न्यायसुधा (जयतीर्थकृता)/तृतीयाध्यायस्य द्वितीयः पादः
ॐ तत् सत्
न्यायसुधा
॥ एतत्पादीयपूर्वपक्षसिद्धान्तयुक्तयः॥
“भक्तिरस्मिन् पाद उच्यते। भक्त्यर्थं हि भगवन्महिमोक्तिः” इति पादप्रतिपाद्यं भाष्य एव स्फुटम्। सङ्गतिं तूत्तरत्र वक्ष्याम (१०६३) इत्याशयवानेतत्पादाधिकरणेषु पूर्वपक्षसिद्धान्तयुक्तीः सङ्ग्र्रहेणाऽह पश्चादिति।
अनुव्याख्यानम्
पश्चाददृष्ट्यविज्ञानकालदुःखपृथग्भवाः।
स्थानभेदो विरुद्धत्वं न्यायसाम्यं स्वतोभवः॥१॥
गुणसाम्यमयोगश्च तर्कबाधो विलोमता।
नानाभावः प्रलोभश्च युक्तयः पूर्वपक्षगाः॥२॥
अशक्यकर्तृताशक्तिः स्वतोऽबोधस्तदेव च।
अमानक्लृप्तिसन्मानव्यवस्थात्यल्पताभवाः॥३॥
विशेषदृष्टिवाक्ये च पुंशक्तिः सुनिदर्शनम्।
अलौकिकत्वमाधिक्यं स्वातन्त्र्यं निर्णयप्रमाः॥४॥
पूर्वपक्षगाः पूर्वपक्षसम्बन्धिन्यः। निर्णयप्रमाः सिद्धान्तनिर्णयार्थानि प्रमाणानि।
अथ सन्ध्याधिकरणम्॥१॥
॥ विष्णोः स्वप्नार्थतद्धीनियामकत्वरूपमहिमा॥
सन्ध्ये सृष्टिराह हि। एवं “योनेः शरीरम्” इत्येतदवसानैः सूत्रैर्जीवस्य जन्मावगतम्। जातस्य च स्वप्नाद्यवस्थासम्बन्धः प्रसिद्धः। तत्र स्वप्नावस्थाप्रवर्तकत्वलक्षणो महिमा भगवतोऽत्राधिकरणे निर्णीयते।
॥ पूर्वपक्षिणा स्वाप्नार्थानामसत्यत्वस्य तत्प्रतीतेः भ्रमत्वस्य च प्रतिपादनम्॥
तथाहि स्वप्नो नामार्थज्ञानात्मकः। तत्र तावत् स्वाप्नानां करितुरगादीनां परमेश्वरायत्तता नोपपद्यते। असत्यत्वात्। न तावदिमेऽनादिनित्याः। स्वप्नावस्थातः प्रागूर्ध्वं चोपलब्धिप्रसङ्गात्। नहि विद्यमाना अप्युपलब्धिसाधनेषु चक्षुरादिष्वनुपरतेषु नोपलभ्यन्ते, उपलभ्यन्ते चोपरतेष्विति सम्भवति। नचान्यत्र गताः । अन्यैरप्यनुपलम्भात्। मध्यमपरिमाणाश्चैते दृश्यन्ते। नच तथाविधमनादिनित्यं किमपि दृष्टम्। नाप्युत्पत्तिनाशवन्तः। तथात्वेऽपि प्रागूर्ध्वमुपलम्भप्रसक्तेः। नच वाच्यम् विद्युदादिवत् तदैवोत्पत्तिर्विनाशश्चेति। इत्थम्भावे प्रमाणाभावात्, प्रा मृददीनामूर्ध्वं कपालादीनां चोपलम्भापत्तेश्च। नचैषां तात्कालिकजन्मन्युपादानं निमित्तं च पश्यामः।
कर्ता च न तावज्जीवात्मा। द्रष्टुर्निर्व्यापारत्वात्। अपरस्य चादर्शनात्। नापीश्वरः। प्रमाणाभावात्। भ्रान्तित्वं चैतेषाम् “स्वप्नमायासरूपा” इति “स्वप्नमनोरथो यथा” इत्यादिश्रुतिस्मृतिभ्यामावेद्यते। शिष्टमपव्याख्यानानुवादे वक्ष्यामः। (९२८)
तदेवं न स्वाप्नानामर्थानामीश्वराधीनत्वम्। नापि तज्ज्ञानस्य। तस्यापि निमित्ताभावेनापरमार्थत्वात्। न तावच्चक्षुरादीनां तन्निमित्तत्वम्। तेषामुपरतत्वात्। नापि मनसः। रूपादिमत्यर्थे स्वातन्त्र्याभावात्। अत एव न साक्षिणः। इन्द्रियाप्रवृत्तौ लिङ्गशब्दयोरपि नावकाशः। अपरोक्षाकारं चेदमवभासते। अतोऽर्थज्ञानरूपा स्वाप्नावस्था नेश्वराधीनेति प्राप्ते तत्प्रतिविधानायोपोद्घातमाह वासना इति।
॥ जडमनसः अशेषवस्तुविषयकानुभवजन्यसंस्काराख्यवासनाश्रयत्वम्॥
वासनाः सर्ववस्तूनामनाद्यनुभवागताः।
सन्त्येवाशेषजीवानामनादिमनसि स्थिताः॥५॥
भावनापरनामकाः संस्काराः। सर्वग्रहणप्रयोजनमुत्तरत्र भविष्यति। (९२६) ननु भावनाख्यसंस्कारोऽनुभवजन्यः। नच सर्वजीवानां सर्ववस्त्वनुभवोऽस्ति। तत् कथमशेषजीवानां सर्ववस्तुवासनाः सन्त्येवेत्यत उक्तम् अनादीति। अनाद्यनुभवप्रवाहोत्पन्नाः। वासनानामात्मसमवेतत्वं वैशेषिकादिभिरभ्युपगतम्। तन्निरासार्थमुक्तम् मनसि स्थिता इति। जातावेकवचनम्। सादिनो मनसः कथमनादिवासनासम्बन्ध इत्यत उक्तम् अनादीति।
॥ जडमनसः अनादित्वम्॥
एतदेव प्रपञ्चयति त्रिगुणात्मकमिति।
त्रिगुणात्मकं मनोऽस्त्येव यावन्मुक्तिः सदातनम्।
तत्रैवाशेषसंस्काराः सञ्चीयन्ते सदैव च॥६॥
मनस एव संस्काराश्रयत्वं नाऽत्मन इत्यत्रोपपत्तिसूचनाय त्रिगुणात्मकमित्युक्तम्। गुणात्मकमित्येवोक्ते परिमाणादिगुणात्मकमित्यपि प्रतीतिः स्यात्। तदात्मनोऽपि समानमित्यतस्त्रिग्रहणम्। तथाच जीवात्मा न भावनाश्रयः, सत्त्वादिगुणानात्मकत्वात्; ईश्वरवत्। भावना वा सत्त्वादिगुणात्मकद्रव्याश्रया, संस्कारत्वात्; वेगादिवत्। तच्च परिशेषान्मन एवेत्युक्तं भवति। सत्त्वादिगुणानभ्युपगन्तारं प्रति तु तत्स्थानेऽचेतनपदं प्रयोक्तव्यम्। त्रिगुणात्मकग्रहणं च स्वरूपकथनम्। अस्त्येव सर्वदेति शेषः।
॥ जीवमनःसम्बन्धस्य मोक्षावधित्वम्॥
तथासति मोक्षेऽपि सत्त्वात् स्वप्नाद्यवस्थापत्तिरित्यत उक्तं विवृणोति यावदिति। यद्यपि मनः स्वरूपेण नित्यमेव, तथाऽपि जीवसम्बन्धस्तस्य मोक्षावधिरित्यत इदमुक्तम्। “तद्वै जैवं मनो येनाऽनन्द्येव भवति” इति मुक्तावप्यात्मनो मनःसम्बन्धश्रवणात् कथं यावन्मुक्तिरित्युक्तमित्यतो वा त्रिगुणात्मकमित्युक्तम्। आत्मस्वरूपमनसो मुक्तौ सत्त्वेऽपि जडमनोऽभिप्रेत्यायमवधिरुक्त इति। चस्तस्मादित्यर्थे। तत्रैव नत्वात्मनि।
॥ मनसः सादित्वे संसाराभावप्रसङ्गात् मनोजन्मश्रुतेरुपचयपरत्वम्॥
“एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च” इति मनसो जन्मश्रवणात् कथमनादित्वमुच्यत इत्यत आह सूक्ष्मत्वेनेति।
सूक्ष्मत्वेन लये सच्च प्राकृतैरुपचीयते।
सृष्टिकाले यदा तन्न कुतः संसारसंस्थितिः॥७॥
चशब्द एवार्थे। प्राकृतैः अहङ्काराद्यैः। मन इति वर्तते। प्रलये सतोऽप्युपचयापेक्षया जन्मश्रुतिरिति भावः। कुत एषा कल्पना? मुख्यार्थे बाधकसद्भावादित्याह यदेति। यदि मनो मुख्यत एव जनिमत् स्यात्, तदा प्रलये तन्न स्यात्। यदिच प्रलये तन्न स्यात्, तदाऽऽत्मनः संसारावस्थानं न स्यात्।
नच मा भूत् प्रलये संसारावस्थानमिति युक्तम्। मुक्तानां पुनःसंसारानुपपत्त्या सृष्ट्यनुपपत्तिप्रसङ्गात्। अविद्याकामकर्माद्यधीनः संसार इति चेत्, न। अविद्यादेरेव संसारत्वात्। “मनः परं कारणमामनन्ति” इत्यादिस्मृतिविरोधाच्च। तथाच श्रुतिः “नित्यं मनोऽनादित्वान्नह्यमनाः पुमांस्तिष्ठति” इति। पुमान् संसारीत्यर्थः।
॥ स्वाप्नार्थानां वासनोपादानकत्वम्, भगवत्कर्तृकत्वम्, तात्कालिकजन्मनाशवत्त्वं च॥
किमतो यद्येवं सर्ववस्त्वनुभवाहितसंस्कारसद्भाव इत्यत आह संस्कारैरिति।
संस्कारैर्भगवानेव सृष्ट्वा नानाविधं जगत्।
स्वप्नकाले दर्शयति....................॥८॥
अत्र सृष्ट्वेत्यनेनानादिनित्यत्वपक्षदोषा अनभ्युपगमेनैव निरस्ताः। स्वप्नकाल एव सृष्ट्वेत्यनेन प्रागूर्ध्वं चोपलम्भप्रसङ्गो निराकृतः। सृष्टेः संहारोपलक्षणत्वात्। संस्कारैरित्युपादानकीर्तनम्। नच तेषां गुणत्वेनोपादानत्वानुपपत्तिः। मनोवृत्तित्वेन द्रव्यत्वात्। संस्काराणां चातीन्द्रियत्वेन त्र्यणुकजन्मविनाशयोरिव प्रागूर्ध्वं चानुपलम्भो न दोषाय। भगवानिति कर्तृनिर्देशः। तदैव सृष्टिसंहारकरणमसम्भावितमित्यतोऽशक्यकर्तृताशक्तिसूचनाय भगवानित्युक्तम्। एवञ्चसति अदृष्टादिनिमित्तं प्रसिद्धमेव। न केवलमेवमर्थानां सत्यत्वसम्भवेन भगवदधीनत्वम्, अपितु तज्ज्ञानस्यापीत्युक्तम् दर्शयतीति। जीवायेति शेषः। दर्शनसाधनं च मन एवेति वक्ष्यति। (१००१)
॥ स्वप्नस्य स्मरणरूपत्वनिरासः, अनुभवत्वसमर्थनं च॥
दर्शनं चानुभवो विवक्षितः। तेन स्मरणमेवैतदिति मतं निरस्तं भवति। स्मरणत्वं खल्वस्य तच्चिह्नस्य तदित्युल्लेखस्य सद्भावाद् वा कल्प्यते, असन्निहितगोचरत्वाद् वा, संस्कारप्रभवत्वाद् वा। नाऽद्यः, इदमित्युल्लेखेन तदभावात्। अत एव स्मृतिविपर्यासोऽयमिति चेत्, न। स्मृतित्वस्यैवासिद्धेः। न द्वितीयः, विषयसान्निध्यस्योपपादितत्वात्। (९२४)
न तृतीयः, पदार्थजन्मनि संस्कारस्योपक्षीणत्वेन असिद्धेः। तस्माद् यथा मनोरथे ध्याने वा संस्कारयोनीनर्थान् मनसाऽनुभवति, एवं स्वप्नेऽपीति किमनुपपन्नम्? इयांस्तु विशेषः। मनोरथादौ प्रयत्नपूर्विका पदार्थसृष्टिः। स्वप्ने पुनरीश्वरेच्छाधीनैवेति।
॥ स्वप्नस्य वैशेषिकाभिमतं जागरानुभूतस्मरणयोग्यपदार्थविषयकानुभवरूपत्वं निरस्य
वासनाजन्यसत्यपदार्थविषयकानुभवत्वसमर्थनम्॥
अपरे तु भवत्येवायमनुभवः। किन्तु जागरानुभूतस्मर्तव्यार्थ एवेति मन्यन्ते। तदप्यसत्। तथाहि किमयमनुभवो यथार्थः, उतायथार्थः? नाऽद्यः, बाह्यार्थानां देशकालविप्रकृष्टत्वेन तदनुपपत्तेः। द्वितीये वक्तव्यम् किमयमगजे गजत्वोल्लेखीत्ययमयथार्थः, किंवा गज एवासन्निकृष्टे सन्निकृष्टत्वोल्लेखीत्ययथार्थः? आद्ये नायं गजः किन्तु गवय एवेति बाधोदयः स्यात्। द्वितीये नायं सन्निकृष्टः, किन्नाम विप्रकृष्ट इति बाधो भवेत्। नचैतदस्ति। तस्मात् संस्कारप्रभवसन्निकृष्टसत्यार्थप्रमितिरेवेयमिति युक्तम्।
॥ स्वाप्नप्रतीतेः श्रौती भ्रान्तित्वोक्तिः स्वप्नकालीनजाग्रत्त्वप्रतीतिविषयिका॥
कथन्तर्हि श्रुतिस्मृतिषु स्वप्नप्रतीतेर्भ्रान्तित्वमुच्यत इत्यत आह भ्रान्तिरिति।
.....................भ्रान्तिर्जाग्रत्त्वमेव हि॥८॥
जाग्रत्त्वमिति तत्प्रतीतिमुपलक्षयति। एवेति पदार्थस्वरूपं व्यावर्तयति। जाग्रत्त्वं जागरानुभूतपदार्थैरेकत्वम्। स्वप्ने हि तात्कालिकतयाऽदृष्टचरानेव तनयादीन् दृष्टचरतयाऽनुसन्धत्ते। यद्वा जाग्रत्त्वं नाम गगनादीनां नित्यत्वादिकम्, घटादीनां मृदाद्युपादानकत्वम्, बाह्यार्थक्रियाक्षमत्वमित्यादि ग्राह्यम्। जाग्रत्त्वप्रतीतेर्भ्रान्तित्वात् तद्विषयं श्रुत्यादिकमिति भावः।
॥ जाग्रत्त्वप्रतीतेरपि यथार्थत्वमाशय तन्निरासः॥
स्यादेतत्। जाग्रत्त्वस्यापि संस्कारोऽस्त्येवेति सोपादानत्वसम्भवात् कथं तत्प्रतीतिः भ्रान्तिरित्युच्यते? अन्यथाऽर्थप्रतीतिरपि भ्रान्तिः स्यादविशेषादिति। मैवम्। नहि वयं कारणसामग्रीसम्पादनसम्भवमात्रेणार्थानां सत्यतामातिष्ठामहे। किन्तु बाधाभावेनेति वक्ष्यामः। (९९६) सामग्र्यभावेन असत्यत्वं ब्रुवाणं प्रति तु तदसिद्धिरेवाऽवेदिता। अस्ति च जाग्रत्त्वप्रतीतेर्बाधः। स्वाप्न एवायं न जागरानुभूत इत्याद्युदयात्। तदिदमुक्तं हिशब्देन।
॥ स्वाप्नस्वशिरश्छेदादिप्रतीतेर्यथार्थत्वसमर्थनम्॥
जाग्रत्त्वप्रतीतिरेव भ्रान्तिरित्ययुक्तम्। अर्थानामपि केषाञ्चिदसत्त्वेन तत्प्रतीतेरपि भ्रान्तित्वात्। स्वप्नेऽपि स्वशिरश्छेदादयोऽपि प्रतीयन्ते। नच तदुत्पत्तावुपादानमस्ति। अननुभूतत्वेन संस्कारोदयायोगात्। अननुभूतेऽपि संस्कारोदयाभ्युपगमे “अदृष्टे चाश्रुते” इत्यादिश्रुतिस्मृतिविरोधः स्यात्। कदाचिदननुभूतार्थस्मृतिरप्यापद्येत। ततो यद्यपि साक्षात् स्वशिरश्छेदादेर्बाधो नास्ति, तथाऽपि कारणानुपपत्त्याऽसत्त्वमङ्गीकार्यमेवेत्यत आह अदृष्टे चेति।
अदृष्टे चाश्रुते भावे न भाव उपजायते।
अदृष्टादश्रुताद् भावान्न भाव उपजायते।
इति श्रुतिपुराणोक्तिरनादित्वात्तु युज्यते॥९॥
भावे पदार्थे। भावो वासना। पञ्चमी सप्तम्यर्थे। उक्तिरित्यतः परस्तुशब्दो बोद्धव्यः। अनादित्वात् संसारस्येति शेषः। संसारस्यानादित्वात् क्वचिज्जन्मनि स्वशिरश्छेदादेरप्यनुभवसम्भवेन संस्कारोपपत्तेः। सत्यत्वेऽपि श्रुतिपुराणोक्तिर्युज्यत एव, नतु विरुद्ध्यते। विनाऽप्यनुभवेन संस्कारोदयाभ्युपगमे हि सा विरुद्ध्येतेति। अत्राश्रुतग्रहणेनात्रापि जन्मनि श्रवणजनितसंस्कारः सम्भवतीति सूच्यते। यत्र तु श्रवणाद्यपि नास्ति तत्रानादित्वं निवेशितम्। अनेन यत् पूर्वं सर्वग्रहणं कृतं (९२२) तदुपपत्तये वाऽनाद्यनुभवपरम्परोक्ता तस्य सर्वस्योपयोगः कथितो भवति।
॥ स्वाप्नशशविषाणप्रतीतौ शशप्रतीतेः विषाणप्रतीतेश्च यथार्थत्वम्॥
ननु शशविषाणादिप्रतीतौ कथम्? नहि भवान्तरेऽपि तदनुभवः सम्भवति। “यथापूर्वम्” इति सर्वकल्पानामेकविधत्वश्रवणात्। मैवम्। शशविषाणादिप्रमाभावेऽपि शब्दादिना भ्रान्तिसम्भवेन संस्कारोपपत्तेः। येन तु शशविषाणादिकं भ्रान्त्याऽपि न प्रतिपन्नं तस्य कथम्? नहि सर्वोऽपि भ्राम्यतीति नियमोऽस्ति। नापि स्वप्ने न तत् पश्यतीति नियन्तुं शक्यते। उच्यते किमत्र शशादीनां विषाणादीनां चोपादानासम्भवेनासत्त्वमुच्यते, उत शशत्वादिविषाणित्वादिसामानाधिकरण्यादेः? आद्यं निराकरोति कदाचिदिति।
कदाचिद् दर्शनायोग्यं यत् तत्रापि विभागतः।
दृष्टं समाधिकरणं दृश्यतेऽत्र स च भ्रमः।
यत् स्वप्ने दृश्यत इति शेषः। विभागतः सामानाधिकरण्येन विना दृष्टं जागरे। यद्यपि शशत्वविषाणित्वादीनां सामानाधिकरण्यं शशविषाणादिसम्बन्धविशेषो वा जागरे नानुभूतः, तथाऽपि विविक्तं शशत्वादिकमनुभूतमेवेति तत्संस्कारसम्भवेन न शशादीनामसत्त्वं वाच्यमिति।
॥ शशत्वविषाणित्वयोः सामानाधिकरण्यप्रतीतेः भ्रान्तित्वम्॥
द्वितीये सम्प्रतिपत्तिमुत्तरमाह समेति। भावप्रधानो निर्देशः। उपलक्षणं चैतत्। दृश्यत इत्यत्र प्रकृत्यर्थं स इति परामृशति। यदित्यनुवर्तते। अत्र स्वप्ने न केवलं जाग्रत्त्वमिति चार्थः। यस्योपादानं सम्भवति बाधश्च नास्ति, तदेव हि प्रागेवशब्देन व्यवच्छिन्नमिति भावः।
॥ स्वाप्नार्थानां वासनोपादनकत्वे, भगवत्कर्तृकत्वे, तात्कालिकजन्मनाशवत्त्वे च प्रमाणानि॥
भवेदेतत् सर्वं यदि स्वाप्नार्थानां वासनोपादनत्वादौ प्रमाणं भवेत्। नचैतत् पश्याम इत्यत आह वासनेति।
वासनामात्रमूलत्वाज्जाग्रद्वत् स्पष्टता नच॥१०॥
वासनामात्रोपादानत्वादेव हि स्वाप्नार्थानां जागरोपलब्धानामिव स्पष्टता बाह्यार्थक्रियासामर्थ्यलक्षणा नास्ति। अन्यथा सा स्यादित्यर्थः।
अयमभिसन्धिः स्वाप्नास्तावद् घटादयो नासन्तो बाधाभावात्। नाप्यनादिनित्याः, पूर्वोत्तरमनुपलम्भात्। नच निरुपादानोत्पत्तिरुपपन्ना। ततोऽवश्यमुपादानेऽनुसरणीये, न तावत्ते बाह्यमृदाद्युपादानाः। बाह्यार्थक्रियासामर्थ्यरहितत्वात्। विमतो घटो न बाह्यमृदाद्युपादानकः, बाह्यमृदाद्युपादानकार्यक्रियारहितत्वात्; पटवदिति प्रयोगात्। अन्यथा तत्प्रसङ्गात्। नचोपादानान्तरमस्ति। ततः परिशेषाद् वासनोपादानका एवेति।
चशब्देन भगवत्कर्तृकत्वे, तात्कालिकोत्पत्तिविनाशित्वे च परिशेषम्, “य एष सुप्तेषु जागर्ति”, “एतस्माद्ध्येव पुत्रो जायते” , “न तत्र रथा” इत्यादिश्रुतिं च प्रमाणं समुच्चिनोति।
तदनेन प्रबन्धेन “सन्ध्ये सृष्टिराह हि” , “निर्मातारं चैके पुत्रादयश्च” , “मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात्” इति त्रिसूत्री व्याख्याता भवति।
॥ मायावादिना स्वाप्नार्थानां अनिर्वचनीयत्वप्रतिपादकपरतया सूत्रव्याख्यानम्॥
अन्ये पुनरन्यथैतानि सूत्राणि व्याचक्षते। तथाहि “न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ रथान् रथयोगान् पथः सृजते” इत्यादि श्रूयते। तत्र संशयः किं प्रबोध इव स्वप्नेऽपि पारमार्थिकी सृष्टिः, आहोस्विन्मायामयीति। तत्र तावत् प्रतिपद्यन्ते सन्ध्ये सृष्टिराह हि। प्रबोधसम्प्रसादस्थानयोः सन्धौ भवतीति सन्ध्यं स्वप्नस्थानम्। तत्र तथारूपैव सृष्टिः। कुतः? यतः प्रमाणभूता श्रुतिरेवमाह। “अथ रथान् रथयोगान् पथः सृजते” इत्यादि।
निर्मातारं चैके पुत्रादयश्च। अपिचैके शाखिनः सन्ध्ये कामानां निर्मातारमात्मानमामनन्ति। “य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः” इति । पुत्रादयश्च तत्र कामाः, अभिप्रेयन्ते काम्यन्त इति। न पुनरिच्छाविशेषाः। “शतायुषः पुत्रपौत्रान् वृणीष्व” इति प्रकृतेषु पुत्रादिषु “कामानां त्वा कामभाजं करोमि” इति कामशब्दस्य प्रयुक्तत्वात्।
प्राज्ञं चैनं निर्मातारं प्रकरणवाक्यशेषाभ्यां प्रतीमः। “अन्यत्र धर्मादन्यत्राधर्माद्” इत्यादेः प्राज्ञस्य हीदं प्रकरणम्। वाक्यशेषोऽपि “तदेव शुक्रं तद् ब्रह्म” इत्यादिः। प्राज्ञकर्तृका च सृष्टिर्यथारूपा समधिगता जागरिताश्रया तथा स्वप्नाश्रयाऽपि भवितुमर्हति। तस्मात् तथाभूतैव सन्ध्ये सृष्टिरिति।
एवं प्राप्ते प्रत्याह मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात्। तुशब्दः पक्षं व्यावर्तयति। मायेत्यनादिरनिर्वाच्याऽविद्योच्यते। मायैव सन्ध्ये सृष्टिर्न परमार्थगन्धोऽप्यस्ति। कुतः? कार्त्स्न्येन अनभिव्यक्तस्वरूपत्वात्। देशकालनिमित्तसम्पत्तिरबाधश्च कात्स्न्यम्, तेनाभिव्यक्तस्वरूपत्वाभावात्।
तथाहि न तावत् स्वप्ने रथादीनामुचितो देशः सम्भवति। नहि संवृते देहदेशे रथादयोऽवकाशं लभेरन्। नच वाच्यम् “बहिष्कुलायादमृतश्चरित्वा” इति श्रुतेः स्थितिगतिप्रत्ययभेदाच्च बहिर्देहात् स्वप्नं पश्यतीति। सुप्तस्य जन्तोर्योजनशतान्तरितं देशं क्षणमात्रेण पर्येतुं विपर्येतुं च सर्वतः सामर्थ्याभावात्। क्वचिच्च प्रत्यागमनवर्जितः स्वप्नो भवति । कुरुष्वहमद्य शयानः स्वप्ने पाञ्चालानधिगतश्च प्रतिबुद्धश्चेति। देहाच्चेदपेयात् पाञ्चालेषु प्रतिबुद्ध्येत। कुरुष्वेव तु प्रतिबुद्ध्यते। येन चायं देहेन देशान्तरमश्नुवानो मन्यते, तम्, अस्याभ्याशस्थाः शयनदेश एव पश्यन्ति। यथाभूतानि चायं देशान्तराणि स्वप्ने पश्यति, न तानि तथाभूतान्येव भवन्ति। परिधावंश्चेत् पश्येज्जाग्रद्वद्भूतमर्थमाकलयेत्। दर्शयति च श्रुतिरन्तरेव स्वप्नम् “स्वे शरीरे यथाकामं परिवर्तते” इति। अतश्च श्रुत्युपपत्तिविरोधाद् बहिःश्रुतिरनुपकारित्वसाम्याद् गौणी व्याख्येया। स्थितिगतिप्रत्ययभेदश्च भ्रान्तोऽभ्युपेयः।
कालविसंवादोऽपि स्वप्ने भवति। रजन्यां सुप्तो हि वासरं भारते वर्षे मन्यते। तथा मुहूर्तमात्रमपि वर्षम्। निमित्तान्यपिच स्वप्ने न बुद्धये कर्मणे वोचितानि विद्यन्ते। बाध्यन्ते चैते रथादयः स्वप्ने दृष्टाः प्रबोधे। स्वप्न एव चैते सुलभबाधा भवन्ति। आद्यन्तयोर्व्यभिचारदर्शनात्। रथोऽयमिति हि कदाचित् स्वप्ने निर्धारितः क्षणेन मनुष्यः सम्पद्यते। मनुष्योऽयमिति निर्धारितः क्षणेन वृक्षः। स्पष्टं चाभावं रथादीनां स्वप्ने श्रावयति शास्त्रम् “न तत्र रथा न रथयोगा न पन्थानो भवन्ति” इत्यादि। तस्मान्मायामात्रं स्वप्नदर्शनम्।
अपर आह कार्त्स्न्येनानभिव्यक्तस्वरूपत्वाद् द्रष्टुर्भिन्नत्वादिना निर्वक्तुमशक्यत्वात्। तथाहि स्वाप्नानां रथादीनां द्रष्टुर्भेदः, अभेदः, भेदाभेदो वा। न तावद् भेदः, पार्श्वस्थानामपि तदुपलम्भप्रसङ्गात्। आन्तरत्वस्य चानुचितत्वात्। नाप्यभेदः, एकस्याविचित्रस्य विचित्रानेकात्मकताया विना भ्रान्तिमनुपपत्तेः। भेदप्रत्ययविरोधाच्च। नच भेदाभेदौ, व्याघातात्। अतोऽनिर्वाच्याविद्याविलास एवायमिति।
सूचकश्च हि श्रुतेराचक्षते च तद्विदः। मायामात्रत्वात् तर्हि न कश्चित् स्वप्ने परमार्थगन्ध इति। नेत्युच्यते। सूचकश्च हि स्वप्नो भवति भविष्यतोः साध्वसाधुनोः। कुतः? “यदा कर्मसु” इत्यादिश्रुतेः। आचक्षते च स्वप्नाध्यायविदः। तत्र भवतु सूच्यमानस्य सत्यत्वम्। सूचकस्य तु वैतथ्यमेवेति भावः।
यदुक्तम् “आह हि” इति। तदेवंसति भाक्तं व्याख्येयम्। सुप्तो हि स्वप्नदर्शननिमित्तसुकृतदुष्कृतकर्तृत्वाद् रथादीनां कर्तेत्युच्यते। निर्माणश्रुतिरप्येवं भाक्ता व्याख्येया।
यदप्युक्तं प्राज्ञमेनं निर्मातारमामनन्तीति तदप्यसत्। श्रुत्यन्तरे “स्वयं विहृत्य स्वयं निर्माय” इति जीवव्यापारश्रवणात्।
अपरस्त्वेतदर्थमेव सूचकश्चेति सूत्रं व्याख्यातवान्। शुभाशुभसूचको हि स्वप्नः। नहि प्राज्ञस्य शुभाशुभयोगोऽवकल्पत इति। जीवस्यैव “तदेव शुक्लम्” इति वाक्यशेषे जीवभावं व्यावर्त्य ब्रह्मभाव उपदिश्यते “तत् त्वमसि” इत्यादिवदिति न ब्रह्मप्रकरणं विरुद्ध्यते। अस्तु वा स्वप्नेऽपि प्राज्ञव्यापारः। नच तावता वियदादिवत् स्वप्नस्य सत्यत्वम्। वैषम्यस्योक्तत्वात्। वियदादिप्रपञ्चोऽप्यसत्य एवेत्युपपादितं चाऽरम्भणाधिकरणे। (५७४) ब्रह्मात्मत्वदर्शनाद् वियदादिप्रपञ्चो बाध्यते। सन्ध्याश्रयस्तु प्रतिदिनमित्यतो वैशेषिकमिदं सन्ध्यस्य मायामात्रत्वमुपपादितम्।
पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ। नन्वग्नेरंशस्य विष्फुलिङ्गस्य यथा दहनप्रकाशनशक्ती भवतस्तथेश्वरांशस्य जीवस्यापि ज्ञानैश्वर्यशक्तिभ्यां भाव्यम्। ततश्च साङ्कल्पिकी सृष्टिः स्यादित्यस्येदमुत्तरम्। सत्यमस्त्येवेश्वरसाधर्म्यं जीवस्य। किन्तु तिरोहितम्। तत्तु परमेश्वराभिध्यानादेव आविर्भवति। कुतः? ततो हीश्वराद् हेतोरस्य जीवस्य बन्धमोक्षौ भवतः।
देहयोगाद् वा सोऽपि। कस्माज्जीवस्य ज्ञानैश्वर्यतिरस्कारो भवति? विष्फुलिङ्गवदतिरस्कारो हि युक्त इत्यत्रेदमुत्तरम्। सोऽपि तिरस्कारो जीवस्य देहयोगात्। अविद्याप्रत्युपस्थापितनामरूपकृतदेहेन्द्रियमनोबुद्धिविषयवेदनाद्युपाधियोगात् तदविवेकभ्रमकृतो भवति। यथाऽरणियोगादग्नेः। किमनया कल्पनया? अन्य एवास्तु जीवः परमेश्वरादित्येतद् वाशब्देनव्यवच्छिनत्ति। मैवम्। तत्त्वमस्यादिश्रुतिविरोधादिति।
॥ आद्यसूत्रद्वयस्य पूर्वपक्षत्वोक्तिनिरासः॥
तदिदमनुपपन्नं व्याख्यानम्। तथाहि यत् तावत् स्वप्नदृष्टेः पारमार्थिकत्वप्रतिपादकं सूत्रद्वयं पूर्वपक्षानुवादपरमिति तत्, तदा प्रतीमो यदि मायामात्रमित्यनिर्वाच्यत्वप्रतिज्ञा स्यात्। नचैवम्। तत्प्रतिपादकप्रमाणाभावात्।
॥ मायावाद्युत्प्रेक्षितभेदादिविकल्पप्रश्नस्य सिद्धार्थत्वादयुक्तत्वम्॥
ननूक्तं कार्त्स्न्येनानभिव्यक्तस्वरूपत्वादिति देशकालनिमित्तसम्पत्त्यबाधराहित्यम्, तथा भिन्नत्वादिना निरूपयितुमशक्यत्वं च। मैवम्। तस्यानुपपन्नत्वात्। तत्र यद् देशदिराहित्यमुपपादितम्, तत् सूत्रार्थस्पष्टीकरणेनैवाऽभासीभविष्यतीत्याशयवान् (१००१) भेदादिविकल्पप्रश्र्नेन यद् दूषणमुक्तं (९२९) तत्र प्रश्न एवासावनुपपन्नो दूरे दूषणाभिधानमित्याह भेद इति।
भेदोऽभेदोऽथवा द्वन्द्वमिति प्रश्र्नो न युज्यते।
द्रष्टुः स्वप्नस्य दृष्टत्वाद् भेदस्यैवाखिलैर्जनैः॥११॥
द्रष्टुर्देवदत्तात् स्वप्नस्य स्वप्नोपलभ्यस्य रथादेः किं भेदः, अथाभेदः, द्वन्द्वं भेदाभेदौ वेति विकल्प्य प्रश्र्नो न युज्यते। कुत इत्यत आह दृष्टत्वादिति। द्रष्टुः स्वप्नस्येत्यनुवर्तते। सन्देहमूलो हि विकल्पप्रश्र्नः। नच प्रकृते सन्देहः सम्भवति। स्वप्नतद्द्रष्ट्रोर्भेदस्यैवाखिलैर्जनैर्दृष्टत्वेन विप्रतिपत्तेरभावात्।
स्यादेतत्। मा भूद् विप्रतिपत्तिमूलोऽयं संशयः। समानधर्मजस्तु भविष्यति। किञ्चिद् वस्तु द्रष्टुर्भिन्नं भवति, किञ्चिदभिन्नम्, किञ्चिद् भिन्नाभिन्नम्। वस्तु चेदमतो भिन्नमभिन्नं वेत्यादिसंशयो भवेदिति। मैवम्। संशयो हि किं समानधर्मदर्शनमात्राद् भवति, उत निर्णायकाभावसहकृतात्? नाऽद्यः, सर्वत्र सन्देहोत्पादप्रसङ्गात्। अस्ति हि सर्वत्र किञ्चित् साधर्म्यम्। तदनिवृत्तिप्रसङ्गाच्च। नहि समानो धर्मः कदाऽपि निवर्तते। द्वितीये तु कथमत्र सन्देहः? भेदस्यैवाखिलैर्जनैर्दृष्टत्वेन निर्णायकाभावस्यैवासिद्धेः।
अथ मतम् भेदो हि कश्चित् परमार्थो दृष्टः, यथा स्तम्भकुम्भयोः। कश्चिदपरमार्थः, यथा चन्द्रमसोः। दृश्यते चायं भेदः, ततो भवेदेव सन्देह इति। एतदपि न। तथासति यथासंशयं विकल्पप्रश्नस्य कार्यत्वात्। स एवानया वाचोभग्या क्रियत इति चेत्, न। प्रतीतिरपि हि न केवला संशयहेतुर्भवति। सर्वत्र संशयप्रसङ्गात्। तदनिवृत्तिप्रसङ्गाच्च। विशेषप्रतीत्या हि तन्निवृत्तिरेष्टव्या। तत्रापि च सन्देहोऽवस्कन्दत एव। किन्तु विप्रतिपत्त्यादिकलुषिता। नचात्र तदस्तीत्युक्तम्। औत्सर्गिकं हि प्रतीतीनां याथार्थ्यम्। अन्यथात्वं त्वपवादात्। तदेवं सिद्धविषयत्वात् प्रश्न एवायमनुपपन्नः।
ननुच भेदपक्षमेवाङ्गीकृत्य तत्रोक्तो दोषः शक्यत एव परिहर्तुम्। मनोयोनित्वेन सुखादिवत् पार्श्वस्थानुपलम्भसम्भवात्। तत् किमनेन प्रश्नखण्डनेन? सत्यम्। तथाऽपि प्रतिवादिस्खिलतं नोपेक्षामर्हतीति शिष्यान् शिक्षयितुमेतत्। तथाच वक्ष्यति। (९३२) युक्तिपादव्युत्पादितन्यायशेषं प्रसङ्गेन व्युत्पादयितुं च। इह च तद्व्युत्पादनस्योपयोगं लेशतो दर्शयिष्यामः। (९६०)
॥ चत्वारः प्रश्नदोषाः॥
सिद्धेऽर्थे संशयो न युज्यते। ततो विकल्पप्रश्र्नोऽपीत्युक्तम्। तत्र न युज्यत इति कोऽर्थः? न तावन्नोत्पद्यत इति । संशयविकल्पप्रश्र्नोत्पत्तेः प्रमितत्वात्। नचोत्पन्नोऽपि निष्कारण इति। अकारणकार्योत्पत्तेः प्रमाणविरुद्धत्वात्। नाप्यतत्कारणादुत्पन्न इति। यत उत्पन्नस्तस्यैव कारणत्वेन व्याहतत्वात्। नचान्यदनुपपन्नत्वमस्तीत्यत आह प्रश्र्नेति।
प्रश्नदोषा हि चत्वारः स्वव्याहतिरसङ्गतिः।
सिद्धार्थता च वैफल्यं...................।
विकल्पप्रश्नदोषाः। प्रमाणव्याहतिः सिद्धार्थतैवेति न पृथगुक्ता। स्वव्याहतिर्यथा वन्ध्या किं पुत्रवती नवेति। असङ्गतिर्यथा ईश्वरः सुखीत्युक्ते प्रपञ्चस्य क्षणिकत्वे किं प्रत्यक्षं प्रमाणम्, उतानुमितिरिति। सिद्धार्थता तु प्रकृतैव। वैफल्यं यथा काकस्याष्टौ दश वा दन्ता इति। वैफल्यमित्यतः परमितिशब्दोऽध्याहार्यः।
॥ सिद्धार्थत्वस्य प्रश्नदोषत्वसमर्थनम्॥
अयमभिसन्धिः स्वव्याहत्यादिकं तावत् त्रयं प्रश्नदूषणं भवत्येव। प्रतिज्ञाविरोधार्थान्तरादेः निग्रहस्थानत्वेन प्रामाणिकैः परिगणितत्वात्। तस्यानुपपन्नता कीदृशी येन दूषणत्वमिति वक्तव्यम्।
अथ मन्येत। अव्याहत्यादिकमर्थप्रत्ययनाङ्गम्। व्याहतादिकं च ब्रुवाणस्तन्न प्रत्येति विपरीतं च प्रत्येतीत्यनुमीयते। अतोऽप्रतिपत्तिविप्रतिपत्तिलिङ्गत्वादनुपपन्नमिति।
एवन्तर्हि सिद्धार्थताऽप्येवमेवेति कथं न दोषः? विकल्पप्रश्र्नो हि सन्देहमूलः। सन्देहश्च समानधर्मदर्शनादिना निर्णायकाभावसहकृतेन भवति। समानधर्माद्यभावे वा निर्णायकसद्भावेऽपि वा यः सन्दिग्धे, विकल्पांश्च पृच्छति स नूनमविद्यमानमेव समानधर्मादिकं प्रतिपन्नो न प्रतिपन्नश्च निर्णायकसद्भावमित्यनुमीयते। नहि कार्यमकारणं भवितुमर्हति। दृश्यते हि सर्पभ्रमादिनाऽपि भयकम्पादिकार्योत्पाद इति।
॥ प्रश्नदोषाणां तत्वनिर्णयविरोधित्वम्॥
ननु ग्रन्थास्तावदिमे वादकथाप्रक्रियया प्रवृत्ताः। नच वादे निग्रहस्थानमस्ति। तस्य तत्वनिर्णयावसानत्वात्। नहि वादिप्रतिवादिनोरन्यतरस्मिन् प्रतिज्ञाहान्यादिना निगृहीते सत्यन्यतरपक्षनिर्णयः सिद्ध्यति। पुनः सम्यक् प्रतिपद्य प्रत्यवस्थानसम्भवात्। यत्तु वादसूत्रे “सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः” इत्यपसिद्धान्तादेः निग्रहस्थानत्वं सूचितम्, तदपि वादस्यान्यतरपक्षनिर्णयावसानत्वविरोधादनुपपन्नम्। यदिच वादेऽपसिद्धान्तादीनि कानिचिन्निग्रहस्थानानि स्युः, तदाऽपराण्यपि कस्मान्न स्युः? तत्वनिर्णयावसानविरोधित्वस्योभयत्र साम्यात्। प्रतिज्ञाहान्यादिना निग्रहे वीतरागत्वहानिः स्यादिति चेत्। सममपसिद्धान्तादावपीति। अतो वादे निग्रहस्थानाभावात् कथं प्रश्नदोषोद्भावनमित्यत आह न तैरिति।
............... न तैः स्यात् तत्वनिर्णयः।
तत्वनिर्णयवैलोम्यं स्याद् वादेऽपि हि निग्रहः॥१२॥
तैः स्वव्याहतादिप्रश्र्नैः। स्वव्याहतादिप्रश्र्नास्तत्वनिर्णयविरोधिन इत्यर्थः। नहि सिद्धेऽप्यर्थे सन्दिहानः शतेनापि प्रमाणानां तत्वं प्रतिपादयितुं शक्यते। तत्रापि सन्देहानिवारणात्।
ततः किमित्यत आह तत्वेति। न केवलं जल्पवितण्डयोरेव निग्रहस्थानसद्भावः। किन्तु वादेऽपि । निगृह्यतेऽनेनेति निग्रहो निग्रहस्थानं स्यादेव। अयं तु विशेषः न जल्पवितण्डयोरिव समस्तम्। अपितु यावत् तत्वनिर्णयविरोधि तावदेव। सिद्धप्रश्र्नादिकं च तत्वनिर्णयविरोधीत्युक्तम्, तत् कुतो वादे न निग्रहस्थानमिति। यो हि यदर्थं प्रवर्तते स तद्विरुद्धमाचरन् कथं नापराधी स्यादिति हिशब्दार्थः। निग्रहनिमित्तनिष्कर्षार्थं वैलोम्यमिति भावप्रत्ययः।
॥ तत्वनिर्णयविरोधिनिग्रहस्थानानां वादेऽप्युद्भावनीयत्वम्॥
नन्वेवन्तर्हि वादस्य तत्वनिर्णयार्थत्वं व्याहन्येत। तथाच विजयार्थत्वेन जल्पादितो व्यावृत्तिश्च न स्यात्। तद्वदेव सर्वनिग्रहस्थानसद्भावोऽपि स्यादित्यत आह उद्भावनीयमेवेति।
उद्भावनीयमेव स्यान्न कथावसितिर्भवेत्।
विजिगीषुकथायां तु कथावसितिकारणम्॥१३॥
तत्वनिर्णयवैलोम्यं वाद इत्यनुवर्तते। अवसीयतेऽनेनेत्यवसितिः। विजिगीषुकथायां जल्पवितण्डालक्षणायाम्। कथावसितिकारणं सर्वमपि निग्रहस्थानमिति शेषः।
एतदुक्तं भवति वादे किञ्चिदसम्भावितमेव। यथा विक्षेपादि। तस्याज्ञानसङ्गूहनाद्यर्थत्वात्। तत्वनिर्णिनीषोश्च तत्रानर्थित्वात्। किञ्चित् सम्भावितमप्यनुद्भाव्यम्। यथाऽननुभाषणादि। तस्योभयाभिलषिततत्वनिर्णयाविरोधित्वेन तदुद्भावनस्य व्यर्थत्वात्। किञ्चिदुद्भाव्यमात्रं यथा प्रतिज्ञाविरोधादिकं प्रकृतम्। तस्य तत्वनिर्णयविरोधित्वेन तदुद्भावनस्य अत्याजनेन तत्वनिर्णयाङ्गत्वात्। वादावसानं त्वन्यतरस्य साधनदूषणयोः स्थितयोरन्यस्मिंश्च निस्साधनदूषणे सति भवति । स एव हि तत्वनिर्णय इति । जल्पवितण्डयोस्तु सर्वमपि निग्रहस्थानं सम्भावितं चोद्भाव्यं च। उद्भावितं च कथां चावसाययति। तयोर्विजयार्थत्वात्। सर्वस्य विजयसाधनत्वात्। अतो न कश्चिद् दोष इति।
॥ प्रश्र्ने सिद्धार्थत्वस्यादूषणत्वे प्रतिवादिसिद्धार्थप्रतिज्ञाया अपि अदूषणत्वप्रसङ्गः॥
एवं सिद्धार्थविषयत्वं प्रश्नस्य दूषणमुद्भाव्यं चेत्युपपाद्य तद्दूषणत्वानभ्युपगमेऽतिप्रसङ्गं सूचयितुमाह परिहारेऽपीति।
परिहारेऽपि सिद्धत्वं दूषणं प्रतिवादिनः।
प्रतिज्ञायाम् ...........................॥१४॥
न केवलं सिद्धविषयत्वं प्रश्नदूषणम्। किन्नाम। परिहारेऽप्युत्तरेऽप्यर्थस्य सिद्धत्वं दूषणम्। इयांस्तु विशेषः प्रश्र्ने तु पृच्छ्यमानार्थस्य प्रष्टुः सिद्धत्वं दूषणम्। प्रतियोगिनस्तु सिद्धत्वं न्याय्यमेव। अन्यथा तं प्रति प्रश्र्नानुपपत्तेः। उत्तरे तु तदर्थस्य प्रतिवादिनः सिद्धत्वं दूषणम्। वादिनस्तु सिद्धत्वमेव न्याय्यम्। अन्यथा प्रतिपादकत्वानुपपत्तेरिति। तत् किमुत्तरवाक्यार्थस्य सर्वस्यापि प्रतिवादिसिद्धत्वं दूषणम्? नेति ब्रूमः। किन्तु पतिज्ञार्थस्यैव, परिहारेऽपि प्रतिज्ञायामर्थस्य प्रतिवादिनः सिद्धत्वं दूषणमिति सम्बन्धः।
इदमुक्तं भवति यदि स्वसिद्धार्थे प्रश्नकरणं न दूषणं स्यात्, तदा प्रतिवादिसिद्धार्थप्रतिज्ञाऽपि न दूषणं स्यादविशेषात्। ननु परं प्रति साधनाय पक्षवचनं प्रतिज्ञा। नच सिद्धं साधनमर्हति। अतः प्रतिज्ञात्वव्याघातात् प्रतिवादिसिद्धार्थत्वं दूषणमेवेति। एवन्तर्हि ज्ञीप्सापूर्वकं वाक्यं प्रश्र्नः। नच ज्ञाते ज्ञीप्सा सम्भवति। अतः प्रश्नत्वव्याघातात् स्वसिद्धार्थविषयत्वं कथं न दूषणमिति।
॥ प्रतिज्ञाया एव सिद्धार्थत्वं दोषः, हेत्वादीनामसिद्धत्वमेव दोषः॥
अथ किमर्थं प्रतिज्ञायामित्युच्यत इत्यत आह तदन्यस्येति।
..........तदन्यस्य सिद्धतैव हि साधिका॥१४॥
व्यापकधर्मस्य साध्यधर्मिणा सम्बन्धः तदपर्यवसानलभ्यश्चार्थः प्रतिज्ञार्थः। तदन्यस्य हेत्वाद्यर्थस्य सिद्धतैव हि साध्यसाधिका भवति। असिद्धस्य लिङ्गादेः साध्यसाधकत्वेऽतिप्रसङ्गात्। अतः प्रतिज्ञायामित्युक्तम्।
॥ असिद्धिप्रकाराः॥
प्रतिज्ञातार्थव्यतिरिक्तस्योत्तरवाक्यार्थस्य सिद्धतैव साधिकेत्यनेन तदसिद्धेः दूषणत्वं लब्धम्। सा चानेकप्रकारा। तथाहि साध्यधर्मिणोऽसिद्धिराश्रयासिद्धिः। यथा नृशृङ्गमस्ति, शृङ्गत्वात्; गोशृङ्गवदिति। साध्यधर्मासिद्धिरप्रसिद्धविशेषणतापरसञ्ज्ञा। यथा शुक्तिरजतादिकं सदसद्विलक्षणम्, बाध्यत्वादिति। लिङ्गासिद्धिर्यथा विमतमचेतनम्, सदसद्विलक्षणत्वादिति। लिङ्गस्य पक्षधर्मतासिद्धिर्यथा शब्दो नित्यः, चाक्षुषत्वादिति। व्यधिकरणासिद्धिर्यथा शब्दोऽनित्यः, घटस्य कृतकत्वादिति । व्याप्त्यसिद्धिर्यथा यत् सत् तत् क्षणिकम्, यथा प्रदीपः, संश्च प्रपञ्च इति। एवं विशेषणासिद्ध्यादयोऽपि द्रष्टव्याः।
॥ आश्रयासिद्धिव्यधिकरणासिद्धिसाध्यासिद्धीनां अदोषत्वम्॥
तत्र सर्वासामप्यसिद्धीनां दूषणत्वे प्राप्तेऽपवादमाह आश्रयेति।
आश्रयव्याश्रयासिद्धी साध्यासिद्धिश्च दूषणम्।
केषाञ्चिन्नच ते दोषा व्याप्तौ सत्यां कथञ्चन॥१५॥
आश्रयासिद्धिः, व्यधिकरणासिद्धिः, साध्यासिद्धिश्च यद्यपि केषाञ्चिन्नैयायिकादीनां मते दूषणम्। तथाऽपि तत्वतो नच ते दोषाः।
आश्रयासिद्धिरनेकप्रकारा असदाश्रयत्वम्, अभावाश्रयत्वम्, अप्रतीताश्रयत्वम्, पक्षीकृताकारेणासत्त्वम्, सिद्धसाधकत्वं चेति। तत्राऽद्ययोः द्वयोरदोषत्वं प्रतिजानीते नचेति। अप्रतीताश्रयत्वादेर्दोषत्वस्य सिद्धत्वात्। अत एवोक्तमन्यत्र “असदाश्रयस्य” इत्यादि, “नचात्यान्ताभावोऽपि” इति। एवमुत्तरत्रापि ज्ञातव्यम्। आश्रयासिद्धिशब्देन दृष्टान्तस्याऽश्रयहीनताऽपि सङ्ग्र्राह्या।
कुतस्ते न दोषा इति चेत्। किं व्याप्त्यादिभङ्गहेतुत्वेन दोषत्वम्, उत सत्येव व्याप्त्यादौ प्रकारान्तरेण? नाऽद्यः, आश्रयासिद्ध्यादावपि व्याप्त्यादेः सत्त्वात्। द्वितीये त्विदमुपतिष्ठते। व्याप्तौ सत्यां कथञ्चन केनापि प्रकारेण न दोषा इति। व्याप्तिग्रहणमबाधितविषयत्वाद्युपलक्षणम्। वस्तुतो व्याप्तावेव तस्योपयोगान्न पृथगुक्तम्। अस्यैवार्थस्य प्रपञ्चार्थमुत्तरः प्रबन्धः।
॥ असदाश्रयस्यापि हेतोः साधकत्वे विषाणत्वहेतुना नरविषाणास्तित्वसाधनप्रसङ्गमाशय
प्रमाणबाधादेव तस्यादुष्टत्वमित्युपपादनम्॥
तत्र भाववदभावस्यापि प्रामाणिकत्वं सधर्मकत्वं च प्रागेव साधितम्। (५५५, ७४२) असदाश्रयस्य तु कुतो दुष्टत्वमिति वाच्यम्। किं नरविषाणमस्ति विषाणत्वादित्यादेरपि साधनत्वप्रसङ्गात्, उतासतो निर्धर्मकत्वेन साध्यधर्माश्रयत्वानुपपत्त्या बाधितविषयत्वेन, अथ साधनधर्माश्रयत्वानुपपत्त्या स्वरूपासिद्धत्वेन, यद्वाऽसतः सकलव्यवहाराभाजनत्वेन, यदि वाऽप्रामाणिकस्य प्रमाणाङ्गतासम्भवेन, अथवाऽसदाश्रयस्य व्याप्त्यनुपपत्त्येति। आद्यं निराकरोति दोष इति।
दोषो व्याहतिरेवास्ति नृशृङ्गास्तित्वसाधने।
व्याहतिः प्रमाणविरोधः। शृङ्गशब्दो हि महतः शिरःसंयुक्तस्य रूपवतोऽवयवविशेषस्य वाचकोऽभिप्रेतः स्यात्। अतीन्द्रियस्य वा कस्यचित्। आद्ये प्रत्यक्षेण तस्य नास्तितावधारणात् प्रमाणबाधितत्वेनैव विषाणत्वस्यासाधनत्वात् नातिप्रसङ्गः। द्वितीये त्विष्टापादनमिति।
॥ शृङ्गत्वहेतोः प्रमाणबाधादेव दुष्टत्वम्,
नत्वसदाश्रयत्वेनेत्युपपादनम्॥
स्यादेतत्। शृङ्गत्वं तावदसाधनमित्यविवादम्। अस्ति च तत्र बाधितविषयत्वमसदाश्रयत्वं च। तत्र बाधितविषयत्वमेव तदीयासाधनत्वे प्रयोजकं नासदाश्रयत्वमिति कुतो नियम्यत इत्यत आह यत्रेति।
यत्र व्याहतता नास्ति कोऽतिसङ्गोऽस्य साधने॥१६॥
यस्मिन् साध्ये व्याहतता प्रमाणबाधो नास्ति। अस्य साधनेऽसदाश्रयेणापि हेतुना क्रियमाणे कोऽतिप्रसङ्गः? न कोऽपि दोषः। व्याहततेत्युपलक्षणम्। व्यभिचारादिकं चेत्यपि द्रष्टव्यम्।
एतदुक्तं भवति अस्ति तावद् बाधितविषयत्वस्य दूषणत्वे कृशानुशैत्यादिसाधनं कृतकत्वादिकं दोषान्तरासङ्कीर्णमुदाहरणम्। तेनतस्य दूषणत्वं निश्चिनुमः। नचासदाश्रयत्वस्य दोषत्वे बाधितविषयत्वाद्यसङ्कीर्णमुदाहरणमस्ति। येन तस्य दोषत्वं प्रतीमः। बाधितविषयत्वादिदोषान्तराभावे केवलासदाश्रयस्य हेतुत्वे बाधकाभावात्। दृश्यते च तथाविधस्य हेतुत्वम्। यथा वन्ध्यासुतो न वक्ता, अचेतनत्वात्; पाषाणवदिति । अतो बाधितविषयत्वेनैव शृङ्गत्वमसाधनं नासदाश्रयत्वेनेति निश्चीयते।
॥ वन्ध्यासुतस्यावक्तृत्वसाधकाचेतनत्वहेतोः सुतत्वहेतुना सत्प्रतिपक्षत्वमाशय
सुतत्वहेतोः बाधितत्वेन दुर्बलत्वादप्रतिपक्षत्वमित्युपपादनम्॥
अथ मतम् वन्ध्यासुतो वक्ता, सुतत्वात्; सम्मतवदिति सत्प्रतिपक्षमेतत् किं न स्यात्? असदाश्रयताभयस्य भवतैव त्याजितत्वादिति। मैवम्। तदीयवक्तृताकार्यस्य कदाऽपि केनाप्यनुपलब्धत्वेन बाधितविषयतया दुर्बलस्याप्रतिपक्षत्वात्। नहि भवति तरक्षोः प्रतिपक्षो हरिणशावः। अवक्तृत्वमपि वचनेतरक्रियाकर्तृत्वमित्यतोऽचेतनत्वमपि बाधितविषयमिति चेत्, न। वक्तृत्वाभावमात्रस्य साध्यत्वात्।
॥ असतोऽपि वन्ध्यासुतस्य वक्तृत्वाभावरूपधर्मवत्त्वमस्त्येव॥
नन्वभावोऽप्यसति कथम्। तस्य धर्माभावादिति चेत्, न। धर्माणामनेकविधत्वात्। केचिद्धि धर्मिसमवेता भवन्ति। यथा रूपादयः। केचिदन्यसमवेता अप्यन्यमुपरञ्जयन्ति। यथा ज्ञानादयो घटादीनाम्। केचिदाश्रयसमवायमपि नापेक्षन्ते केवलं केनचित् निरूप्यन्ते। यथाऽभावः। नच वाच्यमभावोऽपि सद्भ्यां निरूपणीय इति। प्रागभावाद्यनिरूपणप्रसङ्गात्। घटादेः कदाचित् सत्त्वात् नैवमिति चेत्, न। तस्य निरूपणसमयेऽनुपयोगात्। प्रतीत्या निरूपकत्वमिति चेत्, समं प्रकृतेऽपि। शब्दाभासादिना बन्ध्यासुतस्यापि प्रतीतिसम्भवात्।
॥ सुतत्वहेतोः असिद्धिव्यभिचाराभ्यां च दुर्बलत्वम्॥
असिद्धं च सुतत्वं वन्ध्यासुतस्य। नचैवं स्ववचनव्याघातः। काल्पनिकानुवादेन वास्तवनिराकरणात्। काल्पनिकस्य कथं पक्षत्वमिति चेत्, न। निषेधं प्रति पक्षत्वे बाधकाभावात्। अन्यथा परपक्षप्रतिक्षेपायोगात्। अथाचेतनत्वमप्यसिद्धम्। तस्य चेतनातिरिक्तस्वभावत्वादिति चेत्, न। चैतन्यव्यावृत्तिमात्रस्य हेतुत्वात्। अभावस्य चासतोऽपि निरूपणमुपपद्यत इत्युक्तम्।
मूकेऽनैकान्तिकश्च सुतत्वहेतुः। अमूकत्वेन विशेषणे तस्य वक्तृत्वानतिरिक्तत्वेन साध्याविशिष्टता स्यात्। एतेन विकल्पिताः पक्षाः समस्ता अपि निरस्ता भवन्तीत्यास्तां विस्तरः।
॥ प्रमाणसिद्धव्याप्त्यादिमद्धेतोरेव सदनुमानत्वात्,
प्रमाणविरुद्धहेतोराभासत्वात् प्रमाणबाधस्य दोषत्वमित्युपपादनम्॥
प्रमाणविरोधेन शृङ्गत्वहेतुराभास इत्युक्तम्। अथ प्रमाणविरोधस्यापि कुतो दूषणत्वम्? व्याप्त्याद्यङ्गसाकल्ये साध्यसिद्धेरावश्यकत्वात्। तदभावे तत एवाऽभासत्वम्। किं प्रमाणबाधेनेत्यत आह प्रत्यक्षेति।
प्रत्यक्षागममूलास्तु न्यायाः सर्वे भवन्ति हि।
न्यायाभासा अमूलाः स्युर्न्यायस्यान्यस्य तौ पुनः॥१७॥
तुशब्दोऽवधारणे। हिशब्दः प्रसिद्धौ। यस्मादित्यर्थे च। यद्यपि निषेधकहेतोर्निषेधात्मनोऽप्रामाणिकमप्याश्रयो दृष्टान्तधर्मी च क्वचिद् भवतीत्युक्तम्, तथाऽपि विधायकानां विधिरूपाणां चाऽश्रयेण अवश्यं प्रत्यक्षागमगृहीतेन भाव्यम्। क्वचिन्निषेधकस्य निषेधात्मनश्च निषेधे साध्ये क्वचित् प्रतियोगिना प्रत्यक्षादिगृहीतेन भवितव्यम्। लिङ्गं च न स्वरूपेण साध्यप्रमितिमुपजनयितुमलम्। किन्तु प्रत्यक्षागमाभ्यां निश्चितस्वरूपव्याप्तिकम्, इत्येवमनेकधा सर्वेऽपि न्यायाः प्रत्यक्षागममूला एव भवन्तीति तावत् प्रसिद्धम्।
यत एवं, तस्मादमूलाः स्वमूलभूतप्रत्यक्षागमविरुद्धा न्यायाभासा एव स्युः। यथा खलु नैशत्यादिसम्पन्नोऽपि परशुरविषये गगनादौ न च्छिदां जनयति एवमनुमानान्यप्युपजीव्यत्वादिना प्रबलाभ्यां प्रत्यक्षागमाभ्यां बाधितत्वेनाविषये न प्रमामुपजनयितुमलमित्याभासभूतान्येवेति।
नन्वनुमानमूलोऽपि न्यायोऽस्ति। यथा चक्षुरादिपक्षीकारेण प्रवृत्तः। तत् कथं प्रत्यक्षागममूलाः स्युरित्युक्तमित्यत आह न्यायस्येति। प्रत्यक्षागममूलात् न्यायादन्यस्यापि न्यायस्य तौ प्रत्यक्षागमावेव मूलम्। कथम्? यतो मूलभूतस्याप्यन्यस्य न्यायस्य तौ पुनर्मूलमित्यन्ततः सर्वथा प्रत्यक्षागमानतिक्रमात् तथोक्तमिति। यद्यप्यागमोऽपि प्रत्यक्षमूलः, तथाऽपि क्वचित् प्रत्यक्षस्यापि मूलं भवतीत्यतो द्वयोर्ग्रहणम्। अनुमानस्यापि क्वचित् तन्मूलत्वेऽपि न स्वतन्त्रस्येत्यतस्तत्परित्यागः।
॥ व्याप्तिभङ्गहेतुत्वादपि प्रमाणबाधस्य दोषत्वम्॥
एवं व्याप्तिभङ्गाद्यनपेक्षमेवाविषयवृत्तित्वेन बाधितस्य दुष्टत्वमुपपादितम्। प्रकारान्तरमप्याह अदृष्ट इति।
अदृष्टे व्यभिचारे तु साधकं तदिति स्फुटम्।
ज्ञायते साक्षिणैवाद्धा मानबाधे न तद् भवेत्॥१८॥
तुशब्दोऽवधारणे। तल्लिङ्गं धूमादिकं दहनादिसाध्यव्यभिचारेऽद्धा सर्वथाऽप्यदृष्ट एव सति तस्य साधकम्, नतु व्यभिचारदर्शन इति तावत् साक्षिणैव स्फुटं ज्ञायते।
किमतो यद्यदृष्टव्यभिचारस्यैव लिङ्गस्य साध्यसाधकत्वं साक्षिसिद्धमित्यत आह मानेति। प्रमाणबाधे सति तददृष्टव्यभिचारित्वं न भवेत्। प्रमाणबाधेनाग्न्यादेः शैत्याद्यपहारे सति तत्रैव लिङ्गस्य कृतकत्वादेः साध्यव्यभिचारदर्शनात्। तदनेन व्याप्तिभङ्गहेतुतया बाधस्य दूषणत्वमित्युक्तं भवति। तत्रायं विवेकः परार्थप्रयोगोत्तरकालमविषयवृत्तित्वमेवोद्भाव्यम्। न व्याप्तिभङ्गः। व्याप्तिभङ्गोपपादनायोपजीव्येनाविषयवृत्तित्वेनैवानुमानस्य दुष्टत्वे जघन्यप्रतिपत्तिकस्य व्याप्तिभङ्गस्य अनुसरणस्यान्याय्यत्वात्। व्याप्तिग्रहणसमये तु तद्भङ्गहेतुत्वेनैव। तदानीं विषयस्य बुद्धावनारूढत्वात्। व्याप्तिभङ्गस्यैव पुरस्फूर्तिकत्वाच्चेति साक्षिणैवेत्युक्तम्।
॥ प्रमाणानां प्रामाण्यस्य साक्षिग्राह्यत्वम्॥
तत् प्रसङ्गादुपपादयति यदिति।
यत् साक्षिणैव मानत्वं मानानामवसीयते।
यस्मात् सर्वेषां मानानां ज्ञानानां मानत्वं साक्षिणैवावसीयते। अन्यथाऽनवस्थादिप्रसङ्गात्। तस्मादनुमानस्यापि प्रामाण्यं तेनैव ज्ञायत इत्युक्तमेव।
॥ रजतज्ञानस्य प्रामाण्यग्राहकं मन एव, न साक्षी॥
यदितर्हि प्रामाण्यं साक्षिवेद्यं साक्षिणः प्रागुपपादितो (८८९) याथार्थ्यनियमो भज्येत। कदाचिदमानस्यापि हि मानत्वं गृह्यते। अन्यथा विपर्ययादविशङ्का प्रवृत्तिर्न स्यात्। तस्य चायथार्थत्वं बाधेनाऽवेद्यते इत्यत आह अमानस्येति।
अमानस्य तु मानत्वं मानसत्वाच्चलं भवेत्॥१९॥
मानत्वं मानत्वग्रहणं चलं बाधितम्। अमानस्य तु यन्मानत्वं गृह्यते तन्मनसैव। न साक्षिणा। अतस्तस्य बाध्यत्वं न दोषमावहतीति।
॥ प्रमाण्यावगतिप्रक्रिया॥
अत्रैषा प्रक्रिया सर्वमपि ज्ञानं साक्षी गृह्णाति। यद्यस्य बाधो भविष्यति तदाऽप्रमाणम्, नचेत् प्रमाणमेवेति तत्प्रामाण्यमपि गृह्णाति। सति प्रयोजने प्रामाण्यादिजिज्ञासायां परीक्षामनुसृत्य प्रामाण्यमप्रामाण्यं वा व्यवस्थापयति। अलाभे तु परीक्षाया विशेषावधारणादुदास्ते। अस्यामवस्थायां रागादिकलुषितं मनः परीक्षाभाससहायं प्रामाण्यादिकमवधारयति। तच्च कदाचिद् बाध्यते कदाचिन्नेति। कुत एषा कल्पनेति चेत्, साक्षिणो याथार्थ्यनियमस्यैवोपपादितत्वात्। वक्ष्यते चैतदिति। (१२१९)
॥ निरुपाधिकसाध्यव्यभिचार एव हेतोरसाधकत्वे प्रयोजकः, नतु सोपाधिकोऽपि व्यभिचारः॥
अदृष्टे व्यभिचार इति साध्यव्यभिचारिलिङ्गमप्रमाणमित्युक्तम्। तत्र विशेषमाह उत्सर्गतोऽपीति।
उत्सर्गतोऽपि यत् प्राप्तमपवादविवर्जितम्।
व्यभिचार्यपवादेन मानमेव भविष्यति॥२०॥
यल्लिङ्गमुत्सर्गतः स्वभावेनापवादविवर्जितं साध्यव्यभिचारवर्जितं प्राप्तं निश्चितमप्यपवादेन कारणविशेषेणैव व्यभिचारि तन्मानमेव भविष्यति।
एतदुक्तं भवति यथा साधनस्य साध्यसाहित्यमात्रं न प्रामाण्योपयोगि, किन्तु निरुपाधिकमेव। अन्यथा सोपाधिकसाध्यसम्बन्धस्य मैत्रीतनयत्वादेरपि श्यामतासाधनत्वप्रसङ्गात्। तथा व्यभिचारोऽपि निरुपाधिक एवासाधनत्वे हेतुः। यथा प्रमेयत्वस्य नित्यत्वेन। नहि प्रमेयत्वं स्वभावेन नित्यत्वाव्यभिचारि, व्यभिचारि तु निमित्तान्तरेणेत्यत्र नियामकं पश्यामः। यस्तु स्वभावेन साध्याव्यभिचारिणोऽपि साधनस्यौपाधिको व्यभिचारो नासावप्रामाण्यकारणमिति।
॥ सोपाधिकव्यभिचारस्यापि अप्रामाण्यकारणत्वे बाधकोक्तिः॥
कुत एतदित्यत आह अतो हीति।
अतो हि भोजनादीनामिष्टसाधनतानुमा।
मानं व्यवहृतौ नित्यं व्यभिचारो हि तत्र च॥२१॥
एवशब्दोऽत्राध्याहार्यः। सोपाधिकव्यभिचारस्याप्रामाण्यकारणत्वाभावादेव ह्यागामिभोजनादीनामिष्टसाधनतानुमा मानम्। यदि सोपाधिकोऽपि व्यभिचारोऽप्रामाण्यहेतुः स्यात्, तदा विमतं भोजनमिष्टसाधनम्, भोजनत्वात्; ह्यस्तनभोजनवदित्यनुमानममानं प्रसज्येतेति।
अप्रमाणमेव तदस्त्वित्यत आह व्यवहृताविति। कारणमिति शेषः। यदि व्यभिचारेणेदममानं स्यात्, तदा प्रमेयत्वमिव व्यवहर्तृभिरमानतया निश्चीयेतापि। तथाच ततो भोजने प्रेक्षावतां प्रवृत्तिर्न स्यात्।
ननु व्यभिचारिसाधनं सन्देहमावहति। सन्देहोऽपि भवति प्रवृत्तिहेतुरिति। सत्यम्। सन्देहः साशङ्कां प्रवृत्तिमुपजनयति न निरङ्कुशाम्। इयं तु निरङ्कुशा सर्वानुभवसिद्धेति। तदिदमुक्तम् नित्यमिति। पूर्वेणैव सम्बन्धः।
भवतीदमनुमानं प्रमाणं किन्तु व्यभिचाराभावादेवेत्यत आह व्यभिचारो हीति। तत्र भोजनत्वादौ साधने साध्येष्टसाधनत्वव्यभिचारः स्फुट एव। क्वचिदनिष्टसाधनत्वस्याप्युपलम्भात्। किन्त्वपथ्यत्वाद्युपाधिनिबन्धन एव। नच पथ्यत्वादिविशिष्टमेव भोजनत्वादिकं साधनमिति वाच्यम्। तस्य प्रवृत्त्युत्तरकालं फलानुमेयस्य प्रागसिद्धेः। न खलु फलमूलादीनां विषपत्रिकाद्यनुपहतत्वमस्मदादिभिरवधारयितुं शक्यते। तस्मान्निरुपाधिक एव व्यभिचारोऽसाधनत्वहेतुरिति। तदेवं प्रमाणबाधस्य दूषणत्वे प्रकारसम्भवान्नासदाश्रयत्वस्यादूषणत्वे तत्प्रतिबन्दी युक्तेति।
॥ व्यधिकरणहेतोः साधकत्वे काककार्ष्ण्यात् आत्मानित्यत्वसाधनप्रसङ्गमाशय
व्याप्त्यभावादेव तस्य दुष्टत्वमित्युपपादनम्॥
एवमसदाश्रयत्वस्य हेतुदूषणत्वं निराकृत्य व्यधिकरणत्वस्यापि तन्निराकुर्वाणो यदि व्यधिकरणोऽपि हेतुः स्यात्, तदाऽऽत्माऽनित्यः, काकस्य कार्ष्ण्यात्; इत्ययमपि हेतुः स्यादित्यतिप्रसङ्गाद् वा व्यधिकरणत्वस्य हेतुदूषणत्वमङ्गीकर्तव्यम्, व्याप्त्यभावाद् वा पक्षधर्मताभावाद् वेति विकल्पं मनसि निधायाऽद्यं निराचष्टे व्याप्तत्व इति।
व्याप्तत्वे व्याश्रयत्वं तु कथमेव हि दूषणम्।
साधनस्य साध्येन व्याप्तत्वे सति तेन विभिन्नाश्रयत्वं कथमेव हि दूषणम्? न कथञ्चित्।
इदमुक्तं भवति काकस्य कार्ष्ण्यं व्याप्त्यभावादेव हि नित्यत्वासाधकं न पुनर्व्यधिकरणत्वात्। अतो नातिप्रसङ्गः। कुत एतत्? व्याप्त्याद्यङ्गसाकल्ये व्यधिकरणत्वमात्रेणासाधकत्वस्य क्वाप्यनुपलम्भात्। घटस्य कृतकत्वात् शब्दोऽनित्य इत्यादौ दृष्टमिति चेत्। घटस्येत्येतद्धेतुविशेषणं नवा। आद्ये वैयर्थ्यम्। द्वितीये कथमसाधकत्वम्? अथ अनित्यत्वव्याप्तमपि कृतकत्वं घटवृत्ति न शब्देऽनित्यत्वं साधयतीति चेत्, न। व्याप्त्यभावात्। तथाच वक्ष्यामः। (९४१)
॥ व्यधिकरणस्यापि कृत्तिकोदयस्य रोहिण्युदयासत्तिसाधकत्वम्॥
न केवलं व्याप्त्याद्यङ्गसाकल्ये व्यधिकरणत्वमात्रेण दुष्टत्वं न दृष्टम्। किन्तु दृष्टं च व्यधिकरणस्यापि व्याप्त्यादिसम्पत्तिमतः साधकत्वमित्याह रोहिणीति।
रोहिण्युदय आसन्नः कृत्तिकाऽभ्युदिता यतः।
इत्युक्ते साधनं नो किं नह्याज्ञैवात्र साधिका॥२२॥
नदीपूरदर्शनेनोत्तरदेशे वृष्ट्यनुमानं प्रत्यग्रशरावचक्रभ्रमदर्शनेन कुलालासत्त्यनुमानं चाऽशय केनचिदुक्तं नोत्तरदेशोऽत्र पक्षः, किन्नाम, नदी। तद्धर्मेणैव पूरेण तद्धर्मस्यैव वृष्टिमदुत्तरदेशसम्बन्धस्य साध्यत्वम्। एवं शरावचक्रधर्माभ्यां प्रत्यग्रत्वभ्रमाभ्यां तद्धर्मस्यैव कुलालासत्तेरनुमानमिति। अत इदमुदाहरणान्तरमुदितम्। नहि तत्रेवेह रोहिण्याः कृत्तिकाया द्वौ धर्मौ सम्पादयितुं शक्यौ।
॥ उक्तानुमाने प्रयोगविपरिणामेन समानाधिकरणत्वसम्भवमाशय तन्निरासः॥
नन्विहापि कालं पक्षीकृत्य प्रयोक्तव्यम्। विमतः कालो रोहिण्युदयासत्तिमान्, कृत्तिकोदयवत्कालत्वात्; अतीतकालवदिति। मैवम्। एवंसति देशं कालं वाऽऽदाय सामानाधिकरण्यस्य सर्वत्र सत्त्वाद् व्यधिकरणासिद्ध एव न स्यादिति व्यर्थं तत्परिसङ्ख्यानम्। एवमप्रयोगे व्यधिकरणत्वं सावकाशमिति चेत्, न। तथासत्यसिद्धेरुक्तिदोषत्वेन अर्थदोषत्वाभावप्रसङ्गात्। नचोक्तिदोषत्वमपि। व्यधिकरणतयोक्तेरपि साध्यसिद्ध्यङ्गत्वानुभवात्। एवमेव हि लौकिकानामुक्तयः। परीक्षका अपि हि “तत्प्रामाण्यमाप्तप्रामाण्यात्” इत्यादि प्रयुञ्जते। तदिदमुक्तम् इति व्यधिकरणतया उक्तेऽप्येतद्वाक्यं साधनं साध्यसिद्ध्यङ्गं नो किम्? भवत्येवेति।
किञ्च कालादिकमादाय प्रयोगविपरिणामः कार्य इत्यत्र किं नैयायिकादिसमयो नियामकः, किंवा प्रमाणमस्ति? आद्यं दूषयति नहीति। अत्र उपपत्तिसिद्धेऽर्थे। आज्ञैव समयमात्रम्। तथासति सर्वं वाङ्मात्रेणैवोपदेष्टव्यम्। न पुनः क्वापि प्रमाणं वाच्यम्। विपरीताज्ञया सत्प्रतिपक्षता च स्यादिति हिशब्दार्थः। आज्ञा खलु प्रमाणान्तराविषये धर्मादौ भवति। सा चावगताप्तभावानाम्। नापि द्वितीयः, तदनुपलम्भात्।
॥ व्यधिकरणसाध्यसाधनयोः व्याप्यव्यापकभावानुपपत्तिपरिहारः॥
स्यादेतत्। व्याप्तिस्तावदनुमानाङ्गम्। सम्बन्धविशेषश्च व्याप्तिः। नच व्याश्रययोः सम्बन्धो युज्यते। अतो व्याश्रयत्वस्य दोषत्वात् सम्मतविषये विपरिणाम इति। मैवम्। अविनाभावमात्रस्य व्याप्तित्वात्। अविनाभावश्च क्वचिदेकाश्रयतामन्तर्भाव्य भवति। यथा कृतकत्वस्यानित्यत्वेन। अत एवान्यगतेन तेन नान्यत्रानित्यतासिद्धिः। क्वचिद् विभिन्नाश्रययोरेव। यथा धूमस्याग्न्निा। धूमाग्नी खलु न समवायवृत्त्या समानाश्रयौ। नापि संयोगवृत्त्या। ऊर्ध्वाधोदेशसंयोगित्वात्। धूमस्याधोदेशसंयोगस्य असिद्धत्वात्। तथाऽप्येकपर्वतसंयोगिता द्वयोरस्तीति चेत्, न। तथासत्यग्न्यर्थिनो नियमेन प्रदेशविशेषे प्रवृत्त्यनुपपत्तेः।
धूम एव धूमत्वेन मूलेऽग्निमान् साध्यत इति चेत्। किमेषा लौकिकी प्रतीतिः, आहोस्वित् समयसिद्धये विपरिणामः क्रियते? न प्रथमः। लौकिका ह्यूर्ध्वदेशं धूमवन्तमवलोक्याधोदेशं वह्निमन्तमवगच्छन्ति। न द्वितीयः, निर्मूलत्वात्। अपिच देहादीनां तावत् परेण क्षणिकता आस्थीयते। तत्र पतनकर्मणा गुरुत्वानुमानं दुर्घटं स्यात्। नहि तयोः कालतः सामानाधिकरण्यम्। कार्यकारणभावात्। नापि देशतः। विभिन्नद्रव्याश्रयत्वात्। अतः कस्यचिद् विभिन्नाश्रयेणैव अविनाभावः।
॥ पक्षधर्मतानियमाभावादेव व्यधिकरणस्य तदभावोऽपि न दोषाय॥
ननु व्यधिकरणस्य पक्षधर्मता नास्तीति चेत्, मा भूत्। तन्नियमस्य निर्निबन्धनत्वात्। तथासति साध्यस्य नियतदेशता कथं सिद्ध्येदिति चेत्, व्याप्तिस्वभावादिति ब्रूमः। तथाहि यत् कृतकं तदनित्यमिति सामानाधिकरण्यमन्तर्भाव्य व्याप्तेः कृतकत्वं स्वाश्रय एवानित्यत्वं गमयति। तथा कृत्तिकोदयो व्यधिकरणयैव रोहिण्युदयासत्त्या व्याप्त इति तां तथैव गमयति। यथाच सामानाधिकरण्येऽप्यस्ति प्रदेशादिनियमः, तथा वैयधिकरण्येऽपीति को दोषः? तस्माद् यत्रेदं तत्रेदमितिवत्, यदेदं तदेदमितिवत्, यदेवं तदेवमितिवच्च यदीदं तर्हीदमिति व्याप्तिसम्भवात्। व्याप्त्यनुरोधेनैव हेतुसिद्धेरावश्यकतया पक्षधर्मतानावश्यकत्वाद् युक्तं व्यधिकरणस्यापि हेतुत्वमिति।
॥ अप्रसिद्धविशेषणताया अदोषत्वे विश्वस्य सदसद्वैलक्षण्यसिद्धिमाशय
स्वव्याघातादेव तदनुमानस्य दुष्टत्वमित्युपपादनम्॥
तथा साध्यविशेषणस्याप्रसिद्धावपि। तथाहि साध्यविशेषणाप्रसिद्धेः कुतो दूषणत्वम्? किं विश्र्वं सदसद्विलक्षणं बाध्यत्वादित्यादेरपि प्रामाण्यप्रसङ्गात्, उत साध्यविशेषणाप्रसिद्धौ तत्सन्देहानुपपत्तौ पक्षत्वानुपपत्तेर्हेतोः पक्षधर्मत्वानुपपत्तिप्रसक्तेः, अथवा साध्यविशेषणाप्रसिद्धौ तेन साध्यस्य व्याप्तिप्रतीत्यनुपपत्तिप्रसङ्गात्, यद्वा प्रतिज्ञावाक्यस्याप्रतीतपदार्थकत्वेनाबोधकत्वापत्तेः? आद्यं दूषयति अन्यदिति।
अन्यत् सदसतोर्विश्वमिति च व्याहतेरमा।
सन्न भवतीत्युक्तेऽसत्त्वमुक्तं स्यात्। सत्त्वप्रतिक्षेपरूपत्वादसत्त्वस्य। पुनरसन्न भवतीत्युक्ते स्ववचनव्याहतिः। एवमसन्न भवतीत्युक्त्या “द्वौ नञौ प्रकृतमर्थं सातिशयं गमयतः” इति सत्त्वं लभ्यते। पुनः सन्न भवतीत्युक्ते स्वव्याहतिरेव। तदेवं विश्र्वं सदसतोः सकाशादन्यत् सदसच्च न भवतीत्येषा प्रतिज्ञा स्वव्याहतेरेव अमा अप्रमा साधनाङ्गं न भवति। नतु विशेषणस्य सदसद्वैलक्षण्यलक्षणस्य अप्रसिद्धत्वेन। कुतः? स्वव्याहतिर्हि मे माता वन्ध्येत्यादौ दूषणत्वेन सम्प्रतिपन्ना। स्ववचनस्वन्यायस्वक्रियास्वसिद्धान्तप्रमाणान्तराप्रतिहताया एवोक्तेः साधनदूषणाङ्गत्वात्। नहि स्वविषविमूर्छिता भुजङ्गी परं दशति। नच दोषान्तरासङ्कीणं साध्यविशेषणासिद्धेरुदाहरणं पश्यामो येन दोषत्वं प्रतीमः। कस्यचिदसाधारणधर्मेण शशविषाणादिमत्त्वसाधनमपि प्रमाणं किं न स्यादिति चेत्, न। तत्रापि दृश्यानुपलम्भबाधस्य विद्यमानत्वात्। अतीन्द्रियसंसर्गसाधने न कोऽपि दोष इति चेत्, न। ईश्वरादिसंसर्गेण सिद्धसाधनत्वात्। एवमन्यत्रापि सम्प्रतिपन्नाप्रामाण्ये दोषान्तरमन्वेषणीयम्। तदिदमुक्तं चशब्देन। अत एव व्याहतेरित्युपलक्षणम्।
॥ साध्याप्रसिद्धौ तत्सन्देहायोगात् पक्षत्वानुपपत्तिमाशय परिहारकथनम्॥
द्वितीयं पराचष्टे असिद्धेति।
असिद्धसाधने दोषः को व्याप्तिर्यदि विद्यते।
साध्याप्रसिद्ध्या यत्र पक्षधर्मत्वासिद्धिरुच्यते हेतौ, तत्र व्याप्त्यादीतराङ्गसाकल्यमस्ति नवा? नचेत् तत एवानुमानं दुष्टम्, किं साध्यविशेषणाप्रसिद्ध्या? यदि व्याप्त्यादिकं विद्यते तदाऽसिद्धसाधने को दोषः? न कोऽपि।
अयमभिसन्धिः हेतोर्हि पक्षधर्मत्वासिद्धिस्तदा स्यात्, यदि धर्मी वा, हेतोस्तद्धर्मत्वं वा न स्यात्। सन्देहाभावेन पक्षत्वानुपपत्त्या पक्षधर्मत्वाभावे तु स्वार्थानुमानविशेषविलोपः स्यात्। यदा हि यो धूमवानसावग्निमानिति गृहीतव्याप्तिको गिरिशिखरे धूमं सहसैव पश्यन् व्याप्तिं स्मरति, तदोत्पद्यत एवास्यानुमितिः। नच तस्याग्न्सिन्देहोऽस्ति। यदाचाऽप्तवचनाद् विनिश्चितपर्वताग्न्सिम्बन्धः पर्वतं प्रत्यासीदन् धूममवलोकयति, तदाऽपि तस्य विना सन्देहेनाग्न्यनुमितिर्भवत्येव। नहि सामग्री बुद्धिमती। येन यन्मया कर्तव्यं तदन्येन कृतमिति पर्यालोच्योदासीत। नापि छिन्ने छिदाया इव परिच्छिन्ने परिच्छेदान्तरोत्पादोऽयुक्तः। नापि परार्थानुमाने सन्देहनियमः। विपर्यस्तस्यापि प्रतिवादित्वोपपत्तेः। अत एव सिद्धसाधकोऽसङ्गत एव नाऽश्रयासिद्ध इत्युक्तम्। (५१६)
किञ्च विदिततत्वोऽपि यदा परपरीक्षार्थं तत्र प्रमाणं पृच्छति, तदा प्रयुक्तमनुमानममानं स्यात्। सन्देहाभावात्। तस्मात् “सन्दिग्धसाध्यः पक्षः” इत्याद्याः प्राचां वाचः सम्भावनाभिप्रायाः। परमार्थतस्त्वनुमितिविषय एव पक्षः। अतः सन्देहाभावे पक्षत्वानुपपत्त्यभावान्नाप्रसिद्धसाधने पक्षधर्मत्वासिद्धिरूपो दोष इति।
॥ केवलव्यतिरेकिणो व्याप्त्यवगमात्, परैरभ्युपगतत्वाच्च न साध्याप्रसिद्धौ व्याप्त्यनुपपत्तिप्रसङ्गः॥
तृतीयं निराकरोति व्याप्तिश्चेति।
व्याप्तिश्च व्यतिरेकेण तत्र तैश्चावगम्यते॥२३॥
तत्र जीवच्छरीरजातं सात्मकम्, प्राणादिमत्त्वात्; भूरितरेभ्यो भिद्यते, गन्धवत्त्वात्; ईश्वरः सर्वज्ञः, सर्वकर्तृत्वादित्यादौ केवलव्यतिरेकिणि साधनसमूहे तैः अप्रसिद्धैरपि सात्मकत्वादिभिः साध्यैर्व्याप्तिश्चास्ति। न केवलं पक्षधर्मता। व्यतिरेकेण साध्याभावस्य साधनाभावव्याप्तत्वेन लिङ्गेनावगम्यते च सा।
इदमुक्तं भवति साध्यविशेषणाप्रसिद्ध्या व्याप्तिप्रतीत्यभावं प्रसञ्जयतो व्याप्त्यभावः। तथाहि केवलव्यतिरेक्यनुमानं प्रमाणं नवा? नेति पक्षे वक्ष्यामः। (९४८) आद्ये तस्य व्याप्तिसद्भावो व्याप्त्यवगमश्च अवश्यमङ्गीकार्यः। अन्यथाऽनुमानत्वव्याघातात्। नच केवलव्यतिरेकिणि साध्यं प्रसिद्धम्। पक्षे प्रसिद्धौ सिद्धसाधनत्वात्। अन्यत्र प्रसिद्धौ तत्र हेतोर्वृत्तौ केवलव्यतिरेकित्वानुपपत्तेः। अवृत्तावसाधारण्यप्रसङ्गात्। अतः शिथिलमूलः प्रसङ्गः। व्यतिरेकिणः क्व व्याप्तिः केन चावगम्यत इति चेत्। पक्ष एव व्यतिरेकेणाऽवगम्यत इति ब्रूमः। पक्षादिप्रविभागात् प्रागवगता तत्रैव विप्रतिपत्त्योपदर्शयितुमशक्या व्यतिरेकेणोपपाद्यत इति। तैरिति बहुवचनेनातिप्रसिद्धतां प्रसङ्गव्याप्तिभङ्गस्य सूचयति।
न केवलं केवलव्यतिरेकिसाधनस्य साध्येन व्याप्तिर्व्यतिरेकेण तदवगमश्चास्माभिरेवाङ्गीक्रियते। किन्त्वप्रसिद्धविशेषणत्वदूषणत्ववादिभिरपि कैश्चिदित्याह तैश्चेति। अवगम्यते अभ्युपगम्यते। यथाऽऽहुः “यदि साध्येनास्य क्वचिदप्यन्वयो नास्ति, तदा विरुद्ध एवायम्” इत्याशय “नोपेयत्वमन्वयस्य व्यासेधामोऽपि तूपायत्वम्” इत्यादि।
तथा, यथाच व्यतिरेकबलादन्वयसिद्धिस्तथा वैशेषिकैरप्युपपादनीयम्। अन्यथा साध्यसाधनयोरव्याप्तौ व्यतिरेकिणो गमकत्वभङ्गादित्यादि। तथाचाप्रसिद्धविशेषणस्यापि केवलव्यतिरेकिणो व्याप्त्युपपादनमप्रसिद्धविशेषणत्वे व्याप्त्यप्रतीतिप्रसञ्जनं च कथं न व्याहतमिति भावः।
॥ केवलव्यतिरेकिणः अन्वयत एव व्याप्त्यवगमात् न तद्दृष्टान्तेन
साध्यासिद्धेरदोषत्वं साधनीयमिति परेणोपपादनम्॥
यदुक्तं केवलव्यतिरेकिणो व्याप्त्यवगमात् परैरभ्युपगमाच्च नाप्रसिद्धविशेषणत्वेऽपि व्याप्त्यनवगतिरिति। तदयुक्तम्। यतः केवलव्यतिरेकिण्यन्यैव गतिः। ये हि सम्प्रतिपन्नप्रमाणभावाः केवलव्यतिरेकिणस्तेषु सामान्यतोऽन्वयव्याप्तिरेवाभिघातव्या। तथाहि प्राणादिमत्त्वेन जीवच्छरीरस्य सात्मकत्वे साध्ये यद्यत् कार्यवत् तत्तत् कारणवत्, यथाऽङ्कुरवती भूमिर्बीजगर्भेति। तथा गन्धवत्त्वेन भुवोऽन्यभेदसाधने यद्यदसाधारणधर्मवत् तत्ततो भिद्यते, यथा अबादीति। एवमीश्वरस्य सर्वकर्तृत्वेन सार्वज्ञ्यसाधने यो यस्य कर्ता स तस्य कारणं प्रयोजनं च जानाति, यथा कुलाल इति। एवं शब्दः पृथिव्याद्यष्टद्रव्यातिरिक्तद्रव्याश्रितः पृथिव्यादिवृत्तौ बाधकोपपन्नत्वे सति गुणत्वादित्यादौ यो यद्वृत्तौ बाधकोपपन्नत्वे सति गुणः स ततोऽन्यद्रव्यवृत्तिः, यथा गन्ध इत्यादिरूपेण सामान्यतो व्याप्तिरभिधातव्या।
॥ केवलव्यतिरेकिषु सामान्यतः साध्यप्रसिद्ध्युपपादनम्॥
यद्वा सामान्यतो विशेषणप्रसिद्धिं विधाय केवलव्यतिरेकी प्रयोक्तव्यः। यथा ज्ञानतारतम्यं क्वचिद् विश्रान्तं तारतम्यत्वादित्यनेन सामान्यतः सार्वज्ञ्यसिद्धौ तस्येश्वरसम्बन्धः केवलव्यतिरेकिणा साध्यते। तथेच्छादयः क्वचिदाश्रिताः, गुणत्वात्; रूपवत्। यश्चेच्छादीनामाश्रयः स एवाऽत्मेति सामान्येनाऽत्मसिद्धौ तत्सम्बन्धो जीवच्छरीरस्य केवलव्यतिरेकिणा साध्यते। एवमन्यत्रापि यथासम्भवमूह्यम्।
॥ क्वचित् पक्षैकदेश एव साध्यस्य प्रसिद्धत्वम्॥
क्वचित् पक्षैकदेश एव विशेषणप्रसिद्धिमाश्रित्य केवलव्यतिरेकी प्रवर्तते। यथा पृथिवी इतरेभ्यो भिद्यते, पृथिवीत्वात्; न यदेवं न तदेवम्, यथा जलादीत्यत्र घटादावेव विशेषणप्रसिद्धेर्नाप्रसिद्धविशेषणता। नचैवं सपक्षसम्भवेन केवलव्यतिरेकित्वभङ्गः। घटादेः पक्षैकदेशत्वात्। नचांशे सिद्धसाधनता। एकैकत्र प्रसिद्धावप्यापरमाणोः आ च भूगोलकादसिद्धेरिति।
॥ अभावस्य वा केवलव्यतिरेकिसाध्यत्वम्॥
अभावो वा केवलव्यतिरेकिणा साध्यः। भावे हि प्रतिपाद्ये व्यतिरेकव्याप्तौ तदभावस्य प्रतियोगिप्रतीतिसापेक्षतया विशेषणप्रसिद्ध्यपेक्षा। अभावे तु साध्ये नायं दोषः। अभावाभावस्य भावत्वेन प्रतियोगिनिरपेक्षत्वात्। एवमन्येऽप्युक्तिविशेषप्रकारा द्रष्टव्याः।
एतेष्वन्यतमस्याप्यभावेऽप्रसिद्धविशेषणता दूषणमेव। अतो न केवलव्यतिरेकिप्रामाण्यमवलम्ब्य अप्रसिद्धविशेषणतादूषणत्वं निरसनीयमित्यत आह अप्रसिद्धस्येति।
॥ केवलव्यतिरेकिणि हेतोः अप्रसिद्धस्यैव साध्यस्य साधकत्वस्यावश्याभ्युपगमनीयत्वम्,
अन्यथाप्रयोगकल्पने प्रमाणाभावश्च॥
अप्रसिद्धस्य साध्यस्य साधकत्वं यदेष्यते।
लिङ्गस्योक्तौ विशेषोऽयं केन मानेन गम्यते॥२४॥
साध्यस्येति कर्मणि षष्ठी, लिङ्गस्येति कर्तरि। अयमिति बुद्धिस्थपरामर्शः। भवेदेतद् यद्ययं केवलव्यतिरेकिण्युक्तिविशेषः कार्य इत्यत्र नियामकं स्यात्। नचैतदस्ति। तथाहि किमनेनोक्तिविशेषेण केवलव्यतिरेकिसाध्यमन्वयितां नीयते, उत नेति वक्तव्यम्। नाऽद्यः, उक्तेरर्थतथात्वपरिवर्तकत्वासम्भवात्। नहि सहस्रेणाप्युक्तीनां नरो वानरीकर्तुं शक्यते। शक्यत्वे वा केवलव्यतिरेकिप्रामाण्यं त्यक्तं स्यात्। द्वितीयस्येदमुत्तरम् यदा लिङ्गस्याप्रसिद्धस्य साध्यस्य साधकत्वमिष्यते। यद्युक्तिविशेषेणापि लिङ्गं केवलव्यतिरेकिसाध्यसाधकमेव नान्वयितामापद्यत इतीष्यत इति यावत्। तदाऽयमुक्तौ विशेषः केन मानेन कर्तव्यतया ज्ञायते न केनापि। अतोऽप्रसिद्धविशेषण एव केवलव्यतिरेकी साधकश्चेति नाप्रसिद्धविशेषणत्वस्य दोषत्वमिति।
अस्त्येवोक्तिविशेषस्य कर्तव्यतायां नियामकम्। तथाहि यद्यप्युक्तिविशेषो न व्यतिरेकिणमन्वयिनं करोति। तथाऽपि लिङ्गस्य साध्येन व्याप्तिस्तावदवश्यम्भाविनी। नच सा केवलव्यतिरेकिणि साक्षादुपदर्शयितुं शक्या। अन्वयग्रहणस्थलस्य विप्रतिपत्त्या प्रतिरुद्धत्वात्। अतः साध्यव्यतिरेकस्य साधनव्यतिरेकेण विपक्षे व्याप्तिं प्रदर्श्योपपादनीया।
यदिवा व्यतिरेकव्याप्तिरेव साध्यसिद्धेरङ्गम्। तथाऽपि तद्ग्रहोऽवश्यम्भावी। व्यतिरेकश्च प्रतियोगिप्रतीत्यधीनप्रतीतिक एव। प्रतियोगिनौ च लिङ्गसाध्यधर्मौ। तत्र लिङ्गं पक्षे प्रतीतमेव। साध्यधर्मश्च न पक्षे प्रतीतो नाप्यन्यत्र। तत् कथं व्यतिरेकयोरपि व्याप्तिर्गृह्यताम्? एतैस्तूक्तिविशेषैः कथञ्चित् प्रतियोगिनः साध्यधर्मस्य बुद्धिस्थतायां सुकरो व्याप्तिग्रहः स्यात्।
॥ व्यतिरेकिसाध्यसाधनप्रक्रिया अनुभवानुसारेणैव कल्पनीया॥
प्रतिज्ञावाक्यं चैवमविदितपदार्थकं न प्रसज्यत इत्यत आह साधनमिति।
साधनं परमाण्वादेर्यद्यसिद्धस्य चेष्यते।
यथानुभवमेवैतन्नाङ्गीकार्यं कुतस्तदा॥२५॥
परमाणुकारणकतां कार्याणामभ्युपगच्छता वैशेषिकादिना परमाणुसद्भावः साध्यते। तथा प्रधानोपादानतां वदता साङ्ख्येन प्रधानसद्भावः। एवमन्यदपि समवायादिकं तदङ्गीकारिभिः समर्थ्यते। तत्र पृच्छामः। यः परमाण्वादिकमभ्युपैति तं प्रति तत्सद्भावः साध्यते, उत न सन्ति परमाणव इति तदभावमभ्युपगच्छन्तं प्रति? नाऽद्यः, सिद्धस्य साधनायोगात्। द्वितीये त्वबुद्ध्यारूढस्य परमाण्वादेः साधनाय कथं वादिनः प्रयत्नः, कथं च तदभावं परो मन्येत? प्रतियोगिनोऽविदितत्वात्।
अथ मन्यसे कणादाद्युपदेशेन, सामान्यतो दृष्टस्वार्थानुमानेन वा स्वयमवगतं परमाण्वादिकं वादिना शक्यत एव साधयितुम्। वादिवाक्येन च प्रतियोगिनः परमाण्वादेरवगमे तदभावाभिमतिः प्रतिवादिनो युक्तैव। नहि प्रमाणेनैव प्रतियोगी ज्ञातव्य इति नियमोऽस्ति, शशविषाणाद्यभावप्रतीत्यनुपपत्तिप्रसङ्गादिति।
यद्येवमत्यन्ताप्रसिद्धस्यापि परमाण्वादेरनुभवमार्गमनतिक्रम्य साधनमिष्यते, तदैतद् व्यतिरेकिसाध्यसाधनमप्यनुभवानुसारेणैव कुतो नाङ्गीकार्यम्? तथाहि प्रत्यक्षेणोपदेशेन वाऽसाधारणधर्मावेकत्रोपलब्धवतस्ततोऽन्यत्र सर्वत्रापि तदभावोपलम्भसम्भवे व्यतिरेकव्याप्तिग्रहस्तावद् वादिनः सुकर एव। प्रतिवादिनोऽपि वादिवाक्यावगतप्रतियोगिनस्तदभावावगमसम्भवात्। व्यतिरेकव्याप्तिग्रहः सम्भवत्येव। तथाच प्रागुक्तरीत्या (९४४) अन्वयसमर्थनेन अप्रसिद्धसाध्यसाधने सम्भवति किमेताभिः क्लिष्टकल्पनाभिः? एवञ्च न प्रतिज्ञावाक्यस्याविदितपदार्थकत्वप्रसङ्गः। वादिना तदर्थस्य व्युत्पादितत्वादिति।
॥ ऋजुमार्गेण साध्ये सिद्ध्यति वक्रमार्गानुसरणमयुक्तम्॥
उपसंहरति यत्रेति।
यत्र नातिप्रसङ्गोऽस्ति मानं नच विपर्यये।
क्लिष्टकल्पनयैवात्र साध्यमित्यतिदुर्वचः॥२६॥
यत्र विषये केवलव्यतिरेकिणि। एवं सामान्यान्वयाभिधानादिना साधनं कार्यमिति नियामकं मानं नास्ति। व्याप्तिप्रतीत्यादेरन्यथासिद्धत्वात्। ऋजुनाऽनुभवानुसारिणा मार्गेण सिद्ध्यतोऽर्थस्य वक्रेणानानुभाविकेन साधनायोगात्। विपर्यये तथासाधनाकरणे, अतिप्रसङ्गश्च नास्ति। स्वव्याहत्यादिनैवापरस्याऽभासत्वात्। अत्र क्लिष्टकल्पनयैव साध्यसाधनं कार्यमित्यतिदुष्टं वाक्यमिति। अनेन विशिष्टव्यतिरेकमाश्रित्य या महाविद्यादिवक्ररीतिः साऽप्यपास्ता वेदितव्या।
॥ पञ्चरूपोपपन्नत्वाभावात् केवलव्यतिरेकिणः अननुमानत्वे परिशेषादेरपि तत्प्रसङ्गेन केवलव्यतिरेकिणोऽनुमानत्वमङ्गीकार्यमिति पररीत्या प्रसाध्य, अप्रसिद्धविशेषणताया दोषत्वे
केवलव्यतिरेकिप्रामाण्यं न स्यादिति उक्तातिप्रसङ्गस्य समर्थनम्॥
भवेदेतद् यदि केवलव्यतिरेक्यनुमानं भवेत्। नचैवम्। पक्षधर्मत्वम्, सपक्षे सत्त्वम्, विपक्षाद् व्यावृत्तिः, अबाधितविषयत्वम्, असत्प्रतिपक्षत्वं चेति पञ्चरूपोपपन्नं खल्वनुमानं भवति। नच केवलव्यतिरेकिणस्तदस्ति। सपक्षाभावेन सपक्षे सत्त्वाभावात्। नचैवं केवलान्वयिनोऽपि विपक्षाभावेन विपक्षाद् व्यावृत्तेरभावादननुमानत्वप्रसङ्ग इति वाच्यम्। अन्वयव्यतिरेकवत एवानुमानत्वेन अनिष्टाभावादिति द्वितीयमाशयाऽह परिशेष इति।
परिशेषो मिथःसिद्धिश्चक्रकस्वाश्रयादयः।
असिद्धसाधकत्वेन पञ्चावयवतां विना।
अङ्गीकार्याः समस्तैस्तन्नियमः किन्निबन्धनः॥२७॥
प्रसक्तप्रतिषेधे परिशिष्यमाणे बुद्धिः परिशेषः। द्वयोः परस्परापेक्षयोत्पत्तिर्ज्ञप्तिर्वा मिथः सिद्धिः। बहूनां चक्रवदितरेतरापेक्षयोत्पत्त्यादिकं चक्रकम्। स्वापेक्षं स्वोत्पत्त्यादि स्वाश्रयः। आदिपदेन अनवस्था। सा चानवस्थितासिद्धोत्पादकादिपरम्परापेक्षा। असिद्धसाधकत्वेन हेतुना। पञ्चावयवतां पञ्चरूपोपपन्नताम्। अङ्गीकार्याः अनुमानत्वेन समस्तैर्वादिभिः। न खलु कोऽपि वादी परिशेषादीननादृत्य परीक्षायां प्रवृत्तोऽस्ति।
एतदुक्तं भवति परिशेषादीनि तावदनुमानानि, व्याप्यज्ञानाद् व्यापकज्ञानमिति तल्लक्षणाक्रान्तत्वात्। प्रमाणप्रपञ्चरुचिभिरप्यनुमानाद् बहिर्भावेन तत्प्रामाण्यस्यानभ्युपगतत्वाच्च। तानि चासिद्धस्यैव साध्यस्य साधकानि। शब्दस्य हि पृथिव्याद्यष्टसंसर्गे प्रतिषिद्धे परिशेषात् तदतिरिक्तद्रव्याश्रितत्वं सिद्ध्यति। नच प्रागाकाशसिद्धेः पृथिव्याद्यतिरिक्तं द्रव्यं सिद्धम्। येन तदाश्रितत्वं क्वचित् प्रसिद्धं स्यात्। यद् यस्य कार्यं प्रमितं परेणाङ्गीकृतं वा तस्य तत्कार्यतामङ्गीकुर्वाणं प्रति मिथः सिद्धिरुच्यते। नच सा क्वचित् प्रसिद्धा। द्वयोरपि परस्परापेक्षया पूर्वभावित्वं सेति पक्षेऽपि तथा। एतेन चक्रकं व्याख्यातम्। अस्यैव घटस्यैतत्कार्यत्वमभ्युपगच्छन्तं प्रति स्वाश्रयत्वमभिधीयते। तच्च स्वस्यैव स्वापेक्षया पूर्वभावित्वं पश्चाद्भावित्वं चाप्रसिद्धमेव। असिद्धस्यैव कारणतां ब्रुवाणं प्रत्यनवस्थोच्यते। नच क्वचित् कार्येऽनवस्थितासिद्धकारणपरम्परा सिद्धा। सामान्यतः प्रसिद्धिस्तु केवलव्यतिरेकिण्यपि समाना। असिद्धसाधकत्वेन चैषां पञ्चरूपोपन्नता नास्ति। तथाचानुमानानामप्येषां पञ्चरूपोपपन्नत्वाभावात्। व्यतिरेकि नानुमानम्, पञ्चरूपोपपन्नतावैधुर्यादित्यनैकान्तिकमिति।
॥ अनुमानस्य पञ्चरूपोपपन्नतानियमस्य निर्निबन्धनत्वम्॥
दूषणान्तरमप्याह तन्नियम इति। अनुमाने पञ्चरूपोपन्नतानियमस्य निर्निबर्न्धनत्वादतादृशस्याप्यनुमानत्वे बाधकाभावाच्चाप्रयोजकोऽयं हेत्वाभासः।
नन्वेषां रूपाणां व्याप्तिपक्षधर्मतौपयिकत्वादसिद्धादिहेत्वाभासपञ्चकस्य व्युदासार्थत्वाच्च कथं निर्निबन्धनता? कथञ्च विपक्षे बाधकाभावः? उक्तप्रयोजनासिद्धेरेव बाधकत्वात्। सपक्षे सत्त्वं विनाऽप्यनुमानत्वे भूर्नित्या गन्धवत्त्वादित्यादेरसाधारणस्याप्यनुमानत्वं स्यादिति चेत्, न। सपक्षहीनस्य विपक्षव्यावृत्तिमात्रेण व्याप्त्यादिसिद्धेः। असाधारणस्याऽभासत्वासम्मतेः। सम्मतौ वा सपक्षसद्भावासद्भावाभ्यां भेदसिद्धेरिति।
॥ वादे निग्रहस्थानानां कथावसानकारणत्वाभावः॥
एवमाश्रयासिद्ध्यादेरदूषणत्वमुपपाद्य यदुक्तं “परिहारेऽपि सिद्धत्वं दूषणम्” इति तदयुक्तम्। वादे निग्रहस्थानाभावस्योक्तत्वादित्याशङ्कां परिहरति सिद्धेति।
सिद्धसाधनतायां च न कथावसितिर्भवेत्।
यथा सिद्धप्रश्र्नादौ न वादकथावसितिर्भवेत्, किन्तु तत्वनिर्णयविरोधित्वादुद्भाव्य त्याजनीयमेव। एवं सिद्धसाधनतायां चेत्यर्थः।
॥ वादिप्रतिवादिनोरन्यतरमतरीत्याऽपि हेतोः व्याप्त्यसिद्धिः स्वरूपासिद्धिश्च दूषणमेव॥
“तदन्यस्य सिद्धतैव हि साधिका” इत्यनेन हेतोर्व्याप्त्यसिद्धिः स्वरूपासिद्धिश्च दूषणमिति सूचितम्। तत्र केचिदाचक्षते द्विविधं व्याप्त्यभावादिकम्। वादिप्रतिवादिनोरन्यतरमतेन, उभयमतेन चेति। अन्ये तु मन्यन्ते अन्यतराव्याप्त्यादिकं नाम नास्त्येव। वस्तुनि विकल्पासम्भवादिति। तत्र किं तत्वमित्याकाङ्क्षायामाह व्यभिचार इति।
व्यभिचारो हेत्वसिद्धिरेकपक्षेऽपि दूषणम्॥२८॥
अत्र व्यभिचार इत्यव्याप्तिमात्रोपलक्षणम्। न केवलमुभयपक्षे, किन्तु वादिप्रतिवादिनोरेकस्य पक्षेऽपि व्यभिचारो हेत्वसिद्धिश्च हेतोर्दूषणमेव। यद्यपि वस्तुतोऽन्यतरव्यभिचारादिकं न सम्भवति तथाऽपि प्राग् वस्तुतत्वावधारणादाभिमानिकं सम्भवत्येव। तथाच हेतुसामर्थ्यसन्देहेऽप्यहेतुत्वमावश्यकमेव। व्याप्त्यादिमत्तया निश्चितस्यैव हेतुत्वादिति।
॥ दृष्टान्तदोषयोः हेतुदोषत्वोक्तिनिरासः॥
“तदन्यस्य” इत्यनेन दृष्टान्तस्यापि साध्यादिमत्त्वेनासिद्धिर्दूषणमिति सूचितम्। केचिदाचक्षते दृष्टान्तदोषा नाम न सन्ति तेषां यथायोगं हेतुदोषेष्वेवान्तर्भूतत्वादिति। तान् प्रत्याह साध्येति।
साध्यसाधनवैकल्यं दृष्टान्तस्य............।
दूषणमिति वर्तते। साध्यवैकल्यादेर्हेत्वाभासान्तर्भावेऽपि दृष्टान्ताश्रयतया स्पष्टप्रतिभासत्वात्। प्रतिभासानुसारेणैवोद्भाव्यत्वादुद्भावनार्थत्वाच्च व्युत्पादनस्य दृष्टान्तदोषत्वं युक्तमिति भावः।
॥ दृष्टान्तदोषस्याष्टविधत्वनिरासः, साध्यसाधनवैकल्यभेदेन द्वैविध्यसमर्थनम्॥
दृष्टान्तदोषांश्च केचिदष्टावाचक्षते साध्यवैकल्यम्, साधनवैकल्यम्, उभयवैकल्यम्, आश्रयहीनत्वमिति चत्वारः साधर्म्यदृष्टान्तदोषाः। साध्याव्यावृत्तिः, साधनाव्यावृत्तिः, उभयाव्यावृत्तिः, आश्रयहीनत्वमिति चत्वारो वैधर्म्यदृष्टान्तदोषा इति । तन्नेत्याह साध्येति। सिद्धे सत्यारम्भो नियमार्थः। साध्यसाधनवैकल्यमेव दृष्टान्तस्य दूषणं नापरमित्यर्थः।
तथाहि उभयवैकल्यं तावत् पृथ न वाच्यम्। एकैकवैकल्येनैव दृष्टान्तस्य दुष्टत्वे समुदितकल्पनावैयर्थ्यात्। अन्यथैकैकवैकल्यस्य दूषणत्वाङ्गीकारभङ्गात्। सम्भवमात्रेण पृथग्वचनेऽनैकान्तिककालातीतत्वं नाम हेत्वाभासान्तरं वाच्यं स्यात्। आश्रयहीनत्वं चाऽश्रयासिद्धिसमानम्। वैधर्म्यदृष्टान्तो नाम नास्त्येवेति प्रागेव प्रपञ्चितमिति। (५०८ ५१७)
॥ वादिप्रतिवादिनोरन्यतरमतरीत्याऽपि दृष्टान्तदोषयोः दूषणत्वं भवत्येव॥
यद्वा दृष्टान्तस्य साध्यसाधनवैकल्यमपि व्यभिचारादिवदुभयान्यतररीत्या द्विविधं प्रतिपत्तव्यम्, न पुनरेकविधमेव। अभिमानतो द्वैविध्यस्यापि सम्भवादित्याह साध्येति। एकपक्षेऽपि दूषणमित्यनुवर्तते।
॥ व्यर्थविशेषणत्वव्यर्थविशेष्यत्वयोः, विशेषणविशेष्यासिद्ध्योश्च हेतुदोषत्वसमर्थनम्॥
हेतोर्व्यर्थविशेषणत्वं व्यर्थविशेष्यत्वं च न दूषणम्, व्याप्तिपक्षधर्मतयोरप्रतिहतेरिति केचित्। तान् प्रत्याह विशेषण इति।
..............................विशेषणे।
वैयर्थ्यमेकासिद्धौ च विशिष्टासिद्धिरेव हि॥२९॥
विशेषणे दत्ते सति यद् वैयर्थ्यं विशेष्यस्य विशेषणस्य वा तदपि हेतोर्दूषणमेव। व्याप्त्युपयोगितया हि हेतौ विशेषणमुपादीयते। वैयर्थ्ये तु विशिष्टस्य व्याप्यत्वाभावाद् युक्तं तस्य हेतुदोषत्वमिति।
यद्वा सिद्धप्रश्र्नादिकमिति वक्ष्यमाणत्वादाधिक्यान्तर्गतमेतत्। सर्वथा हेतुदोषत्वं सिद्धम्। व्यर्थविशेषणत्वादिकमप्युभयान्यतररीत्या द्विविधं प्रतिपत्तव्यम्। न पुनरेकविधमेवेत्याह विशेषण इति। एकपक्षेऽपि दूषणमिति वर्तते।
विशेषणासिद्धिर्विशेष्यासिद्धिश्च हेतुदोषो न भवति। नहि विशेषणमात्रं विशेष्यमात्रं वा हेतुः, येन तदसिद्धिर्हेतोर्दूषणं स्यादित्येके। तान् प्रत्याह एकासिद्धौ चेति। विशिष्टो हेतुर्न विशेषणादिमात्रम्। विशेषणविशेष्ययोरेकस्यासिद्धावपि विशिष्टस्यासिद्धिरेव सिद्धा। दण्डमात्राभावे पुरुषमात्राभावे वा दण्डिनोऽभावदर्शनात्। अतो विशेषणासिद्ध्यादावपि विशिष्टहेत्वसिद्धेरवर्जनीयत्वाद् युक्तं तस्य हेतुदोषत्वम्। तच्चोभयान्यतररीत्या द्विविधमिति पूर्ववत् सिद्धमेवेति।
एकाभावे चेत्याद्यनुक्त्वैकासिद्धौ चेति वचनमसिद्धिश्च द्विविधा स्वरूपतोऽज्ञानतश्चेति सूचनार्थम्। तदेवं व्यर्थविशेषणासिद्ध्यादेर्हेतुदोषत्वाद् युक्तं परपरिगणितासिद्धिभेदेष्वाश्रयासिद्ध्यादित्रयस्यैव अदोषत्वकथनमिति।
॥ प्रश्नदोषयोः वैफल्यासङ्गत्योः अशक्योद्भावनत्वेन अदोषत्वमित्याशङ्कापरिहारः,
सिद्धार्थतावैफल्ययोः आधिक्येऽन्तर्भावश्च॥
यदुक्तं प्रश्नदोषाश्चत्वार इति, तत्र वैफल्यस्यासङ्गतेश्च दोषत्वमयुक्तम्। अशक्योद्भावनत्वात्। तथाहि शब्दोऽनित्योऽस्मदादिबाह्येन्द्रियग्राह्यत्वादिति प्रयुक्ते परः पृच्छति सामान्यं नित्यमनित्यं वेति। तत्र वैफल्योद्भावने निरनुयोज्यानुयोगेन परो निगृह्णीयात्। सामान्यनित्यत्वमुभयसम्मतं कृत्वा तत्रानैकान्तिकत्वोद्भावनस्य प्रयोजनस्य परेणाभिसन्धातुमप्युचितत्वात्। तत्रैव प्रयोगे परः पृच्छति सामान्यमनुगतं नवेति। तत्रासङ्गत्युद्भावने निरनुयोज्यानुयोगः स्यात्। अनुगतत्वेन नित्यत्वं प्रसाध्य तत्रानैकान्तिकत्वं वक्ष्यामीत्येवमुपोद्घातलक्षणायाः सङ्गतेरपि परेणाभिप्रेतुमुचितत्वात्। नचाशक्योद्भावनं दूषणं नामेत्यत आह अप्रयोजनतेति।
अप्रयोजनता तत्र प्रथमप्रश्नदूषणम्।
सिद्धप्रश्र्नादिकं यत् तदाधिक्यान्तर्गतं भवेत्॥३०॥
तत्र प्रश्नदोषेष्वप्रयोजनता यद्यप्युत्तरोत्तरप्रश्र्नेष्ववधारयितुमशक्या। तथाऽपि प्रथमप्रश्र्ने सम्भाविता दूषणत्वेनोद्भावयितुं शक्यत एव। नहि कथोपक्रमे प्रधानप्रमेयप्रश्नमपहायैवंविधः प्रश्र्नः सम्भवतीति। अनेनैव न्यायेनासङ्गतिरपि सर्वथा सङ्गत्यनुपलम्भ एवोद्भाव्येति द्रष्टव्यम्।
नन्वेवंसति षडेव निग्रहस्थानानीति नियमो भज्येत। स्वव्याहत्यसङ्गत्योर्विरोधासङ्गत्यन्तर्भावेऽपि सिद्धार्थतावैफल्ययोरतिरिक्तत्वादित्यत आह सिद्धेति।
॥ अर्थापत्तेरनुमानान्तर्भावसमर्थनम्॥
दूषणान्तर्भावकथनप्रसङ्गेन प्रागुक्तप्रमाणत्रित्वनियमसिद्धये (४९०) परैः पृथक् प्रमाणत्वेनाङ्गीकृतानामर्थापत्त्यादीनामुक्तान्तर्भावमाह अर्थापत्तीति।
अर्थापत्त्युपमाभावा अनुमान्तर्गताः ......।
अनुपपद्यमानदर्शनादुपपादके बुद्धिरर्थापत्तिः। यथा जीवतो गृहाभावदर्शनाद् बहिर्भावबुद्धिः। तत्र जीवतो गृहाभावस्यानुपपद्यमानता नाम किं सर्वथाऽसम्भवः, किंवा बहिर्भावेन विनाऽनवस्थानम्। आद्ये दहनशैत्यमप्यनुमानाभासात् प्रतीतं किं कमप्यर्थं न बोधयेत्? तत्प्रतीतिः भ्रान्तिरिति चेत्। सर्वथाऽसम्भवतो गृहाभावस्यापि प्रतीतिः कथं न भ्रान्तिः? दहनशैत्यस्योपपादकं नास्तीति चेत्, न। सर्वथाऽप्यसम्भवतो गृहाभावस्यापि तदनुपपत्तेः।
द्वितीये व्याप्तिरेव सेति व्याप्यदर्शनाद् व्यापकबुद्धिरर्थापत्तिरनुमानमेव। प्रमाणद्वयविरोधोऽनुपपत्तिरिति चेत्, न। प्रकृतोदाहरणे तदभावात्। विरोधो हि तदा स्यात्, यदि जीवतीत्यस्य गृहेऽस्तीत्यर्थः स्यात्। यदिवा गृहे नास्तीत्यस्य न जीवतीत्यर्थः स्यात्। नच तदस्ति। स्वस्मिन्नेवान्यथाभावदर्शनात्। यो हि मातापितृभ्यां सुशिक्षितो न जातु गृहान्निर्गच्छति सोऽन्यानपि तथा मन्यमानो जीवनप्रमाणस्य गृहे सत्त्वमेवार्थं प्रतिपद्यत इति। एवन्तर्हि सन्दिहानोऽवतिष्ठेत नतु बहिर्भावं निश्चिनुयात्। अन्यथा प्रकरणसमेनापि किञ्चिदवधारयेत्।
एतेनैतदपि निरस्तम्। यदाहुः अनुमानत्वपक्षे किं बहिर्भावे जीवनमात्रं लिङ्गम्, उत गृहाभावमात्रम्, अथवा विशिष्टम्? न प्रथमद्वितीयौ, व्यभिचारात्। न तृतीयः, विरुद्धयोर्विशेषणविशेष्यभावानुपपत्तेः। अविरोधप्रतीतेश्च बहिर्भावकल्पनोत्तरकालीनत्वेनेतरेतराश्रयापत्तेरिति। जीवनगृहाभावयोर्विरोधस्यैवाभावात्। भावे वाऽर्थापत्तेरप्यनुपपत्तेः। अतोऽविनाभावबलेन अर्थप्रतीतिहेतुत्वादर्थापत्तिरनुमानमेव। एतेन केवलव्यतिरेकी परिशेषश्चार्थापत्तिरेव नानुमानमित्यपि निरस्तम्।
॥ उपमानस्य अनुमानान्तर्भावसमर्थनम्॥
गृह्यमाणे वस्तुनि स्मर्यमाणप्रतियोगिकसादृश्यदर्शनात् स्मर्यमाणे गृह्यमाणप्रतियोगिकसादृश्यप्रतीतिरुपमानम्। यथा गामनुभूय वनं गतो गवये गोसादृश्यमुपलभ्य गवि गवयसादृश्यं प्रत्येति। यद्यपि नैतत् स्मरणम्। प्रतियोगिनो गवयस्य प्रागननुभूतत्वेन गोगतसादृश्यस्याननुभूतत्वात्। नहि सामग्र्यभावे योग्येन्द्रियसन्निकर्षसद्भावमात्रेणानुभवः शक्योऽङ्गीकर्तुम्। प्रतियोगिज्ञानस्यान्वयव्यतिरेकाभ्यां सादृश्यप्रतीतौ हेतुत्वमवधृतमेव।
निर्विकल्पकप्रतीत्यभ्युपगमस्त्वप्रामाणिक एव। तथाऽपि यो यत्सदृशः स तत्सदृश इति व्याप्तिबलेन गमकत्वादनुमानमेव। व्यधिकरणत्वान्नेति चेत् तस्यादोषताया निरूपितत्वात्। एकाधिकरणतायाः शक्यसम्पादनत्वाच्च। तस्माद् वैसादृश्यदर्शनवत् सादृश्यदर्शनमपि न पृथक् प्रमाणम्।
अन्ये तु सञ्ज्ञासञ्ज्ञिसम्बन्धप्रमितिफलमनधिगतसङ्गतिसञ्ज्ञास्मरणसहायं तत्समभिव्याहृतातिदेशवाक्यार्थप्रत्यभिज्ञानमुपमानम्। अतिदेशवाक्यार्थश्च क्वचित् साधर्म्यम्, क्वचिद् वैधर्म्यम्, क्वचिद् धर्ममात्रमिति त्रिविधो भवति। यथाऽव्युत्पन्नगवयपदार्थो गोसदृशो गवय इत्यतिदेशवाक्यानुभूतमर्थं प्रत्यक्षेण गवये प्रत्यभिजानन् गवयपदं स्मरन् गवयपदस्य गवये सङ्गतिमवगच्छति। तदिदं साधर्म्योपमानम्। वैधर्म्योपमानं तु गवादिवद् द्विशफो न भवत्यश्व इति वाक्यार्थप्रत्यभिज्ञानादश्वेऽश्वपदसङ्गतिग्रहणम्। धर्ममात्रोपमानमपि दीर्घग्रीवत्वादिधर्मवान् पशुरुष्ट्र इति वाक्यार्थप्रत्यभिज्ञानादुष्ट्रपदव्युत्पत्तिरिति मन्यन्ते।
तत्र यद्यपि सञ्ज्ञासञ्ज्ञिसम्बन्धप्रतिपत्तिः प्राग् गवयादिदर्शनादतिदेशवाक्येन प्रयोगादिना लिङ्गेन वा भवितुं नार्हति। सम्बन्धिनोऽनवगमे सम्बन्धस्यावगन्तुमशक्यत्वात्। तथाऽपि गवयादिदर्शनोत्तरकालं साधर्म्यादिना लिङ्गेनैव भविष्यति। एतस्यां दशायामतिदेशवाक्यं व्याप्तिग्राहकत्वेनोपयुज्यते। यथाहि पृथिवीत्वाभिसम्बन्धात् पृथिवीति व्यवहर्तव्येति लक्षणवाक्यं श्रुतवतः पृथिवीत्वाभिसम्बन्धं क्वचिद् द्रव्ये पश्यतोऽनुमानेनैव सञ्ज्ञासञ्ज्ञिसम्बन्धप्रतिपत्तिरभ्युपगता। तथा प्रकृतेऽपीति कथमिदं पृथक् प्रमाणं स्यादिति।
॥ अभावस्य प्रत्यक्षेऽनुमाने च यथायोगमन्तर्भावः॥
घटादिप्रत्यक्षयोग्यार्थप्रतियोगिकाभावप्रतीतिसाधनं प्रमाणमभावः। तच्चानुपलब्धिलक्षणं लिङ्गमेवेत्यभावोऽपि नानुमानाद् भिद्यते। अतो युक्तं त्रीण्येव प्रमाणानीति। तत् किमभावो नियमेन अनुमानान्तर्गत इत्यत आह क्वचिदिति।
..............................क्वचित्।
प्रत्यक्षान्तर्गतोऽभावः सुखादेर्नियमेन च॥३१॥
कदाचिद् घटाद्यभावग्राहकं प्रत्यक्षमपि भवतीत्यर्थः। किन्तर्हि प्रत्यक्षयोग्यार्थानां सर्वेषामप्यभावः प्रमाणद्वयवेद्य इत्यत आह सुखादेरिति। चस्त्वर्थः। सुखादेरान्तरस्य साक्षिवेद्यस्याभावस्तु नियमेन साक्षिप्रत्यक्षेणैव ग्राह्य इत्यर्थः।
यद्वाऽभाव इति प्रमाणमेवोच्यते। तस्य सुखादेरिति परम्परया सम्बन्धः। नियमेन प्रत्यक्षान्तर्गत इति सम्बन्धः। अनेन बाह्यानां प्रत्यक्षयोग्यानां घटादीनामभावः प्रत्यक्षानुमानवेद्य इत्युक्तम्। तदयुक्तम्। एकस्यैव ज्ञानस्य स्वतन्त्रकारणद्वयजन्यत्वानुपपत्तेः। परस्परविरुद्धपरोक्षापरोक्षत्वलक्षणाकारद्वयप्राप्तेश्चेत्यत उक्तम् क्वचिदिति।
तथाऽप्यनुपपत्तिरेव, प्रत्यक्षग्राह्येऽर्थेऽनुमानानवकाशादित्यत आह अन्यत्रेति।
अन्यत्र झटिति प्राप्तः...................... ।
सुखादेरन्यत्र घटादौ प्रतियोगिनि सति, योऽभावोऽभावप्रमाणं झटिति प्राप्नोति, तत् प्रत्यक्षम्। यत्तु विलम्बेन जायते तदनुमानमिति।
एतदुक्तं भवति घटाद्यभावग्राहकं योग्यानुपलब्धिरूपं प्रमाणं पृथगेवेति मीमांसकाः। अनुपलब्धिलिङ्गकमनुमानमेव तदिति सौगताः। तदुभयमप्यनुपपन्नम्। प्रतियोगिस्मरणवतः पुरोवर्तिनि भूतले घटाद्यभावस्य प्रत्यक्षेणैव गम्यमानत्वात्। इन्द्रियान्वयव्यतिरेकानुविधायिनोऽभावप्रत्ययस्य अप्रत्यक्षफलत्वानुपपत्तेः। अपरोक्षाकारत्वस्यानुभवसिद्धत्वात्। बाधकाभावाच्चान्यत्र उपक्षयकल्पनानुपपत्तेः। अन्यथा रूपादिज्ञानेऽपि प्रमाणान्तरकल्पनाप्रसङ्गात्। लिङ्गदशनव्याप्तिस्मरणादिविलम्बेन विना झटिति जायमानस्यानुमानफलत्वानुपपत्तेः। लिङ्गस्य ज्ञातस्यैव करणत्वादनुपलब्धेरप्यभावत्वेनानुपलब्ध्यन्तरापेक्षायामनवस्थाप्रसङ्गाच्च।
ननुच प्रातश्चत्वरादौ प्रतियोगिस्मरणाभावेन गजाद्यभावमननुभूय देशान्तरं गतो गजस्मृतिमान् प्रातश्चत्वरे गजो नासीदिति प्रतिपद्यते। न तत्र प्रत्यक्षस्यावकाश इत्यनुपलब्धिलक्षणं पृथक् प्रमाणं तत्राङ्गीकार्यमिति। मैवम्। तत्राभावस्याप्रत्यक्षत्वेऽप्यनुपलब्धिलिङ्गकानुमानवेद्यताभ्युपगमात्। अनुपलब्धेश्च स्मरणाभावलिङ्गानुमेयत्वात्। अत एव तत्र क्षणं ध्यात्वा नासीच्चत्वरे गज इति प्रतिपद्यते। स्मरणाभावोऽप्यनुपलब्ध्यन्तरानुमेय इत्यनवस्थेत्यपि नास्ति। साक्षिग्राह्याणां बुद्धिसुखादीनामभावस्य नियमेन साक्षिप्रत्यक्षवेद्यत्वादिति।
॥ उपक्रमादिषस्यानुमानेऽन्तर्भावः॥
तथाऽप्युपक्रमोपसंहाराभ्यासापूर्वताफलार्थवादाः प्रमाणानि सन्तीति कथं तत्त्रित्वनियम इत्यत आह प्रारम्भाद्याश्चेति।
.....................प्रारम्भाद्याश्च युक्तयः।
आगमार्थावसित्यर्था नियतव्याप्तयोऽखिलाः॥३२॥
युक्तयः अनुमानानि। कुत इत्यत आह आगमेति। यतोऽखिलाः प्रारम्भाद्या नियतव्याप्तयो, यो यत्र प्रारभ्यते स तत्र प्रतिपाद्य इत्यादिरूपां व्याप्तिमपेक्षमाणा एवागमार्थावसित्यर्था भवन्त्यतो युक्तय एवेत्यर्थः। एतेनागमान्तर्भावोऽपि निरस्तः। उपक्रमाद्या आगमविषया एव नचार्थापत्त्युपमाभावा इति योगविभागः।
॥ वाक्यप्रकरणस्थानसमाख्यानामनुमानेऽन्तर्भावः॥
वाक्यादीनामपि प्रमाणानामनुमानान्तर्भावमाह वाक्यमिति।
वाक्यं प्रकरणं स्थानं समाख्या च तथाविधाः।
यतो वाक्यादयोऽपि तथाविधा व्याप्तिमपेक्ष्यैवाऽगमार्थावसित्यर्थाः, ततस्तथाविधा युक्तय एवेत्यर्थः। उपक्रमादीनामुत्तरोत्तरं प्राबल्यं वाक्यादीनां तु पूर्वपूर्वमिति ज्ञापनाय योगविभागः।
॥ उपक्रमादीनां वाक्यादीनां च अनुमानत्वेऽपि कुरुपाण्डवन्यायेन विशिष्योक्तिः॥
यद्युपक्रमादयो वाक्यादयश्चानुमानेऽन्तर्भवन्ति तर्हि कथं
“उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम्।
अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये”
इत्युपक्रमादीनामनुमानापरपर्यायोपपत्तेः पृथक्त्वेनोक्तिः। तथा “श्रुतिर्लिङ्गं समाख्या च वाक्यं प्रकरणं तथा” इति वाक्यादीनां लिङ्गादित्यत आह कुरुपाण्डववदिति।
कुरुपाण्डववत् तेषामुपपत्तेः पृथग् वचः॥३३॥
यथा पाण्डवानां कुरुविशेषत्वेऽपि सामान्यविशेषापेक्षया “सन्तानबीजं कुरुपाण्डवानाम्” इत्यादौ कुरुभ्यः पृथग् वचनं तथा तेषामुपक्रमादीनां वाक्यादीनां चानुमानत्वेऽप्युपपत्तेर्लिङ्गाच्च पृथग् वचनं युक्तमित्यर्थः।
॥ शाकुनसम्भवतर्काणामनुमानेऽन्तर्भावः, ऐतिह्यस्य आगमेऽन्तर्भावः,
लिप्यक्षरस्य अङ्गचेष्टायाश्च मानसप्रत्यक्षेऽन्तर्भावः॥
ननु तथाऽपि शाकुनिलप्यक्षरचेष्टासम्भवैतिह्यपरिशेषाः पृथक् प्रमाणानि सन्तीति चेत्, न। शाकुनिलप्यक्षरचेष्टानामन्तर्भावस्य नविलक्षणाधिकरणे सूचितत्वात्। (४६९,४७१) सम्भवैतिह्ययोरनुमानागमान्तर्भावस्य सर्ववादिसम्प्रतिपन्नत्वात्। परिशेषस्य च “परिशेषो मिथःसिद्धिः” इत्यनेनैव अनुमानत्वस्य स्थितत्वात्।
ननु तथाऽपि जैनास्तर्कं पृथक् प्रमाणमाहुः। सत्यम्। “मिथःसिद्धिः” इत्यादिना सोऽप्यनुमानान्तर्गत इति सूचितमेव। (९४८)
॥ तर्कस्य प्रमाणानुग्राहकत्वमात्रम्, न प्रमाणत्वमिति नैयायिकैः प्रतिपादनम्॥
अत्राऽह तकः प्रमाणमेव न भवति। कुतोऽनुमानम्? तथाहि अनिष्टप्रसञ्जनं तकः। अनिष्टं च द्विविधम् प्रामाणिकपरित्यागः, अप्रामाणिकस्वीकारश्चेति। स पञ्चविधः। आत्माश्रयान्योन्याश्रयचक्रकानवस्थाप्रमाणबाधितार्थप्रसङ्गभेदात्। तत्र प्रसङ्गो नाम व्याप्याङ्गीकारेऽनिष्टव्यापकप्रसञ्जनम्। सोऽयं तकः प्रमाणानामनुग्राहकः। अनुग्रहश्च प्रमाणविषयसम्भावनादिरूपः।
॥ तर्कस्य प्रत्यक्षानुग्राहकत्वम्॥
तथाहि भूतले घटः किं न स्यादिति विपरीतशङ्कया कुण्ठितशक्तिकं प्रत्यक्षं न तावद् घटाभावं निश्चिनुयाद् यावद् यद्यत्र घटोऽभविष्यत् तदा भूतलमिवाद्रक्ष्यत् तत्तुल्यदर्शनसामग्रीकत्वादिति तर्केण विपरीतशङ्का नापनीयते। तर्को हि दुर्जन इव पराभिलषितं विच्छिद्य घटाभावं सम्भावयति। अथेदानीं प्रत्यक्षं सुजन इव स्वप्रमेयं निश्चिनोति।
॥ तर्कस्य अनुमानानुग्राहकत्वम्॥
एवं क्वचिद् व्यभिचारशङ्कयोपाधिशङ्कया वा धूमवानपि पर्वतोऽग्निमान् मा भूदिति पक्षे विपक्षशङ्कयाऽनुमाने कुण्ठिते यदि निरग्न्किः स्यात् पर्वतः, तदा निर्धूमोऽपि स्यादित्यादिरूपस्तकः प्रवर्तते। स ह्युपाधिकोटौ तदायत्तव्यभिचारकोटौ वाऽनिष्टमुपजनयन् विपरीतेच्छां विच्छिनत्ति। ततश्च निश्चिताविनाभावमनुमानं निष्कम्पमेवाग्न्मित्त्वं निश्चाययति।
॥ तर्कस्याऽगमानुग्राहकत्वम्॥
तथा “स्वर्गकामो यजेत” इत्यत्र लिङा प्रतीयमानाया भावनाया भाव्यापेक्षायां, किं भाव्यो धात्वर्थो भवतु, भवतु वा स्वर्ग इति सन्देहे समानपदोपात्तत्वाद् धात्वर्थ एव भाव्य इति शङ्कया कुण्ठितशक्तिः शब्दो जोषमेवास्ते। यदि धात्वर्थो भाव्यः स्यात्, तदा विधेरिष्टाभ्युपायत्वं शास्त्रस्य च तद्बोधकत्वं तत्प्रणेतुश्चाऽप्तत्वं प्रेक्षावतां प्रवृत्तिश्चेत्येतत् सर्वं न स्यादिति तर्केणापनीतायां शङ्कायां शब्दः स्वर्गमेव भाव्यतयाऽवधारयति। एवं नानाविधस्तकसाध्योऽनुग्रहः स्वयमेव बोद्धव्यः।
॥ निर्वह्नित्वाद्यापादकज्ञानस्य आहार्यत्वेन अप्रमात्वात्, प्रमित्यजनकत्वात्,
आरोपितवह्न्यभावधूमाभावविषयकत्वाच्च तर्कस्य अप्रमाणत्वम्॥
सोऽयं प्रमारूपं वा प्रमाणं स्यात्, लिङ्गदशनवदप्रमारूपं वेन्द्रियादिवत्। न तावदाद्यः। तस्याऽहार्यरूपत्वात्। न तत्करणमपि प्रमाणम्, प्रमाफलत्वाभावात्। न द्वितीयः, आरोपितविषयत्वात्। विपर्ययप्रमाण्योपगतौ तु तेनास्य नियामकः सम्बन्धो नास्ति। असम्बद्धस्य गमकत्वे चातिप्रसङ्गः।
॥ व्यधिकरणासिद्धिअन्यतरासिद्धिआश्रयासिद्धिप्रमाणबाधअपसिद्धान्तैः
दुष्टत्वात् तर्कस्य अननुमानत्वम्॥
अनुमानत्वे चास्याऽपादकं लिङ्गमापाद्यं साध्यमिति वक्तव्यम्। नच तद् युक्तम्। आपादकस्य आहार्यत्वेनान्यतरासिद्धत्वात्। आपाद्यस्य चानिष्टत्वेन बाधितत्वात्। नह्यसिद्धं लिङ्गं भवति। नापि बाधितं साध्यम्। सति चाऽश्रयेऽनुमानं भवति। नहि भूतले घटोऽस्ति यः साध्यसाधनयोराश्रयः स्यात्। व्यधिकरणता चाऽपाद्यापादकयोर्बहुलमुपलभ्यते। आपाद्यस्य साध्यत्वेऽपसिद्धान्तश्च स्यात्। धूमसद्भावस्य स्वयमभ्युपगतत्वात्। तस्माद् विपर्ययपरतन्त्रत्वादप्रमाणमेव प्रमाणानामनुग्राहकस्तक इति कुतोऽस्यानुमानेऽन्तर्भाव इत्यत आह स्वन्यायैरिति।
॥ स्वपक्षसाधनपरपक्षदूषणयोः उभयवादिसम्प्रतिपन्नन्यायसाध्यत्वात्
अनिष्टोपदर्शनरूपपरपक्षदूषणस्य तु परमात्रसम्प्रतिपन्नन्यायसाध्यत्वात्
दूषणानुमानस्य तर्कस्य अन्यतरासिद्ध्याश्रयासिद्धी न दोषाय॥
स्वन्यायैः साधनं कार्यं परन्यायैस्तु दूषणम्।
स्वन्यायैर्दूषणं च स्यात् साधितैः प्रतिवादिनः।
न्यायशब्देन धर्मिलिङ्गव्याप्तिदृष्टान्ता उच्यन्ते। न केवलं परस्य किन्तु स्वस्यापि ये सिद्धा न्यायास्ते स्वन्यायाः। साधनमिति दूषणस्याप्युपलक्षणम्। परस्यैव सिद्धा न्यायाः परन्यायाः। स्वस्यैव सिद्धा न्यायाः स्वन्यायाः। चशब्देन साधनं च प्रतिवादिनः प्रति।
एतदुक्तं भवति द्विविधं हि कार्यं कथकस्य, स्वपक्षसाधनं परपक्षदूषणं चेति। तत्र साधनं स्वपरसम्मतैरेव न्यायैः कार्यम्, नान्यतरमात्रसिद्धैः। यथा पर्वतोऽग्निमान्, धूमवत्त्वात्; योयो धूमवानसावग्निमान्, यथा महानस इति। क्वचित् पुनः साधनं स्वमात्रसिद्धैरेव न्यायैः क्रियते। तत्रच परेणान्यतरासिद्ध्यादावुदाहृते तं प्रति तत्साधनं क्रियते। यथा शब्दोऽनित्यः कार्यत्वात्। कार्यश्चासावव्यञ्जकप्रयत्नानन्तरोपलब्धेरित्यादि। सर्वथा साधनमुभयसिद्धन्यायसाध्यम्।
दूषणं तु द्विविधम् इदमित्थं न भवतीति वा, अनिष्टोपदर्शनेन वा। तत्राऽद्यमुभयसिद्धन्यायैरेव कार्यम्। यथा शब्दो न द्रव्यम्, श्रोत्रग्राह्यत्वात्; सामान्यवदिति। क्वचित् पुनः स्वमात्रसिद्धैर्न्यायैः साधनमिव दूषणमपि कृत्वा परं प्रति तत्साधनं क्रियते। यथा तत्रैव प्रयोगे कालेनानैकान्त्योद्भावने तस्यातीन्द्रियत्वसाधनमित्यादि। सर्वथाऽऽद्यं दूषणमुभयसिद्धन्यायसम्पाद्यमेव।
द्वितीयं तु परसिद्धैरेव न्यायैः कार्यम्। यथा यदि पर्वतो निरग्न्किः, तदा निर्धूमः स्यादिति। अत्र ह्यापादकस्य परसिद्धत्वमेव भाव्यं न स्वसिद्धत्वम्। तदतिरिक्ताङ्गानां तु स्वसिद्धिः सती असती वा न विवक्षिता परसिद्धिरेवोपयुज्यते। तदेव च तर्क इति व्यवह्रियते। तेन तत्राऽश्रयासिद्ध्यन्यतरासिद्धी भूषणे एव न दूषणे।
॥ व्यधिकरणत्वस्यादोषत्वम्, तर्के सामानाधिकरण्यस्य शक्यसम्पादनत्वं च॥
व्यधिकरणत्वं तु न क्वापि दूषणमित्युक्तम्। शक्यसम्पादनं च तर्केऽपि समानाधिकरणत्वम्। अवश्यं चैतदेवम्। अन्यथा केवलान्वयिधर्मस्य केवलव्यतिरेकिण्यभावात् तस्याननुमानत्वापत्तेः। सामान्यलक्षणसद्भावात्, विशेषलक्षणाभावेऽपि न दोष इति चेत्, समं प्रकृतेऽपि। व्याप्त्यपेक्षया गमकत्वस्य तर्केऽपि विद्यमानत्वात्। विद्यमान एवाऽश्रये विद्यमानस्यैवेत्यपि सामान्यलक्षणे निवेश्यमिति चेत्, तर्हि विपक्षाभावो वा सपक्षसद्भावोऽपि वा निवेश्यताम्। प्रयोजनाभावान्नेति चेत्, न। प्रकृतेऽपि समत्वात्। तर्कनिरासः प्रयोजनमिति चेत्, तत्रापि केवलव्यतिरेकिनिरासः प्रयोजनं भविष्यति। निर्निबन्धनोऽसाविति चेत्। समं प्रकृतेऽपि। साधनेऽप्यसिद्धस्यानुमानत्वं स्यादिति चेत्, तर्हि विपक्षवतः सपक्षेऽसतोऽपि केवलान्वयित्वं स्यात्। तद्विशेषलक्षण एव निक्षेप्यमिति चेत्, समानमत्रापि। अत एव “स्वन्यायैः साधनम्” इत्यादिना व्यवस्था दर्शितेति।
॥ निर्धूमत्वादेः प्रसञ्जनीयतयोक्तत्वात् अपसिद्धान्तप्रमाणबाधप्रसङ्गः॥
मा भूदाश्रयासिद्ध्यन्यतरासिद्ध्योरत्र दूषणत्वम्। तथाऽपि बाधापसिद्धान्तसद्भावान्न तर्कस्य अनुमानत्वमिति चेत्, न। तयोरप्यसिद्धिवत् साधनदूषणविशेषयोरेव दूषणत्वेन प्रसङ्गानुमाने तदभावादिति पूर्ववत् परिहारः सिद्ध एव। तथाऽपि, साधनेऽप्यवान्तरभेदकल्पनया तर्हि बाधादेरदूषणत्वं कल्प्यतामित्यतिप्रसङ्गनिरासाय परिहारान्तरमाह प्रसङ्गेति।
प्रसङ्गार्थतया प्रोक्ता न सिद्धान्तस्य दूषकाः॥३४॥
प्रसङ्गः आपादनं, तदर्थतया तद्विषयतया प्रसञ्जनीयतयेति यावत्। प्रोक्ताः निर्धूमत्वादयोऽर्थाः। न सिद्धान्तस्य दूषका इत्युपलक्षणम्। न बाधिता इत्यपि द्रष्टव्यम्।
एतदुक्तं भवति किमापाद्यतोपेतस्य निर्धूमत्वादेर्बाध्यत्वं तत्प्रोक्तौ चापसिद्धान्त उच्यते, उत केवलस्य? नाऽद्यः, यत आपादनं नामाङ्गीकर्तव्यताज्ञापनम्। न पुनः सद्भावप्रतिपादनम्। नच तत् प्रमाणादिविरुद्धम्। यदि विषं भक्षयिष्यसि तर्हि मरिष्यसीति यथा। द्वितीये तु स्यादेव बाधादि। नच तदत्रोच्यते। तथासति तर्हि स्यादिति न स्यादिति।
॥ निर्वह्नित्वस्याऽपादकत्वादपि नान्यतरासिद्धिर्दोषः॥
असिद्धिरप्येवमेव परिहर्तव्या। तथाहि किं यद्यलङ्कृतस्य निरग्न्कित्वादेरसिद्धत्वमुच्यते, किंवा केवलस्य? न प्रथमः, असिद्धेः। यदि निरग्न्किः स्यादित्यस्य हि यदि निरग्न्कित्वेनाङ्गीक्रियेतेत्यर्थः। नचायमसिद्धः। तथासति तर्कस्याप्यनुत्थानापत्तेः। अत एव भगवानाचार्यः “यदि विद्येत” इत्येतत् “विद्यत इत्यङ्गीकारो भवेद् यदि” इति व्याख्यातवान्। न द्वितीयः, तस्यात्रानुपादानात्। तथात्वे यदीति न स्यादिति। अस्मिन् परिहारे सति पूर्वोक्तव्यवस्थाश्रयणेऽपि न कश्चिदतिप्रसङ्गः।
॥ तर्कमूलन्यायस्य साधुत्वे सर्वसिद्धत्वप्रसङ्गेन परमात्रसिद्धत्वायोगात्, असाधुन्यायमूलतर्केण ज्ञायमानदुष्टेराभासत्वेन तर्कस्य दुष्टिप्रमाजनकत्वासम्भवात् अननुमानत्वमित्याशङ्का॥
स्यादेतत्। द्विविधमेवानुमानं साधनं दूषणं च। तत्र तर्को न साधनमिति तावद् भवतामपि सम्मतम्। नापि दूषणम्। दुष्टिप्रमाजनकं हि दूषणं नाम। नच तर्कस्य तत् सम्भवति। परसिद्धेन हि न्यायेन परस्य तत्र दुष्टिर्ज्ञापनीया। नचासौ साधुः। तथात्वे हि परसिद्ध इत्येव न स्यात्। असाधुना च ज्ञाप्यमाना दुष्टिराभासभूतैवेति कथं तर्कोऽनुमानमित्यतः छलजात्योर्दुष्टत्वमूलव्युत्पादनेनैवैतत् समानयोगक्षेममित्याशयवान् तत्स्वरूपं निरूपयति छलमिति।
॥ यथा परं प्रति छलजात्योर्दुष्टिप्रतिपादनवेलायां असाधोरेव परन्यायस्य दुष्टिप्रमाजनकत्वम्,
तथा असाधुन्यायमूलतर्कस्यापि दुष्टिप्रमाजनकत्वमस्त्येव॥
छलं जातिरिति द्वेधा व्याहत्यन्तरमिष्यते।
जातिः स्वव्याहतिर्ज्ञेया छलमर्थान्तरोत्तरम्॥३५॥
व्याहत्यन्तरं व्याहतिप्रभेदः। इष्यते प्रामाणिकैः। यद्वा व्याहतिर्विरोधः। अन्यदसङ्गतं चेति व्याहत्यन्तरम्। छलमसङ्गतं जातिर्विरोध इत्यर्थः।
तत्र जातेर्लक्षणमाह जातिरिति। ज्ञेयेत्यनेनोत्तरत्वविशेषणं न कार्यम्। साधनेऽपि स्वव्याहतेः सम्भवात्। वृथा प्रभेदकल्पनस्याप्रामाणिकत्वात्। स्वव्याहतिश्च स्ववचनविरोधस्वक्रियाविरोधस्वन्यायविरोधभेदेन त्रिविधेति। छललक्षणमाह छलमिति। परोक्तस्यार्थान्तरं परिकल्प्य तस्यार्थान्तरस्योत्तरमित्यर्थः।
अयं भावः अस्ति तावत् स्वव्याहतिलक्षणा जातिः, अर्थान्तरोत्तरलक्षणं छलं चेति द्विविधं निग्रहस्थानम्। नच तदङ्गीकारे षडेव निग्रहस्थानानीति नियमभङ्गः। जातेर्विरोधभेदत्वात् छलस्य असङ्गतिप्रभेदत्वाद् द्वयोरपि वा विरोध एवान्तर्भावयितुं शक्यत्वात्। तत्र जातिं वा छलं वा प्रयुञ्जानो दुष्टमेतदिति कथं प्रतिपादनीय इति वाच्यम्। जातौ तावद् युक्ताङ्गहीनत्वात्, अयुक्ताङ्गाधिकत्वात्, अविषयवृत्तित्वाद् दुष्टमेतदिति। छले च मदविवक्षितदूषणेनासङ्गतत्वादित्येवमिति चेत्। तत्र जातिवादी नेदमयुक्ताङ्गमिति वा, नेदमयुक्तमिति वा, नायमविषय इति वा प्रतिब्रूयादेव। छलवादी च किं त्वद्विवक्षया, त्वद्वचनेन प्रतीतोऽर्थो मया दूषणीय इति। तौ कथं दुष्टत्वं प्रतिबोधनीयौ?
अथ मन्यसे द्विविधं दुष्टत्वमूलं साधारणमसाधारणं चेति। तत्रासाधारणं युक्ताङ्गत्यागादिकम्। साधारणं तु स्वव्याहतिः। तत्रासाधारणदूषणोपन्यासेऽपि पुनः शङ्कमानः स्वव्याहत्या बोधनीयः। यदि व्याप्त्याद्यङ्गमनपेक्ष्यैव प्रसङ्गः, तदा जातिवाक्यार्थोऽपि तथा दूषयितुं शक्यत इत्यादि। यदिच वक्तुर्विवक्षामनपेक्ष्यैव शब्दप्रतीतत्वमात्रेण दूषणम्, तदा छलवाक्येऽपि तथा शक्यमिति।
एवन्तर्हि परसिद्धेनैव न्यायेन परश्छलजात्योर्दुष्टिं बोधनीयः। ततः परं तु न शयत एव। व्याघातावधित्वादाशङ्काया इत्युक्तं भवति। तथाच परन्यायस्तावदसाधुः। तेन बोध्यमाना दुष्टिराभासभूतैवेति छलादेर्वास्तवमदुष्टत्वं स्यात्। न स्यात्। नह्यत्र परन्यायः प्रमाणत्वेनोपन्यस्यते किन्त्वसाधुरयं त्वदीयो न्यायो यतः स्वात्मानमपि व्याहन्तीत्यभिप्राय इति चेत्, तुल्यमेतत् प्रकृतेऽपि। नह्यत्रापि निरग्न्कित्वं प्रमाणतयोपन्यस्यते, अपितु असाधुरयं त्वदीयो निरग्न्कित्वाङ्गीकारो यतः प्रमाणविरुद्धं निर्धूमत्वमप्यङ्गीकारयतीत्यभिप्राय इति। जात्यादौ स्वविरुद्धतापत्तिः, तर्के तु प्रमाणविरुद्धतापत्तिरिति वैलक्षण्यमात्रम्। अस्ति च स्वविरुद्धापत्तिरन्ततस्तर्केऽपि। यथोक्तम् “व्याघातावधिराशङ्का तकः शङ्कावधिर्मतः” इति। तदेवं तर्कस्य दूषणानुमानेऽन्तर्भावाद् युक्तमुक्तमिति।
॥ स्वाप्नस्य अनिर्वचनीयत्वोक्तिः श्रुत्यनुमानविरुद्धा॥
तदनेन प्रबन्धेनोक्तार्थस्य प्रकृतोपयोगं दर्शयन्नपव्याख्यानस्य दूषणान्तरमाह एवमिति।
एवं संशोधितन्यायसदागमविरोधतः।
नानिर्वाच्यमिह प्रोक्तं मायामात्रपदेन हि॥३६॥
संशोधितः आभासात् सम्यग् विवेचितः। न्यायोऽनुमानम्। निर्दोषत्वस्याऽगमपदेनैव लब्धत्वात् सच्छब्देन निरवकाशत्वमुच्यते। इह सूत्रे। प्रोक्तं सन्ध्यमिति शेषः। तत्र न्यायविरोधोऽनुपदमेव प्रदर्शयिष्यते। स्वप्नस्य सत्यतां प्रतिपादयन् सदागमस्तु भाष्यादावुदाहृतः प्रसिद्ध एवेति हिशब्देनाऽह। न केवलं प्रमाणाभावान्मायामात्रमितीयं न स्वप्नस्यानिर्वाच्यताप्रतिज्ञा, किन्नाम प्रमाणविरोधादपीत्यर्थः।
॥ स्वाप्नस्य सदसद्वैलक्षण्योक्तौ स्वव्याघातः॥
न केवलं प्रमाणव्याहतेयं प्रतिज्ञा, अपितर्हि स्वव्याहताऽपीत्याह विलक्षणमिति।
विलक्षणं सदसतोरिति हि व्याहतं स्वतः।
अनिर्वाच्यमिति न वाच्यताविरहः परस्याभिमतः, स्वक्रियाविरोधापत्तेः। किन्तु सदसद्वैलक्षण्यम्। सन्ध्यं सदसतोः सकाशाद् विलक्षणमिति प्रतिज्ञानं च स्वव्याहतम्। सन्न भवतीत्युक्तेऽसत्त्वमेव लब्धम्। पुनरसन्न भवतीत्यभिधाने कथं न स्वव्याहतिः? एवमसन्न भवतीत्यभिहिते सति सत्त्वमेवाभिहितम्। पुनः सन्न भवतीत्युक्तौ कथं न स्वव्यहतिरिति हिशब्दार्थः। तृतीयप्रकाराङ्गीकारिणां न स्वव्याहतिरिति चेत्, न। अस्यां प्रतिज्ञायां सिद्धायां तृतीयप्रकारसिद्धिः, तत्सिद्धौ च प्रतिज्ञासिद्धिरिति परस्पराश्रयदोषात्। सदादिप्रकारैः दुर्निरूपतामात्रं प्रतिज्ञायते, न पुनरसदादिप्रकारो विधीयते, अतो न स्वव्याहतिरिति चेत्, न। सदादिप्रकारप्रतिषेधोऽसदादिप्रकारविधिरित्येतयोरनर्थान्तरभावस्य उक्तत्वात्। (९४२) अन्यथैवं मम माता वन्ध्येत्यादावपि स्वव्याहतिः समाहिता स्यात्।
॥ सद्वैलक्षण्यमित्येतच्छोढा विकल्प्य तद्दूषणम्॥
किञ्च सदसद्विलक्षणमित्यत्र सच्छब्देन किमबाध्यमभिधीयते, उत ब्रह्मस्वरूपम्? वैलक्षण्यमपि तद्धर्मविपरीतधर्मत्वं वा, तत्प्रतियोगिकान्योन्याभावो वा, तत्त्वानधिकरणत्वं वा? सर्वेष्वपि दूषणान्याह प्रतियोगित्वमपीति।
प्रतियोगित्वमप्यस्य ब्रह्मणोऽङ्गीकृतं भवेत्॥३७॥
अस्य स्वाप्नप्रपञ्चस्य। स्वाप्नप्रपञ्चं प्रतीति यावत्। अपिपदं दोषान्तरसमुच्चयार्थम्। अस्य निराकारतयाऽङ्गीकृतस्यापि ब्रह्मण इति वा। सदसद्विलक्षणं सन्ध्यमिति प्रतिजानतेति वाक्यशेषः।
॥ स्वाप्नस्य अबाध्यधर्मविपरीतधर्मवत्त्वसाधने
ब्रह्मधर्मविपरीतधर्मवत्त्वसाधने वा ब्रह्मणो निर्धर्मकत्वहानिः॥
ततश्चायमर्थः सच्छब्देनाबाध्यमङ्गीकृत्य वैलक्षण्यमपि तद्धर्मविपरीतधर्मत्वमङ्गीक्रियते चेत्, तदाऽबाध्यस्यापि धर्मवत्त्वमङ्गीकृतं स्यात्। अबाध्यं च न ब्रह्मणोऽन्यदस्तीति ब्रह्मैव सधर्मकमुक्तं स्यात्। तथाचापसिद्धान्तः। एतेन सच्छब्दस्य ब्रह्म अर्थः, वैलक्षण्यं च तद्धर्मविपर्यय इति पक्षोऽप्यपास्तः।
॥ स्वाप्नस्य अबाध्यप्रतियोगिकभेदसाधने ब्रह्मप्रतियोगिकभेदसाधने वा
ब्रह्मणः प्रतियोगित्वरूपधर्मवत्त्वाभ्युपगमप्रसङ्गः॥
अथाबाध्यं सत्, वैलक्षण्यं च तत्प्रतियोगिकोऽन्योन्याभाव इति मतम्, तदा ब्रह्मातिरिक्तस्य अबाध्यस्याभावाद् ब्रह्मणः प्रपञ्चं प्रति प्रतियोगित्वलक्षणो धर्मः स्वीकृतो भवेत्। अनेन सच्छब्दो ब्रह्मार्थ इत्यपि प्रत्युक्तम्।
॥ स्वाप्नस्य अबाध्यत्वानधिकरणत्वस्य ब्रह्मत्वानधिकरणत्वस्य
वा साधने साध्याविशिष्टता॥
अथ सच्छब्दोऽबाध्यार्थो, वैलक्षण्यं च तत्वानधिकरणत्वम्, तर्हि बाध्यमिति प्रतिज्ञार्थः स्यात्। कार्त्स्न्येनानभिव्यक्तत्वं च तदेवेति साध्यहेत्वोर्भेदो न भवेत्। अबाध्यस्य धर्मित्वं चाभ्युपेतं स्यात्। अन्यथा त्वप्रत्ययवैयर्थ्यात्। एतेन ब्रह्मपक्षोऽप्यपोढः।
॥ मायामात्रपदस्य सदसद्वैलक्षण्यार्थत्वमेवापव्याख्यात्रभिमतम्॥
नच वाच्यं सकलमप्येतदयुक्तम्। यतोऽत्र मायामात्रत्वमेव प्रतिज्ञातम्, नतु सदसद्वैलक्षण्यमिति। मायामात्रपदस्य सदसद्वैलक्षण्यार्थतयैव परस्याभिमतत्वात्। तच्च “किं स्वप्ने पारमार्थिकी सृष्टिः, आहोस्वित् मायामयी” इति संशयोपपादनेन “सन्ध्ये तथारूपैव सृष्टिः” इति पूर्वपक्षोत्थापनेन “न परमार्थगन्धोऽप्यस्ति” इति सिद्धान्तोपक्रमेण चावगम्यते, नह्यसत्त्वं स्वीक्रियत इति।
॥ ब्रह्मधर्माणामपि मिथ्यात्वाङ्गीकारे स्वाप्नस्यानिर्वचनीयत्वाभावप्रसङ्गः॥
स्यादेतत्। ब्रह्मणः प्रतियोगित्वाद्यङ्गीकारेऽपि नापसिद्धान्तः। परमार्थतो हि ब्रह्म निर्धर्मकं ब्रूमः। प्रतियोगित्वादिकं चाङ्गीक्रियमाणं मिथ्यैव। नह्यारोपितेन नीलिम्ना नभसो नीरूपत्वं व्याहन्यत इत्याशयाऽह मिथ्या चेदिति।
मिथ्या चेत् प्रतियोगित्वं वैलक्षण्यं ततो नहि।
प्रतियोगित्वमित्युपलक्षणम्। यदि ब्रह्मणः प्रतियोगित्वादि मिथ्या स्यात्, तर्हि ततो ब्रह्मणः स्वाप्नप्रपञ्चस्य वैलक्षण्यमुक्तविधं न स्यात्। यस्य यदपेक्षया न प्रतियोगित्वं न ततस्तस्य वैलक्षण्यमपि। यथा तत एव घटात् तस्यैव घटस्येति व्याप्तिसूचनार्थो हिशब्दः। मिथ्याशब्दोऽनिर्वचनीयवचनो नासद्वचन इति तु प्रागनिर्वचनीयसिद्धेर्दुर्वचनम्।
॥ ब्रह्मस्वाप्नयोः परमार्थतो वैलक्षण्याभावे ब्रह्मणो मिथ्यात्वं स्यात्,
स्वाप्नस्य वा सत्यत्वं स्यात्॥
ननुच वैलक्षण्यं न स्यादितीदमिष्टापादनम्। मया तस्यापि मिथ्यात्वाङ्गीकारादित्यत आह अविलक्षणत्वमिति।
अविलक्षणत्वं सत्यं स्यान्मिथ्यात्वं ब्रह्मणस्ततः॥३८॥
अनिर्वाच्यस्य सत्त्वं वा........................।
यदि स्वाप्नप्रपञ्चस्य ब्रह्मवैलक्षण्यं मृषा स्यात्, तदा तदविलक्षणत्वं सत्यं स्यात्। घटादौ तथा दर्शनात्। यद्यप्यत्र न परेण तथाऽस्त्विति वक्तुं शक्यम्। अपसिद्धान्तापत्तेः स्फुटत्वात्। तथाऽप्यधिकं विवक्षुराह मिथ्यात्वमिति। ततो ब्रह्मस्वप्नयोरवैलक्षण्यस्य सत्यत्वात्। अनिर्वाच्यस्य अनिर्वाच्यतयाऽङ्गीकृतस्य स्वप्नस्य। सत्त्वं भवेदित्यनुवर्तते। प्रसङ्गस्यानिष्टताप्रदर्शनाय स्वप्नस्येति वक्तव्य अनिर्वाच्यस्येत्युक्तम्। एवं ब्रह्मणः सत्यस्येत्यपि ग्राह्यम्। ब्रह्मस्वप्नयोरवैलक्षण्यस्य सत्यत्वेऽपि कुतो मिथ्यात्वादिप्रसङ्ग इत्यतो वेदमुदितम्। उपलब्धं हि घटस्य घटान्तरेण सालक्षण्यसद्भावे पार्थिवत्वादिसाम्यम्। अत्र सामान्येन विशेषापादनान्नापाद्यापादकयोरभेदः शङ्कनीयः। भावत्वे द्रव्याद्यन्यतमत्वापत्तिरिति यथा। ब्रह्मप्रतियोगिकं स्वप्नस्य सालक्षण्यं सत्यं चेद् ब्रह्मणोऽपि मिथ्यात्वं स्यादित्यसङ्गतम्, व्यधिकरणत्वादिति न वाच्यम्। यत्प्रतियोगिकं यत्र सालक्षण्यं स तद्धर्मेति व्याप्तेः सुग्रहत्वात्। यस्तु मन्दमतिस्तं प्रति समानाधिकरणमप्यनिष्टं सुवचनमिति प्रसङ्गान्तरमभिहितम्।
॥ ब्रह्मनैर्गुण्यवादनिरासः॥
स्यादेतत्। ब्रह्मणः प्रतियोगित्वाभावेऽनुयोगित्वं स्यात्। तथाच स्वप्नस्य ततो वैलक्षण्यं न स्यात्। तदभावे च सालक्षण्यापत्त्या ब्रह्मस्वप्नयोर्मिथ्यात्वादि प्रसज्येतेत्युक्तमयुक्तम्। सधर्मके हि वस्तुन्येकस्य धर्मस्याभावेन तद्विरुद्धस्य धर्मस्य भावः, भावेन चाभावो वक्तुं शक्यते। यथा परिमाणवत्त्वाद् द्रव्यस्य महत्त्वाभावेऽणुत्वस्य अणुत्वभावे वा महत्त्वाभावस्याऽपादनम्। यथावा वक्तुर्मन्दवचनाभावे तीव्र्वचनम्। तद्भावे वा तदभावः शक्यापादनः। ब्रह्म तु सकलधर्मविकलमिति कथं तत्राऽपादनं प्रतियोगित्वादेरिवानुयोगित्वादेरप्यभावात्। नहि परिमाणरहिते गुणादौ वक्तृत्वशून्ये काष्ठे चोक्तप्रसङ्गावकाशोऽस्ति। तथा स्वप्नेऽपि नोक्तप्रसङ्गावकाशः। स्वयमसत्यस्य वैलक्षण्यवदवैलक्षण्यस्याप्यभावात्। नहि भ्रान्तसर्पविसर्पणादयः सत्या भवेयुरित्याशय ब्रह्मणो निर्धर्मकत्वं दूषयति यदीत्यादिना ईशतज्ज्ञानेत्यतः प्राक्तनेन प्रकरणेन।
॥ जिज्ञासायाः धर्मनिर्णयरूपत्वाद् ब्रह्मणो निर्धर्मकत्वे तस्य जिज्ञास्यत्वाभावप्रसङ्गः॥
..................... यदि धर्मा न केचन।
ब्रह्मणो नैव जिज्ञास्यं जिज्ञासा धर्मनिर्णयः॥३९॥
यदि ब्रह्मणः केऽपि धर्मा न स्युः, तर्हि तज्जिज्ञास्यं नैव स्यात्। भवति च जिज्ञास्यम्। “अथातो ब्रह्मजिज्ञासा” इति वचनात्। अतो न तन्निर्धर्मकमिति। निर्धर्मकत्वेऽपि ब्रह्मणः कुतो न जिज्ञास्यतेत्यत आह जिज्ञासेति। विचारो हि जिज्ञासा नाम। स च धर्मस्य निर्णयो धर्मनिर्णयः। व्याप्यधर्मदर्शनमिति यावत्। शशविषाणवन्निर्धर्मके कथमसौ स्यात्। अङ्गीकारे च व्याघातः कथं न स्यात्?
॥ व्यापकधर्मिविशिष्टधर्मिज्ञानस्य जिज्ञासाप्रयोजनत्वाच्च ब्रह्मणो जिज्ञास्यत्वाभावप्रसङ्गः॥
इतोऽपि न निर्धर्मकस्य जिज्ञास्यतेत्याह इदमित्थमिति।
इदमित्थमिति ज्ञानं जिज्ञासायाः प्रयोजनम्।
इत्थम्भावो हि धर्मोऽस्य नचेन्न प्रतियोगिता॥४०॥
न खल्वनुमानविचारापरपर्यायायाः जिज्ञासाया वस्तुस्वरूपमात्रज्ञानं प्रयोजनम्। तस्य प्रागेव सिद्धत्वात्। असिद्धौ वाऽऽश्रयासिद्धस्यानुमानस्यानुत्थानात्। किन्नाम। इदमिति स्वरूपानुवादेन इत्थमिति व्यापकधर्मविशिष्टधर्मिज्ञानम्। धूमानुमानादौ तथा दर्शनात्। तथाच कथं निर्धर्मकस्य जिज्ञास्यतेति। एतेन स्वप्नेऽपि प्रसङ्गानवकाशो निरस्तः। तथासति मायामात्रमित्यनुमानासम्भवात्। आरोपिताभ्यां व्याप्यव्यापकाभ्यां तत्सम्भव इति चेत्, न। स्वरूपासिद्धिबाधप्रसङ्गादिति।
यद्यपि न ब्रह्मनिष्ठेन केनचिद् धर्मेण तत्र धर्मान्तरं विधित्सितम्, तथाऽपि कस्यचिद् धर्मस्य निवृत्त्या धर्मान्तरस्य भ्रान्तिप्रसक्तस्यान्यत्र सतो निवृत्तिर्ज्ञाप्यते। यथोक्तम् “सिद्धं तु निवर्तकत्वात्” इति। एवञ्च निर्धर्मकस्य कथं जिज्ञास्यतानुपपत्तिरित्यत आह इत्थम्भावो हीति। अस्य ब्रह्मणः प्रतियोगिता विरोधिता। प्रपञ्चधर्मव्यावृत्तिमत्तेति यावत्। न खलु निराधारया कस्यचिद् धर्मस्य निवृत्त्या निराधारैव धर्मान्तरव्यावृत्तिरनुमातुं शक्या। एवंविधानुमानप्रवृत्तेरलौकिकत्वात्। अतो ब्रह्मनिष्ठयैव ब्रह्मनिष्ठेति वाच्यम्। यदि चास्य धर्मो न स्यान्न तर्हि व्यावृत्तिमत्ताऽपि स्यादिति। इत्थमिति ज्ञानं जिज्ञासाफलं चेद् ब्रह्मणीत्थम्भाव एव स्वीकार्यः स्यात्। तत् किं धर्मेणेति मन्दाशङ्कानिरासायेत्थम्भावो हि धर्मोऽस्येत्यनुवादेन परिहारोऽभिहितः। यद्वाऽस्तु व्यावृत्तिमत्ता ब्रह्मणः किं धर्मेणेत्यत इदमुक्तम्। न विधिरूप एव धर्मः। किन्नाम। इत्थम्भावमात्रं प्रकृतमिति। तदनेन ब्रह्म न निर्धर्मकम्, जिज्ञास्यत्वात्; पर्वतवदित्यनुमानं सूचितं भवति।
॥ ब्रह्मनैर्गुण्यवादस्य श्रुतिविरुद्धत्वम्॥
इतोऽपि न निर्धर्मकं ब्रह्मेत्याह इत्थम्भावात्मकानिति।
इत्थम्भावात्मकान् धर्मानाहुश्च श्रुतयोऽखिलाः।
श्रुतयश्चेति सम्बन्धः। भवन्तु “सत्यकामः” इत्याद्याः श्रुतयो धर्मवादिन्यः, नतु “अपहतपाप्मा” इत्याद्याः। तत् कथमखिला इत्युच्यत इत्यत उक्तम् इत्थम्भावात्मकानिति । अखण्डनिष्ठता तु प्रागेव निराकृता, निराकरिष्यते चेति। (१९३, १०४२१०४५ )
॥ अदृश्यत्वादिधर्मवत्त्वस्य सूत्र एवोक्तत्वात् नैर्गुण्यवादस्य तद्विरोधोऽपि॥
न केवलं श्रुत्यनुमानविरुद्धं ब्रह्मणो निर्धर्मकत्वम्, किन्तु सूत्रविरुद्धं चेत्याह अदृश्यत्वादयोऽपीति।
अदृश्यत्वादयोऽप्यस्य गुणा हि प्रभुणोदिताः॥४१॥
प्रभुणाऽपीति सम्बन्धः। “अदृश्यत्वादिगुणको धर्मोक्तेः” इत्यादिनेति शेषः। यद्वा न विधिरूप एव धर्मः। किन्नाम। इत्थम्भावमात्रमित्यत्र प्रयोगमनेन प्रमाणयति। अत्रचापिशब्दो न भिन्नक्रमः। गुणशब्दश्च धर्मवचनो न पारिभाषिकवचनः। अदृश्यत्वादीनां तदभावात्।
॥ ब्रह्मणोऽभावधर्मवत्त्वाङ्गीकारे भावधर्मवत्त्वमप्यङ्गीकार्यम्॥
नन्वस्माभिर्भावरूपा एव धर्मा ब्रह्मणो नाङ्गीक्रियन्तेऽभावात्मकास्तु स्वीक्रियन्त एव। अतो न सूत्रविरोध इत्यत आह यदीति।
यदि स्युस्तादृशा धर्माः सर्वज्ञत्वादयो न किम्।
तादृशा अभावात्मकाः। यथाऽदृश्यत्वाद्याः प्रमाणावगताः, तथा सर्वज्ञत्वादयो भावरूपा अपि “यः सर्वज्ञः” इत्यादिश्रुतिसिद्धा इति तेऽप्यङ्गीकार्याः। अथ तदङ्गीकारे “नेह नानाऽस्ति” इत्यादिश्रुतिविरोध इत्युच्यते सोऽदृश्यत्वाद्यङ्गीकारेऽपि समानः। अतोऽर्धजरतीयस्याप्रामाणिकत्वात् सर्वज्ञत्वादयोऽपि स्वीकार्याः। अदृश्यत्वादयोऽपि वा त्याज्या इति।
॥ भावधर्माणां परसापेक्षत्वात् तदनङ्गीकारे तत एव अभावधर्मवत्त्वमप्यनङ्गीकार्यम्॥
स्यादेतत्। सर्वज्ञत्वादयः सर्वनिरूप्यत्वात् सर्वापेक्षाः। वियदादिकं च सर्वभ्रान्तिसिद्धमसत्यमेव। असत्यसापेक्षास्तु कथं परमार्थतो ब्रह्मधर्मतया स्वीकर्तुं शक्यन्त इत्यत आह अन्येति।
अन्यापेक्षा यदि स्युष्टे..................।
ते सर्वज्ञत्वादयोऽन्यापेक्षा इति यदि नाङ्गीक्रियन्ते, तर्हि तेऽदृश्यत्वादयोऽपि न दृश्यमदृश्यमित्येवमन्यापेक्षाः स्युरिति नाङ्गीकार्या एव। तथाच सूत्रविरोधस्तदवस्थ एव। विषयतयाऽन्यापेक्षत्वं प्रतियोगितयाऽन्यापेक्षत्वमिति तु वैषम्यमात्रम्। स्युष्ट इति सुषामादिषु द्रष्टव्यम्।
॥ सत्ताया अपि देशकालसापेक्षत्वाद् ब्रह्मणः सत्तानभ्युपगमप्रसङ्गः॥
किञ्च परापेक्षतया सर्वज्ञत्वादिकं ब्रह्मणोऽनङ्गीकुर्वाणेन सत्ताऽपि नाङ्गीकरणीया। यतः सत्ताऽप्येवं परापेक्षेत्याह सत्तैवमिति।
.................... सत्तैवं देशकालगा।
देशकालानपेक्षा हि न सत्ता क्वापि दृश्यते॥४२॥
नास्त्येव स्वरूपातिरिक्ता सत्तेति चेत्, स्वरूपसत्ताऽपि न स्यात्। नहि मिथ्याभूतपरापेक्षं सत्यस्वरूपं भवितुमर्हतीति त्वदीयन्यायप्राप्तत्वात्। तथाच “सदेव सोम्य” इत्यादिश्रुतिविरोधः।
कथं सत्ता परापेक्षेत्यत आह देशेति। यतस्तस्मात् सत्तैवमिति सम्बन्धः। ननु देशकालगेति कोऽर्थः? देशकालसम्बद्धेति वा देशकालजन्येति वा? नाऽद्यः, तावता परापेक्षासिद्धेः। नहि गगनं घटेन संयुक्तमित्येतावता तदपेक्षम्। न द्वितीयः, अनादिनित्यत्वादिति चेत्, एवन्तर्हि सार्वज्ञ्यादेरपि नान्यापेक्षता। नहि सर्वेण सह विषयविषयिभावमात्रेण सर्वापेक्षत्वम्, सौरप्रकाशस्यापि घटापेक्षताप्रसङ्गात्। नच सर्वेण जन्यत्वम्, नित्यसिद्धत्वात्।
ननूत्पत्तौ सार्वज्ञ्यादेः सर्वापेक्षताभावेऽपि ज्ञप्तौ साऽस्त्येव। विदित एव सर्वस्मिन् सार्वज्ञ्यादि विज्ञायते नाविदित इति। एवन्तर्हि सत्ताऽपि मा भूदुत्पत्तौ परापेक्षा। ज्ञप्तौ तु भवत्येवेत्याह देशेति।देशकालानपेक्षा देशकालप्रतीत्यनपेक्षा। देशकालप्रतीत्यपेक्षैव दृश्यत इत्यन्वयोऽपि द्रष्टव्यः।
यदि कश्चिद् वैयात्यात् क्वचिद् देशकालप्रतीत्यनपेक्षाऽपि सत्ता दृश्यत इति ब्रूयात्, तदा व्याघातः स्यात्। देशकालव्यतिरेकेण किंशब्दार्थानिर्वचनात्। सत्ताप्रतीताववर्जनीयतया देशकालौ दृश्येते नतु तदपेक्षेति चेत्, न। अभूद् भवति भविष्यतीत्यादिप्रतीतिमवधूय सत्ताया अप्रतिभासात्। नियतविशिष्टप्रतीतिकेऽतदनपेक्षायां न कुत्राप्यपेक्षा स्यात्। तदिदमुक्तम् क्वापीति।
॥ ब्रह्मणो निर्धर्मकत्वे वेदान्तानां विषयाभावेनाप्रामाण्यप्रसङ्गः॥
न केवलं ब्रह्मणो निर्धर्मकत्वे मीमांसाविषयत्वानुपपत्तिः। किन्नाम। “शास्त्रयोनित्वात्” इत्युक्तं शास्त्रविषयत्वमप्यनुपपन्नं स्यादित्याह सर्वेति।
सर्वधर्मोज्झितस्यास्य किं शास्त्रेणाधिगम्यते।
किमाक्षेपे। स्वरूपं तावत् स्वप्रकाशत्वान्न शास्त्रप्रतिपाद्यम्। संसर्गभेदयोरेव वाक्यार्थत्वाच्च। धर्मास्तु न सन्ति। येन संसर्गभेदौ शास्त्रविषयौ स्याताम्। तस्मादस्य ब्रह्मणः किं शास्त्रेणाधिगम्यते? न स्वरूपम्, नापि धर्मसंसर्गादीति। “इत्थम्भावात्मकान्” इति ब्रह्मणो निर्धर्मकत्वे श्रुतिविरोधोऽभिहितः। साम्प्रतं तु श्रुतीनां निर्विषयत्वापत्त्यादिकमिति महान् भेदः।
॥ श्रुतीनां मिथ्याधर्मवत्त्वप्रतिपादकत्वे प्रेक्षावदनुपादेयत्वप्रसङ्गः॥
ब्रह्मणि परमार्थतो धर्माभावेऽपि मिथ्याभूता धर्माः शास्त्रस्य विषया भविष्यन्तीत्यत आह मिथ्येति।
मिथ्याधर्मविधातुश्च वेदस्यैवाप्रमाणता।
चस्त्वर्थः। अप्रमाणतैवेति सम्बन्धः। वेदान्तानां विषयाभावेन प्रसक्तमबोधकत्वलक्षणमप्रामाण्यं परिहर्तुमङ्गीकृतं मिथ्याधर्मप्रतिपादकत्वं विपरीतबोधकत्वलक्षणमप्रामाण्यमेवाऽपादयति। इयांस्तु विशेषः अबोधकानामुपेक्षणीयतैव केवलम्, विपरीतबोधकानां तु हेयता स्यादिति।
॥ अप्राप्तभ्रान्तिविधानतत्प्रतिषेधकत्वेन वेदानामप्रामाण्यप्रसङ्गः॥
भवेदप्रमाणं वेदो यदि मिथ्याधर्मान् प्रतिपाद्यैवोपरमेत। नचैवम्। किन्नाम। “नेह नानाऽस्ति” इत्यादिना तु तत् प्रतिषेधति चेत्यत आह आप्राप्तामिति।
आप्राप्तां भ्रान्तिमापाद्य किं वेदो मानतां व्र्जेत्॥४३॥
आपाद्येत्यतः परं निषेधं कुर्वन्निति शेषः। “यः सर्वज्ञः सर्ववित्”, “य आत्माऽपहतपाप्मा” इत्यदिना वेदो यदि भ्रान्तिं ब्रह्मणि मिथ्याभूतसार्वज्ञ्यादिप्रतीतिमुत्पाद्य स्वयमेव “नेह नानाऽस्ति” इत्यादिना तत्प्रतिषेधं कुर्यात्, तदा मानतां व्र्जेत् किम्? परस्परविरुद्धत्वेनोन्मत्तवचनवदप्रामाण्यमेव स्यात्।
नन्वेतदनाकिलतपराभिसन्धेरसदनुवादेनोक्तम्। नहि वयं वेदो धर्मान् विधाय स्वयमेव निषेधतीति ब्रूमः। किन्त्वनूद्य निषेधतीति। तथाच कथमप्रामाण्यापत्तिरित्यत उक्तम् अप्राप्तामिति। अनुवादो ह्यन्यतः प्राप्तस्य भवति। नच ब्रह्मणि मिथ्याभूतधर्मप्रतीतिः केनचित् प्राप्ता। ततोऽनुवादासम्भवात् विधायैव प्रतिषेधतीति वक्तव्ये पूर्वोक्तो दोष इति। कथमप्राप्तिर्ब्रह्मधर्माणामित्यत आह नहीति।
नहि वेदं विना ब्रह्म वेद्यं धर्माश्च तद्गताः।
वेदेन विना ब्रह्म न वेद्यमिति तावत् समर्थितं प्रथमाध्याये। (२०४,२०८) तथाच कथं तद्गतत्वेन सार्वज्ञ्यादयोऽन्यतो वेद्या भवेयुः। वेदविदितेऽपि ब्रह्मण्यनुमानेन सार्वज्ञ्यादिप्रतीतिरिति चेत्, न। तस्या विनाऽपि वैदिकेन प्रतिषेधेन प्रत्यनुमानेनैवापास्तत्वात्। अन्यथाऽतिप्रसङ्गात्।
॥ मिथ्याधर्मविधायकवेदस्याप्रामाण्ये ऐक्यप्रतिपादकवेदस्याप्यप्रामाण्यप्रसङ्गः॥
अथ मतम्। मिथ्याधर्मविधातुश्च वेदस्यैवाप्रमाणतेति यदुक्तं तन्नानिष्टम्। द्विविधो वेदभागः। तत्वावेदकोऽतत्वावेदकश्च। तत्र जीवेश्वरयोरैक्यं प्रतिपादयंस्तत्वावेदकः, अपरोऽतत्वावेदक इत्यस्माभिरङ्गीकृतत्वादित्यत आह वेदेति।
वेदवेद्यस्य मिथ्यात्वं यदि नैक्यस्य तत् कथम्॥४४॥
तत् तर्हि। तन्मिथ्यात्वमिति वा। सत्यमेवं त्वयाऽङ्गीकृतमिति। नच तदुपपद्यते। सर्वोऽपि हि वेदोऽपौरुषेयः स्वतःप्रमाणभूतश्च। तत्र चैकस्य भागस्याप्रामाण्ये परस्यापि तत् स्यात्, तस्य प्रामाण्ये अस्यापि कथं तन्न स्यात्? तात्पर्यलिङ्गभावाभावाभ्यां व्यवस्थेति चासङ्गतम्। तथात्वे ह्यस्य भागस्यान्यत्र तात्पर्यं वाच्यं स्यात्। नच निषेधायानुवाद इत्युपपादितम्। अहिंसादिश्येनादिविधिवद् विद्वदविद्वद्विषयतया व्यवस्थाऽस्त्विति चेत्, न। वैषम्यात्। नहि श्येनादिविधयोऽप्रमाणभूताः। तात्कालिकेष्टसाधनत्वस्य सत्त्वात्। आत्यन्तिकेष्टसाधनत्वस्य चानभिधानात्। अथैक्यं प्रतिपादयितुं बुद्धिशुद्धये सार्वज्ञ्याद्यविद्यमानमपि प्रतिपाद्यते। सर्वत्र प्रसृता हि बुद्धिः सगुणे ब्रह्मणि दत्तपदा क्रमेणैक्यं प्रविशतीति चेत्, न। प्रतिकूलत्वात्। सार्वज्ञ्यादिप्रतिपादनेन हि भेदवासनैव दृढनिरूढा स्यादित्येषा दिक्।
॥ ब्रह्मणो निर्धर्मकत्वे धर्मारोपस्याप्यसम्भवः॥
यदुक्तं ब्रह्मणि धर्माणामप्राप्तिरिति तन्न। प्रमाणतोऽप्राप्तावप्यारोपतस्तत्सम्भवात्। आत्मैव हि ब्रह्म स च स्वप्रकाशतयाऽवभासत एवेति तस्मिन् धर्मारोपो नानुपपन्नः। ततश्चाऽरोपितधर्मानुवादेन प्रतिषेधो युज्यत इति चेत्। स्यादप्येवं यदि ब्रह्मणि धर्मारोपो युज्येत। नचैवम्। तस्य सर्वधर्मरहितत्वात्। प्रधानाभावाच्च। अथ धर्मरहितत्वादावपि कुतो नाऽरोप इत्यतो व्यतिरेकव्याप्तिं दर्शयति धर्मेति।
धर्मारोपोऽपि सामान्यधर्मादीनां हि दर्शने।
इदन्तदादिधर्मित्वे धर्मोऽन्यः कल्प्यतेऽत्र हि॥४५॥
सर्वधर्मविहीनस्य धर्मारोपः क्व दृश्यते।
न केवलं प्रमाणतः प्राप्त्यभावः किन्तु धर्मारोपोऽपि नोपपद्यत इत्यपिशब्दः। सामान्यं चासौ धर्मश्च सामान्यधर्मः। आदिपदेन प्रधानदर्शनम्। दृष्ट इति शेषः।
एतदेव प्रपञ्चयति इदमिति। इदन्तदिति भावप्रधानो निर्देशः। आदिपदेन साधारणधर्मग्रहणम्। धर्मित्वे दृष्ट इति शेषः। प्रधानज्ञानमप्यत्र सङ्ग्राह्यम्। अत्र लोके। शुक्तिकायां रजतत्वधर्मारोपो हि न शुक्तिकावभासमात्रेण भवति। किन्नाम। वस्तुतो रजतत्वधर्मवतः प्रधानस्य, अधिष्ठाने शुक्तिकाशकले पुरोवर्तित्वादेः, प्रधानसाधारणस्य च शुक्लभास्वरत्वादेर्धर्मस्य दर्शन एव। तथा स्फटिके लौहित्यारोपोऽपि वस्तुतो लौहित्यवतो जपाकुसुमस्य, स्फटिके च दन्तादेः, प्रधानसन्निधानस्य च दर्शन एव दृष्ट इति।
सहदर्शनमात्रेण न व्याप्तिनिश्चय इत्यत आह सर्वेति। अत्रापि प्रधानदर्शनमुपलक्षणीयम्। क्व दृश्यते येनोक्तव्याप्तेर्व्यभिचारः स्यादिति शेषः। उपाधिव्यभिचारयोरदर्शने साहचर्यदर्शनं व्याप्तिनिश्चायकमेवेति भावः।
अयमत्र समुदायार्थः धर्मारोपस्य प्रधानदर्शनादिकं व्यापकमुपलब्धम्। नच प्रकृते तदस्ति। सार्वज्ञ्यादीनामपहतपाप्मत्वादीनामन्यत्रानभ्युपगमात्। ब्रह्मणि च प्रधानसाधारणधर्मादेरनङ्गीकारात्। अतो व्याप्यस्य धर्मारोपस्याभाव इति।
॥ ब्रह्मणि धर्मारोपसिद्ध्यर्थं धर्मारोपान्तरकल्पनायामनवस्थाप्रसङ्गः॥
नन्वत्र प्रधानादर्शनेन धर्मारोपासम्भवः शक्यानुमानः। सार्वज्ञ्यादिकं न ब्रह्मण्यारोपितम्, प्रागन्यत्रानुपलब्धत्वादिति प्रयोगसम्भवात्। धर्माभावलिङ्गकमनुमानं तु कथम्? भवतामसिद्धत्वादिति। मैवम्। धर्मराहित्यवादिनैवमनुमायोपरन्तव्यमित्यभिप्रायात्।
ननुच धर्मारोपोऽधिष्ठानधर्माणां प्रधानस्य च प्रतीतावेवाऽयतते, नतु सत्तायाम्। इदन्त्वादिप्रतीतौ हीदं रजतमित्यादिरूपा प्रतीतिः स्यात्। साधारणधर्मप्रतीतिरेव न प्रधानं बुद्धिस्थीकरोति। प्रधानप्रतीतिरेव चान्वयव्यतिरेकाभ्यामारोपोपयोगिनी। सत्ताया उपयोगाङ्गीकारेऽतिप्रसङ्गः। उभयोपयोगे तु गौरवम्। अस्ति चाप्यत्राधिष्ठानधर्मादिप्रतीतिरारोपरूपा। नहीदं पूर्वोऽयं ब्रह्मणि धर्मारोपः। तथाच पूर्वारोपितधर्मप्रतीत्यधीनोऽयमुत्तरारोपो भविष्यति। पूर्वमेव चोत्तरस्य प्रधानमिति किमनुपपन्नमित्यत आह तदर्थमिति।
तदर्थं यदि धर्माणामारोपः साऽनवस्थितिः॥४६॥
यदि ब्रह्मणि धर्मारोपसिद्ध्यर्थमन्यो धर्माणामारोपः कल्प्यते। तदा सोऽपि धर्मारोपो धर्मारोपान्तरायत्त इत्येवं प्रसक्तानवस्थितिः स्यात्। सिद्धविषयत्वान्नेयमनवस्था दूषणमिति चेत्, न। धर्मसद्भावतत्प्रतीत्योः पूर्वसिद्धत्वेऽप्यारोपत्वकल्पनायामनवस्थानिवारणात्। अस्या धर्मप्रतीतेरारोपत्वं पूर्वप्रतीतेरारोपत्वकल्पनाधीनं तस्या अपि तथेति। तदेवं ब्रह्मणि धर्मारोपासम्भवात् स्वतो निर्धर्मकत्वे वेदाप्रामाण्यादिप्रसङ्गान्न निर्धर्मकं ब्रह्मेति सिद्धम्।
॥ मिथ्यात्वानुमास्य सर्वप्रमाणबाधितत्वात् न तेन विश्वमिथ्यात्वसिद्धिः॥
यदुक्तं सार्वज्ञ्यादेर्मिथ्यात्वसिद्धये विश्वस्य भ्रान्तिकल्पितत्वम्,(९६५) तद्दूषयितुमीशतज्ज्ञानेत्या दिको ग्रन्थः। तथाहि विश्वस्य भ्रान्तिसिद्धत्वं वदता तत्र प्रमाणं वक्तव्यम्। तत् किं प्रत्यक्षं स्यात्, अनुमानं वा, आगमो वा? न तावत् प्रत्यक्षम्। तस्य सत्यत्वग्राहित्वस्य वक्ष्यमाणत्वात्। (९७२) नाप्यनुमानम्। शून्यसमयनिरासेन निरस्तत्वात्। (७९७) अधिकं च दूषणं वक्तुमाह ईशेति।
ईशतज्ज्ञानवेदाक्षजानुमामातृपूर्विणः।
भ्रान्तिर्विश्वस्य येनैव मानाभासेन कल्प्यते।
तन्मात्रस्यान्यथाभावे किं न स्याद् विश्वसत्यता॥४७॥
यद्यप्यत्र भ्रान्तिर्विश्वस्येत्यादिनैवालम्, तथाऽपि ये विश्र्वं प्रमाणप्रमेयप्रमातृप्रमितिभेदेन चतुर्विधमाचक्षते तन्निराकरणप्रस्तावनाय प्रमाणप्रमेयप्रमातृभेदेन त्रिविधमेव विश्वमिति प्रतिज्ञातुमीशेत्याद्युक्तम्। तत्रेशमातृपदाभ्यां परापरप्रमात्रोर्ग्रहणम्। यद्यपि मातृपदेनैवेश्वरो लभ्यते, तथाऽपि तस्य नियतं प्रमातृत्वमन्येषां तु विपर्ययादिसम्भवादनियतमित्यादि विशेषद्योतनाय पृथग् ग्रहणम्। वेदाक्षजानुमापदैः करणफलरूपप्रमाणस्वीकारः। वेदपदमागमोपलक्षणम्। अक्षजत्वं ज्ञानसन्निकर्षयोरस्त्येव। ईश्वरादिज्ञानं न वेदादिपदैः सङ्गृह्यते। अकरणत्वादफलत्वाच्च। भवति च प्रमाणमित्यतस्तज्ज्ञानेति पृथगुक्तम्। नित्यज्ञानमात्रोपलक्षणं चैतत्। पूर्वशब्देन कर्मधारयं विधाय तत इनिप्रत्ययः। प्रत्ययार्थस्तु प्रमेयम्। तथाच प्रमातृप्रमाणप्रमेयरूपस्येत्यर्थः।
यद्वेशमातृशब्दाभ्यां तद्वाक्यं गृह्यते। वेदशब्दश्चापौरुषेयवाक्यवचन एव। पूर्वशब्दः करणार्थः। प्रमाध्याहारेण तत्सम्बन्धः। ततश्चेशवाक्येशादिज्ञानवेदाक्षजानुमानानीश्वरप्रमातृवाक्यरूपप्रमाणवतः सर्वप्रमाणसिद्धस्येत्युक्तं भवति। भ्रान्तिः भ्रान्तिकल्पितत्वम्। येनेत्यतो लब्धमेकत्वमेवेत्यवधार्यते। मानाभासेनेति। स्वभावतो दुर्बलेनानुमानेनेत्यर्थः। अन्यथाभावे अप्रामाण्ये। किमाक्षेपे।
एतदुक्तं भवति विश्र्वं तावत् स्वभावतो बहुत्वेन च प्रबलैरीशवाक्यादिभिः सर्वैः प्रमाणैः सत्यतयाऽवगतम्। तेषां “असत्यमप्रतिष्ठं ते” इत्यादीनामन्यत्र दर्शितत्वात्। विवादपदं मिथ्या, दृश्यत्वात्, जडत्वात्, परिच्छिन्नत्वात्; शुक्तिरजतवत्। अयं पट एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगी, पटत्वात्; पटान्तरवदित्यादिकं विश्वमिथ्यात्वानुमाानं तु स्वाभावैकत्वाभ्यां दुर्बलम्। तथाच प्रबलप्रमाणविरुद्धस्यानुमानस्याप्रामाण्योपपत्तेर्विश्वस्य सत्यत्वमेव युक्तमिति।
॥ मिथ्यात्वप्रतिपादकगौडपादादिवाक्यानामपि सर्वप्रमाणविरुद्धत्वादप्रामाण्यम्॥
नाप्यागमः। स हि गौडपादादिपुरुषप्रणीतो वा, वेदादिर्वा? आद्यं दूषयति येनेति।
येनेदं कल्प्यते भ्रान्तं भ्रान्तिस्तस्यैव किं न सा।
भ्रान्तत्वे तस्य विश्र्वारेरीशाद्यभ्रान्तमेव हि
भवेयुर्भ्रान्तयो नॄणां नैवेशादेः कथञ्चन॥।४८॥
येन गौडपादादिना इदं प्रागुक्तमीशादिकं विश्र्वं, भ्रान्तं भ्रान्तिसिद्धं कल्प्यते, कल्पयित्वा च तथा वाक्यं प्रणीयते, तस्यैव सा कल्पना भ्रान्तिरयथार्था किं न भवेत्?
एतदुक्तं भवति ईशवाक्यादिप्रमाणैस्तावदीशादिविश्र्वं सत्यतयाऽवगतम्। तद्विरुद्धा च गौडपादादीनां विश्वमिथ्यात्वप्रतीतिर्भ्रान्तिरेवेति।
ततः किमित्यत आह भ्रान्तत्व इति। विश्र्वारेर्विश्वमिथ्यात्वं प्रतिपादयतस्तस्य गौडपादादेः भ्रान्तत्वे सिद्धे तन्मूलस्य तद्वाक्यस्याप्रामाण्यात् तेन विश्वमिथ्यात्वासिद्धावीशवाक्यादिभिः प्रमाणैरीशादिविश्वमभ्रान्तं सत्यमेव सिद्धमिति।
नन्वीश्वरवाक्यविरोधाद् गौडपादादीनां भ्रान्तत्वं कुतः कल्पनीयम्? गौडपादादिवाक्यविरोधादीश्वरादीनां विश्वसत्यत्वप्रतीतिरेव भ्रान्तिः कुतो न कल्पनीयेत्यत आह भवेयुरिति। बाह्यान्तरकारणसामग्रीसत्त्वादिति शेषः। कथञ्चनेन्द्रियदोषादेर्बाह्यकरणस्य, अधर्मादेरज्ञानादेरान्तरकारणस्याप्यत्यन्तमसम्भवादित्यर्थः। ईशादयो विप्रलम्भका इति चेत्, न। कल्पकाभावादिति।
॥ “नेह नाना” इत्यादिवाक्यानामर्थान्तरपरत्वम्॥
अस्तु तर्हि नेह नानाऽस्तीत्यादिरद्वैतपरो वेदादिरागमः सर्वस्यापि मिथ्यात्वे प्रमाणमिति चेत्, न। तस्य विश्वसत्यत्वग्राहकप्रत्यक्षबाधितत्वेनातदर्थत्वात्।
॥ प्रत्यक्षसिद्धस्याप्रमाणत्वे वेदप्रामाण्यस्यपि साक्षिप्रत्यक्षसिद्धत्वात् तदप्रामाण्यप्रसङ्गः॥
अथ मतम्। प्रत्यक्षं खलु तात्कालिकं प्रमाणं न पुनरात्यन्तिकम्। वेदस्तु न तथा। स्वतः प्रमाणं च। अतो बलवता वेदेन बाधितत्वात् प्रत्यक्षप्राप्तमपि विश्वसत्यत्वं भ्रान्तिसिद्धमित्येवाङ्गीकर्तुमुचितमित्यत आह सत्यत्वमिति।
सत्यत्वमक्षजप्राप्तं यदि भ्रान्तमितीष्यते।
प्रामाण्यमागमस्यापि प्रत्यक्षादन्यतः कुतः॥४९॥
साक्षिप्रत्यक्षतो ह्येव मानानां मानतेयते।
साक्षिणः स्वप्रकाशत्वमनवस्था ततो नहि॥५०॥
सत्यत्वं विश्वस्येति शेषः। आगमबलमाश्रित्य। तन्नेति वाक्यशेषः। कुतो नेत्यत आह प्रामाण्यमिति। कुतः सिद्धम्? न कुतोऽपि। न केवलं प्रत्यक्षस्य, किन्त्वागमस्यापि प्रामाण्यं प्रत्यक्षेणैव सिद्धं नत्वन्येनेत्यर्थः। तत् कथमित्यत आह साक्षीति। आद्यादिभ्य उपसङ्ख्यानात् तृतीयार्थे तसिः। मानानां सर्वेषामीयते प्रतीयते। हिशब्दः सर्वप्रमाणप्रामाण्यस्य साक्षिसिद्धत्वोपपादकप्रमाणसूचनार्थः।
तद् विवृणोति साक्षिणः इति। प्रमाणानां प्रामाण्यं हि न सत्तामात्रेण निःशङ्कव्यवहारहेतुः। अपितु प्रमितमेव। नच बाह्यप्रत्यक्षादिकमेव प्रामाण्यप्रमितिसाधनम्। तत्प्रामाण्यप्रमितेरप्युक्तन्यायेनाऽवश्यकत्वात्। नच तत्प्रामाण्यं स्वग्राह्यम्। अचैतन्यज्ञानस्य स्वप्रकाशत्वाभावात्। प्रत्यक्षाद्यन्तरान्वेषणे चानवस्था स्यात्। साक्षिवेद्यत्वे तु सर्वप्रामाण्यस्य न कश्चिद् दोषः। साक्षी हि चैतन्यरूपतया स्वप्रकाशः। प्रामाण्यं च ज्ञानग्राहकग्राह्यमिति स्वप्रामाण्यं स्वयमेव गृह्णातीति नानवस्थाऽऽपद्यते। अतः साक्षिवेद्यमेव सर्वप्रमाणप्रामाण्यमङ्गीकार्यमिति।
॥ प्रामाण्यस्य तात्कालिकत्वात्यन्तिकत्वविभागनिरासः॥
अस्त्वेवं साक्षिप्रत्यक्षवेद्यं प्रत्यक्षागमप्रामाण्यम्, तथाऽप्युक्तरीत्या प्रबलेनाऽगमेन विरोधे दुर्बलस्य प्रत्यक्षस्य कुतो न बाध इति चेत्। इत्थम् स्यादयं प्रत्यक्षागमयोर्बाध्यबाधकभावः, यदि व्युत्पादिते दौर्बल्यप्राबल्ये युक्ते स्याताम्। नचोभयप्रामाण्यस्य साक्षिवेद्यत्वे ते युज्येते इत्याशयवान् प्रत्यक्षस्य तात्कालिकं प्रामाण्यमागमस्याऽत्यन्तिकमिति विभागं तावदपाकरोति तात्कालिकमिति।
तात्कालिकं प्रमाणत्वमक्षजस्य यदा भवेत्।
ऐक्यागमस्य किं न स्यात् तस्याप्येतादृशं यदि।
ऐक्यप्रमाणमिथ्यात्वं यदा विश्वस्य सत्यता॥५१॥
यदि साक्षिगृहीतमपि विश्वसत्यत्वग्राहिणोऽक्षजस्य प्रामाण्यं तात्कालिकमेव भवेत्, तर्ह्यैक्यागमस्यापि प्रामाण्यं साक्षिगृहीतत्वाविशेषात् तात्कालिकं स्यादेवेति न विभागः सिद्ध्यति।
॥ ऐक्यागमस्यापि तात्कालिकप्रामाण्याङ्गीकारे विश्वसत्यत्वप्रसङ्गः॥
नन्वैक्यागमप्रामाण्यमपि तात्कालिकमेव। किन्तु प्रत्यक्षमाभासीकृत्य निवर्तते। यथोक्तम्
“वेणुसङ्घर्षजो वह्निर्दग्ध्वा शाम्यति तद् वनम्।
एवं गुणव्यत्ययजो वेदः शाम्यति तद् यथा”
इतीत्यत आह तस्यापीति। ऐक्यागमस्यापि प्रामाण्यं यदि तात्कालिकं स्वीक्रियेत, तदा विश्वस्य सत्यतैव स्यात्।
ननूक्तमत्र प्रत्यक्षमाभासीकृत्य पश्चादैक्यागमप्रामाण्यं निवर्तत इति भवति तात्कालिकम्, नच विश्वसत्यत्वापत्तिरित्यतः “तस्याप्येतादृशं यदि” इत्येतद् “ऐक्यप्रमाणमिथ्यात्वं यदा” इति व्याख्यातम्। ऐक्यागमप्रामाण्यस्य बाध्यत्वं यदेत्यर्थः। न केवलं प्रामाण्यमात्रस्य बाध्यत्वम्। किन्तु धर्मिणो वाक्यस्यापीति ज्ञापनायैवमुक्तम्।
एतदुक्तं भवति स्यादिदं यदि प्रामाण्यस्य तात्कालिकत्वं नामानित्यत्वमिह विवक्षितं स्यात्। नचैवम्। क्षणमात्रवर्तिनोऽपि प्रामाण्यस्य विषयसत्यत्वाव्यभिचारित्वेनानित्यताया दौर्बल्यहेतुत्वासम्भवात्। किन्तु बाध्यत्वमेव। तच्चेदैक्यागमप्रामाण्यस्याभ्युपगतं तदा कथं विश्वस्य सत्यता न स्यादिति।
॥ साक्षिगृहीतप्रामाण्यकेषु एकस्य प्रामाण्यम्, अन्यस्याप्रामाण्यमित्ययुक्तम्॥
ननु साक्षिणो विषयाव्यभिचारित्वात् तद्गृहीतमेवैक्यागमप्रामााण्यमबाध्यमेवेत्याशयाऽह ऐक्यवाक्यस्येति।
ऐक्यवाक्यस्य मानत्वं यद्यबाध्यमितीष्यते।
अक्षजस्यापि मानत्वं नाबाध्यं किमितीष्यते॥५२॥
साक्षिगृहीतत्वाविशेषादिति भावः। साक्षिगृहीतत्वाविशेषाद् विश्वसत्यताग्राहकप्रत्यक्षप्रामाण्यस्य बाध्यतायामैक्यागमप्रामाण्यमपि बाध्यं स्यात्। तदबाध्यत्वे वा प्रत्यक्षप्रामाण्यमप्यबाध्यमेवैष्टव्यमिति समुदायार्थः।
॥ अद्वितीयब्रह्मावस्थानरूपमोक्षान्यथानुपपत्त्या प्रत्यक्षप्रामाण्यस्य तात्कालिकत्वे
ऐक्यागमप्रामाण्यस्यापि तात्कालिकत्वप्रसङ्गः॥
नन्वद्वैतब्रह्मावस्थानं मोक्षः। स च प्रत्यक्षप्रामाण्यस्याबाध्यत्वे व्याहन्येत। प्रपञ्चसत्यत्वेन सद्द्वैततापत्तेः। अतः साक्षिवेद्यत्वाविशेषेऽप्यनेन विशेषेण प्रत्यक्षप्रामाण्यं साक्षिणा तात्कालिकमेव गृह्यत इति कल्प्यत इत्यत आह अद्वैतेति।
अद्वैतहानिसामान्यान्न विशेषश्च कश्चन।
एवन्तर्ह्यैक्यवाक्यप्रामाण्यमपि तथाविधमेव। तदबाध्यत्वेऽप्यद्वैतहानिसामान्येनोक्तलक्षणमोक्षासिद्धेः। नहि वाक्यं वा तत्प्रामाण्यं वा तदर्थो भेदाभावो वा ब्रह्मेति।
प्रत्यक्षप्रामाण्यस्याबाध्यत्वे बहुप्रपञ्चापत्तिः। आगमप्रामाण्याबाध्यतायां तु नैवमिति चेत्, न। अस्य विशेषस्य व्यर्थत्वादित्याशयवानाह नेति।
॥ मायावादिना प्रामाण्यस्य स्वतस्त्वाङ्गीकाराद्
विश्वसत्यताग्राहिप्रत्यक्षस्यापि प्रामाण्यमङ्गीकार्यमेव॥
यदप्यद्वैतागमस्य प्राबल्योपपादनाय स्वतःप्रामाण्यमुक्तम्, तत्राऽह यदीति।
यदि स्वतस्त्वं प्रामाण्ये विश्वसत्ता कथं न ते॥५३॥
स्वतस्त्वधर्मस्य प्रामाण्यं धर्मि अधिकरणतया विवक्षितमिति सप्तम्युपपत्तिः। यद्यागमप्रामाण्यस्य स्वतस्त्वमुच्यते, तदा प्रत्यक्षप्रामाण्यमपि स्वत एवेति ब्रूमः। सम्यङ्मिथ्याज्ञानसाधारणकारणमात्रजन्यत्वं वा, सम्यङ्मिथ्याज्ञानसाधारणज्ञापकमात्रज्ञेयत्वं वा प्रामाण्यस्य स्वतस्त्वम्। तदागमजन्यज्ञानवत् प्रत्यक्षजन्यस्याप्यविशिष्टमेव। तथाचाऽगमप्रामाण्यस्य स्वतस्त्वमङ्गीकुर्वतो यथा तद्विषयसत्यता सम्मता, तथा स्वतःप्रमाणप्रत्यक्षविषयविश्वसत्ताऽपि कथं न ते सम्मतेति।
॥ तात्कालिकप्रामाण्याभ्युपगमस्य युक्तिविरुद्धत्वम्॥
स्यादेतत्। प्रत्यक्षागमयोः स्वतःप्रामाण्येऽप्यस्ति विशेषो यत् प्रत्यक्षं तात्कालिकमेव ज्ञानस्य प्रामाण्यं जनयति वाक्यं त्वात्यन्तिकम्। तथा ज्ञानग्राहकः साक्षी प्रत्यक्षज्ञानस्य तात्कालिकमेव प्रामाण्यं गृह्णाति वाक्यजन्यज्ञानस्य त्वात्यन्तिकमिति। मैवम्। अस्यां व्यवस्थायां नियामकाभावस्योक्तत्वात्। (९७३) दोषान्तरं चाऽह प्रामाण्यस्य चेति।
प्रामाण्यस्य च मर्यादा कालतो व्याहता भवेत्।
कालान्तरेऽप्यमानं चेदिदानीं मानता कुतः॥५४॥
कालतो मर्यादा व्यवच्छेदः। तात्कालिकत्वमिति यावत्। कथं व्याहतिरित्यत आह कालान्तरेऽपीति। अमानं बाधितमानं चेत् प्रत्यक्षम्। तात्कालिकशब्देन हीदानीमस्ति कालान्तरे तु बाध्यमिति परस्याभिमत्। तत्र यदि प्रत्यक्षं कालान्तरेऽपि बाधितप्रामाण्यं स्यात्, तर्हीदानीं तस्य मानताऽस्तीति कुतः स्यात्? कालत्रयसत्तानिषेधरूपत्वाद् बाधस्य। यदिच प्रत्यक्षप्रामाण्यमिदानीं सत् स्यात्, कथं कालान्तरेऽपि तर्हि बाध्येतेति व्याहतमेव तात्कालिकत्ववचनम्। अप्रमाणमेव भवतु तर्हि प्रत्यक्षमिति चेत्। सत्यम्। भवति भवतोऽयं मनोरथः। तत्सिद्धिरेवेदानीमपि कफोणिगुडायते।
॥ मिथ्यात्वमानस्य अप्रामाण्ये प्रामाण्ये वा मायामते मोक्षानुपपत्तिः॥
अद्वितीयब्रह्मावस्थानलक्षणं मोक्षमभ्युपेत्य प्रत्यक्षप्रामाण्याबाध्यतावदागमप्रामाण्याबाध्यतायामपि तद्धानिः समानेत्युक्तम्। इदानीं तु स एवानुपपन्न इत्याशयवान् पृच्छति मिथ्यात्वमानमिति।
मिथ्यात्वमानं मोक्षेऽपि मानं किं नेति भण्यताम्।
मानत्वेऽद्वैतहानिः स्यादमानत्वेऽप्यमोक्षता।
विश्वस्य पुनरापत्तिर्मिथ्याज्ञानं यदा न मा॥५५॥
विश्वमिथ्यात्वप्रतिपादकमानम्, आगमोऽनुमानं च मोक्षेऽपि मानमिति मोक्षसमयेऽप्यबाधितस्वरूपप्रामाण्यमित्यर्थः। नेति बाधितस्वरूपप्रामाण्यमित्यर्थः। किंशब्दः पूर्वेण परेण च सम्बद्ध्यते। यद्वा काक्वैव मानमित्ययं प्रश्र्नो ज्ञातव्यः। इति पृष्टस्योत्तरं भण्यताम्।
आद्ये दोषमाह मानत्व इति। अबाधितस्वरूपप्रामाण्यपक्षे तेनैव सद्द्वितीयत्वादद्वैतहानिः स्यादित्युक्तलक्षणो मोक्षो न सिद्ध्येत्। द्वितीये दूषणमाह अमानत्वेऽपीति। अमोक्षता विवक्षितावस्थाया इति शेषः। विश्वमिथ्यात्वमानस्य तत्प्रामाण्यस्य च बाध्यत्वपक्षेऽपि मोक्षो न सिद्ध्यति।
कथमित्यत आह विश्वस्येति। विश्वमिथ्यात्वमानं यदा न मा बाधितस्वरूपप्रामाण्यं स्यात्, तदा विश्वस्य पुनरापत्तिः स्यात्। नास्तित्वप्रमाणबाधस्यास्तित्वाव्यभिचारात्। विश्वसद्भावे च कथमुक्तलक्षणो मोक्षः स्यादिति। आदौ तावत् प्रत्यक्षेण विश्र्वं प्राप्तम्। तदागमादिनाऽपाततोऽपनीतम्। आगमादेश्च बाधे पुनस्तदापतितमिति प्रतीत्यपेक्षया पुनःशब्दः। विश्र्वं तद्बाधकं चोभयमपि बाधितमिति चेत्, न। उत्तरत्र दूषणात्। (९९६, ९९८, १२८४ )
॥ मुक्त्यवस्थायाः सत्यत्वे मिथ्यात्वे वा मायामते मोक्षानुपपत्तिः॥
किञ्च मुक्तिः सती वाऽसती वा? पक्षद्वयेऽपि नोक्तलक्षणा मुक्तिः सिद्ध्यति। कथमिति। आद्यं प्रत्याह अस्ति चेदिति।
अस्ति चेन्मुक्त्यवस्था च द्वैतापत्तिरतोऽन्यथा।
अमुक्तत्वम्................................॥५६॥
आत्मस्वरूपमेव मुक्तिः। यथोक्तम् “आत्मैवाज्ञानहानिः” इति। “अविद्यास्तमयो मोक्षः” इति च। तत् कथं द्वैतापत्तिरित्यतो मुक्त्यवस्थेत्युक्तम्। अवस्थैवैषाऽत्मनो नत्वात्मैव। तथात्वे हि प्रागेव सिद्धत्वात् प्रयत्नवैयर्थ्यम्। नचाऽत्मा ज्ञानस्य साध्योऽनादित्वात्। अविद्याध्वंसविशिष्टो न प्राक् सिद्धो ज्ञानसाध्यश्चेति चेत्, तत् किं स एव मुक्तिः? अद्धेति चेत्। तर्हि विशिष्टस्य सत्त्वाभावेन सती मुक्तिरित्ययुक्तं स्यात्। किञ्च मुक्तिर्नाम धर्मः। स कथमात्मैव स्यादिति।
द्वितीयं प्रत्याचष्टे अतोऽन्यथेति। सत्त्वपक्षात् पक्षान्तरे। यदि मुक्तिरसती स्यात्, तदाऽत्मनोऽमुक्तत्वं स्यात्। विषाणासत्त्वे शशो ह्यविषाणी दृष्टः। तथाच कुत उक्तलक्षणत्वम्?
अथ मतम्। न मुक्तिः सती, नाप्यसती किन्त्वनिर्वचनीयेति। तदाऽप्यमुक्ततैव। संसारेऽप्यनिर्वचनीयेनैव हि द्वितीयेन सद्द्वितीयत्वम्। तदुत्तरमपि तच्चेत् स्यात्, कथममुक्तत्वं न भवेत्? एतेन पञ्चमप्रकारताऽपि निरस्ता। अनिर्वचनीयतापरिहारात्। नहि चतुर्थप्रकारतावस्थितिरनिर्वचनीयत्वम्। तथासति निर्वचनीयतापत्तेः। अनिर्वचनीयाविद्यानिवृत्तिः कथमनिर्वचनीया स्यादिति चेत्। घटप्रध्वंसो यथा तथेति जानीथाः। तदेतत्सङ्ग्रहायातोऽन्यथेत्युक्तम्। अन्यथाऽसती चेदित्यवक्ष्यत्।
॥ मुक्त्यवस्थायां कालस्य सत्त्वेऽसत्त्वे वा मायामते मोक्षानुपपत्तिः॥
एवमेव मुक्तेरद्वितीयब्रह्मावस्थानरूपतानिरासाय कालेऽपि विकल्प्य दोषोऽभिधातव्य इत्याह तथा काल इति।
.....तथा काले कालाधीना हि मुक्तता॥५६॥
ननुच मोक्षदशायां कालोऽस्ति नवेति विकल्प्य “अस्ति चेद् द्वैतापत्तिः” इति दूषणं चास्तु। “अतोऽन्यथाऽमुक्तत्वम्” इति कथमतिदेश इत्यत आह कालाधीना हीति। कालाधीना नियमेन कालाधिकरणा। यद् वस्तु तत् कालसम्बन्ध्येवेति व्याप्तेरिति हिशब्दार्थः।
॥ मोक्षस्य कालाधिकरणकत्वानभ्युपगमेऽसत्त्वप्रसङ्गः॥
न केवलमनुमानसिद्धो मुक्तेः कालाधिकरणतानियमः, किन्तु “तदा विद्वान्” “दृष्ट्वैव तं मुच्यते” इत्यागमसिद्धोऽपीत्याह काल एवेति।
काल एवाऽगमोऽप्याह मुक्तिं कालनिवर्तने।
मुक्तेरपि निवृत्तिः स्यात् संसारित्वमतो भवेत्॥५७॥
किं ततो यद्येवमधिकरणेन कालेन व्याप्ता मुक्तिरित्यत आह कालेति। कालासत्त्वे मुक्तेरप्यसत्त्वं स्यात्। व्यापकनिवृत्तौ व्याप्यनिवृत्तेरावश्यकत्वात्। तथाचातिदेशो युक्त इति। एतदुक्तं भवति यदि मोक्षः कालसम्बन्धी न स्यात्, तदा शशशृङ्गादिवदसन् स्यादिति।
॥ मुक्तेरसत्त्वाभ्युपगमे बाधकोक्तिः॥
ननुच “न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता” इति मुक्तेरसत्त्वस्येष्टत्वान्नेयमनिष्टापत्तिरित्यत आह संसारित्वमिति। चैतन्यस्य सतो बन्धाभावलक्षणे मोक्षेऽसति देवदत्तवन्मुक्ताभिमतस्यापि संसारित्वं भवेत्। बन्धमिथ्यात्वात् संसारो मुक्तिश्च न स्त एवेति चेत्, नानङ्गीकृतत्वमेवानिष्टत्वं किन्त्वप्रामाणिकत्वादिकम्। नच बन्धमिथ्यात्वं प्रामाणिकमित्युक्तं प्राक्। (४३,४१७,४३६,७९७,८८९,९७२)
तदेवमागमादितः प्रत्यक्षस्य दौर्बल्यं निराकुर्वता तन्मिषेण प्राबल्यं च व्युत्पादितम्। साक्षिप्रत्यक्षस्याऽगमादिप्रामाण्यग्राहकत्वेनोपजीव्यतायास्तदितरस्य साक्षिनिश्चितप्रामाण्यतायाश्च सूचितत्वात्। ततस्तद्विरुद्धस्याऽगमादेरेवाप्रामाण्यं युक्तमिति।
॥ प्रत्यक्षस्य स्वभावतः प्राबल्यप्रतिपादनम्॥
न केवलमुपजीव्यत्वादिगुणेनान्यतः प्रबलं प्रत्यक्षम्। किन्तु स्वभावतोऽपीत्याशयवानाह क्व चेति।
क्व च प्रत्यक्षतः प्राप्तमनुमागमबाधितम्।
प्रत्यक्षतः प्राप्तमिति साक्षात्कारसिद्धम्। अनुमानागमशब्दौ लिङ्गवचनवचनौ। प्रामाण्यनिर्णयस्येदानीं क्रियमाणत्वात्। दृष्टमिति शेषः। यदि हि प्रत्यक्षप्राप्तं क्वचिदनुमानागमाभ्यां बाधितमुपलब्धवन्तः स्मः, तदा प्रतीमोऽनुमानादितः प्रत्यक्षस्य दौर्बल्यम्। नच तथा। ईश्वरे दोषग्राहिप्रत्यक्षमागमादिबाधितं दृष्टमिति चेत्। सत्यम्। तत्राऽगमादेरुपजीव्यतया बाधकत्वमिति वक्ष्यामः। (१२२५) “प्राबल्यमागमस्यैव जात्या तेषु त्रिषु स्मृतम्” इत्यस्य वैदिकार्थविषयत्वादत्र च पृथिव्यादिप्रपञ्चस्य प्रस्तुतत्वान्न विरोधः।
दृष्टं च दहनशैत्यानुमानस्य, मम कर्णे प्रविश्य गजो गर्जतीत्यादिवाक्यस्य च प्रत्यक्षबाधितत्वम्। तत्रापि प्रत्यक्षमुपजीव्यत्वाद् बाधकम्, नतु स्वभावेनेति चेत्, न। धर्मिव्यापकव्याप्यव्याप्तिग्राहकत्वाभावाद् दहनौष्ण्यादिग्राहिणः प्रत्यक्षस्य। अनौष्ण्यमुष्णताभावः। स च प्रतियोगिज्ञानाधीनज्ञानः प्रतियोगिभूतं चौष्ण्यं तेजस्येव प्रत्यक्षेण प्रत्येतव्यमिति तस्योपजीव्यत्वमिति चेत्, न। उक्तोत्तरत्वात्। अनुष्णतासाधने हीदमुपपादनम्। केनचिद्धेतुना शैत्यसाधने त्वस्यानवकाशः। यदाच समस्तस्यापि तेजसोऽनौष्ण्यं साध्यते, तदा भवत्विदं व्युत्पादनम्। अग्निमात्रपक्षीकारे तु नेदमुपयुज्यते। सौरादौ तेजस्युष्णतां स्पर्शनेनोपलभ्य चक्षुषोपलब्धेऽग्नावनौष्ण्यसाधनस्य तु स्वभावप्रबलेनैव प्रत्यक्षेण बाध इत्येषा दिक्।
॥ देहात्मैक्यप्रतीतेरप्रत्यक्षत्वादनुमानबाध्यत्वेऽपि न नो हानिः॥
देहस्याऽत्मत्वं प्रत्यक्षप्राप्तमपि देहो नाऽत्मा, भूतत्वात्, कार्यत्वात्; घटवदित्याद्यनुमानेन “तं स्वाच्छरीरात् प्रवृहेत्” इत्यागमेन च बाधितं दृष्टम्। अन्यथा बाधकान्तराभावाद् देहात्मत्वस्य वास्तवतापातात्। तत् कथमेतदित्यत आह देहात्मत्वमिति।
देहात्मत्वं यदि न तत् प्राप्तं प्रत्यक्षतः क्वचित्।
मम देह इति ह्येव न देहोऽहमिति प्रमा॥५८॥
देहात्मत्वं प्रत्यक्षतः प्राप्तमनुमानागमबाधितं दृष्टमिति यदि ब्रूयात्, तदा तन्नेति ब्रूम इत्यर्थः। न तदिति पूर्वेणोत्तरेण च सम्बद्ध्यते। कुतो नेत्यत आह न तदिति। देहात्मत्वं प्रत्यक्षप्राप्तमेव न भवति। अतः प्रत्यक्षप्राप्तस्यानुमानादिना बाध इत्यत्र नेदमुदाहरणम्। अयमभिसन्धिः नास्त्येव देहात्मत्वप्रतीतिः। याऽनुमानादिना बाध्येत। येषां चास्ति नास्तिकादीनां तेषामपि नेन्द्रियजा। किन्त्वनुमानागमाभासजन्यैवेति। मा भूत् पण्डितरूपाणां देहात्मत्वप्रतीतिः। पामराणां त्वस्त्येव। सैवास्माकमुदाहरणं भविष्यतीत्यतः क्वचिदित्युक्तम्। तदुपपादयति ममेति। सर्वस्यापि जन्तोर्मम देह इत्येव हि प्रमा प्रतीतिर्न तु कस्यापि देहोऽहमिति। यद्वा यस्मात् सर्वेषां मम देह इत्येव प्रमा सम्यक् प्रतीतिः सर्वदाऽनुवर्तते तस्माद् देहोऽहमिति प्रतीतिर्नावकाशमासादयतीति।
॥ “कृष्णोऽहम्’ इत्यादेः देहधर्माणामात्मनिष्ठत्वव्यवहारस्य औपचारिकत्वम्॥
देहात्मत्वप्रतीत्यभावेऽपि देहधर्माणां कार्ष्ण्यादीनामात्मनिष्ठत्वप्रतीतिस्तावदस्त्येव कृष्णोऽहमित्यादिव्यवहारसन्दर्शनात्। सा च लिङ्गाद्यनपेक्षैव जायमाना प्रत्यक्षजन्यैव। बाध्यते चानुमानादिनेति सैवोदाहरणं भविष्यतीत्यत आह उपचारश्चेति।
उपचारश्च कृष्णोऽहमिति कर्दमलेपने।
वस्त्रस्य यद्वदेवं स्यात्...............।
कृष्णोऽहमिति च प्रतीतिर्नास्तीत्यनुवर्तते। कथन्तर्हि व्यवहारः? कृष्णोऽहमिति व्यवहारस्तूपचार एवेति योजना। अथ यो व्यवहारबलेन तथाविधां प्रतीतिमप्यनुमिनोति। तस्यानैकान्तिकत्वं स्यादित्याशयवानुक्तार्थे दृष्टान्तमाह कर्दमेति। यथा वस्त्रस्य कर्दमलेपने सति कृष्णं वस्त्रमित्युपचारव्यवहारो भवत्येवं प्रकृतेऽपि स्यात्।
अयमभिसन्धिः यो हि वस्त्रस्य शौक्ल्यं कर्दमलेपनं च सम्यगवगच्छति न तस्य वस्त्रे कार्ष्ण्यप्रतीतिरस्ति। व्यवहरति च कृष्णं वस्त्रमिति। अतः कृष्णोऽहमिति व्यवहारात् तथाविधज्ञानानुमानं तत्र व्यभिचरति। उपचारव्यवहारोऽसाविति चेत्। प्रकृतेऽपि तथा किं न स्यादिति।
ननु कृष्णं वस्त्रमिति नोपचारः। स्वतः शुक्लेऽपि वस्त्रे कर्दमोपाधिककार्ष्ण्यसद्भावेन प्रतीतिसम्भवादिति चेत्, न। किमिदमौपाधिकं नाम? साधनाभिमते व्याप्तिरिव कर्दमसन्निधानादारोप्यमाणमिति चेत्, न। आरोपासम्भवस्योक्तत्वात्। जपाकुसुमसन्निधानात् स्फटिके लौहित्यमिव प्रतिफलतीति चेत्, न। वस्त्रस्यास्वच्छत्वात्। घृतादिना कुङ्कुमगन्धादिरिव कर्दमेनाभिव्यक्तमिति चेत्, न। प्राग् वस्त्रे कार्ष्ण्यसद्भावे मानाभावात्।
अथाग्न्सिंयोगात् पार्थिवद्रव्यरूपादिकमिव कर्दमोपाधिना कृतमिति मतम्। तत्र पृच्छामः किं कर्दमः शौक्ल्यं निवर्त्य कार्ष्ण्यं वस्त्रे करोति, उतानिवर्त्यैव? नाऽद्यः, कर्दमापगमे शौक्ल्यानुपलब्धिप्रसङ्गात्। नच पुनः शौक्ल्यमुत्पन्नम्, कारणाभावात्। न द्वितीयः, युगपद् रूपद्वयाधिष्ठानविरोधात्।औपाधिकस्यापि सत्यत्वेन स्वाभाविकाविशेषात्। भवतु वा वस्त्रे कथञ्चित् कार्ष्ण्यमौपाधिकं किं तदुपन्यासेनाभ्यर्थ्यते ? नचोक्तव्यभिचारपरिहारः। एकोदाहरणनिराकरणेऽपि मञ्चाः क्रोशन्तीत्यादेरनेकस्य व्यभिचारोदाहरणस्य सम्भवात्।
॥ कार्ष्ण्यस्य देहोपाधिकृतत्वेनाऽत्मनिष्ठत्वप्रतीतेर्यथार्थत्वादनुमानाबाध्यत्वम्॥
अथ वस्त्रे कर्दमेनेव आत्मनि देहोपाधिना कृतं कार्ष्ण्यमस्तीति प्रतीतिसम्भावना विवक्षिता, तत्राऽह यदीति।
......................यद्युपाधिकृतं तदा।
स्वतः शुक्लत्ववत् कार्ष्ण्यं न ममेति प्रतीयते॥५९॥
यदि वस्त्र इवाऽत्मनि देहोपाधिकृतं कार्ष्ण्यमस्तीति तत्प्रतीतिः सम्भाव्यते, तदा प्रत्यक्षप्रतीतस्यानुमानादिना बाध इत्यत्र नेदमुदाहरणमिति शेषः। कथमित्यत आह स्वत इति। अत्र दृष्टान्ते दार्ष्टान्तिके चैकदेशोत्कीर्तनेनान्यदप्युपलक्ष्यते।
तथाचायमर्थः वस्त्रे खलु कार्ष्ण्यं कर्दमोपाधिकृतं प्रतीयमानमेवं प्रत्येतव्यम्। स्वतः शुक्लमेवेदं वस्त्रं न कृष्णम्। कार्ष्ण्यं तूपाधिकृतमिति। तथाऽत्रापि स्वतो नीरूप एवाहम्, कार्ष्ण्यं तु न मम स्वभावः, किन्तु देहोपाधिकृतमिति प्रतीयत इत्यङ्गीकर्तव्यम्। तथाचास्याः प्रतीतेर्यथार्थत्वान्नानुमानादिना बाध इति।
॥ मायावादिना देहात्मैक्यप्रतीतेः प्रत्यक्षसिद्धत्वमुपपाद्य तस्या अनुमानबाध्यत्वसमर्थनम्॥
यदुक्तं देहात्मताप्रतीतिर्नास्ति देहोऽहमिति प्रतीत्यननुभवादिति, तदसत्। अहमिति प्रतीतेरेव तत्प्रतीतित्वात्। इदमनिदंरूपवस्तुगर्भो ह्यहङ्कारः।
यच्चोक्तं मम देह इति भेदप्रतीत्यनुवृत्तेर्देहात्मत्वप्रतिभासोऽनुपपन्न इति। तदयुक्तम्। भेदप्रतीत्यसम्प्रतिपत्तेः। मम देह इति व्यवहारस्य मम स्वरूपमितिवदौपचारिकत्वोपपत्तेः। न खलु केवले देहे आत्मत्वप्रतीतिः। किन्तर्हि? देहेन्द्रियान्तःकरणादिसङ्घाते। तत्र सङ्घातापेक्षया देहमात्रे सम्बन्धप्रतीतिरपि न बाधिका। प्रासादस्य स्तम्भो, वृक्षस्य शाखेति यथा। नच, देहेन्द्रियादेरात्मनश्च भेदावभासे स्फुटं प्रमाणमस्ति। येन देहाद्यात्मप्रतीतिर्विरुद्ध्येत।
यदप्युक्तं कृष्णोऽहमित्यादिरूपदेहादिधर्माणामात्मनिष्ठताप्रतीतिर्नास्ति, प्रमाणाभावादिति। तन्न। कृष्णोऽहमिति व्यवहारदर्शनात्। ज्ञानमूलता खलु व्यवहारस्योत्सर्गतः सिद्धा। तदनुपपत्तौ तूपचारत्वकल्पना। नच, नाहं कृष्ण इत्यादिरूपा प्रतीतिरस्ति। यद्भयादुपचारत्वं कल्पयामः। अतो भेदादिप्रतीत्यभावादस्त्येवोभयी प्रतीतिः। यथाऽह “अन्योन्यस्मिन्नन्योन्यात्मकतामन्योन्यधर्मांश्चाध्यस्य” इति।
॥ देहात्मनोर्भेदस्य, तद्धर्माणां परस्परमसंसर्गस्य च स्फुटं प्रतीयमानत्वम्॥
प्रत्यक्षजा चेयं प्रतीतिरिति कथं प्रत्यक्षसिद्धस्य नानुमानादिना बाध इत्यत आह कथञ्चेति।
कथञ्च भेदो देहादेरात्मनो न प्रतीयते।
भेदशब्देनासंसर्गोऽपि गृह्यते। देहादिशब्देन सङ्घातस्तद्धर्माश्च। यदा देहादेरिति पञ्चमी तदाऽऽत्मन इति षष्ठी। यदा चाऽत्मन इति पञ्चमी तदा देहादेरिति षष्ठी। अन्योन्यारोपस्य परेणोक्तत्वात्। देहादिसङ्घातस्याऽत्मनश्चान्योन्यं भेदः, तद्धर्माणां च परस्परमसंसर्गः प्रतीयत एवेत्यर्थः।
॥ मृगादीनां स्तनपानादौ प्रवृत्त्याद्यन्यथानुपपत्त्या पूर्वदेहस्मृतिसद्भावसाधनम्॥
तत् कथमित्यत आह जातमात्रा इति।
जातमात्रा मृगा गावो हस्तिनः पक्षिणो झषाः।
भयाभयस्वभोगादौ कारणानि विजानते॥६०॥
अस्मृतौ पूर्वदेहस्य विज्ञानं तत् कथं भवेत्।
अन्वयव्यतिरेकादेरनुसन्धानविस्मृतौ॥६१॥
जाता एव नतु व्यापारान्तरं कृतवन्तः। भुज्यत इति भोगः सुखम्। आदिपदेन दुःखम्। सिंहव्याघ्रादीनि भयकारणानि, मात्रादीन्यभयकारणानि, स्तनपानादीनि सुखकारणानि, शक्वादिना नयनान्तःकण्डूयनादीनि दुःखकारणानीति विजानते। अत एव सिंहादिध्वनिमात्रेण पलायन्ते, मात्रादीनि चोपसर्पन्ति, स्तनपानाद्यर्थं प्रवर्तन्ते, वर्जयन्ति शङ्कुकण्डूयनादीनि।
ततः किमित्यत आह अस्मृताविति। तद् विज्ञानं भयादिकारणमेतदिति विज्ञानम्। पूर्वदेहास्मरणे तद्विज्ञानं कथं न भवेदित्यत आह अन्वयेति। आदिपदेन दृष्टान्तधर्मिणोर्ग्रहणम्। यद्वाऽऽदिग्रहणेनोपदेशो गृह्यते। अन्वयव्यतिरेकादेर्विस्मृताविति सम्बन्धः। न केवलमेतावत्। किन्तु तथाच अयमित्यनुसन्धानस्य च विस्मृतौ सत्यां विज्ञानं तत् कथं भवेदिति सम्बन्धः।
एतदुक्तं भवति अस्ति तावन्मृगादीनां स्तनपानादौ प्रवृत्तिः शङ्कुकण्डूयनादितो निवृत्तिश्च। ततोऽनुमीयते विद्येते तत्र तेषां रागद्वेषाविति। रागद्वेषयोरेव प्रवृत्तिकारणत्वेनास्मदादौ निर्णीतत्वात्। रागद्वेषाभ्यां चेष्टानिष्टसाधनत्वज्ञानम्। तस्यैव रागादिकारणतया निश्चितत्वात्। नच तज्ज्ञानं प्रत्यक्षसाध्यम्। कार्यकारणभावस्यातीन्द्रियत्वात्। किन्त्वनुमानोपदेशसाध्यमेव। नच मृगादीनामुपदेशः सम्भवति। अनधिकारात्। तस्मात् प्राग्भवीयोपदेश इति वाच्यम्। नचास्मृतोऽसौ तत्कारणमिति तत्स्मृतिसद्भावोऽङ्गीकार्यः। यद्वाऽनुमानम्। नच तत्, यद्यत् स्तनपानं तदिष्टसाधनं, यदिष्टसाधनं न भवति तत् स्तनपानं न भवति, यथाऽमुकम्, स्तनपानं चेदमित्यन्वयादिस्मरणेन विना भवति। नचाननुभूते स्मृतिरुत्पद्यते। नचास्मिन् जन्मन्यन्वयाद्यनुभवोऽस्ति। जातमात्राणामुदाहृतत्वात्। अतो जन्मान्तरानुभूतान्वयादिस्मरणमेष्टव्यम्।
प्राग्भवीयस्योपदेशस्यान्वयादेश्च स्मरणे पूर्वदेहस्मरणमप्यङ्गीकर्तव्यम्। समानयोगक्षेमत्वात्। नचेद् देहान्तरस्मरणं मृगादीनाम्, तदा तदविशिष्टान्वयादिस्मरणमपि न स्यात्। तदभावे चानुमानाद्यभावेन इष्टानिष्टकारणताज्ञानं नोत्पद्येत। तदनुत्पादे च रागाद्यनुत्पादात् प्रवृत्त्याद्यनुत्पत्तिरापद्येत। कारणाभावे कार्याभावस्य सुलभत्वात्। अदृष्टवशात् प्रवृत्त्यादीति चेत्, न। दृष्टातिक्रमदोषात्।
एतावांस्त्वदृष्टस्योपयोगो यज्जन्मान्तरानुभूतं सर्वमस्मरन्नेतावत् स्मरति। यादृच्छिकं प्रवृत्त्यादि भवत्विति चेत्, न। अनन्तानां तदनुपपत्तेः। अत एव मृगा इत्यादिबहुवचनम्। अस्तु जातिस्वभावोऽयम्। न। भिन्नजातीयानामप्युपलम्भात्। अत एव मृगा गाव इत्याद्युक्तम्। दृष्टातिक्रमदोषश्चापरिहार्यः। तस्मादस्ति मृगादीनां पूर्वदेहस्मरणम्। तथैव मानुषादीनामपीति सिद्धमिति।
॥ देहान्तरस्मृतेः प्रमितत्वाद् देहात्मैक्यप्रतीतेरनुपपन्नत्वम्॥
तथाऽपि किं प्रकृत इत्यत आह यदेति।
यदा देहान्तरज्ञानं देहैक्यावसितिः कुतः।
यदैवमेतद्देहवर्तिनो मम न केवलमयमेव देहः, किन्तु तत्प्रागन्योऽप्यभूदिति देहान्तरस्मरणं प्रमितम्। तदैतद्देहेन स्वस्यैक्याध्यवसायः कुतः स्यात्? किन्त्वनेकमणिष्वनुस्यूतं सूत्रमिवानेकदेहानुस्यूतमात्मानं पश्यतः स्वस्य ततोऽत्यन्तभेदावसितिरेव युक्ता। तथाच कार्ष्ण्यादीनामसंसर्गज्ञानमपि सुस्थमेव। परेण देहाद्यारोपनिबन्धनत्वाभ्युपगमात् तदारोपस्य। अहम्प्रत्ययस्तु नाऽरोप इति प्रागेवोक्तम्। (५१) अतो मम देह इति प्रत्ययो नान्यथयितव्यः, कृष्णोऽहमित्यादिश्र्चोपचारोऽङ्गीकरणीय इति।
॥ देहात्मभेदज्ञाने व्यवहाराद्यनुपपत्त्याशङ्का॥
स्यादेतत्। न मुख्यार्थानुपपत्तिमात्रादुपचारो लभ्यते। किन्तु सादृश्ये सम्बन्धे वा प्रयोजने च सति। नचात्र सादृश्यादिकमस्ति। तत् कथमयमुपचारः? किञ्च मृगादीनां पामराणां मनुष्याणां च यदि देहात्मभेदज्ञानं स्यात्, तर्हि “नैषां ममाहमिति धीः श्वसृगालभक्ष्ये” इत्यादयः पुराणादिव्यवहाराः कथं सङ्गच्छन्ते? कथञ्च देहात्मविवेकार्थानामुपदेशानामानर्थक्यं न स्यात्। देहानुकूलप्रतिकूलार्थयो रागद्वेषौ च देहात्मभेदज्ञाने सति न स्याताम्। ततश्च संसारानुपपत्तिरित्यत आह व्याप्तत्वादिति।
॥ अङ्गारवह्निवत् आत्मनो देहे व्याप्तत्वादिना व्यवहाराद्युपपत्तिः॥
व्याप्तत्वादात्मनो देहे व्यवहारेष्वपाटवात्॥६२॥
भेदज्ञानेऽपि चाङ्गारवह्निवत् स्वाविविक्तवत्।
भवन्ति व्यवहाराश्च.......................॥६३॥
भेदज्ञानेऽपि चेति चशब्दो व्यवहारेष्वपाटवाच्चेति सम्बद्ध्यते। अङ्गारवह्निवदिति। अङ्गारव्याप्तवह्नावित्यर्थः। स्वाविविक्तवत् स्वाभिन्ने स्वसंसृष्टे च यथा तथेत्यर्थः। व्यवहाराश्चेति चशब्दोऽनुक्तसमुच्चयार्थः। आत्मनो देहे व्याप्तत्वात् स्वाविविक्तवद् व्यवहारा भवन्ति इत्यनेनैकदेशत्वलक्षणं सादृश्यं सम्बन्धोऽप्यभिहितः। भेदज्ञानेऽप्यभिन्नवद् व्यवहारे किं प्रयोजनमित्यस्योत्तरम् भेदज्ञानेऽपि लोकानां व्यवहारेष्वपाटवात् स्वाविविक्तवद् व्यवहारा भवन्तीति। न प्रयोजनमुद्दिश्य लोकास्तथा व्यवहरन्ति। किन्तु विविक्तव्यवहारेषु पाटवाभावादेवेति। अपाटवे हेतुः व्याप्तत्वादात्मनो देह इति।
रूढत्वाच्चैतेषां व्यवहाराणां न प्रयोजनापेक्षेत्याशयेन उक्तम् अङ्गारवह्निवदिति। भेदज्ञानेऽप्यात्मनो देहव्याप्तत्वादङ्गारवह्निवल्लोकानां व्यवहारेषु अपाटवादत्यन्तविविक्तवेदनेष्वसामर्थ्यात् पुराणादिव्यवहाराश्च स्वाविविक्तवद् भवन्ति। विशदविवेकाभावविवक्षयैव ते व्यवहारा इत्याशयः। अत एव विवेकार्थानामुपदेशानां च सार्थक्यमुपपद्यते। विशदो हि विवेकः पुरुषार्थाय कल्पते। नत्वौत्पत्तिकः। आत्मनो देहे व्याप्तत्वादत्यन्तं प्रेमास्पदत्वाद् रागादयो युज्यन्त एवेति।
॥ उक्तार्थसमर्थनम्॥
ननु ज्ञानमेव व्यवहारकारणं तच्चेदस्ति कथन्तर्हि व्यवहारेष्वपाटवमित्यत आह नहीति।
.......................नहि प्रत्यक्षगानपि॥६३॥
अर्थान् यथाऽनुभवतः प्रतिपादयितुं क्षमाः।
लोकाः.................................॥६४॥
यथानुभवतः अनुभवानुसारेण प्रतिपादयितुं व्यवहर्तुम्। यमलयोरत्यन्तविवेकं पश्यन्तोऽपि मात्रादयः कथमेतौ विविक्ताववगन्तव्याविति पृष्टा एवमिति स्वप्रत्यक्षानुभवानुसारेण न परान् प्रतिपादयितुं क्षमन्त इत्याद्यनुभवसिद्धम्। का नामात्र कथन्ता? अथ तत्रात्यन्तसादृश्यं प्रतिबन्धकम्। तर्ह्यत्राप्यङ्गारवह्निवदात्मनो देहे व्याप्तत्वं प्रतिबन्धकमुक्तमेव।
॥ रजतादिप्रतीतेरपि प्रत्यक्षबाध्यत्वमेव, नानुमानादिबाध्यत्वम्॥
शुक्तिरजतादिप्रत्यक्षाणामनुमानादिना बाधो नास्तीत्यन्यत्रोपपादितमित्याशयवान् “क्व च प्रत्यक्षतः प्राप्तम्” इत्यादिनोक्तमुपसंहरति ततो हीति।
ततो हि प्रत्यक्षसिद्धं नान्येन केनचित्॥।६४॥
शक्यं वारयितुं क्वापि...............।
क्वचित् प्रतीतेरेवाभावात्, क्वचित् प्रतीतिसद्भावेऽपि प्रत्यक्षजत्वाभावात् क्वचित् प्रत्यक्षप्रतीतिभावेऽपि यथार्थत्वात्, क्वचिदयथार्थत्वेऽपि प्रबलप्रत्यक्षेणैव बाधादित्यर्थः। अत एव क्वापीत्युक्तम्। अन्येनेति । अनुपजीव्येनाऽगमादिनेत्यर्थः। तदेवं स्वभावतः प्रबलेन प्रत्यक्षेण विरुद्धावनुमानागमावाभासावेवेति।
॥ प्रत्यक्षस्य वर्तमानमात्रग्राहित्वात् आगामिबाधबोधकागमविरोधो नास्तीत्येतस्य दूषणम्॥
भवत्वागमादितः प्रत्यक्षं प्रबलम्, मा वा भूत्। तद्विरोधस्त्वागमादेर्नास्ति। भिन्नविषयत्वात्। तथाहि आगमादिकं खल्वागामिनं विश्वस्य बाधं प्रतिपादयन्ति, नतु अधुनातनम्। स एव च मिथ्यादिपदेन वेदनीयः। तस्य च प्रत्यक्षविरोधस्तदा स्यात्। यद्यागामिनमपि विश्वस्य बाधं प्रत्यक्षं प्रतिक्षिपेत्। नचैवम्। तस्य वर्तमानमात्रग्राहित्वेन आगामिबाधाभावग्रहणे सामर्थ्याभावात्। यथोक्तम् “सम्बद्धं वर्तमानं च गृह्यते चक्षुरादिना” इति। इदानीन्तनबाधाभावग्रहणेऽपि न विरोधः। नच भिन्नविषययोर्विरोधोऽस्ति। तथासतीदानीन्तनघटाभावग्राहिणा प्रत्यक्षेण भविष्यति घट इत्यागमादेर्विरोधः स्यादिति।
उच्यते अस्ति तावत् प्रत्यक्षं वर्तमानकालीनं बाधाभावमावेदयतीति परस्यापि सम्प्रतिपत्तिः। आगमश्च “नेह नानाऽस्ति” इत्यादिरूपो वर्तमानमेव विश्वस्य बाधं प्रतिपादयतीति कथं न प्रत्यक्षविरुद्धः? अस्तु वाऽगामिबाधबोधकत्वमागमादेः, तथाऽपि बाधो नाम त्रैकालिकसत्तानिषेधः। स च वर्तमानकालीनसत्ताग्राहिणा प्रत्यक्षेण विरुद्ध्यत एवेति तत्प्रतिपादकस्याऽगमादेः कथं न प्रत्यक्षविरोधः?
एतेनास्मत्प्रत्यक्षमस्मन्निष्ठमेव बाधं प्रतिक्षेप्तुं क्षमते न पुरुषान्तरगतमिति निरस्तम्। घटादिसत्तानिषेधरूपस्य बाधस्य तत्सत्ताग्राहिणा प्रत्यक्षेण विरोधावश्यम्भावात्।
॥ प्रत्यक्षस्य वर्तमानमात्रग्राहित्वनियमाभावः॥
तदेवं प्रत्यक्षस्य वर्तमानमात्रग्राहित्वेऽप्यागमादेस्तद्विरोधो दुष्परिहर एव। तथाऽपि प्रसक्तौ वस्तुस्थितिर्वक्तव्येत्याशयवान् प्रत्यक्षस्य वर्तमानमात्रग्राहितानियममपाकर्तुमुत्तरं प्रकरणमारभमाणः साक्षिप्रत्यक्षस्य तावत् तन्नियममपाकरोति तच्चेदिति।
॥ साक्षिणः उत्तरकालग्राहित्वे “भविष्यति मोक्षः’ इति
प्रतीत्यसम्भवात् मोक्षसाधनानुष्ठानानुपपत्तिः॥
.....................तच्चेन्नोत्तरगोचरम्।
कथमेवोत्तरः कालस्तद्गो मोक्षश्च गम्यते॥६५॥
गम्यत इति वक्ष्यमाणेन सम्बन्धः। तदिति प्रत्यक्षविशेषसाक्षिणमेवाधिकुरुते भगवान् भाष्यकारः। चेच्छब्दश्रवणात् तर्हीत्यध्याहार्यम्। नोत्तरगोचरमिति। वर्तमानमात्रगोचरमित्यर्थः। प्रमाणान्तराणां प्रागेव दूषितत्वादित्येवार्थः। (४२३) उत्तर इत्यतीतस्याप्युपलक्षणम्। येषां चाखण्ड एव कालस्तैरप्युपाधिभेदोऽङ्गीकर्तव्य एव। अन्यथा सर्वाख्यातप्रत्ययानामैकार्थ्यप्रसङ्गात्। अतः स्वाभाविको वौपाधिको वाऽस्त्युत्तरः कालः।
माऽवगाम्युत्तरः काल इदानीम्। किन्नश्छिन्नमित्यत आह तद्ग इति। कथमेवेत्यनुवर्तते। उत्तरकालानवगताविति चार्थः। गम्यते अवगम्यते। अत्रातीतस्य कण्ठतोऽसङ्कीर्तनं कैश्चिदतीतमोक्षस्य अनङ्गीकृतत्वात्। उत्तरकालानवगतौ तत्सम्बन्धितया मोक्षोऽपि नावगम्यत एव। विशेषणानवगमे विशिष्टानवगमस्य प्रसिद्धत्वात्। भविष्यति मोक्ष इत्यवगमाभावे च तदर्थः प्रयत्नो न स्यात्। मोक्षे सर्वस्य बाधो भविष्यतीत्येतदपि न स्यादिति।
॥ प्रमाणान्तरेण सामान्यतः सिद्धस्य वस्तुनः अज्ञातधर्मविशिष्टत्वेन
विशेषतो ज्ञापनमेवाऽगमसामर्थ्यम्, न पुनः स्वातन्त्र्येण पदार्थज्ञापनम्॥
शुकवामदेवादयो ज्ञानेन मुक्ता अभूवन्नहमपि मुक्तो भविष्यामीत्याद्यवगतिरागमादेव भविष्यतीति किमत्र साक्षिणोऽतीतानागतार्थगोचरत्वेनेत्यत आह आगमोऽपीति।
आगमोऽपि हि सामान्ये सिद्धे प्रत्यक्षतः पुनः।
विशेषं गमयेदेव कथं शक्तिग्रहोऽन्यथा॥६६॥
एषा खल्वागमस्य स्थितिः, यत् सामान्येऽन्वयसामान्यवति पदार्थसमूहे प्रत्यक्षतः प्रमाणान्तरेण सिद्धे सति पुनः पश्चाद् विशेषमन्वयविशेषवन्तं तमेव पदार्थसमूहं गमयेदित्येव न पुनः पदार्थानपि गमयेदिति। नद्यास्तीरे पञ्चफलानि सन्तीत्यादौ तथा दर्शनादिति हिशब्दार्थः।
॥ प्राक् पदार्थसिद्ध्यनङ्गीकारे शक्तिग्रहाभावप्रसङ्गः॥
किं प्राक् पदार्थसिद्ध्येत्यत आह कथमिति। यदि पदार्थाः प्राक् न सिद्धाः, तर्हि पदानां तेषु वाचकत्वशक्तिग्रहणं न स्यात्। अविदितविषयायाः शक्तेर्गृहीतुमशक्यत्वात्। नहि काष्ठमजानन् कुठारस्य तच्छेदनशक्तिं ज्ञातुं शक्नोति।
॥ शक्तिग्रहानङ्गीकारे वाक्यार्थावगत्यभावप्रसङ्गः॥
अस्तु पदानां शक्तिग्रहाय पदार्थज्ञानमावश्यकम्। अथ शक्तिग्रह एव किमर्थमित्यत आह अतीतेति।
अतीतानागतार्थेषु जाते शक्तिग्रहेऽखिलम्।
विशेषं ज्ञापयेद् वाक्यं न तदज्ञातशक्तिके॥६७॥
अत्रातीतानागतग्रहणं प्रकृतापेक्षम्। अखिलमपि वाक्यं पदानां पदार्थेषु वाचकत्वशक्तिग्रहे जातं एवान्वयविशेषं गमयेत्। नतु तद् वाक्यं पदार्थेषु पदसमूहेऽज्ञातशक्तिके सति विशेषं गमयेदित्यन्वयव्यतिरेकाभ्याम्, वाक्यस्य वाक्यार्थावगतौ कर्तव्यायाम्, शक्तिग्रहोऽङ्गमिति ज्ञायतेऽतोऽसावर्थनीयः। प्रकृतवाक्यानां चातीतानागतार्थसंसर्गबोधकत्वादतीतानागतार्थेषु लुङ्लृडाद्यन्तपदानां शक्तिर्ज्ञातव्येत्यर्थः।
॥ अतीतानागतसंसर्गरूपवाक्यार्थान्यथानुपपत्त्या अतीतानागतज्ञानमुपपाद्य
साक्षिणस्तद्ग्राहित्वसमर्थनम्॥
अस्तु शक्तिग्रहावश्यम्भावः किन्तु वर्तमानेष्वेवार्थेषु नातीतानागतेष्वनुपयोगादित्यत आह शक्तिश्चेदिति।
शक्तिश्चेद् वर्तमाने स्यान्नातीतानागतं वदेत्।
यदि शक्तिग्रहोऽन्यत्र कथं स स्यात् तदग्रहे॥६८॥
यदि वर्तमान एवार्थे पदानां शक्तिर्गृहीता स्यात्, तदा वाक्यमतीतानागतं अतीतानागतार्थसंसर्गं न वदेत् न प्रतिपादयेत्। सहकारिविरहात्। सर्वो द्वन्द्वो विभाषयैकवद् भवतीत्येकवद्भावः। अतीतानागतार्थेष्वित्युक्तस्याभिप्रायकथनमेतत्।
अस्त्वतीतानागतार्थेष्वपि पदानां शक्तिग्रहः। ततः किमित्यत आह यदीति। वर्तमानादन्यत्रातीतानागतयोरपि पदशक्तिग्रहो यद्यङ्गीकृतः, तदा सः अतीतानागतार्थेषु पदशक्तिग्रहः, तदग्रहेऽतीतानागतार्थाग्रहे कथं स्यात्? न कथञ्चित्। निर्विषयायाः शक्तेर्ज्ञातुमशक्यत्वात्। अतोऽतीतानागतार्थज्ञानमप्यङ्गीकार्यम्।
अयमत्र समुदायार्थः वाक्यं तावत् पदार्थसंसर्गविशेषलक्षणं वाक्यार्थमेव बोधयति, न पदार्थमात्रम्। तच्चापेक्षते पदानां पदार्थेषु वाचकत्वशक्तिग्रहम्। शक्तिग्रहश्च पदार्थग्रहम्। पदार्थग्रहश्च प्रमाणान्तरायत्तो न पदवाक्यजन्यः। इतरेतराश्रयादिदोषप्रसङ्गात्। यत्र चातीतानागतार्थसंसर्गो वाक्यार्थः, तत्रातीतानागतार्थग्रहणमावश्यकम्। शुकवामदेवादयो मुक्ता अभूवन्नहं च मुक्तो भविष्यामीत्यादिकं च तथा। तस्माल्लुङ्लृडाद्यन्तपदवाच्यानामतीतानागतकालतत्सम्बन्धिपदार्थानां च ग्रहणमागमेनोक्तार्थप्रतिपत्तिमभिलषताऽपि परेणैष्टव्यम्। नच तत् साक्षिणा विना भवतीति कथमतीतानागतार्थग्राहिणस्तस्य वर्तमानमात्रविषयत्वमिति।
॥ अतीतानगतवर्तमानकालशब्दैः कालत्वजातेरेव वाच्यत्वात् तस्याश्च वर्तमानकाल
एवावगतत्वात्, नातीताकालादिशब्दशक्तिग्रहान्यथानुपपत्त्या
साक्षिणस्तद्ग्राहित्वकल्पना युक्तेति भट्टेनाऽक्षेपः॥
मीमांसकमतानुसारेण शङ्कते सामान्यमिति।
सामान्यं दृष्टमेवासावन्यत्र गमयेद् यदि।
असाविति प्रकृतवाक्यैकदेशस्य शब्दस्य परामर्शः। सकलमपि वस्तु सामान्यविशेषात्मकम्। तत्र सामान्याकार एव शब्दवाच्यो विशेषस्तु लक्ष्य एवेति तावन्निष्टङ्कितम्। सामान्यं चातीतानागतविशेषेष्वेकमेव। तच्च वर्तमानं चक्षुरादिना दृष्टं शब्दशक्तिविषयतया अवगतमेव, अन्यत्र कालान्तरेऽपि शब्दो बोधयति। तत्र किमतीतानागतार्थज्ञानेन? विशेषाणां हि शब्दवाच्यत्वे तेषामतीतादिरूपत्वात् शक्तिग्रहणायातीतादिज्ञानमपेक्षितं स्यात्। नच लुङ्लृडादिशक्तिग्रहणायातीतानागतादिकालग्रहणमपरिहार्यमिति वाच्यम्। तत्रापि कालत्वजातेरेव वाच्यत्वात्। नहि वैशेषिकादिवन्मीमांसकानां निःसामान्यं किमप्यस्ति। अतो न शक्तिग्रहायातीतादिग्रहापेक्षेति।
॥ सामान्यस्यैव शब्दवाच्यत्वे स्वरूपत्वजातेः केनाप्यनभ्युपगमात् स्वरूपशब्दस्यावाचकत्वप्रसङ्गः॥
उत्तरमाह सामान्येति।
सामान्यवर्जितं वस्तुस्वरूपं गमयेत् कथम्।
अस्तु तावत् सर्वविशेषानुगतं नित्यं गोत्वादिसामान्यमेव गवादिशब्दवाच्यम्। सास्नादिमन्तो विशेषास्तु लक्ष्या एव। तथाऽपीदं वक्तव्यम्। स्वरूपशब्दो वस्तुस्वरूपाण्यवगमयति, नवेति। नेति पक्षेऽनुभवविरोधः। आद्ये कथं कया वृत्त्येति वाच्यम्। न तावल्लक्षणया वाच्यार्थद्वारेणैव लक्षणासम्भवात् सामान्यस्यैव वाच्यत्वात्। स्वरूपाणां च सामान्यवर्जितत्वात्। अतः स्वरूपशब्दो वस्तुस्वरूपाणां वाचक इत्येवाङ्गीकार्यमिति।
॥ सत्ताद्रव्यत्वपृथिवीत्वादिसामान्यानां घटादिवस्तुस्वरूपगत्वेऽपि तेषां स्वरूपशब्दवाच्यत्वाभावः॥
ननु सर्वसामान्यानां वस्तुस्वरूपाबहिर्भावात् सामान्यवर्जितं स्वरूपमिति कथमित्यत आह नेति।
न स्वरूपत्वसामान्यं केनाप्यङ्गीकृतं क्वचित्॥६९॥
सत्यम्। सन्ति स्वरूपे सामान्यानि। नच तानि स्वरूपशब्दवाच्यानि। नहि सास्नादिमति पिण्डे वर्तमानं पशुत्वं गोशब्दवाच्यम्। किन्तु गोत्वमेव। तदत्रापि स्वरूपशब्दस्य वाच्यं सामान्यमभ्युपगच्छता स्वरूपत्वमेवाङ्गीकर्तव्यम्। तच्च नास्ति। केनापि परीक्षकेण क्वचिदप्यनङ्गीकृतत्वात्।
॥ स्वरूपत्वजात्यभ्युपगमे बाधकोक्तिः॥
माऽङ्गीकारि केनापि स्वरूपत्वसामान्यम्। मया त्वङ्गीकरिष्यते। नहि सर्वैरङ्गीकृतमेवाङ्गीकरणीयमित्यस्ति नियमः। तथात्वे दर्शनभेदासम्भवादिति वैयात्याद् वदन्तं प्रत्याह स्वरूपं चेदिति।
स्वरूपं चेदनुगतं व्यावृत्तं तत्र किं भवेत्।
सर्वानुगतधर्माणामन्ते हि स्वत्वमिष्यते॥७०॥
किं व्यावृत्तमिति प्रश्र्ने स्वरूपमिति केवलम्।
स्यादुत्तरं ततोऽन्यच्चेत् तदेव स्वयमेव नः॥७१॥
स्वरूपमिति भावप्रधानो निर्देशः। तत्र वस्तुनि। किंशब्दः प्रश्र्ने। एवंसत्ययं प्रश्र्नो निरुत्तरः स्यादिति भावः। तत् कथमित्यत आह सर्वेति। यस्मात् सर्वेषामनुगतधर्माणामन्तेऽवसाने स्वत्वं स्वरूपत्वमिष्यते मीमांसकेन। तस्मात् किं तत्र व्यावृत्तमिति प्रश्र्ने कृते स्वरूपत्वमित्येवोत्तरं वक्तव्यं स्यात्।
एतदुक्तं भवति द्रव्येष्वत्यन्तं व्यावृत्ता धर्मा अन्त्या विशेषा इति वैशेषिकैरङ्गीकृतम्। विशेषेष्वपि विशेषान्तराङ्गीकारेऽनवस्थानात्। तत्र यथा स्वरूपत्वमेव व्यावृत्तम्, तथा द्रव्येष्वपि तदेवास्तु किं विशेषैरिति विशेषानवज्ञाय तत्स्थाने स्वरूपत्वमभिषिञ्चता मीमांसकेन किं व्यावृत्तमिति प्रश्र्नेऽन्त्या विशेषा इति वक्तुं न शक्यत एव। अपसिद्धान्तापातात्। गुणादयस्तु व्यावृत्तत्वेऽप्यनुगताधारतयाऽङ्गीकृता अनुगतकल्पा एव। अतः स्वरूपत्वमित्येव वक्तव्यम्। तस्य चेदानीमनुगतत्वाङ्गीकारे कथमयं प्रश्र्नो निरुत्तरो न भवेदिति।
ननु भेद एव व्यावृत्तो भविष्यति। तस्यानुगतेरनुगताधारतायाश्चाभावादित्यत आह तत इति एकस्य एवशब्दस्य तर्हीत्यर्थः। ततः स्वरूपत्वादन्यद् भेदलक्षणं व्यावृत्तं यद्यङ्गीक्रियते। तर्हि तदेव अस्माकं स्वयं स्वरूपम्, यदर्थं स्वरूपमुदाहृतं तत्र भेद एवोदाहरणं भविष्यतीत्यर्थः।
एतदुक्तं भवति उदाहरणस्यानादरणीयत्वाद् भेदस्तावन्निःसामान्योऽपि शब्दबोध्यो वचनवृत्त्यैव इत्यङ्गीकरणीयम्। नच वाचकः शब्दः शक्तिग्रहेण विनाऽर्थं बोधयतीति तत्र तस्य शक्तिग्रहोऽप्येष्टव्य इति।
॥ सामान्यरहितस्वरूपादीनां स्वरूपादिशब्दवाच्यत्वान्यथानुपपत्त्या स्वरूपादिशब्दानां
स्वरूपादिषु शक्तिग्रहाय तेषां सामान्यतो ज्ञानस्याङ्गीकर्तव्यता॥
ततः किं प्रकृत इत्यत आह एवमिति।
एवं व्यावृत्तरूपेऽपि यदा शक्तिग्रहो भवेत्।
तस्य सामान्यतो ज्ञानं विना स च भवेत् कुतः।
अतो विशेषसामान्यरूपं सर्वमपीष्यते॥७२॥
एवमुक्तप्रकारेण व्यावृत्तरूपे निःसामान्येऽपि स्वरूपे वा भेदे वा स्वरूपभेदादिशब्दानां वाचकत्वशक्तिग्रहो यदाऽङ्गीकृतो भवेत्, तदा स च शक्तिग्रहः, तस्य स्वरूपादेर्ज्ञानं विना कुतो भवेत्। सम्बन्धज्ञानस्य सम्बन्धिज्ञानपूर्वकत्वनियमान्न भवेदेवेति तज्ज्ञानमङ्गीकरणीयम्।
॥ सर्ववस्तुस्वरूपाणां ज्ञातत्वे सर्वसार्वज्ञ्यमाशय परिहारकथनम्॥
सर्वेषां स्वरूपाणां भेदानां च ज्ञाने च सार्वज्ञ्यमापतितमित्यत आह सामान्यत इति। सामान्यतो ज्ञानेनैव व्युत्पत्त्युपपत्तिः, विशेषतो ज्ञानाभावाच्च सार्वज्ञ्यानापत्तिरित्यर्थः।
ननु सामान्यवर्जितस्य स्वरूपादेः कथं सामान्यतो ज्ञानमित्यत आह अत इति। सर्वमपि वस्त्वस्माभिर्विशेषसामान्यरूपं व्यावृत्तरूपं सामान्यरूपं चेष्यतेऽतो न काचिदनुपपत्तिः। कुत एवमिष्यते? अतः पूर्वन्यायात्। यदि व्यावृत्तमेव स्यात्, तदोक्तप्रकारेण सार्वज्ञ्यमापद्येत शक्तिग्रहाभावो वा स्यात्। यदिच सामान्यरूपमेव भवेत् तदा व्यावृत्तबुद्ध्यनुपपत्तिरेवेति।
॥ एकस्यैव वस्तुनो विशेषबलेन व्यावृत्तानुवृत्तबुद्धिजनकत्वेन विशेषसामान्यरूपत्वम्॥
नन्विदं पूर्वोक्तविरुद्धमुच्यते। यावता प्राक् स्वरूपादिकं निःसामान्यमेवेति प्रसाध्येदानीं सर्वमपि विशेषसामान्यरूपमिष्यत इत्युच्यत इत्यत आह व्यावृत्तमिति।
व्यावृत्तं यच्च सामान्यं तदेव स्याद् विशेषतः।
नचैकधर्मता तेन पदार्थानां परस्परम्॥७३॥
यदेव व्यावृत्तं स्वरूपं तदेव विशेषबलेन सामान्यं च स्याद् यतस्तेन कारणेन पदार्थानां परस्परमेकधर्मता नास्तीति।
एतदुक्तं भवति यत् प्राक् स्वरूपभेदादौ सामान्यं नास्तीत्युक्तम्, तत् पदार्थस्वरूपाणां परस्परमनुगतैकधर्मता नास्तीत्यभिप्रायेण। तदभावेऽपि व्यावृत्तस्य स्वरूपाभिन्नस्य प्रतिनियतस्य सामान्याकारस्याभ्युपगमे विशेषसामान्यरूपं सर्वमपीष्यत इत्युक्तमिति न पूर्वोत्तरविरोधः। नचैतदयुक्तम्। एकस्यैव वस्तुनो विशेषबलेन व्यावृत्तानुवृत्तबुद्धिजनकत्वेन विशेषसामान्यरूपतोपपत्तेरिति।
॥ गोत्वादीनां प्रतिव्यक्ति भिन्नत्वसमर्थनम्॥
एवं गोत्वादिसामान्यस्यानुगतत्वमङ्गीकृत्य स्वरूपत्वादिसामान्याभावात् तत्र शब्दशक्तिग्रहार्थं तत्स्वरूपज्ञानमपेक्षितमित्युक्तम्। इदानीं गोत्वादिकमपि नानुगतमित्याह धर्माणामिति।
धर्माणां भेददृष्ट्यैव.......................।
पदार्थानां परस्परमेकधर्मता नेत्येतावदनुवर्तते। समुदायव्यतिरिक्तानां शौक्ल्यादिधर्माणां भेददृष्ट्या प्रतिधर्मिव्यावृत्तत्वदर्शनात् तद्दृष्टान्तेन गवादिपदार्थानामपि परस्परमेकधर्मता अनुगतगोत्वादिधर्मवत्ता नेत्यनुमातव्यम्। अयमत्र प्रयोगः गोत्वादिकं प्रतिव्यक्ति व्यावृत्तम्, समुदायातिरिक्तधर्मत्वात्; शौक्ल्यादिवदिति। एवशब्दः प्रतिज्ञया सम्बद्ध्यते। तेनानुगतबुद्धिबाध इति निराकरोति। अनुगतबुद्धेरन्यथैवोपपादितत्वात्। (७२८)
॥ रूपादीनामप्यनुवृत्तत्वोक्तिप्रत्याख्यानम्, उक्तार्थोपसंहारश्च॥
अथवा यथान्यासमेवास्तु सम्बन्धः। प्राभाकरा मन्यन्ते रूपादयोऽपि धर्मा अनुवृत्ता एव नतु प्रतिव्यक्ति भिद्यन्ते। अतः साध्यविकलतेति। तन्निरासाय भेददृष्ट्यैवेत्युक्तम्। अन्यथा भेदादित्येवावक्ष्यत्। शौक्ल्यादेर्व्यावृत्तत्वेऽनुवृत्तप्रत्ययो विरुद्ध्येतेत्यत आह तदिति।
..................... तत्सादृश्यस्य दर्शनात्।
अतः सर्वे पदार्थाश्च सामान्यात् साक्षिगोचराः।
सर्वमित्येव विज्ञानं सर्वेषां कथमन्यथा॥७४॥
शौक्ल्यमिदं शौक्ल्यमिदमिति प्रतीतौ हिमशौक्ल्यसादृश्यमेव हिमांशुशौक्ल्ये प्रतीयते, नतु तेनैक्यमित्यतो न विरोधः। मा भूदनुगतं सामान्यं ततः किं प्रकृत इत्यत आह अत इति। अनुगतसामान्याभावेनातीतानागतवर्तमानव्यक्तीनामेव वाच्यत्वादगृहीतशक्तीनां च पदानामबोधकत्वात् शक्तिग्रहणस्य च पदार्थज्ञानेन विनाऽसम्भवाद् विशेषतो ज्ञाने सार्वज्ञ्यापत्तेरित्यर्थः। सर्व इति। वर्तमानातीतानागताः। अस्त्वतीतादिज्ञानापेक्षा शक्तिग्रहस्य।
॥ अतीतकालादेरानुमानिकत्वनिरासः॥
तच्च साक्षिणेति कुत इत्यत आह सर्वमिति। एवशब्दो विशेषाकारव्यवच्छेदार्थः। प्रमाणान्तराभावादिति भावः। अनुमानेनातीतादिसर्वसामान्यज्ञानं भविष्यतीत्यस्य चेदमुत्तरम्। अतीतानागतवर्तमानं सर्वमपि लिङ्गमनेन साध्येन व्याप्तमिति ज्ञानापेक्षं खल्वनुमानम्। नचैतज्ज्ञानं साक्षिणा विना सम्भवतीति।
॥ अतीतकालादेः साक्षिगृहीतत्वानभ्युपगमे सर्वानुमानोच्छेदप्रसङ्गः॥
यद्वा साक्षिणोऽतीतादिसर्वसामान्याकारगोचरत्वे प्रमाणान्तरमेवानेनोच्यते। अतीतादिकं सर्वं धूमादि तथाविधेनाग्न्यादिना व्याप्तमिति ज्ञानपूर्वकं खल्वनुमानम्। तथाच साक्षिणोऽतीतादिगोचरत्वाभावेऽन्यस्य तथाविधस्याभावादनुमानमात्रोच्छेदः स्यादिति।
॥ “सर्वम्’ इति प्रत्ययान्यथानुपपत्त्या साक्षिणः सामान्यतः सर्ववस्तुग्राहित्वसिद्धिः॥
किञ्चास्ति तावत् सर्वेषां सर्वशब्दशक्तिग्रहः। अन्यथा “सर्वं खल्विदं ब्रह्म” इति व्यवहारविलोपप्रसङ्गात्। शक्तिग्रहश्चार्थग्रहापेक्ष इति सर्वेषां सामान्यतः सर्वमिति ज्ञानमङ्गीकार्यम्। साक्षिणश्च अतीतादिसर्वगोचरत्वाभावे तन्न स्यादिति।
॥ सामान्यानभ्युपगमेऽपि सादृश्येनैव व्युत्पत्त्यादिसिद्धिः॥
नन्वनुगतसामान्याभावे व्यक्तीनामानन्त्याद् व्यभिचाराच्च शब्दशक्तिग्रह एव न सङ्गच्छते। कुतस्तदन्यथानुपपत्त्या साक्षिणोऽतीतादिगोचरत्वसिद्धिरित्यत आह किञ्चिदिति।
किञ्चित्सादृश्यविज्ञानादखिलस्यापि वस्तुनः।
शब्दशक्तिग्रहश्च स्यात् तत्तत्सादृश्यमानतः॥७५॥
तदेतद् वैशेषिकपरीक्षायां व्याख्यातप्रायम्। (७२८) नन्वेवंसति गोशब्दस्य गवयेऽपि शक्तिं गृह्णीयात्। सादृश्यसद्भावादित्यत आह तत्तदिति। पूर्वेणान्वयः। न यत्किञ्चित्सादृश्यज्ञानं शब्दशक्तिग्रहणकारणम्। किन्त्वतिव्याप्तिविधुरम्। यथा गोशब्दे सास्नादिमत्त्वमेवमन्यत्रान्यदिति भावः। एतेन पूर्वः किञ्चिच्छब्दो व्याख्यातो भवति।
॥ मानसप्रत्यक्षस्य वर्तमानमात्रग्राहित्वनियमनिरासः॥
एवं साक्षिप्रत्यक्षस्य वर्तमानमात्रग्राहित्वमपाकृत्य मानसप्रत्यक्षस्यापि तदपाकरोति प्रत्यक्षमिति।
प्रत्यक्षं मानसं चैव यदाऽतीतार्थगोचरम्।
तदा स्मृतिप्रमाणत्वमतीतत्वविशेषितम्॥७६॥
मानसं प्रत्यक्षं चातीतार्थगोचरमेव यत् स्मृतिकारणमिति। यदेत्युत्तरवाक्ये सम्बद्ध्यते। पूर्वानुभवानधिकविषयायाः स्मृतेः प्रामाण्यमेव दुर्लभम्, कुतो मानसप्रत्यक्षजत्वमित्यत आह यदेति। यदा यस्मात् अतीतत्वविशेषितमर्थं स्मृतिर्विषयीकरोतीति शेषः। तदा तस्मात् स्मृतिप्रमाणत्वं सिद्धम्।
॥ स्मृतेरनधिगतार्थगन्तृत्वाद् यथार्थत्वाच्च प्रामाण्यमङ्गीकार्यम्॥
अतीतत्वविशेषितार्थविषयत्वेऽपि कथं स्मृतेः प्रमाणत्वमित्यत आह आधिक्यमिति।
आधिक्यमनुभूतात्तु यदाऽतीतत्वमिष्यते।
मानता च कथं न स्यात् स्मृतेर्बाधश्च नात्र हि॥७७॥
यस्मात् स्मृतिविषयीकृतमतीतत्वं वर्तमानतयाऽनुभूतार्थादाधिक्यमिष्यते सर्वैः, तस्मात् स्मृतेर्मानता कथं न स्यात्? मानत्वे च मानसप्रत्यक्षजत्वं कथं न स्यादिति चार्थः।
अपिचानधिगतार्थगन्तृत्वं प्रमाणलक्षणमङ्गीकृत्येदं स्मृतेरनुभवाधिकविषयत्वं व्युत्पादितम्। वस्तुतस्तु नेदं लक्षणम्। किन्तु यथार्थत्वमेव। तच्चास्ति स्मृतेरनुभवसिद्धम्। बाधकप्रत्यये हि सति तन्न भवेत्। नचासावत्रास्तीत्याह बाधश्चेति।
॥ चाक्षुषप्रत्यक्षादीनामपि वर्तमानमात्रग्राहित्वनियमनिरासः॥
चाक्षुषादिप्रत्यक्षेऽपि न वर्तमानमात्रग्राहित्वनियम इति भावेनाऽह मानत्वमिति।
मानत्वं प्रत्यभिज्ञाया अपि सर्वानुभूतिगम्।
अतीतवर्तमानत्वधर्मिणी सा च दृश्यते॥७८॥
सर्वेऽपि हि परीक्षकास्तद्बलेनाऽत्मादेः स्थायित्वं साधयन्ति। ततः किं प्रकृत इत्यत आह अतीतेति। अतीतत्ववर्तमानत्वधर्मविशिष्टार्थविषयेत्यर्थः। दृश्यते साक्षिणा। सोऽयमिति हि प्रत्यभिज्ञाकारोऽनुभूयते। सा च चक्षुरादिनैव जायत इति भावः।
॥ प्रत्यभिज्ञाया स्मृत्यनुभवलक्षणज्ञानद्वयरूपत्वस्य, स्मृत्यनुभवात्मकैकज्ञानरूपत्वस्य च निरासः॥
अथ मतम् प्रत्यभिज्ञायां चत्वारः पक्षाः सम्भवन्ति अनुभव एवेति वा, स्मृतिरेवेति वा, स्मृत्यनुभवरूपं ज्ञानद्वयमिति वा, एकमेव ज्ञानमंशे स्मृतिः अंशेऽनुभव इति वेति। तत्र न तावदाद्यः, तथात्वे ह्ययमित्येव स्यात्, नतु स इति। नापि द्वितीयः, तथासति स इत्येव स्यात्, नत्वयमिति। वक्ष्यमाणो दोषश्च स्यात्। अत उत्तरं पक्षद्वयमेवाङ्गीकरणीयम्। तथाच स इत्यंशस्य स्मृतित्वान्न चाक्षुषादिप्रत्यक्षस्यातीतविषयत्वमित्यत आह नचेति।
नच सा स्मृतिमात्रार्धा तदिदन्त्वग्रहैकतः।
अतो न वर्तमानैकनियमः स्याद् ग्रहेऽक्षजे॥७९॥
स्मृतिरेव मात्रा स्मृतिमात्रा। स्मृतिमात्राऽर्धं यस्याः सा तथोक्ता। स्मृत्यनुभवरूपैकदेशसमुदायरूपा तथा स्मृत्यनुभवात्मकैकज्ञानरूपा च नेत्यर्थः। कुतो नेत्यतः प्रथमप्रतिज्ञायां हेतुमाह तदिदन्त्वेति। तत्त्वेदन्त्वग्रहयोरेकत्वानुभवात्। ग्रहग्रहणेनानुभवत्वं सूचयति। द्वितीयप्रतिज्ञायां हेतुमाह तदिदन्त्वेति। तत्त्वेदन्त्वग्रहस्यैकत्वान्निरंशत्वात्।
एतदुक्तं भवति प्रत्यभिज्ञा न स्मृतिरेवेति परेणाप्युक्तम्। नापि ज्ञानद्वयरूपा। तत् तावत एवेदन्तायां मानाभावप्रसङ्गेन क्षणभङ्गभङ्गासिद्धेः। नच स्मृत्यनुभवरूपमेकमेव ज्ञानम्। एकत्वे द्विरूपताविरोधात्। तस्मादनुभवरूपमेकमेव विज्ञानं संस्कारसचिवेन चक्षुरादिना जातत्वात् सोऽयमित्याकारं भवति। यथा खलु शुक्लहरितपीतादिरूपाणां चित्ररूपारम्भकत्वम्। यथा वा दोषसहकृतानामिन्द्रियाणां विपर्ययहेतुत्वम्, तथा संस्कारसचिवानामिन्द्रियाणां प्रत्यभिज्ञाहेतुत्वं भविष्यतीति को दोषः? नच संस्कारस्य स्वतन्त्रस्य ज्ञानहेतुत्वम्। स्मृतेर्मानसप्रत्यक्षजत्वाङ्गीकारादिति।
“तच्चेन्नोत्तरगोचरम्” इत्यादिनोक्तमर्थमुपसंहरति अत इति। वर्तमानैकनियमः वर्तमानमेकमेव विषयीकरोतीत्येवंरूपो नियमः।
॥ ज्ञातताया आगमप्रमाणकत्वनिरासः॥
प्रमाणप्रमेयप्रमातृभेदं विश्वमबाध्यमिति यदुक्तं तदुपसंहरिष्यन्नर्थगताया ज्ञातताप्राकट्यसमाख्यायाः प्रमितेश्चतुर्थ्या विद्यमानत्वात् कथं त्रिविधं विश्वमित्याशङ्कां तावत् परिहरति नचेति।
नच प्रमाणतोऽन्या स्यात् प्रमितिर्नाम कुत्रचित्।
मानाभावाद् गौरवाच्च कल्पनायाः किमेतया॥८०॥
प्रमितिर्नाम वस्तु नास्त्येव, तत्र मानाभावात्। ननु कथं मानाभावः? “प्रमाता च प्रमेयं च प्रमाणं प्रमितिस्तथा” इत्यादेरागमस्य विद्यमानत्वादित्यत उक्तम् प्रमाणतोऽन्येति। द्विविधं प्रमाणम् करणम्, फलं च। तत्र प्रमाणशब्देन करणमभिधाय प्रमितिशब्देन फलरूपप्रमाणमेव उच्यते। नतु ततोऽन्या प्रमितिरिति।
॥ ज्ञातताया अन्यथानुपपत्तिसिद्धत्वनिरासः॥
अस्ति तावदर्थज्ञानयोर्विषयविषयिभावनियमः। नचासौ सत्तया, कारणत्वेन वा, अतिव्याप्तेः। नापि तादात्म्यसारूप्याभ्याम्, असम्भवात्। यत्र ज्ञाने योऽर्थोऽवभासते तस्यासौ विषय इत्यत्र सप्तम्यर्थानुपपत्तिः। तस्माद् येन यस्यातिशय उत्पद्यते तत्रासौ विषय इत्यङ्गीकार्यम्। तथाचार्थस्य विषयत्वसिद्धये ज्ञानजन्योऽर्थगतोऽतिशयः सर्वथाऽङ्गीकार्य इति कथं मानाभावः?
मैवम्। तथासत्यतीतानागतयोर्ज्ञानविषयताभावप्रसङ्गात्। नह्यसति धर्मिणि तत्र धर्मोत्पत्तिः सम्भवति। अथ करणसम्बन्धात् तत्र विषयत्वमित्युच्यते तर्हि वर्तमानेऽपि तथासम्भवान्न ज्ञातता कल्पनीयेति। तदिदमुक्तम् कुत्रचिदिति। अतीतादिवद् वर्तमानेऽपि नास्तीत्यर्थः।
किञ्च ज्ञानं स्वविषये ज्ञाततामुपजनयति, यत्रक्वचिद् वा? द्वितीयेऽतिप्रसङ्गः। आद्ये ज्ञाततोपजननात् प्रागेवार्थस्य विषयत्वसिद्धेर्व्यर्थं तत्कल्पनमित्याह किमेतयेति।
॥ ज्ञाततायं ज्ञातताङ्गीकारे कल्पनागौरवम्,॥
अपिच ज्ञाततायामपि ज्ञाततोत्पादोऽङ्गीक्रियते, नवा? नेति पक्षे ज्ञानविषयत्वं न स्यात्। आद्येऽनुभवानारूढं ज्ञातताप्रवाहमङ्गीकुर्वाणस्य कल्पनागौरवं स्यादित्याह कल्पनाया गौरवाच्चेति। अथ ज्ञातता ज्ञाततान्तरमन्तरेणैव विषय इति कल्प्यते, तदाऽपि कल्पनागौरवमेव।
एतेन ज्ञानं स्वविषये किञ्चित् करोति, क्रियात्वात्; गमनवदित्यनुमानमपि निरस्तम्। ज्ञानमात्रपक्षीकारेऽतीतानागतज्ञातताज्ञानेषु बाधात्। अन्यथा तत्रैव व्यभिचारादिति।
॥ ज्ञाततायाः प्रत्यक्षत्वनिरासः॥
ननु ज्ञातो घटः, प्रकटो घट इत्यर्थविशेषणतया ज्ञातता प्रत्यक्षमीक्ष्यत इत्यत आह मयेति।
मयैतज्ज्ञानमिति तु साक्षिगं ज्ञानगोचरम्।
ज्ञानमेव ..............................॥८१॥
ज्ञानमेव मयैतज्ज्ञानमिति ज्ञानगोचरम्। क्रिया हि कर्तृस्थैव यदा कर्तृप्राधान्येन व्यवह्रियते, तदा कर्तृधर्मतया प्रतीयते। यथा देवदत्तो घटमिच्छति द्वेष्टीति। यदातु कर्मप्राधान्येन तदा तद्धर्मतया। यथेष्टो द्विष्ट इति। यदा पुनः स्वप्राधान्येन तदा स्वतन्त्रैव। यथेच्छा द्वेष इति। एवमात्मगतमेव ज्ञानं विषयधर्मतयाऽवभासत इति किमनुपपन्नम्?
ननुच ज्ञानं तावन्न प्रत्यक्षम्। तथाहि न तावत् पूर्वभाविनो ज्ञानस्य ज्ञानं विषयः। तथासति ज्ञास्यामीत्येवं स्यात्, नतु जानामीति। नाप्यागामिनः। तथात्वे ह्यज्ञासिषमित्येव स्यात्। नच सहभाविज्ञानान्तरमस्ति। ततो ज्ञाततालक्षणकार्येणैवानुमातव्यमिति कथं सा नाभ्युपगम्यत इत्यत उक्तम् साक्षिगमिति। साक्षिणो नित्यत्वान्नोक्तदोषः। स च स्वप्रकाश इति।
॥ ज्ञातताया अप्रामाणिकत्वम्॥
अनुपलम्भबाधिता च ज्ञाततेत्याह ततोऽन्येति।
......... ततोऽन्या न प्रमितिर्नाम दृश्यते॥८१॥
प्रथमज्ञाने हि शुद्ध एवार्थो ज्ञायते न ज्ञातताविशिष्टः। तदानीं तस्या अजातत्वात्। तामुत्पाद्य पुनस्तद्विशिष्टमर्थं विषयीकरोतीति पक्षे विरम्य व्यापारप्रसङ्गात्। नच प्रथमज्ञानविषयीकृतादधिकोऽर्थ उत्तरज्ञानेषु चकास्ति। ज्ञात इत्यत्र तु ज्ञानं विषय इत्युक्तमेवेति।
॥ प्रमाणप्रमातृप्रमेयभेदेन त्रिविधस्य विश्वस्य अबाध्यत्वप्रतिपादनोपसंहारः॥
इदानीमीशतज्ज्ञानेत्यादिनोक्तमर्थमुपसंहरति मानेति।
मानमातृप्रमेयाणां तदुच्छित्तिर्नहि क्वचित्।
स्वाप्नानामपि चैतेषां न बाधो दृश्यते क्वचित्॥८२॥
जाग्रत्त्वमात्रमत्रैकमन्यथा दृश्यते स्फुटम्।
अतो मिथ्या नच स्वप्नो जाग्रद्वत्.......॥८३॥
तत् तस्मान्मानादिभेदेन त्रिविधमेव विश्र्वं तस्य क्वचिदप्युच्छित्तिर्बाधो नास्त्येवेत्यर्थः। प्रकृतमुपसंहरन् स्वप्नस्य मिथ्यात्वं हेत्वन्तरेण दूषयति स्वाप्नानामपीति। चो हेतौ। यस्मात् स्वाप्नानामप्येतेषां मानमातृप्रमेयाणां क्वचित् काले न बाधो दृश्यते, अतः स्वप्नो मिथ्या नैवेति सम्बन्धः। न केवलं बाह्यप्रपञ्च इत्यपेरर्थः।
स्वप्नादुत्थितस्य नात्र गजोऽभूदित्यादिना बाधदर्शनात् कथमेतदित्यत आह जाग्रत्त्वमात्रमिति। अन्यथा अविद्यमानत्वेन। व्याख्यातप्रायमेतत्। (९२५) यत्तूक्तं रथोऽयमित्यादि, तत्परिणामितामावेदयति, न बाधमिति वक्ष्यते। (१००२) “न तत्र रथा” इत्यादिश्रुतिस्तु तत्प्रागभावम्।
॥ स्वाप्नानां मिथ्यात्वसाधकभ्रान्तिविषयत्वबाधविषयत्वहेत्वोर्दूषणम्॥
ननु स्वाप्नपदार्थानां जाग्रत्त्वं यदि भ्रमसिद्धम्, बाधितं च, तदा तेषां मिथ्यात्वमवर्जनीयम्। स्वाप्नगजादयो मिथ्या, भ्रमविषयत्वात्, बाधविषयत्वाच्च; शुक्तिरजतवदित्यनुमानादिति चेत्, किमिदं भ्रमविषयत्वमारोप्यतया वा, आरोपाधिष्ठानतया वा, साधारणं वा? तथा बाधविषयत्वमपि किं निषेध्यतया, उत निषेधाधिकरणतया, अथ साधारणम्? उभयत्रापि द्वितीयतृतीययोर्दोषमाह जाग्रद्वदिति। जाग्रता दृष्टं शुक्त्यादिकं यथा तथेत्यर्थः। यथा शुक्तिकादेरारोपबाधाधिष्ठानत्वेऽपि न मिथ्यात्वम्, तथा स्वाप्नानामपीत्यनैकान्त्यमित्यर्थः।
॥ भ्रान्तिबाधविषयत्वमात्रस्य मिथ्यात्वासाधकत्वम्॥
ननु जागरोपलब्धस्य शुक्त्यादेरप्यनेनैव हेतुना मिथ्यात्वमस्माकं सिषाधयिषितमेवेति कथं तत्रानैकान्तिकत्वमित्यत आह जाग्रदिति।
...............................जाग्रदेव च॥८३॥
आत्मवत् क्वचिदात्मा च स्यादेव भ्रमगोचरः।
एतावता न मिथ्याऽसौ स्वप्ने जागरिते तथा॥८४॥
एवन्तर्हि जाग्रत् स्वप्नश्चाऽत्मवन्नैव मिथ्येत्यर्थः। तद् विवृणोति क्वचिदिति। क्षणिकोऽहमित्यादि भ्रमगोचरः। उपलक्षणं चैतत्। न क्षणिकोऽहं स्थिर एवेति बाधगोचरश्चेत्यपि द्रष्टव्यम्। स्वप्ने जागरिते तथेति। तत्रोपलब्धाः पदार्था अपि न मिथ्येत्यर्थः। उभयपक्षीकारेणानुमानस्याऽत्मनि व्यभिचारोऽपरिहार्य इति।
ननु क्षणिकत्वादिना प्रतिपन्न आत्माऽपि मिथ्येति कथं तत्र व्यभिचार इति चेत्। किं क्षणिकत्वादेरारोपितस्य मिथ्यात्वादेवमुच्यते, उताऽत्मस्वरूपस्यैव? द्वितीये त्वपसिद्धान्तः स्फुट एव। आद्यमाशय दूषयति यदीति।
यद्यात्मन्यन्यथा दृश्यं भ्रान्तमत्रापि तद् भवेत्।
एवन्तर्ह्यारोपिताकारस्य मिथ्यात्वं साध्यमित्युक्तं स्यात्। तथाच सिद्धसाधनत्वम्, जाग्रत्स्वप्नावगतार्थेष्वारोपिताकाराणां मिथ्यात्वस्यास्माभिरप्यङ्गीकारात्।
॥ स्वाप्नादेरारोप्यतया निषेध्यतया वा भ्रान्तिबाधविषयत्वाभावः॥
आरोप्यतया, निषेध्यतया वा भ्रान्तिबाधविषयत्वं हेतुरित्याद्यपक्षे दोषमाह अबाधितेति।
अबाधितानुवृत्तेस्तु स्वाप्नादेर्भ्रान्तता कुतः॥८५॥
जाग्रत्त्वादे रजतत्वादेश्च बाधादुत्तरमप्यबाधितत्वेन गजादेः शुक्त्यादेश्चानुवृत्तेः स्वप्नादेरुक्तविधा भ्रान्तता बाध्यता च कुतः? तथाच स्वरूपासिद्धिः। यथा खलु बाधोत्तरकालमप्यनुवर्तमान आत्मा नाऽरोप्यो, नापि बाध्यः। तथा स्वप्नजागरावपि। तयोरप्यद्राक्षमेवाहं गजमित्याद्यनुवृत्तेरिति।
॥ साधकाभावाद् बाधकसद्भावाच्च स्वाप्नजागरयोर्मिथ्यात्वानुमानमेवानुपपन्नम्॥
अनुकूलप्रमाणाभावात् प्रतिकूलप्रमाणभावाच्च भ्रान्तिविषयत्वादिहेतुना जाग्रत्स्वप्नयोर्मिथ्यात्वानुमानमनुपपन्नमित्याह नचेति।
नच काचित् प्रमा विश्वभ्रान्तत्वे सर्वमेव च।
अभ्रान्तत्वे प्रमाणं तु कथं तद्भ्रान्तता भवेत्॥८६॥
विश्वमित्युभयविधं विवक्षितम्। भ्रान्तत्वे मिथ्यात्वे। यद्वा भ्रान्तिविषयत्वादिहेतुद्वयस्यासिद्धिं प्रकारान्तरेण साधयितुमिदं वाक्यम्। भ्रान्तत्व इति बाध्यत्वस्याप्युपलक्षणम्। यतस्तस्मादित्युपस्कर्तव्यम्। तद्भ्रान्तता तस्य द्विविधस्यापि विश्वस्य भ्रान्तिविषयता।
॥ विश्वभ्रान्तत्वसाधकमतस्यापि विश्र्वान्तःपातित्वेन भ्रान्तत्वाद् विश्वसत्यत्वसिद्धिः॥
दृश्यत्वादिहेतुना स्वप्नजागरयोर्भ्रान्तत्वादिसाधनात् कथमसिद्धिरित्याशङ्कां परिहर्तुं भ्रान्तत्वं प्रकारान्तरेण दूषयति किञ्चेति।
किञ्च भ्रान्तत्ववादी स भ्रान्तत्वं स्वमतस्य च।
अङ्गीकरोति नियतं तत्र सम्प्रतिपन्नता॥८७॥
वादिनोस्तेन चाभ्रान्तं विश्वमेव भविष्यति।
भ्रान्तत्वभ्रान्तता चेत् स्यात् कथं नाभ्रान्तिसत्यता॥८८॥
भ्रान्तत्ववादी दृश्यत्वादिना द्विविधस्यापि विश्वस्य भ्रान्तत्वादिकं साधयन्। स्वमतस्येति। स्वप्रतिज्ञातार्थस्य। नियतमिति। अन्यथा तत्रानैकान्त्यापत्तेरिति भावः। न केवलं परेण स्वव्याप्तिसिद्धये स्वप्रतिज्ञातार्थस्य भ्रान्तत्वादिकमङ्गीकरणीयम्। किन्तु वयमपि तदङ्गीकुर्म इत्याह तत्रेति। परप्रतिज्ञातार्थस्य भ्रान्तत्वादौ वादिनोः वादिप्रतिवादिनोः। एतच्च वक्ष्यमाणानुमानस्यान्यतरासिद्धिनिरासार्थमिति बोद्धव्यम्। ततः किमित्यत आह तेन चेति। न केवलमुक्तप्रमाणैः किन्तु विश्वभ्रान्तत्वादेर्भ्रान्तत्वादिहेतुना च विश्वमभ्रान्तमेव तथाऽबाध्यमेव भविष्यति। तत्र व्याप्तिं सूचयति भ्रान्तत्वेति। तदेतौ प्रयोगौ भवतः विश्वमभ्रान्तम्, भ्रान्तभ्रान्तत्वात्; तथा विश्वमबाध्यम्, बाध्यबाध्यत्वात्; आत्मवदिति।
॥ मायावादिनैव स्वमतस्य हेयत्वाङ्गीकारात्, अशेषदोषदुष्टत्वाच्च प्रेक्षावदनुपादेयत्वम्॥
अपव्याख्यानदूषणस्य प्रयोजनमाह अशेषेति।
अशेषदोषदुष्टं तन्मतं हेयं बुभूषुभिः।
येन स्वमतहेयत्वं स्वयमङ्गीकृतं सदा।
भ्रान्तित्वाद् दुर्घटत्वस्य भूषणत्वाच्च केवलम्॥८९॥
उन्मत्तोऽपि कथं तस्य मतं स्वीकर्तुमिच्छति।
ईशशक्तेरचिन्त्यत्वान्महोन्मत्तैः प्रवर्तितम्॥९०॥
तन्मतमिति। स्वाप्नजागरप्रपञ्चस्य मिथ्यात्वं प्रतिपादयन्मतम्।
स्यादेतत्। विश्वस्य भ्रान्तत्वादिकमिवाभ्रान्तत्वादिकमपि मिथ्या किं न स्यात्? नचैतदघटितं दुर्घटत्वस्य भूषणत्वादित्याशङ्कां परिहरन् मन्दमेतदस्मदीयं तन्मतहेयताव्युत्पादनमुपादानप्रसक्तेरभावादिति सोल्लुण्ठमाह येनेति। भ्रान्तित्वाद् भ्रान्तिविषयत्वेनाङ्गीकृतत्वात्। दुर्घटत्वस्य भूषणत्वात् भूषणत्वेनाङ्गीकृतत्वाच्च। केवलमुन्मत्तोऽपि साक्षादुन्मत्तोऽपि न पुनरुन्मत्तकबीजाद्यदनेनोन्मत्तः। नह्युन्मत्तः स्वमतं भ्रान्तं दुर्घटं चेति स्वयमेव मन्यते। तर्हि कथं लोके प्रवृत्तमित्यत आह ईशेति। महोन्मत्तैरिति हेत्वन्तरम्।
॥ सौत्रमायाशब्दस्य जीवप्रज्ञाईश्वरप्रज्ञापरत्वम्॥
सूत्रव्याख्यानमुपक्रम्यापव्याख्यानस्य हेयताव्युत्पादनमसङ्गतमित्यतः स्वव्याख्यानदार्ढ्यार्थमित्याशयवानुक्तं सूत्रार्थं विवृण्वन् मायाशब्दार्थं तावदाह अत इति।
ॐ मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् ॐ॥३॥
अतः प्रज्ञाऽत्र मायोक्ता जैव्युपादानमेव सा।
निमित्तमैश्वरी मुख्या .......................॥९१॥
अन्यथाव्याख्यानस्य दुष्टत्वात् “माया वयुनमभिरख्या” इति प्रज्ञानामसु पाठादिति भावः। मायायाः सन्ध्यकारणत्वं वक्ष्यते। (९९९) तत्र जैवी प्रज्ञा कीदृशं कारणमित्यत आह उपादानमेवेति। सन्ध्यस्येति शेषः। न केवलं जैवी प्रज्ञाऽत्र माया। किन्त्वैश्वरी च। सा च सन्ध्यस्य निमित्तमेवेत्याह निमित्तमिति।प्रज्ञाशब्दश्चात्र लाक्षणिको वासनार्थ इति वक्ष्यति। (१०००) तच्च व्याख्यानं नोभयसाधारणमित्याशयेनोक्तम् मुख्येति। ईश्वरप्रज्ञा मुख्यैव जीवप्रज्ञा तु लाक्षणिकी।
॥ मायामात्रशब्दस्य जीवप्रज्ञोपलक्षितवासनोपादानकत्वम्,
ईश्वरप्रज्ञानिमित्तकत्वम्, ईश्वरप्रज्ञानियमितत्वं चार्थः॥
मायामात्रपदं व्याख्याति निर्मितमिति।
..........................निर्मितं त्रातमेव च॥९१॥
ताभ्यां सह पृथक् चैव मायामात्रमितीर्यते।
उभाभ्यां मातमैश्वर्या त्रातं सह पृथक् ततः॥९२॥
ताभ्यामेवेति सम्बन्धः। तेन तुशब्दो व्याख्यातो भवति। यथासङ्ख्येनान्वयपरिहारार्थमुक्तम् सह पृथगेवेति। चशब्दस्तस्मादित्यर्थे। ईर्यते सन्ध्यमिति शेषः।
सह पृथगित्युक्तं विवृणोति उभाभ्यामिति। जीवेश्वरप्रज्ञाभ्यां मातं निर्मितमैश्वर्या प्रज्ञया त्रातं यस्मात् ततः सह पृथगित्युक्तम्। धातुसमुदायात् “आतोऽनुपसर्गे कः” इति कः। “अदिभूभ्यां डुतच्” इति यथा। यद्यप्येकस्मादेव धातोस्त्रप्रत्ययः शक्यः कर्तुम्, तथाऽप्यधिकार्थलाभायैवं कृतम्। सौत्रत्वान्निर्देशस्य कर्मणि प्रत्ययः। घञर्थे कविधानमिति वा।
॥ प्रज्ञावासनयोरुभयोरपि मनउपादानकत्वं वासानायाः प्रज्ञाशब्दोपलक्षितत्वे सम्बन्धः॥
नन्विदं पूर्वापरविरुद्धम्। पूर्वं हि जीववासनोपादानकं सन्ध्यमित्युक्तम्। इदानीं तु प्रज्ञोपादानकमिति। मैवम्। प्रज्ञाशब्दस्य वासनोपलक्षणत्वात्। अथ प्रज्ञाया वासनायाश्च कः सम्बन्धो येन लक्षणा स्यादित्यत आह प्रज्ञात्मकमिति।
प्रज्ञात्मकं मनो येन मनोरूपाश्च वासनाः।
धीर्भीरिति मनस्त्वेवेत्याह च श्रुतिरञ्जसा॥९३॥
येन कारणेन मनः प्रज्ञात्मकं प्रज्ञोपादानं, वासनाश्च मनोरूपा मनउपादानकाः। तेनैतयोरेककारणत्वलक्षणसम्बन्धेन लक्षणोपपद्यत इति शेषः।
प्रज्ञावासनयोर्मन उपादानमित्येतत् कुत इत्यत आह धीरिति। श्रुतावितिशब्द आद्यर्थः। तेन वासनाया अपि मनोविकारत्वं लभ्यते। इति त्विति सम्बन्धः। इति श्रुतिश्च शब्दादन्या चाऽह प्रज्ञादेर्मनोविराकत्वम्। अञ्जसा स्पष्टम्।
एतेनाऽत्मकार्यत्वं वदन्तो निरस्ता भवन्ति। बाह्यार्थज्ञानस्य तदानीमभावादसतश्र्चोपादानत्वानुपपत्तेः मुख्यार्थत्यागः। यदिच वासनामात्रमिति मुख्य एव प्रयोगः क्रियेत, तदेश्वरप्रज्ञा न सङ्गृहीता स्यात्। पृथगुभयग्रहणे च गौरवं स्यात्। अतो मुख्यामुख्यविवक्षयोभयस्य लाघवेन ग्रहणाय मायामात्रमित्युक्तम्। अत एव मायैव मायामात्रमिति न व्याख्यातम्। सन्ध्यस्य निमित्तकारणभूतयेश्वरप्रज्ञया तादात्म्याभावात्।
॥ लक्षणायां उक्तसम्बन्धस्यैवाऽदरीणयत्वे निमित्तम्॥
ननु प्रज्ञावासनयोरस्ति कार्यकारणभावः सम्बन्धः। स एव लक्षणबीजमस्तु। किं द्वयोर्मनःकार्यत्ववर्णनेनेत्यत आह चिदिति।
चिदचिन्मिश्रमेवैतन्मनो यावच्च संसृतिः।
तेनावस्था इमाः सर्वा जीवः पश्यति सर्वदा॥९४॥
न केवलं स्वप्नं किन्त्विमाः सांसारिकीः सर्वा अप्यवस्थाः, तेन मनसैव सर्वदा जीवः पश्यति। अतः प्रधानत्वात् तद्द्वारक एव सम्बन्ध आदरणीयो नापरः।
॥ मनसः चिदचिद्रूपत्वम्॥
मनश्च केचन जडमेव मन्यन्ते। अपरे त्वचेतनमेवाऽरोपितचैतन्यम्। तन्निरासेन स्वरूपं कथयति चिदचिन्मिश्रमेवेति। यदित्यध्याहार्यम्। केवलमचेतनस्य घटादिवदेवम्भावासम्भवात्, चैतन्यारोपस्य निराकृतत्वात्, (९८१) चिदचिन्मिश्रमेवाङ्गीकार्यम्। भवन्ति चात्राऽगमाः। यदि मनसा सर्वावस्थाप्राप्तिः, तदा मोक्षेऽपि तस्य भावादेवावस्थाः स्युरित्यत उक्तम् यावत्संसृतिस्तावदेव जीवस्योपकारापकारौ करोतीति।
॥ स्वाप्नानां संवृते देशेऽवकाशानर्हत्वात्, बाह्यार्थक्रियाकारित्वाभावाच्च वासनोपादानकत्वम्॥
“कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात्” इति व्याख्याति मनोविकारा इति।
मनोविकाराः विषयाः स्वाप्ना यद् बाह्यवन्न ते।
स्थूला भवन्त्यतस्तेषां स्पष्टता न तथा क्वचित्।
यद् यस्मात् स्वाप्ना विषया मनोजन्यवासनाविकारा अत एव हि ते बाह्यवत् स्थूलाः न भवन्ति, संवृते देशेऽवकाशानर्हा न भवन्ति। तेषां तथा बाह्यवत् क्वचित् स्पष्टता बाह्यार्थक्रियाकारिता नास्ति।
यद्वा यस्मात् ते बाह्यवत् स्थूला न भवन्ति, तथा तेषां क्वचित् स्पष्टता नास्त्यतः स्वाप्ना विषया मनोविकारा इति योजना। यथाचैतत् तथोक्तं पुरस्तात्। (९२७)
॥ केषाञ्चित् स्वाप्नानां बाह्यार्थक्रियाकारित्वेऽपि
संवृते देशेऽवकाशनर्हत्वसद्भावात् वासनोपादानकत्वमङ्गीकर्तव्यम्॥
ननु स्वाप्नकामिनीसम्भोगादेश्चरमधातुविसर्गादिबाह्यार्थक्रियाकारितादर्शनाद् भागासिद्धिरित्यत आह क्वचिदिति।
क्वचित् स्पष्टा अपि स्युष्टे वासना मानसी च सा॥।९५॥
ते स्वाप्ना विषयाः क्वचित् स्पष्टा अपि स्युरेव। तथाऽपि तदतिरिक्तपक्षीकरणेनादोष इति भावः। एवन्तर्हि तस्यांशस्य वासनामयत्वं न स्यादित्यत आह वासनेति। सा च मानसी वासना सिद्धा। अस्पष्टताभावेऽप्यस्थूलत्वस्य सत्त्वादिति भावः। अत एव सौत्रो हेतुर्द्वेधा व्याख्यातः। तदनेन देशकालनिमित्तसम्पत्तिः स्वप्ने नास्तीति यदुक्तं तद् वासनामयत्वोक्त्या निरस्तम्। अत एव सृष्टिश्रुतेर्भाक्तत्ववर्णनमपास्तम्। प्राज्ञस्य निर्मातृत्वं च न वृथा त्याज्यम्। स्वयं विहृत्येत्याद्यपीश्वरविषयमन्यत्र व्याख्यातम्। स्वप्ननिर्माणे शुभाशुभयोगापत्तिरिति चासङ्गतम्। व्याप्त्यभावात्। जीवस्य ब्रह्मभावोपदेश इति च सार्वज्ञ्यादेः पारमार्थिकत्वसमर्थनादयुक्तम्। वियदादिप्रपञ्चस्य मिथ्यात्वकथनं च तत्सत्यत्वोपपादनान्निरस्तम्॥*॥ इति सन्ध्याधिकरणम्॥१॥
अथ पराभिध्यानाधिकरणम्॥२॥
॥ स्वप्नतिरोधानस्यपीश्वराधीनत्वम्॥
परकृतस्यापव्याख्यानतां प्रतिपादयितुं “पराभिध्यानात्” इति सूत्रतात्पर्यमाह ईशेति ।
ॐ पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बंन्धविपर्ययौ ॐ॥५॥
ईशेच्छयाऽन्तर्दधाति व्यज्यते च पुनस्तया।
सृष्ट्वैव वासनाभिश्च प्रपञ्चं स्वाप्नमीश्वरः।
वासनामात्रतां तस्य नीत्वाऽर्न्धापयत्यजः॥९६॥
सन्ध्यमिति शेषः। न केवलं स्वप्नः किन्तु तत्तिरोधानमपीश्वरेच्छाधीनमित्येष एवार्थोऽनेन सूत्रेणोच्यते नान्यः। जीवस्येश्वरांशताया अप्रामाणिकत्वस्य द्वितीयेऽभिहितत्वात्। नच ज्ञानैश्वर्यशक्ती ब्रह्मणस्तात्विकतया परोणाङ्गीकृते। किञ्च देहयोगात् तिरोहितमित्येतावताऽलम्। अन्यदसङ्गतमेव।
किञ्च देहयोगश्चेत् तिरोधानहेतुः, तदा सुप्तिप्रलययोराविर्भावः स्यात्। अविद्याद्युपलक्षणमेतदिति चेत्, अथ तथैव किं नोक्तमित्यास्तां विस्तरः। यदि स्वप्नोऽन्तर्धत्ते, कथन्तर्हि पुनस्तत्प्रतीतिरित्यत आह व्यज्यते चेति। एतेन परकीयं बाधकथनं निरस्तम्।
व्यक्तिस्तिरोधानं च न ज्ञायत इत्यतोऽधिकरणद्वयार्थमुपसंहरति सृष्ट्वैवेति। एवशब्देनाऽरोपं वारयति। दर्शयित्वेत्यपि द्रष्टव्यम्। तस्य च वासनामात्रतां नीत्वा कृत्वा। अन्यथा द्वितीया स्यात्। अन्तर्धापयति अदर्शनं गमयति। तस्य जीवस्य वासनाभिरिति वा। तस्यान्तर्धापयतीति वा॥*॥ इति पराभिध्यानाधिकरणम्॥२॥
अथ सुषुप्तिप्रबोधमोहाधिकरणानि॥४,५,७॥
॥ सुषुप्तिप्रबोधमूर्छानां भगवदधीनत्वम्॥
अत्र यज्जीब्रह्मणोरेकत्व परेण वर्णितं तत् सूत्राक्षराप्रतीतं तद्विरुद्धं चोपेक्षणीयमेवेति ज्ञापयितुमधिकरणत्रयस्य तात्पर्यमाह सुषुप्तीति।
सुषुप्तिबोधमोहांश्च स्ववशस्तद्वशं सदा।
जीवं नयति जीवेशो.................॥९७॥
सुषुप्तिबोधादेः कारणान्तरदर्शनात् कथमेतदित्यत उक्तम् स्ववशस्तद्वशमिति। स्वतन्त्रोऽपीश्वरो लीलया तानि करणान्युपादाय जीवं तद्वशतां नीत्वा सुषुप्त्यादिकं प्रापयतीत्यर्थः। एतच्च भाष्यादौ स्पष्टम्॥*॥ इति सुषुप्तिप्रबोधमोहाधिकरणानि॥४,५,७॥
अथ कर्मानुस्मृत्यधिकरणम्॥६॥
॥ अपव्याख्याननिरासः॥
स एव च कर्मानुस्मृतिशब्दविधिभ्यः। केचिदेवं व्याचक्षते सुषुप्तौ ब्रह्मसम्पन्नो य एव जीवः, किं स एवोत्तिष्ठत्युतान्योऽपीति संशये महाजलनिधौ क्षिप्तस्योदबिन्दोरिव ब्रह्मणैकीभूतस्य उद्धरणासम्भवादनियम इति प्राप्ते समाधीयते स एवोत्तिष्ठति, यः सुप्तः। कुतः? कर्मशेषसमापनात् प्रत्यभिज्ञानाच्छब्देभ्यो विधिभ्यश्च। सुप्तस्य मुक्तत्वापत्त्या विध्यनुपपत्तेरिति । तदेतदपव्याख्यानमिति सूचनायाधिकरणतात्पर्यमाह नान्य इति।
...................नान्यः कर्ताऽस्य कश्चन॥९७॥
स्वप्नादीनां परमेश्वरकृतत्वेऽभिहिते किं देशकालान्तरेऽन्योऽपि कर्ताऽस्ति, उतेश्वर एवेति संशये लौकिकेश्वराणां देशकालव्यवस्थयैश्वर्यदर्शनादयमपि तथाविध इति प्राप्ते, स एवेश्वरोऽस्य स्वप्नादेः कर्ता न देशकालान्तरेऽन्यः कश्चनेत्येष एवार्थोऽत्र प्रतिपद्यत इति। नहि यः सुप्तः स एवोत्तिष्ठत्यन्यो वेति कस्यचित् संशयोऽस्ति। नच सुप्तस्य ब्रह्मणैक्यं प्रमाणदृष्टम्, इष्टं वा परस्येति यत्किञ्चिदेतत्।
॥ व्युत्कमेण व्याख्याने निमित्तम्॥
लाघवार्थं क्रमोल्लङ्घनेन व्याख्यानमिति बोद्धव्यम्। सूत्रकृता च स्वप्नादिवन्न मोहः स्वतन्त्रावस्थेति ज्ञापनाय व्यवधानं कृतमिति॥*॥ इति कर्मानुस्मृत्यधिकरणम्॥६॥
अथ स्थानभेदाधिकरणम्॥८॥
॥ अपव्याख्यानानुवादः॥
न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि। केचिदिदमित्थं व्याचक्षते द्विरूपं ब्रह्म श्रूयते “सर्वकर्मा सर्वकामः” इत्यादौ सविशेषम्, “अथूलमनणु” इत्यादौ निर्विशेषम्। तत्र किमुभयरूपं ब्रह्म प्रतिपत्तव्यम्, उतान्यतररूपम्? यदाऽप्यन्यतररूपं तदाऽपि किं सविशेषम्, उत निर्विशेषमिति संशये द्विविधश्रुत्यनुरोधादुभयरूपमेव ब्रह्मेति प्राप्ते इदुमुच्यते। न तावत् स्वत एव परस्य ब्रह्मण उभयरूपत्वं सम्भवति, विरोधात्। अस्तु तर्हि स्थानतः पृथिव्याद्युपाधियोगात्। मैवम्। नह्युपाधिरन्यदन्यथाकरोति किन्त्वविद्योपस्थापिताः पृथिव्याद्युपाधयो भ्रममुपजनयन्ति। अतश्चान्यतरपरिग्रहेऽपि निरस्तसमस्तविशेषमेव ब्रह्म प्रतिपत्तव्यम्। सर्वत्र “अशब्दमस्पर्शम्” इत्यादिवाक्येषु तथाभूतमेव हि ब्रह्मोपदिश्यते। न भेदादिति चेत्, न। प्रत्येकमतद्वचनात्। न निर्विशेषमेव ब्रह्म, “चतुष्पाद् ब्रह्म” “षोडशकलं ब्रह्म” इत्यादौ भेदेनोपदेशादिति चेत्, न। “यश्चायमस्यां पृथिव्याम्” इत्यादिना प्रत्युपाधि भेदाभाववचनात्। अपि चैवमेके “नेह नानाऽस्ति किञ्चन” इत्यादौ भेददर्शननिन्दापूर्वकमभेदमेके शाखिनः समामनन्तीति । तदिदं व्वाख्यानं सम्यग्व्याख्यानेनैवापहस्तितं भविष्यति किं पुनः प्रयत्नेनेत्याशयवान् व्याख्यानमेवाऽरभते।
॥ सर्वत्र स्थितस्य विष्णोः निर्दोषाशेषगुणत्वेन निर्भेदत्वेन च श्रूयमाणत्वाद्
दक्षिणाक्ष्यादिस्थानानां परस्परं भिन्नत्वेऽपि तत्रस्थविष्णुरूपाणां भिन्नत्वं नास्ति॥
सर्वशरीरेषु, प्रतिशरीरं च दक्षिणाक्ष्यादिस्थानेषु, स्थितः परमपुरुषः स्वप्नाद्यावस्थाः प्रवर्तयतीत्युक्तम्। तत्र सर्वत्र स्थितः किमेक एव, उत परस्परं भिन्न इति संशये यद युगपद् भिन्नस्थानं तद् भिन्नं दृष्टम्। यथा घटादि। भिन्नस्थानश्चायमित्यतो भिन्न एव भवेत्। भिन्नानां च तारतम्यमनुग्राह्यानुग्राहकभावश्र्चोपलब्ध इति तत्प्रसङ्गोऽपीति कथं स एव चेत्युक्तमिति प्राप्ते प्रतिविहितं सूत्रकृता न स्थानतोऽपीति। तद् व्याचष्टे नेति।
ॐ न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ॐ॥११॥
न स्थानभेदतोऽप्यस्य भेदः कश्चित् परेशितुः।
सर्वत्राशेषदोषोज्झपूर्णकल्याणचिद्गुणः॥९८॥
अत्र स्थानशब्दस्तद्भेदस्योपलक्षण इत्युक्तं भवति। सप्तम्यर्थे तसिः। आद्यादिभ्य उपसङ्ख्यानात्।
भेद इति वदता उभयलिङ्गमित्येतद् भिन्नस्वरूपत्वमिति व्याख्यातम्। स्थानानां सुरनरादिशरीरणां तत्रापि दक्षिणाक्ष्यादीनां भेदे सत्यप्यस्य तत्रतत्र स्थितस्य परेशितुः कश्चित् अन्योन्याभावलक्षणो हीनाधिकत्वरूपोऽनुग्राह्यानुग्राहकत्वरूपो वा, भेदो नास्ति।
कुत इत्यतः सर्वत्र हीत्युक्तं व्याचष्टे सर्वत्रेति। सर्वत्र स्थानेषु निर्भेदश्चेत्यपि द्रष्टव्यम्। अशेषदोषोज्झश्चासौ पूर्णकल्याणचिद्गुणश्चेति विग्रहः। कल्याणा विनाशादिरहिताः। यद्वा गुणशब्दो दुःखादिष्वपीत्यतः कल्याणेत्युक्तम्। चिच्छब्दात् परत आदिपदमध्याहार्यम्। अथवा चिद्रूपा नत्वचेतना इत्यर्थः। “सर्वेषु भूतेष्वेतमेव ब्रह्मेत्याचक्षते” इत्यादौ परमात्मा श्रूयते यत इति शेषः।
॥ भिन्नस्थानगतविष्णोः भिन्नत्वदोषित्ववाचकश्रुतीनां विष्णोरशेषदोषदूरत्वादिरूपश्रुतिमहातात्पर्यविरुद्धत्वादर्थान्तरं कल्पनीयम्॥
उक्तमर्थमाक्षिप्य समाधातुं सूत्रम् न भेदादिति।
ॐ न भेदादिति चेन्न प्रत्येकमतद्वचनात् ॐ॥१२॥
निर्भेदं सर्वत्र सर्वदोषदूरं सकलगुणपरिपूर्णं ब्रह्मेति नोपपद्यते। “कार्यकारणबद्धौ तौ” इत्यादिश्रुतिपुराणादिवाक्यैर्भिन्नत्वदोषित्वाल्पगुणत्वादेर्भेदशब्दोपलक्षितस्योक्तत्वादित्याक्षेपार्थः। नेति परिहारांशं व्याचष्टे तद्विरुद्धं त्विति।
तद्विरुद्धं तु यत् तत्र मानं नैव कचिद् भवेत्।
महातात्पर्यरोधेन कथं तन्मानमत्र तु॥९९॥
यत्तु वाक्यं तस्योक्तार्थस्य विरुद्धं प्रतीयते तत् तत्र उक्तविरुद्धे क्वचिदर्थे मानं नैव भवेत् किन्त्वन्य एव तस्यार्थः प्रतिपत्तव्यः। कुत इत्यतः प्रत्येकमतद्वचनादित्युक्तम्। तदनुपपन्नमिवाऽभाति। सर्वत्र हीत्युक्तस्य प्रतिपक्षचोदनायां पुनस्तन्मात्रोपन्यासस्य व्यर्थत्वात्। अतस्तात्पर्यमाह महातात्पर्येति। सकलस्मृतीतिहासपुराणानां परमेश्वरस्याशेषदोषदूरत्वे समस्तगुणपरिपूर्णत्वे च यन्महातात्पर्यं तद्विरोधेन तद् वाक्यं अत्र भगवतो दोषित्वादौ कथं मानं भवेत्? तुशब्दो महावाक्यत्वावान्तरवाक्यत्वलक्षणविशेषार्थः। दृष्टं हि निर्णीतमहावाक्यार्थविरुद्धस्य तदावान्तरवाक्यस्य तत्राप्रामाण्यम्। यथा स्वर्गप्रयोजनाग्न्हिोत्रपरमहावाक्यार्थविरुद्धस्य “यद्यमुष्मिंल्लोकेऽस्ति वा नवा” इत्यादेस्तदवान्तरवाक्यस्य। महावाक्यं हि प्रधानम्। अनन्यार्थत्वात्। अप्रधानं त्ववान्तरवाक्यम्। तदर्थप्रतिपत्तिहेतुत्वात्।
॥ श्रुतीनां मोक्षफलकत्वात्, मोक्षस्य विष्णुप्रसादैकसाध्यत्वात्, तत्प्रसादस्य च
तदीयगुणोत्कर्षज्ञानहेतुकत्वात्, विष्णोर्गुणपूर्णत्वादावेव श्रुतीनां महातात्पर्यमिति प्रतिपादनम्॥
स्यादेवम्। यदि परमेश्वरस्य सकलगुणपरिपूर्णत्वे निरस्तसमस्तदोषत्वे च वेदादीनां महातात्पर्यमित्यर्थः प्रमाणवान् स्यात्। तदेव तु न पश्याम इत्यत आह दुःखेति।
दुःखाप्ययसुखावाप्तिहेतुत्वनैव वेदवाक्।
भवेन्मानं तदीशानात् प्रसन्नादेव नान्यथा॥१००॥
प्रसन्नता गुणोत्कर्षज्ञानादेव हि केवलम्।
निर्दोषतापरिज्ञानादपि नान्येन केनचित्॥१०१॥
मोक्षहेतुत्वेनेति वक्तव्ये दुःखाप्ययेत्यादिवचनं वादिविप्रतिपत्तेर्मोक्षस्वरूपनिरूपणार्थम्। आत्यन्तिकदुःखनिवृत्तिर्निरतिशयसुखाभिव्यक्तिश्च मुक्तिरिति। यद्वाऽप्रधानप्रयोजनस्वर्गादिसङ्ग्रहार्थमिदम्। इत्थम्भूतलक्षणे तृतीया। दुःखाप्ययसुखावाप्तिहेतुत्वेनैव तद्धेतुत्वं यथा निर्वहेत् तथैव मानं कस्यचिदर्थस्य प्रतिपादिका भवेत्। वेदवागिति स्मृत्यादेरुपलक्षणम्।
एतदुक्तं भवति शास्त्रेण हि विषयप्रयोजनवता भाव्यम्। प्रमाणत्वात् परार्थत्वाच्च। तत्र यदा विषयः सन्दिग्धः, प्रयोजनं च निश्चितम्, तदा निश्चितेन प्रयोजनेनानिश्चितो विषयो निश्चेतव्यः। नहि शास्त्रं साक्षात् प्रयोजनस्य कारकम्। किन्तु विषयप्रतिपादनद्वारैव। तथाच तत् प्रयोजनं यस्मिन् ज्ञापिते सम्पद्यते स एव विषयोऽवधार्यते। अन्यथा विषयप्रयोजनयोरसम्बद्धत्वेन शास्त्रस्यानुपादेयतापत्तेः। वेदादेश्च मोक्ष एव प्रधानं प्रयोजनम्। “तेषां दुःखप्रहाणाय श्रुतिरेषा प्रवर्तते” इत्यादेः। स्वर्गादिकं चाप्रधानम्। अतः स एव विषयः कल्पनीयः, यस्मिन् ज्ञापिते मोक्षादिकं सम्पद्यत इति।
ततः किमित्यत आह तदिति। तद् दुःखाप्यायादिरूपं कैवल्यम्। ईशानाद् विष्णोरेव भवेन्नान्यस्मात्। स हि तस्येष्टे नान्यः। अम्तु तर्हि स एव विषयः, किं गुणपूर्णत्वादिनेत्यत उक्तम् प्रसन्नादेव नान्यथा। न ज्ञातमात्रादिति।
ततोऽपि किमित्यत आह प्रसन्नतेति। विष्णोः प्रसन्नता च तदीयगुणोत्कर्षज्ञानादेव केवलं निर्दोषतापरिज्ञानाच्च भवति। हिशब्दः प्रमाणप्रसिद्धिं द्योतयति। तच्च वक्ष्यते। (१००७) केवलशब्दोऽवधाराणार्थः। नान्येन केनचिदिति। एतत्प्रतिरूपेणाल्पगुणत्वादिज्ञानेन कर्मादिना वा नेत्यर्थः। तथाच मोक्षादिप्रयोजनेन शास्त्रेण तत्साधनभूतं भगवद्गुणोत्कर्षनिर्दोषताज्ञानमेव जीवानामुत्पादनीयमित्यतः सकलगुणपरिपूर्णे निरस्तसमस्तदोषे नारायण एवाशेषशास्त्रस्य महातात्पर्यमित्यवसीयते।
॥ विष्णोः गुणर्पूणत्वादिज्ञानस्य मोक्षसाधनत्वे प्रमाणोपन्यासः॥
स्यादेतद् यदि “तदीशानात्” इत्यादिनोक्तं प्रामाणिकं स्यादित्यतस्तत्राऽगमवाक्यान्युदाहरति यो मामिति।
यो मामशेषदोषोज्झं गुणसर्वस्वबृंहितम्।
जानात्यस्मै प्रसन्नोऽहं दद्यां मुक्तिं नचान्यथा॥१०२॥
यो मामशेषाभ्यधिकं विजानाति स एव माम्।
विजानात्यखिलांस्तस्य दद्यां कामान् परं पदम्॥१०३॥
यो मामेवमसम्मूढः किं मां निन्दन्ति शत्रवः।
इत्यादिवेदस्मृतिगवाक्यैरेवावसीयते॥१०४॥
बृंहितशब्देन प्रत्येकमपि गुणानामनवधिकत्वमाचष्टे। अशेषाभ्यधिकम्, गुणैर्दोषाभावैश्च सर्वोत्तमम्। स एव मां विजानाति। अन्यज्ञानस्य मत्प्रसादाहेतुत्वात्।
“यो मामेवम्” इत्यनेन “कृतकृत्यश्च भारत” इत्यन्तं भगवद्वाक्यं सङ्गृह्णाति। एवं समस्तैर्गुणैर्दोषाभावैश्च। क्षराक्षरोत्तमो हि पुरुषोत्तमः। “स सर्ववित्” इत्यादिस्तुत्या प्रसन्नता द्योत्यते। सर्वभावेन सर्वेण प्रकारेण। अन्यथा व्याघातात्। कृतकृत्यो मुक्तः।
“किं माम्” इत्यनेन
“अभी३दमेकमेको अस्मि निष्षाळभी द्वा किमु त्रयः करन्ति।
खले न पर्षान् प्रति हन्मि भूरि किं मा निन्दन्ति शत्रवोऽनिन्द्राः”
इति श्रुतिमुपादत्ते। इदमेकं विश्र्वं अभि प्रति अहमेको निष्षाळस्मि नितरां सहत इति निष्षा। द्वौ प्रपञ्चावभि प्रति अहमेको निष्षाळस्मि। त्रयोऽपि प्रपञ्चा मम किमेव कुर्वन्ति न किमपि ममानिष्टं कर्तुमीशते। किन्त्वहमेव खल इव खलस्थितानि धान्यानीव भूरि भूरीन् बहून् बहुवारं वा तान् निष्ठुरान् निन्दकान् प्रतिहन्मि। तस्मादनीश्वरास्ते शत्रवो मां किं निन्दन्तीत्यर्थः। एतद् भगवतो वाक्यम्। अत्र निन्दकेषु भगवतोऽप्रसादोऽनिष्टावाप्तिश्च श्रूयते। निन्दा च दोषज्ञानादिकेति प्रसिद्धमेव।
वाक्योदाहरणफलमाह इत्यादीति। अवधारणेन प्राबल्यं सूचयति। प्रसादेन मुक्तिः स गुणवेदनादिति वक्ष्यमाणमत्रापि सम्बद्ध्यते।
॥ मुक्तेः प्रसादसाध्यत्वस्य, प्रसादस्य गुणोत्कर्षज्ञानसाध्यत्वस्य च साधनम्॥
अत्रानुमानमप्याह लोकतश्चेति।
लोकतश्च प्रसादेन मुक्तिः स गुणवेदनात्।
इतिशब्दोऽध्याहार्यः। अवसीयत इति वर्तते। भगवत्प्रसादेन संसारान्मुक्तिर्भवति, स भगवत्प्रसादः, तद्गुणोत्कर्षवेदनात्, दोषाभाववेदनाच्च भवतीत्ययमर्थो लोकतो लोकदृष्टान्तोपेतानुमानतश्चावसीयते।
तथाच प्रयोगः संसारान्मुक्तिः समर्थपुरुषप्रसादसाध्या, मुक्तित्वात्; निगडमुक्तिवत्। नहि भगवतोऽन्यस्तत्र समर्थोऽस्ति। विमतो भगवत्प्रसादो गुणोत्कर्षज्ञानसाध्यः, महाप्रसादत्वात्; राजप्रसादवत्। पक्षतुल्यत्वान्न व्यभिचारश्र्चोदनीयः।
॥ उक्तार्थोपसंहारः॥
“महातात्पर्यरोधेन” इत्यादिनोक्तमुपसंहरन् परकृतापव्याख्याननिरासेऽप्युक्तां युक्तिमतिदिशति महातात्पर्येति।
महातात्पर्यमुख्यस्य विरोधादत एव हि।
दोषित्वनिर्गुणत्वाल्पगुणत्वादि कथञ्चन॥१०५॥
नार्थः श्रुतिपुराणादेस्तद्विरुद्धोऽखिलस्य च।
अर्थः स्वयं विनिर्णीतो वासुदेवेन सादरम्॥१०६॥
इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ।
एतद् बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारत॥१०७॥
इत्यतोऽखिलसच्छास्त्रविरुद्धत्वेन नानुमा।
वर्तते तत्र तेनेशो निर्णीतोऽखिलसद्गुणः॥१०८॥
परममहातात्पर्यस्य। निर्गुणत्वग्रहणमपव्याख्याननिरासार्थम्। कथञ्चनेत्युपाधिसम्बन्धादिनेत्यर्थः। न केवलमानुमानिकं सकलवेदादीनां भगवद्गुणोत्कर्षोदौ महातात्पर्यम्। किन्तु वाचनिकं चेत्याह तद्विरुद्ध इति। दोषित्वादेर्विरुद्धः। अखिलस्य शास्त्रस्य। तद्वाक्यं पठति इति गुह्यतममिति। इति यन्मया मम पुरुषोत्तमत्वादिकमुक्तं इदं गुह्यतमं शास्त्रं तात्पर्येण सर्वशास्त्रैः प्रतिपाद्योऽर्थः। एतद् बुद्ध्वेति प्रशंसयाऽऽदरः प्रतीयते।
यदुक्तं स्थानभेदानुमानं तदन्यथासिद्धमिति परोशितुरित्यनेन सूचितम्। यथोक्तम् “एश्वर्याद् रूपमेकं च सूर्यवद् बहुधेयते” इति। कालातीतं चेत्याह अत इति। तत्र परमोश्वरभेदादौ।
अधिकरणार्थमुपसंहरति तेनेति। सच्छब्दो निर्दोषार्थः। निर्भेद इत्युपसंहर्तव्ये तत्फलोपसंहारोऽयमपव्याख्याननिरासमप्युपसंहर्तुम्॥*॥ इति स्थानभेदाधिकरणम्॥८॥
अथ उपमाधिकरणम्॥१०॥
॥ जीवस्य ब्रह्माभिन्नत्वसाधकचेतनत्वानुमानस्य प्रतिबिम्बत्वानुमानेन बाधितत्वम्॥
अत एव चोपमा सूर्यकादिवत्। इह परमेश्वरे जीवस्याऽत्यन्तिकभक्तिसिद्धये भेदाभेदमतं निराक्रियते। तथाहि जीवब्रह्मणोर्भेदस्तावत् सिद्धान्तिनाऽङ्गीक्रियत एव। अभेदस्त्वनुमानतः सिद्धः। जीवो ब्रह्माभिन्नः, चेतनत्वात्; ब्रह्मवद् ब्रह्मांशत्वात्। यो यदंशः स तदभिन्नः, यथेश्वरांशो मत्स्यादिस्तदभिन्न इति। अतो भिन्नाभिन्नो ब्रह्मणा जीव इत्येवं प्राप्ते प्रतिविहितं सूत्रकृता सूर्यकादिवदिति सूत्रखण्डेन। तदेतद् दृष्टान्तवचनमात्रं न कस्यचिदर्थस्य साधकं बाधकं वेत्यतः पूर्वपक्षनिषेधपूर्वकं प्रतिज्ञाहेतू दर्शयति नचेति।
ॐ अत एव चोपमा सूर्यकादिवत् ॐ॥१८॥
नच चित्त्वादभिन्नत्वं जीवस्येशवदाप्यते।
यत आभासतामेव श्रुतिरस्य वदत्यलम्॥१०९॥
चित्त्वादित्यंशत्वस्याप्युपलक्षणम्। अभिन्नत्वं ब्रह्मणेति शेषः। ईशवद् ब्रह्मवदीश्वरावतारवच्च। आप्यते युज्यते। अस्य जीवस्य। अस्य ब्रह्मण आभासताम्। एवेत्यविगानेन। अलं विस्पष्टम्।
एतदुक्तं भवति न चेतनत्वाद्यनुमानेन जीवस्य ब्रह्माभेदसाधनं युक्तम्। जीवो ब्रह्माभिन्नो न भवति, तदाभासत्वात्; यो यदाभासो नासौ तदभिन्नः, यथा सूर्यकादिः सूर्यादिना, इत्यनुमानविरोधात्। नचासिद्धो हेतुः, विस्पष्टश्रुतिसिद्धत्वादिति।
॥ जीवस्य विष्णुप्रतिबिम्बत्वे श्रुत्युपन्यासः॥
काऽसौ श्रुतिरित्यतस्तामुदाहरति यथेति।
यथैषा पुरुषे च्छाया एतस्मिन्नेतदाततम्।
छाया यथा पुंसदृशी पुमधीना च दृश्यते।
एवमेवाऽत्मकाः सर्वे ब्रह्माद्याः परमात्मनः॥११०॥
सत्ताप्रतीतिकार्येषु पुमधीना यथेयते।
आभासा एव पुरुषा मुक्ताश्च परमात्मनः॥१११॥
छायाऽऽतता तथैतस्मिन् परमात्मन्येतज्जीवजातमाततमायत्तमिति यावत्। एतदेव विशदश्रुतिभ्यां दर्शयति छायेति। आत्मका अल्पचेतनाः। पुरुषाः संसारिणः। तदधीनत्वादिकमेवाऽभासत्वमिति वक्ष्यति। (१०१४)
॥ जीवस्य स्वोत्तमद्वारा विष्णुप्रतिबिम्बत्वम्॥
परमेश्वराभासत्वं च न सर्वेषां साक्षात्, किन्तु पारम्पर्येणेति स्वरूपकथनाय श्रुतिद्वयं पठति छाया विष्णोरिति।
छाया विष्णो रमा तस्याश्छाया धाता विशेषकौ ।
तस्येन्द्रकामौ च तयोस्तयोरन्येऽखिला अपि॥११२॥
हरेर्ब्रह्माऽस्य गीस्तस्या विशेषाविन्द्र एतयोः।
मारश्चाऽभासकाः सर्व एतयोस्तदधीनतः॥११३॥
सर्वेऽल्पशक्तयश्चैव पूर्णशक्तिः परो हरिः।
चेतनत्वेऽपि भिन्नास्ते तस्मादेते न सर्वदा।
इत्यादिश्रुतिवाक्येभ्यो ज्ञायते भेद एव हि॥११४॥
छायेव छाया। विशेषकौ गरुडशेषौ तस्य धातुश्छाये। तयोः गरुडशेषयोः। पुनस्तयोरिन्द्रकामयोः। हरेर्ब्रह्मा। अभास इति सर्वत्र सम्बन्धः। आभासत्वव्याख्यानम् तदधीनत इति। सर्व इत्यनेन सर्वेषां परमेश्वराभासत्वमुपपादयति। चशब्दो हरिस्त्विति तुशब्दार्थः। आभासत्वे किमित्यत उक्तम् चेतनत्वेऽपीति। अत्रापि तदंशत्वस्योपलक्षणम्। तस्मात् आभासत्वात्। सर्वदेत्यनेन भिन्ना एवेत्यवधारणं सूचयति।
उदाहृतश्रुतीनां फलमाह इत्यादीति। जीवस्य परमेश्वरभासत्वं ज्ञायते, तेनात्यन्तभेदश्च ज्ञायत इत्यर्थः। न परानुमानयोः सत्प्रतिपक्षत्वमुच्यते। किन्त्वस्मदीयानुमानस्य श्रौतत्वेन प्रबलत्वाद् बाधितत्वमिति भावः।
॥ पूर्वपक्षिणा, प्रतिबिम्बस्य उपाध्यायत्तत्वात्, जीवस्य तदभावात्, प्रतिबिम्बत्वस्याभेदव्याप्तत्वात्, जीवब्रह्मभेदस्य तत्वमस्यादिश्रुतिविरुद्धत्वाच्च उक्तानुमानस्याऽभासत्वमित्युपादनम्॥
इदानीम् “अत एव चोपमा” इति सूत्रावयवं व्याख्यातुं तन्निवर्तनीयामाशङ्कामाह आभासत्वं हीति।
आभासत्वं हि निर्णीतं जीवस्य परमात्मनः
तन्न युक्तं यदाभास उपाध्यायत्त ईयते॥११५॥
उपाध्यायत्तताभावादाभासत्वविरोधतः।
यज्जीवस्य परमात्मन आभासत्वं श्रुतिबलेन निर्णीतं तद् युक्तिविरुद्धम्। नहि निरवकाशयुक्तिविरुद्धोऽर्थः श्रुत्याऽपि प्रतिपादयितुं शक्यते। तथासत्यभिमान्यधिकरणानारम्भप्रसङ्गात्। अतः सा कथञ्चिद् योजनीयेति।
कथं न युक्तमित्यत आह यदिति। यस्मादाभासः सूर्यकादिर्जलाद्युपाध्यायत्तो ज्ञायते। आभासत्वस्योपाध्यायत्तत्वं व्यापकत्वेन सर्वत्र निश्चितमित्यर्थः। तथाऽपि कुतो न युक्तमित्यत आह उपाधीति। जीवानामिति शेषः। व्यापकस्योपाध्यायत्तत्वस्य जीवेष्वभावाद् व्याप्यमप्याभासत्वं न युक्तम्। ततो हेतोरसिद्धेर्दुष्टमनुमानम्। इतश्च दुष्टमित्याह आभासत्वेति। आभासत्वस्य भिन्नत्वेन विरोधतश्चानुमानं दुष्टम्।
तथाहि दर्पणादिना सन्निकृष्टाः प्रतिहताः परावृत्ता नायनरश्मयो मुखेन सन्निकृष्टाः,तदेव विषयीकुर्वन्ति। नतु ततोऽन्य आभासो नामास्ति। तत्र व्यवच्छेदः, पराक्त्वम्, सव्येतरव्यत्यासश्च इत्यादिकं भ्रान्त्यैव प्रतीयते। सोपाधिकश्चायं भ्रम इति यावदुपाधिसत्त्वं न निवर्तते। एवञ्चाऽभासत्वस्य अभेदेन व्याप्तत्वाद् भेदसाधने विरुद्धत्वमिति। उपलक्षणं चैतत्। तत्त्वमस्यादिश्रुतिविरुद्धत्वेन कालातीतत्वमपि द्रष्टव्यम्।
॥ जीवब्रह्मणोर्भेदाभेदसमर्थनम्॥
एवमाभासत्वानुमाने दुष्टे किमिति चेत्, निराबाधेन प्रागुक्तानुमानद्वयेनैक्यं सिद्धमित्याह चेतनत्वेनेति।
चेतनत्वेन चांशत्वात् समुदायैक्यमापतेत्॥११६॥
अंशत्वाच्चेत्यन्वयः। ऐक्यं च साध्यमानं न मायावादिनामिवेत्युक्तम् समुदायेति। मायावादिनो हि जीवानां प्रत्येकं ब्रह्मणाऽत्यन्ताभेदमङ्गीकुर्वते। नचैवमस्मन्मतम्। समुदायैक्ये भेदस्यापि सत्त्वादिति। अत्यन्ताभेदं परित्यज्य समुदायैक्यं कुतोऽङ्गीक्रियत इत्यत आह अत इति।
अतः पृथक्त्वमुदितं समुदायांशयोर्भवेत्।
ईशाख्या समुदाये स्यादीशरूपेष्विवोदिता॥११७॥
समुदायैक्याङ्गीकारतो यच्छ्रुत्याद्युक्तं पृथक्त्वं तत् समुदायस्य तदंशस्य च जीवस्य भवेत्। समुदायस्य यावंशौ जीवेश्वरौ तयोर्भवेदिति वा।
एतदुक्तं भवति यदि जीवस्य ब्रह्मणाऽत्यन्ताभेदः साध्येत, तदा भेदश्रुतय उपरुद्ध्येरन्। मायिकभेदपरत्वाभिधाने चाप्रमाणमापद्येरन्। नचायमस्माकमस्ति दोषः। जीवब्रह्मणोर्जीवेश्वरयोश्च भेदसद्भावेन तद्विषयत्वोपपत्तेरिति। एतेन चेतनत्वाद्यनुमानस्याऽभासोद्धारः कृतो भवति।
समुदायैक्यमित्युक्तम्। तत् किञ्चित् प्रपञ्चयति ईशाख्येति। ईशशब्दो ब्रह्मपरः। समुदाये चेतनानाम्। एतदुक्तं भवति ब्रह्मैकमेव स्वभावसिद्धं तत्वं तत्परमार्थभूतं मायासम्बन्धादीश्वरतामापद्यते। स च सर्वज्ञः सर्वेश्वरो जगज्जननादिकर्ता। जीवास्तु ब्रह्मणोंऽशाश्चित्स्वभावा वह्नेरिव विष्फुलिङ्गा अत एव ब्रह्मणो भिन्नाभिन्नाः। परस्परमीश्वराच्च भिन्ना एव। ब्रह्म तु सकलचेतनसमुदायात्मकमतिरिक्तं चेति।
अत्र दृष्टान्तमाह ईशेति। यथा भगवद्रूपाणां मत्स्यादीनां समुदाये भगवत्सञ्ज्ञा न स्थानतोऽपीत्यादौ सिद्धान्तिनोदिता तथा। एतेनात्यन्ताभेदं परित्यज्य भेदाभेदाङ्गीकारे श्रुतिद्वयमिवांशत्वानुमानं चोक्तं भवति। यदि मत्स्यादयः परमेश्वरस्येव जीवा ब्रह्माणोंऽशाः स्युः, तदा मत्स्यादीनामैश्वर्यादिवज्जीवानां निर्दुःखत्वादिकं स्यात्। अंशेष्वंशिसाधर्म्यस्याव्यभिचारात्।
॥ भेदस्य औपाधिकत्वात्, अभेदस्य स्वाभाविकत्वात् न ब्रह्मत्वापत्तिरूपमुक्त्यनुपपत्तिः॥
किञ्च यदि जीवस्य ब्रह्मणा भेदोऽपि परमार्थः स्यात्, तदा “ब्रह्मैव भवति” इत्युक्ता मुक्तिरयुक्ता स्यादित्यत आह अत इति।
अतो देहाद्युपाधीनामपाये समता भवेत्।
ईशरूपैः.............................।
बुद्धिसन्निहितं तदीयसिद्धान्तमत इति परामृशति। न जीवानां ब्रह्मणा भेदाभेदौ स्वाभाविकौ। किन्त्वभेदः स्वाभाविको भेदस्त्वौपाधिकः। यथेश्वरांशानां मत्स्यादीनामीश्वरेण। इयांस्तु विशेषः मत्स्याद्या जगदनुग्रहार्थं लीलाविग्रहोपाधिभिन्ना अतिरस्कृतैश्वर्यादिमन्तः। जीवास्त्वनाद्यविद्याकामकर्मादिनिबन्धनदेहेन्द्रियाद्युपाधिभिन्नास्तिरस्कृतब्रह्मस्वभावा उपाधिनिबन्धनदुःखादिभाजश्चेति। यत एवमौपाधिक एव भेदः, अतो ज्ञानकर्मभ्यां देहाद्युपाधीनामात्यन्तिकेऽपाये सति जीवानामीशरूपैः समता भवेत्। यथेश्वररूपाणि कार्यावसाने स्वेच्छयैव लीलाविग्रहत्यागेनेश्वरतामापद्यन्ते, तथा जीवा अप्यनुष्ठितज्ञानकर्मसमुच्चयाः प्रारब्धकर्मावसाने देहाद्युपाधिभिरत्यन्तविमुक्ताः स्वाभाविकं ब्रह्मत्वमापद्यन्त इति न कश्चिद् दोषः।
॥ जीवानामुपाध्यायत्तत्वे विनाशित्वप्रसङ्गः, तदभावे सदा संसारित्वप्रसङ्गः॥
यदुक्तमुपाध्यायत्तताभावादिति तदसिद्धम्। जीवानामपि सूर्यकादिवदाभासत्वाङ्गीकारे बाधकाभावादिति भावेन शङ्कते अथेति।
.........अथाभासा मुख्यतः सूर्यकादिवत्।
यदा तदोपाध्यायत्तरूपाणां नाशिता भवेत्॥११८॥
अथशब्दः शङ्कोपक्रमे, पक्षान्तरे वा। आभासा जीवाः। मुख्यत इति उपाध्यायत्तत्वेन। सूर्यकादिना तुल्यं वर्तत इति सूर्यकादिवत्। उत्तरवाक्ये वाऽस्य सम्बन्धः।
परिहरति तदेति। यदि जीवानामुपाध्यायत्तता स्यात्, तर्ह्युपाधिनाशे सूर्यकादीनामिव तेषां नाशिता भवेत्। अथोपाधयोऽविनाशिनः, तदा प्रत्यक्षादिविरोधः सर्वदा संसारित्वं च स्यादित्युभयथा मोक्षशास्त्रवैयर्थ्यम्। तस्मादुपाध्यधीनत्वेऽङ्गीकर्तुमशक्ये सुस्थैवाऽभासत्वस्यासिद्धिरिति।
॥ जीवसूर्यकादिषु स्वबिम्बभिन्नत्वरूपसाध्यधर्मस्य, बिम्बसादृश्यबिम्बाधीनत्व
रूपसाधनधर्मस्य च सद्भावात् तदपेक्षया तयोर्दृष्टान्तदार्ष्टान्तिकभावः, नतूपाध्यायत्तत्वादिना॥
एतदाशङ्कानिवर्तकत्वेन सूत्रावयवमवतारयति इत्याशङ्केति।
इत्याशङ्कानिवृत्त्यर्थमाह वेदाधिपः प्रभुः।
अत एवोपमेत्येव च...................॥११९॥
चशब्दोऽत एव चोपमेति भिन्नक्रमः। एतावदेव वाक्यमेतदाशङ्कानिरासार्थं न पुनरिदं सूत्रस्य प्रतीकग्रहणमित्येवशब्दः। अन्यथा हि सूर्यकादिवदित्यस्याऽवृत्तिराशयेत।
यद्वैकवाक्यतानिरासेन परकृतस्यापव्याख्यानतामाह। यत एवायमात्मा चैतन्यस्वरूपो निर्विशेषो वाङ्मनसातीतः परप्रतिषेधोपदेश्योऽत एव चास्योपाधिनिमित्तामपारमार्थिकीं विशेषवत्तामभिप्रेत्य जलसूर्यकादिवदित्युपमोपादीयते मोक्षशास्त्रेष्विति। यद्यप्येवमेकवाक्यतालाभः, तथाऽप्यर्थदोषः तत्रतत्र व्युत्पादित एव। (१९४, २२८,९६४) वतेर्वैयर्थ्यं च। सूर्यकादिरित्येतावता पूर्णत्वात्। इतिशब्दाध्याहारश्चैवं न कर्तव्य इति। सूत्रखण्डस्य तात्पर्यमाह अन्येति।
............... अन्याभासविशेषिताम्॥११९॥
यदुक्तं तदधीनत्वं सर्वावस्थास्वशेषतः।
जीवस्य सदृशत्वं च चित्त्वमात्रं नचापरम्॥१२०॥
तावन्मात्रेण चाऽभासो रूपमेषां चिदात्मनाम्।
नोपाध्यधीनताद्यैश्च नातिसाम्यं निदर्शने।
अन्यस्मात् सूर्यकादेराभासाज्जीवानां विशेषितां विलक्षणतामनेन सूत्रखण्डेनाऽह सूत्रकारः। तदेतत् तात्पर्यं सूत्राक्षरैः कथं लभ्यत इत्यत एतच्छब्दपरामृष्टमर्थं तावद् दर्शयति यदुक्तमिति। तदधीनत्वं परमात्माधीनत्वम्। अशेषतोऽशेषेषु व्यापारेषु। “सन्ध्ये सृष्टिराह हि” इत्यादौ। सदृशत्वं च परमात्मना यदुक्तं “पुंस्त्वादिवत्” इत्यादौ। किं तत् सदृशत्वम्? चित्त्वमात्रम्, नचापरं स्वातन्त्र्यादिकं येन हेतोर्विरुद्धता स्यादिति भावः।
इदानीं “अत एव चोपमा” इति वाक्यं योजयति तावन्मात्रेण चेति। तदधीनत्वतत्सदृशत्वमात्रेणैषां चिदात्मनां रूपं स्वरूपमस्मामिराभास इत्युक्तम्। सूर्यकाद्युपमा च तावन्मात्रेण चोपात्तेति चार्थः। जीव इति वक्तव्ये एषां चिदात्मनां रूपमिति वचनं मुक्तेष्विदं द्वयमस्तीति दर्शयितुम्। अनेन अत एव प्रकृताभ्यां तदधीनत्वतत्सदृशत्वाभ्यामेव। आभासत्वं सूर्यकाद्युपमा चोक्तेति स्वाभिप्रायप्रकटनं सूत्रार्थ इत्युक्तं भवति। एवशब्दव्यावर्त्यं दर्शयति नेति। उपाध्यधीनत्वतन्नाशनाश्यत्वजडत्वाद्यैरपि नेत्यर्थः। इह बहुवचनप्रयोगात् “नाशिता भवेत्” इत्यापादनमप्युपलक्षणं बोद्धव्यम्।
॥ साध्यसाधनधर्मसाम्यमेव दृष्टान्तदार्ष्टान्तिकभावप्रयोजकम्, नत्वतिसाम्यम्॥
नन्वेवंसति दृष्टान्तदार्ष्टान्तिकभावो न स्यात्। अत्यन्तसाम्ये हि स भवति। अन्यथा प्रमेयत्वादिमात्रसाम्यस्य सर्वत्र सम्भवेन मशकोऽपि मातङ्गस्य दृष्टान्तः स्यादित्यत आह नातिसाम्यमिति। निदर्श्यते साध्येन साधनस्य व्याप्तिरत्रेति हि निदर्शनम्। अतः साध्यसाधनधर्मसाम्यमेव दार्ष्टान्तिकेन तत्रान्वेष्टव्यम्। नत्वतिसाम्यम्। तथासति सर्वानुमानोच्छेदप्रसङ्गात्। मशकादेरपि विवक्षितधर्मसाम्ये दृष्टान्तत्वं नानिष्टमिति।
॥ सर्वजीवानां चेतनत्वेनैव ब्रह्मसादृश्यम्, नतु सुखित्वादिना॥
ननु चित्त्वमात्रमित्यसत्। मुक्तौ सुखाद्यङ्गीकारविरोधादित्यत आह किञ्चिदिति।
किञ्चित्सुखादिसादृश्यमपीशेनासुरानृते॥१२१॥
असुरान् विहायान्येषां जीवानामीशेन किञ्चित् सुखादिसादृश्यमप्यस्त्येव। सुखादिसादृश्यं विद्यमानमप्यसर्वगामित्वान्नोक्तम्। चित्त्वसादृश्यं तु सर्वगामित्वादुक्तभिति भावः। निरवधिकसुखादिव्यवच्छेदाय किञ्चिदित्युक्तम्। अन्यथा हि हेतोर्विरुद्धता स्यात्।
॥ प्रतिपादितार्थपिण्डीकरणम्॥
अथं समुदायर्थः ब्रह्माभासत्वादिति हेतोर्ब्रह्माधीनत्वात् तत्सदृशत्वाच्चेत्यर्थो नतु सूर्यकादिवत् प्रतिबिम्बत्वादिति। नचायमर्थोऽसिद्धः। निपुणतरं प्रागुपपादितत्वात्। (२३३०, ३२१) नचोपाध्यधीनत्वेन व्याप्तो येन तद्व्यावृत्त्या व्यावर्तेत। उपाध्यधीनतारहितेष्वपि भावात्। नच भागासिद्धिः। चिदात्मस्वरूपतया उपपादितत्वात्। (१०१४) नापि विरुद्धः। भिन्नेष्वेव भावात्। तथाऽपि बिम्बप्रतिबिम्बयोरैक्यात् सूर्यकादिदृष्टान्तः साध्यसाधनविकल इति चेत्, न। प्रमाणाभावात्। न तावत् प्रत्यक्षम्। तस्य प्रत्यक्त्वपराक्त्वादिना भेदग्राहित्वात्। प्रत्यभिज्ञानं त्वसिद्धमेव। नाप्यनुमानम्, लिङ्गाभावात्। अत्यन्तसादृश्यस्य सव्येतरकरादिना व्यभिचारात्। वैधर्म्याभावस्य चासिद्धत्वात्। क्रियासाम्यस्य च्छायादावनैकान्त्यात्। पृथक्कारणाभावस्य नित्येषु व्यभिचारात्। बिम्बकारणमात्रजन्यत्वस्य सन्दिग्धत्वात्। पृथग्दृष्टकार्यानुरोधेन ह्यदृष्टमपि पृथक्कारणं कल्प्यते। नतु कारणादर्शनेन दृष्टकार्यापलापः। तथासति बहुविप्लवापत्तेः। ततः कारणमुपाधिरेव कल्प्यते। आगमास्तु प्रत्यक्षादिविरोधादुपचरितार्था एव। यदिच जलादिना प्रतिहता नयनरश्मयो मुखमीक्षन्ते तदा शिलादिप्रतिहता अपीक्षेरन्। नचास्यां प्रक्रियायां स्वच्छतायाः कोऽप्युपयोगोऽस्तीत्यलम्। तत्त्वमस्यादिश्रुतिविरोधस्तु परिहरिष्यते। (१०२६) अतो निर्दोषमेवाऽभासत्वानुमानमिति।
॥ ब्रह्माभासशब्दस्य योगवृत्त्या ब्रह्माधीनत्वब्रह्मसदृशत्ववाचकत्वम्॥
ननु ब्रह्माभासशब्दो जीवस्य ब्रह्माधीनतां ब्रह्मसदृशतां च कया वृत्त्या वक्ति? गौण्येति चेत्। एवन्तर्ह्यस्मदायत्ते शब्दप्रयोगेऽवाचकं किमिति प्रयोक्ष्यामह इति प्रयोजनं वाच्यम्। मैवम्। योगाश्रयणादित्याह तत इति।
तत आभासते नित्यं तद्वदाभासतेऽपि च।
भानमस्तित्वमपिचैवाऽ समन्ताद् यतस्ततः॥१२२॥
जीव आभास उद्दिष्टः सदैव परमात्मनः।
न जलायत्तसूर्यादिप्रतिबिम्बोपमत्वतः॥१२३॥
तेन परमात्मना निमित्तेनाऽभासते प्रतीतो भवतीति प्रतीतौ तदधीनत्वमुच्यते। तद्वद् ब्रह्मवदाभासत इत्यनेन तत्सदृशत्वम्। अपिचेति व्याख्यानसमुच्चये। भानं ज्ञानम्। अस्तित्वं सत्त्वम्। अस्तिशब्दोऽव्ययम्। “अस्तिस्वस्ति” इति पाठात्। अपिशब्दो भानास्तित्वयोः समुच्चये। चशब्दो व्याख्यानसमुच्चये। एवशब्दस्य तत एवेति सम्बन्धः। आ इत्यनुवादेन समन्तादिति व्याख्यानम्। यतः कारणात् ततः परमात्मन एव जीवस्य भवतस्ततः कारणादित्यावृत्त्या योज्यम्। भा च आसा च भासे, आ सर्वकालवर्तिन्यौ भासे आभासे, परमात्माधीने आभासे यस्यासौ परमात्माभासः।
॥ “अपिचैव’ इत्यत्र पूर्वापरयोरेकादेशस्य ऐकारस्य पूर्वान्तवद्भावान्न यतिभङ्गः॥
“पूर्वान्तवत् स्वरः सन्धौ क्वचिदेव परादिवत्।
द्रष्टव्यो यतिचिन्तायां यणादेशः परादिवत्”
इति वचनान्न यतिभङ्गः शङ्कनीयः।
न जलायत्तसूर्यादिप्रतिबिम्बोपमत्वत इति। सूर्यादिप्रतिबिम्बा यथा जलाद्युपाध्यायत्ताः, तथोपाध्यायत्तत्वेनाऽभासो नेत्यर्थः।
॥ पौनरुक्त्यादिशङ्कापरिहारः॥
नन्वयमर्थो नोपाध्याधीनताद्यैरित्यनेनैवोक्तः। सत्यम्। यदुक्तमित्यादिनोक्त एवार्थः, तत आभासत इत्यादिना प्रपञ्चित इत्यदोषः। तथाहि रूपमेषां चिदात्मनामित्युक्तस्य तात्पर्यं सदैवेत्युक्तम्। स्यादेतत्। सूत्रकारेण दृष्टान्तमात्रमुक्तम्। तद्बलात् कश्चिद्धेतुरध्याहर्तव्यः। नचाऽभासत्वमेवेत्यस्ति नियमः। नाप्याभासपदोपादाने नियामकमस्ति। तस्मादसङ्गतमेतत्। मैवम्। “आभास एव च” इति सूत्रकारोक्तस्य ब्रह्माभासत्वस्यात्र हेतुत्वेन विवक्षितत्वात्। ब्रह्मांशत्वेनाऽक्षेपे तदधिकरणगतार्थस्यैव तु बुद्धिसन्निधानात् तत्र कर्तव्य एवायं चर्चोऽत्र कृत इति न कश्चिद् दोषः।
॥ उपाधेः बाह्याभ्यन्तरभेदेन द्वैविध्यम्, बाह्योपाधेर्नाश्यत्वम्, स्वरूपोपाधेर्नित्यत्वम्॥
ननूपाधिमत्त्वेनैव जीवस्य भगवत्प्रतिबिम्बत्वमिति सिद्धान्तः। उपाधेरपि नित्यचेतनत्वेन दोषपरिहारः। ययोक्तम्
“उपाधेश्चैव नित्यत्वान्नैव जीवो विनश्यति।
स्वरूपत्वादुपाधेश्च न भिन्नोपाधिकल्पना”
इति। तत् कथमेतत्? इत्थम् द्विविधो हि जीवोपाधिः। आभ्यन्तरो बाह्यश्च। तत्र स्वभावप्रतिभासहेतुराम्यन्तरः। स्वभावविपरीतावभासहेतुरन्तःकरणादिर्बाह्यः। तदायत्तत्वादिकं चैतन्यस्य नास्तीत्यभिप्रेत्येदमुदितम्। तदुक्तम्
“जीवोपाधिर्द्विधा प्रोक्तः स्वरूपं बाह्य एव च।
बाह्योपाधिर्लयं याति मुक्तावन्यस्य तु स्थितिः”
इति। निरुपाधिप्रतिबिम्बवाचोयुक्तिरपि बाह्योपाध्यधीनत्वाभावाभिप्रयोण नेतव्येति।
॥ सौत्रचैवशब्दार्थविचारः॥
सौत्रश्चशब्द आभासत्वसमुच्चयार्थतया व्याख्यातः। अवधारणार्थो वा प्रतिपत्तव्यः। एवन्तर्हि पुनरुक्तिदोषः। एवशब्दस्याप्यवधारणार्थत्वादित्यत आह तदधीनत्वमिति।
तदधीनत्वमेवेति किञ्चित् सादृश्यमेव चः।
सम्प्रकाशयतः सूत्रगतौ.................।
एवेतिशब्दस्तदधीनत्वमेवेत्यर्थं, चः चशब्दः किञ्चित् सादृश्यमेवेत्यर्थमित्युभावर्थद्वयं सम्प्रकाशयत इत्यावृत्त्या योज्यम्। यद्वा एवेतिशब्दस्तदधीनत्वम्, चः किञ्चित्सादृश्यमित्युभावर्थद्वयं सम्प्रकाशयतः अवधारयत इति व्याख्येयम्।
एतदुक्तं भवति अत इत्यर्थद्वयं हेतुत्वेनोक्तम्। प्रत्येकं चोपाध्यधीनत्वादिकं व्यावर्तनीयम्। तदधीनत्वादेव तत्सदृशत्वादेवेति। तस्मादुभावपि सार्थकाविति। एवशब्देनैकेनैवशब्देनोभयावधारणं प्रतिषेधति।
नन्वेकेनैवशब्देनार्थद्वयस्योक्तत्वादेकेनैवावधारणेनालम्। मैवम्। बुद्ध्या विविक्तेनार्थद्वयेन सम्बन्धात्। अथार्थद्वयमेकीकृत्य कस्मान्नावधार्यते? अस्त्यत्र सूचनीयोऽर्थः। यदि “अत एव” इत्येतावदेवोच्येत, तदेकस्यैवार्थस्यायं परामर्शो न द्वितयस्य परामर्शः, द्वितयपरामर्शेऽपि मिलितस्य हेतुत्वमिति ज्ञायेत। अवधारणद्वयप्रयोगे तु तदन्यथानुपपच्या प्रत्येकं हेतुभूतार्थद्वयपरामर्शो विज्ञायते। तथाच बाधकस्यानेकत्वेन प्राबल्यं विशेषणकृत्यगवेषणप्रयासनिरसनं च लब्धं स्यात्। तदिदमुक्तम् सूत्रगताविति।
॥ जीवब्रह्मणोर्भेदाभेदस्य सर्वमानविरुद्धत्वम्॥
एवं चेतनत्वाद्यनुमानस्य बाधकतयोक्तमाभासत्वानुमानं समर्थितम्। तदिदं प्रमाणान्तरोपलक्षणमित्याशयवानाह अखिलेति।
.................... अखिलमानतः।
जीवेशभेददृष्ट्यैव समुदायैकता कुतः॥१२४॥
न केवलमाभासत्वानुमानेन, किन्त्वखिलैरपि मानैः। भेददृष्ट्येत्युक्ते सिद्धसाधनता स्यात्। परेणापि भेदस्याङ्गीकृतत्वात्। अत एवशब्दः। स च समासे गुणभूतेनापि बुद्ध्या विविक्तेन भेदशब्देन सम्बद्ध्यतेऽभेदनिरासेन भेदस्य दर्शनादिति। कुतः प्रमाणात् सिद्ध्येत्?
तत्रैक्यबाधकं प्रत्यक्षं तावत् प्रसिद्धमेव। नाहं सर्वज्ञो निर्दोष इत्याद्यनुभावात्। यथाहि स्तम्भे कुम्भतादात्म्याभावः प्रत्यक्षः, तथाऽऽत्मनि सार्वज्ञ्यादिलक्षणब्रह्मतादात्म्याभावः साक्षिणा सिद्ध एव। तदभ्रान्तता च प्रागेवोपपादिता। (८८९) आगमास्तु तत्रतत्रोदाहृता द्रष्टव्याः।
॥ जीवब्रह्मणोर्विरुद्धधर्माश्रयत्वादभेदाभावः॥
अनुमानान्तरं चाऽह अशेषेति।
अशेषदोषराहित्यं सर्वशक्तित्वतो हरेः।
सर्वोपेतेति कथितमत ऐक्यं क्व दोषिणा
अशेषशक्तियुक्तश्चेत् स्वातन्त्र्याद् दोषवान् कथम्॥१२५॥
एतदुक्तं भवति जीवब्रह्मणी नाभेदवती, विरुद्धधर्माधिकरणात्; छायातपवत्। नचासिद्धो हेतुः। “सर्वोपेता च तद्दर्शनात्” इति सर्वशक्तित्वेन हेतुना ब्रह्मणोऽशेषदोषराहित्यस्य समर्थितत्वात्। जीवे दुःखादिदोषाणामनुभवसिद्धत्वात्। विरुद्धधर्माधिकरणयोरप्यैक्ये स्तम्भकुम्भयोरप्यैक्यं स्यादिति।
नन्वस्तु परमात्मा सर्वशक्तिरशेषदोषरहितश्च, तथाऽप्युपाधिभिन्नस्तदंशो जीवस्तन्निमित्तदोषवांश्च भविष्यति को विरोधः? प्रकारभेदस्य विरोधशान्तिहेतुत्वादित्यत आह अशेषेति। यद्यशेषशक्तियुक्तः परमात्माऽङ्गीकृतः, तदा तस्योपाधौ तन्निमित्ते च स्वातन्त्र्यात् कथं तन्निमित्तदोषवान् स्यात्।
अयमभिसन्धिः भवतु वाऽनेन प्रकारभेदेन विरोधशान्तिः, मा वा भूत्। प्रकारभेद एवायमनुपपन्नः। तथाहि अन्तःकरणाद्युपाधयोऽविद्यादिनिमित्तानि च स्वशक्त्या परमात्मानं विच्छिद्य तदंशस्य जीवस्य दुःखादिदोषान् कुर्वन्तीति तावन्न युज्यते। परमात्मनः सर्वशक्तिस्वातन्त्र्यहानिप्रसङ्गात्। अतः परमात्मैव सर्वशक्तिः स्वाधीनैरेव तैः स्वात्मानं विच्छिद्य स्वांशं जीवं दुःखादिदोषयोगिनं करोतीति मन्तव्यम्। तच्चायुक्ततरम्। अप्रेक्षावत्त्वप्रसक्तेः। नहि कश्चित् प्रेक्षावानात्मानमात्माधीनैरहिकण्टकादिभिरपुरुषार्थभाजं कुर्वाणो दृष्टः। नच तापसस्येवाऽत्मनो दुःखोत्पादनेन परमात्मनः किञ्चित् प्रयोजनमस्ति, परिपूर्णत्वात्। नचाविद्यादिनोऽनादिताऽत्र समाधानम्, अनादिनोऽपि तत्प्रवाहस्य तदधीनत्वात्। नच लीलामात्रमेतदिति साम्प्रतम्, स्वापुरुषार्थहेतोर्लीलायाः प्रेक्षापूर्वकारिभिरनुपादानात्। अतः परमपुरुषस्य न केनापि प्रकारेण दोषसंसर्गो युज्यत इति न दोषिणा जीवेन तस्यैक्यं युक्तमिति।
॥ चेतनैक्यस्य अनुसन्धानैकप्रमाणकत्वात्,
जीवब्रह्मणोरन्यतरगतधर्मानुसन्धानाभावात्, तयोरैक्याभावः॥
जीवब्रह्मणोरैक्येऽपि ब्रह्मणो जीवगतदुःखाद्यनुसन्धानभावान्नोक्तदोषनुषङ्गः। तथाचोक्तेन प्रकारभेदेन विरोधशान्तिर्भविष्यतीति भावेन शङ्कते अनुसन्धानेति।
अनुसन्धानरहितमैक्यं चेदेकता न तत्।
चेतनैक्येऽनुसन्धानं प्रमाणं नैव चापरम्॥१२६॥
अनुसन्धानं नाम भोगसमाख्यातः स्वीयतया दुःखादिसाक्षात्कारोऽभिमतः। परिहरति एकतेति। तत् तर्हि। जीवस्तावद् ब्रह्मस्वरूपं निर्दुःखत्वादिकं नानुसन्धत्त इत्यविवादम्। ब्रह्मापि चेज्जीवगतं दुःखादिकं नानुसन्दध्यात् तदा तयोरेकता नास्तीत्येवोक्तप्रायं स्यात्। कथमित्यत आह चेतनेति। चो हेत्वर्थः। अस्त्वैक्येऽनुसन्धानं प्रमाणम्। ततः किम्? एकप्रमाणव्यावृत्तौ प्रमेयव्यावृत्त्यभावात्। मा हि भूद् धूमाभावेऽग्न्यभाव इत्यत उक्तम् नैवापरमिति। नन्वस्ति घटस्य घटेनैक्यम्, नत्वनुसन्धानम्, तत् कथमेतदित्यत उक्तम् चेतनेति।
एतदुक्तं भवति चैतन्यावच्छिन्नमैक्यमनुसन्धानैकप्रमाणकम्। आगमादिकं त्वनुसन्धाने सति संवादितया प्रवर्तते। अत एव हि ममाऽत्मा भद्रसेन इति वाक्यमनुसन्धानाभावेन बाध्यते। तथा नायं स इत्यादिवाक्यमनुसन्धानेन। नच प्राग्भवीयदुःखाद्यनुसन्धानमिदानीं नास्ति, अस्ति चैक्यमिति व्यभिचारः शङ्कनीयः। नहि वयं सदाऽनुसन्धानं ब्रूमः। किन्तु यश्चेतनो यत्स्वरूपं कदाचिदनुसन्धत्ते स तेनाभिन्नः, यो नानुसन्धत्ते स तेन नाभिन्न इति। तदेकप्रमाणकस्य तन्निवृत्तौ निवृत्तिरेव। यथा रूपग्रहणनिवृतौ चक्षुर्निवृत्तिः। नच चेतनत्वं शक्यनिवर्तनम्। अभयवादिसिद्धत्वात्। तस्मादेकतैव निवर्तत इति।
॥ परोक्तानुमानस्य सोपाधिकत्वम्॥
एतेन चेतनत्वाद्यनुमानस्य सोपाधिकत्वं चोक्तं भवति। अनुसन्धानं खलु चेतनत्वावच्छिन्नस्यैक्यस्य व्यापकमुपलब्धं देवदत्तादौ। अव्यापकं च चेतनत्वादेः। पक्ष एव तदभावात्। तथाच सुलभः प्रयोगः। जीवब्रह्मणी चेतनत्वे सति परस्परैक्यवती न भवतः, परस्परस्वरूपानुसन्धानरहितत्वात्; सम्प्रतिपन्नवदिति। नच प्रतिज्ञायां विशेषणं व्यर्थम्। शब्दो न स्पर्शवद्विशेषगुण इत्यादाविव हेतुव्यभिचारपरिहारार्थत्वात्।
॥ अनुसन्धानरहितचेतनैक्याङ्गीकारेण न वास्तवैक्यसिद्धिः॥
शङ्कते अनुसन्धानेति।
अनुसन्धानरहितं समुदायैक्यमेव चेत्।
चेतनेष्वस्तु तन्नाममावमेव यतस्ततः॥१२७॥
यतः समुदायैक्यमेव मयोच्यते नात्यन्तैक्यम्। अतश्वेतनेष्वप्यनुसन्धानरहितं तद् युक्तम्।
अयमभिसन्धिः समुदायैक्यवादिना हि जीवब्रह्मणोर्भेदाभेदौ स्वीक्रियेते। तत्रानुसन्धानाभावो भेदनिमित्तस्तज्ज्ञापनेनैव चरितार्थो नाभेदं निवर्तयति। तन्तुपटादिषु हि समुदायैक्यस्थलेषु विरुद्धधर्माध्यासो भेदज्ञापनमात्रेण कृतार्थो नाभेदं बाधते। अन्यथा तत्राप्यभेदाङ्गीकारो दुर्घटः स्यात्। तस्मादैक्यं नानुपपन्नमिति।
गूढाभिसन्धिः सम्प्रतिपत्तिमुत्तरमाह अस्तु तदिति। सर्वथाऽपि परस्परस्वरूपानुसन्धानरहितं जीवब्रह्मणोरैक्यं भवत्वित्यर्थः।
विप्रतिपन्नार्थाङ्गीकारे प्रतिज्ञाहानिर्निग्रहस्थानं स्यादित्यत आह नाममात्रमेवेति। यतस्तदैक्यं नाममात्रम्, न वास्तवम्, ततस्तदभ्युपगमो न दूषणम्।
अयमभिसन्धिः तन्तुपटाद्यभेदो न विरुद्धधर्माध्यासाभावैकप्रमाणकः। प्रत्यक्षादिना तदभेदस्य सिद्धत्वात्। तथाच विरुद्धधर्माध्यासः कालात्ययापदिष्टत्वभयादभेदबाधनान्निवृत्तो भेदसाधनेनैव कृती भवति। तथा यदि चेतनैक्यं निरवकाशप्रमाणान्तरगम्यं स्यात्, तदाऽनुसन्धानाभावोऽभेदमबाधमानो भेदमात्रप्रतिपादनेन चरितार्थः स्यात्। नचैवम्। चेतनैक्यस्यानुसन्धानव्याप्यतयोक्तत्वात्। व्यापकाभावे च व्याप्यनिवृत्तेरावश्यकत्वेनैक्याभावे पुनस्तद्वचनं निरर्थकमेवेति।
॥ जीवब्रह्मणोरैक्याभावादेव अनुसन्धानाभावः॥
भवत्वनुसन्धानैकप्रमाणकं चेतनैक्यम्। अनुसन्धानं च कादाचित्कमप्यैक्यं साधयति। विद्यते च मुक्तावनुसन्धानमित्यैक्यसिद्धिः। मुक्तस्वरूपस्य दुःखादिदोषदूरत्वेन प्रागुक्तदोषाभावश्चेत्यत आह मुक्ताविति।
मुक्तौ स्यादनुसन्धानमित्यपि स्यात् सुदुष्करम्।
सर्वज्ञ एकतां नानुसन्धत्ते नैव सा यतः॥१२८॥
इत्यपि वचनं सुदुष्करं स्यात्। प्रमाणाभावेन सन्दिग्धत्वादिति भावः। किञ्च मुक्तावनुसन्धानं भविष्यतीति वदता वक्तव्यम्, इदानीं कुतोऽनुसन्धानं नास्तीति। अथ ब्रूयात् अविद्याकामकर्मादिनिमित्तप्रतिबन्धकसद्भावादिति। तत्र वक्तव्यम् प्रतिबन्धकसद्भावनिबन्धन एवेदानीमनुसन्धानाभावो न पुनरैक्याभावनिबन्धन इति कुतस्ते निश्चय इति । वयं तु वदामः ऐक्याभावनिबन्धन एवायमिदानीमनुसन्धानाभावो नाज्ञानादिनिमित्त इति। कुतोऽयं निश्चय इति तत्राऽह सर्वज्ञ इति। यतः सर्वज्ञ एकतां नानुसन्धत्ते, अतः सा एकता नैवेति सम्बन्धः।
एतदुक्तं भवति यद्यज्ञानादिनिबन्धनोऽयमनुसन्धानाभावो भवेत्, भवेत् तदा जीवानामेव। तेषामेवाज्ञानादिसम्बन्धित्वात्। परमात्मा त्वनुसन्दध्यादेव। तस्य सर्वज्ञत्वेनाज्ञानाद्यभावात्। नचासावनुसन्धत्ते। यस्मात् “क्षरमतीतोऽहम्” इत्यादितद्वाक्यैर्भेदानुभवस्यैवावगमात्। तेन निश्चिनुमोऽनुसन्धानाभावो नाज्ञानादिप्रतिबन्धकनिबन्धनः। किन्त्वैक्याभावनिमित्त एवेति। ईश्वर एवासाविति चेत्। कस्ततोऽन्यः परमात्मा? प्रमाणाभावात्। किञ्चेश्वरोऽपि सर्वज्ञ एवेति किमनेनेति।
॥ दुःखाद्यनुसन्धानस्य कथञ्चित् परिहरणीयत्वेऽपि ऐक्यानुसन्धानस्यापरिहार्यत्वम्॥
अपिचैक्ये प्रमाणसिद्धेऽनुसन्धानाभावः प्रतिबन्धकनिबन्धन इति कल्पनोपपद्यते। नच तदस्तीत्युक्तम्। ननुच दुःखादिकं जीवस्य न चैतन्यस्वरूपानुबन्धि। किन्नाम। विशिष्टाकारगतमेव। तत् कथमीश्वरोऽनुसन्दधीतेति। दुःखाद्यननुसन्धानेऽप्यैक्यं तावदनुसन्दध्यादेवेत्युक्तम् एकतामिति। अत एव
“विभेदजनकेऽज्ञाने नाशमात्यन्तिकं गते।
आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति”
इत्यादिवाक्यान्यन्यथा योज्यानि। विभेदशब्दो हि विरोधवाची। मित्रभेद इति यथा। तथाच जीवस्य परमात्मना विपरीतमतित्वमज्ञाननिबन्धनम्। तदपाये न भवतीत्यर्थः।
॥ सर्वज्ञस्य परमात्मन आगामिनि काले ऐक्यानुसन्धानाङ्गीकारे तस्य मिथ्याज्ञानित्वप्रसङ्गः॥
परमात्मन ऐक्यानुसन्धानाभावोऽसिद्धः। यत इदानीमननुसन्दधदपीदमागामिनि कालेऽनुसन्धास्यति। नहि सार्वकालिकमनुसन्धानमैक्यस्य व्यापकमित्याशङ्कते पश्चादिति।
पश्चात् स्यादनुसन्धानं चेन्मिथ्याज्ञानिता भवेत्।
विद्यमानानुसन्धानं नचेदज्ञत्वमापतेत्॥१२९॥
परमात्मनो जीवैक्यस्येति शेषः। अत्र प्रमाणं नास्तीति स्फुटः परहिारः। गूढाभिमन्धिः परिहारान्तरमाह मिथ्येति। परमात्मन इति शेषः। सर्वज्ञो हि यदीदानीं जीवैक्यं नानुसन्धत्ते, तदा तदसदेव स्यात्, सप्तमरसादिवत्। तथाचाऽगामिनि काले तदनुसन्धास्यति चेत्, मिथ्याज्ञानी प्रसज्येतेत्यभिसन्धिः।
नन्वविद्यमानं विद्यमानतयाऽनुसन्दधानो मिथ्याज्ञानी भवति। नचैक्यमविद्यमानम्। तत् कथं परमात्मनो मिथ्याज्ञानित्वमित्यविदिताभिसन्धेराशङ्कामभिसन्धिमुद्धाटयन् परिहरति विद्यमानेति। यद्यैक्यं विद्यमानम्, तर्हि तदिदानीमननुसन्दधदसर्वज्ञः स्यात्। नच तद् युक्तम्। अतो नास्त्येव तदिति वाच्यम्। तथाच तदनुसन्धास्यन् कथं मिथ्याज्ञानी न भवेत्? एतेनेश्वरस्येदानीं शरीरसद्भावादननुसन्धानमित्यपि निरस्तस्। सार्वज्ञ्यहानिप्रसङ्गानिस्तारात्। ईश्वरस्य साकारताया नित्यत्वेन न भाविन्यप्यनुसन्धाने प्रत्याशा।
॥ ऐक्यस्य पश्चादुत्पत्त्यसम्भवः॥
यद्यैक्यमविद्यमानमेव, यदिवा विद्यमानमेव तदोक्तदोषद्वयं स्यात्। नचैवम्। किन्त्विदानीमसदेव पश्चाज्ज्ञानोत्तरकाले भवेत्। तत्रेदानीमसत्त्वान्न परमात्मनस्तदननुसन्धाने सार्वज्ञ्यहानिः। पश्चाद् भावाच्च न तदनुसन्धाने मिथ्याज्ञानित्वमिति परिशिष्टं पक्षं कस्यचिन्मतं वा शङ्कते असदिति।
असदैक्यं भवेत् पश्चाद् यदि स्यात् सप्तमो रसः।
परिहरति स्यादिति। तर्हीति शेषः। नह्यनादौ संसारे यस्य येन नैक्यं तत् तेनैकीभूतमुपलब्धम्। नच तथा भविष्यतीत्यत्र प्रमाणमस्ति। “परेऽव्यये सर्व एकीभवन्ति”,
“यावन्मोक्षं तु भेदः स्याज्जीवस्य परमस्य च।
ततःपरं न भेदोऽस्ति भेदहेतोरभावतः”
इत्यादिश्रुतिस्मृतीनां स्थानैक्यादिविषयत्वेन सावकाशत्वात्। अतः सप्तमो रसो भविष्यतीतिवदियं प्रत्याशाऽत्यन्तासम्भावितविषयेति भावः।
॥ मुक्तौ संसारे च भेदाभेदाङ्गीकारस्य दूषणम्॥
जीवब्रह्मणोः संसारे भेदाभेदौ, मोक्षे त्वभेद एवेति संसारे केवलभेदो मुक्तावत्यन्तभेद इति भेदाभेदमतद्वयदोषातिदेशेनावस्थाद्वयेऽपि भेदाभेदाविति तृतीयमतमपाकरोति समुदायेति।
समुदायैक्यमेतस्माद् दूरतोऽपाकृतं सदा॥१३०॥
सदा समुदायैक्यमिति सम्बन्धः। एतस्मात् प्रमाणशून्यत्वादाभासत्वादिप्रमाणविरुद्धत्वाच्च। इयांस्तु विशेषः अभेदकार्यस्यानुसन्धानस्य भेदः प्रतिबन्धकः। तस्मिन्नपगते मुक्तावनुसन्धानं भविष्यतीत्यस्ति पूर्वयोर्मतयोः प्रत्याशा। अत्र तु साऽपि नास्ति। भेदस्य सदातनत्वात्। अनुसन्धानं च चेतनैक्यस्य व्यापकमित्युक्तम्। तदिदमुक्तम् दूरत इति। देहाद्येवानुसन्धानस्य प्रतिबन्धकमिति चेत्, न। कायव्यूहवतां योगिनामनुसन्धानसद्भावस्य वक्ष्यमाणत्वात्। (१०२५, ३३५५)
॥ गुणपूर्णत्वं दोषदूरत्वं च परब्रह्मणो लक्षणम्॥
यद्येवं न सकलचेतनसमुदायः परमात्मा, तर्हि कियती सीमा परमात्मत्वस्येत्यत आह अत इति।
अतोऽशेषगुणोन्नद्धं निर्दोषं यावदेव हि।
तावदेवेश्वरो नाम ...................॥१३१॥
साधकस्यानुसन्धानस्य सर्वत्राभावात्, बाधकस्याऽभासत्वादेर्भावात्, इह तु तद्भावाभावाभ्यामित्यर्थः। अशेषगुणोन्नद्धत्वं निर्दोषत्वं च प्रत्येकं निर्धारणहेतुत्वेनोक्तम्। स्वमते ब्रह्मण ईश्वरातिक्तस्य अभावं सूचयितुं सर्वत्रेश्वर इत्याद्युक्तिः। इदं हि ब्रह्मणो लक्षणं श्रुत्यादिसिद्धमिति हिशब्दः।
॥ “नेह नाना” इत्यादिश्रुतेः परमात्मनः स्वाभिन्नत्वमर्थः॥
तावद् वस्त्वीश्वरो नामेत्युक्ते समुदायैक्यं प्रतीयते तन्निराकरोति तत्रेति।
..................तत्र भेदोऽपि न क्वचित्॥१३१॥
नेह नानाऽस्ति किमपि हरयोऽयमयं हि सः।
इत्यादिश्रुतिमानेन ......................।
क्वचिदिति। परस्परं परमात्मना चेत्यर्थः। एतेनैतदपि निरस्तम् “ईशरूपेष्विवोदिता’ इति यदुक्तं पूर्वपक्षिणा। तत् कुत इत्यत आह नेहेति। अनेन “नेह नानाऽस्ति किञ्चन” इति श्रुतिमुपादत्ते। हरय इति “अयं वै हरयः” इत्यादिकाम्। अयं हि स इति “अयमेव स योऽयमात्मा” इत्यादिकाम्। पूर्वेणैवान्वयः। एतासां श्रुतीनामभेदपरत्वान्न विवक्षितार्थे मानत्वमित्याशङ्कानिरासाय मानेनेत्युक्तम्। आद्यश्रुतावीश्वररूपेषु भेदनिराकरणस्य स्पष्टत्वात् तृतीयायामेवशब्दस्य श्रवणात् तदनुसारेण द्वितीयायामपि वैशब्दस्यैवार्थत्वोपपत्तेरेताः श्रुतयो विवक्षितार्थे मानतामापद्यन्त इति भावः।
॥ अंशांशिनोः परस्परानुसन्धानसमर्थनम्॥
चेतनैक्यस्यानुसन्धानं व्यापकमित्युक्तम्। क्व तदुपलब्धमिति चेत्, न। देवदत्तसम्बन्धिनः सुखादेर्देवदत्तेनानुसन्धीयमानत्वात्। उपाधिभिन्ने नोपलब्धमिति चेत्, न। हस्तपादाद्युपाधिभिन्नेऽपि दर्शनात्। विश्र्लिष्टोपाधिभिन्ने न दृष्टमिति चेत्, तत्राऽह जीवांशा इति।
................जीवांशाः सर्व एव च।
नियमेनानुसन्धानवन्तो यद्येकता स्वतः॥१३२॥
जीवानामिन्द्रादीनामंशा अर्जुनादयः। एतच्च “एक आत्मनः शरीरे भावात्” इत्यादिना समर्थयिष्यते। चशब्देनेश्वरांशाः समुच्चीयन्ते। ननु “आत्मा वै पुत्रनामासि” इत्यादिवचनात् पितापुत्रयोः सत्यप्यैक्येऽनुसन्धानं नास्तीति कथं तद्व्यापकमित्यत आह यदीति। तर्ह्यनुसन्धानवन्त इति सम्बन्धः।
अयं भावः वास्तवस्यैक्यस्यानुसन्धानं व्यापकमभिमतं नतूपचरितस्य। नचाभिमतस्य व्यभिचारोऽस्ति। पितापुत्रैक्यं तूपचरितमेवेति न तत्र व्यभिचारो दोषायेति। स्वतो वस्तुतः। यद्वा परमेश्वरांशत्वहेतुरसिद्धश्चेत्याह जीवांशा इति।
एतदुक्तं भवति चैतन्यावच्छिन्नांशत्वस्यानुसन्धानं व्यापकमर्जुनादिषु दृष्टम्। तच्च परमेश्वरजीवयोर्नास्तीत्युपपादितम्। व्यापकाभावे च व्याप्याभावोऽवश्यम्भावी। नच चैतन्यव्यावृत्तिर्युक्तेत्यंशत्वमेव व्यावर्तते। तथाच प्रयोगः जीवेश्वरौ नचेतनत्वे सत्यंशांशिनौ, परस्परानुसन्धानशून्यत्वात्; यथा घटपटौ, यथाचेन्द्रार्जुनाविति।
ननु पितापुत्रयोरंशांशिभावे सत्यप्यनुसन्धानं नास्तीति कथं तत् तस्य व्यापकमित्यत आह यदीति। एकता एकदेशतारूपांशता। पितापुत्रयोरंशांशिभावो नैकदेशतादिरूप इति भावः।
नन्वनुसन्धानाभावेनांशत्वव्यावृत्तावंशाधिकरणविरोधः स्यात्। न स्यात्। अंशशब्दो हि तदेकदेशार्थः, तत्सदृशाद्यर्थश्च। तच्च द्वितीयमंशत्वमंशाधिकरणप्रतिपाद्यं न निराक्रियते। तस्यानैकान्त्यप्रसङ्गेन परेण हेतूकर्तुमशक्यत्वात्। आद्यस्यासिद्विव्युत्पादने न कोऽपि दोषः।
॥ अंशांशिनोः क्वचित् अनुसन्धानाभावस्य ईश्वराचिन्त्यशक्तिनिमित्तकत्वम्॥
नन्विन्द्रार्जुनादीनामनुसन्धानसद्भावे कथमिन्द्रानभिमतं खाण्डववनदाहादिकमर्जुनः कृतवान्? कथञ्चेन्द्रोऽर्जुनानभिमतं दहनशमनादिकम्? नहि हस्तादावनुसन्धाने सतीदं दृष्टमित्यत आह अंशिन इति।
अंशिनोऽशेषसन्धानमत्यल्पस्यापि विद्यते।
भुवि जातेन चांशेन सुखदुःखादि तद्गतम्।
अनुभूयते विशेषस्तु कश्चिदीशकृतो भवेत्॥१३३॥
ईशस्याचिन्त्यशक्तित्वान्नाशक्यं क्वापि विद्यते।
अत्यल्पस्याप्यंशिनोंशगताशेषानुसन्धानं विद्यत एव। तथाऽपि कश्चिद् विशेषोंऽशानभिमतकरणादिरीशकृतो भवत्। अंशकीर्त्याद्यर्थमीश्वरप्रेरितेनांशिना क्रियत इत्यर्थः। अल्पस्यापीति स्वरूपसङ्कीर्तनम्। भुवि जातेनांशेन चांशिगतं सुखदुःखाद्येवानुभूयते, नतु सर्वम्। सत्यप्यैक्ये कश्चित् सर्वाननुसन्धानरूपो विशेषस्तु ईशकृतो भवेत्। भूम्याद्यपकृष्टदेशम्, गर्भवासाद्यवस्थाम्, मानुषान्नोपभोगादिकं च निमित्तीकृत्येश्वरेण क्रियते। अतोंऽशस्यांश्यनभिमतकरणादिकं युज्यते। नह्यशेषानुसन्धानमस्माभिश्चेतनैक्यादेर्व्यापकमुक्तम्। किन्त्वनुसन्धानमात्रमिति भावः।
नन्वीश्वरोऽपि कथं स्वानभिमतं कारयति। कथञ्चाभिन्नेऽनुसन्धानं प्रतिबध्नातीत्यत आह ईशस्येति। दृश्यन्ते खल्वघटितं घटयन्त्येश्वरशक्त्या प्रेरिताः कामक्रोधादिपरवशा ऐहिकामुष्मिकदुःखहेतुं स्वशिरश्छेदं पातकं च कुर्वाणा इत्याशयः।
॥ जीवब्रह्मैक्यस्य ईश्वराचिन्त्यशक्तिनिर्वाह्यत्वासम्भवः॥
नन्वेवन्तर्हि मयाऽपि शक्यते वक्तुम्। यथाऽर्जुनस्यैक्ये सत्यापीन्द्रगताशेषानुसन्धानमचिन्त्यया ईशशक्त्या प्रतिबद्ध्यते, तथा जीवपरमात्मनोरभेदेऽपि तथैवानुसन्धानप्रतिबन्धो भविष्यति। अपकृष्टदेशादिकमिव देहाद्युपाधयो निमित्ततामापत्स्यन्ते । तथाचानुसन्धानाभावादैक्याभाव इत्यनुपपन्नम्। अनुसन्धानस्यैक्यव्यापकत्वं चासति प्रतिबन्ध इति कल्प्यत इत्यत आह सेति।
सेशताऽनुपपन्नैव यदि जीवैकताऽस्य हि।
सा अघटितघटनारूपा अस्य परमात्मनः। भवेदेतद् यदि भवन्मते परमात्मनोऽचिन्त्यशक्तिमत्तारूपेशता स्यात्, जीवेनाभिन्नस्य सेशतैवानुपपन्ना। कुतस्तयाऽनुसन्धानप्रतिबन्धकल्पनादिकमिति। हिशब्देन यो जीवेनाभिन्नो नासावचिन्त्यशक्तिरूपेशतोपेतः, यथा देवदत्त इति व्याप्तिं सूचयति।
॥ ईश्वरानीश्वरयोरैक्योक्तिः सर्वमानविरुद्धा, स्वव्याहता च॥
जीवेनैकीभूतोऽपि परमात्माऽस्त्वीशतोपेतः। किं विपक्षे बाधकमित्यत आह अनीशस्येति।
अनीशस्येशतेत्येव विरुद्धं सर्वमानतः॥१३४॥
जीवस्तावदनीश इत्यनुभवसिद्धम्। तदभेदे परमात्माऽप्यनीश इत्युक्तमेव। तथाच अनीशस्येशताऽस्त्विति शङ्कितं स्यात्। एतच्च सर्वप्रमाणैर्विरुद्धम्, स्वव्याहतं च। नचैवंविधमनुन्मत्तः शङ्कते। शङ्काया एवानुदये कुतो बाधकोपन्यासावसर इत्येवशब्दार्थः।
॥ तत्वमस्यादिश्रुतीनामैक्यपरत्वनिरासः॥
स्यादेतत्। सेशताऽनुपपन्नैवेति तकः, अनुमानं वा। नाद्यः। ऐक्यस्य श्रुतिसिद्धत्वेन विपर्ययपर्यवसानानुपपत्तेः। न द्वितीयः, जीवैकताया भवतामसिद्धत्वात्। यदिपदवैयर्थ्याच्चेति। मैवम्। यस्य जीवैक्यं सिद्धम्, तस्यानीशताविषयस्वार्थानुमानापादनस्याभिमतत्वात्। तर्कपक्षेऽपि न दोषः। श्रुतीनामैक्यपरत्वाभावादित्याशयवानाह ईशत्वेनैवेति।
ईशत्वेनैव विज्ञातमनीशत्वेन चेच्छ्रुतिः।
अनीशत्वेन विज्ञातमीशत्वेनाथवाऽऽदिशेत्॥१३५॥
उपजीव्यविरोधेन नैव मानत्वमेष्यति
त्रैविध्यं खल्वत्र सम्भवति। काचित् श्रुतिः प्रमाणान्तरेण ईशत्वेनैव विज्ञातं परमात्मानमुद्दिश्य अनीशत्वेन प्रमितानीशत्वजीवभावेन आदिशेत्। काचिदनीशत्वेन प्रमितं जीवमुद्दिश्य ईशत्वेन प्रमितेशभावपरमात्मत्वेनोपदिशेत्। काचिदुभावपि तथा प्रमितावुद्दिश्यैक्यमुपदिशेदिति। सर्वथाऽप्युपजीव्यविरोधप्रसङ्गेन नैक्ये प्रामाण्यमश्नुन इति। यदत्र वक्तव्यं तत् “कथं ब्रह्मेति तज्ज्ञेयम्” इत्यादिना वक्ष्यते। चेच्छ्रुतिरिति द्वितीयार्धेऽपि ग्राह्यम्। आदिशेदिति प्रथमार्धेऽपि। तृतीयप्रकारोऽप्यध्याहार्यः। तर्हीतिपदमुपजीव्येत्यतः पूर्वम्।
॥ विरुद्धयोरैक्यस्य ईश्वराचिन्त्यशक्तिघटितत्वनिरासः॥
ननु परमात्मनोऽघटितघटनस्वरूपया शक्त्यैवेशतानीशतयोः विरुद्धयोरपि एकत्र समावेशो भविष्यति। तत् कथमुपजीव्यविरोध इत्यत आह अत एवेति।
अत एवेशतासिद्धेर्न किञ्चिच्छक्यमस्य च॥१३६॥
जीवैक्यादेवेत्यर्थः। ईशता उक्तरूपा शक्तिः। किञ्चित् ईशतानीशतयोरेकत्रावस्थानम्। अस्य च परमात्मनोऽपि जीवैक्येनेशताभावानुमानमशक्यम्। ईशतायाः “पराऽस्य शक्तिः” इत्यादिश्रुतिसिद्धत्वात्।
॥ प्रमितस्यईश्वरैश्वर्याविरुद्धस्यैव पदार्थस्य ईश्वराचिन्त्यशक्त्या घटमानत्वम्॥
किञ्च जीवैक्येऽपि भेदस्य विद्यमानत्वादीशतोपपद्यत इत्याशङ्कां परिहरन्, तर्हि कियती सीमा परमात्मशक्त्याऽघटितघटनकल्पनस्येति मन्देन जिज्ञासिते सत्याह ईशत्व इति।
ईशत्वेऽनीशभेदेन श्रुत्या सम्यक् प्रकाशिते।
अयुक्तमपि चान्यत्र युक्तं भवति तद्बलात्॥१३७॥
अतोऽन्यत्रापि यद् दृष्टं तदीशेनैव कल्प्यते।
श्रुत्याभासाप्तमपि नहीशत्वपरिपन्थि यत्॥१३८॥
अत्रानीशभेदेनाङ्गीकृतेनैवेशत्वं श्रुत्या सम्यक् प्रकाशितं भवतीति वदता श्रुतिविरोधः परिहृतः। तथाहि यदि जीवपरमात्मैक्यं तात्विकम्, तदा निरवकाशानुमानविरुद्धा श्रुतिरुपचरितार्था भवन्ती नेशत्वं व्यवस्थापयेदिति सुस्थः स्वार्थानुमानप्रसङ्ग इति। सम्यगनीशभेदेन नतु भेदमात्रेणेति वा। तथाच भेदेनेशतोपपत्स्यत इति निरस्तम्। अनीशताहेतोरभेदस्य विद्यमानत्वात्। किमभेदेनानीशताऽस्तु, उत भेदेन मा भूदिति सन्देहानिवारणात्। अन्यत्र ईश्वरात्। अयुक्तं परस्परपरिहारेण वर्तमानमपि युक्तं भवति। ईश्वर इति शेषः। तद्बलात् ईशत्वबलात्। दृष्टमिति अत्रापि सम्बद्ध्यते। अतः परमेश्वरात्। ईशेनेति भावप्रधानो निर्देशः। कल्प्यते युक्ततयेति शेषः। उक्तस्यापवादः श्रुतीति। आभासत्वं च वस्तुवृत्तापेक्षया। हीति तत्रोपपत्तिः।
अयमर्थः यत् क्वचिद् विरुद्धमिव प्रतीयमानमपीश्वरे तदितरत्र वा प्रमाणसिद्धमीश्वरैश्वर्यविरोधि च न भवति। यथाऽणुत्वमहत्त्वयौगपद्यादि, यथावाऽर्जुनादीनामशेषानुसन्धानाभावः, तत् सर्वमीश्वरैश्वर्यबलेन घटत इत्यङ्गीकार्यम्, नतु निराकार्यम्। यत् पुनरप्रमितं तदीश्वरेश्र्वैर्याविरुद्धमपि न कल्पनीयम्। शशविषाणादिकल्पनापत्तेः। यच्च प्रमितमपि ईश्वरैश्वर्यविरोधि तन्न कल्पनीयमेव। कल्पकविघातकत्वात्। किन्तु तस्य प्रमाणस्य यथायोगमाभासत्वं वर्णनीयम्, यथा प्रकृतमिति।
॥ ऐक्यमतस्य प्रमाणविरुद्धत्वम् ॥
“अनीशस्येशतेत्येव विरुद्धं सर्वमानतः” इत्युक्तम्। तदुपपादयितुं स्मृतिमेव पठति ईश इति।
ईशोऽनीशो जगन्मिथ्या दुःखी मुक्तो भिदा नहि।
इति प्रतिज्ञाव्याघातः सर्वदोषाधिकाधिकः॥१३९॥
इति हि ब्रह्मतर्कोक्तिरतिहेयमतोऽखिलैः।
बुभूषुभिर्मतमिदं जीवेशाभेदवादिनः॥१४०॥
द्विविधो हि प्रतिज्ञाविरोधः, प्रमाणस्ववाक्यविरोधभेदात्। तत्रेशोऽनीशो दुःखी मुक्त इति स्ववाक्यविरोधस्योदाहरणद्वयम्। जगन्मिथ्या भिदा नहीति प्रमाणविरोधस्य।
यद्वेशोऽनीशो दुःखी मुक्त इति स्ववाक्यविरोधोदाहरणे। जगन्मिथ्येति स्वन्यायविरोधस्य। जगतो मिथ्यात्वे तन्न्यायेन मिथ्यात्वस्यापि मिथ्यात्वापत्त्या सत्यत्वप्रसङ्गात्। भिदा नहीति स्वक्रियाविरोधस्य। अनया हि प्रतिज्ञाक्रियया साध्यधर्मधर्मिणोर्भेदस्तावत् प्राप्यत इति। सर्वदोषेष्वधिकाधिकोऽत्यन्ताधिकः। स्मृत्युदाहरणस्य साध्यमाह अतिहेयमिति। इदम् इशस्यानीशत्वम्।
॥ ईश्वराचिन्त्यशक्तेः अप्रमिताद्यविषयकत्वे प्रमाणोपन्यासः॥
“ईशत्वेऽनीशभेदेन” इत्यादिनोक्तेऽर्थे स्मृतिमप्याह नायुक्तमिति।
नायुक्तमीशितुः किञ्चिदीशत्वस्याविरोधि यत्।
यदीशत्वविरोधि स्यात् तदेवायुक्तमञ्जसा॥१४१॥
ईशत्वस्याविरोधेन योजयित्वाऽखिलाः प्रमाः।
सिद्धेशत्वेन चायुक्तमपि हीशे न योजयेत्॥१४२॥
मानतः प्राप्तमखिलं नामानं योजयेत्कवचित्।
इति हि ब्रह्मतर्कोक्तिरतो युक्तमिहोदितम्॥१४३॥
यस्मान्नायुक्तमीशतुः किञ्चिदित्यादि तस्मादीशत्वस्याविरोधेनेत्यादि। सिद्धमीशत्वं यस्यासौ तथोक्तः। तेनेशेन संयोजयेत्। ईश्वरेऽस्तीति जानीयात्। अपिपदादन्येनापि। सिद्धेनेशत्वेन निमित्तेनेति वा। स्मृत्युदाहरणस्य प्रयोजनमाह अत इति। तस्मादत्यन्तभिन्न एव ब्रह्मणा जीव इति स्थितम्।॥*॥ इत्युपमाधिकरणम्॥१०॥
अथ अरूपवत्त्वाधिकरणम्॥९॥
॥ भगवतः प्राकृतदेहाभावात् जन्ममरणाप्रसक्तिः, स्वरूपभूतगुणात्मकदेहाङ्गीकाराच्च
न श्रुत्यप्रामाण्यस्य, सौन्दर्यसौलक्षण्याद्यभावस्य च प्रसङ्गः॥
अरूपवदेव हि तत्प्रधानत्वात्। अत्राधिकरणे प्रथमसूत्रेण ब्रह्मणो रूपराहित्यमुपपाद्य “प्रकाशवच्चावैयर्थ्यम्” इति द्वितीयसूत्रेण रूपवत्त्वविषयाणां श्रुतीनां वैयर्थ्यमाशय विलक्षणरूपवत्त्वाङ्गीकारेण परिहृतम्। विलक्षणरूपवत्त्वं च, “आह च तन्मात्रम्”, “दर्शयति चाथो अपि स्मर्यते” इति सूत्रद्वयेन समर्थितमिति भाष्येण प्रतीयते। तदनुपपन्नम्। अन्ततो रूपवत्त्वाङ्गीकारे “अरूपवदेव हि तत्” इत्यस्यावक्तव्यत्वापातात्। प्रयोजनाभावाच्चास्य विचारस्येत्यतश्चतुःसूत्र्यास्तात्पर्यमाह स चेति।
ॐ अरूपवदेव हि तत्प्रधानत्वात् ॐ॥१४॥
ॐ प्रकाशवच्चावैयर्थ्यम् ॐ॥१५॥
ॐ आह च तन्मात्रम् ॐ॥१६॥
ॐ दर्शयति चाथो अपि स्मर्यते ॐ॥१७॥
स चाप्राकृतरूपत्वादरूपः स्वगुणात्मकम्।
रूपमस्य शिरःपाणिपादाद्यात्मकमिष्यते।
अतो नानित्यता नैव श्रुतिद्वयविरोधिता॥१४४॥
स परमात्मा । प्रकृतिशब्दोऽन्येषामपि तत्वानामुपलक्षकः। अप्राकृतरूपत्वात् प्राकृतरूपरहितत्वात्। गुणात्मकमित्युक्ते सत्त्वादीनां प्रतीतिः स्यात्। तन्निरासार्थं स्वशब्दः। ये परमात्मनः स्वरूपभूता गुणा आनन्दाद्याः, तदात्मकमिति। रूपशब्देन च शुक्लादिगुणप्रतीतिः स्यात्। अतः शिरःपाणीति विवरणं कृतम्। अतो रूपवांश्चेति शेषः। विचारप्रयोजनं दर्शयति अत इति। अनित्यता जन्ममरणवत्ता। नापि सौन्दर्याद्यभाव इति च द्रष्टव्यम्। तथाच तस्मिन् भक्तिरुपपन्नेति शेषः।
॥ भगवद्रूपस्य लोकविलक्षणत्वे रूपशब्दाप्रवृत्तिमाशय परिहारकथनम्॥
यद्यस्ति परमात्मनो रूपम्, कथन्तर्हि तस्य प्रसिद्धवैलक्षण्यमात्रेणारूपत्वव्यवहार इत्यशङ्कापरिहारार्थत्वेन “प्रकाशवत्” इति सूत्रावयवो भाष्ये व्याख्यातः। इदानीं यदीश्वररूपं लोकविलक्षणं तदा तत्र रूपशब्दप्रवृत्तिर्दुर्घटा स्यात्। सम्बन्धग्रहणानुपपत्तेः। तथाच रूपवत्त्वश्रुतीनां वैयर्थ्यं दुष्परिहरमित्याशङ्कापरिहारार्थत्वेनापि व्याचष्टे यथाहीति।
यथाहि तैजसस्यैव प्रकाशस्योज्झितावपि।
आत्मैव ज्योतिरित्याह जीवस्येशं श्रुतिस्तथा॥१४५॥
तैजसस्यैव प्रकाशस्येत्येतत् तैजस एव हि सौरादिरालोकः प्रकाशब्दवाच्यः प्रसिद्धस्तस्येति व्याख्येयम्। उज्झितावपि परमेश्वरस्य तत्त्वाभावेऽपीति भावत्। “आत्मैवास्य ज्योतिर्भवति” इति श्रुतिर्जीवस्येशं प्रकाशमाहेत्यर्थः। तथा लोकविलक्षणेऽपि भगवद्रूपे रूपशब्दप्रवृत्तिर्युक्तेति शेषः। उपपत्तिस्तु “परमतः” इत्यत्र वक्षमाणाऽत्राप्यनुसन्धेयेति। (१०५६)
॥ व्युत्क्रमेण व्याख्याने निमित्तम्॥
नन्वेतदधिकरणम् “अत एव चोपमा” इति सूत्रात् पूर्वम्। तत् कथं पश्चाद् व्याख्यातम्? उच्यते “अत एव च” इति सूत्रं “न स्थानतोऽपि” इत्यधिकरणेन सङ्गतमिति ज्ञापनाय क्रमभेदः। तत्सिद्धमर्थमुपजीव्य पूर्वपक्षोत्थानात्। तथाच भाष्यम् “यस्मादेवम्” इत्यादि। अत्रापि “ईशरूपेषु” इत्यादि। अथ तदनन्तरमेव किं न कृतम्? अरूपवत्त्वाधिकरणार्थस्य “अत एव च” इति सूत्रार्थं प्रति हेतुत्वेनोपोद्धातलक्षणया सङ्गत्या वर्णितस्याव्यवधायकत्वात्। हेतुत्वमपि प्रपञ्चयितुमाचार्येण स चाप्राकृतरूपत्वादिति चशब्दो निबद्धः। कालत्रयेऽप्यशरीरात् परमात्मनो जीवस्यात्यन्तभेद एव ह्युपपन्न इति॥*॥ इत्यरूपवत्त्वाधिकरणम्॥९॥
अथ वृद्धिह्रासाधिकरणम्॥१२॥
॥ मौक्तानन्दतारतम्यस्य भक्तितारतम्यनिमित्तकत्वम्॥
वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवम्। यदर्थं भगवन्महिमाऽत्रोच्यते सा भक्तिः पुरुषेषु तारतम्येन तिष्ठतीत्येतदिहोपपाद्यते। तथाहि अस्ति भक्तेर्वृद्धिह्रासभाक्त्वम्। कुतः? ब्रह्मादीनामस्मदादीनां च भक्तत्वेऽन्तर्भावात्। एवं भक्तितारतम्येऽङ्गीकृते एवेश्वरस्योभयान् प्रति सामञ्जस्यसम्भवादिति। तदेतदसङ्गतम्। युक्तेः प्रतिज्ञातार्थेन सह सम्बन्धाप्रतीतेरित्यत आह तद्भक्तीति।
ॐ वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवम् ॐ॥२०॥
तद्भक्तितारतम्येन तारतम्यं विमुक्तिगम्।
ब्रह्मादीनां च सर्वेषामनान्दादेर्यथाक्रमम्॥१४६॥
ब्रह्मादीनां चशब्दादस्मदादीनामित्येवं सर्वेषां यथाक्रमं श्रौतक्रमानतिरेकेण यद् विमुक्तिगमानन्दादेस्तारतम्यं तद् भगवद्भक्तितारतम्येनैव भवतीत्यर्थः।
एतदुक्तं भवति साधितं तावन्मौक्तस्याऽनन्दादेः फलस्य भक्तिसाध्यत्वम्, “अम्बुवदग्रहणात्तु न तथात्वम्” इति सूत्रेण। तच्च “अथात आनन्दस्य मीमांसा” इत्यादिश्रुत्या तारतम्यवदवगम्यते। साध्यतारतम्ये च साधनतारतम्यमावश्यकम्। अन्यथा तस्याऽकस्मिकत्वप्रसङ्गात्। फलदातुरीश्वरस्य असामञ्जस्यप्रसक्तेश्च। नचैवम्। अतोऽस्ति भक्तेर्वृद्धिह्रासभाक्त्वमिति॥*॥ इति वृद्धिह्रासाधिकरणम्॥१२॥
अथ स्थानविशेषाधिकरणम्॥१७॥
॥ व्युत्क्रमेण व्याख्याने निमित्तम्॥
स्थानविशेषात् प्रकाशादिवत्। यद्यप्येतदधिकरणं “परमतः” इत्यतोऽनन्तरम्। तथाऽपि तेनेवानेनापि सङ्गतिरस्य। अनेन विषयोपक्षेपात् तेन पूर्वपक्षोपपत्तिदर्शनात्। यद्वाऽनेन पूर्वपक्षयुक्त्युत्थानात् तेन विषयोपक्षेपात्। तथाहि न ब्रह्मादीनामानन्दस्य तारतम्यमुपपद्यते। भगवदानन्दप्रतिबिम्बत्वाभ्युपगमात्। बिम्बे च तारतम्याभावस्य “न स्थानतोऽपि” इत्युक्तत्वात्। अन्यथाऽऽकस्मिकत्वप्रसङ्गदिति। यद्वा न ब्रह्माद्यानन्दो भगवदानन्दप्रतिबिम्बः। परस्परं विचित्रत्वात्। बिम्बाभिमते च वैचित्र्याभावादिति।
॥ ब्रह्माद्यानन्दस्य भगवदानन्दप्रतिबिम्बत्वेऽपि
उपाधिगतसाधनभूतभक्त्यादिवैचित्र्याद् वैचित्र्यम्॥
अतोऽत्रेदं विशदयति प्रतिबिम्बवदिति।
ॐ स्थानविशेषात् प्रकाशादिवत् ॐ॥३५॥
प्रतिबिम्बवदप्येषामानन्दोऽन्यगुणा यथा।
यद्यप्येषां ब्रह्मादीनामानन्दः प्रतिबिम्बवत्। प्रसिद्धप्रतिबिम्बैस्तुल्यं वर्तते। भगवदानन्दप्रतिबिम्बो भवतीति यावत्। तथाऽपि परस्परं विचित्रो भवतीति शेषः। कथम्? अन्येषां साधनभूतानामुपाधिगुणानां भक्त्यादीनां वैचित्र्यानतिक्रमेण। तत्र दृष्टान्तः प्रतिबिम्बवदिति। यथा सूर्यादिप्रतिबिम्बानां सूर्यकान्तजलादिगतानां सूर्यादिबिम्बवैचित्र्याभावेऽपि सूर्यकान्तादिस्थानगुणवैचित्र्याद् वैचित्र्यं तथेत्यर्थः।
॥ बिम्बभूतभगवदैश्वर्यवशाच्च प्रतिबिम्बे आनन्दादिवैचित्र्यम्॥
वैचित्र्ये हेत्वन्तरमाह नारायणेति।
नारायणगुणाधीनश्च...................।
बिम्बशक्त्या च विचित्र इत्यर्थः। स्थानगुणस्य बिम्बसामर्थ्यस्य च प्रयोजकत्वं न्यायविवरणे व्युत्पादितम्। अनेन “उपपत्तेश्च” इति सूत्रं व्याख्यातं भवति।
॥ बिम्बाधीनत्वम्, बिम्बसादृश्यमेव प्रतिबिम्बत्वम्, नतु बिम्बाभिन्नत्वम्॥
बिम्बप्रतिबिम्बयोरैक्यं केचिदिच्छन्ति। अतः प्रतिबिम्बत्वं व्याख्यातम् नारायणेति। गुण आनन्दः। चशब्देन तत्सदृशश्चेति ग्राह्यम्। बिम्बाभिन्न एव किं न भवतीत्यत आह अत्यल्प इति।
................... अत्यल्पस्तदपेक्षया।
तस्माद् भिन्नश्च सततमन्यज्ज्ञानं परस्य च॥१४७॥
अन्यज्ज्ञानं तु जीवानामन्य आनन्द ईशता।
मुख्येशता परेशस्य गौणी जीवस्य सा यतः॥१४८॥
इति श्रुतेः..............................।
चो हेतौ। यस्मात् तदपेक्षयाऽत्यल्पः, तस्मात् सततं भिन्न इति। तदपेक्षयाऽत्यल्पत्वं कुत इत्याकाङ्क्षां परिहरन्नत्र श्रुतिमाह अन्यदिति। अन्य आनन्दः परस्य जीवानां चेति सम्बन्धः। एवमीशतेत्यपि योज्यम्। मुख्येशतेत्युपलक्षणया हेतुमाह। इति श्रुतेरिति पूर्वेण सम्बन्धः॥*॥ इति स्थानविशेषाधिकरणम्॥१७॥
अथ पालकत्वाधिकरणम्॥१३॥
॥ पूर्वपक्षोज्जीवनम्॥
प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः। अत्र पूर्वपक्षप्रदर्शनपरं भाष्यम् “सृष्टिसंहारकर्तृत्वमेवास्य न पालकत्वम्, स्वतः सिद्धेः” इति। तदयुक्तम्। सृष्टिसंहारकर्तृत्वाभ्युपगमस्य व्यर्थत्वात्। स्वतः सिद्धेरित्यत्रास्येत्यप्रतीतेश्च। स्थितेरित्यध्याहारेऽपि स्वभाववादाश्रयणस्य सृष्टिसंहारयोरपि साम्येन तत्कर्तृत्वाभ्युपगमानुपपत्तेरित्यतः पूर्वपक्षं विशदयति सृष्टीति।
............सृष्टिनाशौ तदधीनावितीरिते।
स्वभावत्वास्थितेर्नैतदपेक्षा.............॥१४९॥
इति ईरिते सिद्धान्तिनाऽभ्युपगते सति। ततश्चायमर्थः ईश्वरस्य पालकत्वं नोपपद्यते, स्थितेस्तत्प्रयोजनत्वात्। तस्याश्च स्वभावसिद्धत्वेनेश्वरानपेक्षत्वात्। ईश्वर एव हि विश्वस्य सृष्टिसंहारयोः कर्ता नान्य इत्यभ्युपगतम्। तथाच सृष्ट्वा यावन्न संहरेत् तावत् स्थितिः स्वभावसिद्धैव न परव्यापारमपेक्षते। यदि खलु सृष्टिसंहारयोः कर्ताऽन्यः स्यात्, तदोदासीनस्य तस्य सृष्टौ प्रेरणाद्यर्थं संहारे प्रवृत्तस्य निवारणार्थं च स्थितावीश्वरापेक्षा सम्भवेत्। नच तदस्ति। अतः संहारोदासीनत्वातिरिक्तं पालकत्वं नोपपद्यत इत्येवमत्र पूर्वपक्ष इति।
॥ सूत्रस्य पूर्वपक्षाच्छादकत्वसमर्थनम्॥
एवन्तर्हि सिद्धान्तो न युक्तः स्वभावत्वयुक्तेरपरिहृतत्वादित्यतः सूत्राभिप्रायमाह इति नेति।
ॐ प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ॐ॥२२॥
..............................इति न युज्यते॥१४९॥
यतः स्वभावोऽप्यखिल ईशायत्तोऽखिलस्य च।
परानपेक्षतया प्रतीयमानं स्वरूपं धर्मो वा स्वभाव इत्युच्यते। स सर्वेषां पदार्थानाम्। स सर्वोऽपीशायत्त एव। अन्यथा तेषां स्वातन्त्र्यप्रसङ्गेनास्येशत्वानुपपत्तेः। “सर्वं खलु” इत्यादिश्रुतिविरोधापत्तेश्च। अन्नदानादौ व्यापारश्च स्फुट एवेति॥*॥ इति पालकत्वाधिकरणम्॥१३॥
अथ अव्यक्ताधिकरणम्॥१४॥
॥ साक्षात्कारस्य भक्तिजन्यभगवदनुग्रहैकसाध्यत्वम्॥
तदव्यक्तमाह हि। अत्र परमात्मनोऽव्यक्तत्वमादौ विस्तरेण समर्थितम्। ततस्तर्हि भक्त्यादिसाधनवैयर्थ्यमित्याशय “प्रकाशश्च कर्मण्यभासात्” इति दृश्यत्वं चोक्तम्। तदेतदुभयं विरुद्धमित्याशय “अतोऽनन्तेन तथा हि लिङ्गम्” इति सूत्रितम्। अत्र विरोधशान्तिर्न स्फुटं प्रतीयत इत्यतस्तस्य तात्पर्यमाह अव्यक्तोऽपीति।
ॐ अतोऽनन्तेन तथा हि लिङ्गम् ॐ॥२७॥
अव्यक्तोऽपि स्वशक्त्यैव भक्तानां दृश्यते हरिः॥१५०॥
भक्तानामव्यक्तोऽपीत्यन्वयः। भक्तानामनुग्रहायेत्यध्याहारो वा। जीवशक्त्यपेक्षया अव्यक्तोऽपि स्वशक्त्यैव दृश्यत इत्यविरोध इति॥*॥ इति अव्यक्ताधिकरणम्॥१४॥
अथ अहिकुण्डलाधिकरणम्॥१५॥
॥ गुणक्रियादीनां सर्वेषां भगवद्धर्माणां ब्रह्माभिन्नत्वसाधनम्॥
उभयव्यपदेशात्त्वहिकुण्डलवत्। यदीश्वरस्य गुणक्रियादयो धर्मास्ततो भिन्नाः, तदा समवायस्य निराकृतत्वात् (६९५) तद्वत्त्वमनुपपन्नम्। यदिचाभिन्नाः, तदा ज्ञानादिमत्त्वमानन्दादिभोक्तृत्वमित्याद्ययुक्तमित्युभयथा तत्र भक्त्यनुपपत्तिरिति पूर्वपक्षप्राप्ताविदमारभ्यते। तत्र हेतुदृष्टान्तावेव सूचितौ। नतु पक्षपरिग्रहरूपा प्रतिज्ञा। अध्याहारोऽपि हेतुदृष्टान्तबलेन भेदाभेदपक्षपरिग्रहस्येति प्रतिभाति। अतः प्रतिज्ञां दर्शयति तदभिन्ना इति।
ॐ उभयव्यपदेशातहिकुण्डलवत् ॐ॥२८॥
तदभिन्ना गुणा नित्यमपि सर्वे विशेषतः।
गुणत्वेन गुणित्वेन भोक्तृभोग्यतया स्थिताः॥१५१॥
नित्यशब्दो नियमार्थः। पारमेश्वराः सर्वे गुणा धर्मा नित्यं तदभिन्नाः, तेनात्यन्ताभिन्नाः, तथाऽपि विशेषशक्त्या गुणगुण्यादिभावेन स्थिताः।
॥ सृष्ट्यादिक्रियाणां शक्तिरूपेण नित्यत्वाद् विष्णोस्तदभेदेऽङ्गीकृतेऽपि नानित्यत्वप्रसङ्गः॥
स्यादेतत्। परिमाणादीनां यावद्द्रव्यभाविनां भवतु नाम भगवताऽत्यन्ताभेदः। क्रियाणां ज्ञानादिगुणानां चास्त्राक्षीत्, सृजति, स्रक्ष्यति, व्यज्ञासीत्, जानाति, ज्ञास्यतीत्यादिश्रौतव्यवहारैरनित्यतयाऽवगतानां तु न युज्यत इत्यत आह विशेषात्मतयेति।
विशेषात्मतया तेषां नित्यशक्त्यात्मना तथा।
नित्यं स्थितेर्न धर्माणां क्रियादीनामनित्यता॥१५२॥
तेषां परमेश्वरसम्बन्धिनां क्रियादीनां धर्माणां नित्यशक्त्यात्मना नित्यं स्थितेस्तथा विशेषात्मतया व्यक्तिरूपेण व्यवहारविषयतोपपत्तेर्नानित्यतेति योजना। प्रपञ्चस्तु प्रागेव कृतः। (३०७३१०)
॥ व्यक्तिशक्त्योरपि सविशेषाभेदाङ्गीकारात् क्रियादीनां व्यक्तिरूपेणापि नित्यत्वम्॥
ननुच क्रियादीनां या व्यक्तता सा तावदनित्यैव। अन्यथोक्तव्यवहारणां निरालम्बनत्वापातात्। ततस्तस्या भगवद्धर्मभूताया अपि नात्यन्ताभेदोपपत्तिरित्यत आह न विशेषेति।
न विशेषात्मता चेयमनित्या शक्तिरूपता।
सैव यत् सविशेषा स्यात् ..............॥१५३॥
इयं व्यवहारालम्बनत्वेनोक्ता। कुत इत्यत आह शक्तीति। यद् यस्मात् सा विशेषात्मता शक्तिरूपतैव। शक्तिश्च नित्येत्युक्तं तस्मादित्यर्थः। नन्वेवन्तर्हि शक्तिर्व्यक्तिरिति व्यवहारविशेषो न स्यात्। उक्तव्यवहारणां निरालम्बनत्वं च न परिहृतं स्यादित्यत आह सविशेषेति। नेयं व्यक्तिः शक्त्या निर्विशेषाभिन्ना। येनोक्तदोषः स्यात्। किन्तु सविशेषाभिन्नैव।
॥ विशेषस्यापि धर्म्यभिन्नत्वम्, स्वनिर्वाहकत्वं च॥
यद्ययं सर्वनिर्वाहहेतुर्विशेषो भगवतो भिन्नः, तदा सर्वेषां तद्धर्माणां तेनात्यन्ताभेद इति प्रतिज्ञा भज्येत। अभिन्नश्चेद् विशेषता तस्य न स्यात्। स्वरूपमात्रपर्यवसानेन सोऽपि न स्यादित्यत आह विशेष इति।
.................. विशेषोऽन्यो नचाप्ययम्॥१५३॥
स्वनिर्वाहकताहेतोस्तथाऽपि स्याद् विशेषता।
चोऽवधारणे। अयं विशेषोऽपि भगवतो नैव भिन्नः, तेन न प्रतिज्ञाहानिः। तथाऽपि तस्य विशेषता स्यात्। कथं? नह्ययमभिन्नो भवन् निर्विशेषः। एवन्तर्हि विशेषपरम्परयाऽनवस्था स्यात्। न स्यात्। कुतः? विशेषस्य स्वनिर्वाहकताहेतोरिति।
॥ श्रुतौ भगवतो गुणत्वेन गुणित्वेन च व्यपदेशान्यथानुपपत्तिरुक्तार्थे प्रमाणम्॥
एवं प्रतिज्ञा दर्शिता। तत्र बाधकानि परिहृतानि। अत्र चोदना। स्यादेवम्। यद्येतेष्वर्थेषु प्रमाणं स्यात्। नच तत् पश्याम इत्यतः सौत्रमुभयव्यपदेशादिति हेतुं व्याचष्टे विशेषत्वेनेति।
विशेषत्वेन विज्ञातेः प्रमाणैरखिलैरपि॥१५४॥
अखिलैः उभयविधैः प्रमाणैः वेदवाक्यैर्ज्ञानादिधर्माणां भगवद्विशेषत्वेन, अपिशब्दात् तदभिन्नत्वेन च विज्ञातेर्विज्ञानादित्यर्थः।
ननु विज्ञातेरिति कथम्? “आतश्र्चोपसर्गे” इत्यङः क्तिन्बाधकत्वात्। “क्तिन्नाबादिभ्यश्च” इति वचनाद् भविष्यति।
एतदेव विवृणोति ससर्जेति।
ससर्ज सञ्जहारेति विशेषो ह्यवगम्यते।
श्रुत्येव स स एवेति तदभेदश्च गम्यते॥१५५॥
“स इदं सर्वमसृजत” इत्यादिश्रुतिं ससर्जेत्यनेनोपादत्ते। “तत्तदत्तुमध्रियत” इत्यादिकां सञ्जहारेत्यनेन, स आनन्दादिः सः परमात्मैव इत्यनेन “आनन्दो ब्रह्म” इत्यादिश्रुतिम्।
तदयमर्थः “स इदं सर्वमसृजत”, “उक्षा स द्यावापृथिवी विभर्ति”, “तत्तदत्तुमध्रिमयत” “स ऐक्षत”,”सोऽकामयत”,”आनन्दं ब्रह्मणो विद्वान्” इत्यादिश्रुत्या सर्जनादिकं ब्रह्मणो विशेषोऽतिशयो न ब्रह्ममात्रमित्यवगम्यते। तन्मात्रत्वे क्रियाकर्तृभावादेरनुपपत्तेः। “आनन्दो ब्रह्मेति व्यजानात्”,”सत्यं ज्ञानमनन्तं ब्रह्म”, “एकधैवानुद्रष्टव्यम्” इत्यादिश्रुत्यैव तस्य तेनाभेदश्चावगम्यते। तदेवमुभयव्यपदेशान्यथानुपपत्त्या सकलमिदं कल्प्यते। सर्वेषां ब्रह्मधर्माणां ब्रह्मणा सविशेषोऽत्यन्ताभेदः। क्रियादीनां नित्यता, शक्तिव्यक्तिरूपता, व्यक्तिरूपस्यापि नित्यता, शक्तिरूपाभिन्नता, सविशेषता विशेषस्याप्यभेदः, स्वनिर्वाहकता चेति। नह्येतेष्वर्थेष्वन्यतमस्याप्यकल्पनायामुदाहृतोभयव्यपदेशविरोधशान्तिर्भवतीति। एतदेव प्रपञ्चयितुं “निदर्शनत्रयेण” इत्यतः प्राक्तनो ग्रन्थसन्दर्भः।
॥ नैयायिकैः गुणगुणिनोर्भेदं समवायं चाङ्गीकृत्य, मायावादिभिः ब्रह्मणो निर्विशेषत्वमङ्गीकृत्य
भास्करेण भेदाभेदमङ्गीकृत्य श्रौतोभयव्यपदेशस्यान्यथैवोपपन्नत्वप्रतिपादनम्॥
अथ मतम् भेद एव ब्रह्मधर्माणां ब्रह्मणाऽस्तु। समवायेन विशेषणविशेष्यभावो भविष्यति। समवायदूषणानि च श्रुतिविरोधेनाऽभासतां यास्यन्ति। समवायाभावेऽपि वा धर्मधर्मिणोरेव स कोऽपि महिमा कल्प्यते। नचाभेदश्रुतिविरोधः। अनागन्तुकत्वेनोपचारोपपत्तेः। अतः किमभेदमादाय विशेषाद्यङ्गीकारेणेति।
अपर आह अखण्डमेव ब्रह्म, नतु तत्र कश्चिद् विशेषः। नचापरश्रुतिविरोधः। क्रियादिविषयाणां सगुणविषयत्वात्। तस्य च मायामयत्वेनाविचारितरमणीयत्वात्। “आनन्दं ब्रह्मणः” इत्यादीनां च राहोः शिर इत्यादिवदुपचरितत्वोपपत्तेरिति। अन्यस्त्वाह भेदाभेदाभ्यामेवोभयव्यपदेशसामञ्जस्योपपत्तेः किमनया सविशेषाभेदकल्पनयेति।
॥ गुणगुणिनोः यो भेदः, तस्य भेदिभ्यां गुणगुणिभ्यां भिन्नत्वे अनवस्थाप्रसङ्गः॥
मैवम्। त्रिभिरप्येतैरन्ततोऽभिन्ने विशेषस्याङ्गीकर्तव्यत्वात्। ततो वरमादित एव तदङ्गीकरणमित्याशयवान् भेदवादिनं तावद् विशेषमङ्गीकारयितुमाह भेद इति।
भेदो यदि विशेषस्य स भेदो भेदिना कथम्।
भिन्नश्चेदनवस्था स्यादभिन्नश्चेत् पुरा न किम्॥१५६॥
विशेषस्य ज्ञानादेर्ब्रह्मधर्मस्य यदि ब्रह्मणो भेदोऽङ्गीक्रियते, तदा पृच्छामः स भेदो भेदिना ब्रह्मणा ज्ञानादिना च सह कथं किम्प्रकारः प्रतिपत्तव्यः? किं भिन्नः किंवाऽभिन्न इति।
आद्ये दोषमाह भिन्नश्चेदिति। यदि भेदो भेदिभ्यां भिन्नः, तदा सोऽपि भेदस्तथेत्यनवस्था स्यात्। विशेषणविशेष्यभावादिप्रतिपत्तये खलु धर्मधर्मिणोर्भेदोऽभ्युपगम्यते। स च प्रतीयमान एव तद्धेतुः। तत्प्रतीतिश्च विशेषणादिभावेनैव इत्युत्तरोत्तरभेदप्रतीतिरवश्यमपेक्षितैवेति सुस्थाऽनवस्था।
॥ भेदस्य भेदिभ्यां सविशेषाभिन्नत्वे कल्पनागौरवम्, अपसिद्धान्तश्च॥
अभिन्नत्वेऽपि वक्तव्यम्, सविशेषाभिन्नः, उत निर्विशेषभिन्न इति। प्रथमे दोषमाह अभिन्नश्चेदिति। पुरा न किमिति। धर्माणां धर्मिणा सविशेषाभेदः किं नाङ्गीक्रियते? अङ्गीकार्य एवेत्यर्थः। भेद इव विनाऽपि भेदेन विशेषेणैवोपपत्तावपि वृथा परम्पराकल्पनायां गौरवं स्यात्, ततो धर्माणामेव सविशेषाभेदाङ्गीकारः श्रेयानिति भावः। अस्त्वेवमित्यत आह विशेष इति।
विशेषोऽभिन्न एवेति तेन नाभ्युपगम्यते।
विशेषो धर्मोऽभिन्न इत्येव तावत्। तेन भेदवादिना नाभ्युपगम्यते। दूरे सविशेषत्वमित्यतोऽपसिद्धान्तः स्यात्। समीहितं च नः सिद्ध्येदित्याशयः।
॥ भेदस्य भेदिभ्यां निर्विशेषाभिन्नत्वे भेदस्य तदीयत्वादिना व्यवहारानुपपत्तिः॥
द्वितीयं दूषयति अभिन्न इति।
अभिन्नो निर्विशेषश्चेद् भेदस्तद्भेदता कुतः॥१५७॥
भेदो यदि भेदिभ्यामभिन्नो निर्विशेषश्च स्यात्, तदा तस्य तद्भेदता तयोरयं भेद इत्येवम्भावः कुतः? न कुतोऽपि। तदीयताया भेदेन विशेषेण वा विनाऽनुपपत्तेः। तन्मात्रन्वे च धर्मधर्मिणावेव स्तो न भेद इति स्यात्। तथाच धर्मधर्मिणावित्यपि न स्यात्। भेद एवास्ति न धर्मधर्मिणाविति वा भवेत्। ततश्च भेदोऽपि न स्यादिति।
॥ भेदस्य विशेषणत्वेन, सप्रतियोगित्वेन, व्यावतर्कत्वेन, बहुत्वेन च प्रतीयमानत्वान्यथानुपपत्त्या धर्मिभिन्नत्वस्यैव सिद्धेः, विशेषानङ्गीकारे भेदभेदिनोरभेदस्याप्यङ्गीकारायोगः॥
भेदस्य भेदिस्वरूपत्वमङ्गीकृत्य विशेषमनङ्गीकुर्वाणं प्रति दूषणान्तरमाह अनेनेति।
अनेनानेन भिन्नोऽयमिति यत् स विशेषतः।
भेद एवैष बहुधा दृश्यते तत् किमुत्तरम्॥१५८॥
भिन्नोऽयं घट इति स भेद एव विशेषतो विशेषणत्वेन दृश्यते नतु घटः, किन्तु विशेष्यत्वेन। तथाऽनेनानेन। “व्यत्ययो बहुलम्” इति पञ्चम्यर्थे तृतीया। सहयोगे वा। पटाद् भिन्नः, स्तम्भाद् भिन्नो घट इत्येष भेद एव सविशेषतः प्रतियोगिविशेषसाहित्येन दृश्यते। तथाऽयं पदार्थोऽनेन वक्रत्वेनानेन कोटरवत्त्वेन पुरुषाद् भिन्न इति स एष भेद एव विशेषतो व्यावर्तकधर्मेण दृश्यते। पदार्थस्त्वक्षन्निकर्षमात्रेण। तथाऽस्मात् पटादस्मात् स्तम्भादस्मात् कुड्याद् भिन्नोऽयं घट इत्येष भेद एव सविशेषतः प्रतियोगिविशेषसाहित्येन निमित्तेन बहुधा दृश्यते। घटस्त्वेकधैव। अतो न भेदो घटस्य स्वरूपमिति यत् स्वरूपभेदस्य दूषणं परैरुच्यते, तत् तस्य किमुत्तरं त्वयाऽभिधास्यते, यदि विशेषो नाङ्गीक्रियत इत्यर्थः।
यदि विशेषो नाङ्गीक्रियते, तदा भेदो भेदिनाऽभिन्न इत्यपि नाङ्गीकर्तुं शक्यते। भेदभेदिनोर्भेदसाधकानामनेकेषां भावात्। विशेषेणैव हि तेषामन्यथासिद्धिं व्युत्पाद्य प्रतीतिबलेन भेदस्य भेदिनाऽभेदो वक्तव्यो नान्यथेति भावः।
॥ भेदद्वैविध्याङ्गीकारदूषणम्॥
तदीयत्वेन विशेषणत्वेन सप्रतियोगित्वेन लिङ्गित्वेन बहुत्वेन च प्रतीयमानोऽन्योन्याभावादिरूपो भेदो न भेदिस्वरूपतयाऽङ्गीक्रियते। यस्तु स्वरूपतयाऽङ्गीक्रियते नासौ तदीयत्वादिना प्रतीयत इति तस्योत्तरं ब्रूम इति चेत्, न। अस्यैव प्रसिद्धत्वादन्यस्य तदभावात्। अन्यथा स्वरूपस्यैव भेद इति पारिभाषिकं नामान्तरमुक्तं स्यात्। नचाद्वैतवादिनः स्वरूपं नाङ्गीकुर्वते। तत् किमनेन भेदेन? तदिदमुक्तम् स एष इति प्रसिद्धिद्योतकाभ्याम्। तदीयत्वादिरुपचार इति चेत्, न। प्रतीतेः स्फुटत्वात्। बाधकाभावेनाभ्रान्तित्वाच्च। तदिदमप्युक्तम् दृश्यत इति।
॥ एकेन घटेन अत्यन्ताभिन्नयोरभेदभेदयोः निर्विशेषाभिन्नत्वे अभेदभेदशब्दयोः पर्यायत्वप्रसङ्गः॥
दूषणान्तरमाह अभेदेति।
अभेदभेदयोश्चैव स्वरूपत्वं हि भेदिनः।
तयोरप्यविशेषत्वे पर्यायत्वं हि शब्दयोः॥१५९॥
न केवलं भेदस्य, किन्त्वभेदस्य च भेदिनः स्वरूपत्वमेवेति योजना। यो भेदस्य भेदिना घटेन अभेदमङ्गीकरोति। तेन तस्याभेदस्यापि घटस्वरूपत्वमेवाङ्गीकरणीयम्। भेदसमानन्यायत्वादिति हिशब्दार्थः। ततः किमित्यत आह तयोरपीति। अभेदोऽङ्गीकार्य इति शेषः। अस्त्वेकेन घटेनात्यन्ताभिन्नयोरभेदभेदयोरभेदः, ततोऽपि किमित्यत आह अविशेषत्व इति। अभेदभेदयोरत्यन्ताभेदे विशेषे चासति अभेदभेदशब्दयोः पर्यायत्वं स्यात्। एकार्थवाचित्वाद् घटकलशशब्दवदिति हिशब्दार्थः। अस्त्वित्यत आह अभेदेति।
अभेदभेदशब्दौ च पर्यायाविति को वदेत्।
को वदेत्? न कोऽपि। प्रत्युतापर्यायावित्येव वदति सर्व इत्यप्रामाणिकं प्रमाणविरुद्धं चैतदिति।
एतदुक्तं भवति भेदो भेदिनाऽभिन्नः, तन्न्यायेन सोऽभेदोऽपि, ततस्तावन्योन्यमप्यभिन्नाविति तावत् तत्वम्। तथाच भेदाभेदाशब्दयोः पर्यायत्वप्राप्तौ विशेषबलेनैव हि तत् परिहरणीयम्। तस्य चानङ्गीकारे दुष्परिहरं तदापद्येतेति। ननु भेद्यभेदिशब्दयोरपि पर्यायत्वमापादयितुमुचितम्। सत्यम्। शिष्यैरूह्यतामिति नोक्तम्।
॥ भेदाभेदयोर्भेदिनाऽभेदेऽपि परस्परं भिन्नत्वाङ्गीकारेण पर्यायत्वप्रसङ्गपरिहारसम्भवेऽपि
भेद्यभिन्नयोः भेदाभेदयोः भेदकार्यनिर्वाहार्थं विशेषस्त्वङ्गीकर्तव्य एव ॥
शङ्कते भेद इति।
भेदोऽन्योन्यमभेदश्च भेदिना चेद् विशेषिता॥१६०॥
यद्यपि भेदाभेदयोः भेदिना घटेन सहाभेदः, तथाऽपि तयोरन्योन्यं भेदोऽस्तीनि न तच्छब्दयोः पर्यायत्वं प्रसज्यते। तत् किं विशेषेणेति। परिहरति विशेषितेति। एवमङ्गीकुर्वाणेनाप्यभिन्ने वस्तुनि विशेषिताऽङ्गीकरणीयैवेत्यर्थः।
तत् कथमित्यत आह अविशेष इति।
अविशेषे कथं भेदो भेदिनैकस्तथाऽभिदा।
पुनस्तयोर्विभेदश्च भेदिमात्रत्वतो भवेत्॥१६१॥
विशेषाभावे भेदो भेदिना एकोऽभिन्नः, तथाऽभिदा भेदिना घटेनाभिन्ना, पुनस्तयोर्भेदाभेदयोः परस्परं भेदश्चेति कथमुपपन्नं भवेत्? कुतो न भवेत्? भेदाभेदयोर्भेदिमात्रत्वतः। अन्यथा घटस्यापि स्वतो भेदः स्यात्। घटेनाभिन्नयोर्भेदाभेदयोः परस्परं भेदकार्यनिर्वाहार्थं घटेन सविशेष एवाभेदोऽङ्गीकार्य इति भावः।
॥ भेदभेदिनोः अभेदाभेदिनोश्च सविशेषाभिन्नत्वाङ्गीकारे कल्पनागौरवम्॥
शङ्कते भेदिनश्चेति।
भेदिनश्चैव भेदस्य विशेषो यदि गम्यते।
अभेदाभेदिनोश्चैव किं भेदोऽभेदभेदयोः॥१६२॥
चशब्दावन्योन्यसमुच्चयार्थौ। एवशब्दौ परस्परं सविशेषभेदव्यावृत्त्यर्थौ। गम्यतेऽभ्युपगम्यते। भेदस्य भेदिनश्च घटस्याभेदो विशेषश्च मयाऽम्युपगम्यते। तथऽभेदस्याभेदिनश्च तस्य सविशेषोऽभेदोऽभ्युपगम्यते। तथाच भेदाभेदयोर्घटतन्मात्रत्वाभावेन परस्परं भेदोपपत्तेर्न शब्दयोः पर्यायत्वम्। ततश्च भेदाभेदयोः परस्परमभेदो विशेषश्चाङ्गीकार्य इत्यसदिति भावः। एवमपि धर्मधर्मिणोर्भेदमभ्युपगच्छताऽन्ततोऽभिन्ने वस्तुनि विशेषोऽङ्गीकर्तव्य इत्यभिमतम्, यद्यपि सिद्धमेव, तथाऽप्युक्तं तत्वं न परित्याज्यमित्याशयवान् परिहरति किमिति। एवं चेदभेदभेदयोर्भेदः कस्मात् कल्प्यते? तयोरपि सविशेषाभेद एवाङ्गीकर्तव्यः। तत्रोपपत्तिमाह विशेषेणैवेति।
विशेषेणैव सर्वत्र यदि व्यवहृतिर्भवेत्।
कल्पनागौरवायैव किं भेदः कल्प्यते तदा॥१६३॥
सर्वत्र भेदभेदिनोरभेदाभेदिनोश्चाभेदेऽपि विशेषेणैव तन्मात्रताभावनिबन्धना व्यवहृतिर्भवेदित्यङ्गीकृतं चेत्, भेदाभेदयोस्तर्हि भेदः किं कल्पनागौरवायैव कल्प्यत इति सोल्लुण्ठवचनम्। भेदाभेदयोर्घटेनेव परस्परमपि सविशषत्वेनैव सर्वस्योपपत्तौ भेदकल्पने कल्पनागौरवं स्यात्। अनेकपदार्थकल्पनाद् द्विधा कल्पनाच्चेति भावः।
॥ सत्यप्यभेदे विशेषाङ्गीकारेणैव सर्वभेदकार्योपपत्तेः भेदादिकल्पनस्य वैयर्थ्यम्॥
अस्त्वेवं ततः किमायतं प्रकृत इत्यत आह विशेषेणैवेति। भेदस्य भेदिनाऽभेदेऽपि तदीयत्वादिव्यवहृतिर्भेदाभेदयोश्च घटेनाभेदेऽप्यपर्यायशब्दव्यवहृतिर्यदि विशेषेणैव भवेत्, तदा धर्मधर्मिणोरपि भेदः किं कल्पनागौरवायैव कल्प्यते? धर्मधर्मिणोर्भेदमङ्गीकृत्याप्यन्ततो विशेषोऽङ्गीकार्यः, ततो वरमादित एव तदङ्गीकरणम्। अन्यथा कल्पनागौरवप्रसङ्गादिति। एतेन पुरा न किमिति विवृतं भवति।
॥ अभेदभेदकार्ययोरेकत्र प्रमितत्वान्यथानुपपत्तिरेव विशेषकल्पने नियामिका॥
यदि कल्पनागौरवभयाद् धर्मधर्मिणोरभेदमङ्गीकृत्य व्यवहारविशेषार्थं विशेषोऽङ्गीक्रियते, तर्हि गवाश्वयोरपि तथा कल्प्यताम्, अविशेषात्। तथाच भेद एव जगति न स्यादित्यत आह ऐक्येति।
ऐक्यप्रतीत्यभावेन भेद एव गवाश्वयोः।
स एवेति प्रतीतौ हि विशेषो नाम भण्यते॥१६४॥
भेद एव स्वीक्रियते न विशेषः। गवश्वयोरिति प्रमादपाठः, मूलकोशेष्वदर्शनात्।१ एक्यप्रतीत्यभावेऽपि कुतो विशेषो नाङ्गीक्रियत इत्यत आह स एवेति। धर्मधर्मिप्रतिबन्द्या हि गवाश्वयोर्विशेषः परेणाऽपादनीयः। नच तत्राविशेषः। अभेदप्रतीत्या तत्र तदङ्गीकारात्। इह च तदभावात्। भेदस्य प्रतीतिसिद्धत्वेन कल्पनागौरवाभावाच्चेति।
॥ सत्यज्ञानादिपदानां पर्यायत्वप्रसङ्गपरिहारार्थं मायावादिनाऽपि विशेषोऽङ्गीकर्तव्यः॥
अधुनाऽभेदवादिनाऽपि विशेषमङ्गीकारयति सच्चिदादेरिति।
सच्चिदादेरपर्यायसिद्ध्यर्थं मायिनाऽपि हि।
अङ्गीकार्यो विशेषोऽयम्.................।
मायिनाऽपीति। क्रियादिविषयाणां वाक्यानां मायिकविषयतामङ्गीकुर्वताऽपीति यावत्। तत्र हेतुः सच्चिदादेः पदसमूहस्य अपर्यायत्वसिद्ध्यर्थमिति। अयमिति अपर्यायशब्दप्रवृत्तिहेतुः। विशेषस्य तथाभावः प्रमित इति हिशब्दः।
एतदुक्तं भवति सन्तु तावत् क्रियादिविषयाणि वाक्यान्यसत्यविषयाणि। तथाऽपि “सत्यं ज्ञानमनन्तं ब्रह्म” इत्यादीनि तावत् सत्यविषयाणि परेणाङ्गीकृतान्येव। तेषां चाखण्डार्थनिष्ठत्वे सत्यज्ञानादिपदानामेकार्थत्वेन पर्यायत्वं स्यात्। नच तद् युक्तम्, सहप्रयोगदर्शनात्। नच भेदोऽङ्गीकर्तुं शक्यः। “एकमेवाद्वितीयम्” इत्यादिश्रुतिविरोधात्। अतः सत्येऽपि विशेषोऽङ्गीकार्यः। तस्य अपर्यायशब्दप्रवृत्तिहेतुता चानयैवार्थापत्त्या सिद्धा। तथात्वेनैव तत्कल्पनादिति।
॥ मायावादिना सत्यादिपदानामसत्यत्यत्वाद्यपोहवाचित्वमङ्गीकृत्य पर्यायत्वनिराकरणम्॥
अपोहवादाश्रयेण शङ्कते यदीति।
.................. यद्यसत्यविशेषणम्।
पृथक् पृथग् वारयितुं शब्दान्तरमितीष्यते॥१६५॥
सत्यादिपदानां विधिवाचित्वे विधीयमानानां सत्यत्वादिविशेषणानां ब्रह्मण्यभावात् स्वरूपमात्रस्य चैकत्वात् पर्यायत्वं स्यात्। नचैवम्। असत्यत्वाद्यपोहवाचित्वात्। नचैवंसति वैयर्थ्यम्। ब्रह्मण्यसत्यत्वादीनां विशेषणानां भ्रान्तिकल्पितत्वेन तन्निवारणार्थत्वात्। सन्ति हि; नास्ति ब्रह्म, सदपि न ज्ञानं परिच्छिनं चेत्यादिप्रतीतयः प्राणिनाम्। नच सत्यपदमज्ञानस्याप्यपोहं वक्ति, येनैकेनैव अलमिति स्यात्। तस्मान्न पर्यायत्वम्, वैयर्थ्यं चेति।
॥ ब्रह्मणः सत्यादिपदलक्ष्यत्वादिकमङ्गीकृत्य पर्यायत्वप्रसङ्गनिस्तारः॥
यद्वा सत्यादिपदानि सत्यत्वादिपृथगर्थवाचीन्येवेति न पर्यायतामापद्यन्ते। ब्रह्मणि तु लक्षणया प्रवर्तन्त इति। न तत्र विशेषणानि समर्पयन्ति। नहि गङ्गापदं तीरे गङ्गात्वमर्पयति। नचैवमेकेनैव लक्षितत्वादितरेषां वैयर्थ्यमिति वाच्यम्। आरोपितानामसत्यत्वादिविशेषणानां प्रत्येकं निवारणेन सार्थक्यात्। नच सङ्गतिग्रहणविषयाभावाल्लक्षणानुपपत्तिः। शबले गृहीतसङ्गतिकानां सत्यब्रह्मलक्षकत्वोपपत्तेः। अतो न पर्यायत्वम्, नापि वैयर्थ्यमिति शङ्कार्थः। असत्यविशेषणं असत्यत्वादिविशेषणम्। आरोपितं विशेषणमिति वा। इति यदीष्यत इत्यन्वयः।
॥ प्रकारद्वयेऽपि मायामते ब्रह्मणो निर्विशेषत्वानुपपत्तिः॥
परिहरति मायेति।
मायाविशेषराहित्यविशेषणविशेषिता।
सत्यस्यापि भवेत् सा च तथा चेदनवस्थितिः॥१६६॥
मायाशब्देनाऽरोपितत्वमाचष्टे। एवं कुसृष्टौ कल्पितायामपि न सत्यस्याखण्डतासिद्धिः। कल्पितासत्यत्वादिविशेषराहित्यलक्षणविशेषणविशेषिताया अवर्जनीयत्वादित्यर्थः।
शङ्कते सा चेति। भवेदखण्डत्वखण्डनं यद्यारोपितविशेषराहित्यरूपविशेषणविशेषिता सत्या स्यात्। नचैवम्। अपितर्हि? साऽप्यसत्यत्वादिवदारोपितैव। नह्यारोपितेन रूपेण गगनस्य नीरूपता विहन्यत इत्यर्थः। परहिरति अनवस्थितिरिति। वाक्यार्थस्येति शेषः। एवन्तर्हि न कोऽपि वाक्यार्थो व्यवस्थितः स्यात्। सत्यत्वादिविशेषवत्तयाऽसत्यत्वादिव्यावृत्तिमत्तया चाप्रतिपादितत्वात्। नहि संसर्गभेदौ विहाय वाक्यार्थोऽस्ति। ब्रह्मैव वाक्यार्थ इति चेत्, न। तस्य स्वप्रकाशत्वात्। व्यावृत्तेश्च असत्यत्वादिति।
यद्वा प्रतीता सा च स्वाभावव्यावर्तकत्वेनैव व्यवतिष्ठते, न ब्रह्मविषयत्वेन। येनाखण्डता व्याहन्यत इति शङ्कार्थः। एवमपि तदभावव्यावृत्तिरूपविशेषणविशिष्टताया अपरिहारादखण्डत्वहानिरेव। साऽपि तथा चेदनवस्थितिः ब्रह्मज्ञानस्याव्यवस्थैवेति परहिारार्थः।
॥ ब्रह्मणो निर्विशेषत्वे तत्र शब्दप्रवृत्त्यसम्भवः॥
न केवलं ब्रह्मणो निर्विशेषत्वे पदानां पौनरुक्त्यादिकम्, किन्नाम, एकस्यापि पदस्य तत्र प्रवृत्तिर्न भवेदित्याह यदीति।
यदि सत्ये विशेषो न न तदुक्तिर्भवेत् तदा।
लक्ष्यते चेत् तेन लक्ष्यमित्यपि स्याद् विशेषिता॥१६७॥
गुणकर्मादिनिमित्तमनालम्ब्य कस्यापि शब्दस्य प्रवृत्त्यभावादिति भावः। शङ्कते लक्ष्यते चेत् तेनेति। स्यादयं दोषो यदि ब्रह्म शब्दाभिधेयं स्यात्। नचैवम्। किन्तु तेन शब्देन लक्ष्यत एव। नहि लक्षणा गुणक्रियाद्यपेक्षा। तथात्वे खल्वभिधैव स्यादिति।
परहिरति लक्ष्यमिति। एवमङ्गीकारेऽपि ब्रह्मणो लक्ष्यमिति विशेषिता स्यात्। लक्ष्यत्वं तावदपरिहार्यमित्यर्थः। उपलक्षणं चैतत्। मुख्यार्थयोगादिनाऽपि विशेषिता स्यादेव।
॥ ब्रह्मणो लक्ष्यपदेनापि लक्ष्यत्वेऽनवस्थाप्रसङ्गः॥
ननु लक्ष्यत्वमपि ब्रह्मणो नास्त्येव, लक्ष्यमित्यपि लक्षणयैवोच्यते नाभिधानवृत्त्येति चेत्, न। अत्रापि वाक्ये परेण लक्ष्यपदस्य प्रयोगाल्लक्ष्यत्वविशेषप्राप्तेः। तेनापि लक्ष्यमेवेति चेत्, तत्राऽह पुनरिति।
पुनःपुनर्लक्षणायामपि स्यादनवस्थितिः।
लक्षणायामाश्रितायां सत्यामिति शेषः।
॥ ब्रह्मण अभावधर्मवत्त्वेऽङ्गीकृते भावधर्मवत्त्वाङ्गीकारस्यापरिहार्यता॥
शङ्कते यदीति।
यद्यभावविशेषित्वं स्यादङ्गीकृतमेव ते॥१६८॥
ते मत इति शेषः। तृतीयार्थेऽव्ययं वा। यदुक्तं मायाविशेषराहित्यविशेषणविशेषिता सत्यस्यापि भवेदिति। तन्नानिष्टम्। अभावरूपविशेषवत्त्वस्य मयाऽङ्गीकृतत्वात्। “नेह नानाऽस्ति” इति श्रुतिः इह भूतले घटो नास्तीतिवदभावं ब्रह्मण्यङ्गीकरोत्येव।
यच्चोक्तं न तदुक्तिर्भवेत् तदेति। तदप्यसत्। भावनिमित्ताभावेऽप्यभावनिमित्तेन पदप्रवृत्त्युपपत्तेः। अभावधर्मवत्त्वस्य चाङ्गीकृतत्वात्। एतेन लक्ष्यमित्येतदपि निरस्तम्। लक्ष्यपदस्याप्यपोहवाचित्वोपपत्तेरिति भावः।
अत्र वक्तव्यम् परमसिद्धान्तमखण्डत्वं परित्यज्याभावधर्मवत्त्वं कस्मादङ्गीकरोषीति। अथ ब्रूयात् सत्यं ज्ञानमनन्तं विज्ञानमानन्दमित्यादिपदानि तावद् ब्रह्मणि श्रूयन्ते। नच तेषां विधिरूपोऽर्थः स्वीकर्तुं शक्यः। “नेह नानाऽस्ति” इत्यादिश्रुतिविरोधात्। अभावधर्माङ्गीकारे च न विरोध इत्युक्तमिति। तत्राऽह असार्वज्ञ्यादीति।
असार्वज्ञ्यादिराहित्यमप्येवं ते भविष्यति।
तदा सार्वज्ञ्यमेव स्याद् भावार्थत्वान्नञोर्द्वयोः॥१६९॥
ते अङ्गीकार्यमिति शेषः। यथाहि सत्यज्ञानादिपदानि ब्रह्मणि श्रूयन्ते, एवम् “एष सर्वज्ञः”, “एष सर्वेश्वरः” इति सार्वज्ञ्यादिपदान्यपि। तथाच यथा तान्यनृतत्वाद्यभाववाचीनि, एवमेतान्यपि असर्वज्ञत्वाद्यभाववाचितया त्वयाऽङ्गीकर्तव्यान्येव। ततश्च सत्यज्ञानादिवाक्यं तत्वावेदकं सर्वज्ञादिवाक्यं मायाशबलपरमिति विभागो न युक्त इति भावः।
मा भूदयं विभागोऽसार्वज्ञ्याद्यभावोऽपि ब्रह्मण्यङ्गीक्रियत एवेत्यत आह तदेति। ब्रह्मण्यसार्वज्ञ्याद्यभावेऽङ्गीकृते सति सार्वज्ञ्यादिभावधर्मा दुर्निवारा एव। कुतः? “द्वौ नञौ प्रकृतमर्थं सातिशयं गमयतः” इति न्यायादित्यर्थः। एतच्च चतुर्थे स्पष्टयिष्यते। (१२८४)
॥ उक्तार्थानङ्गीकारे ब्रह्मणः असत्यत्वादिप्रसङ्गः॥
असार्वज्ञ्यादिराहित्यमप्येवं ते भविष्यतीत्युक्तानङ्गीकारे बाधकमाह यदीति।
यदि नैतादृशं ग्राह्यमसुखत्वानिवर्तनात्।
असत्त्वाज्ञानतादेश्च स्यादसत्त्वादिकं तदा॥१७०॥
सर्वज्ञादिपदं ब्रह्मणि श्रुयमाणमसार्वज्ञ्यादिनिवृत्तिं बोधयतीत्येतादृशं प्रमेयं यदि न ग्राह्यम्, तदा आनन्दपदमप्यसुखत्वं न निवर्तयेत्, सत्यपदं चासत्यत्वम्, ज्ञानपदं चाज्ञानत्वम्, आत्मपदं चानात्मत्वम्। अविशेषादिति वाक्यशेषः। मा भूदानन्दादिपदानामसुखत्वादिव्यावर्तकत्वम्। को दोष इत्यत आह असुखत्वेति। असत्त्वाज्ञानतादेश्चानिवर्तनादिति सम्बन्धः।
अयं भावः ब्रह्मणि तावदसत्त्वादिकं प्रसक्तम्। तद्व्यावर्तनाय सत्यज्ञानादिवाक्यानां प्रवृत्तिः। तान्यपि चेत् न तद् व्यावर्तयन्ति, तदा ब्रह्मणोऽसत्त्वादिकं तात्त्विकमेवेत्यापन्नमिति। यद्वा यदि नैतादृशमित्यध्याहारेण विनैकमेव वाक्यं बुद्ध्या विविच्य तु योज्यमिति।
॥ ब्रह्मणो निर्विशेषत्वासम्भवात् मायावादिना विशेषोऽङ्गीकर्तव्य एव॥
शङ्कते अनृतादीति।
अनृतादिविरोधित्वं यद्यस्याभ्युपगम्यते।
अनैश्वर्यविरोधित्वमप्येवं किं निवार्यते॥१७१॥
अस्य सत्यत्वादेः। अयमर्थः सत्यादिपदानि तावदापाततः सत्यत्वादिविशेषणानि समर्पयन्ति। तदनन्तरं तत्तद्विरोध्याकारनिवर्तकर्त्वन पर्यवस्यन्ति। यथोक्तम्
“प्रतिपाद्य पदार्थं हि विरोधात् तद्विरोधिनः।
पश्चादभावं जानाति वध्यघातकवत् पदात्”
इति। सत्यत्वादिविशेषणानां चानृतत्वादिविरोधित्वं सुप्रसिद्धमिति कथं न तद्व्यावृत्तिरिति। सममेतत् प्रकृतेऽपीत्याह अनैश्वर्येति। सर्वेश्वरादिपदसमर्पितस्यैश्वर्यादेरिति शेषः।
उपसंहरति अखण्डेति।
अखण्डखण्डनादेवं विशेषोऽखण्डवादिना।
खण्डितेनापि मनसा स्वीकार्योऽनन्यथागतेः॥१७२॥
यस्मादेवमखण्डखण्डनादखण्डवादिनाऽपीत्यन्वयः। अनन्यथागतेः हेतोः खण्डितेन उत्तरोत्प्रेक्षारहितेन।
॥ भेदवादिना अभेदवादिना च विशेषस्याङ्गीकार्यत्वात्, भेदाभेदवादिना त्ववश्यमङ्गीकर्तव्यता॥
इदानीं भेदाभेदवादिनं विशेषमङ्गीकारयति अखण्डेति।
अखण्डखण्डवादिभ्यां खण्डाखण्डेन चैव तत्।
महादरेण शिरसि विशेषो धार्य एव हि॥१७३॥
यम्मादेवमखण्डखण्डवादिभ्यां विशेषोऽङ्गीकार्यः, तत् तस्मादेव हि खण्डाखण्डेन खण्डाखण्डवादिना च विशेषोऽङ्गीकार्य एव। “कु न्ताः प्रविशन्ति” इतिवदुपलक्षणया “अर्शआदिभ्योऽच्” इति वा खण्डाखण्डेनेति साधु।
तथाहि धर्मधर्मिणोर्भेदाभेदाविति वदता तौ किं ताभ्यामत्यन्तं भिन्नावङ्गीक्रियेते, उत अत्यन्ताभिन्नौ, अथ भिन्नाभिन्नौ ? नाऽद्यः, भेदानवस्थापत्तेः। भेदस्य स्वरूपत्वे च विशेषानङ्गीकारे तदीयत्वाद्यनुपपत्तेः। भेदाभेदयोरत्यन्तभिन्नयोः सम्बन्धाभावेन तदीयत्वानुपपत्तेश्च। न द्वितीयः, तदीयत्वाद्यनुपपत्तेरेव। भेदाभेदशब्दयोः पर्यायत्वापत्तेश्च। न तृतीयः, अनवस्थापत्तेः। क्वचिद् भेदाभेदयोरभेदे पूर्वदोषानुपङ्गात्। तस्माद् भेदाभेदवादिनाऽपि क्वचिद् विशेषोऽङ्गीकार्य इति। तदेवमुभयव्यपदेशान्यथाऽनुपपत्त्या भगवद्धर्माणां सविशेषोऽत्यन्ताभेद एवेति सिद्धम्।
॥ अहिकुण्डलादिनिदर्शनत्रिकेऽपि सविशेषाभेदस्यैव सूत्रकृद्विवक्षितत्वम्॥
ननु नायं सूत्रकाराभिप्रायो भवितुमर्हति। तेनानेवंविधानामहिकुण्डलादीनां निदर्शनानामुपात्तत्वात्। अहेरवयवानामन्योन्यसंयोगविशेषो ह्यहिकुण्डलमित्युच्यते। स तावदहिना नात्यन्ताभिन्नः। प्रकाशश्च द्रव्यान्तरम्, न सूर्याभिन्न इत्यतः “प्रकाशाश्रयवद् वा” इति निदर्शनमपि नात्यन्ताभेदोपयुक्तम्। कालस्य पूर्वत्वं नाम प्रध्वस्तक्रियासम्बन्ध इति न “पूर्ववद् वा” इत्यपि प्रकृतानुगुणमित्यत आह निदर्शनेति।
निदर्शनत्रयेणातो भगवानत्यभिन्नताम्।
गुणानामादरेणाऽह .................॥१७४॥
यत एवमर्थापत्त्या भगवद्गुणानां भगवता सविशेषोऽत्यन्ताभेदः सिद्धः, अत इत्यर्थः। अत्यभिन्नतां सविशेषाम्। निरवकाशप्रमाणानुसारेण निदर्शनत्रयमपि सविशेषाभेदोपयुक्तत्वेन सूत्रकारस्याभिमतं ज्ञातव्यमित्याशयः।
तत्राहिकुण्डलं यद्यपि भेदाभेदवत्, तथाऽपि मन्दानामभेदे बुद्धिमवतारयितुमुपात्तम्। “यथा पृथिव्यामोषधयः सम्भवन्ति” इति यथा। प्रकाशशब्देन च भास्वरं रूपं विवक्षितम्। तच्च यावद्द्रव्यभावित्वात् सूर्यमण्डलेनात्यन्ताभिन्नमेव। पूर्वत्वं च पूर्वकालसम्बन्ध इति सकललोकसिद्धमिति। नन्वेकेनैव निदर्शनेनालं किं त्रयेणेत्यत उक्तम् आदेरेणेति।
॥ अभिहितान्वयवादनिरासः॥
एवं साक्षादधिकारणार्थं व्याख्यायेदानीमनुषङ्गसिद्धमर्यं दर्शयति तच्चेति।
..................तच्च नाभिहितान्वयः॥१७४॥
तस्मादेव भगवद्धर्माणां भगवता सविशेषाभेदस्य समर्थितत्वादेव पदाभिहितैः पदार्थैरन्वयबोध इत्येतन्मतं नेति लभ्यत इति शेषः। अभिहितान्वयग्रहणमुपलक्षणम्। वक्ष्यमाणान्विताभिधानव्यतिरिक्तानां सर्वेषामपि मतानामनुपपन्नत्वात्।
॥ सामान्यान्विताभिधानवादः॥
यदितर्ह्यभिहितान्वयवादोऽनुपपन्नः, कः पन्थाः सूत्रकारस्याभिमतः? नहि निरुपायमन्वयज्ञानमिति सम्भवति। अन्विताभिधानमिति ब्रूमः। तत्राप्यस्ति विशेष इत्याशयेनाऽह यदेति।
यदाऽशेषविशेषाणामुक्तिः सामान्यतो भवेत्।
पदैकेनाप्युत्तरेण विशेषावगतिर्भवेत्॥१७५॥
यदाशब्दो यद्यर्थः। यद्यप्यशेषविशेषाणामित्यशेषविशेषान्वितस्येत्यर्थः। एकशब्दो मुख्यार्थः। पदेष्वेकं पदैकम्, आद्येन पदेनेत्यर्थः। कर्मधारयत्वे तु “पूर्वकालैक” इत्येकपदस्य पूर्वनिपातः स्यात्। अपि तथाऽपि उत्तरेण पदजातेनान्वयविशेषावगतिः।
एतदुक्तं भवति “सत्यं ज्ञानमनन्तं ब्रह्म”,”यः सर्वज्ञः सर्ववित्” इत्यादिब्रह्मप्रतिपादकवाक्यगतानि सकलान्यपि पदान्यन्वितार्थाभिधायीनि। तत्र ब्रह्मपदं सत्यत्वसर्वज्ञत्वाद्यशेषविशेषान्वितं ब्रह्म प्रतिपादयति। नचैवं सत्यादिपदानां वैयर्थ्यम्। यतः सामान्यत एवान्विताभिधाने शक्तिः पदानां नान्वयविशेषाभिधाने। अतो ब्रह्मपदेन सामान्यतः समस्तयोग्यधर्मान्विते ब्रह्मणि प्रतीते सत्यत्वेनान्वितं ज्ञानत्वेनान्वितमिति विशेषान्वयप्रतिपत्त्यर्थानि सत्यादिपदानीति।
॥ सामान्यान्विताभिधानसमर्थनस्य पौनरुक्त्यशङ्कापरिहारः॥
नन्वभिहितान्वयादिवादानामनुपपन्नत्वम्, अन्विताभिधानस्योपपन्नत्वं च प्रथमसूत्रे सूत्रकारेण उक्तमेव। (१५६) तत् किमत्राधिकरणसिद्धान्ततया तद्वर्णनेन ? उच्यते। अतःशब्देन ह्यन्वयबोधेऽस्त्युपाय इत्येतावन्मात्रं प्रतीयते। न पुनः पदान्येव न पदाभिहितार्थादीनीति विशेषः। तत्र व्याख्यातारं प्रति कुतोऽयं सूत्रकृतोऽभिप्राय इति भवत्येव परिचोदना। तत्समाधानाय चाधिकरणसिद्धान्तवर्णनमुपपन्नमेव। यद्यप्युपपन्नः सूत्रकाराभिप्राय इति शक्यते वक्तुम्, तथाऽप्यधिकरणसिद्धान्तवर्णनमिषेण तत्र सङ्क्षेपतो व्युत्पादितोपपत्तीनां प्रपञ्चाय प्रयत्नोऽयमित्यदोषः।
॥ एतदधिकरणसिद्धान्तस्य ब्रह्मणः सविशेषाभिन्नत्वस्य सिद्ध्या
सामान्यान्विताभिधानस्यापि सिद्धत्वात् तस्याप्यधिकरणसिद्धान्तत्वम्॥
तदिति परामृष्टं हेतुं दर्शयति यत इति।
यतोऽशेषविशेषाणां वस्तुनाऽस्त्येव चैकता।
अतः...................................।
वस्तुना ब्रह्मणा । चशब्दाद् विशेषश्च। अतो नाभिहितान्वयादिवादाः, किन्नाम, उक्तविधान्विताभिधानमिति शेषः। तथाहि सत्यत्वादिधर्माणां तावद् ब्रह्मणाऽत्यन्ताभेदः समर्थितः। ततो ब्रह्मवाचकस्य ब्रह्मपदस्य सत्यत्वादिवाचकत्वमावश्यकमेव। किन्त्वभेदेऽन्वय एव नास्ति। कुतस्तदभिधानम्, विशेषतोऽभिधानप्रसङ्गश्चेत्यवशिष्यते। तत्र सविशेषत्वाङ्गीकार एव समाधिः। अभेदेऽपि विशेषशक्त्याऽन्वितत्वस्य विशेषानभिधानस्य चोपपत्तिरिति।
॥ सकलपदानां योग्येतरान्वितस्वार्थाभिधायित्वेऽपि पदान्तरसमभिव्याहार
लब्धशक्तिविशेषबलाद् विशेषतोऽप्यन्वितस्वार्थाभिधायकत्वाङ्गीकारान्नानुपपत्तिः॥
स्यादेतत्। अस्मिन्नन्विताभिधानवादे विशेषान्वयप्रतिपत्तिर्निर्निबन्धनैवाऽपद्यते, सकलपदानां सामान्यतोऽन्विताभिधाने सामार्थ्यात्। नचाऽद्यं पदं सामान्यतोऽन्विताभिधायि, उत्तरं तु विशेषत इति वाच्यम्, आद्यत्वादेरव्यवस्थितत्वात्। वेदवाक्येऽपि हि क्वचिद् ब्रह्मपदमाद्यम्, क्वचिदुत्तरमित्यत आह सामान्यत इति।
.....सामान्यतो ज्ञातः पदान्तरबलात् पुनः।
भवेद् विशेषतो ज्ञातस्तेन स्यादन्वितोक्तिता॥१७६॥
एकैकशः पदैः सामान्यतोऽन्विततया ज्ञातोऽर्थः पुनः पदान्तरसन्निधानाहितशक्तिबलाद् विशेषतोऽन्वितत्वेन ज्ञातो भवेत्। तेन कारणेन पदानामन्वितोक्तिताऽन्विताभिधायिता स्यादुपपन्नेति शेषः।
॥ उक्तार्थस्यानुभवसिद्धत्वम्॥
सविशेषाभेदसमर्थनेनोक्तप्रकारं पदानामन्विताभिधानं सिद्धमित्ययुक्तम्। अतिप्रसङ्गात्। रूपस्य हि घटेनाभेद इति त्वचा तस्मिन् गृहीते तदपि गृह्येत। अथ विशेषेण प्रतिबद्धं तद्ग्रहणमित्युच्यते, तर्ह्यत्रापि प्रतिबन्धः स्यात्। विशेषाभिधानं प्रतिबद्धमेवेति चेत्, सामान्याभिधानमपि कुतो न प्रतिबद्धम्? अथ सम्भावनैवैषोक्तेति मतम्, तदा नायमधिकारणसिद्धान्तः। एकस्य सिद्धावनुषङ्गी योऽर्थः सिद्ध्यति सोऽधिकरणसिद्धान्तः, नहि सम्भावनासिद्धिरित्यत आह स्वार्थ एवेति।
स्वार्थ एवान्वितो यस्मात् केनचित् तद्विशेषतः।
अनेनेति तदुक्त्यैव ज्ञायतेऽनुभवेन हि॥१७७॥
यस्मात् केनचिदन्वित एव पदानां स्वार्थ इति, अनेन सत्यत्वेन ज्ञानत्वेन वाऽन्वित इति, तद्विशेषतो धर्मविशेषेणान्वयः, तदुक्त्यैव सत्यादिपदोक्त्यैव ज्ञायत इत्यनुभवेन सिद्धम्। तस्मादुक्तं युक्तमिति शेषः। प्रत्येकं पदानि सामान्यतोऽन्विताभिधायीनि, विशेषतोऽन्वितार्थप्रतीतिस्तु परस्परसन्निधानाहितशक्तिभिः पदैर्भवतीत्येतदनुभवसिद्धमित्यर्थः।
एतदुक्तं भवति अभेदेन तावद् विशेषाभिधानं प्राप्तम्। नच तदस्ति, अनुभवविरोधात्। अतस्त्प्रतिबन्धकत्वेन विशेषः कल्पनीयः। स च यथाऽनुभवमेव स्वीकार्य इति नातिप्रसङ्गः कश्चिदिति।
॥ पदानामन्विताभिधायित्वानङ्गीकारे
अन्वयज्ञानानुपपत्तिप्रसङ्गः॥
एवं प्रतिज्ञातमन्वितामिधानमुपपाद्य यदुक्तमभिहितान्वयादिपक्षाणामयुक्तत्वं तदन्विताभिधानानङ्गीकारे बाधकप्रदर्शनमुखेनोपपादयति यदीति।
यद्यनन्वितमेवैतत् पदं स्वार्थं वदेदिह।
तथाऽन्यान्यपि सर्वाणि कः कुर्यादन्वयं पुनः॥१७८॥
एतद् ब्रह्मादिकमाद्यं पदम्। इह सत्यज्ञानादिवाक्ये। अन्यान्युत्तराण्यपि पदानि तथा यद्यनन्वितानेव स्वार्थान् वदेयुः, तर्ह्यन्वयमन्वयज्ञानं तु कः कुर्यात्? आद्यं पदमलब्धसहायं प्रथमं सामान्यतोऽन्वितमभिधत्ते। उत्तराणि त्वादित एव लब्धसहायानि विशेषत एवान्विताभिधायीनि। तदिदं वैलक्षण्यं सूचयितुमेतदन्यानीति विभागेन ग्रहणम्। अन्यथा यदि वाक्यस्थानि समस्तानि पदानि नान्विताभिधायीनि किन्त्वनन्वितानेव स्वार्थानभिदधतीति, तर्ह्यन्वयज्ञानं निर्निबन्धनमापद्येतेत्यवक्ष्यत्।
॥ पदानामन्विताभिधायित्वाभावे अन्वयज्ञानोपायत्वासम्भवः॥
एतदेव प्रपञ्चयति व्यापार इति।
व्यापारो नहि शब्दस्य परः स्वार्थप्रकाशनात्।
पुमानप्येकवारोक्त्या कृतकृत्यो यदा भवेत्।
अन्वयस्य कथं ज्ञानं शब्दार्थत्वं यदाऽस्य न॥१७९॥
यदा यदि, अस्यान्वयस्य शब्दार्थत्वं पदाभिधेयत्वं न स्यात्, तर्ह्यन्वयस्य ज्ञानं कथम्? न कथञ्चित्। उपायान्तरभावात्। तथाहि अन्वयज्ञानात् पूर्वभावित्वेन वादिभिरङ्गीकृतत्वेन वा, प्रसक्तानि तावदेतानि पदानि वा, वक्ता वा, पदैरभिहिताः पदार्था वा, वाक्यं वा, वाक्यान्त्यवर्णो वा, वर्णमाला वा, स्फोटो वा, श्रोता वेति। तत्र तावदन्विताभिधानानङ्गीकारे पदानामुपायत्वं नोपपद्यत इत्येतद् व्यापारो नहीत्यर्धेनाऽह। शब्दस्य पदस्य, स्वार्थप्रकाशनादन्यो व्यापारो नास्तीति तावत् सुप्रसिद्धम्। अन्वयश्च न पदाभिधेयः। तत् कथं पदस्य तज्ज्ञानोपायत्वम्?
॥ वक्तुरन्वयज्ञानोपायत्वाभावः॥
वक्तुरपि तन्नास्तीत्याह पुमानपीति। यदा यस्मात्। तस्मात् सोऽपि नोपाय इति शेषः। एकवारग्रहणं तस्यात्यन्तव्यवहितत्वद्योतनार्थम्। सकृदुच्चारण एव तस्योपक्षीणत्वादिति।
॥ पदाभिहितपदार्थानां अन्वयज्ञानोपायत्वाभावः॥
पदाभिहितानां पदार्थानामन्वयबोधकत्वपक्षे दोषमाह यदैवेति।
यदैवानन्वितार्थस्य वचनं तैः पदैर्भवेत्।
अनन्वितः स्याच्छब्दार्थो न तदर्थो हि सोऽन्वयः॥१८०॥
अनन्वितार्थस्यैवेति सम्बन्धः। जातावेकवचनम्। तैर्वाक्यस्थैः। यदि पदान्यनन्वितानेव स्वार्थान् प्रतिपाद्य निवर्तन्ते, ततः पदार्था एवाऽकाङ्क्षादिमन्तोऽन्वयं बोधयन्ति, तर्ह्यनन्वित एव शब्दार्थः स्यात्। अन्वयस्य शाब्दत्वं न स्यादिति यावत्। पदार्थाख्यं प्रमाणान्तरं चाऽपद्येत।
भवेदेतत्। यदि पदार्थानामेवान्वयबोधकत्वं ब्रूमः। नचैवम्। किन्नाम। पदैरभिहितानाम्। तत् कथमन्वयस्याशाब्दत्वमित्यत आह नेति। स पदार्थैः प्रतिपादितोऽन्वयस्तेषां पदानामर्थो नहीत्यर्थः। तथासति प्रत्यक्षावगतधूमप्रतिपादितस्याग्नेः प्रत्यक्षप्रमेयत्वं स्यादिति भावः।
॥ वाक्यस्यान्वयज्ञानोपायत्वाभावः॥
अस्तु तर्हि वाक्यस्यान्वयबोधकत्वमिति पक्ष इत्यत आह निराकाङ्क्षेति।
निराकाङ्क्षपदान्येव वाक्यमित्युच्यते बुधैः
पदानामन्विताभिधानसामर्थ्यमनङ्गीकुर्वता वाक्यस्यान्वयबोधकत्वमङ्गीकर्तुमशक्यम्। यतः पदान्येव वाक्यमिति बुधैरुच्यते। पदव्यतिरिक्तस्य वाक्यस्याभावादित्यर्थः। केचित् पदातिरिक्तमेव वाक्यं प्रतिपन्नाः। तद्व्युदासाय बुधैरित्युक्तम्। तच्च निराकरिष्यते। (अनुपदम्) गौरश्र्वः पुरुषो हस्तीत्यादिपदानां वाक्यत्वं मा भूदिति निराकाङ्क्षेत्युक्तम्। सन्निधानाभावे निराकाङ्क्षत्वमेव न निर्वहतीति निराकाङ्क्षत्वेनैव सन्निधानस्य लब्धत्वान्न तत् पृथगुक्तम्। अग्न्निा सिञ्चेदित्यादौ योग्यताभावेऽप्यन्वयप्रतीतेः प्रकृतानुपयोगाद् योग्यताऽपि नोक्ता।
॥ वाक्यस्य पदातिरिक्तत्ववादनिरासः॥
नन्वेवं वदता भवतैव पदव्यतिरिक्तं वाक्यमङ्गीकृतम्। यथा खलु तन्तूनां विक्रियाविशेषः पटः, न तन्तुमात्रम्। तथा पदानां यो निराकाङ्क्षतालक्षणो विक्रियाविशेषः स वाक्यम्, पदातिरिक्तमेवेत्यत आह तत्तदिति।
तत्तदर्थाभिधानेन स्यान्निराकाङ्क्षता च सा।
अपूर्तेस्तावदर्थानामाकाङ्क्षा पूर्वमिष्यते॥१८१॥
न तन्तूनां पट इव पदानां निराकाङ्क्षता विक्रिया। येन पदातिरिक्तं वाक्यं स्यात्। किन्नाम। श्रोतृपुरुषधर्म एव। जिज्ञासा खल्वाकाङ्क्षा। निराकाङ्क्षता च निवृत्तजिज्ञासत्वम्। सा च निराकाङ्क्षता पदैः स्यादिति पदानि निराकाङ्क्षाणीत्युच्यन्ते। निराकाङ्क्षताकारित्वं च न पदानां विक्रियाविशेषः। जिज्ञासितार्थाभिधानमात्रेण तद्धेतुत्वात्। तस्य च स्वभावत्वात्। तथाच जिज्ञासितार्थानभिदधति जिज्ञासां निवर्तयन्ति पदानि निराकाङ्क्षानीत्युक्तं भवति।
जिज्ञासितार्थाभिधानेनैव श्रोतुर्निराकाङ्क्षता स्यादित्येतदुपपादयति अपूर्तेरिति। आनयेत्येवोक्ते गवादिपदप्रयोगात् पूर्वम्, या किमित्यादिजिज्ञासा वर्तते, सा तावतां जिज्ञासितानामर्थानां कर्मादीनामपूर्तेर्गवादिपदैरनभिधानादिति यावत्।
एतदुक्तं भवति शाब्दी जिज्ञासा यावत् पदानि जिज्ञासितानर्थान् नाभिदधति तावन्न निवर्तते। निवर्तते च पदैस्तेष्वभिहितेष्वित्यतोऽन्वयव्यतिरेकाभ्यां विज्ञायते तत्तदर्थाभिधानेनैव निराकाङ्क्षता स्यादिति। वाक्यान्त्यवर्णो वर्णमालेति पक्षद्वयमतिमन्दमिति न दूषितम्। तथाचोक्तं पुरस्तात्।(१६०)
॥ स्फोटस्याप्रामाणिकत्वादेव तस्यान्वयज्ञानोपायात्वाभावः॥
अस्तु तर्हि निरस्तवर्णपदविभागं स्फोटाख्यं वाक्यमेवान्वयस्य प्रतिपादकम्। पदानि तु तदभिव्यञ्जकतयोपयुज्यन्त इति पक्ष इत्यत आह कर्मेति।
कर्मकर्तृक्रियाणां तु पूर्तौ कोऽन्योऽन्वयो भवेत्।
अपूर्तिश्चेत् पदैरुक्तैः किं नृशृङ्गेण पूर्यते॥१८२॥
अत्र कर्मादिग्रहणमुपलक्षणम्। जित्रासितानां पदार्थानामित्यर्थः। अन्योन्यसंसृष्टानामिति शेषः। पूर्तावभिधाने सति पदैरिति शेषः। अन्वयो भवेत् प्रतिपादनीय इति शेषः।
एतदुक्तं भवति स्फोटमन्वयस्य प्रतिपादकं वदता तत्सद्भावे प्रमाणं वाच्यम्। अन्वयप्रतीत्यन्यथानुपपत्तिरिति चेत्, न। पदानामेव संसृष्टार्थप्रतिपादकत्वसम्भावात्। नच तदतिरिक्तोऽन्वयो नामास्ति प्रतिपादनीयः, यदर्थं स्फोटान्वेषणमिति।
एवमनङ्गीकारे बाधकमाह अपूर्तिरिति। अन्वयस्यापूर्तिरनभिधानम्। उक्तैरिति पदानां प्रमितत्वमभिप्रैति। नृशृङ्गेण स्फोटेनेति तस्याप्रामाणिकत्वम्। नृशृङ्गतुल्येनेति पूर्यतेऽभिधीयतेऽन्वय इति शेषः। इदमुक्तं भवति पदवादिनः कल्पनालाघवम्, प्रमितानां पदानामन्वितार्थाभिधानस्य कल्पनात्। स्फोटवादिनस्तु गौरवम्। यतो निष्प्रमाणकः स्फोटः, तस्यान्वयप्रतिपादकत्वं चेति द्वयं कल्पनीयमिति।
॥ पदानां पदार्थप्रतिपादनानन्तरमन्वयबोधकत्वे विरम्य व्यापारप्रसङ्गः॥
अस्तु तर्हि नवीनाभिहितान्वयपक्षः। यदिहि पदानि पदार्थान् प्रतिपाद्यैव निवर्तन्ते पदार्था एवान्वयं बोधयन्तीति मतम्, तदा स्यादेवोक्तदोषः। नचैवम्। किन्तु पदान्येव पदार्थप्रतिपादनावन्तरव्यापाराण्यन्वयं बोधयन्तीति। मैवम्। तथासति पदानां विरम्य व्यापारप्रसङ्गात्। ततः को दोष इत्यत आह व्यापारश्चेदिति।
व्यापारश्चेत् पुनस्तेषामनुक्तावपि किं न सः।
उक्ते बुद्धिस्थताहेतोर्यदि व्यापार इष्यते॥१८३॥
अचेतनानामपि पदानां यदि पुनर्व्यापारो विरम्य व्यापारोऽङ्गीक्रियते, तदा पृच्छामोऽनुक्तानामपि पदानां पदार्थादिप्रतिपादने व्यापारः कुतो न भवतीति। उत्तरमाशङ्कते उक्त इति। भावे क्तप्रत्ययः। बुद्धिस्थता बुद्धिविषयता। पदानि हि ज्ञातकरणानि, नतु चक्षुरादिवत् सत्तामात्रेण। उक्तिश्च तज्ज्ञानोपाय इत्यतोऽनुक्तौ ज्ञातत्वाभावान्न व्यापार इत्याशयः। इति यदीष्यत इति सम्बन्धः। पुनः सिद्धान्ती पृच्छति बुद्धिस्थत्वायेति।
बुद्धिस्थत्वाय यत्नं न कथं कुर्युः पुरैव च।
पुरुषाधीनता तेषां यदि पश्चाच्च सा समा॥१८४॥
पदार्थबोधनादिव्यापाराय यत् पदानां ज्ञातत्वमावश्यकम्, तदर्थं तानि पदान्युक्तेः प्रागेव यत्नं कथं कुर्युरिति च त्वां पृच्छामः। उक्तिं विनाऽपि बुद्धिविषयतायै कुतो यत्नं न कुर्युरिति पश्र्नार्थः। यद्वा बुद्धिविषयत्वाय यदुच्चारणं तदर्थं तूष्णीं स्थितं कुतो न प्रेरयन्तीति।
उत्तरं शङ्कते पुरुषेति। स्यादेतद् यदि पदानि चेतनानि स्युः। नचैवम्। अतो वक्तृपुरुषायत्तान्येव। स यदोच्चारणेन व्यनक्ति, तदा श्रोतृबुद्धिस्थानि भूत्वा पदार्थप्रतिपादनादिव्यापारवन्ति भवन्ति। नतु स्वयं किमपि कुर्वन्तीति।
एवन्तर्ह्यन्वयबोधनरूपोऽपि विरम्य व्यापारो न तेषामुपपद्यत इत्याह पश्चाच्चेति। पश्चादन्वयबोधने सा पुरुषाधीनता।
एतदुक्तं भवति चैतन्ये हि पदानामन्वयबोधनाय समभिव्याहृतानामस्माकं न पदार्थप्रतिपादनमात्रेण कृतार्थता। अतोऽन्वयोऽप्यस्माभिः प्रतिपादनीय इति विमृश्य विरम्य व्यापारो युज्यते। नचैवम्। अन्यथोक्त एवातिप्रसङ्ग इति।
॥ श्रोतुरन्वयज्ञानोपायत्वाभावः॥
श्रोताऽन्वयज्ञाने कारणमिति तु स्यात्। किन्तु कर्तैव। तस्य करणं तु विचार्यते। अनन्विताभिधायीनि पदान्येव करणीकृत्य श्रोता तत्स्मारितानामर्थानामन्वयज्ञानाय यतत इति चेत्, तत्राऽह पुमानेवेति।
पुमानेवान्वयायैषां यदि पश्चाद् विचेष्टते।
अनन्विताभिधानानां स एवार्थान्तरोक्तिषु।
यततां शब्दशक्तिश्चेत् तत्र नैवान्वये कथम्॥१८५॥
अन्वयशब्देन तज्ज्ञानमुपलक्ष्यते। पश्चात् पदैः पदार्थस्मरणानन्तरम्। अनन्विताभिधानानां साहाय्येनेति शेषः। सः पुमानेव। उक्तिशब्दः, तत्कार्यज्ञानोपलक्षणः। अन्वयानभिधायिभिरपि पदैः यद्यन्वयं प्रतिपद्यते, तदा गवादिपदैरश्र्वादिकमपि प्रतिपद्येतेत्यर्थः।
शङ्कते शब्देति। गवादिपदानामश्र्वादौ शक्तिरेव नास्ति, तत् कथं तैस्तत् प्रतिपद्यताम्। नहि चक्षुषा शब्दं प्रतिपद्यत इति चेदित्यर्थः। तर्हि समं प्रकृतेऽपीत्याह अन्वये कथमिति। अन्वये शक्तिरहितैः तैः कथमन्वयज्ञानाय यतेतेत्यर्थः।
॥ अभिहितान्वयवादस्यानुभवविरुद्धत्वम्॥
“यद्यनन्वितम्” इत्यादिनोक्तमर्थमुपसंहरति तदिति।
तत्कल्पनागुरुत्वादिदोषेतोऽभिहितान्वयः।
अनुभूतिविरुद्धश्च त्याज्य एव मनीषिभिः॥१८६॥
कर्तृशब्दे ह्यभिहिते धर्मसामान्यवेदनात्।
विशेषधर्ममन्विच्छन् किमित्येव हि पृच्छति॥१८७॥
तत् तस्मात्। तस्यैव विवरणम् कल्पनेत्यादि। कल्पनागौरवं प्रथमसूत्रेण व्युत्पादितम्। (१५९) अभिहितान्वय इत्युक्तसमस्तपक्षोपलक्षणम्। कथमनुभूतिविरोध इत्यत आह कर्तृशब्दे हीति। कर्तृग्रहणं सम्बन्धिमात्रोपलक्षणम्। विशेषधर्ममिति तज्ज्ञानम्। देवदत्तेनेति कर्तृवाचिनि शब्दे प्रयुक्ते श्रोता किमिति पृच्छतीति तावदविवादम्। स च पचनादिधर्मविशेषज्ञानमन्विच्छन्नेव पृच्छति। विशेषजिज्ञासा च धर्मसामान्यज्ञानादेव। नच तदा तस्य धर्मसामान्यज्ञानोपायोऽस्त्यन्यः पदात्। अतः पदेन धर्मसामान्यान्वितं वस्तु प्रतिपादितमिति ज्ञायते। किमिति प्रश्र्नो विशेषजिज्ञासयेत्येत् कुत इत्यत आह गुणेति।
गुणक्रियादिधर्माणां विशेषे कथिते पुनः।
निराकाङ्क्षो भवेद् यस्माच्छब्दा अन्वितवाचकाः॥१८८॥
निराकाङ्क्षो निवृत्तजिज्ञासः। तस्माद् विशेषधर्ममन्विच्छन् किमित्येव हि पृच्छतीति सम्बन्धः।
एतदुक्तं भवति कर्त्रादिपदश्रवणानन्तरभावी किमित्यादिप्रश्र्नो जिज्ञासामूलः, प्रश्नत्वात्; सम्मतवत्। सा च जिज्ञासा धर्मविशेषविषया, तदुक्त्या निवर्तमानत्वात्; सम्मतवत्। विशेषजिज्ञासा च धर्मसामान्यज्ञानपूर्विका, विशेषजिज्ञासात्वात्; सम्मतवत्। सामान्यज्ञानं चेदमेतत्पदजन्यम्, तदनन्तरभावित्वात्; सम्मतवदिति। पदेन पदार्थमात्रेऽभिहिते अविनाभावबलेन धर्मसामान्यज्ञानमिति चेत्, न। दृष्टपदपरित्यागेनादृष्टानुमानकल्पनानुपपत्तेरिति। एतेन विशेषान्विताभिधानपक्षोऽपि परास्तः। अभिहितान्वयादिपक्षाणां त्याज्यत्वे प्रकृते किमायातमित्यत आह शब्दा इति। सर्वेऽपि शब्दाः सामान्येनान्वितस्वार्थवाचका इत्येष एव पक्षो ग्राह्य इत्यर्थः।
॥ भगवतस्तद्गुणानां च सविशेषाभिन्नत्वोपसंहारः॥
अधिकरणस्य साक्षात् प्रतिपाद्यमर्थमुपसंहरति अत इति।
अतोऽनन्तगुणात्मैको भगवान् एक एव तु।
उच्यते सर्ववेदैश्च.......................॥१८९॥
अनन्तगुणात्मकत्वेऽपि न तस्यैक्यं विहन्यते, नाप्येकेनाभिन्नानामनन्तत्वं गुणत्वं चेत्यर्थः। तच्चेत्यानुषङ्गिकमर्थमुपसंहरति एक एवेति। तुशब्देन सकलधर्मान्वित इति सूचयति॥*॥ इति अहिकुण्डलाधिकरणम्॥१५॥
अथ परानन्दाधिकरणम्॥१६॥
॥ भगवद्गुणानां गुणक्रियाद्यात्मकत्वात् लौकिकगुणविलक्षणत्वम्, सविशेषाभिन्नत्वं च॥
परमतः सेतून्मानसम्बन्धभेदव्यपदेशेभ्यः। परमेश्वरस्याऽनन्दादयो गुणाः, किं लौकिकानन्दादिसलक्षणाः, किंवा तद्विलक्षणाः? आद्ये न तत्र बहुमानः सम्भवति। न द्वितीयः, प्रकारप्रमाणाभावात्। विमता लौकिकसलक्षणाः, आनन्दादिशब्दवाच्यत्वादिति बाधकसद्भावाच्च। अन्यथा तत्राऽनन्दादिशब्दप्रवृत्तिर्न स्यात्। व्युत्पत्त्यभावात्। अतीन्द्रियत्वेन तत्रोपदेशाद्युपायाद्यभावे सादृश्यानुमानस्यैवानुसरणीयत्वात्। तस्य चासिद्धत्वात्। ततश्च वेदवेद्यत्वं न स्यादित्यस्य समाधानार्थमिदमारभ्यते। तत्राऽशङ्कितसकलदोषपरिहारो न स्फुटः प्रतीयत इत्यतो व्याचष्टे ते चेति।
ॐ परमतः सेतून्मानसम्बन्धभेदव्यपदेशेभ्यः ॐ॥३२॥
ॐ दर्शनात् ॐ॥३३॥
................... ते चाखिलविलक्षणाः॥१८९॥
सर्वे सर्वगुणात्मानः सर्वकर्तार एव तु।
तथाऽपि सविशेषाश्च...............॥१९०॥
ते गुणा न केवलं गुणिनाऽभिन्नाः, किन्नाम, अखिलेभ्यो लौकिकानन्दादिभ्यो विलक्षणाश्च। कथं विलक्षणा इत्यत आह सर्व इति। आनन्दोऽपि ज्ञानात्मकः, ज्ञानमप्यानन्दात्मकमित्यादि। नह्येवमन्तःकरणपरिणामभेदाः सुखादयः। सर्वकर्तारो जगत्सृष्ट्यादिकर्तारश्च। एवशब्देनोपचारं वारयति। अन्योन्यमभेदे शब्दानां पर्यायत्वमनेकत्वाभावश्च स्यादित्यत आह तथाऽपीति। परस्पराभेदेऽपि । ततो नोक्तदोष इति भावः। अनेन वैलक्षण्यप्रकारो दर्शितः। प्रमाणं च वक्ष्यते। (१०५७) तथाचाऽद्यं सूत्रद्वयं व्याख्यातं भवति।
॥ भगवदानन्दादीनां लौकिकानन्दविलक्षणत्वे आनन्दादिशब्दप्रवृत्त्यनुपपत्तिशङ्कापरिहारः॥
बाधकपरिहारार्थं सूत्रम् “बुद्ध्यर्थः पादवत्” इति। तद् व्याचष्टे विद्वदिति।
ॐ बुद्ध्यर्थः पादवत् ॐ॥३४॥
.................विद्वद्व्युत्पत्तितोऽपि च॥१९०॥
तैस्तैः शब्दैश्च भण्यन्ते युज्यते चोपदेशतः ।
अन्यानन्दादिसादृश्यमानुकूल्यादिना परम्॥१९१॥
अपिच तथाऽपि तैस्तैः शब्दैश्च भण्यन्ते। कथम्? विद्वद्व्युत्पत्तितः। विद्वांसो हि साक्षात्कृतभगवद्गुणाः पूर्वैर्विद्वद्भिर्व्युत्पादयितुं शक्यन्ते। अविदुषां कथं व्युत्पत्तिः? भवितव्यं हि तया। अन्यथा विद्वत्त्वस्यैवानुपपत्तेरित्यत आह युज्यते चेति। विद्वदुपदेशतोऽविदुषामपि व्युत्पर्त्तियुज्यते।
अतीन्द्रिये कथमुपदेश इत्यत आह अन्येति। लौकिकानन्दादिसादृश्यं भगवदानन्दादेर्विद्यते। ततश्च योऽस्मदानन्दसदृशो भगवद्गुणः स आनन्दादिशब्दवाच्य इत्यादिरुपदेशो घटते। तर्हि पूर्वोत्तरविरोधः स्यात्। प्राक् ते चाखिलविलक्षणा इत्युक्त्वेदानीमन्यानन्दादिसादृश्याभ्युपगमादित्यत आह आनुकूल्यादीति। आनुकूल्यं निरुपाधिप्रियत्वमानन्दस्य। बोधत्मकत्वं ज्ञानस्येत्यादि। अपरमल्पत्वास्थिरत्वादि। आनुकूल्यादेः प्रवृत्तिनिमित्तस्य सत्त्वात् तदाश्रयेण व्युत्पत्तेरपि सम्भवादानन्दादिशब्दप्रवृत्त्युपपत्तावनुमानमप्रयोजकमित्युक्तं भवति।
॥ भगवद्गुणानां लौकिकगुणविलक्षणत्वे प्रमाणम्॥
ननुु विलक्षणेष्वानन्दादिषु विलक्षणा एव शब्दाः कुतो न प्रयुज्यन्ते? तथासति तत्र बुद्धिप्रवेशाभावप्रसङ्गात् । अल्पत्वादिसादृश्यं कुतो नेत्यत आह पूर्णत्वादीति ।
पूर्णत्वादि महत् तेषां वैलक्षण्यं श्रुतौ श्रुतम् ।
पूर्णोऽशेषनियन्ता च सुस्वादुतम एकलः॥१९२॥
गुणोरुसमुदायोऽयं वासुदेवः सुनिप्कलः ।
वासुदेवश्रुतिश्चैषा गुणान् वक्ति हरेः परान्॥१९३॥
तां श्रुतिं पठति पूर्ण इति। पूर्णः पूर्णगुणः। सुस्वादुत्तमः शोभनानन्दतमः। एकलः एकाकी परानपेक्षः। सुनिष्कलः सर्वथा विभक्तांशविकलः। हृरेर्गुणान् परान् विलक्षणान् वक्तीति। एतेषामधिकरणानामपव्याख्यानं “न स्थानतोऽपि” इत्यत्रैव निराकृतमिति न पुनः प्रकान्तम्॥*॥ इति परानन्दाधिकरणम्॥१६॥
अथ फलदानाधिकरणम्॥२०॥
॥ स्वर्गादिफलदातुरीश्वरस्य कर्मसापेक्षत्वे कल्पनागौरवम्, तन्निरपेक्षत्वे वैषम्याद्यापत्तिः॥
फलमत उपपत्तेः। अत्राऽदौ तावत् स्वर्गनरकादिकं फलं प्राणिनामीश्वरादेव भवतीति श्रुत्युपपत्तिभ्यामुपपादितम् । तदाक्षेपार्थ सूत्रम् “धर्मं जैमिनिरत एव” इति।
ॐ धर्मं जैमिनिरत एव ॐ॥४१॥
तस्यार्थः ईश्वरः फलकारणं चेत्, धर्माधर्मावपेक्षते नवा? नेति पक्षे वैषम्याद्यापत्तिः, वेदाप्रामाण्यप्रसक्तिश्च। आद्ये किमीश्वरेण? तदपेक्षणीयेनैव कर्मणा फलसिद्धेः। अन्यथा गौरवापत्तेः। नचाचेतनत्वोपपत्तिविरोधः। नहि राजादिरिव कर्म फलं ददातीति ब्रूमः, येनाचेतनत्वं बाधेत। किन्तु कारणमात्रम्। नच श्रुतिविरोधः। फलकारणयोर्धर्माधर्मयोरीश्वरकारितत्वेन तत्स्तुतये तस्य फलकारणत्वोपचारादिति।
॥ फलदाने कर्मणः करणत्वेन ईश्वरस्य कर्तृत्वेन श्रुतौ व्यपदेशान्नोक्तदोषः॥
समाधानार्थं सूत्रम् “पूर्वं तु बादरायणो हेतुव्यपदेशात्” इति।
ॐ पूर्वं तु बादरायणो हेतुव्यपदेशात् ॐ॥४२॥
तेनेदमुक्तम् अपेक्षत एवेश्वरो धर्माधर्मौ। नच तावता तयोरेवास्तु फलहेतुतेति युक्तम्। धर्मादेरिवेश्वरस्यापि फलहेतुतया श्रुतिसिद्धत्वेन त्यागायोगात्। बाधकाभावेन श्रुतेरुपचरितार्थताकल्पनानुपपत्तेः। गौरवस्याप्रामाणिकविषयत्वात्। परस्य ब्रह्मणः कर्मणश्र्चोभयोर्हेतुत्वे साम्यापत्तिरित्यपि न वाच्यम्। यतः फलदाने परमेश्वरः कर्तृत्वेन, कर्म तु करणत्वेन “पुण्येन पुण्यम्” इत्यादौ व्यपदिश्यते। करणं च कर्तृप्रयोज्यमिति प्रसिद्धमेवेति।
॥ ईश्वरस्य स्वेच्छया लीलयैव कर्मसापेक्षत्वात् न स्वातन्त्र्यभङ्गः॥
तत्रेदमाशयते। तथाऽपि कर्मापेक्षस्येश्वरस्य फलदानेऽनुपचरितं स्वातन्त्र्यं न सिद्ध्यति। ततश्च न तस्मिन् बहुमानातिशय इति। एतत्परिहारत्वेन पूर्वपदं व्याख्याति स एवेति।
स एवाशेषजीवस्थनिःसङ्ख्यानादिकालिकान्।
धर्माधर्मान् सदा पश्यन् स्वेच्छया बोधयत्यजः॥१९४॥
कांश्चित् तेषां फलं चैव ददाति स्वयमच्युतः।
न ते विशेषं कमपि प्रेरणादिकमच्युते।
कुर्युः कदाऽपि तेनायं स्वतन्त्रोऽनुपचारतः॥१९५॥
अनादिकालत्वं च प्रवाहापेक्षयोक्तम्। कांश्चित् बोधयति सव्यापारीकरोति स्वयमेवेति सम्बन्धः। लीलया करणीकरोति, नतु तेन विना दातुं न शक्नोतीति भावः।
॥ अनन्तकर्मनियामकस्य भगवतो महिमा॥
यदेतदत्रोक्तम्, धर्माधर्मदर्शनं तत्प्रेरणं तत्फलदानं तदप्रेर्यत्वादिकं चेश्वरस्य। तदेव विचार्यमाणं तस्मिन् महान्तं बहुमानमुत्पादयिष्यति किमु समस्तपादार्थ इत्याशयवान् कर्मणां स्वरूपं तावत् प्रपञ्चयति कर्माणीति।
कर्माणि तानि च पृथक् चेतनान्येव सर्वशः।
अचेतनशरीराणि स्वकर्मफलभाञ्जि च॥१९६॥
प्रत्येकं तेषु चानन्तकर्माण्येवंविधानि च।
तानि चैवमितीशस्य निःसीमा शक्तिरुत्तमा॥१९७॥
तानीत्यशेषजीवस्थेत्याद्युक्तविशेषणानि। पृथगित्येकैकधर्माधर्माधिष्ठातृभूतानि। मुक्तव्यावृत्तये अचेतनशरीरराणीत्युक्तम्। तत एव स्वकर्मफलभाञ्जि च। तेषु कर्माभिमानिषु। एवंविधानीति चेतनत्वाद्युक्तधर्मवन्ति तानि तेष्वपि कर्मसु वर्तमानानि।
॥ कर्मणां चिदचिद्रूपत्वे प्रमाणम्॥
ततः किमित्यत आह इतीशस्येति। एवम्भूतानां कर्मणां दर्शनादिमतः। उत्तमा प्रतिबन्धादिरहितत्वात्। कर्मणामेवंविधत्वं कुत इत्यत आह एकैवेति।
एकैव ब्रह्महत्या हि वराहहरिणोदिता।
ब्रह्मपारस्तवेनैव निष्क्रान्ता राजदेहतः॥१९८॥
स्तोत्रस्य तस्य माहात्म्याद् व्याधत्वं गमिता पुनः।
प्राप्य ज्ञानं परं चाऽप तथाऽन्यान्यपि सर्वशः॥१९९॥
अनन्तान्युदितान्येवं प्रभुणा कपिलेन हि।
संसारे पच्यमानानि कर्माण्यपि पृथक् पृथक्॥२००॥
हरिणैव नत्वर्वाचीनेन। वराहग्रहणेन वराहपुराण इति सूचितम्। उदिता चेतनत्वादिरूपेणेति शेषः। तदेव दर्शयति ब्रह्मपारेति। अनेन समग्रमितिहासं सङ्क्षेपेण स्मारयति। व्याधत्वादिप्राप्त्या चेतनत्वादिकं गम्यते। तथाशब्दः प्रमाणसमुच्चये। अन्यानि ब्रह्महत्यायाः। पृथक् पृथगुदितानि। एवं चेतनत्वादिना। हीति परमसाङ्ख्ये प्रसिद्धिं दर्शयति । कथं चेतनत्वादिना प्रतीतिस्तेषामित्यत उक्तम् संसारेति।
॥ पादार्थोपसंहारः॥
पादार्थमुपसंहरति तस्मादिति।
तस्मादनन्तमाहत्म्युगुणपूर्णो जनार्दनः।
भक्त्या परमयाऽऽराध्य इति पादार्थ ईयते॥२०१॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
श्रीमद्ब्रह्मसूत्रानुव्याख्याने तृतीयाध्यायस्य द्वितीयः पादः।
माहात्म्यं शक्तिः। गुणा आनन्दाद्याः। आराध्य उपास्य इत्युत्तरपादार्थेन सङ्गतिमस्य सूचयति॥*॥ इति फलदानाधिकरणम्॥२०॥
इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृते
रनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना।
कृतायां टीकायां विषमपदवाक्यार्थविवृतौ
तृतीयेऽध्यायेऽस्मिन् भजनचरणः पर्यवसितः।
इति श्रीमद्ब्रह्मसूत्रानुव्याख्यानटीकायां
श्रीजयतीर्थमुनिविरचितायां श्रीमन्न्यायसुधायां
तृतीयाध्यायस्य द्वितीयः पादः।