नैषधीयचरितम् सर्गाः २०-२२

नैषधीयचरितम् सम्पूर्णम्

एकविंशतिः सर्गः

सम्पाद्यताम्

तं विदर्भरमणीमणिसौधादुज्जिहानमनुदर्शितसेवैः ।
अपर्णान्निजकरस्य नरेन्द्रैरात्मनः करदता पुनरूचे ॥1॥
तस्य चीनसिचयैरपि बद्धा पद्धतिः पदयुगात्कठिनेति ।
तां प्यधत्त शिरसां खलु माल्यैराजराजिरभितः प्रणमन्ती ॥2॥
द्रागुपाह्रियत तस्य नृपैतद्दृष्टिदानबहुमानकृतार्थैः ।
स्वस्य दिश्यमथ रत्नमपूर्वं यत्नकल्पितगुणाधिकचित्रम् ॥3॥
अङ्गुलीचलनलोचनभङ्गिभ्रूतरङ्गविनिवेदितदानम् ।
रत्नमन्यनृपढौकितमन्ये तत्प्रसादमलभन्त नृपास्तत् ॥4॥
तानसौ कुशलसूनृतसेकैस्तर्पितानथ पितेव विसृज्य ।
अस्त्रशस्त्रखुरलीषु विनिन्ये शैष्यकोपनमितानमितौजाः ॥5॥
मर्त्यदुष्प्रचरमस्त्रविचारं चारुशिष्यजनतामनुशिष्य ।
स्वेदबिन्दुकितगोधिरधीरं स श्वसन्नभवदाप्लवनेच्छुः ॥6॥
यक्षकर्दममृदून्मृदिताङ्गं प्राक्कुरङ्गमदमीलितमौलिम् ।
गन्धवार्भिरनुबन्धितभृङ्गैरङ्गना सिषिचुरुच्चकुचास्तम् ॥7॥
भृभृतं पृथुतपोघनमाप्तस्तं शुचिः स्नपयति स्म पुरोधाः ।
संदधज्जलधरस्खलदोघस्तीर्थवारिलहरीरुपरिष्टात् ॥8॥
प्रेयसीकुचवियोगहविर्भुग्जन्मधूमविततीरिव बिभ्रत् ।
स्नायिनः करसरोरुहयुग्मं तस्य गर्भधृतदर्भमराजत् ॥9॥
कल्प्यमानममुनाचमनाअर्थं गाङ्गमम्बु चुलुकोदरचुम्बि ।
निर्मलत्वमिलितप्रतिबिम्बद्यामयच्छदुपनीय करे नु ॥10॥
मुक्तमाप्य दमनस्य भगिन्या भूमिरात्मदयितं धृतरागा ।
अङ्गमङ्गमनुकं परिरेभे तं मृदो जलमृदूर्गृहयालुम् ॥11॥
मूलमध्यशिखरस्थितवेधःशौरिशंभुकरकाङ्घ्रिशिरःस्थैः ।
तस्य मूर्ध्नि चकरे शुचि दर्भैर्वारि वान्तमिव गाङ्गतरङ्गैः ॥12॥
प्राणमायतवतो जलमध्ये मञ्जिमानमभजन्मुखमस्य ।
आपगापरिवृढोदरपूरे पूर्वकालमुषितस्य सितांशोः ॥13॥
मर्त्यलोकमदनः सदशत्वं बिभ्रदभ्रविशदद्युतितारम् ।
अम्बरं परिदधे विधुमौलेः स्पर्धयेव दशदिग्वसनस्य ॥14॥
भीमजामनु चलत्प्रतिवेलं संयियंसुरिव राजऋषीन्द्रः ।
आववार हृदयं न समन्तादुत्तरीयपरिवेषमिषेण ॥15॥
स्नानवारिघटराजदुरोजा गौरमृत्तिलकबिन्दुमुखेन्दुः ।
केशशेषजलमौक्तिकदन्ता तं बभाज सुभगाप्लवनश्रीः ॥16॥
श्वैत्यशैत्यजलदैवतमन्त्रस्वादुताप्रमुदितां चतुरक्षीम् ।
वीक्ष्य मोघधृतसौरभलोभं घ्राणमस्य सलिलघ्रमिवासीत् ॥17॥
राज्ञि भानुमदुपस्थितयेऽस्मिन्नात्तमम्बु किरति स्वकरेण ।
भ्रान्तयः स्फुरति तेजसि चक्रुस्त्वष्टृतर्कुचलदर्कवितर्कम् ॥18॥
सम्यगस्य जपतः श्रुतिमन्त्राः संनिधानमभजन्त कराब्जे ।
शुद्धबीजविशदस्फुटवर्णाः स्फाटिकाक्षवलयच्छलभाजः ॥19॥
पाणिपर्वणि यवः पुनराख्यद्देवतर्पणयवार्पणमस्य ।
न्युप्यमानजलयोगितिलौघैः स द्विरुक्तकरकालतिलोऽभूत् ॥20॥
पूतपाणिचरणः शुचिनोच्चैरध्वनानितरपादहतेन ।
ब्रह्मचारिपरिचारि सुरार्चा वेश्म राजऋषिरेष विवेश ॥21॥
क्वापि यन्नभसि धूपजधूमैर्मेचकागुरुभवैर्भ्रमराणाम् ।
भूयते स्म सुमनःसुमनःस्रग्दामधामपटले पटलेन ॥22॥
साङ्कुरेव रुचिपीततमा यैर्यैः पुरास्ति रजनी रजनीव ।
ते धृआ वितरितुं त्रिदशेभ्यो यत्र हेमतिलका इव दीपाः ॥23॥
यत्र मौक्तिकमणेर्विरहेण प्रीतिकामधृतवह्निपदेन ।
कङ्कुमेन परिपूरितमन्तः शुक्तयः शुशुभिरेऽनुभवन्त्यः ॥24॥
अङ्कचुम्बिधनचन्दनपङ्कं यत्र गारुडशिलाजममत्रम् ।
प्राप केलिकवलीभवदिन्दोः सिंहिकासुतमुखस्य सुखानि ॥25॥
गर्भमैणमदकर्दमसान्द्रं भाजनानि रजतस्य भजन्ति ।
यत्र साम्यमगमन्नमृतांशोरङ्करङ्कुकलुषीकृतकुक्षेः ॥26॥
उज्जिहानसुकृताङ्कुरशङ्का यत्र धर्मगहने खलु तेने ।
भूरिशर्करकरम्भबलीनामालिभिः सुगतसौधसखानाम् ॥27॥
स्खर्वमाख्यदमरौघनिवासं पर्वतं क्वचन चम्पकसंपत् ।
मल्लिकाकुसुमराशिरकाऋषीद्यत्र च स्फटिकसानुमनुच्चम् ॥28॥
स्वात्मनः प्रियमपि प्रति गुप्तिं कुर्वती कुलवधूमवजज्ञौ ।
हृद्यदैवतनिवेद्यनिवेशाद्यत्र भूमिरवकाशदरिद्रा ॥29॥
यत्र कान्तकरपीडितनीलग्रावरश्मिचिकुरासु विरेजुः ।
गातृमूर्धविधुतेरनुबिम्बात्कुट्टिमक्षितिषु कुट्टिमितानि ॥30॥
नैकवर्णमणिभूषणपूर्णे स क्षितीन्दुरनवद्यनिवेद्ये ।
अध्यतिष्ठदमलं मणिपीठं तत्र चित्रसिचयोच्चयचारौ ॥31॥
सम्यगर्चति नलेऽर्कमतूर्णं भक्तिगन्धिरमुनाकलि कर्णः ।
श्रद्दधानहृदयप्रति चातः साम्बमम्बरमणिर्निरचैषीत् ॥32॥
तत्तदर्यमरहस्यजपेषु स्रङ्नयः शयममुष्य बभाज ।
रक्तिमानमिव शिक्षितुमुच्चै रक्तचन्दनजबीजसमाजः ॥33॥
हेमनामकतरुप्रसवेन त्र्यम्बकस्तदुपकल्पितपूजः ।
आत्तया युधि विजित्य रतीशं राजितः कुसुमकाहलयेव ॥34॥
अर्चयन्हरकरं स्मितभाजा नागकेसरतरोः प्रसवेन ।
सोयमापयदतिर्यगवाग्दिक्पालपाण्डुरकपालविभूषाम् ॥35॥
नीलनीररुहमाल्यमयीं स न्यस्य तस्य गलनालविभूषाम् ।
स्फाटिकीमपि तनुं निरमासीन्नीलकण्ठपदसान्वयतायै ॥36॥
प्रीतिमेष्यति कृतेन ममेदृक्कर्मणा पुररिपुर्मदनारिः ।
तत्पुरः पुरमतोयमधाक्षीद्धूपरूपमथ कामशरं च ॥37॥
तन्मुहूर्तमपि भीमतनूजाविप्रयोगमसहिष्णुरिवायम् ।
शूलिमौलिशशिभीततयाऽभूद्ध्यानमूर्च्छननिमीलितनेत्रः ॥38॥
दण्डवद्भुवि लुठन्स ननाम त्र्यम्बकं शरणभागिव कामः ।
आत्मशस्त्रविशिखासनबाणान्न्यस्य तत्पदयुगे कुसुमानि ॥39॥
त्र्यम्बकस्य पदयोः कुसुमानि न्यस्य सैष निजशस्त्रनिभानि ।
दण्डवद्भुवि लुठन्किमु कामस्तं शरण्यमुपगम्य ननाम ॥40॥
व्यापृतस्य शतरुद्रियजप्तौ पाणिमस्य नवपल्लवलीलम् ।
भृङ्गभङ्गिरिव रुद्रपराक्षश्रेणिरश्रयत रुद्रपरस्य ॥41॥
उत्तमं स महति स्म महीभृत्पूरुषं पुरुषसूक्तविधानैः ।
द्वादशापि च स केशवमूर्तीर्द्वादशाक्षरमुदीर्य ववन्दे ॥42॥
मल्लिकाकुसुमदुण्डुभकेन स भ्रामीवलयितेन कृते तम् ।
आसने निहितमैक्षत साक्षात्कुण्डलीन्द्रतनुकुण्डलभाजम् ॥43॥
मेचकोत्पलमयी बलिबन्द्धुस्तद्वलिस्रगुरसि स्फुरति स्म ।
कौस्तुभाख्यमणिकुट्टिमवास्तुश्रीकटाक्षविकटायितकोटिः ॥44॥
स्वर्णकेतकशतानि स हेम्नः पुण्डरीकघटनां रजतस्य ।
मालयारुणमणेः करवीरं तस्य मूर्ध्नि पुनरुक्तमकार्षीत् ॥45॥
नाल्पभक्तबलिरन्ननिवेद्यैस्तस्य हारिणमदेन स कृष्णः ।
शङ्खचक्रजलजातवदर्चः शङ्खचक्रजलपूजनयाभूत् ॥46॥
राज्ञि कृष्णलघुधूपनधूमाः पूजयत्यहिरिपुध्वजमस्मिन् ।
निर्ययुर्भवधृता भुजगा भीदुर्यशोमलिनिता इव जालैः ॥47॥
अर्घनिःस्वमणिमाल्यविमिश्रैः स्मेरजातिमयदामसहस्रैः ।
तं पिधाय विदधे बहुरत्नक्षीरनीरनिधिमग्नमिवैषः ॥48॥
अक्षसूत्रगतपुष्करबीजश्रेणिरस्य करसंकरमेत्य ।
शौरिमुक्तजपितुः पुनरापत्पद्मसद्मचिरवासविलासम् ॥49॥
कैटभारिपदयोर्नितमूर्ध्ना सञ्जिता विचकिलस्रगनेन ।
जह्नुजेव भुवनप्रभुणाऽभात्सेवितानुनयतायतमाना ॥50॥
स्वानुरागमनघः कमलायां सूचयन्नपि हृदि न्यसनेन ।
गौरवं व्यधित वागधिदेव्याः श्रीगृहोर्ध्वनिजकण्ठनिवेशात् ॥51॥
इत्यवेत्य वसुना बहुनापि प्राप्नुवन्न मुदमर्चनया सः ।
सूक्तिमौक्तिकमयैरथ हारैर्भक्तिमैहत हरेरुपहारैः ॥52॥
दूरतः स्तुतिरवाग्विषयस्ते रूपमस्मदभिधा तव निन्दा ।
तत्क्षमस्व यदहं प्रलपामीत्युक्तिपूर्वमयमेतदवोचत् ॥53॥
स्वप्रकाश जड एष जनस्ते वर्णनं यदभिलष्यति कर्तुम् ।
नन्वहर्पतिमहः प्रति स स्यान्न प्रकाशनरसस्तमसः किम् ॥54॥
मैव वाङ्मनसयोर्विषयो भूस्त्वां पुनर्न कथमुद्दिशतां ते ।
उत्कचातकयुगस्य घनः स्यात्तृप्तये घनमनाप्नुवतोऽपि ॥55॥
छद्ममत्स्यवपुषस्तव पुच्छास्फालनाज्जलमिवोद्धतमब्धेः ।
श्वैत्यमेत्य गगनाङ्गणसङ्गादाविरस्ति विबुधालयगङ्गा ॥56॥
भूरिसृष्टिधृतभूवलयानां पृष्ठसीमनि किणैरिव चक्रैः ।
चुम्बितावतु जगत्सितिरक्षाकर्मठस्य कमठस्तव मूर्तिः ॥57॥
दिक्षु यत्खुरचतुष्टयमुद्रामभ्यवैमि चतुरोऽपि समुद्रान् ।
तस्य पोत्रिवपुषास्तव दंष्ट्रा तुष्टयेऽस्तु मम वाऽस्तु जगत्याः ॥58॥
उद्धृतिस्खलदिलापरिरम्भाल्लोमभिर्बहिरितैर्बहुहृष्टैः ।
ब्राह्ममण्डमभवद्वलिनीपं केलिकोल तव तत्र न मातः ॥59॥
दानवाद्यगहनप्रभवस्त्वं सिंह मामव रवैर्घनघोरैः ।
वैरिदारिदिविषत्सुकृतास्त्रग्रामसंभवभवन्मनुजार्धः ॥60॥
दैत्यभर्तुरुदरान्धुनिविष्टां शक्रसंपदमिवोद्धरतस्ते ।
पातु पाणिशृणिपञ्चकमस्माञ्छिन्नरज्जुनिभलग्नतदन्त्रम् ॥61॥
स्वेन पूर्यत इयं सकलाशा भो बले न मम किं भवतेति ।
त्वं बटुः कपटवाचि पटीयान्देहि वामन मनःप्रमदं नः ॥62॥
दानवारिरसिकायविभूतेर्वश्मि तेऽस्मि सुतरां प्रतिपत्तिम् ।
इत्युदग्रपुलकं बलिनोक्तं त्वां नमामि कृतवामनमायम् ॥63॥
भोगिभिः क्षितितले दिवि वासं बन्धमेष्यसि चिरं ध्रियमाणः ।
पाणिरेष भुवनं वितरेति छद्मवाग्भिरव वामन विश्वम् ॥64॥
आशयस्य विवृतिः क्रियते किं दित्सुरस्मि हि भवच्चरणेभ्यः ।
विश्वमित्यभिहितो बलिनास्मान्वामन प्रणतपावन पायाः ॥65॥
क्षत्त्रजातिरुदियाय भुजाभ्यां या तवैव भुवनं सृजतः प्राक् ।
जामदग्न्यवपुषस्तव तस्यास्तौ लयार्थमुचितौ विजयेताम् ॥66॥
पांसुला बहुपतिर्नियतं या वेधसारचि रुषा नवखण्डा ।
तां भुवं कृतवतो द्विजभुक्तां युक्तकारितरता तव जीयात् ॥67॥
कार्तवीर्यभिदुरेण दशास्ये रैणुकेय भवता सुखनाश्ये ।
कालभेदविरहादसमाधिं नौमि रामपुनरुक्तिमहं ते ॥68॥
हस्तलेखमसृजत्खलु जन्मस्थानरेणुकमसौ भवदर्थम् ।
राम राममधरीकृततत्तल्लेखकः प्रथममेव विधाता ॥69॥
उद्भवाजतनुजादज कामं विश्वभूषण न दूषणमत्र ।
दूषणप्रशमनाय समर्थं येन देव तव वैभवमेव ॥70॥
नो ददासि यदि तत्त्वधियं मे यच्छ मोहमपि तं रघुवीर ।
येन रावणचमूर्युधि मूढा त्वन्मयं जगदपश्यदशेषम् ॥71॥
आज्ञया च पितुरज्ञभिया च श्रीरहीयत महीप्रभवा द्विः ।
लङ्घितश्च भवता किमु नद्विर्वारिराशिरुदकाङ्कगलङ्कः ॥72॥
कामदेवविशिखैः खलु नेशं माऋपयज्जनकजामिति रक्षः ।
दैवतादमरणे वरवाक्यं तथ्ययत्स्वमपुनाद्भवदस्त्रैः ॥73॥
तद्यशो हसति कम्बुकदम्बं शम्बुकस्य न किमम्बुधिचुम्बि ।
नामशेषितससैन्यदशास्यादस्तमाप यदसौ तव हस्तात् ॥74॥
मृत्युभीतिकरपुण्यजनेन्द्रत्रासदानजमुपाऋज्य यशस्तत् ।
ह्रीणवानसि कथं न विहाय क्षुद्रदुर्जनभिया निजदारान् ॥75॥
इष्टदारविरहौर्वपयोधिस्त्वं शरण्य शरणं स ममैधि ।
लक्ष्मणक्षाणवियोगकृशानौ यः स्वजीविततृणाहुतियज्वा ॥76॥
क्रौञ्चदुःखमपि वीक्ष्य शुचा यः श्लोकमेकमसृजत्कविराद्यः ।
स त्वदुत्थकरुणः खलु काव्यं श्लोकसिन्धुमुचितं प्रबबन्ध ॥77॥
विश्रवःपितृकयाप्तुमनर्हं सश्रवस्त्वमनयेत्युचितज्ञः ।
किं चकर्तिथ न शूर्पणखाया लक्ष्मणेन वपुषा श्रवसी वा ॥78॥
ते हरन्तु दुरितव्रततिं मे यैः स कल्पविटपी तव दोर्भिः ।
छद्मयादवतनोरुदपाटि स्पर्धमान इव दानमदेन ॥79॥
बालकेलिषु तदा यदलावीः कर्परीभिरभिहत्य तरङ्गान् ।
भाविबाणभुजभेदनलीलासूत्रपात्र इव पातु तदस्मान् ॥80॥
कर्णशक्तिमफलां खलु कर्तुं सज्जितार्जुनरथाय नमस्ते ।
केतनेन कपिनोरसि शक्तिं लक्ष्मणं कृतवता हृतशल्यम् ॥81॥
नापगेयमनयः सशरीरं द्यां वरेण नितरामपि भक्तम् ।
मा स भूत्सुरवधूसुरतज्ञो दिव्यपि व्रतविलोपभियेति ॥82॥
घातितार्कसुतकर्णदयालुर्जैत्रितेन्दुकुलपार्थकृतार्थः ।
अर्धदुःखसुखमभ्यनयस्त्वं सास्रुभानुविहसद्विधुनेत्रः ॥83॥
प्राणवत्प्रणयिराध न राधा पुत्रशत्रुसखिता सदृशी ते ।
श्रीप्रियस्य सदृगेव तवश्रीवत्समात्महृदि धर्तुमजस्रम् ॥84॥
तावकापरतनोः सितकेशस्त्वं हली किल स एव च शेषः ।
साध्वसाववतरस्तव धत्ते तज्जरच्चिकुरनालविलासः ॥85॥
हृद्यगन्धवहभोगवतीशः शेषरूपमपि बिभ्रदशेषः ।
भोगभूतिमदिरारुचिरश्रीरुल्लसत्कुमुदबन्धुरुचिस्त्वम् ॥86॥
रेवतीशसुषमा किल नीलस्याम्बरस्य रुचिरा तनुभासा ।
कामपाल भवतः कुमुदाविर्भावभावितरुचेरुचितैव ॥87॥
एकचित्तततिरद्वयवादिन्नत्रयीपरिचितोऽथ बुधस्त्वम् ।
पाहि मां विधुतकोटिचतुष्कः पञ्चबाणविजयी षडभिज्ञः ॥88॥
तत्र मारजयिनि त्वयि साक्षात्कुर्वति क्षणिकतात्मनिषेधौ ।
पुष्पवृष्टिरपतत्सुरहस्तात्पुष्पशस्त्रशरसंततिरेव ॥89॥
तावके हृदि निपात्य कृतेयं मन्मथेन दृढधैर्यतनुत्रे ।
कुण्ठनादतितमां कुसुमानां छत्त्रमित्त्रमुखतैव शराणाम् ॥90॥
यत्तव स्तवविधौ विधिरास्ये चातुरीं चरति तच्चतुरास्यः ।
त्वय्यशेषविदि जाग्रति शर्वः सर्वविद्ब्रुवतया शितिकण्ठः ॥91॥
भूमवत्कलयता युधि कालं म्लेच्छकल्पशिखिनां करवालम् ।
कल्किना दशतयं मम कल्कं त्वं व्युदस्य दशमावतरेण ॥92॥
देहिनेव यशसा भ्रमतोर्व्यां पाण्डुरेण रणरेणुभिरुच्चैः ।
विष्णुना जनयितुर्भवताभून्नाम विष्णुयशसश्च सदर्थम् ॥93॥
सन्तमद्वयमयेऽध्वनि दत्तात्रेयमर्जुनयशोर्जनबीजम् ।
नौमि योगजयितानघसंज्ञं त्वामलर्कभवमोहतमोर्कम् ॥94॥
भानुसुनुमनुगृह्य जय त्वं राममूर्तिहतवृत्रहपुत्रः ।
इन्द्रनन्दनसपक्षमपि त्वां नौमि कृष्न निहतार्कतनूजम् ॥95॥
वामनादणुतमादनुजीयास्त्वं त्रिविक्रमतनूभृतदिक्कः ।
वीतहिंसनकथादथ बुद्धात्कल्किना हतसमस्त नमस्ते ॥96॥
मां त्रिविक्रम पुनीहि पदे ते किं लगन्नजनि राहुरुपानत् ।
किं प्रदक्षिणनकृद्भ्रमिपाशं जाम्बवानदित ते बलिबन्धे ॥97॥
अर्धचक्रवपुषार्जुनबाहून्योऽलुनात्परशुनाथ सहस्रम् ।
तेन किं सकलचक्रविलूने बाणबाहुनिचयेऽञ्चति चिक्रम् ॥98॥
पाञ्चजन्यमधिगत्य करेणापाञ्चजन्यमसुरानिति वक्षि ।
चेतनाः स्थ किल पश्यत किं नाचेतनोऽपि मयि मुक्तविरोधः ॥99॥
तावकोरसि लसद्वनमाले श्रीफलद्विफलशाखिकयेव ।
स्थीयते कमलया त्वदजस्रस्पर्शकण्टकितयोत्कुचया च ॥100॥
त्यज्यते न जलजेन करस्ते शिक्षितुं सुभगभूयमिवोच्चैः ।
आननं च नयनायितबिम्बः सेवते कुमुदहासकरांशुः ॥101॥
ये हिरण्यकशिपुं रिपुमुच्चै रावणं च कुरुवीरचयं च ।
हन्त हन्तुमभवंस्तव योगास्ते नरस्य च हरेश्च जयन्ति ॥102॥
केयमर्धभवता भवतोहे मायिना ननु भवः सकलस्त्वम् ।
शेषतामपि भजन्तमशेषं वेद वेदनयनो हि जनस्त्वाम् ॥103॥
प्राग्भवैरुदगुदग्भवगुम्फान्मुक्तियुक्तिविहताविह तावत् ।
नापरः स्फुरति कस्यचनापि त्वत्समाधिमवधूय समाधिः ॥104॥
ऊर्ध्वदिक्कदलनां द्विरकार्षीः किं तनुं हरिहरीभवनाय ।
किं च तिर्यगभिनो नृहरित्वे कः स्वतन्त्रमनु नन्वनुयोगः ॥105॥
आप्तकाम सृजसि त्रिजगत्किं किं भिनत्सि यदि निर्मितमेव ।
पासि चेदमवतीर्य मुहुः किं स्वात्मनापि यदवश्यविनाश्यम् ॥106॥
जाह्नवीजलजकौस्तुभचन्द्रान्पादपाणिहृदयेक्षणवृत्तीन् ।
उत्थिताब्धिसलिलात्त्वयि लोला श्रीःस्थिता परिचितान्परिचिन्त्य ॥107॥
वस्तु वास्तु घटते न भिदानां यौक्तनैकविधबाधविरोधैः ।
तत्त्वदीहितविजृम्भिततत्तद्भेदमेतदिति तत्वनिरुक्तिः ॥108॥
वस्तु विश्वमुदरे तव दृष्ट्वा बाह्यवत्किल मृकण्डुतनूजः ।
स्वं विमिश्रमुभयं न विविञ्चन्निर्ययौ स कतमस्त्वमवैषि ॥109॥
ब्रह्मणोऽस्तु तव शक्तिलतायां मूर्ध्नि विश्वमथ पत्युरहीनाम् ।
बालतां कलयतो जठरे वा सर्वथासि जगतामवलम्बः ॥110॥
धर्मबीजसलिला सरिदङ्घ्रावर्थमूलमुरसि स्फुरति श्रीः ।
कामदैवतमपि प्रसवस्ते ब्रह्म मुक्तिदमसि स्वयमेव ॥111॥
लीलयापि तव नाम जना ये गृह्णते नरकनाशकरस्य ।
तेभ्य एव नरकैरुचिता भीस्ते तु बिभ्यतु कथं नरकेभ्यः ॥112॥
मृत्युहेतुषु न वज्रनिपाताद्भीतिमर्हति जनस्त्वयि भक्तः ।
यत्तदोच्चरति वैष्णवकण्ठान्निष्प्रयत्नमपि नाम तव द्राक् ॥113॥
सर्वथापि शुचिनि क्रियमाणे मन्दिरोदर इवावकरा ये ।
उद्भवन्ति भविनां हृदि तेषां शोधनी भवदनुस्मृतिधारा ॥114॥
अस्मदाद्यविषयेऽपि विशेषे रामनाम तव धाम गुणानाम् ।
अन्वबन्धि भवतैव तु कस्मादन्यथा ननु जनुस्त्रितयेऽपि ॥115॥
भक्तिभाजमनुगृह्य दृशा मां भाष्करेण कुरु वीततमस्कम् ।
अर्पितेन मम नाथ न तापं लोचनेन विधुना विधुनासि ॥116॥
लङ्घयन्नहरहर्भवदाज्ञामस्मि हा विधिनिषेधमयीं यः ।
दुर्लभं स तपसापि गिरैव त्वत्प्रसादमहमिच्छुरलज्जः ॥117॥
विश्वरूप कृतविश्व कियत्ते वैभवाद्भुतमणौ हृदि कुर्वे ।
हेम नह्यति कियन्निजचीरे काञ्चनाद्रिमधिगत्य दरिद्रः ॥118॥
इत्युदीर्य स हरिं प्रति संप्रज्ञातवासिततमः समपादि ।
भावनाबलविलोकितविष्णौ प्रीतिभक्तिसदृशानि चरिष्णुः ॥119॥
विप्रपाणिषु भृशं वसुवर्षी पात्रसात्कृतपितृक्रतुकव्यः ।
श्रेयसा हरिहरं परिपूज्य प्रह्व एष शरणं प्रविवेश ॥120॥
माध्यंदिनादनु विधेर्वसुधाषुधांशुरास्वादितामृतमयौदनमोदमानः ।
प्राञ्चं स चित्रमविदूरितवैजयन्तं वेश्माचलं निजरुचीभिरलंचकार ॥121॥
भीमात्मजापि कृतदैवतभक्तिपूजा पत्यौ च भुक्तवति भुक्तवती ततोऽनु ।
तस्याङ्कमङ्कुरिततत्परिरिप्समध्यमध्यास्त भूषणभरातिभरालसाङ्गी ॥122॥
तामन्वगादशितबिम्बविपाकचञ्चोः स्पष्टं शलाटुपरिणत्युचितच्छदस्य ।
कीरस्य कापि करवारिरुहे वहन्ती सौन्दर्यपुञ्जमिव पञ्जरमेकमाली ॥123॥
कूजायुजा बहुलपक्षशितिम्नि सीम्ना स्पष्टं कुहूपदपदार्थमिथोऽन्वयेन ।
तिर्यग्धृतस्फटिकदण्डकवर्तिनैका तामन्ववर्तत पिकेन मदाधिकेन ॥124॥
शिष्याः कलाविधिषु भीमभुवो वयस्या वीणामृदुक्वणनकर्मणि याः प्रवीणाः ।
आसीनमेनमुपवीणयितुं ययुस्ता गन्धर्वराजतनुजा मनुजाधिराजम् ॥125॥
तासामभासत कुरङ्गदृशां विपञ्ची किंचित्पुरः कलितनिष्कलकाकलीका ।
भैमीतथामधुरकण्ठलतोपकण्ठे शब्दायितुं प्रथममप्रतिभावतीव ॥126॥
सा यद्धृताखिलकलागुणभूमभूमीभैमीतुलाधिगतये स्वरसंगतासीत् ।
तं प्रागसावविनयं परिवादमेत्य लोकेऽधुनापि विदिता परिवादिनीति ॥127॥
नादं निषादमधुरं ततमुज्जगार साभ्यासभागवनिभृत्कुलकुञ्जरस्य ।
स्तम्बेरमीव कृतसश्रुतिमूर्धकम्पा वीणा विचित्रकरचापलमाभजन्ती ॥128॥
आकृष्य सारमखिलं किमु वल्लकीनां तस्या मृदुस्वरमसर्जि न कण्ठनालम् ।
तेनान्तरं तरलभावमवाप्य वीणा ह्रीणा न कोणममुचत्किमु वालयेषु ॥129॥
तद्दम्पतिश्रुतिमधून्यथ चाटुगाथा वीणास्तथा जगुरतिस्फुटवर्णबन्धम् ।
इत्थं यथा वसुमतीरतिगृह्यकस्ताः कीरः किरन्मुदमुदीरयति स्म विश्वाः ॥130॥
अस्माकमुक्तिभिरवैष्यथ एव बुद्धेर्गाधं युवामतिमती स्तुमहे तथापि ।
ज्ञानं हि वागवसरावचनाद्भवद्भ्यामेतावदप्यनवधारितमेव न स्यात् ॥131॥
भूभृद्भवाङ्कभुवि राजशिखामणेः सा त्वं चास्य भोगसुभगस्य समः क्रमोऽयम् ।
यन्नाकपालकलनाकलितस्य भर्तुरत्रापि जन्मनि सती भवती स भेदः ॥132॥
एषा रतिः स्फुरति चेतसि कस्य यस्याः सूते रतिं द्युतिरथ त्वयि वा तनोति ।
त्रैयक्षवीक्षणखिलीकृतनिर्जरत्वसिद्धायुरध्वमकरध्वजसंशयं कः ॥133॥
एतां धरामिव सरिच्छविहारिहारामुल्लासितस्वमिदमाननचन्द्रभासा ।
बिभ्रद्विभासि पयसामिव राशिरन्तर्वेदिश्रियं जनमनः प्रियमध्यदेशाम् ॥134॥
दत्ते जयं जनितपत्त्रनिवेशनेयं साक्षीकृतेन्दुवदना मदनाय तन्वी ।
मध्यस्थदुर्बलतमत्वफलं किमेतद्भुक्तिर्यदत्र तव भर्त्सितमत्स्यकेतोः ॥135॥
चेतोभवस्य भवती कुचपत्त्रराजधानीयकेतुमकरा ननु राजधानी ।
अस्यां महोदयमहस्पृशिमीनकेतो के तोरणं तरुणि न ब्रुवते भ्रुवौ ते ॥136॥
अस्या भवन्तमनिशं भवतस्तथैनां कामः श्रमं न कथमृच्छति नाम गच्छन् ।
छायैव वामथ गतागतमाचरिष्णोस्तस्याध्वजश्रमहरा मकरध्वजस्य ॥137॥
स्वेदाप्लवप्रणयिनी नवरोमराजी रत्यै यदाचरति जागरितव्रतानि ।
आभासितेन नरनाथ मधूत्थसान्द्रमग्नासमेषुशरकेशरदन्तुराङ्गः ॥138॥
प्राप्ता तवापि नृप जीवितदेवतेयं घर्माम्बुशीकरकरम्बनमम्बुजाक्षी ।
ते ते यथा रतिपतेः कुसुमानि बाणाः स्वेदस्तथैव किमु तस्य शरक्षतास्रम् ॥139॥
रागं प्रतीत्य युवयोस्तमिमं प्रतीची भानुश्च किं द्वयमजायत रक्तमेतत् ।
तद्वीक्ष्य वां किमिह केलिसरित्सरोजैःकामेषुतोचितमुखत्वमधीयमानम् ॥140॥
अन्योन्यरागवशयोर्युवयोर्विलासस्वच्छन्दताच्छिदपयातु तदालिवर्गः ।
अत्याजयन्सिचयमाजिमकारयन्वा दन्तैर्नखैश्च मदनो मदनः कथं स्यात् ॥141॥
इति पठति शुके मृषा ययुस्ता बहु नृपकृत्यमवेत्य सांधिवेलम् ।
कुपितनिजसखीदृशार्धदृष्टाः कमलतयेव तदा निकोचवत्यः ॥142॥
अकृत परभृतः स्तुहिस्तुहीति श्रुतवचनस्रगनूक्तिचुञ्चुचञ्चुः ।
पठितनलनुतिं प्रतीव कीरं तमिव नृपं प्रति जातनेत्ररागः ॥143॥
तुङ्गप्रासादवासादथ भृशकृशतामायतीं केलिकुल्यामद्राक्षोदर्कबिम्बप्रतिकृतिमणिना भीमजा राजमानाम् ।
वक्रं वक्रं व्रजन्तीं फणियुवतिरिति त्रस्नुभिर्व्यक्तमुक्तान्योन्यं विद्रुत्य तीरे रथपदमिथुनैः सूचितामर्तिरुत्या ॥144॥
अथ रथचरणौ विलोक्य रक्तावतिविरहासहताहताविवास्रैः ।
अपि तमकृत पद्मसुप्तिकालं श्वसनविकीर्णसरोजसौरभं सा ॥145॥
अभिलपति पतिं प्रति स्म भैमी सदय विलोकय कोकयोरवस्थाम् ।
मम हृदयमिमौ च भिन्दतीं हा क इव विलोक्य नरो न रोदितीमाम् ॥146॥
कुमुदमुदमुदेष्यतीमसोढा रविरविलम्बितुकामतामतानीत् ।
प्रतितरु विरुवन्ति किं शकुन्ताः स्वहृदि निवेशितकोककाकुकुन्ताः ॥147॥
अपि विरहमनिष्टमाचरन्तावधिगमपूर्वकपूर्वसर्वचेष्टौ ।
इदमहह निदर्शनं विहंगौ विधिवशचेतनचेष्टनानुमाने ॥148॥
अङ्घ्रिस्थारुणिमेष्टकाविसरणैः शोणे कृपाणः स्फुटं कालोऽयं विधिना रथाङ्गमिथुनं विच्छेत्तुमन्विच्छता ।
रश्मिग्राहिगरुत्मदग्रजसमारब्धाविरामभ्रमौ दण्डभ्राजिनि भानुशाणवलये संसज्य किं निज्यते ॥149॥
इति स विधुमुखीमुखेन मुग्धालपितसुधासवमर्पितं निपीय ।
स्मितशबलवलन्मुखोऽवदत्तां स्फुटमिदमीदृशमीदृशं यथात्थ ॥150॥
स्त्रीपुंसौ प्रविभज्य जेतुमखिलावालोचितौचित्ययोर्नम्रां वेद्मि रतिप्रसूनशरयोश्चापद्वयीं त्वद्भ्रुवौ ।
त्वन्नासाच्छलनिह्नुतां द्विनलिकीं नालीकमुक्त्येषिणोस्त्वन्निश्वासलते मधुश्वसनजं वायव्यमस्त्रं तयोः ॥151॥
पीतो वर्णगुणः स चातिमधुरः कायेऽपि तेऽयं यथा यं बिभ्रत्कनकं सुवर्णमिति कैरादृत्य नोत्कीर्त्यते ।
का वर्णान्तरवर्णना धवलिमा राजैव रूपेषु यस्तद्योगादपि यावदेति रजतं दुर्वर्णतादुर्यशः ॥152॥
खण्डक्षोदमृदि स्थले मधुपयःकादम्बिनीतर्पणात्कृष्टे रोहति दोहदेन पयसां पिण्डेन चेत्पुण्ड्रकः ।
स द्राक्षाद्रवसेचनैर्यदि फलं धत्ते तदा त्वद्गिरामुद्देशाय ततोऽप्युदेति मधुराधारस्तमप्प्रत्ययः ॥153॥
उन्मीलद्गुडपाकतन्तुलतया रज्ज्वा भ्रमीरर्जयन्दानान्तःश्रुतशऋकराचलमथः स्वेनामृतान्धाः स्मरः ।
नव्यामिक्षुरसोदधेर्यदि सुधामुत्थापयेत्सा भवज्जिह्वायाः कृतिमाह्वयेत परमां मत्कर्णयोः पारणाम् ॥154॥
आस्ये या तव भारती वसति तल्लीलारविन्दोल्लसद्वासे तत्कलवैणनिक्वणमिलद्वाणीविलासामृते ।
तत्केलिभ्रमणार्हगैरिकसुधानिर्माणहर्म्याधरे तन्मुक्तामणिहार एव किमयं दन्तस्रजौ राजतः ॥155॥
वाणी मन्मथतीर्थमुज्ज्वलरसस्रोतस्वती कापि ते खण्डः खण्ड इतीदमीयपुलिनस्यालप्यते वालुका ।
एतत्तीरमृदैव किं विरचिताः पूताः सिताश्चक्रिकाः किं पीयूषमिदंपयांसि किमिदं तीरे तवैवाधरौ ॥156॥
परभृतयुवतीनां सम्यगायाति गातुं न तव तरुणि वाणी यं सुधासिन्धुवेणी ।
कति न रसिककण्ठे कर्तुमभ्यस्यतेऽसौ भवदुपविपिनाम्रे ताभिराम्रेडितेन ॥157॥
ऊर्ध्वस्ते रदनच्छदः स्मरधनुर्बन्धूकमालामयं मौर्वी तत्र तवाधराधरतटाधःसीमलेखालता ।
एषा वागपि तावकी ननु धनुर्वेदः प्रिये मान्मथः सोऽयं कोणधनुष्मतीभिरुचितं वीणाभिरभ्यस्यते ॥158॥
स ग्राम्यः स विदग्धसंसदि सदा गच्छत्यपाङ्क्तेयतां तं च स्प्रस्ष्टुमपि स्मरस्य विशिखा मुग्धे विगानोन्मुखाः ।
यः किं मध्विति नाधरं तव कथं हेमेति न त्वद्वपुः कीदृङ्नाम सुधेति पृच्छति न ते दत्ते गिरं चोत्तरम् ॥159॥
मध्ये बद्धाणिमा यत्सगरिममहिमश्रोणिवक्षोजयुग्मा जाग्रच्चेतोवशित्वा स्मितधृतलिघिमा मां प्रतीशित्वमेषि ।
सूक्तौ प्राकाम्यरम्या दिशि विदिशि यशोलब्धकामावसाया भूतीरष्टावपीशस्तददित मुदितः स्वस्य शिल्पाय तुभ्यम् ॥160॥
त्वद्वाचः स्तुतये वयं न पटवः पीयूषमेव स्तुमस्तस्यार्थे गरुडामरेन्द्रसमरः स्थाने स जानेऽजनि ।
द्राक्षापानकमानमर्दनसृजा क्षीरे दृढावज्ञया यस्मिन्नाम धृतोऽनया निजपदप्रक्षालनानुग्रहः ॥161॥
शोकश्चेत्कोकयोस्त्वां सुदति तुदति तद्व्याहराज्ञाकरस्ते गत्वा कुल्यामनस्तं व्रजितुमनुनये भानुमेतज्जलस्थम् ।
बद्धे मय्यञ्जलावप्यनुनयविमुखः स्यान्ममैकग्रहोऽयं दत्त्वैवाभ्यां तदम्भोञ्जलिमिह भवतीं पश्य मामेष्यमाणम् ॥162॥
तदानन्दाय त्वत्परिहसितकन्दाय भवती निजालीनां लीनां स्थितिमिह मुहूर्तं मृगयताम् ।
इतिव्याजात्कृत्वालिषु चलितचित्तां सहचरीं स्वयं सोयं यंतनविधिविधित्सुर्बहिरभूत् ॥163॥
श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं
श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
तस्यागादयमेकविंशगणनाकाव्येऽतिनव्ये
कृतौ भैमीभर्तृचरित्रवर्णनमये सर्गो निसर्गोज्ज्वलः ॥164॥

द्वाविंशतिः सर्गः

सम्पाद्यताम्

उपास्य सांध्यं विधिमन्तिमाशारागेण कान्ताधरचुम्बिचेताः ।
अवाप्तवान्सप्तमभूमिभागे भैमीधरं सौधमसौ धरेन्द्रः ॥1॥
प्रत्युद्व्रजन्त्या प्रियया विमुक्तं पर्यङ्कमङ्कस्थितसज्जशय्यम् ।
अध्यास्य तामप्यधिवास्य सोऽयं संध्यामुपश्लोकयति स्म सायम् ॥2॥
विलोकनेनानुगृहाण तावद्दिशं जलानामधिपस्य दारान् ।
अक्षालि लाक्षापयसेव येयमपूरि पङ्कैरिव कुङ्कुमस्य ॥3॥
उच्चैस्तरादम्बरशैलमौलेश्च्युतो रविर्गैरिकगण्डशैलः ।
तस्यैव पातेन विचूर्णितस्य संध्यारजोराजिरिहोज्जिहीते ॥4॥
अस्ताद्रिचूडालयपक्कणालिच्छेकस्य किं कुक्कुटपेटकस्य ।
यामान्तकूजोल्लसितैः शिखौघैर्दिग्वारुणी द्रागरुणीकृतेयम् ॥5॥
पश्य द्रुतास्तंगतसूर्यनिर्यत्करावलीहैङ्गुलवेत्रयात्र ।
निषिध्यमानाहनि संध्ययापि रात्रिप्रतीहारपदेऽधिकारम् ॥6॥
महानटः किं नु सभानुरागे संध्याय संध्यां कुनटीमपीशाम् ।
तनोति तन्वावियतापि तारश्रेणिस्रजा सांप्रतमङ्ग हारम् ॥7॥
भूषास्थिदाम्नस्त्रुटितस्य नाट्यात्पश्योडुकोटीकपटं वहद्भिः ।
दिग्मण्डलं मण्डयतीह खण्डैः सायंनटस्तारकराट्किरीटः ॥8॥
कालः किरातः स्फुटपद्मकस्य वधं व्यधाद्यस्य दिनद्विपस्य ।
तस्येव संध्या रुचिरास्रधारा ताराश्च कुम्भस्थलमौक्तिकानि ॥9॥
संध्यासरागः ककुभो विभागः शिवाविवाहे विभुनायमेव ।
दिग्वाससा पूर्वमवैमि पुष्पसिन्दूरिकापर्वणि पर्यधायि ॥10॥
सतीमुमामुद्वहता च पुष्पसिन्दूरिकाऋथं वसने सुनेत्रे ।
दिशौ द्विसंधीमभि रागशोभे दिग्वाससोभे किमलम्भिषाताम् ॥11॥
आदाय दण्डं सकलासु दिक्षु योऽयं परिभ्राम्यति भानुभिक्षुः ।
अब्धौ निमज्जन्निव तापसोऽयं संध्याभ्रकाषायमधत्त सायम् ॥12॥
अस्ताचलेऽस्मिन्निकषोपलाभे संध्याकषोल्लेखपरीक्षितो यः ।
विक्रीय तं हेलिहिरण्यपिण्डं तारावराटानियमादित द्यौः ॥13॥
पचेलिमं दाडिममर्कबिम्बमुत्तार्य संध्या त्वगिवोज्झितास्य ।
तारामयं बीजभुजादसीयं कालेन निष्ठ्यूतमिवास्थियूथम् ॥14॥
(ताराततिर्बीजमिवादमादमियं निरष्ठेवि यदस्थियूथम् ।
तन्निष्कुलाकृत्य रविं त्वगेषा संध्योज्झिता पाकिमदाडिमं वा ॥15॥)
संध्यावशेषे धृतताण्डवस्य चण्डीपतेः पत्पतनाभिघातात् ।
कैलासशैलस्फटिकाश्मखण्डैरमण्डि पश्योत्पतयालुभिर्द्यौः ॥16॥
इत्थं ह्रिया वर्णनजन्मनेव संध्यामपक्रान्तवतीं प्रतीत्य ।
तारातमोदन्तुरमन्तरिक्षं निरीक्षमाणः स पुनर्बभाषे ॥17॥
रामेषुमर्मव्रणनार्तिवेगाद्रत्नाकरः प्रागयमुत्पपात ।
ग्राहौघकिर्मीरितमीनकम्बु नभो न भोः कामशरासनभ्रु ॥18॥
मोहाय देवाप्सरसां विमुक्तास्ताराः शराः पुष्पशरेण शङ्के ।
पञ्चास्यवत्पञ्चशरस्य नाम्नि प्रपञ्चवाची खलु पञ्चशब्दः ॥19॥
नभोनदीकूलकुलायचक्रीकुलस्य नक्तं विरहाकुलस्य ।
दृशोरपां सन्ति पृषन्ति ताराः पतन्ति तत्संक्रमणानि धाराः ॥20॥
अमूनि मन्येऽमरनिर्झरिण्या यादांसि गोधा मकरः कुलीरः ।
तत्पूरखेलत्सुरभीतिदूरो मग्नान्यधः स्पष्टमितः प्रतीमः ॥21॥
स्मरस्य कम्बुः किमयं चकास्ति दिवि त्रिलोकीजयवादनीयः ।
कस्यापरस्योडुमयैः प्रसूनैर्वादित्रशक्तिर्घटते भटस्य ॥22॥
किं योगिनीयं रजनी रतीशं याजीजिवत्पद्मममूमुहच्च ।
योगर्द्धिमस्या महतीमलग्नमिदं वदत्यम्बरचुम्बि कम्बु ॥23॥
प्रबोधकालेऽहनि बाधितानि ताराः खपुष्पाणि निदर्शयन्ती ।
निशा ह शून्याध्वनि योगिनीयं मृषा जगद्दृष्टमपि स्फुटाभम् ॥24॥
एणः स्मरेणाङ्कमयः सपत्राकृतो भवद्भ्रूयुगधन्वना यः ।
मुखे तवेन्दौ लसता स तारा पुष्पालिबाणानुगतो गतोऽयम् ॥25॥
लोकाश्रयो मण्डपमादिसृष्टिब्रह्माण्डमाभात्यनुकाष्ठमस्य ।
स्वकान्तिरेणूत्करवान्तिमन्ति घुणव्रणद्वारनिभानि भानि ॥26॥
शचीसपत्न्यां दिशि पश्य भैमी शक्रेभदानद्रवनिर्झरस्य ।
पोप्लूयते वासरसेतुनाशादुच्छृङ्खलः पूर इवान्धकारः ॥27॥
रामालिरोमावलिदिग्विगाहि ध्वान्तायते वाहनमन्तकस्य ।
यद्वीक्ष्य दूरादिव बिभ्यतः स्वानश्वान्गृहीत्वापसृतो विवस्वान् ॥28॥
पक्वं महाकालफलं किलासीत्प्रत्यग्गिरेः सानुनि भानुबिम्बम् ।
भिन्नस्य तस्यैव दृषन्निपाताद्बीजानि जानामितमां तमांसि ॥29॥
पत्युर्गिरीणामयशः सुमेरुप्रदक्षिणाद्भास्वदनादृतस्य ।
दिशस्तमश्चैत्ररथान्यनामपत्रच्छटाया मृगनाभिशेभि ॥30॥
ऊर्ध्वं धृतं व्योम सहस्ररश्मेर्दिवा सहस्रेण करैरिवासीत् ।
पतत्तदेवांशुमता विनेदं नेदिष्ठतामेति कुतस्तमिस्रम् ॥31॥
ऊर्ध्वार्पितन्युब्जकटाहकल्पे यद्व्योम्नि दीपेन दिनाधिपेन ।
न्यधायि तद्भूममिलद्गुरुत्वं भूमौ तमः कज्जलमस्खलत्किम् ॥32॥
ध्वान्तैणनाभ्या शितिनाम्बरेण दिशः शरैः सूनशरस्य तारैः ।
मन्दाक्षलक्ष्या निशि मामनिन्दौ सेर्ष्या भवायान्त्यभिसारिकाभाः ॥33॥
भास्वन्मयीं मीलयतो दृशं द्राङ्मिथोमिलद्व्यञ्चलमादिपुंसः ।
आचक्ष्महे तन्वि तमांसि पक्ष्म श्यामत्वलक्ष्मीविजितेन्दुलक्ष्म ॥34॥
विवस्वतानायिषतेव मिश्राः स्वगोसहस्रेण समं जनानाम् ।
गावोऽपि नेत्रापरनामधेयास्तेनेदमान्ध्यं खलु नान्धकारैः ॥35॥
ध्वान्तस्य वामोरु विचारणायां वैशेषिकं चारु मतं मतं मे ।
औलूकमाहुः खलु दर्शनं तत्क्षमं तमस्तत्त्वनिरूपणाय ॥36॥
म्लानिस्पृशः स्पर्शनिषेधभूमेः सेयं त्रिशङ्कोरिव संपदस्य ।
न किंचिदन्यत्प्रति कौशिकीये दृशौ विहाय प्रियमातनोति ॥37॥
मूर्धाभिषिक्तः खलु यो ग्रहाणां तद्भासमास्कन्दत ऋक्षशोभम् ।
दिवान्धकारं स्फुटलब्धरूपमालोकतालोकमुलूकलोकः ॥38॥
दिने मम द्वेषिणि कीदृगेषां प्रचार इत्याकलनाय चारीः ।
छाया विधाय प्रतिवस्तुलग्नाः प्रावेशयत्प्रष्टुमिवान्धकारः ॥39॥
ध्वान्तस्य तेन क्रियमाणयेत्थं द्विषाः शशी वर्णनयाऽथ रुष्टः ।
उद्यन्नुपाश्लोकि जपारुणश्रीर्नराधिपेनानुनयेच्छयेव ॥40॥
पश्यन्वृतोऽप्येष निमेषमद्रेरधित्यकाभूमितिरस्करिण्या ।
प्रवर्षति प्रेयसि चन्द्रिकामिश्चकोरचञ्चूचुलुकप्रमिन्दुः ॥41॥
ध्वान्ते द्रुमान्तानभिसारिकास्त्वं शङ्कस्व सङ्केतनिकेतमाप्ताः ।
छायाच्छलादुज्झितनीलचेला ज्योत्स्नानुकूलैश्चरिता दुकूलैः ॥42॥
त्वदास्यलक्ष्मीमुकुरं चकोरैः स्वकौमुदीमादयमानमिन्दुम् ।
दृशा निशेन्दीवरचारुभासा पिबोरु रम्भातरुपीवरोरु ॥43॥
असंशयं सागरभागुदस्थात्पृथ्वीधरादेव मथः पुरायम् ।
अमुष्य यस्मादधुनापि सिन्धौ स्थितस्य शैलादुदयं प्रतीमः ॥44॥
निजानुजेनातिथितामुपेतः प्राचीपतेर्वाहनवारणेन ।
सिन्दूरसान्द्रे किमकारि मूर्ध्नि तेनारुणश्रीरयमुज्जिहीते ॥45॥
यत्प्रीतिमद्भिर्वदनैः स्वसाम्यादचुम्बि नाकाधिपनायिकानाम् ।
ततस्तदीयाधरयावयोगादुदेति बिम्बारुणबिम्ब एषः ॥46॥
विलोमिताङ्कोत्किरणाद्दुरूहदृगादिना दृश्यविलोचनादि ।
विधिर्विधत्ते विधुना वधूनां किमाननं काञ्चनसञ्चकेन ॥47॥
( अनेन वेधा विपरीतरूपविनिर्मिताङ्कोत्किरणाङ्गकेन ।
त्वदाननं दृश्यदृगाद्यलक्ष्यदृगादिनैवाकृत सञ्चकेन ॥48॥ )
अस्याः सुराधीशदिशः पुरासीद्यदम्बरं पीतमिदं रजन्या ।
चन्द्रांशुचूर्णव्यतिचुम्बितेन तेनाधुना नूनमलोहितायि ॥49॥
तानीव गत्वा पितृलोकमेनमरञ्जयन्यानि स जामदग्न्यः ।
छित्त्वा शिरोस्त्राणि सहस्रबाहोर्विस्राणि विश्राणितवान्पितृभ्यः ॥50॥
अकर्णनासस्त्रपते मुखं ते पश्यन्न सीतास्यमिवाभिरामम् ।
रक्तोस्रवर्षी बत लक्ष्मणाभिभूतः शशी शूर्पणखामुखाभः ॥51॥
आदत्त दीप्रं मणिमम्बरस्य दत्त्वा यदस्मै खलु सायधूर्तः ।
रज्यत्तुषारद्युतिकूटहेम तत्पाण्डु जातं रजतं क्षणेन ॥52॥
बालेन नक्तंसमयेन मुक्तं रौप्यं लसद्बिम्बमिवेन्दुबिम्बम् ।
भ्रमिक्रमादुज्झितपट्टसूत्रनेत्रावृतिं मुञ्चति शोणिमानम् ॥53॥
ताराक्षरैर्यामसिते कठिन्या निशालिखद्व्योम्नि तमःप्रशस्तिम् ।
विलुप्य तामल्पयतोऽरुणेऽपि जातः करे पाण्डुरिमा हिमांशोः ॥54॥
सितो यदात्रैष तदान्यदेशे चकास्ति रज्यच्छविरुज्जिहानः ।
तदित्थमेतस्य निधेः कलानां को वेद वा रागविरागतत्त्वम् ॥55॥
कश्मीरजै रश्मिभिरौपसंध्यैर्मृष्टं धृतध्वान्तकुरङ्गनाभि ।
चन्द्रांशुना चन्दनचारुणाङ्गं क्रमात्समालम्भि दिगङ्गनाभिः ॥56॥
विधिस्तुषारर्तुदिनानि कर्तंकर्तं विनिर्माति तदन्तभित्तैः ।
ज्योत्स्नीर्नचेत्तत्प्रतिमा इमा वा कथं कथं तानि च वामनानि ॥57॥
इत्युक्तिशेषे स वधूं बभाषे सूक्तिश्रुतासक्तिनिबद्धमौनाम् ।
मुखाभ्यसूयानुशयादिवेन्दौ केयं तव प्रेयसि मूकमुद्रा ॥58॥
शृङ्गारभृङ्गारसुधाकरेण वर्णस्रजानूपय कर्णकूपौ ।
त्वच्चारुवाणीरसवेणितीरं तृणानुकारः खलु कोषकारः ॥59॥
अत्रैव वाणीमधुना तवापि श्रोतुं समीहे मधुनः सनाभिम् ।
इति प्रियप्रेरितया तयाथ प्रस्तोतुमारम्भि शशिप्रशस्तिः ॥60॥
पूरं विधुर्वर्धयितुं पयोधेः शङ्केऽयमेणाङ्कमणिं कियन्ति ।
पयांसि दोग्धि प्रियविप्रयोगसशोककोकीनयने कियन्ति ॥61॥
ज्योत्स्नामयं रात्रिकलिन्दकन्यापूरानुकारेऽपसृतेऽन्धकारे ।
परिस्फुरन्निर्मलदीप्तिदीपं व्यक्तायते सैकतमन्तरीपम् ॥62॥
हासत्विषैवाखिलकैरवाणां विश्वं विशङ्केऽजनि दुघ्दमुग्धम् ।
यतो दिवा बद्धमुखेषु तेषु स्थितेऽपि चन्द्रे न तथा चकास्ति ॥63॥
मृत्युंजयस्यैष वसञ्जटायां न क्षीयते तद्भयदूरमृत्युः ।
न वर्धते च स्वसुधाप्तजीवस्रग्मुण्डराहूद्भवभीरतीव ॥64॥
त्विषं चकोराय सुधां सुराय कलामपि स्वावयवं हराय ।
ददज्जयत्येष समस्तमस्य कल्पद्रुमभ्रातुरथाल्पमेतत् ॥65॥
अङ्केणनाभेर्विषकृष्णकण्ठः सुधाप्तशुद्धः कटभस्मपाण्डुः ।
अर्हन्नपीन्दोर्निजमौलिधानान्मृडः कलामर्हति षोडशीं न ॥66॥
पुष्पायुधस्यास्थिभिरर्धदग्धैः सितासितश्रीरघटि द्विजेन्द्रः ।
स्मरारिणा मूर्धनि यद्धृतोऽपि तनोति तत्तौष्टिकपौष्टिकानि ॥67॥
मृगस्य लोभात्खलु सिंहिकायाः सूनुर्मृगाङ्कं कवलीकरोति ।
स्वस्यापि दानादमुमङ्कसुप्तं नोज्झन्मुदा तेन च मुच्यतेऽयम् ॥68॥
सुधाभुजो यत्परिपीय तुच्छमेतं वितन्वन्ति तदर्हमेव ।
पुरा निपीयास्य पितापि सिन्धुरकारि तुच्छः कलशोद्भवेन ॥69॥
चतुर्दिगन्तीं परिपूरयन्ती ज्योत्स्नैव कृत्स्ना सुरसिन्धुबन्धुः ।
क्षीरोदपूरोदरवासहार्दवैरस्यमेतस्य निरस्यतीयम् ॥70॥
पुत्री विधोस्ताण्डविकास्तु सिन्धोरश्या चकोरस्य दृशोर्वयस्या ।
तथापि सेयं कुमुदस्य कापि ब्रवीति नामैव हि कौमुदीति ॥71॥
ज्योत्स्नापयःक्ष्मातटवास्तुवस्तुच्छायाछलच्छिद्रधरा धरायाम् ।
शुभ्रांशुशुभ्रांशकराः कलङ्कनीलप्रभामिश्रविभा विभान्ति ॥72॥
कियान्यथानेन वियद्विभागस्तमोनिरासाद्विशदीकृतोयम् ।
अद्भिस्तथा लावणसैन्धवीभिरुल्लासिताभिः शितिरप्यकारि ॥73॥
गुणौ पयोधेर्निजकारणस्य न हानिवृद्धी कथमेतु चन्द्रः ।
चिरेण सोऽयं भजते तु यत्ते न नित्यमम्भोधिरिवात्र चित्रम् ॥74॥
आदर्शदृश्यत्वमपि श्रितोऽयमादर्शदृश्यां न बिभर्ति मूर्तिम् ।
त्रिनेत्रभूरप्ययमत्रिनेत्रादुत्पादमासादयति स्म चित्रम् ॥75॥
इज्येव देवव्रजभोज्यऋद्धिः शुद्धा सुधादीधितिमण्डलीयम् ।
हिंसां यथा सैव तथाङ्गमेषा कलङ्कमेकं मलिनं बिभर्ति ॥76॥
एकः पिपासुः प्रवहानिलस्य च्युतो रथाद्वाहनरङ्कुरेषः ।
अस्त्यम्बरेऽनम्बुनि लेलिहास्यः पिबन्नमुष्यामृतबिन्दुवृन्दम् ॥77॥
अस्मिञ्शिशौ न स्थित एव रङ्कुर्यूनि प्रियाभिर्विहितोपदायम् ।
आरण्यसंदेश इवौषधीभिरङ्के स शङ्के विधुना न्यधायि ॥78॥
अस्यैव सेवार्थमुपागतानामास्वादयन्पल्लवमोषधीनाम् ।
धयन्नमुष्यैव सुधाजलानि सुखं वसत्येष कलङ्करङ्कुः ॥79॥
रुद्रेषुविद्रावितमार्तमारात्तारामृगं व्योमनि वीक्ष्य बिभ्यत् ।
मन्येऽयमन्यः शरणं विवेश मत्वेशचूडामणिमिन्दुमेणः ॥80॥
पृष्ठेऽपि किं तिष्ठति नाथ रङ्कुर्विधोरङ्क इवेति शङ्का ।
तत्त्वाय तिष्ठस्व मुखे स्व एवं यद्द्वैरथे पृष्ठमपश्यदस्य ॥80॥
उत्तानमेवास्य वलक्षकुक्षिं देवस्य युक्तिः शशमङ्कमाह ।
तेनाधिकं देवगवेष्वपि स्यां श्रद्धालुरुत्तानगतौ शृउतायाम् ॥82॥
दूरस्थितैर्वस्तुनि रक्तनीले विलोक्यते केवलनीलिमा यत् ।
शशस्य तिष्ठन्नपि पृष्ठलोम्नां तन्नः परोक्षः खलु रागभागः ॥83॥
भङ्क्तुं प्रभुर्व्याकरणस्य दर्पं पदप्रयोगाध्वनि लोक एषः ।
शशो यदस्यास्ति शशी ततोऽयमेवं मृगोऽस्यास्ति मृगीति नोक्तः ॥84॥
यावन्तमिन्दुं प्रतिपत्प्रसूते प्रासावि तावानयमब्धिनापि ।
तत्कालमीशेन धृतस्य मूर्ध्नि विधोरणीयस्त्वमिहास्ति लिङ्गम् ॥85॥
आरोप्यते चेदिह केतकत्वमिन्दौ दलाकारकलाकलापे ।
तत्संवदत्यङ्कमृगस्य नाभिकस्तूरिक्रा सौरभवासनाभिः ॥86॥
आसीद्यथाज्यौतिषमेष गोलः शशी समक्षं चिपिटस्तथोऽभूत् ।
स्वर्भानुदंष्ट्रायुगयन्त्रकृष्टपीयूषपिण्याकदशावशेषः ॥87॥
असावसाम्याद्वितनोः सखा नो कर्पूरमिन्दुः खलु तस्य मित्रम् ।
दग्धौ हि तौ द्वावपि पूर्वरूपाद्यद्वीर्यवत्तामधिकां दधाते ॥88॥
स्थाने विधोर्वा मदनस्य सख्यं स शंभुनेत्रे ज्वलति प्रलीनः ।
अयं लयं गच्छति दर्शभाजि भास्वन्मये चक्षुषि चादिपुंसः ॥89॥
नेत्रारविन्दत्वमगान्मृगाङ्कः पुरा पुराणस्य यदेष पुंसः ।
अस्याङ्क एवायमगात्तदानीं कनीनिकेन्दिन्दिरसुन्दरत्वम् ॥90॥
देवेन तेनैष च काश्यपिश्च साम्यं समीक्ष्योभयपक्षभाजौ ।
द्विजाधिराजौ हरिणाश्रितौ च युक्तं नियुक्तौ नयनक्रियायाम् ॥91॥
यैरन्वमायि ज्वलनस्तुषारे सरोजिनीदाहविकारहेतोः ।
तदीयधूमौघतया हिमांशौ शङ्के कलङ्कोऽपि समर्थितस्तैः ॥92॥
स्वेदस्य धाराभिरिवापगाभिर्व्याप्ता जगद्भारपरिश्रमार्ता ।
छायापदेशाद्वसुधा निमज्ज्य सुधाम्बुधावुज्झति खेदमत्र ॥93॥
ममानुमैवं बहुकालनीलीनिपातनीलः खलु हेमशैलः ।
इन्दोर्जगच्छायमये प्रतीके पीतोऽपि भागः प्रतिबिम्बितः स्यात् ॥94॥
मावापदुन्निद्रसरोजपूजा श्रियं शशी पद्मनिमीलितेजाः ।
अक्षिद्वयेनैव निजाङ्करङ्कोरलंकृतस्तामयमेति मन्ये ॥95॥
य एष जागर्ति शशः शशाङ्के बुधो विधत्ते क इवात्र चित्रम् ।
अन्तः किलैतत्पितुरम्बुराशेरासीत्तुरङ्गोऽपि मतङ्गजोऽपि ॥96॥
गौरे प्रिये भातितमां तमिस्रा ज्यौत्स्नी च नीले दयिता यदस्मिन् ।
शोभाप्तिलोभादुभयोस्तयोर्वा सितासितां मूर्तिमयं बिभर्ति ॥97॥
वर्षातपानावरणं चिराय काष्ठौघमालम्ब्य समुत्थितेषु ।
बालेषु ताराकवकेष्विहैकं विकस्वरीभूतमवैमि चन्द्रम् ॥98॥
दिनावसाने तरणेरकस्मान्निमज्जनाद्विश्वविलोचनानि ।
अस्य प्रसादादुडुपस्य नक्तं तमोविपद्द्वीपवतीं तरन्ति ॥99॥
किं नाक्ष्णि नोऽपि क्षणिकोऽणुकोऽयं भानस्ति तेजोमयबिन्दुरिन्दुः ।
अत्रेस्तु नेत्रे घटते यदासीन्मासेन नाशी महतो महीयान् ॥100॥
त्रातुं पतिं नौषधयः स्वशक्त्या मन्त्रेण विप्राः क्षयिणं न शेकुः ।
एनं पयोधिर्मणिभिर्न पुत्रं सुधा प्रभावैर्न निजाश्रयं वा ॥101॥
मृषा निशानाथमहः सुधा वा हरेदसौ वा न जराविनाशौ ।
पीत्वा कथं नापरथा चकोरा विधोर्मरीचीनजरामराः स्युः ॥102॥
वाणीभिराभिः परिपत्त्रिमाभिर्नरेन्द्रमानन्दजडं चकार ।
मुहूर्तमाश्चर्यरसेन भैमी हैमीव वृष्टिः स्तिमितं च तं सा ॥103॥
इतो मुखाद्वागियमाविरासीत्पीयूषधारामधुरेति जल्पन् ।
अचुम्बदस्याः स मुखेन्दुबिम्बं संवावदूकश्रियमम्बुजानाम् ॥104॥
प्रियेण साथ प्रियमेवमुक्ता विदर्भभूमीपतिवंशमुक्ता ।
स्मितांशुजालं विततार तारा दिवः स्फुरन्तीव कृतावतारा ॥105॥
स्ववर्णना न स्वयमर्हतीति नियुज्य मां त्वन्मुखमिन्दुरूपम् ।
स्थानेऽत्युदास्ते शशिनः प्रशस्तौ धरातुरासाहमिति स्म साह ॥106॥
तयेरितः प्राणसमः सुमुख्या गिरं परीहासरसोत्किरां सः ।
भूलोकसारः स्मितवाक् तुषारभानुं भणिष्यन्सुभगां बभाण ॥107॥
तवानने जातचरीं निपीय गीतिं तदाकर्णनलोलुपोऽयम् ।
हातुं नु जातु स्पृहयत्यवैमि विधुं मृगस्त्वद्वदनभ्रमेण ॥108॥
इन्दोर्भ्रमेणोपगमाय योग्ये जिह्वा तवास्ये विधुवास्तुमन्तम् ।
गीत्या मृगं कर्षतु भन्त्स्यता किं पाशीबभूवे श्रवणद्वयेन ॥109॥
आप्यायनाद्वा रुचिभिः सुधांशोः शैत्यात्तमःकाननजन्मनो वा ।
यावन्निशायामथ घर्मदुःस्थस्तावद्व्रजत्यह्नि न शब्दपान्थः ॥110॥
दूरेऽपि तत्तावकगानपानाल्लब्धावधिः स्वादुरसोपभोगे ।
अवज्ञयैव क्षिपति क्षपायाः पतिः खलु स्वान्यमृतानि भासः ॥111॥
अस्मिन्न विस्मापयतेऽयमस्मांश्चक्षुर्बभूवैष यदादिपुंसः ।
तदत्रिनेत्रादुदितस्य तन्वि कुलानुरूपं किल रूपमस्य ॥112॥
आभिर्मृगेन्द्रोदरि कौमुदीभिः क्षीरस्य धाराभिरिव क्षाणेन ।
अक्षालि नीली रुचिरम्बरस्था तमोमयीयं रजनीरजक्या ॥113॥
पयोमुचां मेचकिमानमुच्चैरुच्चाटयामास ऋतुः शरद्या ।
अपारि वामोरु तयापि किंचिन्न प्रोञ्छितुं लाञ्छनकालिमाष्य ॥114॥
एकादशैकादशरुद्रमौलीनस्तं यतो यान्ति कलाः किमस्य ।
प्रविश्य शेषास्तु भवन्ति पञ्चपञ्चेषुतूणीमिषवोऽर्धचन्द्राः ॥115॥
निरन्तरत्वेन निधाय तन्वि तारासहस्राणि यदि क्रियेत ।
सुधांशुरन्यः स कलङ्कमुक्तस्तदा त्वदास्यश्रियमाश्रयेत ॥116॥
यत्पद्ममादित्सु तवाननीयां कुरङ्गलक्ष्मा च मृगाक्षि लक्ष्मीम् ।
एकार्थलिप्साकृत एष शङ्के शशाङ्कपङ्केरुहयोर्विरोधः ॥117॥
लब्धं न लेखप्रभुणापि पातुं पीत्वा मुखेन्दोरधरामृतं ते ।
निपीय देवैर्विघसीकृतायां घृणां विधोरस्य दधे सुधायाम् ॥118॥
एनं स बिभ्रद्विधुमुत्तमाङ्गे गिरीन्द्रपुत्रीपतिरोषधीशम् ।
अश्नाति घोरं विषमब्धिजन्म धत्ते भुञङ्गं च विमुक्तशङ्कः ॥119॥
नास्य द्विजेन्द्रस्य बभूव पश्य दारान्गुरोर्यातवतोऽपि पातः ।
प्रवृत्तयोऽप्यात्ममयप्रकाशान्नहन्ति न ह्यन्तिमदेहमाप्तान् ॥120॥
स्वधाकृतं यत्तनयैः पितृभ्यः श्रद्धापवित्रं तिलचित्रमम्भः ।
चन्द्रं पितृस्थानतयोपतस्थे तदङ्करोचिःखचिता सुधैव ॥121॥
पश्योच्चसौधस्थितिसौख्यलक्ष्ये त्वत्केलिकुल्याम्बुनि बिम्बमिन्दोः ।
चिरं निमज्ज्येह सतः प्रियस्य भ्रमेण यच्चुम्बति राजहंसी ॥122॥
सौवर्गवर्गैरमृतं निपीय कृतोऽह्नि तुच्छः शशलाञ्छनोऽयम् ।
पूर्णोऽमृतानां निशि तेऽत्र नद्यां मग्नः पुनः स्यात्प्रतिमाच्छलेन ॥123॥
समं समेते शशिनः करेण प्रसूनपाणाविह कैरविण्याः ।
विवाहलीलामनयोरिवाह मधुच्छलत्यागजलाभिषेकः ॥124॥
विकासिनीलायतपुष्पनेत्रा मृगीयमिन्दीवरिणी वनस्था ।
विलोकते कान्तमिहोपरिष्टान्मृगं तवैषाननचन्द्रभाजम् ॥125॥
तपस्यतामम्बुनि कैरवाणां समाधिभङ्गे विबुधाङ्गनायाः ।
अवैमि रात्रेरमताधरोष्ठं मुखं मयूखस्मितचारुचन्द्रम् ॥126॥
अल्पाङ्कपङ्का विधुमण्डलीयं पीयूषानीरा सरसी स्मरस्य ।
पानात्सुधानामजलेऽप्यमृत्युं चिह्नं बिभर्त्यत्रभवं स मीनम् ॥127॥
तारास्थिभूषा शशिजह्नुजाभृच्चन्द्रांशुपांशुच्छुरितद्युतिर्द्यौः ।
छायापथच्छद्मफणीन्द्रहारा स्वं मूर्तिमाह स्फुटमष्टमूर्तेः ॥128॥
एकैव तारा मुनिलोचनस्य जाता किलैतज्जनकस्य तस्य ।
ताताधिका संपदभूदियं तु सप्तान्विता विंशतिरस्य यत्ताः ॥129॥
मृगाक्षि यन्मण्डलमेतदिन्दोः स्मरस्य तत्पाण्डुरमातपत्रम् ।
यः पूर्णिमानन्तरमस्य भङ्गः स च्छत्त्रभङ्गः खलु मन्मथस्य ॥130॥
दशाननेनापि जगन्ति जित्वा योऽयं पुरापारि न जातु जेतुम् ।
म्लानिर्विधोर्मानिनि संगतेयं तस्य त्वदेकानननिर्जितस्य ॥131॥
दृष्टो निजां तावदियन्त्यहानि जयन्नयं पूर्वदशां शशाङ्कः ।
पूर्णस्त्वदास्येन तुलां गतश्चेदनन्तरं द्रक्ष्यसि भङ्गमस्य ॥132॥
क्षत्त्राणि रामः परिभूय रामात्क्षत्त्राद्यथाभज्यत स द्विजेन्द्रः ।
तथैव पद्मानभिभूय सर्वांस्त्वद्वक्त्रपद्मात्परिभूतिमेति ॥133॥
अन्तः सलक्ष्मीक्रियते सुधांशो रूपेण पश्ये हरिणेन पश्य ।
इत्येष भैमीमददर्शदस्य कदाचिदन्तं स कदाचिदन्तः ॥134॥
सागरान्मुनिविलोचनोदराद्यद्द्वयादजनि तेन किं द्विजः ।
एवमेव च भवन्नयं द्विजः पर्यवस्यति विधुः किमत्रिजः ॥135॥
ताराविहारभुवि चन्द्रमयीं चकार
यन्मण्डलीं हिमभुवं मृगनाभिवासम् ।
तेनैव तन्वि सुकृतेन मते जिनस्य
स्वर्लोकलोकतिलकत्वमवाप धाता ॥136॥
इन्दुं मुखाद्बहुतृणं तव यद्गृणन्ति
नैनं मृगस्त्यजति तन्मृगतृष्णयेव ।
अत्येति मोहमहिमा न हिमांशुबिम्ब-
लक्ष्मीविडम्बिमुखि वित्तिषु पाशवीषु ॥137॥
स्वर्भानुना प्रसभपानविभीषिकाभि-
र्दुःखाकृतैनमवधूय सुधासुधांशुम् ।
स्वं निह्नुते शितिमचिह्नममुष्य रागै-
स्ताम्बूलताम्रमवलम्ब्य तवाधरोष्ठम् ॥138॥
हर्यक्षीभवतः कुरङ्गमुदरे प्रक्षिप्य यद्वा शशं
जातस्फीततनोरमुष्य हरिता सूतस्य पत्न्या हरेः ।
भङ्गस्त्वद्वदनाम्बुजादजनि यत्पद्मात्तदेकाकिनः
स्यादेकः पुनरस्य स प्रतिभटो यः सिंहिकायाः सुतः ॥139॥
यत्पूजां नयनद्वयोत्पलमयीं वेधा व्यधात्पद्मभू-
र्वाक्पारीणरुचिः स चेन्मुखमयं पद्मः प्रिये तावकम् ।
कः शीतांशुरसौ तदा मखमृगव्याधोत्तमाङ्गस्थल-
स्थास्नुस्वस्तटिनीतटावनिवनीवानीरवासी बकः ॥140॥
जातं शातक्रतव्यां हरिति विहरतः काकतालीयमस्या-
मश्यामत्वैकमत्यस्थितसकलकलानिर्मितेर्निर्मलस्य ।
इन्दोरिन्दीवराभं बलविजयिगजग्रामणीगण्डपिण्ड-
द्वन्द्वापादानदानद्रवलवलगनादङ्कमङ्के विशङ्के ॥141॥
अंशं षोडक्षमामनन्ति रजनीभर्तुः कलां वृत्तय-
त्न्येनं पञ्चदशैव ताः प्रतिपदाद्याराकवर्धिष्णवः ।
या शेषा पुनरुद्धृता तिथिमृते सा किं हरालंकृति-
स्तस्याः स्थानबिलं कलङ्कमिह किं पश्यामि सश्यामिकम् ॥142॥
ज्योत्स्नामादयते चकोरशिशुना द्राघीयसी लोचने
लिप्सुर्मूलमिवोपजीवितुमितः संतपर्णात्मीकृतात् ।
अङ्के रङ्कुमयं करोति च परिस्प्रष्टुं तदेवादृत-
स्त्वद्वत्त्रं नयनश्रियाप्यनधिकं मुग्धे विधित्सुर्विधुः ॥143॥
लावण्येन तवास्यमेव बहुना तत्पात्रमात्रस्पृशा
चन्द्रः प्रोञ्छनलब्धतार्धमलिनेनारम्भि शेषेण तु ।
निर्माय द्वयमेतदप्सु विधिना पाणी खलु क्षालितौ
तल्लेशैरधुनापि नीरनिलयैरम्भोजमारभ्यते ॥144॥
लावण्येन तवाखिलेन वदनं तत्पात्रमात्रस्पृशा
चन्द्रः प्रोञ्छनलब्धतार्धमलिनेनारम्भि शेषेण यः ।
तल्लेखापि शिखामणिः सुषमयाहंकृत्य शभोरभू-
दब्जं तस्य पदं यदस्पृशदतः पद्मं च सन्न श्रियाः ॥145॥
सपीतेः संप्रीतेरजनि रजनीशः परिषदा
परीतस्ताराणां दिनमणिमणिग्रावमणिकः ।
प्रिये पश्योत्प्रेक्षाकविभिरभिधानाय सुशकः
सुधामभ्युद्धर्तुं धृतशशकनीलाश्मचषकः ॥146॥
आस्यं शीतमयूखमण्डलगुणानाकृष्य ते निर्मितं
शङ्के सुन्दरि शर्वरीपरिवृढस्तेनैष दोषाकरः ।
आदायेन्दुमृगादपीह निहिते पश्यामि सारं दृशौ
त्वद्वक्त्रे सति वा विधौ धृतिमयं दध्यादनन्धः कुतः ॥147॥
शुचिरुचिमुडुगणमगणनममुमति-
कलयसि कृशतनु न गगनतटमनु ।
प्रतिनिशशशितलविगलदमृतभृत-
रविरथहयचयखुरबिलकुलमिव ॥148॥
उपनतमुडुपुष्पजातमास्ते
भवतु जनः परिचारकस्तवायम् ।
तिलतिलकितपर्पटाभमिन्दुं
वितर निवेद्यमुपास्स्व पञ्चबाणम् ॥149॥
स्वर्भानुप्रतिवारपारणमिलद्दन्तौघयन्त्रोद्भव-
श्वभ्रालीपतयालुदीधितिसुधासारस्तुषारद्युतिः ।
पुष्पेष्वासनतत्प्रियापरिणयानन्दाभिषेकोत्सवे
देवः प्राप्तसहस्रधारकलशश्रीरस्तु नस्तुष्टये ॥150॥
श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं
श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
द्वाविंशो नवसाहसाङ्कचरिते चम्पूकृतोऽयं महा-
काव्ये तस्य कृतौ नलीयचरिते सर्गो निसर्गोज्ज्वलः ॥151॥
यथा यूनस्तद्वत्परमरमणीयापि रमणी
कुमाराणामन्तःकरणहरणं नैव कुरुते ।
मदुक्तिश्चेदन्तर्मदयति सुधीभूय सुधियः
किमस्या नाम स्यादरसपुरुषानादरभरैः ॥152॥
दिशि दिशि गिरिग्रावाणः स्वां वमन्तु सरस्वतीं
तुलयतु मिथस्तामापातस्फुरद्ध्वनिडम्बराम् ।
स परमपरः क्षीरोदन्वान्यदीयमुदीयते
मथितुरमृतं खेदच्छेदि प्रमोदनमोदनम् ॥153॥
ग्रन्थग्रन्थिरिह क्वचित्क्वचिदपि न्यासि प्रयत्नान्मया
प्राज्ञंमन्यमना हठेन पठिती मास्मिन्खलः खेलतु ।
श्रद्धाराद्धगुरुश्लथीकृतदृढग्रन्थिः समासादय-
त्वेतत्काव्यरसोर्मिमज्जनसुखव्यासज्जनं सज्जनः ॥154॥
ताम्बूलद्वयमासनं च लभते यः कान्यकुब्जेश्वरा-
द्यः साक्षात्कुरुते समाधिषु परं ब्रह्म प्रमोदार्णवम् ।
यत्काव्यं मधुवर्षि धर्षितपरास्तर्केषु यस्योक्तयः
श्रीश्रीहर्षकवेः कृतिः कृतिमुदे तस्याभ्युदीयादियम् ॥155॥