नैषधीयचरितम् सर्गाः ११-१५

नैषधीयचरितम् सम्पूर्णम्,,,,,

एकादश सर्गः

सम्पाद्यताम्

लाभाय चेतसि धृतस्य वरस्य भीम-
भूमीन्द्रजा तदनु राजसभां बभाज ॥1॥
तन्निर्मलावयवभित्तिषु तद्विभूषा-
रत्नेषु च प्रतिफलन्निजदेहदम्भात् ।
दृष्ट्या परं न हृदयेन न केवलं तैः
सर्वात्मनैव सुतनौ युवभिर्ममज्जे ॥2॥
द्यामन्तरा वसुमतीमपि गाधिजन्मा
यद्यन्यमेव निरमास्यत नाकलोकम् ।
चारुः स यादृगभविष्यदभूद्विमानै-
स्तादृक्तदभ्रमवलोकितुमागतानाम् ॥3॥
कुर्वद्भिरात्मभवसौरभसंप्रदानं
भूपालचक्रचलचामरमारुतौघम् ।
आलोकनाय दिवि संचरतां सुराणां
तत्रार्चनाविधिरभूदधिवासधूपैः ॥4॥
तत्रावनीन्द्रचयचन्दनचन्द्रलेप-
नेपथ्यगन्धवहगन्धवहप्रवाहम् ।
आलीभिरापतदनङ्गशरानुसारी
संरुध्य सौरभमगाहत भृङ्गवर्गः ॥5॥
उत्तुङ्गमङ्गलमृदङ्गनिनादभङ्गी-
सर्वानुवादविधिबोधितसाधुमेधाः ।
सौधस्रजः प्लुतपताकतयाभिनिन्युः
मन्ये जनेषु निजताण्डवपण्डितत्वम् ॥6॥
संभाषणं भगवती सदृशं विधाय
वाग्देवता विनयवन्धुरकंधरायाः ।
ऊचे चतुर्दशजगज्जनतानमस्या
तन्नाश्रिता सदसि दक्षिणपक्षमस्याः ॥7॥
अभ्यागमन्मुखभुजामिह कोटिरेषा
येषां पृथक्कथनमब्दशतातिपाति ।
अस्यां वृणीष्व मनसा परिभाव्य कंचि-
द्यं चित्तवृत्तिरनुधावति तावकीना ॥8॥
एषां त्वदीक्षणरसादनिमेषतैषा
स्वाभाविकानिमिषतामिलिता यथाभूत् ।
आस्ये तथैव तव नन्वधरोपभोगैः
मुग्धे विधावमृतपानमपि द्विधाष्तु ॥9॥
एषां गिरेः सकलरत्नफलस्तरुः स
प्राग्दुग्धभूमिसुरभेः खलु पञ्चशाखः ।
मुक्ताफलं फलनसान्वयनाम तन्व-
न्नाभाति बिन्दुभिरिव च्छुरितः पयोधेः ॥10॥
वक्त्रेन्दुसंनिधिनिमीलदलारविन्द-
द्वन्द्वभ्रमक्षममथाञ्जलिनात्ममौलौ ।
कृत्वापराधभयचञ्चलमीक्षमाणा
सान्यत्र गन्तुममरैः कृपयान्वमानि ॥11॥
तत्तद्विरागमुदितं शिबिकाधरस्थाः
साक्षाद्विदुः स्म न मनागपि यानधुर्याः ।
आसन्ननायकविषण्णमुखानुमेय-
भैमीविरक्तचरितानुमया तु जज्ञुः ॥12॥
रक्षःस्वरक्षणमवेक्ष्य निजं निवृत्तो
विद्याधरेष्वधरतां वपुषैव भैम्याः ।
गन्धर्वसंसदि न गन्धमपि स्वरस्य
तस्या विमृश्य विमुखोऽजनि यानवर्गः ॥13॥
दीनेषु सत्स्वपि कृताफलवित्तरक्षैः
यक्षैरदर्शि न मुखं त्रपयैव भैम्याम् ।
ते जानते स्म सुरशाखिपतिव्रतां किं
तां कल्पवीरुधमधिक्षिति नावतीर्णाम् ॥14॥
जन्यास्ततः फणभृतामधिपः सुरौघान्
माञ्जिष्थमञ्जिमवगाहिपदोष्ठलक्ष्मीम् ।
तां मानसं निखिलवारिचयान्नवीना
हंसावलीमिव घना गमयांबभूवुः ॥15॥
यस्या विभोरखिलवाङ्मयविस्तरोऽयम्
आख्यायते परिणतिर्मुनिभिः पुनः सा ।
उद्गत्वरामृतकरार्धपरार्ध्यभालां
बालामभाषत सभासततप्रगल्भा ॥16॥
आश्लेषलग्नगिरिजाकुचकुङ्कुमेन
यः पट्टसूत्रपरिरम्भणशोणशोभः ।
यज्ञोपवीतपदवीं भजते स शंभोः
सेवासु वासुकिरयं प्रसितः सितश्रीः ॥17॥
पाणौ फणी भजति कङ्कणभूयमैशे
सोऽयं मनोहरमणीरमणीयमुच्चैः ।
कोटीरबन्धनधनुर्गुणयोगपट्ट-
व्यापारपारगममुं भज भूतभर्तुः ॥18॥
धृत्वैकया रसनयामृतमीश्वरेन्दो-
रप्यन्यया त्वदधरस्य रसं द्विजिह्वः ।
आस्वादयन्युगपदेष परं विशेषं
निर्णेतुमेतदुभयस्य यदि क्षमः स्यात् ॥19॥
आशीविषेण रदनच्छददंशदानम्
एतेन ते पुनरनर्थतया न गण्यम् ।
बाधां विधातुमधरे हि न तावकीने
पीयूषसारधटिते घटतेऽस्य शक्तिः ॥20॥
तद्विस्फुरत्फणविलोकनभूतभीतेः
कम्पं च वीक्ष्य पुलकं च ततोनु तस्याः ।
संजातसात्विकविकारधियः स्वभृत्यान्
नृत्यान्न्यषेधदुरगाधिपतिर्विलक्षाः ॥21॥
तद्दर्शिभिः स्ववरणे फणिभिर्निराशैः
निश्वस्य तत्किमपि सृष्टमनात्मनीनम् ।
यत्तान्प्रयातुमनसोऽपि विमानवाहा
हा हा प्रतीपपवनाशकुनान्न जग्मुः ॥22॥
ह्रीसंकुचत्फणगणादुरगप्रधानात्
तां राजसङ्घमनयन्त विमानवाहाः ।
संध्यानमद्दलकुलात्कमलाद्विनीय
कह्लारमिन्दुकिरणा इव हासभासम् ॥23॥
देव्याभ्यधायि भव भीरु धृतावधाना
भूमीभुजो भजत भीमभुवो निरीक्षाम् ।
आलोकितामपि पुनः पिबतां दृशैनाम्
इच्छा विगच्छति न वत्सरकोटिभिर्वा ॥२४॥
लोकेशकेशवशिवानपि यश्चकार
शृङ्गारसान्तरभृशान्तरशान्तभावान् ।
पञ्चेन्द्रियाणि जगतामिषुपञ्चकेन
संक्षोभयन्वितनुतां वितनुर्मदं वः ॥25॥
पुष्पेषुणा ध्रुवममूनिषुवर्षजप्ति-
हुंकारमन्त्रबलभस्मितशान्तशक्तीन् ।
शृङ्गारसर्गरसिकद्व्यणुकोदरि त्वं
द्वीपाधिपान्नयनयोर्नय गोचरत्वम् ॥26॥
स्वादूदके जलनिधौ सवनेन सार्धं
भव्या भवन्तु तव वारिविहारलीलाः ।
द्वीपस्य तं पतिममुं भज पुष्करस्य
निस्तन्द्रपुष्करतिरस्करणक्षमाक्षि ॥27॥
सावर्तभावभवदद्भुतनाभिकूपे
स्वर्भौममेतदुपवर्तनमात्मनैव ।
स्वाराज्यमर्जयसि न श्रियमेतदीयाम्
एतद्गृहे परिगृहाण शचीविलासम् ॥28॥
देवः स्वयं वसति तत्र किल स्वयंभूः
न्यग्रोधमण्डलतले हिमशीतले यः ।
स वां विलोक्य निजशिल्पमनन्यकल्पं
सर्वेषु कारुषु करोतु करेण दर्पम् ॥29॥
न्यग्रोधनादिव दिवः पतदातपादेः
न्यग्रोधमात्मभरधारमिवावरोहैः ।
तं तस्य पाकिफलनीलदलद्युतिभ्यां
द्वीपस्य पश्य शिखिपत्त्रजमातपत्रम् ॥30॥
न श्वेततां चरतु वा भुवनेषु राज-
हंसस्य न प्रियतमा कथमस्य किर्तिः ।
चित्रं तु यद्विशदिमाद्वयमाविशन्ती
क्षीरं च नाम्बु च मिथः पृथगातनोति ॥31॥
शूरेऽपि सूरिपरिषत्प्रथमाऋचितेऽपि
शृङ्गारभङ्गिमधुरेऽपि कलाकरेऽपि ।
तस्मिन्नवद्यमियमाप तदेव नाम
यत्कोमलं न किल तस्य नलेति नाम ॥32॥
भ्रूवल्लिवेल्लितमथाकृतिभङ्गिमेषा
लिङ्गं चकार तदनादरणस्य विज्ञा ।
राज्ञोऽपि तस्य तदलाभजतापवह्निः
चिह्नीबभूव मलिनच्छविभूमधूमः ॥33॥
राजान्तराभिमुखमिन्दुमुखीमथैनां
जन्या जनीं हृदयवेदितयैव निन्युः ।
अन्यानपेक्षितविधौ न खलु प्रधान-
वाचां भवत्यवसरः सति भव्यभृत्ये ॥34॥
ऊचे पुनर्भगवती नृपमन्यमस्यै
निर्दिश्य दृश्यतमतावमताश्विनेयम् ।
आलोक्यतामयमये कुलशीलशाली
शालीनतानतमुदस्य निजास्यबिम्बम् ॥३५॥
एतत्पुरःपठदपश्रमबन्दिवृन्द-
वाग्डम्बरैरनवकाशतरेऽम्बरेऽस्मिन् ।
उत्पत्तुमस्ति पदमेव न मत्पदानाम्
अर्थोऽपि नाऋथपुनरुक्तिषु पातुकानाम् ॥36॥
नन्वत्र हव्य इति विश्रुतनाम्नि शाकद्
वीपप्रशासिनि सुधीषु सुधीभवन्त्या ।
एतद्भुजाबिरुदबन्दिजयानयापि
किं रागि राजनि गिराजनि नान्तरं ते ॥३७॥
शाकः शुकच्छदसमच्छविपत्त्रमाल-
भारी हरिष्यति तरुस्तव तत्र चित्तम् ।
यत्पल्लवौघपरिरम्भविजृम्भितेन
ख्याता जगत्सु हरितो हरितः स्फुरन्ति ॥३८॥
स्पर्शेन तत्र किल तत्तरुपत्त्रजन्मा
यन्मारुतः कमपि संमदमादधाति ।
कौतूहलं तदनुभूय विधेहि भूयः
श्रद्धां पराशरपुराणकथान्तरेऽपि ॥39॥
क्षीरार्णवस्तवकटाक्षरुचिच्छटानाम्
अन्वेतु तत्र विकटायितमायताक्षि ।
वेलावनीवनततिप्रतिबिम्बचुम्बी-
किर्मीरितोर्मिचयचारिमचापलाभ्याम् ॥40॥
कल्लोलजालचलनोपनतेन पीवा
जीवातुनानवरतेन पयोरसेन ।
अस्मिन्नखण्डपरिमण्डलितोरुमूर्तिः
अध्यास्यते मधुभिदा भुजगाधिराजः ॥41॥
त्वद्रूपसंपदवलोकनजातशङ्का
पादाब्जयोरिह कराङ्गुलिलालनेन ।
भूयाच्चिराय कमला कलितावधाना
निद्रानुबन्धमनुरोधयितुं धवस्य ॥42॥
बालातपैः कृतकगैरिकतां कृतां द्विः
तत्रोदयाचलशिलाः परिशीलयन्तु ।
त्वद्विभ्रमभ्रमणजश्रमवारिधारि-
पादाङ्गुलीगलितया नखलाक्षयापि ॥43॥
नॄणां करम्बितमुदामुदयन्मृगाङ्क-
शङ्कां सृजत्वनघजङ्घि परिभ्रमन्त्याः ।
तत्रोदयाद्रिशिखरे तव दृश्यमास्यं
कश्मीरसंभवसमारचनाभिरामम् ॥44॥
एतेन ते विरहपावकमेत्य तावत्
कामं स्वनाम कलितान्वयमन्वभावि ।
अङ्गीकरोषि यदि तत्तव नन्दनाद्यैः
लब्धान्वयं स्वमपि नन्वयमातनोतु ॥45॥
लक्ष्मीलतासमवलम्बभुजद्रुमेऽपि
वाग्देवतायतनमञ्जुमुखाम्बुजेऽपि ।
सामुत्र दूषणमजीगणदेकमेव
नाऋथी बभूव मघवा यदमुष्य देवः ॥46॥
लक्ष्मीविलासवसतेः सुमनःसु मुख्यात्
अस्माद्विकृष्य भुवि लब्धगुणप्रसिद्धिम् ।
स्थानान्तरं तदनु निन्युरिमां विमान-
वाहाः पुनः सुरभितामिव गन्धवाहाः ॥४७॥
भूयस्ततो निखिलवाङ्मयदेवता सा
हेमोपमेयतनुभा समभाषतैनाम् ।
एतं स्वबाहुबहुवारनिवारितारिं
चित्ते कुरुष्व कुरुविन्दसकान्तिदन्ति ॥48॥
द्वीपस्य पश्य दयितं द्युतिमन्तमेतं
क्रौञ्चस्य चञ्चलदृगञ्चलविभ्रमेण ।
यन्मण्डले स परिमण्डलसंनिवेशः
पाण्डुश्चकास्ति दधिमण्डपयोधिपूरः ॥49॥
तत्राद्रिरस्ति भवदङ्घ्रिविहारयाची
क्रौञ्चः स्फुरिष्यति गुणानिव यस्त्वदीयान् ।
हंसावली कलकलप्रतिनादवाग्भिः
स्कन्देषुवृन्दविवरैर्विवरीतुकामः ॥50॥
वैदर्भि दर्भदलपूजनयापि यस्य
गर्भे जनः पुनरुदेति न जातु मातुः ।
तस्यार्चनां रचय तत्र मृगाङ्कमौलेः
तन्मात्रदैवतजनाभिजनः स देशः ॥51॥
चूडाग्रचुम्बिमिहिरोदयशैलशीलः
तेनाः स्तनंधयसुधाकरशेखरस्य ।
तस्मिन्सुवर्णरसभूषणरम्यहर्म्य-
भूभृद्धटा घटय हेमघटावतंसाः ॥52॥
तस्मिन्मलिम्लुच इव स्मरकेलिजन्म-
घर्मोदबिन्दुमययौक्तिकमण्डनं ते ।
जालैर्मिलन्दधिमहोदधिपूरलोल-
कल्लोलचामरमरुत्तरुणि छिनत्तु ॥53॥
एतद्यशो नवनवं खलु हंसवेषं
वेशन्तसंतरणदूरगमक्रमेण ।
अभ्यासमर्जयति संतरितुं समुद्रान्
गन्तुं च निःश्रममितः सकलान्दिगन्तान् ॥54॥
तस्मिन्गुणैरपि भृते गणनादरिद्रैः
तन्वी न सा हृदयबन्धमवाप भूपे ।
दैवे निरुन्धति निबन्धनतां वहन्ति
हन्त प्रयासपरुषाणि न पौरुषाणि ॥55॥
ते निन्यिरे नृपतिमन्यमिमाममुष्माद्
अंसावतंसशिबिकांशभृतः पुमांसः ।
रत्नाकरादिव तुषारमयूखलेखां
लेखानुजीविपुरुषा गिरिशोत्तमाङ्गम् ॥56॥
एकैकमद्भुतगुणं धुतदूषणं च
हित्वान्यमन्यमुपगत्य परित्यजन्तीम् ।
एनां जगाद जगदञ्चितपादपद्मा
पद्मामिवाच्युतभुजान्तरविच्युतां सा ॥57॥
ईशः कुशेशयसनाभिशये कुशेन
द्वीपस्य लाञ्छिततनोर्यदि वाञ्छितस्ते ।
ज्योतिष्मता सममनेन वनीघनासु
तत्त्वं विनोदय घृतोदतटीषु चेतः ॥58॥
वातोर्मिदोलनचलद्दलमण्डलाग्र-
भिन्नाभ्रमण्डलगलज्जलजातसेकः ।
स्तम्बः कुशस्य भविताम्बरचुम्बिचूडः
चित्राय तत्र तव नेत्रनिपीयमानः ॥59॥
पाथोधिमाथसमयोत्थितसिन्धुपुत्री-
पत्पङ्कजार्पणपवित्रशिलासु तत्र ।
पत्या सहावह विहारमयैर्विलासैः
आनन्दमिन्दुमुखि मन्दरकन्दरासु ॥60॥
आरोहणाय तव सज्ज इवास्ति तत्र
सोपानशोभिवपुरश्मवलिच्छटाभिः ।
भोगीन्द्रवेष्टशतघृष्टिकृताभिरब्धि-
क्षुब्धाचलः कनककेतकगोत्रगात्रि ॥61॥
मन्था नगः स भुजगप्रभुवेष्टघृष्टि-
लेखावलद्धवलनिर्झरवारिधारः ।
त्वन्नेत्रयोः स्वभरयन्त्रितशीर्षशेष-
शेषाङ्गवेष्टिततनुभ्रममातनोतु ॥62॥
एतेन ते स्तनयुगेन सुरेभकुम्भौ
पाणिद्वयेन दिविषह्रुमपल्लवानि ।
आस्येन स स्मरतु नीरधिमन्थनोत्थं
स्वच्छन्दमिन्दुमपि सुन्दरि मन्दराद्रिः ॥63॥
वेदैर्वचोभिरखिलैः कृतकीर्तिरत्ने
हेतुं विनैव धृतनित्यपरार्थयत्ने ।
मीमांसयेव भगवत्यमृतांशुमौलौ
तस्मिन्महीभुजि तयानुमतिर्न भेजे ॥64॥
तस्मादिमां नरपतेरपनीय तन्वीं
राजन्यमन्यमथ जन्यजनः स निन्ये ।
स्त्रीभावधावितपदामविमृश्य याच्ञाम्
अर्थी निवर्त्य विधनादिव वित्तवित्तम् ॥65॥
देवी पवित्रितचतुर्भुजवामभागा
वागालपत्पुनरिमां गरिमाभिरामाम् ।
अस्यारिनिष्कृपकृपाणसनाथपाणेः
पाणिग्रहादनुगृहाण गणं गुणानाम् ॥66॥
द्वीपस्य शाल्मल इति प्रथितस्य नाथः
पाथोधिना वलयितस्य सुराम्बुनायम् ।
अस्मिन्वपुष्मति न विस्मयसे गुणाब्धौ
रक्ता तिलप्रसवनासिकि नासि किं वा ॥67॥
विप्रे धयत्युदधिमेकतमं त्रसत्सु
यस्तेषु पञ्चसु बिभाय न सीधुसिन्धुः ।
तस्मिन्ननेन च निजालिजनेन च त्वं
सार्धं विधेहि मधुरा मधुपानकेलीः ॥68॥
द्रोणः स तत्र वितरिष्यति भाग्यलभ्य-
सौभाग्यकाऋमणमयीमुपदां गिरिस्ते ।
तद्द्वीपदीप इव दीप्तिभिरौषधीनां
चूडामिलज्जलदकज्जलदर्शनीयः ॥69॥
तद्वीपलक्ष्मपृथुशाल्मलितूलजालैः
क्षोणीतले मृदुनि मारुतचारुकीर्णैः ।
लीलाविहारसमये चरणार्पणानि
योग्यानि ते सरससारसकोशमृद्वि ॥70॥
एतद्गुणश्रवणकालविजृम्भमाण-
तल्लोचनाञ्चलनिकोचनसूचितस्य ।
भावस्य चक्ररुचितं शिबिकाभृतस्ते
तामेकतः क्षितिपतेरपरं नयन्तः ॥71॥
तां भारती पुनरभाषत नन्वमुष्मिन्
काश्मीरपङ्कनिभलग्नजनानुरागे ।
श्रीखण्डलेपमयदिग्जयकीर्तिराजि-
राजद्भुजे भज महीभुजि भैमि भावम् ॥72॥
द्वीपं द्विपाधिपति मन्दपदे प्रशास्ति
प्लक्षोपलक्षितमयं क्षितिपस्तदस्य ।
मेधातिथेस्त्वमुरसि स्फुर सृष्टसौख्या
साक्षाद्यथैव कमला यमलार्जुनारेः ॥73॥
प्लक्षे महीयसि महीवलयातपत्रे
तत्रेक्षिते खलु तवापि मतिर्भवित्री ।
खेलां विधातुमधिशाखविलम्बिदोला-
लोलाखिलाङ्गजनताजनितानुरागे ॥74॥
पीत्वा तवाधरसुधां वसुधासुधांशुः
न श्रद्दधातु रसमिक्षुरसोदवाराम् ।
द्वीपस्य तस्य दधतां परिवेषवेषं
सोऽयं चमत्कृतचकोरचलाचलाक्षि ॥75॥
सूरं न सौर इव नेन्दुमवीक्ष्य तस्मिन्
नाश्नाति यस्तदितरत्रिदशानभिज्ञः ।
तस्यैन्दवस्य भवदास्यनिरीक्षयैव
दर्शे श्नतोऽपि न भवत्यवकीर्णिभावः ॥76॥
उत्सर्पिणी न किल तस्य तरिङ्गिणी
या त्वन्नेत्रयोरहह तत्र विपाशि जाता ।
नीराजनाय नवनीरजराजिरास्ताम्
अत्राञ्जसानुरज राजनि राजमाने ॥77॥
एतद्यशोभिरखिलेऽम्बुनि सन्तु हंसा
दुग्धीकृते तदुभयव्यतिभेदमुग्धाः ।
क्षीरे पयस्यपि पदे द्वयवाचिभूयं
नानार्थकोषविषयोऽद्य मृषोद्यमस्तु ॥78॥
ब्रूमः किमस्य नलमप्यलमाजुहूषोः
कीर्तिं स चैष च समादिशतः स्म कर्तुम् ।
स्वद्वीपसीमसरिदीश्वरपूरपार-
वेलाचलाक्रमणविक्रममक्रमेण ॥79॥
अम्भोजगर्भरुचिराथ विदर्भसुभ्रूः
तं गर्भरूपमपि रूपजितत्रिलोकम् ।
वैराग्यरूक्षमवलोकयति स्म भूपं
दृष्टिः पुरत्रयरिपोरिव पुष्पचापम् ॥80॥
ते तां ततोऽपि चकृषुर्जगदेकदीपा-
दंसस्थलस्थितसमानविमानदण्डाः ।
चण्डद्युतेरुदयिनीमिव चन्द्रलेखां
सोत्कण्ठकैरववनीसुकृतप्ररोहाः ॥81॥
भूपेषु तेषु न मनागपि दत्तचित्ता
विस्मेरया वचनदेवतया तयाथ ।
वाणीगुणोदयतृणीकृतपाणिवीणा-
निक्वाणया पुनरभाणि मृगेक्षणा सा ॥82॥
यन्मौलिरत्नमुदितासि स एष जम्बू-
द्वीपस्त्वदर्थमिलितैर्युवभिर्विभाति ।
दोलायितेन बहुना भवभीतिकम्प्रः
कंदर्पलोक इव खात्पतितस्त्रुटित्वा ॥83॥
विष्वग्वृतः परिजनैरयमन्तरीपैः
तेषामधीश इव राजति राजपुत्रि ।
हेमाद्रिणा कनकदण्डमहातपत्रः
कैलासरश्मिचयचामरचक्रचिह्नः ॥84॥
एतत्तरुस्तरुणि राजति राजजम्बूः
स्थूलोपलानिव फलानि विमृश्य यस्याः ।
सिद्धस्त्रियः प्रियमिदं निगदन्ति दन्ति-
यूथानि केन तरुमारुरुहुः पथेति ॥85॥
जाम्बूनदं जगति विश्रुतिमेति मृत्स्ना
कृत्स्नापि सा तव रुचा विजितश्रि ।
यस्याः तज्जाम्बवद्रवभवास्य सुधाविधाम्बुः
जम्बूसरिद्वहति सीमनि कम्बुकण्ठि ॥86॥
अस्मिञ्जयन्ति जगतीपतयः सहस्रम्
अस्रास्रुसार्द्ररिपुतद्वनितेषु तेषु ।
रम्भोरु चारु कतिचित्तव चित्तबिन्धि-
रूपान्निरूपय मुदाहमुदाहरामि ॥87॥
प्रत्यर्थियौवतवतंसतमालमालोन्
मीलत्तमः प्रकरतस्करशौर्यसूर्ये ।
अस्मिन्नवन्तिनृपतौ गुणसंततीनां
विश्रान्तिधामनि मनो दमयन्ति किं ते ॥88॥
तत्रानुतीरवनवासितपस्विविप्रा
शिप्रा तवोर्मिभुजया जलकेलिकाले ।
आलिङ्गनानि ददती भवता वयस्या
हास्यानुबन्धिरमणीयसरोरुहास्या ॥89॥
अस्याधिशय्य पुरमुज्जयिनीं भवानी
जागर्ति या सुभगयौवतमौलिमाला ।
पत्याऽर्धकायघटनाय मृगाक्षि तस्याः
शिष्या भविष्यसि चिरं वरिवस्ययापि ॥90 ॥
निःशङ्कमङ्कुरिततां रतिवल्लभस्य
देवः स्वचन्द्रकिरणामृतसेचनेन ।
तत्रावलोक्य सुदृशां हृदयेषु रुद्रः
तद्देहदाहफलमाह स किं न विद्मः ॥91॥
आगश्शतं विदधतोऽपि समिद्धकामा
नाधीयते परुषामक्षरमस्य वामाः ।
चान्द्री न तत्र हरमौलिशयालुरेका-
नध्यायहेतुतिथिकेतुरपैति लेखा ॥92॥
भूपं व्यलोकत न दूरतरानुरक्तं
सा कुण्डिनावनिपुरंदरनन्दिनी तम् ।
अन्यानुरागविरसेन विलोकनाद्वा
जानामि सम्यगविलोकनमेव रम्यम् ॥93॥
भैमीङ्गितानि शिबिकामधरे वहन्तः
साक्षान्न यद्यपि कथंचन जानते स्म ।
जज्ञुस्तथापि सविधस्थितसंमुखीन-
भूपालभूषणमणिप्रतिविम्बितेन ॥94॥
भैमीमवापयत जन्यजनस्तदन्यं
गङ्गामिव क्षितितलं रधुवंशदीपः ।
गाङ्गेयपीतकुचकुम्भयुगां च हार-
चूडासमागमवशेन विभूषितां च ॥95॥
तां मत्स्यलाञ्छनदराञ्छितचापभासा
नीराजितभ्रुवमभाषत भाषितेशा ।
व्रीडाजडे किमपि सूचय चेतसा चेत्
क्रीडारसं वहसि गौडविडौजसीह ॥96॥
एतद्यशोभिरमलानि कुलानि भासां
तथ्यं तुषारकिरणस्य तृणीकृतानि ।
स्थाने ततो वसति तत्र सुधाम्बुसिन्धौ
रङ्कुस्तदङ्कुरवनीकवलाभिलाषात् ॥97॥
आलिङ्गितः कमलवत्करकस्त्वयाऽयं
श्यामः सुमेरुशिस्वयेव नवः पयोदः ।
कन्दर्पमूर्धरुहमण्डनचम्पकस्र-
ग्दामत्वदङ्गरुचिकञ्चुकितश्चकास्तु ॥98॥
एतेन संमुखमिलत्करिकुम्भमुक्ताः
कौक्षेयकाभिहतिभिर्विबभुर्विमुक्ताः ।
एतद्भुजोष्मभृशनिःसहया विकीर्णाः
प्रस्वेदबिन्दव इवारिनरेन्द्रलक्ष्म्या ॥99॥
आश्चर्यमस्य ककुभामवधीनवाप-
दाजानुगाद्भुजयुगादुदितः प्रतापः ।
व्यापत्सदाशयविसारितसप्ततन्तु-
जन्मा चतुर्दश जगन्ति यशःपटश्च ॥100॥
औदास्यसंविदवलम्बितशून्यमुद्रा-
मस्मिन्दृशोर्निपतितामवगम्य भैम्याः ।
स्वेनैव जन्यजनतान्यमजीगमत्तां
सुज्ञं प्रतीङ्गितविभावनमेव वाचः ॥101॥
एतां कुमारनिपुणां पुनरप्यभाणी-
द्वाणी सरोजमुखि निर्भरमारभस्व ।
अस्मिन्नसंकुचितपङ्कजसख्यशिक्षा-
निष्णातदृष्टिपरिरम्भविजृम्भितानि ॥102॥
प्रत्यर्थिपार्थिवपयोनिधिमाथमन्थ-
पृथ्वीधरः पृथुरयं मथुराधिनाथः ।
अश्मश्रुजातमनुयाति न शर्वरीशः
श्यामाङ्ककर्बुरवपुर्वदनाब्जमस्य ॥103॥
बालेऽधराधरितनैकविधप्रवाले
पाणौ जगद्विजयकार्मणमस्य पश्य ।
ज्याघातजेन रिपुराजकधूमकेतु-
तारायमाणमुपरज्य मणिं किणेन ॥104॥
एतद्भुजारणिसमुद्भवविक्रमाग्नि-
चिह्नं धनुर्गुणकिणः खलु धूमलेखा ।
जातं ययारिपरिषन्मशकाऋथयाश्रु-
विश्राणनाय रिपुदारदृगम्बुजेभ्यः ॥105॥
श्यामीकृता मृगमदैरिव माथुरीणां
धौतैः कलिन्दतनयामधिमध्यदेशम् ।
तत्राप्तकालियमहाह्रदनाभिशोभां
रोमावलीमिव विलोकयितासि भूमेः ॥106॥
गोवर्धनाचलकलापिचयप्रचार-
निर्वासिताहिनि घने सुरभिप्रसूनैः ।
तस्मिन्ननेन सह निर्विश निर्विशङ्कं
वृन्दावने वनविहारकुतूहलानि ॥107॥
भावी करः कररुहाङ्कुरकोरकोऽपि
तद्वल्लिपल्लवचये तव सौख्यलक्ष्यः ।
अन्तस्त्वदास्यहृतसारतुषारभानु-
शोकानुकारिकरिदन्तजकङ्कणाङ्कः ॥108॥
तज्जः श्रमाम्बु सुरतान्तमुदा नितान्त-
मुत्कण्टके स्तनतटे तव संचरिष्णुः ।
खञ्जन्प्रभञ्जनजनः पथिकः पिपासुः
पाता कुरङ्गमदपङ्किलमप्यशङ्कम् ॥109॥
पूजाविधौ मखभुजामुपयोगिनो ये
विद्वत्कराः कमलनिर्मलकान्तिभाजः ।
लक्ष्मीमनेन दधतेऽनुदिनं वितीर्णैः
ते हाटकैः स्फुटवराटकगौरगर्भाः ॥110॥
वैरिश्रियं प्रतिनियुद्धमनाप्नुवन्यः
किंचिन्न तृप्यति धरावलयैकवीरः ।
स त्वामवाप्य निपतन्मदनेषुवृन्द-
स्यन्दीति तृप्यतु मधूनि पिबन्निवायम् ॥111॥
तस्मादियं क्षितिपतिक्रमगम्यमान-
मध्वानमैक्षत नृपादवतारिताक्षी ।
तद्भावबोधबुधतां निजचेष्टयैव
व्याचक्षते स्म शिबिकानयने नियुक्ताः ॥112॥
भूयोऽपि भूपमपरं प्रति भारती तां
त्रस्यच्चमूरुचलचक्षुषमाचचक्षे ।
एतस्य काशिनृपतेस्त्वमवेक्ष्य लक्ष्मी-
मक्ष्णोः सुखं जनय खञ्जनमञ्जुनेत्रे ॥113॥
एतस्य सावनिभुजः कुलराजधानी
काशी भवोत्तरणधर्मतरिः स्मरारेः ।
यामागता दुरितपूरितचेतसोऽपि
पापं निरस्य चिरजं विरजीभवन्ति ॥114॥
आलोक्य भाविविधिकर्तृकलोकसृष्टि-
कष्टानि रोदिति पुरा कृपयैव रुद्रः ।
नामेच्छयेति मिषमात्रमधत्त यत्तां
संसारतारणतरीमसृजत्पुरीं सः ॥115॥
वाराणसी निविशते न वसुंधरायां
तत्र स्थितिर्मखभुजां भुवने निवासः ।
तत्तीर्थमुक्तवपुषामत एव मुक्तिः
स्वर्गात्परं पदमुदेतु मुदे तु कीदृक् ॥116॥
सायुज्यमृच्छति भवस्य भवाब्धियाद-
स्तां पत्युरेत्य नगरीं नगराजपुत्र्याः ।
भूताभिधानपटुमद्यतनीमवाप्य
भीमोद्भवे भवतिभावमिवास्तिधातुः ॥117॥
निर्विश्य निर्विरति काशिनिवासि भोगा-
न्निर्माय नर्म च मिथो मिथुनं यथेच्छम् ।
गौरीगिरीशघटनाधिकमेकभावं
शर्मोर्मिकञ्चुकितमञ्चति पञ्चतायाम् ॥118॥
न श्रद्दधासि यदि तन्मम मौनमस्तु
कथ्या निजाप्ततमयैव तवानुभूत्या ।
न स्यात्कनीयसितरा यदि नाम काश्या
राजन्वती मुदिरमण्डनधन्वना भूः ॥119॥
ज्ञानाधिकासि सुकृतान्यधिकाशि कुर्याः
कार्यं किमन्यकथनैरपि यत्र मृत्योः ।
एकं जनाय सतताभयदानमन्य-
द्धन्ये वहत्यमृतसत्त्रमवारितार्थि ॥120॥
भूभर्तुरस्य रतिरेधि मृगाक्षि मूर्ता
सोऽयं तवास्तु कुसुमायुध एव मूर्तः ।
भातं च ताविव पुरा गिरिशं विराद्ध-
माराद्धुमाशु पुरि तत्र कृतावतारौ ॥121॥
कामानुशासनशते सुतरामधीती
सोऽयं रहो नखपदैर्महतु स्तनौ ते ।
रुष्टाद्रिजाचरणकुङ्कुमपङ्कराग-
संकीर्णशंकरशशाङ्ककलाङ्ककारैः ॥122॥
पृथ्वीश एष नुदतु त्वदनङ्गताप-
मालिङ्ग्य कीर्तिचयचामरचारुचापः ।
सङ्ग्रामसंगतविरोधिशिरोधिदण्ड-
खण्डिक्षुरप्रशरसंप्रसरत्प्रतापः ॥123॥
वक्षस्त्वदुग्रविरहादपि नास्य दीर्णं
वज्रायते पतनकुण्ठतशत्रुशस्त्रम् ।
तत्कन्दकन्दलतया भुजयोर्न तेजो
वह्निर्नमत्यरिवधूनयनाम्बुनापि ॥124॥
किं न द्रुमा जगति जाग्रति लक्षसंख्या-
स्तुल्योपनीतपिककाकफलोपभोगाः ।
स्तुत्यस्तु कल्पविटपी फलसंप्रदानं
कुर्वन्स एष विबुधानमृतैकवृत्तीन् ॥125॥
अस्मै करं प्रवितरन्तु नृपा न कस्मा-
दस्यैव तत्र यदभूत्प्रतिभूः कृपाणः ।
दैवाद्यदा प्रवितरन्ति न ते तदैव
नेदंकृपा निजकृपाणकरग्रहाय ॥126॥
एतद्बलैः क्षणिकतामपि भूखुराग्र-
स्पर्शायुषां रयरसादसमापयद्भिः ।
दृक्पेयकेवलनभःक्रमणप्रवाहै-
र्वाहैरलुप्यत सहस्रदृगर्वगर्वः ॥127॥
तद्वर्णनासमय एव समेतलोक-
शोभावलोकनपरा तमसौ निरासे ।
मानी तया गुणविदा यदनादृतोऽसौ
तद्भूभृतां सदसि दुर्यशसेव मम्लौ ॥128॥
सानन्तानाप्यतेजःसखनिखिलमरुत्पार्थिवान्दिष्टभाज-
श्चित्तेनाशाजुषस्तान्सममसमगुणान्मुञ्चती गूढभावा ।
पारेवाग्वर्तिरूपं पुरुषमनु चिदम्भोधिमेकं शुभाङ्गी
निःसीमानन्दमासीदुपनिषदुपमा तत्परीभूय भूयः ॥129॥
श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं
श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
शृङ्गारामृतशीतगावयमगादेकादशस्तन्महा-
काव्ये चारुणि नैषधीयचरिते सर्गो निसर्गोज्ज्वलः ॥130॥

द्वादश सर्गः

सम्पाद्यताम्

प्रियाह्रियालम्ब्य विलम्बमाविला
विलासिनः कुण्डिनमण्डनायितम् ।
समाजमाजग्मुरथो रथोत्तमाः
तमा समुद्रादपरेऽपरे नृपाः ॥1॥
ततः स भैम्या ववृते वृते नृपैः
र्विनिःश्वसद्भिः सदसि स्वयंवरः ।
चिरागतैस्तर्किततद्विरागितैः
स्फुरद्भिरानन्दमहार्णवैर्नवैः ॥2॥
चलत्पदस्तत्पदयन्त्रणेङ्गितः
फुटाशयामासयति स्म राजके ।
शृअमं गता यानगतावपीयम्
इत्युदीर्य धुर्यः कपटाज्जनीं जनः ॥3॥
नृपानुपक्रम्य विभूषितासना-
न्सनातनी सा सुषुवे सरस्वती ।
विहारमारभ्य सरस्वतीः
सुधासरःस्वतीवार्द्रतनूरनूत्थिताः ॥4॥
वृणीष्व वर्णेन सुवर्णकेतकी-
प्रसूनवर्णादृतुपर्णमादृतम् ।
निजामयोध्यामपि पावनीमयं
भवन्मयो ध्यायति नावनीपतिः ॥5॥
न पीयतां नाम चकोरजिह्वया
कथंचिदेतन्मुखचन्द्रचन्द्रिका ।
इमां किमाचामयसे न चक्षुषी
चिरं चकोरस्य भवन्मुखस्पृशी ॥6॥
अपां विहारे तव हारविभ्रमं
करोतु नीरे पृषदुत्करस्तरन् ।
कठोरपीनोच्चकुचद्वयीतट-
त्रुट्यत्तरः सारवसारवोर्मिजः ॥7॥
अखानि सिन्धुः समपूरि गङ्गया
कुले किलास्य प्रसभं स भन्त्स्यते ।
विलङ्घ्यते चास्य यशःशतैरहो
सतां महत्संमुखधावि पौरुषम् ॥8॥
एतद्यशःक्षीरधिपूरगाहि
पतत्यगाधे वचनं कवीनाम् ।
एतद्गुणानां गणनाङ्कपातः
प्रत्यर्थिकीर्तीः खटिकाः क्षिणोति ॥9॥
भास्वद्वंशकरीरतां दधदयं वीरः कथं कथ्यता-
मध्युष्टापि हि कोटिरस्य समरे रोमाणि सत्त्वाङ्कुराः ।
नीतः संयति बन्दिभिः श्रुतिपथं यन्नामवर्णावली-
मन्त्रः स्तम्भयति प्रतिक्षितिभृतां दोस्तम्भकुम्भीनसान् ॥10॥
तादृग्दीर्घविरिञ्चिवासरविधौ जानामि यत्कर्तृतां
शङ्के यत्प्रतिबिम्बमम्बुधिपयःपूरोदरे वाडवः ।
व्योमव्यापिविपक्षराजकयशस्ताराः पराभावुकः
कासामस्य न स प्रतापतपनः पारं गिरां गाहते ॥11॥
द्वेष्याकीर्तिकलिन्दशैलसुतया नद्यास्य यद्दोर्द्वयी
कीर्तिश्रेणिमयी समागममगाद्गङ्गा रणप्राङ्गणे ।
तत्तस्मिन्विनिमज्ज्य बाहुजभटैरारम्भि रम्भापरी-
रम्भानन्दनिकेतनन्दनवनक्रीडादराडम्बरः ॥12॥
इति श्रुतिस्वादिततद्गुणस्तुतिः
सरस्वतीवाङ्मयविस्मयोत्थया ।
शिरस्तिरःकम्पनयैव भीमजा
न तं मनोरन्वयमन्वमन्यत ॥13॥
युवान्तरं सा वचसामधीश्वरा
स्वरामृतन्यक्कृतमत्तकोकिला ।
शशंस संसक्तकरैव तद्दिशा
निशापतिज्ञातिमुखीमिमां प्रति ॥14॥
न पाण्ड्यभूमण्डनमेणलोचने
विलोचनेनापि नृपं पिपाससि ।
शशिप्रकाशाननमेनमीक्षितुं
तरङ्गयापाङ्गदिशा दृशोस्त्विषः ॥15॥
भुवि भ्रमित्वानवलम्बमम्बरे
विहर्तुमभ्यासपरम्परापरा ।
अहो महावंशममुं समाश्रिता
सकौतुकं नृत्यति कीर्तिनर्तकी ॥16॥
इतो भिया भूपतिभिर्वनं
वनादटद्भिरुच्चैरटवीत्वमीयुषी ।
निजापि सावापि चिरात्पुनः पुरी
पुनः स्वमध्यासि विलासमन्दिरम् ॥17॥
आसीदासीमभूमीवलयमलयजालेपनेपथ्यकीर्तिः
सप्ताकूपारपारीसदनजनघनोद्गीतचापप्रतापः ।
वीरादस्मात्परः कः पदयुगयुगपत्पातिभूपातिभूय-
श्चूडारत्नोडुपत्नीकरपरिचरणामन्दनन्दन्नखेन्दुः ॥18॥
भङ्गाकीर्तिमषीमलीमसतमप्रत्यर्थिसेनाभट-
श्रेणीतिन्दुककाननेषु विलसत्यस्य प्रतापानलः ।
तस्मादुत्पतिताः स्फुरन्ति जगदुत्सङ्गे स्फुलिङ्गाः स्फुटं
भालोद्भूतभवाक्षिभानुहुतभुग्जम्भारिदम्भोलयः ॥19॥
एतद्दन्तिबलैर्विलोक्य निखिलामालिङ्गिताङ्गीं भुवं
सङ्ग्रामाङ्गणसीम्नि जङ्गमगिरिस्तोमभ्रमाधायिभिः ।
पृथ्वीन्द्रः पृथुरेतदुग्रसमरप्रेक्षोपनम्रामर-
श्रेणीमध्यचरः पुनः क्षितिधरक्षेपाय धत्ते धियम् ॥20॥
शशंस दासीङ्गितविद्विदर्भ-
जामितो ननु स्वामिनि पश्य कौतुकम् ।
यदेष सौधाग्रनटे पटाञ्चले
चलेऽपि काकस्य पदार्पणग्रहः ॥21॥
ततस्तदप्रस्तुतभाषितोत्थितैः
सदस्तदश्वेति हसैः सदःसदाम् ।
स्फुटाजनि म्लानिरतोऽस्य भूपतेः
सिते हि जायेत शितेः सुलक्ष्यता ॥22॥
ततोऽनु देव्या जगदे महेन्द्र-
भूपुरंदरं सा जगदेकवन्द्यया ।
तदार्जवावर्जिततर्जनीकया
जनी कयाचित्परचित्स्वरूपया ॥23॥
स्वयंवरोद्वाहमहे वृणीष्व हे
महेन्द्रशैलस्य महेन्द्रमागतम् ।
कलिङ्गजानां स्वकुचद्वयश्रिया
कलिं गजानां शृणु तत्र कुम्भयोः ॥24॥
अयं किलायात् इतीरिपौरवा-
ग्भयादयादस्य रिपुर्वृथा वनम् ।
श्रुताष्तदुत्स्वापगिरस्तदक्षाराः
पठद्भिरत्रासि शुकैर्वनेऽपि सः ॥25॥
इतस्त्रसद्विद्रुतभूभृदुज्झिता
प्रियाथ दृष्टा वनमानवीजनैः ।
शशंस पृष्टाद्भुतमात्मदेशजं
शशित्विषः शीतलशीलतां किल ॥26॥
इतोऽपि किं वीरयसे न कुर्वतो
नृपान्धनुर्बाणगुणैर्वशंवदान् ।
गुणेन शुद्धेन विधाय निर्भरं
तमेनमुर्वीवलयोर्वशी वशम् ॥27॥
एतद्भीतारिनारी गिरिबिलविगलद्वासरा निःसरन्ती
स्वक्रीडाहंसमोहग्रहिलशिशुभृशप्रार्थितोन्निद्रचन्द्रा ।
आक्रन्दद्भूरि यत्तन्नयनजलमिलच्चन्द्रहंसानुबिम्ब-
प्रत्यासत्तिप्रहृष्यत्तनयविहसितैराश्वसीन्न्यश्वसीच्च ॥28॥
अस्मिन्दिग्विजयोद्यते पतिरयं मे स्तादिति ध्यायिनी
कम्पं सात्त्विकभावमञ्चति रिपुक्षोणीन्द्रदारा धरा ।
अस्यैवाभिमुखं निपत्य समरे यास्यद्भिरूर्ध्वं निजः
पन्था भास्वति दृश्यते बिलमयः प्रत्यर्थिभिः पाऋथिवैः ॥29॥
विद्राणे रणचत्वरादरिगणे त्रस्ते समस्ते पुनः
कोपात्कोऽपि निवर्तते यदि भटः कीर्त्या जगत्युद्भटः ।
आगच्छन्नपि संमुखं विमुखतामेवाधिगच्छत्यसौ
द्रागेतच्छुरिकारयेण ठणिति च्छिन्नापसर्पच्छिराः ॥30॥
ततस्तदुर्वीन्द्रगुणाद्भुतादिव
स्ववक्त्रपद्मेऽङ्गुलिनालदायिनी ।
विधीयतामाननमुद्रणेति सा
जगाद वैदग्ध्यमयेङ्गितैव ताम् ॥31॥
अनन्तरं तामवदन्नृपान्तरं
तदध्वदृक्तारतरङ्गरङ्गणा ।
तृणीभवत्पुष्पशरं सरस्वती
स्वतीव्रतेजःपरिभूतभूतलम् ॥32॥
तदेव किं न क्रियते नु का क्षति-
र्यदेष तद्दूतमुखेन काङ्क्षति ।
प्रसीद काञ्चीमयमाच्छिनत्तु ते
प्रसह्य काञ्चीपुरभूपुरंदरः ॥33॥
मयि स्थितिर्नम्रतयैव लभ्यते
दिगेव तु स्तब्धतया विलङ्घ्यते ।
इतीव चापं दधदाशुगं क्षिपन्नयं
नयं सम्यगुपादिशद्द्विषाम् ॥34॥
अदःसमित्संमुखवीरयौवत-
त्रुटद्भुजाकम्बुमृणालहारिणी ।
द्विषद्गणस्त्रैणदृगम्बुनिर्झरे
यशोमरालावलिरस्य खेलति ॥35॥
सिन्दूरद्युतिमुग्धमूर्धनि धृतस्कन्धावध्रिश्यामिके
व्योमान्तस्पृशि सिन्धुरेऽस्य समरारम्भोद्धुरे धावति ।
जानीमो नु यदि प्रदोषतिमिरव्यामिश्रसंध्याधिये-
वास्तं यान्ति समस्तबाहुजभुजातेजःसहस्रांशवः ॥36॥
हित्वा दैत्यरिपोरुरः स्वभवनं शून्यत्वदोषस्फुटा-
सीदन्मर्कटकीटकृत्रिमसितच्छत्त्रीभवत्कौस्तुभम् ।
उज्झित्वा निजसद्म पद्ममपि तद्व्यक्तावनद्धीकृतं
लूतातन्तुभिरन्तरद्य भुजयोः श्रीरस्य विश्राम्यति ॥37॥
सिन्धोर्जैत्रमयं पवित्रमसृजत्तत्कीर्तिपूर्ताद्भुतं
यत्र स्नान्ति जगन्ति सन्ति कवयः केवा न वाचंयमाः ।
यद्बिन्दुश्रियमिन्दुरञ्चति जलं चाविश्य दृश्येतरो
यस्यासौ जलदेवतास्फटिकभूर्जागर्ति यागेश्वरः ॥38॥
अन्तःसंतोषबाष्पैः स्थगयति न दृशस्ताभिराकर्णयिष्य-
न्नङ्गे नानस्तिरोमा रचयति पुलकश्रेणिमानन्दकन्दाम् ।
न क्षोणीभङ्गभीरुः कलयति च शिरःकम्पनं तन्न विद्मः
शृण्वन्नेतस्य कीर्तीः कथमुरगपतिः प्रीतिमाविष्करोति ॥39॥
आचूडाग्रममज्जयज्जयपटुर्यच्छल्यदण्डानयं
संरम्भे रिपुराजकुञ्जरघटाकुम्भस्थलेषु स्थिरान् ।
सा सेवास्य पृथुः प्रसीदति तया नास्मै कुतस्त्वत्कुच-
स्पर्धागर्धिषु तेषु तान्धृतवते दण्डान्प्रदण्डानपि ॥40॥
स्मितश्रिया सृक्कणि लीयमानया-
वितीर्णया तद्गुणशर्मणेव सा ।
उपाहसत्कीर्त्यमहत्त्वमेव तं
गिरां हि पारे निषधेन्द्रवैभवम् ॥41॥
निजाक्षिलक्ष्मीहसितैणशावका-
मसावभाणीदपरं परंतपम् ।
पुरैव तद्दिग्वलनश्रियां भुवा भ्रुवा
विनिर्दिश्य सभासभाजितम् ॥42॥
कृपा नृपाणामुपरि क्वचिन्न ते
नतेन हा हा शिरसा रसादृशाम् ।
भवन्तु तावत्तव लोचनाञ्चला
निपेयनेपालनृपालपालयः ॥43॥
ऋजुत्वमौनश्रुतिपारगामिता
यदीयमेतत्परमेव हिंसितुम् ।
अतीव विश्वासविधायि चेष्टितं
बहुर्महानस्य स दाम्भिकः ॥44॥
शरः रिपूनवाप्यापि गतो-
ऽवकीर्णितामयं न यावज्जनरञ्जनव्रती ।
भृशं विरक्तानपि रक्तवत्तरा-
न्निकृत्त्य यत्तानसृजासृजद्युधि ॥45॥
पतत्येतत्तेजोहुतभुजि कदाचिद्यदि तदा
पतङ्गः स्यादङ्गीकृततमपतङ्गापदुदयः ।
यशोऽमुष्येवोपार्जयितुमसमर्थेन विधिना
कथंचित्क्षीराम्भोनिधिरपि कृतस्तत्प्रतिनिधिः ॥46॥
यावत्पौलस्त्यवास्तूभवदुभयहरिल्लोमलेखोत्तरीये
सेतुप्रालेयशैलौ चरति नरपतेस्तावदेतस्य कीर्तिः ।
यावत्प्राक्प्रत्यगाशापरिवृढनगरारम्भणस्तम्भमुद्रा-
वद्री संध्यापताकारुचिरचितशिखाशोणशोभावुभौ च ॥47॥
युद्ध्वा चामिमुखं रणस्य चरणस्यैवादसीयस्य वा
बुद्ध्वाऽन्तः स्वपरान्तरं निपततामुन्मुच्य बाणावलीः ।
छिन्नं वावनतीभवन्निजभियः खिन्नं भरेणाथ वा
राज्ञानेन हठाद्विलोठितमभूद्भूमावरीणां शिरः ॥48॥
न तूणादुद्धारे न गुणघटने नाश्रुतिशिखं
समाकृष्टौ दृष्टिर्न वियति न लक्ष्ये न च भुवि ।
नृणां पश्यत्यस्य क्वचन विशिखान्किं तु पतित-
द्विषद्वक्षःश्वभ्रैरनुमितिरसून्गोचरयति ॥49॥
दमस्वसुश्चित्तमवेत्य हासिका
जगाद देवीं कियदस्य वक्ष्यसि ।
भण प्रभूते जगति स्थिते गुणै-
रिहाप्यते संकटवासयातना ॥50॥
ब्रवीति दासीह किमप्यसंगतं
ततोऽपि नीचेयमति प्रगल्भते ।
अहो सभा साधुरितीरिणः क्रुधा
न्यषेधदेतत्क्षितिपानुगाञ्जनः ॥51॥
अथान्यमुद्दिश्य नृपं कृपामयी
मुखेन तद्दिङ्मुखसंमुखेन सा ।
दमस्वसारं वदति स्म देवता
गिरामिलाभूवदतिस्मरश्रियम् ॥52॥
विलोचनेन्दीवरवासवासितैः
सितैरपाङ्गाध्वगचन्द्रिकाञ्चलैः ।
त्रपामपाकृत्य निभान्निभालय
क्षितिक्षितिं मालयमालयं रुचः ॥53॥
इमं परित्यज्य परं रणादरिः
स्वमेव भग्नः शरणं मुधाविशत् ।
न वेत्ति यत्त्रातुमितः कृतस्मयो
न दुर्गया शैलभुवापि शक्यते ॥54॥
अनेन राज्ञार्थिषु दुर्भगीकृतो
भवन्घनध्वानजरत्नमेदुरः ।
तथा विदूराद्रिरदूरतां गमी
यथा स गामी तव केलिशैलताम् ॥55॥
नम्रप्रत्यर्थिपृथ्वीपतिमुखकमलम्लानताभृङ्गजात-
च्छायान्तःपातचन्द्रायितचरणनखश्रेणिरैणेयनेत्रे ।
दृप्तारिप्राणवातामृतरसलहरीभूरिपानेन पीनं
भूलोकस्यैष भर्ता भुजभुजगयुगं सांयुगीनं बिभर्ति ॥56॥
अध्याहारः स्मरहरशिरश्चन्द्रशेषस्य शेष-
स्याहेर्भूयः फणसमुचितः काययष्टीनिकायः ।
दुग्धाम्भोधेर्मुनिचुलकनत्रासनाशाभ्युपायः
कायव्यूहः क्व जगति न जागर्त्यदःकीर्तिपूरः ॥57॥
राज्ञामस्य शतेन किं कलयतो हेतिं शतघ्नीं कृतं
लक्षैर्लक्षभिदो दशैव जयतः पद्मानि पद्मैरलम् ।
कर्तुं सर्वपरिच्छिदः किमपि नो शक्यं परार्धेन वा
तत्संख्यापगमं विनास्ति न
गतिः काचिद्बतैतद्द्विषाम् ॥58॥
वयस्ययाकूतविदा दमस्वसुः
स्मितं वितत्याभिदधेऽथ भारती ।
इतः परेषामपि पश्य याचतां
भवन्मुखेन स्वनिवेदनत्वराम् ॥59॥
कृतात्र देवी वचनाधिकारिणी
त्वमुत्तरंदासि ददासि कासती ।
इतीरिणस्तन्नृपपारिपार्श्विका-
न्स्वभर्तुरेव भ्रुकुटिर्न्यवर्तयत् ॥60॥
धराधिराजं निजगाद भारती
तदुन्मुखेषद्वलिताङ्गसूचितम् ।
दमस्वसारं प्रति सारवत्तरं
कुलेन शीलेन च राजसूचितम् ॥61॥
कुतः कृतैवं वरलोकमागतं
प्रति प्रतिज्ञाऽनवलोकनाय ते ।
अपीयमेनं मिथिलापुरंदरं
निपीय दृष्टिः शिथिलास्तु ते वरम् ॥62॥
न पाहि पाहीति यदब्रवीरमुं
ममौष्ठ तेनैवमभूदिति क्रुधा ।
रणक्षितावस्य विरोधिमूर्धभि-
र्विदश्य दन्तैर्निजमोष्ठमास्यते ॥63॥
भुजेऽपसर्पत्यपि दक्षिणे
गुणं सहेषुणादाय पुरःप्रसर्पिणे ।
धनुः परीरम्भमिवास्य संमदा-
न्महाहवे वामबाहवे ॥64॥
अस्योर्वीरमणस्य पाऋवणविधुद्वैराज्यसज्जं यशः
सर्वाङ्गोज्ज्वलशर्वपर्वतसितश्रीगर्वनिर्वासि यत् ।
तत्कम्बुप्रतिबिम्बितं किमु शरत्पर्जन्यराजिश्रियः
पर्यायः किमु दुग्धसिन्धुपयसां सर्वानुवादः किमु ॥65॥
निस्त्रिंशत्रुटितारिवारणघटाकुम्भास्तिकूटावट-
स्थानस्थायुकमौक्तिकोत्करकिरः कैरस्य नायं करः ।
उन्नीतश्चतुरङ्गसैन्यसमरत्वङ्गत्तुरंगक्षुर-
क्षुण्णासु क्षितिषु क्षिपन्निव यशः क्षोणीजबीजव्रजम् ॥66॥
अर्थिभ्रंशबहूभवत्फलभरव्याजेन कुब्जायितः
सत्यस्मिन्नतिदानभाजि कथमप्यास्तां स कल्पद्रुमः ।
आस्ते निर्व्ययरत्नसंपदुदयोदग्रः कथं याचक-
श्रेणीवर्जनदुर्यशोनिबिडितव्रीडस्तु रत्नाचलः ॥67॥
सृजामि किं विघ्नमिदंनृपस्तुता-
वितीङ्गितैः पृच्छति तां सखीजने ।
स्मिताय वक्त्रं यदवक्रयद्वधू-
स्तदेव वैमुख्यमलक्षि तन्नृपे ॥68॥
दृशास्य निर्दिश्य नरेश्वरान्तरं
मधुस्वरा वक्तुमधीश्वरा गिराम् ।
अनूपयामास विदर्भजाश्रुती
निजास्यचन्द्रस्य सुधाभिरुक्तिभिः ॥69॥
स कामरूपाधिप एष हा त्वया
न कामरूपाधिक ईक्ष्यतेऽपि यः ।
त्वमस्य सा योग्यतमासि वल्लभा
सुदुर्लभा यत्प्रतिमल्लभा परा ॥70॥
अकर्णधाराशुगसंभृशाङ्गतां
गतैररित्रेण विनास्य वैरिभिः ।
विधाय यावत्तरणेर्भिदामहो
निमज्ज्य तीर्णः समरे भवाऋणवः ॥71॥
यदस्य भूलोकभुजो भुजोष्मभि-
स्तपर्तुरेव क्रियतेऽरिवेश्मनि ।
प्रपां न तत्रारिवधूस्तपस्विनी
ददातु नेत्रोत्पलवासिभिर्जलैः ॥72॥
एतद्दत्तासिघातस्रवदसृगसुहृद्वंशसार्द्रेन्धनैत-
द्दोरुद्दामप्रतापज्वलदनलमिलद्भूमधूमभ्रमाय ।
एतद्दिग्जैत्रयात्रासमसमरभरं पश्यतः कस्य नासी-
देतन्नासीरवाजिव्रजखुरजरजोराजिराजिस्थलीषु ॥73॥
क्षीरोदन्वदपाः प्रमथ्य मथितादेशेऽमरैर्निर्मिते
स्वाक्रम्यं सृजतस्तदस्य यशसः क्षीरोदसिंहासनम् ।
केषां नाजनि वा जनेन जगतामेतत्कवित्वामृत-
स्रोतःप्रोतपिपासुकर्णकलसीभाजाभिषेकोत्सवः ॥74॥
सभिति पतिनिपाताकर्णनद्रागदीर्ण-
प्रतिनृपतिमृगाक्षीलक्षवक्षःशिलासु ।
रचितलिपिरिवोरस्ताडनव्यस्तहस्त-
प्रखरनखरटङ्कैरस्य कीर्तिप्रशस्तिः ॥75॥
विधाय ताम्बूलपुटीं कराङ्कगां
बभाण ताम्बूलकरङ्कवाहिनी ।
दमस्वसुर्भावमवेत्य भारतीं
नयानया वक्त्रपरिश्रमं शमम् ॥76॥
समुन्मुखीकृत्य बभार भारती
रतीशकल्पेऽन्यनृपे निजं भुजम् ।
ततस्त्रसद्बालपृषद्विलोचनां
शशंस संसज्जनरञ्जनीं जनीम् ॥77॥
अयं गुणौघैरनुरज्यदुत्कलो
भवन्मुखालोकरसोत्कलोचनः ।
स्पृशन्तु रूपामृतवापि नन्वमुं
तवापिदृक्तारतरङ्गभङ्गयः ॥78॥
अनेन सर्वार्थिकृतार्थताकृता-
हृतार्थिनौ कामगवीसुरद्रुमौ ।
मिथः पयःसेचनपल्लवाशने
प्रदाय दानव्यसनं समाप्नुतः ॥79॥
नृपः कराभ्यामुदतोलयन्निजे
नृपानयं यान्पततः पदद्वये ।
तदीयचूडाकुरुविन्दरश्मिभिः
स्फुटेयमेतत्करपादरञ्जना ॥80॥
यत्कस्यामपि भानुमान्न ककुभि स्थेमानमालम्बते
जातं यद्धनकाननैकशरणप्राप्तेन दावाग्निना ।
एषैतद्भुजतेजसा विजितयोस्तावत्तयोरौचिती
धिक्तं वाडवमम्भसि द्विषि भिया येन प्रविष्टं पुनः ॥81॥
अमुष्योर्वीभर्तुः प्रसृमरचमूसिन्धुरभवै-
रवैमि प्रारब्धे वमथुभिरवश्यायसमये ।
न कम्पन्तामन्तः प्रतिनृपभटा म्लायतु न त-
द्वधूवक्त्राम्भोजं भवतु न स तेषां कुदिवसः ॥82॥
आत्मन्यस्य समुच्छ्रितीकृतगुणस्याहोतरामौचिती
यद्गाट्रान्तरवर्जनादजनयद्भूजानिरेष द्विषाम् ।
भूयोऽहं क्रियते स्म येन च हृदा स्कन्धो न यश्चानम-
त्तन्मर्माणि दलंदलं समिदलंकर्मीणबाणव्रजः ॥83॥
दूरं गौरगुणैरहंकृतिभृतां जैत्राङ्ककारे चर-
त्येतद्दोर्यशसि प्रयाति कुमुदं बिभ्यन्न निद्रां निशि ।
धम्मिल्ले तव मल्लिकासुमनसां माल्यं भिया लीयते
पीयूषस्रवकैतवाद्धृतदरः शीतद्युतिः स्विद्यति ॥84॥
एतद्गन्धगजस्तृषाम्भसि भृशं कण्ठान्तमज्जत्तनुः
फेनैः पाण्डुरितः स्वदिक्करिजयक्रीडायशःस्पर्धिभिः ।
दन्तद्वन्द्वजलानुबिम्बनचतुर्दन्तः कराम्भोवमि-
व्याजादभ्रमुवल्लभेन विरहं निर्वापयत्यम्बुधेः ॥85॥
अथैतदुर्वीपतिवर्णनाद्भुतं
न्यमीलदास्वादयितुं हृदीव सा ।
मधुस्रजा नैषधनामजापिनी
स्फुटीभवद्ध्यानपुरःस्फुरन्नला ॥86॥
प्रशंसितुं संसदुपान्तरञ्जिनं
श्रिया जयन्तं जगतीश्वरं जिनम् ।
गिरः प्रतस्तार पुरावदेव ता
दिनान्तसंध्यासमयस्य देवता ॥87॥
तथाधिकुर्या रुचिरे चिरेप्सिता
यथोत्सुकः सम्प्रति संप्रतीच्छति ।
अपाङ्गरङ्गस्थललास्यलम्पटाः
कटाक्षधारास्त्व कीकटाधिपः ॥88॥
इदंयशांसि द्विषतः सुधारुचः
किमङ्कमेतद्द्विषातः किमाननम् ।
यशोभिरस्याखिललोकधाविभि-
र्विभीषिता धावति तामसी मसी ॥89॥
इदंनृपप्रार्थिभिरुज्झितोऽर्थिभि-
र्मणिप्ररोहेण विवृध्य रोहणः ।
कियद्दिनैरम्बरमावरिष्यते
मुधा मुनिर्विन्ध्यमरुन्ध भूधरम् ॥90॥
भूशक्रस्य यशांसि विक्रमभरेणोपाऋजितानि क्रमा-
देतस्य स्तुमहे महेमरदनस्पर्धीनि कैरक्षरैः ।
लिम्पद्भिः कृतकं कृतोऽपि रजतं राज्ञां यशःपारदै-
रस्य स्वर्णगिरिः प्रतापदहनैः स्वर्णं पुनर्निर्मितः ॥91॥
यद्भर्तुः कुरुतेऽभिषेणनमयं शक्रो भुवः सा ध्रुवं
दैग्दाहैरिव भस्मभिर्मघवता वृष्टैर्धृतोद्धूलना ।
शंभोर्मा बत सांधिवेलनटनं भाजि व्रतं द्रागिति
क्षोणी नृत्यति मूर्तिरष्टवपुषोऽसृग्वृष्टिसंध्याधिया ॥92॥
प्रागेतद्वपुरामुखेन्दु सृजतः स्रष्टुः समस्तस्त्विषां
कोशः शोषमगादगाधजगतीशिल्पेऽप्यनल्पायितः ।
निश्शेषद्युतिमण्डलव्ययवशादीषलभैरेष वा
शेषः केशमयः किमन्धतमसस्तोभैस्ततो निर्मितः ॥93॥
तत्तद्दिग्जैत्रयात्रोद्धुरतुरगखुराग्रोद्धतैरन्धकारं
निर्वाणारिप्रतापानलजमिव सृजत्येष राजा रजोभिः ।
भूगोलच्छायमायामयगणितविदुन्नेयकायोऽभियाभू-
देतत्कीर्तिप्रतानैर्विधुभिरिव युधे राहुराहूयमानः ॥94॥
आस्ते दामदोरीयामियमुदरदरीं यावलम्ब्य त्रिलोकी
संमातुं शक्नुवन्ति प्रथिमभरवशादत्र नैतद्यशांसि ।
तामेनां पूरयित्वा निरगुरिव मधुध्वंसिनः पाण्डुपद्म-
च्छद्मापन्नानितानिद्विपदशनसनाभीनि नाभीपथेन ॥95॥
अस्यासिर्भुजगः स्वकोशसुषिराकृष्टः स्फुरत्कृष्णिमा
कम्पोन्मीलदराललीलवलनस्तेषां भिये भूभुजाम् ।
सङ्ग्रामेषु निजाङ्गुलीमयमहासिद्धाषधीवीरुधः
पर्वास्ये विनिवेश्य जाङ्गुलिकता यैर्नाम नालम्बिता ॥96॥
यः पृष्ठं युधि दर्शयत्यरिभटश्रेणीषु यो वक्रता-
मस्मिन्नेव बिभर्ति यञ्च किरति कूरध्वनिं निष्ठुरः ।
दोषं तस्य तथाविधस्य भजतश्चापस्य गृह्णन्गुणं
विख्यातः स्फुटमेक एष नृपतिः सीमा गुणग्राहिणाम् ॥97॥
अस्यारिप्रकरः शरश्च नृपतेः संख्ये पतन्तावुभौ
सीत्कारं च न संमुखौ रचयतः कम्पं च न प्राप्नुतः ।
तद्युक्तं न पुनर्निवृत्तिरुभयोर्जागर्ति यन्मुक्तयो-
रेकस्तत्र भिनत्ति मित्रमपरश्चामित्रमित्यद्भुतम् ॥98॥
धूलीभिर्दिवमन्धयन्बधिरयन्नाशाः खुराणां रवै-
र्वातं संयति खञ्जयञ्जवजवैस्तोत्ṝन्गुणैर्मूकयन् ।
धर्माराधनसंनियुक्तजगता राज्ञामुनाधिष्ठितः
सान्द्रोत्फालमिषाद्विगायति पदा स्प्रष्टुं तुरंगोऽपि गाम् ॥99॥
एतेनोत्कृत्तकण्ठप्रतिसुभटनटारब्धनाट्याद्भुतानां
कष्टं द्रष्टैव नाभूद्भुवि समरसमालोकिलोकास्पदेऽपि ।
अश्वैरस्वैरवेगैः कृतखुरखुरलीमङ्क्षुविक्षुद्यमान-
क्ष्मापृष्ठोत्तिष्ठदन्धंकरणरणधुरारेणुधारान्धकारात् ॥100॥
उन्मीलल्लीलनीलोत्पलदलदलनामोदमेदस्विपूर-
क्रोडक्रीडद्द्विजालीगरुदुदितमरुत्स्फालवाचालवीचिः ।
एतेनाखानि शाखानिवहनवहरित्पर्णपूर्णद्रुमाली-
व्यालीढोपान्तशान्तव्यथपथिकदृशां दत्तरागस्तडागः ॥101॥
वृद्धो वार्धिरसौ तरङ्गवलिभं बिभ्रद्वपुः पाण्डुरं
हंसालीपलितेन यष्टिकलितस्तावद्वयोर्बंहिमा ।
बिभ्रच्चन्द्रिकया च कं विकचया योग्यस्फुरत्संगतं
स्थाने स्नानविधायिधार्मिकशिरोनत्यापि नित्यादृतः ॥102॥
तस्मिन्नेतेन यूना सह विहर पयःकेलिवेलासु बाले
नालेनास्तु त्वदक्षिप्रतिफलनभिदा तत्र नीलोत्पलानाम् ।
तत्पाथोदेवतानां विशतु तव तनुच्छायमेवाधिकारे
तत्फुल्लाम्भोजराज्ये भवतु च भवदीयाननस्याभिषेकः ॥103॥
एतत्कीर्तिविवर्तधौतनिखिलत्रैलोक्यनिर्वासितै-
र्विश्रान्तिः कलिता कथासु जगतां श्यामैः समग्रैरपि ।
जज्ञे कीर्तिमयादहो भयभरैरस्मादकीर्तिः पुनः
सायन्नास्य कथापथेऽपि मलिनच्छाया बबन्ध स्थितिम् ॥104॥
अथावदद्भीमसुतेङ्गितात्सखी
जनैरकीर्तिर्यदि वास्य नेष्यते ।
मयापि सा तत्खलु नेष्यते परं
सभाश्रवःपूरतमालवल्लिताम् ॥105॥
अस्य क्षोणिपतेः पराऋधपरया लक्षीकृताः संख्यया
प्रज्ञाचक्षुरवेक्ष्यमाणतिमिरप्रख्याः किलाकीर्तयः ।
गीयन्ते स्वरमष्टमं कलयता जातेन वन्ध्योदरा-
न्मूकानां प्रकरेण कूर्मरमणीदुग्धोदधे रोधसि ॥106॥
तदक्षरैः सस्मितविस्मिताननां
निपीय तामीक्षणभङ्गिभिः सभाम् ।
इहास्य हास्यं किमभून्नवेति तं
विदर्भजा भूपमपि न्यभालयत् ॥107॥
नलान्यवीक्षां विदधे दमस्वसुः
कनीनिकागः खलु नीलिमालयः ।
चकार सेवां शुचिरक्ततोचितां
मिलन्नपाङ्गः सविधे तु नैषधे ॥108॥
दृशा नलस्य श्रुतिचुम्बिनेषुणा
करेऽपि चक्रच्छलनम्रकार्मुकः ।
स्मरः पराङ्गैरनुकल्प्य धन्वितां
जनीमनङ्गः स्वयमार्दयत्ततः ॥109॥
उत्कण्टका विलसदुज्ज्वलपत्रराजि-
रामोदभागनपरागतराऽतिगौरी ।
रुद्रक्रुधस्तदरिकामधिया नले सा
वासार्थितामधृत काञ्चनकेतकीव ॥110॥
तन्नालीकनले चलेतरमनाः साम्यान्मनागप्यभू-
दप्यग्रे चतुरः स्थितान्न चतुरा पातुं दृशा नैषधान् ।
आनन्दाम्बुनिधौ निमज्ज्य नितरां दूरं गता तत्तला-
लंकारीभवनाज्जनाय ददती पातालकन्याभ्रमम् ॥111॥
सर्वस्वं चेतसस्तां नृपतिरपि दृशे प्रीतिदायं प्रदाय
प्रापत्तद्दृष्टिमिष्टातिथिममरदुरापामपाङ्गोत्तरङ्गम् ।
आनन्दान्ध्येन वन्ध्यानकृत तदपराकूतपातान्स रत्याः
पत्या पीयूषधारावलनविरचितेनाशुगेनाशु लीढः ॥112॥
श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं
श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
तस्य द्वादश एष मातृचरणाम्भोजालिमौलेर्महा-
काव्येऽयं व्यगलन्नलस्य चरिते सर्गो निसर्गोज्ज्वलः ॥113॥

त्रयोदश सर्गः

सम्पाद्यताम्

कल्पद्रुमान्परिमला इव भृङ्गमालामात्माश्रयामखिलनिन्दनशाखिवृन्दात् ।
तां राजकादपगमय्य विमानधुर्या निन्युर्नलाकृतिधरानथ पञ्चवीरान् ॥1॥
साक्षात्कृताखिलजगज्जनताचरित्रा तत्राधिनाथमधिकृत्य दिवस्तथा सा ।
ऊचे यथा स च शचीपतिरभ्यधायि प्राकाशि तस्य न च नैषधकायमाया ॥2॥
ब्रूमः किमस्य वरवर्णिनि वीरसेनोद्भूतिं द्विषद्बलविजित्वरपौरुषस्य ।
सेनाचरीभवदिभाननदानवारिवासेन यस्य जनितासुरभीरणश्रीः ॥3॥
शुभ्रांशुहारगणहारिपयोधराङ्कचुम्बीन्द्रचापखचितद्युमणिप्रभाभिः ।
अन्वास्यते समिति चामरवाहिनीभिर्यात्रासु चैष बहुलाभरणार्चिताभिः ॥4॥
क्षोणीभृतामतुलकर्कशविग्रहाणामुद्दामदर्पहरिकुञ्जरकोटिभाजाम् ।
पक्षच्छिदामयमुदग्रबलो विधाय मग्नं विपज्जलनिधौ जगदुज्जहार ॥5॥
भूमीभृतः समिति जिष्णुमपव्यपायं जानीहि न त्वमघवन्तममुं कथंचित् ।
गुप्तं घटप्रतिभटस्तनि बाहुनेत्रं नालोकसेऽतिशयमद्भुतमेतदीयम् ॥6॥
लेखा नितम्बिनि बलादिसमृद्धराज्यप्राज्योपभोगपिशुना दधते सरागम् ।
एतस्य पाणिचरणं तदनेन पत्या सार्धं शचीव हरिणा मुदमुद्वहस्व ॥7॥
आकर्ण्य तुल्यमखिलां सुदती लगन्तीमाखण्डलेऽपि च नलेऽपि च वाचमेताम् ।
रूपं समानमुभयत्र विगाहमाना श्रोत्रान्न निर्णयमवापदसौ न नेत्रात् ॥8॥
शक्रः किमेष निषाधाधिपतिः स वेति दोलायमानमनसं परिभाव्य भैमीम् ।
निर्दिश्य तत्र पवनस्य सखायमस्यां भूयोऽसृजद्भगवती वचसः स्रजं सा ॥9॥
एष प्रतापनिधिरुद्गतिमान्सदाऽयं किं नाम् नार्जितमनेन धनंजयेन ।
हेम प्रभूतमधिगच्छ शुचेरमुष्मानास्येव कस्यचन भास्वररूपसंपत् ॥10॥
अस्यर्थहेतिपटुताकवलीभवत्तत्तत्पार्थिवाधिकरणप्रभवाऽस्य भूतिः ।
अप्यङ्गरागजननाय महेश्वरस्य संजायते रुचिरकर्णि तपस्विनोऽपि ॥11॥
एतन्मुखा विबुधसंसदसावशेषा माध्यस्थ्यमस्य यमतोऽपि महेन्द्रतोऽपि ।
एनं महस्विनमुपेहि सदारुणोच्चैर्येनामुना पितृमुखि ध्रियते करश्रीः ॥12॥
नैवाल्पमेधसि पटो रुचिमत्त्वमस्य मध्येसमिन्निवसतो रिपवस्तृणानि ।
उत्थानवानिह पराभवितुं तरस्वी शक्यः पुनर्भवति केन विरोधिनायम् ॥13॥
साधारणीं गिरमुषर्बुधनैषधाभ्यामेतां निपीय न विशेषमवाप्तवत्या ।
ऊचे नलोऽयमिति तं प्रति चित्तमेकं ब्रूते स्म चान्यदनलोऽयमितीदमीयम् ॥14॥
एतादृशीमथ विलोक्य सरस्वती तां संदेहचित्रभयचित्रितचित्तवृत्तिम् ।
देवस्य सूनुमरविन्दविकासिरश्मेरुद्दिश्य दिक्पतिमुदीरयितुं प्रचक्रे ॥15॥
दण्डं बिभर्त्ययमहो जगतस्ततः स्यात्कम्पाकुलस्य सकलस्य न पङ्कपातः ।
स्वर्वैद्ययोरपि मदव्ययदायिनीभिरेतस्य रुग्भिरमरः किमु कश्चिदस्ति ॥16॥
मित्त्रप्रियोपजननं प्रति हेतुरस्य संज्ञा श्रुतासुहृदयं न जनस्य कस्य ।
छायेदृगस्य च न कुत्रचिदध्यगायि तप्तं यमेन नियमेन तपोऽमुनैव ॥17॥
किंच प्रभावनमिताखिलराजतेजा देवः पिताम्बरमणी रमणीयमूर्तिः ।
उत्क्रान्तिदा कमनु न प्रतिभाति शक्तिः कृष्णत्वमस्य च परेषु गदान्नियोक्तुः ॥18॥
एकः प्रभावमयमेति परेतराजौ तज्जीवितेशधियमत्र निधत्स्व मुग्धे ।
भूतेषु यस्य खलु भूरियमस्य वश्यभावं समाश्रयति दस्रसहोदरस्य ॥19॥
गुम्फो गिरां शमननैषाधयोः समानः शङ्कामनेकनलदर्शनजातशङ्के ।
चित्ते विदर्भवसुधाधिपतेः सुताया यन्निर्ममे खलु तदेष पिपेष पिष्टम् ॥20॥
तत्रापि तत्रभवती भृशसंशयालोरालोक्य सा विधिनिषेधनिवृत्तिमस्याः ।
याथःपतिं प्रति धृताभिमुखाङ्गुलीकपाणिः क्रमोचितमुपाक्रमताभिधातुम् ॥21॥
या सर्वतोमुखतया व्यवतिष्ठमाना यादोरणैर्जयति नैकविदारका या ।
एतस्य भूरितरवारिनिधिश्चमूः सा यस्याः प्रतीतिविषयः परतो न रोधः ॥22॥
नासीरसीमनि घनध्वनिरस्य भूयान्कुम्भीरवान्समकरः सहदानवारिः ।
उत्पद्मकाननसखः सुखमातनोति रत्नैरलंकरणभावमितैर्नदीनः ॥23॥
सस्यन्दनैः प्रवहणैः प्रतिकूलपातं का वाहिनी न तनुते पुनरस्य नाम ।
तस्या विलासवति कर्कशताश्रिता या भूमः कथम् बहुतयासिकता वयं ताः ॥24॥
शोणं पदप्रणयिनं गुणमस्य पश्य किंचास्य सेवनपरैव सरखती सा ।
एनं भजस्व सुभगे भुवनाधिनाथं किं वा भजन्ति तमिमं कमलाशया न ॥25॥
शङ्कालताततिमनेकनलावलम्बां वाणी नवर्धयतु तावदभेदिकेयम् ।
भीमोद्भवां प्रति नले च जलेश्वरे च तुल्यं तथापि यदवर्धयदत्र चित्रम् ॥26॥
बालां विलोक्य विबुधैरपि मायिभिस्तैरच्छद्मितामियमलीकनलीकृतस्वैः ।
आह स्म तां भगवती निषधाधिनाथं निर्दिश्य राजपरिषत्परिवेषभाजम् ॥27॥
अत्याजिलब्धविजयप्रसरस्त्वया किं विज्ञायते रुचिपदं न महीमहेन्द्रः ।
प्रत्यर्थिदानवशताहितचेष्टयासौ जीमूतवाहनधियं न करोति कस्य ॥28॥
येनामुना बहुविगाढसुरेश्वराध्वराज्याभिषेकविकसन्महसा बभूवे ।
आवर्जनं तमनु ते ननु साधु नामग्राहं मया नलमुदीरितमेवमत्र ॥29॥
यच्चण्डिमारणविधिव्यसनं च तत्त्वं बुद्ध्वाशयाश्रितममुष्य च दक्षिणत्वम् ।
सैषा नले सहजरागभरादमुष्मिन्नात्मानमर्पयितुमर्हसि धर्मराजे ॥30॥
किं ते तथा मतिरमुष्य यथाशयः स्यात्त्वत्पाणिपीडनविनिर्मितयेऽनपाशः ।
कान्मानवानवति नो भुवनं चरिष्णून्नासावमुत्र नरता भवतीति युक्तम् ॥31॥
श्लोकादिह प्रथमतो हरिणा द्वितीयाद्धूमध्वजेन शमनेन समं तृतीयात् ।
तुर्याच्च तस्य वरुणेन समानभावं सा जानती पुनरवादि तया विमुग्धा ॥32॥
त्वं याऽर्थिनी किल नले न शुभाय तस्याः क्व स्यान्निजार्पणममुष्य चतुष्टये ते ।
इन्द्रानलार्यमतनूजपयःपतीनां प्राप्यैकरूप्यमिह संसदि दीप्यमाने ॥33॥
देवः पतिर्विदुषि नैष धराजगत्या निर्णीयते न किमु न व्रियते भवत्या ।
नायं नलः खलु तवातिमहानलाभो यद्येनमुज्झसि वरः कतरः परस्ते ॥34॥
इन्द्राग्निदक्षिणदिगीश्वरपाशिभिस्तां वाचं नले तरलिताथ समां प्रमाय ।
सा सिन्धुवेणिरिव वाडववीतिहोत्रं लावण्यभूः कमपि भीमसुताप तापम् ॥35॥
साप्तुं प्रयच्छति न पक्षचतुष्टये तां तल्लाभशंसिनि न पञ्चमकोटिमात्रे ।
श्रद्धां दधे निषधराड्विमतौ मतानामद्वैततत्त्व इव सत्यतरेऽपि लोकः ॥36॥
कारिष्यते परिभवः कलिना नलस्य तां द्वापरस्तु सुतनूमदुनोत्पुरस्तात् ।
भैमीनलोपयमनं पिशुनौ सहेते न द्वापरः किल कलिश्च युगे जगत्याम् ॥37॥
उत्कण्ठयन्पृथगिमां युगपन्नलेषु प्रत्येकमेषु परिमोहयमाणबाणः ।
जानीवहे निजशिलीमुखशीलिसंख्यासाफल्यमाप स तदा यदि पञ्चबाणः ॥38॥
देवानियं निषाधराजरुचस्त्यजन्ती रूपादरज्यत नले न विदर्भसुभ्रूः ।
जन्मान्तराधिगतकर्मविपाकजन्मैवोन्मीलति क्वचन कस्यचनानुरागः ॥39॥
क्व प्राप्यते स पतगः परिपृच्छ्यते यः प्रत्येमि तस्य हि पुरेव नलं गिरेति ।
सस्मार सस्मरमतिः प्रति नैषधीयं तत्रामरालयमरालमरालकेशी ॥40॥
एकैकमैक्षत मुहुर्महतादरेण भेदं विवेद न च पञ्चसु कंचिदेषा ।
शङ्काशतं वितरता हरता पुनस्तदुन्मादिनेव मनसेयमिदं तदाह ॥41॥
अस्ति द्विचन्द्रमतिरस्ति जनस्य तत्र भ्रान्तौ दृगन्तचिपिटीकरणादिरादिः ।
स्वच्छोपसर्पणमपि प्रतिमाभिमाने भेदभ्रमे पुनरमीषु न मे निमित्तम् ॥42॥
किं वा तनोति मयि नैषध एव कावव्यूहं विधाय परिहासमसौ विलासी ।
विज्ञानवैभवभृतः किमु तस्य विद्या सा विद्यते न तुरगाशयवेदितेव ॥43॥
एको नलः किमयमन्यतमः किमैलः कामोऽपरः किमु किमु द्वयमाश्विनेयौ ।
किं रूपधेयभरसीमतया समेषु तेष्वेव नेह नलमोहमहं वहे वा ॥44॥
पूर्वं मया विरहनिःसहयापि दृष्टः सोऽयं प्रियस्तत इतो निषधाधिराजः ।
भूयः किमागतवती मम सा दशेयं पश्यामि यद्विलसितेन नलानलीकान् ॥45॥
मुग्धा दधामि कथमित्थमथापशङ्कां संक्रन्दनादिकपटः स्फुटमीदृशोऽयम् ।
देव्यानयैव रचिता हि तथा तथैषां गाथा यथा दिगधिपानपि ताः स्पृशन्ति ॥46॥
एतन्मदीयमतिवञ्चकपञ्चकस्थे नाथे कथं नु मनुजस्य चकास्तु चिह्नम् ।
लक्ष्माणि तानि किममी न वहन्ति हन्त बर्हिर्मुखा धुतरजस्तनुतामुखानि ॥47॥
याचे नलं किममरानथवा तदर्थं नित्यार्चनादपि ममाफलिनैरलं तैः ।
कंदर्पशोषणशिलीमुखपातपीतकारुण्यनीरनिधिगह्वरधोरचित्तैः ॥48॥
ईशा दिशां नलभुवं प्रतिपद्य लेखा वर्णिश्रियं गुणवतामपि वः कथं वा ।
मूर्खान्धकूपपतनादिव पुस्तकानामस्तं गतं बत परोपकृतिव्रतत्वम् ॥49॥
यस्येश्वरेण यदलेखि ललाटपट्टे तत्स्यादयोग्यमपि योग्यमपास्य तस्य ।
का वासनास्तु बिभृयामिह यां हृदाहं नार्कातपैर्जलजमेति हिमैस्तु दाहम् ॥50॥
इत्थं यथेह मदभाग्यमनेन मन्ये कल्पद्रुमोऽपि स मया खलु याच्यमानः ।
संकोचसंज्वरदलाङ्गुलिपल्लवाग्रपाणीभवन्भवति मां प्रति बद्धमुष्टिः ॥51॥
देव्याः करे वरणमाल्यमथार्पये वा यो वैरसेनिरिह तत्र निवेशयेति ।
सैषा मया मखभुजां द्विषती कृता स्यात्स्वस्मै तृणाय तु विहन्मि न बन्धुरत्नम् ॥52॥
यः स्यादमीषु परमाऋथनलः स मालामङ्गीकरोतु वरणाय ममेति चैनाम् ।
तं प्रापयामि यदि तत्तु विसृज्य लज्जां कुर्वे कथं जगति शृङ्वति ही विडम्बः ॥53॥
इतरनलतुलाभागेष शेषाः सुधाभिः स्नपयति मम चेतो नैषधः कस्य हेतोः ।
प्रथमचरमयोर्वा शब्दयोर्वर्णसख्ये विलसति चरमेऽनुप्रासभासां विलासः ॥54॥
इति मनसि विकल्पानुद्यतः संत्यजन्ती क्वचिदपि दमयन्ती निर्णयं नाससाद ।
मुखमथ परितापास्कन्दितानन्दमस्या मिहिरविरचितावस्कन्दमिन्दुं निनिन्द ॥55॥
श्रीहर्शं कविराजराजिमुकुटालंकारहीरः सुतं श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
स्वादूत्पादभृति त्रयोदशतयादेश्यस्तदीये महाकाव्येऽयं व्यरमन्नलस्य चरिते सर्गो रसाम्भोनिधिः ॥56॥

चतुर्दश सर्गः

सम्पाद्यताम्

अथाधिगन्तुं निषधेश्वरं सा प्रसादनामाद्रियतामराणाम् ।
यतः सुराणां सुरभिर्नृणां तु सा वेधसासृज्यत कामधेनुः ॥1॥
प्रदक्षिणप्रक्रमणालवालविलेपधूपाचरणाम्बुसेकैः ।
इष्टं च मृष्टं च फलं सुवाना देवा हि कल्पद्रुमकाननं नः ॥2॥
श्रद्धामयीभूय सुपर्वणस्तान्ननाम नामग्रहणाग्रकं सा ।
सुरेषु हि श्रद्दधतां नमस्य सर्वाऋथसिद्ध्यङ्गमिथः समस्या ॥3॥
यत्तान्निजे सा हृदि भावनाया बलेन साक्षादकृताखिलस्थान् ।
अभूदभीष्टप्रतिभूः स तस्या वरं हि दृष्टा ददते परं ते ॥4॥
सभाजनं तत्र ससर्ज तेषां सभाजने पश्यति विस्मिते सा ।
आमुद्यते यत्सुमनोभिरेवं फलस्य सिद्धौ सुमनोभिरेव ॥5॥
वैशद्यहृद्यैर्म्रदिमाभिरामैरामोदिभिस्तानथ जातिजातैः ।
आनर्च गीत्यन्वितषट्पदैः सा स्तवप्रसूनस्तबकैर्नवीनैः ॥6॥
हृत्पद्मसद्मन्यधिवास्य बुद्ध्या दध्यावथैतानियमेकताना ।
सुपर्वणां हि स्फुटभावना या सा पूर्वरूपं फलभावनायाः ॥7॥
भक्त्या तयैव प्रससाद तस्यास्तुष्टं स्वयं देवचतुष्टयं ततः ।
स्वेनानलस्य स्फुटतां यियासोः फूत्कृत्यपेक्षा कियती खलु स्यात् ॥8॥
प्रसादमासाद्य सुरैः कृतं सा सस्मार सारस्वतसूक्तिसृष्टेः ।
देवा हि नान्यद्वितरन्ति किंतु प्रसद्य ते साधुधियं ददन्ते ॥9॥
शेषं नलं प्रत्यमरेण गाथा या या समर्था खलु येन येन ।
तां तां तदन्येन सहालगन्तीं तदा विशेषं प्रतिसंदधे सा ॥10॥
एकैकवृत्तेः प्रतिलोकपालं पतिव्रतात्वं जगृहुर्दिशां याः ।
वेद स्म गाथा मिलितास्तदासावाशा इवैकस्य नलस्य वश्याः ॥11॥
या पाशिनैवाशनिपाणिनैव गाथा यमेनैव समाग्निनैव ।
तामेव मेने मिलितां नलस्य सैषा विशेषाय तदा नलस्य ॥12॥
निश्चित्य शेषं तमसौ नरेशं प्रमोदमेदस्वितरान्तराभूत् ।
देव्या गिरां भावितभङ्गिराख्यच्चित्तेन चिन्तार्णवयादसेयम् ॥13॥
सा भङ्गिरस्याः खलु वाचि कापि यद्भारती मूर्तिमतीयमेव ।
श्लिष्टं निगद्यादृत वासवादीन्विशिष्य मे नैषधमप्यवादीत् ॥14॥
जग्रन्थ सेयं मदनुग्रहेण वचःस्रजः स्पष्टयितुं चतस्रः ।
द्वे ते नलं लक्षयितुं क्षमेते ममैव मोहोऽयमहो महीयान् ॥15॥
श्लिष्यन्ति वाचो यदमूरमुष्याः कवित्वशक्तेः खलु ते विलासाः ।
भूपाललीलाः किल लोकपालाः समाविशन्ति व्यतिभेदिनोऽपि ॥16॥
त्यागं महेन्द्रादिचतुष्टस्य किमभ्यनन्दत्क्रमसूचिअस्य ।
किं प्रेरयामास नले च तन्मां सा सूक्तिरस्या मम कः प्रमोहः ॥17॥
परस्य दारान्खलु मन्यमानैरस्पृश्यमानाममरैर्धरित्रीम् ।
भक्त्यैव भर्तुश्चरणौ दधानां नलस्य तत्कालमपश्यदेषा ॥18॥
सुरेषु नापश्यदवैक्षताक्ष्णोर्निमेषमुर्वीभृति संमुखी सा ।
इह त्वमागत्य नले मिलेति संज्ञानदानादिव भाषमाणम् ॥19॥
नाबुद्ध बाला विबुधेषु तेषु क्षोदं क्षितेरैक्षत नैषधे तु ।
पत्ये सृजन्त्याः परिरम्भमुर्व्याः संभूतसंभेदमसंशयं सा ॥20॥
स्वेदः स्वदेहस्य वियोगतापं निर्वापयिष्यन्निव संसिसृक्षोः ।
हीराङ्कुरश्चारुणि हेमनीव नले तयालोकि न दैवतेषु ॥21॥
सुरेषु मालाममलामपश्यन्नले तु बाला मलिनीभवन्तीम् ।
इमां किमासाद्य नलोऽद्य मृद्वीं श्रद्धास्यते मामिति चिन्तयेव ॥22॥
श्रियं भजन्तां कियदस्य देवाश्छाया नलस्यास्ति तथापि नैषाम् ।
इतीरयन्तीव तया निरैक्षि सा नैषधे न त्रिदशेषु तेषु ॥23॥
चिह्नैरमीभिर्नलसंविदस्याः संवादमाप प्रथमोपजाता ।
सा लक्षणव्यक्तिभिरेव देवप्रसादमासादितमप्यबोधि ॥24॥
नले निधातुं वरणस्रजं तां स्मरः स्म रामां त्वरयत्यथैनाम् ।
अपत्रपा तां निषिषेध तेन द्वयानुरोधं तुलितं दधौ सा ॥25॥
स्रजा समालिङ्गयितुं प्रियं सा रसादधत्तैव बहुप्रयत्नम् ।
स्तम्भत्रपाभ्यामभवत्तदीये स्पन्दस्तु मन्दोऽपि न पाणिपद्मे ॥26॥
तस्या हृदि व्रीडमनोभवाभ्यां दोलाविलासं समवाप्यमाने ।
स्थितं धृतैणाङ्ककुलातपत्रे शृङ्गारमालिङ्गदधीश्वरश्रीः ॥27॥
करः स्रजा सज्जतरस्तदीयः प्रियोन्मुखः सन्विरराम भूयः ।
प्रियाननस्यार्धपथं ययौ च प्रत्याययौ चातिचलः कटाक्षः ॥28॥
तस्याः प्रियं चित्तमुपेतमेव प्रभूबभूवाक्षि न तु प्रयातुम् ।
सत्यः कृतः स्पष्टमभूत्तदानीं तयाक्ष्णि लज्जेति जनप्रवादः ॥29॥
कथं कथंचिन्निषधेश्बरस्य कृत्वास्यपद्मं दरवीक्षितश्रि ।
वाग्देवताया वदनेन्दुबिम्बं त्रपावती साकृत सामिदृष्टम् ॥30॥
अजानतीवेदमवोचदेनामाकूतमस्यास्तदवेत्य देवी ।
भावस्त्रपोर्मिप्रतिसीरया ते न दीयते लक्षयितुं ममापि ॥31॥
देव्याः श्रुतौ नेति नलार्धनाम्नि गृहीत एव त्रपया निपीता ।
अथाङ्गुलीरङ्गुलिभिर्मृशन्ती दूरं सा नमयांचकार ॥32॥
करे विधृत्येश्वरया गिरां सा पान्था पथीन्द्रस्य कृता विहस्य ।
वामेति नामैव बभाज सार्धं पुरन्ध्रिसाधारणसंविभागम् ॥33॥
विहस्य हस्तेऽथ विकृष्य देवी नेतुं प्रयाताऽभि महेन्द्रमेताम् ।
भ्रमादियं दत्तमिवाहिदेहे ततश्चमत्कृत्य करं चकर्ष ॥34॥
भैमीं निरीक्ष्याभिमुखीं मघोनः स्वाराज्यलक्ष्मीरभृताभ्यसूयाम् ।
दृष्ट्वा ततस्तत्परिहारिणीं तां व्रीडं बिडौजःप्रवणाभ्यपादि ॥35॥
त्वत्तः श्रुतं नेति नले मयातः परं वदस्वेत्युदिताथ देव्या ।
हीमन्मथद्वैरथरङ्गभूमी भैमी दृशा भाषितनैषधाभूत् ॥36॥
हसत्सु भैमीं दिविषत्सु पाणौ पाणिम् प्रणीयाप्सरसां रसात्सा ।
आलिङ्ग्य नीत्वाकृत पान्थदुर्गां भूपालदिक्पालकुलाध्वमध्यम् ॥37॥
आदेशितामप्यवलोक्य मन्दं मन्दं नलस्यैव दिशा चलन्तीम् ।
भूयः सुरानर्धपथादथासौ तानेव तां नेतुमना नुनोद ॥38॥
मुखाब्जमावर्तनलोलनालं कृत्वालिहूंहूंरवलक्ष्यलक्ष्यम् ।
भीमोद्भवा तां नुनुदेऽङ्कपालीं देव्या नवोढेव दृढां विवोढुः ॥39॥
देवी कथंचित्खलु तामदेवद्रीचीं भवन्तीं स्मितसिक्तसृक्का ।
आह स्म मां प्रत्यपि ते पुनः का शङ्का शशाङ्कादधिकाष्यबिम्बे ॥40॥
एषामकृत्वा चरणप्रणाममेषामनुज्ञामनवाप्य सम्यक् ।
सुपर्ववैरे तव वैरसेनिं वरीतुमीहा कथमौचितीयम् ॥41॥
इतीरिते विश्वसितां पुनस्तामादाय पाणौ दिविषत्सु देवी ।
कृत्वा प्रणम्रां वदति स्म सा तान् भक्तेयमर्हत्यधुनानुकम्पाम् ॥42॥
युष्मान्वृणीते न बहून्सतीयं शेषावमानाच्च भवत्सु नैकम् ।
तद्वः समेतान्नृपमेनमंशान्वरीतुमन्विष्यति लोकपालाः ॥43॥
भैम्या स्रजःसञ्जनया पथि प्राक्स्वयंवरं संजनयांबभूव ।
संभोगमालिङ्गनयास्य वेधाः शेषं तु कं हन्तुमियद्यतध्वे ॥44॥
वर्णाश्रमाचारपथात्प्रजाभिः स्वाभिः सहैवास्खलते नलाय ।
प्रसेदुषो वेदृशवृत्तभङ्ग्या दित्सैव कीर्तेर्भुवमानयद्वः ॥45॥
इति श्रुतेऽस्या वचसैव हास्यात्कृत्वा सलास्याधरमास्यबिम्बम् ।
भ्रूविभ्रमाकूतकृताभ्यनुज्ञेष्वेतेषु तां साथ नलाय निन्ये ॥46॥
मन्दाक्षनिस्पन्दतनोर्मनोभूदुष्प्रेरमप्यानयति स्म तस्याः ।
मधूकमालामधुरं करं सा कण्ठोपकण्ठं वसुधासुधांशोः ॥47॥
अथाभिलिख्येव समर्प्यमाणां राजिं निजस्वीकरणाक्षराणाम् ।
दूर्वाङ्कुराढ्यां नलकण्ठनाले वधूर्मधूकस्रजमुत्ससर्ज ॥48॥
तां दूर्वया श्यामलयातिवेलं शृङ्गारभाषंनिभया सुशोभाम् ।
मालां प्रसूनायुधपाशभासं कण्ठेन भूभृद्बिभरांबभूव ॥49॥
दूर्वाग्रजाग्रत्पुलकावलिं तां नलाङ्गमङ्गाद्भृशमुल्लसन्तीम् ।
मानेन मन्ये नमितानना सा सासूयमालोकत पुष्पमालाम् ॥50॥
कापि प्रमोदास्फुटनिर्जिहानवर्णेव या मङ्गलगीतिरासाम् ।
सैवाननेभ्यः पुरसुन्दरीणामुच्चैरुलूलुध्वनिरुच्चचार ॥51॥
सा निर्मले तस्य मधूकमाला हृदि स्थिता च प्रतिबिम्बिता च ।
कियत्यमग्ना कियती च मग्ना पुष्पेषुबाणालिरिव व्यलोकि ॥52॥
रोमाणि सर्वाण्यपि बालभावाद्वरश्रियं वीक्षितुमुत्सुकानि ।
तस्यास्तदा कण्टकिताङ्गयष्टेरुद्ग्रीविकादानमिवान्वभूवन् ॥53॥
रोमाङ्कुरैर्दन्तुरिताखिलाङ्गी रम्याधरा सा सुतरां विरेजे ।
शरव्यदण्डैः श्रितमण्डनश्रीः स्मारी शरोपासनवेदिकेव ॥54॥
चेष्टा व्यनेशन्निखिलास्तदास्याः स्मरेषुवातैरिव ता विधूताः ।
अभ्यर्थ्य नीताः कलिना मुहूर्तं लाभाय तस्य बहु चेष्टितुं वा ॥55॥
तन्न्यस्तमाल्यस्पृशि यन्नलस्य स्वेदं करे पञ्चशरश्चकार ।
भविष्यदुद्वाहमहोत्सवस्य हस्तोदकं तज्जनयांबभूव ॥56॥
तूलेन तस्यास्तुलना मृदोस्तत्कम्प्राऽस्तु सा मन्मथबाणवातैः ।
चित्रीयितं तत्तु नलो यदुच्चैरभूत्स भूभृत्पृथुवेपथुस्तैः ॥57॥
दृशोरपि न्यस्तमिवास्त राज्ञां रागाद्दृगम्बुप्रतिबिम्बिमाल्यम् ।
नृपस्य तत्पीतवतोरिवाक्ष्णोः प्रालम्ब्यमालम्बनयुक्तमन्तः ॥58॥
स्तम्भस्तथालम्भितमां नलेन भैमीकरस्पर्शमुदः प्रसादः ।
कंदर्पलक्ष्यीकरणार्पितस्य स्तम्भस्य दम्भं स चिरं यथापत् ॥59॥
उत्सृज्य साम्राज्यमिवाथ भिक्षां तारुण्यमुल्लङ्घ्य जरामिवारात् ।
तं चारुमाकारमुपेक्ष्य यान्तं निजां तनूमाददिरे दिगीशाः ॥60॥
मायानलत्वं त्यजतो निलीनैः पूर्वैरहंपूर्विकया मघोनः ।
भीमोद्भवासात्त्विकभावशोभा दिदृक्षयेवाविरभावि नेत्रैः ॥61॥
गोत्रानुकूलत्वभवे विवाहे तत्प्रातिकूल्यादिव गोत्रशत्रुः ।
पुरश्चकार प्रवरं वरं यमायन्सखायं ददृशे तया सः ॥62॥
स्वकामसंमोहमहान्धकारनिर्वापमिच्छन्निव दीपिकाभिः ।
उद्गत्वरीभिश्छुरितं वितेने निजं वपुर्वायुसखः शिखाभिः ॥63॥
पत्यौ वृते भीमजया न वह्नावह्ना स्वमह्नाय निजुह्नुवे यः ।
जनादपत्रप्य स हा सहायस्तस्य प्रकाशोऽभवदप्रकाशः ॥64॥
सदण्डमालक्तकनेत्रचण्डं तमःकिरं कायमधत्त कालः ।
तत्कालमन्तःकरणं नृपाणामध्यासितुं कोप इवोपनम्रः ॥65॥
दृग्गोचरोऽभूदथ चित्रगुप्तः कायस्थ उच्चैर्गुण एतदीयः ।
ऊर्ध्वं तु पत्त्रस्य मषीद एको मषेर्ददञ्चोपरि पत्त्रमन्यः ॥66॥
तस्यां मनोबन्धविमोचनस्य कृतस्य तत्कालमिव प्रचेताः ।
पाशं दधानः करबद्धवासं विभुर्बभावाप्यमवाप्य देहम् ॥67॥
सहद्वितीयः स्त्रियमभ्युपेयादेवं स दुर्बुध्य नयोपदेशम् ।
अन्यां सभार्यः कथमृच्छतीति जलाधिपोऽभूदसहाय एव ॥68॥
देव्यापि दिव्याऽनु तनुः प्रकाशीकृता मुदश्चक्रभृतः सृजन्ती ।
अनिह्नुतैस्तामवधार्य चिह्नैस्तद्वाचि बाला शिथिलाद्भुताभूत् ॥69॥
विलोकके नायकमेलकेऽस्मिन्रूपान्यताकौतुकदर्शिभिस्तैः ।
बाधा बतेन्द्रादिभिरिन्द्रजालविद्याविदां वृत्तिवधाद्व्यधायि ॥70॥
विलोक्य तावाप्तदुरापकामौ परस्परप्रेमरसाभिरामौ ।
अथ प्रभुः प्रीतमना बभाषे जाम्बूनदोर्वीधरसार्वभौमः ॥71॥
वैदर्भि दत्तस्तव तावदेष वरो दुरापः पृथिवीश एव ।
दूत्यं तु यत्त्वं कृतवानमायं नल प्रसादस्त्वयि तन्ममायम् ॥72॥
प्रत्यक्षलक्ष्यामवलम्ब्य मूर्तिं हुतानि यज्ञेषु तवोपभोक्ष्ये ।
संशेरतेऽस्माभिरवीक्ष्य भुक्तं मखं हि मन्त्राधिकदेवभावे ॥73॥
भवानपि त्वद्दयितापि शेषे सायुज्यमासादयतं शिवाभ्याम् ।
प्रेत्यास्मि कीदृग्भवितेति चिन्ता संतापमन्तस्तनुते हि जन्तोः ॥74॥
तवोपवाराणसि नामचिह्नं वासाय पारेसि पुरं पुरास्ति ।
निर्वातुमिच्छोरपि तत्र भैमीसंभोगसंकोचभियाधिकाशि ॥75॥
धूमावलिश्मश्रु ततः सुपर्वा मुखं मखास्वादविदां तमूचे ।
कामं मदीक्षामयकामधेनोः पयायतामभ्युदयस्त्वदीयः ॥76॥
या दाहपाकौपयिकी तनुर्मे भूयात्त्वदिच्छावशवर्तिनी सा ।
तया पराभूततनोरनङ्गात्तस्याः प्रभुः सन्नधिकस्त्वमेधि ॥77॥
अस्तु त्वया साधितमन्नमीनरसादि पीयूषरसातिशायि ।
यद्भूप विद्मस्तव सूपकारक्रियासु कौतूहलशालि शीलम् ॥78॥
वैवस्वतोऽपि स्वत एव देवस्तुष्टस्तमाचष्ट धराधिराजम् ।
वरप्रदानाय तवावदानैश्चिरं मदीया रसनोद्धुरेयम् ॥79॥
सर्वाणि शस्त्राणि तवाङ्गचक्रैराविर्भवन्तु त्वयि शत्रुजैत्रे ।
अवाप्यमस्मादधिकं न किंचिज्जागर्ति वीरव्रतदीक्षितानाम् ॥80॥
कृच्छ्रं गतस्यापि दशाविपाकं धर्मान्न चेतः स्खलतु त्वदीयम् ।
अमुञ्चतः पुण्यमनन्यभक्तेः स्वहस्तवास्तव्य इव त्रिवर्गः ॥81॥
स्मिताञ्चितां वाचमवोचदेनं प्रसन्नचेता नृपतिं प्रचेताः ।
प्रदाय भैमीमधुना वरौ तु ददामि तद्यौतककौतुकेन ॥82॥
यत्राभिलाषस्तव तत्र देशे नन्वस्तु धन्वन्यपि तूर्णमर्णः ।
आपो वहन्तीह हि लोकयात्रां यथा न भूतानि तथाऽपराणि ॥83॥
प्रसारितापः शुचिभानुनास्तु मरुः समुद्रत्वमपि प्रपद्य ।
भवन्मनस्कारलवोद्गमेन क्रमेलकानां निलयः पुरेव ॥84॥
अम्लानिरामोदभरश्च दिव्यः पुष्पेषु भूयाद्भवदङ्गसङ्गात् ।
दृष्टं प्रसूनोपमया मयान्यन्न धर्मशर्मोभयकर्मठं यत् ॥85॥
वाग्देवतापि स्मितपूर्वमुर्वीसुपर्वराजं रभसाद्बभाषे ।
त्वत्प्रेयसीसंमदमाचरन्त्या मत्किं न किंचिद्ग्रहणोचितं ते ॥86॥
अर्थो विनैवाऋथनयोपसीदन्नाल्पोऽपि धीरैरवधीरणीयः ।
मान्येन मन्ये विधिना वितीर्णः स प्रीतिदायो बहु मन्तुमर्हः ॥87॥
अवामावामार्धे सकलमुभयाकारघटनाद्द्विधाभूतं रूपं भगवदभिधेयं भवति यत् ।
तदन्तर्मन्त्रं मे स्मरहरमयं सेन्दुममलं निराकारं शश्वज्जप नरपते सिध्यतु सते ॥88॥
सर्वाङ्गीणरसामृतस्तिमितया वाचा स वाचस्पतिः स स्वर्गीयमृगीदृशामपि वशीकाराय मारायते ।
यस्मै यः स्पृहयत्यनेन स तदेवाप्नोति इं भूयसा येनायं हृदये स्थितः सुकृतिना अम्न्मन्त्रचिन्तामणिः ॥89॥
पुष्पैरभ्यर्च्य गन्धादिभिरपि सुभगैश्चारुहंसेन मां चेन्निर्यान्तीं मन्त्रमूर्तिं जपति मयि मतिं न्यस्य मय्येव भक्तः ।
तत्प्राप्ते वत्सरान्ते शिरसि करमसौ यस्य कस्यापि धत्ते सोऽपि श्लोकानकाण्डे रचयति रुचिरान्कौतुकं दृश्यमस्याः ॥90॥
गुणानामास्थानीं नृपतिलकनारीति विदितां रसस्फीतामन्तस्तव च तव वृत्ते च कवितुः ।
भवित्री वैदर्भीमधिकमधिकण्ठं रचयितुं परीरम्भक्रीडाचरणशरणामन्वहमहम् ॥91॥
भवद्वृत्तस्तोतुर्मदुपहितकण्ठस्य कवितुर्मुखात्पुण्यैः श्लोकैस्त्वयि घनमुदेयं जनमुदे ।
ततः पुण्यश्लोकः क्षितिभुवनलोकस्य भविता भवानाख्यातः सन्कलिकलुषहारी हरिरिव ॥92॥
देवी च ते च जगदुर्जगदुत्तमाङ्गरत्नाय ते कथय कं वितराम कामम् ।
किंचित्त्वया नहि पतिव्रतया दुरापं भस्मास्तु यस्तव बत व्रतलोपमिच्छुः ॥93॥
कूटकायमपहाय नो वपुर्बिभ्रतस्त्वमसि वीक्ष्य विस्मिता ।
आप्तुमाकृतिमतो मनीषितां विद्यया हृदि तवाप्युदीयताम् ॥94॥
इत्थं वितीर्य वरमम्बरमाश्रयत्सु तेषु क्षणादुदलसद्विपुलः प्रणादः ।
उत्तिष्ठतां परिजनालपनैर्नृपाणां स्वर्वासिवृन्दहतदुन्दुभिनादसान्द्रः ॥95॥
न दोषं विद्वेषादपि निरवकाशं गुणमये वरेण प्राप्तास्त्रे न समरसमारम्बसदृशम् ।
जगुः पुण्यश्लोकं प्रतिनृपतयः किंतु विदधुः स्वनिश्वासैर्भैमीहृदयमुदयन्निर्भरदयम् ॥96॥
भूभृद्भिर्लम्भिताऽसौ करुणरसनदीमूर्तिमद्देवतात्वं तातेनाभ्यर्थ्ययोग्याःसपदिनिजसखीर्दापयामासतेभ्यः ।
वैदर्भ्यास्तेऽप्यलाभात्कृतगमनमनःप्राणवाञ्छां विजघ्नुः सख्यः संशिक्ष्य विद्याः सततधृतवयस्यानुकाराभिराभिः ॥97॥
अहह सह मघोना श्रीप्रतिष्ठासमाने निलयमभि नलेऽथ स्वं प्रतिष्ठासमाने ।
अपतदमरभर्तुर्मूर्तिबद्धेव कीर्तिर्गलदलिमधुबाष्पा पुष्पवृष्टिर्नभस्तः ॥98॥
स्वस्यामरैर्नृपतिमंशममुं त्यजद्भिरंशच्छिदाकदनमेव तदाध्यगामि ।
उत्का स्म पश्यति निवृत्य निवृत्य यान्ती वाग्देवतपि निजविभ्रमधाम भैमीम् ॥99॥
सानन्दंतनुजाविवाहनमहे भीमः स भूमीपतिर्वैदर्भीनिषधेश्वरौ नृपजनानिष्टोक्तिनिर्मृष्टये ।
स्वानि स्वानि धराधिपाश्च शिबिराण्युद्दिश्य यान्तः क्रमादेको द्वौ बहबश्चकार सृजतः स्मातेनिरे मङ्गलम् ॥100॥
श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं
श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
यातस्तस्य चतुर्दशः शरदिजज्योत्स्नाच्छसूक्तेः
महाकाव्ये चारुणि नैषधीयचरिते सर्गो निसर्गोज्ज्वलः ॥101॥

पञ्चदश सर्गः

सम्पाद्यताम्

अथोपकार्या निषधावनीपतिः
निजामयासीद्वरणस्रजाञ्चितः ।
वसूनि वर्षन्सुबहूनि बन्दिनां
विशिष्यभैमीगुणकीर्तनाकृताम् ॥1॥
तथा पथि त्यागमयं वितीर्णवान्
यथातिभाराधिगमेन मागधैः ।
तृणीकृतं रत्ननिकाय मुच्चकैः
चिकाय लोकश्चिरमुञ्छमुत्सुकः ॥2॥
त्रपास्य न स्यात्सदसि स्त्रियान्वयात्
कुतोऽतिरूपः सुखभाजनं जनः ।
अमूदृशी तत्कविबन्दिवर्णनैः
अवाक्कृता राजकरञ्जिलोकवाक् ॥3॥
अदोषतामेव सतां विवृण्वते
द्विषां मृषादोषकणाधिरोपणाः ।
न जातु सत्ये सति दूषाणे भवे-
दलीकमाधातुमवद्यमुद्यमः ॥4॥
विदर्भराजोऽपि समं तनूजया
प्रविश्य हृष्यन्नवरोधमात्मनः ।
शशंस देवीमनुजातसंशयां
प्रतीच्छ जामातरमुत्सुके नलम् ॥5॥
तनुत्विषा यस्य तृणं स मन्मथा
कुलश्रिया यः पवितास्मदन्वयम् ।
जगत्त्रयीनायकमेलके वरं
सुतां परं वेद विवेक्तुमीदृशम् ॥6॥
सृजन्तु पाणिग्रहमङ्गलोचिता
मृगीदृशः स्त्रीसमयस्पृशः क्रियाः ।
श्रृतिस्मृतीनां तु वयं विदध्महे
विधीनिति स्माह च निर्ययौ च सः ॥7॥
निरीय भूपेन निरीक्षितानना
शशंस मौहूर्तिकसंसदंशकम् ।
गुणैररीणैरुदयास्तनिस्तुषां
तदा स दातुं तनयां प्रचक्रमे ॥8॥
अथावदद्दूतमुखः स नैषधं
कुलं च बाला च ममानुकम्प्यताम् ।
स पल्लवत्वद्य मनोरथाङ्क्रुर-
श्चिरेण नस्त्वच्चरणोदकैरिति ॥9॥
तथोत्थितं भीमवचःप्रतिध्वनिं
निपीय दूतस्य स वक्त्रगह्वरात् ।
व्रजामि वन्दे चरणौ गुरोरिति
ब्रुवन्प्रदाय प्रजिघाय तं बहु ॥10॥
निपीतदूतालपितस्ततो नलं
विदर्भभर्तागमयांबभूव सः ।
निशावसाने श्रुतताम्रचूडवाग्
यथा रथाङ्गस्तपनं धृतादरः ॥11॥
क्वचित्तदालेपनदानपण्डिता
कमप्यहंकारमगात्पुरस्कृता ।
अलम्भि तुङ्गासनसंनिवेशना-
दपूपनिर्माणविदग्धयादरः ॥12॥
मुखानि मुक्तामणितोरणोद्गतै-
र्मरीचिभिः पान्थविलासमाश्रितैः ।
पुरस्य तस्याखिलवेश्मनामपि
प्रमोदहासच्छुरितानि रेजिरे ॥13॥
पथामनीयन्त तथाधिवासनान्
मधुव्रतानामपि दत्तविभ्रमाः ।
वितानतामातपनिर्भयास्तदा
पटच्छिदाकालिकपुष्पजाः स्रजः ॥14॥
विभूषणैः कञ्चुकिता बभुः प्रजा
विचित्रचित्रैः स्नपितत्विषो गृहाः ।
बभूव तस्मिन्मणिकुट्टिमैः पुरे
वपुः स्वमुर्व्याः परिवर्तितोपमम् ॥15॥
तदा निसस्वानतमां घनं घनं
ननाद तस्मिन्नितरां ततं ततम् ।
अवापुरुच्चैः सुषिराणि राणिताम्
अमानमानद्धमियत्तयाध्वनीत् ॥16॥
विपञ्चिराच्छादि न वेणुभिर्न ते
प्रणीतगीतैर्न च तेऽपि झर्झरैः ।
न ते हुहुक्केन न सोऽपि ढक्कया
न मर्दलैः सापि न तेऽपि ढक्कया ॥17॥
विचित्रवादित्रनिनादमूर्च्छितः
सुदूरचारी जनतामुखारवः ।
ममौ न कर्णेषु दिगन्तदन्तिनां
पयोधिपूरप्रतिनादमेदुरः ॥18॥
उदस्य कुम्भीरथ शातकुम्भजाः
चतुष्कचारुत्विषि वेदिकोदरे ।
यथाकुलाचारमथावनीन्द्रजां
पुरन्ध्रिवर्गः स्नपयांबभूव ताम् ॥19॥
विजित्य दास्यादिव वारिहारिताम्
अवापितास्तत्कुचयोर्द्वयेन ताः ।
शिखामवाक्षुः सहकारशाखिन-
स्त्रपाभरम्लानिमिवानतैर्मुखैः ॥20॥
असौ मुहुर्जातजलाभिषेचना
क्रमाद्दुकूलेन सितांशुनोज्ज्वला ।
द्वयस्य वर्षाशरदां तदातनीं
सनाभितां साधु बबन्ध संध्यया ॥21॥
पुरा प्रभिन्नाम्बुददुर्दिनीकृतां
निनिन्द चन्द्रद्युतिसुन्दरीं दिवम् ।
शिरोरुहौघेण घनेन वर्षता
क्वचिद्दुकूलेन सितांशुनोज्ज्वला ॥22॥
विरेजिरे तच्चिकुरोत्कराः किराः
क्षाणं गलन्निर्मलवारिविप्रुषाम् ।
तमःसुहृच्चामरनिर्जयार्जिताः
सिता वमन्तः खलु कीर्तिमुक्तिकाः ॥23॥
म्रदीयसा स्नानजलस्य वाससा
प्रमार्जनेनाधिकमुज्ज्वलीकृताः ।
अदभ्रमभ्राजत साश्मशाणनात्
प्रकाशरोचिःप्रतिमेव हेमजा ॥24॥
तदा तदङ्गस्य बिभर्ति विभ्रमं
विलेपनामोदमुचः स्फुरद्रुचः ।
दरस्फुरत्काञ्चनकेतकीदलात्
सुवर्णमभ्यस्यति सौरभं यदि ॥25॥
अवापितायाः शुचिवेदिकान्तरं
कलासु तस्याः सकलासु पण्डिताः ।
क्षणेन सख्यश्चिरशिक्षणैः स्फुटं
प्रतिप्रतीकं प्रतिकर्म निर्ममुः ॥26॥
विनापि भूषामवधिः श्रियामियं
व्यभूषि विज्ञाभिरदर्शि चाधिका ।
न भूषयैषाधिचकास्ति किं तु सा
नयेति कस्यास्तु विचारचातुरी विधाय ॥27॥
विधाय बन्धूकपयोजपूजने
कृतां विधोर्गन्धफलीबलिश्रियम् ।
निनिन्द लब्धाधरलोचनार्चनं
मनःशिलाचित्रकमेत्य तन्मुखम् ॥28॥
महीमधोनां मदनान्धतातमी-
तमःपटारम्भणतन्तुसंततिः ।
अबन्धि तन्मूर्धजपाशमञ्जरी
कयापि धूपग्रहधूमकोमला ॥29॥
पुनःपुनः काचन कुर्वती कच-
च्छटाधिया धूपजधूमसंयमम् ।
सखी स्मितैस्तर्किततन्निजभ्रमा
बबन्ध तन्मूर्धजचामरं चिरात् ॥30॥
बलस्य कृष्टेव हलेन भाति या
कलिन्दकन्या घनभङ्गभङ्गुरा ।
तदार्पितैस्तां करुणस्य कुड्नलैः
जहास तस्याः कुटिला कचच्छटा ॥31॥
धृतैतया हाटकपट्टिकालिके
बभूव केशाम्बुदविद्युदेव सा ।
मुखेन्दुसंबन्धवशात्सुधाजुषः
स्थिरत्वमूहे नियतं तदायुषः ॥32॥
ललाटिकासीमनि चूर्णकुन्तला
बभुः स्फुटं भीमनरेन्द्रजन्मनः ।
मनःशिलाचित्रकदीपसंभवा
भ्रामीभृतः कज्जलधूमवल्लयः ॥33॥
अपाङ्गमालिङ्ग्य तदीयमुच्चकै-
रदीपि रेखा जनिताञ्जनेन या ।
अपाति सूत्रं तदिव द्वितीयया
वयःश्रिया वर्धयितुं विलोचने ॥34॥
अनङ्गलीलाभिरपाङ्गधाविनः
कनीनिकानीलमणेः पुनः पुनः ।
तमिस्रवंशप्रभवेन रश्मिना
स्वपद्धतिः सा किमरञ्जि नाञ्जनैः ॥35॥
असेविषातां सुषमां विदर्भ-
जादृशाववाप्याञ्जनरेखयाऽन्वयम् ।
भुजद्वयज्याकिणपद्धतिस्पृशोः
स्मरेण बाणीकृतयोः पयोजयोः ॥36॥
तदक्षितत्कालतुलागसा नखं
निखाय कृष्णस्य मृगस्य चक्षुषी ।
विधिर्यदुद्धर्तुमियेष तत्तयो-
रदूरवर्तिक्षतता स्म शंसति ॥37॥
विलोचनाभ्यामतिमात्रपीडिते
वतंसनीलाम्बुरुहद्वयीं खलु ।
तयोः प्रतिद्वन्द्विधियाधिरोपयां-
बभूवतुर्भीमसुताश्रुती ततः ॥38॥
धृतं वतंसोत्पलयुग्ममेतया
व्यराजदस्यां पतिते दृशाविव ।
मनोभुवान्ध्यं गमितस्य पश्यतः
स्थिते लगित्वा रसिकस्य कस्यचित् ॥39॥
विदर्भपुत्रीश्रवणावतंसिका-
मणीमहःकिंशुककार्मुकोदरे ।
उदीतनेत्रोत्पलबाणसंभृति-
र्नलं परं लक्ष्यमवैक्षत स्मरः ॥40॥
अनाचरत्तथ्यमृषाविचारणां
तदाननं कर्णलतायुगेन किम् ।
बबन्ध जित्वा मणिकुण्डले विधू
द्विचन्द्रबुद्ध्या कथितावसूयकौ ॥41॥
अवादि भैमी परिधाप्य कुण्डले
वयस्ययाभ्यामभितः समन्वयः ।
त्वदाननेन्दोः प्रियकामजन्मनि
श्रयत्ययं दौरुधरीं धुरं ध्रुवम् ॥42॥
निवेशितं यावकरागदीप्तये
लगत्तदीयाधरसीम्नि सिक्थकम् ।
रराज तत्रैव निवस्तुमुत्सुकं
मधूनि निर्धूय सुधासधर्मणि ॥43॥
स्वरेण वीणेत्यविशेषणं पुरा
स्फुरत्तदीया खलु कण्ठकन्दली ।
अवाप्य तन्त्रीरथ सप्त मुक्तिका-
सरानराजत्परिवादिनी स्फुटम् ॥44॥
उपास्यमानाविव शिक्षितुं
ततो मृदुत्वमप्रौढमृणालनालया ।
विरेजतुर्माङ्गलिकेन संगतौ
भुजौ सुदत्या वलयेन कम्बुनः ॥45॥
पदद्वयेऽस्या नवयावरञ्जना
जनैस्तदानीमुदनीयतार्पिता ।
चिराय पद्मौ परिरभ्य जाग्रती
निशीव विश्लिष्य नवा रविद्युतिः ॥46॥
कृतापराधः सुतनोरनन्तरं
विचिन्त्य कान्तेन समं समागमम् ।
स्फुटं सिषेव कुसुमेषुपावकः
स रागचिह्नश्चरणौ न यावकः ॥47॥
स्वयं तदङ्गेषु गतेषु चारुतां
परस्परेणैव विभूषितेषु च ।
किमूचिरेऽलंकरणानि तानि तद्
दृथैव तेषां करणं बभूव यत् ॥48॥
क्रमाधिकामुत्तरमुत्तरं श्रियं
पुपोष यां भूषणचुम्बनैरियम् ।
पुरः पुरस्तस्थुषि रामणीयके
तया बबाधेऽवधिबुद्धिधोरणिः ॥49॥
मणीसनाभौ मुकुरस्य मण्डले
बभौ निजास्यप्रतिबिम्बदर्शिनी ।
विधोरदूरं स्वमुखं विधाय सा
निरूपयन्तीव विशेषमेतयोः ॥50॥
जितस्तदास्येन कलानिधिर्दधे
द्विचन्द्रधीसाक्षिकमायकायताम् ।
तथापि जिग्ये युगपत्सखीयुग-
प्रदर्शितादर्शबहूभविष्णुना ॥51॥
किमालियुग्मार्पितदर्पणद्वये
तदास्यमेकं बहु चान्यदम्बुजम् ।
हिमेषु निर्वाप्य निशासमाधिभिः
तदीयसालोक्यमितं व्यलोक्यत ॥52॥
पलाशदामेतिमिलच्छिलीमुखै-
र्वृता विभूषामणिरश्मिकार्मुकैः ।
अलक्षि लक्षैर्धनुषामसौ तदा
रतीशसर्वस्वतयाऽभिरक्षिता ॥53॥
विशेषतीर्थैरिव जह्नुनन्दिनी
गुणैरिवाजानिकरागभूमिता ।
जगाम भाग्यैरिव नीतिरुज्ज्वलै-
र्विभूषणैस्तत्सुषमा महार्धताम् ॥54॥
नलात्स्ववैश्वस्त्यमनाप्तुमानता
नृपस्त्रियो भीममहोत्सवागताः ।
तदङ्घ्रिलाक्षामदधन्त मङ्गलं
शिरःसु सिन्दूरमिव प्रियायुषे ॥55॥
अमोघभावेन सनाभितां गताः
प्रसन्नगीर्वाणवराक्षरस्रजाम् ।
ततः प्रणम्राधिजगाम सा ह्रिया
गुरुर्गुरुब्रह्मपतिव्रताशिषाः ॥56॥
तथैव तत्कालमथानुजीविभिः
प्रसाधनासञ्जनशिल्पपारगैः ।
निजस्य पाणिग्रहणक्षणोचिता
कृता नलस्यापि विभोर्विभूषणा ॥57॥
नृपस्य तत्राधिकृताः पुनः पुन-
र्विचार्य तान्बन्धमवापिपन्कचान् ।
कलापलीलोपनिधिर्गरुत्त्यजः
 स यैरपालापि कलापिसंपदः ॥58॥
पतत्त्रिणां द्राधिमशालिना धनु-
र्गुणेन संयोगजुषां मनोभुवः ।
कचेन तस्यार्जितमार्जनश्रिया
समेत्य सौभाग्यमलम्भि कुङ्नलैः ॥59॥
अनर्ध्यरत्नौघमयेन मण्डितो
रराज राजा मुकुटेन मूर्धनि ।
वनीपकानां स हि कल्पभूरुह-
स्ततो विमुञ्चन्निव मञ्जुमञ्जरीम् ॥60॥
नलस्य भाले मणिवीरपट्टिका-
निभेन लग्नः परिधिर्विधोर्बभौ ।
तदा शशाङ्काधिकरूपतां गते
तदानने मातुमशक्नुवन्निव ॥61॥
बभूव भैम्याः खलु मानसौकसं
जिघांसतो धैर्यभरं मनोभुवः ।
उपभ्रु तद्वर्तुलचित्ररूपिणी
धनुःसमीपे गुलिकेव संभृता ॥62॥
अचुम्बि या चन्दनबिन्दुमण्डली
नलीयवक्त्रेण सरोजतर्जिना ।
श्रियं श्रिता काचन तारकासखी
कृता शशाङ्कस्य तयाङ्कवर्तिनी ॥63॥
न यावदग्निभ्रममेत्युदूढतां
नलस्य भैमीति हरेर्दुराशया ।
स बिन्दुरिन्दुः प्रहितः किमस्य सा
न वेति भाले पठितुं लिपीमिव ॥64॥
कपोलपालीजनिजानुबिम्बयोः
समागमात्कुण्डलमण्डलद्वयी ।
नलस्य तत्कालमवाप चित्तभूः
अथ स्फुरच्चक्रचतुष्कचारुताम् ॥65॥
श्रितास्य कण्ठं गुरुविप्रवन्दना-
द्विनम्रमोलेश्चिबुकाग्रचुम्बिनी ।
अवाप मुक्तावलिरास्यचन्द्रमः
स्रवत्सुधातुन्दिलबिन्दुवृन्दताम् ॥66॥
यतोऽजनि श्रीर्बलवान्बलं द्विषन्
बभूव यस्याजिषु वारणेन सः ।
अपूपुरत्तान्कमलार्थिनो घनान्
समुद्रभावं स बभार तद्भुजः ॥67॥
कृतार्थयन्नर्थिजनाननारतं
बभूव तस्यामरभूरुहः करः ।
तदीयमूले निहितं द्वितीयवद्
द्ध्रुवं दधे कङ्कणमालवालताम् ॥68॥
रराज दोर्मण्डनमण्डलीजुषोः
स वज्रमाणिक्यसितारुणत्विषोः ।
मिषेण वर्षन्दशदिङ्मुखोन्मुखौ
यशःप्रतापाववनीजयार्जितौ ॥69॥
घने समस्तापघनावलम्बिनां
विभूषणानां मणिमण्डले नलः ।
स्वरूपरेखामवलोक्य निष्फली-
चकार सेवाचणदर्पणार्पणाम् ॥70॥
व्यलोकि लोकेन न केवलं चलन्
मुदा तदीयाभरणाऋपणाद्युतिः ।
अदर्शि विस्फारितरत्नलोचनैः
परस्परेणेव विभूषणैरपि ॥71॥
ततोऽनु वार्ष्णेयनियन्तृकं रथं
युधि क्षितारिक्षितिभृज्जयद्रथः ।
नृपः पृथासूनुरिवाधिरूढवान्स
जन्ययात्रामुदितः किरीटवान् ॥72॥
विदर्भनाम्नस्त्रिदिवस्य वीक्षितुं
रसोदयादप्सरसस्तमुज्ज्वलम् ।
गृहाद्गृहादेत्य धृतप्रसाधना
व्यराजयन्राजपथानथाधिकम् ॥73॥
अजानती कापि विलोकनोत्सुका
समीरधूतार्धमपि स्तनांशुकम् ।
कुचेन तस्मै चलतेऽकरोत्पुरः
पुराङ्गना मङ्गलकुम्भसंभृतिम् ॥74॥
सखीं नलं दर्शयमानयाङ्कतो
जवादुदस्तस्य करस्य कङ्कणे ।
विषज्य हारैस्त्रुटितैरतर्कितैः
कृतं कयापि क्षणलाजमोक्षणम् ॥75॥
लसन्नखादर्शमुखाम्बुजस्मित-
प्रसूनवाणीमधुपाणिपल्लवम् ।
यियासतस्तस्य नृपस्य जज्ञिरे
प्रशस्तवस्तूनि तदेवयौवतम् ॥76॥
करस्थताम्बूलजिघत्सुरेकिका
विलोकनैकाग्रविलोचनोत्पला ।
मुखे निचिक्षेप मुखद्विराजता-
रुषेव लीलाकमलं विलासिनी ॥77॥
कयापि वीक्षाविमनस्कलोचने
समाज एवोपपतेः समीयुषः ।
घनं सविघ्नं परिरम्भसाहसैः
तदा तदालोकनमन्वभूयत ॥78॥
दिदृक्षुरन्या विनिमेषावीक्षणां
नृणामयोग्यां दधती तनुश्रियम् ।
पदाग्रमात्रेण यदस्पृशन्महीं
न तावता केवलमप्सरोऽभवत् ॥79॥
विभूषणस्रंसनशंसनार्पितैः
करप्रहारैरपि धूननैरपि ।
अमान्तमन्तः प्रसभं पुराऽपरा
सखीषु संमापयतीव संमदम् ॥80॥
वतंसनीलाम्बुरुहेण किं दृशा
विलोकमाने विमनीबभूवतुः ।
अपि श्रुती दर्शनसक्तचेतसां
न तेन ते शुश्रुवतुर्मृगीदृशाम् ॥81॥
काश्चिन्निर्माय चक्षुःप्रसृतिचुलुकितं तास्वशङ्कन्त कान्ता
मौग्ध्यादाचूडमोघैर्निचुलितमिव तं भूषणानां मणीनाम् ।
साहस्रीभिर्निमेषाकृतमतिभिरयं दृग्भिरालिङ्गितः किं
ज्योतिष्टोमादियज्ञश्रुतिफलजगतीसार्वभौमभ्रमेण ॥82॥
भवन्सुद्युम्नः स्त्री नरपतिरभूद्यस्य जननी
तमुर्वश्याः प्राणानपि विजयमानस्तनुरुचा ।
हरारब्धक्रोधेन्धनमदनसिंहासनमसा-
वलंकर्मीणश्रीरुदभवदलंकर्तुमधुना ॥83॥
अर्थी सर्वसुपर्वणां पतिरसावेतस्य यूनः कृते
पर्यत्याजि विदर्भराजसुतया युक्तं विशेषज्ञया ।
अस्मिन्नाम तया वृते सुमनसः सन्तोऽपि यन्निर्जरा
जाता दुर्मनसो न सोढुमुचिता तेषां तु साऽनौचिती ॥84॥
अस्योत्कण्ठितकण्ठलोठिवरणस्रक्साक्षिभिर्दिग्भटैः
स्वं वक्षः स्वयमस्फुटन्न किमदः शस्त्रादपि स्फोटितम् ।
व्यावृत्योपनतेन हा शतमखेनाद्य प्रसाद्या कथं
भैम्यां व्यर्थमनोरथेन च शची साचीकृतास्याम्बुजा ॥85॥
मा जानीत विदर्भजामविदुषीं कीर्तिं मुदः श्रोयसीं
सेयं भद्रमचीकरन्मघवता न स्वं द्वितीयां शचीम् ।
कः शच्या रचयांचकार चरिते काव्यं स नः कथ्यता-
मेतस्यास्तु करिष्यते रसधुनीपात्रे चरित्रे न कैः ॥86॥
वैदर्भीबहुजन्मनिर्मिततपःशिल्पेन देहश्रिया
नेत्राभ्यां स्वदते युवायमवनीवासः प्रसूनायुधः ।
गीर्वाणालयसार्वभौमसुकृतप्राग्भारदुष्प्रापया
योगं भीमजयानुभूय भजतामद्वैतमद्य त्विषाम् ॥87॥
स्त्रीपुंसव्यतिषञ्जनं जनयतः पत्युः प्रजानामभू-
दभ्यासः परिपाकिमः किमनयोर्दाम्पत्यसंपत्तये ।
आसंसारपुरन्ध्रिपूरुषमिथःप्रेमार्पणक्रीडया-
प्येतज्जम्पतिगाढरागरचना प्राकर्षि चेतोभुवः ॥88॥
ताभिर्दृश्यत एष यान्पथि महाज्यैष्ठीमहे मन्महे
यदृग्भिः पुरुषोत्तमः परिचितः प्राग्मञ्चमञ्चन्कृतः ।
सा स्त्रीराट् पतयालुभिः शितिसितैः स्यादस्य दृक्चामरैः
सस्ने माघमघातिघातियमुनागङ्गौघयोगे यया ॥89॥
वैदर्भीविपुलानुरागकलनात्सौभाग्यमत्राखिल-
क्षोणीचक्रशतक्रतौ निजगदे तद्बृत्तवृत्तक्रमैः ।
किंचास्माकनरेन्द्रभूसुभगतासंभूतये लग्नकं
देवेन्द्रावरणप्रसादितशचीविश्राणिताशीर्वचः ॥90॥
आसुत्राममपासनान्मखभुजां भैम्यैव राजव्रजे
तादर्थ्यागमनानुरोधपरया युक्तार्जि लज्जामृजा ।
आत्मानं त्रिदशप्रसादफलताम् पत्ये विधायानया
ह्रीरोषापयशःकथानवसरः सृष्टं सुराणामपि ॥91॥
इत्यालेपुरनुप्रतीकनिलयालंकारसारश्रिया-
हंकुर्वत्तनुरामणीयकममूरालोक्य पौरप्रियाः ।
सानन्दाः कुरुविन्दसुन्दरकरस्यानन्दनं स्यन्दनं
तस्याध्यास्य यतः शतक्रतुहरित्क्रीडाद्रिमिन्दोरिव ॥92॥
श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं
श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
यातः पञ्चदशः कृशेतररसस्वादाविहायं महा-
काव्ये तस्य कृतौ नलीयचरिते सर्गो निसर्गोज्ज्वलः ॥93॥