापैश्चेतसा निभृतमेतदचिन्ति ॥ ५.६८ ॥

नैव नः प्रियतमोभयथासौ यद्यमुं न वृणुते वृणुते वा ।
एकतो हि धिगमूमगुणज्ञामन्यतः कथमदःप्रतिलम्भः ॥ ५.६९ ॥

मां वरिष्यति तदा यदि मत्तो वेद नेयमियदस्य महत्त्वम् ।
ईदृशी च कथमाकलयित्री मद्विशेषमपरान्नृपपुत्री ॥ ५.७ ॥

नैषधे बत वृते दमयन्त्या व्रीडितो नहि बहिर्भवितास्मि ।
स्वां गृहेऽपि वनितां कथमास्यं ह्रीनिमीलि खलु दर्शयिताहे ॥ ५.७१ ॥

इत्यवेत्य मनसात्मविधेयं किंचन त्रिविबुधी बुबुधे न ।
नाकनायकमपास्य तमेकं सा स्म पश्यति परस्परमास्यम् ॥ ५.७२ ॥

किं विधेयमधुनेति विमुग्धं स्वानुगाननमवेक्ष्य ऋभुक्षाः ।
शंसति स्म कपटे पटुरुच्चैर्वञ्चनं समभिलष्य नलस्य ॥ ५.७३ ॥

सर्वतः कुशलवानसि कच्चित्त्वं स नैषध इति प्रतिभा नः ।
स्वासनार्धसुहृदस्त्वयि रेखां वीरसेननृपतेरिव विद्मः ॥ ५.७४ ॥

क्व प्रयास्यसि नलेत्यलमुक्त्वा यात्रयात्र शुभयाजनि यन्नः ।
तत्तयैव फलसत्वरया त्वं नाध्वनोऽर्धनोऽर्धमिदमागमितः किम् ॥ ५.७५ ॥

एष नैषाध स दण्डभृदेष ज्वालजालजटिलः स हुताशः ।
यादसां स पतिरेष च शेषं शासितारमधिगच्छ सुराणाम् ॥ ५.७६ ॥

अर्थिनो वयममी समुपेमस्त्वां नलेति फलितार्थमवेहि ।
अध्वनः क्षणमपास्य च खेदं कुर्महे भवति कार्यनिवेदम् ॥ ५.७७ ॥

ईदृशीं गिरमुदीर्य बिडौजा जोषमास न विशिष्य बभाषे ।
नात्र चित्रमभिधाकुशलत्वे शैशवावधिगुरुर्गुरुरस्य ॥ ५.७८ ॥

अर्थिनामहृषिताखिललोमा स्वं नृपः स्फुटकदम्बकदम्बम् ।
अर्चनार्थमिव तच्चरणानां स प्रणामकरणादुपनिन्ये ॥ ५.७९ ॥

दुर्लभं दिगधिपैः किममीभिस्तादृशं कथमहो मदधीनम् ।
ईदृशं मनसिकृत्य विरोधं नैषधेन समशायि चिराय ॥ ५.८ ॥

जीवितावधि वनीयकमात्रैर्याच्यमानमखिलैः सुलभं यत् ।
अर्थिने परिवृढाय सुराणां किं वितीर्य परितुष्यतु चेतः ॥ ५.८१ ॥

भीमजा च हृदि मे परमास्ते जीवितादपि धनादपि गुर्वी ।
न स्वमेव मम साऋहति यस्याः षोडशीमपि कलां किल नोर्वी ॥ ५.८२ ॥

मीयतां कथमभीप्सितमेषां दीयतां कथमयाचितमेव ।
तं धिगस्तु कलयन्नपि वाञ्छामर्थिवागवसरं सहते यः ॥ ५.८३ ॥

प्रापितेन चटुकाकुविडम्बं लम्भितेन बहुयाचनलज्जाम् ।
अर्थिना यदघमर्जति दाता तन्न लुम्पति विलम्ब्य ददानः ॥ ५.८४ ॥

यत्प्रदेयमुपनीय वदान्यैर्दीयते सलिलमर्थिजनाय ।
सार्थनोक्तिविफलत्वविशङ्कात्रासमूर्च्छदपमृत्युचिकित्सा ॥ ५.८५ ॥

अर्थिने न तृणवद्धनमात्रं किं तु जीवनमपि प्रतिपाद्यम् ।
एवमाह कुशवज्जलदापी द्रव्यदानविधिरुक्तिविदग्धः ॥ ५.८६ ॥

पङ्कसंकरविगर्हितमर्हं न श्रियः कमलमाश्रयणाय ।
अर्थिपाणिकमलं विमलं तद्वासवेश्म विदधीत सुधीस्तत् ॥ ५.८७ ॥

याचमानजनमानसवृत्तेः पूरणाय बत जन्म न यस्य ।
तेन भूमिरतिभारवतीयं न द्रुमैर्न गिरिभिर्न समुद्रैः ॥ ५.८८ ॥

मा धनानि कृपणः खलु जीवंस्तृष्णयार्पयतु जातु परस्मै ।
तत्र चैष कुरुते मम चित्रंयत्तु नार्पयति तानि मृतोऽपि ॥ ५.८९ ॥

माममीभिरिह याचितवद्भिर्दातृजातमवमत्य जगत्याम् ।
यद्यशो मयि निवेशितमेतन्निष्क्रयोऽस्तु कतमस्तु तदीयः ॥ ५.९ ॥

लोक एष परलोकमुपेता हा विहाय निधने धनमेकः ।
इत्यमुं खलु तदस्य निनीषत्यर्थिबन्धुरुदयद्दयचित्तः ॥ ५.९१ ॥

दानपात्रमधमर्णमिहैकग्राहि कोटिगुणितं दिवि दायि ।
साधुरेति सुकृतैर्यदि कर्तुं पारलौकिककुसीदमसीदत् ॥ ५.९२ ॥

एवमादि स विचिन्त्य मुहूर्तं तानवोचत पतिर्निषधानाम् ।
अर्थिदुर्लभमवाप्य सहर्षान्याच्यमानमुखमुल्लसितश्रि ॥ ५.९३ ॥

नास्ति जन्यजनकव्यतिभेदः सत्यमन्नजनितो जनदेहः ।
वीक्ष्य वः खलु तनूममृतादं दृङ्निमज्जनमुपैति सुधायाम् ॥ ५.९४ ॥

मत्तपः क्व न तनु क्व फलं वा यूयमीक्षणपथं व्रजथेति ।
ईदृशं परिणमन्ति पुनर्नः पूर्वपूरुषतपांसि जयन्ति ॥ ५.९५ ॥

प्रत्यतिष्ठिपदिमां खलु देवीं कर्म सर्वसहनव्रतजन्म ।
यूयमप्यहह पूजनमस्या यन्निजैः सृजथ पादपयोजैः ॥ ५.९६ ॥

जीवितावधि किमप्यधिकं वा यन्मनीषितमितो नरडिम्भात् ।
तेन वश्चरणमर्चतु सोऽयं ब्रूत वस्तु पुनरस्तु किमीदृक् ॥ ५.९७ ॥

एवमुक्तवति वीतविशङ्के वीरसेनतनये विनयेन ।
वक्रभावविषमामथ शक्रः कार्यकैतवगुरुर्गिरमूचे ॥ ५.९८ ॥

पाणिपीडनमहं दमयन्त्याः कामयेमहि महीमिहिकांशो ।
दूत्यमत्र कुरु नः स्मरभीतिं निर्जितस्मर चिरस्य निरस्य ॥ ५.९९ ॥

आसते शतमधिक्षिति भूपास्तोयराशिरसि ते खलु कूपाः ।
किं ग्रहा दिवि न जाङ्रति ते ते भास्करस्य कतमस्तुलयास्ते ॥ ५.१ ॥

विश्वदृश्वनयना वयमेव त्वद्गुणाम्बुधिमगाधमवेमः ।
त्वामिहैवमनिवेश्य रहस्ये निर्वृतिं नहि लभेमहि सर्वे ॥ ५.१०१ ॥

शुद्धवंशजनितोऽपि गुणस्य स्थानतामनुभवन्नपि शक्रः ।
क्षिप्ररेनमृजुमाशु सपक्षं सायकं धनुरिवाजनि वक्रः ॥ ५.१०२ ॥

तेन तेन वचसैव मघोनः स स्म वेद कपटं पटुरुच्चैः ।
आचरत्तदुचितामथ वाणीमार्जवं हि कुटिलेषु न नीतिः ॥ ५.१०३ ॥

सेयमुच्चतरता दुरितानामन्यजन्मनि मयैव कृतानाम् ।
युष्मदीयमपि या महिमानं जेतुमिच्छति कथापथपारम् ॥ ५.१०४ ॥

वित्थ चित्तमखिलस्य न कुर्यां धुर्यकार्यपरिपन्थि तु मौनम् ।
ह्रीर्गिरास्तु वरमस्तु पुनर्मा स्वीकृतैव परवागपरास्ता ॥ ५.१०५ ॥

यन्मतौ विमलदर्पणिकायां संमुखस्थमखिलं खलु तत्त्वम् ।
तेऽपि किं वितरथेदृशमाज्ञां या न यस्य सदृशी वितरीतुम् ॥ ५.१०६ ॥

यामि यामिह वरीतुमहो तद्दूततां नु करवाणि कथं वः ।
ईदृशां न महतां बत जाता वञ्चने मम तृणस्य घृणापि ॥ ५.१०७ ॥

उद्भ्रमामि विरहात्खलु यस्या मोहमेमि च मुहूर्तमहं यः ।
ब्रूत वः प्रभवितास्मि रहस्यं रक्षितुं स कथमीदृगवस्थः ॥ ५.१०८ ॥

यां मनोरथमयीं हृदि कृत्वा यः श्वसिम्यथ कथं स तदग्रे ।
भावगुप्तिमविलम्बितुमीशे दुर्जया हि विषया विदुषापि ॥ ५.१०९ ॥

यामिकाननुपमृद्य च मादृक् तां निरीक्षितुमपि क्षमते कः ।
रक्षिलक्षजयचण्डचरित्रे पुंसि विश्वसिति कुत्र कुमारी ॥ ५.११ ॥

आदधीचि किल दातृकृतार्घं प्राणमात्रपणसीम यशो यत् ।
आददे कथमहं प्रियया तत् प्राणतः शतगुणेन पणेन ॥ ५.१११ ॥

अर्थना मयि भवद्भिरिवास्ये कर्तुमर्हति मयापि भवत्सु ।
भीमजाऋथपरयाचनचाटौ यूयमेव गुरवः करणीयाः ॥ ५.११२ ॥

अर्थिताः प्रथमतो दमयन्तीं यूयमन्वहमुपास्य मया यत् ।
ह्रीर्न चेद्व्यतियतामपि तद्वः सा ममापि सुतरां न तदस्तु ॥ ५.११३ ॥

कुण्डिनेन्द्रसुतया किल पूर्वं मां वरीतुमुररीकृतमास्ते ।
व्रीडमेष्यति परं मयि दृष्टे स्वीकरिष्यति न सा खलु युष्मान् ॥ ५.११४ ॥

तत्प्रसीदत निधत्त न खेदं दूत्यमत्यसदृशं हि ममेदम् ।
हास्यतैव सुलभा न तु साध्यं तद्विधित्सुभिरनौपयिकेन ॥ ५.११५ ॥

ईदृशानि गदितानि तदानीमाकलय्य स नलस्य बलारिः ।
शंसति स्म किमपि स्मयमानः स्वानुगाननविलोकनलोलः ॥ ५.११६ ॥

नाभ्यधायि नृपते भवतेदं रोहिणीरमणवंशभुवैव ।
लज्जते न रसना तव वाम्यादर्थिषु स्वयमुरीकृतकाम्या ॥ ५.११७ ॥

भङ्गुरं न वितथं न कथं वा जीवलोकमवलोकयसीमम् ।
येन धर्मयशसी परिहातुं धीरहो चलति धीर तवापि ॥ ५.११८ ॥

कः कुलेऽजनि जगन्मुकुटे वः प्रार्थकेप्सितमपूरि न येन ।
इन्दुरादिरजनिष्ट कलङ्की कष्टमत्र स भवानपि मा भूत् ॥ ५.११९ ॥

यापदृष्टिरपि या मुखमुद्रा याचमानमनु या च न तुष्टिः ।
त्वादृशस्य सकलः स कलङ्कः शीतभासि शशकः परमङ्कः ॥ ५.१२ ॥

नाक्षराणि पठता किमपाठि प्रस्मृतः किमथवा पठितोऽपि ।
इत्थमर्थिचयसंशयदोलाखेलनं खलु चकार नकारः ॥ ५.१२१ ॥

अब्रवीत्तमनलः क्व नलेदं लब्धमुज्झसि यशः शशिकल्पम् ।
कल्पवृक्षपतिमर्थिनमित्थं नाप कोऽपि शतमन्युमिहान्यः ॥ ५.१२२ ॥

न व्यहन्यत कदापि मुदं यः स्वःसदामुपनयन्नभिलाषः ।
तत्पदे त्वदभिषेककृतां नः स त्यजत्वसमतामदमद्य ॥ ५.१२३ ॥

अब्रवीदथ यमस्तमहृष्टं वीरसेनकुलदीप तमस्त्वाम् ।
यत्किमप्यभिबुभूषति तत्किं चन्द्रवंशवसतेः सदृशं ते ॥ ५.१२४ ॥

रोहणः किमपि यः कठिनानां कामधेनुरपि या पशुरेव ।
नैनयोरपि वृथाभवदर्थी हा विधित्सुरसि वत्स किमेतत् ॥ ५.१२५ ॥

याचितश्चिरयति क्व नु धीरः प्राणने क्षणमपि प्रतिभूः कः ।
शंसति द्विनयनी दृढनिद्रां द्राङ्निमेषमिषघूर्णनपूर्णा ॥ ५.१२६ ॥

अभ्रपुष्पमपि दित्सति शीतं साऋथिना विमुखता यदभाजि ।
स्तोककस्य खलु चञ्चुपुटेन म्लानिरुल्लसति तद्धनसङ्घे ॥ ५.१२७ ॥

ऊचिवानुचितमक्षरमेनं पाशपाणिरपि पाणिमुदस्य ।
कीर्तिरेव भवतां प्रियदारा दाननीरझरमौक्तिकहारा ॥ ५.१२८ ॥

चर्म वर्म किल यस्य न भेद्यं यस्य वज्रमयमस्थि च तौ चेत् ।
स्थायिनाविह न कर्णदधीची तन्न धर्ममवधीरय धीर ॥ ५.१२९ ॥

अद्ययावदपि येन निबद्धौ न प्रभू विचलितुं बलिविन्ध्यौ ।
आस्थितावितथतागुणपाशस्त्वादृशा स विदुषा दुरपासः ॥ ५.१३ ॥

प्रेयसी जितसुधांशुमुखश्रीर्या न मुञ्चति दिगन्तगतापि ।
भङ्गिसङ्गमकुरङ्गदृगर्थे कः कदर्थयति तामपि कीर्तिम् ॥ ५.१३१ ॥

यान्वरं प्रति परेऽर्थयितारस्तेऽपि यं वयमहो स पुनस्त्वम् ।
नैव नः खलु मनोरथमात्रं शुर पूरय दिशोऽपि यशोभिः ॥ ५.१३२ ॥

अर्थिनां त्वयि गतेषु सुरेषु म्लानदानजनिजोरुयशःश्रीः ।
अद्य पाण्डु गगनं सुरशाखी केवलेन कुसुमेन विधत्ताम् ॥ ५.१३३ ॥

प्रवसते भरतार्जुनवैन्यवत्स्मृतिधृतोऽपि नल त्वमभीष्टदः ।
स्वगमनाफलतां यदि शङ्कसे तदफलं निखिलं खलु मङ्गलम् ॥ ५.१३४ ॥

इष्टं न प्रति ते प्रतिश्रुतिरभूद्याद्य स्वराह्लादिनी धर्मार्था सृज तां श्रुतिप्रतिभटीकृत्यान्विताख्यापदाम् ।
त्वत्कीर्तिः पुनती पुनस्त्रिभुवनं शुभ्राद्वयादेशनाद्द्रव्याणां शितिपीतलोहितहरिन्नामान्वयं लुम्पतु ॥ ५.१३५ ॥

यं प्रासूत सहस्रपादुदभवत्पादेन खजः कथं स च्छायातनयः सुतः किल पितुः सादृश्यमन्विच्छति ।
एतस्योत्तरमद्य नः समजनि त्वत्तेजसां लङ्घने साहस्रैरपि पङ्गुरङ्घ्रिभिरभिव्यक्तीभवन्भानुमान् ॥ ५.१३६ ॥

इत्याकर्ण्य क्षितीशस्त्रिदशपरिषदस्ता गिरश्चाटुगर्भा वैदर्भीकामुकोऽपि प्रसभविनिहितं दूत्यभारं बभार ।
अङ्गीकारं गतेऽस्मिन्नमरपरिवृढः संभृतानन्दमूचे भूयादन्तर्धिसिद्धेरनुविहितभवच्चित्तता यत्र तत्र ॥ ५.१३७ ॥

श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
तस्य श्रीविजयप्रशस्तिरचनातातस्य नव्ये महाकाव्ये चारुणि नैषधीयचरिते सर्गोऽगमत्पञ्चमः ॥ ५.१३८ ॥