नैषधीयचरितम् सर्गाः १६-२०
षोडश सर्गः
सम्पाद्यताम्वृतः प्रतस्थे स रथैरथो रथी गृहान्विदर्भाधिपतेर्धराधिपः ।
पुरोधसं गौतममात्मवित्तमं द्विधा पुरस्कृत्य गृहीतमङ्गलः ॥1॥
विभूषणांशुप्रतिबिम्बितैः स्फुटं भृशावदातैः स्वनिवासिभिर्गुणैः ।
मृगेक्षणानां समुपासि चामरैर्विधूयमानैः स विधुप्रभैः प्रभुः ॥2॥
परार्ध्यवेषाभरणैः पुरःसरैः समं जिहाने निषधावनीभुजि ।
दधे सुनासीरपदाभिधेयतां स रूढिमात्राद्यदि वृत्रशात्रवः ॥3॥
नलस्य नासीरसृजां महीभुजां किरीटरत्नैः पुनरुक्तदीपया ।
अदीपि रात्रौ वरयात्रया तया चमूरजोमिश्रतमिस्रसंपदा ॥4॥
विदर्भराजः क्षितिपाननुक्षणं शुभक्षणासन्नतरत्वसत्वरः ।
दिदेश दूतान्पथि यान्यथोत्तरं चमूममुष्योपचिकाय तच्चयः ॥5॥
हरिद्विपद्वीपिभिरांशुकैर्नभोनभस्वदाध्मापनपीनितैरभूत् ।
तरस्वदश्वध्वजिनीध्वजैर्वनं विचित्रचीनाम्बरवल्लिवेल्लिवेल्लितम् ॥6॥
भुवाह्वयन्तीं निजतोरणस्रजा गजालिकर्णानिलखेलया ततः ।
ददर्श दूतीमिव भीमजन्मनह् स तत्प्रतीहारमहीं महीपतिः ॥7॥
श्लथैर्दलैः स्तम्भयुगस्य रम्भयोश्चकास्ति चण्डातकमण्डिता स्म सा ।
प्रियासखीवास्य मनःस्थितिस्फुरत्सुखागतप्रश्निततूर्यनिःस्वना ॥8॥
विनेतृभर्तृद्वयभीतिदान्तयोः परस्परस्मादनवाप्तवैशसः ।
अजायत द्वारि नरेन्द्रसेनयोः समागमः स्फारमुखारवोद्गमः ॥9॥
निर्दिश्य बन्धूनित इत्युदीरितं दमेन गत्वार्धपथे कृतार्हणम् ।
विनीतमा द्वारत एव पद्गतां गतं तमैक्षिष्ट मुदा विदर्भराट् ॥10॥
अथायमुत्थाय विसार्य दोर्युगं मुदा प्रतीयेष तमात्मजन्मनः ।
सुरस्रवन्त्या इव पात्रमागतं भृताभितोवीचिगतिः सरित्पतिः ॥11॥
यथावदस्मै पुरुषोत्तमाय तां स साधुलक्ष्मीं बहुवाहिनीश्वरः ।
शिवामथ स्वस्य शिवाय नन्दनां ददे पतिः सर्वविदे महीभृताम् ॥12॥
असिस्वदद्यन्मधुपर्कमर्पितं स तद्व्यधात्तर्कमुदर्कदर्शिने ।
यदेष पास्यन्मधु भीमजाधरं मिषेण पुण्याहविधिं तदाकृत ॥13॥
वरस्य पाणिः परधातकौतुकी वधूकरः पङ्कजकान्तितस्करः ।
सुराज्ञि तौ तत्र विदर्भमण्डले ततो निबद्धौ किमु कर्कशैः कुशैः ॥14॥
विदर्भजायाः करवारिजेन यन्नलस्य पाणेरुपरि स्थितं किल ।
विशङ्क्य सूत्रं पुरुषायितस्य तद्भविष्यतोऽस्मायि तदा तदालिभिः ॥15॥
सखा यदस्मै किल भीमसंज्ञया स यक्षसख्याधिगतं ददौ भवः ।
ददौ तदेष श्वशुरः सुरोचितं नलाय चिन्तामणिदाम कामदम् ॥16॥
बहोर्दुरापस्य वराय वस्तुनश्चितस्य दातुं प्रतिबिम्बकैतवात् ।
बभौतरामन्तरवस्थितं दधद्यदर्थमभ्यर्थितदेयमर्थिने ॥17॥
असिं भवान्याः क्षतकासरासुरं वराय भीमः स्म ददाति भासुरम् ।
ददे हि तस्मै धवनामधारिणे स शंभुसंभोगनिमग्नयानया ॥18॥
अधारि यः प्राङ्नहिषासुरद्विषा कृपाणमस्मै तमदत्त कूकुदः ।
अहायि तस्या हि धवार्धमज्जिना स दक्षिणार्धेन पराङ्गदारणः ॥19॥
उवाह यः सान्द्रतराङ्गकाननः स्वशौर्यसूर्योदयपर्वतव्रतम्।
सनिर्झरः शाणनधौतधारया समूढसंध्यः क्षतशत्रुजासृजा ॥20॥
यमेन जिह्वा प्रहितेव या निजा तमात्मजां याचितुमर्थिना भृशम् ।
स तां ददेऽस्मै परिवारशोभिनीं करग्रहार्हामसिपुत्रिकामपि ॥21॥
यदङ्गभूमी बभतुः स्वयोषितामुरोजपत्त्रावलिनेत्रकज्जले ।
रणस्थलस्थण्डिलशायिताव्रतैर्गृहीतदीक्षैरिव दक्षिणीकृते ॥22॥
पुरैव तस्मिन्समदेशि तत्सुताभिकेन यः सौहृदनाटिनाग्निना ।
नलाय विश्राणयति स्म तं रथं नृपः सुलङ्घ्याद्रिसमुद्रकापथम् ॥23॥
प्रसूतवत्ता नलकूबरान्वयप्रकाशितास्यापि महारथस्य यत् ।
कुबेरदृष्टान्तबलेन पुष्पकप्रकृष्टतैतस्य ततोऽनुमीयते ॥24॥
महेन्द्रमुच्चैःश्रवसा प्रतार्य यन्निजेन पत्याऽकृत सिन्धुरन्वितम् ।
स तद्ददेऽस्मै हयरत्नमर्पितं पुराऽनुबन्धुं वरुणेन बन्धुताम् ॥25॥
जवादवारीकृतदूरदृक्पथस्तथाक्षियुग्माय ददे मुदं न यः ।
ददद्दिदृक्षादरदासतां यथा तयैव तत्पांसुलकण्ठनालताम् ॥26॥
दिवस्पतेरादरदर्शिनादरादढौकि यस्तं प्रति विश्वकर्मणा ।
तमेकमाणिक्यमयं महोन्नतं पतद्ग्रहं ग्राहितवान्नलेन सः ॥27॥
नलेन ताम्बूलविलासितोज्झितैर्मुखस्य यः पूगकणैर्भृतो न वा ।
इति व्यवेचि स्वमयूखमण्डलादुदञ्चदुच्चारुणचारुणश्चिरात् ॥28॥
मयेन भीमं भगवन्तमर्चता नृपेति पूजा प्रभुनाम्नि या कृता ।
अदत्त भीमोऽपि स नैषधाय तां हरिन्मणेर्भोजनभाजनम् महत् ॥29॥
छदे सदैव च्छविमस्य बिभ्रतां न केकिनां सर्पविषं विसर्पति ।
न नीलकण्ठत्वमधास्यदत्र चेत् स कालकूटं भगवानभोक्ष्यत ॥30॥
विराध्य दुर्वाससमस्खलद्दिवः स्रजं त्यजन्नस्य किमिन्द्रसिन्धुरः ।
अदत्त तस्मै स मदच्छलात्सदा यमभ्रमातङ्गतयैव वर्षुकम् ॥31॥
मदान्मदग्रे भवताथवा भिया परं दिगन्तादपि यात जीवत ।
इति स्म यो दिक्करिणः स्वकर्णयोर्विनैव वर्णस्रजमागतैर्गतैः ॥32॥
बभार बीजं निजकीर्तये रदौ द्विषामकीर्त्यै खलु दानविप्लुषः ।
श्रवःश्रमैः कुम्भकुचां शिरःश्रियं मुदे मदस्वेदवतीमुपास्त यः ॥33॥
न तेन वाहेषु विवाहदक्षिणीकृतेषु संख्यानुभवेऽभवत्क्षमः ।
न शातकुम्भेषु न मत्तकुम्भिषु प्रयत्नवान्कोऽपि न रत्नराशिषु ॥34॥
करग्रहे वाम्यमधत्त यस्तयोः प्रसाद्य भैम्यानु च दक्षिणीकृतः ।
कृतः पुरस्कृत्य ततो नलेन स प्रदक्षिणस्तत्क्षणमाशुशुक्षणिः ॥35॥
स्थिरा त्वमश्मेव भवेति मन्त्रवागनेशदाशास्य किमाशु तां ह्रिया ।
शिला चलेत्प्रेरणया नृणामपि स्थितेस्तु नाचालि बिडौजसापि सा ॥36॥
प्रियांशुकग्रन्थिनिबद्धवाससं तदा पुरोधा विदधे विदर्भजाम् ।
जगाद विच्छिद्य पटं प्रयास्यतो नलादविश्वासमिवैष विश्ववित् ॥37॥
ध्रुवावलोकाय तदुन्मुखभुवा निर्दिश्य पत्याभिदधे विदर्भजा ।
किमस्य न स्यादणिमाक्षिसाक्षिकस्तथापि तथ्यो महिमागमोदितः ॥38॥
धवेन सादर्शि वधूररुन्धतीं सतीमिमां पश्य गतामिवाणुताम् ।
कृतस्य पूर्वं हृदि भूपतेः कृते तृणीकृतस्वर्गपतेर्जनादिति ॥39॥
प्रसूनता तत्करपल्लवस्थितैरुडुच्छविर्व्योमविहारिभिः पथि ।
मुखेऽमराणामनले रदावलेरभाजि लाजैरनयोज्झितैर्द्युतिः ॥40॥
तया प्रतीष्टाहुतिधूमपद्धतिर्गता कपोले मृगनाभिशोभिताम् ।
ययौ दृशोरञ्जनतां श्रुतौ श्रिता तमाललीलामलिकेऽलकायिता ॥41॥
अपह्नुतः स्वेदभरः करे तयोस्त्रपाजुषोर्दानजलैर्मिलन्मुहुः ।
दृशोरपि प्रस्रुतमस्रु सात्त्विकं घनैः समाधीयत धूमलङ्घनैः ॥42॥
बहूनि भीमस्य वसूनि दक्षिणां प्रयच्छतः सत्त्वमवेक्ष्य तत्क्षणम् ।
जनेषु रोमाञ्चमितेषु मिश्रतां ययुस्तयोः कण्टककुड्मलश्रियः ॥43॥
बभूव न स्तम्भविजित्वरी तयोः श्रुतिक्रियारम्भपरम्परात्वरा ।
न कम्पसंपत्तिमलुम्पदग्रतः स्थितोऽपि वह्निः समिधा समेधितः ॥44॥
दमस्वसुः पाणिममुष्य गृह्णतः पुरोधसा संविदधेतरां विधेः ।
महर्षिणेवाङ्गिरसेन साङ्गता पुलोमजामुद्वहतः शतक्रतोः ॥45॥
सकौतुकागारमगात्पुरंध्रिभिः सहस्ररन्ध्रीकृतमीक्षितुं ततः ।
अधात्सहस्राक्षतनुत्रमित्रतामधिष्ठितं यत्खलु जिष्णुनामुना ॥46॥
तथाशनाय निरशेषि नो ह्रिया न सम्यगालोकि परस्परक्रिया ।
विमुक्तसंभोगमशायि सस्पृहं वरेण वध्वा च यथाविधि त्र्यहम् ॥47॥
कटाक्षणाज्जन्यजनैर्निजप्रजाः क्वचित्परीहारसमचीकर्त्तराम् ।
धराप्सरोभिर्वरयात्रयागतानभोजयद्भोजकुलाङ्कुरः क्वचित् ॥48॥
स कंचिदूचे रचयन्तु तेमनोपहारमत्राङ्गरुचेर्यथोचितम् ।
पिपासतः काश्चन सर्वतोमुखं तवार्पयन्तामपि काममोदनम् ॥49॥
मुखेन तेत्रोपविशत्वसाविति प्रयाच्य सृष्टानुमतिं खलाहसत् ।
वराङ्गभागः स्वमुखं मतोऽधुना स हि स्फुटं येन किलोपविश्यते ॥50॥
युवामिमे मे स्त्रितमे इतीरिणौ गले तथोक्ता निजगुच्छमेकिका ।
न भास्यदस्तुच्छगलो वदन्निति न्यधत्त जन्यस्य ततः पराकृषत् ॥51॥
नलाय वालव्यजनं विधुन्वती दमस्य दास्या निभृतं पदेऽर्पितात् ।
अहासि लोकैः सरटात्पटोज्झिनी भयेन जङ्घायतिलङ्घिरंहसः ॥52॥
पुरःस्थलाङ्गूलमदात्खला वृसीमुपाविशत्तत्र ऋजुर्वरद्विजः ।
पुनस्तदुत्थाप्य निजामतेर्वदाऽहसच्च पश्चात्कृतपुच्छतत्प्रदा ॥53॥
स्वयं कथाभिर्वरपक्षसुभ्रुवः स्थिरीकृतायाः पदयुग्ममन्तरा ।
परेण पश्चान्निभृतं न्यधापयद्ददर्श चादर्शतलं हसन्खलु ॥54॥
अथोपचारोद्धुरचारुलोचना विलासनिर्वासितधैर्यसंपदः ।
स्मरस्य शिल्पं वरवर्गविक्रिया विलोककं लोकमहासयन्मुहुः ॥55॥
तिरोवलद्वक्त्रसरोजनालया स्मिते स्मितं यत्खलु यूनि बालया ।
तया तदीये हृदये निखाय तद्व्यधीयतासंमुखलक्ष्यवेधिता ॥56॥
कृतं यदन्यत्करणोचितत्यजा दिदृक्षु चक्षुर्यदवारि बालया ।
हृदस्तदीयस्य तदेव कामुके जगाद वार्तामखिलां खलुं खलु ॥57॥
जलं ददत्याः कलितानतेर्मुखं व्यवस्यता साहसिकेन चुम्बितम् ।
पदे पतद्वारिणि मन्दपाणिना प्रतीक्षितोऽन्येक्षणवञ्चनक्षणः ॥58॥
युवानमालोक्य विदग्धशीलया स्वपाणिपाथोरुहनालनिर्मितः ।
श्लथोऽपि सख्यां परिधिः कलानिधौ दधावहो तं प्रति गाढबन्धताम् ॥59॥
नतभ्रुवः स्वच्छनखानुबिम्बनच्छलेन कोऽपि स्फुटकम्पकण्टकः ।
पयो ददत्याश्चरणे भृशं क्षतः स्मरस्य बाणैः शरणे न्यविक्षत ॥60॥
मुखं यदस्मायि विभुज्य सुभ्रुवा ह्रियं यदालम्ब्य नतास्यमासितम् ।
अवादि वा यन्मृदु गद्गदं युवा तदेव जग्राह तदाप्तिलग्नकम् ॥61॥
विलोक्य यूना व्यजनं विधुन्वतीमवाप्तसत्त्वेन भृशं प्रसिष्वदे ।
उदस्तकण्ठेन मृषोष्मनाटिना विजित्य लज्जां ददृशे तदाननम् ॥62॥
स तत्कुचस्पृष्टकचेष्टिदोर्लताचलद्दलाभव्यजनानिलाकुलः ।
अवाप नानानलजालशृङ्खलानिबद्धनीडोद्भवविभ्रमं युवा ॥63॥
अवच्छटा कापि कटाक्षणस्य सा तथैव भङ्गी वचनस्य काचन ।
यथा युवभ्यामनुनाथने मिथः कृशोऽपि दूतस्य न शेषितः श्रमः ॥64॥
पपौ न कोऽपि क्षममास्यमेलितं जलस्य गण्डूषमुदीतसंमदः ।
चुचुम्ब तत्र प्रतिबिम्बितं मुखं पुरः स्फुरत्याः स्मरकाऋमुकभ्रुवः ॥65॥
हरिन्मणेर्भोजनभाजनेऽर्पिते गताः प्रकोपं किल वारयात्रिकाः ।
भृतं न शाकैः प्रवितीर्णमस्ति वस्त्विषेदमेवं हरितेति बोधिताः ॥66॥
ध्रुवं विनीतः स्मितपूर्ववाग्युवा किमप्यपृच्छन्न विलोकयन्मुखम् ।
स्थितां पुरः स्फाटिककुट्टिमे वधूं तदङ्घ्रियुग्मावनिमध्यबद्धदृक् ॥67॥
अमी लसद्बाष्पमखण्डिताखिलं वियुक्तमन्योन्यममुक्तमाऋदवम् ।
रसोत्तरं गौरमपीवरं रसादभुञ्जतामोदनमोदनं जनाः ॥68॥
वयोवशस्तोकविकस्वरस्तनीं तिरस्तिरश्चुम्बति सुन्दरे दृशा ।
स्वयं किल स्रस्तमुरःस्थमम्बरं गुरुस्तनी ह्रीणतरा पराददे ॥69॥
यदादिहेतुः सुरभिः समुद्भवे भवेद्यदाज्यं सुरभिर्ध्रुवं ततः ।
वधूभिरेभ्यः प्रवितीर्य पायसं तदोघकुल्यातटसैकतं कृतम् ॥70॥
यदष्यपीता वसुधालयैः सुधा तदप्यदः स्वादु ततोऽनुमीयते ।
अपि क्रतूषर्बुधदग्धगन्धिने स्पृहां यदस्मै दधते सुधान्धसः ॥71॥
अबोधि नो ह्रीनिभृतं मदिङ्गितं प्रतीत्य वा नादृतवत्यसाविति ।
लुनाति यूनः स्म धियं कियद्गता निवृत्य बालादरदर्शनेषुणा ॥72॥
न राजिकाराद्धमभोजि तत्र कैर्मुखेन सीत्कारकृता दधद्दधि ।
धुतोत्तमाङ्गैः कटुभावपाटवादकाण्डकण्डूयितमूर्धतालुभिः ॥73॥
वियोगिदाहाय कटूभवत्त्विषस्तुषारभानोरिव खण्डमाहृतम् ।
सितं मृदु प्रागथ दाहदायि तत्खलः सुहृत्पूर्वमिवाहितस्ततः ॥74॥
नवौ युवानौ निजभावगोपिनावभूमिषु प्राग्विहितभ्रमिक्रमः ।
दृशोर्विधत्तः स्म यदृच्छया किल त्रिभागमन्योन्यमुखे पुनः पुनः ॥75॥
व्यधुस्तमां ते मृगमांससाधितं रसादशित्वा मृदु तेमनं मनः ।
निशाधवोत्सङ्गकुरङ्गजैरदः पलैः सपीयूषजलैः किमश्रपि ॥76॥
परस्पराकूतजदूतकृत्ययोरनङ्गमाराद्धुमपि क्षणं प्रति ।
निमेषणेनैव कियच्चिरायुषा जनेषु यूनोरुदपादि निर्णयः ॥77॥
अहर्निशा वेति रताय पृच्छति क्रमोष्णशीतान्नकरार्पणाद्विटे ।
ह्रिया विदग्धा किल तन्निषेधिनी न्यधत्त संध्यामधुरेऽधरेऽङ्गुलिम् ॥78॥
क्रमेण कूरं स्पृशतोष्मणः पदं सितां च शीतां चतुरेण वीक्षिता ।
दधौ विदग्धारुणितेऽधरेऽङ्गुलीमनौचितीचिन्तनविस्मिता किल ॥79॥
कियत्त्यजन्नोदनमानयन्कियत्करस्य पप्रच्छ गतागतेन याम् ।
अहं किमेष्यामि किमेष्यसीति सा व्यधत्त नम्रं किल लज्जयाननम् ॥80॥
यथामिषे जग्मुरनामिषभ्रमं निरामिषे चामिषमोहमूहिरे ।
तथा विदग्धैः परिकर्मनिर्मितं विचित्रमेते परिहस्य भोजिताः ॥81॥
नखेन कृत्वाधरसन्निभां निभाद्युवा मृदुव्यञ्जनमांसफालिकाम् ।
ददंश दन्तैः प्रशशंस तद्रसं विहस्य पश्यन्परिवेषिकाधरम् ॥82॥
अनेकसंयोजनया तथाकृतेर्निकृत्य निष्पिष्य च तादृगर्जनात् ।
अमी कृताकालिकवस्तुविस्मयं जना बहु व्यञ्जनमभ्यवाहरन् ॥83॥
पिपासुरस्मीति विबोधिता मुखं निरीक्ष्य बाला सुहितेन वारिणः ।
पुनः कर् कर्तुमना गलन्तिकां हसात्सखीनां सहसा न्यवर्तत ॥84॥
युवा समादित्सुरमत्रगं घृतं विलोक्य तत्रैणदृशोऽनुबिम्बनम् ।
चकार तन्नीविनिवेशिनं करं बभूव तच्च स्फुटकण्टकोत्करम् ॥85॥
प्रलेहजस्नेहधृतानुबिम्बनां चुचुम्ब कोऽपि श्रितभोजनच्छलः ।
मुहुः परिस्पृश्य कराङ्गुलीमुखैस्ततो नु रक्तैः स्वमवापितैर्मुखम् ॥86॥
अराधि यन्मीनमृगाजपत्त्रिजैः पलैर्मृदु स्वादु सुगन्धि तेमनम् ।
अशाकि लोकैः कुत एव जेमितुं न तत्तु संख्यातुमपि स्म शक्यते ॥87॥
कृतार्थनश्चाटुभिरिङ्गितैः पुरा परासि यः किंचनकुञ्चितभुवा ।
क्षिपन्मुखे भोजनलीलयाङ्गुलीः पुनः प्रसन्नाननयान्वकम्पि सः ॥88॥
अकारि नीहारनिभं प्रभञ्जनादधूपि यच्चागुरुसारदारुभिः ।
निपीय भृङ्गारकसङ्गि तत्र तैरवर्णि वारि प्रतिवारमीदृशम् ॥89॥
त्वया विधातर्यदकारि चामृतं कृतं च यज्जीवनमम्बु साधु तत् ।
वृथेदमारम्भि तु सर्वतोमुखस्तथोचितः कर्तुंिदंपिबस्तव ॥90॥
सरोजकोशाभिनयेन पाणिना स्थितेऽपि कूरे मुहुरेव याचते ।
सखि त्वमस्मै वितर त्वमित्युभे मिथो न वादाद्ददतुः किलौदनम् ॥91॥
इयं कियच्चारुकुचेति पश्यते पयःप्रदाया हृदयं समावृतम् ।
ध्रुवं मनोज्ञा व्यतरद्युदुत्तरं भिषेण भृङ्गारधृते करद्वयी ॥92॥
अमीभिराकण्ठमभोजि तद्गृहे तुषारधारामृदितेव शर्करा ।
हयद्विषद्बष्कयणीपयःसुतं सुधाह्रदात्पङ्कमिवोद्धृतं दधि ॥93॥
तदन्तरन्तः सुषिरस्य बिन्दुभिः करम्बितं कल्पयता जगत्कृता ।
इतस्ततः स्पष्टमचोरि मायिना निरीक्ष्य तृष्णाचलजिह्वताभृता ॥94॥
ददासि मे तन्न रुचेर्यदास्पदं न यत्र रागः सितयापि किं तया ।
इतीरिणे बिम्बफलं फलेच्छलाददायि बिम्बाधरयारुचेच्च तत् ॥95॥
समं ययोरिङ्गितवान्वयस्ययोस्तयोर्विहायोपहृतप्रतीङ्गिताम् ।
अकारि नाकूतमवारि सा यया विदग्धयाऽरञ्जि तयैव भाववित् ॥96॥
सखीं प्रति स्माह युवेङ्गितेक्षिणी क्रमेण तेऽयं क्षमते न दित्सुताम् ।
विलोम तद्व्यञ्जनमर्प्यते त्वया वरं किमस्मै न नितान्तमर्थिने ॥97॥
समाप्तिलिप्येव भुजिक्रियाविधेर्दलोदरं वर्तुलयालयीकृतम् ।
अलंकृतं क्षीरवटैस्तदश्नतां रराज पाकार्पितगैरिकश्रिया ॥98॥
चुचुम्ब नोर्वीवलयोर्वशीं परं पुरोऽधिपारि प्रतिबिम्बितां विटः ।
पुनःपुनः पानकपानकैतवाच्चकार तच्चुम्बनचुंकृतान्यपि ॥99॥
घनैरमीषां परिवेषकैर्जनैरवर्षि वर्षोपलगोलकावली ।
चलद्भुजाभूषणरत्नरोचिषा धृतेन्द्रचापैः श्रितचान्द्रसौरभा ॥100॥
कियद्बहु व्यञ्जनमेतदर्प्यते ममेति तृप्तेर्वदतां पुनःपुनः ।
अमूनि संख्यातुमसावढौकि तैश्छलेन तेषां कठिनीव भूयसी ॥101॥
विदग्धबालेङ्गितगुप्तिचातुरी प्रवह्लिकोत्पाटनपाटवे हृदः ।
निजस्य टीकां प्रबबन्ध कामुकः स्पृशद्भिराकूतशतैस्तदौचितीम् ॥102॥
घृतप्लुते भोजनभाजने पुरः स्फुरत्पुरंध्रिप्रतिबिम्बिताकृतेः ।
युवा निधायोरसि लड्डुकद्वयं नखैर्लिलेखाथ ममर्द निर्दयम् ॥103॥
विलोकिते रागितरेण सस्मितं ह्रियाथ वैमुख्यमिते सखीजने ।
तदालिरानीय कुतोऽपि शार्करीं करे ददौ तस्य विहस्य पुत्रिकाम् ॥104॥
निरीक्ष्य रम्याः परिवेषिका ध्रुवं न भुक्तमेवैभिरवाप्ततृप्तिभिः ।
अशक्नुविद्भिर्बहुभुक्तवत्तया यदुज्झिता व्यञ्जनपुञ्जराशयः ॥105॥
पृथक्प्रकारेङ्गितशंसिताशयो युवा ययोदासि तयापि तापितः ।
ततो निराशः परिभावयन्परामये तयातोषि सरोषायैव सः ॥106॥
पयः स्मिता मण्डकमण्डनाम्बरा वटाननेन्दुः पृथुलड्डुकस्तनी ।
पदं रुचेर्भोज्यभुजां भुजिक्रिया प्रिया बभूवोज्ज्वलकूरहारिणी ॥107॥
चिरं युवाकूतशतैः कृताऋथनश्चिरं सरोषेङ्गितया च निर्धुतः ।
सृजन्करक्षालनलीलयाञ्जलीनसेचि किंचिद्विधुताम्बुधारया ॥108॥
न षड्विधः षिङ्गजनस्य भोजने तथा यथा यौवतविभ्रमोद्भवः ।
अपारशृङ्गारमयः समुन्मिषन्भृशं रसस्तोषमधत्त सप्तमः ॥109॥
मुखे निधाय क्रमुकं नलानुगैरथौज्झि पर्णालिरवेक्ष्य वृश्चिकम् ।
दमार्पितान्तर्मुखवासनिर्मितं भयाविलैः स्वभ्रमहासिताखिलैः ॥110॥
अमीषु तथ्यानृतरत्नजातयोर्वराटराट्चारुनितान्तचारुणोः ।
स्वयं गृहाणैकमिहेत्युदीर्य तद्द्वयं ददौ शेषजिघृक्षवे हसन् ॥111॥
इति द्विकृत्वः शुचिमृष्टभोजिनां दिनानि तेषां कतिचिन्मुदा ययुः ।
द्विरष्टसंवत्सरवारसुन्दरीपरीष्टिभिस्तुष्टिमुपेयुषां निशि ॥112॥
उवास वैदर्भगृहेषु पञ्चषा निशाः कृशाङ्गीं परिणीय तां नलः ।
अथ प्रतस्थे निषधान्सहानया रथेन वार्ष्णेयगृहीतरश्मिना ॥113॥
परस्य न स्प्रष्टुमिमामधिक्रिया प्रिया शिशुः प्रांशुरसाविति ब्रुवन् ।
रथे स भैमीं स्वयमध्यरूरुहन्न तत्किलाश्लिक्षदिमां जनेक्षितः ॥114॥
इति स्मरः शीघ्रमतिश्चकार तं वधूं च रोमाञ्चभरेण कर्कशौ ।
स्खलिष्यति स्निग्धतनुः प्रियादियं म्रदीयसी पीडनभीरुदोर्युगात् ॥115॥
तथा किमाजन्मनिजाङ्कवर्धितां प्रहित्य पुत्रीं पितरौ विषेदतुः ।
विसृज्य तौ तं दुहितुः पतिं यथा विनीततालक्षगुणीभवद्गुणम् ॥116॥
निजादनुव्रज्य स मण्डलावधेर्नलं निवृत्तौ चटुलापतां गतः ।
तडागकल्लोल इवानिलं तटाद्धृतानतिर्व्याववृते वराटराट् ॥117॥
पितात्मनः पुण्यमनापदः क्षमा धनं मनस्तुष्टिरथाखिलं नलः ।
अतः परं पुत्रि न कोऽपि तेऽहमित्युदस्रुरेष व्यसृजन्निजौरसीम् ॥118॥
प्रियः प्रियैकाचरणाच्चिरेण तां पितुः स्मरन्तीमचिकित्सदाधिषु ।
तथास्त तन्मातृवियोगवाडवः स तु प्रियप्रेममहाम्बुधावपि ॥119॥
असौ महीभृद्बहुधातुमण्डितस्तया निजोपत्यकयेव कामपि ।
भुवा कुरङ्गक्षणदन्तिचारयोर्बभार शोभां कृतपादसेवया ॥120॥
तदेकतानस्य नृपस्य रक्षितुं चिरोढया भावमिवात्मनि श्रिया ।
विहाय सापत्न्यमरञ्जि भीमजा समग्रतद्वाञ्छितपूर्तिवृत्तिभिः ॥121॥
मसारमालावलितोरणां पुरं निजाद्वियोगादिव लम्बितालकाम् ।
ददर्श पश्यामिव नैषधः प्रियामथाश्रितोद्ग्रीविकमुन्नतैर्गृहैः ॥122॥
पुरीनिरीक्षान्यमना मनागिति प्रियाय भैम्या निभृतं विसर्जितः ।
ययौ कटाक्षः सहसा निवर्तिना तदीक्षणेनार्धपथे समागमम् ॥123॥
अथ नगरधृतैरमात्यरत्नैःपथि समियाय स जाययाभिरामः ।
मधुरिव कुसुमश्रिया सनाथः क्रममिलितैरलिभिः कुतूहलोत्कैः ॥124॥
कियदपि कथयन्स्ववृत्तजातं श्रवणकुतूहलचञ्चलेषु तेषु ।
कियदपि निजदेशवृत्तमेभ्यः श्रवणपथं स नयन्पुरीं विवेश ॥125॥
अथ पथि पथि लाजैरात्मनो बाहुवल्ली-
मुकुलकुलसकुल्यैः पूजयन्त्यो जयेति ।
क्षितिपतिमुपनेमुस्तं दधाना जनाना-
ममृतजलमृणालीसौकुमाऋयं कुमार्यः ॥126॥
अभिनवदमयन्तीकान्तिजालावलोक-
प्रवणपुरपुरन्ध्रीवक्त्रचन्द्रान्वयेन ।
निखिलनगरसौधाट्टावलीचन्द्रशालाः
क्षाणमिव निजसंज्ञांसान्वयामन्वभूवन् ॥127॥
निषधनृपमुखेन्दुश्रीसुधां सौधवाता-
यनविवरगरश्मिश्रेणिनालोपनीताम् ।
पपुरसमपिपासापांसुलत्वोत्परागा-
ण्यखिलपुरपुरन्ध्रीनेत्रनीलोत्पलानि ॥128॥
अवनिपतिपथाट्टस्त्रैणपाणिप्रवाल-
स्खलितसुरभिलाजव्याजभाजःप्रतीच्छन् ।
उपरि कुसुमवृष्टीरेष वैमानिकाना-
मभिनवकृतभैमीसौधभूमिं विवेश ॥129॥
इति परिणयमित्थं यानमेकत्र याने
दरचकितकटाक्षप्रेक्षणं चानयोस्तत् ।
दिवि दिविषदधीशाःकौतुकेनावलोक्य
प्रणिदधुरिवगन्तुं नाकमानन्दसान्द्राः ॥130॥
श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं
श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
काश्मीरैर्महिते चतुर्दशतयीं विद्यां विदद्भिर्महा-
काव्ये तद्भुवि नैषधीयचरिते सर्गोऽगमत्षोडशः ॥131॥
सप्तदश सर्गः
सम्पाद्यताम्अथारभ्य वृथाप्रायं धरित्रीधावनश्रमम् ।
सुराः सरस्वदुल्लोललीला जग्मुर्यथागतम् ॥1॥
भैमीं पत्ये भुवस्तस्मै चिरं चित्ते धृतामपि ।
विद्यामिव विनीताय न विषेदुः प्रदाय ते ॥2॥
कान्तिमन्ति विमानानि भेजिरे भासुराः सुराः ।
स्फटिकाद्रेस्तटानीव प्रतिबिम्बा विवस्वतः ॥3॥
जवाज्जातेन वातेन बलाकृष्टबलाहकैः ।
श्Vअसनात्स्वस्य शीघ्रत्वं रथैरेषामिवाकथि ॥4॥
कमाद्दवीयसां तेषां तदानीं समदृश्यत ।
स्पष्टमष्टगुणैश्वर्यात्पर्यवस्यन्निवाणिमा ॥5॥
ततान विद्युता तेषां रथे पीतपताकताम् ।
लब्धकेतुशिखोल्लेखा लेखा जलमुचः क्वचित् ॥6॥
पुनःपुनर्मिलन्तीषु पथि पाथोदपङ्क्तिषु ।
नाकनाथरथालम्बि बभूवाभरणं धनुः ॥7॥
जले जलदजालानां वज्रितज्रानुबिम्बनैः ।
जाने तत्कालजैस्तेषां जाताशनिसनाथता ॥8॥
स्फुटं सावर्णिवंश्यानां कुलच्छत्रं महीभुजाम् ।
चक्रे दण्डभृतश्चुम्बन्दण्डश्चण्डरुचिं क्वचित् ॥9॥
नलभीमभुवोः प्रेम्णि विस्मिताया दधौ दिवः ।
पाशिपाशः शिरःकम्पस्रस्तभूषश्रवःश्रियम् ॥10॥
पवनस्कन्धमारुह्य नृत्यत्तरकरः शिखी ।
अनेन प्रापि भैमीति भ्रमं चक्रे नभःसदाम् ॥11॥
तत्कर्णौ भारती दूनौ विरहाद्भीमजागिराम् ।
अध्वनि ध्वनिभिर्वैणिरनुकल्पैर्व्यनोदयत् ॥12॥
अथायान्तमवैक्षन्त ते जनौघमसित्विषम् ।
तेषां प्रत्युद्गमप्रीत्या मिलद्व्योमेव मूर्तिमत् ॥13॥
अद्राक्षुराजिहानं ते स्मरमग्रेसरं सुराः ।
अक्षाविनयशिक्षार्थं कलिनेव पुरस्कृतम् ॥14॥
अगम्यार्थं तृणप्राणाः पृष्ठस्थीकृतभीह्रियः ।
शम्भलीभुक्तसर्वस्वा जना यत्पारिपार्श्विकाः ॥15॥
बिभर्ति लोकजिद्भावं बुद्धस्य स्पर्धयेव यः ।
यस्येशतुलयेवात्र कर्तृत्वमशरीरिणः ॥16॥
ईश्वरस्य जगत्कृत्स्नं सृष्टिमाकुलयन्निमाम् ।
अस्ति योऽस्त्रीकृतस्त्रीकस्तस्य वैरं स्मरन्निव ॥17॥
चक्रे शक्रादिनेत्राणां स्मरः पीतनलश्रियाम् ।
अपि दैवतवैद्याभ्यामचिकित्स्यमरोचकम् ॥18॥
यत्तत्क्षिपन्तमुत्कम्पमुत्थायुकमथारुणम् ।
बुबुधुर्विबुधाः क्रोधमाक्रोशाक्रोशघोषणम् ॥19॥
यमुपासन्त दन्तौष्ठक्षतासृक्शिष्यचक्षुषः ।
भ्रुकुटीफणिनीनादनिभनिश्वासफूत्कृतः ॥20॥
दुर्गं कामाशुगेनापि दुर्लङ्घ्यमवलम्ब्य यः ।
दुर्वासोहृदयं लोकान्सेन्द्रानपि दिधक्षति ॥21॥
वैराग्यं यः करोत्युच्चै रञ्जनं जनयन्नपि ।
सूते सर्वेन्द्रियाच्छादि प्रज्वलन्नपि यस्तमः ॥22॥
पञ्चेषुविजयाशक्तौ भवस्य क्रुध्यतो जयात् ।
येनान्यविगृहीतारिजयकालनयः श्रितः ॥23॥
हस्तौ विस्तारयन्निभ्ये बिभ्यदर्धपथस्थवाक् ।
सूचयन्काकुमाकूतैर्लोभस्तत्र व्यलोकि तैः ॥24॥
दैन्यस्तैन्यमया नित्यमत्याहारामयाविनः ।
भुञ्जानजनसाकूतपश्या यस्यानुजीविनः ॥25॥
धनिदानाम्बुवृष्टेर्यः पात्रपाणाववग्रहः ।
स्वान्दासानिव हा निःस्वाद्विक्रीणीतेऽर्थवत्सु यः ॥26॥
एकद्विकरणे हेतू महापातकपञ्चके ।
न तृणे मन्यते कोपकामौ यः पञ्च कारयन् ॥27॥
यः सर्वेन्द्रियसद्मापि जिह्वां बह्ववलम्बते ।
तस्यामाचार्यकं याञ्जाबटवे पाटवेऽर्जितुम् ॥28॥
पथ्यां तथ्यामगृह्णन्तमन्धं बन्धुप्रबोधनाम् ।
शून्यमाश्लिष्य नोज्झन्तं मोहमैक्षन्त हन्त ते ॥29॥
श्वःश्वः प्राणप्रयाणेऽपि न स्मरन्ति स्मरद्विषाः ।
मग्नाः कुटुम्बजम्बाले बालिशा यदुपासिनः ॥30॥
पुंसामलब्धनिर्वाणज्ञानदीपमयात्मनाम् ।
अन्तर्म्लापयति व्यक्तं यः कज्जलवदुज्ज्वलम् ॥31॥
ब्रह्मचारिवनस्थायियतयो गृहिणं यथा ।
त्रयो यमुपजीवन्ति क्रोधलोभमनोभवाः ॥32॥
जाग्रतामपि निद्रा यः पश्यतामपि योऽन्धता ।
शृउते सत्यपि जाड्यं यः प्रकाशेऽपि च यस्तमः ॥33॥
कुरुसैन्यं हरेणेव प्रागलज्जत नाऋजुनः ।
हतं येन जयन्कामस्तमोगुणजुषा जगत् ॥34॥
चिह्निताः कतिचिद्देवैः प्राचः परिचयादमी ।
अन्ये न केचनाचूडमेनः कञ्चुकमेचकाः ॥35॥
तत्रोद्गूर्ण इवार्णोधौ सैन्येऽभ्यर्णमुपेयुषि ।
कस्याप्याकर्णयामासुस्ते वर्णान्कर्णकर्कशान् ॥36॥
ग्रावोन्मज्जनवद्यज्ञफलेति श्रुतिसत्यता ।
का श्रद्धा तत्र धीवृद्धाः कामाध्वा यत्खिलीकृतः ॥37॥
केनापि बोधिसत्त्वेन जातं सत्त्वेन हेतुना ।
यद्वेदमर्मभेदाय जगदे जगदस्थिरम् ॥38॥
अग्निहोत्रं त्रयीतन्त्रं त्रिदण्डं भस्मपुण्ड्रकम् ।
प्रज्ञापौरुषानिःस्वानां जीवो जल्पति जीविका ॥39॥
शुद्धिर्वंशद्वयीशुद्धौ पित्रोः पित्रोर्यदेकशः ।
तदानन्तकुलादोषाददोषा जातिरस्ति का ॥40॥
कामिनीवर्गसंसर्गैर्न कः संक्रान्तपातकः ।
नाश्नाति स्नाति हा मोहात्कामक्षामव्रतं जगत् ॥41॥
ईर्ष्यया रक्षतो नारीर्धिक्कुलस्थितिदाम्भिकान् ।
स्मरान्धत्वाविशेषेऽपि तथा नरमरक्षतः ॥42॥
परदारनिवृत्तिर्या सोऽयं स्वयमनादृतः ।
अहल्याकेलिलोलेन दम्भो दम्भोलिपाणिना ॥43॥
गुरुतल्पगतौ पापकल्पनां त्यजत द्विजाः ।
येषां वः पत्युरत्युच्चैर्गुरुदारग्रहे ग्रहः ॥44॥
पापात्तापा मुदः पुण्यात्परासोः स्युरिति श्रुतिः ।
वैपरीत्यं द्रुतं साक्षात्तदाख्यात बलाबले ॥45॥
संदेहेऽप्यन्यदेहाप्तेर्विवर्ज्यं वृजिनं यदि ।
त्यजत श्रोत्रियाः सत्त्रं हिंसादूषणसंशयात् ॥46॥
यस्त्रिवेदीविदां वन्द्यः स व्यासोऽपि जजल्प वः ।
रामाया जातकामायाः प्रशस्ता हस्तधारणा ॥47॥
सुकृते वः कथं श्रद्धा सुरते च कथं न सा ।
तत्कर्म पुरुषः कुर्याद्येनान्ते सुखमेधते ॥48॥
बालात्कुरुत पापानि सन्तु तान्यकृतानि वः ।
सर्वान्बलकृतान्दोषानकृतान्मनुरब्रवीत् ॥49॥
स्वागमार्थेऽपि मा स्थास्मिंस्तीर्थिका विचिकित्सवः ।
तं तमाचरतानन्दं स्वच्छन्दं यं यमिच्छथ ॥50॥
श्रुतिस्मृत्यर्थबोधेषु क्वैकमत्यं महाधियाम् ।
व्याख्या बुद्धिबलापेक्षा सा नोपेक्ष्य सुखोन्मुखी ॥51॥
यस्मिन्नस्मीति धीर्देहे तद्दाहे वः किमेनसा ।
क्वापि तत्किं फलं न स्यादात्मेति परसाक्षिके ॥52॥
मृतः स्मरति जन्मानि मृते कर्मफलोर्मयः ।
अन्यभुक्तैर्मृते तृप्तिरित्यलं धूर्तवार्तया ॥53॥
जनेन जनतास्मीति कायं नायं त्वमित्यसौ ।
त्याज्यते ग्राह्यते चान्यदहो श्रुत्यातिधूर्तया ॥54॥
एकं संदिग्धयोस्तावद्भावि तत्रेष्टजन्मनि ।
हेतुमाहुः स्वमन्त्रादीनसङ्गानन्यथा विटाः ॥55॥
एकस्य विश्वपापेन तापेऽनन्ते निमज्जतः ।
कः श्रौतस्यात्मनो भीरो भारः स्याद्दुरितेन ते ॥56॥
किं ते वृन्तहृतात्पुष्पात्तन्मात्रे हि फलत्यदः ।
न्यस्य तन्मूर्ध्न्यनन्यस्य न्यास्यमेवाश्मनो यदि ॥57॥
तृणानीव घृणावादान्विधूनय वधूरनु ।
तवापि तादृशस्यैव का चिरं जनवञ्चना ॥58॥
कुरुध्वं कामदेवाज्ञां ब्रह्माद्यैरप्यलङ्घिताम् ।
वेदोऽपि देवकीयाज्ञा तत्राज्ञाः काधिकार्हणा ॥59॥
प्रलापमपि वेदस्य भागं मन्यध्व एव चेत् ।
केनाभग्येन दुःखान्न विधीनपि तथेच्छथ ॥60॥
श्रुतिं श्रद्धत्थ विक्षिप्ताः प्रक्षिप्तां ब्रूथ च स्वयम् ।
मीमांसामांसलप्रज्ञास्तां यूपद्विपदापिनीम् ॥61॥
को हि वेदास्त्यमुष्मिन्वा लोक इत्याह या श्रुतिः ।
तत्प्रामाण्यादमुं लोकं लोकः प्रत्येतु वा कथम् ॥62॥
धर्माधर्मौ मनुर्जल्पन्नशक्यार्जनवर्जनौ ।
व्याजान्मण्डलदण्डार्थी शृअदधायि मुधा बुधैः ॥63॥
व्यासस्यैव गिरा तस्मिञ्श्रद्धेत्यद्धा स्थ तान्त्रिकाः ।
मत्स्यस्याप्युपदेश्यान्वः को मत्स्यानपि भाषताम् ॥64॥
पण्डितः पाण्डवानां स व्यासश्चाटुपटुः कविः ।
निनिन्द तेषु निन्दत्सु स्तुवत्सु स्तुतवान्न किम् ॥65॥
न भ्रातुः किल देव्यां स व्यासः कामात्समासजत् ।
दासीरतस्तदासीद्यन्मात्रा तत्राप्यदेशि किम् ॥66॥
देवैर्द्विजैः कृता ग्रन्थाः पन्था येषां तदादृतौ ।
गां नतैः किं न तैर्व्यक्तं ततोऽप्यात्माधरीकृतः ॥67॥
साधुकामुकतामुक्ता शान्तस्वान्तैर्मखोन्मुखैः ।
सारङ्गलोचनासारां दिवं प्रेत्यापि लिप्सुभिः ॥68॥
कः शमः क्रियतां प्राज्ञाः प्रियाप्रीतौ परिश्रमः ।
भस्मीभूतस्य भूतस्य पुनरागमनं कुतः ॥69॥
उभयी प्रकृतिः कामे सज्जेदिति मुनेर्मनः ।
अपवर्गे तृतीयेति भणतः पाणिनेरपि ॥70॥
बिभ्रत्युपरियानाय जना जनितमज्जनाः ।
विग्रहायाग्रतः पश्चाद्गत्वरोरभ्रविभ्रमम् ॥71॥
एनसानेन तिर्यक्स्यादित्यादिः का बिभीषिका ।
राजिलोऽपि हि राजेव स्वैः सुखी सुखहेतुभिः ॥72॥
हताश्चेद्दिवि दीव्यन्ति दैत्या दैत्यारिणा रणे ।
तत्रापि तेन युध्यन्तां हता अपि तथैव ते ॥73॥
स्वं च ब्रह्म च संसारे मुक्तौ तु ब्रह्म केवलम् ।
इति स्वोच्छित्तिमुक्त्युक्तिवैदग्धी वेदवादिनाम् ॥74॥
मुक्तये यः शिलात्वाय शास्त्रमूचे सचेतसाम् ।
गोतमं तमवेक्ष्यैव यथा वित्थ तथैव सः ॥75॥
दारा हरिहरादीनां तन्मग्नमनसो भृशम् ।
किं न मुक्ताःकुतः सन्ति कारागारे मनोभुवः ॥76॥
देवश्चेदस्ति सर्वज्ञः करुणाभागवन्ध्यवाक् ।
तत्किं वाग्व्ययमात्रान्नः कृतार्थयति नाऋथिनः ॥77॥
भविनां भावयन्दुःखं स्वकर्मजमपीश्वरः ।
स्यादकारणवैरी नः कारणादपरे परे ॥78॥
तर्काप्रतिष्ठया साम्यादन्योन्यस्य व्यतिघ्नताम् ।
नाप्रामाण्यं मतानां स्यात्केषां सत्प्रतिपक्षवत् ॥79॥
अक्रोधं शिक्षयन्त्यन्यैः क्रोधना ये तपोधनाः ।
निर्धनास्ते धनायैव धातुवादोपदेशिनः ॥80॥
किं वित्तं दत्त तुष्टेयमदातरि हरिप्रिया ।
दत्त्वा सर्वं धनं मुग्धो बन्धनं लब्धवान्बलिः ॥81॥
दोग्धा द्रोग्धा च सर्वोऽयं धनिनश्चेतसा जनः ।
विसृज्य लोभसंक्षोभमेकद्वा यद्युदासते ॥82॥
दैन्यस्यायुष्यमस्तैन्यमभक्ष्यं कुक्षिवञ्चना ।
स्वाच्छन्द्यमृच्छतानन्दकन्दलीकन्दमेककम् ॥83॥
इत्थमाकर्ण्य दुर्वर्णं शक्रः सक्रोधतां दधे ।
अवोचदुच्चैः कस्कोयं धर्ममर्माणि कृन्तति ॥84॥
लोकत्रयीं त्रयीनेत्रां वज्रवीर्यस्फुरत्करे ।
क इत्थं भाषते पाकशासने मयि शासति ॥85॥
वर्णासंकीर्णतायां वा जात्यलोपोऽन्यथापि वा ।
ब्रह्महादेः परीक्षासु भङ्गमङ्ग प्रमाणय ॥86॥
ब्राह्मण्यादिप्रसिद्धाया गन्ता यन्नेक्षते जयम् ।
तद्विशुद्धिमशेषस्य वर्णवंशस्य शंसति ॥87॥
जलानलपरीक्षादौ संवादो वेदवेदिते ।
गलहस्तितनास्तिक्यां धिग्धियं कुरुतेऽनते ॥88॥
सत्येव पतियोगादौ गर्भादेरध्रुवोदयात् ।
आक्षिप्तं नास्तिकाः कर्म न किं मर्म भिनत्ति वः ॥89॥
याचतः स्वगयाश्राद्धं प्रेतस्याविश्य कंचन ।
नानादेशजनोपज्ञाः प्रत्येषि न कथाः कथम् ॥90॥
नीतानां यमदूतेन नामभ्रान्तेरुपागतौ ।
श्रद्धत्से संवदन्तीं न परलोककथां कथम् ॥91॥
जज्वाल ज्वलनः क्रोधादाचख्यौ चाक्षिपन्नमुम् ।
किमात्थ रे किमात्थेदमस्मदग्रे निरर्गलम् ॥92॥
महापराकिणः श्रौतधर्मैकबलजीविनः ।
क्षणाभक्षणमूर्च्छाल स्मरन्विस्मयसे न किम् ॥93॥
पुत्रेष्टिश्येनकारीरीमुखा दृष्टफला मखाः ।
न वः किं धर्मसंदेहमन्देहजयभानवः ॥94॥
दण्डताण्डवनैः कुर्वन्स्फुलिङ्गालिङ्गितं नभः ।
निर्ममेऽथ गिरामूर्मीर्भिन्नमर्मेव धर्मराट् ॥95॥
तिष्ठ भोस्तिष्ठ कण्ठोष्ठं कुण्ठयामि हठादयम् ।
अपष्ठु पठतः पाठ्यमधिगोष्ठि शठस्य ते ॥96॥
वेदैस्तद्वेषिभिस्तद्वत्स्थिरं मतशतैः कृतम् ।
परं कस्ते परं वाचा लोकं लोकायत त्यजेत् ॥97॥
समज्ञानाल्पभूयिष्ठपान्थवैमत्यमेत्य यम् ।
लोके प्रयासि पन्थानं परलोके न तं कुतः ॥98॥
स्वकन्यामन्यसात्कर्तुं विश्वानुमतिदृश्वनः ।
लोके परत्र लोकस्य कस्य न स्यादृढं मनः ॥99॥
कस्मिन्नपि मते सत्ये हताः सर्वमतत्यजः ।
तद्दृष्ट्या व्यर्थतामात्रमनर्थस्तु न धर्मजः ॥100॥
क्वापि सर्वैरवैमत्यात्पातित्यादन्यथा क्वचित् ।
स्थातव्यं श्रौत एव स्याद्धर्मे शेषेऽपि तत्कृतेः ॥101॥
बभाण वरुणः क्रोधादरुणः करुणोज्झितम् ।
किं न प्रचण्डात्पाखण्डपाश पाशाद्बिभेषि नः ॥102॥
मानवाशक्यनिर्माणा कूर्माद्यङ्कबिला शिला ।
न श्रद्धापयते मुग्धास्तीर्थिकाध्वनि वः कथम् ॥103॥
शतक्रतूरुजाद्याख्याविख्यातिर्नास्तिकाः कथम् ।
श्रुतिवृत्तान्तसंवादैर्न वश्चमदचीकरत् ॥104॥
तत्तज्जनकृतावेशान्गयाश्राद्धादियाचिनः ।
भूताननुभवन्तोऽपि कथं श्रद्धत्थ न श्रुतीः ॥105॥
नामभ्रमाद्यमं नीतानथ स्वतनुमागतान् ।
संवादवादिनो जीवान्वीक्ष्य मा त्यजत श्रुतीः ॥106॥
संरम्भैर्जम्भजैत्रादेस्तभ्यमानाद्बलाद्वलन् ।
मूर्धबद्धाञ्जलिर्देवानथैवं कश्चिदूचिवान् ॥107॥
नापराधी पराधीनो जनोऽयं नाकनायकाः ।
कालस्याहं कलेर्बन्दी तच्चाटुचटुलाननः ॥108॥
इति तस्मिन्वदत्येव देवाः स्यन्दनमन्दिरम् ।
कलिमाकलयांचक्रुर्द्वापरं चापरं पुरः ॥109॥
संददर्शोन्नमद्ग्रीवः श्रीबहुत्वकृताद्भुतान् ।
तत्तत्पापपरीतस्तान्नाकीयान्नारकीव सः ॥110॥
गुरुरीढावलीढः प्रागभून्नमितमस्तकः ।
स त्रिशङ्कुरिवाक्रान्ततेजसेव बिडौजसः ॥111॥
विमुखान्द्रष्टुमप्येनं जनंगम इव द्विजान् ।
एष मत्तः सहेलं तानुपेत्य समभाषत ॥112॥
स्वस्ति वास्तोष्पते तुभ्यं शिखिन्नस्ति न खिन्नता ।
सखे काल सुखेनासि पाशहस्त मुदस्तव ॥113॥
स्वयंवरमहे भैमीवरणाय त्वरामहे ।
तदस्माननुमन्यध्वमध्वने तत्र धाविने ॥114॥
तेऽवज्ञाय तमस्योच्चैरहंकारमकारणम् ।
ऊचिरेऽतिचिरेणैनं स्मित्वा दृष्टमुखा मिथः ॥115॥
पुनर्वक्ष्यसि मा मैवं कथमुद्वक्ष्यसे तु सः ।
सृष्टवान्परमेष्ठी यं नैष्ठिकब्रह्मचारिणम् ॥116॥
द्रोहिणं द्रुहिणो वेत्तु त्वामाकर्ण्यावकीर्णिनम् ।
त्वज्जनैरपि वा धातुः सेतुर्लङ्घ्यस्त्वया न किम् ॥117॥
अतिवृत्तः स वृत्तान्तस्त्रिजगद्युवगर्वनुत् ।
आगच्छतामपादानं स स्वयंवर एव नः ॥118॥
नागेषु सानुरागेषु पश्यत्सु दिविषत्सु च ।
भूमिपालं नरं भैमी वरं साऽववरद्वरम् ॥119॥
भुजगेशानसद्वेशान्वानरानितरान्नरान् ।
अमरान्पामरान्भैमी नलं वेद गुणोज्ज्वलम् ॥120॥
इति श्रुत्वा स रोषान्धः परमश्चरमं युगम् ।
जगन्नाशनिशारुद्रमुद्रस्तानुक्तवानदः ॥121॥
कयापि क्रीडतु ब्रह्मा दिव्याः स्त्रीर्दीव्यत स्वयम् ।
कलिस्तु चरतु ब्रह्म प्रैतु वातिप्रियाय वः ॥122॥
चर्येव कतमेयं वः परस्मै धर्मदेशिनाम् ।
स्वयं तत्कुर्वतां सर्वं श्रोतुं यद्बिभितः श्रुती ॥123॥
तत्र स्वयंवरेऽलम्भि भुवः श्रीर्नैषाधेन सा ।
जगतो ह्रीस्तु युष्माभिर्लाभस्तुल्याभ एव वः ॥124॥
दूरान्नः प्रेक्ष्य यौष्माकी युक्तेयं वक्त्रवक्रणा ।
लज्जयैवासमर्थानां मुखमास्माकमीक्षितुम् ॥125॥
स्थितं भवद्भिः पश्यद्भिः कथं भोस्तदसांप्रतम् ।
निर्दग्धा दुर्विदग्धा किं सा दृशा न ज्वलत्क्रुधा ॥126॥
महावंशाननादृत्य महान्तमभिलाषुका ।
स्वीचकार कथंकारमहो सा तरलं नलम् ॥127॥
भवादृशैर्दिशामीशैर्मृग्यमाणां मृगेक्षणाम् ।
स्वीकुर्वाणः कथं सोढः कृतरीढस्तृणं नलः ॥128॥
दारुणः कूटमाश्रित्य शिखी साक्षीभवन्नपि ।
नावहत्किं तदुद्वाहे कूटसाक्षिक्रियामयम् ॥129॥
अहो महःसहायानां संभूता भवतामपि ।
क्षमैवास्मै कलङ्काय देवस्येवामृतद्युतेः ॥130॥
सा वव्रे यं तमुत्सृज्य मह्यमीर्ष्याजुषाः स्थ किम् ।
ब्रूतागः सद्मनस्तस्माच्छद्मनाद्याच्छिनद्मि तान् ॥131॥
यतध्वं सहकर्तुं मां पाञ्चाली पाण्डवैरिव ।
सापि पञ्चभिरस्माभिः संविभज्यैव भुज्यताम् ॥132॥
अथापरिवृढा सोढुं मूर्खतां मुखरस्य ताम् ।
चक्रे गिरा शराघातं भारती सारतीव्रया ॥133॥
कीर्तिं भैमीं वरं चास्मै दातुमेवागमन्नमी ।
न लीढे धीरवैदग्धीं धीरगम्भीरगाहिनी ॥134॥
वाग्ग्मिनीं जडजिह्वस्तां प्रतिवक्तुमशक्तिमान् ।
लीलावहेलितां कृत्वा देवानेवावदत्कलिः ॥135॥
प्रौञ्छि वाञ्छितमस्माभिरपि तां प्रति संप्रति ।
तस्मिन्नले न लेशोऽपि कारुण्यस्यास्ति नः पुनः ॥136॥
वृत्ते कर्मणि कुर्मः किं तदा नाभूम तत्र यत् ।
कालोचितमिदानीं यः शृणुतालोचितं पुनः ॥137॥
प्रतिज्ञेयं नले विज्ञाः कलेर्विज्ञायतां मम ।
तेन भैमीं च भूमिं च त्याजयामि जयामि तम् ॥138॥
नैषधेन विरोधं मे चण्डतामण्डितैजसः ।
जगन्ति हन्त गायन्तु रवेः कैरववैरवत् ॥139॥
द्वापरः साधुकारेण तद्विकारमदीदिपत् ।
प्रणीय श्रवणे पाणिमवोचन्नमुचे रिपुः ॥140॥
विस्मेयमतिरस्मासु साधु वैलक्ष्यमीक्षसे ।
यद्दत्तेऽल्पमनल्पाय तद्दत्ते ह्रियमात्मनः ॥141॥
फलसीमां चतुर्वर्गं यच्छतांशोऽपि यच्छति ।
नलस्यास्मदुपघ्ना सा भक्तिर्भूतावकेशिनी ॥142॥
भव्यो न व्यवसायस्ते नले साधुमतौ कले ।
लोकपालविशालोऽयं निषाधानां सुधाकरः ॥143॥
न पश्यामः कलेस्तस्मिन्नवकाशं क्षामाभृति ।
निचिताखिलधर्मे च द्वापरस्योदयं वयम् ॥144॥
सा विनीतअतमा भैमी व्यर्थानर्थग्रहैरहो ।
कथं भवद्विधैर्बाध्या प्रमितिर्विभ्रमैरिव ॥145॥
तं नासत्ययुगं तां वा त्रेता स्पर्धितुमर्हति ।
एकप्रकाशधर्माणं न कलिद्वापरौ युवाम् ॥146॥
करिष्येऽवश्यमित्युक्तिः करिष्यन्नपि दुष्यसि ।
दृष्टादृष्टा हि नायत्ताः कार्यीया हेतवस्तव ॥147॥
द्रोहं मोहेन यस्तस्मिन्नाचरेदचिरेण सः ।
तत्पापसंभवं तापमाप्नुयादनयात्ततः ॥148॥
युगशेष तव द्वेषस्तस्मिन्नेष न सांप्रतम् ।
भविता न हितायैतद्वैरं ते वैरसेनिना ॥149॥
तत्र यामीत्यसज्ज्ञानं राजसं सदिहास्यताम् ।
इति तर गतो मा गा राजसंसदि हास्यताम् ॥150॥
गत्वान्तरा नलं भैमीं नाकस्मात्त्वं प्रवेक्ष्यसि ।
षण्णां चक्रमसंयुक्तं पठ्यमानं डकारवत् ॥151॥
अपरेऽपि दिशामीशा वाचमेतां शचीपतेः ।
अन्वमन्यन्त किंत्वेनां नादत्त युगयोर्युगम् ॥152॥
कलिं प्रति कलिं देवा देवान्प्रत्येकशः कलिः ।
सोपहासं समैर्वर्णैरित्थं व्यररचन्मिथः ॥153॥
तवाऽगमनमेवार्हं वैरसेनौ तया वृते ।
उद्वेगेन विमानेन किमनेनापि धावता ॥154॥
पुरा यासि वरीतुं यामग्र एव तया वृते ।
अन्यस्मिन्भवतो हास्यं वृत्तमेतत्त्रपाकरम् ॥155॥
पत्यौ तया वृतेऽन्यस्मिन्यदर्थं गतवानसि ।
भवतः कोपरोधस्तादक्षमस्य वृथारुषः ॥156॥
यासि स्मरञ्जयन्कान्त्या योजनौघं महार्वता ।
समूढस्तं वृतेऽन्यस्मिन्किं न हीस्तेऽत्र पामर ॥157॥
नलं प्रत्यनपेतार्ति तार्तीयीकतुरीययोः ।
युगयोर्युगलं बुद्ध्वा दिवि देवा धियं दधुः ॥158॥
द्वापरैकपरीवारः कलिर्मत्सरमूर्च्छितः ।
नलनिग्राहिणीं यात्रां जग्राह ग्रहिलः किल ॥159॥
नलेष्टापूर्तसंपूर्तेर्दूरं दुर्गानमुं प्रति ।
निषेधन्निषधान्गन्तुं विघ्नः संजघटे घनः ॥160॥
मण्डलं निषाधेन्द्रस्य चन्द्रस्येवामलं कलिः ।
प्राप म्लापयितुं पापः स्वर्भानुरिव संग्रहात् ॥161॥
कियतापि च कालेन कालः कलिरुपेयिवान् ।
भैमीभर्तुरहंमानी राजधानीं महीभुजः ॥162॥
वेदानुद्धरतां तत्र मुखादाकर्णयन्पदम् ।
न प्रसारयितुं कालः कलिः पदमपारयत् ॥163॥
श्रुतिपाठकवक्त्रेभ्यस्तत्राकर्णयतः क्रमम् ।
क्रमः संकुचितस्तस्य पुरे दूरमवर्तत ॥164॥
तावद्गतिर्धृताटोपा पादयोस्तेन संहिता ।
न वेदपाठिकण्ठेभ्यो यावदअश्रावि संहिता ॥165॥
तस्य होमाज्यगन्धेन नासा नाशमिवागमत् ।
तथातत दृशौ नासौ क्रतुधूमकदर्थितः ॥166॥
अतिथीनां पदाम्भोभिरिमं प्रत्यतिपिच्छिले ।
अङ्गणे गृहिणां तत्र खलेनानेन चस्खले ॥167॥
पुटपाकमसौ प्राप क्रतुशुष्ममहोष्मभिः ।
तत्प्रत्यङ्गमिवाकर्ति पूर्तोर्मिव्यजनानिलैः ॥168॥
पित्ṝणां तर्पणे वर्णैः कीर्णाद्वेश्मनि वेश्मनि ।
कालादिव तिलात्कालाद्दूरमत्रसदत्र सः ॥169॥
स्नात्ṝणां तिलकैर्मेने स्वमन्तर्दीर्णमेव सः ।
कृपाणीभूय हृदयं प्रविष्टैरिव तत्र तैः ॥170॥
पुमांसं मुमुदे तत्र विदन्मिथ्यावदावदम् ।
स्त्रियं प्रति तथा वीक्ष्य तमथ म्लानवानयम् ॥171॥
यज्ञयूपघनां जज्ञौ स पुरं शङ्कुसंकुलाम् ।
जनैर्धर्मधनैः कीर्णां व्यालक्रोडीकृतां च ताम् ॥172॥
स पार्श्वमशकद्गन्तुं न वराकः पराकिणाम् ।
मासोपवासिनां छायालङ्घने घनमस्खलत् ॥173॥
आवाहितां द्विजैस्तत्र गायत्रीमर्कमण्डलात् ।
स संनिदधतीं पश्यन्दृष्टनष्टोऽभवद्भिया ॥174॥
स गृहे गृहिभिः पूर्णे वने वैखानसैर्घने ।
यत्याधारेऽमरागारे क्वापि न स्थानमानशे ॥175॥
क्वापि नापश्यदन्विष्यन्हिंसामात्मप्रियामसौ ।
स्वमित्त्रं तत्र न प्राप्नोदपि मूर्खमुखे कलिम् ॥176॥
हिंसागवीं मखे वीक्ष्य रिरंसुर्धावति स्म सः ।
सा तु सौम्यवृषासक्ता खरं दूरान्निरास तम् ॥177॥
मौनेन व्रतनिष्ठानां स्वाक्रोशं मन्यते स्म सः ।
वन्द्यवन्दारुभिर्जज्ञौ स्व शिरश्च पदाहतम् ॥178॥
ऋषीणां स बृसीः पाणौ पश्यन्नाचामतामपः ।
मेने घनैरमी हन्तुं शप्तुं मामद्भिरुद्यताः ॥179॥
मौञ्जीधृतो धृताषाढानाशशङ्के स वर्णिनः ।
रज्ज्वामी बन्द्धुमायान्ति हन्तुं दण्डेन मां ततः ॥180॥
दृष्ट्वा पुरः पुरोडाशमासीदुत्त्रासदुर्मनाः ।
मन्वानः फणिनीस्तत्र स मुमोचास्रु च स्रुचः ॥181॥
मुमुदे मदिरादानं विदन्नेष द्विजन्मनः ।
दृष्ट्वा सौत्रामणीमिष्टिं तं कुर्वन्तमदूयत ॥182॥
अपश्यद्यावतो वेदविदां ब्रह्माञ्जलीनसौ ।
उदडीयन्त तावन्तस्तस्यास्राञ्जलयो हृदः ॥183॥
स्नातकं घातकं जज्ञे जज्ञौ दान्तं कृतान्तवत् ।
वाचंयमस्य दृष्ट्येव यमस्येव बिभाय सः ॥184॥
स पाखण्डजनान्वेषी प्राप्नुवन्वेदपण्डितान् ।
जलार्थीवानलं प्राप्य पापस्तापादपासरत् ॥185॥
तत्र ब्रह्महणं पश्यन्नतिसंतोषामानशे ।
निर्वर्ण्य सर्वमेधस्य यज्वानं ज्वरति स्म सः ॥186॥
यतिहस्तस्थितैस्तस्य राम्भैरारम्भि तर्जना ।
दुर्जनस्याजनि क्लिष्टिर्गृहिणां वेदयष्टिभिः ॥187॥
मण्डलत्यागमेवैच्छद्वीक्ष्य स्थण्डिलशायिनः ।
पवित्रालोकनादेष पवित्रासमविन्दत ॥188॥
अपश्यञ्जिनमन्विष्यन्नजिनं ब्रह्मचारिणा ।
क्षपणार्थी सदीक्षस्य स चाक्षपणमैक्षत ॥189॥
जपतामक्षमालासु बीजाकर्षणदर्शनात् ।
स जीवाकृष्टिकष्टानि विपरीतदृगन्वभूत् ॥190॥
त्रिसंध्यं तत्र विप्राणां स पश्यन्नघमर्षणम् ।
वरमैच्छद्दृशोरेव निजयोरपकर्षणम् ॥191॥
अद्राक्षीत्तत्र किंचिन्न कलिः परिचितं क्वचित् ।
भैमीनलव्यलीकाणुप्रश्नकामः परिभ्रमन् ॥192॥
तपः स्वाध्याययज्ञानामकाण्डद्विष्टतापसः ।
स्वविद्विषां श्रियं तस्मिन्पश्यन्नुपतताप सः ॥193॥
कम्रं तत्रोपनम्राया विश्वस्या वीक्ष्य तुष्टवान् ।
स मम्लौ तं विभाव्याथ वामदेव्याभ्युपासकम् ॥194॥
वैरिणी शुचिता तस्मै न प्रवेशं ददौ भुवि ।
न वेदध्वनिरालम्बमम्बरे विततार वा ॥195॥
दर्शस्य दर्शनात्कष्टमग्निष्टोमस्य चानशे ।
जुघूर्णे पौर्णमासेक्षी सोमं सोऽमनतान्तकम् ॥196॥
तेनादृश्यन्त वीरघ्ना न तु वीरहणो जनाः ।
नापश्यत्सोऽभिनिर्मुक्ताञ्जीवन्मुक्तानवैक्षत ॥197॥
स तुतोषाश्नतो विप्रान्दृष्ट्वा स्पृष्टपरस्परान् ।
होमशेषीभवत्सोमभुजस्तान्वीक्ष्य दूनवान् ॥198॥
श्रुत्वा जनं रजोजुष्टं तुष्टिं प्राप्नोज्झटित्यसौ ।
तं पश्यन्पावनस्नानावस्थं दुःस्थस्ततोऽभवत् ॥199॥
अधावत्क्वापि गां वीक्ष्य हन्यमानामयं मुदा ।
अतिथिभ्यस्तथा बुद्ध्वा मन्दो मन्दं न्यवर्तत ॥200॥
हृष्टवान्स द्विजं दृष्ट्वा नित्यनैमित्तिकत्यजम् ।
यजमानं निरूप्यैनं दूरं दीनमुखोऽद्रवत् ॥201॥
आननन्द निरीक्ष्यायं पुरे तरात्मघातिनम् ।
सर्वस्वारस्य यज्वानमेनं दृष्ट्वाथ विव्यथे ॥202॥
क्रतौ महाव्रते पश्यन्ब्रह्मचारीत्वरीरतम् ।
जज्ञे यज्ञक्रियामज्ञः स भण्डाकाण्डताण्डवम् ॥203॥
यज्वभार्याश्वमेधाश्वलिङ्गालिङ्गिवराङ्गताम् ।
दृष्ट्वाचष्ट स कर्तारं शृउतेर्भण्डमपण्डितः ॥204॥
अथ भीमजया जुष्टं व्यलोकत कलिर्नलम् ।
दुष्टदृग्भिर्दुरालोकं प्रभयेव प्रभाप्रभुम् ॥205॥
तयोः सौहार्दसान्द्रत्वं पश्यञ्शल्यमिवानशे ।
मर्मच्छेदमिवानर्च्छ स तन्नर्मोर्मिभिर्मिथः ॥206॥
अमर्षादात्मनो दोषात्तयोस्तेजस्वितागुणात् ।
स्प्रष्टुं दृशाप्यनीशस्तौ तस्मादप्यचलत्कलिः ॥207॥
अगच्छदाश्रयान्वेषी नलद्वेषी स निःश्वसन् ।
अभिरामं गृहारामं तस्य रामसमश्रियः ॥208॥
रक्षिलक्षवृतत्वेन बाधनं न तपोधनैः ।
मेने मानी मनाक्तत्र स्वानुकूलं कलिः किल ॥209॥
दलपुष्पफलैर्देवद्विजपूजाभिसंधिना ।
स नलेनार्जितान्प्राप तत्र नाक्रमितुं द्रुमान् ॥210॥
अथ सर्वोद्भिदासत्तिपूरणाय स रोपितम् ।
बिभीतकं ददर्शैकं कुटं धर्मेऽप्यकर्मठम् ॥211॥
स तं नैषधसौधस्य निकटं निष्कुटध्वजम् ।
बहु मेने निजं तस्मिन्कलिरालम्बनं वने ॥212॥
निष्पदस्य कलेस्तत्र स्थानदानाद्बिभीतकम् ।
कलिद्रुमः परं नासीदासीत्कल्पद्रुमोऽपि सः ॥213॥
ददौ पदेन धर्मस्य स्थातुमेकेन यत्कलिः ।
एकः सोऽपि तदा तस्य पदं मन्येऽमिलत्ततः ॥214॥
उद्भिद्विरचितावासः कपोतादिव तत्र सः ।
राज्ञः साग्रेर्द्विजादस्मात्संतापं प्राप दीक्षितात् ॥215॥
बिभीतकमधिष्ठाय तथाभूतेन तिष्ठता ।
तेन भीमभुवोऽभीकः स राजर्षिरधर्षि न ॥216॥
तमालम्बनमासाद्य वैदर्भीनिषाधेशयोः ।
कलुषं कलिरन्विष्यन्नवात्सीद्वत्सरान्बहून् ॥217॥
यथासीत्कानने तत्र विनिद्रकलिका लता ।
तथा नलच्छलासक्तिविनिद्रकलिकालता ॥218॥
दोषं नलस्य जिज्ञासुर्बभ्राम द्वापरः क्षितौ ।
अदोषः कोऽपि लोकस्य मुखेऽस्तीति दुराशया ॥219॥
अमुष्मिन्नारामे सततनिपतद्दोहदतया
प्रसूनैरुन्निद्रैरनिशममृतांशुप्रतिभटे ।
असौ बद्धालम्बः कलिरजनि कादम्बविहग-
च्छदच्छायाभ्यङ्गोचितरुचितया लाञ्छनमृगः ॥220॥
स्फारे तादृशि वैरसेनिनगरे पुण्यैः प्रजानां घनं
विघ्नं लब्धवअश्चिरादुपनतिस्तस्मिन्किलाभूत्कलेः ।
एतस्मिन्पुनरन्तरेऽन्तरमितानन्दः स भैमीनला-
वाराद्धुं व्यधित स्मरः श्रुतिशिखावन्दारुचूडं धनुः ॥221॥
श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं
श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
यातः सप्तदशः स्वसुः सुसदृशि छिन्दप्रशस्तेर्महा-
काव्ये तद्भुवि नैषधीयचरिते सर्गो निसर्गोज्ज्वलः ॥222॥
अष्टादश सर्गः
सम्पाद्यताम्सोऽयमित्थमथ भीमनन्दिनीं दारसारमधिगम्य नैषधः ।
तां तृतीयपुरुषार्थवारिधेः पारलम्भनतरीमरीरमत् ॥1॥
आत्मवित्सह तया दिवानिशं भोगभागपि न पापमाप सः ।
आहृता हि विषयैकतानता ज्ञानधौतमनसं न लिम्पति ॥2॥
न्यस्य मन्त्रिषु स राज्यमादरादारराध मदनं प्रियासखः ।
नैकवर्णमणिकोटिकुट्टिमे हेमभूमिभृति सौधभूधरे ॥3॥
वीरसेनसुतकण्ठभूषणीभूतदिव्यमणिपङ्क्तिशक्तिभिः ।
कामनोपनमदर्थतागुणाद्यस्तृणीकृतसुपर्वपर्वतः ॥4॥
धूपितं यदुदरान्तरं चिरं मेचकैरगरुसारदारुभिः ।
जालजालधृतचन्द्रचन्दनक्षोदमेदुरसमीरशीतलम् ॥5॥
क्वापि कामशरवृत्तवर्तयो यं महासुरभितैलदीपिकाः ।
तेनिरे वितिमिरं स्मरस्फुरद्दोःप्रतापनिकराङ्कुरश्रियः ॥6॥
कुङ्कुमैणमदपङ्कलेपिताः क्षलिताश्च हिमवालुकाम्बुभिः ।
रेजुरध्वततशैलजस्रजो यस्य मुग्धमणिकुट्टिमा भुवः ॥7॥
नैषधाङ्गपरिमर्दमेदुरामोदमाऋदवमनोज्ञवर्णया ।
यद्भुवः क्वचन सूनशय्ययाभजि भालतिलकप्रगल्भता ॥8॥
क्वापि यन्निकटनिष्कुटस्फुरत्कोरकप्रकरसौरभोर्मिभिः ।
सान्द्रमाद्रियत भीमनन्दनानासिकापुटकुटीकुटुम्बिता ॥9॥
ऋद्धसर्वऋतुवृक्षवाटिकाकीरकृत्तसहकारशीकरैः ।
यज्जुषः स्म कुलमुख्यमाशुगः प्राणवातमुपदाभिरञ्चति ॥10॥
कुत्रचित्कनकनिर्मिताखिलः क्वापि यो विमलरत्नजः किल ।
कुत्रचिद्रचितचित्रशालिकः क्वापि चास्थिरविधैन्द्रजालिकः ॥11॥
चित्रतत्तदनुकार्यविभ्रमाधाय्यनेकविधरूपरूपकम् ।
वीक्ष्य यं बहु धुवञ्शिरो जरावातकी विधिरकल्पि शिल्पिराट् ॥12॥
भित्तिगर्भगृहगोपितैर्जनैर्यः कृताद्भुतकथादिकौतुकः ।
सूत्रयन्त्रजविशिष्टचेष्टयाश्चर्यसञ्जिबहुशालभञ्जिकः ॥13॥
तामसीष्वपि तमीषु भित्तिगै रत्नरश्मिभिरमन्द्रचन्द्रिकः ।
यस्तपेपि जलयन्त्रपातुकासारदूरधुततापतन्द्रिकः ॥14॥
यत्र पुष्पशरशास्त्रकारिकासारिकाध्युषितनागदन्तिका ।
भीमजानिषधसार्वभौमयोः प्रत्यवैक्षत रते कृताकृते ॥15॥
यत्र मत्तकलविङ्कशीलिताश्लीलकेलिपुनरुक्तवत्तयोः ।
क्वापि दृष्टिभिरवापि वापिकोत्तंसहंसमिथुनस्मरोत्सवः ॥16॥
यत्र वैणरववैणवस्वरैर्हुंकृतैरुपवनीपिकालिनाम् ।
कङ्कणालिकलहैश्च नृत्यतां कुब्जितं सुरतकूजितं तयोः ॥17॥
सीत्कृतान्यशृणुतां विशङ्कयोर्यत्प्रतिष्ठितरतिस्मरार्चयोः ।
जालकैरपवरान्तरेऽपि तौ त्याजितैः कपटकुड्यतां निशि ॥18॥
कृष्णसारमृगशृङ्गभङ्गुरा स्वादुरुज्ज्वलरसैकसारिणी ।
नानिशं त्रुटति यन्मुखे पुरा किन्नरीविकटगीतिझंकृतिः ॥19॥
भित्तिचित्रलिखिताखिलक्रमा यत्र तस्थुरितिहाससंकथाः ।
पद्मनन्दनसुतारिरंसुतामन्दसाहसहसन्मनोभुवः ॥20॥
पुष्पकाण्डजयडिण्डिमायितं यत्रगौतमकलत्रकामिनः ।
पारदारिकविलाससाहसं देवभर्तुरुदटङ्कि भित्तिषु ॥21॥
उच्चलत्कलरवालिकैतवाद्वैजयन्तविजयार्जिता जगत् ।
यस्य कीर्तिरवदायति स्म सा कार्तिकीतिथिनिशीथिनीस्वसा ॥22॥
गौरभानुगुरुगेहिनीस्मरोद्वृत्तभावमितिवृत्तमाश्रिताः ।
रेजिरे यदजिरेऽभिनीतिभिर्नाटिका भरतभारतीसुधा ॥23॥
शंभुदारुवनसंभुजिक्रियामाधवव्रजवधूविलासयोः ।
गुम्फितैरुशनसा सुभाषितैर्यस्य हाटकविटङ्कमङ्कितम् ॥24॥
अह्नि भानुभुवि दाशदारिकां यच्चरः परिचरन्तमुज्जगौ ।
कालदेशविषायासहात्स्मरादुत्सुकं शुकपितामहं शुकः ॥25॥
नीतमेव करलभ्यपारतामप्रतीर्य मुनयस्तपोर्णवम् ।
अप्सरःकुचघटावलम्बनात्स्थायिना क्वचन यत्र चित्रगाः ॥26॥
स्वामिना च वहता च तं मया स स्मरः सुरतवर्जनाज्जितः ।
योऽयमीदृगिति नृत्यते स्म यत्केकिना मुरजनिस्वनैर्घनैः ॥27॥
यत्र वीक्ष्य नलभीमसं भवे मह्यतो रतिरतीशयोरपि ।
स्पर्धयेव जयतोर्जयाय ते कामकामरमणीबभूवतुः ॥28॥
तत्र सौधसुरभूधरे तयोराविरासुरथ कामकेलयः ।
ये महाकविभिरप्यवीक्षिताः पांसुलाभिरपि ये न शिक्षिताः ॥29॥
पौरुषं दधति योषिता नले स्वामिनि श्रिततदीयभावया ।
यूनि शैशवमतीर्णया कियत्प्रापि भीमसुतया न साध्वसम् ॥30॥
दूत्यसंगतिगतं यदात्मनः प्रागशिश्रवदियं प्रियं गिरः ।
तं विचिन्त्य विनयव्ययं ह्रिया न स्म वेद करवाणि कीदृशम् ॥31॥
यत्तया सदसि नैषाधः स्वयं प्राग्वृतः सपदि वीतलज्जया ।
तन्निजं मनसिकृत्य चापलं सा शशाक न विलोकितुं नलम् ॥32॥
आसने मणिमरीचिमांसले यां दिशं स परिरभ्य तस्थिवान् ।
तामसूयितवतीव मानिनी न व्यलोकयदियं मनागपि ॥33॥
ह्रीसरन्निजनिमज्जनोचितं मौलिदूरनमनं दधानया ।
द्वारि चित्रयुवतिश्रिया तया भर्तृहूतिशतमश्रुतीकृतम् ॥34॥
वेश्म पत्युरविशन्न साध्वसाद्वेशितापि शयनं न साऽभजत् ।
भाजितापि सविधं न सास्वपत्स्वापितापि न च संमुखाभवत् ॥35॥
केवलं न खलु भीमनन्दिनी दूरमत्रपत नैषधं प्रति ।
भीमजाहृदि जितः स्त्रिया ह्रिया मन्मथोऽपि नियतं स लज्जितः ॥36॥
आत्मनापि हरदारसुन्दरी यत्किमप्यभिललाष चेष्टितुम् ।
स्वामिना यदि तदर्थमर्थिता मुद्रितस्तदनया तदुद्यमः ॥37॥
ह्रीभराद्विमुखया तया भियं सञ्जितामननुरागशङ्किनि ।
स स्वचेतसि लुलोप संस्मरन्दूत्यकालकलितं तदाशयम् ॥38॥
पार्श्वमागमि निजं सहालिभिस्तेन पूर्वमथ सा तयैकया ।
क्वापि तामपि नियुज्य मायिना स्वात्ममात्रसचिवावशेषिता ॥39॥
संनिधावपि निजे निवेशितामालिभिः कुसुमशस्त्रशास्त्रवित् ।
आनयद्व्यवधिमानिव प्रियामङ्कपालिवलयेन संनिधिम् ॥40॥
प्रागचुम्बदलिके ह्रियानतां तां क्रमाद्दरनतां कपोलयोः ।
तेन विश्वसितमानसां झटित्यानने स परिचुम्ब्य सिष्मिये ॥41॥
लज्जया प्रथममेत्य हुंकृतः साध्वसेन बलिनाथ तर्जितः ।
किंचिदुच्छ्वसित एव तद्धृदि न्यग्बभूव पुनरर्भकः स्मरः ॥42॥
वल्लभस्य भुजयोः स्मरोत्सवे दित्सतोः प्रसभमङ्कपालिकाम् ।
एककश्चिरमरोधि बालया तल्पयन्त्रणनिरन्तरालया ॥43॥
हारचारिमविलोकने मृषाकौतुकं किमपि नाटयन्नयम् ।
कण्ठमूलमदसीयमस्पृशत्पाणिनोपकुचधाविना धवः ॥44॥
यत्त्वयास्मि सदसि स्रजाञ्चितस्तन्मयापि भवदर्हणार्हति ।
इत्युदीर्य निजहारमर्पयन्नस्पृशत्स तदुरोजकोरकौ ॥45॥
नीविसीम्नि निहितं स निद्रया सुभ्रुवो निशि निषिद्धसंविदः ।
कम्पितं शयमपास यन्नयं दोलनैर्जनितबोधयाऽनया ॥46॥
स प्रियोरुयुगकञ्चुकांशुके न्यस्य दृष्टिमथ सिष्मिये नृपः ।
आववार तदथाम्बराञ्चलैः सा निरावृतिरिव त्रपावृता ॥47॥
बुद्धिमान्व्यधित तां क्रमादयं किंचिदित्थमपनीतसाध्वसाम् ।
किंच तन्मनसि चित्तजन्मना ह्रीरनामि धनुषा समं मनाक् ॥48॥
सिष्मिये हसति न स्म तेन सा प्रीणितापि परिहासभाषणैः ।
स्वे हि दर्शयति ते परेण कानर्ध्यदन्तकुरुविन्दमालिके ॥49॥
वीक्ष्य भीमतनयास्तनद्वयं मग्नहारमणिमुद्रयाङ्कितम् ।
सोढकान्तपरिरम्भगाढता सान्वमायि सुमुखी सखीजनैः ॥50॥
याचते स्म परिधापिकाः सखीः सा स्वनीविनिबिडक्रियां यदा ।
अन्वमिन्वत तदा विहस्य ता वृत्तमत्र पतिपाणिचापलम् ॥51॥
कुर्वती निचुलितं ह्रिया कियत्सौहृदाद्विवृतसौरभं कियत् ।
कुड्नलोन्मिषितसूनसेविनीं पद्मिनीं जयति सा स्म पद्मिनी ॥52॥
नाविलोक्य नलमासितुं स्मरो ह्रीर्न वीक्षितुमदत्त सुभ्रुवः ।
तद्दृशः पतिदिशाचलन्नथ व्रीडिताः समकुचन्मुहुः पथः ॥53॥
नाऽनया पतिरनायि नेत्रयोर्लक्ष्यतामपि परोक्षतामपि ।
वीक्ष्यते स खलु यद्विलोकने तत्र तत्र नयते ददानया ॥54॥
वासरे विरहनिःसहा निशां कान्तसङ्गसमयं समैहत ।
सा ह्रिया निशि पुनर्दिनोदयं वाञ्छतिस्म पतिकेलिलज्जिता ॥55॥
तत्करोमि परमभ्युपैषि यन्मा ह्रियं व्रज भियं परित्यज ।
आलिवर्ग इव तेऽहमित्यमूं शश्वदाश्वसनमूचिवान्नलः ॥56॥
येन तन्मदनवह्निना स्थितं ह्रीमहौषधिनिरुद्धशक्तिना ।
सिद्धिमद्भिरुदतेजि तैः पुनः स प्रियप्रियवचोभिमन्त्रणैः ॥57॥
यद्विधूय दयितार्पितं करं दोर्द्वयेन पिदधे कुचौ दृढम् ।
पार्श्वगं प्रियमपास्य सा ह्रिया तं हृदिस्थितमिवालिलङ्ग तत् ॥58॥
अन्यदस्मि भवतीं न याचिता वारमेकमधरं धयामि ते ।
इत्यसिस्वददुपांशुकाकुवाक्सोपमर्दहठवृत्तिरेव तम् ॥59॥
पीततावकमुखासवोऽधुना भृत्य एष निजकृत्यमर्हति ।
तत्करोमि भवदूरुमित्यसौ तत्र संन्यधित पाणिपल्लवम् ॥60॥
चुम्बनादिषु बभूव नाम किं तद्वृथा भियमिहापि मा कृथाः ।
इत्युदीर्य रसनावलिव्ययं निर्ममे मृगदृशोऽयमादिमम् ॥61॥
अस्तिवाम्यभरमस्तिकौतुकं सास्तिघर्मजलमस्तिवेपथु ।
अस्तिभीति रतमस्तिवाञ्छितं प्रापदस्तिसुखमस्तिपीडनम् ॥62॥
ह्रीस्तवेयमुचितैव यन्नवस्तावके मनसि मत्समागमः ।
तत्तु निस्त्रपमजस्रसंगमाद्वीडमावहति मामकं मनः ॥63॥
इत्युपालभत संभुजिक्रियारम्भविघ्नघनलज्जितैर्जिताम् ।
तां तथा स चतुरोऽथ सा यथा त्रप्तुमेव तमनु त्रपामयात् ॥64॥
बाहुवक्त्रजघनस्तनाङ्घ्रितद्बन्धगन्धरतसंगतानतीः ।
इच्छुरुत्सुकजने दिनेस्मिते वीक्षिते ति समकेति तेन सा ॥65॥
प्रातरात्मशयनाद्विनिर्यतीं संनिरुध्य यदसाध्यमन्यदा ।
तन्मुखार्पणमुखं सुखं भुवो जम्भजित्क्षितिशचीमचीकरत् ॥66॥
नायकस्य शयनादहर्मुखे निर्गता मुदमुदीक्ष्य सुभ्रुवाम् ।
आत्मना निजनवस्मरोत्सवस्मारिणीयमहृणीयत स्वयम् ॥67॥
तां मिथोऽभिदधतीं सखीं प्रियस्यात्मनश्च स निशाविचेष्टितम् ।
पार्श्वगः सुरवरात्पिधां दधद्दृश्यतां शृउतकथो हसन्गतः ॥68॥
चक्रदारविरहेक्षणक्षणे बिभ्यती धवहसाय साभवत् ।
क्वापि वस्तुनि वदत्यनागतं चित्तमुद्यदनिमित्तवैकृतम् ॥69॥
चुम्बितं न मुखमाचकर्ष यत्पत्युरन्तरमृतं ववर्ष तत् ।
सा नुनोद न भुजं तदर्पितं तेन तस्य किमभून्न तर्पितम् ॥70॥
नीतयोः स्तनपिधानतां तया दातुमाप भुजयोः करं परं ।
वीतबाहुनि ततो हृदंशुके केवलेऽप्यथ स तत्कुचद्वये ॥71॥
याचनान्न ददतीं नखक्षतं तां विधाय कथयाऽन्यचेतसम् ।
वक्षसि न्यसितुमात्ततत्करः स्वं विभिद्य मुमुदे स तन्नखैः ॥72॥
स प्रसह्य हृदयापवारकं हर्तुमक्षमत सुभ्रुवो बहिः ।
ह्रीमयं तु न तदीयमान्तरं तद्विनेतुमभवत्प्रभुः प्रभुः ॥73॥
सा स्मरेण बलिनाऽप्यहापिता ह्रीक्षमे भृशमशोभताबला ।
भाति चापि वसनं विना नतु व्रीडधैर्यपरिवर्जनैर्जनः ॥74॥
आत्थ नेति रतयाचिनं न यन्मामतोऽनुमतवत्यसि स्फुटम् ।
इत्यमुं तदभिलापनोत्सुकं धूनितेन शिरसा निरास सा ॥75॥
या शिरोविधुतिराह नेति ते सा मया न किमियं समाकलि ।
तन्निषेधसमसंख्यता विधिं व्यक्तमेव तव वक्ति वाञ्छितम् ॥76॥
नात्थ नात्थ शृण्वानि ते न किं तेन वाचमिति तां निगद्य सः ।
सा स्म दूत्यगतमाह तं यथा तज्जगाद मृदुभिस्तदुक्तिभिः ॥77॥
नीविसीम्नि निबिडं पुराऽरुणत्पाणिनाऽथ शिथिलेन तत्करम् ।
सा क्रमेण नननेति वादिनी विघ्नमाचरदमुष्य केवलम् ॥78॥
रूपवेषवसनाङ्गवासनाभूषणादिषु पृथग्विदग्धताम् ।
सान्यदिव्ययुवतिभ्रमक्षमां नित्यमेत्य तमगान्नवा नवा ॥79॥
इङ्गितेन निजरागनीरधिं संविभाव्य चटुभिर्गुणज्ञताम् ।
भक्ततां च परिचर्ययाऽनिशं साधिकाधिकवशं व्यधत्त तम् ॥80॥
स्वाङ्गमर्पयितुमेत्य वामतां रोषितं प्रियमथानुनीय सा ।
आतदीयहठसंबुभुक्षुतां नान्वमन्यत पुनस्तमर्थिनम् ॥81॥
आद्यसंगमसमादराण्यधाद्वल्लभाय ददती कथंचन ।
अङ्गकानि घनमानवामताव्रीडलम्भितदुरापतानि सा ॥82॥
पत्युरागिरिशमातरु क्रमात्स्वस्य चागिरिजमालतं वपुः ।
तस्य चार्हमखिलं पतिव्रता क्रीडति स्म तप्सा विधाय सा ॥83॥
न स्थली न जलधिर्न काननं नाद्रिभूर्न विषायो न विष्टपम् ।
क्रीडिता न सह यत्र तेन सा सा विधैव न यया यया न वा ॥84॥
नम्रयांशुकविकर्षिणि प्रिये वक्त्रवातहतदीप्तदीपया ।
भर्तृमौलिमणिदीपितास्तया विस्मयेन ककुभो निभालिताः ॥85॥
कान्तमूर्ध्नि ददती पिधित्सया तन्मणेः श्रवणपूरमुत्पलम् ।
रन्तुमर्चनमिवाचरत्पुरः सा स्ववल्लभतनोर्मनोभुवः ॥86॥
तं पिधाय मुदिताथ पार्श्वयोर्वीक्ष्य दीपमुभयत्र सा स्वयोः ।
चित्तमाप कुतुकाद्भुतत्रपातङ्कसंकटनिवेशितस्मरम् ॥87॥
एककस्य शमने परं पुनर्जाग्रतं शमितमप्यवेक्ष्य तम् ।
जातवह्निवरसंस्मृतिः शिरः सा विधूय निमिमील केवलम् ॥88॥
पश्य भीरु न मयापि दृश्यसे यन्निमीलितवती दृशावसि ।
इत्यनेन परिहस्य सा तमः संविधाय समभोजि लज्जिता ॥89॥
चुम्ब्यसेऽयमयमङ्क्यसे नखैः श्लिष्यसेयमयमर्प्यसे हृदि ।
नो पुनर्न करवाणि ते गिरं हुं त्यज त्यज तवास्मि किंकरा ॥90॥
इत्यलीकरतकातरा प्रियं विप्रलभ्य सुरते ह्रियं च सा ।
चुम्बनादि विततार मायिनी किं विदग्धमनसामगोचरः ॥91॥
स्वेप्सितोद्गमितमात्रलुप्तया दीपिकाचपलया तमोघने ।
निर्विशङ्करतजन्मतन्मुखाकूतदर्शनसुखान्यभुङ्क्त सः ॥92॥
यद्भ्रुवौ कुटिलिते तया रते मन्मथेन तदनामि कार्मुकम् ।
यत्तु हुंहुमिति सा तदा व्यधात्तत्स्मरस्य शरमुक्तिहुंकृतम् ॥93॥
ईक्षितोपदिशतीव नर्तितुं तत्क्षणोदितमुदं मनोभुवम् ।
कान्तदन्तपरिपीडिताधरा पाणिधूननमियं वितन्वती ॥94॥
सा शशाक परिरम्भदायिनी गाहितुं बृहदुरः प्रियस्य न ।
चक्षमे च स न भङ्गुरभ्रुवस्तुङ्गपीनकुचदूरतां गतम् ॥95॥
बाहुवल्लिपरिरम्भमण्डली या परस्परमपीडयत्तयोः ।
आस्त हेमनलिनीमृणालजः पाश एव हृदयेशयस्य सः ॥96॥
वल्लभेन परिरम्भपीडितौ प्रेयसीहृदि कुचाववापतुः ।
केलतीमदनयोरुपाश्रये तत्र वृत्तमिलितोपधानताम् ॥97॥
भीमजोरुयुगलं नलाऋपितैः पाणिजस्य मृदुभिः पदैर्बभौ ।
तत्प्रशस्ति रतिकामयोर्जयस्तम्भयुग्ममिव शातकुम्भजम् ॥98॥
बह्वमानि विधिनापि तावकं नाभिमूरुयुगमन्तराङ्गकम् ।
स व्यधादधिकवर्णकैरिदं काञ्चनैर्यदिति तां पुराह सः ॥99॥
पीडनय मृदुनी विगाह्य तौ कान्तपाणिनलिने स्पृहावती ।
तत्कुचौ कलशपीननिष्थुरौ हारहासविहते वितेनतुः ॥100॥
यौ कुरङ्गमदकुङ्कुमाञ्चितौ नीललोहितरुचौ बधूकुचौ ।
स प्रियोरसि तयोः स्वयंभुवोराचचार नखकिंशुकार्चनम् ॥101॥
अम्बुधेः कियदनुत्थितं विधुं स्वानुबिम्बमिलितं व्यडम्बयत् ।
चुम्बदम्बुजमुखीमुखं तदा नैषधस्य वदनेन्दुमण्डलम् ॥102॥
पूगभागबहुताकषायितैर्वासितैरुदयभास्करेण तौ ।
चक्रतुर्निधुवनेऽधरामृतैस्तत्र साधुमधुपानविभ्रमम् ॥103॥
आह नाथवदनस्य चुम्बतः सा स्म शीतकरतामनक्षरम् ।
सीत्कृतानि सुदती वितन्वती सत्त्वदत्तपृथुवेपथुस्तदा ॥104॥
चुम्बनाय कलितप्रियाकुचं वीरसेनसुतवक्त्रमण्डलम् ।
प्राप भर्तुममृतैः सुधांशुना सक्तहाटकघटेन मित्त्रताम् ॥105॥
वीक्ष्य वीक्ष्य पुनरैक्षि सा मुदा पर्यरम्भि परिरभ्य चासकृत् ।
चुम्बिता पुनरचुम्बि चादरात्तृप्तिरापि न कथंचनापि च ॥106॥
छिन्नमप्यतनु हारमण्डलं मुग्धया सुरतलास्यकेलिभिः ।
न व्यतर्कि सुदृशा चिरादपि स्वेदबिन्दुकितवक्षसा हृदि ॥107॥
यत्तदीयहृदि हारमौक्तिकैरासि तत्र गुण एव कारणम् ।
अन्यथा कथममुत्र वर्तितुं तैरशाकि न तदा गुणच्युतैः ॥108॥
एकवृत्तिरपि मौक्तिकावलिश्छिन्नहारविततौ तदा तयोः ।
छाययाऽन्यहृदये विभूषणं श्रान्तिवारिभरभावितेऽभवत् ॥109॥
वामपादतललुप्तमन्मथश्रीमदेन मुखवीक्षिणानिशम् ।
भुज्यमाननवयौवनामुना पारसीमनि चचार सा मुदाम् ॥110॥
आन्तरानपि तदङ्गसंगमैस्तर्पितानवयवानमन्यत ।
नेत्रयोरमृतसारपारणां तद्विलोकनमचिन्तयन्नलः ॥111॥
भूषणैरतुषदाश्रितैः प्रियां प्रागथ व्यषददेष भावयन् ।
तैरभावि कियदङ्गदर्शने यत्पिधानमयविघ्नकारिभिः ॥112॥
योजनानि परिरम्भणेऽन्तरं रोमहर्षजमपि स्म बोधतः ।
तौ निमेषमपि वीक्षणे मिथो वत्सरव्यवधिमध्यगच्छताम् ॥113॥
वीक्ष्य भावमधिगन्तुमुत्सुकां पूर्वमच्छमणिकुट्टिमे मृदुम् ।
कोऽयमित्युदितसंभ्रमीकृतां स्वानुबिम्बमददर्शतैष ताम् ॥114॥
तत्क्षणावहितभावभावितद्वादशात्मसितदीधितिस्थितिः ।
स्वां प्रियामभिमतक्षणोदयां भावलाभलघुतां नुनोद सः ॥115॥
स्वेन भावजनने स तु प्रियां बाहुमूलकुचनाभिचुम्बनैः ।
निर्ममे रतरहःसमापनाशर्मसारसमसंविभागिनीम् ॥116॥
विश्लथैरवयवैर्निमीलया लोमभिर्द्रुतमितैर्विनिद्रताम् ।
सूचितं श्वसितसीत्कृतैश्च तौ भावमक्रमकमध्यगच्छताम् ॥117॥
आस्त भावमधिगच्छतोस्तयोः संमदेषु करजक्षतार्पणा ।
फाणितेषु मरिचावचूर्णना सा स्फुटं कटुरपि स्पृहावहा ॥118॥
अर्धमीलितविलोलतारके सा दृशौ निधुवनक्लमालसा ।
यन्मुहूर्तमवहन्न तत्पुनस्तृप्तिरास्त दयितस्य पश्यतः ॥119॥
तत्क्लमस्तमदिदीक्षत क्षणं तालवृन्तचलनाय नायकम् ।
तद्विधा हि भवदैवतं प्रिया वेधसोऽपि विदधाइ चापलम् ॥120॥
स्वेदबिन्दुकितनासिकाशिखं तन्मुखं सुखयति स्म नैषधम् ।
प्रोषिताधरशयालुयावकं सामिलुप्तपुलकं कपोलयोः ॥121॥
ह्रीणमेव पृथु सस्मरं कियत्क्लान्तमेव बहुनिर्वृतं मनाक् ।
कान्तचेतसि तदीयमाननं तत्तदालभत लक्षमादरात् ॥122॥
स्वेदवारिपरिपूरितं प्रियारोमकूपनिवहं यथायथा ।
नैषधस्य दृगपात्तथातथा चित्रमापदपतृष्णतां न सा ॥123॥
वीतमाल्यकचहस्तसंयमव्यस्तहस्तयुगया स्फुटीकृतम् ।
बाहुमूलमनया तदुज्ज्वलं वीक्ष्ञ सौख्यजलधौ ममज्ज सः ॥124॥
वीक्ष्य पत्युरधरं कृशोदरी बन्धुजीवमिव भृङ्गसंगतम् ।
मञ्जुलं नयनकज्जलैर्निजैः संवरीतुमशकत्स्मितं न सा ॥125॥
तां विलोक्य विमुखश्रितस्मितां पृच्छतो हसितहेतुमीशितुः ।
ह्रीमती व्यतरदुत्तरं वधूः पाणिपङ्करुहि दर्पणार्पणाम् ॥126॥
लाक्षयात्मचरणस्य चुम्बनाच्चारुभालमवलोक्य तन्मुखम् ।
सा ह्रिया नतनताननाऽस्मरच्छेषरागमुदितं पतिं निशः ॥127॥
स्वेदभाजि हृदयेऽनुबिम्बितं वीक्ष्य मूर्तमिव हृद्गतं प्रियम् ।
निर्ममे धुतरतश्रमं निजैर्ह्रीनतातिमृदुनासिकानिलैः ॥128॥
सूननायकनिदेशविभ्रमैरप्रतीतचरवेदनोदयम् ।
दन्दतंशमधरेऽधिगामुका सास्पृशन्मृदु चमच्चकार च ॥129॥
वीक्ष्य वीक्ष्य करजस्य विभ्रमं प्रेयसार्जितमुरोजयोरियम् ।
कान्तमैक्षत हसस्पृशं कियत्कोपकुञ्चितविलोचनाञ्चला ॥130॥
रोषरूषितमुखीमिव प्रियां वीक्ष्य भीतिदरकम्पिताक्षराम् ।
तां जगाद स न वेद्मि तन्वि तं कश्चकार तव कोपरोपणाम् ॥131॥
रोषकुङ्कुमविलेपनान्मनाङ्गन्ववाचि कृशतन्ववाचि ते ।
भूदयुक्तसमयैव रञ्जनामानने विधुबिधेयमानने ॥132॥
क्षिप्रमस्य तु रुजा नखादिजास्तावकीरमृतसीकरं किरत् ।
एतदर्थमिदमर्थितं मया कण्ठचुम्बि मणिदाम कामदम् ॥133॥
स्वापराधमलुपत्पयोधरे मत्करः सुरधनुष्करस्तव ।
सेवया व्यजनचालनाभुवा भूय एव चरणौ करोतु वा ॥134॥
आननस्य मम चेदनौचिती निर्दयं दशनदंशदायिनः ।
शोध्यते सुदति वैरमस्य तत्किं त्वया वद विदश्य नाधरम् ॥135॥
दीपलोपमफलं व्यधत्त यस्त्वत्पटाहृतिषु मच्छिखामणिः ।
नो तदागसि परं समर्थना सोऽयमस्तु पदपातुकस्तव ॥136॥
इत्थमुक्तिमुपहृत्य कोमलां तल्पचुम्बिचिकुरश्चकार सः ।
आत्ममौलिमणिकान्तिभङ्गिनीं तत्पदारुणसरोजसङ्गिनीम् ॥137॥
तत्पदाखिलनखानुबिम्बनैः स्वैः समेत्य समतामियाय सः ।
रुद्रभूमविजिगीषया रतिस्वामिनोपदशमूर्तिताभृता ॥138॥
आख्यतैष कुरु कोपलोपनं पश्य नश्यति कृशा मधर्निशा ।
एतमेव तु निशान्तरे वरं रोषशेषमनुरोत्स्यसि क्षणम् ॥139॥
साथ नाथमनयत्कृतार्थतां पाणिगोपितनिजाङ्घ्रिपङ्कजा ।
तत्प्रणामधुतमानमाननं स्मेरमेव सुदती वितन्वती ॥140॥
तौ मिथो रतिरसायनात्पुनः संबुभुक्षुमनसौ बभूवतुः ।
चक्षमे नतु तयोर्मनोरथं दुर्जनी रजनिरल्पजीवना ॥141॥
स्वप्नुमाप्तशयनीययोस्तयोः स्वैरमाख्यत वचः प्रियां प्रियः ।
उत्सवैरधरदानपानजैः सान्तरायपदमन्तरान्तरा ॥142॥
देवदूत्यमुपगम्य निर्दयं धर्मभीतिकृततादृशागसः ।
अस्तु सेयमपराधमार्जना जीवितावधि नलस्य वश्यता ॥143॥
स क्षाणः सुमुखि यत्त्वदीक्षणं तच्चराज्यमुरु येन रज्यसि ।
तन्नलस्य सुधयाभिषेचनं यत्त्वदङ्गपरिरम्भविभ्रमः ॥144॥
शर्म किं हृदि हरेः प्रियार्पणं किं शिवार्धघटने शिवस्य वा ।
कामये तव महेषु तन्वि तं नन्वयं सरिदुदन्वदन्वयम् ॥145॥
धीयतां मयि दृढा ममेति धीर्वक्तुमेवमवकाश एव कः ।
यद्विधूय तृणवद्दिवस्पतिं क्रीतवत्यसि दयापणेन माम् ॥146॥
शृण्वता निभृतमालिभिर्भवद्वाग्विलासमसकृन्मया किल ।
मोघराघवविवर्ज्यजानकीश्राविणी भयचलासि वीक्षिता ॥147॥
छुप्तपत्रविनिमीलितात्क्षुपात्कच्छपस्य धृतचापलात्पलात् ।
त्वत्सखीषु सरटाच्छिरोधुतः स्वं भियोऽभिदधतीषु वैभवम् ॥148॥
त्वं मदीयविरहान्मया निजां भीतिमीरितवती रहःश्रुता ।
नोज्झितास्मि भवतीं तदित्ययं व्याहरद्वरमसत्यकातरः ॥149॥
संगमय्य विरहेऽस्मि जीविका यैव वामथ रताय तत्क्षणम् ।
हन्त दत्थ इति रुष्टयावयोर्निद्रयाऽद्य किमु नोपसद्यते ॥150॥
ईदृशं निगदति प्रिये दृशं संमदात्कियदियं न्यमीलयत् ।
प्रातरालपति कोकिले कलं जागरादिव निशः कुमुद्वती ॥151॥
मिश्रितोरु मिलिताधरं मिथः स्वप्नवीक्षितपरस्परक्रियम् ।
तौ ततोऽनु परिरम्भसंपुटैः पीडनां विदधतौ निदद्रतुः ॥152॥
तद्यातायातरंहच्छलकलितरतश्रान्तिनिश्वासधारा-
जस्रव्यामिश्रभावस्फुटकथितमिथःप्राणभेदव्युदासम् ।
बालावक्षोजपत्राङ्कुरकरिमकरीं मुद्रितोर्वीन्द्रवक्ष-
श्चिह्नाख्यातैकभावोभयहृदयमयाद्द्वन्द्वमानन्दनिद्राम् ॥153॥
श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं
श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
यातोऽस्मिञ्शिवशक्तिसिद्धिभगिनीसौभ्रात्रभव्ये महा-
काव्ये तस्य कृतौ नलीयचरिते सर्गोऽयमष्टादशः ॥154॥
एकोनविंशतिः सर्गः
सम्पाद्यताम्निशि दशमितामालिङ्गन्त्यां विबोधविधित्सुभिर्निषधवसुधामीनाङ्कस्य प्रियाङ्कमुपेदुषः ।
श्रुतिमधुपदस्रग्वैदग्धीविभावितभाविकस्फुटरसभृशाभ्यक्ता वैतालिकैर्जगिरे गिरः ॥1॥
जय जय महाराज प्राभातिकीं सुषमामिमां सफलयत मां दानाडक्ष्णोर्दरालसपक्ष्मणी ।
प्रथमशकुनं शय्योत्थायं तवास्तु विदर्भजा प्रियजनमुखाम्भोजात्तुङ्गं यदङ्ग न मङ्गलम् ॥2॥
वरुणगृहिणीमाशामासादयन्तममुं रुचीनिचयसिचयांशांशभ्रंशक्रमेण निरंशुकम् ।
तुहिनमहसं पश्यन्तीव प्रसादमिषादसौ निजमुखमितः स्मेरं धत्ते हरेर्महिषीहरित् ॥3॥
अमहतितरास्तादृक्तारा न लोचनगोचरास्तरणिकिरणा द्यामञ्चन्ति क्रमादपरस्पराः ।
कथयति परिश्रातिं रात्री तमस्सहयुध्वनामयमपि दरिद्राणप्राणस्तमीदयितस्त्विषाम् ॥4॥
स्फुरति तिमिरस्तोमः पङ्कप्रपञ्च इवोच्चकैः पुरुसितगरुच्चञ्चच्चञ्चच्चञ्चूपुटस्फुटचुम्बितः ।
अपि मधुकरी कालिंमन्या विराजति धूमलच्छविरिव रवेर्लाक्षालक्ष्मीं करैरतिपातुकैः ॥5॥
रजनिवमथुप्रालेयाम्भःकणक्रमसंभृतैः कुशकिसलयस्याच्छैरग्रेशयैरुदबिन्दुभिः ।
सुषिरकुशलेनायःसूचीशिखाङ्कुरसंकरं किमपि गमितान्यन्तर्मुक्ताफलान्यवमेनिरे ॥6॥
रविरुचिऋचामोकारेषु स्फुटामलबिन्दुतां गमयितुममूरुच्चीयन्ते विहायसि तारकाः ।
स्वरविरचनायासामुच्चैरुदात्ततया हृताः शिशिरमहसो बिम्बादस्मादसंशयमंशवः ॥7॥
व्रजति कुमुदे दृष्ट्वा मोहं दृशोरपिधायके भवति च नले दूरं तारापतौ च हतौजसि ।
लघु रघुपतेर्जायां मायामयीमिव रावणिस्तिमिरचिकुरग्राहं रात्रिं हिनस्ति गभस्तिराट् ॥8॥
त्रिदशमिथुनक्रीडातल्पे विहायसि गाहते निधुवनधुतस्रग्भागश्रीभरं ग्रहसंग्रहः ।
मृदुतरकराकारैस्तूलोत्करैरुदरंभरिः परिहरति नाखण्डो गण्डोपधानविधां विधुः ॥9॥
दशशतचतुर्वेदीशाखाविवर्तनमूर्तयः सविधमधुनाऽलंकुर्वन्ति ध्रुवं रविरश्मयः ।
वदनकुहरेऽप्यध्येत्ṝणामयं तदुदञ्चति श्रुतिपदभयस्तेषामेव प्रतिध्वनिरध्वनि ॥10॥
नयति भगवानम्भोजस्याऽनिबन्धनबान्धवः किमपि मघवप्रासादस्य प्रघाणमुपघ्नताम् ।
अपसरदरिध्वान्तप्रत्यग्वियत्पथमण्डलीलगनफलदश्रान्तस्वर्णाचलभ्रमविभ्रमः ॥11॥
नभसि महसां ध्वान्तध्वाङ्क्षप्रमापणपत्त्रिणामिह विहरणैः श्यैनंपातां रवेरवधारयन् ।
शशविशसनत्रासादाशामयाच्चरमां शशी तदधिगमनात्तारापारापतैरुदडीयत ॥12॥
भृशमबिभरुस्तारा हाराच्च्युता इव मौक्तिकाः सुरसुरतजक्रीडालूनाद्द्युसद्वियदङ्गणम् ।
बहुकरकृतात्प्रातःसंमार्जनादधुना पुनर्निरुपधिनिजावस्थालक्ष्मीविलक्षणमीक्ष्यते ॥13॥
प्रथममुपहृत्यार्घं तारैरखन्डिततण्डुलैस्तिमिरपरिषद्दूर्वापर्वावलीशबलीकृतैः ।
अथ रविरुचां ग्रासातिथ्यं नभः स्वविहारिभिः सृजति शिशिरक्षोदश्रेणीमयैरुदसक्तुभिः ॥14॥
असुरहितमप्यादित्योत्थां विपत्तिमुपागतं दितिसुतगुरुः प्राणैर्योक्तुं न किं कचवत्तमः ।
पठति लुठतीं कण्ठे विद्यामयं मृतजीवनीं यदि न वहते संध्यामौनव्रतव्ययभीरुताम् ॥15॥
उदयशिखरिप्रस्थान्यह्ना रणेऽत्र निशः क्षणे दधति विहरत्पूषाण्यूष्मद्रुताश्मजतुस्रवान् ।
उदयदरुणप्रह्वीभावादरादरुणानुजे मिलति किमु तत्सङ्गाच्छङ्क्या नवेष्टकवेष्टना ॥16॥
रविरथहयानश्वस्यन्ति ध्रुवं वडवा बलप्रतिबलबलावस्थायिन्यः समीक्ष्य समीपगान् ।
निजपरिवृढं गाढप्रेमा रथाङ्गविहंगमी स्मरशरपराधीनस्वान्ता वृषस्यति संप्रति ॥17॥
निशि निरशनाः क्षीरस्यन्तः क्षुधा।श्वकिशोरका मधुरमधुरं हेषन्ते ते विलोलितवालधि ।
तुरगसमजः स्थानोत्थायं क्वणन्मणिमन्थभूधरभवशिलालेहायेहाचणो लवणस्यति ॥18॥
उडुपरिषदः किं नार्हत्वं निशः किमु नौचिती पतिरिह न यद्दृष्टस्ताभ्यां गणेयरुचीगणः ।
स्फुटमुडुपतेराश्मं वक्षः स्फुरन्मलिनाश्मनश्छवि यदनयोर्विच्छेदेऽपि द्रुतं बत न द्रुतम् ॥19॥
अरुणकिरणे वह्नौ लाजानुदूनि जुहोति या परिणयति तां संध्यामेतामवैमि मणिर्दिवः ।
इयमिव स एवाग्निभ्रान्तिं करोति पुरा यतः करमपि न कस्तस्यैवोत्कः सकौतुकमीक्षितुम् ॥20॥
रतिरतिपतिद्वैतश्रीकौ धुरं बिभृमस्तरां प्रियवचसि यन्नग्नाचार्या वदामतमां ततः ।
अपि विरचितो विद्मः पुण्यद्रुहः खलु नर्मणः परुषमरुषे नैकस्यै वामुदेति मुदेऽपि तत् ॥21॥
भव लघुयुताकान्तः संध्यामुपास्स्व तपोमल त्वरयति कथं संध्येयं त्वां न नाम निशानुजा ।
द्युतिपतिरथावश्यंकारी दिनोदयमासिता हरिपतिहरित्पूर्णभ्रूणायिता कियतः क्षनान् ॥22॥
मुषितमनसश्चित्रं भैमि त्वयाद्य कलागृहैर्निषाधवसुधानाथस्यापि श्लथश्लथता विधौ ।
अजगणदयं संध्यां वन्ध्यां विधाय न दूषणं नमसितुमना यन्नाम स्यान्न संप्रति पूषणम् ॥23॥
न विदुषितरा कापि त्वतस्ततो नियतक्रियापतनदुरिते हेतुर्भर्तुर्मनस्विनि मा स्म भूः ।
अनिशभवदत्यागादेनं जनः खलु कामुकीसुभगमभिधास्यत्युद्दामा पराङ्कवदावदः ॥24॥
रह सहचरीमेतां राजन्नपि स्त्रितमां क्षाणं तरणिकिरणैः स्तोकान्मुक्तैः समालभते नभः ।
उदधिनिरयद्भास्वत्स्वर्णोदकुम्भदिदृक्षुतां दधति नलिनं प्रस्थायिन्यः श्रियः कुमुदान्मुदा ॥25॥
प्रथमककुभः पान्थत्वेन स्फुटेक्षितवृत्रहाण्यनुपदमिह द्रक्ष्यन्ति त्वां महांसि महस्पतेः ।
पटिमवहनादूहापोहक्षमाणि वितन्वतामहह युवयोस्तावल्लक्ष्मीविवेचनचातुरीम् ॥26॥
अनतिशिथिले पुंभावेन प्रगल्भबलाः खलु प्रसभमलयः पाथोजास्ये निविश्य निरित्वराः ।
किमपि मुखतःकृत्वानीतं वितीर्य सरोज्नीमधुरसमुषोयोगे जायां नवान्नमचीकरन् ॥27॥
मिहिरकिरणाभोगं भोक्तुं प्रवृत्ततया पुरः कलितचुलुकापोशानस्य ग्रहार्थमियं किमु ।
इति विकसितेनैकेन प्राग्दलेन सरोजिनी जनयति मतिं साक्षात्कर्तुर्जनस्य दिनोदये ॥28॥
तटतरुखगश्रेणीसांराविणैरिव साम्प्रतं सरसि विगलन्निद्रामुद्राजनिष्ट सरोजिनी ।
अधरसुधया मध्ये मध्ये वधूमुखलब्धया धयति मधुपः स्वादुंकारं मधूनि सरोरुहाम् ॥29॥
गतचरदिनस्यायुर्भ्रंशे दयोदयसंकुचत्कमलमुकुलक्रोडान्नीडप्रवेशमुपेयुषाम् ।
इह मधुलिहां भिन्नेष्वम्भोरुहेषु समायतां सह सहचरैरालोक्यन्तेऽधुना मधुपारणाः ॥30॥
तिमिरविरहात्पाण्डूयन्ते दिशः कृशतारकाः कमलहसितैः श्येनीवोन्नीयते सरसी न का ।
शरणमिलितध्वान्तध्वंसिप्रभादरधारणाद्गगनशिखरं नीलत्येकं निजैरयशोभरैः ॥31॥
सरसिजवनान्युद्यत्पक्षार्यमाणि हसन्तु न क्षतरुचिसुहृच्चन्द्रं तन्द्रामुपैतु न कैरवम् ।
हिमगिरिदृषद्दायादश्रि प्रतीतमदः स्मितं कुमुदविपिनस्याथो पाथोरुहैर्निजनिद्रया ॥32॥
धयतु नलिने माध्वीकं वा न वाभिनवागतः कुमुदमकरन्दौघैः कुक्षिंभरिर्भ्रमरोत्करः ।
इह तु लिहते रात्रीतर्षं रथाङ्गविहंगमा मधु निजवधूवक्त्राम्भोजेऽधुनाधरनामकम् ॥33॥
जगति मिथुने चक्रावेव स्मरागमपारगौ नवमिव मिथः संभुञ्जाते वियुज्य वियुज्य यौ ।
सततममृतादेवाहाराद्युदापदरोचकं तदमृतभुजां भर्ता शंभुर्विषां बुभुजे विभुः ॥34॥
विशति युवतित्यागे रात्रीमुचं मिहिकारुचं दिनमणिमणिं तापे चित्तान्निजाच्च यियासति ।
विरहतरलज्जिह्वा बह्वाह्वयन्त्यतिविह्वलामिह सहचरीं नामग्राहं रथाङ्गविहंगमाः ॥35॥
स्वमुकुलमयैर्नेत्रैरन्धंभविष्णुतया जनः किमु कुमुदिनीं दुर्व्याचष्टे रवेरनवेक्षिकाम् ।
लिखितपठिता राज्ञो दाराः कविप्रतिभासु ये शृणुत शृणुतासूर्यंपश्या न सा किल भाविनी ॥36॥
चुलुकिततमःसिन्धोर्भृङ्गैः करादिव शुभ्यते नभसि बिसिनीबन्धोरन्ध्रच्युतैरुदविन्दुभिः ।
शतदलमधुस्रोतःकच्छद्वयीपरिरम्भणादनुपदमदःपङ्काशङ्काममी मम तन्वते ॥37॥
घुसृणसुमनःशृएणीश्रीणामनादरिभिः सरःपरिसरचरैर्भासां भर्तुः कुमारतरैः करैः ।
अजनि जलजामोदानन्दोत्पतिष्णुमधुव्रता बलिशबलनाद्गुञ्जापुञ्जश्रियं हृगयालुभिः ॥38॥
रचयति रुचिः शोणीमेतां कुमारितरा रवेर्यदलिपटली नीलीकर्तुं व्यवस्यति पातुका ।
अजनि सरसी कल्माषी तद्ध्रुवं धवलस्फुटत्कवलकलिकाषण्डैः पाण्डूकृतोदरमण्डला ॥39॥
कमलकुशलाधाने भानोरहो पुरुषाव्रतं यदुपकुरुते नेत्राणि श्रीगृहत्वविवक्षुभिः ।
कविभिरुपमानादप्यम्भोजतां गमितान्यसावपि यदतथाभावान्मुञ्चत्युलूकविलोचने ॥40॥
यदतिमहती भक्तिर्भानौ तदेनमुदित्वरं त्वरितमुपतिष्ठस्वाध्वन्य त्वमध्वरपद्धतेः ।
इह हि समये मन्देहेषु व्रजन्त्युदवज्रतामभि रविमुपस्थानोत्क्षिप्ता जलाञ्जलयः किल ॥41॥
उदयशिखरिप्रस्थावस्थायिनी खनिरक्षाया शिशुतरमहोमाणिक्यानामहर्मणिमण्डली ।
रजनिदृषदं ध्वान्तश्यामां विधूय पिधायिकां न खलु कतमेनेयं जाने जनेन विमुद्रिता ॥42॥
सुरपरिवृढः कर्णात्प्रत्यग्रहीत्किल कुण्डलद्वयमथ खलु प्राच्यै प्रादान्मुदा स हि तत्पतिः ।
विधुरुदयभागेकं तत्र व्यलोकि विलोक्यते नवतरकरस्वर्णस्रावि द्वितीयमहर्मणिः ॥43॥
दहनमविशद्दीप्तिर्यास्तं गते गतवासरप्रशमसमयप्राप्ते पत्यौ विवस्वति रागिणि ।
अधरभुवनात्सोद्धृत्यैषा हठात्तरणेः कृतामरपतिपुरप्राप्तिर्धत्ते सतीव्रतमूर्तिताम् ॥44॥
बधुजनकथा तथ्यैवेयं तनौ तनुजन्मनः पितृशितिहरिद्वर्णाद्याहारजः किल कालिमा ।
शमनयमुनाक्रोडैः कालैरितस्तमसां पिबादपि यदमलच्छायात्कायादभूयत भास्वतः ॥45॥
अभजत चिराभ्यासं देवः प्रतिक्षणदात्यये दिनमयमयं कालं भूयः प्रसूय तथा रविः ।
न खलु शकिता शीलं कालप्रसूतिरसौ पुरा यमयमुनयोर्जन्माधानेष्यनेन यथोज्झितुम् ॥46॥
रुचिरचरणः सूतोरुश्रीसनाथरथः शनिं शमनमपि स त्रातुं लोकानसूत सुताविति ।
रथपदकृपासिन्धुर्बन्धुर्दृशामपि दुर्जनैर्यदुपहसितो भास्वान्नास्मान्हसिष्यति कः खलः ॥47॥
शिशिरजरुजां घर्मं शर्मोदयाय तनूभृतामथ खरकरश्यानास्यानां प्रयच्छति यः पयः ।
जलभयजुषां तापं तापस्पृशां हिममित्ययं परहितमिलत्कृत्यावृत्तिः स भानुरुदञ्चति ॥48॥
इह न कतमश्चित्रं धत्ते तमिस्रततीर्दिशामपि चतसृणामुत्सङ्गेषु शृइता धयतां क्षणात् ।
तरुशरणतामेत्य च्छायामयं निवसत्तमः शमयितुमभूदानैश्वर्यं यदर्यमरोचिषाम् ॥49॥
जगति तिमिरं मूर्च्छामब्जव्रजेऽपि चिकित्सतः पितुरिव निजाद्दस्रावस्मादधीत्य भिषाज्यतः ।
अपिच शमनस्यासौ तातस्ततः किमु नौचिती यदयमदयः कह्लाराणामुदेत्यपमृत्यवे ॥50॥
उडुपरिवृढः पत्या मुक्तामयं यदपीडयद्यदपि बिसिनीं भानोर्जायां जहास कुमुद्वती ।
तदुभयमतः शङ्के सङ्कोचितं निजशङ्कया प्रसरति नवार्के कर्कन्धूफलारुणरोचिषि ॥51॥
श्रुतिमयतनोर्भानोर्जानेऽवनेरधराढ्वना विहरणकृतः शाखा साक्षाच्छतानि दश त्विषाम् ।
निशि निशि सहस्राभ्यां दृग्भिः शृणोति सहस्वराः पृथगहिपतिः पश्यत्यस्याक्रमेण च भास्वराः ॥52॥
बहुनखरता येषामग्रे खलु प्रतिभासते कमलसुहृदस्तेऽमी भानोः प्रवालरुचः कराः ।
उचितमुचितं जालेष्वन्तःप्रवेशिभिरायतैः कियदवयवैरेषामालिङ्गिताङ्गुलिलङ्गिमा ॥53॥
नय नयनयोर्द्राक्पेयत्वं प्रविष्टवतीरमूर्भवनवलभीजालान्नाला इवार्ककराङ्गुलीः ।
भ्रमदणुगणक्रान्ता भान्ति भ्रमन्त्य इवाशु याः पुनरपि धृता कुन्दे किंवा न वर्धकिना दिवः ॥54॥
दिनमिव दिवाकीर्तिस्तीक्ष्णैः क्षुरैः सवितु करैः स्तिमिरकबरीलूनां कृत्वा निशां निरदीधरत् ।
स्फुरति परितः केशस्तोमैस्ततः पतयालुभिर्ध्रुवमधवलं तत्तच्छायच्छलादवनीतलम् ॥55॥
ब्रूमः शङ्खं तव नल यशः श्रेयसे सृष्टशब्दं यत्सोदर्यं स दिवि लिखितः स्पष्टमस्ति द्विजेन्द्रः ।
अद्धा श्रद्धाकरमिह करच्छेदमप्यस्य पश्य म्लानिस्थानं तदपि नितरां हारिणो यः कलङ्कः ॥56॥
ताराशङ्खविलोपकस्य जलजं तीक्ष्णत्विषो भिन्दतः सारम्भं चलता करेण निबिडां निष्पीडनां लम्भितः ।
छेदार्थापहृताम्बुकम्बुजरजोजम्बालपाण्डुभवच्छङ्खच्छित्करपत्त्रतामिह वहन्नस्तंगतार्धो विधुः ॥57॥
जलजभिदुरीभावं प्रेप्सुः करेण निपीडयत्यशिशिरकरस्ताराशङ्खप्रपञ्चविलोपकृत् ।
रजनिरमणस्यास्तक्षोणीधरार्धपिधावशाद्दधतमधुना बिम्बं कम्बुच्छिदः करपत्रताम् ॥58॥
यत्पाथोजविमुद्रणप्रकरणे निर्निद्रयत्यंशुमान्दृष्टीः पूर्णयति स्म यज्जलरुहामक्ष्णा सहस्रं हरिः ।
साजात्यं सरसीरुहामपि दृशामप्यस्ति तद्वास्तवं यन्मूलाद्रियतेतरां कविनृभिः पद्मोपमा चक्षुषः ॥59॥
अवैमि कमलाकरे निखिलयामिनीयामिकश्रियं श्रयति यत्पुरा विततपत्त्रनेत्रोदरम् ।
तदेव कुमुदं पुनर्दिनमवाप्य नर्भभ्रमद्द्विरेफरवघोरणाघनमुपैति निद्रामुदम् ॥60॥
इह किमुषसि पृच्छाशंसिकिंशब्दरूपप्रतिनियमितवाचा वायसेनैष पृष्टः ।
भण फणिभवशास्त्रे तातणः स्थानिनौ काविति विहिततुहीवागुत्तरः कोकिलोऽभूत् ॥61॥
दाक्षीपुत्रस्य तन्त्रे ध्रुवमयमभवत्कोऽप्यधीती कपोतः कण्ठे शब्दौघसिद्धिक्षतबहुकठिनीशेषभूषानुयातः ।
सर्वं विस्मृत्य दैवात्स्मृतिमुषसि गतां घोषयन्यो घुसंज्ञां प्राक्संस्कारेण संप्रत्यपि धुवति शिरः पट्टिकापाठजेन ॥62॥
पौरस्त्यायां घुसृणमसृणश्रीजुषो वैजयन्त्याः स्तोमैश्चित्तं हरिति हरति क्षीरकण्ठैर्मयूखैः ।
भानुर्जाम्बूनदतनुरसौ शक्रसौधस्य कुम्भः स्थाने पानं तिमिरजलधेर्भाभिरेतद्भवाभिः ॥63॥
द्वित्रेरेव तमस्तमालगहनग्रासे दवीभावुकैरुस्रैरस्य सहस्रपत्त्रसदसि व्यश्राणि घस्रोत्सवः ।
घर्माणां रयचुम्बितं वितनुते तत्पिष्टपिष्टीकृतक्ष्मादिग्व्योमतमोघमोघमधुना मोघं निदाघद्युतिः ॥64॥
दूरारूढस्तिमिरजलधेर्वाडवश्चित्रभानुर्भानुस्ताम्यद्वनरुहवनीकेलिवैहासिकोऽयम् ।
न स्वात्मीयं किमिति दधते भास्वरश्वेतिमानं द्यामद्यापि द्युमणिकरणश्रेणयः शोणयन्ति ॥65॥
प्रातर्वर्णनयानया निजवपुर्भूषाप्रसादानदाद्देवी वः परितोषितेति निहितामान्तःपुरीभिः पुरः ।
सूता मण्डनमण्डलीं परिदधुर्माणिक्यरोचिर्मयक्रोधावेगसरागलोचनरुचा दारिद्र्यविद्राविणीम् ॥66॥
आगच्छन्भणतामुषाः क्षाणमथातिथ्यं दृशोरानशे स्वर्गङ्गाम्बुनि बन्दिनी कृतदिनारम्भाप्लुतिर्भूपतिः ।
आनन्दादतिपुष्पकं रथमधिष्ठाय प्रियायौतके प्राप्तं तैरवरागतैरविदितप्रासादतो निर्गमः ॥67॥
श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
एकामत्यजतो नवार्थघटनामेकान्नविंशो महाकाव्ये तस्य कृतौ नलीयचरिते सर्गोऽयमस्मिन्नगात् ॥68॥
विंशतिः सर्गः
सम्पाद्यताम्सौधाद्रिकुट्टिमानेकधातुकाधित्यकातटम् ।
स प्राप रथपाथोभृद्वातजातजवो दिवः ॥1॥
ततः प्रत्युदगाद्भैमी कान्तमायान्तमन्तिकम् ।
प्रतीचीसिन्धुवीचीव दिनोंकारे सुधाकरम् ॥2॥
स दूरमादरं तस्या वदने मदनैकदृक् ।
दृष्टमन्दाकिनीहेमारविन्दश्रीरविन्दत ॥3॥
तेन स्वर्देशसंदेशमर्षितं सा करोदरे ।
बभ्राजे बिभ्रती पद्मं पद्मेवोन्निद्रपद्मदृक् ॥4॥
प्रियेणाल्पमपि प्रत्तं बहु मेनेतरामसौ ।
एकलक्षतया दध्यौ यत्तमेकवराटकम् ॥5॥
प्रेयसावादि सा तन्वि त्वदालिङ्गनविघ्नकृत् ।
समाप्यतां विधिः शेषः क्लेशश्चेतसि चेन्न ते ॥6॥
क्वैतावान्नर्ममर्माविद्विद्यते विधिरद्य ते ।
इति तं मनसा रोषादवोचद्वचसा न सा ॥7॥
क्षणविच्छेदकादेव विधेर्मुग्धे विरज्यसि ।
विच्छेत्ता न चिरं त्वेति हृदाह स्म तदा कलिः ॥8॥
सावज्ञेवाथ सा राज्ञः सखीं पद्ममुखीमगात् ।
लक्ष्मीः कुमुदकेदारादारादम्भोजिनीमिव ॥9॥
ममासावपि मा संभूत्कलिद्वापरवत्परः ।
इतीव नित्यसत्रेतां स त्रेतां पर्यतूतुषत् ॥10॥
क्रियां प्राह्णेतनीं कृत्वा निषेधन्पाणिना सखीम् ।
कराभ्यां पृष्ठगस्तस्या न्यमिमीलदसौ दृशौ ॥11॥
दमयन्त्या वयस्याभिः सहास्याभिः समीक्षितः ।
प्रसृतिभ्यामिवायामं मापयन्प्रेयसीदृशोः ॥12॥
तर्कितालि त्वमित्यर्धवाणीका पाणिमोचनात् ।
ज्ञातस्पर्शान्तरा मौनमानशे मानसेविनी ॥13॥
सावादि सुतनुस्तेन कोपस्ते नायमौचिती ।
त्वां प्रापं यत्प्रसादेन प्रिये तन्नाद्रिये तपः ॥14॥
निशि दास्यं गतोऽपि त्वां स्नात्वा यन्नाभ्यवीवदम् ।
तं प्रवृत्तासि मन्तुं चेन्मन्तुं तद्वद वन्द्यसे ॥15॥
इत्येतस्याः पदासत्त्यै पत्यैष प्रेरितौ करौ ।
रुद्ध्वा सकोपं सातङ्कं तं कटाक्षैरमूमुहत् ॥16॥
अवोचत ततस्तन्वीं निषधानामधीश्वरः ।
तदपाङ्गचलत्तारझलत्कारवशीकृतः ॥17॥
कटाक्षकपटारब्धदूरलङ्घनरंहसा ।
दृशा भीत्या निवृत्तं ते कर्णकूपं निरूप्य किम् ॥18॥
सरोषापि सरोजाक्षि त्वमुदेषि मुदे मम ।
तप्तापि शतपत्रस्य सौरभायैव सौरभा ॥19॥
छेत्तुमिन्दौ भवद्वक्त्रबिम्बविभ्रमविभ्रमम् ।
शङ्के शशाङ्कमानङ्के भिन्नभिन्नविधिर्विधिः ॥20॥
ताम्रपर्णीतटोत्पन्नैर्मौक्तिकैरिन्दुकुक्षिजैः ।
बद्धस्पर्धतरा वर्णाः प्रसन्नाः स्वादवस्तव ॥21॥
त्वद्गिरः क्षीरपाथोधेः सुधयैव सहोत्थिताः ।
अद्ययावदहो धावद्दुग्धलेपलवस्मिताः ॥22॥
पूर्वपर्वतमाश्लिष्टचन्द्रिकश्चन्द्रमा इव ।
अलंचक्रे स पर्यङ्कमङ्कसंक्रमिताप्रियः ॥23॥
प्रावृडारम्भणाम्भोदः स्निग्धां द्यामिव स प्रियाम् ।
परिरभ्य चिरायास विश्लेषायासमुक्तये ॥24॥
चुचुम्बास्यमसौ तस्या रसमग्नः श्रितस्मितम् ।
नभोमणिरिवाम्भोजं मधुमध्यानुबिम्बितः ॥25॥
अथाहूय कलां नाम पाणिना स प्रियासखीम् ।
पुरस्ताद्वेशितामूचे कर्तुं नर्मणि साक्षिणीम् ॥26॥
कस्मादस्माकमब्जास्य वयस्या दयते न ते ।
आसक्ता भवतीष्वन्यं मन्ये न बहु मन्यते ॥27॥
अन्वग्राहि मया प्रेयान्निशि स्वोपनयादिति ।
न विप्रलभते तावदालीरियमलीकवाक् ॥28॥
आह स्मैषा नलादन्यं न जुषे मनसेति यत् ।
यौवनानुमितेनास्यास्तन्मृषाभून्मनोभुवा ॥29॥
आस्यसौन्दर्यमेतस्याः शृणुमो यदि भाषसे ।
तद्धि लज्जानमन्मौलेः परोक्षमधुनापि नः ॥30॥
पूर्णयैव द्विलोचन्या सैषालीरवलोकते ।
द्राग्दृगन्ताणुना मां तु मन्तुमन्तमिवेक्षते ॥31॥
न लोकते यथेदानीं मामियं तेन कल्पये ।
योऽहं दूत्येऽनया दृष्टः सोऽपि व्यस्मारिषीडृशा ॥32॥
रागं दर्शयते सैषा वयस्याः सूनृतामृतैः ।
मम त्वमिति वक्तुं मां मौनिनी मानिनी पुनः ॥33॥
कां नामन्त्रयते नाम नामग्राहमियं सखीम् ।
कले नलेति नास्माकीं स्पृशत्याह्वां न जिह्वया ॥34॥
अस्याः पीनस्तनव्याप्ते हृदयेऽस्मासु निर्दये ।
अवकाशलवोऽप्यस्ति नात्र कुत्र बिभर्तु नः ॥35॥
अधिगत्येदृगेतस्या हृदयं मृदुतामुचोः ।
प्रतीम एव वैमुख्यं कुचयोर्युक्तवृत्तयोः ॥36॥
इति मुद्रितकण्ठेऽस्मिन्सोल्लुण्ठमभिधाय ताम् ।
दमयन्तीमुखाधीतस्मितयाऽसौ तया जगे ॥37॥
भावितेयं त्वया साधु नवरागा खलु त्वयि ।
चिरंतनानुरागार्हं वर्तते नः सखीः प्रति ॥38॥
स्मरशास्त्रविदा सेयं नवोढा नस्त्वया सखी ।
कथं संभुज्यते बाला कथम्स्मासु भाषताम् ॥39॥
नासत्यवदनं देव त्वां गायन्ति जगन्ति यम् ।
प्रिया तस्य सरूपा स्यादन्यथालपना न ते ॥40॥
मनोभूरस्ति चित्तेऽस्याः किंतु देव त्वमेव सः ।
त्वदवस्थितिभूर्यस्मान्मनः सख्या दिवानिशम् ॥41॥
सतस्तेऽथ सखीचित्ते प्रतिच्छाया स मन्मथह् ।
त्वयास्य समरूपत्वमतनोरन्यथा कथम् ॥42॥
कः स्मरः कस्त्वमत्रेति संदेहे शोभयोभयोः ।
त्वय्येवार्थितया सेयं धत्ते चित्तेऽथवा युवाम् ॥43॥
त्वयि न्यस्तस्य चित्तस्य दुराकर्षत्वदर्शनात् ।
शाङ्कया पङ्कजाक्षी त्वां दृगंशेन स्पृशत्यसौ ॥44॥
विलोकनात्प्रभृत्यस्या लग्न एवासि चक्षुषोः ।
स्वेनालोकय शङ्का चेत्प्रत्ययः परवाचि कः ॥45॥
परीरम्भेऽनयारभ्य कुचकुङ्कुमसंक्रमम् ।
त्वयि मे हृदयस्यैवं राग इत्युदितैव वाक् ॥46॥
मनसायं भवन्नामकामसूक्तजपव्रती ।
अक्षसूत्रं सखीकण्ठश्चुम्बत्येकावलिच्छलात् ॥47॥
अध्यासिते वयस्याया भवता महता हृदि ।
स्तनावन्तरसंमान्तौ निष्क्रान्तौ ब्रूमहे बहिः ॥48॥
कुचौ दोषोज्झितावस्याः पीडितौ व्रणितौ त्वया ।
कथं दर्शयतामास्यं बृहन्तावावृतौ ह्रिया ॥49॥
इत्यसौ कलया सूक्तैः सिक्तः पीयूषवर्षिभिः ।
ईदृगेवेति पप्रच्छ प्रियामुन्नमिताननाम् ॥50॥
बभौ च प्रेयसीवक्त्रं पत्युरुन्नमयन्करः ।
चिरेण लब्धसंधानमरविन्दमिवेन्दुना ॥51॥
ह्रीणा च स्मयमाना च नमयन्ती पुनर्मुखम् ।
दमयन्ती मुदे पत्युरुच्चैरप्यभवत्तदा ॥52॥
भूयोऽपि भूपतिस्तस्याः सखीमाह स्म सस्मितम् ।
परिहासविलासाय स्पृहयालुः सहप्रियः ॥53॥
क्षन्तुं मन्तुं दिनस्यास्य वयस्येयं व्यवस्यतात् ।
निशीव निशिधात्वर्थं यदाचरति नात्र नः ॥54॥
दिनेनास्या नुखस्येन्दुः सखा यदि तिरस्कृतः ।
तत्कृता शतपत्त्राणां तन्मित्त्राणामपि श्रियः ॥55॥
लज्जितानि जितान्येव मयि क्रीडितयाऽनया ।
प्रत्यावृत्तानि तत्तानि पृच्छ संप्रति कं प्रति ॥56॥
निशि दष्टाधरायापि सैषा मह्यं न रुष्यतु ।
क्व फलं दशते बिम्बीलता कीराय कुप्यति ॥57॥
सृणीपदसुचिह्ना श्रीश्चोरिता कुम्भिकुम्भयोः ।
पश्यैतस्याः कुचाभ्यां तन्नृपस्तौ पीडयानि न ॥58॥
अधरामृतपानेन ममास्यमपराध्यतु ।
मूर्ध्ना किमपराद्धं यः पादौ नाप्नोति चुम्बितुम् ॥59॥
अपराद्धं भवद्वाणीश्राविणा पृच्छ किं मया ।
वीणाह परुषं यन्मां कलकण्ठी च निष्ठुरम् ॥60॥
सेयमालिजने स्वस्य त्वयि विश्वस्य भाषताम् ।
ममताऽनुमताऽस्मासु पुनः प्रस्मर्यते कुतः ॥61॥
अथोपवदने भैम्याः स्वकर्णोपनयच्छलात् ।
संनिधाप्य श्रुतौ तस्या निजास्यं सा जगाद ताम् ॥62॥
अहो मयि रहोवृत्तं धूर्ते किमपि नाभ्यधाः ।
आस्स्व सभ्यमिमं तत्ते भूपमेवाभिधापये ॥63॥
स्मरशास्त्रमधीयाना शिक्षितासि मयैव यम् ।
अगोऽपि सोऽपि कृत्वा किं दाम्पत्यव्यत्ययस्त्वया ॥64॥
मौनिन्यामेव सा तस्यां तदुक्तीरिव शृण्वती ।
वादं वादं मुहुश्चक्रे हुंहुमित्यन्तरान्तरा ॥65॥
अथासावभिसृत्यास्था रतिप्रागल्भ्यशंसिनी ।
सख्या लीलाम्बुजाघातमनुभूयालपन्नृपम् ॥66॥
दृष्टं दृष्टं महाराज त्वदर्थाभ्यर्थनकुधा ।
यत्ताडयति मामेवं यद्वा तर्जयति भ्रुवा ॥67॥
वदत्यचिह्नि चिह्नेन त्वया केनैष नैषधः ।
शङ्के शक्रः स्वयं कृत्वा मायामायातवानियम् ॥68॥
स्वर्णदीस्वर्णपद्मिन्याः पद्मदानं निदानताम् ।
नयतीयं त्वदिन्द्रत्वे दिवश्चागमनं च ते ॥69॥
भाषते नैषधच्छायामायामायि मया हरेः ।
आह चाहमहल्यायां तस्याकर्णितदुर्नया ॥70॥
संभावयति वैदर्भी दर्भाग्राभमतिस्तव ।
जम्भारित्वं कराम्भोजाद्दम्भोलिपरिरम्भिणः ॥71॥
अनन्यसाक्षिकाः साक्षात्तदाख्याय रहःक्रियाः ।
शङ्कातङ्कं तुदैतस्या यदि त्वं तत्त्वनैषधः ॥72॥
इति तत्सुप्रयुक्तत्वनिह्नुतीकृतकैतवाम् ।
वाचमाकर्ण्य तद्भावे संशयालुः शशंस सः ॥73॥
स्मरसि छद्मनिद्रालुर्मया नाभौ शयार्पणात् ।
यदानन्दोल्लसल्लोमा पद्मनाभीभविष्यसि ॥74॥
आनासि ह्रीभयव्यग्रा यन्नवे मन्मथोत्सवे ।
सामिभुक्तैव मुक्तासि मृद्वि खेदभयान्मया ॥75॥
स्मर जित्वाजिमेतस्त्वां करे मत्पदधाविनि ।
अङ्गुलीयुगयोगेन यदाश्लिक्षं जने घने ॥76॥
वेत्थ मानेपि मत्त्यागदूनां स्वं मां च यन्मिथः ।
मद्दृष्टालिख्य पश्यन्ती व्यबाधा रेखयाऽन्तरा ॥77॥
प्रस्मृतं न त्वया तावद्यन्मोहनविमोहितः ।
अतृप्तोऽधरपानेषु रसनामपिबं तव ॥78॥
त्वत्कुचार्द्रनखाङ्कस्य मुद्रामालिङ्गनोत्थिताम् ।
स्मरेः स्वहृदि यत्स्मेरसखीः शिल्पं तवाब्रवम् ॥79॥
त्वयान्याः क्रीडयन्मध्येमधुगोष्ठि रुषेक्षितः ।
वेत्सि तासां पुरो मूर्ध्ना त्वत्पादे यत्किलास्खलम् ॥80॥
वेत्थ मय्यागते प्रोष्य यत्त्वां पश्यति हार्दिनि ।
अचुम्बीरालिमालिङ्ग्य तस्यां केलिमुदा किल ॥81॥
जागर्ति तत्र संस्कारः स्वमुखाद्भवदानने ।
विक्षिप्यायाचिषं यत्ता न्यायात्ताम्बूलफालिकाः ॥82॥
चित्ते तदस्ति कच्चित्ते नखजं यत्क्रुधा क्षतम् ।
प्राग्भावाधिगमागस्स्थे त्वया शम्बाकृतं क्षतम् ॥83॥
स्वदिग्विनिमयेनैव निशि पार्श्वविवर्तिनोः ।
स्वप्नेष्वप्यस्तवैमुख्ये सख्ये सौख्यं स्मरावयोः ॥84॥
क्षणं प्राप्य सदस्येव नृणां विमनितेक्षणम् ।
दर्शिताधरमद्दंशा ध्याय यन्मामतर्जयः ॥85॥
तथावलोक्य लीलाब्जनालभ्रमणविभ्रमात् ।
करौ योजयताध्ये(धी)हि यन्मयासि प्रसादिता ॥86॥
ताम्बूलदानमन्यस्तकरजं करपङ्कजे ।
मम न स्मरसि प्रायस्तव नैव स्मरामि तत् ॥87॥
तदध्ये (धी) हि मृषोद्यं मां हित्वा यत्त्वं गता सखीः ।
तत्रापि मे गतस्याग्रे लीलयैवाच्छिनस्तृणम् ॥88॥
स्मरसि प्रेय्सि प्रायो यद्द्वितीयरतासहा ।
शुचिरात्रीत्युपालब्धा त्वं मयापिकनादिनी ॥89॥
भुञ्जानस्य नवं निम्बं परिवेविषती मधौ ।
सपत्नीष्वपि मे रागं संभाव्य स्वरुषः स्मरेः ॥90॥
स्मर शार्करमास्वाद्य त्वया राद्धमिति स्तुवन् ।
स्वनिन्दारोषरक्तात्तु यदभैषं तवाधरात् ॥91॥
मुखादारभ्य नाभ्यन्तं चुम्बं चुम्बमतृप्तवान् ।
न प्रापं चुम्बितुं यत्ते धन्या तच्चुम्बतु स्मृतिः ॥92॥
कमपि स्मरकेलिं तं स्मर यत्र भवन्निति ।
मया विहितसंबुद्धिर्वीडिता स्मितवत्यसि ॥93॥
नीलदाचिबुकं यत्र मदाक्तेन श्रमाम्बुना ।
स्मर हारमणौ दृष्टं स्वमास्यं तत्क्षणोचितम् ॥94॥
स्मर तन्नखमत्रोरौ कस्तेधा(दा)दिति ते मृषा ।
ह्रीदैवतमलुम्पं यद्व्रतं रतपरोक्षणम् ॥95॥
वनकेलौ स्मराश्वत्थदलं भूपतितं प्रति ।
देहि मह्यमुदस्येति मद्गिरा व्रीडितासि यत् ॥96॥
इति तस्या रहस्यानि प्रिये शंसति सान्तरा ।
पाणिभ्यां पिदधे सख्याः श्रवसी ह्रीवशीकृता ॥97॥
कर्णौ पीडयती सख्या वीक्ष्य नेत्रासितोत्पले ।
अप्यपीडयतां भैमीकरकोकनदे तु (नु) तौ ॥98॥
तत्प्रविष्टं सखीकर्णौ पत्युरालपितं ह्रिया ।
पिदधाविव वैदर्भी स्वरहस्याभिसंधिना ॥99॥
तमालोक्य प्रियाकेलिं नले सोत्प्रासहासिनि ।
आरात्तत्त्वमबुद्ध्वापि सख्यः सिष्मियिरेऽपराः ॥100॥
दम्पत्योरुपरि प्रीत्या ता धराप्सरसस्तयोः ।
ववृषुः स्मितपुष्पाणि सुरभीणि मुखानिलैः ॥101॥
तदास्यहसिताज्जातं स्मितमासामभासत ।
आलोकादिव शीतांशोः कुमुदश्रेणिजृम्भणम् ॥102॥
प्रत्यभिज्ञाय विज्ञाथ स्वरं हासविकस्वरम् ।
सख्यास्तासु स्वपक्षायाः कला जातबलाऽजनि ॥103॥
साहूयोच्चैरथोचे तामेहि स्वर्गेण वञ्चिते ।
पिब वाणी सुधावेणीर्नृपचन्द्रस्य सुन्दरि ॥104॥
साशृणोत्तस्य वाग्भागमनत्यासत्तिमत्यपि ।
कल्पग्रामाल्पनिर्घोषं बदरीव कृशोदरी ॥105॥
अथ स्वपृष्ठनिष्ठायाः शृण्वत्या निषधाभिधाः ।
नलमौलिमणौ तस्या भावमाकलयत्कला ॥106॥
प्रतिबिम्बेक्षितैः सख्या मुखाकूतैः कृतानुमा ।
तद्द्रीडाद्यनुकुर्वाणा शृण्वतीवान्वमायि सा ॥107॥
कारं कारं तथाकारमूचे साऽशृणवंतमाम् ।
मिथ्या वेत्थ गिरश्चैतद्व्यर्थाः स्युर्मम देवताः ॥108॥
मत्कर्णभूषणानां तु राजन्निबिडपीडनात् ।
व्यथिष्यमाणपाणिस्ते निषेद्धुमुचिता प्रिया ॥109॥
इति सा मोचयांचक्रे कर्णौ सख्याः करग्रहात् ।
पत्युराश्रवतां यान्त्यामुधायासनिषेधिनः ॥110॥
श्रुतिसंरोधजध्वानसंततिच्छेदतालताम् ।
जगाम झटिति त्यागस्वनस्तत्कर्णयोस्ततः ॥111॥
सापसृत्य कियद्दूरं मुमुदे सिष्मिये ततः ।
इदं च तां सखीमेत्य ययाचे काकुभिः कला ॥112॥
अभिधास्ये रहस्यं ते यदश्रावि मयानयोः ।
वर्णयाकर्णितं मह्यमेह्यालि विनिमीयताम् ॥113॥
वयस्याभ्यर्थनेनास्याः प्राक्कूटश्रूतिनाटने ।
विस्मितौ कुरुतः स्मैतौ दम्पती कम्पितं शिरः ॥114॥
तथालिमालपन्तीं तामभ्यधान्निषधाधिपः ।
आस्स्व तद्वञ्चितौ स्वश्चेन्मिथ्याशपथसाहसात् ॥115॥
प्रत्यालापीत्कलापीमं कलङ्कः शङ्कितः कुतः ।
प्रियापरिजनोक्तस्य त्वयैवाद्य मृषोद्यता ॥116॥
सत्यं खलु तदाश्रौषां परं गुमुगुमारवम् ।
शृणोमीत्येव चावोचं नतु त्वद्वाचमित्यपि ॥117॥
आमन्त्र्य तेन देव त्वां तद्वैयर्थ्यं समर्थये ।
शपथः कर्कशोदर्कः सत्यं सत्योपि दैवतः ॥118॥
असंभोगकथारम्भैर्वञ्चयेथे कथं नु माम् ।
हन्त सेयमनर्हन्ती यन्न विप्रलभे युवाम् ॥119॥
कर्णे कर्णे ततः सख्यौ श्रुतमाचख्यतुर्मिथः ।
मुहुर्विस्मयमाने च स्मयमाने च ते बहु ॥120॥
अथाख्यायि कलासख्या कुप्य मे दमयन्ति मा ।
कर्णाद्द्वितीयतोऽप्यस्याः संगोप्यैव यदब्रवम् ॥121॥
प्रियः प्रियामथाचष्ट दृष्टं कपटपाटवम् ।
वयस्ययोरिदं तेऽस्मान्मा सखीष्वेव विश्वसीः ॥122॥
आलापि कलयापीयं पतिर्नालपति क्वचित् ।
रहस्येऽसौ रहस्यं तत्सभ्ये विस्रभ्यमीदृशि ॥123॥
इति व्युत्तिष्ठमानायां तस्यामूचे नलः प्रियाम् ।
भण भैमि बहिः कुर्वे दुर्विनीते गृहादमुम् ॥124॥
शिरःकम्पानुमत्याथ सुदत्या प्रीणितः प्रियः ।
चुलुकं तुच्छमुत्सर्प्य सख्योः सलिलमक्षिपत् ॥125॥
तच्चित्रदत्ताचित्ताभ्यामुच्चैः सिचयसेचनम् ।
ताभ्यामलिम्भि दूरेऽपि नलेच्छापूरिभिर्जलैः ॥126॥
वरेण वरुणस्यायं सुलभैरम्भसां भरैः ।
एतयोः स्तिमितीचक्रे हृदयं विस्मयैरपि ॥127॥
तेनापि नापसर्पन्त्यौ दमयन्तीमयं ततः ।
हर्षेणादर्शयत्पश्य नन्विमे तन्वि मे पुरः ॥128॥
क्लिन्नीकृत्याम्भसा वस्त्रं जैनप्रव्रजितीकृते ।
सख्यौ सक्षौमभावेऽपि निर्विघ्नस्तनदर्शने ॥129॥
अम्बुनः शम्बरत्वेन मायैवाविरभूदियम् ।
यत्पटावृतमप्यङ्गमनयोः कथयत्यदः ॥130॥
वाससो वाम्बरत्वेन दृश्यतेयमुपागमत् ।
चारुहारमणिश्रेणितारवीक्षणलक्षणा ॥131॥
ते निरीक्ष्य निजावस्थां ह्रीणे निर्ययतुस्ततः ।
तयोर्वीक्षारसात्सख्यः सर्वां निश्चक्रमुः क्रमात् ॥132॥
ता बहिर्भूय वैदर्भीमूचुर्नीतावधीतिनि ।
उपेक्ष्ये ते पुनः सख्यौ मर्मज्ञे नाधुनाप्यमू ॥133॥
उच्चैरूचेऽथ ता राजा सखीयमिदमाह वः ।
श्रुतं मर्म ममैताभ्यां दृष्टं तत्तु मयानयोः ॥134॥
मद्विरोधितयोर्वाचि न श्रद्धातव्यमेतयोः ।
अभ्यषिञ्चदिमे मायामिथ्यासिंहासने विधिः ॥135॥
घौतेऽपि कीर्तिधाराभिश्चरिते चारुणि द्विषः ।
मृषामषीलवैर्लक्ष्म लेखितुं के न शिल्पिनः ॥136॥
ते सख्यावाचचक्षाते न किंचिद् ब्रूवहे बहु ।
वक्ष्यावस्तत्परं यस्मै सर्वा निर्वासिता वयम् ॥137॥
स्थापत्यैर्न स्म वित्तस्ते वर्षीयस्त्वचलत्करैः ।
कृतामपि तथावाचि करकम्पेन वारणाम् ॥138॥
अपयातमितो धृष्टे धिग्वामश्लीलशीलताम् ।
इत्युक्ते चोक्तवन्तश्च व्यतिद्राते स्म ते भिया ॥139॥
आह स्म तद्गिरा ह्रीणां प्रियां नतमुखीं नलः ।
ईदृग्भण्डसखी कापि निस्त्रपा न मनागपि ॥140॥
अहो नापत्रपाकं ते जातरूपमिदं मुखम् ।
नातितापार्जनेऽपि स्यादितो दुर्वर्णनिर्गमः ॥141॥
तामथैष हृदि न्यस्य ददौ तल्पतले तनुम् ।
निमिष्य च तदीयाङ्गसौकुमार्यमसिस्वदत् ॥142॥
न्यस्य तस्याः कुचद्वन्द्वे मध्येनीवि निवेश्य च ।
स पाणेः सफलं चक्रे तत्करग्रहणश्रमम् ॥143॥
स्थापितामुपरि स्वस्य तां हृदा स मुदा वहन् ।
तदुद्वहनकर्तृत्वमाचष्ट स्पष्टमात्मनः ॥144॥
स्विद्यत्कराङ्गुलीलुप्तकस्तूरीलेपमुद्रया ।
पूत्कार्यपीडनौ चक्रे स सखीषु प्रियास्तनौ ॥145॥
तत्कुचे नखमारोप्य चमत्कुर्वंस्तयेक्षितः ।
सोऽवादीत्तां हृदिस्थं ते किं मामभिनदेष न ॥146॥
अहो अनौचितीयं ते हृदि शुद्धेऽप्यशुद्धवत् ।
अङ्कः खलैरिवाकल्पि नखैस्तीक्ष्णमुखैर्मम ॥147॥
यच्चुम्बति नितम्बोरु यदालिङ्गति च स्तनौ ।
भुङ्क्ते गुणमयं तत्ते वासः शुभदशोचितम् ॥148॥
लीनचीनांशुकं स्वेदि दरालोक्यं विलोकयन् ।
तन्नितम्बं स निश्वस्य निनिन्द दिनदीर्घताम् ॥149॥
देशमेव ददंशासौ प्रियादन्तच्छदान्तिकम् ।
चकाराधरपानस्य तत्रैवालीकचापलम् ॥150॥
न क्षमे चपलापाङ्गि सोढुं स्मरशरव्यथाम् ।
तत्प्रसीद प्रसीदेति स तां प्रीतामकोपयत् ॥151॥
नेत्रे निषधनाथस्य प्रियाया वदनाम्बुजम् ।
ततः स्तनतटौ ताभ्यां जघनं घनमीयतुः ॥152॥
इत्यधीरतया तस्य हठवृत्तिविशङ्किनी ।
झटित्युत्थाय सोत्कण्ठमसावन्वसरत्सखीः ॥153॥
न्यवारीव यथाशक्ति स्पन्दं मन्दं वितन्वता ।
भैमीकुचनितम्बेन नलसंभोगलोभिना ॥154॥
अपि श्रोणिभरस्वैरां धर्तुं तामशकन्न सः ।
तदङ्गसङ्गजस्तम्भो गजस्तम्भोरुदोरपि ॥155॥
आलिङ्ग्यालिङ्ग्य तन्वङ्गि मामित्यर्धगिरं प्रियम् ।
स्मित्वा निवृत्य पश्यन्ती द्वारपारमगादसौ ॥156॥
प्रियस्याप्रियमारभ्य तमन्तर्दूनयाऽनया ।
शेके शालीनयालीभ्यो न गन्तुं न निवर्तितुम् ॥157॥
अचकथदथ बन्दिसुन्दरी द्वाःसविधमुपेत्य नलाय मध्यमह्नः ।
जय नृप दिनयौवनोष्मतप्ताप्लवनजलानि पिपासति क्षितिस्ते ॥158॥
उपहृतमधिगङ्गमम्बु कम्बुच्छवि तव वाञ्छति केशभङ्गिसङ्गात् ।
अनुभवितुमनन्तरं तरङ्गासमशमनस्वसृमिश्रभावशोभाम् ॥159॥
तपति जगत एव मूर्ध्नि भूत्वा रविरधुना त्वमिवाद्भुतप्रतापः ।
पुरमथनमुपास्य पश्य पुण्यैरधरितमेनमनन्तरं त्वदीयैः ॥160॥
आनन्दं हठमाहरन्निव हरध्यानार्चनादीक्षण-
स्यासत्तावपि भूपतिः प्रियतमाविच्छेदखेदालसः ।
पक्षद्वारदिशं प्रति प्रति मुहुर्द्राङ्गिर्गतप्रेयसी-
प्रत्यासत्तिधिया दिशन्दृशमसौ निर्गन्तुमुत्तस्थिवान् ॥161॥
श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं
श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
अन्याक्षुण्णरसप्रमेयभणितौ विंशस्तदीये महा-
काव्येऽयं व्यगलन्नलस्य चरिते सर्गो निसर्गोज्ज्वलः ॥162॥