न्यायसुधा (जयतीर्थकृता)/चतुर्थाध्यायस्य चतुर्थः पादः


ॐ तत् सत्
न्यायसुधा
॥ एतत्पादीयपूर्वपक्षसिद्धान्तयुक्तयः॥
पादप्रतिपाद्यं तत्सङ्गतिश्च प्रसिद्धैवेत्यतः पूर्वोत्तरपक्षयुक्तीरेवाह अतिक्रमेति।
अनुव्याख्यानम्
अतिक्रमोक्तिः कृतिरर्थलाभः परा गतिः पारगतिस्तदोकः।
समस्तकार्यं वशिता च विश्वसम्भावना युक्तयस्त्वन्यपक्षे॥१॥
सामान्यरूपं प्रतिभानमुक्तिराश्चर्यताऽकृत्रिमताऽस्तदोषः।
विशेषक्लृप्तिः कृतनिःश्रमश्च माहात्म्यमित्येव सुनिर्णयार्थाः॥२॥
अन्यपक्षे पूर्वपक्षेषु। सुनिर्णयः सिद्धान्तनिर्णयः अर्थः प्रयोजनं यासां ताः सुनिर्णयार्था युक्तयः।
अथ अनन्याधिपतित्वाधिकरणम्॥७॥
॥ मुक्तानां क्लृप्तस्वोत्तमान्यनियम्यत्वाभावः सूत्रार्थः॥
अत एव चानन्याधिपतिः। एतत् सूत्रं कश्चिद् व्याख्याति “अत एव च अवन्ध्यसङ्कल्पत्वादनन्याधिपतिर्विद्वान् भवति। नास्यान्योऽधिपतिर्भवतीत्यर्थः”इति। तदिदमसदिति भावेनाऽह अनन्येति।
ॐ अत एव चानन्याधिपतिःॐ॥९॥
अनन्यभृत्यत्वमिहोदितेभ्यस्त्वन्यस्य भृत्यत्वनिवारणाय।
पतिं यदेषामपि विष्णुमाह ह्युतामृतत्वस्य पतित्ववाग्घरेः॥३॥
इह सूत्रे मुक्तस्यानन्याधिपतिरिति यदनन्यभृत्यत्वमुक्तम्, तत्तु उदितेभ्यो ये यस्य मुक्तस्याधिपतित्वेनोदिताः शास्त्रे तेभ्योऽन्यस्य भृत्यो न भवति मुक्त इति प्रतिपादनाय। नतु सर्वथाऽधिपतिनिवारणाय। कुतः? अन्यपदप्रयोगात्। अन्यथाऽपतिरित्यवक्ष्यत्।
॥ मुक्तानां नियम्यत्वमात्रानङ्गीकारे श्रुतिविरोधः॥
इतश्चैवमेवेत्याह पतिमिति। यद् यस्मद्धरेरमृतत्वस्योत यत् पतित्वं तस्य वाक् “उतामृतत्वस्येशानः” इति श्रुतिरिति यावत्। विष्णुमेषां मुक्तानां पतिमाह। ततोऽप्युक्त एव सूत्रार्थो नापर इति।
॥ अनुमानेन मुक्तानां नियम्यत्वसाधनम्॥
अनुमानेनाप्येतमर्थं समर्थयते एतेऽपीति।
एतेऽपिचान्याधिपतित्वयुक्ता विष्ण्वन्यचित्त्वेन यथा पुमांसः।
प्रसिद्धिभाजस्त्विति चानुमैव ह्यभीष्टसिद्ध्यै भवतीह निश्चयात्॥४॥
अपिचेति प्रमाणसमुच्चये। एते मुक्ताः। अन्योऽधिपतिर्येषां तेऽन्याधिपतयः। तेषां भावोऽन्याधिपतित्वं तेन युक्ताः। विष्ण्वन्यत्वेन, चित्त्वेन जीवत्वेन च। तुशब्दो विशेषार्थः। परकीयव्याख्यानानुसारेणान्याधिपतित्वयुक्ता इति प्रतिज्ञातम्। स्वमते त्वधिपतियुक्ता इत्येव प्रतिज्ञेति। यदि कश्चिदुदाहृतश्रुत्यर्थे विप्रतिपद्येत तस्यानुमानेनैवालमित्युक्तम् इत्यनुमैव चेह मुक्तेष्वभीष्टस्याधिपतिसाहित्यस्य सिद्ध्यै भवतीति। कथम्? व्याप्तिपक्षधर्मत्वयोः प्रमितत्वादिति हिशब्दः। मुक्ता अधिपतिरहिताः, मुक्तत्वात्; अवन्ध्यसङ्कल्पत्वात्; ईश्वरवदित्यनुमानप्रतिरोध इति चेत्, न। मूलप्रकृतावनैकान्त्यात्। विपक्षे बाधकाभावाच्च। तदिदमुक्तम् निश्चयादिति।
॥ मुक्तानां स्वमुक्तिसमानकालीनमुक्तिवत्स्वोत्तममात्रनियम्यत्वम्॥
न केवलं मुक्तानां भगवानधिपतिः किन्त्वन्येऽपि यथासम्भवं भवन्तीत्याशयवानाह मुक्तेति।
मुक्तस्वकीयावरयन्तृताऽस्ति मुक्तावपि ब्रह्मपुरःसराणाम्।
अनेन देवेन तथाऽमुना च हीष्टे परार्वाक्तनलोकिनामिति।
फलं श्रुतिर्ज्ञानत आहमुक्तावेतच्च सर्वाशुभनाशलिङ्गात्॥५॥
ब्रह्मपुरःसराणामपि मुक्तौ। मुक्ताश्च ते स्वकीयाः स्वैः सह मुक्तिं गताश्च च तेऽवराश्च मुक्तस्वकीयावराः, तान् यन्तृताऽस्ति। अमुक्तान् प्रति यन्तृता सर्वथा नास्ति। यथाऽऽह सूत्रकारः “विकारावर्ति च” इति। मुक्तेष्वपि कल्पान्तरे मुक्तान् स्वकल्पे मुक्तेष्वप्युत्तमान् समांश्च प्रति नास्तीत्यतो मुक्तेत्याद्युक्तम्। अनेन परोदाहृतश्रुतीनां गतिश्र्चोक्ता भवति।
॥ छन्दोगश्रुत्या उक्तार्थसमर्थनम्॥
कुत एतदित्यत आह अनेनेति। अनेन चक्षुरन्तःस्थेन देवेन प्रसन्नेन तथाऽमुनाऽऽदित्यान्तर्गतेन च परार्वाक्तनलोकवर्तिनां मुक्तानामीष्टे ईशिता भवतीति श्रुतिर्ज्ञानतो मुक्तनियन्तृत्वं फलमाहहीति। अत्रामुना परलोकिनां, अनेन अर्वाक्तनलोकिनामिति ज्ञेयम्। अनेन “अथ य एवं विद्वान्” इत्याद्यां “सोऽमुनैव ये चामुष्मात् पराञ्चो लोकास्तांश्चाऽप्नोति देवकामांश्च, अथानेनैव ये चैतस्मादर्वाञ्चो लोकास्तांश्चाऽप्नोति मनुष्यकामांश्च” इति श्रुतिमुपादत्ते।
नन्वस्यां श्रुतावुक्तमिदं ज्ञानफलं मुक्तिगतमित्येतत् कुत इत्यत आह मुक्ताविति। एतच्च सर्वलोकाप्तिलक्षणं फलं मुक्तावेव। “उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेद” इति सर्वपापक्षयलिङ्गात्। नहि मुक्तेरितरत्रैतत् सम्भवति। प्रारब्धपापस्य आ मोक्षं विद्यमानत्वात्।
॥ सर्वमुक्तनियामकत्वं चतुर्मुखस्यैव॥
यदिदं सर्वलोकाधिपत्यं मुक्तौ फलमुक्तं तत् सर्वेषामपि मुक्तानामिति प्रतीतिनिरासायाऽह लोकेति।
लोकाधिपत्यं च विधातुरेव सर्वात्मनेत्याह तुरश्रुतिश्च।
सर्वे बिलं देवगणा वहन्तीत्येतच्चनान्यस्य तु युक्तिमेति॥६॥
सर्वात्मना लोकाधिपत्यं च मुक्तस्य विधातुरेव। अन्येषां यथायोग्यमिति भावः। स्वकीयेत्युक्तमनुसन्धेयम्। अत्र प्रमाणमाह इत्याहेति। सा चान्यत्र द्रष्टव्या। चशब्दो वक्ष्यमाणयुक्तिसमुच्चयार्थः।(१३६९) श्रुत्यन्तरमप्येवमेव व्याख्येयमित्याह सर्व इति। “स वेद ब्रह्म। सर्वेऽस्मै देवा बिलमावहन्ति” इति श्रुत्युक्ते मुक्तस्य सर्वदेवपूज्यत्वं चानवधिकं विधातुरेव, न सर्वेषाम्। उक्तश्रुतेरेवेत्यर्थः।
इतोऽप्येवमित्याह नेति। पूजका अपि हि देवा मुक्ता एव। अमुक्तानां मुक्तसम्बन्धस्य निवारितत्वात्। तथाच सर्वे देवा मुक्ताः सर्वैर्मुक्तैर्देवैः पूज्यन्त इत्युक्तं स्यात्। एतच्च व्याहतम्। तत एव तस्यैवोत्तमत्वस्याधमत्वस्य क्वाप्यदर्शनात्। अत उक्त एव श्रुत्यर्थः।
॥ श्रौतलोकशब्दस्य लक्षणया, मुख्यवृत्त्या च मुक्तपुरुषवाचित्वम् ॥
स्यादेतत्। “तांश्चाऽप्नोति” इत्युक्त आप्ता सर्वाशुभनाशलिङ्गाद् भवतु मुक्तः। तस्य चात्र लोकाप्तिरेवोच्यते, नतु मुक्तस्वकीयावरयन्तृतेत्यत आह लोका इति।
लोका इतीहापि तु लोकिनां वचोलोका इति ह्येव रवः प्रजासु।
प्रयुज्यते सर्वजनैः सदैवतन्मानिनो लोकपदेन चोक्ता॥७॥
इह श्रुतौ लोका इति पदं तावल्लोकिनां वचःप्रतिपादकम्। न केवलमाप्ता मुक्तः। लोकपदमपि लोकिविषयमित्यपिशब्दः। तुशब्दो वृत्तिविशेषद्योतकः। यथा मञ्चशब्दो मञ्चस्थेषु पुरुषेषु विद्यते तथा लोकशब्दो लोकस्थेषु पुरुषेष्विति। अत्र लक्षणाबीजसम्बन्धस्तु स्फुट एव। लाक्षणिकप्रयोगप्रयोजनं वाच्यमित्यत आह लोका इति। हिशब्दः प्रसिद्धौ। प्रयोजनानुसन्धानेन विनेत्येवशब्दः। रवः शब्दः। प्रजासु प्रजाविषये। रूढलक्षणैषा तत्र किं प्रयोजनान्वेषणेनेति भावः।
अथवा किं लक्षणया? यतो वाचक एव लोकशब्दो जनानामिति भावेनाह लोका इति। सर्वजनैरिति शब्दशक्तिज्ञैः। प्रकारान्तरेण लोकशब्दस्य पुरुषवाचित्वमाह तदिति। लोकाभिमानिनः। अभिमान्यधिकरणन्यायेनेति भावः।
॥ श्रौतलोकशब्दस्य श्रुत्यन्तरसमाख्यया मुक्तवाचित्वसमर्थनम्॥
अस्तु लोकशब्दस्य जनेषु वृत्तिः, तथाऽप्यस्यां श्रुतौ तद्विवक्षा कुतो ज्ञायते? न तावताऽपीष्टसिद्धिः। मुक्तविषयतायां प्रमाणाभावात्। आप्तिरेव चेहोच्यते, नतु तन्नियमनमित्यत आह तद्गा इति।
तद्गास्तु मुक्ता इह लोकशब्दा अन्योन्यनाथा इति पैङ्गिनां श्रुतिः।
अलोकशब्देन विमुक्तिभाजो वाच्याःपदं तादृगपीह युक्तम्॥८॥
तुशब्दोऽवधारणे। इह “ये चामुष्मात्” इत्यस्यां श्रुतौ तद्गाः परावरलोकगताः मुक्ता एव। लोक इति शब्दो एषां ते लोकशब्दाः। ते चान्योन्यनाथा उत्तमा अधमानां स्वीयानां नियामका इत्येवमेतच्छ्रुतिव्याख्यानरूपा पैङ्गिश्रुतिरस्ति। यद्यपि मुक्तस्य विकारावर्तिव्यापारनिषेधादेवैतत् सिद्धम्। तथाऽपि दार्ढ्याय श्रुत्युदाहरणम्। एतेन लक्षणापक्षे मुख्ये बाधकं चोक्तं भवति। अभिमानिपक्षे तु भूतपूर्वगत्या मुक्तेषु लोकशब्दो व्याख्येयः।
प्रकारान्तरेणास्यां श्रुतौ मुक्तस्य मुक्तनियामकत्वं प्रतिपादयन्नाह अलोकेति। लोकदोषातीतत्वात्, विदेहत्वाद् वा इति भावः। ततः किं प्रकृत इत्यत आह पदमिति। इह पराञ्चो लोका अर्वाञ्चो लोका इत्यत्र तादृक्”अलोकः’ इत्यपि पदं छेत्तुं युक्तम्। लोकालोकशब्दयोः संहितायाः समानरूपत्वादिति भावः।
॥ लोकशब्दस्य अवयववृत्त्या मुक्तवाचित्वम्॥
योगवृत्त्याऽपि लोकशब्दस्य मुक्तेषु वृत्तिः सम्भवतीत्याह लोकेति।
लोकाभिधाश्चापि यतो हि मुक्ताः प्रकाशरूपाः सततं च सर्वे।
ब्रह्मैव लोकाधिपतिर्विमुक्तो भवेदिति प्राह तुरश्रुतिश्च॥।९॥
यतः सर्वेऽपि मुक्ताः सततमपि प्रकाशरूपाः प्रसिद्धाः, ततोऽपि लोकाभिधाः। लोकतेः पचाद्यचि कृते रूपमेतत्। दर्शनं प्रकाश इति च नार्थान्तरम्। यदुक्तं प्राग् लोकाभिमानिनो ये मुक्तास्त इह लोकशब्दार्था इति तदसत्। ते हि उत्तमाः। नच तन्नियमनं मुक्तानां सम्भवतीत्यतो मोक्तं विस्मार्षीरित्याह ब्रह्मैवेति। तथाच नानुपपत्तिरिति।
॥ मायावाद्युक्तश्रुत्यर्थनिरासः॥
एवं स्वमतेन श्रुतिं व्याख्याय यत् परेषां व्याख्यानमादित्यमण्डले परमेश्वरमुपासीनस्य विदुषः परलोकाधिपत्यं भवति चक्षुष्युपासीनस्यार्वाक्तनलोकाधिपत्यं भवतीति तन्निराकरोति नचेति।
नचेह विज्ञानफलं समुक्तं लोकाधिपत्यं रविबिम्बगे हरौ।
उक्तं पृथक् तच्च पुरैव यस्माद्भेदोऽमुनेत्यादि च सम्यगुक्तः॥१०॥
इह श्रुतौ। लोकाधिपत्यं विज्ञानफलं समुक्तमिति व्याख्यानं न युक्तम्। कुत इत्यत आह रवीति। चशब्देन चक्षुर्गते चेति समुच्चिनोति। यस्मात् कारणात् तत् लोकाधिपत्यं पुरैव पूर्ववाक्य एव रविबिम्बगे हरौ चक्षुरन्तर्गते च पृथक् विभागेनोक्तम्। आदित्यगतं प्रकृत्य “स एष ये चामुष्मात् पराञ्चो लोकास्तेषां चेष्टे देवकामानां च” इति। तथाऽक्षिगतं “स एष ये चैतस्मादर्वाञ्चो लोकास्तेषां चेष्टे मनुष्यकामानां च” इति। तस्मान्नेति।
एतदुक्तं भवति न समस्तलोकाधिपत्यं विदुषो युज्यते। तस्य भगवद्धर्मत्वेनात्रैवोक्तत्वादिति। भगवद्धर्मोऽपि विदुषो भवतीत्यङ्गीकारे को दोष इति चेत्। तत् किं भगवान् स्वीयसर्वलोकाधिपत्यं परित्यज्य विदुषे ददातीति, उत विद्वांसमवान्तरेश्वरं करोतीति, अथ विद्वांस्तादात्म्यं प्राप्नोतीति। नाऽद्यः, भगवदैश्वर्यस्य समस्तश्रुत्यादौ नित्यत्वावगमात्। किञ्चैकस्मै विदुषे दत्तस्वाधिपत्यो भगवानन्यस्मै विदुषे किं दद्यात्? सर्वपापक्षयलिङ्गविरोधाच्च। अत एव न द्वितीयः। हिरण्यगर्भे तद् युज्यत इति चेत्, न। पाप्मशब्देन प्रकृत्यादेर्बन्धस्य विवक्षितत्वात्। अत एवोक्तम् सर्वाशुभेति। “तस्योदिति नाम” इति हि परमेश्वरस्योच्छब्दं नामत्वेनोक्त्वा तस्य निर्वचनं क्रियते “स एष सर्वेभ्यः पाप्मभ्य उदित” इति। तत्रोदितत्वमेवोच्छब्दार्थः। कस्मादित्यपेक्षायां योग्यं किमपि ग्राह्यम्। नच तत् पापमेवेति नियामकमस्ति। अतः सर्वमप्यशुभं तत्र विवक्षितम्। तदेव च विदुषः फलमुच्यते।
तृतीयं निराकरोति भेद इति। विदुषः परमेश्वरादिति शेषः। आदिपदेनानेनेत्यस्य ग्रहणम्। क्रियाविशेषणं चैतत्। भेदश्चेति सम्बन्धः। सम्यगितिस्षष्टम्। नहि तदात्मा तत्प्रसादात् तद्धर्मा भवति।
॥ श्रुतेरभेदपरत्वेऽनुपपत्तिः॥
भवेदेतद् यद्यमुनाऽनेनेत्येतदमुना देवेन प्रसन्नेन निमित्तेनेति व्याख्यायेत। नचैवम्। किन्नाम। अमुना रूपेणामुष्य तादात्म्यं प्राप्य तथाऽनेन रूपेणास्य तादात्म्यं प्राप्येति। नचैवंसति भेदोक्तिरस्तीत्यत आह त्वप्रत्ययमिति।
त्वप्रत्ययं चाप्यतिहाय नैव रूपेण तेनेति भवेदिहार्थः।
भवत्यसावित्यणुशब्दमात्र विहाय वाक्यानि बहूनि दोषः॥११॥
चशब्दस्तत्समानार्थप्रत्ययान्तरसमुच्चयार्थः। अपिशब्दो रूपेणेति पदस्य। तेन इत्यमुना अनेनेत्युभयोर्ग्रहणम्। अतिहाय प्रवृत्तायामिह श्रुतौ। भवेदयं परस्याभिलाषः। श्रुतिस्तु न तथा वक्ति। यदि खल्वदस्त्वेनादस्तया इदन्त्वेनेदन्तयेति भाववाची प्रत्ययः स्यात्। यदि चामुना रूपेणाऽत्मना अनेन रूपेणाऽत्मनेति पदं स्यात् तदा प्रतीमोऽयमर्थः श्रुत्यभिप्रेत इति। नचैतदस्तीति।
ननु भावप्रधाना निर्देशा बहुलमुपलभ्यन्ते। ततो विनाऽपि प्रत्ययेन सोऽर्थो भविष्यति। सोपस्कराणि च वाक्यानि भवन्ति। ततो रूपेणेत्यादिपदाध्याहारो वा करिष्यते। को दोष इति चेत्, न। निश्चिते हि वाक्यार्थे तदुपपद्यते। नच तन्निश्चायकमत्रास्तीत्याशयवान् दोषान्तरमाह भवतीति। यद्यस्यां श्रुतौ तादात्म्यप्राप्त्या तदीयं सर्वलोकाधिपत्यमस्य भवतीत्यर्थो विवक्षितः स्यात्, तर्ह्यत्रैतदर्थप्रतिपादने “अयं विद्वानसौ परमात्मा भवति’ इत्येतावदेव वक्तव्यम्। नतु सोऽमुनैवेत्यादिकम्। तादात्म्यप्राप्तौ तद्धर्मस्य स्वतः सिद्धत्वात्। अयमसौ भवतीत्यल्पं शब्दं विहाय बहूनि वाक्यानि प्रयुञ्जानायाः श्रुतेरकुशलत्वं दोषः स्यात्। नहि कश्चिदल्पीयसा प्रयत्नेन सिद्ध्यत्यर्थे महान्तं प्रयत्नमातिष्ठमानो महद्भिराद्रियते।
किञ्चात्र परमेश्वरः सगुणो वा विवक्षितः, निर्गुणो वा? आद्ये न विदुषः तत्तादात्म्यमस्ति, परेणाप्यनभ्युपमात्। न द्वितीयः, निर्गुणस्याऽऽदित्यादिपरिच्छेदानुपपत्तेः। ऐश्वर्यासम्भवाच्च। नच तद्भूयङ्गतस्य सर्वलोकाधिपत्यं भवतीति।
॥ पादार्थोपंसहारः॥
अपव्याख्याननिराकरणमुपसंहरन् पादार्थं सङ्क्षेपेणाऽह अत इति।
अतो जगद्व्यापृतिमन्त एव ब्रह्मादयः पूर्णगुणाः क्रमेण।
अमन्दमानन्दमजस्रमेव भुञ्जन्त आत्मीयमजात् समासते॥१२॥
जगच्छब्देन स्वकीयावरमुक्ता गृह्यन्ते। “जगद्व्यापारवर्जम्” इत्येतन्मुक्तेतरजगद्विषयम्। अतो न तद्विरोध इत्येतदप्यनेन सूचयति। अन्यथा स्वावरमुक्तनियामका एवेत्यवक्ष्यत्। तथाचानन्याधिपतिपदमुक्तार्थमेवेति भावः। आत्मीयं नतु पारमेश्वरम्। अजात् परमेश्वरात्। तमविहायेत्यर्थः। तत्प्रसादादिति वा॥*॥ इत्यनन्याधिपतित्वाधिकरणम्॥७॥
॥ ग्रन्थान्ते मङ्गलाचरणम्॥
एवं परिसमापितग्रन्थो भगवानाचार्यः स्वप्रतिपादितप्रकारं स्वस्यातिविशदानादिसार्वज्ञ्यप्रदं निरुपाधिकपरमप्रेमास्पदगुणगणं पुुरुषोत्तमं पौनःपुन्येन प्रणमति नम इति।
नमो नमोऽशेषविशेषपूर्णगुणैकधाम्ने पुरुषोत्तमाय।
भक्तानुकम्पादतिशुद्धसंविद्दात्रेऽनुपाधिप्रियसद्गुणात्मने॥१३॥
अशेषविशेषैः पूर्णा ये गुणास्तेषां प्रधानाश्रयाय। भक्ते मय्यनुकम्पादनुक्रोशात्। अत एव ताच्छीलिकस्य तृनः प्रयोगः। सद्गुणानुवादेनानुपाधिप्रियत्वं तादात्म्यं च विधीयत इति न पुनरुक्तिः।
॥ श्रीमद्भाष्यकृता स्वस्वरूपाविष्कारः॥
यथा भगवत्स्वरूपविज्ञानं समस्तपुरुषार्थसाधनम्, तथा स्वस्वरूपविज्ञानमपीत्यतस्तदाविष्कुर्वन्नाह यस्येति।
यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यान्यलं
ब तद् दर्शतमित्थमेव निहितं देवस्य भर्गो महत्।
वायो रामवचोनयं प्रथमकं पृक्षो द्वितीयं वपु
र्मध्वो यत्तु तृतीयमेतदमुना ग्रन्थः कृतः केशवे॥१४॥
यस्य वायोर्देवस्य वेदवचने “बळित्था” इत्यादावलं दिव्यान्यद्भुतानि त्रीणि रूपाण्युदितानि, अमुना वायुनाऽयं केशवे विषये ग्रन्थः कृत इत्यन्वयः। कीदृशं तस्य मूलरूपम्, कथम्भूतानि च तानि त्रीणि रूपाणीत्यत उक्तम् बडित्यादि। यस्य तन्मूलरूपं ब बलात्मकम्, दर्शतं ज्ञानरूपं च। दृशेरौणादिकोऽतच्प्रत्ययः। अनेन वायुशब्दो निरुक्तः। वशब्दो बलवाची। अय् गत्यर्थः। गत्यर्थाश्चवगत्यर्थाः। तत उण्। वश्चासौ आयुश्चेति वायुरिति।
किञ्च भर्गो भरणगमनयोः कतरर्ृ। “डुभृञ् भरणे”, “गम्लृ गतौ”, आभ्यामसुन्प्रत्ययः, डिच्च। इदमपि वायुशब्दव्याख्यानम्। “वा गतिगन्धनयोः” इत्यतः “कृवापाजिमिस्वदिसाध्यशूभ्य उण्” इत्युण्। अनेकार्थत्वाद् धातूनां वातिर्भरणेऽपि वर्तते। अपिच महत् श्रेष्ठम्। “वयः श्रेष्ठत्वे” इत्यस्मादुण्।
न केवलं मूलरूपमेवम्, किन्तु यस्यावतारेषु निहितं रूपमित्थमेव। यस्य प्रथमकं प्रथमं रूपं रामविषयाणि वचांसि मूलरामायणादीनि रामवचांसि तेषां नयम्। नीयन्ते शिष्येषु प्रवर्त्यन्तेऽनेनेति “एरच्” इत्यच्।
यस्य द्वितीयं वपुः पृक्षः। पृच्छब्दः पृतनावाची प्रसिद्धः। तस्मिन् कर्मण्युपपदे “क्षै क्षये” इत्येतस्मात् “आतोऽनुपसर्गे कः” इति कः। उपपदतकारलोपश्छान्दसः। पुँल्लिङ्गं श्रुत्यनुसारेण। असुन् वा प्रत्ययः। किदिति नपुंस्कमेवेदम्। रिपुपृतनाक्षयकारीत्यर्थः।
यस्य तृतीयं वपुरेतन्मध्वः। मधुशब्दः सुखवाची। “मधु द्यौरस्तु नः पिता” इति प्रयोगात्। वशब्दः शास्त्रापरपर्यायतीर्थवाची। वातेरवगत्यर्थात् करणे “घञर्थे कविधानम्” इति कः। सुखसाधनं तीर्थमस्येति। “स्वः’ इत्यत्रेव उकारलोपः।
भगवत्स्वरूपप्रतिपादनेनैव ग्रन्थोपसंहारः समुचित इत्याशयवान् नित्यापरोक्षं भगवन्तं सम्बोध्य स्तौति निःशेषमिति।
निःशेषदोषरहित कल्याणाखिलसद्गुण।
भूतिस्वम्भुशर्वादिवन्द्यं त्वां नौमि मे प्रियम्॥१५॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
श्रीमद्ब्रह्मसूत्रानुव्याख्याने चतुर्थाध्यायस्य चतुर्थः पादः
भूतिः महालक्ष्मीः॥
वचनप्रसूनमाला जयतीर्थाख्येन भिक्षुणा रचिता।
ध्रियतां हृदये सदये कमलामहिलेन पूरुषेण॥
न वैदुष्यभ्रान्त्या नच वचनचातुर्यकुधिया
न मात्सर्यावेशान्नच चपलतादोषवशतः।
परं श्रद्धाजाड्यादकृषि कृतिमाचार्यवचसि
स्खलन्नप्येतस्माज्जगति नहि निन्द्योऽस्मि विदुषाम्॥
अनुव्याख्यामृताम्भोधेः समुत्पन्नाऽतिनिर्मला।
इयं न्यायसुधा भौमैर्विबुधैः सेव्यतां सदा॥
इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृते
रनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना।
कृतायां टीकायां विषमपदवाक्यार्थविवृतौ
चतुर्थेऽध्यायेऽस्मिंश्चरमचरणः पर्यवसितः॥*॥
इति श्रीमद्ब्रह्मसूत्रानुव्याख्यानटीकायां
श्रीजयतीर्थमुनिविरचितायां श्रीमन्न्यायसुधायां
चतुर्थाध्यायस्य चतुर्थः पादः।
समाप्ताविमौ ग्रन्थौ।
श्रीकृष्णार्पणमस्तु।
सुधानुव्याख्यानब्रह्मसूत्रसंस्थः श्रुतीश्वरः।
प्रीयतां व्यासदेवो मे श्रीमध्वहृदयाब्जगः॥