← षष्ठः सर्गः नैषधीयचरितम्‌
सप्तमः सर्गः
श्रीहर्षः
अष्टमः सर्गः →

अथ प्रियासादनशीलनादौ मनोरथः पल्लवितः पुरा यः ।
विलोकनेनैव स राजपुत्र्याः पत्या भुवः पुर्णवदभ्यमानि ॥ ७.१ ॥

प्रतिप्रतीकं प्रथमं प्रियायामथान्तरानन्दसुधासमुद्रे ।
ततः प्रमोदाश्रुपरम्परायां ममज्जतुस्तस्य दृशौ नृपस्य ॥ ७.२ ॥

ब्रह्माद्वयस्यान्वभवत्प्रमोदं रोमाग्र एवाग्रनिरीक्षितेऽस्याः ।
यथौचितीत्थं तदशेषदृष्टावथ स्मराद्वैतमुदं तथासौ ॥ ७.३ ॥

वेलामतिक्रम्य पृथुं मुखेन्दोरालोकपीयूषरसेन तस्याः ।
नलस्य रागाम्बुनिधौ विवृद्धे तुङ्गौ कुचावाश्रयतः स्म दृष्टी ॥ ७.४ ॥

मग्ना सुधायां किमु तन्मुखेन्दोर्लग्ना स्थिता तत्कुचयोः किमन्तः ।
चिरेण तन्मध्यममुञ्चतास्य दृष्टिः ऋशीय स्खलनाद्भिया नु ॥ ७.५ ॥

प्रियाङ्गपान्था कुचयोर्निवृत्त्य निवृत्त्य लोला नलदृग्भ्रमन्ती ।
बभौतमां तन्मृगनाभिलेपतमःसमासादितदिग्भ्रमेव ॥ ७.६ ॥

विभ्रम्य तच्चारुनितम्बचक्रे दूतस्य दृक्तस्य खलु स्खलन्ती ।
स्थिरा चिरादास्त तदूरुरम्भास्तम्भावुपाश्लिष्य करेण गाढम् ॥ ७.७ ॥

वासः परं नेत्रमहं न नेत्रं किमु त्वमालिङ्गय तन्मयापि ।
उरोनितम्बोरु कुरु प्रसादमितीव सा तत्पदयोः पपात ॥ ७.८ ॥

दृशोर्यथाकाममथोपहृत्य स प्रेयसीमालिकुलं च तस्याः ।
इदं प्रमोदाद्भुतसंभृतेन महीमहेन्द्रो मनसा जगाद ॥ ७.९ ॥

पदे विधातुर्यदि मन्मथो वा ममाभिषिच्येत मनोरथो वा ।
तदा घटेतापि न वा तदेतत्प्रतिप्रतीकाद्भुतरूपशिल्पम् ॥ ७.१ ॥

तरङ्गिणी भूमिभृतः प्रभूता जानामि शृङ्गाररसस्य सेयम् ।
लावण्यपूरोऽजनि यौवनेन यस्यां तथोच्चैस्तनता घनेन ॥ ७.११ ॥

अस्यां वपुर्व्यूहविधानविद्यां किं द्योतयामास नवां स कामः ।
प्रत्यङ्गसङ्गस्फुटलब्धभूमा लावण्यसीमा यदिमामुपास्ते ॥ ७.१२ ॥

जम्बालजालात्किमकर्षि जम्बूनद्या न हारिद्रनिभप्रभेयम् ।
अप्यङ्गयुग्मस्य न सङ्गचिह्नमुन्नीयते दन्तुरता यदत्र ॥ ७.१३ ॥

सत्येव साम्ये सदृशादशेषाद्गुणान्तरेणोच्चकृषे यदङ्गैः ॥

अस्यास्ततः स्यात्तुलनापि नाम वस्तु त्वमीषामुपमापमानः ॥ ७.१४ ॥

पुराकृतिः स्त्रैणमिमां विधातुमभूद्विधातुः खलु हस्तलेखः ।
येयं भवद्भाविपुरंध्रिसृष्टिः सास्यै यशस्तज्जयजं प्रदातुम् ॥ ७.१५ ॥

भव्यानि हानीरगुरेतदङ्गाद्यथा यथानर्ति तथा तथा तैः ।
अस्याधिकस्योपमयोपमाता दाता प्रतिष्ठां खलु तेभ्य एव ॥ ७.१६ ॥

नास्पर्शि दृष्टापि विमोहिकेयं दोषैरशेषैः स्वभियेति मन्ये ।
अन्येषु तैराकुलितस्तदस्यां वसत्यसापत्न्यसुखी गुणौघः ॥ ७.१७ ॥

औज्झि प्रियाङ्गैर्घृणयैव रूक्षा न वारिदुर्गात्तु वराटकस्य ।
न कण्टकैरावरणाच्च कान्तिर्धूलीभृता काञ्चनकेतकस्य ॥ ७.१८ ॥

प्रत्यङ्गमस्यामभिकेन रक्षां कर्तुं मघोनेव निजास्त्रमस्ति ।
वज्रं च भूषामणिमूर्तिधारि नियोजितं तद्द्युतिकार्मुकं च ॥ ७.१९ ॥

अस्याः सपक्षैकविधोः कचौघः स्थाने मुखस्योपरि वासमाप ।
पक्षस्थतावद्बहुचन्द्रकोऽपि कलापिनां येन जितः कलापः ॥ ७.२ ॥

अस्या यदास्येन पुरस्तिरश्च तिरस्कृतं शीतरुचान्धकारम् ।
स्फुटस्फुरद्भङ्गिकचच्छलेन तदेव पश्चादिदमस्ति बद्धम् ॥ ७.२१ ॥

अस्याः कचानां शिखिनश्च किंनु विधिं कलापौ विमतेरगाताम् ।
तेनायमेभिः किमपूजि पुष्पैरभर्त्सि दत्त्वा स किमर्धचन्द्रम् ॥ ७.२२ ॥

केशान्धकारादथ दृश्यभालस्थलार्धचन्द्रा स्फुटमष्टमीयम् ।
एनां यदासाद्य जगज्जयाय मनोभुवा सिद्धिरसाधि साधु ॥ ७.२३ ॥

पौष्पं धनुः किं मदनस्य दाहे श्यामीभवत्केसरशेषमासीत् ।
व्यधाद्द्विधेशस्तदपि क्रुधा किं भैमीभ्रुवौ येन विधिर्व्यधत्त ॥ ७.२४ ॥

भ्रूभ्यां प्रियाया भवता मनोभूचापेन चापे घनसारभावः ।
निजां यदप्लोषदशामपेक्ष्य संप्रत्यनेनाधिकवीर्यतार्जि ॥ ७.२५ ॥

स्मारं धनुर्यद्विधुनोज्झितास्या यास्येन भूतेन च लक्ष्मलेखा ।
एतद्भ्रुवौ जन्म तदाप युग्मं लीलाचलत्वोचितबालभावम् ॥ ७.२६ ॥

एषुत्रयेणैव जगत्त्रयस्य विनिर्जयात्पुष्पमयाशुगेन ।
शेषा द्विबाणी सफलीकृतेयं प्रियादृगम्भोजपदेऽभिषिच्य ॥ ७.२७ ॥

सेयं मृदुः कौसुमचापयष्टिः स्मरस्य मुष्टिग्रहणार्हमध्या ।
तनोति नः श्रीमदपाङ्गमुक्तां मोहाय या दृष्टिशरौघवृष्टिम् ॥ ७.२८ ॥

आघूर्णितं पक्ष्मलमक्षिपद्मं प्रान्तद्युतिश्वैत्यजितामृतांशु ।
अस्या इवास्याश्चलदिन्द्रनीलगोलामलश्यामलतारतारम् ॥ ७.२९ ॥

कर्णोत्पलेनापि मुखं सनाथं लभेत नेत्रद्युतिनिर्जितेन ।
यद्येतदीयेन ततः कृतार्था स्वचक्षुषी किं कुरुते कुरङ्गी ॥ ७.३ ॥

त्वचः समुत्तार्य दलानि रीत्या मोचात्वचः पञ्चषपाटनायाम् ।
सौरैर्गृहीतैर्विधिरुत्पलौघादस्यामभूदीक्षणरूपशिल्पी ॥ ७.३१ ॥

चकोरनेत्रैणदृगुत्पलानां निमेषयन्त्रेण किमेष कृष्टः ।
सारः सुधोद्गारमयः प्रयत्नैर्विधातुमेतन्नयने विधातुः ॥ ७.३२ ॥

ऋणीकृता किं हरिनीभिरासीदस्याः सकाशान्नयनद्वयश्रीः ।
भूयोगुणेयं सकला बलाद्यत्ताभ्योऽनयाऽलभ्यत बिभ्यतीभ्यः ॥ ७.३३ ॥

दृशौ किमस्याश्चपलस्वभावे न दूरमाक्रम्य मिथो मिलेताम् ।
न चेत्कृतः स्यादनयोः प्रयाणे विघ्नः श्रवःकूपनिपातभीत्या ॥ ७.३४ ॥

केदारभाजा शिशिरप्रवेशात्पुण्याय मन्ये मृतमुत्पलिन्या ।
जाता यतस्तत्कुसुमेक्षणेयं यातश्च तत्कोरकदृक्चकोरः ॥ ७.३५ ॥

नासादसीया तिलपुष्पतूणं जगत्त्रयव्यस्तशरत्रयस्य ।
श्वासानिलामोदभरानुमेयां दधद्द्विबाणीं कुसुमायुधस्य ॥ ७.३६ ॥

बन्धूकबन्धूभवदेतदस्या मुखेन्दुनानेन सहोज्जिहाना ।
रागश्रिया शैशवयौवनीयां स्वमाह संध्यामधरोष्ठलेखा ॥ ७.३७ ॥

अस्या मुखेन्दावधरः सुधाभूबिम्बस्य युक्तः प्रतिबिम्ब एषः ।
तस्याथवा श्रीर्द्रुमभाजि देशे संभाव्यमानस्य तु विद्रुमे सा ॥ ७.३८ ॥

जानेऽतिरागादिदमेव बिम्बं बिम्बस्य च व्यक्तमितोऽधरत्वम् ।
द्वयोर्विशेषावगमाक्षमाणां नाम्नि भ्रमोऽभूदनयोर्जनानाम् ॥ ७.३९ ॥

मध्योपकण्ठावधरोष्ठभागौ भातः किमप्युच्छ्वसितौ यदस्याः ।
तत्स्वप्नसंभोगवितीर्णदन्तदंशेन किं वा न मयापराद्धम् ॥ ७.४ ॥

विद्या विदर्भेन्द्रसुताधरोष्ठे नृत्यन्ति कत्यन्तरभेदभाजः ।
इतीव रेखाभिरपश्रमस्ताः संख्यातवान्कौतुकवान्विधाता ॥ ७.४१ ॥

संभुज्यमानाद्य मया निशान्ते स्वप्नेऽनुभूता मधुराधरेयम् ।
असीमलावण्यरदच्छदेत्थं कथं मयैव प्रतिपद्यते वा ॥ ७.४२ ॥

यदि प्रसादीकुरुते सुधांशेरेषा सहस्रांशमपि स्मितस्य ।
तत्कौमुदीनां कुरुते तमेव निमिच्छय देवः सफलं स जन्म ॥ ७.४३ ॥

चन्द्राधिकैतन्मुखचन्द्रिकाणां दरायतं तत्किरणाद्धनानाम् ।
पुरःसरस्रस्तपृषद्द्वितीयं रदावलिद्वन्द्वति बिन्दुवृन्दम् ॥ ७.४४ ॥

सेयं ममैतद्विरहार्तिमूर्च्छातमीविभातस्य विभाति संध्या ।
महेन्द्रकाष्ठागतरागकर्त्री द्विजैरमीभिः समुपास्यमाना ॥ ७.४५ ॥

राजौ द्विजानामिह राजदन्ताः संबिभ्रति श्रोत्रियविभ्रमं यत् ।
उद्वेगरागादिमृजावदाताश्चत्वार एते तदवैमि मुक्ताः ॥ ७.४६ ॥

शिरीषकोषादपि कोमलाया वेधा विधायाङ्गमशेषमस्याः ।
प्राप्तप्रकर्षः सुकुमारसर्गे समापयद्वाचि मृदुत्वमुद्राम् ॥ ७.४७ ॥

प्रसूनबाणाद्वयवादिनी सा काचिद्द्विजेनोपनिषत्पिकेन ।
अस्याः किमास्यद्विजराजतो वा नाधीयते भैक्षभुजा तरुभ्यः ॥ ७.४८ ॥

पद्माङ्कसद्मानमवेक्ष्य लक्ष्मीमेकस्य विष्णोः श्रयणात्सपत्नीम् ।
आस्येन्दुमस्या भजते जिताब्जं सरस्वती तद्विजिगीषया किम् ॥ ७.४९ ॥

कण्ठे वसन्ती चतुरा यदस्याः सरस्वती वादयते विपञ्चीम् ।
तदेव वाग्भूय मुखे मृगाक्ष्याः श्रोतुः श्रुतौ याति सुधारसवम् ॥ ७.५ ॥

विलोकितास्या मुखमुन्नमय्य किं वेधसेयं सुषमासमाप्तौ ।
धृत्युद्भवा यच्चिबुके चकास्ति निम्ने मनागङ्गुलियन्त्रणेव ॥ ७.५१ ॥

प्रियामुखीभूय सुखी सुधांशुर्जयत्ययं राहुभयव्ययेन ।
इमां दधाराधरबिम्बलीलां तस्यैव वालं करचक्रवालम् ॥ ७.५२ ॥

अस्या मुखस्यास्तु न पुर्णमास्यं पूर्णस्य जित्वा महिमा हिमांशुम् ।
भूलक्ष्म खण्डं दधदर्धमिन्दुर्भालस्तृतीयः खलु यस्य भागः ॥ ७.५३ ॥

व्यधत्त धाता वदनाब्जमस्याः सम्राजमम्भोजकुलेऽखिलेऽपि ।
सरोजराजौ सृजतोऽदसीयां नेत्राभिधेयावत एव सेवाम् ॥ ७.५४ ॥

दिवारजन्यो रविसोमभीते चन्द्राम्बुजे निक्षिपतः स्वलक्ष्मीम् ।
आस्ये यदास्या न तदा तयोः शृईरेकश्रियेदं तु कदा न कान्तम् ॥ ७.५५ ॥

अस्या मुखश्रीप्रतिविम्बमेव जलाच्च तातान्मुकुराच्च मित्त्रात् ।
अभ्यर्थ्य धत्तः खलु पद्मचन्द्रौ विभूषणं याचितकं कदाचित् ॥ ७.५६ ॥

अर्काय पत्ये खलु तिष्ठमाना भृङ्गैर्मितामक्षिभिरम्बुकेलौ ।
भैमीमुखस्य श्रियमम्बुजिन्यो याचन्ति विस्तारितपद्महस्ताः ॥ ७.५७ ॥

अस्या मुखेनैव विजित्य नित्यस्पर्धी मिलत्कुङ्कुमरोषाभासा ।
प्रसह्य चन्द्रः खलु नह्यमानः स्यादेव तिष्ठत्परिवेषपाशः ॥ ७.५८ ॥

विधोर्विधिर्बिम्बशतानि लोपंलोपं कुहूरात्रिषु मासिमासि ।
अभङ्गुरश्रीकममुं किमस्या मुखेन्दुमस्थापयदेकशेषम् ॥ ७.५९ ॥

कपोलपत्त्रान्मकरात्सकेतुभूभ्यां जिगीषुर्धनुषा जगन्ति ।
इहावलम्ब्यास्ति रतिं मनोभू रज्यद्वयस्यो मधुनाधरेण ॥ ७.६ ॥

वियोगबाष्पाञ्चितनेत्रपद्मच्छद्मार्पितोत्सर्गपयःप्रसूनौ ।
कर्णौ किमस्या रतितत्पतिभ्यां निवेद्यपूपौ विधिशिल्पमीदृक् ॥ ७.६१ ॥

इहाविशेद्येन पथातिवक्रः शास्त्रौघनिष्यन्दसुधाप्रवाहः ।
सोऽस्याः श्रवःपत्त्रयुगे प्रणालीरेखैव धावत्यभिकर्णकूपम् ॥ ७.६२ ॥

अस्या यदष्टादश संविभज्य विद्याः श्रुती दध्रतुरर्धमर्धम् ।
कर्णान्तरुत्कीर्णगभीररेखः किं तस्य संख्यैव नवानवाङ्कः ॥ ७.६३ ॥

मन्येऽमुना कर्णलतामयेन पाशद्वयेन च्छिदुरेतरेण ।
एकाकिपाशं वरुणं विजिग्येऽनङ्गीकृतायासतती रतीशः ॥ ७.६४ ॥

आत्मैव तातस्य चतुर्भुजस्य जातश्चतुर्दोरुचितः स्मरोऽपि ।
तच्चापयोः कर्णलते भ्रुवोर्ज्ये वंशत्वगंशौ चिपिटे किमस्याः ॥ ७.६५ ॥

ग्रीवाद्भुतैवावटुशोभितापि प्रसाधिता माणवकेन सेयम् ।
आलिङ्ग्यतामप्यवलम्बमाना सुरूपताभागखिलोर्ध्वकाया ॥ ७.६६ ॥

कवित्वगानप्रियवादसत्यान्यस्या विधाता व्यधिताधिकण्ठम् ।
रेखात्रयन्यासमिषादमीषां वासाय सोऽयं विबभाज सीमाः ॥ ७.६७ ॥

बाहू प्रियाया जयतां मृणालं द्वन्द्वे जयो नाम न विस्मयोऽस्मिन् ।
उच्चैस्तु तच्चित्रममुष्य भग्नस्यालोक्यते निर्व्यथनं यदन्तः ॥ ७.६८ ॥

अजीयतावर्तशुभंयुनाभ्यां दोर्भ्यां मृणालं किमु कोमलाभ्याम् ।
निःसूत्रमाष्ते घनपङ्कमृत्सु मूर्तासु नाकीर्तिषु तन्निमग्नम् ॥ ७.६९ ॥

रज्यन्नखस्याङ्गुलिपञ्चकस्य मिषादसौ हैङ्गुलपद्मतूणे ।
हैमैकपुङ्ख्यास्ति विशुद्धपर्वा प्रियाकरे पञ्चशरी स्मरस्य ॥ ७.७ ॥

अस्याः करस्पर्धनगर्धनर्द्धिर्बालत्वमापत्खलु पल्लवो यः ।
भूयोऽपि नामाधरसाम्यगर्वं कुर्वन्कथं वास्तु न स प्रवालः ॥ ७.७१ ॥

अस्यैव सर्गाय भवत्करस्य सरोजसृष्टिर्मम हस्तलेखः ।
इत्याह धाता हरिणेक्षणायां किं हस्तलेखीकृतया तयास्याम् ॥ ७.७२ ॥

किं नर्मदाया मम सेयमस्या दृश्याभितो बाहुलतामृणाली ।
कुचौ किमुत्तस्थतुरन्तरीपे स्मरोष्मशुष्यत्तरबाल्यवारः ॥ ७.७३ ॥

तालं प्रभु स्याडनुकर्तुमेतावुत्थानसुस्थौ पतितं न तावत् ।
परं च नाश्रित्य तरुं महान्तं कुचौ कृशाङ्घ्याः स्वत एव तुङ्गौ ॥ ७.७४ ॥

एतत्कुचस्पर्धितया घटस्य ख्यातस्य शास्त्रेषु निदर्शनत्वम् ।
तस्माच्च शिल्पान्मणिकादिकारी प्रसिद्धनामाजनि कुम्भकारः ॥ ७.७५ ॥

गुच्छालयस्वच्छतमोदबिन्दुवृन्दाभमुक्ताफलफेनिलाङ्के ।
माणिक्यहारस्य विदर्भसुभूपयोधरे रोहति रोहितश्रीः ॥ ७.७६ ॥

निःशङ्कसंकोचितपङ्कजोऽयमस्यामुदीतो मुखमिन्दुबिम्बः ।
चित्रं तथापि स्तनकोकयुग्मं न स्तोकमप्यञ्चति विप्रयोगम् ॥ ७.७७ ॥

आभ्यां कुचाभ्यामिभकुम्भयोः श्रीरादीयतेऽसावनयोर्न ताभ्याम् ।
भयेन गोपायितमौक्तिकौ तौ प्रव्यक्तमुक्ताभरणाविमौ यत् ॥ ७.७८ ॥

कराग्रजाग्रच्छतकोटिरर्थी ययोरिमौ तौ तुलयेत्कुचौ चेत् ।
सर्वं तदा श्रीफलमुन्मदिष्णु जातं वटीमप्यधुना न लब्धुम् ॥ ७.७९ ॥

स्तनावटे चन्दनपङ्किलेऽस्या जातस्य यावद्युवमानसानाम् ।
हारावलीरत्नमयूखधाराकाराः स्फुरन्ति स्खलनस्य रेखाः ॥ ७.८ ॥

क्षीणेन मध्येऽपि सतोदरेण यत्प्राप्यते नाक्रमणं वलिभ्यः ।
सर्वाङ्गशुद्धौ तदनङ्गराज्यविजृम्भितं भीमभुवीह चित्रम् ॥ ७.८१ ॥

मध्यं तनूकृत्य यदीदमीयं वेधा न दध्यात्कमनीयमंशम् ।
केन स्तनौ संप्रति यौवनेऽस्याः सृजेदनन्यप्रतिमाङ्गयष्टेः ॥ ७.८२ ॥

गौरीव पत्या सुभगा कदाचित्कर्तेयमप्यर्धतनूसमस्याम् ।
इतीव मध्ये विदधे विधाता रोमावलीमेचकसूत्रमस्याः ॥ ७.८३ ॥

रोमावलीरज्जुमुरोजकुम्भौ गम्भीरमासाद्य च नाभिकूपम् ।
मद्दृष्टितृष्णा विरमेद्यदि स्यान्नैषां बतैषासिचयेन गुप्तिः ॥ ७.८४ ॥

उन्मूलितालानबिलाभनाभिश्छिन्नस्खलच्छृङ्खलरोमराजिः ।
मत्तस्य सेयं मदनद्विपस्य प्रस्वापवप्रोच्चकुचास्तु वास्तु ॥ ७.८५ ॥

रोमावलिभ्रूकुसुमैः स्वमौर्वीचापेषुभिर्मध्यललाटमूर्ध्नि ।
व्यस्तैरपि स्थास्नुभिरेतदीयैर्जैत्रः स चित्रं रतिजानिवीरः ॥ ७.८६ ॥

पुष्पाणि बाणाः कुचमण्डनानि भ्रुवौ धनुर्भालमलंकरिष्णु ।
रोमावली मध्यविभूषणं ज्या तथापि जेता रतिजानिरेतैः ॥ ७.८७ ॥

अस्याः खलु ग्रन्थिनिबद्धकेशमल्लीकदम्बप्रतिबिम्बवेषात् ।
स्मरप्रशस्ती रजताक्षरेयं पृष्ठस्थलीहाटकपट्तिकायाम् ॥ ७.८८ ॥

चक्रेण विश्Vअं युधि मत्स्यकेतुः पितुर्जितं वीक्ष्य सुदर्शनेन ।
जगज्जिगीषत्यमुना नितम्बमयेन किं दुर्लभदर्शनेन ॥ ७.८९ ॥

रोमावलीदण्डनितम्बचकेर् गुणं च लावण्यजलं च बाला ।
तारुण्यमूर्तेः कुचकुम्भकर्तुर्बिभर्ति शङ्के सहकारिचक्रम् ॥ ७.९ ॥

अङ्गेन केनापि विजेतुमस्या गवेष्यते किं चलपत्त्रपत्त्रम् ।
न चेद्विशेषादितरच्छदेभ्यस्तस्यास्तु कम्पस्तु कुतो भयेन ॥ ७.९१ ॥

भ्रूश्चित्रलेखा च तिलोत्तमास्या नासा च रम्भा च यदूरुसृष्टिः ।
दृष्टा ततः पूरयतीयमेकानेकाप्सरःप्रेक्षणकौतुकानि ॥ ७.९२ ॥

रम्भापि किं चह्नयति प्रकाण्डं न चात्मनः स्वेन न चैतदूरू ।
स्वस्यैव येनोपरि सा ददाना पत्त्राणि जागर्त्यनयोर्भ्रमेण ॥ ७.९३ ॥

विधाय मूर्धानमधश्चरं चेन्मुञ्चेत्तपोभिः स्वमसारभावम् ।
जाड्यं च नाञ्चेत्कदली बलीयस्तदा यदि स्यादिदमूरुचारुः ॥ ७.९४ ॥

ऊरुप्रकाण्डद्वितयेन तन्व्याः करः पराजीयत वारणीयः ।
युक्तं ह्रिया कुण्डलनच्छलेन गोपायति स्वं मुखपुष्करं सः ॥ ७.९५ ॥

अस्यां मुनीनामपि मोहमूहे भृगुर्महान्यत्कुचशैलशीली ।
नानारदाह्लादि मुखं श्रियोरुर्व्यासो महाभारतसर्गयोग्यः ॥ ७.९६ ॥

क्रमोद्गता पीवरताधिजङ्घं वृक्षाधिरूढं विदुषी किमस्याः ।
अपि भ्रमीभङ्गिभिरावृताङ्गं वासो लतावेष्टितकप्रवीणम् ॥ ७.९७ ॥

अरुन्धतीकामपुरंध्रिलक्ष्मीजम्भद्विषद्दारनवाम्बिकानाम् ।
चतुर्दशीयं तदिहोचितैव गुल्फद्वयाप्ता यददृश्यसिद्धिः ॥ ७.९८ ॥

अस्याः पदौ चारुतया महान्तावपेक्ष्य सौक्ष्म्याल्लवभावभाजः ।
जाता प्रवालस्य महीरुहाणां जानीमहे पल्लवशब्दलब्धिः ॥ ७.९९ ॥

जगद्वधूमूर्धसु रूपदर्पाद्यदेनयादायि पदारविन्दम् ।
तत्सान्द्रसिन्दूरपरागरागैर्द्वयं प्रवालप्रबलारुणं तत् ॥ ७.१ ॥

रुषारुणा सर्वगुणैर्जयन्त्या भैम्याः पदं श्रीः स्म विधेर्वृणीते ।
ध्रुवं स तामच्छलयद्यतः सा भृशारुणैतत्पदभाग्विभाति ॥ ७.१०१ ॥

यानेन तन्व्या जितदन्तिनाथौ पादाब्जराजौ परिशुद्धपार्ष्णी ।
जाने न शुश्रूषयितुं स्वमिच्छू नतेन मूर्ध्ना कतरस्य राज्ञः ॥ ७.१०२ ॥

कर्णाक्षिदन्तच्छदबाहुपाणिपादादिनः स्वाखिलतुल्यजेतुः ।
उद्वेगभागद्वयताभिमानादिहैव वेधा व्यधित द्वितीयं ॥ ७.१०३ ॥

तुषारनिःशेषितमब्जसर्गं विधातुकामस्य पुनर्विधातुः ।
पञ्चस्विहास्याङ्घ्रिकरेष्वभिख्याभिक्षाधुना मधुकरीसदृक्षा ॥ ७.१०४ ॥

एष्यन्ति यावद्गणनाद्दिगन्तान्नृपाः स्मराताः शरणे प्रवेष्टुम् ।
इमे पदाब्जे विधिनापि सृष्टास्तावत्य एवाङ्गुलयोऽत्र लेखाः ॥ ७.१०५ ॥

प्रियानखीभूतवतो मुदेदं व्यधाद्विधिः साधुदशत्वमिन्दोः ।
एतत्पदच्छद्मसरागपद्मसौभाग्यभाग्यं कथमन्यथा स्यात् ॥ ७.१०६ ॥

यशः पदाङ्गुष्ठनखौ मुखं च बिभर्ति पूर्णेन्दुचतुष्टयं या ।
कलाचतुःषष्टिरुपैतु वासं तस्यां कथं सुभ्रुवि नाम नास्याम् ॥ ७.१०७ ॥

सृष्टातिविश्वा विधिनैव तावत्तस्यापि नीतोपरि यौवनेन ।
वैदग्ध्यमध्याप्य मनोभुवेयमवापिता वाक्पत्रपारमेव ॥ ७.१०८ ॥

इति स चिकुरादारभ्यैनां नखावधि वर्णयन्हरिणरमणीनेत्रां चित्राम्बुधौ तरदन्तरः ।
हृदयभरणोद्वेलानन्दः सखीवृतभीमजानयनविषयीभावे भावं दधार धराधिपः ॥ ७.१०९ ॥

श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
गौडर्वीशकुलप्रशस्तिभणितिभ्रातर्ययं तन्महाकाव्ये चारुणि वैरसेनिचरिते सर्गोऽगमत्सप्तमः ॥ ७.११ ॥