न्यायसुधा (जयतीर्थकृता)/द्वितीयाध्यायस्य द्वितीयः पादः


ॐ तत् सत्
न्यायसुधा
॥ पादप्रतिपाद्यार्थप्रदर्शनम्॥
जगज्जन्मादिकारणे सकलगुणपरिपूर्णे समस्तावद्यगन्धविधुरे परे ब्रह्मणि विष्णौ समस्तश्रुतिसमन्वयो यः प्रथमाध्यायेऽभिहितः, तस्य साङ्ख्यादिसमयविरोधेनान्यथात्वशङ्कायां तन्निराकरणार्थमयं द्वितीयपाद आरभ्यते।
॥ गतार्थताशङ्का॥
नन्वनारम्भणीय एवायं पादः। तथाहि साङ्ख्यादिमतानि किं स्मृतित्वेनोक्तार्थमन्यथयन्तीति शयते, किंवा युक्त्युपेततया, अथवा श्रुत्युपेततया, यद्वा प्रत्यक्षोपेततया? नाऽद्यः, प्रतिस्मृतिपराहतत्वेनाऽप्तिनिश्चायकाभावेन च तेषामपस्मृतित्वस्य प्रथमपादे समर्थितत्वात्। (४६०) अत एव न चतुर्थः। न द्वितीयः, उक्तार्थविरुद्धानां सकलयुक्तीनामाभासत्वस्य तत्रैव व्युत्पादितत्वात्। प्रबलयुक्तिविरोधोऽत्र निरस्यत इति चेत्, न। प्राबल्यं हि युक्तीनां श्रुत्यादिप्रमाणमूलत्वेन, तत्संवादित्वेन वा, बहुत्वेन वा स्यात्। सर्वथाऽपि नाधिकाशङ्कावकाशः। श्रुत्यादिसंवादिनीनां तन्मूलानां बह्वीनां च युक्तीनां तत्रैव निराकृतत्वात्। काश्चिदेव तत्र निरस्ता न समस्ता इति चेत्, न। सूत्राणामुपलक्षणार्थत्वात्। अन्यथा युक्त्याभासानामनन्तत्वेन अपर्यवसानं स्यात्। पादभेदश्चैवंसति न स्यात्। न तृतीयः, समस्तश्रुतीनां ब्रह्मणि समन्वयस्योक्तत्वात्।
॥ मायावाद्युक्तगतार्थताशङ्कापरिहारस्य दूषणम्॥
अत्र कश्चिदाह स्वपक्षसाधनपरपक्षप्रतिक्षेपाभ्यामेव निर्णयो भवति। तत्र प्रथमाध्याये स्वपक्षे प्रमाणमुक्तम्। तस्य युक्तिविरोधो द्वितीयस्याऽद्यपादेन निरस्तः। एवं स्वपक्षस्थापने जाते परपक्षप्रतिक्षेपार्थमयं पाद आरभ्यत इति। तदयुक्तम्। परपक्षप्रतिक्षेपो हि तदीयसाधननिरासादन्यो नास्ति। साधनानि च स्मृत्यादीन्येव। निरस्तानि च समस्तानि तानि प्रथमपाद इति किमस्य कृत्यम्? किञ्चैवंसति विरोधपरिहारोऽध्यायार्थो न स्यादिति।
॥ वाद्यन्तरोक्तगतार्थताशङ्कापरिहारस्य दूषणम्॥
अपर आह उक्तार्थे स्मृतिन्यायविरोधो नास्तीति स्थपितेऽप्यस्ति ब्रह्मणि समन्वयाभावशङ्का। कथम्? यद्यप्यनुमानं ब्रह्मणो जगत्कारणत्वमपबाधितुं नालम्, तथाऽपि कारणान्तरं जगतोऽवगमयितुमलम्। ततश्च वस्तुविकल्पानुपपत्तेरन्यतरपरिग्रहे हेत्वभावाद् ब्रह्मैव जगत्कारणमिति न निश्चेतुं शक्यते, प्रत्युत सर्वज्ञप्रणेतृकत्वेनानुमानस्योपबृंहितत्वात् प्रधानाद्येव जगत्कारणं न ब्रह्मेति बुद्धिः स्यात्। अतो न केवलं ब्रह्मणो जगत्कारणत्वमपबाधितुमनुमानं नोत्सहते। किन्तु कारणान्तरमप्यवगमयितुं नालमिति प्रदर्शनार्थं द्वितीयः पाद आरभ्यत इति।
एतदप्ययुक्तम्। तथाहि किमनेनोक्तं स्यात्? यदि प्राक् स्वाभिमतार्थे युक्तिविरोधपरिहारेण स्वपक्षस्थापना विहिता, इदानीं परपक्षप्रतिक्षेपो विधीयत इति। तदोक्तमेवोत्तरम्। अथ युक्तिविरोधपरिहार एव पादद्वयार्थः, किन्तु स्वपक्षविरोधियुक्तिनिराकरणं प्रथमे, द्वितीये तु परपक्षसाधकयुक्तिनिराकरणमिति, तन्न। न्यायसाम्येन तासामपि शक्यनिराकरणत्वात्। सर्वज्ञत्वं च प्रणेतॄणां प्रागेव निरस्तम्।
॥ गतार्थताशङ्कापरिहारः॥
अतो नायं पाद आरम्भणीय इत्यत आह स्मृतीति।
स्मृतियुक्तिश्रुतिगुणयुक्तयो बहुयुक्तयः।
एवं चतुर्विधा नैव विरुद्ध्यन्तेऽन्वयं प्रति॥१॥
इति प्रथमपादेन निर्णीतेऽप्यभियोगतः।
दर्शनानां प्रवृत्तत्वान्मन्द आशङ्कते पुनः॥२॥
श्रुतयो गुणा उपसर्जनभूता यासां तास्तथोक्ताः। चतुर्विधा विरोधिप्रतीतयः। अन्वयं प्रति न विरुद्ध्यन्त इति। श्रुतिसमन्वयसिद्धमर्थं नान्यथयितुं शक्नुवन्तीत्यर्थः। अभियोग आग्रहः। दृश्यते प्रमेयमेभिरिति दर्शनानि साङ्ख्यादिशास्त्राणि।
एतदुक्तं भवति यद्यपि परमतसाधकानामस्मन्मतबाधकानां च स्मृत्यादीनामाभासत्वव्युत्पादनेन स्वपरपक्षसाधनोपालम्भौ कृतावेवेति परमार्थः। तथाऽप्युक्तेऽर्थे पुनः पुरुषस्याऽशङ्का भवत्येव, किमेतदेवम्, अन्यथा वेति। कस्मात्? अभियोगतो दर्शनानां प्रवृत्तत्वात्, तदुपलम्भादिति।
॥ समयानां प्रवाहानादित्वात्, प्रबलयुक्त्युपेतत्वात्, महजनपरिगृहीतत्वाच्च प्रामाण्यमित्याशङ्का ॥
ननुच श्रुतयस्तावदपौरुषेयतयाऽनाशङ्कितदोषाः प्रबलयुक्तिभिश्चानुसंहितार्था निरस्तसमस्तप्रतिपक्षाश्च। तत् कथं तत्समन्वयसिद्धेऽर्थेऽभियोगप्रवृत्तदर्शनोपलम्भमात्रेणान्यथात्वशङ्का स्यात्? अतिप्रसङ्गात्। नन्वत एवोक्तं मन्द इति। मैवम्। प्राप्तिमनालोच्य शङ्कमानस्याविचिकित्सितशङ्कस्य शास्त्रेऽनधिकारादित्यतोऽभियोगतो दर्शनानां प्रवृत्तत्वादित्युक्तशङ्काकारणं विवृणोति अनादीति।
अनादिकालतो वृत्ताः समया हि प्रवाहतः।
नचोच्छेदोऽस्ति कस्यापि समयस्येति.....॥।३॥
कपिलकणादादीनां प्रणेतॄणां स्मरणात् कथमनादित्वमित्यत उक्तम् प्रवाहत इति। कपिलादयो हि पूर्वैः प्रणीतान्येव शास्त्राणि कालबलादुत्सन्नानि तपःप्रभावादिनाऽवगम्य प्रबन्धान्तररचनया प्रवर्तयन्ति। एवं पूर्वेऽपि पूर्वतरैरित्येवं प्रवाहतोऽनादित्वाददोषः। तथैव च स्मरणानीति। इति हेतोराशङ्कत इति पूर्वेण सम्बन्धः।
इदमुक्तं भवति करणदोषबाधकप्रत्ययवशादेव ह्यप्रामाण्यं कल्पनीयम्। अन्यथाऽतिप्रसङ्गात्। तत्र यथा श्रुतीनामनादित्वात् करणदोषाभावः, तथा समयानामपि। स्वरूपानादित्वम्, प्रवाहानादित्वमिति तु वैषम्यमात्रम्। पुरुषदोषसञ्चाराभावस्योभयत्रापि साम्यात्।
यथाचानुच्छेदेनानुवृत्तेः श्रुतीनां बाधकाभावः, एवं समयानामपि। यदि करणदोषबाधकप्रत्ययोपेताः स्युः, तदोन्मत्तवाक्यवदिदम्प्रथमाः समुच्छेदवन्तश्च स्युः। नचैवम्। अतः कथमप्रामाण्यमश्नुवते। यथाच श्रुतयो बलवद्युक्त्यनुसंहितार्थाः, एवं समया अपि। नच तासामाभासत्वमुक्तमिति वाच्यम्। सर्वेषां तदनुवर्तिनामस्माभिरनवगतत्वेन तत्परिहारसम्भावनात्।
एवमेवाप्रतिपक्षत्वं श्रुतीनामिव समयानां सम्भवितम्। कथमन्यथा सूत्रकृदेकधुरीणाः शौद्धोदनिप्रभृतयोऽभियोगतस्तान् प्रवर्तयेयुः? कथञ्च प्रेक्षावन्तोऽनेकेऽभियोगेनैवोपाददीरन्? तदेवं श्रुतिसमानयोगक्षेमतां समयानां मन्यमानस्य स्यादेवोक्तार्थे सन्देह इति।
॥ पूर्वपादे सङ्क्षेपेण श्रुतिविरुद्धमतानामप्रामाण्यमुक्तम्, अत्र तु विस्तरतः ॥
नन्वेवंसति परस्परविरुद्धानामनेकेषां प्रामाण्यं तावन्न सम्भवति, वस्तुविकल्पापत्तेः। तथाचावश्याश्रयणीये कस्यचिदेव प्रामाण्येऽनादिकालतोऽनुवृत्तत्वादेरन्येष्वन्यथासिद्धौ सर्वथा कल्पनीयायां “इतरेषां चानुपलब्धेः” इत्युक्तदिशा साङ्ख्यादिसमयानामप्रामाण्यं कल्पयितुं शक्यत एव। तत् कथं श्रुतिसमन्वयसिद्धेऽर्थे पुनः शङ्केति।
उच्यते यो हि “इतरेषां चानुपलब्धेः” इति सङ्क्षेपेणोदितं न्यायं परिकल्पितेषु प्रमेयविशेषेषूत्प्रेक्षितुं क्षमते, तं प्रत्येवमेतत्। यस्त्वेवं न क्षमः स यावदयं सङ्क्षेपो न प्रपञ्च्यते तावदन्यपरित्यागेनैकग्रहणस्यानीशानः शङ्केतैव। नचैवं शास्त्रे नाधिक्रियेत। सङ्ग्रहप्रपञ्चोच्छेदप्रसङ्गात्। तदिदमुक्तं मन्द आशङ्कत इति।
॥ पूर्वत्रास्फुटमुक्तस्यात्र स्फुटीकरणात् अनयोः पादयोः प्रपञ्च्यप्रपञ्चकभावलक्षणा सङ्गतिः॥
किमतो यद्येवमित्यत आह अत इति।
.............................अतो विभुः॥३॥
भ्रान्तिमूलत्वमेतेषां पृथग् दर्शयति स्फुटम्।
तर्कैर्दृढतमैरेव वाक्यैश्चाऽगमवादिनाम्॥४॥
भ्रान्तिपदं विप्रलम्भस्याप्युपलक्षणम्। पृथग् विस्तरेण। स्फुटम् सुबोधम्। तत्तत्समयोक्तार्थानामप्रामणिकत्वं प्रमाणविरुद्धत्वं च प्राक् सङ्क्षेपेणास्फुटं चोक्तं, अत्र विस्तरेण स्फुटं दर्शयंस्तेषां भ्रान्त्यादिमूलत्वं ज्ञापयतीत्यर्थः। एतेन पूर्वपादेनास्य पादस्य प्रपञ्च्यप्रपञ्चकभावलक्षणा सङ्गतिः, प्रपञ्चने प्रयोजनं चोक्तं भवति। तदिदमुक्तम् “इतरेषाम्” इत्यादिभाष्येण।
नन्वेतदशक्यम्, तैः स्वप्रमेयाणां दृढतर्कागमसाधितत्वात् परकीयतर्कादेर्निरस्तत्वादित्यत आह तर्कैरिति। तर्कशब्दः सोपस्करानुमानार्थः। दृढतमैः परकीयतर्कबाधकैः, तदबाध्यैश्च। वाक्यैश्च दृढतमैरिति सम्बद्ध्यते। पूर्वेणान्वयः। वेदादिवाक्यानां प्रामाण्यमभ्युपगच्छन्तं प्रति कथं तदुपन्यास इत्यत उक्तम् आगमवादिनामिति। आगमस्य वेदादेः प्रामाण्यमभ्युपगच्छतां पुंसां समयानामिति सम्बन्धः। यद्वा स्वागमप्रामाण्यवादिनामित्यर्थः। ततश्च स्वागमप्रामाण्याभ्युपगमन्यायेन वेदादेरपि प्रामाण्यं तैरङ्गीकरयित्वेति भावः। अथवाऽऽगमस्य वेदादेः प्रामाण्यवादिनां शिष्याणां व्यपेक्षयेति शेषः। तथाच बौद्धाधिकरणान्तेन न विरोधः। यद्यप्येतदनुपदमेव प्रदर्शयिष्यते, तथाऽपि श्रोतृमनःसमाधानार्थमुक्तमिति।
॥ साङ्ख्यादिसमयानां भ्रान्त्यादिमूलत्वाभावसाधकानुमानदूषणम्॥
ननुचानाद्यनन्तकालेऽनुच्छेदेन प्रवर्तमानानां समयानां न भ्रान्त्यादिमूलत्वमुचितम्। नहि तथाविधस्योन्मत्तवाक्यादेरनाद्यनन्तकालेऽनुवृत्तिरस्ति। तदयं प्रयोगः साङ्ख्यादिसमयाः प्रमाणभूताः, न भ्रान्त्यादिमूला वा, सर्वदाऽनुवर्तमानत्वात्; महाजनपरिगृहीतत्वाद् वा; वेदवदिति। तथाच वक्ष्यमाणस्य तर्कादेर्बाधितविषयत्वमिति।
मैवम्। किमत्र सर्वेषामपि समयानां प्रामाण्यादिकं साध्यम्, उतैकस्य? नाऽद्यः, परस्परविरुद्धानां प्रामाण्यादिसाधने वस्तुविकल्पापत्त्या बाधितविषयत्वात्, परस्परप्रतिक्षेपरूपत्वेन सत्प्रतिपक्षत्वाच्च्च। न द्वितीयः, पक्षीकृतादन्यस्य प्रामाण्याद्यभ्युपगमे प्रागुक्तदोषानुषङ्गात्। अनभ्युपगमे तत्रैव व्यभिचारात्। वेदप्रामाण्याद्यभ्युपगमे प्रतिज्ञातार्थानुपपत्तिः। अनभ्युपगमे च दृष्टान्तदोषः।
॥ समयानां भ्रान्त्यादिमूलत्वेऽपि अनादितोऽनुवृत्तत्वे कारणनिरूपणम्॥
भवेदेवम्। भ्रान्त्यादिमूलत्वे समाने सत्युन्मत्तवाक्येऽविद्यमाना अनाद्यनन्तकालानुवृत्तिरेतेषामेव तर्हि किन्निमित्तेति सुहृद्भावेन पृच्छन्तं प्रत्याह दौर्लभ्यादिति।
दौर्लभ्याच्छुद्धबुद्धीनां बाहुल्यादल्पवेदिनाम्।
तामसत्वाच्च लोकस्य मिथ्याज्ञानप्रसक्तितः॥५॥
विद्वेषात् परमे तत्वे तत्ववेदिषु चानिशम्।
अनादिवासनायोगादसुराणां बहुत्वतः।
दुराग्रहगृहीतत्वाद् वर्तन्ते समयाः सदा॥६॥
समयप्रवर्तकानां पुंसां दुराग्रहगृहीतत्वाद् वर्तन्ते समयाः सदा। नैवमुन्मत्तवाक्ये विद्यते। नन्वाग्रहेऽपि किं कारणमित्यत उक्तम् विद्वेषादिति। तर्हि द्वेषोत्पत्त्यनन्तरं प्रवर्तताम्। कथं सदा इत्यत उक्तम् अनिशमिति।
ननु पुुरुषार्थकामाः कथं विद्वेषनिमित्तादाग्रहदन्यायं प्रवर्तयन्तीत्यत उक्तम् अनादीति। वासनावशात् तेभ्यस्तदेव रोचयत इति भावः। नन्वनादिवासनाऽपि बलवत्प्रयत्ने कुतो न निवर्तत इत्यत उक्तम् असुराणामिति। विपरीतप्रयत्नादिप्रेरकाणां बुद्ध्याद्यभिमानिनामिति शेषः।
ननु साधूनां विदुषां निवारणात् कुतो न निवर्तन्त इत्यत उक्तम् दौर्लभ्यादिति। अल्पवेदिनां भ्रमाधिष्ठानस्वरूपमात्रविदां समयप्रवर्तकानाम्। तर्हि राजादिर्लोको निवारयिष्यति इत्यत उक्तम् तामसत्वादिति। तत एव कुपण्डितनिमित्तमिथ्याज्ञानप्रसक्तितश्च। नचैतानि कारणानि स्वरूपतोऽप्यनादौ वेदे सम्भवन्तीति। यद्यप्येतत् पादान्ते वक्तव्यम्। तथाऽप्यत्र प्रसङ्गागतं बुद्धिसमाधानायोक्तमिति।
॥ समयनिरासस्य तत्तत्समयोच्छेदो न प्रयोजनम्, किन्तु योग्यानां तत्वज्ञानोत्पाद एव॥
यद्येवन्तर्ह्येतेषां सुदृढनिरूढानां समयानां सर्वथोत्सादनस्याशक्यत्वाद् व्यर्थेयं निराकृतिरित्यत आह तथाऽपीति।
तथाऽपि शुद्धबुद्धीनामीशानुग्रहयोगिनाम्।
सुयुक्तयस्तमो हन्युरागमानुगताः सदा॥७॥
इति विद्यापतिः सम्यक् समयानां निराकृतिम्।
चकारनिजभक्तानां बुद्धिशाणत्वसिद्धये॥८॥
यद्यपि कुसमया न सर्वथा समुच्छेद्याः, तथाऽपि। तमः अज्ञानम्। सुयुक्तित्वस्य विवरणम् सदाऽऽगमानुगता इति। प्रमाणगृहीतव्याप्त्यादियुक्ताः, तत्संवादयुक्ताश्च। इति इत्येवमर्थम्।
एतदुक्तं भवति न साङ्ख्यादिसमयसमुच्छेदार्थोऽयं प्रयत्नः, येनोक्तदोषः स्यात्। किन्नाम। केषाञ्चित् पुंसां तैस्तैः समयैराहितानज्ञानसंशयविपर्ययान् आगमसहिताभिर्युक्तिभिस्तत्वज्ञानमुत्पाद्य अपनेतुमिति।
॥ कुसमयाहिताज्ञानादेरनादित्वादनिवर्त्यत्वेऽपि उत्तमानां भगवत्प्रसादात् तन्निवृत्तिर्भवत्येव॥
नन्वेतदप्ययुक्तम्, अतिनिरूढनिबिडवासनानुबद्धमनाद्यज्ञानमिदानीमेवोत्पन्नेन तत्वज्ञानेनापनीयत इति। किन्तु तत्वज्ञानं परिभूय स्ववासनावशात् पुनरुद्भवति। प्रवर्तयति च स्वोचितं कार्यमित्यत उक्तम् शुद्धबुद्धीनामिति। यथार्थज्ञानस्वभावानां मोक्षयोग्यानाम्।
अयं भावः वक्ष्यते हि केचन चेतना मोक्षयोग्याः, केचन नेति। (१२०६, ३४११) तत्र नायोग्यानामज्ञानमपनेतुमयमारम्भः, किन्तु योग्यानामेव। ते च विशुद्धविज्ञानस्वभावाः। तथाच प्रमाणैरिदानीमेवोत्पन्नमपीदं मनोवृत्तिरूपं तत्वज्ञानमन्तरङ्गभूतेन विशुद्धस्वरूपज्ञानेनोपोद्बिलतं सद् बहिरङ्गमनाद्यपि सवासनमज्ञानं समूलघातं हन्ति। स्वभावस्य सर्वतोऽपि बलवत्त्वात्। नचैवं प्रमाणवैयर्थ्यम्। स्वभावस्य बाह्यप्रयत्नसचिवस्यैव कार्यकारित्वात्। यथोक्तम् “विना यत्नं न हठो नापि कर्म” इति।
किञ्च सर्वतोऽपि बलीयानीश्वरानुग्रह इति तावत् सुप्रसिद्धम्। अस्ति चासौ मोक्षयोग्येषु जीवेषु अनादित इति वक्ष्यते। (३४३८) तथाच तत्सचिवमिदं वृत्तिज्ञानमज्ञानमतिनिरूढनिबिडवासनानुबद्धमनाद्यपि समूलकाषं कषत्येव। अतो न व्यर्थेयं समयानां निराक्रियेति भावेनोक्तम् ईशानुग्रहयोगिनामिति। नचैवं तत एवाविद्यानिवृत्तिर्भविष्यति किं तत्वज्ञानेनेति वाच्यम्। ईश्वरानुग्रहस्य पुरुषप्रयत्नानुसारेणैव फलजननस्वाभाव्यात्। तथाचोक्तम् “फलप्रदो वासुदेवोऽखिलस्य” इति। अखिलस्य योग्यताकर्मप्रयत्नसाकल्यस्य न पुनरेकैकस्येत्यर्थः।
॥ देवादीनामेतादृशभ्रान्त्याद्यभावेन तन्निरासस्य प्रयोजनत्वाभावेऽपि ज्ञानवैशद्यं तेषां प्रयोजनम्॥
यद्येवं साधूनां कुसमयाहितमज्ञानमपनेतुं भगवान् समयानां निराकृतिं चकार, तदेयं ब्रह्मादिभिरनादर्तव्या स्यात्। तेषु कुसमयैरज्ञानस्यानाहितत्वेन प्रयोजनाभावात्। तथाच “एवंविधानि कृत्वा” इत्यागमविरोध इत्यत आह निजेति। कुसमयैरनाहिताज्ञानानां ब्रह्मादीनां बुद्धिं प्रति युक्तीनां शाणत्वसिद्धये युक्तिशाणेन ज्ञानासेरतिनैशित्यसिद्ध्यर्थमिति यावत्। पूर्वेणैव सम्बन्धः। कुसमयाहिताज्ञाननिरसनप्रयोजनाभावेऽपि ज्ञानवैशद्यप्रयोजनस्य विद्यमानत्वात् तैरिदमादरणीयमिति भावः।
अथ रचनानुपपत्त्यधिकरणम्॥१॥
॥ निरीश्वरसाङ्ख्यमतानुवादः, साङ्ख्यमते चेतनाचेतनभेदेन तत्वद्वैविध्यम्॥
तदेवं समर्थितः पादारम्भः। तत्राऽद्याधिकरणे निरीश्वरसाङ्ख्यमतं निराक्रियते। नच तत्स्वरूपाज्ञाने दूषणं सुबोधं भवतीत्यतस्तन्मतस्थितिं तावद् दर्शयति चेतनेति।
चेतनाचेतनं तत्वद्वयमेव निरीश्वराः।
आहुः..........................।
चेतनमचेतनं चेति द्वन्द्वैकवद्भावः। आहुः साङ्ख्या इति शेषः। ननुच विधान्तरासम्भवात् प्रामाणिकैस्तत्वद्वयमेव वक्तव्यम्, तत् किं तेषां वैषम्यमुच्यत इत्यत उक्तम् निरीश्वरा इति। ईश्वरमनभ्युपगम्य जीवजडात्मकं तत्वद्वयमेवाऽहुरित्यर्थः।
॥ अचेतनानि चतुर्विंशति, पुरुषस्तु एक इति उपाधिक्रोढीकारेण पञ्चविंशति तत्वानि॥
ननु सङ्ख्या मन्यन्ते सङ्क्षेपतस्तत्वस्य चतस्रो विधाः। कश्चिदर्थः प्रकृतिरेव। कश्चिदर्थो विकृतिरेव। कश्चित् प्रकृतिविकृतिः। कश्चिदनुभयः। तत्र सत्त्वरजस्तमसां साम्यावस्था प्रधानं प्रकृतिरेव। सा हि विश्वस्य कार्यस्य मूलम्। नत्वस्या मूलान्तरमस्ति।
महदहङ्कारतन्मात्राः सप्त प्रकृतिविकृतयः। प्रकृतयो विकृतयश्चेति। तथाहि महत्तत्वमहङ्कारस्य प्रकृतिः, विकृतिश्च मूलप्रकृतेः। एवमहङ्कारतत्वं तन्मात्राणामिन्द्रियाणां च प्रकृतिः, विकृतिश्च महतः। एवं पञ्च तन्मात्राणि तत्वानि भूतानामाकाशादीनां प्रकृतयो, विकृतयश्च अहङ्कारस्येति।
पञ्च भूतान्येकादशेन्द्रियाणीति षोडशको गणो विकृतिरेव। यद्यपि पृथिव्यादीनामपि गोघटवृक्षादयो विकारः, एवं तद्विकारभेदाः पयोबीजादयः, तेषां दध्यङ्कुरादयः। तथाऽपि गवादयो बीजादयो वा न पृथिव्यादिभ्यस्तत्वान्तरम्। स्थूलतेन्द्रियग्राह्यतासाम्यात्। तत्वोपादानत्वं च प्रकृतित्वमिह विवक्षितमिति। पुरुषस्त्वनुभयो न प्रकृतिर्नापि विकृतिः। तदेवं विस्तरतः पञ्चविंशति तत्वानि। यथोक्तम्
“मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त।
षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः”
इति। तत् कथमुच्यते तत्वद्वयमेवाऽहुरिति आह तदिति।
....... तत् पञ्चपञ्चत्वविभागस्थमचेतनम्।
चेतनं तदसङ्ख्यातं भिन्नमन्यद् भिदोज्झितम्॥९॥
पञ्च च ते पञ्चतश्च पञ्चपञ्चतः तेषां भावः पञ्चपञ्चत्वम्। स चासौ विभागश्च। तेनोपलक्षितं तिष्ठतीति पञ्चपञ्चत्वविभागस्थम्। तत् चेतनमचेतनं च तत्वद्वयमेव सङ्क्षेपतः चतुर्विधम्, विस्तरतः पञ्चविंशतिप्रभेदमाहुरित्यतो न विरोधः।
॥ चेतनानां परस्परं भिन्नत्वेऽपि अचेतनानां परस्परमभेद एव ॥
ननु चेतनमचेतनं चासङ्ख्यातं प्रत्यक्षादिप्रमाणैरुपलभमानाः कथमेवमाहुरित्यत आह तदिति। तदित्युभयपरामर्शः। उपाधिक्रोडीकारेण पञ्चविंशतिप्रभेदं वदन्तोऽप्यवान्तरभेदेन तत्वद्वयमसङ्ख्यातमाहुरित्यर्थः।
चेतनानामचेतनानां च प्रत्येकमसङ्ख्यातत्वसाम्येऽपि नोभयोर्भिन्नत्वेन साम्यम्। किन्तर्हीत्यत आह भिन्नमिति। चेतनमिति शेषः। चेतनं परस्परतो भिन्नमाहुः। यथोक्तम्
“जननमरणकरणानां प्रतिनियमादयुगपत् प्रवृत्तेश्च।
पुरुषबहुत्वं सिद्धं त्रैगुण्यविपर्ययाच्चैव”
इति। अन्यत् चेतनात्, अचेतनं भिदोज्ज्ञितमाहुः।
॥ अचेतनस्य प्रकृतेरेव स्वातन्त्र्येण कर्तृत्वाङ्गीकारात्, प्रमाणाभावाच्च ईश्वरानभ्युपगमः॥
नन्वीश्वरानभ्युपगमे कस्यापि प्रवृत्त्यनुपपत्तेः, सर्गाद्यसम्भवादीश्वराख्यं तृतीयं तत्वमङ्गीकरणीयम्। तत् कथं नाङ्गीकुर्वन्तीत्यत आह अचेतनस्येति।
अचेतनस्य कर्तृत्वं स्वातन्त्र्येण निगद्यते।
निगद्यते साङ्ख्यैरिति शेषः। तथाहि चेतनः सङ्घातपरार्थत्वादिहेतुसिद्धः। अचेतनं च व्यक्तं प्रत्यक्षादिसिद्धम्, अव्यक्तं च कारणकार्यविभागादिहेतुसिद्धम्। नचैवमनन्यथासिद्धमीश्वरे प्रमाणमस्ति। अचेतनस्यैव प्रधानस्य कर्तृत्वेन सर्गाद्युपपत्तेरदृष्टेश्वरकल्पनानुपपत्तेरिति मन्यन्त इति।
नन्वचेतनं चेतनानधिष्ठितं क्वापि न प्रवृत्तिमदुपलब्धम्। ततः प्रधानस्याधिष्ठात्रेश्वरेण भाव्यमित्यत उक्तम् स्वतन्त्र्येणेति। चेतनाधिष्ठानेन विनेत्यर्थः। यथोक्तम्
“वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य।
पुरुषस्य विमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य” इति।
॥ सत्कार्यवादः॥
अन्यद् भिदोज्झितमित्युक्तम्। तदसत्। अचेतनानामपि चेतनवत् परस्परतो भेदस्य प्रत्यक्षादिसिद्धत्वादित्यत आह परस्परेति।
परस्परविभेदश्च कार्याणामालयं भवेत्॥१०॥
आलयं प्रलयपर्यन्तम्, कार्याणां परस्परविभेदश्च भवेदिति निगद्यते तैः। एतदुक्तं भवति कार्यं तावत् कारणव्यापारात् प्रागपि सत्। असदकरणात्। असच्चेत् कारणव्यापारात् पूर्वं कार्यम्, नास्य सत्त्वं कर्तुं शक्यम्। नहि नीलं शिल्पिसहस्रेणापि पीतं शक्यं कर्तुम्।
किञ्च कार्येण सम्बद्धं कारणं कार्यस्य जनकम्, असम्बद्धं वा? आद्ये त्वसता सम्बन्धानुपपत्तेः सत्त्वमङ्गीकार्यम्। न द्वितीयः, असम्बद्धत्वाविशेषेण सर्वस्मात् सर्वसम्भवापत्तेः। असम्बद्धत्वेऽपि कारणं तदेव करोति यत्र शक्तम्, अतो नातिप्रसङ्ग इति चेत्। सा शक्तिः शक्यविषया वा स्यात्, सर्वत्र वा? सर्वत्र चेत् सैवाव्यवस्था। आद्ये त्वसति शक्ये कथं तद्विषया स्यादिति सदेव कार्यम्। नच कारणादन्यत् कार्यं सदुपलभ्यत इति कार्यकारणयोरभेदोऽङ्गीकरणीयः।
किञ्च न पटस्तन्तुभ्यो भिद्यते, तन्तुधर्मत्वात्; यद् यतो भिद्यते तत् तस्य धर्मो न भवति, यथा गौरश्वस्य। उपादानोपादेयभावाच्च। यथोरर्थान्तरत्वं न तयोरुपादानोपादेयभावः, यथा घटपटयोः। संयोगाप्राप्त्यभावाच्च। अर्थान्तरत्वे हि संयोगो दृष्टः, यथा कुण्डबदरयोः। अप्राप्तिर्वा यथा हिमवद्विन्ध्ययोः। नचेह संयोगाप्राप्ती। तस्मान्नार्थान्तरत्वम्। गुरुत्वान्तरकार्यस्यावनतिभेदस्याग्रहणाच्च।
एवञ्च कार्याणां परस्परं भेदेऽपि स्वस्वकारणैरभेदात् क्रमेण महाप्रलये मूलकारणभावं गतानामभेद एव इत्यनेनाभिप्रायेणान्यद् भिदोज्झितमित्युक्तमिति। तच्चोक्तम्
“असदकरणादुपादानग्रहणात् सर्वसम्भवाभावात्।
शक्तस्य शक्यकरणात् कारणभावाच्च सत् कार्यम्” इति।
॥ चेतनस्य कर्तृत्वाभावः, भोक्तृत्वं तु कैश्चिदङ्गीकृतम्, कैश्चिन्नाङ्गीकृतम्॥
तेष्वपि मतभेदमाह भोक्तृतामिति।
भोक्तृतां चेतनस्याऽहुः केचित् तामपि नापरे।
सर्वेऽपि साङ्ख्याः पुरुषस्य कर्तृत्वं नानुमन्यन्ते। क्रियावेशो हि कर्तृत्वम्। नचाऽत्मनः परिस्पन्दलक्षणा क्रियोपपद्यते, सर्वगतत्वात्। नापि प्रयत्नलक्षणा, तस्या अन्तःकरणवृत्तित्वात्। नच विक्रियालक्षणा, निर्विकारत्वात्। यथोक्तम्
“तस्माच्च विपर्यासात् सिद्धं साक्षित्वमस्य पुरुषस्य।
कैवल्यं माध्यस्थ्यं द्रष्टृत्वमकर्तृभावश्च” इति।
तत्र केचिच्चेतनस्य भोक्तृतामाहुः। यथा “भोक्तृभावात्” इति। अपरे तामपि नाऽहुः। यथा
“तस्मान्न बाध्यते न मुच्यते नापि संसरति कश्चित्।
बध्यते संसरति मुच्यते च नानाश्रया प्रकृतिः” इति।
॥ कर्तृत्वाभावेऽपि स्वरूपचैतन्यबलात् सुखादिप्रतीतिसिद्धभोक्तृत्वोपपत्तिः॥
ननु कर्तृत्वाभावे भोक्तृत्वमपि कथम्? तस्यापि क्रियावेशात्मकत्वादित्यत आह स्वरूपेति।
स्वरूपचैतन्यबलात् स्वप्रकाशाच्च भोगिताम्॥११॥
सुखदुःखाद्यनुभवितृत्वं हि भोक्तृत्वम्। तच्चाऽत्मनः क्रियावेशमन्तरेण स्वरूपचैतन्येनैवोपपद्यत इत्याहुः। कुतो भोक्तृत्वमाहुरित्यत उक्तम् स्वप्रकाशादिति। सुखाद्यनुभवितृत्वस्य स्वप्रतीतिसिद्धत्वादित्यर्थः। यथाऽऽह “भोक्तृत्वयोग्यता च पुरुषस्य चैतन्यम्” इति। नचैवं कर्तृत्वमप्यङ्गीकर्तुमुचितम्। उपपत्तिबाधितत्वेन कर्तृत्वप्रतीतेरध्यासरूपत्वात्।
॥ सुखादिप्रतीतेर्विवेकाग्रहमूलत्वेन भ्रान्तित्वात्, मोक्षाभावप्रसङ्गाच्च भोक्तृत्वं कैश्चिन्नाङ्गीकृतम्॥
नन्वेवन्तर्हि प्रतीतिसिद्धं भोक्तृत्वमपरे कथं नाभ्युपयन्तीत्यत आह प्रकृतेश्चेति।
प्रकृतेश्च स्वरूपस्य विवेकाग्रहमेव तु।
अभोगवादिनो भोगमाहुः...........॥१२॥
भोगं भोगव्यवहारकारणम्। अयं तेषामाशयः भोक्तृत्वं हि न पुरुषस्य स्वभावः। अपवर्गाभावप्रसङ्गात्। आगन्तुकं तु नोपपद्यते। अपरिणामित्वात्। अतः कर्तृत्वमिव भोक्तृत्वमप्यात्मनो न शक्यमङ्गीकर्तुम्। नच प्रतीतिविरोधः। प्रतीतेरभावात्। व्यवहार एव हि केवलं भोक्ताऽऽत्मेति। स च कर्तृत्वव्यवहारवत् प्रकृतिपुरुषविवेकाग्रहमात्रनिबन्धन इति।
॥ भोगवादिनां मते विवेकाग्रहे प्रकृतिसंयोगस्य भोगकारणत्वम्,
विवकग्रहे तु मोक्षकारणत्वम् ॥
स्यादेतत्। येषां पुरुषो भोक्ता तेषां मोक्षाभावः स्यात्। प्रकृतिसंयोगनिमित्तो हि पुरुषस्य भोगस्तैरङ्गीक्रियते।
“पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य।
पंग्वन्धवदुभयोरपि संयोगस्तत्कृतः सर्गः” इति वचनात्।
नच प्रकृतिपुरुषसंयोगः कदाऽप्यपैति येन पुरुषस्य मोक्षः स्यादित्यत आह भेदग्रहादिति।
.......................भेदग्रहात् तयोः॥१२॥
भोगिनां मुक्तिरुद्दिष्टा................।
तयोः प्रकृतिपुरषयोर्भोगिनां पुरुषस्य भोगमभ्युपगच्छतां मते। अयमभिसन्धिस्तेषाम् प्रकृतिसंयोगो हि पुरुषस्य न केवलं भोगार्थः। किन्नाम। अपवर्गार्थश्च। तत्र विवेकाग्रहसचिवो भोगाय भवति। विवेकग्रहे चापवर्गाय। करोतु नाम पौनःपुन्येन शब्दाद्युपभोगं प्रकृतिः। अनया विवेकख्यातिरकृतेति। कृतविवेकख्यातिस्तु न शब्दाद्युपभोजयति। अविवेकख्यातिनिबन्धनो हि तदुपभोगः, निबन्धनाभावे न भवितुमर्हतीति। तच्चोक्तम्
“दृष्टा मयेत्युपेक्षक एको दृष्टाऽहमित्युपरमत्यन्या।
सति संयोगेऽपि तयोः प्रयोजनं नास्ति सर्गस्य” इति।
तथा
“रङ्गस्य दर्शयित्वा निवर्तते नर्तकी यथा नृत्तात्।
पुरुषस्य तथाऽऽत्मानं प्रकाश्य विनिवर्तते प्रकृतिः” इति।
नच निवृत्ताऽपि पुनः प्रवर्त्स्यतीति शङ्कनीयम्। प्रयोजनाभावात्। उक्तं च
“प्रकृतेः सुकुमारतरं न किञ्चिदस्तीति मे मतिर्भवति।
या दृष्टाऽस्मीति पुनर्न दर्शनमुपैति पुरुषस्य” इति।
नच भेदग्रहसद्भावात् कैवल्याभावः। तस्यापि स्वेनैव निवृत्तेः।
॥ अभोक्तृत्ववादिनां मतेऽपि विवेकाग्रहेण बन्धः, विवेकग्रहेण मोक्षः॥
ननुच येषां मते पुरुषस्य भोग एव नास्ति तेषां कथं मोक्षः? बन्धाभावात्। तथाच योगानुशासनवैयर्थ्यमित्यत आह स एवेति।
........................स एवाभोगवादिनाम्।
स भेदग्रह एव मुक्तिरुद्दिष्टा। भेदाग्रहनिबन्धनो भ्रम एव हि बन्धः। स च भेदग्रहे सति निवर्तते सैव मुक्तिः। नत्वपराऽस्तीत्यतः स एवेत्युक्तम्। न पुुनर्भेदग्रह एव मुक्तिः। तस्यापि निवर्तनीयत्वात्। “नापि विवेकख्यातिम्” इत्युक्तत्वादिति।
॥ “प्रवृत्तेश्च’ इत्येतत्सूत्रव्याख्यानम्, व्यत्ययेन व्याख्याने निमित्तम्॥
एवमुपन्यस्तं मतमधुना निरसनीयम्। तत्र सूत्रकृता क्रममविवक्षित्वा “रचनानुपपत्तेश्च नानुमानम्” इति प्रथमं परपक्षोपालम्भं विधायानन्तरं “प्रवृत्तेश्च” इति स्वपक्षसाधनं विहितम्। भाष्यकारस्तु साधकप्रमाणस्य तत्वप्रतिपत्त्यन्तरङ्गत्वेन तदुपन्यासस्य प्राथम्यम्, परपक्षनिरासस्य तत्स्थैर्यहेतोर्बहिरङ्गत्वेन तदुपन्यासस्याऽनन्तर्यमिति क्रममपि ग्राहयिष्यन् व्यत्ययेन व्याचक्षणः “प्रवृत्तेश्च” इति सूत्रस्य पातनिकार्थमाह ईशस्येति।
ॐ प्रवृत्तेश्च ॐ॥२॥
ईशस्यासङ्ग्रहादेव न युक्तौ तावुभावपि॥१३॥
असङ्ग्रहात् अनभ्युपगमात्। एवेत्यस्य दोषस्योल्बणत्वं सूचयति। तावुभावपि पुरुषस्य भोक्तृत्वाभोक्तृत्वपक्षौ।
॥ महदाद्युत्पत्तिकारणत्वेनेश्वरसाधनम्॥
नन्वप्रामाणिकस्येश्वरस्यानभ्युपगमे कथमयुक्तत्वमित्यतः “प्रवृत्तेश्च” इति सूत्रार्थतयेश्वरे प्रमाणमाह चेतनेति।
चेतनेच्छानुसारेण यदा दृष्टः पटोद्भवः।
एतादृशत्वमन्यस्य वस्तुत्वात् केन वार्यते॥१४॥
यदा यस्मात्। तस्मादिति लभ्यते। एतादृशत्वं पटवच्चेतनेच्छानुसारेणोद्भूतत्वम्। अन्यस्य महदादेः, वस्तुत्वात् कार्यत्वादनुमीयमानमिति शेषः। केन इत्याक्षेपे।
अयमत्र प्रयोगः महदादिकं चेतनेच्छाधीनोत्पत्तिकम्, कार्यत्वात्; पटवदिति। यद्वा महदाद्युद्भवः चेतनेच्छाधीनः, उद्भवत्वात्; पटोद्भववदिति प्रयोक्तव्यम्। प्रयोगद्वयसूचनाय पटोद्भवदृष्टान्तमुक्त्वा वस्तुत्वादिति हेतुमाह। एवमुक्तावुपलक्षणत्वं ह्युभयत्र ज्ञायेत। उपलक्षणं चैतत्। महदाद्युपादानं चेतनाधिष्ठितम्, उपादानत्वात्; तन्तुवदित्याद्यपि द्रष्टव्यम्। नचान्यश्चेतनस्तथा भवितुमर्हतीति सर्वातिशयी पुरुष ईश्वर एव सिद्ध्यतीति।
॥ श्रुतिरेव धर्मिग्राहकप्रमाणम्, न साङ्ख्याचार्यवचनम्॥
स्यादेतत्। महदादिकं न तावत् प्रत्यक्षसिद्धम्, अव्यक्तत्वात्। अतः साङ्ख्याचार्यवचनात् तत्प्रयुक्तानुमानाद् वा तदवगमोऽभ्युपगन्तव्यः। तैश्चानेवंविधमेव तदुक्तमनुमितं चेति बाधः। अन्यथाऽऽश्रयासिद्धिरिति। मैवम्। वेदतस्तदवगमात्। उक्तं हीदम् “अजामेकाम्” इत्यादिश्रुतिः प्रधानमपि प्रतिपादयतीति। (३८२)
॥ उक्तानुमानेऽप्रसिद्धविशेषणत्वादिशङ्कापरिहारः॥
ननु पुरुषश्चेतनो नान्तःकरणम्। इच्छा चान्तःकरणधर्मो न चेतनस्याविकारस्य। अतोऽप्रसिद्धविशेषणता, बाधो वा। पटादेरप्येवम्भावाभावाद् दृष्टान्तस्य साध्यवैकल्यं चेति चेत्, न। आत्मन एवेच्छावत्त्वस्य वक्ष्यमाणत्वात्। (६३०)
तथाऽप्युद्भवो नामोत्पत्तिरभिव्यक्तिर्वा। नाऽद्यः, प्रथमप्रयोगेऽप्रसिद्धविशेषणत्वात्। दृष्टान्तस्य साध्यविकलत्वाच्च। द्वितीये चाऽश्रयासिद्धेः। मया सत्कार्यवादस्याभ्युपगतत्वात्। द्वितीयेऽप्येत एव दोषाः। त्वया व्यक्त्यनभ्युपगमादिति चेत्, न। असत्कार्यवादस्य साधितत्वात्। (५८७) सत्कार्यवादे प्रमाणाभावाच्च।
॥ सत्कार्यवादनिरासपूर्वमसत्कार्यवादसमर्थनम्॥
“असदकरणात्” इत्यादिभिश्च किं कार्यस्य प्राक् करणव्यापारात् सत्त्वमात्रं साध्यम्, उतात्यन्तसत्त्वम्? आद्ये सिद्धसाधनम्। सदसत्त्वाभ्युपगमात्। द्वितीये तु “असदकरणात्” इतिवत् सदकरणादित्यपि समानम्। नहि सन्नात्मा केनचित् क्रियते।
नन्वसतः कथं कर्मत्वम्? सतः कथं कार्यत्वमित्यपि समानम्। अनेन घटो जायत इत्यपि प्रत्युक्तम्। तर्हि घटं करोतीत्यादेः कोऽर्थः? मृत्तिकां घटीकरोतीति। मृत्तिका घटीभवतीति। असदुत्पत्तौ खरविषाणमपि कुतो नोत्पद्यत इति चेत्। तदात्मकस्योपादनस्याभावादिति ब्रूमः। अन्यथा सत उत्पत्तावात्माऽपि कुतो नोत्पद्यत इति समानम्।
यदपि कार्येण कारणं सम्बद्धं तदुपजनयति, उतासम्बद्धमेवेति पृष्टम्। तत्र कारणशब्देनोपादनं वा विवक्षितं निमित्तं वा? आद्ये जनयतीत्येव नेष्यते। किन्तु निमित्तकारणानि तत् कार्यतां नयन्ति। द्वितीये तु कार्याकारेणासम्बद्धं कारणाकारेण सम्बद्धमित्युत्तरम्। अत एव नातिप्रसङ्गः। शक्तिश्च कारणानां सदसद्विषया। अन्यथा निर्विषयत्वापातात्। नहि सत् कर्तुं शक्यं भवति।
॥ उपादानोपादेययोर्भेदाभेदः॥
यच्च तन्तुपटयोरभेदानुमानम्, तत्राभेदमात्रसाधने सिद्धसाधनम्। भेदाभेदाङ्गीकारात्। अत्यन्ताभेदसाधने तन्तुधर्मत्वं तावदसिद्धम्। नहि स्वयमेव स्वस्य धर्मो भवति। नहि उपचारोऽनुमानप्रवृत्तेरङ्गम्। अतिप्रसङ्गात्। कथञ्च तन्तुधर्मत्वं पटस्य? तन्तुविशेषणत्वमिति चेत्, न। पुरुषादिविशेषणे दण्डादौ व्यभिचारात्। तदाश्रितत्वमिति चेत्, न। अभेदेनासिद्धिप्रसङ्गात्। कुण्डबदरादौ व्यभिचाराच्च। तदात्मकत्वमिति चेत्, न। साध्याविशिष्टत्वापत्तेः। अभेदेन भेदाभावः साध्यत इति चेत्, न। भेदाभावातिरिक्तस्याभेदस्यानभ्युपगमात्। अभ्युपगमेऽपि बाधात्। एवमुपादानोपादेयभावोऽप्यसिद्ध एव। नहि स्वयमेवोपादनमुपादेयं चेति युक्तम्। करणत्वकर्मत्वयोर्भेदनियतत्वात्। संयोगाप्राप्त्यभावश्चात्यन्तभेदाभावादुपपत्स्यते। गुरुत्वान्तरकार्यादर्शनं चाभेदाङ्गीकारेण भविष्यति। एतेन कार्यत्वमभूत्वाभावित्वं चेदसिद्धमस्माकम्। अभिव्यक्तिधर्मकत्वं चेद् युष्माकमिति च निरस्तम्। तदिदमुक्तम् केन वार्यत इति।
॥ प्रधानस्य स्वातन्त्र्येण जगत्कारणत्वे प्रमाणाभावः॥
तदेवं पटाद्युत्पत्तौ चेतनस्य कुविन्दादेः प्रवृत्तेरुपलम्भात् तद्दृष्टान्तेन महदाद्युत्पत्तेरपि चेतनेच्छाधीनत्वमित्येवं स्वपक्षं प्रसाध्य परपक्षनिरासार्थं “रचनानुपपत्तेश्च नानुमानम्” इति सूत्रं व्याख्यातुं पीठमारचयति नचेति।
नच काचित् प्रमोक्तार्थे श्रुतिरेव प्रमा हि नः।
न केवलमस्मन्मते प्रमाणसद्भावः। किन्तु साङ्ख्योक्तार्थे प्रधानस्य स्वातन्त्र्येण जगत्कारणत्वे किमपि प्रमाणं नास्ति। तथाहि किमत्र प्रत्यक्षं प्रमाणं स्यात्, उत आगमः, अथवाऽनुमानं वा? नाऽद्यः, तद्धि अस्मदादीनां वा योगिनां वा? न प्रथमः, अस्यार्थस्यातीन्द्रियत्वात्। न द्वितीयः, असिद्धेः। नहि, एवं योगिनः पश्यन्तीत्यस्माकं प्रमाणमस्ति।
नाप्यागमः। स ह्यपौरुषेयः पौरुषेयो वा स्यात्। नाऽद्य इत्याह श्रुतिरेवेति। श्रुतिर्नोऽस्माकमेव मते प्रमा हि। सर्वाऽपि हि श्रुतिरीश्वरमेव स्वातन्त्र्येण सकलजगत्कारणं सर्वज्ञं सर्वशक्तिं प्रतिपादयति। प्रधानं च तदायत्तसत्ताप्रतीतिप्रवृत्तिमत्, तदधिष्ठितम्, जगदुपादानमात्रमिति। तथाहि “यः सर्वज्ञः सर्ववित्”, “यो योनिमधितिष्ठत्येकः” इत्यादि। तथाच श्रुतिः परस्य प्रतिपक्षभूतैव। पौरुषेयोऽपि किं स्मृतीतिहासपुराणलक्षणः, उत साङ्ख्याचार्यप्रणीतः? नाऽद्यः, तस्याप्यस्मन्मतानुसारित्वात्।
“प्रकृतिं पुरुषं चैव प्रविश्य पुरुषोत्तमः।
क्षोभयामास भगवान् सृष्ट्यर्थं जगतो विभुः” इत्यादिवाचनात्।
॥ साङ्ख्याचार्यस्याऽप्तत्वनिरासः॥
न द्वितीयः, तत्प्रामाण्यस्यासम्मतेः। आप्तोक्तत्वेन तत्प्रामाण्यसिद्धिरिति चेत् तत्राऽह आप्तत्वमिति।
आप्तत्वमुक्तमार्गेण वक्तुर्नैवोपपद्यते॥१५॥
उक्तमार्गेण “श्रुतिरेव प्रमा हि नः” इत्युक्तरीत्या श्रुतिविरुद्धभाषित्वादित्यर्थः। वक्तुः साङ्ख्यप्रणेतुः। यद्वा “इतरेषां चानुपलब्धेः” इत्युक्तमार्गेण। साङ्ख्यशास्त्रेऽपि ह्याख्यायिकासु योग्यानुपलब्धिबाधिता बहवोऽर्थाः प्रतिपाद्यन्ते। अथवा “अविप्रलम्भस्तज्ज्ञानम्” इत्याद्युक्तमार्गेणाऽप्तत्वनिश्चायकप्रमाणाभावादित्यर्थः।
“कपिलो वासुदेवाख्यस्तन्त्रं साङ्ख्यं जगाद ह।
ब्रह्मादिभ्यश्च देवेभ्यो भृग्वादिभ्यस्तथैव च।
तथैवाऽसुरये सर्ववेदार्थपरिबृंहितम्।
सर्ववेदविरुद्धं च कपिलोऽन्यो जगाद ह।
साङ्ख्यमासुरयेऽन्यस्मै कुतकपरिबृंहितम्”
इति पुराणोक्तमार्गेणेति वा। “ॠषिं प्रसूतं कपिलम्” इत्यादिश्रुत्युदाहरणमप्यनेनैव निरस्तम्। एतेनैव “आगमाद् योगिप्रत्यक्षावगमात्” इत्यपाकृतम्।
॥ साङ्ख्यैः प्रामाण्याप्रामाण्ययोः स्वतस्त्वाभ्युपगमाच्च तन्मतस्याप्रामाण्यम्॥
न केवलमुक्तमार्गेणाऽप्तत्वानुपपत्तिः। किन्नाम। अनुपपन्नभषित्वादपीत्याह अप्रामाण्येति।
अप्रामाण्यस्वतस्त्वस्य स्वीकारादपिमायिवत्।
स्वोक्ताखिलनिषेधी स्यान्नच किञ्चित् प्रसिद्ध्यति॥१६॥
अपिशब्देन प्रामाण्यस्वतस्त्वमपि समुच्चिनोति। ज्ञानानां प्रामाण्यमप्रामाण्यं च ज्ञानकारणमात्राधीनोत्पत्तिकमिति स्वीकरोति साङ्ख्यः। तच्चानुपपन्नमित्यतोऽप्यसौ नाऽप्तः।
कथं प्रामाण्याप्रामाण्ययोः स्वतस्त्वमनुपपन्नमित्यत आह मायिवदिति। प्रामाण्याप्रामाण्ययोर्ज्ञानकारणमात्रजन्यत्वे साङ्ख्यस्य वचनेनोत्पन्नं ज्ञानं प्रमाणमप्रमाणं चेत्युभयात्मकं वा स्यात्, परस्परविरोधेनोभयविकलं वा ज्ञानमात्रमुत्पद्यते, निःस्वभावस्य ज्ञानस्यानुपपत्त्या नोत्पद्यते वा? आद्ये सदसद्विलक्षणं विश्र्वं मन्यमानो मायावादी यथा स्वोक्तनिषेधी, सद्विलक्षणमित्युक्त्या प्राप्तस्य असत्त्वस्य, स्वयमेव असद्विलक्षणमिति निषेधात्। असद्विलक्षणमित्युक्त्या च प्राप्तस्य सत्त्वस्य स्वयमेव सद्विलक्षणमिति निषेधात्। तथा साङ्ख्योऽपि स्वोक्ताखिलनिषेधी स्यात्। तद्वाक्यजनितज्ञानस्य यथार्थ्ये हि प्रकृतिर्जगत्कारणमित्यादिकोऽर्थो यो लब्धः, स एवार्थस्तस्यायाथार्थ्ये निषिद्धः स्यात्। अयाथार्थ्यस्य विषयविपर्यासानतिरेकात्। उभयस्वतस्त्वे वस्तुनो विरुद्धाकारद्वयालिङ्गितत्वं प्रसज्येतेति भावः। मायाशब्दस्य व्रीह्यादित्वान्मायीति साधु।
नन्वेवमपि याथार्थ्येन प्रकृतिर्जगत्कारणमित्यादिकोऽर्थस्तावत् सिद्ध्यतीत्यत आह नचेति। नहि परस्परविरोधे किमपि सिद्ध्यतीति भावः। तर्हि प्रामाण्यस्य का गतिरिति चेत्। अप्रामाण्येऽपि दीयतां दृष्टिः। द्वितीये दोषमाह नचेति। ज्ञानं हि यथावस्थितमयथावस्थितं वाऽर्थं विषयीकुर्यात्। तृतीयप्रकारानिरूपणात्। तथाच प्रामाण्याप्रामाण्यविकलं ज्ञानमयःशलाकावदविषयमेव स्यात्। एवञ्च न साङ्ख्यवचनात् किञ्चित् प्रसिद्ध्यतीति। तृतीये तु जगदान्ध्यमेव स्यादित्याह नचेति।
॥ अप्रामाण्यस्वतस्त्वनिरासः॥
स्यादेतत्। यदा ज्ञानकरणं गुणोपेतं तदा तदीयायामप्रामाण्यजननशक्तौ गुणेन प्रतिबद्धायां प्रमाणज्ञानमेवोत्पद्यते। यदातु दोषोपेतं तदा दोषेण प्रामाण्यजननशक्तौ प्रतिबद्धायां अप्रमाणज्ञानमेवोत्पद्यते। नहि किमपि करणं युगपदुभयोपेतमुभयविकलं वा सम्भवति। येनोक्तदोषः स्यादिति। उच्यते। किमर्थमित्थं कल्प्यते? ज्ञानस्योभयाकारत्वप्रसक्तेरिति चेत्। तत्प्रसक्तिरपि कुतो नाभ्युपगन्तव्या? विरोधभयादिति चेत्। करणेऽप्युभयशक्तिविरोधात् कुतो न बिभेषि?
यदपि विरुद्धकार्यद्वयजनकं करणं तत् सहकारिसाहित्याहितशक्तिकमेव। प्रकृते च तथाऽभ्युपगमे द्वयोरपि परतस्त्वापत्तिः।
किञ्च वचने कौ गुणदोषौ? आप्तानाप्तत्वप्रणीतत्व इति चेत्। तर्ह्युभयाभावाद् वेदवाक्येनोभयात्मकमनुभयात्मकं वा ज्ञानमुत्पद्येत, नोत्पद्येत वा। अनाप्ताप्रणीतत्वं गुण इति चेत्, तर्ह्याप्ताप्रणीतत्वं दोषोऽपि किन्न स्यादिति स एव प्रसङ्गः।
एतेन साङ्ख्याचार्यवचनं स्वत एव प्रमाणं किमाप्तिनिश्चयेनेत्यपि निरस्तम्। अप्रामाण्यस्यापि स्वतस्त्वेनोक्तसकलदोषापत्तेः। अथ महाजनपरिग्रहात् तत्प्रामाण्यनिश्चय इति चेत्, न। पूज्यार्थत्वेऽसिद्धेः। बह्वर्थत्वे सव्यभिचारत्वात्, सन्दिग्धासिद्धेश्चेति।
॥ अनुमानेन प्रधानस्य जगत्कारणत्वसाधनम्॥
मा भूत् प्रकृतिकारणत्वे प्रपञ्चस्य प्रत्यक्षं प्रमाणम्। मा च भूदागमः। अनुमानं तु भविष्यति। यथोक्तम्
“भेदानां परिमाणात् समन्वयाच्छक्तितः प्रवृत्तेश्च।
कारणकार्यविभागादविभागाद् वैश्वरूप्यस्य” इति।
अयमर्थः कारणकार्यविभागादविभागाद् वैश्वरूप्यस्य मूलकारणमस्त्यव्यक्तम्। यथा कूर्मशरीरे सन्त्येवाङ्गानि ततो विभज्यन्ते, तस्मिन्नेवाव्यक्तीभवन्ति। एवं कारणान्मृत्पिण्डाद् हेमपिण्डाद् वा कार्याणि घटमुकुटादीनि विभज्यन्ते। सन्त्येव च पृथिव्यादीनि कारणात् तन्मात्रात्। सन्त्येव च तन्मत्राण्यहङ्कारारात्। सन्नेव चाहङ्कारो महतः। सदेव च महत् परमाव्यक्तादिति। सोऽयं कारणात् परमाव्यक्तात् पारम्पर्येण विश्वस्य कार्यस्य विभागः प्रतिसर्गे। मृत्पिण्डं हेमपिण्डं वा घटमुकुटादयो विशन्तोऽव्यक्तीभावन्तीति तत्कारणरूपमेवानभिव्यक्तघटमुकुटादिकार्यमपेक्ष्याव्यक्तं भवति। एवं पृथिव्यादयस्तन्मात्राणि विशन्तः स्वापेक्षया तन्मात्रमव्यक्तयन्ति। एवं तन्मात्राण्यहङ्कारं विशन्त्यहङ्कारमव्यक्तयन्ति। एवमहङ्कारो महान्तमाविशन् महान्तमव्यक्तयति। महान् प्रकृतिं स्वकारणं विशति। प्रकृतेस्तु न क्वचिन्निवेश इति सा सर्वकार्याणामव्यक्तमेव। सोऽयमविभागः प्रकृतौ वैश्वरूप्यस्य नानारूपस्य कार्यस्य। तस्मात् कारणे कार्यस्य सत एव विभागाविभागाभ्यामव्यक्तं कारणमस्तीति।
इतश्च शक्तितः प्रवृत्तेः। कारणशक्तितो हि कार्यं प्रवर्तते। अशक्तात् कारणात् कार्यस्यानुत्पत्तेः। शक्तिश्च कारणगता न कार्यस्याव्यक्तत्वादन्या। अस्तु तर्हि महत एव परमाव्यक्तत्वमित्यत उक्तम् भेदानां परिमाणादिति। महदादीनामव्यापकत्वादव्यक्तकारणकत्वं घटादिवदित्यर्थः।
इतश्च समन्वयात्। सुखदुःखमोहसमन्वितानि हि कार्याणि। यानि च यद्रूपमनुगतानि तानि तत्स्वभावाव्यक्तकानि। यथा मृद्धेमरूपमनुगता घटमुकुटादयो मृद्धेमपिण्डाव्यक्तकाः। तस्मादस्ति सुखदुःखमोहात्मकानां सत्त्वरजस्तमसां साम्यावस्थाऽव्यक्तं भेदानामिति। यद्यप्येतान्यनुमानान्यव्यक्तस्वरूपं साधयन्ति। तथाऽपि महदादिकारणतयैव तदेतैः सिद्ध्यतीति।
॥ स्वातन्त्र्येण रचयितृत्वानुपपत्तेः, प्रमाणाभावाच्च साङ्ख्यानुमानकल्पितं प्रधानं न जगत्कर्तृ॥
अत्र वक्तव्यम् किमेतैरनुमानैर्जगदुपादानतामात्रेणाव्यक्तं सिद्ध्यति, उत स्वातन्त्र्येणापीति। आद्ये सिद्धसाधनम्। अस्माभिरपि विश्र्वोपादानस्य प्रधानस्याभ्युगतत्वात्। “शरीररूपक” इति ह्युक्तम्। द्वितीयं निराकर्तुं सूत्रम् “रचनानुपपत्तेश्च नानुमानम्” इति। तद् व्याचष्टे इदमिति।
ॐ रचनानुपपत्तेश्च नानुमानम्ॐ॥१॥
इदं नाचेतनवशं वस्तुत्वात् प्रतिपन्नवत्।
इत्येव प्रतिषिद्धस्य केन मूलानुमा भवेत्॥१७॥
महदादिकार्यमित्यर्थः। अचेतनवशं स्वतन्त्राचेतनाधीनोत्पत्तिकम्। प्रतिपन्नवत् प्रधानवत्। आस्तां तावद् दूषणान्तरमिति प्रत्यनुमानेनैव प्रतिषिद्धस्य प्रधानस्वातन्त्र्यस्य मूलानुमा साधकानुमा केन सामर्थ्येन भवेत् प्रमाणमिति शेषः। मूलानुमेति वाऽऽवर्तनीयम्। किमाक्षेपे। अकार्यत्वमत्रोपाधिरिति चेत्, न। पटादौ साध्याव्याप्तेः। पटादेः कुविन्दाद्यधिष्ठिततन्त्वादिकार्यत्वस्यान्वयव्यतिरेकाभ्यामुपलम्भात्।
॥ प्रधानस्याचेतनत्वात् स्वतन्त्रप्रवृत्त्यभावः॥
एवं प्रधानस्य रचनायाः स्वतन्त्रप्रवृत्तेरनुमानविरोधेनानुपपत्तेर्नानुमानं तत्र प्रमाणमिति सूत्राक्षरयोजनां मनसि निधाय सूत्रतात्पर्यमुक्तम्। इदानीं तामेव विवृण्वन् प्रतिपक्षान्तरमाह स्वतन्त्रेति।
स्वतन्त्रवृत्ती रचना सा चैवाचेतने कुतः।
अचेतनत्वं स्वातन्त्र्यमिति चाऽत्मप्रमाहतम्॥१८॥
चशब्दोऽनुमानान्तरसमुच्चये। कुत एवेत्यन्वयः। अयमत्र प्रयोगः प्रधानं स्वतन्त्रप्रवृत्तिरहितम्, अचेतनत्वात्; तन्त्वादिवदिति।
॥ अचेतनस्य स्वातन्त्र्याङ्गीकारे स्वव्याघातः॥
नन्वचेतनत्वेऽपि प्रधानस्य स्वातन्त्र्येण प्रवृत्तिरस्तु, को विरोधः? तथाच विपक्षे बाधकाभावादप्रयोजकोऽयं हेतुरित्यत आह अचेतनत्वमिति। तावदेव ह्यनेनाऽशङ्कनीयं यस्मिन्नाशयमाने स्ववचनस्वक्रियास्वन्यायप्रमाणान्तरविरोधो न प्रादुष्यात्। नहि कश्चिदेवं शङ्कते मूकोऽपि वक्ता किन्न स्यात्? शब्दोऽप्रतिपादकः किन्न भवेत्? अनुमानत्वात् अनुमानमात्रमप्रमाणं कुतो न स्यात्? अग्न्रिनुष्णः कुतो न भवेदिति। नह्येषा शङ्कापिशाची कदाचिच्छान्तिमुपगच्छति। तस्मादेवमाशङ्कमानो न लौकिको नास्ति परीक्षक इत्युन्मत्तवदुपेक्षणीयः। प्रकृते चाचेतनत्वं स्वातन्त्र्यं चाऽत्मप्रमाहतम्। स्वव्याहतं प्रमाणविरुद्धं च। तस्मादचेतनत्वेऽपि स्वतन्त्रप्रवृत्तिरस्तु प्रधानस्येति शङ्कैव नोत्पत्तुमर्हतीति किमत्र बाधकोपन्यासेनेति।
॥ स्वेच्छानुसारित्वस्य स्वतन्त्रशब्दार्थत्वात्, इच्छाया ज्ञानकार्यत्वात्,
अचेतनत्वस्वातन्त्र्ययोः परस्परव्याहतत्वम्॥
नन्वचेनस्य स्वातन्त्र्यशङ्कायां कथं स्वव्याहतिः? नहि स्वातन्त्र्यं नाम चैतन्यम्। नाप्यचेतनत्वं नामास्वातन्त्र्यम्। कथञ्च प्रमाणविरोध इत्यतः स्वव्याघातं तावदुपपादयितुं स्वातन्त्र्यं व्याख्याति स्वेच्छेति।
स्वेच्छानुसारितामेव स्वातन्त्र्यं हि विदो विदुः।
कुत इच्छाऽचेतनस्य सेच्छं चेत् किमचेतनम्॥१९॥
प्रवृत्ताविति शेषः। विदो विदुरित्यनेन सकलविद्वत्सम्मतमेतदित्याह। अत एव हि स्वातन्त्र्याभावाद् वृक्षस्तिष्ठतीत्यादिकर्तृत्वव्यवहारो गौण इति सर्वे प्रतिपन्नाः। तथाऽपि कथं स्वव्याहतिः? नह्यचेतनत्वं नामेच्छाविरहः। किन्नाम। चैतन्यविरह इत्यत आह कुत इति। अचेतनस्येच्छा कुतः कारणाज्जायते? न कुतश्चित्। ज्ञानमेव हीच्छाया जनकमित्यर्थः। तथाऽपि किमित्यत आह सेच्छं चेदिति। सेच्छं चेदङ्गीकृतम्, तदा तदचेतनं किम्? चेतनमेवेत्यर्थः।
एतदुक्तं भवति अचेतनमपि प्रधानं स्वातन्त्र्येण प्रवृत्तिमदस्त्विति वदताऽचेतनमिच्छावदस्त्वित्युक्तं स्यात्। स्वेच्छानुसारित्वस्य स्वातन्त्र्यशब्दार्थतया सर्वसम्मतत्वात्। अचेतनस्येच्छावत्त्वमङ्गीकुर्वाणेन चेतनत्वमप्यङ्गीकर्तव्यं स्यात्। अन्वयव्यतिरेकाभ्यामिच्छायाः स्वसमानाश्रयचैतन्यकार्यत्वावधारणात्। कार्याङ्गीकारे कारणानङ्गीकारस्यानुचितत्वात्। अचेतनं चेतनमिति च स्फुटा व्याहतिरिति।
एतेनैतदपि निरस्तम् अचेतनत्वं स्वातन्त्र्यं च यदि परस्परव्याहतम्, तर्ह्यचेतनत्वेन स्वतन्त्रप्रवृत्तिराहित्यसाधने साध्याविशिष्टतादोषः स्यादिति। नह्यस्माभिरचेतनत्वस्वातन्त्र्ययोर्वन्ध्या अपत्यवतीतिवत् साक्षाद् विरोधोऽभिहितः। किन्तु स्वातन्त्र्यबलेन चैतन्यं परेणाङ्गीकारयित्वा। अनेनैव स्वातन्त्र्याङ्गीकारेऽचेतनत्वानुपपत्तिरिति बाधकं चोक्तं भवति।
॥ अचेतनस्य स्वातन्त्र्याङ्गीकारे इच्छाया आत्मधर्मत्वेनानुभूयमानत्वात् तद्विरोधः॥
एवमचेतनस्य स्वातन्त्र्याङ्गीकारे स्वव्याहतिमुपपाद्य प्रमाणविरोधमप्युपपादयति इच्छामीति।
इच्छाम्यहमिति ह्येव निजानुभवरोधतः।
अचेतनेच्छाऽपगता.................॥२०॥
हिशब्देनास्यानुभवस्य विश्वजनप्रसिद्धत्वं सूचयति। एवशब्दस्यापगतैवेत्यन्वयः। निजानुभवः साक्ष्यनुभवः। अहमिच्छामीति तावदिच्छा आत्मसम्बन्धिनी साक्षिणाऽनुभूयते। नच सा द्विकर्तृका सम्भवति। क्वाप्येकस्य व्यापारस्य द्विकर्तृकत्वानुपलम्भात्। ततश्चाचेतनस्येच्छाऽङ्गीकृता चेत्, अनुभवविरोधादचेतनस्येच्छाऽपगता नास्तीति यावत्। इच्छाभावे न स्वेच्छानुसारित्वलक्षणं स्वातन्त्र्यं दूरोत्सारितमिति भावः।
॥ “अहमिच्छामि’ इति आत्ममनसोर्विवेकाग्रहनिमित्तकव्यवहार एव,
नत्वनुभव इति परेणोपपादनम् ॥
ननु नैवमस्त्यनुभवः, किन्त्वहमिच्छामीति व्यवहारमात्रम्। तस्यापि निमित्तं भेदाग्रहः। आत्मा हि नित्यो निर्विकारश्चैतन्यमात्रवपुर्न तस्येच्छादिकर्तृत्वमागन्तुकं सम्भवति। किन्त्वन्तःकरणस्यैव प्रसवधर्मत्वात्। तयोश्चाऽत्मान्तःकरणयोर्भेदाग्रहादितरेतरधर्मव्यवहारः प्रवर्तते। भेदाग्रहे च निमित्तं सन्निधानम्। यथोक्तम्
“तस्मात् तत्संयोगादचेतनं चेतनावदिव लिङ्गम्।
गुणकर्तृत्वे च तथा कर्तेव भवत्युदासीनः”
इति। अतोऽनुभवबलाच्चेतनस्यैवेच्छावत्त्वं नाचेतनस्येत्ययुक्तमित्यत आह यदीति।
॥ व्यवहारस्य भेदाग्रहनिमित्तकत्वे
घटपटयोरपि परस्परधर्मसंसर्गव्यवहारप्रसङ्गः॥
.......................यदि भेदाग्रहोऽत्र च॥२०॥
कथं स न घटस्य स्यात्....................।
यद्येवमनुभव एव नास्ति किन्तु व्यवहारमात्रम्, अत्रच व्यवहारे भेदाग्रह एव निमित्तमुच्यते, तदा स भेदाग्रहो घटस्य कथं न स्यात्? व्यवहारहेतुरिति शेषः।
इदमुक्तं भवति स्वप्रकाशानुभवापलापदोषस्तावत्। व्यवहारे च निमित्तं नास्ति। नच भेदाग्रहः। विशिष्टव्यवहारस्य तादृशज्ञानकार्यतानियमात्। अन्यथा घटपटावपीतरेतरभेदं न गृह्णीत इतीतरेतरधर्मसंसर्गव्यवहारः स्यादिति।
ननु गृह्यमाणयोर्भेदाग्रहो व्यवहारहेतुः,न भेदाग्रहमात्रम्। नच घटपटौ स्वरूपं गृह्णीतः। तत् कथमतिप्रसङ्ग इति चेत्। किमयं विशिष्टो भेदाग्रहोऽन्तःकरणस्य, उताऽत्मनः? नाऽद्यः, तस्याचेतनत्वेन स्वरूपग्रहानुपपत्तेः। उपपत्तौ वा स कथं विशिष्टो भेदाग्रहो घटस्य न स्यात्? तथाच व्यवहारोऽपि स्यात्। नन्वन्तःकरणेऽस्ति चैतन्यारोपो न घटे, अतो नातिप्रसङ्ग इति चेत्। किं तस्य निमित्तम्? सन्निधानमिति चेत्, तर्हि सर्वगतात्मसन्निधानं घटेऽप्यस्तीति कथं स न घटस्य स्यात्? ननु न संयोगमात्रं निमित्तम्। किन्तूपकार्योपकारकभावे सति। स चास्त्यात्मान्तःकरणयोः। “पुरुषस्य दर्शनार्थम्” इत्युक्तत्वादिति चेत्। तर्हि घटोऽपि पुरुषस्योपकारक इति कथं स न घटस्य स्यात्?
द्वितीये व्यवहारोऽपि किमात्मन उतान्तःकरणस्य? नाऽद्यः, तस्य निर्विकारस्य व्यवहारक्रियानुपपत्तेः। उपपत्तौ वा किमिच्छायाऽपराद्धम्? द्वितीयेऽन्यगतेन भेदाग्रहेणान्यत्र व्यवहारश्चेत् कथं स न घटस्य स्यात्?
किञ्च यदि भेदाग्रहादन्तःकरणधर्म एवेच्छाऽऽत्मनि व्यवह्रियत इत्यङ्गीक्रियते, तदा घटस्याप्यात्मना भेदाग्रहात् पृथुबुध्नोदराकारोऽहमिति व्यवहारः कथं न स्यादिति गूढाभिसन्धेरुत्तरम्।
यद्वाऽत्र चाऽत्मान्तःकरणयोश्च स्फुटं प्रतिभासमानभेदयोरपीति हृदयम्। यदि भेदाग्रहः स्यात्, तदा कथं स भेदाग्रहो घटस्याऽत्मनश्च न स्यादिति योजना।
अथवैवं वदन् प्रष्टव्यः। भेदाग्रहः किं भेदग्रहविरोधी, नवेति। नेति पक्षे कथं स घटस्याऽत्मना पटादिना वा न स्यादित्युत्तरम्।
॥ भेदग्रहस्य भेदाग्रहविरेधित्वे मनसोऽपि भेदेन गृहीतत्वात् भेदाग्रहाभावप्रसङ्गः॥
ननु भेदग्रहो भेदाग्रहविरोधी। स चास्ति घट इति कुतस्तत्र भेदाग्रहः, तत्प्रयुक्तो व्यवहारो वेति गूढाभिसन्धिमजानतो द्वितीयपक्षमाशयाऽह मन इति।
...................मनो म इति भेदतः।
मनसोऽपि गृहीतत्वात्.................॥२१॥
भेदत इति तृतीयार्थे तसिः। यदि भेदग्रहो भेदाग्रहविरोधीति भेदेन गृह्यमाणे घटे न भेदाग्रह इत्युच्यते, तदा मे मन इति मनसोऽपि भेदेन गृहीतत्वान्नाऽत्मना भेदाग्रहः स्यात्। तथाच भेदाग्रहनिमित्तोऽहमिच्छामीति व्यवहार इत्यसत्। किन्त्वनुभवनिमित्त एव। अत एव नान्तःकरणधर्मस्याऽत्मन्यारोप इत्यपि युक्तम्। भेदग्रहसद्भावेनाऽरोपहेतोर्भेदग्रहस्योपयोगात्। नह्यविदितभेदं सम्बन्धितया गृह्यते। आत्मन्यपि प्रसङ्गात्।
॥ मनस आनुमानिकत्वादिनिरासपूर्वकं साक्षिसिद्धत्वसमर्थनम्॥
केन पुनः प्रमाणेन मनो गृह्यते? साक्षिणेति वदामः। तथाहि न तावच्चक्षुरादिना तदवगमः, अरूपिद्रव्यत्वात्। चक्षुराद्यव्यापारेऽप्युपलब्धेः। नचानुमानेन, लिङ्गाभावात्। नन्वस्ति युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम्। तथाहि बाह्येन्द्रियेषु स्वैःस्वैर्विषयैर्युगपत् सन्निकृष्टेष्वात्मनाऽधिष्ठितेष्वपि न युगपज्ज्ञानानि जायन्ते। तेन ज्ञायतेऽस्त्येतेभ्योऽन्यत् सहकारि। यत्संयोगक्रमवशाज्ज्ञानक्रमः प्रक्रमत इति।
अत्र कश्चिदाह आत्मन एवैवंविधसामर्थ्यकल्पनोपपत्तावन्यथासिद्धमनुमानम्। मनसः प्रतीन्द्रियसंयोगव्यापारे क्रमवति कारणान्तरशून्येऽनैकान्तिकं च। फलस्य च वृक्षात् पततः क्रमवर्तिन्याकाशसंयोगे कुठारादिव्यापारे च। इन्द्रियाणां प्रतिविषयसंयोगव्यापारे चेति। तदयुक्तम्। दृष्टानुसारिणी हि कल्पना। कर्ता ह्यनेककरणाधिष्ठानेन युगपन्नाना कार्याणि कुर्वाणो दृष्टः। तथाहि युगपन्माणवको गच्छति, पठति, पन्थानमीक्षते, वहति च कमण्डलुम्। तस्मान्नैष कर्तृधर्मो युक्तः कल्पयितुम्। किन्तु दृष्टत्वाद् द्रव्यान्तरमेवाव्यापकम्। अनैकान्त्यं तु नास्त्येव। तत्रापि क्रियाक्रमादेर्निमित्तस्य विद्यमानत्वादिति।
अत्रोच्यते अस्ति तावदविवेकिनामपि मनःप्रतीतिः। मम मनोऽन्यत्र गतमित्यादिव्यवहारात्। नच ते युगपज्ज्ञानानुत्पत्तिं जानन्ति। प्रत्युत युगपदेव ज्ञानोत्पत्तिं मन्यन्ते। अन्यथा व्यासङ्गे क्रमदर्शनेनान्यत्रापि क्रमानुमानं परस्य व्यर्थं स्यात्। तस्माल्लिङ्गदशनात् प्रागेव भवदिदं मनोज्ञानं न तन्निमित्तकमिति। अस्तु तर्हि बुद्ध्यादीनामसमवायिकारणस्य संयोगस्याऽश्रयतया मनःसिद्धिः। मैवम्। प्रत्यक्षज्ञाने तावदिन्द्रियात्मसंयोगस्यैवासमवायिकारणत्वस्योपपत्तेः। अनुमित्यादौ लिङ्गज्ञानादेः, स्मृतौ भावनायाः, सुखादाविष्टार्थोपलब्ध्यादेरिति। नित्यविशेषगुणानां संयोगासमवायिकारणत्वनियमान्नैवमिति चेत्, न। विभागजशब्दजशब्दे व्यभिचारात्। अश्रावणत्वेन हेतुविशेषणान्नेति चेत्। यथा तर्हि विभागादिजशब्दे कारणान्तरदर्शनात् तन्निरसार्थं व्याप्तिग्रहणवेलायां प्रयत्यते, तथा सुखादिनिरासाय प्रयतनीयम्। असमवायिकारणान्तरदर्शनस्य तुल्यत्वात्। निमित्तं तदिति चेत्, न। असमवायिकारणलक्षणस्यातिव्याप्तिप्राप्तेरिति। नच सुखाद्युपलब्धिकरणत्वेन मनःसिद्धिः। साक्षिसिद्धतयाऽन्यथासिद्धेः।
एवमनुमानान्तरमपि निरसनीयम्। नचाऽगमो मनसि प्रमाणम्। जातिबधिराणामपि तत्प्रत्ययात्। तस्मात् सिद्धं साक्षिग्राह्यत्वं मनसः। तस्य च तेनैवाऽत्मनो भिन्नतया ग्रहणाद् भेदाग्रहासम्भवेनेच्छाम्यहमिति न भेदाग्रहनिबन्धनोव्यवहार इति।
॥ साङ्ख्यैः इच्छाया अन्तःकरणधर्मत्वप्रतिपादकश्रुतिबलात् “अहमिच्छामि’ इत्यस्य भेदाग्रहनिमित्तकव्यवहारत्वकल्पनम्॥
ननुच “कामःसङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिर्भीर्हीरित्येतत् सर्वं मन एव” इति श्रुतौ कामस्यान्तःकरणरूपत्वं तावत् प्रतीयते। नच श्रौतेनार्थेनान्यथा भवितुं युक्तम्। अतो बलवद्बाधकोपनिपातादिच्छाम्यहमिति भेदाग्रहनिमित्तं व्यवहारमात्रमेतदङ्गीकरणीयम्। नत्वात्मन इच्छासम्बन्धानुभवः। नच मे मन इति भेदग्रहात् तदग्रहासम्भवः। मे चैतन्यमितिवद् व्यवहारमात्रत्वात्। नचोक्तानुपपत्तिः। सत्त्वरजस्तमसामादिकार्यं हि बुद्धिरित्युच्यते। सा चांशत्रयवती। पुरुषोपरागः, विषयोपरागः, व्यापारावेशश्चेत्यंशाः। भवति ह्यहमिदं करोमीति। तत्राहमिति चेतनोपरागो दर्पणस्येव मुखोपरागो भेदाग्रहादतात्विकः। इदमिति विषयोपराग इन्द्रियप्रनाडिकया परिणतिभेदो दर्पणस्येव मलसम्बन्धः पारमार्थिकः। तथोभयायत्तो व्यापारावेशः। एषैव दिगहमिच्छामीत्यत्रापीत्यत आह उभयेति।
॥ अन्तःकरणवृत्तिआत्मवृत्तिभेदेन कामस्य द्वैविध्यात् नोक्तकल्पना युक्ता॥
...................उभयात्मकता यतः॥२१॥
कामस्य तु मनः कामः...............।
तुशब्दोऽवधारणे। तत इत्युपस्कर्तव्यम्। यतः कारणात् कामस्योभयात्मकताऽस्ति। आत्मधर्मता मनोधर्मता च। तत एव मनः काम इति श्रुतिरुपपद्यते।
इदमुक्तं भवति भवेदिदं भेदाग्रहकल्पनम्। यद्यात्मनः कामवत्त्वं पारमार्थिकं न स्यात्। नचैतदस्ति। बाधकाभावात्। द्विविधो हि कामोऽस्ति। एक आत्मधर्मः, अपरोऽन्तःकरणधर्मः। तत्रान्तःकरणधर्मं काममभिप्रेत्य श्रुतिः प्रवृत्ता नाऽत्मनः कामवत्त्वं बाधते। नहि देवदत्तो गोमानिति वाक्यं यज्ञदत्तस्य गोसम्बन्धं बाधितुं शक्नोतीति।
॥ कामद्वैविध्यसमर्थनम्॥
स्यादेतदेवम्। यदि कामद्वैविध्यं प्रमितं स्यात्, एतदेव कुत इति चेत्। श्रुत्यनुभवबलात् तावत्। प्रकारसहस्रानुसरणेऽप्यघटनायां खल्वनुभवापलापसाहसमभ्युपेयम्। प्रमाणान्तरं चाऽह प्रियेति।
.......................प्रियाप्रियविभेदतः।
द्वैविध्ये दृश्यते चास्यतस्माद् भेदाग्रहः कुतः॥२२॥
प्रियमित्यात्यन्तिकेष्टमुच्यतेऽप्रियमिति च तात्कालिकेष्टम्। विषयेण विषयिण उपलक्षणम्। अस्य कामस्य। अयमर्थः अस्ति तावदास्तिककामुकस्य पुरुषस्य स्रक्चन्दनवनितादौ इदं मे स्यादित्येकतः कामः। अन्यतस्त् त्यजेयमिति। नचैक एवायम्। विरुद्धरूपत्वात्। नच द्वावपि मनोधर्मौ, यौगपद्यात्। युगपत् सजातीयधर्मजननायोगात्। नच यौगपद्यं नास्ति। अनुभवसिद्धत्वात्। बाधकाभावाच्च। तत्रा योऽप्रियविषयः सोऽन्तःकरणधर्मः, यस्तु प्रियविषयः स आत्मधर्म इति।
यद्वा प्रियाप्रियशब्दाभ्यां मुक्तिसंसारावुच्येते। तत्सम्बन्धिविभेदेन कामद्वैविध्यं दृश्यत इति। अस्ति तावत् संसारे प्रचुरोऽयमन्तःकरणवृत्तिरूपः कामः। अस्ति चासौ मुक्तौ। “स यदि पितृलोककामो भवति” इत्यादिश्रुतेः। नचैक एवायम्। मुक्तावन्तःकरणविलयात्। तथाचासावात्मधर्मोऽभ्युपेयः। नचाऽगन्तुकधर्मसम्बन्धो मुक्ताविति प्रागपि कामद्वैविध्यं सिद्ध्यतीति।
श्रुतिबाधपरिहारस्य प्रयोजनमाह तस्मादिति। श्रुतिविरोधस्य परिहृतत्वाद् भेदाग्रहः कुतः प्रमाणात् कल्पनीयः? कुतश्चानुभवापलापेन व्यवहारस्य तन्निमित्तत्वम्? न कुतोऽपीत्यर्थः। अनेनाचेतनस्य प्रधानस्य स्वातन्त्र्येण जगत्कारणत्वं साधयतामनुमानानामपि स्ववचनविरोधः प्रमाणविरोधश्र्चोक्तौ भवतः। दृष्टान्तश्च साध्यविकलः। अचेतनस्वातन्त्र्यस्य क्वाप्यसम्मतेरिति।
॥ “नानुमानम्’ इत्येतत्सूत्रखण्डस्य वर्णकान्तरम्॥
सूत्रार्थमुपसंहरन् “नानुमानम्” इत्येतत् प्रकारान्तरेण व्याचष्टे रचनेति।
रचनानुपपत्तेस्तन्न सर्वज्ञानुमागतम्।
अचेतनं जगत्कर्तृ................॥२३॥
तत् तस्मात्। सर्वज्ञानुमागतमनुमानं प्रकृत्यादिकं कस्यचित् प्रत्यक्षम्, प्रमेयत्वादिति सर्वज्ञसाधकानुमयाऽवगतम्। एतदनुमानसिद्धसर्वज्ञवाक्यावगतमिति यावत्।
यद्वाऽनुमानसिद्धप्रामाण्यकत्वेनानुमानप्रधानत्वेन च सर्वज्ञाभिमतस्य वाक्यमेव सर्वज्ञानुमोच्यते। व्याख्यानान्तरस्य चेदं प्रयोजनम्। यत् प्रागुक्तम् न योगिप्रत्यक्षेण साङ्ख्याचार्यवचनेन वाऽयमर्थः सिद्ध्यतीति, तदपि सूत्रसूचितमेवेति ज्ञापनम्। यदातु सर्वज्ञाभिमतोत्प्रेक्षितया भेदानां परिमाणादित्यादिकयाऽनुमयाऽवगतमनुमानमिति योजना। तदा वैचित्र्यप्रदर्शनं व्याख्यानान्तरप्रयोजनम्। जगत्कर्तृ स्वातन्त्र्येण जगत्कारणम्।
॥ अन्यानधिष्ठितक्षीरादीनां दध्याद्यात्मना परिणामादिदर्शनात्
कारकान्तराप्रयोज्यत्वलक्षणस्वातन्त्र्यमचेनतनेष्वस्तीति पूर्वपक्षः॥
स्यादेतत्। परिमाणादिहेतुभिस्तावन्महदादिकार्याणां किमपि मूलकारणमस्तीत्यवगम्यते। तस्यापि कारणान्तरकल्पने प्रमाणाभावात्, अनवस्थानाच्च। तस्य च स्वातन्त्र्यं कारकान्तराप्रयोज्यत्वमेव, नतु स्वेच्छानुसारित्वम्। येनोक्तदोषः स्यात्। तच्च तत्प्रयोक्तुः कारकान्तरस्याप्रामाणिकत्वादेव सिद्धम्। नचाचेतनस्य तदसम्भावितम्। अचेतनेष्वपि पयोम्बुप्रभृतिषु दर्शनात्। अचेतनमेव हि पयोऽन्यानधिष्ठितमपि वत्सविवृद्ध्यर्थं प्रवर्तते। दधिभावं चाऽपद्यते। घनविनिर्मुक्तं चाम्बु जम्बीरनारिकेलादिष्वनेकविधं विकारं प्राप्नोति। नादेयं चापसर्पति। तृणं च गवा जग्धं क्षीरीभवति। अयश्चायस्कान्तमभिसर्पति। नच “इदं नाचेतनवशम्” इत्यादिप्रमाणविरोधः। तस्योक्तस्थानेष्वेवानैकान्त्यात्। नचेदं ब्रह्मवादिनां सम्मतम्। येन सिद्धसाधनं स्यादित्याशङ्कापरिहारार्थं सूत्रम् “पयोम्बुवच्चेत् तत्रापि” इति। तद् व्याचष्टे पयोऽम्ब्वादि चेति।
॥ चेतनाचेतनमात्रस्य भगवदधीनत्वप्रतिपादकश्रुतेः उक्तलक्षणस्वातन्त्र्यमपि नाचेतने सम्भावितम्॥
ॐ पयोम्बुवच्चेत् तत्रापिॐ॥३॥
..............पयोम्ब्वादि च नोपमा॥२३॥
एतत् प्रशास्तिवचनाच्चेतनाचेतनस्य च।
उपमा स्वार्थसम्भावनायामस्मदीयहेतुव्यभिचारे चेति शेषः। यथाऽत्र साध्यं व्यभिचरति तथा पक्षेऽपि व्यभिचरतु हेतुरित्येवमर्थं हि व्यभिचारोद्भावनम्। तदत्र न युज्यते। चेतनाचेतनस्यैतत्प्रशास्तिवचनात्। पारमेश्वरप्रेरणाप्रतिपादकश्रुतेः। आद्यश्चशब्दो लौकिकानां स्वतन्त्रतया प्रतीयमानमपीत्यर्थे। द्वितीयस्तु न केवलमचेतनस्य। किन्तूभयस्यापीति।
एतदुक्तं भवति कारकान्तराप्रयोज्यत्वलक्षणमपि स्वातन्त्र्यं न प्रधानस्योपपद्यते। असम्भावितत्वात्। उक्तानुमानविरुद्धत्वाच्च। यदुक्तमत्र पयोम्ब्वादिवदिति। तदसत्। तत्रापीश्वरप्रेरणाया “एतस्य वा अक्षरस्य” इत्यादिश्रुतिसिद्धत्वात्। अत एव प्रधानस्य परप्रयोज्यत्वे प्रमाणाभावोऽपि परास्त इति। सूत्रे पयोम्बुवदित्युक्तेऽपि नोदाहरणमादरणीयम्। स्थलान्तरे सम्भावना व्यभिचारश्च भविष्यत इत्याशङ्कापरिहारार्थस्य “व्यतिरेकानवस्थितेश्चानपेक्षत्वात्” इत्युत्तरसूत्रस्यापि व्याख्यानाय आदिपदप्रयोगः।
यद्वा पयोम्बुग्रहणमुपलक्षणमित्यभिप्रेत्याऽदिपदं प्रयुक्तम्। उत्तरसूत्रं तु कैमुत्यार्थम्। चेतनप्रवृत्तेरपीश्वरव्यतिरेकेणानवस्थितेरचेतनप्रवृत्तेस्तदधीनत्वं किमु वाच्यमिति। तद्व्याख्यानाय चेतनाचेतनस्य चेत्युक्तम्।
॥ प्रधानस्य जगत्कारणत्वे साङ्ख्योक्तानुमानभङ्गः॥
किञ्च परिमाणादिति हेतुस्तावदनैकान्तिकः। सत्त्वजस्तमसां साम्यावस्था हि प्रकृतिरुच्यते। सत्त्वादयश्च परिमिता एव। यथोक्तम्
“अबग्नीरनभोऽहङ्कृन्महत्तत्वगुणत्रयैः।
क्रमाद् दशोत्तरैः.................”
इति। नच प्रकृतिरव्यक्तान्तरवतीति कथं नानैकान्त्यम्? नच परिमितस्यापि मूलप्रकृतित्वे बाधकमस्ति। सार्वत्रिककार्यानुत्पत्तिरिति चेत्, न। सर्वत्र कार्यसद्भावे प्रमाणाभावात्। भावेऽप्यनेकैस्तदुत्पत्त्युपपत्तेः। युक्तं च परिमितानामेव कारणत्वम्। तन्त्वादिषु दर्शनात्। अपरिमितस्य कृत्स्नैकदेशविकल्पानुपपत्तेश्च। अस्माकं त्वीश्वरशक्त्यैवोपपद्यते।
समन्वयादित्यप्यसत्। यत् कार्यं यदनुगतिमत् तत् तादृक्कारणोपेतमित्यस्या व्याप्तेरव्यक्ताद् व्यक्तजन्माङ्गीकारेणैव भग्न्त्वात्।
शक्तितः प्रवृत्तेश्चेत्येतदपि न विवक्षितार्थसाधकम्। अन्तर्भावितकार्यत्वमेव कारणस्य शक्तिरित्यस्य सिद्धौ हि तथा स्यात्। तच्च सत्कार्यवादनिर्वाह्यमिति। अत एव विभागाविभागावपि निरस्तौ। विभागाविभागयोरेव सत्कार्यवादसिद्ध्यधीनयोरसत्त्वात्। स्वप्रक्रियामात्रेणार्थसिद्धौ “स्थूलकार्यस्य लोष्ठादेः” इत्यादिना ताकिकपरिकल्पिताभ्यां विभागाविभागाभ्यां परमाणुकारणत्वमपि स्यादित्यास्तां प्रपञ्चः।
॥ मनोवृत्तिकामस्य मनउपादनकत्वादेव तद्धर्मत्वव्यवहारः,
द्विविधकामस्वामित्वं तु आत्मन एवेति नाचेतनस्य इच्छावत्त्वम्॥
नन्विदं घट्टकुटीप्रभातमनुसरति। इच्छावत्त्वमात्मन एव नतु जडस्येत्यत्र हि प्रथममनुभवः प्रमाणीकृतः। तत्र च श्रुतिविरोधे चोदितेऽन्तःकरणधर्म आत्मधर्मश्चेति कामस्य द्वैविध्यान्न विरोध इत्युक्तम्। एवञ्चाऽत्मन एवेच्छावत्त्वं नत्वचेतनस्येति त्यक्तमेवेत्याशङ्कां सिंहावलोकनन्यायेन परिहरति द्वैविध्येऽपीति।
द्वैविध्येऽपि तु कामादेः कुतः स्वामित्वमात्मनः॥२४॥
साक्षादनुभवारूढं शक्यतेऽपोदितुं क्वचित्।
कामादेर्द्वैविध्येऽपि साक्षादनुभवारूढमात्मनः कामादेः स्वामित्वं तु कुतः प्रमाणादपोदितुं शक्यते? न कुतोऽपीति योजना। श्रुत्यपेक्षयाऽऽदिपदग्रहणम्। अपोदितुमिति सम्प्रसारणं छान्दसम्।
अयमत्रोत्तरक्रमः सत्यं कामो द्विविध आत्मधर्मो मनोवृत्तिश्चेति। तत्र मनोवृत्तिमपि कामं प्रत्यात्मन एव स्वामित्वं न मनसः। अहं कामय इति साक्ष्यनुभवसिद्धत्वात्। मनसस्तु कामं प्रत्युपादानत्वमेव। यथा हि क्षेत्रोपादानकानामपि सस्यानां कृषीवल एव स्वामी, न क्षेत्रम्, तथैव। नच वाच्यम्, मनस एव कामस्वामित्वम्, अहं कामय इत्यनुभवस्तु भ्रान्तिः, व्यवहारमात्रं वेति। बाधकप्रमाणाभावात्। नच कौटस्थ्यं बाधकम्। अन्तःकरणस्यैव कामोपादानत्वेनाङ्गीकृतत्वात्। स्वामित्वमात्रेण च कौटस्थ्याविघातात्। अन्यथा कृपणधनस्येवाऽत्मनो वैयर्थ्यापत्तेरिति। तदिदमुक्तम् क्वचिदिति।
॥ इच्छास्वामित्वाचेतनत्वयोरेव परस्परव्याहतत्वम्, नत्विच्छोपादनत्वाचेतनत्वयोः॥
नन्वस्तु कामस्वामित्वमात्मन एव। मा भूच्च मनसः। तथाऽपि पूर्वोत्तरविरोधस्तदवस्थ एव। इच्छास्वामित्वाभावेऽपि यादृशतादृशस्येच्छावत्त्वस्य मनस्यङ्गीकृतत्वादित्यत आह इच्छेति।
इच्छास्वामित्वमेवोक्तमिच्छावत्त्वं नचापरम्॥२५॥
“अचेतनेच्छाऽपगता” इत्यादाविच्छास्वामित्वमेवेच्छावत्त्वमुक्तम्। नचापरमिच्छोपादानत्वलक्षणम्। एतदुक्तं भवति स्यादत्र पूर्वापरविरोधः। यदि यदेवेच्छावत्त्वं प्राङ्मनसो निषिद्धम्, तदेवात्र पुनरङ्गीक्रियते। नचैतदस्ति। पूर्वं हीच्छास्वामित्वलक्षणमिच्छावत्त्वमात्मन एव नत्वचेतनस्येत्युक्तम्। तस्यैव कर्तृत्वोपयोगात्। श्रुत्यर्थतया त्विच्छोपादानत्वलक्षणमिच्छावत्त्वमिदानीं मनसोऽभ्युपगम्यत इति कुतो विरोध इति।
॥ आत्मनः कामस्वामित्वस्य साक्ष्यनुभवसिद्धत्वम्, कर्तृत्वव्याप्तत्वत्वं च॥
यद्वा कामस्य द्वैविध्येन मनसोऽपि कामवत्त्वात् कर्तृत्वमुपपत्स्यत इत्यत आह द्वैविध्येऽपीति। द्वयोः कामवत्त्वेऽपि कामस्वामित्वमात्मन एव, नतु मनसः। निरपवादसाक्ष्यनुभवसिद्धत्वात्। मनसस्तु कामोपादनत्वमेवेति। ततः किमित्यत आह इच्छेति। इच्छास्वामित्वलक्षणमेवेच्छावत्त्वं प्राक् कर्तृत्वोपयुक्तमुक्तम्। न पुनरिच्छोपादानत्वलक्षणम्। यो हीच्छति स प्रयतते, नतु यदिच्छा भवति तदिति। तस्मादिच्छास्वामित्वाच्चेतनस्यैव कर्तृत्वं नाचेतनस्य। तस्येच्छोपादनत्वेऽपीच्छास्वामित्वाभावादिति।
॥ आत्मनः इच्छां प्रति यथेष्टविनियोक्तृत्वाभावात् स्वामित्वाभावमाशय परिहारकथनम्॥
स्यादेतत्। स्वं नाम तद् भवति, यद् यथेष्टविनियोगयोग्यम्। यथा गवादि। स्वामी च स उच्यते यो यथेष्टविनियोक्ता। नचेच्छात्मनोरेतदस्ति। यस्मादास्तिककामुकस्य निषिद्धेच्छां नियच्छतोऽपि साऽऽविर्भवति। प्रयतमानस्यापि विहितेच्छा नोदेति। तत् कथमिच्छास्वामित्वमात्मनः स्यादिति चेत्। किमिच्छाऽऽत्मनः सर्वथाऽपि वशा न भवतीत्युच्यते, उत किञ्चिद्वशत्वमङ्गीक्रियते? नाऽद्यः, अनुभवविरोधात्। इच्छति देवदत्त इत्यादिव्यवहारविरहप्रसङ्गाच्च। द्वितीये तु सिद्धं स्वामित्वमित्याह किञ्चिदिति।
किञ्चित् तद्वशगत्वेऽपि स्वामित्वं लोकवद् भवेत्।
प्रबलविरोधिवशादत्यन्तवशत्वाभावेऽपीच्छायाः किञ्चिदात्मवशत्वमात्रेणापि तां प्रत्यात्मनः स्वामित्वं भवेदेव। कथम्? यथाऽत्यन्तमवशायामपि गवि किञ्चिद्वशत्वमात्रेण देवदत्तस्वामित्वं लोके दृष्टम्, तथैव। अन्यथा तदपि न स्यादिति।
॥ ईश्वरस्य निरुपचरितं कामस्वामित्वम्॥
नन्वेवंसत्येकं सन्धित्सतोऽन्यच्च्यवत इत्यापन्नम्। अचेतनस्य कर्तृत्वं निराकर्तुमात्मन एवेच्छास्वामित्वम्, नतु मनस इति समर्थितम्। तर्हीश्वरस्यापि कुलालादिमनोवृत्तीच्छां प्रति स्वामित्वं नास्तीति घटादिकर्तृत्वं न स्यात्। तथाच “इतरव्यपदेशात्” इत्यधिकरणविरोध इत्यत आह सर्वात्मेति।
सर्वात्मतन्त्रकामादेः किमुतैव परेशितुः॥२६॥
यदा जीवस्यापि कामादिस्वाम्यं तदा सर्वात्मना तन्त्रमधीनं कामादि यस्यासौ तथोक्तः। सर्वेषामात्मनां तन्त्रं साधनं यः कामस्तस्याऽदिः कारणं तस्य परेशितुः कामस्वामित्वं किमुतैव वक्तव्यम्?
एतदुक्तं भवति जीवेश्वरौ द्वावपि शरीरमधितिष्ठतः। तत्रेश्वरोऽन्तःकरणं स्पष्टं दृष्ट्वा तत्र ज्ञानेच्छाप्रयत्नरूपा वृत्तीः स्वेच्छाज्ञानप्रयत्नैरुत्पाद्य बाह्यकारणानि चाधिष्ठाय घटाद्युत्पादयति। जीवस्तु तद्दत्तस्वाम्योऽवतिष्ठते। यथोक्तं “बुद्धिर्ज्ञानम्” इत्यादि। तस्मदीश्वरस्यैव मुख्यं स्वाम्यं कर्तृत्वं च। जीवस्य त्वमुख्यमेवेति। तथाचोक्तम् “स्वस्वामिभावो ध्र्ुव एष यत्र तर्ह्यच्युतेऽसाविति कृत्ययोगः” इति।
॥ उपजीव्यानुभवविरोधात् मनसः कामस्वामित्वाभिधायकश्रुतेरर्थप्रच्यावनम्॥
यदुक्तं निरपवादानुभवबलादात्मन एवेच्छास्वामित्वमिति। तदयुक्तम्। “कामः सङ्कल्पः” इति मनसः कामस्वामित्वाभिधात्र्याऽपौरुषेयत्वेन बलवत्या वेदवाचैवापोदितत्वादित्यत आह नचेति।
नचानुभवगं कामस्वामित्वं वेदवागपि।
शक्ताऽपवदितुं तस्मात् सा तदन्याभिधायिनी॥२७॥
कामस्वामित्वमात्मन इति शेषः। कामाद्यनुवादेन खल्वियं वेदवाक् आत्मोपादानत्वं वैशेषिकादिमतप्राप्तं वारयितुं तेषां मनोरूपत्वमाचष्टे। कामादिस्वरूपं च साक्ष्यनुभवेनैव सिद्धमिति तस्योपजीव्यत्वम्। स च तानात्मस्वामिकानेव विषयीकरोति। नचोपजीवकमुपजीव्यमपवदितुं शक्नोति। वेदस्योत्सर्गतो बलवत्त्वेऽप्युपजीव्यापेक्षया दौर्बल्यमेव। यथाऽऽहुः
“प्राबल्यमागमस्यैव जात्या तेषु त्रिषु स्मृतम्।
उपजीव्यविरोधे तु न प्रामाण्यममुष्य च”
इति। अतो न श्रुतेरनुभावापदकत्वं युक्तमिति। तर्हि श्रुतेः का गतिरित्यत आह तस्मादिति। उपजीव्यत्वेन बलवताऽनुभवेन बाधितत्वादित्यर्थः। तदन्याभिधायिनी स्वामित्वादन्यस्योपादानत्वस्याभिधायिनी।
॥ मनसः कामस्वामित्वे मोक्षेच्छाया अपि मनोगतत्वप्रसङ्गेन
साधनाननुष्ठातुरात्मनो मोक्षः, तदनुष्ठातुस्तु मनसो नाश इत्यङ्गीकार्यं स्यात्॥
न केवलमुपजीव्यबाधात् किन्तूपपत्तिविरोधाच्चेत्याह मोक्षकाम इति।
मोक्षकामो भवेदन्यो यदि मुक्ताद् भविष्यतः।
यदि कामोऽन्तःकरणकर्तृकः स्यात्, तदा मोक्षकामोऽप्यन्तःकरणस्यैव स्यात्। मोक्षस्तु आत्मन इति च प्रसिद्धम्। तथाच यो मुक्तो भविष्यति तस्मादन्य एव मोक्षकाम इत्युक्तं स्यात्। कामस्यान्यगतत्वे साधनानुष्ठाताऽप्यन्य एवेत्यङ्गीकर्तव्यम्। फलकामनासाधनानुष्ठानयोरेकनिष्ठत्वदृष्टेः। तथाचाकृताभ्यागमकृतविप्रणाशप्रसङ्गः।
॥ प्रयोजनशून्यत्वात्, पुरुषमोक्षार्थं प्रकृतेरिच्छासाधनयोरङ्गीकारायोगः॥
ननु नायं दोषः। पुरुषविमोक्षार्थं प्रकृतिप्रवृत्त्यभ्युपगमात्। दृश्यते हि परप्रयोजनार्थं जनानां प्रवृत्तिरिति। अत्रेदमुपतिष्ठते मोक्षकामस्येति।
मोक्षकामस्य किं तेन स्वनाशार्थं च को यतेत्॥२८॥
उपलक्षणमेतत्। साधनानुष्ठातुरित्यपि द्रष्टव्यम्। परप्रयोजनार्थं प्रवर्तमानाः खलु लोके दृष्टमदृष्टं वा किमपि प्रयोजनमनुसन्दधानाः प्रायेणोपलब्धाः। तथाऽत्रापि प्रकृतेः प्रयोजनेन भाव्यम्। नच तदस्तीत्यर्थः।
॥ प्रकृतिलयस्यैव मोक्षत्वात् पुरुषमोक्षार्थं प्रकृतेः स्वनाशेच्छासाधनयोरङ्गीकारायोगः॥
स्यादेतत्। स्वप्रयोजनमननुसन्धायैव जीवमोक्षार्थं प्रकृतेः प्रवृत्तिः, यथा कृपालुत्वेन भवतामीश्वरस्येत्यत आह स्वनाशार्थं चेति। न केवलं परप्रयोजनार्था प्रकृतेः प्रवृत्तिर्युज्यते। प्रकृतिलयो हि मोक्षो नाम। नहि कोऽपि कृपालुरात्मनाशार्थं यतमानो दृष्ट इति। यद्यप्यत्रानाधेयातिशयस्य निष्क्रियस्योपकार्यत्वमपि क्वचिन्न दृष्टमित्येव वक्तव्यम्। तथाऽपि तच्छिष्यैरेवोह्यतामिति तदभ्युपगमेन दूषणान्तरमिदमुक्तम्।
॥ अचेतनस्य प्रयोजनानुसन्धानायोग्यत्वे पुरुषमोक्षानुसन्धानाद्यभावप्रसङ्गः,
तत्स्वभावत्वङ्गीकारे संसाराद्यभावप्रसङ्गः॥
नन्विदमयुक्तम्। चेतनो हि स्वप्रयोजनमनुसन्दध्यात्। स्वनाशाच्च बिभ्यत् परावर्तेत। प्रकृतिस्त्वचेतना कथमेवं पर्यनुयोगमर्हतीति। एवन्तर्हि कथमात्ममोक्षमप्यनुसन्धाय प्रवर्तेत? स्वभावेऽयं प्रधानस्येति चेत्। तर्हि कदाऽपि संसारोऽस्य न स्यात्। भोगार्था प्रवृत्तिः प्रकृतेः स्वभाव इति चेत्। तर्हि मोक्षाभावः। उभयस्वाभावत्वे तूभयं न स्यात्, विरोधात्। अविरोधे वा युगपदुभयं वा स्यात्। व्यवस्थापकाभावात्। भोगोषूपभुक्तेषु मोक्षार्थेति चेत्, न। भोगानामानन्त्येनापरिसमाप्तेरिति।
अयं प्रसङ्गार्थः यद्यात्मा न कामकर्ता स्यात्, तदा मुमुक्षुरपि न स्यात्। ततश्च न तदर्थं प्रयतेत। तथाच न मुच्येत। परप्रवृत्तेः स्वप्रयोजनभावाभावयोरयुक्तत्वादिति।
॥ धातुषु परस्मैपदादिप्रदर्शनस्य प्रायिकत्वात् “यतेत्’ इति साधु॥
“बहुलमेतन्निदर्शनम्” इति स्मरणाद् यतेदिति परस्मैपदम्। तथाचाऽह
“चन्द्रादयस्तु मन्यन्ते सर्वस्मादुभयं पदम्” इति।
॥ कर्तृत्वभोक्तृत्वयोः सामानाधिकरण्यस्य अनुभवसिद्धत्वम्, वैयधिकरण्ये प्रमाणाभावश्च॥
एवमनीश्वरसाङ्ख्यमतं साधारणदूषणैरपाकृत्य ये कर्तृत्वं प्रकृतेरेव, भोक्तृत्वं त्वात्मन इति मन्यन्ते तन्मतं दूषयति कर्तृत्वमिति।
कर्तृत्वं यस्य तस्यैव भोक्तृत्वमुपलभ्यते।
विभागे च तयोर्मानं नैव किञ्चित् क्वचिद् भवेत्॥२९॥
यद्वा, एवमात्मनः कर्तृत्वमुपपाद्य भोक्तृत्वमप्यनेनैवोपपादयति। येन मयेदं कृतं स एवाहं तत्फलं भुञ्ज इति कर्तृत्वभोक्तृत्वयोः सामानाधिकरण्यानुभवात् तद्वैयधिकरण्याङ्गीकारेऽनुभवविरोध इत्यर्थः। भ्रान्तोऽयमनुभव इति चेत्, न। बाधकाभावादित्याह विभागे चेति। तयोः कर्तृत्वभोक्तृत्वयोः। विभागे व्यधिकरणत्वे। अकृताभ्यागमकृतविनाशौ चैवंसति स्यातामिति।
॥ प्रकृतेरेव बन्धमोक्षाङ्गीकारे सर्वप्रमाणविरोधः॥
यदुक्तमात्मनो मोक्षो न स्यादिति। तदिष्टापादनम्। प्रकृतेरेव मोक्षाभ्युपगमात्। नच बन्धमोक्षयोर्वैयधिकरण्यानुपपत्तिः। बन्धस्यापि प्रकृतिगतत्वादिति चेत्, न। सकलश्रुतिस्मृतीहासपुराणानुभवैर्बन्धमोक्षयोरात्मगतत्वावगमेन तद्विरोधादित्याशयवानुपसंहरति सर्वेति।
॥ साङ्ख्यमायावादसमययोः साम्यम्, मायावादस्यापि एतत्सूत्रेण निराकृतत्वम्॥
सर्वमानविरोधैकदुर्दीक्षादीक्षितस्त्वयम्।
मायावाद्युपमां यायात्तच्चशब्दान्निराकृतः॥३०॥
सर्वमानविरोध एव या प्रधानदुर्दीक्षा दुष्टोऽनुष्ठानसङ्कल्पः, तया दीक्षितोऽयं तु साङ्ख्यो मायावादिनामुपमात्वं प्राप्नुयात्। तेऽपि हि कर्तृत्वभोक्तृत्वादिसकलधर्मविकलमसत्कल्पं चैतन्यमात्रमङ्गीकृत्याविद्याया एवाचेतनाया बन्धमोक्षाधिकरणत्वं चाभ्युपगच्छन्ति। तदेतेषां सर्वप्रमाणविरुद्धार्थाङ्गीकारित्वे साङ्ख्योऽयं दृष्टान्तभावमापद्यत इति।
यत्पुरुषबहुत्वं साङ्ख्येनाङ्गीकृतं तदपि मायावादिभिरभ्युपगतमेव। जननादिप्रकृतिधर्मैरेव हि तद् बहुत्वम्। नतु स्वरूपे कश्चिदस्ति परस्परतो विशेषः। मायावादिनोऽपि उपाधिनिबन्धनं भेदमङ्गीकुर्वन्त्येव। नच प्रपञ्चसत्यत्वं विशेषः। कारणमात्रत्वाभ्युपगमेन कार्यप्रपञ्चस्य साङ्ख्येन निरस्तत्वादिति। याऽपि साङ्ख्यपरिकल्पिता सृष्टिप्रलयबन्धमोक्षतत्साधनप्रक्रिया साऽपि सर्वप्रमाणविरुद्धेत्युक्तं भवति।
न केवलं साङ्ख्यस्य मायावादिसदृशत्वमस्माभिरेवोच्यते, किन्तु सूत्रकृताऽपि सूचितमित्याह तदिति। तस्मान्मायावादिसदृशत्वादेव हि साङ्ख्यो “भोक्त्त्रापत्तेरविभागश्चेत् स्याल्लोकवत्” इति प्राक् पराकृतेन मायावादिना “रचनानुपपत्तेश्च नानुमानम्” इति चशब्देन समुच्चित्य निराकृतः।
यद्वा प्रमाणविरोधोऽपि नोत्सूत्रित इत्यनेनाऽह। तस्मात् सर्वमानविरोधित्वादेव। चशब्दात् सर्वमानविरोधसमुच्चयार्थं चशब्दं प्रक्षिप्येत्यर्थः॥*॥ इति रचनानुपपत्त्यधिकरणम्॥१॥
अथ अन्यत्राभावाधिकरणम्॥२॥
॥ मायावादिव्याख्यानानुवादः, तन्निरासश्च॥
अन्यत्राभावाच्च न तृणादिवत्। इदं सूत्रं केचिदित्थं व्याचक्षते यथा तृणपल्लवादिकं गवादिनोपभुक्तं स्वयमेव क्षीरीभवति। एवं प्रधानं स्वयमेव महदादिरूपेण परिणमत इत्याशङ्का किलाऽत्र निरस्यते। न तृणादिवत् स्वयमेव प्रधानस्य परिणामो वक्तव्यः। यतस्तृणादीनामपि स्वयमेव परिणामो नास्ति। कुतः? अन्यत्रानडुहोपभुक्ते तदभावादिति।
अत्राऽशङ्कैव तावदनुपपन्ना। “पयोम्बुवच्चेत् तत्रापि” इत्यनेनैव परिहृतत्वात्। प्रत्युदाहरणं च सूत्रप्रणयनायोगात्। परिहारोऽप्ययमनुपपन्नः। गवाद्युपभुक्तस्यैव क्षीरत्वं नान्यत्रेति हि वदता प्रकृतेः सहकारिसद्भावमात्रमुपपादितं स्यात्। न पुनरीश्वरापेक्षत्वम्। अतो नायं सूत्रार्थः। किन्तु पातञ्जलमत्राधिकरणे निराक्रियत इत्याशयवांस्तदुपन्यस्यति साङ्ख्यस्त्विति।
॥ पतञ्जिलना क्षेत्रानुग्रहशक्तिमत्त्वसर्वज्ञत्वपञ्चक्लेशकर्मतत्फलरहितत्वविशिष्टेश्वरनिरूपणम्॥
साङ्ख्यस्तु सेश्वरो ब्रूते क्षेत्रानुग्रहशक्तिमान्।
अस्तीश्वरः स्वयम्भातः क्लेशकर्मादिवर्जितः॥३१॥
साङ्ख्यमतस्य निरस्तत्वात् किं पुनरुपन्यासेनेत्यतोऽस्य मतस्य ततो विशेषं तुशब्देन सूचयति। तमेव विशेषं व्यनक्ति सेश्वर इति। सेश्वरश्चेन्न निराकार्यो विरोधाभावादित्यत उक्तम् क्षेत्रेति। तुशब्दोऽवधारणार्थोऽत्राप्यन्वीयते। यद्यपि सेश्वर इत्यनेनैवेश्वरोऽस्तीति ब्रूत इति सिद्धम्, तथाऽपि तदनुवादेन विशेषणविधानमेवैतत्। य ईश्वरोऽस्ति स क्षेत्रानुग्रहशक्तिमानेवेति ब्रूत इति। क्षियन्त्यस्मिन् कार्याण्यव्यक्ततयेति क्षेत्रमुपादानं प्रकृतिः। तदनुग्रहशक्तिरेवेश्वरस्य तेनाभ्युपगम्यते। अतो निराकरणीय एवासाविति।
सर्वशक्तित्वाभावे किं तस्येश्वरत्वमित्यत उक्तम् स्वयम्भात इति। स्वयमिन्द्रियाद्यनपेक्षमेव भातः। कर्तरि क्तः। ततश्च सर्वज्ञ इति लभ्यते। ईश्वरत्वोपपादकं विशेषणान्तरमाह क्लेशेति। क्लेशकर्मविपाकाशयवर्जित इत्यर्थः। तथाचाऽह पतञ्जिलः “क्लेशकर्मविपाकाशयैरपरामृष्टः षुरुषविशेष ईश्वरः” इति। तथा, “निर्माणकायमधिष्ठाय सम्प्रदायप्रवर्तकोऽनुग्राहकश्च” इति।
तत्राविद्यास्मितारागद्वेषाभिनिवेशाः पञ्च क्लेशाः। अनात्मन्यात्मबुद्धिरविद्या। इदं मदीयमित्यभिमानोऽस्मिता। विषयेष्वासक्ती रागः। कोपो द्वेषः। भयमभिनिवेशः। एत एव पञ्च क्लेशास्तन्त्रान्तरे तमः, मोहः, महामोहः, तामिस्रः, अन्धतमिस्र इति व्यवह्रियन्ते। वार्षगण्यस्त्वेतानविद्येत्येवाह। कर्मेति विधिनिषेधावुच्येते। आशयशब्देन धर्माधर्मौ। विपाक इति तत्फलं सुखदुःखे तदुपायश्चेति। इतिशब्दस्याऽगामिनः प्रतिवाक्यं सम्बन्धः।
॥ प्रकृतिपुरुषयोरेव स्वातन्त्र्येण उपादानोत्पत्तिशक्तिमत्त्वम्,
ईश्वरस्य पर्जन्यवत् तदनुग्राहकत्वम्॥
वेदवादविरोधं स्फुटीकर्तुमवधारणव्यावर्त्यमाह क्षेत्रेति।
क्षेत्रशक्तिमती सैव प्रकृतिर्बीजशक्तिमान्।
जीवः पर्जन्यवद् दैवशक्तिमानीश्वरः स्मृतः॥३२॥
या जगदुपादानं सा प्रकृतिरेवोपादानत्वशक्तिमतीति ब्रूते। न पुनर्वेदवादिन इव तामपि शक्तिमीश्वरायत्ताम्। व्यावर्त्यान्तरमाह बीजेति। अत्राप्येवेति सम्बद्ध्यते। शरीरेन्द्रियादिसम्बन्धेनोत्पत्तौ या शक्तिः सा बीजशक्तिः। जीव एव तद्वानिति ब्रूते। नतु तदीयां बीजशक्तिं तत्ववादिन इव भगवदधीनाम्।
यद्युपादानत्वोत्पत्तिशक्तिमत्त्वं प्रकृतिपुरुषयोरेव, तदा किमीश्वरेणानुग्राहकेणेत्यत आह पर्जन्यवदिति। यथाहि पृथिव्याः कलमादिबीजानां चोपादानत्वबीजत्वशक्ती यद्यपि स्वायत्ते, तथाऽप्यङ्कुरोत्पत्तौ पर्जन्यस्यास्ति पृथिव्यनुग्राहकत्वम्। तथा प्रकृतिपुरुषयोः स्वायत्तशक्तित्वेऽपीश्वरः प्रकृत्यनुग्रहशक्तिमानङ्गीकरणीयः।
तत् किं पर्जन्यवदन्वयव्यतिरेकाभ्यामीश्वरस्य प्रकृत्यनुग्राहकत्वमवसेयम्? नेत्याह दैवेति। दैवशब्दोऽदृष्टस्वरूपत्वमाह। तेनान्वयव्यतिरेकाविषयत्वं लक्षयति। तत् किं निष्प्रमाणक एवेश्वरः प्रकृत्यनुग्राहकोऽङ्गीकरणीय इत्यत उक्तम् स्मृत इति। “मयाऽध्यक्षेण प्रकृतिः सूयते सचराचरम्” इत्यादाविति शेषः। स्मृत इत्युपलक्षणम्। श्रुत इत्यपि ग्राह्यम्।
॥ प्रकृतिपुरुषयोरुपादानत्वोत्पत्तिशक्तिमत्त्वस्य स्वायत्तत्वसमर्थनम्॥
प्रकृतिपुरुषयोः स्वायत्तशक्तित्वं कुत इत्यत आह पृथिवीवदिति।
पृथिवीवत् प्रधानं तज्जीवः सन्निधिमात्रतः।
बीजावपनकर्तैवेति......................॥३३॥
यथा पृथिव्याः स्वायत्तोपादानत्वशक्तिः, तथा तत् तस्मादुपादानत्वात् प्रधानमपि स्वायत्तोपादानत्वशक्तिमदनुमेयमित्यर्थः। उपलक्षणं चैतत्। कलमादिबीजवद् बीजत्वाज्जीवोऽपि स्वायत्तबीजशक्तिमाननुमातव्य इत्यपि द्रष्टव्यम्।
ननु यथा लोके कलमादिबीजानां कश्चिदावपनकर्ताऽस्ति, तथाऽत्रापि तत्स्थानीयेन केनापि भाव्यम्। नचासावन्योऽस्ति परमेश्वरात्। तत् कथं क्षेत्रानुग्रहशक्तिमानेवेश्वर इत्यत आह जीव इति। दृश्यते खल्वपत्यजीवो बीजभूतः। पितृजीवश्चाऽवपनकर्तृस्थानीयः। तस्मात् किमीश्वरस्य तच्छक्तिकल्पनया? विषयोत्पत्तौ तु तदपेक्षैव नास्तीति भावः।
नन्वेवं पितृजीवस्यापत्योत्पादकत्वाङ्गीकारेऽपसिद्धान्तः स्यात्। साङ्ख्यैर्जीवस्य कर्तृत्वानभ्युपगमादित्यत उक्तम् सन्निधिमात्रत इति। शरीरादिरूपा प्रकृतिरेवापत्योत्पादकत्री। तत्सन्निधिनिमित्ताद् विवेकाग्रहाज्जीवे तत्कर्तृत्वव्यवहार एवेति ब्रूत इति।
॥ प्रकृत्यादेरुपादानत्वादिशक्तीनां भगवदधीनत्वप्रतिपादनम्॥
एवमुपन्यस्तमतनिरासार्थं सूत्रमवतारयति अत्रेति।
...............अत्र प्राह स्वयं प्रभुः॥३३॥
ॐ अन्यत्राभावाच्च न तृणादिवत्ॐ॥५॥
अन्यत्र काऽपि शक्तिर्न स्वातन्त्र्येणेश एव हि।
शक्तीस्ताः प्रेरयत्यञ्जस्तदधीनाश्च सर्वदा॥३४॥
सत्ता प्रधानपुरुषशक्तीनां च प्रतीतयः।
प्रवृत्तयश्च ताः सर्वा नित्यं नित्यात्मना यतः॥३५॥
यथाऽनित्यतयाऽनित्यं नित्यशक्त्या स्वयेश्वरः।
नियामयति नित्यं च न ऋते त्वदिति श्रुतेः॥३६॥
अत्रैतन्मतविषये दूषणं प्राहेत्यर्थः। स्वयं साक्षात्। नोपचारेण। प्रभुरिति सूत्रकृतो दूषणसामर्थ्यमाचष्टे। सूत्रं व्याचष्टे अन्यत्रेति। अन्यत्र प्रकृतौ पुरुषे। तथा पृथिव्यां कलमादिबीजे च। काऽपीति क्षेत्रशक्तिर्बीजशक्तिर्बीजावपनशक्तिश्चेत्यर्थः।
कथन्तर्ह्युपादानत्वादिकमित्यत उक्तम् स्वातन्त्र्येणेति। कुतो नास्तीत्यत आह ईशेति। यस्मादीश एव ताः प्रधानादिशक्तीः प्रेरयतीति श्रुत्यादिप्रसिद्धम्। तस्मादन्यत्र काऽपि शक्तिः स्वातन्त्रयेण नास्तीति। नच प्रधानादिवदीश्वरस्यापि प्रेरणाशक्तिः परायत्तेत्युक्तमञ्ज इति। क्रियाविशेषणमेतत्। तदनेन परकीयानुमानस्य बाधितविषयत्वम्, दृष्टान्तस्य च साध्यविकलत्वमुक्तं भवति।
॥ प्रकृत्यादेः सत्ताप्रतीतिप्रवृत्त्यादेरपि भगवदधीनत्वम्॥
न केवलं प्रकृतिपुरुषयोः स्वातन्त्र्येण शक्त्यभावः, परमेश्वरायत्तशक्तित्वं च। किंन्तर्हीत्यतश्चशब्दसमुच्चितमर्थमाह तदधीनाश्चेति। आद्यश्चशब्दः शकिप्रेरकत्वस्य सत्तादिप्रदत्वेन सह समुच्चयार्थः। उत्तरावन्योन्यसमुच्चये। प्रधानपुरुषयोस्तदीयानां शक्तीनां च सत्ता स्वरूपम्, प्रतीतयश्च प्रमाविषयत्वं चेति यावत्, तास्ताः सर्वाः प्रवृत्तयश्च सर्वदा तदधीना इति योजना। केचिन्मन्यन्ते स्वरूपमेव वस्तुनः सत्त्वमिति, अपरे तु प्रमाणयोग्यत्वम्, अन्ये पुनरर्थक्रियावत्त्वम्। तदिदं त्रयमपि प्रकृत्यादीनां भगवदधीनमेवेति।
॥ सत्तादेर्नित्यत्वाद् भगवदधीनत्वानुपपत्तिरित्याशङ्कानिरासः॥
नन्वेतदयुक्तम्। प्रधानादिसत्तादेर्नित्यत्वात्। नित्यस्य पराधीनतासम्भवादित्यत आह नित्यमिति। यथाऽनित्यं घटादिकमनित्यतया नियम्यते, तथा नित्यमपि नित्यात्मना नित्यं च सर्वदैवेश्वरो नियामयति। यत एवं तस्मादुक्तमुपपन्नमिति योजना।
एतदुक्तं भवति यथा हि घटादयोऽनित्यत्वस्वभावा अपि नाकस्मादनित्या भवन्ति। तथात्वे चोत्पत्त्युत्तरक्षण एव विनाशप्रसङ्गात्। एवं नित्यस्यापि नित्यता यदि पराधीना तदा को दोषः? नचानित्यता पराधीनेति कदाचिद् घटादेर्नित्यता प्राप्ता। विनाशकारणोपनिपातध्रौव्यात्। तथा नित्यस्य नित्यतायाः पराधीनत्वेऽपि न जात्वनित्यताप्रसक्तिः। तन्नियमननियमादिति। तदिदमुक्तम् नित्यं चेति।
नचैतदलौकिकम्। नित्यकर्मभिर्दुरितप्रागभावानुवृत्तेः साध्यत्वेन वादिभिरभ्युपगतत्वात्। अनुवृत्तेर्नित्यतापादनानतिरेकात्। भवेदेतदेवमस्वरसनित्यस्य, न स्वरसनित्यस्येति चेत्, न। ईश्वरातिरिक्तस्य तद्भावासम्मतेः। इयांस्तु विशेषः। किञ्चिदस्मदायत्तनित्यत्वम्। किञ्चिच्चेश्वरायत्तनित्यत्वमिति। तदप्यस्मासु कस्मान्नायतते तथाभूतं च कथमीश्वराधीनमित्यत उक्तम् नित्यशक्त्येति। प्रधानादिशक्तेः प्रकृतत्वात् तद्ग्रहणमिदमिति मन्दाशङ्कां वारयितुं स्वयेत्युक्तम्।
॥ उक्तार्थे प्रमाणोपन्यासः, साङ्ख्यमतनिरासोपसंहारः॥
यदुक्तं प्रधानादेरुपादानत्वादिशक्तिर्न स्वाधीना किन्त्वीश्वरप्रेरितैवेति। तत् कुत इत्यत आह नेति। “न ऋते त्वत् क्रियते किञ्चनारे” इति श्रुतेः। प्रागुक्तं प्रतिपत्तव्यमिति शेषः। शक्तिरेव हि क्रियोच्यते। यत् प्रधानादिसत्तादेर्भगवदधीनत्वमुक्तं तस्य सम्भावनैवोक्ता। प्रमाणं तु तत्र किमित्यत आह स्वभावेति।
स्वभावजीवकर्माणि द्रव्यं कालः श्रुतिः क्रियाः।
यत्प्रसादादिमे सन्ति न सन्ति यदुपेक्षया॥३७॥
इति श्रुतेर्न सत्ताद्या अपि नारायणं विना।
तत् पतञ्जिलविन्ध्यादिमतं न पुरुषार्थदम्॥३८॥
कर्मशब्देन धर्माधर्मव्यक्तयो गृह्यन्ते। क्रियाः परिस्पन्दाः। श्रुतिर्वेदः। सन्तीति त्रिविधमपि सत्त्वं विवक्षितम्। सत्ताद्याः प्रधानादेः। नारायणं विना तत्प्रेरणां विना।
तस्मादन्यत्रोपादानत्वादिशक्तेरभावात्, तत्सत्तादेरपीश्वरायत्तत्वाच्च न तृणादीनामुत्पत्तौ पर्जन्यस्येव पृथिव्यनुग्राहकत्वम्, ईश्वरस्य महदाद्युत्पत्तौ क्षेत्रानुग्राहकत्वमात्रम्, किन्तु सर्वस्वातन्त्र्यमेवेति।
यदन्यदभ्युपगतं पातञ्जलैर्वैदिकमतविरुद्धम्, तत् सर्वं प्रथमाधिकरण एव निरस्तम्। किं पुनः प्रयत्नेनेत्याशयवान् पूर्वमतेन सहैतस्य हेयतामुपसंहरति तदिति। विन्ध्योऽनीश्वरः साङ्ख्यः। आदिपदेन तदेकदेशिनां पञ्चशिखेश्वरकृष्णादीनां ग्रहणम्। तदवान्तरमतयोरपि निरस्तत्वात्। यद्वा पतञ्जिलविन्ध्यावादी यस्य तत् तथोक्तम्। पतञ्जिलनाऽङ्गीकृतोऽपीश्वरो अनीश्वरकल्प एव। अतः पूर्वस्यास्य च साम्याभिप्रायेण वा सहोपसंहार इति॥*॥ इत्यन्यत्राभावाधिकरणम्॥२॥
अथ अभ्युपगमाधिकरणम्॥३॥
॥ मायावाद्युक्तसूत्रार्थनिराकरणम्॥
अभ्युपगमेऽप्यर्थाभावात्। केचिदिदं सूत्रमेवं व्याचक्षते प्राक् प्रधानस्य प्रवृत्तिर्नोपपद्यत इत्युक्तम्। अथेदानीं प्रवृत्तेरभ्युपगमेऽपि तस्याः प्रयोजनाभावादिति। तदुयक्तम्। “अभ्युपगमेऽपि” इत्येतावतो वैयर्थ्यात्। “अर्थाभावाच्च” इत्येतावतैव पूर्णत्वात्।

किञ्च अर्थाभावेन किं साध्यम्? साङ्ख्यमतस्यासामञ्जस्यं वा, प्रकृतेः प्रवृत्त्यनुपपत्तिर्वा। नाऽद्यः, व्यधिकरणत्वात्। कथञ्चिदेकाधिकरणतापादनेऽपि स्वमतेनानैकान्त्यात्। न द्वितीयः, अभ्युपगमविरोधात्। नह्यभ्युपगमवादेऽपि यदेवाभ्युपगम्यते तदेव निराक्रियते। अनास्थां खलु तात्कालिकीमभ्युपगमेन द्योतयन्ति। यथा “अस्तु शब्दो नित्योऽनित्यो वा, अनुशासनं तावत् कर्तव्यम्” इति। तस्मान्नायं सूत्रार्थः।
॥ लोकायतिकमतानुवादः॥
किन्नाम। मा भूदचेतनस्य कर्तृत्वम्, शरीरस्यैव चेतनावत्त्वेन कर्तृत्वोपपत्तेः। किमीश्वरादिनेत्यधिकाशङ्कया प्रत्यवतिष्ठमानस्य चार्वाकस्य मतमत्राधिकरणे निरस्यत इति भावेन तन्मतमुपन्यस्यति चार्वाकैरिति।
चार्वाकैरुच्यते मानमक्षजं नापरं क्वचित्।
देह आत्मा पुमर्थश्च कामार्थाभ्यां विना नहि॥३९॥
चार्वी बुद्धिस्तत्सम्बन्धादाचार्येऽपि चार्वी। तस्येमे च्छात्राश्चार्वाकाः। तैरक्षजं मानमुच्यते। नन्वेतदस्माकमपि सम्मतमित्यतः सावधारणमिदमुक्तमित्याशयेनोक्तं विवृणोति नापरमिति। अनुमानमागमश्च मानं नोच्यत इत्यर्थः। एतदप्यस्माकमनुमतमेव। प्रमेयविशेषे प्रत्यक्षस्यैव मानताभ्युपगमादित्यत आह क्वचिदिति। एतदुक्तं भवति प्रमाणाधीना हि प्रमेयसिद्धिः। प्रमाणं च प्रत्यक्षमेव। नातोऽन्यदस्ति। नच प्रत्यक्षेणेश्वरं प्रतीमः। तस्मात् प्रमाणाभावान्नास्तीश्वर इति।
ननु यदि प्रत्यक्षातिरिक्तं न प्रमाणम्, तदा धर्ममोक्षयोस्तत्साधनानां च प्रत्यक्षाविषयाणामसिद्धिः स्यादित्यत आह देह इति। ज्ञानवान् खल्वात्मा। ज्ञानं च देहधर्मः। यथोक्तम् “पृथिव्यापस्तेजोवायुरिति तत्वानि। तत्समुदाये शरीरेन्द्रियविषयसञ्ज्ञा। तेभ्यश्चैतन्यं मदशक्तिवद् विज्ञानम्” इति। तस्माद् देह एवाऽत्मा। स च विनाशीत्यतः कालान्तरभाविनः पुंस एवाभावाद् धर्ममोक्षाख्यपुुरुषार्थाभावो नानिष्टः। पुरुषार्थौ तु कामार्थावेव। पुरुषान्वयसम्भवादिति। तत्रापि काम एव मुख्यः, अर्थस्तु तत्साधनतयैव पुमर्थ इति ज्ञापयितुं कामस्याऽदौ सङ्कीर्तनम्। इति चोच्यत इति सम्बन्धः।
॥ विषयप्रयोजनशून्यत्वात् चार्वाकसमयस्य अप्रामाण्यम्॥
एतन्मतनिरासार्थं सूत्रं व्याख्यातुमुपोद्धातं तावदाह यदेवमिति।
यदैवं दर्शनेनास्य कोऽर्थः प्रत्यक्षगोचरः।
लब्धस्तेनैव हि नरैः शास्त्रात् किं मोहनं विना॥४०॥
यद्येवमतीन्द्रियं वस्तु न स्यात्, तदा तदीयं शास्त्रं विषयप्रयोजनशून्यमापद्येतेति शेषः। तत् कथमिति चेत्। किमनेन शास्त्रेण तत्प्रणेता विषयं प्रतिपद्यते, प्रयोजनं च लभते, उत विनेया नराः? आद्यं दूषयति दर्शनेनेति। किमाक्षेपे। अर्थो विषयः प्रयोजनं च। लब्ध उपलब्धः प्राप्तश्च। प्रत्यक्षगोचरो हीति तत्र हेतुः।
ततश्चायमर्थः न तावदनेन शास्त्रेण शास्त्रप्रणेत्राऽतीन्द्रियोऽर्थ उपलभ्यते। तदभावात्। नाप्यैन्द्रियकः। तस्य प्रत्यक्षगोचरत्वेन विषयत्वानुपपत्तेः। अप्राप्ते हि शास्त्रमर्थवत्। किञ्च प्रत्यक्षेण तमर्थमुपलभ्य खल्वसौ शास्त्रं प्रणीतवान्। अन्यथा तत्प्रणयनानुपपत्तेः। तथाच तं प्रति तमेवार्थमुपदर्शयत् कथं सविषयं स्यात्? एवं प्रयोजनमपि न तावदतीन्द्रियम्। तदभावात्। नाप्यैन्द्रियकम्। तस्य योग्यानुपलम्भबाधितत्वात्। ननु हितोपदेष्टरि जनोऽनुरज्यते। “जनानुरागप्रभवाश्च सम्पदः” इति चेत्। कृतघ्नतानिमित्तप्रत्यवायानुसन्धाने सत्येवमेतत्। तत्तु परेण त्याजितमिति। द्वितीयं दूषयति नरैरिति। लब्धमित्यनुवर्तते। अत्रापि पूर्ववदुत्तरम्।
॥ आगमानुमानयोरप्रामाण्याभ्युपगमात् तत्समयस्य विषयप्रतिपादकत्वाभावादप्रामाण्यम्॥
स्यादेतत्। धर्माद्यतीन्द्रियाभिमतार्थाभावः शास्त्रस्य विषयः। तस्य प्रत्यक्षत्वेऽपि वैदिकवासनानिमित्तशङ्काकलङ्कितत्वेन विषयत्वमुपपद्यते। प्रयोजनं च धर्माधर्मशङ्कोपरुद्धार्थकामोपभोगः। तत् कथं नरैः शास्त्रात् किं लब्धमित्युच्यते।
मैवम्। विषयप्रतिपत्तौ हि प्रयोजनावाप्तिः। विषयं च किं शास्त्रमाप्तावाक्यतया प्रतिपादयेत्, उतोपपत्तिव्युत्पादनेन? नाऽद्यः, आगमप्रामाण्याभ्युपगमप्रसङ्गात्। नास्त्यतीन्द्रियं किमपीत्येतावतैव पूर्णत्वेन वाक्यविस्तरवैयर्थ्याच्च।
न द्वितीयः, उपपत्तिप्रामाण्याभ्युपगमप्रसङ्गात्। शास्त्रं शङ्कामेव निवारयति। विषयप्रतिपत्तिस्तु प्रत्यक्षेणैवेति चेत्, न। स्वयं वा, उपपत्तिव्युत्पादनेन वा कमप्यर्थमनुपदर्शयतः शङ्कानिवारणासामर्थ्यात्। शङ्का हि संशयो वा स्यात्, विपर्ययो वा। द्वावपि विपरीतार्थगोचरबलवत्प्रत्ययनिरसनीयौ। नाऽज्ञामात्रेण। तर्कव्युत्पादनं शास्त्रेण क्रियत इति चेत्, न। तस्यापि प्रमाणत्वात्।
तदिदं “दर्शनेन” इति प्रकृतानुवृत्तौ सत्यां “शास्त्रात् किम्” इति वदता सूचितम्। अन्यथा नरैश्चेत्यवक्ष्यत्। “मोहनं विना” इत्युभयवाक्यशेषः परिहासः। शास्त्रप्रणेत्रा सुरगुरुणाऽयोग्यजनव्यामोहनं प्रयोजनं लब्धम्। अन्यैश्च मिथ्याज्ञानम्। नातोऽधिकमिति।
किमतो यद्येवमित्यत आह स्वेति।
स्वपरार्थविहीनत्वात्...............।
निष्फलं शास्त्रमिति वक्ष्यमाणं सिंहावलोकितेनानुवर्तते। तच्चोपलक्षणम्। निर्विषयं चेत्यपि द्रष्टव्यम्। विषयप्रयोजनवत्त्वं हि स्वपरविषयप्रयोजनवत्तया व्याप्तम्, तृतीयप्रकाराभावात्। सर्वप्रकारपरित्यागेन सामान्यानवस्थानात्। ततश्च व्यापिकायाः स्वपरविषयप्रयोजनवत्ताया अभावात् तद्व्याप्तं विषयप्रयोजनवत्त्वमपि नास्तीत्यर्थः।
॥ विषयप्रयोजनराहित्यस्य चार्वाकेणाप्यभ्युपगतत्वात् तत्समयस्यानरम्भणीयता॥
अस्त्वेवं विषयप्रयोजनशून्यमस्मदीयं शास्त्रम्। ततः किमित्यतः सूत्रं व्याख्याति स्वमतेनैवेति।
ॐ अभ्युपगमेऽप्यर्थाभावात्ॐ॥६॥
..................... स्वमतेनैव निष्फलम्।
किमित्युन्मत्तवच्छास्त्रं वृथा प्रलपति स्वयम्॥४१॥
यत एवं स्वमतेनैव निष्फलं निर्विषयं च। न केवलं परोपपादनेन। तस्माद् वृथा विषयप्रयोजनशून्यम्। यस्माद् वादिना चार्वाकेण प्रतिवादिभिश्च तदितरैः सर्वैर्विषयप्रयोजनशून्यतयाऽभ्युपगतम्, तस्माद् विषयप्रयोजनशून्यमेवेत्यर्थः। यस्माद् वृथा तस्मात् तच्छास्त्रं किमिति स्वयं प्रेक्षावान् प्रलपति। प्रेक्षावता नाऽरम्भणीयमिति यावत्। विषयप्रयोजनशून्यं चाऽरभमाणो न लौकिकः, नापि परीक्षक इत्युन्मत्तवदुपेक्षणीयः स्यादिति।
यद्वा निष्फलमिति प्रयोजनाभावाभिधानम्। वृथेति विषयाभाववचनम्। तथाचैवं सूत्रयोजना न केवलं परोपपादनेन, किन्तु स्वाभ्युपगमेऽप्यर्थाभावादनारम्भणीयं शास्त्रमिति शेष इति। अर्थाभावहेतोरसिद्धिपरिहारायाभ्युपगमेऽपीत्युक्तम्।
॥ देहात्मैक्यवादनिरासः॥
ननुच प्रमाणानुरोधि प्रयोजनम्। न पुनः प्रयोजनमनुरुध्याप्रामाणिकोऽप्यर्थोऽङ्गीकर्तुमुचितः, अतिप्रसङ्गात्। प्रमाणं च प्रत्यक्षमेव नान्यत्। नचैवं लोकव्यवहारोच्छेदः। सम्भावनयैव तदुपपत्तेः। संवादेन च प्रामाण्याभिमानात्। प्रत्यक्षेण च देह एवाऽत्मोपलभ्यते। गौरोऽहं जानामीति। तथाच कालान्तरभाविप्रयोजान्वयिनः पुरुषस्याभावात् कथं धर्ममोक्षाख्यं प्रयोजनम्, अतीन्द्रियश्च विषयोऽङ्गीकर्तुं शक्यत इत्यत आह देहादिति।
देहादन्योऽनुभवत आत्मा भाति शरीरिणाम्।
मम देह इति व्यक्तं ममार्थ इतिवत् सदा॥४२॥
अनुभवतः पराभ्युपगतप्रामाण्येन प्रत्यक्षेणैव। मम देह इति ह्यहङ्कारास्पदात्मसम्बन्धी देहः प्रतीयते। नचान्यताप्रतीतौ सम्बन्धप्रतीतिरुपपद्यते। यथा ममार्थ इति प्रतीतौ भेदप्रतीतिपूर्वक एव सम्बन्धावभास इति।
नन्वेवं प्रतिभास एव नास्ति। अपितर्हि? घटस्य स्वरूपमितिवद् व्यवहारमात्रमिति चेत्, न। कल्पकाभावात्। विपरीतप्रमितौ खल्वेवं कल्प्यते। नचैवं प्रकृते। कस्यचित् कदाचिदपि देहोऽहमिति प्रमाभावात्। तदिदमुक्तम् शरीरिणां सदेति। अत एव प्रतिभासोऽपि भ्रमोऽस्त्विति निरस्तम्। अस्ति गौरोऽहमिति प्रमेति चेत्, न। प्रतिपक्षतया बाधकत्वानुपपत्तेः।
किञ्च नायं देहात्मतावभासः। किन्तु देहधर्मस्याऽत्मधर्मतावभासः। नच व्यधिकरणयोर्विरोधोऽस्ति। तदभावे कथमसाविति चेत्। किमेतदनुमानम्, अर्थापत्तिर्वा, प्रश्नमात्रं वा? न प्रथमद्वितीयौ, अपसिद्धान्तात्। स्फटिकजपाकुसुमयोरभेदाप्रतिभासेऽपि तद्धर्मस्य तत्र प्रतीतिदर्शनाच्च। तृतीये तु वक्ष्यते। (९७९) अस्तु प्रतीतिः। प्रत्यक्षमिति तु कुतः? अबाधप्रतिभासस्य प्रत्यक्षादन्यस्य परेणानभ्युपगमात्। अभ्युपगमे वा प्रामाण्यापरिहारात्। अपरोक्षतयाऽनुभवाच्च। तदिदमुक्तम् व्यक्तमिति। नच तदेवासिद्धम्। लिङ्गाद्यनुसन्धानाभावेऽपि भावात्। अन्यथा देहप्रतिभासस्यापि तन्न स्यात्। एतदप्युक्तम् सदेति। केचिदाहुः देहात्मभेदज्ञानं समाधिपरिपाकवतामेवेति। तदसत्। आविपालगोपालं मम देह इति प्रतिभासस्यानपलपनीयत्वात्। अत एवाऽह शरीरिणां शरीराभिमानिनामिति।
॥ प्रत्यक्षस्य प्रामाण्यवद् आगमानुमानयोरपि प्रामाण्यसिद्धेस्तत एव धर्माद्यतीतीन्द्रियपदार्थसिद्धिः॥
नन्वस्त्वात्मा देहातिरिक्तः, तथाऽप्यर्थकामातिरिक्ते पुरुषार्थे तत्साधनादौ च किं मानम्? वेदादिरागमः, अनुमानं चेति वदामः। तस्य प्रामाण्यमेव कुत इति चेत्। तत्राऽह प्रत्यक्षस्यैवेति।
प्रत्यक्षस्यैव मानत्वमिति केनावसीयते।
यदि तत्साधकं वेदप्रामाण्ये न कथं भवेत्॥४३॥
यत् परेणाभ्युपगतमर्थादि तत् कुतः सिद्धमिति वक्तव्यम्। प्रत्यक्षेणेति चेत्। प्रत्यक्षस्य मानत्वमित्येव केनावसीयते। तथाच पुरुषार्थतत्साधनमात्रासिद्धौ जगदनीहमापद्येतेति। प्रत्यक्षज्ञानं तावत् प्रतीयते। प्रामाण्यं च ज्ञानग्राहकमात्रग्राह्यम्। अतः कथमुक्तो दोषः? प्रामाण्यपरतस्त्ववादेऽपि बाधकाभावादिना प्रत्यक्षप्रामाण्यसिद्धिरित्यत आह यदीति। यदि प्रत्यक्षज्ञानप्रामाण्यस्य ज्ञानग्राहकं वा बाधकाभावादिकं वा साधकमुच्यते, तर्हि तदेव वेदप्रामाण्यविषये कथं साधकं न भवेत्? नहि वेदवाक्याज्ज्ञानं नोत्पद्यते। नच न प्रतीयते । अत्र वेदग्रहणमुपलक्षणम्। अत एवान्येति सामान्येन वक्ष्यति। (अनुपदम्)
॥ वेदादेः प्रामाण्यसमर्थनम्॥
ननु ज्ञानग्राहकस्य प्रामाण्यग्राहकत्वमित्युत्सर्गः। अपवादेन त्वप्रामाण्यमपि गृह्यते। तत् कथं वेदादिप्रामाण्यसिद्धिः? परतस्त्वेऽपि बाधकाभावः कुत इति चेत्। सममेतत् प्रत्यक्षेऽपि। अनुपलम्भादपवादाद्यभावः प्रत्यक्षसिद्ध इति चेत्, तुल्यमेतद् वेदादावित्याह नचेति।
नचान्यामानता क्वापि प्रमाणेनावसीयते।
प्रत्यक्षादन्ययोरनुमानागमयोरमानता। क्वापि विषये। यद्वा प्रत्यक्षप्रामाण्यमभ्युपगच्छन् प्रष्टव्यः। किं त्वयाऽनुभूयमानस्यैकस्यैव प्रत्यक्षस्य मानत्वम्, उत सर्वस्यापि प्रत्यक्षस्य? आद्ये दोषमाह प्रत्यक्षस्यैवेति। इतरेषामपि प्रत्यक्षाणां तत्तुल्यसामग्रीजन्यत्वे सत्येकस्यैव प्रत्यक्षस्य मानत्वमिति केनावसीयते? द्वितीये दोषमाह प्रत्यक्षस्यैवेति। प्रत्यक्षस्य मानत्वमेव, सर्वमपि प्रत्यक्षं प्रमाणमिति केनावसीयते? अनुभूयमानप्रत्यक्षादन्यस्य प्रत्यक्षस्य, तत्प्रामाण्यस्य चावसायकं न किमपीत्यर्थः।
परकीयवचनेन, चेष्टया वा प्रत्यक्षमवगम्य प्रत्यक्षत्वेन तस्य प्रामाण्यमवगम्यत इत्यत आह यदीति। प्रत्यक्षस्य तत्प्रामाण्यस्य च साधकं वचनमनुमानं च यदि प्रमाणमिष्यते तर्हि वेदादिप्रामाण्ये कथं न भवेत्? अभ्युपगम इति शेषः।
एवमनुमानागमाप्रामाण्यं प्रत्यपि विकल्पः। आद्यस्तु पूर्ववन्निरस्तः। अपसिद्धान्तश्चाधिकः। द्वितीयं दूषयति नचेति। अन्ययोः परपुरुषादिवर्तिनोरनुमानागमयोरमानता। पूर्ववदाश्रयाद्यसिद्धेः। तत्साधकाङ्गीकारे च व्याघातादिति भावः।
नन्वर्थसन्निकृष्टकरणजन्यत्वात् प्रत्यक्षं प्रमाणम्। अनुमानागमयोरतीतादिकमपि विषयीकुर्वतोः तदभावात् कथं प्रामाण्यमिति। किं याथार्थ्यमेव प्रामाण्यम्, तन्नियामकश्च सन्निकर्षः, अन्यथाऽतिप्रसङ्गादित्यभिप्रायः, उत विषयसन्निकृष्टकरणजन्यत्वं प्रामाण्यमिति।
आद्येऽपि किं यथाकथञ्चित् सन्निकर्षो नियामकः, उत संयोग एव? आद्यं दूषयति नचेति। एवन्तर्ह्यन्ययोरनुमानागमयोरमानता नास्ति। अविनाभावादिसन्निकर्षस्य तत्रापि सत्त्वादिति भावः। द्वितीये दोषमाह क्वापीति। क्वापि प्रमाणे चाक्षुषे श्रावणे च। नावसीयते नाभ्युपगम्यतेऽर्थसंयुक्तकरणजन्यता। परेण गोलकातिरिक्तस्य चक्षुरादेरनभ्युपगमात्। तदात्मकस्य चार्थसंयोगाभावात्। ततः प्रत्यक्षस्यापि कस्यचित् प्रामाण्यं न स्यादिति।
द्वितीयं दूषयति नचेति। याथार्थ्यादन्या अर्थसन्निकृष्टकरणजन्यतालक्षणा मानता न वक्तव्या। कुत इत्यत आह क्वापीति। पूर्ववच्चाक्षुषादावव्याप्तेरिति भावः। उपलक्षणं चैतत्। विपर्ययादावतिव्याप्तिश्चेत्यपि द्रष्टव्यम्।
याथार्थ्ये सतीदं लक्षणमिति चेत्, तर्हि तदेवास्तु किं विशेष्येण? अनुमानादिव्यावृत्त्यर्थमिति चेत्, न। तदप्रामाण्यस्याद्याप्यसिद्धेरित्याह नचेति।
ननु वेदाद्यर्थस्यानुपलम्भबाधितत्वात् कथं तत्प्रामाण्यमिति चेत्, न। वेदादिनैवोपलब्धेः। तदन्येन नोपलभ्यत इति चेत्। तत् किं प्रमाणान्तरसंवादित्वं प्रामाण्यम्? अद्धेति चेत्, तत्राऽह नचेति। प्रमाणान्तरसंवादलक्षणा मानता नेत्यर्थः।
कुतो नेत्यत आह क्वापीति। अनवस्थाप्रसङ्गात् क्वापि प्रमाणे नावसीयते यतः। यद्वा क्वापि स्वसुखादिज्ञाने प्रमाणसंवाद एव नावसीयत इति योज्यमित्यलम्।
॥ चार्वाकमतस्य प्रेक्षावदनुपादेयत्वम्॥
सूत्रार्थमुपसंहरति स्वमतेनेति।
स्वमतेनार्थरहित उपेक्ष्यः पक्ष ईदृशः॥४४॥
 स्वसम्मत्यैवार्थरहितो विषयप्रयोजनरहितः। ईदृशः ईश्वराद्यतीन्द्रियानभ्युपगमलक्षणः॥*॥ इत्यभ्युपगमाधिकरणम्॥३॥
अथ पुरुषाश्माधिकरणम्॥४॥
॥ निरीश्वरसाङ्ख्यैकदेशिमतानुवादः, सूत्रक्रमे निमित्तोक्तिः॥
पुरुषाश्मवदिति चेत् तथाऽपि। अत्रानीश्वरसाङ्ख्यैकदेशिनां पुरुषोपसर्जनप्रकृतिकर्तृकत्ववादिनां मतमपाक्रियते। नन्वेवन्तर्हि तदनन्तरमेवेदमारम्भणीयम्। सत्यम्। तथाऽप्यभ्यधिकाशङ्कानुसारेणेयमुक्तिः।
तथाहि परमचेतनस्य भगवत एव सर्वकर्तृत्वं प्रागुक्तम्। तस्य केवलप्रकृतिकर्तृकत्ववादः साक्षाद् विरोधीति प्रथममपाकृतः। तत्र मा भूत् केवलस्याचेतनस्य प्रधानस्य जगत्कर्तृत्वम्, ईश्वरानुगृहीतस्य तु भविष्यतीत्याशङ्का द्वितीयाधिकरणे निराकृता। मा भूदचेतनस्य कर्तृत्वम्, किन्तु शरीरस्यैव चैतन्याश्रयस्य कर्तृत्वमस्त्वित्याशय शरीरस्य चैतन्याश्रयतायोगात् पुनस्तदवस्थः कर्तृत्वायोग इति तृतीयेऽभिहितम्। इदानीं तु केवलस्याचेतनस्य कर्तृत्वायोगेऽपि चेतनसन्निधानेन तदुपपत्तेः किमीश्वरेणेत्येषा शङ्का निराक्रियते। तन्मतरीतिः सूत्र एवोक्तेति तदेव व्याचष्टे सन्निधानादिति।
॥ चेतनाधिष्ठितशरीरस्य अश्मानयनादिकर्तृत्ववत् पुरुषोपसर्जनप्रकृतेरेव जगत्कारणत्वम्॥
ॐ पुरुषाश्मवदिति चेत् तथाऽपि ॐ॥७॥
सन्निधानाच्चेतनस्य वर्तते यद्यचेतनम्।
तथाऽप्यबुद्धिपूर्वत्वादुक्तदोषः समो भवेत्॥४५॥
यथा खल्वचेतनमेव शरीरं चेतनस्याऽत्मनः सन्निधानमात्रेण अश्मानयनादिकं करोति। एवमचेतनाऽपि प्रकृतिः पुरुषसन्निधानान्महदादिकार्यं करिष्यति। तथाच प्रयोगः महदादिकं पुरुषोपसर्जनप्रकृतिकर्तृकम्, कार्यत्वात्; अश्मानयनादिवदिति। एवञ्च किमीश्वरेणेति शङ्कार्थः।
॥ चेतनाधिष्ठितशरीरे ज्ञानेच्छाप्रयत्नवत्त्वरूपकर्तृत्वाभवेन दृष्टान्तस्य साध्यवैकल्यम्॥
यद्यप्येवमभ्यधिकमाशङ्कितम्, तथाऽपि “रचनानुपपत्तेः” इत्युक्तदोषः समो भवेत्, न परिहृतो भवेत्। कुतः? अबुद्धिपूर्वत्वात्। प्रकृतेरिति शेषः। बुद्धिः पूर्वा यस्य तद् बुद्धिपूर्वम्। ज्ञानेच्छाप्रयत्ना इत्यर्थः। न विद्यते बुद्धिपूर्वं यस्य तत् तथोक्तम्, तस्य भावस्तत्त्वम्, तस्मात्।
एतदुक्तं भवति ज्ञानेच्छाप्रयत्नवत्त्वं हि कर्तृत्वम्। नच पुरुषसन्निधानेऽपि न प्रकृतेर्बुद्धिमत्त्वं सम्भवति। अचेतनत्वाङ्गीकारविरोधात्। नच बुद्ध्यभावे तत्कार्ययोरिच्छाप्रयत्नयोरपि सम्भवः। तथाचाचेतनस्य कर्तृत्वप्रतिज्ञा व्याहतैवेति। नन्वात्मोपसर्जनस्य शरीरस्याश्मानयनादिकर्तृत्वं निदर्शितम्। तत् कथमेतदिति चेत्, न। शरीरस्याप्युक्तरीत्या कर्तृत्वासम्मतेः।
॥ चेतनस्य शरीरोपसर्जनाताया अनुभवविरुद्धत्वम्॥
दूषणान्तरं च दृष्टान्ते दर्शयितुं सूत्रम् “अङ्गित्वानुपपत्ते” इति। तद् व्याचष्टे अङ्गित्वमिति।
ॐ अङ्गित्वानुपपत्तेः ॐ॥८॥
अङ्गित्वं पुरुषस्यैव सर्वैरेवानुभूयते।
तदङ्गत्वोक्तितश्चैव स्यात् सर्वस्यापलापकः।
किमु सर्वेश्वरस्यास्य ह्यपलापाद् यतोऽखिलम्॥४६॥
चशब्दो दूषणान्तरसमुच्चयार्थः। एवशब्दो वक्ष्यमाणकैमुत्यस्फुटीकरणार्थः। अङ्गित्वं प्रधानत्वं शरीरं प्रतीति शेषः। तदङ्गत्वोक्तितः तस्योपसर्जनत्वाङ्गीकारात्। स्यात् साङ्ख्य इति शेषः।
॥ अनुपचरितस्य ईश्वरकर्तृत्वस्यापलापे सर्वप्रमाणविरोधः॥
नन्वेतत् प्रकृतविरुद्धम्। परमेश्वरस्य हि सर्वकर्तृत्वमुपपादयितुमयमारम्भः। तथाचाश्मानयनादिकार्ये जीवस्य प्राधान्योपपादनं कथं न प्रकरणविरुद्धमिति चेत्, न। जीवगतस्यामुख्यस्य कर्तृत्वस्य निरास एव यदा प्रमाणविरोधः, तदा किमु वक्तव्यं सर्वकर्तुरीश्वरस्यापलाप इत्येतत्प्रदर्शनायैव सूत्रकृता जीवस्याङ्गित्वोपपादनादित्याशयवानाह किम्विति। अस्य सर्वकर्तृत्वेन प्रतिपिपादयिषितस्य। उत्तरसूत्रे चास्याङ्गीकारवादत्वं स्फुटीभविष्यतीति हिशब्देन सूचयति।
कथं जीवस्य प्राधान्यनिरासादप्यतिशयेनेश्वरनिरासः प्रमाणविरुद्ध इत्यत आह यत इति। यतः कारणादखिलं प्रमाणं योगिप्रत्यक्षानुमानागमात्मकं सर्वकर्तारमीश्वरं प्रतिपादयति, तस्मादिति पूर्वेण सम्बन्धः॥*॥ इति पुरुषाश्माधिकरणम्॥४॥
अथान्यथाऽनुमित्यधिकरणम्॥५॥
॥ निरीश्वराङ्ख्यानां प्रकृतिगुणकजीवकर्तृत्ववादनिरासः॥
अन्यथाऽनुमितौ च ज्ञशक्तिवियोगात्। प्रकृत्युपसर्जनपुरुषकर्तृत्ववादिनां निरीश्वरसाङ्ख्यैकदेशिनां मतमत्र निराक्रियते।
तथाहि अश्मानयनादिप्रवृत्तौ तावत् पुरुषस्य प्राधान्यं शरीरस्य चोपसर्जनत्वमनुभवसिद्धमित्युक्तम्। तथाच तद्दृष्टान्तेन महदादिकार्यमपि प्रकृत्युपसर्जनपुरुषकर्तृकमनुमीयते। पुरुषस्य च चेतनत्वेन न कर्तृत्वानुपपत्तिः। सुषुप्त्यादौ च कर्तृत्वानुपलम्भात् प्रकृतिरुपसर्जनभूताऽङ्गीकरणीया। एवञ्च किमीश्वरेणेति।
॥ जीवस्य प्राधान्येन कर्तृत्वाङ्गीकारेऽपि प्रकृतिप्रेरकत्वेन स्वतन्त्रेश्वराभ्युपगमप्रसङ्गः॥
अत्र वक्तव्यम् किं पुरुषस्यैकाकिनः कुत्रापि स्वातन्त्र्यं नास्ति, उतास्तीति। आद्यं दूषयितुं सूत्रं व्याचष्टे अङ्गित्वमिति।
ॐ अन्यथाऽनुमितौ च ज्ञशक्तिवियोगात् ॐ॥९॥
अङ्गित्वं यदि तस्यैव स्वातन्त्र्यं चेन्नचाखिलम्।
तत्प्रेरणेऽप्यशक्तत्वात् स्वतन्त्रोऽन्यो ह्यपेक्षितः॥४७॥
यदि पुरुषस्यैवाङ्गित्वं प्राधान्यम्, कर्तृत्वमिति यावत्। प्रकृतेस्तूपसर्जनत्वमेवेति पूर्वमतादन्यथाऽनुमीयते। तत्रापि च पुरुषस्याखिलं स्वातन्त्र्यं नास्तीति पक्षो यद्यङ्गीक्रियते, तदा स्वतन्त्रोऽन्यः परमेश्वरोऽङ्गीकरणीय एव स्यात्। कुतः? प्रकृतिप्रेरणे पुरुषस्याशक्तत्वात्। मा भूत् तावत् कार्यान्तरार्थमीश्वरापेक्षा। तथाऽपि प्रकृतिप्रेरणार्थमपेक्षणीय एवासावित्यपेरर्थः।
एतदुक्तं भवति न तावत् सत्तामात्रेण, संयोगमात्रेण वा प्रधानस्य कर्तारं पुरुषं प्रत्युपसर्जनत्वम्। सुप्तिप्रलयादावपि प्रसङ्गात्। किन्तु करणत्वादिना। नच कर्त्राऽप्रयुज्यमानस्य करणत्वादिकं दृष्टम्। नच तदेव तत्प्रेरणे करणादि। स्ववृत्तिविरोधात्। तथाच प्रकृतिनिरपेक्षस्य पुरुषस्य क्वापि व्यापारासामार्थ्येऽवश्यमन्येन सहकारिणा भाव्यम्। नचासावप्येवंविध एव। तस्यापि सहकार्यन्तरापेक्षायामनवस्थाप्रसङ्गात्। अतः स्वतन्त्र एवासावङ्गीकरणीयः। स एव चेश्वर इति कथमसौ नाभ्युपगम्यत इति।
॥ चेतनस्यैव स्वातन्त्र्याङ्गीकारे अपसिद्धान्तः, सर्वप्रमाणविरोधश्च॥
द्वितीयं निषेधति नचेति।
ॐ विप्रतिषेधाच्चासमञ्जसम् ॐ॥१०॥
नच स्वातन्त्र्यमस्यैव प्रत्यक्षादिविरोधतः।
हिताक्रियादिदोषाच्च भद्रं नानीश्वरं मतम्॥४८॥
तथासति प्रकृत्यनपेक्षत्वप्रसङ्गेन अस्य स्वसिद्धान्तविरोधापत्तेरिति भावः। अनेन “विप्रतिषेधाच्च” इति सूत्रं व्याख्यातं भवति।
सूत्रस्यार्थान्तरमाह प्रत्यक्षादीति। प्रत्यक्षादिप्रमाणैर्हि पुरुषस्यास्वातन्त्र्यं सर्वदा उपलभ्यते। प्रकारान्तरेण व्याचष्टे हितेति। आदिपदेनाहितक्रियोपादियते।
एवं पञ्चमतानि निराकृत्योपसंहरति भद्रमिति। पातञ्जलाभिमतस्येश्वरस्येश्वरलक्षणाभावात् तदप्यनीश्वरमेव मतमिति।
॥ भिन्नकसंसारमोचकाद्यनीश्वरमतानामुक्तदूषणैरेव निरस्तत्वम्॥
नन्वन्यान्यपि भिन्नकसंसारमोचकादीन्यनीश्वराणि मतानि सन्ति। तानि कुतो न निराक्रियन्ते? उक्तदोषैरेव निरस्तत्वादभ्यधिकाशङ्काभावाच्चेत्याह संसारिण इति।
संसारिणोऽन्यं सर्वेशं सर्वशक्तिमनौपमम्।
चेतनाचेतनस्यास्य सत्त्वादेस्तदधीनताम्।
नाङ्गीकुर्वन्ति ये तेषां सर्वेषां च समा इमे॥४९॥
संसारिपदमीश्वरातिरिक्तोपलक्षणम्। सर्वेशमिति विशेष्यपदम्। तेन न पौनरुक्त्यम्। उपमैवौपमम्। स्वार्थिकोऽण्। नास्त्यौपमं यस्यासावनौपमः। यद्वोपमाया अयमौपमः। सोपम इति यावत्। ततो नञ्समासः। अस्य प्रपञ्चस्य। इमे कथिता दोषा इति शेषः। न केवलं सर्वेशं स्वरूपेणानङ्गीकुर्वतामिमे दोषाः। किन्तु तमङ्गीकृत्यापि जीवाद्यन्यत्वादिविशेषणानि तस्यानङ्गीकुर्वतामपि। तथात्वे फलतस्तस्यानीश्वरत्वादिति।
॥ श्रुतिभिरुपपत्तिभिश्च विष्णोरेव जदज्जन्मादिकर्तृत्वसिद्धिः॥
किमतो यद्येवमनीश्वरमतमसमञ्जसमित्यत आह तस्मादिति।
तस्माच्च्छ्रुतिप्रमाणेन युक्तिभिश्च परो हरिः।
अङ्गीकार्यतमो नित्यः सर्वैरपि सुनिश्चितम्॥५०॥
न परपक्षनिरासमात्रेण स्वपक्षसिद्धिरित्यतः श्रुतिप्रमाणेनेत्याद्युक्तम्। पर उत्कृष्ट उक्तविशेषणोपपन्नः। नित्य इति सामर्थ्यादङ्गीकारस्य विशेषणम्। सर्वदेति यावत्। निश्चयस्य स्वपरपक्षसाधनोपालम्भातिरिक्तानपेक्षत्वात्, प्रामाणिकनिश्चयस्य चासमीचीनत्वायोगात् सुनिश्चितमित्युक्तम्। प्रथमाध्यायव्युत्पादितेन स्वपक्षसाधनेन, अत्र व्युत्पादितेन परपक्षोपालम्भेन च यथालक्षितं ब्रह्म सिद्धमित्याशयः।
॥ उक्तदूषणैरेवान्यमतानां निरस्तप्रायत्वेऽपि दूषाणान्तरव्युत्पादनायोत्तरग्रन्थः ॥
नन्वेवन्तर्हि उत्तराधिकरणानामनारम्भ एव। निराकरिष्यमाणैरप्युक्तविशेषणस्येश्वरस्यानभ्युपगतत्वादिति चेत्। सत्यम्। तथाऽपि तन्मतानामत्यन्तहेयताप्रदर्शनाय दूषणान्तराणि व्युत्पादयितुमुत्तरो ग्रन्थः॥*॥ इत्यन्यथाऽनुमित्यधिकरणम्॥५॥
अथ वैशेषिकाधिकरणम्॥६॥
॥ वैशेषिकमते ईश्वरधर्माणां सृष्ट्यादिप्रक्रियाणां चान्यथा निरूपणात्
तन्निरासार्थमधिकरणारम्भः॥
महद्दीर्घवद् वा ह्रस्वपरिमाण्डलाभ्याम्। अत्र परमाण्वारम्भवादिनां वैशेषिकादीनां मतमपाक्रियते। ननु वैशेषिकादयः परमेश्वरमङ्गीकुर्वन्त्येव। तत् कथं तन्निरासायाधिकरणारम्भ इत्याशय, यद्यपीश्वरं स्वरूपेणाङ्गीकुर्वन्ति, तथाऽपि तद्धर्मेषु सुखादिषु विप्रतिपद्यन्त एव, तथा सृष्टिप्रलयादिविधिं चान्यथा मन्यन्त इत्यतो युक्तस्तन्निरासायाधिकरणारम्भ इत्याशयवांस्तन्मतमुपन्यस्यति नित्येति।
॥ ईश्वरस्य सङ्ख्यापरिमाणपृथक्त्वसंयोगविभागज्ञानइच्छाप्रयत्नलक्षणाष्टगुणत्वम्॥
नित्यज्ञानप्रयत्नेच्छं सङ्ख्याद्यैरपि पञ्चभिः।
युक्तमीशं वदन्तोऽन्ये.....................।
ईशं वदन्तोऽन्ये इत्याहुरिति वक्ष्यमाणेनान्वयः। नित्या ज्ञानप्रयत्नेच्छा यस्यासौ तथोक्तः। सङ्ख्याद्यैः सङ्ख्यापरिमाणपृथक्त्वसंयोगविभागैः। सावधारणं चैतत्। एवमष्टगुणकमेव वदन्त इति। नित्यद्रव्याश्रितान्येकत्वैकपृथक्त्वपरिमाणानि नित्यान्येव, द्वित्वद्विपृथक्त्वादीनि संयोगविभागौ च सर्वत्रानित्या एवेति सिद्धत्वात् सङ्ख्यादौ विद्यमानोऽपि नित्यानित्यत्वविभागो नाभिहितः। ज्ञानादीनां तु जीवाश्रितानामनित्यत्वादत्र नित्यत्वसङ्कीर्तनम्।
यद्यपि केचिदीश्वरं षुणमाचक्षते, तथाऽपि न तत् परमं मतमित्यष्टगुणत्वमेवोपन्यस्तम्। एवमात्रेयस्य ज्ञानानित्यत्वमपि नोपन्यस्तम्।
यद्वा नित्यत्वसङ्कीर्तनं गुणान्तराभावे युक्तित्वेन कृतम्। तथाहि जीवात्मानो बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मभावनाभिर्नवभिर्विशेषगुणैर्युक्ताः। तत्र नित्ययथार्थज्ञानस्य मोहाभावात् तत्प्रभवस्य द्वेषस्याभावः। तदभावे तन्मूलयोर्धर्माधर्मयोरभावः। इच्छाया अपि मोहाभावेनारागरूपत्वात्, न धर्मादिकारणत्वम्। धर्माद्यभावे च तत्कार्ययोः सुखदुःखयोरभाव एव। नित्यज्ञानत्वादेव स्मृत्यसम्भवेन कल्पकाभावाद् भावनाया अप्यभाव इति। अथवा नित्यत्वेन ज्ञानादीनामखण्डत्वं सूचयति।
॥ परमाण्वारम्भवादः॥
एवमीश्वरविषयां विप्रतिपत्तिमुपन्यस्य सृष्टिविषयामुपन्यस्यति तदिच्छेति।
..................... तदिच्छादृष्टचोदिताः।
परमाणवश्चतुर्वर्गाः संयुज्यन्ते द्विशोऽखिलाः॥५१॥
परमाणुद्वयेनैव द्व्यणुकं नाम जायते।
द्व्यणुकत्रयेण त्र्यणुकं तैश्चतुर्भिस्तदात्मकम्॥५२॥
ततस्त्वनियमेनैव खण्डावयविनां भवः।
ततश्चानियमेनैव सर्वावयविसम्भवः॥५३॥
महाप्रलये हि वक्ष्यमाणो नित्यर्वर्गोऽनित्याश्च धर्माधर्मसंस्कारादयोऽवतिष्ठन्ते। ततो ब्रह्मवर्षशतान्ते प्राणिनां भोगभूतये महेश्वरस्य सिसृक्षा सञ्जायते। तया च सर्वात्मगता धर्माधर्मलक्षणादृष्टादयो लब्धवृत्तयो भवन्ति। ततस्तदिच्छया सिसृक्षालक्षणेश्वरेच्छयाऽदृष्टैरदृष्टवदात्मसंयोगैश्चेति यावत्। चोदिताः प्रेरिताः। क्रियावन्त इति यावत्।
प्राक् प्रविभक्ततयाऽवस्थिताः परमाणवश्चतुर्वर्गाः पार्थिवाः, पाथसीयाः, तैजसाः, वायवीयाश्च द्विशः संयुज्यन्ते। अत्र परमाणव इत्येवोक्ते मनसामपि ग्रहणं स्यात्। तेषां संयोगसद्भावेऽपि वक्ष्यमाणं द्रव्यारम्भकत्वं गगनवदस्पर्शवत्त्वादयुक्तम्। अतस्तद्व्यावृत्तये चतुर्वर्गा इत्युक्तम्। यद्वा सजातीयसंयोग एव द्रव्यारम्भको नत्वन्य इत्यनेन सूचयति। अखिला इतिद्विशः संयोगे नियमवचनम्। ये परमाणवो दव्यारम्भाय संयुज्यन्ते तेऽखिला द्विशो द्वौद्वौ एवेति।
ततः किमित्यत आह परमाण्विति। परमाणुपुञ्जवादम्, परिणामवादम्, अनियमवादं चैवशब्देन व्यावर्तयति। परमाणुद्वयेनैव, नतु निरन्तरतयोत्पन्नपरमाणुद्वयम्, नापि परमाणुद्वयमेव संयुक्तमासादितपरिणामविशेषम्, नच त्रयादिनेति। जायते इत्यसत्कार्यवादं सूचयति। जात्यपेक्षयैकवचनम्। ततश्च संयुक्तसजातीयपरमाणुद्वयैस्ततोऽत्यन्तभिन्नानि तत्समवेतानि प्रागसन्त्येव द्व्यणुकनामकानि द्रव्याण्युत्पद्यन्त इत्यर्थः।
द्व्यणुकत्रयेण त्र्यणुकम्। जायत इत्यनुवर्तते। एवेति च। अत्रापि पूर्ववद् व्याख्यानम्। अणुत्वपरिमाणस्य परमाणौ द्व्यणुके च साम्याद् द्व्यणुकसञ्ज्ञावत् त्र्यणुकसञ्ज्ञाऽप्युपपद्यत एव। तैः सजातीयैः संयुक्तैश्चतुर्भिस्त्र्यणुकैस्तदात्मकं चतुरणुकात्मकं द्रव्यं जायते। त्र्यणुकेष्वणुसञ्ज्ञोपचारात्।
केचिद् द्व्यणुकैरेव चतुरणुकारम्भमभ्युपयन्ति। तन्मतानुसारेण तैद्वर्यणुकैरिति व्याख्येयम्। द्व्यणुकानि त्रीणि द्रव्यं यत् कार्यमारभन्ते तत् त्र्यणुकम्। चतुर्भिरारब्धं चतुरणुकमिति। अत्रच सञ्ज्ञा मुख्यैव। ततः त्र्यणुकेभ्यश्चतुरणुकेभ्यो वा। तुशब्दो विशेषार्थः। तमेवाऽह अनियमेनैव। एतावद्भिरेवेति सङ्ख्यानियमं विनेत्यर्थः। द्रव्यसमवायिकारणानि कार्यद्रव्याणि खण्डावयविनः। त्र्यणुकादेरन्त्यावयविनश्च मध्ये नैकमेव खण्डावयवि, किन्तु अनियमेनानेकान्यपि भवन्तीति सूचयितुं बहुवचनम्। ततस्तैः खण्डावयविभिश्चानियमेनैव सङ्ख्यानियमं विनैव सर्वावयविनामन्त्यावयविनां शरीरेन्द्रियविषयाणां सम्भवः। तदनेन द्रव्योत्पत्तिरभिहिता। गुणानां कर्मणां च स्वाश्रयद्रव्येषूत्पादो द्रष्टव्यः।
॥ समवायिकारणनिरूपणम्॥
सर्वमपि कार्यं भावरूपं कारणत्रितयजन्यम्। कारणानि च समवाय्यसमवायिनिमित्तनामानि। तत्र यत्समवेतं कार्यमुत्पद्यते तत् समवायिकारणम्। तत् स्वरूपेण दर्शयति कारणमिति।
कारणं समवाय्याख्यं परमाण्वादिरत्र हि।
अत्र द्व्यणुकादिकार्योत्पत्तौ परमाण्वादिद्रव्यपदार्थः समवायिकाणम्। कुतः? अत्र परमाण्वादौ द्रव्ये हि यस्मात् सर्वकार्यं समवेतमुत्पद्यते तस्मादिति शेषः।
॥ निमित्तकारणनिरूपणम्॥
समवाय्यसमवायिव्यतिरिक्तं कारणं निमित्तम्। तदुदाहरति ईशेति।
ईशेच्छादृष्टकालास्तु निमित्तं कारणं मतम्॥५४॥
निमित्तं त्वित्यन्वयः। इदं च सर्वकार्यसाधारणं निमित्तं दर्शितम्। एवमन्यदपि द्रष्टव्यम्। यथा तुरीवेमादिकं पटस्येत्यादि।
॥ असमवायिकारणलक्षणम्, शृङ्गग्राहिकया तत्प्रदर्शनार्थं पदार्थेषु कार्याकार्यविभागनिरूपणम्॥
समवायिकारणप्रत्यासन्नमवधृतसामर्थ्यमसमवायिकारणम्। समवयिकारणतत्समवायिकारणयोरन्यतरसमवेतत्वं समवायिकारणप्रत्यासन्नत्वम्। सामर्थ्यावधारणं चानन्यथासिद्धनियतपूर्वभावित्वेन भवति। तच्चासमवायिकारणं द्रव्यं समवायिकारणमितिवन्नैकोक्त्या वक्तुं शक्यम्। प्रतिकार्यं पृथक्त्वात्। अतस्तद् विवेकेन दर्शयितुं तज्ज्ञानस्य कार्यज्ञानसापेक्षत्वात् कार्याकार्यविभागं तावदाह सामान्येति।
सामान्यान्त्यविशेषौ च समवायश्च तत् त्रयम्।
नित्यं क्रिया अनित्याश्च गुणद्रव्ये द्विरूपके॥५५॥
कार्यत्वानित्यत्वयोः समनियमान्नित्यानित्यविभागोक्त्या कार्याकार्यविभाग एव सिद्ध्यति।
॥ द्रव्यगुणकर्मसामान्यविशेषसमवायानां लक्षणानि
तत्र सामान्यविशेषसमवायानां नित्यत्वम्॥
षडिमे द्रव्यगुणकर्मसामान्यविशेषसमवाया भावरूपाः पदार्थाः। अभावः सप्तमः। विधिरूपो भावः। निषेधरूपोऽभावः। गुणाश्रयो द्रव्यम्। समवायिकारणं वा। सामान्यवान्, असमवायिकारणम्, अस्पन्दात्मा गुणः। चलनात्मकं कर्म। नित्यम्, एकम्, अनेकसमवेतं सामान्यम्। नित्येष्वेव द्रव्येष्वेव वर्तन्त एव ये ते विशेषाः। अत्यन्तव्यावृत्तिहेतवो वा। अयुतसिद्धयोः सम्बन्धः समवायः। अवश्यमाश्रयाश्रयिभावेनावस्थितावयुतसिद्धौ। नित्यः सम्बन्धो वा। तत्र सामान्यमन्त्यविशेषश्च समवायश्चेत्यतत्त्रयं नित्यम्, अकार्यं च।
॥ द्रव्यगुणकर्मअपरसामान्यानामपि विशेषत्वात्
तद्व्यावृत्तये विशेषस्यान्त्यत्वेन विशेषणम्॥
विशेष इत्येवोक्ते द्रव्यगुणकर्मसामान्यानामपि ग्रहणं स्यात्। विशिष्यतेऽनेनेति हि विशेषः। द्रव्यं च दण्डादिकमदण्ड्यादिभ्यो देवदत्तादिकं व्यावर्तयति। गुणश्च निर्गुणाद् द्रव्यम्। कर्मापि निष्क्रियान्मूर्तम्। सामान्यं द्विविधम् परम्, अपरं च। परं सत्ता, प्रचुराश्रयत्वात्। अपरं द्रव्यत्वादि, अल्पाश्रयत्वात्। तत्र परसामान्यस्यानुवृत्तिमात्रहेतुत्वेन सामान्यमात्रत्वेऽप्यपरसामान्यं व्यावृत्तेरपि हेतुत्वाद् विशेषोऽपि भवति। अतस्तद्व्यावृत्त्यर्थमन्त्येत्युक्तम्। अन्त्ये द्रव्यादिव्यावर्तकानामभावेऽपि ये व्यावर्तका भवन्ति तेऽन्त्याः। अत्यन्तव्यावृत्तिहेतव इति यावत्। नहि दण्डादिकं तथा। दण्ड्यन्तरादिभ्योऽव्यावर्तकत्वात्।
॥ क्रिया अनित्याः॥
क्रिया उत्क्षेपणापक्षेपणाकुञ्चनप्रसरणगमनरूपा अनित्याश्च। चशब्दोऽवधारणे। न द्रव्यादिवदुभयरूपा इत्यर्थः।
॥ द्रव्येषु नित्यानित्यविभागः॥
गुणा द्रव्याणि च नित्यानित्यभेदेन द्विविधानीति। तथाहि द्रव्याणि पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि। तत्र परमाणुरूपाणि पृथिव्यादीनि चत्वारि, गगनादीनि पञ्च नित्यानि। द्व्यणुकादिरूपाणि पृथिव्यादीनि चत्वार्यनित्यानीति।
॥ गुणेषु नित्यानित्यविभागः॥
गुणाश्चानित्यद्रव्यगता अनित्या एव।
पार्थिवपरमाणौ एकत्वैकपृथक्त्वपरिमाणगुरुत्वानि नित्यानि। रूपरसगन्धस्पर्शानेकत्वानेकपृथक्त्वसंयोगविभागपरत्वापरत्वसंस्कारा अनित्याः।
आप्ये च रूपरसस्पर्शैकत्वैकपृथक्त्वपरिमाणगुरुत्वद्रवत्वस्नेहा नित्याः। अनेकत्वानेकपृथक्त्वसंयोगविभागपरत्वापरत्वसंस्कारा अनित्याः।
तैजसे च रूपस्पर्शैकत्वैकपृथक्त्वपरिमाणानि नित्यानि। अनेकत्वानेकपृथक्त्वसंयोगविभागपरत्वापरत्वद्रवत्वसंस्कारा अनित्याः।
वायवीये च स्पर्शैकत्वैकपृथक्त्वपरिमाणानि नित्यानि। अनेकत्वानेकपृथक्त्वसंयोगविभागपरत्वापरत्वसंस्कारा अनित्याः।
आकाशे चैकत्वैकपृथक्त्वपरिमाणानि नित्यानि। अनेकत्वानेकपृथक्त्वसंयोगविभागशब्दा अनित्याः।
आत्मनि चैकत्वैकपृथक्त्वपरिमाणानि नित्यानि। अनेकत्वानेकपृथक्त्वसंयोगविभागा बुद्ध्यादयश्च नव अनित्याः। ईश्वरात्मनि विशेषोऽभिहितः। (६५७)
मनसि चैकत्वैकपृथक्त्वपरिमाणानि नित्यानि। अनेकत्वानेकपृथक्त्वसंयोगविभागपरत्वापरत्वसंस्कारा अनित्या इति विवेकः।
॥ शृङ्गग्राहिकया असमवायिकारणप्रदर्शनम्॥
एवं कार्याकार्यविभागमुक्त्वा यस्य यदसमवायिकारणं तदाह कार्य इति।
कार्ये गुणक्रियाणां तु समवाय्यन्यकारणम्।
कारणस्था गुणाद्यास्तु संयोगो द्रव्यकारणम्॥५६॥
कार्यकारणग्रहणमुपलक्षणम्। ततश्च कार्येऽकार्ये च द्रव्ये जायमानानां गुणानां समवायिकारणसमवायिकारणस्थाः, समवायिकारणस्थाश्च गुणाः, समवायिकारणस्थं कर्म च समवाय्यन्यकारणं असमवायिकारणम्। कर्मणश्च समवायिकारणस्था गुणा एवासमवायिकारणमिति योज्यम्। आद्यस्तुशब्दो द्रव्याद् विशेषं द्योतयति। द्वितीयस्य द्रव्यकारणं त्वित्यन्वयः। यद्वा द्वावप्यनुक्तसमुच्चयार्थौ। तच्चोक्तम्। तथाहि कार्यगतानां रूपरसगन्धस्पर्शपरिमाणैकत्वैकपृथक्त्वोत्तरसंयोगविभागगुरुत्वद्रव्यत्वस्नेहवेगानां कारणगता रूपादयोऽसमवायिकारणम्। पार्थिवपरमाणुगतानां रूपरसगन्धस्पर्शानां पार्थिवतैजसपरमाणुगतद्रवत्वस्य तद्गत एव तेजःसंयोगः। सर्वत्रानेकत्वानेकपृथक्त्वयोराश्रयगतैकत्वैकपृथक्त्वानि। संयोगविभागवेगानामाश्रयगतं कर्म। परत्वापरत्वयोराश्रयगतौ दिक्कालसंयोगौ। आत्मविशेषगुणानामात्मगतो मनःसंयोगः। शब्दस्याऽकाशगताः संयोगविभागशब्दाः। कर्मणश्च आश्रयगता गुरुत्वद्रवत्ववेगसंयोगा इति। द्रव्यस्य तु समवायिकारणानामवयवानां संयोगोऽसमवायिकारणमिति।
॥ कारणगतपरिमाणस्य कार्यगतं परिमाणं प्रति असमवायिकारणत्वेऽपि
द्व्यणुकगतस्य ह्रस्वत्वस्य अणुत्वस्य च त्र्यणुगकगतं दीर्घत्वं महत्त्वं च प्रत्यसमवायिकारणत्वं नास्ति
तथा, परमाणुगतस्याणुत्वस्य द्व्यणुकगतं अणुत्वं ह्रस्वत्वं च प्रति असमवायिकारणत्वं नास्ति॥
उक्तस्य क्वचिदपवादमाह एवमिति।
एवं स्थितेऽपि सिद्धान्ते विशेषस्तत्र कल्पितः।
द्व्यणुके परमाणौ च ह्रस्वत्वं परिमाण्डलम्॥५७॥
न कारणं कार्यगुणे वैरूप्यं तत्र कारणम्।
इत्याहुः................................॥५८॥
कारणगतं परिमाणं कार्यगतस्य परिमाणस्यासमवायिकारणमित्येवं सामान्यतः सिद्धान्ते स्थितेऽपि, तत्र परिमाणविशेषे विशेषोऽन्यथाभावः कल्पितो वैशेषिकैः। कथमित्यत आह द्व्यणुक इति। चतुर्विधं परिमाणम्। अणुत्वम्, महत्त्वम्, ह्रस्वत्वम्, दीर्घत्वं च।
तत्राणुत्वं द्विविधम् नित्यमनित्यं च। नित्यं चतुर्विधपरमाणौ मनसि च। पारिमाण्डल्यमिति चोच्यते। अनित्यं द्व्यणुक एव।
महत्त्वमपि द्विविधम्, नित्यानित्यभेदात्। नित्यमाकाशकालदिगात्मसु परममहत्त्वम्। अनित्यं त्र्यणुकादौ कार्यद्रव्ये।
ह्रस्वत्वं द्व्यणुक एव। दीर्घत्वं त्र्यणुकादिकार्यद्रव्य एव। केचित् परमाणावपि ह्रस्वत्वम्, गगनादावपि दीर्घत्वमभ्युपयन्ति।
तत्र द्व्यणुके वर्तमानं ह्रस्वत्वम्। उपलक्षणमेतत्, अणुत्वं च। कार्यगुणे द्व्यणुककार्यत्र्यणुकपरिमाणे। विषयसप्तमीयम्। त्र्यणुकमहद्दीर्घत्वयोरसमवायिकारणं न भवति, तथा परमाणौ वर्तमानं परिमण्डलं पारिमाण्डल्यं परमाणुकार्यद्व्यणुकगुणस्य ह्रस्वत्वस्याणुत्वस्य चासमवायिकारणं न भवति। त्र्यणुकादिगतं तु महत्त्वं दीर्घत्वं च चतुरणुकादिपरिमाणं प्रत्यसमवायिकारणं भवत्येवेति।
॥ उक्तस्थलेषु कारणगतपरिमाणानां कार्यगतपरिमाणेभ्यो वैजात्यं कारणत्वाभावकल्पने निमित्तम॥
कस्मादेवं कल्पितमित्यत आह वैरूप्यमिति। तत्र द्व्यणुकपरमाणुपरिमाणानां त्र्यणुकद्व्यणुकपरिमाणानि प्रति कारणात्वाभावे वैरूप्यं विजातीयत्वं कारणम्। सजातीययोरेव हि तन्तुपटपरिमाणयोः कार्यकारणभावो दृष्टः।
तथाच प्रयोगः द्व्यणुकत्र्यणुकपरिमाणे न कार्यकारणभाववती, विजातीयपरिमाणत्वात्; व्यतिरेकेण तन्तुपटपरिमाणवत्। एवं परमाणुद्व्यणुकपरिमाणयोरपि द्रष्टव्यम्।
परमाणोरणुत्वं द्व्यणुकाणुत्वस्य कारणमस्त्विति चेत्, न। तत्रापि नित्यपरिमाणत्वस्य परमाणुत्वस्य च वैरूप्यस्य सत्त्वात्।
॥ परमाणुद्वयगता द्वित्वसङ्ख्या द्व्यणुकगताणुत्वह्रस्वत्वयोरसमवायिकारणम्
   द्व्यणुकत्रयगता त्रित्वसङ्ख्या त्र्यणुकगतमहत्त्वदीर्घत्वयोरसमवायिकारणम्॥
एवं चेद् द्व्यणुकत्र्यणुकपरिमाणानां किमसमवायिकारणमित्यत आह वैरूप्यमिति। अनेकत्वमित्यर्थः। ईश्वरबुद्धिमपेक्ष्योत्पन्ना परमाण्वोर्द्वित्वसङ्ख्या द्व्यणुकेऽणुत्वं ह्रस्वत्वं च करोति। द्व्यणुकेषु चोत्पन्ना त्रित्वसङ्ख्या त्र्यणुके महत्त्वं दीर्घत्वं च करोतीति।
॥ अनूदितवैशेषिकमतनिरासः॥
एवमुपन्यस्तं मतमपाकर्तुमधिकरणसूत्रमवतारयति तानिति।
.......तानथोवाच विद्याधीशः स्वयं प्रभुः॥५८॥
उवाच “महद्दीर्घवद् वा” इत्यादीति शेषः। प्रबलतर्कोपबृंहितमतनिरासे सामर्थ्यं सूत्रकृतः कथमित्यत उक्तम् स्वयं साक्षात् सर्वविद्यानामधीशः, तस्मात् प्रभुरिति।
॥ यथा त्र्यणुकादिगतात् महत्त्वाद् दीर्घत्वाच्च चतुरणुकादीनां महत्त्वं दीर्घत्वं चोत्पद्यते,
तथा द्व्यणुकगताभ्यामणुत्वह्रस्वत्वाभ्यां त्र्यणुकगतमहत्त्वदीर्घत्वे,
परमाणुगतादणुत्वाद् द्व्यणुकगताणुत्वह्रस्वत्वे उत्पद्येताम्।
यदि ह्रस्वत्वाणुत्वयोरकारणत्वम्, तर्हि महत्त्वदीर्घत्वयोरप्यकारणत्वं स्यादिति सूत्रार्थः॥
न वैशेषिकादिमतविरोधेनोक्तार्थस्यान्यथात्वं शङ्कनीयम्। तस्योपपत्तिविरुद्धत्वात्। तथाहि यत्तावदुक्तं द्व्यणुकादिपरिमाणं न त्र्यणुकादिपरिमाणस्यासमवायिकारणमिति, तदुपपत्तिविरुद्धमिति दर्शयन् “महद्दीर्घवद् वा ह्रस्वपरिमण्डलाभ्याम्” इति सूत्रं व्याचष्टे महत्वं चेति।
ॐ महद्दीर्घवद् वा ह्रस्वपरिमण्डलाभ्याम् ॐ॥११॥
महत्त्वं चैव दीर्घत्वं त्र्यणुकाद्येषु कल्पितम्।
तस्माच्च सदृशं कार्यं तत्कार्येषूपजायते॥५९॥
यथा तथैव ह्रस्वत्वात् पारिमाण्डल्यतोऽपि हि।
जायेत सदृशं कार्ये परिमाणं समत्वतः॥६०॥
एवशब्दस्य त्र्यणुकाद्येष्वेवेति कल्पितमेवेति वा सम्बन्धः। त्र्यणुकाद्येषु द्रव्येषु। तस्मात् त्र्यणुकादौ कार्येऽन्त्यावयविव्यतिरिक्ते वर्तमानान्महत्त्वाद् दीर्घत्वात्। चशब्दो वाक्यार्थसमुच्चये। कार्यं परिमाणम्। तत्कार्येषु त्र्यणुकादिकार्येषु चतुरणुकादिषु। तथैवेत्येवशब्देन दृष्टान्तदार्ष्टान्तिकवैषम्यशङ्कामपाकरोति। कार्ये त्र्यणुके द्व्यणुके च समत्वतः कार्यपरिमाणत्वादिसाम्यादिति हेतुवचनम्। हिशब्दो व्याप्तिद्योतकः।
यद्यपि महदादिशब्दा द्रव्यत्ववचनाः, तथाऽपि भावप्रधानत्वात् परिमाणवाचिनोऽपि भवन्तीत्याशयेन महत्त्वमित्याद्युक्तम्। सूत्रकृतश्च भावप्राधान्येनोक्तिः कणादसूत्रानुसारेण। “कारणबहुत्वात् कारणमहत्त्वात् प्रचयविशेषाच्च महत्” इत्यादि हि तत्। महद्दीर्घवदिति षष्ठ्यर्थे वतिः। विभक्तिविपरिणामेन वा सकाशादित्यध्याहारेण वा तस्मादित्युक्तम्।
अत्रैतावदादौ वक्तव्यम्। यथा तस्मात् कार्येषु कार्यमुपजायते तथैव ह्रस्वत्वात् पारिमाण्डल्यतोऽपि कार्ये परिमाणं जायेत, समत्वतो हीति।
॥ द्व्यणुकपरमाणुपरिमाणानामारम्भकत्वप्रतिपादनम्॥
एतदुक्तं भवति त्र्यणुकद्व्यणुकपरिमाणं स्वाश्रयाश्रयसमवायिकारणपरिमाणजम्, कार्यपरिमाणत्वात्; चतुरणुकादिपरिमाणवत्। द्व्यणुकपरमाणुपरिमाणं परिमाणारम्भकम्, द्रव्यसमवायिकारणपरिमाणत्वात्; त्र्यणुकपरिमाणवत्। त्र्यणुकद्व्यणुके वा परिमाणारभ्यपरिमाणवती, कार्यद्रव्यत्वात्; चतुरणुकादिवत्। द्व्यणुकपरमाणू परिमाणासमवायिकरणपरिमाणवन्तौ, द्रव्यसमवायिकारणत्वात्; त्र्यणुकवदिति।
नच विवक्षितार्थासिद्धिः, अन्यथानुपपत्त्या तत्सिद्धेः। नच यत्र केवलेन प्रचयेन परिमाणमारभ्यते तत्र व्यभिचार इति वाच्यम्, तस्यापि पक्षतुल्यत्वात्। नचैवंसति बाधः, प्रचयकारणताया अनिवारणात्। नचोभयकारणत्वकल्पने गौरवदोषः, द्वयोरपि क्लृप्तशक्तित्वात्। द्व्यणुकपरिमाणं त्र्यणुकपरिमाणाजनकम्, परमाणुपरिमाणं च द्व्यणुकपरिमाणाजनकम्, परिमाणत्वात्; पटपरिमाणवदित्यादिना सत्प्रतिपक्षतेति चेत्, न। तत्समवायिकारणपरिमाणत्वाभावस्योपाधित्वात्। त्र्यणुकपरिमाणं चतुरणुकपरिमाणाजनकम्, परिमाणत्वात्; पटपरिमाणवदित्याद्याभाससमानयोगक्षेमत्वाच्च। परमाणुपरिमाणं परिमाणानारम्भकम्, नित्यपरिमाणत्वात्; गगनपरिमाणवदित्यपि न। द्रव्यसमवायिकारणपरिमाणत्वाभावस्योपाधित्वात्। आप्यपरमाणुरूपं रूपानारम्भकम्, नित्यत्वात्; गगनपरिमाणवत्। परमाणवो द्रव्यानारम्भकाः, नित्यत्वात्; गगनवदित्याद्याभासतुल्यत्वाच्च।
एतेन परमाणुद्व्यणुकपरिमाणे परिमाणानारम्भके, अणुत्वात्; मनःपरिमाणवदित्यपि परास्तम्। नचानणुत्वमुपाधिः। वक्ष्यमाणन्यायेन (६६८) परिमाणावान्तरजातेरपाकरणात्। पक्षीकृताद् ह्र्रस्वत्वादव्यावृत्तेश्च।
॥ परिमाणवैजात्यनिरासः, साजात्यसमर्थनं च॥
ननुच त्र्यणुकादिपरिमाणं चतुरणुकादिपरिमाणं च सजातीयमिति युक्तस्तत्र कार्यकारणभावः। द्व्यणुकत्र्यणुकपरिमाणयोस्तु विजातीयत्वात् कथं तथात्वमित्यतो दृष्टान्तदार्ष्टान्तिकयोः सदृशमित्युक्तम्। यथा त्र्यणुकादिपरिमाणाच्चतुरणुकादौ सजातीयं परिमाणमुत्पद्यते, तथा द्व्यणुकपरमाणुपरिमाणादपि त्र्यणुकादौ सजातीयपरिमाणोत्पादस्यैव सिषाधयिषितत्वान्न दोष इत्यर्थः।
ननुच त्र्यणुकादौ महत्त्वदीर्घत्वे द्व्यणुकादौ त्वणुत्वह्रस्वत्वे प्रमाणसिद्धे। तत् कथं साजात्यसाधने बाधो न भवेदित्यत उक्तम् महत्त्वं चेति। कल्पनैवैषा वैशेषिकाणाम्, नतु परिमाणावान्तरजातिभेदे प्रमाणमस्ति। किन्नाम। परिमाणमेकजातीयमेवोत्कर्षापकर्षवदिति भावः। अनेन वैरूप्यस्यासिद्धिरुक्ता वेदितव्या।
॥ द्व्यणुकादिपरिमाणानां त्र्यणुकादिपरिमाणेभ्योऽविशेषत्वेऽपि कारणत्वानङ्गीकारे
त्र्यणुकादिपरिमाणानमपि कारणत्वं न स्यात्॥
ननुच द्व्यणुकादिपरिमाणस्य परमाण्वादिपरिमाणाजन्यत्वे बाधकाभावादप्रयोजकत्वमनुमानानाम्। द्व्यणुकादिपरिमाणस्य सङ्ख्ययैव जन्मसम्भवादित्याशङ्कां परिहरन् वाशब्दं व्याख्याति नचेदिति।
नचेन्महत्त्वतश्चैव दीर्घत्वादपि नो भवेत्।
चापिशब्दावितरेतरयोगे। एवशब्दो नो भवेदेवेति सम्बद्ध्यते। इदमिह वक्तव्यम् द्व्यणुकादिपरिमाणेऽसमवायिकारणलक्षणमस्ति नवेति। आद्येऽसमवायिकारणलक्षणसद्भावेऽपि त्र्यणुकादिपरिमाणं द्व्यणुकादिपरिमाणजं न चेद् भवेत्, तदा त्र्यणुकादिगतान्महत्त्वतो दीर्घत्वाच्च नो भवेदेव, चतुरणुकादिपरिमाणमिति शेषः।
इदमुक्तं भवति। यदि समवायिकारणप्रत्यासन्नत्वादिसद्भावेऽपि नासमवायिकारणत्वम्, तदेदमतिव्यापकत्वादलक्षणं स्यात्। तथाच न तथाभूतस्यापि महत्त्वादेरसमवायिकारणत्वं स्यादिति।
द्वितीये किं समवायिकारणप्रत्यासत्तिर्नास्ति, उत सामर्थ्यावधारणम्? नाऽद्यः, द्व्यणुकादिपरिमाणस्य त्र्यणुकादिपरिमाणसमवायिकारणसमवायिकारणे द्व्यणुकादौ समवेतत्वस्य प्रमितत्वात्। समवायिकारणसमवेतत्वाभावान्नचेद् द्व्यणुकादिपरिमाणात् त्र्यणुकादिपरिमाणस्योत्पादः, तदा त्र्यणुकादिगताभ्यां महत्त्वदीर्घत्वाभ्यां चतुरणुकादिपरिमाणमपि नो भवेत्। तस्यापि समवायिकारणसमवेतत्वाभावात्। न द्वितीयः, अनन्यथासिद्धनियतपूर्वभावित्वेन हि सामर्थ्यमवधारणीयम्। तच्चास्ति द्व्यणुकादिपरिमाणे। एवमपि नचेत् ततस्त्र्यणुकादिपरिमाणादिजन्म, तदोक्तप्रसङ्ग एव।
सदृशपरिमाणस्यैव कारणत्वावधारणाद् विसदृशमेतदकारणमवर्जनीयसन्निधीति चेत्, किमिदं विसदृशत्वम्? किं जातिभेदः, उत वैलक्षण्यमात्रम्? नाऽद्यः, परमाणुद्व्यणुकादिपरिमाणानामनुमानेनैकजातीयत्वस्यापि साधितत्वात्। (६६५) द्वितीये वैलक्षण्यमात्रेण नचेत् कारणत्वम्, तदा महत्त्वादेरपि न स्यात्। नहि त्र्यणुकचतुरणुकमहत्त्वे न विलक्षणे। सोत्कर्षत्वस्यानुभवसिद्धत्वात्।
॥ द्व्यणुकपरमाणुगतसङ्ख्ययोरारम्भकत्वे सर्वत्रापि सङ्ख्याया एव कारणत्वमभ्युपगमनीयम्॥
अथ सङ्ख्यात एव जन्मसम्भवे परिमाणस्यापि कारणत्वं न कल्पनीयमिति चेत्, तथाऽप्युक्त एवातिप्रसङ्गः। चतुरणुकादिपरिमाणस्यापि सङ्ख्यात एव जननोपपत्तेः। यत्र तु नियामकविशेषः, तत्र परिमाणमप्याद्रियतामिति।
यद्यपि परिणामवादिनां नायं पन्थाः। किन्तूपादानानि स्वगुणयुक्तानि तथाविधकार्यतामापद्यन्त इति। तथाऽपि परमतमाश्रित्य परेषामेवेदं दूषणाभिधानमिति न काचित् क्षतिः।
॥ द्व्यणुकादौ परमाणुपरिमाणसजातीयपरिमाणोत्पत्त्यङ्गीकारे
परमाणुद्व्यणुकयोः प्रत्यक्षत्वप्रसङ्गः, त्र्यणुकादीनामप्रत्यक्षत्वप्रसङ्गो वेत्याक्षेपः॥
एवं परमाणुपरिमाणाद्द्व्यणुकपरिमाणस्योत्पादः, ततस्त्र्यणुकपरिमाणस्य जन्म, तेषां चैकजातीयत्वमित्यनुमानेन साधितम्। तदसत्। प्रतितर्कपराहतत्वात्। तथाहि किं परमाणुपरिमाणाद् द्व्यणुके, द्व्यणुकपरिमाणाच्च त्र्यणुके सजातीयपरिमाणस्याणुत्वस्योत्पत्तिः साध्यते, उत महत्त्वस्य, अथ ह्रस्वत्वस्य, यद्वा दीर्घत्वस्य? सर्वेषामपि पक्षाणां दुष्टत्वं प्रतिजानीते सदृशस्य हीति।
सदृशस्य हि कार्यस्य नैव योगः कथञ्चन॥६१॥
अप्रत्यक्षत्वमेव स्याद् यतः कार्येष्वणुत्वतः।
इति चेत्.................................॥६२॥
योगो घटना। कथञ्चन उक्तप्रकारेषु केनापि प्रकारेण। कुत इत्यतः प्रथमपक्षेऽनिष्टमाह अप्रत्यक्षत्वमिति। यदि परमाणुपरिमाणादणुत्वेन सजातीयं द्व्यणुके, द्व्यणुकपरिमाणाच्च त्र्यणुके परिमाणमुत्पद्यते, तदा सर्वकार्येष्वणुत्वप्रसङ्गेनास्मदाद्यप्रत्यक्षत्वमेव स्याद् यतस्तस्मान्नेति। द्व्यणुकस्याप्रत्यक्षत्वमिष्टमेवेत्यतोऽवधारणम्। सर्वेषामपि कार्याणामप्रत्यक्षत्वमेव स्यात्। नतु कस्यचित् प्रत्यक्षत्वमिति। द्रव्यस्य ह्यस्मदादिप्रत्यक्षत्वं महत्त्वे सत्युद्भूतरूपस्पर्शवत्त्वेन व्याप्तम्। तथाच त्र्यणुकादीनामणुत्वे महत्त्वाभावादप्रत्यक्षत्वं स्यात्। एतेन तृतीयोऽपि परास्तः। त्र्यणुकादेरपि ह्रस्वत्वे महत्त्वाभावादप्रत्यक्षत्वप्रसङ्गस्य दुर्निवारत्वात्।
द्वितीये तु परमाणुद्व्यणुकयोरपि महत्त्वे प्रत्यक्षत्वापत्तिः। नचोद्भूतरूपस्पर्शयोरन्यतराभावेन तदभावः। त्र्यणुकादावपि तदभावापत्तेः। अत एव चतुर्थोऽपि परास्तः। दीर्घत्वे महत्वस्यावर्जनीयत्वादिति पक्षद्वयदूषणं स्पष्टत्वान्नोक्तम्। यद्यपीदं परिमाणावान्तरजातीनामणुत्वादीनामप्रामाणिकत्वोक्त्या परिहृतमेव। तथाऽपि तस्यैवार्थस्य स्फुटीकरणार्थं पुनराशङ्कितमित्यदोषः।
॥ परमाणावपि महत्त्वस्याङ्गीकारात् तस्मादेव द्व्यणुकादिमहत्त्वोत्पत्तिः॥
अत्र तावद्विकल्पितेषु महत्त्वपक्षं गृह्णाति न महत्त्वं चेति।
.........न महत्त्वं च परमाणावणावपि॥६२॥
चशब्दो दीर्घत्वसमुच्चयार्थः। अणौ द्व्यणुके। कथं न कथ्यत इति वक्ष्यमाणमत्रापि सम्बद्ध्यते। यदुक्तम्, किमणुत्वस्योत्पत्तिः साध्यत इत्यादि, तत्र परमाणुमहत्त्वाद् द्व्यणुके महत्त्वम्। द्व्यणुकमहत्त्वात् त्र्यणुकमहत्त्वमुत्पद्यते इत्येष पक्षस्तावत् परिगृह्यत इत्यर्थः। यद्यप्यत्र परिमाणावान्तरजात्यभावान्नैवं विकल्प एव युज्यत इति वक्तव्यम्, तथाऽपि तदभावमेवोपपादयितुं गूढाभिसन्धिना पक्षपरिग्रहः कृत इति ज्ञातव्यम्।
॥ परमाणोरणुत्वाद् द्व्यणुकाणुत्वस्योत्पत्तिः, त्र्यणुकादीनां चाणुत्वाङ्गीकारः॥
अत एव पक्षान्तरमपि गृह्णाति कथमिति।
कथं त्र्यणुकपूर्वेषु नाणुत्वमपि कथ्यते।
परमाणोरणुत्वाद् द्व्यणुकेऽणुत्वं द्व्यणुकाणुत्वात् त्र्यणुकेऽणुत्वं ततश्च चतुरणुकेऽणुत्वमिति वा पक्षः परिगृह्यत इति भावः।
नन्वेवंसति पक्षद्वयोक्तदोषापत्तिः, व्याघातश्चाधिकः। तथाहि परमाणुमारभ्यान्त्यावयविपर्यन्तस्योद्भूतरूपस्पर्शवतो महत्त्वे सर्वस्यापि प्रत्यक्षत्वं स्यात्। अणुत्वे चाप्रत्यक्षत्वं स्यात्। नच परमाण्वादेः प्रत्यक्षत्वं त्र्यणुकादेरप्रत्यक्षत्वं युक्तम्। प्रत्यक्षत्वाप्रत्यक्षत्वे च परस्परव्याहते। यत् प्रत्यक्षं घटादि न तदप्रत्यक्षम्। यच्चाप्रत्यक्षं गगनादि न तत् प्रत्यक्षमिति तयोः परस्परपरिहारेणैव वृत्तेः।
॥ परमाण्वादौ पुरुषविशेषापेक्षया प्रत्यक्षात्वादेर्विद्यमानत्वात्, तदापादानमिष्टमेव ॥
किञ्च महत्त्वाणुत्वे परस्परविरुद्धे कथमेकैकत्राङ्गीकर्तुमुचिते। यथाऽऽह सूत्रकारः “दृष्टान्ताच्च” इति। नच कालभेदेन विरोधपरिहारः, परिमाणस्य यावद्द्रव्यभावित्वादित्याशय प्रत्यक्षत्वाप्रत्यक्षत्वप्रसङ्गयोस्तावदिष्टापादनत्वं वदन् व्याहतिं परिहरति प्रत्यक्षत्वेति।
प्रत्यक्षत्वतदन्यत्वे पुरुषापेक्षयाऽखिले॥६३॥
परमाण्वादावखिलेऽपि द्रव्ये प्रत्यक्षत्वाप्रत्यक्षत्वे स्त एवेति नैतौ प्रसङ्गौ युक्तौ। नच व्याहतिः। पुरुषभेदापेक्षया व्यवस्थोपपत्तेरिति। एतच्चोत्तरत्र स्फुटीभविष्यति। (उत्तरश्लोके)
॥ अणुत्वमहत्त्वयोः सहावस्थाने व्याघातपरिहारः॥
इदानीमणुत्वमहत्त्वव्याघातं परिहरति अणुत्वं चेति।
अणुत्वं च महत्त्वं च यतो वस्तुव्यपेक्षया।
अखिलेत्यनुवर्तते। अणुत्वं च महत्त्वं चाखिले वस्तुनि विद्येते। नतु विरुद्धे। कथम्? यतो वस्तुव्यपेक्षयाऽणुत्वं च महत्त्वं च तदेवोच्यत इति योजना।
एतदुक्तं भवति स्यादयं परमाण्वादिष्वखिलद्रव्येष्वणुत्वमहत्त्वाङ्गीकारे विरोधो यदि रूपे नीलत्वपीतत्ववत् परिमाणेऽणुत्वमहत्त्वादिजातियोगः स्यात्। नचैवम्। प्रमाणाभावात्। किन्तु यथा त्र्यणुकादिषु महत्त्वमेकजातीयमेव उत्कर्षापकर्षवत् परेणाङ्गीकृतम्। यथाचाणुत्वं परमाणुद्व्यणुकयोः, एवं परिमाणमवान्तरजातिरहितमेव सर्वद्रव्येषूत्कर्षापकर्षवद् वर्तते। तथाचैकत्र द्रव्ये वर्तमानं परिमाणं द्रव्यान्तरवर्त्युत्कृष्टपरिमाणापेक्षयाऽणुत्वमित्युच्यते। तदेव द्रव्यान्तरवर्तिनोऽपकृष्टपरिमाणस्यापेक्षया महत्त्वमित्युच्यते। एवञ्च कुतो विरोधः? यथा खल्वेकमेव द्रव्यं द्रव्यभेदापेक्षया सन्निकृष्टं विप्रकृष्टं चोच्यमानं न विरोधास्पदम्। अत एव प्रत्यक्षत्वाप्रत्यक्षत्वविरोधोऽप्यपास्तः। तयोर्महत्त्वादिमात्रनिमित्तत्त्वे हि स स्यात्। नचैवम्। किन्तु पुरुषाणामिन्द्रियपाटवापाटवनिमित्तत्वमेव। अन्यथा मन्दविलोचनेनापि त्र्यणुकमुपलभ्येत। तर्हि गगनादेरपि कदाचित् प्रत्यक्षत्वं स्यादिति चेत्, न। उद्भूतरूपाभावात्। द्व्यणुकानुपलम्भो गुणविशेषविपर्ययाधीनः, आलोकेन्द्रियसन्निकृष्टचाक्षुषद्रव्यानुपलम्भत्वात्; पवनानुपलम्भवदित्यादिकं त्वपकृष्टमहत्त्वादिनैवान्यथासिद्धम्। तर्हि पर्वतादेरप्रत्यक्षता स्यात् इति चेत्, न। अपकर्षविशेषस्य विवक्षितत्वात्। नासौ व्यवस्थितोऽस्तीति चेत्, सत्यम्। अत एव पुरुषापेक्षयेत्युक्तमिति।
॥ परमाणोरपि सावयवद्रव्यत्वात्, स्वावयवापेक्षया महत्त्वं विद्यत एव ॥
अस्त्वेवं परिमाणेऽवान्तरजात्यभावः, तथाऽपि न सर्वत्र महत्त्वाणुत्वाभ्युपगमो युज्यते। उत्कृष्टापकृष्टपरिमाणापेक्षया हि मध्यवर्ति परिमाणमणुत्वं महत्त्वं चोच्यत इत्युक्तम्। तच्च द्व्यणुकादिपरिमाणे सम्भवति। नच परमाणुपरिमाणे। नहि परमाणुपरिमाणादपकृष्टं परिमाणमस्ति। यदपेक्षया तन्महत्त्वं स्यात्। अतः परमाणोरणुत्वमेव। तथाच “न महत्त्वं च” उत्यसदित्यत आह तारतम्येति।
तारतम्यस्थिता यस्मात् पदार्थाः सर्व एव च॥६४॥
यस्मात् सर्वेऽपि पदार्थाः परिमाणतारतम्येनैव स्थिताः। स्वपरिमाणापेक्षयोत्कृष्टापकृष्टपरिमाणवन्तः। सर्वाण्यपि द्रव्याणि कुतश्चित् परिमाणादुत्कृष्टेन, कुतश्चिदपकृष्टेन परिमाणेन उपेतानीति वा। तस्मात् परमाणोरपि महत्त्वं युज्यत इति सम्बन्धः।
अयमत्र प्रयोगः परमाणुः कुतश्चिदुत्कृष्टेन परिमाणेन युक्तः, स्वपरिमाणापेक्षयाऽपकृष्टपरिमाणवानिति वा, द्रव्यत्वात्; तन्तुवदिति। नच परमाणोरपकृष्टद्रव्याभावाद् बाधितविषयत्वम्। तद्भागानां वक्ष्यमाणत्वात्। (६८३) नच तेष्वेव व्यभिचारः। तेषामपि भागवत्त्वात्।
॥ परिमाणावन्तरजातिकल्पनाया अयुक्तत्वम्॥
तदेवं परमाणुद्व्यणुकादिपरिमाणानां वैजात्यस्याभावाद् युक्तं सौत्रमनुमानमिति सिद्धम्। यद्यपि वैजात्यमङ्गीकृत्यापि कार्यकारणभावः शक्योपपादनः। अन्यथा सङ्ख्याया अप्यकारणत्वापत्तेः। परिमाणस्यैवमिति नियमस्य निर्मूलत्वात्। तथाऽपि वस्तुस्थितिरेव वक्तव्येति परिमाणत्वावान्तरजात्यपाकरणेन सजातीयतामुपपद्यानुमानं समाहितमिति ज्ञातव्यम्।
॥ परैः परिमाणोत्कर्षतारतम्यदृष्टान्तेन परिमाणापकर्षतारतम्यस्य परमाणौ विश्रान्तत्वसाधनम्॥
परमाणोरप्युत्कृष्टपरिमाणाश्रयत्वमुक्तम्, तदाक्षिपति यथेति।
यथा महत्त्वविश्रान्तिस्तथाऽणुत्वस्य चेष्यते।
परिमाणत्वतश्चेत्........................।
यथा महत्त्वस्य विश्रान्तिः, तथा परिमाणत्वतो हेतोरणुत्वस्य च विश्रान्तिरिष्यते चेदिति योजना। अत्र महत्त्वाणुत्वशब्दाभ्यां परिमाणोत्कर्षापकर्षावुच्येते। ताभ्यां च तत्तारतम्यमुपलक्ष्यते। परिमाणत्वत इति। परिमाणतारतम्यत्वादित्यर्थः। तथाचाणौ सिद्धेऽणुत्वसिद्धिः, तत्सिद्धौ चाणुत्वसिद्धिरिति परस्पराश्रयदोषः परास्तः।
तदयमर्थः परिमाणापकर्षतारतम्यं क्वचिद् विश्रान्तम्, परिमाणतारतम्यत्वात्; परिमाणोत्कर्षतारतम्यवदित्यनुमानेन परिमाणपकर्षतारतम्यस्य क्वचिद् विश्रान्तिसिद्धौ, यत्रेदं विश्रान्तं यतः परमणुर्नास्ति स परमाणुरिति परिमाणापकर्षकाष्ठाश्रयतया सिद्धस्य परमाणोः कथमुत्कृष्टपरिमाणाख्यमपि महत्त्वं साधयितुं शक्यम्? धर्मिग्राहकप्रमाणेन स्ववचनेन च व्याघातादिति।
॥ इयत्तापरिच्छेदरूपविश्रान्तेः परिमाणोत्कर्षतारतम्येऽभावाद् दृष्टान्तस्य साध्यविकलता॥
अत्र वक्तव्यम् केयं क्वचिद् विश्रान्तिर्नाम? किमियत्तापरिच्छेदः, त्र्यणुकपरिमाणात् षष्ठभाग एव परिमाणं न ततोऽपकृष्टमस्तीति, किंवा क्वचिद् द्रव्ये वृत्तिः, अपकर्षतारतम्यमियत्तावच्छेदरहितमेव किन्त्वनन्तांशोपेतमपि तत् सर्वंक्वचिदाश्रितमेवेति। तत्राऽद्ये साध्ये दृष्टान्तः साध्यविकल इत्याह नेति।
...............न महत्त्वस्यापि विश्रमः।
दृश्यतेऽनन्त इत्येव तथाऽनन्त्यमणावपि॥६५॥
दृष्टान्तीकृतस्य महत्त्वस्य परिमाणोत्कर्षतारतम्यस्यापि विश्रम उक्तरूपो नास्ति। न केवलं पक्षस्येत्यपेरर्थः। कुतो नास्तीत्यत आह दृश्यत इति। परिमाणोत्कर्षतरतमभावोऽनन्तोऽनवधिक इत्येव दृश्यते। न त्वियत्तापरिच्छेदवानिति। बाधकप्रमाणसद्भावात् साधकाभावाच्चेत्यर्थः।
कालात्ययापदिष्टं चास्मिन् पक्षेऽनुमानमित्याह तथेति। तथाशब्दो दूषणसमुच्चये। न केवलं परिमाणोत्कर्षतरतमभावोऽनन्त इति दृश्यते। किन्त्वणौ परिमाणापकर्षतारतम्येऽप्यानन्त्यमनवधिकत्वं दृश्यत इत्यर्थः।
॥ परममहद्द्रव्याणामियत्तापरिच्छेदाभावः॥
“दृश्यतेऽनन्त इत्येव” इतीयत्तापरिच्छेदो न दृष्टान्ते दृश्यत इत्येवशब्देनोक्तम्। तद् विशदयति नेति।
न महत्तत्त्वगुणत एतावानिति हीश्वरः।
परिच्छिन्नः........................॥।६६॥
महत्तत्वमिति द्रव्यविशेषस्येयं सञ्ज्ञा। तेन “आन्महतः” इत्येष विधिर्न भवति। दृष्टानुगतिर्हि सञ्ज्ञाछन्दसोरिष्यते। यथाऽऽह “बहुलं तणि” इति।
गुणशब्दोऽत्र तन्त्रेण द्विरुपात्तः। तत्राऽद्यस्य परिमाणाख्यो गुणविशेषोऽर्थः। द्वितीयस्य गुणनमीश्वर इति परममहत्त्वाश्रयद्रव्योपलक्षणम्। परिमाणोत्कर्षतारतम्यस्येयत्तापरिच्छेदो हि तथासति दृष्टः स्यात्। यदि महत्तत्त्वादिपरिमाणगणनयेश्वरादिः एतावान् पञ्चगुणपरिमाणवान् षुणपरिमाणवान् वेति परिच्छिन्नः स्यात्। नचैवम्। तथासति परममहत्त्वानुपपत्तेरिति हिशब्दार्थः।
॥ श्रुत्यादिप्रमाणसिद्धमहत्तत्वादीनामसङ्ग्रहाद् वैशेषिकाभिमतद्रव्यादिविभागोऽयुक्तः॥
अत्र महत्तत्त्वग्रहणेनेदं सूचयति यदुक्तम्, वैशेषिकादिभिः पृथिव्यादीनि नवैव द्रव्याणीति, तदसत्। महदहङ्कारादीनामपि सत्त्वात्। नच तत्र प्रमाणाभावः। श्रुत्यादेः प्रमाणस्य विद्यमानत्वात्। नच त्र्यणुकादिकमेव तथोच्यते। अव्यक्तत्वादिश्रवणात्। नच बाधकं किञ्चिद् विद्यते। येनोपचारकल्पनेति। ईश्वरग्रहणेन जीवात्मनामपि यत् परैः परममहत्त्वमुक्तम्, तदसदिति सूचयति। उपपादयिष्यते खल्वणुत्वं जीवस्येति। (२३२०)
॥ परमाणोः सावयवत्वप्रतिपादनम्॥
दृष्टान्ते विश्रमाभावोपपादनस्य प्रयोजनमाह तथेति।
......तथाऽणोश्च नैतावद्भागता क्वचित्॥६६॥
यतो दृष्टान्त एतावद्गुणमेव परिमाणमुत्कृष्यते नातोऽधिकमिति साध्यं नास्ति, अतः तथा तद्दृष्टान्तेन अणोः अणुत्वस्य परिमाणापकर्षस्य चैतावद्भागता त्र्यणुकपरिमाणात् षष्ठभाग एव परिमाणमपकृष्यते नातोऽधिकमितीयत्ता क्वचिद् द्रव्ये न सिद्ध्यति। नहि महाह्रदं सपक्षीकृत्य पर्वतेऽग्निमत्त्वं शक्यसाधनम्। तदसिद्धौ च न विवक्षितार्थलाभः। अस्मादेतावद्भागमेव परिमाणमपकृष्यते, नातोऽधिकमित्यस्यार्थस्य हि सिद्धावपकर्षकाष्ठाश्रयभूतं कुतश्चिदप्यनुत्कृष्यमाणां द्रव्यं सिद्ध्यतीति।
यद्वाऽनेन वाक्येन प्रतिपक्षमाह। तथाहि समर्थितं तावत् परिमाणोत्कर्षतारतम्यं न क्वचिद् विश्रान्तमस्मादेतावद्गुणमेव परिमाणमुत्कृष्यत इतीयत्ताभावादिति, तथा तद्दृष्टान्तेनाणोश्चैतावद्भागता क्वचिन्नास्तीति साध्यत इति। अत्रायं प्रयोगः परिमाणापकर्षतारतम्यं क्वचिन्न विश्रान्तम्, परिमाणतारतम्यत्वात्; परिमाणोत्कर्षतारतम्यवदिति।
॥ परिमाणापकर्षतारतम्यस्य अनन्तत्वेऽपि पर्यवसितत्वाङ्गीकारे स्फुटो विरोधः॥
द्वितीयं शङ्कते विश्रान्त इति।
विश्रान्तो यद्यनन्तांशः कश्चिदस्तीति गम्यते।
नावसाययितुं शक्यो विरोधादेव केवलम्॥६७॥
विश्रान्त इत्यस्य त्र्यणुकाद्यपेक्षया परिमाणतोऽनन्तांशो द्रव्यविशेषः कश्चिदस्तीत्यर्थ इति द्वितीयपक्षो गम्यतेऽभ्युपगम्यते यदीत्यर्थः। एतदुक्तं भवति परिमाणापकर्षतारतम्यमियत्तानवच्छिन्नमेव। किन्त्वनन्तांशरूपमपि तत् क्वचिदाश्रितमिति।
निराकरोति नेति। तर्हीति शेषः। कश्चिदिति वर्तते। एवं साधने कश्चिदपि द्रव्यविशेषो नावसाययितुं शक्यः। अयमेव सर्वतोऽपकृष्टपरिमाणवान् नातोऽपकृष्टपरिमाणोऽस्तीति सर्वान्तिमतया न प्रतिपत्तुं कश्चिच्छक्यते। कुतः? केवलं साक्षाद् विरोधात्। परिमाणापकर्षोऽनन्तश्च पर्यवसितश्चेति हि विप्रतिषिद्धमेतत्। भवितव्यं चावसानेन। अन्यथा सर्वस्याप्युत्कृष्टापकृष्टपरिमाणसम्भवेन परमाणोर्महत्त्वनिराकरणासम्भवात्। एवशब्देन विरोधस्यापरिहार्यत्वं सूचयति। तदनेनापसिद्धान्तोऽभिहितो भवति।
॥ अनन्तत्वमनङ्गीकृत्य पर्यवसितत्वसाधने त्र्यणुकषष्ठभागपरिमाणद्रव्यासिद्धेरर्थान्तरता॥
यदिचाऽनन्त्यमवधीर्य परिमाणापकर्षतारतम्यं क्वचिदाश्रितमित्येव प्रतिज्ञार्थः स्यात्, तथाऽपि न सिषाधयिषितमवसानं लभ्यत इत्यर्थान्तरता स्यात्। यथाऽऽकाशादेरुत्कृष्टपरिमाणं द्रव्यं नास्ति तथा परमाणोरपकृष्टपरिमाणं द्रव्यं नास्तीति तात्पर्यार्थ इति चेत्, सत्यम्। नायमितो लभ्यत इत्युच्यते।
॥ प्रकारान्तरैरपि परिमाणतारतम्यस्य पर्यवसितत्वसाधनायोगः॥
परिमाणापकर्षतारतम्यं क्वचिन्निरतिशयम्, परिमाणतारतम्यत्वात्; परिमाणोत्कर्षतारतम्यवदिति विवक्षितमिति चेत्, कोऽयमतिशयो नाम? किमाधिक्यम्, उत न्यूनता, अथ साधारणं किञ्चित्? आद्ये बाधः। द्वितीये दृष्टान्तस्य साध्यविकलता। न तृतीयः, तदभावात्। शब्दसाम्यमात्रेणानुमानाप्रवृत्तेः। यथाऽऽकाशादिपरिमाणमुभयावधिमन्न भवति, तथा त्र्यणुकावयवपरिमाणमपि साध्यमिति चेत्, न। हेत्वभावात्। परिमाणत्वस्य घटादिपरिमाणे व्यभिचारात्। नित्यपरिमाणत्वस्य आश्रयानित्यताया वक्ष्यमाणत्वेनासिद्धेः। (७६३) परिमाणकाष्ठात्वस्य न साध्यत्वात्। एवं तात्पर्यान्तराण्यपि निराकार्याणीति।
॥ कालाकाशयोः परिमाणोत्कर्षानन्त्यस्य साक्षिसिद्धत्वम्॥
परिमाणोत्कर्षतारतम्यस्यानन्तत्वं दृश्यत इत्युक्तम्। तत् केन प्रमाणेनेत्याशय कालाकाशेश्वरादीनि हि द्रव्याणि परममहत्त्ववन्तीष्यन्ते। तत्र कालाकाशयोस्तावत् परिमाणोत्कर्षस्याऽनन्त्यं साक्षिसिद्धमित्याह केवलमिति।
केवलं साक्षिमानेन कालो देशोऽपि नान्तवान्।
केवलशब्देन प्रमाणान्तराभावं प्रतिजानीते। देश इत्याकाश उच्यते। नान्तवानित्यनवधिकपरिमाणोत्कर्षवान्। दृश्यत इति वक्ष्यमाणमात्रापि सम्बद्ध्यते। कालाकाशौ हि केवलं साक्षिवेद्यावित्युपपादितं प्रथमाध्याये। (४१७,४२१) अतस्तत्परिमाणोत्कर्षस्यानवधिकत्वमपि तेनैव गम्यत इति।
॥ कालाकाशयोः परिमाणापकर्षानन्त्यस्यापि साक्षिसिद्धत्वम्॥
परिमाणापकर्षतारतम्यस्याप्यानन्त्यं दृश्यत इत्युक्तम्। तत् केन प्रमाणेनेत्याशय कालकाशयोस्तावत् साक्षिणैवेत्याह अपर्यवसितिश्चेति।
अपर्यवसितिश्चाणोर्दृश्यते साक्षिणा द्वयोः॥६८॥
द्वयोः काले गगने च। अणोश्च परिमाणापकर्षतारतम्यस्य चेत्यर्थः। अपर्यवसितिः आनन्त्यम्। नन्वेतदनुपयुक्तम्। परमाणुपरिमाणतोऽपकृष्टपरिमाणसद्भावे प्रमाणोपन्यासस्य कार्यत्वे कालाकाशयोः परिमाणोत्कर्षानन्त्ये प्रमाणोपन्यासस्य प्रयोजनाभावादिति। मैवम्। नहि परेण साक्षादेवमुक्तम्। किन्तु परिमाणोत्कर्षपरम्परावत् तदपकर्षपरम्पराऽपि पर्यवसानवतीति। तथाच कालाकाशयोः परिमाणोत्कर्षापकर्षपरम्परायाः पर्यवसानाभावे साक्षिप्रमाणोपन्यासः कथमसङ्गतः?
॥ परिमाणापकर्षानन्त्यस्य साक्षिसिद्धत्वानङ्गीकारे
तदुत्कर्षानन्त्यस्याप्यसिद्धिप्रसङ्गः॥
नन्वस्तु कालाकाशयोः परिमाणप्रकर्षोऽनवधिकः। तदपकर्षानन्त्यं तु कथम्? व्याहतत्वात्। मैवम्। साक्षिसिद्धत्वात्। प्रमितेऽर्थे विरोधानवकाशात्।
कालादावनवधिकः परिमाणापकर्षः साक्षिसिद्ध इत्येव नेष्यत इति चेत्, किं साक्षिणा नावगम्यते, उतावगतोऽपि न सत्यः, अथवा साक्षी नाम प्रमाणं नास्ति? आद्यं शङ्कते यदीति।
यदि नो साक्षिगम्यं तन्महत्त्वं केन गम्यते।
तदिति कालादेः परिमाणापकर्षस्याऽनन्त्यं सामान्येन परामृशति। दूषयति महत्त्वमिति। कालाकाशयोरिति वर्तते। महत्त्वम्, अनवधिकः परिमाणोत्कर्षः। तर्हीति शेषः।
अयमभिसन्धिः कालादौ परिमाणोत्कर्षस्याऽनन्त्यमुपेत्य हि परेण तदपकर्षानन्त्यं नेष्यते। तत्र तक्तव्यम् प्रकर्षानन्त्यं केन प्रमाणेनावगम्यत इति। साक्षिणेति चेत्, अपकर्षानन्त्यमपि तद्बलेन कुतो नाङ्गीकार्यम्? तत् तेन नावगम्यत इत्युक्तमिति चेत्, तदपि तेन नावगम्यत इति वदन्तं प्रति किमुत्तरम्? अनुभवापलापो न युक्त इति चेत्, समं प्रकृतेऽपि। यथाहि कालादेरुत्कर्षानवधिकत्वमनुभवे चकास्ति, तथाऽपकर्षानन्त्यमपीति किमेकत्र पक्षपातेन? अन्यथैकापलापे द्वितीयस्याप्यपलापो दुरुत्तरः स्यादिति।
॥ परिमाणोत्कर्षानन्त्यस्य आनुमानिकत्वनिरासः॥
स्यादेतत्। न कालादेः परिमाणोत्कर्षानन्त्यं साक्षिसिद्धमिति ब्रूमः। किन्त्वनुमानगम्यम्। तथाच न प्रतिबन्दीग्रह इत्यत आह विश्रान्तिरिति।
विश्रान्तिस्तारतम्येन दृश्यते ह्यनुमानतः॥६९॥
परिमाणोत्कर्षपरम्पराया इति शेषः। अनुमानत इति तृतीयार्थे तसिः। नानुमानेन कालादावनवधिकपरिमाणोत्कर्षसिद्धिः। हि यस्मात् तारतम्येनानुमानेन तद्विश्रान्तिर्दृश्यते। परिमाणोत्कर्षतारतम्यं इयत्तावत्, परिमाणतारतम्यत्वात्; तदपकर्षतारतम्यवदिति प्रत्यनुमानप्रतिरुद्धत्वादिति यावत्। नच दृष्टान्तोऽस्माकं साध्यविकल इति वाच्यम्। अपकर्षतारतम्यस्य अन्तवत्त्वमुपेत्योत्कर्षतारतम्यस्याऽनन्त्यमनुमिमानस्य परस्यैवं प्रतिपक्षोत्प्रेक्षा स्यादित्युच्यमानत्वात्। तथाच साक्षिविरुद्धं प्रत्यनुमानमिति वक्तव्यम्। कथन्तर्हि स एव कालादावनवधिकापकृष्टपरिमाणं न साधयेदिति।
॥ परिमाणोत्कर्षानन्त्यस्य अगमसिद्धत्वनिरासः॥
अस्तु तर्ह्यागमात् कालादानवधिकोत्कृष्टपरिमाणसिद्धिरित्याशयाऽह यदीति।
यद्यागमादनन्तं तन्महत्त्वमवगम्यते।
अनन्तमेव चाणुत्वं कुतो नैवावसीयते॥७०॥
आगमात् “स एषोऽनन्तः” इत्यादेः। तन्महत्वं कालादिपरिमाणोत्कर्षः। अणुत्वं परिमाणापकर्षः।
एतदुक्तं भवति नाऽगमः कालाद्यनन्ततां स्वयं प्रतिपादयति। तत्प्रवृत्तेः प्रागेव साक्षिणा तत्प्रतिभासात्। किन्त्वनुवाद एवायम्। प्रतिपादकत्वे वा नास्मत्प्रयोजनपरिक्षयः। यस्मादागमात् कालाद्युत्कर्षोऽनवधिकः प्रतीयते, तस्मादेवापकर्षानन्त्यप्रतीतेः। अनन्तशब्दो ह्यनवच्छेदमात्रमाचष्टे। स च यथा परिमाणोत्कर्षविषयो व्याख्यायते, तथा तदपकर्षविषयोऽपि शक्यते व्याख्यातुमिति।
॥ परिमाणापकर्षानन्त्यप्रतीतेः यथार्थत्वप्रतिपादनम्॥
परिमाणोत्कर्षवत् तदपकर्षस्यापि कालादावानन्त्यं साक्षिणाऽऽगमेन वा प्रतीयत एव। तथाऽपि न तत् सत्यम्। नहि प्रतीतत्वमात्रेण सत्यतानिश्चयः, अतिप्रसङ्गादिति द्वितीयं निराकरोति महत्त्वेति।
महत्त्वाणुत्वयोर्नैव विश्रान्तिरुपलभ्यते।
कालादौ परिमाणोत्कर्षापकर्षयोर्विश्रान्तिरियत्तावच्छेदो बलवत्प्रमाणेन नैवोपलभ्यते। अत्र महत्त्वग्रहणं दृष्टान्तार्थम्।
इदमुक्तं भवति यथा कालादौ परिमाणोत्कर्षस्याऽनन्त्यं साक्ष्याद्यवगतं विपरीतग्राहकप्रमाणाभावात् सत्यमेव, तथा तदपकर्षस्यापि। विना बाधकेन साक्ष्यादिसिद्धं परिमाणापकर्षानन्त्यं कालादावसत्यं चेत्, तदुत्कर्षानन्त्यमप्यसत्यं स्यात्। अविशेषात्। ततश्चापरिच्छिन्नपरिमाणताङ्गीकारो भज्येत। अतिप्रसङ्गस्तु बाधकाभावेनापास्त इति।
॥ परिच्छेदाभावस्यैवानन्तत्वेन “अपकर्षोऽनन्तः’ इत्यत्र न विशेष्यविशेषणभावानुपपत्तिः॥
नन्वस्त्येव परिमाणापकर्षस्याऽनन्त्याभ्युपगमे बाधकम्। तथाहि अपकर्षो नामाल्पता। आनन्त्यं चानल्पता। नच विरुद्धयोर्विशेषणविशेष्यभावः सम्भवति। नहि भवति पीतोऽपीत इति। अतो बाधकसद्भावात् प्रतीतमप्यपकर्षानन्त्यं त्यज्यत इत्यत आह अन्यदेवेति।
अन्यदेव ह्यनन्तत्वं महत्वाणुत्वयोः समम्॥७१॥
नानन्तत्वं नामानल्पत्वम्। किन्त्वन्यदेव परिच्छेदाभावरूपम्। तस्मात् परिमाणोत्कर्षापकर्षायोः समानो धर्म इति युज्यते। अत्रापि महत्त्वग्रहणं दृष्टान्तत्वेन। यथा महत्त्वस्य विशेषणं तथाऽणुत्वस्यापीति। यद्यनन्तत्वं नामानल्पत्वं स्यात्, तदोत्कर्षस्यापि विशेषणं न स्यात्। नहि तदेव तस्य विशेषणं भवति। पीतः पीत इत्यदर्शनात्। अतस्तत्राऽनन्त्यं नाम परिच्छेदाभाव इति स्वीकृत्य विशेषणविशेष्यभावः समर्थनीयः, तथा प्रकृतेऽपीति। यथाहि परिमाणोत्कर्षो गगनादावनविधकः, तथा तदपकर्षोऽप्नववधिक एवेति विशेषणविशेष्यभावाभ्युपगमे न कोऽपि दोष इति।
॥ अनन्तशब्दस्य परिच्छेदाभावार्थकत्वसमर्थनम्॥
आनन्त्यं नामानल्पत्वादन्यदित्येतत् प्रत्याययितुं दृष्टान्तान्तरमाह बहुत्वेति।
बहुत्वाल्पत्वयोर्यद्वत् सङ्ख्यायामुपलभ्यते।
आनन्त्यम्..............................॥७२॥
यद्वद् यथा सङ्ख्यायां बहुत्वाल्पत्वयोर्विशेषणतयाऽऽनन्त्यमुपलभ्यते। बहुत्वमनन्तमल्पत्वं चानन्तमिति, तथा प्रकृतेऽपीति। यद्यनन्तत्वं नामानल्पत्वं स्यात्, तदा न बहुत्वस्य विशेषणं स्यात्। तस्यैव तद्विशेषणत्वायोगात्। नाप्यल्पत्वस्य, विरोधात्। अतोऽवच्छेदाभाव एवानन्तत्वमित्यङ्गीकृत्य बहुत्वमल्पत्वं चानन्तमपर्यवसितमिति विशेषणविशेष्यभावो बोद्धव्यः, तथा परिमाणोत्कर्षापकर्षयोरपीति।
॥ सङ्ख्यायां बहुत्वाल्पत्वयोरनवधिकत्वसमर्थनम्॥
ननुच नास्त्येव सयायां बहुत्वाल्पत्वयोरानन्त्यम्। बहुत्वस्य परार्ध एव पर्यवसितत्वात्। अल्पत्वस्य चैकत्वावधित्वात्। यथोक्तम् “सा चैकत्वादिपरार्धपर्यन्ता” इति। अतः कथमयं दृष्टान्त इत्यत आह एकेति।
.........एकभागानां तावत्त्वं ह्यवगम्यते॥७२॥
सङ्ख्यामधिकृत्य हि गणितशास्त्रं प्रवृत्तम्। तत्रच कलासवर्णनप्रभागभागानुबन्धभागापवाहभागभागादिप्रकरणेष्वेकभागानां तावत्त्वमनवधिकत्वं गम्यते हि यस्मात् तस्मादवगम्यते, अस्त्येकत्वादप्यपकृष्टाऽनवधिका सङ्ख्येति। परार्धात् परतोऽपि सङ्ख्यासद्भावः स्फुट एवेति नोपपादितः। सम्भवति हि परेषामपीश्वरापेक्षाबुद्ध्या परमाण्वादौ परार्धात् परतोऽपि सङ्ख्योत्पत्तिः। ततः परं सञ्ज्ञाकरणं तु गणकानां प्रयोजनाभावात्। एतामेव विप्रतिपत्तिमपनेतुं सङ्ख्यादृष्टान्तोपादानं कृतमिति।
॥ श्रुत्या ईश्वरस्यानवधिकपरिमाणोत्कर्षापकर्षवत्त्वसाधनम्॥
एवं कालकाशयोः परिमाणोत्कर्षापकर्षानन्त्यं साक्षिणा प्रसाध्येश्वरे तदागमेन साधयति अणीयांश्चेति।
अणीयांश्च महीयांश्च भगवानागमोदितः।
“अणोरणीयान् महतो महीयानात्मा” इत्यागमेन भगवानीश्वरोऽणोरप्यणीयान् महतोऽपि महीयानुदितः। नच तत्राणुमहच्छब्दाभ्यां किञ्चिद् व्यवस्थितमुच्यते, विशेषणाभावात्। ततो यद्यदपकृष्टपरिमाणं ततस्ततोऽप्यपकृष्टपरिमाणः, यद्यच्चोत्कृष्टपरिमाणं ततस्ततोऽप्युत्कृष्टपरिमाण इत्युक्तं स्यात्। तथाचेश्वरगतयोः परिमाणोत्कर्षापकर्षयोरनवधिकत्वमेव लभ्यते।
नन्वणीयान् महीयानित्युक्त एव भगवति परिमाणोत्कर्षापकर्षयोः पर्यवसानात् कथं तयोरनवधिकत्वमित्यत आह अणीयानिति। अणीयान् महीयानित्युक्तयोरप्यणोर्महतश्चेति शब्दविषयत्वादिति। नन्वेवंसति स्वस्मादपि स्वयमपकृष्ट उत्कृष्टश्चेत्यागतम्। को नेत्याह? यथाचैतत्, तथा वक्ष्यते। (६८१)
॥ परब्रह्मणः देशानन्त्यकालानन्त्यवस्त्वानन्त्यरूपत्रिविधानन्त्यम्॥
श्रुत्यन्तरं चेश्वरे परिमाणोत्कर्षापकर्षयोरानन्त्यं प्रतिपादयदस्तीत्याह आनन्त्येति।
आनन्त्यवाचकः शब्दो द्विधाऽऽनन्त्येऽपि मानताम्
याति.................................॥७३॥
“सत्यं ज्ञानमनन्तं ब्रह्म” इति ब्रह्मण आनन्त्यस्य वाचकोऽनन्तशब्दस्तावद् देशतः कालतो वस्तुतश्चाऽनन्त्यमाह। तत्र देशानन्त्यं नामानवधिकपरिमाणवत्त्वम्। कालानन्त्यं नामानवच्छिन्नसत्ताकत्वम्। वस्त्वानन्त्यं नामापरिच्छिन्नसङ्ख्यागुणकर्मविग्रहत्वम्।
तत्र यदा परिमाणानन्त्यस्य वाचकः, तदा द्विधाऽऽनन्त्येऽपि उत्कर्षापकर्षाभ्यामानन्त्येऽपि मानतां याति। नतूत्कर्षानन्त्यमात्रे। विशेषाभावादिति।
॥ आनन्त्यस्य त्रैविध्यम्, परिमाणानन्त्यस्य उत्कर्षापकर्षभेदेन द्वैविध्यम् ॥
नन्वनेकार्थत्वमन्यायः। कोऽत्र न्यायविरोधः? निरर्थकशब्दप्रयोगायोगात् तावदेकोऽर्थोऽङ्गीकार्यः। द्वितीयाङ्गीकारे तु न किञ्चिद् बीजमिति कल्पनागौरवम्। उच्यते। यत्र ह्येकस्मिन्नर्थे व्यवस्थिते सति वृथैवार्थान्तराङ्गीकारः, तत्रैवमेतत्। नचैवं प्रकृते। अनन्तशब्दो हि परिच्छेदाभावमाह। परिच्छेदश्च देशतः कालतो वस्तुतश्च भवन् युगपदेव प्राप्नोति। नच तत्र कस्यचित् प्राथम्यमस्ति। नाप्यन्यतमपरित्यागे कारणम्। एवं परिमाणानन्त्येऽप्युत्कर्षापकर्षपरिग्रहो द्रष्टव्य इति।
॥ परब्रह्मणः केवलमल्पगुणत्वम्, अल्पकालमात्रसत्त्वं च प्रमाणविरुद्धम्॥
नन्वेवं कालतो गुणतश्चाऽनन्त्यवाचकस्यानन्तशब्दस्याल्पकालत्वमल्पगुणत्वं चार्थः स्यात्। अन्यथाऽल्पपरिमाणवत्त्वमपि न स्यात्। अविशेषादिति चेत्, किमिदं कालतो गुणतश्चाल्पत्वमापाद्यम्, किमल्पा एव गुणाः सन्ति ब्रह्मणो न बहुतराः, तथा अल्पकालीनैव सत्ता न प्रचुरकालीनेति, किंवा सर्वकालगतस्याल्पकालेऽप्यवस्थितिः स्यात्, महागुणस्य चाल्पोऽपि गुणः स्यादिति। आद्यं दूषयति नैवेति।
....नैव गुणाल्पत्वं कालाल्पत्वं च मानगम्॥७३॥
गुणाल्पत्वं कालाल्पत्वं च मानगम्। “अनन्तं ब्रह्म” इति श्रुतिप्रतिपाद्यं नैव भवेदिति गूढाभिसन्धेः प्रतिज्ञा। हेतुमुत्तरत्र वक्ष्यति। (उत्तरश्लोके)
॥ महागुणस्य अल्पगुणत्वम्,
सर्वकालगतस्य अल्पकालीनत्वं चाङ्गीक्रियत एव॥
द्वितीयमाशयाङ्गीकरोति सर्वेति।
सर्वकालगतस्याल्पकालेऽपि स्यादवस्थितिः।
महागुणस्य चाल्पोऽपि गुणः स्यादिति चेद् भवेत्।
तावत्त्वमेव नैव स्याद् देशेऽप्येतन्न नो मतम्॥७४॥
इति चेदापाद्यते, तद् भवेदेवेत्यर्थः। अत्र गुणग्रहणं क्रियादेरप्युपलक्षणम्। गुणकालयोर्यथेष्टमुपादानं प्राथम्यनिरासार्थम्। तेनोक्तकल्पनागौरवपरिहारं सूचयति।
ननु यदि कालाल्पत्वं गुणाल्पत्वं चाङ्गीक्रियते, कथन्तर्हि नैव गुणाल्पत्वमिति निराकरणमित्यतोऽभिसन्धिमुद्घाटयति तावत्त्वमेवेति। अल्पत्वमेवेत्यर्थः। इत्युक्तं प्रागिति शेषः।
कुतो न स्यादिति चेत्, आपादकाभावादित्याह देशेऽपीति। परिमाणेऽपीत्यर्थः। एतत् तावत्त्वमेव। नः अस्माकम्।
एतदुक्तं भवति परिमाणविषयेऽस्मदीयं श्रुतिव्याख्यानमुपलभ्य हि गुणकालयोरप्येतदापाद्यते। आपादकान्तराभावात्। नच परिमाणेऽस्माभिरेवं व्याख्यायते। अपकृष्टमेव परिमाणमनवधिकमस्ति नोत्कृष्टमिति। द्विधाऽऽनन्त्येऽपीत्युक्तत्वात्। अतो निर्मूलमेतदापादनमिति।
॥ ईश्वरादेरनवधिकपरिमाणोत्कर्षापकर्षसद्भावसमर्थनस्य
उत्सूत्रितत्वशङ्कापरिहारः॥
नन्वेतदीश्वरादेरनवधिकोत्कृष्टपरिमाणसमर्थनमयुक्तम्। सूत्रकारेण क्वाप्यनुक्तत्वात्। “महद्दीर्घवद् वा” इति सूत्रस्य विजातीययोरपि कार्यकारणभावोपपादनेन व्यधिकरणयोरप्यपरिच्छिन्नपरिमाणोत्कर्षापकर्षयोरुपपादनेन वा समर्थयितुं शक्यत्वादित्यत आह महत इति।
महतोऽल्पत्वमपि हि व्योमवत् प्राह वेदवित्।
निरवधिकपरिमाणोत्कर्षवतोऽपि ब्रह्मणोऽल्पपरिमाणवत्त्वं च व्योम दृष्टान्तीकृत्य “व्योमवच्च” इति सूत्रखण्डेन प्राह सूत्रकारः। अतो ब्रह्मणो गगनस्य वाऽनवधिकपरिमाणोत्कर्षापकर्षसद्भावस्तत्सिद्धान्तो भवत्येवेति।
॥ कालादेः परिमाणापकर्षस्याऽनन्त्यानङ्गीकारे अल्पाल्पतरपरिमाणवत्त्वायोगः,
तदनङ्गीकारे अल्पाल्पतरदेशावस्थानायोगः, तदनङ्गीकारे सर्वगतत्वाभावप्रसङ्गः, असत्त्वप्रसङ्गश्च॥
किञ्च योऽर्थो निरवकाशप्रमाणसिद्धः, यद्विपर्यये चानिष्टम्, स सर्वोऽपि सिद्धान्त एव। तत्र कालाकाशयोरीश्वरे चानवधिकपरिमाणोत्कर्षापकर्षसद्भावः साक्षिणाऽऽगमेन च सिद्ध इत्युक्तम्। तद्विपर्यये बाधकमाह यदीति।
यद्यल्पदेशसंस्थानं न सर्वत्रापि नो भवेत्॥७५॥
कालादेरिति वर्तते। सर्वत्रापि संस्थानमिति च। कालादीनां सर्वगतत्वं परेणाप्यङ्गीकृतम्। सर्वगतत्वं च सर्वदेशे संस्थानम्। तथाच यदि कालादेरल्पाल्पतरदेशेषु संस्थानं न स्यात्, तदा सर्वत्रावस्थानमपि नो भवेत्।
कुत इत्यत आह स्थितस्य हीति।
स्थितस्य ह्यल्पदेशेषु सर्वगत्वं भवेद् ध्र्ुवम्।
एकत्राप्यनवस्थस्य कुत एवाखिलस्थता॥७६॥
शून्यत्वमेव तस्य स्याद् यस्यैकत्रापि न स्थितिः।
ध्र्ुवमित्यवधारणे। अल्पदेशेषु स्थितस्यैवेति। यथा खल्वेकैकं वर्णमुच्चारयत एव सर्ववेदोच्चारणम्, नत्वेकमपि वर्णमनुच्चारयतः, तथाऽल्पाल्पतरदेशेषु स्थितस्यैव हि सर्वदेशगतत्वं भवेत्। एकैकत्रापि देशेऽनवस्थितस्याखिलदेशस्थता कुत एव भवेत्? अनेन यो यत्समुदायं व्याप्नोति स तदेकदेशानपि व्याप्नोत्येव, यश्चैकदेशान् न व्याप्नोति नासौ तत्समुदायमित्यन्वयव्यतिरेकौ दर्शितौ।
न केवलमल्पाल्पतरदेशस्थत्वाभावे सर्वगत्वाभावप्रसङ्गः। किन्तु शशविषाणादिवत् सत्ताऽपि न स्यादित्याह शून्यत्वमेवेति। एवञ्च कालादीनामल्पाल्पतरदेशावस्थानेऽल्पाल्पतरपरिमाणवत्त्वमप्यवर्जनीयमित्यनवधिकपरिमाणापकर्षसिद्धिः।
॥ कालादेः परिमाणोत्कर्षानन्त्यस्यानङ्गीकारेऽपि सर्वगतत्वाभावप्रसङ्गः॥
अनवधिकोत्कर्षस्तु परेणाप्यङ्गीकृत एवेति न तद्विपर्यये बाधकमुक्तम्। “सर्वत्रापि नो भवेत्” इत्येव वा द्रष्टव्यम्। नहि परममहत्त्वाभावे सर्वगतत्वं सम्भवति। तथाचाऽह “विभुत्वान्महानाकाश” इत्यादि।
॥ आकाशस्य अल्पाल्पदेशस्थत्वेऽनुपपत्तिमाशय परिहारकथनम्॥
अल्पाल्पतरदेशपर्यवसितस्याल्पाल्पतरपरिमाणत्वम्। नचैवमाकाशादीति चेत्, तत् किमाकाशादि समुदितरूपं येन पर्यवसानापर्यवसानविषयत्वमश्नुवीत, किन्त्वेकमेव? तच्च यद्यल्पाल्पतरदेशेषु तिष्ठेत्, तदा तत्तत्परिमाणं भवेदेव। यदि तत्रतत्र स्थितस्य तत्तत्परिमाणत्वं तदा घटादावपि तत्प्रसङ्ग इति चेत्, न। तस्य सांशत्वेनान्यथासिद्धत्वात्।
ननुच सर्वमूर्तद्रव्यसंयोगित्वमेव सर्वगतत्वम्, न सर्वत्र संस्थानम्। आकाशादेरनाश्रितत्वात्। संयोगश्च तत्तत्परिमाणाभावेऽपि भवेदेव। नहि घटो गगनेन संयुज्यमानो भवति परममहान्, नापि परमाणुना संयुज्यमानः परमाणुः। तत् कस्य हेतोः? संयोगस्य प्रदेशवृत्तित्वादिति।
मैवम्। सर्वपरिमाणानामप्याकाशे सत्त्वात्, परमाणुना च घटांशस्यैव संयोगात्। तथाहि विशेषशक्त्या, निर्भेदमप्याकाशमनन्तांशोपेतम्। तत्रानवधिकौ परिमाणोत्कर्षापकर्षौ व्यवस्थया वर्तेते। ततश्च घटो वितस्तिपरिमाणेनैवाऽकाशेन संयुज्यते। स्वयं च तत्परिमाण इति को दोषः? घटांश एव परमाणुसंयोगो वर्तते, न घट इति कथं घटस्य परमाणुता? तर्ह्याकाशप्रदेशा एवाल्पतरप्रदेशसंयोगिन इति, त एव तत्तत्परिमाणाः स्युर्नाऽकाशमिति चेत्, न। तेषामप्याकाशात्मकत्वात्। अन्यथा संयोगस्य प्रदेशवृत्तित्वं न स्याद् व्याघातादिति।
॥ अणुत्वमहत्त्वयोरपर्यवसितत्वोपसंहारः॥
कालादौ परिमाणोत्कर्षापकर्षयोरानन्त्यमुपपाद्योपसंहरति अत इति।
अतो नाणुत्वविश्रान्तिर्न महत्त्वस्य च क्वचित्॥७७॥
क्वचित् कालादौ त्रये। यद्वाऽनुमानदूषणोपसंहारोऽयम्। ततश्च कालातीतत्वदृष्टान्तदोषावपरिहार्याविति।
॥ कालादिव्यतिरिक्तपरममहद्द्रव्यान्तरस्य प्रकृत्यादेरपि अनवधिकपरिमाणोत्कर्षवत्त्वम्॥
कालाकाशेश्वरेषु परिमाणोत्कर्षापकर्षयोरनन्त्यमस्तीत्युक्तम्। न केवलं तेष्वेव। किन्तु प्रकृत्यादौ सर्वगते परममहति द्रव्यान्तरेऽपीत्याह उभयेति।
उभयानन्त्ययुक् तस्माद् यदि मुख्यं महद् भवेत्।
तस्मादिति। कालादिषूक्तन्यायात्। मुख्यं महत् परममहत्।
॥ स्वातन्त्र्येण अनवधिकपरिमाणोत्कर्षवत्त्वरूपानन्त्यस्य ब्रह्मलक्षणत्वेन
विवक्षितत्वात् न कालादिष्वतिव्याप्तिः॥
यदि कालादेरप्यानन्त्यं स्यात्। कथन्तर्हि “सत्यं ज्ञानमनन्तं ब्रह्म” इत्यानन्त्यं ब्रह्मणो लक्षणत्वेनोच्यते। नह्यतिव्याप्तं लक्षणं भवतीत्यत आह तच्चेति।
तच्च ब्रह्म परं साक्षात्सर्वानन्त्ययुतं सदा॥७८॥
परमिति केवलार्थे। यद्यपि कालादिकमप्यनन्तं, तथाऽपि ब्रह्मैव तदनन्तमित्युच्यते। कुतः? साक्षात् परानपेक्षयाऽनन्तत्वात्। अपराधीनत्वापेक्षयेति यावत्।
॥ देशतः कालतः गुणतश्च अनन्तत्वस्य विवक्षितत्वात्, गुणानन्त्यस्यान्यत्राभावान्नातिव्याप्तिः॥
पक्षान्तरमाह सर्वेति। नास्यां श्रुतवानन्त्यमात्रं लक्षणत्वेनोच्यते। किन्तु देशतः कालतो गुणादितश्च। तादृशं च ब्रह्मैवेति न दोषः। यथोक्तम्
“देशतः कालतश्चैव गुणतश्च त्रिधा ततिः।
सा समस्ता हरेरेव नह्यन्ये पूर्णसद्गुणाः” इति।
पक्षान्तरमन्वाचिनोति सदेति। पूवेणैव सम्बन्धः। तथाच कालक्षणेषु देशतोऽनन्तेष्वपि नातिव्याप्तिरिति।
॥ साक्षिरूपप्रमाणानङ्गीकारे प्रत्यक्षादीनां प्रमाण्यस्यासिद्धिप्रसङ्गः, सुखादीनां प्रतीत्यभावप्रसङ्गश्च॥
परमाणावपि परिमाणापकर्षतारतम्यविश्रान्तिर्नास्तीत्युक्तम्। तदसत्। परिमाणस्य द्रव्याश्रयत्वात्। परमाणुतोऽप्यपकृष्टपरिमाणाश्रयस्य द्रव्यस्याभावात्। मैवम्। परमाणुभागानां सत्त्वात्। नच तेषु विश्रान्तिः। तेषामपि सभागत्वात्। अविश्रान्तभागपरम्परा कुतः सिद्धेत्यतः साक्षिणेति वक्तुम्, साक्षी नाम प्रमाणमेव नास्तीति वदतो बाधकं तावदाह यदीति।
यदि साक्षी स्वयम्भातो न मानं केन गम्यते।
अक्षजादेश्च मानत्वमनवस्थाऽन्यथा भवेत्॥७९॥
साक्षी नाम मानं यदि नेष्यते, तदाऽक्षजादेर्ज्ञानस्य मानत्वम्। चशब्दाद् बहिः कालाकाशादिकम्, अन्तः सुखादिकं च केन प्रमाणेन गम्यते? न केनापि। तद्ग्राहकस्य प्रमाणान्तरस्याभावात्। नच तन्मा भूदिति वाच्यम्। तद्व्यवहारविलयप्रसङ्गादिति।
॥ साक्षिणः स्वप्रकाशत्वम्॥
नन्वस्तु साक्षिणमनङ्गीकुर्वाणस्येदं बाधकम्। साधकं तु किमित्यत आह स्वयम्भात इति। यस्तु स्वयं प्रकाशमानेऽपि साक्षिणि विप्रतिपद्यते सः अक्षजादेर्मानत्वं सप्रमाणकम्, वस्तुत्वात्; घटवदिति प्रसङ्गसूचितेनानुमानेन बोधनीयः। प्रसक्तप्रतिषेधश्च वक्ष्यमाणन्यायेन भविष्यति। (अनुपदं) धर्मिग्राहकप्रमाणेनैव सिद्धेर्न तत्प्रामाण्ये पृथक् प्रमाणं वक्तव्यम्। अत एव मानमित्युक्तम्।
॥ अनुमानादिना प्रत्यक्षादिप्रामाण्यसिद्ध्यङ्गीकारेऽनवस्थाप्रसङ्गः,॥
न साक्षिणोऽनभ्युपगमेऽप्यक्षजादिज्ञानप्रामाण्यमप्रामाणिकं प्रसज्यते। प्रवृत्तिसामर्थ्येन तज्जातीयत्वेन वाऽनुमानेन तत्सिद्धेरित्यत आह अनवस्थेति। अन्यथा साक्षीतरप्रमाणवेद्यत्वाङ्गीकारे। तर्हि साक्षिप्रामाण्यमप्यन्येन ग्राह्यमित्यनवस्थैवेति चेत्, न। तस्य स्वप्रकाशत्वादिति। तदिदमुक्तम् स्वयम्भात इति।
॥ सर्वपदार्थानां सावयवत्वस्य साक्षिसिद्धत्वम्॥
किमतो यद्येवं साक्षी नाम प्रामाणमस्तीत्यत आह अत इति।
अतः सर्वपदार्थानां भागाः सन्त्येव सर्वदा।
सर्वदिक्ष्वपि सम्बन्धात्..................॥८०॥
साक्षित इत्यर्थः। सर्वपदार्थानां परमाणोस्तद्भागानां चेत्यर्थः। सन्त्येव इति सिद्धमिति शेषः।
॥ पदार्थत्वहेतुना परमाणोः सावयवत्वसाधनम्॥
यद्वा सर्वपदार्थानामित्यनेनानुमानमपि सूचयति। परमाणुः सभागः, पदार्थत्वात्; घटवदिति। नचाऽश्रयासिद्धिः, धर्मिग्राहकविरोधो वा। साक्षिणा परमाणुसिद्धेरुक्तत्वात्। तेन च सभागतयैव सिद्धेः। नचैवमनुमानवैयर्थ्यम्। प्रमाणसम्प्लवाङ्गीकारात्। सभागत्वमात्रे विप्रतिपन्नं प्रति सार्थक्याच्च।
॥ युगपद् दशद्रव्यसंयोगित्वात् परमाणोः सावयवत्वसिद्धिः॥
अनुमानान्तरमाह सर्वदेति। युगपदित्यर्थः। सर्वदिक्षु स्थितैर्द्रव्यैः सम्बन्धात् संयोगादपि भागाः सन्तीत्यवगम्यते। यद्यपि सभागत्वमात्रसाधने संयोगित्वमात्रं प्रयोजकम्। गगनादीनामपि भागाङ्गीकारेण व्यभिचाराभावात्। तथाऽपि बहुभागसाधनाय विशेषणोपादानम्। तथाहि परमाणुर्दशभागवान् ,युगपद् दशमूर्तसंयोगित्वात्; घटवदिति।
ननु द्रव्यत्वेनैवालं किं संयोगित्वेन? हेतूच्छित्तिरूपविपक्षे बाधकसूचनार्थमिति ब्रूमः। तथाहि अस्ति तावत् परमाणोः परमाण्वन्तरसंयोगः। अन्यथा द्व्यणुकाद्यारम्भानुपपत्तेः। नचैकेनैवेति नियमः। कारणकारणसंयोगजसंयोगप्रक्रियायामेकैकस्य परमाणोः सजातीयविजातीयपरमाणुद्वयेन युगपत् संयोगस्योररीकृतत्वात्। पाषाणादिमध्यवर्तिनः परमाणोः परितोऽवस्थितैः परमाणुभिः संयोगाभावाद्यनुपपत्तेश्च। नच मूर्तानां युगपदेकदेशावस्थानं सम्भवति। प्रदेशवर्तिनश्च संयोगाः। साक्षिसिद्धत्वात्। घटादौ तद्दर्शनेन च परमाणावप्यनुमानाच्च। तथाच यदि परमाणुरनेकांशो न स्यात्, तदा युगपदनेकैर्न संयुज्येतेति।
ननु संयोगस्य प्रदेशवृत्तित्वं नाम स्वात्यन्ताभावसमानदेशत्वमेव। नतु घटसंयोगो घटावयवे वर्तत इति। तत् कथं भागाभावे संयोगानुपपत्तिरिति। मैवम्। प्रत्यक्षादिसिद्धस्य अवयववृत्तित्वस्य परित्यागेनाप्रामाणिकव्याहताङ्गीकारस्यानुचितत्वात्। वक्ष्यते चैतत्। (७१५)
॥ परमाणुलक्षणनिरूपणम्॥
ननु परमाणुः सावयव इति स्वव्याघातस्य मुख्यमुदाहरणम्। यो हि सर्वतोऽपकृष्टः, यतः परमाणुर्नास्ति तं परमाणुमाचक्षते। तस्य च सावयवत्वेऽवयवितोऽवयवानामपकृष्टपरिमाणत्वावश्यम्भावात् कथं न व्याहतिरित्यत आह अविभाग इति।
.................... अविभागः पराणुता॥८०॥
स्यादयं विरोधो यदीदं परमाणुपदप्रवृत्तिनिमित्तं स्यात्। नचैवम्। सावयवतया साक्षिसिद्धे तदसम्भवात्। किन्तु अविभागः पराणुता परमाणुशब्दप्रवृत्तिनिमित्तम्। तथाच कुतो व्याघात इति।
नन्वविभाग इति कथमिदं विज्ञायते। सर्वथा विभागलक्षणगुणाभाव इति चेत्, न। गुणादेरपि परमाणुत्वप्रसङ्गात्। द्रव्यत्वे सतीति विशेषणाददोष इति चेत्, न। असम्भवात्। यत्किञ्चिद्विभागाभावाभिप्राये मेरुमन्दरयोरप्यणुत्वप्रसङ्गात्। अवयवविभागाभावोऽभिमत इति चेत्, न। गगनादेरपि परमाणुत्वापत्तेः। अवयवनाशादेव नष्टस्यावयविनोऽपि तदापत्तेरिति।
मैवम्। यस्य विभिन्नावयवेषु सत्स्वपि तेषां विभागो न कदाऽपि भवितुमर्हति स परमाणुरिति व्याख्यानात्। एतेनावयवपरम्पराविश्रान्त्यभावेऽनवस्थेत्यपि परास्तम्। मूलक्षयाभावस्य सूचितत्वात्।
यद्वा विभज्यते विभिद्यत इति विभागः। तदभावः परमाणुतेति। यतः स्वावयवं विना स्वतन्त्रमनवयवरूपमपकृष्टपरिमाणं वस्तु नास्ति स परमाणुरिति यावत्।
॥ परिमाणोत्कर्षापकर्षयोरानन्त्ये सर्षपपर्वतयोः परिमाणाविशेषत्वानुपपत्तिमाशय परिहारकथनम्॥
नन्वेवमवयवपरम्पराविश्रान्त्यभावेऽनन्तावयवारब्धत्वाविशेषात् सर्षपमहीधरयोः परिमाणाविशेषः स्यात्। नच कारणसङ्ख्याविशेषेऽपि तत्परिमाणप्रचयविशेषात् सर्षपमहीधरयोः परिमाणविशेष इति वाच्यम्। अवयवानन्त्यसाम्ये तयोरप्यनुपपत्तेरिति।
उच्यते। किमयं प्रसङ्गः, उतानुमानम्? आद्ये ह्ययमर्थः यदि सर्षपमहीधरावविश्रान्तावयवपरम्परौ स्याताम्, तदा अनन्तावयवारब्धौ प्रसज्येयातात्। तथाच समपरिमाणौ भवेतामिति। तत्रोभयत्रापि व्याप्त्यभावः। यदविश्रान्तावयवपरम्परम्, तदनन्तावयवारब्धम्। यच्चैवं तत् तुल्यपरिमाणमिति। किन्नाम भवतोपलब्धम्? किञ्चावयवपरम्पराविश्रान्त्यभावे ते सर्वेऽपि सम्भूयानन्ताः स्युः। सर्षपमहीधरारम्भकाणामानन्त्यं तु कुतः? अत एव द्वितीयप्रसङ्गस्याऽपादकासिद्धिः। एतेनावयवपरम्पराविश्रान्त्यभावे समसङ्ख्यावयवारब्धत्वम्, ततश्चावयवपरिमाणादिविशेषाभावे परिमाणाविशेषः स्यादित्यपि परास्तम्। व्याप्त्यसिद्धेः। समसङ्ख्यावयवारब्धत्वासिद्धेश्च।
द्वितीये त्विदमुक्तं स्यात् सर्षपमहीधरौ नानन्तावयवारब्धौ, विसदृशपरिमाणत्वात्। विमतौ नाविश्रान्तावयवपरम्परौ, अनन्तावयवानारब्धत्वादिति। आद्ये सिद्धसाधनम्। नहि सर्षपादेरवयवपरम्पराविश्रान्त्यभावादिनाऽनन्तावयवारब्धत्वमङ्गीकृतम्। किन्तु सम्भूतानामनन्तत्वम्। तदभावसाधने मां प्रति दृष्टान्ताभावः। गुणादौ साधनाभावात्। द्वितीयस्य त्वप्रयोजकतेति।
स्यादेतत्। सर्षपावयवपरम्पराया निरवधिकत्वे मूर्तानां समानदेशत्वानुपपत्तौ सर्षपावयवैर्जगति व्याप्ते विश्वव्यापी सर्षपः स्यादिति महीधरस्यानवकाश एवेत्यापादनार्थ इति चेत्, न। पार्थिवपरमाणूनामनन्तत्वेऽपि मूर्तान्तरावकाशदर्शनात्। सर्षपो यावन्तं देशमवष्टभ्य वर्तमानो दृश्यते तावत्येवानवधिकाया अपि तदवयवपरम्पराया अवस्थानाच्च। अत एव हि आकाशादीनामप्यनवधिकामंशपरम्परामुपेत्य तत्र परिमाणापकर्षानन्त्यमुपपादितम्।
ननु मा भूत् साक्षात् सर्षपमहीधरारम्भकाणां समसङ्ख्यत्वम्, तथाऽप्यवयवपरम्पराया विश्रान्त्यभावेऽपि सम्भूतावयवानां समसङ्ख्यत्वात् परिमाणभेदो न स्यादिति चेत्, न। आनन्त्येऽपि तारतम्यसम्भवात्। अनन्ता हि पार्थिवपरमाणवोऽनन्ताश्चान्त्यविशेषाः। नच ते समसङ्ख्याः। तथासति आप्यपरमाणुषु तदभावापातात्, तथा सर्वकल्पेषु संसारिणोऽनन्ताः। तथाऽप्यपवर्गवशात् तारतम्यमुपेयमेव। एवमनेकमुदाहरणमिति।
॥ सजातीयपरमाणुद्वयसंयोगस्यैव द्व्यणुकादिद्रव्यासमवायिकारणत्वमित्यस्य प्रत्याख्यानम्॥
यदेतत् सूत्रकृता परिमाणासमवायिकारणविषये दूषणमुक्तम्, तदुपलक्षणमात्रम्। अन्यत्राप्यसमवायिकारणे स्वयं दूषणान्यूहनीयानीत्याशयवान् द्रव्यासमवायिकारणसंयोगविषये अन्यथाप्रतिपत्तिं निराकरोति तत्संयोगादिति।
तत्संयोगादनियतात् पदार्थानां जनिर्भवेत्।
द्वयोरेव तु संयोग इति केनावसीयते॥८१॥
अवयवसंयोगो द्रव्यासमवायिकारणमिति वदन्तोऽपि वैशेषिकादयः परमाणुकार्योत्पत्तौ द्वयोरेव सजातीययोरेव परमाण्वोरेव संयोगस्य कारणत्वमित्याद्याचक्षते। तदश्रद्धेयम्। किन्नाम। तेषां कारणानामनियतादुक्तनियमरहितात् संयोगात् पदार्थानां द्रव्याणां जनिर्भवेत्। किञ्चित् कार्यं द्वयोः परमाण्वोः संयोगादुपजायते। तद् द्व्यणुकमुच्यते। कदाचित् त्रयाणाम्। तत् त्र्यणुकम्। चतुर्भिः परमाणुभिरारब्धं तच्चतुरणुकम्। एवमन्यदपि, तथा किञ्चित् सजातीययोः परमाण्वोः संयोगात्, किञ्चिद् विजातीययोः। एवं किञ्चित् परमाण्वोरेव संयोगात्, किञ्चित् परमाणुद्व्यणुकयोरित्यादि। एवं द्व्यणुककार्योत्पत्तावप्यनियमो द्रष्टव्यः।
कुत इति चेत्, उक्तनियमे प्रमाणाभावादित्याह द्वयोरेवेति। तुशब्दो विशेषार्थः। तेन सजातीययोः परमाण्वोरिति नियमो लभ्यते। संयोग आदिकार्यस्यासमवायिकारणमिति शेषः। केन प्रमाणेनेत्याक्षेपे। उपलक्षणमेतत्। त्रयाणामेव द्व्यणुकानामित्यपि द्रष्टव्यम्।
ननु सावयवस्यानेकसंयोगः सम्भवति। परमाणुस्तु निरवयव इति द्वयोरेवेति नियमसिद्धिरिति। उक्तोत्तरम्। निरवयवत्वे द्वयोरपि संयोगो न सम्भवति। संयोगस्यांशवृत्तित्वात्।
॥ द्व्यणुकादौ गन्धाद्युत्पत्त्यन्यथानुपपत्त्या सजातीयपरमाणुसंयोगस्य
कारणत्वमङ्गीकार्यमिति परेणोपपादनम्॥
ननु सजातीयसंयोग एवाऽरम्भक इति नियमो न निष्प्रमाणकः। परमाणुकार्ये गन्धाद्युत्पत्तेरेव तत्र प्रमाणत्वात्। तथाहि पार्थिवाप्यपरमाणुभ्यां यद्येकं कार्यमुत्पद्यते तदा तदगन्धमस्नेहमापद्येत। पार्थिवतैजसाभ्यामुत्पन्नमगन्धमरूपमापद्येत। एकस्य गन्धादेरनारम्भकत्वात्। अतो गन्धाद्युत्पत्त्यैव सजातीयसंयोगस्याऽरम्भकत्वसिद्धिरित्यत आह कारणस्येति।
कारणस्य गुणास्तेन भवेयुः कार्यगा अपि।
॥ विजातीयपरमाणूनां संयोगस्य कारणत्वेऽपि गन्धाद्युत्पत्तावनुपपत्त्यभावात् नोक्तनियमो युक्तः॥
तेनेति। द्वयोरेवेति नियमाभावेनेत्यर्थः। स्यादेतद् विजातीयारम्भकत्वे बाधकम्। यदि द्वयोरेव परमाण्वोः संयोगः कार्यारम्भक इति नियमः प्रमाणवान् स्यात्। नचैवम्। तथाच बहूनां परमाणूनां विजातीयानां संयोगात् कार्यारम्भे कारणगता गन्धादयो गुणाः सद्वितीयाः सन्तः कार्यगाः कार्यगतगन्धाद्यारम्भका अपि भवेयुः, को दोषः?
नन्वनियमवादिना द्वयसंयोगस्याऽरम्भकत्वं तावदिष्यते। तत्र विजातीययोरारम्भकत्वे कार्ये गन्धाद्यनुत्पत्तिः प्रसज्यत इति चेत्, न। एकैकस्यापि गन्धादेरारम्भकत्वे बाधकाभावात्। अपेक्षणीयान्तराभावात्। सन्ततोत्पत्तिप्रसङ्गो बाधक इति चेत्, न। कार्यद्रव्योत्पत्तेरपेक्षणीयत्वात्। समवायिकारणाभावे कार्यानुत्पादात्। अन्यथाऽनेकगन्धाद्यभ्युपगमेऽपि समानो दोषः। तदिदमुक्तम् कार्यगा इति।
॥ सिद्धान्तरीत्या गन्धाद्युत्पत्तिप्रकारनिरूपणम्॥
एतच्च परमतरीत्योक्तम्। वस्तुतस्तु यतः कारणान्येव कार्याकारेणोत्पद्यन्ते तेन कारणगुणा एव कार्यगा भवेयुः। ततश्च विजातीयारम्भकत्वे को दोषः? एवन्तर्हि पृथिवीत्वादिजातिसङ्करः स्यादिति चेत्, ततः किम्? व्यवहारविलोपः स्यादिति चेत्, न। “वैशेष्यात्तु तद्वादः” इति परिहरिष्यमाणत्वात्। तथाऽपि सम्प्रतिपन्नसजातीयारब्धकार्यदृष्टान्तेन विप्रतिपन्नानमपि सजातीयारब्धत्वमनुमास्यत इति चेत्, न। विजातीयारम्भकत्वस्य साक्ष्यादिप्रमाणसिद्धत्वेन बाधात्।
॥ परमाणुद्वयसंयोगस्य कारणत्वसाधकानुमाननिरासः॥
स्यादेतत्। यदि बहूनां परमाणूनां संयोगस्याऽरम्भकत्वं स्यात्। नचैवम्। आरम्भकसङ्ख्यापकर्षतारतम्यं क्वचिद् विश्रान्तम्, तारतम्यत्वात्; परिमाणतारतम्यवदित्यनुमानेनाऽरम्भकसङ्ख्यापकर्षस्य क्वचिद् विश्रान्तिसिद्धावेकस्याऽरम्भकत्वे सन्ततोत्पत्त्यादिप्रसङ्गात् त्र्यादिकल्पने गौरवाद् द्वयोरेव परमाण्वोः संयोगो द्रव्यारम्भक इति नियमसिद्धेरित्यत आह तारतम्येनेति।
तारतम्येन सर्वेऽपि महान्तश्चाणवो यतः॥८२॥
यतः कारणात् तारतम्येन सर्वेऽप्यर्था महान्तश्चाणवश्च समर्थिताः, ततः परिमाणतारतम्यवदिति दृष्टान्तस्य साध्यविकलत्वाद् द्वयोरेव तु संयोग इति केनावसीयत इति सम्बन्धः।
किञ्चानेनैव न्यायेन द्व्यणुकद्वयसंयोगस्याप्यारम्भकत्वं किं नेष्यते? बहुत्वाभावे कार्यमहत्त्वानुपपत्तिप्रसङ्गादिति चेत्, न। यतस्तारतम्येन सर्वेऽपि महान्तश्चाणवश्च समर्थिताः। तेन द्व्यणुकमहत्त्वात् तदुत्पत्त्युपपत्तेः। परमाणुद्वयारब्धकार्यदृष्टान्तेन सर्वत्रानुमाने त्वतिप्रसङ्ग इति।
॥ अनियमसृष्टेः साक्ष्यादिसिद्धत्वम्॥
अस्त्वेवमुक्तनियमेषु प्रमाणाभावः, तथाऽप्यनियमसृष्टौ किं मानमिति चेत्, साक्षी तावत्। लोष्ठादिकार्याणामनियतसङ्ख्यैर्विजातीयैर्विसदृशैश्चाऽरम्भदर्शनेनानुमानं च। आगमाश्चात्र बहुलं भवन्ति। तद्दर्शनं भ्रान्तिरिति चेत्, किं नियमग्राहकप्रमाणविरोधादेवमुच्यते, उत केवलया वैशेषिकादिकल्पनया विरोधात्? आद्यं दूषयति नचेति।
नच तत्प्रोक्तसृष्टौ तु मानं केवलकल्पना।
कथं साक्षिमितस्यास्य शक्नुयाद् वारणे क्वचित्॥८३॥
सजातीयाभ्यामेव द्वाभ्यामेव परमाणुभ्यामेवेत्यादिनियमवत्यां तत्प्रोक्तसृष्टौ तु मानं नास्ति। यत् साक्ष्यादिसिद्धस्यास्मदभिमतसृष्टिप्रकारस्य बाधकं स्यात्। तथाचोक्तम्। (६८६)
द्वितीयं दूषयति केवलेति। निर्मूलेत्यर्थः। साक्षीत्युपलक्षणम्। अस्य अनिमयारम्भस्य। कल्पनामात्रस्य प्रामाणिकनिवारकत्वेऽतिप्रसङ्ग इति भावः।
॥ वैशेषिकाभिमतसृष्टिप्रकारस्य श्रुत्यादिविरुद्धत्वम्, अप्रामाणिकत्वं च॥
अत्र तत्प्रोक्तसृष्टाविति सामान्यतो वदताऽन्यदपि तत्कल्पितमप्रामाणिकमिति सूचितम्। तथाहि प्रकृतेर्महान्, महतोऽहङ्कारः, अहङ्कारात् क्रमेणाऽकाशादीनि महाभूतानीत्येतां श्रुत्यादिप्रसिद्धां प्रक्रियामपहाय वाय्वादीनां चतुर्णामन्योन्यानपेक्षैव सृष्टिर्व्युत्क्रमेण चाभिहिता। विनैव बाधकेन “आकाशाद् वायुः। वायोरग्निः” इत्यादिपञ्चमी भाक्ती स्वीकृता। अत्यन्तासत एव च जनिरङ्गीकृता। सर्वाऽपि सृष्टिः समवाय्यादिकारणत्रयाधीनाऽभ्युपगता।
॥ समवायिकारणस्याप्रामाणिकत्वम्, असमवायिकारणलक्षणस्य अतिव्याप्तत्वं च॥
तत्र समवायिकारणं समवायाप्रामाणिकत्वस्य वक्ष्यमाणत्वादयुक्तम्। (६९५) अत एवासमवायिकारणमपि। तदधीननिरूपणत्वाच्च तल्लक्षणस्य। समवायिनिमित्तयोरतिव्याप्तेश्च। तथाहि तन्तुपटयोरुत्पन्नस्य द्वित्वस्य पटः समवायिकारणम्। स च द्वित्वसमवायिकारणे तन्तौ समवेतत्वात् समवायिकारणप्रत्यासन्नः। समवायिकारणतयाऽवधृतसामर्थ्यश्च।
शरीरात्मनोरुत्पन्नस्य द्वित्वस्यापक्षाबुद्धिर्निमित्तम्। सा च द्वित्वसमवायिकारणात्मसमवेतत्वान्निमित्तत्वाच्चोक्तलक्षणसम्पन्ना। समवायिकारणप्रत्यासन्नतया सामर्थ्यावधारणमभिमतम्। नच तथा प्रकृत इति चेत्, तथाऽपि व्याप्यबुद्धेर्व्यापकबुद्धिं प्रति विषयबुद्धेर्धर्माधर्मयोश्च सुखदुःखे प्रत्यसमवायिकारणत्वापत्तेः। नह्यन्यगतं व्याप्यबुद्ध्याद्यन्यगतस्य व्यापकबुद्ध्यादेर्निमित्तं भवति। आत्मनि प्रदेशभेदान्नेति चेत्, न। आद्यादिशब्दानां द्वितीयादिशब्दासमवायिकारणत्वाभावापत्तेः। एकाकाशगतत्वेन तत्सम्भवे प्रकृतेऽपि समानम्।
एवमन्यत्राप्यतिव्याप्तिरूहनीया। सङ्केतोऽयमाचार्यस्य, अतो नातीवात्र निर्बन्धः करणीय इति चेत्, एवन्तर्हि निर्मूलैवेयं प्रक्रियेति सिद्धमेव। पाकजप्रक्रियां चाप्रामाणिकीमङ्गीकुर्वन्ति। तच्च वक्ष्यत इत्यलम्। (७२७)
॥ परमाणुद्व्यणुकयोरानुमानिकत्वनिरासेन साक्षिसिद्धत्वसमर्थनम्॥
ननु परमाणुद्व्यणुके एव तावन्न साक्षिसिद्धे कुतस्तदीयारम्भप्रकारः। तत् कथमुक्तं साक्षिमितस्येति। तत्राऽह यदीति।
यदि साक्षिमितं नैतन्नानुमा तत्र वर्तते।
पक्षीकर्तुमशक्यत्वात् कुत एवानुमा भवेत्।
यत्र नास्ति पदन्यासः कस्तं विषयमाप्नुयात्॥८४॥
एतदिति।परमाण्वादिकम्। तर्हि तदप्रामाणिकमेवाऽपद्यत इति शेषः।
स्यादेतत्। यद्यपि महत्त्वाभावान्न परमाण्वादिकं चक्षुरादेर्गोचरः। बहिरस्वातन्त्र्यान्मनसोऽपि। आगमादि तु नानुमानाद् भिद्यते। भेदेऽप्यतीन्द्रिये सङ्केतानुपपत्तेर्नाऽगमस्य विषयः। तथाऽप्यनुमानं तत्र प्रमाणं भविष्यति। तत् कथं परमाण्वादेः साक्षिवेद्यत्वाभावेऽप्रामाणिकत्वापत्तिरित्यत आह नेति। कथमिति चेत्, किं परमाण्वादिकमेव पक्षीकृत्य तत् साध्यते, उतान्यत्?
आद्ये तत् प्रमाणान्तरतः सिद्धम्, नवा? पक्षद्वये दोषमाह पक्षीकर्तुमिति। सिद्धत्वे पक्षलक्षणाभावात्, असिद्धत्वे न्यायाविषयत्वात् परमाण्वादेः पक्षीकर्तुमशक्यत्वात् तत्पक्षीकारेणानुमा दूरनिरस्तेति।
ननु पक्षीकरणासम्भवे कथमनुमानानुपपत्तिरित्यत आह यत्रेति। यथा तथेत्यध्याहर्तव्यम्। यत्र यद्विषये। विषयं देशम्। यथाहि विषयप्राप्तेः पदन्यासः कारणम्, स्थाण्वस्थाणुसंयोगस्यास्थाणुक्रियाहेतुकत्वात्। अतः पदन्यासाभावे विषयप्राप्तिरपि नास्ति। तथाऽनुमोत्पत्तौ पक्षीकरणं कारणम्। नहि पर्वतादिर्वा वह्न्यादिर्वाऽनुमानस्य विषयः। किन्तु तत्सम्बन्धः। नच सम्बन्धिज्ञानेन विना सम्बन्धज्ञानं सम्भवति। अतः पक्षीकरणाभावे नानुमानोत्पत्तिः सम्भवतीति।
द्वितीयमपि निराकरोति पक्षीकर्तुमिति। द्व्यणुकं हि पक्षीकृत्य परमाणुरनुमातव्यः। कार्यमेवात्र प्रमाणमित्युक्तत्वात्। तच्चेदानीमप्यसिद्धमिति पक्षीकर्तुमशक्यत्वात् कुत एव तत्कारणपरमाण्वनुमा भवेत्?
अनुमितं द्व्यणुकं पक्षीकृत्य परमाणुरनुमास्यत इति चेत्, न। तदपि हि परमाणुं पक्षीकृत्य यदि साध्यते, तदोक्त एव दोष इत्याह पक्षीकर्तुमिति। अद्याप्यसिद्धस्य परमाणोः पक्षीकर्तुमशक्यत्वात् कुत एव तत्कार्यद्व्यणुकानुमा भवेत्?
नन्वणुपरिमाणतारतम्यं क्वचिद् विश्रान्तम्, परिमाणतारतम्यत्वात्; महत्परिमाणतारतम्यवदित्यनुमानेन परमाणुसिद्धिर्भविष्यतीति चेत्, न। विकल्पानुपपत्तेः। अणुपरिमाणशब्देन किं परिमाणापकर्षोऽभिधीयते, किंवा परमाणुपरिमाणम्, यद्वा द्व्यणुकपरिमाणम्, यदिवा उभयपरिमाणम्? नाऽद्यः, दूषितत्वात्। (६७०) उत्तरपक्षत्रयं दूषयति पक्षीकर्तुमिति। परमाणुद्व्यणुकयोरसिद्धौ तत्परिमाणस्याप्यसिद्धेः। एकैकत्र तारतम्यस्याभावाच्चेति भावः।
यदिदं जालसूर्यमरीचिस्थं सर्वतः सूक्ष्मतमं रज उपलभ्यते तत् त्र्यणुकमित्युच्यते। तदिदं महत्, चाक्षुषद्रव्यत्वात्; घटवत्। कार्यं च महत्त्वे सति चाक्षुषत्वात्, महत्त्वे सति क्रियावत्त्वाद् वा। सावयवं च, कार्यद्रव्यत्वात्। तदवयवाश्च द्व्यणुकनामानः। तेऽपि कार्याः, सावयवाश्च, महद्द्रव्यारम्भकत्वात्; तन्तुवत्। यश्च तदवयवः स एव परमाणुः, तदवयवकल्पनायां प्रमाणाभावात्, बाधकसद्भावाच्च। अतोऽनुमानेनैव परमाणुद्व्यणुकसिद्धिरित्यत आह पक्षीकर्तुमिति। प्रत्यक्षस्य त्र्यणुकस्यैव परमाणुत्वसम्भवेन तत्कार्यत्वसावयवत्वसाधनाय पक्षीकर्तुमशक्यत्वात् कुत एव द्व्यणुकपरमाण्वोरनुमा भवेत्?
महत्त्वात् कथमसौ परमाणुरिति चेत्, न। महत्त्वासिद्धेः। चाक्षुषद्रव्यत्वात् तत्सिद्धिरिति चेत्, न। कस्यचिदमहतोऽपि चाक्षुषत्वे बाधकाभावात्। महत्त्वं च द्रव्यचाक्षुषतायां कारणमिति चेत्, सत्यम्। क्वचिदन्यदपि कारणं कल्पयिष्यते। गौरवं तथासति स्यादिति चेत्, न। धर्मिकल्पनातो धर्ममात्रकल्पनाया लघुत्वात्।
अस्तु वा महत्त्वम्। तथाऽप्यणुत्वेन तस्य समावेशे को विरोधः? कार्यत्वसाधनं चाप्रयोजकम्। महतोऽप्यात्मनः प्रत्यक्षत्ववच्चाक्षुषत्वोपपत्तेः। परममहत्त्वाभावेन क्रियासम्भवाच्च। महत्त्वस्य कारणबहुत्वं कारणमिति चेत्, न। नित्यत्वोपपत्तेः। चाक्षुषमहत्त्वान्नेति चेत्, न। बाधकाभावात्। अत एव कार्यद्रव्यत्वमसिद्धम्। सन्तु वा तदवयवाः, त एव परमाणव इति तेषां पुनरवयवसाधनाय पक्षीकर्तुमशक्यत्वात् कुत एवानुमा भवेत्।
ननु महद्द्रव्यारम्भकत्वात् तेऽपि सावयवा एवेति चेत्, न। निरवयवस्य महद्द्रव्यारम्भकत्वे च बाधकाभावात्। बहुत्वेनैव महत्त्वारम्भोपपत्तेः। द्रव्यारम्भे सावयवत्वस्यानुपयोगात्। सन्तु वा द्वणुकावयवाः, तेऽपि कुतः परमाणवः? महद्द्रव्यारम्भकत्वेन तेषामपि सावयवत्वानुमानात्। अनवस्था बाधिकेति चेत्, न। तदवयवानां तदवयवावयवानां वा निरवयवत्वेन तद्विश्रान्तेः। कथं चेयमनवस्था दूषणम्? मेरुसर्षपादीनां समपरिमाणत्वापत्तिस्तु दूषिता। (६८५) घटादिकार्यानुत्पत्तिरिति चेत्, न। सावयवस्यैव नित्यत्वोपपत्तेः। यथोक्तम् “अविभागः पराणुुता” इति।
॥ आकाशादेः परिमाणोत्कर्षानन्त्यस्याऽनुमानिकत्वनिरासेन साक्षिसिद्धत्वसमर्थनम्॥
एवं परमाणुद्व्यणुपकयोरनुमानतः सिद्धिमपाकृत्य प्रसङ्गादाकाशादिपरिमाणोत्कर्षानन्त्यस्याऽनुमानिकत्वं न युज्यत इति यदुक्तम्, तत् प्रपञ्चयति देशान्तरेति।
देशान्तरादिशब्दाश्च शशशृङ्गादिशब्दवत्।
योऽयं योजनादिपरिच्छिन्नो देशः सम्प्रतिपन्नः, स स्वतः स्थूलेन देशान्तरेण युक्तः, देशत्वात्; हस्तादिदेशवदित्याद्यनुमानैः खल्वाकाशादिपरिमाणोत्कर्षानन्त्यं साधनीयम्। त एते देशान्तरादिशब्दाः देशान्तरादिसाधकानुमानप्रयोगाः शशशृङ्गादिशब्दवत् शशशृङ्गादिसाधकानुमानप्रयोगैस्तुल्यं वर्तन्ते। अनेनैव प्रकारेण शशशृङ्गादिकमप्यनुमातुं शक्यत इति यावत्।
शब्दमात्रमेवैतत्। नत्वनुमानमिति सूचयितुं शब्दा इत्युक्तम्। न केवलमाकाशादीनां परिमाणोत्कर्षानन्त्यानुमानं प्रतिपक्षपराहतम्। अपितु सम्प्रतिपन्नानि सर्वशृङ्गाणि शृङ्गान्तरवन्ति, शृङ्गत्वात्; गोशृङ्गवत्। विमताः सर्वे पुत्राः पुत्रान्तरोपेताः, पुत्रत्वात्; देवदत्तपुत्रवदिति शशशृङ्गादिसाधकानुमासमानयोगक्षेमं चेत्यर्थः।
न वयमेवमाकाशादिपरिमाणोत्कर्षानन्त्यमनुमिमीमहे। येनातिप्रसङ्गः स्यात्। किन्तु विप्रतिपन्नो देशः स्वतः स्थूलेन सदृशेन सजातीयेन वा द्रव्यान्तरेण युक्तः, देशत्वात्; हस्तादिदेशवत्। सोऽप्येवं सोऽप्येवम्। एवं कालेऽप्यनुमातव्यम्। नचैवं शशशृङ्गानुमानं शक्यम्। तस्यात्यन्तासतोऽनुपलभ्यमानस्य गवादिशृङ्गैः सादृश्यसाजात्ययोरभावात्। नचाऽकाशादेरप्येकैकत्वात् सादृश्याद्यभावः। औपाधिकभेदेन तदुपपत्तेरित्यत आह सदृशं चेति।
सदृशं च सजातीयं नास्मत्पक्षे किमेव हि॥८५॥
सम्प्रतिपन्नदेशादिना सदृशं सजातीयं चास्मत्पक्षे गगनादिपरिमाणोत्कर्षानन्त्यमनभ्युपगच्छतां पक्षे किमेव न भवति? किन्तु भवत्येवेति। तथाच सम्प्रतिपन्नदेशस्य ततः स्थूलेनाऽत्मना सदृशेन सजातीयेन चोपेतत्वस्य सिद्धत्वात् सिद्धसाधनता स्यात्। आकाशादिपरिमाणोत्कर्षानन्त्यासिद्धेरर्थान्तरता चेति। सम्प्रतिपन्नदेशस्येश्वरादिमत्त्वं बाधितं सम्बन्धाभावादिति चेत्, न। देशान्तरेणापि सम्बन्धाभावात्। एतेन शशविषाणादिसाधकानुमानेऽपि बाधाभिधानं परास्तम्। देशान्तरानुमानेऽपि साम्यात्। तदेवं परमाणुद्व्यणुकयोराकाशादिपरिमाणोत्कर्षानन्त्यस्य च साक्षिसिद्धतामनङ्गीकृत्य केवलानुमानवेद्यत्वस्वीकरणमनुपपन्नमित्युक्तम्।
॥ ईश्वरधर्माणामनुमानमात्रसिद्धत्वाङ्गीकारे शशविषाणादीनामपि सिद्धिप्रसङ्गः॥
एवमागममनादृत्येश्वरधर्माद्यनुमानमप्ययुक्तमिति प्रसङ्गादाह येनैवेति।
येनैव च प्रकारेणात्यसिद्धमनुमीयते।
तेनैव शशशृङ्गादेः शक्यमस्तित्वकल्पनम्॥८६॥
अत्यसिद्धमित्यनेनाऽगमानादरं दर्शयति। शशश्रृङ्गादेरित्यप्रामाणिकस्योपलक्षणम्। एतच्च तत्रतत्र लेशतो दर्शितम्। (२०६, २६६, ६९४, ७९२)
न शशशृङ्गाद्यनुमानप्रतिबन्दीग्रस्तत्वमात्रेणैतेषामनुमानानामप्रामाण्यं युक्तम्। तथासति धूमानुमानस्याप्यप्रामाण्यप्रसङ्गात्। तत्रापि हि शक्यते वक्तुम् यदि धूमवत्त्वात् पर्वतोऽग्निमान्, तदा पशुत्वाच्छशोऽपि विषाणवान् स्यादिति।
अथोच्येत। तुल्ययोगक्षेमत्वे हि प्रतिबन्दीग्रहः। अन्यथाऽतिप्रसङ्गात्। नचात्र तुल्ययोगक्षेमता धूमानुमानस्य, व्याप्त्यादिसामर्थ्यसहितत्वात्। शशशृङ्गाद्यनुमानस्य तदभावादिति। सममेतत् प्रकृतेऽपि। प्रस्तुतानुमानानामपि व्याप्त्यादिमत्त्वादित्यत आह प्रत्यक्षमिति।

प्रत्यक्षमागमो वाऽपि भवेद् यत्र नियामकः।
सैव व्याप्तिर्भवेन्मानं नान्या सन्दिग्धमूलतः॥८७॥
वाशब्दः समुच्चये। अपिरनुमानस्य समुच्चयार्थः। नियामको ग्राहकः। मानम्, अनुमानमानत्वोपयोगिनी। अन्या प्रत्यक्षाद्यगृहीता। सन्दिग्धमूलतः सन्दिग्धाव्यभिचारत्वतः। अव्यभिचारो हि साहित्यस्य व्याप्तित्वे मूलम्। तत्र प्रत्यक्षगृहीता व्याप्तिर्यथा धूमस्याग्न्निा। आगमगृहीता यथा “ब्राह्मणो न हन्तव्यः’ इति। अनुमानगृहीता यथा व्यतिरेकिप्रयोगे।
एतदुक्तं भवति प्रत्यक्षाद्यवधृतं हि व्याप्त्याद्यनुमानमानताङ्गम्। न स्वसमयमात्रसिद्धम्। सन्दिग्धव्यभिचारित्वात्। समयानां सन्दिग्धमूलत्वाच्च। विद्यते च धूमाद्यनुमानानां प्रमाणावघृतं व्याप्त्यादीति न प्रतिबन्दीग्रहमात्रेण तद्भङ्गः। न परमाण्वाद्यनुमानानामिति प्रतिबन्दीग्रस्तत्वादप्रामाण्यमेव। ननु व्याप्त्याद्यभावे किं प्रतिबन्दीग्रहेण? तत एवाप्रामाण्यसिद्धेरिति। सत्यम्। प्रत्यक्षाद्यनवधृतव्याप्त्यादेरपि प्रामाण्येऽतिप्रसङ्गो वा, तदप्रामाण्ये दृष्टान्तो वा, प्रतिबन्दीग्रहेण द्योत्यत इत्यदोष इति।
॥ सहदर्शनमात्रस्य व्याप्त्यनिर्णायकत्वम्॥
सत्यमेतत् प्रत्यक्षाद्यवधृतैव व्याप्तिरनुमानप्रामाण्योपयोगिनीति। सा च धूमानुमानवत् परमाण्वाद्यनुमानेष्वप्यस्त्येव। धूमस्याग्न्निेव महदारम्भकत्वादीनामपि सावयवत्वादिना साहित्यदर्शनादित्यत आह सहेति।
सहदर्शनमात्रेण न व्याप्तिरवसीयते।
न धूमादीनामप्यग्न्यादिभिः सहदर्शनमात्रेण व्याप्तिरवसीयते। येन महदारम्भकत्वादीनामपि सावयवत्वादिभिस्ततोऽवसीयेत। तथासत्यग्न्यादीनां धूमादिभिरपि व्याप्त्यध्यवसायप्रसङ्गात्। सहदर्शनमात्रस्य तत्रापि सत्त्वात्। व्यभिचारानुपलम्भे सति साहित्यदर्शनं व्याप्त्यध्यवसायहेतुरिति चेत्, किं सकलेदशकालनिष्ठोऽनुपलम्भः, किं वा तद्विशेषनिष्ठः? नाऽद्यः, अस्मदाद्यशक्यत्वात्। न द्वितीयः, अतिप्रसङ्गादिति।
॥ प्रत्यक्षागमाभ्यां साध्यसाधनसम्बन्धस्य अव्यभिचरितत्वे निश्चिते व्याप्त्यध्यवसायः॥
कथन्तर्हि व्याप्त्यध्यवसायः स्यादित्यत आह यदैवेति।
यदैवाव्यतिरेकेऽस्य ह्यक्षजं वाऽऽगमो भवेत्।
तन्निर्धारितयुक्तिर्वा व्याप्तिः सैवापरा नहि॥८८॥
अव्यतिरेके साध्याभिमतव्यतिरेकेणासत्त्वे। अस्य साधनाभिमतस्य धर्मस्य। युक्तेर्व्याप्तिनिश्चयहेतुत्वेऽनवस्था स्यात्। तद्व्याप्तेरपि युक्त्यन्तरेण निश्चेतव्यत्वादित्यत उक्तम् तन्निर्धारितेति। व्याप्तिशब्दोऽध्याहार्यः। तेन प्रत्यक्षेण आगमेन वा निर्धारितव्याप्तिकेत्यर्थः। अपरा साहित्यदर्शनमात्रनिबन्धना नहि।
अयमर्थः नियतः सम्बन्धो हि व्याप्तिः। न सम्बन्धमात्रम्। नियमश्च व्यभिचाराभावः। अतः साहित्य इव व्यभिचाराभावेऽपि प्रमाणप्रवृत्तौ व्याप्तिसिद्धिः। नचैतदशक्यम्। अनुमित्यनुदये सर्वव्यवहारविलोपप्रसङ्गेन कार्यदर्शनादेव तत्सिद्धेः। प्रकारस्तु चिन्त्यते।
॥ प्रत्यक्षेण व्याप्तिग्रहप्रकारः॥
तत्र धूमस्याग्न्निा सम्बन्धस्तावत् प्रत्यक्षेणावगम्यते। परिचितदेशकालयोर्व्यभिचारश्च नावगम्यते। देशान्तरादिगते तु व्यभिचारे सन्देहोऽवशिष्यते। स च न तावद् व्यभिचारचिह्नदर्शनजन्यः। किन्तु भूयःसहचरिततया दृष्टा अदृष्टव्यभिचारा अपि धर्मा व्यभिचारिणो दृष्टाः। धर्मश्चायमित्येवमुत्पद्यते। तत्र यद्ययमेतत्सहवृत्तिस्वभावः, तदाऽन्यत्रापि सहैव वर्तेत। स्वभावस्यानपायात्। यदिच असहवृत्तिस्वभावः, तदाऽत्रापि न सह वर्तेत। असहवृत्तिस्वभावस्यापि सहवृत्तिर्निमित्तान्तरायत्ता चेदत्रोपलभ्येत। सहवृत्तिस्वभावस्यापि निमित्तान्तराद् व्यभिचारो भविष्यतीति तु निर्बीजा शङ्का नोदेत्येव। सर्वव्यवहाराभावप्रसङ्गात्।
तदेवं मीमांसासहकृतं प्रत्यक्षं धूमस्याग्न्सिम्बन्धं गृह्णद् व्यभिचाराभावमप्याकलयतीति व्याप्तिमवधारयत्येव। अनुमानागमाभ्यां तु व्याप्तिग्रहप्रकारः सुगम एवेति।
॥ प्रत्यक्षाद्यसहकृतानुमानेनैव परमाण्वादिसिद्ध्यङ्गीकारे
सप्तमरसादीनामपि सिद्धिप्रसङ्गः॥
नन्वनेनैव न्यायेन महदारम्भकत्वादीनामपि व्याप्तिनिश्चयसम्भवात् कथं परमाण्वादावानुमानाप्रवृत्तिरिति चेत्, न। पक्षेतरत्वस्योपाधित्वसम्भवेन व्यभिचाराभावानिश्चयात्। अथ तस्योपाधित्वं नास्तीत्युच्येत तदा बाधकमाह अन्यथेति।
अन्यथा सप्तमरसभावोऽप्यनुमयाऽऽपतेत्।
अनिष्टानि च सर्वाणि ह्यनुमा कामचारिणी॥८९॥
पक्षेतरत्वस्योपाधितामनादृत्य प्रमाणान्तरासहकृतेनैवानुमानेन परमाण्वादिसिद्ध्यभ्युपगम इत्यर्थः। मधुरो रसो लवणादिरसपञ्चकव्यतिरिक्तरसान्योन्याभाववान्, रसत्वात्; लवणवदित्याद्यनुमया। अनिष्टानि च सर्वाणि दहनशैत्यादीन्यापतेयुः। कुतः? यस्मादेवंविधाऽनुमा कामचारिणी।
ननुच सप्तमरसादेरनुपलम्भादिबाधितत्वात् पक्षेतरत्वोपाधिदुष्टत्वमनुमानानामिति चेत्, समं प्रकृतेऽपि। परमाण्वादेरप्यनुपलम्भबाधितत्वात्। अयोग्यं तदिति चेत्, तुल्यं सप्तमरसादावपि। अनुमानप्रामाण्ये सप्तमरसादिसिद्धावयोग्यत्वं कल्प्यम्। कल्पिते च तस्मिन्ननुमानप्रामाण्यसिद्धिरित्यन्योन्याश्रयत्वादिति चेत्, एतदपि तादृगेव। अनुपभोग्यस्य सप्तमरसादेः कल्पने गौरवमिति चेत्, समाधिसाम्यम्। प्रमिते न गौरवं दोष इत्येतदपि समानम्। तस्मात् परमाण्वादेः साक्षिवेद्यत्वमङ्गीकृत्य प्रतिबन्दी मोचनीयेति कथं न तस्य साक्षिवेद्यत्वमिति॥*॥

॥ द्वादशसूत्रस्याव्याख्याने निमित्तम्॥
“उभयथाऽपि न कर्मातस्तदभावः” इति सूत्रम्, तत् “नित्यमेव च भावात्” इत्यागामिसूत्रव्याख्यानन्यायेनैव व्याख्यातं भविष्यतीति मन्वानस्तदपहाय हेत्वन्तरेण वैशेषिकादिसमयमपाकुर्वत् “समवायाभ्युपगमाच्च साम्यादनवस्थितेः” इत्येतत् सूत्रं व्याचष्टे कार्येति।
॥ अप्रामाणिकसमवायाभ्युपगमाच्च वैशेषिकमतस्य प्रेक्षावदनुपादेयत्वम्॥
ॐ समवायाभ्युपगमाच्च साम्यादनवस्थितेः ॐ॥१३॥
कार्यकारणयोश्चैव गुणादेः पञ्चकस्य च।
भिन्नस्यैव तु सम्बन्धः समवायोऽन्य ईर्यते॥९०॥
समवाय ईर्यत इति वक्ष्यमाणमात्रापि सम्बद्ध्यते। अनेन समवायप्रतिपादकं परेषां “इहेति यतः कार्यकारणयोः स समवाय” इति सूत्रमर्थतोऽनुवदति। अत्र कार्यकारणशब्दावयव्यवयववाचकौ। तौ चोपलक्षणपराविति सूचनार्थश्चशब्दः। एवशब्दः समवायस्येहप्रत्ययसिद्धत्वं सूचयति।
तदेतत् स्वयमेव विवृणोति गुणादेरिति। गुणादेः पञ्चकस्येति गुणावयवक्रियासामान्यविशेषाणामित्यर्थः। चशब्देन गुण्यादिपञ्चकस्य च इति समुच्चिनोति।
ननु गुणगुण्यादिकमभिन्नम्, भिन्नाभिन्नं वा। तत् किं समवायेनेत्यत उक्तम् भिन्नस्यैवेति। तुशब्दो विशेषार्थः। न ययोः कयोश्चिद् गुणगुणिनोः समवायः, किन्त्वयुतसिद्धयोरेवेति। स गुणगुण्यादिस्वभाव एव चेत्, न पदार्थान्तरसिद्धिरित्यत उक्तम् अन्य इति। ईर्यते वैशेषिकादिभिः। अतोऽपि तद्दर्शनमयुक्तमिति शेषः।
अयमर्थः वैशेषिकादयोऽवयवावयविनोः, गुणगुणिनोः, क्रियाक्रियावतोः, जातिव्यक्त्योः, विशेषनित्यद्रव्ययोरत्यन्तभेदमभ्युपगम्यात्यन्तभिन्नमेव समवायाख्यं सम्बन्धमभ्युपगच्छन्ति। ततोऽप्यनुपपन्नभाषिण इति।
॥ परैरवयवावयव्यादीनां भिन्नत्वमुपेत्य तेषामाधाराधेयभावप्रतीत्यन्यथानुपपत्त्या समवायसमर्थनम्॥
ननुच गुणगुण्यादीनामत्यन्तभेदस्तावद् व्यपदेशभेदादिप्रमाणसिद्धः। अन्यथा स्तम्भकुम्भादीनामप्यत्यन्तभेदो न स्यात्। अस्ति चेह तन्तुुषु पटः, इह पटे रूपम्, इह मूर्ते कर्म, इह गवि गोत्वम्, इह नित्यद्रव्ये विशेष इत्यबाधितः प्रत्ययः। नचेहेदमिति प्रत्ययो विनाऽतिरिक्तेन सम्बन्धेनोपपद्यते। इह कुण्डे बदराणीति प्रत्ययस्य संयोगपूर्वकत्वदर्शनात्। स चायमयुतसिद्धयोः सम्बन्ध इति संयोगाद् भिद्यते। युतसिद्धयोर्हि सम्बन्धः संयोगः। द्रव्यमात्रवृत्तिश्च। तदेवं प्रमितस्य समवायस्याभ्युपगमे कथमयुक्तवादित्वं वैशेषिकादीनामित्यत आह भिन्नत्वेति।
॥ अयुतसिद्धयोः इहप्रत्ययबलात् समवायस्याभ्युपगमनीयत्वे समवायसमवायिनोरपि
अयुतसिद्धत्वेन अबाधितेहप्रत्ययबलात् समवाये समवायान्तराङ्गीकारप्रसङ्गः॥
भिन्नत्वसाम्यतस्तस्य ताभ्यां योगो भवेद् ध्र्ुवम्।
भिन्नत्वसाम्यत इत्युपलक्षणम्। इहप्रत्ययसाम्यतश्चेत्यपि द्रष्टव्यम्। तस्य समवायस्य। ताभ्याम् अवयवावयव्यादिसम्बन्धिभ्यां सह। योगः सम्बन्धः।
एतदुक्तं भवति इह तन्तुषु पट इत्यादिप्रत्यक्षः सम्बन्धपूर्वकः, अबाधितेहप्रत्ययत्वात्; इह कुण्डे बदराणीति प्रत्ययवदिति समवायमनुमिमानेन योऽबाधितेहप्रत्ययः स सम्बन्धपूर्वक इति व्याप्तिरवश्यमङ्गीकरणीया। विद्यते चेह तन्तुपटयोः समवाय इत्यबाधितेहप्रत्ययः। तेन समवायस्यापि तन्तुपटाभ्यां समवायोऽभ्युपगन्तव्य एव स्यात्। नचाभ्युपगम्यते। अतस्तत्र अनैकान्तिकमनुमानमिति।
ननु तन्तुपटयोः समवायः सिद्धः, नवा? सिद्धश्चेत् किमुत्तरकालभाविनाऽनैकान्त्येन? नचेत् क्वानैकान्त्यम्? मैवम्। आपाततः प्रतीते सम्बन्धे व्यभिचारं दृष्ट्वा परावृत्तेरावश्यकत्वस्य विवक्षितत्वात्।
॥ मूले समवायस्य समवायिभ्यां भिन्नत्वसाम्योक्तेः प्रयोजनम्॥
नन्वत्र भिन्नत्वसाम्यं किमर्थमुपन्यस्तम्? नहि भिन्नत्वं हेतूकृतमिति। सत्यम्। अबाधितत्वद्योतनार्थं भिन्नत्वग्रहणम्। विभिन्नवस्त्वभावे खल्विह प्रत्ययो बाधितः स्यात्। इह तन्तुपटयोः समवाय इति प्रत्ययोऽपि सम्बन्धपूर्वक एव तन्तुपटसमवायस्यैतत्कारणत्वादिति चेत्, न। आधाराधेयतया प्रतीयमानयोः सम्बन्धस्य परेण सिषाधयिषितत्वात्। अन्यथा स्थाणुश्येनयोः संयोग इत्यत्र समवायासिद्धिप्रसङ्गात्। इन्द्रियार्थसन्निकर्षादिना सिद्धसाधनतापत्तेश्च।
॥ समवायस्यापि समवायान्तराङ्गीकारे अनवस्थाप्रसङ्गः, अपसिद्धान्तो वा॥
नन्वनवस्थितेरिति सूत्रं कथम्? इत्थम् यदि व्यभिचारपरिहाराय समवायस्यापि समवायान्तरमुपेयते। तदाऽनवस्थितिरिति।
इह केचित् समवायं प्रत्यक्षमाचक्षाणाः, यत इति च विषयसप्तमीं व्याचक्षाणाः, तत्स्थेम्नेऽनुमानमाचक्षते। तेषामिहप्रत्ययस्य सम्बन्धपूर्वकत्वं नाम तत्प्रतीतिपूर्वकत्वमेव। तन्मते स्फुटैवानवस्था।
ये तु प्रत्यक्षतां नाम्युपगच्छन्ति, सम्बन्धस्य सत्तामात्रेणेहप्रत्ययकारणत्वमाहुः, तेषामवस्थितिः सिद्धान्तः तद्विरोधोऽनवस्थितिरित्यनवस्थितिशब्दोऽपसिद्धान्तवाची व्याख्यायते।
यद्वेह कुण्डे बदराणीतिवत् सम्बन्धस्य प्रतीत्यैवेहप्रत्ययकारणत्वादत्रापि प्रतीतिमापाद्यानवस्थैव वक्तव्या। कुण्डबदरसंयोगस्य योग्यतया अवर्जनीयतया प्रतीतिर्नेहप्रत्ययकारणमिति कुत एषा कल्पना? सत्तामात्रेणेहप्रत्ययकारणत्वोपपत्तौ प्रतीतेरपि कारणत्वकल्पकाभावादिति चेत्, न। सत्यपि संयोगे कुतश्चिद् व्यवधानादप्रतीयमाने नेहबुद्धिर्भवति। भवति चासत्यपि संयोगे तद्विपर्ययादित्यन्वयव्यतिरेकयोः कल्पकत्वात्। स्वस्वामिभावादयोऽपि हि ज्ञाता एव सम्बन्धनिमित्तव्यवहारहेतवो दृष्टाः, नान्यथा। न ते सम्बन्धा अद्विष्ठत्वादिति चेत्, न। संयोगस्याप्यद्विष्ठताया वक्ष्यमाणत्वात्। (७२१) किञ्चैवं समवायोऽपि न सम्बन्धः स्यात्। तस्यानाश्रितत्वाभ्युगमात्।
नन्वेवन्तर्हि नानैकान्त्यम्, अनवस्थयैव बाधितत्वेनाबाधितेहप्रत्ययत्वस्य तत्रावृत्तेरिति चेत्, न। अनवस्थायाः साध्यबाधकत्वेन साधनाबाधकत्वात्। साध्यबाधेनैव साधनबाधनाभ्युपगमस्य व्याप्तिनिश्चयोत्तरकालीनत्वात्। तन्तुपटयोः समवाय इति प्रतीतिरपि सम्बन्धपूर्विकैव। किन्त्वारोपित एवासौ सम्बन्ध इति चेत्, न। अनवस्थानिस्तारात्। आरोपितसम्बन्धपूर्वकत्वं हि सम्बन्धारोपपूर्वकत्वमेव, प्रतीतौ चेहानवस्थोक्तेति कथं तन्निस्तारः? किञ्चैवं वदता सत्तयैव सम्बन्धस्य कारणत्वमिति मतं त्यक्तं स्यात्।
अपिचाबाधितोऽपीहप्रत्ययो यदि सम्बन्धारोपमात्रेण भवेत्, तदा तन्तुपटादावपि किं न भवेदिति समवायासिद्धिः। क्वचित् सिद्धस्य क्वचिदारोपः कुत्राप्यभावे तदसिद्धिरिति चेत्, न। स्थाणुश्येनयोः सम्बन्धस्य सत्त्वात्। अन्यथा समवायेऽपि समवायान्तरारोपो न स्यात् समवायान्तरस्य क्वाप्यसम्भवात्। समवाये भेद एवाऽरोप्यते न समवायान्तरमिति चेत्, न। तावन्मात्रेणेहप्रत्ययायोगात्। सम्बन्धिसम्बन्धभावोऽप्यारोप्यत इति चेत्, न। तर्हि तन्तुपटादावपि तदारोपमात्रेणेहप्रत्ययोपपत्तौ किं समवायेनेति।
॥ समवायस्य स्वनिर्वाहकत्वाङ्गीकारे द्रव्यस्यैव तथात्वाभ्युपगमेनाभिमतसिद्धेः समवायकल्पनायोग॥
ननु समवायेऽपीहेदमिति प्रत्ययः समवायाधीन एव। नचापसिद्धान्तोऽनवस्था वा। तस्यैव समवायस्य स्वनिर्वाहकत्वात्। य एव हि समवायोऽवयवादिष्ववयव्यादीनां सम्बन्धः, स एवावयवावयव्यादिष्वात्मनः सम्बन्ध इत्याशङ्कते स इति।
स स्वनिर्वाहकश्चेत् स्याद्द्रव्यमेव तथा न किम्॥९१॥
सः अवयवावयव्यादिसमवायः। एवन्तर्हि किं समवायेन? द्रव्यस्यैव स्वनिर्वाहकत्वोपपत्तेरिति परिहरति द्रव्यमेवेति। तर्हीति शेषः, तथा स्वनिर्वाहकम्। किं कस्मात्।
अयमाशयः यदीहेदमिति बुद्धिर्नावश्यं स्वातिरिक्तसम्बन्धसापेक्षा, क्वचित् स्वनिर्वाहकत्वात्, तर्हि द्रव्यगुणादीनामिहेदमिति प्रत्ययोऽपि नातिरिक्तसम्बन्धाधीनोऽङ्गीकार्यः। द्रव्यस्यैव स्वनिर्वाहकतयाऽपि तदुपपत्तेरिति। समवायः सम्बन्धात्मकत्वात् स्वनिर्वाहकः, न द्रव्यमिति चेत्, न। तदसिद्धौ सम्बन्धत्वस्याप्यसिद्धेः। संयोगस्यापि स्वनिर्वाहकतापत्तेश्च। तस्यानित्यत्वान्नेति चेत्, न। समवायनित्यत्वस्यासिद्धेरिति।
॥ समवायतद्धर्माणां सविशेषाभेदस्यावश्यमभ्युपगमनीयत्वेन
    गुणक्रियादीनामेव द्रव्यविशेषत्वमङ्गीक्रियताम्, लाघवात्॥
एवं द्रव्याद् गुणादीनामत्यन्तभेदेऽपि न तत्सम्बन्धः समवायलक्षणोऽपरः सिद्ध्यति, समवायवद् द्रव्यस्यैव स्वनिर्वाहकत्वोपपत्तेः कल्पनालाघवाच्चेत्युक्तम्। इदानीं गुणादीनां द्रव्यादत्यन्तभेदाभावाच्च न समवायसिद्धिरित्याशयवांस्तदत्यन्तभेदे परोपन्यस्तान् हेतूनपाकर्तुं उपोद्घातं तावदाह विशेष इति।
विशेषस्तद्गतत्वादिर्यद्यभिन्नेऽवसीयते।
गुणक्रियादिरूपस्य निषेधः केन हेतुना॥९२॥
द्रव्यमेव ततोऽनन्तविशेषात्मतया सदा।
नानाव्यवहृतेर्हेतुः....................॥९३॥
अभिन्ने समवाय इति शेषः। अवसीयते अङ्गीक्रियत इति यावत्। गुणक्रियादिरूपस्य विशेषस्येति शेषः। केन हेतुना न केनापि।
इदमुक्तं भवति समवाये तावदवयवावयव्यादिगतत्वमङ्गीकृतम्। “आश्रितत्वं चान्यत्र नित्यद्रव्येभ्यः” इति वचनात्। नचानित्यद्रव्यगुणकर्मसामान्यविशेषाणामिव समवायस्य तद्गतत्वं नाम समवायलक्षणवृत्तिः सम्भवति। तस्याभिन्नत्वात्। अतस्तद्गतत्वं नाम समवायस्वरूपमेवेत्यङ्गीकर्तव्यम्। परतन्त्रतयोपलब्धितस्तद्गतत्वमिति चेत्, न। तस्याः समवायधर्मत्वानुपपत्तेः। तद्विषयत्वात् तद्धर्मत्वमिति चेत्, न। विषयत्वस्यापि समवायस्वरूपानतिरेकात्।
एवमस्तित्वाभिधेयत्वज्ञेयत्वसम्बन्धत्वादयोऽपि समवायेऽभ्युपगताः न समवायस्वरूपाद् भिद्यन्ते। भेदे हि तेषां समवायेन सम्बन्धो वक्तव्यः। अन्यथा कथमेते तत्र स्युः? नच सम्बन्धो युक्तः, संयोगस्य गुणत्वेन द्रव्यमात्रवृत्तेः, समवायस्य चाभिन्नत्वात्। तत्र पृच्छामः समवायस्य तद्गतत्वादिधर्माणां चाभेदे कथमपर्यायशब्दवाच्यत्वं, धर्मधर्मिभावः, षष्ठीप्रयोगो, ज्ञातत्वाज्ञातत्वम्, एकत्वानेकत्वमित्यादि युज्यत इति। नह्यत्रोपचारादिकल्पना युक्ता। मुख्यप्रयोगादेरदर्शनात्। न तद्गतत्वादि समवायतन्मात्रं, येनानुपपत्तिः स्यात्। किन्तु समवायाभिन्नमपि तद्विशेषात्मकम्। अतो व्यपदेशभेदादि युज्यते। विशेषस्य भेदप्रतिनिधित्वादित्येवागतिकतया तत्र समाधिरभिधानीयः। तथाच यद्यभिन्नेऽपि समवाये तद्गतत्वादिविशेषोऽङ्गीक्रियते तदा गुणक्रियादिकमपि द्रव्यस्वरूपमेव सद्विशेषात्मकं भवतु, नतु तन्मात्रम्। समवायधर्मास्तद्विशेषाः, गुणादयस्तु न द्रव्यविशेषा इत्यत्र विशेषहेत्वभावादिति।
किमतो यद्येवमित्यत आह द्रव्यमेवेति। समवायधर्मवद् गुणादीनां द्रव्यविशेषत्वादित्यर्थः। अनन्तशब्दो यत्र यावन्तो व्यवहारास्तावतामुपलक्षकः। नानाव्यवहृतेः व्यपदेशभेदादेरित्यर्थः।
एतदुक्तं भवति गुणगुण्यादेरत्यन्तभेदे सिद्धे हि तत्सम्बन्धः समवायः सिद्ध्यति। गुणगुण्याद्यत्यन्तभेदस्तु न प्रामाणिकः। तथाहि न तावत् तत्र प्रत्यक्षं प्रमाणम्, गवाश्र्वादिवदनुपलम्भात्। अतो गुणगुणिनावत्यन्तभिन्नौ, अपर्यायशब्दवाच्यत्वात्; घटपटवदित्याद्यनुमानमेव वक्तव्यम्। तच्च अनैकान्तिकम्। समवायस्य तद्धर्माणां च भेदाभावेऽप्यपर्यायशब्दवाच्यत्वादन्यथासिद्धं च। यथा समवाये तद्गतत्वादिधर्माणां भेदाभावेऽपि विशेषापरनामकात् स्वभावविशेषादेवापर्यायशब्दवाच्यत्वादिकमुपपादनीयम्, गत्यन्तराभावात्, तथा गुणगुण्यादीनमत्यन्ताभेदेऽपि गुणादीनां द्रव्यविशेषत्वे तद् द्रव्यमेव विशेषशक्त्यैवापर्यायशब्दवाच्यत्वादिव्यवहारहेतुर्भविष्यति। तथाच विपक्षे बाधकाभावादप्रयोजकत्वं हेतूनामिति।
॥ गुणगुण्याद्यत्यन्तभेदसाधकहेतूनां व्यभिचरितत्वम्, अप्रयोजकत्वं च॥
यद्वा, “विशेषस्तद्गतत्वादिः” इत्यनेनैव गुणगुण्याद्यत्यन्तभेदसाधकानां हेतूनामनैकान्त्याप्रयोजकत्वे वर्णिते। यदि तद्गतत्वादिधर्माभिन्ने समवाये तद्गतत्वादिविशेषोऽभ्युपेयते, विशेषेणैव च व्यवहारा निर्वहिष्यन्ते, तदा व्यपदेशभेदादिहेतूनां व्यभिचारान्यथासिद्धिभ्यां आभासत्वात् केन हेतुना द्रव्यस्य गुणक्रियादिरूपस्य गुणक्रियादिस्वरूपत्वस्य निषेधः करिष्यते? गुणगुण्याद्यत्यन्तभेदः केन हेतुना साधयिष्यत इति यावत्।
अन्यथासिद्धिमेव प्रकटयन्नुपसंहरति द्रव्यमेवेति। समवायवदिति वक्ष्यमाणमत्रापि सम्बध्यते। यथा समवायस्य तद्गतत्वादिविशेषात्मतया व्यपदेशभेदादिव्यवहारहेतुत्वम्, तथा द्रव्यमेव घटादिकं गुणक्रियाद्यनन्तविशेषात्मतया नानाव्यवहृतेर्हेतुर्भवतीति।
॥ गुणगुण्यादिभेदव्यवहाराणां गौणत्वकल्पनानिरासः॥
नन्वौपचारिकत्वं वा भ्रान्तिमूलत्वं वा व्यवहारणामङ्गीकृत्य हेतूनां दूषणं शक्यम्। तत् किं विशेषाङ्गीकारेण? नैवं शक्यम्। औपचारिकत्वादौ हि कदाचिन्मुख्यो व्यवहारः स्यात्। नहि तीरादौ सदा गङ्गादिव्यवहारोऽस्ति। नचैवं प्रकृते। सदैवापर्यायशब्दवाच्यत्वादेः सत्त्वात्। यदाऽप्यभेदबोधाय रूपमेव घट इति वा, विज्ञानं ब्रह्मेति वा व्यवह्रियते तदाऽपि न पर्यायतामुपेत्य, तथाऽननुभवात्। अतो वक्तव्यमेवात्र निमित्तम्। तदिदमुक्तम् सदेति।
॥ गुणक्रियादीनां द्रव्यविशेषत्वाङ्गीकृतौ व्याहतिमाशय परिहारकथनम्॥
नन्वनन्तविशेषात्मकमेकमेव द्रव्यमिति व्याहतमिति चेत्, किं माता वन्ध्येतिवत् साक्षाद् विरोधः, किंवा कृतकं नित्यमितिवद् व्याप्त्या? नाऽद्यः, यतोऽनन्तत्वं सङ्ख्याविशेषः, एकत्वं चाभेदः। न द्वितीयः, यत्रानेकत्वं तत्रावश्यं भेद इति व्याप्तौ हि स स्यात्। नचैवम्। भेदप्रतिनिधिना विशेषेणैव अनेकत्वसङ्ख्यानिर्वाहादित्याह अनन्तत्वमिति।
...................अनन्तत्वं विशेषतः॥९३॥
ईश्वराख्यद्रव्यविशेषाणामनन्तत्वम्, अन्यत्रानेकत्वमिति द्रष्टव्यम्। अत्रापि समवायवदिति सम्बद्ध्यते। एक एव हि समवायोऽनेकधर्मात्मकोऽङ्गीक्रियते।
॥ विशेषस्य स्वर्निर्वाहकत्वाङ्गीकारात् नानवस्थाप्रसङ्गः॥
नन्वयं नानाव्यवहारनिर्वाहहेतुर्विशेषो यदि द्रव्यात्मैव, कथन्तर्हि द्रव्यस्य विशेषः स्यात्? तदीयताया भेदव्याप्तत्वात्। मैवम्। विनाऽपि भेदेन तत्प्रतिनिधिना विशेषेणैव विशेषस्य तदीयतोपपत्तेः। एवन्तर्हि तस्यापि विशेषस्य विशेषत्वसिद्धये विशेषान्तरमङ्गीकर्तव्यमित्यनवस्थेत्यत आह विशेषश्चेति।
विशेषश्च विशेषी सः स्वेनैव समवायवत्।
यथा समवायः स्वेनैव समवायी, न सम्बन्धान्तरेणेत्यभ्युपगम्यानवस्था परेण पराक्रियते, तथा स द्रव्येऽनेकव्यवहारनिर्वाहहेतुर्विशेषश्च स्वेनैव विशेषी न पुनर्विशेषान्तरेण। अतो न कश्चिद् दोष इति। समवायवदित्युपलक्षणम्। सत्तान्त्यविशेषवच्चेत्यपि द्रष्टव्यम्। यथा द्रव्यगुणकर्मसु सद्व्यवहारहेतुः सत्ता स्वेनैव सती स्वीकृता, यथाच नित्यद्रव्येष्वत्यन्तव्यावृत्तिप्रत्यये हेतुरन्यो विशेषः स्वेनैवात्यन्तव्यावृत्तः, तथैवेति।
॥ गुणगुण्यादीनां भेदे अभेदे वा समवायविशेषान्यतराङ्गीकारेण दोषपरिहारसम्भवेऽपि
लाघवादभेदपक्ष एवाङ्गीक्रियते, न भेदपक्षः॥
अथाऽपि स्यात्। गुणगुण्यादिभेदमभ्युपगच्छता मया इहेदमिति व्यवहारनिर्वाहाय समवायोऽङ्गीक्रियते, तस्य चानवस्थापरिहाराय स्वनिर्वाहकत्वम्। अभेदं चाभ्युपगच्छता त्वयाऽपर्यायशब्दवाच्यतादिसिद्धये विशेषोऽङ्गीक्रियते, तस्य चानवस्थानिरासाय स्वनिर्वाहकत्वमिति पक्षद्वये समाने को विशेषोऽभेदपक्षे, येन स परिगृह्यते? समवायस्याप्रामाणिकत्वमिति चेत्, समं विशेषेऽपि। अपर्यायव्यवाहारादिना स सिद्ध इति चेत्, तर्हि समवायोऽपीहेदमित्यादिना सिद्ध इति तुल्यम्। तदनैकान्तिकमित्युक्तमिति चेत्, अपर्यायव्यवहारादिकमपि घटपटादावनैकान्तिकमिति समानम्। अस्तु तर्हि गुणगुण्यादिभेदे प्रमाणाभावो विशेष इति चेत्, न। अभेदेऽपि प्रमाणाभावात्। गवाश्र्वादिवद् विवेकेनानुपलम्भो अभेदे प्रमाणमिति चेत्, तर्हि व्यपदेशभेदादि भेदे प्रमाणमस्तीति समाधिसाम्यम्। तद् व्यभिचारान्यथासिद्धिभ्यां निरस्तमिति चेत्, अभेदप्रमाणमपि तादृगेव। तस्यापि क्षीरनीरादौ व्यभिचारात्। अयुतसिद्धत्वेनान्यथासिद्धेश्च। तस्मान्निर्निमित्तोऽयमभेदपक्षपात इत्यत आह कल्पनेति।
कल्पनागुरुतादोषात् पदार्थान्तरता नहि॥९४॥
पदार्थान्तरता गुणगुण्यादीनामिति शेषः। यद्यपि भेदाभेदपक्षयोः स्वनिर्वाहकसमवायविशेषाङ्गीकारेण साम्यम्, तथाऽपि भेदपक्षे कल्पनागुरुतादोषात् गुणगुण्यादीनां पदार्थान्तरता नाङ्गीक्रियते। कल्पनालाघवादभेद एवोपेयत इति।
॥ गुणगुण्यादीनां भेदपक्षे कल्पनागौरवप्रसङ्गः॥
कथं भेदवादे कल्पनागौरवमित्यत आह कल्पयित्वेति।
कल्पयित्वा ष पदार्थान् साभावानपि केवलम्।
एकस्मिन् स विशेषश्चेत् किं पूर्वं तस्य विस्मृतिः॥९५॥
केवलमित्येतत् षडित्यनेनैकस्मिन्नित्यनेन च सम्बद्ध्यते। एकस्मिन् समवाये, सः विचित्रव्यवहारहेतुश्चेदङ्गीक्रियत इति शेषः। किं कस्मात्। पूर्वं द्रव्य इत्यर्थः। तस्य विशेषस्य।
अयमभिसन्धिः व्यपदेशभेदादिप्रमाणमवलम्ब्य वैशेषिकादिभिर्द्रव्यादयो भावपदार्थाः षडेव, अभावोऽपि सप्तम इति कल्पितम्। समवाये प्रतीतं तद्गतत्वादिकं तु न समवायातिरिक्तम्। किन्तु स्वभावभेदापरनाम्ना विशेषेणैव तत्र व्यपदेशभेदाद्युपपत्तिरिति च। तत्रान्ततोऽप्यङ्गीकर्तव्येन व्यपदेशभेदादिनिर्वाहकेण विशेषेणैव द्रव्येऽपि तन्निर्वाहो वक्तव्यः। सप्तपदार्थीनिरूपणं न कर्तव्यम्। यद्वा द्रव्यवत् समवायेऽपि तद्गतत्वादीनां भेद एव स्वीकार्यः। तेषां च द्रव्यादिष्वन्तर्भावासम्भवे सप्तपदार्थनियमस्त्याज्यः। विशेषकारणेन विना क्वचिद् भेदस्य क्वचिद् विशेषस्याभ्युपगमे कथं कल्पनागौरवं न स्यात्? तदभावे वाऽभेदवादे कथं कल्पनालाघवं न भवेदिति। भेदप्रतीत्यप्रतीतिभ्यां विशेष इत्यादि तु निराकरिष्यते। (७०४) अत्र द्विधाकल्पनप्रदर्शनार्थेनैव पूर्वार्धेन समवाये विशेषस्य अङ्गीकर्तव्यताऽपि समर्थिता वेदितव्या। अत एव केवलशब्दसम्बन्धः। सप्तैव हि पदार्थाः। नच तेषु समवायधर्माणामन्तर्भावः सम्भवतीति विशेषा एव तेऽङ्गीकर्तव्या इति।
॥ समवायस्य प्रत्यक्षत्वनिरासः॥
न केवलं सर्वथाऽङ्गीकार्येण विशेषेणैव गुणगुण्यादिव्यपदेशभेदाद्युपपत्तौ द्रव्यभेदमङ्गीकृत्य समवाय एव एकस्मिन् विशेषाभ्युपगमे कल्पनागौरवमिति भेदमतमपहायाभेदपक्षपातः क्रियते। किन्तु समवाये प्रमाणाभावादपि।
तथाहि न तावत् तत्र प्रत्यक्षं प्रमाणम्। कुण्डदध्नोः संयोग इतिवत् तन्तुपटयोः समवाय इत्यप्रतीतेः। सम्बन्धप्रतीतिरेव तत्प्रतीतिरिति चेत्, न। तस्या असम्मतेः।
एतेनायं तन्तुपटसम्बन्धप्रत्ययश्चक्षुर्जन्यः, अनन्यथासिद्धतदन्वयव्यतिरेकानुविधायित्वात्; पटप्रत्ययवत्ः अयं तन्तुपटयोः सम्बन्धो योगजधर्माजन्यजन्यसाक्षात्कारविषयः, तन्तुपटसम्बन्धत्वात्; एतत्तन्तुपटान्तरसंयोगवदिति समवायप्रत्यक्षतासाधनमप्यपास्तम्। तन्तुपटसम्बन्धतत्प्रत्यययोः असिद्ध्याऽऽश्रयासिद्धेः। सम्बन्धाप्रतीतौ तस्य तत्पूर्वकत्वदर्शनादिति चेत्, न। समवायोऽस्तीत्यादौ व्यभिचारात्।
॥ परोक्तसमवायसाधकानुमानानामाभासताव्युत्पादनम्॥
नाप्यनुमानम्, इहेदमिति प्रत्ययस्य दूषितत्वात्। इह भूतले घटाभाव इति प्रत्यये व्यभिचाराच्च। भावमात्रविषयत्वेन विशेषणाददोष इति चेत्, न। अभाववद् भावेऽप्युपपत्तावन्यथासिद्धेः। इह घटे ज्ञानमिति प्रत्यये व्यभिचारापरिहाराच्च। बाधितोऽयमिति चेत्, न। अन्यथाप्रत्ययानुपलब्धेः।
एतेन जात्यादिगोचरो विशिष्टव्यवहारः सम्बन्धनियतः, भावमात्रविषयाबाधितविशिष्टव्यवहारत्वात्; सघटं भूतलमिति व्यवहारवदित्यपास्तम्। ज्ञातो घटः, अस्ति समवाय इत्यादौ व्यभिचारात्।
एते तन्तव एतत्पटसम्बद्धाः, एतदाश्रयत्वात्; भूतलवत्। अयं पट एतत्तन्तुसम्बद्धः, एतदाश्रितत्वात्; एतदाश्रिततृणादिवदित्यप्यसत्। तन्तुपटयोराश्रयाश्रयिभावासिद्धेः। इह तन्तुष्वयं पट इति व्यवहारसिद्धतत्प्रत्ययात् तत्सिद्धिरिति चेत्, न। इह समवायेऽस्तित्वमित्यादौ व्यभिचारात्।
भूतलरूपादयो भूतलसम्बद्धाः, भूतलविशेषणत्वात्; घटवदित्यपि, भूतलविशेषणे ज्ञानं व्यभिचारादयुक्तम्।
इह तन्तुषु पट इत्यादिप्रत्यय एतज्जनकसंयोगत्वरहितसम्बन्धजन्यः, इहेतिप्रत्ययत्वात्; इह कुण्डे बदराणीति प्रत्ययवत्। नच इह भूतले घटाभाव इति प्रत्यये व्यभिचारः, तत्रापि चक्षुर्भूतलसंयोगादिजन्यत्वस्य सत्त्वादित्यपि न युक्तम्, अयं पट एतज्जनकतन्तुत्वरहितोपादानजन्यः, पटत्वात्; पटान्तरवदित्याभाससमानयोगक्षेमत्वात्।
रूपादयः सम्बन्धवन्तः प्रमेयत्वात्; घटवदित्यप्यनुपपन्नम्, समवायाभावयोर्व्यभिचारात्। तत्रापि विशेषणविशेष्यभावाभ्युपगमान्नेति चेत्, न। तस्य परेण सम्बन्धत्वानङ्गीकारात्। अङ्गीकारे वा तेनैवार्थान्तरत्वात्। मतुबर्थस्याभावाद् बाधितविषयत्वाच्च।
समवायः स्वेनैव सम्बन्धी इत्यादि निरस्तम्।
इदं चक्षुरेतज्जन्यसंयोगज्ञानत्वरहितसम्बन्धज्ञानजनकम्, चक्षुष्ट्वात्; अन्यचक्षुर्वत्ः अहं मन्निष्ठसंयोगज्ञानत्वरहितसम्बन्धज्ञानवान्, आत्मत्वात्; आत्मान्तरवत्ः अयं काल इदानीन्तनसंयोगज्ञानत्वरहितसम्बन्धज्ञानवान्, कालत्वात्; अन्यकालवदित्यादीनि आभाससमानयोगक्षेमत्वात्, विशेषणविशेष्यभावादिनाऽर्थान्तरत्वाच्चापास्तानि।
संयोगत्वं सम्बन्धव्यावृत्तम्, जातित्वात्; गोत्ववदिति सिद्धसाधनम्। जातेः प्रतिव्यक्तिनियतत्वस्य वक्ष्यमाणत्वेनैकस्य संयोगत्वस्य संयोगान्तराद् व्यावृत्तेः, विशेषणविशेष्यभावादितो व्यावृत्तेश्च।
विवादाध्यासिता मृत् घटसम्बद्धा, द्रव्यत्वात्; आकाशवदिति च घटान्तरसंयोगेनार्थान्तरम्। एतद्घटसम्बद्धेति निर्देशेऽप्येतद्घटसम्बन्धमलब्ध्वा विनष्टद्रव्येऽनैकान्तिकम्। तत्रापि परम्परासम्बन्धोऽस्तीति चेत्, तर्हि सिद्धसाधनम्। मृत्संयुक्तभूतलस्य घटसंयुक्तत्वात्।

तन्तुपटौ नित्यसम्बन्धसम्बद्धौ, द्रव्यत्वात्; आकाशवदिति दृष्टान्तस्य साध्यविकलत्वादपास्तम्। संयोगः स्वव्यतिरिक्तसम्बन्धाद् भिन्नः, प्रमेयत्वात्; घटवदित्यत्र स्वव्यतिरिक्तपदेन स्वान्योन्याभावविवक्षायां सिद्धसाधनता। एकस्य संयोगस्य संयोगान्तराद् भिन्नत्वात्। संयोगत्वरहितत्वविवक्षायामप्रसिद्धविशेषणत्वम्। विशेषणविशेष्यभावादिना तत्समाधाने तेनैव सिद्धसाधनम्।
अयं संयोग एतदन्यसंयोगत्वरहितसम्बन्धान्यः, मेयत्वात्; घटवदित्याद्याश्च आभाससमानयोगक्षेमत्वादुपेक्षणीयाः। तदेवं समवाये प्रमाणाभावान्न भेदपक्षोऽङ्गीक्रियते।
॥ विशेषस्य प्रत्यक्षादिप्रमाणसिद्धत्वादङ्गीकर्तव्यर्तों
ननूक्तमत्राभेदपक्षोऽपि तर्हि नाङ्गीकार्यो विशेषे प्रमाणाभवादिति, तत्राऽह येनेति।
येन प्रत्यक्षसिद्धेन व्यवहारोऽखिलो भवेत्।
भावाभावविभागेन यं विना न कथञ्चन।
एतादृशे विशेषेऽस्मिन् को द्वेषो वादिनां भवेत्॥९६॥
प्रत्यक्षसिद्धेनेत्यनेन प्रत्यक्षसिद्ध इति लभ्यते। येनाखिलो व्यवहारो भवेत्। यं विना न भवेदित्यन्वयव्यतिरेकाभ्यां विशेषकार्यत्वं व्यवहारस्य दर्शयता व्यवहारान्यथानुपपत्तिश्च विशेषे प्रमाणम्, तदनङ्गीकारे व्यवाहरोच्छेदप्रसङ्गश्चेत्युक्तं भवति। अखिल इत्यस्यैव विवरणम् भावाभावविभागेन विधिनिषेधभेदेन इति। द्विविधस्तावदिति शेषः।
ननु भेदपक्षेऽपि समवायाभ्युपगमेनाखिलोऽपि व्यवहारो घटिष्यते। अत्यन्ताभेदेऽपि व्यावृत्तिस्वीकारेण भेदाभेदाभ्यां तु सुतराम्। तत् किं विशेषेणेत्यत उक्तम् कथञ्चनेति। एतादृशे सर्वव्यवहारनिर्वाहहेतौ को द्वेषः किन्निमित्ताऽनुपादित्सा? प्रमाणाभावो ह्यनुपादाननिमित्तम्। सति प्रमाणे नानुपादाननिमित्तमस्तीत्यर्थः। मा भूद् व्यवहार इत्यत उक्तम् वादिनामिति। उपलक्षणं चैतत्। ज्ञातॄणां चेत्यपि द्रष्टव्यम्। विशिष्टविषयाभिज्ञाभिवदनलक्षणो ह्यत्र व्यवहारः प्रकृतः।
॥ अवयवावयव्यादीनां परस्परमभेदस्य प्रत्यक्षसिद्धत्वप्रतिपादनम्॥
किञ्चावयवावयव्यादिभेदे प्रमाणाभावाच्च तं परित्यज्याभेदपक्षोऽङ्गीक्रियते। ननूक्तमत्राभेदेऽपि प्रमाणं नास्तीति। तत्राऽह अभेदेनेति।
अभेदेन प्रतीतिश्च कार्यकारणपूर्वके।
अभावान्ते पदार्थेऽस्मिन् सविशेषाऽवसीयते॥९७॥
इहापि कार्यकारणग्रहणेनावयव्यवयावुच्येते। पूर्वशब्देन गुणगुण्यादिकम्। अभावशब्देनान्योन्याभावो गृह्यते। तस्यैव धर्म्यभिन्नत्वात्। यद्वाऽभावतद्धर्मावनेनोपलक्ष्यते। अवसीयते साक्षिणा।
तथाहि तन्तुपटादिविषया बुद्धिरत्यन्तभिन्नघटपटादिविषयबुद्धितो विलक्षणाऽनुव्यवसीयते, उताविलक्षणा? न तावद् द्वितीयः, प्रतीत्यपलापानुपपत्तेः। आद्ये कथमभेदप्रतीतिर्नास्तीति शक्यं वक्तुम्। सम्बन्धेन विशिष्यत इति चेत्, न। कुण्डबदरप्रतीतितोऽपि वैलक्षण्यानुभवात्। सम्बन्धिनोरयुतसिद्धत्वात् तथेति चेत्, न। आधाराधेयभावेनावस्थानसमये तस्याकिञ्चित्करत्वात्। अतस्तन्तुपटयोः कुण्डबदरयोश्च भेदे सम्बन्धे च समाने कालान्तरभाविनः सम्बन्धविनाशादेः सम्बन्धिविभागादेर्वा प्रत्यक्षप्रतीतिं प्रत्युपयोगाभावाद् वैलक्षण्यं नानुभूयेत। अनुभूयते च तन्तुपटादिबुद्धिः कुण्डबदरादिबुद्धेर्विलक्षणेत्यभेदविषयैव साऽवसीयते।
किञ्च पटोत्पत्तेः प्राग् यावन्तं देशमवष्टभ्य तन्तवस्तिष्ठन्ति, पटोऽपि तावन्तमेव। नच मूर्तयोः समानदेशत्वं युज्यते। तेन ज्ञायते तन्त्वभिन्नः पट इति। नचावयवावयविनोऽरूपरसादिवद् द्वैतमनुभूयत इत्याद्यभेदप्रमाणं स्वयमूहनीयम्।
॥ अभेदस्य सविशेषत्वेनैव प्रतीयमानत्वात् न सामानाधिकरण्यव्यवहाराद्यनुपपत्तिः॥
नन्वभेदश्चेत् प्रत्यक्षेणैवेक्ष्यते। तदा कथं “शुक्लः पटः’, “चलति पटः’ इत्यादिसामानाधिकरण्यादिव्यवहारः? तस्य दण्डी कुण्डलीतिवद् भेदविषयत्वात्। नहि प्रतीतिविरोधी व्यवहारो भवतीत्यत उक्तम् सविशेषेति। विशेषेण विषयेण उपेता।
अयमर्थः यत्र केवलमभेदः प्रतीयते, न तत्र सामानाधिकरण्यव्यवहारो भवति। यथा “घटः कलशः’ इति। अत्र त्वभेदः प्रतीयमानो विशेषेण सहित एव प्रतीयते। विशेषश्च भेदप्रतिनिधिः सामानाधिकरण्यव्यहारं प्रसूत इति।
नन्वभेदप्रतीतिमभिभूय विशेषप्रतीतिः स्वकार्यं करोति चेदभेदप्रतीतिरपि विशेषप्रतीतिमभिभूय स्वकार्यं कथं न कुर्यात्? मैवम्। नहि प्रतीतिरस्तीत्येव व्यवहारः, किन्तु प्रयोजनेऽपि सति। प्रयोजनं च सामानाधिकरण्यव्यवहारेणैव बहुलं लोकवेदयोः। यदात्वभेदव्यवाहारः प्रयोजनवान्, तदा सोऽपि दृश्यत एव। यथा “विज्ञानमानन्दं ब्रह्म” इत्यादि।
॥ विशेषस्य प्रत्यक्षसिद्धत्वप्रतिपादनम्॥
यद्वा विशेषः प्रत्यक्षार्थापत्तिसिद्ध इत्युक्तम्। तत् कथमित्यतः प्रत्यक्षसिद्धतां तावदुपपादयति अभेदेनेति। अनुक्तसमुच्चयार्थश्चशब्दः। पदार्थ इत्येकवचनं जातिविषयम्। अस्ति यतः, तस्मात् सा सविशेषाऽवसीयत इति योजना।
ततश्चायमर्थः अस्ति तावदवयवावयव्यादिपदार्थसार्थेऽभेदेन प्रतीतिः। कुण्डबदरादिप्रतीतितोऽस्या व्यावृत्ततयाऽध्यवसायात्। नचाभेदमन्तरेण व्यावृत्तिहेतुरस्ति। अतोऽसति निमित्तान्तरे सम्मतभेदवस्त्वन्तरप्रतीतितो व्यावृत्तेयमभेद एव विश्राम्यतीति। अस्ति च तथाऽपि सामानाधिकरण्यादिव्यवहारः। तत्र यदीयमभेदमात्रविषया स्यात्, तदा न सामानाधिकरण्यादिव्यवहारं कुर्यात्। “घटः कलशः’ इति व्यवहारादर्शनात्। ततो ज्ञायतेऽधिकोऽपि विषयोऽस्या विद्यत इति। नच भेदोऽसाविति वाच्यम्। भेदाभेदवादेऽप्यन्ततो विशेषस्याङ्गीकार्यत्वात्। तथाचेयमभेदप्रतीतिरिन्द्रियजा सविशेषाऽवसीयत इति।
॥ धर्मधर्म्यादिव्यवहारान्यथानुपपत्त्या च सर्वपदार्थेष्वपि विशेषोऽङ्गीकरणीयः॥
प्रागुक्तम्, (६९८) समवाये विशेषोऽङ्गीकर्तव्य इति। तन्न तावदेव। किन्तु सर्वेष्वपि पदार्थेष्विति दर्शयन् विशेषस्य व्यवहारान्यथानुपपत्तिसिद्धतां चोपपादयति सामान्यादीति।
सामान्यादिपदार्थेषु तन्निष्ठत्वादयोऽखिलाः।
कथं धर्मा निवार्यन्ते वस्त्वैक्येऽपि हि वादिभिः॥९८॥
कार्यस्य तत्तन्निष्ठत्वं गुणादेर्व्यापितादिकः।
कथं विशेषो नैवास्ति स च धर्मोऽपरो यदि॥९९॥
षदार्थातिरेकः स्यात्..............।
तन्निष्ठत्वादयो व्यक्तिनिष्ठत्वादयः। कथमित्याक्षेपे। वस्त्वैक्येऽपि धर्म्यैक्येऽपि। कुतो न निवार्यन्त इत्यत उक्तम् वादिभिरिति। अविसंवादिव्यवहारसिद्धत्वादिति यावत्।
एतदेव प्रपञ्चयति कार्यस्येति। अस्ति तावदवयविनोऽवयवनिष्ठत्वं नाम धर्मः। गुणानां केषाञ्चिद् रूपादीनामाश्रयव्यापित्वम्, केषाञ्चित् संयोगादीनां प्रदेशवृत्तित्वम्, रूपादीनामुद्भूतत्वम्, सर्वेषां चतुर्विंशतित्वम्, कर्मणश्च आश्रयव्यापित्वम्, अनित्यत्वम्, पञ्चत्वम्, मूर्तनिष्ठत्वम्, सामान्यस्यापि द्रव्यगुणकर्मनिष्ठत्वम्, नित्यत्वम्, अनुगतत्वम्, द्विविधत्वमित्यतिबहुलोऽयं पदार्थधर्मसमूहः। नचायमाश्रयतो भिन्न एवेति युक्तम्। अस्ति च धर्मधर्म्यादिव्यवहारः, “तन्तुषु पटः’, “घटो न भवति पटः’ इत्यादिः। स चायमत्यन्ताभेदेऽनुपपद्यमानः स्वोपपादकं विशेषमवगमयतीति सर्वपदार्थेषु कथं विशेषो नैवास्ति?
॥ पदार्थानां स्वनिष्ठधर्मैः भिन्नत्वाभ्युपगमे षदार्थनियभङ्गः॥
सत्यम्। सन्त्येव द्रव्यादिषु सप्तस्वपि पदार्थेषु तेते धर्माः। किन्नाम। आश्रयतो भिन्ना एव। तथाच तत्सम्बन्धनिबन्धनतयैवोपपद्यमानो व्यवहारः सर्वपदार्थेषु न विशेषमाक्षेप्तुमलमित्याशयेन शङ्कते स चेति। न केवलं गुणादि द्रव्यादितो भिन्नम्। किन्तु सः तत्तन्निष्ठत्वादिधर्मश्चापरः स्वाश्रयाद् भिन्नो यद्यङ्गीक्रियत इत्यर्थः। निराकरोति षडिति। तर्हि धर्माणां षभ्यः पदार्थेभ्योऽतिरेकः स्यात्। तथाच षडेव पदार्था इति नियमो भज्येतेति।
॥ किरणावलीकारेण पदार्थधर्माणां षदार्थेष्वन्तर्भावमभ्युपगम्य षदार्थनियमसमर्थनम्॥
ननु स्वाश्रयतो विभिन्ना अपि धर्मा न षदार्थेभ्योऽतिरिच्यन्ते। किन्तु त एवान्योन्यविशेषणीभूता धर्मा इत्युच्यन्ते। यथाऽऽह यद्यपि धर्माः षदार्थेभ्यो न व्यतिरिच्यन्ते। किन्तु त एवान्योन्यापेक्षया धर्मधर्मिणश्च भवन्तीति। अन्यत्रापि “तेषां धर्मास्त एव परस्परं विशेषणीभूताः” इति। तत् कथं नियमभङ्ग इति।
॥ पदार्थधर्माणां द्रव्यादिष्वन्तर्भावासम्भवव्युत्पादनम्॥
मैवम्। तन्निष्ठत्वादीनां षु पदार्थेष्वन्तर्भावयितुमशक्यत्वात्। तथाहि “आश्रितत्वं चान्यत्र नित्यद्रव्येभ्यः” इत्यभ्युपगतम्। कार्यद्रव्यगुणकर्मसामान्यविशेषसमवायानामवयवादिनिष्ठत्वं न तावद् द्रव्यादिकम्, गुणादिवृत्त्यनुपपत्तेः। नापि समवायः, तस्य स्ववृत्त्यनुपपत्तेः। किञ्चाऽधार्याधारभूतयोः सम्बन्धः समवाय इष्यते। तथाच कथं स एवाधारित्वमाधारत्वं च स्यात्?
तथा रूपादीनामाश्रयव्यापित्वं न द्रव्यादिष्वन्तर्भवति। तेषां गुणवृत्तित्वासम्भवात्। समवायस्तूक्तरीत्या निरस्तः। अपिच वृत्तित्वमात्रं समवायः। व्याप्यवृत्तित्वं त्वतिरिक्तं निर्वक्तव्यम्। कृत्स्ने स्वाश्रये समवायस्तदिति चेत्, न। द्रव्यस्यासमुदितत्वेन कृत्स्नत्वाद्यनवकाशात्। स्वाभावेन सहानवस्थानं व्याप्यवृत्तित्वमिति चेत्, न। तस्याप्यन्तर्भाव्यत्वात्। अभावोऽसाविति चेत्, न। निराकरिष्यमाणत्वात्। (७०८) एवं संयोगादीनां प्रदेशवृत्तित्वं निरस्तम्।
उद्भूतत्वं च न जातिविशेषः। रूपत्वादिना परापरभावनानुपपत्तेः। यदि हि रूपत्वं परं स्यात्, तदा स्पर्शस्योद्भूतत्वं न स्यात्। यदिचोद्भूतत्वं परं भवेत्, तदा सर्वमपि रूपमुद्भूतमिति चक्षुरादेरपि प्रतीतिः स्यात्।
चतुर्विंशतित्वं च न सङ्ख्या, गुणानां निर्गुणत्वाङ्गीकारात्। उपचारोऽयमिति चेत्, न। निमित्ताभावात्। न तावदेकार्थसमवायो निमित्तम्। द्रव्ये चतुर्विंशतित्वनियमाभावात्। प्रत्येकं रूपादिषु तत्प्रसङ्गाच्च। अपर्यायचतुर्विंशतिशब्दवाच्यत्वमिति चेत्, न। शब्देऽपि चतुर्विंशतित्वाभावात्। चतुर्विंशतिपुरुषोच्चारितापर्यायशब्दवाच्यत्वमिति चेत्, न। बधिरादीनां रूपादिषु सङ्ख्याव्यवहाराभावप्रसङ्गात्। एवमन्येषामपि धर्माणामन्तर्भावो निरसनीयः।
॥ पदार्थधर्माणामभावेऽन्तर्भावायोगः॥
कश्चिदाह धर्मपदार्थोऽभावेऽन्तर्भवतीति। तदसत्। निषेधबुद्धिबोध्यत्वाभावात्। अभावेऽभावानङ्गीकारेण तद्धर्माणामभावत्वायोगाच्च। द्रव्यादिषलक्षणान्यतमराहित्यमभावत्वम्, नतु निषेधबुद्धिवोध्यत्वमिति चेत्, न। लोकप्रतीतिमवधूय स्वकल्पनादरणे द्रव्यमेव भावः, तल्लक्षणरहितोऽभाव इत्यपि कल्पनाप्रसङ्गात्।
अतस्तत्तन्निष्ठत्वादयो द्रव्यादिधर्मास्तदात्मान एवाङ्गीकार्याः। तथाचाऽह “भावस्य स्वरूपमेवावस्थाभेदेनास्तित्वम्, ज्ञेयत्वम्, अभिधेयत्वं चोच्यते” इति। नच विशेषमपहायावस्थाभेदः शक्यनिरूपणः।
॥ षदार्थनियममनङ्गीकृत्य पदार्थधर्माणां पृथक्पदार्थत्वाङ्गीकारे धर्मपरम्परानवस्थाप्रसङ्गः॥
ननु धर्मा धर्मितो भिन्ना एव। नचोक्तदोषः। नैयायिकादिभिः परमाण्वारम्भवादिभिः षडेव पदार्था इति नियमस्यानङ्गीकृतत्वात्। धर्मपदार्थस्य पृथगङ्गीकृतत्वाच्च। तथाच भिन्नधर्मसंसर्गवशात् सर्वव्यवहारोपपत्तौ न तदन्यथानुपपत्त्या विशेषसिद्धिरित्यत आह पदार्थेति।
................ पदार्थानियमेऽपि हि।
धर्मस्य धर्मसन्तानादनवस्थाखनिर्भवेत्॥१००॥
पदार्थानां षडेवेति नियमाभावपक्षेऽपि हि यस्माद् धर्मस्य धर्मसन्तानादनवस्थाया आकरो भवेदयं पक्षः, तस्माद् धर्मधर्माणामाश्रयाभेदेऽवश्यमङ्गीकार्ये तत्र धर्मधर्म्यादिव्यवहारान्यथानुपपत्त्या विशेषोऽङ्गीकरणीय इति योज्यम्। खनिः आकरः।
एतदुक्तं भवति धर्मपदार्थं द्रव्यादिभ्यो भिन्नमभ्युपगच्छन् प्रष्टव्यः। अस्तित्वादिधर्मेष्वप्यस्तित्वादिकमस्ति, नवा? नेति पक्षेऽनुभवविरोधः। अस्तित्वं न ज्ञेयं नाभिधेयमिति स्वक्रियाविरोधश्च। अन्यथा द्रव्यादिष्वपि तदभावापत्तिः। आद्ये तदाश्रयतो भिन्नम्, अभिन्नं वा? आद्ये तत्राप्यस्तित्वाद्यन्तरमित्यनवस्था स्यात्। द्वितीये त्वस्ति तावत् तत्रापि धर्मधर्म्यादिव्यवहारः। स चानुपपद्यमानो विशेषं गमयतीति।
किञ्च धर्मगता धर्मा यदि आश्रयाभिन्नाः, तदा किं द्रव्यादिगतास्तित्वादिधर्मैरपराद्धम्? येन ते द्रव्यादितो भिद्येरन्। योगक्षेमसाम्यात्। ततस्तेषामेव द्रव्याद्यभेदे सति पुनर्व्यवहारान्यथानुपपत्त्या द्रव्यादिष्वेव विशेषसिद्धिः।
॥ अनवस्थाभयादेव परैः सामान्ये सामान्यस्य गुणे च गुणस्यानङ्गीकृतत्वमुपदर्श्य
अनवस्थाया दूषणत्वसमर्थनम्॥
नन्वस्त्येव द्रव्यादिधर्मेष्वस्तित्वादिष्वप्यस्तित्वादिकम्। तच्चाऽश्रयतो भिन्नमेव। नचैवं धर्मस्यानवधिकधर्मसन्तानादनवस्थादोषः। उत्पत्तिज्ञप्तिप्रतिबन्धकत्वाभावेनादोषत्वात्। यथाऽऽहुः “मूलक्षयकरीं प्राहुरनवस्थां हि दूषणम्” इति। यदर्थमुत्तरोत्तरानुसरणं तन्मूलमुत्पत्तिर्ज्ञप्तिर्वा। ततो भिन्ननिमित्ततयोपपद्यमानो व्यवहारो न विशेषमाक्षेप्तुमलमित्यत आह सामान्यस्यापीति।
सामान्यस्यापि सामान्यं गुणस्यापि गुणो ह्यतः।
नाङ्गीकृतः...................................॥१०१॥
सामान्यस्य गोत्वादेः, सामान्यं सत्तालक्षणम्। गुणस्य च रूपादेः, सङ्ख्यापृथक्त्वादिगुणः। अत अनवस्थाभयादेव हि नाङ्गीकृतः।
अयमाशयः सामान्यस्यापि सामान्यं तावत् परेण नाङ्गीकृतम्, तथा गुणस्यापि गुणो नाङ्गीकृतः। तत् कस्मादिति वक्तव्यम्। न तावत् प्रतीत्यभावात्। सद् गोत्वम्, चतुर्विंशति गुणाः, रूपाद् रसः पृथगिति प्रतिभासस्य दुरपह्नवत्वात्। नच न सद् गेत्वमित्यादि बाधकमस्ति, येन प्रतीतस्यापि परित्यागः। गोत्वं न सत्तावत्, अपरसामान्यशून्यत्वात्; विशेषवत्ः गुणा न गुणवन्तः, अद्रव्यत्वात्; क्रियावदित्यादिबाधकमस्तीति चेत्, न। विपक्षे बाधकाभावेनाप्रयोजकत्वात्। दृष्टान्तयोः साध्यविकलत्वाच्च। यदि गोत्वादौ सत्ता स्यात्, तदा सत्तायामपि स्यात्। तथाचाऽत्माश्रयत्वमिति चेत्, न। सत्तान्तरत्वोपपत्तेः। किञ्च प्रतीते किमात्माश्रयता करिष्यति? अन्यथा प्रमेयत्वादीनां केवलान्वयित्वं न स्यात्। आत्माश्रयभयाद् यतः प्रमेयत्वादिव्यावृत्तिः, तस्यैव विपक्षत्वात्। उक्तं च
“कथं स्ववृत्तिरिष्टा चेद् यथाऽन्यत्रेति गृह्यताम्।
प्रमाणं शरणं वृत्तौ न भिन्नाभिन्नतेयते” इति।
गुणानामपि गुणवत्त्वे द्रव्यलक्षणयोगाद् द्रव्यतापत्तिरिति चेत्, न। प्रतीतिमनुरुद्ध्य लक्षणान्तरस्य कर्तव्यत्वात्। तस्मात् सामान्ये सामान्यम्, गुणे च गुणोऽनवस्थाभयादेव नाङ्गीक्रियत इत्येव वक्तव्यम्। यथाऽऽह
“व्यक्तेरभेदस्तुल्यत्वं सङ्करोऽथानवस्थितिः।
रूपहानिरसम्बन्धो जातिबाधकसङ्ग्रहः” इति।
नचानवच्छिन्ना सामान्यपरम्परा गुणपरम्परा चोत्पत्तिज्ञप्तिप्रतिबन्धे हेतुः। तथाच यथा सा दूषणं तथा प्रकृतोऽपि दूषणमेव। नचेत् साऽपि न स्यादिति सामान्यादेरपि सामान्याद्यङ्गीकार्यं स्यात्। यदि कथञ्चिज्ज्ञप्तिप्रतिबन्धकत्वं तत्र व्युत्पाद्येत, तर्हि वयमप्यत्र तद् व्युत्पादयिष्याम इति।
॥ वैयात्याद् गुणादौ गुणाद्यङ्गीकारे अनवस्थायाः सर्वत्राप्यदोषत्वाभ्युपगमप्रसङ्गः॥
यदि कश्चिद् वैयात्याद् ब्रूयात्। अस्त्येव सामान्यस्यापि सामान्यं गुणस्यापि गुणः, निर्बाधप्रतीतिसिद्धत्वात्। उत्पत्तिज्ञप्त्यप्रतिबन्धहेतोरनवस्थाया दोषत्वायोगात्। अतो नैतन्न्यायेन धर्मपरम्परानवस्थाभयान्निवारणीयेति। तत्राऽह स चेति।
.........स च यदि नानवस्था क्वचिद् भवेत्॥१०१॥
स च गुणस्यापि गुणः। चशब्दात् सामान्यस्यापि सामान्यं यद्यङ्गीक्रियते, तदा ब्रूमो नानवस्था क्वचिद् भवेदिति। अयमाशयः एवं वदन् क्वचिदनवस्थादूषणमङ्गीकरोति नवेति वाच्यम्। नचेद् दूषणान्तरमपि नाङ्गीकुर्यात्, अविशेषात्। तथाच कथायां नाधिकारी स्यात्। नाऽद्यः, धर्मसामान्यगुणानवस्थाया अदूषणत्वे विमताया अपि दूषणत्वायोगात्। विशेषहेतोरभावात्।
॥ उत्पत्तिज्ञप्तिप्रतिबन्धकत्वमात्रस्य अनवस्थादोषत्वप्रयोजकत्वनिरासः॥
नन्वपर्यवसितपरम्परामात्रसाम्येऽपि यत्रोत्पत्त्यादिप्रतिबन्धकत्वं तत्र दूषणत्वम्। यत्र तदभावः, तत्रादूषणत्वमिति चेत्, किमर्थमुत्पत्त्यादिप्रतिबन्धकत्वमनुसरणीयम्? अनवस्था हि तर्कविशेषः। तर्कश्चानिष्टप्रसञ्जनम्। उत्पत्त्यादिप्रतिबन्धश्चानिष्टः, प्रामाणिकपरित्यागरूपत्वात्। उत्पत्त्यादेः प्रामाणिकत्वात्। अतस्तदप्रतिबन्धे तर्कत्वायोगात् कथं दूषणत्वम्?
एवमेव दूषणत्वेऽतिप्रसङ्ग इति चेत्, किं प्रामाणिकपरित्याग एवानिष्टः, उताप्रामाणिकस्वीकारोऽपि? नाऽद्यः, नियामकाभावात्। द्वितीये कथं न प्रकृतानवस्था दूषणम्? अत्यन्तभिन्नधर्मपरम्पराया अप्यप्रामाणिकत्वात्।
अथाप्रामाणिकस्वीकारो न दूषणम्, तर्हि प्रामाणिकपरित्यागोऽपि न दूषणं स्यादिति नानवस्था क्वचिद् दूषणं भवेत्। अथानिष्टापत्तिहेतुरनवस्था दूषणम्, न पुनरनिष्टरूपेति चेत्, न। अनिष्टरूपैवानवस्था दूषणम्, नत्वनिष्टापत्तिहेतुरित्यपि वक्तुं शक्यत्वेन क्वचिदङ्गीकृताऽप्यनवस्था न दूषणं भवेत्।
तस्मात् प्रामाणिकपरित्यागाप्रामाणिकपरिग्रहरूपा वा, तद्धेतुर्वाऽनवच्छिन्नपरम्पराऽनवस्थेति वाच्यम्। अत एव नातिप्रसङ्गः। तथाच धर्मपरम्पराया अप्यनवस्थात्वेनाभेद एवाङ्गीकार्यः। एवञ्च उक्तन्यायेन व्यवहारान्यथानुपपत्त्या विशेषसिद्धिरिति।
॥ धर्मधर्मिणोः सविशेषाभेदाङ्गीकारे उक्तानवस्थापरिहारः॥
अपिच यो धर्मधर्मिणोर्भेदं समवायं चाङ्गीकृत्याभेदं विशेषं चावजानाति, तेनानवस्थातो बिभ्यता गुणसामान्ययोर्गुणसामान्यप्रतीतिरेवापलपनीया। विनैव बाधकेन भ्रान्तिर्वा वाच्या। प्रतीत्यपलापादितो वा विभ्यतोऽनवस्था स्यादित्येकं सन्धित्सतोऽन्यत् प्रच्यवते। अभेदं विशेषं चाङ्गीकुर्वतां तु नेदं दूषणद्वयम्, अतोऽपि तत्पक्षपात इत्याशयवानाह अस्मत्पक्ष इति।
अस्मत्पक्षे गुणाद्याश्च तद्वन्तो हि विशेषतः।
अनन्यत्वान्नानवस्था....................॥१०२॥
धर्मधर्मिणोः सविशेषाभेदवादिनां पक्ष इत्यर्थः। गुणाद्या गुणाः सामान्यानि च। तद्वन्तो गुणवन्तः, सामान्यवन्ति च। तेन चतुर्विंशति गुणाः, सद् गोत्वमित्यादिप्रतीतिविरोधो नास्तीति शेषः। अनन्यत्वाद् धर्मधर्मिणोरिति शेषः। अप्रामाणिकापर्यवसितपरम्परारूपा ह्येषा। अनन्यत्वे कथं तद्वत्त्वमिति तदवस्थः प्रतीतिविरोध इत्यत उक्तम् विशेषतो हि तद्वन्त इति। भेदसम्बन्धकार्यकारी हि विशेष इति।
॥ अयावद्द्रव्यभाविधर्माणां धर्मिणा भेदाभैदौ, नात्यन्ताभेदः॥
एवमवयवावयव्यादीनामभेदोऽत्र निरूपितः। इदानीं क्वचिद् भेदाभेदावपि भवत इति तदपवादमाह भेद इति।
..................भेदो नाशे भवेत् तथा॥१०२॥
यद्वा, यद्यवयव्यादयोऽवयवाद्यभिन्नाः। कथन्तर्हि सत्स्वेवावयवादिषु विनश्यन्तीत्यत आह भेद इति। तथाशब्दः समुच्चये। अवयवादिषु सत्स्वेवावयव्यादीनां नाशे भेदोऽभेदश्च भवेदित्यर्थः। अत्र नाश इत्युपलक्षणम्। यत्र सत्स्वेवावयवेष्ववयविनोऽभावः, सति गुणिनि गुणस्याभावः, तत्र भेदाभेदावित्यादि द्रष्टव्यम्। अन्यथा यत्रावयवावयव्यादीनां युगपद् विनाशः, तत्र भेदाभेदावुक्तौ न स्याताम्।
इदमुक्तं भवति “सत्यपि तस्मिन्नसत्त्वात्’ इत्यनेन हेतुनाऽवयव्यादीनामवयवादिभ्यो भेदमात्रं वा साध्यते, अत्यन्तभेदो वा? आद्ये सिद्धसाधनता भागासिद्धिश्च। तथाहि सत्यप्युपादाने कदाचिदुपादेयमसत्, यथा पटः। एवम्, सत्यपि द्रव्ये केचिद् गुणा असन्तः, यथा पाकजादयः। तथा सत्यप्याश्रये काश्चित् क्रिया असत्यः, यथा पटचलनादयः। जातिश्च काचित् सति जातिमत्यसती, यथा ब्राह्मण्यम्। तत्र भेदाभेदयोरङ्गीकाराद् भेदसाधनं सिद्धविषयम्। गगनतद्भागयोरीश्वराद्याश्रितज्ञानादिगुणक्रियाजातिष्वभावाद् भागासिद्धत्वं हेतोरिति। न द्वितीयः, कालात्ययापदिष्टत्वात्। अभेदस्य प्रागुपपादितत्वात्, (७०४) उपपादयिष्यमाणत्वाच्चेति। (७१३७१४)
॥ अयावद्द्रव्यभाविधर्माणां भेदाभेदस्यैवाङ्गीकर्तव्यत्वसमर्थनम्॥
स्यादेतत्। यथा भेदसाधकानां व्यपदेशभेदादीनां विशेषाश्रयेणैवान्यथासिद्धिरुक्ता, तथा सत्यपि तस्मिन्नसत्त्वस्यापि विशेषेणैव निर्वाहः क्रियताम्। किं भेदाभेदाभ्युपगमेन? मैवम्। विशेषस्य भेदकार्यव्यवहारमात्रनिर्वाहकत्वेन विनाशं प्रत्यनिर्वाहकत्वात्। सकलभेदकार्यकारित्वे विशेषो भेद एव, न तत्प्रतिनिधिः स्यात्।
किञ्चानेकाश्रितस्यावयविनो द्वित्वादेश्चाऽश्रयेणात्यन्ताभेदे सत्याश्रयाणामपि परस्परं भेदः प्रसज्यते। तत्परिहारार्थं तावदवश्यं तत्र भेदोऽङ्गीकरणीयः। नचावच्छेदकेन विना भेदाभेदभूमेः सङ्ग्रहः स्यादित्ययावदश्रयभावित्वमेव ग्राह्यम्। तत्रापि विशेष एव सङ्करं वारयिष्यतीति तु निरस्तम्। किञ्च प्रमाणानुसारिणी व्यवस्था, नतु स्वेच्छानुसारिणी। प्रमाणं तु भेदाभेदाववगाहत इति वक्ष्यते।
॥ विशेषबलाद् भेदाभेदयोरेकत्रावास्थानानुपपत्त्यभावः॥
ननु अनित्यद्रव्याश्रिता एकत्वादयोऽपि गुणाः किं भेदवन्तः, तेषामपि द्रव्यकार्यतया तदुत्तरक्षणभावित्वादिति। मैवम्। उक्तोत्तरत्वात्। उक्तं ह्येतत् उपादानद्रव्यं गुणवदुपादेयतया परिणमत इति। (६६७) ननु भेदाभेदावेकत्र विरुद्धौ। तत् कथमयावदाश्रयभाविनामवयविगुणकर्मसामान्यानामवयवादिभिर्भेदाभ्युपगम इत्यत आह विशेषमेवेति।
विशेषमेव संश्रित्यविशेषो बलवान् यतः।
भेदाभेदावेकत्र भवत इति सम्बन्धः। अवधारणं कालादिभेदव्यावृत्त्यर्थम्। कथं विशेषाश्रयणे विरोधशान्तिरित्यत आह विशेष इति। बलवान् भेदकार्यकारण इति शेषः। ततो विशेषं समाश्रित्यैकत्र भेदाभैदौ भवत इत्यन्वयः।
अयमर्थः भेदो हि विरोधशान्तिहेतुः। तथाहि क्वचिदाश्रयभेदो यथा मधुरायां देवदत्तसद्भावः, स्रुघ्ने तदभावः। क्वचित् कालभेदो यथा मधुरायामेव देवदत्तस्य भावाभावौ। क्वचित् प्रतियोगिभेदो यथा गवयो गोघटाभ्यां सदृशो विसदृशश्चेति। भेदप्रतिनिधिश्च विशेष इत्युक्तम्। अतः कथमसौ भेदाभेदावेकदैवैकत्रैव नावस्थापयेदिति।
॥ एकत्रैव भेदाभेदयोः प्रमितत्वप्रतिपादनम्॥
एवन्तर्ह्यतिप्रसङ्गः। सर्वत्र विशेषमाश्रित्य विरोधस्योत्सादयितुं शक्यत्वादित्यत आह दृष्टीति।
दृष्टिप्रमाणतश्चैवविरोधो दर्शने कथम्॥१०३॥
दृष्टिश्च तत् प्रमाणं च। प्रमाणभूता दृष्टिरित्यर्थः। ततो भेदाभेदौ न विरुद्धाविति सम्बन्धः। चशब्दो विशेषेण सह दृष्टेः समुच्चये। न स्वेच्छामात्रेण भेदाभेदावित्युपेत्य विशेषेण विरोधाभावोऽभिधीयते, येनातिप्रसङ्गः स्यादित्येवशब्दः। उक्तं तावदवयवावयव्याद्यभेदग्राहिणी दृष्टिरस्ति। सम्बद्धवस्तुबुद्धितो विलक्षणतयाऽनुव्यवसायात्। अस्ति च भेदग्राहिणी सत्यपि तस्मिन्नसत्त्वादिति हेतुजनिता दृष्टिरिति। नचैते बाध्यबाधके। अन्यतराननुवृत्तिप्रसङ्गात्। नापि प्रतिपक्षभूते। प्रतिपत्तॄणामुभयोदासीनतापत्तेः। नचैवम्। अतो द्वयोरपि प्रामाण्यमेषितव्यम्। प्रमाणतश्च भेदाभेदयोरवगतयोर्न विरोधः। तदिदमुक्तम् प्रमाणत इति।
॥ सहावस्थितयोः विरुद्धत्वाङ्गीकारे स्वव्याहत्यादिप्रसङ्गः॥
ननु भवतां भेदाभेदावेकत्रैवैकदैव प्रमितौ, तथाऽपि कथं विरोधशान्तिरित्यत आह विरोध इति। सहदर्शने सति कथं विरोधो वक्तुं शक्यते? सहदृष्टौ विरुद्धौ चेति विप्रतिषिद्धमिति भावः।
एतदेव विवृणोति विरोधो हीति।
विरोधो ह्यविरोधश्च यतो दर्शनमानकौ।
ततो दृष्टे विरोधस्तु सद्भिरापाद्यते कथम्॥१०४॥
सर्वत्र परस्परपरिहारेणैव सत्त्वदर्शनं सहानस्थानलक्षणविरोधे प्रमाणम्। क्वचित् सहदर्शनं चाविरोधे। अन्यस्यानिरूपणात्। अतः सहदृष्टे भेदाभेदलक्षणे वस्तुद्वये विरोधः कथमुच्येत? सहदर्शने ह्यविरोधः स्यात्। पुनर्विरोधकथने व्याघातानिवारणादिति। हिशब्देन शीतोष्णादौ रूपरसादौ च विरोधाविरोधयोर्दर्शनैकप्रमाणत्वं निदर्शयति। तुशब्दस्य दृष्टे त्विति सम्बन्धः। सद्भिर्विद्वद्भिरित्युपहासः। वैशेषिकादयो हि संयोगविभागशब्दात्मविशेषगुणानां तत्रैव तदैव भावाभावावुपेत्य सहदर्शनाद् विरोधो नास्तीति वदन्तः, पुनरत्र सहदर्शनेऽपि विरोधमुद्भावयन्तः, स्वव्याहतभाषिणः, स्वोक्तविस्मरणशीलाः, स्वदृष्टिपक्षपातिनः कथं सन्तः स्युः? सर्वत्रासहदृष्टयोर्यदि कश्चिदाग्रहमात्रेण सहावस्थानं मन्यते, तं प्रत्येव विरोधोद्भावनं क्रियते नान्यथेति।
॥ चेतनस्य स्वावयवगुणक्रियादिभिरन्त्यन्ताभेदः, चेतनान्तरैरचेतनैश्चान्त्यन्तभेदः॥
धर्मधर्मिणोर्भेदाभेदौ क्वचिदिति सङ्क्षेपेणोक्तम्। तत् किं सर्वेष्वपि द्रव्येषु, उत केषुचिदेवेत्यपेक्षायामाह अभिन्न इति।
अभिन्नो भगवान् स्वेन तदन्येन विभेदवान्।
नित्या धर्मास्तदीयास्तु सर्वेऽस्मान्नैव भेदिनः॥१०५॥
भगवानिति चेतनमात्रोपलक्षणम्। स्वेन स्वावयवगुणक्रियादिभिः। तदन्येन प्रकृतिजीवजडात्मना प्रपञ्चेनेत्येवं व्यवस्थितावेव भेदाभेदौ नत्वेकविषयावित्यर्थः। अयावद्द्रव्यभाविधर्मैर्भेदाभेदौ कुतो न स्यातामित्यत आह नित्या इति। तुशब्दोऽवधारणे। अस्मात् कारणात्। अस्माद् भगवतः। द्वित्वादिसङ्ख्याव्यतिरिक्ता इति शेषः।
॥ अचेतनेषु यावद्द्रव्यभाविनां धर्माणामभेदः, अयावद्द्रव्यभाविनां भेदाभेदौ॥
क्व तर्हि भेदाभेदावित्यत आह सामस्त्येति।
सामस्त्योच्छेदिनोऽन्यत्र धर्मा उभयरूपकाः।
भावेत एव चोच्छेदात् तदन्ये च समस्तशः॥१०६॥
अन्यत्र परमेश्वरात्। जडे वस्तुनीति यावत्। सत्येव धर्मिणि सामस्त्येनोच्छेदवन्तो ये धर्माः, ते उभयरूपिणो भिन्नाभिन्ना इत्यर्थः। अभिभवव्यावृत्त्यर्थं सामस्त्येत्युक्तम्। यद्वा सामस्त्ये द्रव्यस्याविकलत्वे नाशाभावेऽपि ये उच्छेदिन इति व्याख्येयम्। किं स्वसद्भाववेलायामभेदिनोऽसद्भाववेलायां भेदिन इत्येवं कालभेदेन भेदाभेदावित्यत उक्तम् भाव इति। स्वसद्भावदशायामेवोभयरूपका इत्यर्थः। विनाशासम्भवाच्च।
कुतो भिन्नाभिन्ना इत्यत आह त एवेति। प्रत्यक्षबलेन त एव धर्मिस्वरूपभूता एव उच्छेदात् सत्येव धर्मिण्यसत्त्वाद् हेतोस्तदन्ये। चशब्दौ मिथः समुच्चयार्थौ। समस्तश इत्ययावद्द्रव्यभाविविवक्ष्ययोक्तम्।
॥ यावद्द्रव्यभाविधर्माणामत्यन्ताभेदाङ्गीकारेण अंशसंयोगस्य
अंशिसंयोगरूपत्वलाभात् अंशतः संयोगाङ्गीकारे नानवस्थाप्रसङ्गः॥
यदुक्तम्, यावदवयवभाविनोऽवयविनोऽवयवैरत्यन्ताभेदः, अयावदवयवभाविनस्तु भेदाभेदाविति, तेनान्यदपि चोद्यं परिहृतमित्याह अंशांशिनोरिति।
अंशाशिनोरभेदेन त्वंशसंयोग एव हि।
अंशिनो नानवस्थाऽतो यद्यप्यंशेष्वविश्रमः॥१०७॥
तथाहि “सर्वदिक्ष्वपि सम्बन्धात्” इति यदंशतः संयोग इत्युक्तम्, तदयुक्तम्। अनवस्थापत्तेः। घटसंयोगो हि घटांशसंयोगपूर्वकः। सोऽपि तदंशसंयोगपूर्वकः। नचेयं निरंशे परम्परा विश्राम्यतीति वाच्यम्। अंशपरम्पराया अविश्रमस्याप्यङ्गीकृतत्वात्। अतः पूर्वपूर्वसंयोगानुत्पत्तावुत्तरोत्तरानुत्पत्तिप्रसङ्गादंशतः संयोग इति नियमो नोपपद्यत इति। तदिदमसङ्गतम्। यद्यप्यंशत एव संयोगः, यद्यपि चांशेष्वंशपरम्पराया अविश्रमः, तथाऽप्यंशांशिनोरभेदनैवांशसंयोग एव हि यस्मादंशिनः संयोगोऽतो नानवस्थेति।
अयमभिसन्धिः स्यादियमनवस्था यदि सर्वत्रांशत एव संयोग इति वदतामस्माकमंशिनः संयोगोंऽशसंयोगेनैव जायत इत्यभिप्रायः स्यात्। नचैवम्। किन्तु यो यस्यांशिनः संयोगः, स तदंशे वर्तते। निरंशस्तु तु संयोगः क्व नाम वर्तताम्? अतः परमाण्वोः संयोगे सति तद्वृत्त्यर्थमंशोऽङ्गीकरणीय इति। नह्येवंसति काचिदनवस्थाऽस्ति। अनवस्थितकार्यकारणभूतासिद्धसंयोगपरम्पराश्रयणाभावात्।
एतावत्तु भवेत्। घटसंयोगो घटांशवृत्तिरित्यप्ययुक्तम्, अतिप्रसङ्गात्। तथासति हि पटवृत्तिरपि घटसंयोगः स्यात्। प्रमाणविरोधाच्च। घटसंयोगो घटवृत्तिः, तद्गुणत्वात्; तद्रूपवदिति। घटांशवृत्तिः संयोगो न घटसंयोगः, तदन्यवृत्तित्वात्; पटसंयोगवदिति।
एतदप्यनवकाशम्। अंशांशिनोरभेदस्य साधितत्वात्। अतिप्रसङ्गो हि तदा स्यात्, यदि पटवद् घटांशोऽपि घटादत्यन्तभिन्नः स्यात्। अभेदे तु क्वातिप्रसङ्गः? अनुमानस्याप्याद्यस्य सिद्धसाधनता। अंशवृत्तेरेव घटवृत्तित्वात्। अंशावृत्तित्वे सति घटवृत्तित्वसाधने दृष्टान्तः साध्यविकलः स्यात्। द्वितीयस्तु हेतुः स्वरूपासिद्धोऽन्यथासिद्धो वेति। यदि घटसंयोगो घटांशे वर्तते, तर्हि घटांशसंयोगः क्व वर्तत इति चेत्, अनेनैव न्यायेन तदंशे सोऽपि तदंश इति ब्रूमः। नचैवमनवस्था। सर्वेऽप्यंशिसंयोगास्तत्तदंशवृत्तय इत्यत्रेतरेतरापेक्षाया अभावात्। एवन्तर्हि परमाणुवृत्तिरपि संयोगो घटसंयोगः स्यादिति चेत्, को नेत्याहेति।
॥ एकस्यांशसंयोगस्य अन्यांशसंयोगपूर्वकत्वानङ्गीकारात्, संयोगैक्याङ्गीकाराच्च नानवस्थाप्रसङ्गः॥
अंशसंयोग एव ह्यंशिनः संयोगोऽतो नानवस्थेत्युक्तमनवस्थापरिहारं विवृणोति एकस्मिन्निति।
एकस्मिन् जात एवान्यः संयोगो जायते यदि।
अनवस्था तदैव स्यात् संयोगैक्ये भवेत् क्व सा॥१०८॥
अवयवपरम्पराया अविश्रममभ्यपुगम्यैकैकस्मिन्नवयवसंयोगे जात एवान्योऽवयवसंयोगो जायत इति यद्यङ्गीकुर्मः, तदैवानवस्था स्यात्। संयोगैक्ये अवयविसंयोगः क्रियातो जातस्तदवयवे वर्तते, अवयववृत्तेः संयोगादपरोऽवयविनः संयोगो नास्तीति वादे तु क्व साऽनवस्थेति।
॥ संयोगत्रैविध्यनिरासः॥
एतेनैतदपि निरस्तम्, यदाहुः संयोगस्त्रिविधः, अन्यतरकर्मजोभयकर्मजसंयोगजभेदात्। तत्रान्यतरकर्मजो यः क्रियावता निष्क्रियस्य, यथा स्थाणोः श्येनेन। उभयकर्मजस्तु विरुद्धदिक्क्रिययोः सन्निपातः, यथा मल्लयोः। संयोगजस्तु संयोगः कारणाकारणसंयोगात् कार्याकार्यसंयोगः, यथा हस्ततरुसंयोगात् कायतरुसंयोग इति।
॥ अवयवावयविनोरभेदात्, अवयवसंयोगस्यैवावयविसंयगत्वेन न संयोगजसंयोगोऽङ्गीकार्यः॥
नहि हस्ततरुसंयोगातिरिक्तः कायतरुसंयोगोऽस्ति। येनासौ तज्जन्यः स्यात्। प्रमाणाभावात्। किन्तु हस्तकर्मणा जनितो हस्तवृत्तिः संयोग एव हस्तकाययोरभेदात् कायसंयोगो भवति। अत एव हस्तस्याशुचिसंयोगे कायक्षालनादिविधयोऽप्युपपद्यन्ते।
॥ विभागजविभागस्य द्वैविध्यम्॥
अत एव विभागजोऽपि विभागो निरस्तः। द्विविधं हि तमाचक्षते। कारणाकारणविभागात्, कारणविभागाच्चेति। तत्राऽद्यो यथा हस्ततरुविभागात् कायतरुविभागः। द्वितीयो यथा द्वितन्तुकावयवे तन्तौ कर्मोत्पन्नं तस्य तन्त्वन्तराद् विभागं करोति। विभागात् तन्त्वोः संयोगो नश्यति। ततो द्वितन्तुकविनाशः। तत इदानीं तन्त्वोर्वर्तमानो विभागः सक्रियस्यावयवस्य द्वितन्तुकसंयुक्ताकाशादिदेशाद् विभागं करोतीति।
॥ अवयवविभागातिरिक्तावयविविभागस्याभावात् कारणाकारणविभागजविभागो निरस्तः॥
तत्राऽद्यस्तावदनुपपन्नः। हस्ततरुविभागातिरिक्तस्य कायतरुविभागस्यानुपलम्भात्। हस्तकर्मणा जनितो हि विभागो हस्तकाययोरभेदाद् हस्तकायगुणो भवति। अत एव विवादाध्यासितो विभागो न कर्मासमवायिकारणकः, कर्मैकार्थासमवेतत्वात्; शब्दवदित्यसिद्धतया निरस्तम्।
॥ एकस्मादेव कर्मणो विभागद्वयोत्पत्तौ बाधकाभावात् कारणविभागजविभागाङ्गीकारोऽयुक्तः॥
द्वितीयस्त्वनुपपन्नतरः। तन्तुकर्मणैव तन्तोस्तन्त्वन्तरादाकाशादिदेशाच्च विभागोत्पत्त्युपपत्तौ क्रमकल्पनानुपपत्तेः। अन्यथाङ्गुलिकर्मणाऽङ्गुलेरङ्गुल्यन्तरादेव विभागो भवति आकाशादिदेशात्तु विभागादेवेति स्यात्।
॥ तन्तुद्वयविभागस्य तन्त्वारम्भकसंयोगविरोधित्वात्, तन्त्वाकाशविभागस्य तदविरुद्धत्वात्
विरुद्धविभागयोः नैककर्मजत्वं युक्तमित्याक्षेपः॥
नन्वङ्गुलिकर्म अङ्गुलिविभागमाकाशादिविभागं च करोति। तयोर्विभागयोरविरुद्धत्वात्। तन्तुकर्म तु तन्त्वन्तरविभागमाकाशादिविभागं च न कर्तुमर्हति। तयोर्विभागयोर्द्रव्यारम्भकसंयोगविरोधित्वाविरोधित्वरूपविरोधात्। नह्यविरुद्धात् कारणाद् विरुद्धकार्योत्पत्तिः सम्भवतीति।
॥ द्रव्यक्रियायाः पूर्वदेशविभागउत्तरदेशसंयोगरूपविरुद्धगुणद्वयजनकत्वस्य,
तन्तुकर्मणः विरुद्धसंयोगद्वयजनकत्वस्य च तैरेवाङ्गीकृतत्वात् नायमाक्षेपो युक्तः॥
मैवम्। एकस्मादेव कर्मणः संयोगविभागजननाभ्युपगमात्। तन्तुकर्मणा द्रव्यारम्भकानारम्भकतन्त्वन्तराकाशसंयोगजन्माङ्गीकाराच्च। अन्यथा कारणाकारणसंयोगजसंयोगवत् कारणमात्रसंयोगजोऽपि संयोगः स्वीकार्यः स्यात्।
॥ द्रव्यानारम्भकद्रव्यगतसंयोगस्य द्रव्यारम्भकद्रव्यगतसंयोगेनाविरुद्धत्वात् एकस्य कर्मणः
तत्संयोगद्वयजनकत्वमित्यभ्युपगमे, विभागयोरपि तथाऽविरुद्धत्वात् एककर्मजत्वमभ्युपगमनीयम्॥
ननु संयोगस्य न स्वरूपतो विरोधोऽस्ति। यतो द्रव्यानारम्भकद्रव्यसमवेत एव संयोगो द्रव्यानारम्भकः। द्रव्यानारम्भकं च द्रव्यं सप्तविधम् आरब्धद्रव्यम्, अन्त्यावयवि, स्पर्शरहितम्, विनश्यदवस्थम्, विनश्यदवस्थसंयोगम्, निष्फलारम्भम्, विजातीयं चेति। ततः कर्मणैव संयोगद्वयजन्मोपपत्तिरिति। एवन्तर्हि विभागयोरपि को विरोधः? द्रव्यारम्भानारम्भप्रयुक्तत्वाद् विरोधप्रतीतेः।
॥ तन्तुकर्मणः विभागद्वयजनकत्वाभावादिसाधकानुमानानां निरासः॥
तन्तुद्वयविभागजनकं तन्तुकर्म न तन्त्वाकाशविभागजनकम्, द्रव्यारम्भकसंयोगविरोधिविभागजनककर्मत्वात्; द्रव्यान्तरारम्भकसंयोगविरोधिविभागजनककर्मवदित्याभाससमानयोगक्षेमम्। तन्तुकर्म न तन्त्वन्तरविभागजनकम्, कर्मत्वात्; सम्प्रतिपन्नकर्मवदित्यपि प्रयोगसम्भवात् तत्र प्रमाणबाध इति चेत्, सममन्यत्रापि। विभागद्वययौगपद्यानुभवात्। तन्तुकर्म आकाशविभागजनकम्, कर्मत्वादिति प्रतिपक्षश्च। आकाशविभागे विभागेन कर्तव्ये कर्मणो निमित्तत्वाभ्युपगमात् सिद्धसाधनमिति चेत्, न। जनकशब्दस्यासमवाय्यर्थत्वात्।
एतेन विमतं कर्म द्रव्यारम्भकसंयोगविरोधितदविरोधिविभागजनकं न भवति, कर्मत्वादिति निरस्तम्। विमतं कर्म द्रव्यारम्भकानारम्भकसंयोगारम्भकं न भवति, कर्मत्वात्; श्येनकर्मवदित्याभासतुल्यत्वात्, सत्प्रतिपक्षत्वाच्च। यदाकाशविभागजनकं कर्म न तद् द्रव्यारम्भकसंयोगविरोधिविभागजनकम्, यथाङ्गुलिकर्मेति व्याप्तेस्तन्तुकर्मणो गगनविभागजनकत्वे तन्त्वन्तरविभागजनकत्वं न स्यादिति चेत्, न। यद् यत्प्रदेशविभागजनकं न भवति, न तत् तत्प्रदेशस्थद्रव्यविभागजनकमिति व्याप्तेराकाशदेशविभागाजनकत्वे तन्त्वन्तरादपि विभागजनकं न स्यादिति प्रतिप्रसङ्गसम्भवात्।
किञ्च तन्तोराकाशविभागो यदि विभागजो नतु कर्मजः, तदा सकर्मकस्येवाकर्मकस्यापि कुतो न स्यात्? विभागस्योभयत्रापि साम्यात्। उत्तरविभागे कर्म निमित्तकारणमित्यतो नेति चेत्, न। आद्यविभागजननेनैवोपक्षीणस्य कारणत्वानवधारणात्। अवधारणे वाऽसमवायित्वस्यानिवारणात्। अन्यथा तल्लक्षणस्यातिव्याप्तेरित्यलं विस्तरेण।
॥ संयोगस्य स्वाभावसमानाधिकरणत्वरूपाव्याप्यवृत्तित्वनिरासपूर्वकं अंशवृत्तित्वसमर्थनम्॥
एवं छलत्वेनानवस्थाप्रसङ्गं निराकृत्य प्रकारान्तरेण निराकरोति अंश इति।
अंशे संयोगदृष्टेश्चदृष्टे का साऽनवस्थितिः।
अंशिसंयोगस्यांशवृत्तित्वदृष्टेश्च नानवस्थादोष इत्यर्थः। दृष्टत्वे कथमदोषत्वमित्यत आह दृष्ट इति। आपादकेऽर्थे दृष्टे सति साऽनवस्थितिः का? न दूषणमिति यावत्।
एतदुक्तं भवति यद्यंशतः संयोगः स्यात्, तदाऽनवस्था स्यात्। ततश्च संयोगाभाव एवाऽपद्येत। नचासौ युक्तः। तस्मान्नांशतः संयोग इति हि विपर्यये पर्यवसानं कर्तव्यम्। अनवस्थायास्तकत्वात्। विपर्ययापर्यवसायिनश्च तर्काभासत्वनियमात्। अत्रांशतः संयोगो न भवतीति कोऽर्थः, यद्यंशिसंयोगस्यांशसंयोगपूर्वकतानियमो नास्तीति, तर्ह्योमिति वदामः। यद्यंशिसंयोगोंऽशवृत्तिर्न भवतीति, तन्न। घटाद्यंशिसंयोगस्य तदंशवृत्तितायाः प्रत्यक्षदृष्टत्वेन विपर्ययपर्यवसानस्य बाधितत्वात्। घटसंयोगो घट एव वर्तते। किन्त्वव्याप्यवृत्तित्वात् तदंशवृत्तिरिवावभासत इति चेत्, केयमव्याप्यवृत्तिता नाम, अन्या अंशवृत्तित्वात्? स्वाभावसमानाधिकरणत्वमिति चेत्, न। विरुद्धत्वात्। दृष्टत्वादविरोध इति चेत्, न। किमंशभेदेन भावाभावौ दृश्येते, उत घट एवेति सन्देहात्। नह्यविरुद्धविषयत्वे सति विरुद्धविषयताऽङ्गीकर्तुकर्तुमुचिता। उपाधिभेदादविरोध इति चेत्। के त उपाधयः? अंशा एवेति चेत्, त एव सन्तु तर्हि संयोगभावाभावाश्रयाः किमंशवृत्तित्वेन विरुद्धेनाङ्गीकृतेन? अंशांशिनोरभेदेनातिप्रसङ्गस्यापास्तत्वादिति।
॥ संयोगस्यांशवृत्तित्वानङ्गीकारे कार्यद्रव्ये कारणापेक्षया परिमाणोत्कर्षानुपपत्तिप्रसङ्गः॥
प्रतितर्कपराहतत्वाच्चाप्रसङ्गोऽयमित्याह यदीति।
यद्यंशगो न संयोगः कार्येषु प्रथिमा कथम्॥१०९॥
यदि कारणानां संयोगस्तदंशवृत्तिर्न स्यात्, तदा तदारब्धेषु कार्येषु कारणापेक्षया परिमाणोत्कर्षो न स्यादित्यर्थः। अयमभिसन्धिः कारणपरिमाणापेक्षया कार्ये परिमाणोत्कर्षस्तावत् सर्वत्र प्रचयजन्यः। द्वितूलके तथा दर्शनात्। प्रचयहीनतूलद्वयजन्यरज्जुद्रव्ये तदभावोपलम्भाच्च। प्रचयश्च कारणयोः प्रशिथिलः संयोगः। प्रशिथिलता च संयोगस्य केषुचिदंशेषु वृत्तिः, केषुचिदवृत्तिरेव। नान्या, अनिरूपणात्। ततः संयोगस्यांशवृत्तित्वाभावे प्रचयोऽसौ न भवतीति कारणाभावादुत्कृष्टपरिमाणोत्पादो न स्यादिति।
अस्त्वन्यत्र संयोगो यथातथा। प्रस्तुते परमाणौ संयोगस्यांशवृत्तित्वाभावे नातिप्रसङ्ग इति चेत्, न। अन्वयव्यतिरेकाभ्यां कारणपरिमाणोत्कृष्टस्य कार्यपरिमाणस्य प्रचयाख्यांशवृत्तिसंयोगजत्वावधारणात् कारणाभावे च कार्याभावनियमात् परमाणुसंयोगस्यांशवृत्तित्वाभावे तत्कार्ये द्व्यणुके परमाणुपरिमाणादुत्कृष्टपरिमाणं नोत्पद्येतेत्यस्यैव बाधकस्य सत्त्वात्।
॥ परमाण्वपेक्षया द्व्यणुके परिमाणोत्कर्षानङ्गीकारे स्वव्याहतिः, प्रमाणविरोधश्च॥
नन्विदमिष्टापादनम्। परमाणुतो द्व्यणुके परिमाणोत्कर्षाभावादित्यत्र आह परमाणोरिति।
परमाणोरणोर्नास्ति महत्तेत्यद्भुतं वचः।
परमाणुपरिमाणादणोद्वर्यणुकस्य महत्ता परिमाणोत्कर्षो नास्तीति वचोऽद्भुतं स्वव्याहतं प्रमाणविरुद्धं चेत्यर्थः। अयमाढ्योऽयं परमाढ्य इतिवदणुपरमाणुशब्दाभ्यामेव परिमाणतारतम्यावगतेस्तदभाववचनं स्वव्याहतं भवति। द्वितन्तुकपरिमाणवदसम्मृदितावयवजन्यद्रव्यपरिमाणत्वेन द्व्यणुकपरिमाणस्य परमाणुपरिमाणादुत्कर्षस्यानुमानावगतत्वाच्चेति।
॥ त्र्यणुकद्व्यणुकयोः परिमाणोत्कर्षस्य द्व्यणुकपरमाणुद्वयगतत्रित्वद्वित्वरूपसङ्ख्याजन्यत्वस्य
प्रागेव निरस्तत्वात् सुस्थः प्रमाणविरोधः॥
ननु यत् कारणपरिमाणजन्यमुत्कृष्टपरिमाणं तदेव प्रचयजन्यम्। त्र्यणुकरिमाणवद् द्व्यणुकपरिमाणमपि कारणपरिमाणजन्यं न भवति। किन्तु कारणसङ्ख्याजन्यमेव। तत् कथं परमाणोः प्रचयाभावे द्व्यणुके परिमाणोत्कर्षानुत्पादापादनमित्यत आह अणूनामिति।
अणूनां प्रथिमापेक्षां विनैव त्र्यणुकेऽपि सः।
परमाणोर्महत्त्वं च विनेत्येतद् वचः कथम्॥११०॥
द्व्यणुकानां परिमाणोत्कर्षापेक्षां विनैव सङ्ख्यामात्रेण त्र्यणुके स परिमाणोत्कर्षो जायते, तथा परमाणोर्महत्त्वं परिमाणोत्कर्षं विना केवलसङ्ख्यया द्व्यणुके परिमाणोत्कर्षो जायत इत्येतद् वचः कथं घटते? “महद्दीर्घवद् वा” इति निरस्तत्वादिति भावः। चापिशब्दावितरेतरसमुच्चये। अत्र परिमाणमात्रग्रहणे कर्तव्ये प्रथिमेति महत्त्वमिति चोक्तिर्विसदृशपरिमाणत्वस्यानपेक्षाहेतोर्निराकरणं स्मारयितुमिति।
॥ पटस्य तन्तुसमुदायेनाभेदः, एकैकेन तन्तुना भेदाभेदौ॥
अंशांशिनोरत्यन्ताभेदो भेदाभेदौ चेति यदुक्तम्, तद् विशदयति अंशिन इतिे।
अंशिनोंऽशैरभेदोऽयमंशेन तु भिदाभिदा।
यथा गगनादेर्यावदंशभाविनोंऽशिनः स्वांशैरत्यन्ताभेदः, तथा पटादेरंशिनोऽपि सर्वैरंशैरत्यन्ताभेदः। एकैकांशेन तु भिदाभिदा। अयमित्युत्तरवाक्येन सम्बद्ध्यते।
॥ व्यतिषिक्ततन्तुसमुदायस्यैव पटेनाभेदः, न तन्तुसमुदायमात्रस्य॥
नन्वेतदयुक्तम्। सर्वतन्तुभावेऽपि कदाचित् पटस्याभावात्। खण्डिते भेदाभेदस्वीकारात्। अत एकेनेव सर्वैरपि तन्तुभिः पटस्य भेदाभेदावेवोचितौ। तथाचोक्तं ब्रह्मतर्के
“तन्तुभ्योऽन्यः पटः साक्षात् कस्य दृष्टिपथं गतः।
अनन्यश्चेत् तन्तुभावे पटाभावः कुतो भवेत्” इति।
उच्यते व्यतिषङ्गविशिष्टा हि तन्तवोऽवगम्यन्ते। नच तद्भावे कदाऽपि पटाभावः। तस्माद् व्यतिषङ्गविशेषविशिष्टैः सर्वतन्तुभिः पटस्यात्यन्ताभेद एव। अविवक्षितव्यतिषङ्गैः सर्वतन्तुभिस्तु भेदाभेदावेवेति न कश्चिद् विरोधः।
॥ अवयव्यवयविनोरभेदाङ्गीकारे परमाणुपुञ्जवादप्रसक्तिमाशय निराकरणम्॥
नन्वेवन्तर्हि व्यतिषक्ततन्तुव्यतिरेकेण पटाभावे परमाणुपुञ्जवादापत्तिरिति। मैवम्। यथाहि गुणानां द्रव्याभेदेऽपि न द्रव्यं निर्गुणम्, यथाच परेषां सामान्यादावतिरिक्तसत्ताभावेऽपि नासत्त्वम्, तथा व्यतिषक्ततन्तव एव पटः, तथाऽपि न पटाभावः। किन्तु सन्ति व्यतिषक्तास्तन्तवः, पटश्च। स च तेभ्यो न भिद्यत इति। कथमेतदिति चेत्, विशेषशक्त्यैवेति ब्रूमः।
॥ उक्तार्थस्य प्रत्यक्षसिद्धत्वात् नानुमानविरोधः॥
ननु व्यतिषक्तसर्वतन्तुभ्योऽपि पटस्य भेदोऽङ्गीकार्यः। तन्तुव्यतिषङ्गानन्तरं पटस्य जायमानत्वात्। कथञ्च एकैकतन्तुनाऽभेदः? एकैकत्र पटबुद्ध्यभावादित्यत आह सर्वेति।
सर्वप्रत्यक्षविषयः कथमेव ह्यपोद्यते॥१११॥
उक्तोऽयमर्थः सर्वप्रत्यक्षविषयो यस्मात्, तस्मात् कथमेवापोद्यते? एतदुक्तं भवति अस्ति तावद् व्यतिषक्तसर्वतन्तूनां पटस्य चाभेदे प्रत्यक्षम्। तत्प्रतीतेः सम्बद्धवस्तुद्वयप्रतीतिवैलक्षण्यस्य साक्षिसिद्धत्वात्। नच भेदे प्रमाणमस्ति। येन सोऽपि स्वीकरिष्यते। जायतां नाम तन्तुव्यतिषङ्गानन्तरं पटः, तथाऽपि न विवक्षितार्थहानिः। नहि तन्तुव्यतिषङ्गं पटमाचक्ष्महे। किन्तु व्यतिषङ्गे सति यत् तन्तूनां विशिष्टं रूपम्। नचैकैकतन्तुपरित्यागे सर्वतन्तवो नाम सन्ति। अतस्तत्राप्यस्त्येवाभेदप्रतीतिः। एकैकत्र पटबुद्ध्यभावस्तु भेदमाक्षिपति। नतु प्रत्यक्षसिद्धमभेदमपवदतीति।
॥ संयोगविभागपृथक्त्वानामनेकाश्रितत्वं निराकृत्य प्रातिस्विकत्वप्रतिपादनम्॥
अथापि स्यात्। अवयव्यादीनामवयवादिभिरभेदो नोपपद्यते। एको ह्यवयवी, अनेके चावयवाः। तदभेदेऽवयवानामप्यभेदः, अवयविनो वा भेदः प्रसज्येत। तथा गुणाश्च केचिदनेकाश्रिताः। एकैव हि संयोगव्यक्तिर्द्वयोर्द्वयोर्वर्तते। तथा विभागव्यक्तिरपि। सङ्ख्या च द्विविधा, एकत्वानेकत्वभेदात्। तत्रैकत्वस्यैकद्रव्यगतत्वेऽपि द्वित्वादिकमनेकाश्रितम्। एवं पृथक्त्वमपि द्विविधम्, एकपृथक्त्वमनेकपृथक्त्वं च। तत्रैकपृथक्त्वस्यैकद्रव्यवृत्तित्वेऽपि द्विपृथक्त्वादिकमनेकाश्रितमेव। एवञ्च गुणानां गुणिनैक्ये संयोगाद्याश्रयानेकद्रव्याभेदो वा, सयोगादिभेदो वाऽऽपद्येत। सामान्यं चैकमनेकाश्रितम्। तस्य व्यक्त्यभेदे व्यक्तीनामप्यभेदः, सामान्यस्य वा भेदः प्रसज्येतेत्यतः संयोगविभागपृथक्त्वानां तावदनेकाश्रितत्वं नास्तीत्याह संयोगश्चेति।
संयोगश्च विभागश्च भेदश्चैव पृथक्पृथक्।
अन्योन्यप्रतियोगेन ह्युभयोरपि दृश्यते॥११२॥
भेद इति पृथक्त्वमुच्यते। चशब्दा इतरेतरयोगे। पृथक्पृथगेव एकैकद्रव्याश्रिता एवेत्यर्थः। ततश्चैकेन गुणेनाभिन्नत्वे द्रव्ययोरप्यभेदः स्यादित्यतिप्रसङ्गस्याऽपादकासिद्धिः। अनेकद्रव्याभिन्नत्वे गुणस्यापि भेदः स्यादित्यस्येष्टापत्तिर्दूषणमित्युक्तं भवति।
ननु घटपटसंयोगविभागभेदा घटपटसम्बन्धितयाऽनुभूयन्ते। तत् कथमेकैकाश्रिताः? तथात्वे चैकैकस्मिन्नेव संयुक्तादिप्रत्ययप्रसङ्ग इत्यत आह अन्योन्येति। प्रतियोगः प्रतियोगित्वम्। अन्योन्यस्य प्रतियोगोऽन्योन्यप्रतियोगः। यत्संयोगादिरुभयोरपि दृश्यते तदन्योन्यप्रतियोगेन हि निमित्तेन। अत्रोभयोरपीत्यनेकोपलक्षणम्। भेदस्य बहुसम्बन्धितयाऽपि प्रतीतेः।
एतदुक्तं भवति घटप्रतियोगिकः संयोगादिः पटेऽस्ति। तथा पटप्रतियोगिको घटेऽस्ति। तस्मादुभयसम्बन्धितया प्रतिभासः, अतिप्रसङ्गाभावश्च युज्यत इति।
स्यादेतद् यदि संयोगादीनामेकैकवृत्तित्वे प्रमाणं स्यात्। तदेव नास्तीत्यत आह अन्योन्येति। पृथक्पृथगेवेत्यनुवर्तते। अन्योन्यप्रतियोगेन हेतुना संयोगादिकमुभयोरपि पृथक्पृथगेव हि दृश्यते।
अयमर्थः पटो घटेन संयुक्तः, घटाद् विभक्तः, घटाद् भिन्न इति पटधर्मः संयोगादिर्घटप्रतियोगिकतया प्रतीयते। यश्च यत्प्रतियोगिको नासौ तद्धर्मः। यथा स्थविरप्रतियोगिकमपरत्वं न स्थविरधर्मः, तस्मान्नायं संयोगादिर्घटधर्मः। एवं घटधर्मः संयोगादिः पटप्रतियोगितयोपलभ्यमानो न पटधर्मो भवितुमर्हति। तथाच पृथक्पृथगेव संयोगादिरनेकधर्मोऽवगम्यत इति।
॥ पृथक्त्वस्यानेकाश्रितत्वे “भिन्नाविमौ’ इत्यादिप्रतीत्यनुपपत्तिपरिहारः॥
नन्वस्तु संयोगविभागयोरियं गतिः। नतु पृथक्त्वे। यद्धि घटात् पटः पृथक्, पटाच्च घटः पृथगित्यन्योन्यप्रतियोगिकतया प्रतीयते, तदेकपृथक्त्वं पृथक्पृथगेवाभ्युपगम्यते। यत्तु भिन्नाविमौ भिन्ना इमे इति प्रतीयते, तदनेकपृथक्त्वमनेकाश्रितमेव प्रतियोग्यनिरूप्यस्यैकाश्रितत्वे मानाभावादित्यत आह भिन्ना इति।
भिन्ना इति तु भेदानां समुदायो हि दृश्यते।
यथैव च पदार्थानामनयोर्भेद इत्यपि॥११३॥
इतोऽमुष्यामुतोऽमुष्य भेदो दृष्टो द्विधर्मिकः।
तत्रैकवचनं यत् तद् विप्राणां भोजनं यथा॥११४॥
इमे भिन्ना इत्यादिप्रतीतौ भेदानां समुदायोऽनेकत्वं हि दृश्यते। कथम्? यथैव च पदार्थानाम्। एतदुक्तं भवति यथाहि शुक्ला इमे पटा इत्यादिप्रतीतावनेके पटा अनेकानि च तद्विशेषाणि शौक्ल्यान्यवभासन्ते, तथा भिन्ना इमे इत्यादिप्रतीतावप्यनेके पदार्था अनेके च भेदाः प्रकाशन्ते इत्यभ्युपगन्तव्यम्। नच विशेषप्रमाणमस्ति, येनात्रान्यो विधिर्भविष्यतीति। एतेन संयुक्ताविमावित्यादिप्रतीतिरपि व्याख्याता वेदितव्या।
नन्वनयोर्भेदोऽमीषां भेद इति प्रतीतावनेकाश्रितं पृथक्त्वमुपलभ्यते। तत् कथमेतदिति चेत्, किमत्रानेकस्य धर्मितयाऽवभासं प्रमाणयसि, उत धर्मस्यैकत्वावभासम्, उतोभयावभासम्? पक्षत्रयेऽप्युत्तरमाह अनयोरिति। अस्यामपि प्रतीतावितो घटादमुष्य पटस्य, अमुतः पटादमुष्य घटस्य भेद इत्येवं द्विधर्मिको भेदो दृष्टः। तथाचानेकस्य धर्मित्वेऽपि धर्मस्यैकत्वावभासासम्मतेर्नानेनाभिमतार्थसिद्धिरित्युक्तं भवति। अनेनैवानयोः संयोग इत्यादिप्रतीतिरपि व्याख्याता द्रष्टव्या।
॥ पृथक्त्वस्य प्रातिस्विकत्वे “अनयोर्भेदः’ इत्यादिष्वेकवचनानुपपत्तिपरिहारः॥
ननु वचनलिङ्गा हि वक्तुरभिप्रायाः। भेद इति चैकवचनं प्रयुज्यते। तेनानुमीयतेऽस्यां प्रतीतावेक एव भेदो द्विधर्मिको दृष्ट इति। तस्मादन्योन्यप्रतियोगिकानेकधर्मिकानेकभेदविषयत्वं प्रतीतेर्न वक्तुं शक्यमित्यत आह तत्रेति। तत्र अनयोर्भेद इत्यादिवाक्ये, भेदद्वये वा। भोजनमित्येकवचनं यथा तथेत्यर्थः। एतेन एकवचनेन प्रतीतेरेकार्थविषयत्वानुमानेऽनैकान्तिकत्वम्, समुदायविषयत्वेनान्यथासिद्धिश्चेत्युक्तं भवति।
॥ अवयवावयविनोर्विरुद्धधर्मवत्त्वेऽपि नाभेदानुपपत्तिः॥
अवयविनस्त्वेकत्वेऽपि न कश्चिद् दोषः। आकाशस्य स्वावयवैरभेदवदवयवानामप्यभेदस्याङ्गीकृतत्वात्। पटस्य च यादृशेन तन्तुसमुदायेनात्यन्ताभेदोऽभिहितः स एक एव। व्यतिषक्तानां तन्तूनां विशिष्टाकारो ह्यसौ। स चाऽगन्तुकत्वात् तन्तुभ्यो भिन्नाभिन्न एव। एकैकेन तन्तुना सर्वैश्चाभेदेऽपि भेदस्यापि विद्यमानत्वान्नान्योन्याभेदप्रसक्तिरिति स्वयमेवोह्यतामिति नोक्तम्।
॥ संयोगादेः प्रातिस्विकत्वोक्तिसमर्थनम्॥
नन्वेवन्तर्हि संयोगादेरप्येकैकाश्रितत्वं न वक्तव्यम्। अयावद्द्रव्यभावित्वेन भेदाभेदाभ्यामेवोक्ताक्षेपसमाधानादिति। सत्यम्। तथाऽपि वस्तुस्थितिरियमुक्तेत्यदोषः। अपिचाजसंयोगे नायं समाधिः सम्भवति। स एव नास्ति प्रमाणाभावादिति चेत्, न। परमाणोराकाशादिसंयोगाङ्गीकारात्। सोऽपि परमाणुकर्मज इति चेत्, न। प्रागसंयोगप्रसङ्गात्। अंशभेदान्नेति चेत्, न। स्वाभाविकस्यानभ्युपगमात्। औपाधिकस्य च निराकरिष्यमाणत्वात्। (७३७)
किञ्चाऽकाशमीश्वरेण संयुज्यते, द्रव्यत्वात्; घटवत्। नच मूर्तत्वमुपाधिः, विशेषणवैयर्थ्यात्। परिच्छिन्नपरिमाणवत्त्वं हि मूर्तत्वम्। तत्र परिमाणवत्त्वेनैवालम्। परिच्छिन्नत्वविशेषणं तु व्यर्थमेव। आकाशमीश्वरेण न संयुज्यते, अमूर्तत्वात्; रूपवदिति चेत्, न। अद्रव्यत्वस्योपाधित्वादिति।
॥ प्रत्यक्षानुमानाभ्यां जातेः प्रतिव्यक्ति भिन्नत्वप्रतिपादनम्॥
इदानीं सामान्यस्यैकैकाश्रितत्वमाह नरत्वादिकमिति।
नरत्वादिकमप्येवं तत्तद्धर्मतयेयते।
न सर्वधर्म एकोऽस्ति............॥११५॥
एवं संयोगादिवदेकैकवृत्तीत्यर्थः। सामान्यमपीति वक्तव्ये ब्राह्मणत्वादेरयावद्द्रव्यभावित्वेनापि तत्र परिहारः सम्भवतीति ज्ञापयितुं नरत्वादिकमित्युक्तम्। उपपादनं च नैकप्रकारमिति योगविभागः।
कुतो नरत्वादिकं प्रतिव्यक्ति भिन्नमित्यत आह तत्तदिति। यथाहि नरेषूपलभ्यमानेषु तदीयं रूपादिकं प्रतिनियतमुपलभ्यते, तथा नरत्वादिकमपि तत्तन्नियतधर्मतयैवेयते दृश्यते इति प्रत्यक्षमुक्तम्। यद्वा योऽनेकाश्रितो धर्मो नासावेकैकप्रतीतौ प्रतीयते, यथा द्वित्वादि। प्रतीयते च नरत्वादिकमेकैकप्रतीतावतो नानुगतमित्यनुमानमनेन सूचयति।
किञ्च नरत्वादिकं नानेकानुवृत्तम्, धर्मत्वात्; रूपादिवत्। अस्याऽभासोद्धारं करोति नेति। सर्वधर्मः अनेकवृत्तिधर्मः। तेन धर्मत्वं न भग्न्व्याप्तिकमिति शेषः। पक्षधर्मता तु स्फुटैवेति।
॥ अनेकत्वसङ्ख्याया अनेकाश्रितत्वाद् धर्मत्वहेतोर्व्यभिचारमाशय परिहारकथनम्॥
नन्वनेकत्वसङ्ख्या तावदनेकाश्रिता। एकैकस्मिन् द्वित्वादेः शङ्कितुमप्यशक्यत्वात्। नहि द्वित्वादिकमेकैकप्रतीतौ प्रतीयते। नच प्रतियोगिनिरूप्यम्। धर्मितयैवानेकेषामनुभवात्। अतो धर्मत्वहेतोस्तत्रानैकान्त्यमित्यत आह समुदायस्त्विति।
..................समुदायस्तु भिन्नगः॥११५॥
समुदायोऽनेकत्वं भिन्नगोऽनेकाश्रितः। सत्यमनेकत्वसङ्ख्याऽनेकाश्रिता। तथाऽपि तदन्यत्वेन हेतुविशेषणाददोष इति भावः। सा चापेक्षाबुद्धिजन्यत्वादयावद्द्रव्यभाविनी भिन्नाभिन्नेति नाऽश्रययोरभेदापत्तिः।
॥ सादृश्यस्यानेकवृत्तित्वाद् धर्मत्वहेतोरनैकान्तिकता॥
प्राभाकरास्त्वाहुः। सादृश्यं तावदेकमनेकानुगतम्, तत्र धर्मत्वहेतोर्व्यभिचारः। नच वाच्यम् सामान्यमेव सादृश्यमतः पक्षे व्यभिचारचोदनेयमनुपपन्नेति, जातिसङ्करप्रसङ्गात्। अस्ति हि कयोश्चिदश्वरासभव्यक्त्योः सादृश्यम्, तत्र यदि सादृश्यमश्वत्वात् परम्, तदा सर्वेषामप्यश्र्वानां रासभसादृश्यं स्यात्। यदिचापरम्, तदा रासभव्यक्तावप्यश्वत्वं स्यात्। एवं रासभत्वेऽपि वाच्यम्। न सादृश्यमश्वरासभवृत्ति ब्रूमः, किन्तु तदवयववृत्ति। द्रव्यगुणावयवकर्मवृत्तीनि सामान्यान्येव हि सादृश्यनामान्यभ्युपगच्छामः, अतो न जातिसङ्करदोष इति चेत्, न। गौर्गवयेन सदृशीत्यादिव्यवहारणाममुख्यत्वप्रसङ्गात्। नच सामान्यं प्रतियोगिनिरूप्यम्। तन्निरूप्यं च सादृश्यमिति स्फुटोऽनयोर्भेद इत्यत आह एतादृशं चेति।
॥ सादृश्यस्यापि प्रतिव्यक्ति भिन्नत्वाङ्गीकारात् नानैकान्तिकता॥
एतादृशं च सादृश्यं पदार्थेषु पृथक्पृथक्।
भवतु सादृश्यं सामान्यतो भिन्नम्, तथाऽपि तत् पदार्थेषु पृथक्पृथगेवेति न तेन धर्मत्वहेतोर्व्यभिचारः। एतादृशमिति तत्रोक्तहेत्वतिदेशः। नहि सादृश्यस्यानेकवृत्तित्वे प्रमाणमस्ति। सदृशाविमावित्यादेः शुक्लाविमावित्यादिवदुपपत्तेः। अनयोः सादृश्यमित्यादेश्चास्यानेन सादृश्यमस्यानेन सादृश्यमित्युपपत्तेः। एकवचनस्य च विप्राणां भोजनमित्यादिवदुपपन्नत्वात्, प्रतियोगिनो धर्मित्वासम्भवाच्च। एकाश्रितत्वेऽपि प्रतियोगिनिरूप्यत्वेनैकैकप्रतीतावपि अप्रतीतिसम्भवाच्चेति।
॥ हेत्वन्तरेण जातेः प्रतिव्यक्ति भिन्नत्वसमर्थनम्॥
नरत्वादिसामान्यस्य प्रतिव्यक्ति भिन्नत्वेऽनुमानान्तरमाह एकस्मिन्निति।
एकस्मिन् स विनष्टेऽपि यतोऽन्यत्रैव दृश्यते॥११६॥
एकस्मिन्नरे नष्टे तदाश्रितं नरत्वं तावन्नष्टम्। तथाऽपि स नरत्वलक्षणो धर्मोऽन्यत्र नरान्तरे दृश्यत एव, यतोऽतोऽपि नरत्वादिकमित्युक्तेन सम्बन्धः। यद्वा विनष्टं विनाशः, सह विनष्टेन वर्तत इति सविनष्टम्, तस्मिन्। विनाशवतीति यावत्। अथवाऽऽश्रयेण सह विनष्टं सविनष्टम्, तस्मिन्निति योजना।
अयमत्र प्रयोगः नष्टानष्टवर्ति नरत्वं भेदवत्, विरुद्धधर्माश्रयत्वात्; छायातपवत्। नचासिद्धो हेतुः। नष्टाश्रयस्य नरत्वस्य नष्टत्वात्। अन्यस्य तु दृश्यमानत्वेनाविनष्टत्वात्। यद्वेदं नरत्वं विनष्टान्नरत्वाद् भिद्यते, अविनष्टत्वात्; घटवत्। यदि वा तन्नरत्वमविनष्टान्नरत्वाद् भिद्यते, विनष्टत्वात्; घटवदिति।
॥ जातेर्नित्यत्वनिराकरणम्॥
भवेदेतद् यदि विनष्टनराश्रितमपि नरत्वं विनश्येत्। नचैतदस्ति तस्य नित्यत्वादित्यत आह कुत इति।
कुतो भस्मत्वमाप्तस्य नरत्वं पुनरिष्यते।
एकत्वे नास्ति मानं च...............॥११७॥
भस्मत्वमाप्तस्य नरस्येति शेषः। पुनः आश्रयनाशोत्तरकालम्। इष्यते अस्तित्वेनेति शेषः। नष्टस्येति वक्तव्ये भस्मत्वमाप्तस्येति वचनमवस्थान्तरापत्तिरेव विनाशः, नतु ताकिकादीनामिव सर्वथा नास्तित्वमिति सूचयितुम्। आश्रयनाशोत्तरकालं सामान्यसत्त्वम्, विमतं विनाशवत्, विनाशवदाश्रयसमवेतत्वात्; रूपादिवदित्यादिप्रमाणविरुद्धम्, अप्रामाणिकं चेत्यर्थः।
नष्टनराश्रितस्यापि नरत्वस्य पुनः सत्त्वं न निष्प्रमाणकम्, प्रत्यक्षसिद्धत्वात्। नष्टानष्टनराश्रितं नरत्वं तावदेकम्। तच्चाविनष्टे नरे पुनरुपलभ्यते। अत एवानुमानमपि बाधितविषयमित्यत आह एकत्व इति। स्यातेतद् यद्येतयोरेकत्वे मानं स्यात्। नच तदस्तीत्यर्थः। नच प्रत्यभिज्ञानं प्रमाणम्। तस्य स्वरूपतः प्रमाणत्वेन च सन्दिग्धत्वात्। चशब्देनान्योन्याश्रयत्वं समुच्चिनोति। एकत्वे हि पुनस्तस्य सत्त्वसिद्धिः, तत्सिद्धौ चैकत्वसिद्धिरिति।
॥ आगमेन जात्यादीनां प्रतिव्यक्ति भिन्नत्वसमर्थनम्॥
एवं सामान्यादीनां प्रत्याश्रयं भेदे प्रत्यक्षानुमानान्युक्त्वा श्रुतिमप्याह श्रुतिरपीति।
......................श्रुतिरप्याह सादरम्॥११७॥
भिन्नाश्च भिन्नधर्माश्च पदार्था निखिला अपि।
स्वैः स्वैर्धर्मैरभिन्नाश्च स्वरूपैरपि सर्वशः॥११८॥
अनिवृत्तविनाशास्तु धर्मा उभयरूपकाः।
न केनचिदभिन्नोऽतो भगवान् स्वगुणैर्विना॥११९॥
इति....................................।
आह सामान्यादीनां प्रत्याश्रयं भेदमिति शेषः। भिन्नाः परस्परतो भेदवन्तः। अन्योन्यं भिन्ना धर्मा येषां ते भिन्नधर्माः। भिन्नधर्मा इत्यनेनाऽश्रयतोऽपि भेदोऽभिहित इति शङ्कानिरासार्थमुक्तम् स्वैरिति। स्वरूपैरपि, यथा भगवान् मत्स्यादिभिः। स्वैः स्वैर्धर्मैरभिन्नाश्चेत्यस्यापवादोऽनिवृत्तेति। अनिवृत्तेऽप्याश्रये विनाशो येषां ते तथोक्ताः। यथाऽऽमघटश्यामतादयः। उभयरूपका भिन्नाभिन्नाः। न केनचिदिति श्रुतिः स्वप्रकृतमुपसंहरति। अत्र सर्वश इत्यादिवचनादुक्तविवरणाच्चाऽदरः प्रतीयते।
॥ पीलुपाकप्रक्रियानिराकरणम्॥
ननु घटादेरामद्रव्यस्याग्न्निा सम्बद्धस्य, अग्न्यभिघातान्नोदनाद् वा तदारम्भकेषु परमाणुषु, कर्माण्युत्पद्यन्ते। तेभ्यो विभागाः, विभागेभ्यः संयोगविनाशाः, संयोगविनाशेभ्यः कार्यद्रव्यं विनश्यति। तस्मिन् विनष्टे परमाणुष्वग्न्सिंयोगादौष्ण्यापेक्षाच्छ्यामादीनां विनाशः। पुनरन्यस्मादग्न्सिंयोगादौष्ण्यापेक्षात् पाकजा जायन्ते। तदनन्तरं भोगिनामदृष्टापेक्षादात्माणुसंयोगादुत्पन्नपाकजेष्वणुषु कर्मोत्पत्तौ तेषां परस्परसंयोगाद् द्व्यणुकादिप्रक्रमेण कार्यद्रव्यमुत्पद्यते। तत्र च कारणगुणप्रक्रमेण रूपाद्युत्पत्तिर्भवति। तत् कथमामघटश्यामत्वादीनामयावद्द्रव्यभावित्वमुच्यते?
मैवम्। अत्र प्रमाणाभावात्। नोदनाद्युत्पत्तौ कर्मोत्पत्तिः प्रमाणम्, कर्मसु विभागाः, तेषु पूर्वसंयोगनिवृत्तिः, तत्र कार्यद्रव्यविनाशः, तत्र च पूर्वरूपादिपरावृत्तिः। तथा रूपाद्यन्तरोत्पत्तिः स्थूलद्रव्योत्पत्तौ प्रमाणम्, सा तदवयवपरम्परायाम्, सा द्व्यणुके, तदुत्पत्तिः परमाणुसंयोगे, स च तत्क्रियायाम्, साऽदृष्टवदात्मसंयोग इति चेत्, न। परमाणुष्विव कार्यद्रव्येषु पूर्वरूपादिनिवृत्तेरपूर्वरूपाद्युत्पत्तेरुपपत्तेः। पार्थिवावयविरूपादयः स्वाश्रयविनाशादेव विनश्यन्ति, अवयविरूपादित्वात्; दग्धपटरूपादिवत्। कारणगुणेभ्य एवोत्पद्यन्ते तत एव तद्वदेवेति चेत्, न। क्वचित् सत्याश्रयेऽपि रूपादिविनाशेऽग्न्सिंयोगजत्वे च विरोधाभावात्। अन्यथा कार्यद्रव्यं संयोगविनाशादेव विनश्यति, कार्यद्रव्यत्वात्; द्व्यणुकवदित्यादिकमपि स्यात्।
नन्वग्न्सिंयोगः सर्वावयवेष्वस्ति, नवा? नचेत् तत्र रूपादिविनाशोत्पादासम्भवः। तथाचावयवावयविनोर्विलक्षणरूपादिमत्त्वं स्यात्। आद्येऽग्न्यवयवानां सर्वत्र प्रवेशेन अवयविनाशस्यावर्जनीयत्वमिति चेत्, न। अवयविद्रव्याणां सच्छिद्रत्वेन प्रवेशोपपत्तेः। संस्थानापगमाभावेनावयविविनाशायोगात्। तथाविधस्यैवोदाहृतत्वादित्यलम्।
॥ परेण जातेरनुगतत्वाभावे व्युत्पत्त्यभावप्रसङ्गाभिधानम्॥
एवं सामान्यस्यानेकवृत्तित्वं प्रमाणैरपाकृतम्। तदयुक्तम्। तस्यानेकवृत्तित्वाभावे बाधकसद्भावात्।तथाहि सर्वेषु गोपिण्डेषु यद्यनुगतमेकं गोत्वसामान्यं न स्यात्, तदा तत्र गोशब्दसङ्गतिग्रहणलक्षणा व्युत्पत्तिर्न स्यात्। वृद्धव्यवहारोपदेशादिना हि व्युत्पत्तिर्भवति। नच प्रतिपिण्डं व्यवहारादिकमस्ति। तेषामानन्त्येन व्युत्पत्तावेव पुरुषायुषपर्यवसानप्रसङ्गात्। अतो यत्रोपदेशादिकं तत्रैव व्युत्पत्तिर्व्यवहारश्चेति स्यात्।
अथ विनैवैकेन निमित्तेनोपदेशाद्यभावेऽपि गोपिण्डान्तरे गोशब्दसङ्गतिं गृह्णीयात्, तदाऽश्वपिण्डेऽपि किं न गृह्णीयात्? अविशेषात्। अनुगतगोत्वे तु गोशब्दवृत्तिनिमित्ततयोपदेशादिनाऽवगते नायं दोषः प्रादुष्यात्। तस्मादनेकेष्वेकशब्दसङ्गतिग्रहणान्यथानुपपत्त्याऽनुगतमेकमभ्युपगन्तव्यमेव।
ननु कथन्तर्हि सामान्यरहितेषु पृथिव्यादिषु भूतमूर्तादिशब्दसङ्गतिग्रहणम्? उच्यते तत्रापि बाह्यैकेन्द्रियग्राह्यगुणाश्रयत्वेयत्तावच्छिन्नपरिमाणत्वाद्युपाधिनिबन्धनैव व्युत्पत्तिः। उपाधीनां व्यावृत्तत्वेऽप्यनुगतसामान्याश्रयत्वेन दोषाभावात्।
॥ जातेरनुगतत्वाभावे कार्यकारणभावव्याप्तिज्ञानउत्सर्गापवादन्यायानुपपत्तिप्रसङ्गः॥
किञ्चानुगततन्तुत्वपटत्वादिसामान्याभावे कार्यकारणभावावधारणं न स्यात्। ततश्च कार्यार्थिनः कारणे प्रवृत्तिर्न स्यात्। कार्यकारणभावे ह्यन्वयव्यतिरेकौ वा, उपदेशो वा प्रमाणम्। नच व्यावृत्तेषु वस्तुष्वन्वयव्यतिरेकग्रहणमुपपद्यते। नियमव्यभिचारयोर्दुर्ज्ञानत्वात्। उपदेशश्चानन्तेषु न सम्भवत्येवेत्युक्तम्। अपिच व्याप्तिज्ञानमप्यनुगतसामान्याभावेऽनुपपन्नं स्यात्। व्यावृत्तवस्तूनामन्वयव्यतिरेकावगमानुपपत्तेः।
सामान्यापवादन्यायश्चानुगतसामान्याभावे न भवेत्। द्वयोः प्रमाणयोरेकस्वरूपविषयत्वे त्वन्यतरस्याप्रामाण्यमेव स्यात्। भिन्नविषयत्वे नापवादविषयोऽस्ति। अस्ति च तावद् गौरयमित्यनुगताकारप्रत्ययः। नचासौ व्यावृत्तेषु सम्भवति। भ्रान्तत्वप्रसङ्गात्। नचैतत् सर्वमन्यापोहनिबन्धनम्। तस्यापि प्रतिपिण्डं व्यावृत्तत्वात्। अनुगतत्वे वा किमपराद्धं सामान्येन? तथाच विधिरूपः प्रत्ययोऽपि समाहितः स्यात्।
॥ व्युत्पत्त्यादीनां सादृश्येनैव उपपद्यमानत्वप्रतिपादनम्॥
एवञ्चाङ्गीकार्ये गोत्वादेरनुगमे नित्यत्वमप्यनिवार्यमित्यत आह व्युत्पत्तिरपीति।
....व्युत्पत्तिरपि हि सादृश्येनैव गम्यते।
सर्वेषु युगपच्छब्दः सदृशेषु प्रवर्तते॥१२०॥
अपिपदं कार्यर्कारणभावावधारणादिसमुच्चयार्थम्। हिशब्दो यस्मादित्यर्थे। गम्यते अभ्युपगम्यते। अवगम्यत इति वा। अस्ति तावत् सादृश्यं नाम पदार्थान्तरम्, गोसदृशो गवय इत्याद्यध्यक्षसिद्धत्वात्। तेनैव चोपपद्यते व्युत्पत्त्यादिकम्। तस्मान्न तदर्थं गोत्वादेरनुगतत्वं कल्पनीयम्।
सादृश्येन तावत् शब्दव्युत्पत्तिप्रकारं दर्शयितुमुपक्रमते सर्वेष्विति। बहवो हि शब्दसङ्गतिग्रहणोपायाः। तत्र यदोपदेशतो व्युत्पद्यते तदाऽयं गौरित्युपदेशवाक्यं व्याप्तिग्राहकतयोपयुज्यते। कथम्? सादृश्योपधानेन सर्वेषु गोपिण्डेषु युगपदेककालमयमित्यादिशब्दः प्रवर्तते। अयं गौरित्यस्य अयमेतत्सदृशाः सर्वेऽपि गोशब्दवाच्या इत्यर्थो वक्त्रा अभिप्रेयते, श्रोत्रा चावधार्यत इति यावत्। द्वयोरपि सार्वत्रिकव्युत्पत्तिकामत्वेन वाक्यस्यैकपिण्डविषयकत्वकल्पनानुपपत्तेरिति भावः।
॥ उपदेशवाक्यस्य व्याप्तिपरत्वे बाधकपरिहारः॥
यद्ययं गौरित्यादिवाक्यं नैकपिण्डमात्रविषयम्, किन्त्वयं चैतत्सदृशाश्च सर्वे गोशब्दवाच्या इति व्याप्तिपरम्, तदा सङ्गतिग्रहणोत्तरकालं गामानयेत्युक्ते गोशब्दात् सर्वगोप्रतिपत्तिः स्यात्। अभीष्टगोप्रतिपत्तिस्तु जायते, सा कथमिति तटस्थस्य चोद्यं परिहरति तथाऽपीति।
तथाऽपि प्राप्तितस्त्वेकवचनाच्च विशेषतः।
अभीष्टावगतिश्च स्यात्..................॥१२१॥
यद्यप्युपदेशो नैकपिण्डविशेषगोचरः, तथाऽपि गामानयेत्युक्तेऽभीष्टगोपिण्डावगतिः स्यादेव। कथम्? प्राप्तितो योग्यत्वात्। अतीतानागतानामत्यन्तविप्रकृष्टदेशस्थानां गवामानयनयोग्यताभावमालोच्य तत्परित्याग इत्यर्थः। तर्हि सन्निहितसर्वगोप्रतिपत्तिः कुतो न भवतीति चेत्, न। गामित्येकवचनात्। तथाऽपि यस्यकस्यचिदेकस्य गोपिण्डस्य प्रतिपत्तिः स्यात्। नाभीष्टस्यैवेति चेत्, न। शबलां बहुलां कालाक्षीमित्यादिविशेषणत्। एतदुक्तं भवति गोशब्दाद् भवत्येव सर्वगोप्रतिपत्तिः। किन्तु लिङ्गप्रकारणादिबलात् पिण्डविशेषे कार्यप्रतिपत्तिरिति।
॥ शब्दशक्तिग्रहणे सादृश्यस्य लिङ्गतयोपयुज्यमानत्वम्॥
अस्त्वयं गौरित्यादिवाक्यं व्याप्तिपरम्। ततः किमित्यत आह शक्तिरिति।
...................शक्तिः सादृश्यगा यतः॥१२१॥
तादृशोऽयं च तच्छब्द इति ज्ञापयति स्फुटम्।
यतो वाचकत्वशक्तिः शब्दस्य सादृश्यगा सादृश्यसम्बन्धिनी सादृश्यव्यापिकेति यावत्। अस्माद् वाक्यादवधारितेति शेषः। अतस्तां शक्तिं तत्तद्विषयतया सादृश्यं स्फुटं ज्ञापयति।
कथमित्यतः प्रयोगप्रकारं दर्शयति तादृश इति। चो यस्मादित्यर्थे। अयं परिदृश्यमानो यस्मात् तादृश उपदेशकाले सन्निहितेन पिण्डेन सदृशस्तस्मात्, तच्छब्दः स शब्दो यस्य वाचकोऽसौ तथोक्तः। इतिशब्दः प्रकारवाची।
॥ सादृश्येन शब्दव्युत्पत्तिप्रकारस्य सङ्ग्रहेण निरूपणम्॥
अयमत्र समुदायार्थः व्युत्पत्त्यर्थं तावन्नानुगतं किमप्यङ्गीकरणीयम्। सादृश्येनैव तदुपपत्तेः। नच वाच्यं सादृश्यमप्यनुगतं चेत्, किं सामान्येनापराद्धम्, व्यावृत्तत्वे कथं सार्वत्रिकव्युत्पत्त्यङ्गमिति। नहि सादृश्यं शब्दशक्तिविषयतया प्रवृत्तिनिमित्ततया वाऽभ्युपगम्यते। किन्नाम। लिङ्गतया। यथाहि गन्धवत्त्वं न पृथिवीशब्दवाच्यम्, नापि तत्प्रवृत्तिनिमित्तम्, किन्तु पृथिवीत्ववत्या व्यक्तेः पृथिवीशब्दवाच्यत्वे लिङ्गमेव, तथा तेते व्यावृत्ताकारा एव तैस्तैर्व्यावृत्तैर्द्रव्यगुणकर्मसामान्यादिभिर्निमित्तैस्तत्तच्छब्दवाच्याः। सादृश्यं तु व्यावृत्तमपि तदवबोधे लिङ्गतयोपयुज्यते। तथाहि यदाऽयं गौरित्युपदेशपूर्विका व्युत्पत्तिः, तदा तद्वाक्यं व्याप्तिग्राहकम्। अयं चैतत्सदृशाश्च सर्वे गोशब्दवाच्या इत्येवम्परत्वात्। व्यवहारादिपूर्विकायां तु व्युत्पत्तौ भूयोव्यवहारादिदर्शनेन सादृश्यव्याप्यतावगमो भवति। ततश्चैतद्वाक्यादिनाऽवगतव्याप्तिरनुमिमीते अयं गोशब्दवाच्यो भवितुमर्हति, तत्सदृशत्वात्; यस्तत्सदृशः स गोशब्दवाच्यः, तथाचायं तत्सदृशः, तस्माद् गोशब्दवाच्य इति।
नन्वत्र को दृष्टान्तः? उपदेशकाले सन्निहितो गोपिण्ड इति चेत्, न। तस्य तत्सदृशत्वाभावात्। मैवम्। दृष्टान्तनियमस्य निरस्तत्वात्। (५१७) नच सास्नादिमत्त्वमेव लिङ्गमस्तु किं सादृश्येनेति वाच्यम्। तस्य गोत्ववत् प्रतिव्यक्तिव्यावृत्तत्वात्। सादृश्यस्य तु व्यावृत्तत्वेऽपि प्रतियोगिनिरूप्यत्वेन अनुगतफलसाधकत्वानुभवात्। सास्नादिमत्त्वस्यापि सादृश्योपहितस्य लिङ्गत्वमभ्युपगच्छामः। नच वाच्यम्, गोसादृश्यमश्वेऽप्यस्तीति तत्रापि गोशब्दवाच्यतानुमानप्रसङ्ग इति। जातिनिमित्तत्वेऽप्येवम्प्रसङ्गस्य समानत्वात्। जातिविशेषो निमित्ततयाऽङ्गीक्रियते योऽव्यभिचारीति चेत्, तर्हि सादृश्यविशेष एव लिङ्गं यो लक्षणभूत इति वदामः।
॥ कार्यकारणभावाद्यनुपपत्तिपरिहारः॥
एतेन कार्यकारणभावावधारणादिकमपि समाहितं वेदितव्यम्। सादृश्येनैव तदुपपत्तेः। अन्त्यविशेषे हि न किञ्चिदनुगतमस्ति, नाप्यनुगताश्रय उपाधिः। तद्भावे द्रव्यगुणकर्मवदत्यन्तव्यावर्तकत्वस्वरूपहानिप्रसङ्गात्। तथाऽप्यस्ति तत्र विशेषशब्दव्युत्पत्तिः, अत्यन्तव्यावृत्तिबुद्धिं प्रति कारणत्वावधारणमित्यादि। तत्र परेणापि लक्षणरूपं सादृश्यमेवाऽदरणीयमिति।
॥ अनुगतजात्यैव व्युत्पत्त्याद्यङ्गीकारे जातिशब्दस्यैव व्युत्पत्त्यभावप्रसङ्गः॥
एवमनुगतसामान्यानभ्युपगमेनैव व्युत्पत्त्यादिकं समर्थितम्। यस्तु मन्यतेऽनुगतसामान्येनैव व्युत्पत्त्यादिकं नान्यथेति तस्य बाधकमाह जातितश्चेदिति।
जातितश्चेत् कथं तासु तत्र चेदनवस्थितिः॥१२२॥
यद्यनुगतजातिनिमित्तैव सर्वत्र व्युत्पत्तिः, कार्यकारणभावावधारणादिकं च स्यात्, तदा तासु जातिषु कथं जात्यादिशब्दव्युत्पत्तिः, अनुगतबुद्धिकारणत्वावधारणम्, गोत्वं नित्यं जातित्वादित्यादिव्याप्तिज्ञानमित्यादिकं स्यात्? जातिषु जात्यभावेन तत्र व्युत्पत्त्यादिकं न स्यादित्यर्थः।
॥ सामान्येऽपि सामान्यमङ्गीकृत्य व्युत्पत्तिसमर्थने अनवस्थाप्रसङ्गः॥
यदि वैयात्यात् कश्चिद् ब्रूयात् अस्ति जातिष्वपि जातित्वं नाम जातिः, तद्वशात् तत्र सर्वमुपपद्यत इति। तं प्रत्याह तत्र चेदिति। यदि तत्र जातिष्वपि जातित्वं नाम जातिरङ्गीक्रियते तदाऽनवस्थितिः स्यात्।
तथाहि गोत्वादिजातिषु जातिशब्दप्रवृत्तिनिमित्तं या जातित्वं नाम जातिः, सा न तावत् स्वरूपे वर्तते। स्ववृत्तेरप्रामाणिकत्वात्। अतः स्वव्यतिरिक्तास्वेव जातिषु वर्तत इति वाच्यम्। तथाच स्वव्यतिरिक्तजातिषु जातिशब्दप्रवृत्तावियं निमित्तं स्यात्, नतु स्वरूपेऽपि। अतस्तस्यां तद्व्यतिरिक्तासु जातिष्वेकस्य जातिशब्दस्य प्रवृत्तौ निमित्तं जात्यन्तरमङ्गीकरणीयम्। तत्राप्येवमेवेत्यनवस्थेति।
ननु गोत्वादिजातिषु जातित्वप्रयुक्तो जातिशब्दः। जातित्वे तूपदेशाधीनो भवतु। तस्या एकत्वादिति। मैवम्। नह्यस्माभिः सादृश्यमिव भवता जातिः शब्दवृत्तौ ज्ञापकतयोपेयते। येन क्वचिदुपदेशो निवेश्यते। किन्तु निमित्ततया। तत्रोपदेशोपन्यासस्य क्वोपयोगः?
॥ अनुगतजातेर्व्युत्पत्त्यादिहेतुत्वे व्यक्तिशब्दाव्युत्पत्तिप्रसङ्गः॥
स्थानान्तरेऽपि बाधकमाह तथैवेति।
तथैव व्यक्तिविज्ञानं व्यक्तित्वाभावदूषितम्।
यदि तच्चास्ति तस्यापि विशेषेष्वनवस्थितिः॥१२३॥
यथा जातिविज्ञानं जातित्वाभावेन दूषितम्, तथैव व्यक्तिविज्ञानं व्यक्तीनां व्यक्तिशब्दवाच्यत्वविज्ञानं तन्निमित्तव्यक्तित्वजात्यभावेन दूषितम्। द्रव्यगुणकर्माणि खलु व्यक्तय उच्यन्ते। नच तत्र व्यक्तित्वं नाम सामान्यमस्ति। सत्तया परापरभावाभावात्। तस्मात् तत्र व्यक्तिशब्दवाच्यत्वज्ञानं न स्यात्। मा भूद् व्यतिरिक्तं व्यक्तित्वं सत्तैव व्यक्तिशब्दप्रवृत्तौ निमित्तं भविष्यतीति चेत्, न। सामान्यस्य पर्यायप्रवृत्तौ निमित्तत्वात्। सद्व्यक्तिशब्दयोरपर्यायत्वात्। अन्यथा संयोग्यादिशब्दानामपि द्रव्यादिशब्दपर्यायत्वं स्यात्।
ननु शब्दमात्रस्य जातिनिमित्तत्वात् सत्तया परापरभावशून्यमपि द्रव्यगुणकर्मसु व्यक्तित्वमस्त्येवेत्यतो नोक्तदोष इत्यत आह यदीति। तर्हि तस्य व्यक्तित्वस्यापि विशेषेषु व्यक्तिषु प्रवेशः स्यात्। तथाचानवस्थितिरिति योजना।
तथाहि यः शब्दोऽनेकवाचकः स सर्वो जातिनिमित्तक इति स्वीकृत्य द्रव्यगुणकर्मसु व्यक्तित्वं नाम जातिर्यद्यङ्गीक्रियते, तर्हि तस्यामन्यासु च जातिषु जातिशब्दप्रवृत्तये जातित्वं नाम जातिरङ्गीकर्तव्या स्यात्। ओमिति चेत्। तर्हि सा व्यक्तित्वजातिरपि जातित्वजातिं प्रति व्यक्तिः स्यात्। नच सा स्वरूपे वर्तते। ततो द्रव्यादित्रये तस्यां च व्यक्तिशब्दप्रवृत्त्यर्थमपरं व्यक्तित्वमङ्गीकरणीयम्। तत्र पुनर्जातिशब्दप्रवृत्तये जातित्वमभ्युपगन्तव्यमिति साऽपि तदाश्रयतया व्यक्तिः स्यात्। तस्यां पुनर्व्यक्तित्वान्तरमित्येवमनवस्थेति।
॥ अनुगतजातेर्व्युत्पत्त्यादिहेतुत्वे स्वरूपशब्दाव्युत्पत्तिप्रसङ्गः॥
स्थलान्तरे बाधकमाह कथमिति।
कथं स्वरूपत्वमपि ज्ञायतेऽनुगतं यदि।
एकव्युत्पत्तिपर्यन्तमनवस्थादिदूषितम्।
अत्र स्वरूपमित्यध्याहर्तव्यम्। ततश्चायमर्थः यद्यनुगतसामान्यनिबन्धनैव सर्वत्र व्युत्पत्तिः, तदा सकलपदार्थस्वरूपं स्वरूपशब्दवाच्यतया कथं ज्ञायते? अनुगतस्य स्वरूपत्वसामान्यस्य अभावात्। स्वरूपेषु स्वरूपशब्दव्युत्पत्तिर्न स्यादिति।
ननुच सर्वस्वरूपेष्वनुगतं स्वरूपत्वमङ्गीक्रियते मयाऽतो नोक्तदोष इत्यत उक्तम् स्वरूपत्वमपि यद्यनुगतमङ्गीक्रियते, तदा अनवस्थादिदूषितं भवतीति। तथाहि सर्वेषु स्वरूपेषु यत् स्वरूपशब्दप्रवृत्तिनिमित्तं स्वरूपत्वं नाम सामान्यमभ्युपगम्यते, तदपि तावत् स्वरूपमेव। नच तत्र स्वयमेव वर्तते। आत्माश्रयत्वस्यालौकिकत्वात्। अतस्तस्मिन्नन्येषु च स्वरूपेषु स्वरूपशब्दप्रवृत्तयेऽन्यत् स्वरूपत्वं नाम सामान्यमङ्गीकार्यम्। तदपि स्वरूपमेवेत्यनवस्था। आदिपदेनान्त्यविशेषस्वरूपेषु स्वरूपत्वसामान्याङ्गीकारेऽत्यन्तव्यावृत्तिधीहेतुत्वं न स्यात्, समवायाभावस्वरूपे च सम्बन्धाभाव इति ज्ञातव्यम्। अनवस्थाद्यनिष्टप्रसङ्गस्य विपर्यये पर्यवसानं सूचयति एकव्युत्पत्तिपर्यन्तमिति। एकं केवलमनुगतसामान्यहीनमिति यावत्। तस्मिन् व्युत्पत्तिरेकव्युत्पत्तिः। तत्पर्यन्तं तावदिदं दूषणमुपप्लवत एव। यावदनुगतसामान्यनिबन्धनैव सर्वत्र व्युत्पत्तिरिति पक्षं परित्यज्य सामान्यहीनेऽपि व्युत्पत्तिमङ्गीकुर्यादित्यर्थः। अनवस्थादिपरिहारायानुगतसामान्येन विनाऽपि व्युत्पत्तिरङ्गीकरणीयेति भावः।
॥ उपाध्यादिना जातिव्यक्तिस्वरूपशब्दानां व्युत्पत्त्याद्यङ्गीकारे कल्पनागौरवप्रसङ्गः॥
नन्विदं सकलमप्यसङ्गतम्। तथाहि यदुक्तम्, “जातितश्चेत् कथं तासु” इति, तत् तावदसत्। जातिषु जात्यन्तराभावेऽपि नित्यत्वे सत्यनेकानुगतत्वेनोपाधिना जातिशब्दव्युत्पत्त्युपपत्तेः। अस्तु वा जातिषु जातित्वं नाम जातिः। नचानवस्था। जातित्वे जातिशब्दस्य स्वरूपनिबन्धनत्वोपपत्तेः।
“तथैव व्यक्तिविज्ञानम्” इत्येतदप्यसत्। व्यक्तित्वाभावेऽपि जातिव्यञ्जकत्वोपाधिना द्रव्यादिषु व्यक्तिशब्दस्य स्वरूपनिमित्तत्वसम्भवात्।
यदपि “कथम्” इत्यादि, तदयुक्तम्। प्रमाणगम्यत्वोपाधिनैव स्वरूपशब्दव्युत्पत्त्युपपत्तेः। स्वरूपत्वाभ्युपगमेऽपि नानवस्था। तत्र स्वरूपशब्दस्य स्वरूपमात्रनिबन्धनत्वात्। अन्त्यविशेषेषूपाधिनिबन्धन एवेति न रूपहानिः। समवायादौ स्वरूपमेव सम्बन्ध इत्यतो न कश्चिद् दोष इत्याशङ्कां परिहरन्ननुगतसामान्यदूषणमुपसंहरति कल्पनेति।
कल्पनागौरवात् तेन युक्ता नानुगकल्पना॥१२४॥
सर्वत्र व्यावृत्तमेव वाच्यं शब्दप्रवृत्तौ निमित्तं च। व्युत्पत्तिस्तु सादृश्यनिबन्धनेत्येकरूपकल्पनेन सर्वसामञ्जस्ये क्वचिदनुगतं सामान्यं निमित्तम्, क्वचिदुपाधिः, क्वचित् स्वरूपमेवेत्यनेककल्पने कल्पनागौरवं स्यादित्यर्थः। तेन बाधकसद्भावेन, साधकाभावेन च।
नन्वनुगतत्वाभावे कथं गोत्वादिकं सामान्यम्? अननुगतत्वेऽपि गुणकर्मवदवान्तरभेदस्य कल्पनीयत्वादिति।
॥ समवायस्यैकत्वनिरासः॥
एवं समवायं स्वरूपतो निराकृत्येदानीं यत् समवायस्य सर्वत्रैकत्वं नित्यत्वं च “तत्त्वं भावेन” इति सूत्रेणोक्तम्, तत्त्वं समवायस्य सर्वत्रैकत्वं नित्यत्वं च, भावेन सत्तया व्याख्यातमिति। तदपि निराचिकीर्षुरादौ तावदेकत्वं निराकर्तुं पीठमारचयति औपाधिकेति।
औपाधिकविशिष्टाद्यमपि तद् वस्तु किं ततः।
अन्यत्..................................॥१२५॥
औपाधिकः पाचकयाजकादिः। विशिष्टो नीलाग्न्मिदादिः। आद्यग्रहणादुपलक्षितग्रहणम्। अपिशब्दो दूषणान्तरसमुच्चयार्थः। तद् वस्तूपाध्यादित्रयम्। किंशब्दस्योभयतः सम्बन्धः। तत उपाध्यादित्रयात्। वस्त्वित्येतदौपाधिकविशिष्टाद्यमित्यनेनापि सम्बद्ध्यते।
॥ औपाधिकविशिष्टउपलक्षितानां उपाधिपुरुषतत्सम्बन्धादिभ्यः भेदः, अभेदो वेति विकल्पः॥
अयमर्थः समवायस्य सर्वत्रैकत्वं वदतेदं तावद् विविच्यताम्। एक एव पुुरुषः पचनयजनादिभिरुपाधिभिरवच्छेदकैर्धर्मैः पाचको याजकश्चेत्याद्यभिधीयते, स पाचकयाजकादिरौपाधिकोऽर्थः किं पचनाद्युपाधिपुुरुषतत्सम्बन्धेभ्योऽनन्यः, उतान्य इति।
तथा समानाधिकरणं व्यावर्तकं विशेषणम्, यथोत्पलस्य नीलं रूपम्, पर्वतस्य चाग्निः। व्यधिकरणं तु व्यावर्तकमुपलक्षणम्। यथा नीलरूपगतं नीलत्वमुत्पलस्य। अन्ये तु कार्यप्रवेशाप्रवेशाभ्यां विशेषणोपलक्षणयोर्भेदमाचक्षते। यथा लम्बकर्ण आनीयतां चित्रगुरानीयतामिति। अपरे तु शाब्दसामानाधिकरण्यवैयधिकरण्याभ्याम्। यथा दण्डी देवदत्तो जटाभिस्तापस इति। केचित् पुनर्व्यवच्छित्तिसमये सत्त्वासत्त्वाभ्याम्।
तत्र विशिष्टं नीलमग्निमान् वा विशेषणविशेष्यतत्सम्बन्धेभ्योऽनन्यत् अन्यद् वा। उपलक्षितं चोपलक्षणोपलक्ष्यतत्सम्बन्धेभ्योऽनन्यत् अन्यद् वेति।
॥ औपाधिकादिपदार्थस्य उपाध्यादित्रितयेन भेदे अनुभवविरोधः, अपसिद्धान्तः, युक्तिविरोधश्च॥
तत्रान्यत्वपक्षस्तावदनुभवाभ्युपगमोपपत्तिविरुद्धत्वादसम्भावित एव। नहि पाचकादिः पचनादित्रयातिरिक्तोऽनुभूयते। नच योग्यस्याननुभवे सत्त्वं सिद्ध्यति। नाप्यग्न्मिदादिः पर्वताद्यतिरिक्तोऽनुभूयते। अतिरिक्तत्वे चौपाधिकविशिष्टादेर्द्रव्याद्यन्तर्भावासम्भवात्। षदार्थातिरेकप्रसङ्गेनाभ्युपगमविरोधः स्यात्। यदिचौपाधिकविशिष्टाद्यमतिरिक्तं स्यात्, तदा पाचकमानयेत्युक्ते पुरुषाद्यानयनं न क्रियेतेत्याद्युपपत्तिविरोधः।
॥ अवच्छिन्नत्वमौपाधिकत्वम्, व्यवच्छिन्नत्वं विशिष्टत्वमित्यभ्युपगम्य भेदसमर्थनस्य निरासः॥
नन्ववच्छित्तिरौपाधिकत्वम्, व्यवच्छित्तिश्च वैशिष्ट्यं त्रितयाद् भिन्नमेवेति चेत्, न। अवच्छित्तेरनिरूपणात्। सा किमुपाधिसम्बन्धो वा, पुरुषस्यैकत्वं वा, स्वगतो भेदो वा? आद्ये न त्रयातिरेकः। द्वितीये त्वनौपाधिकादविशेषः। तृतीये त्वसत्त्वप्रसङ्गः। व्यवच्छित्तिर्वैशिष्ट्यमिति चायुक्तम्। तस्या नीलादिपदार्थत्वाभावात्। सा हि वैशिष्ट्यप्रतीतिफलविषयतया अनुभूयते।
॥ अनुभवविरोधात्, आनयनादिकर्मत्वानुपपत्तेश्च लीलावत्युक्तं विशिष्टस्य ज्ञानरूपत्वमयुक्तम्॥
विशेषणविशेष्यसम्बन्धावागाह्येकं वा विज्ञानम्, अविरलमनेकं वा विशिष्टमिति कश्चित्। यथाऽऽह “विशेषणं विशेष्यं च तत्सम्बन्धफलार्पकम्। ज्ञानरूपं स्वसामर्थ्याद् विशिष्टमिति कीर्तितम्” इति। तन्न। विशिष्टस्य बाह्यार्थतयाऽनुभवात्। अन्यथा साध्यधर्मविशिष्टः पक्षः, सोऽनुमानेन प्रज्ञापनीय इत्याद्ययुक्तं स्यात्। तस्मादतिरेकपक्षोऽनुपपन्न एव।
॥ औपाधिकादिपदार्थस्य विशेषणादित्रितयेनाभेदाभ्युपगमे सिद्धसाधनतादोषेण सर्वानुमानोच्छेदप्रसङ्गः॥
अस्तु तर्ह्यौपाधिकविशिष्टाद्यं त्रितयानन्यदित्यत आह तदेवेति।
........... तदेव चेदग्न्मित्त्वं किं तत्र भण्यते॥१२५॥
अग्न्सिंयोगमात्रं चेद् भवेत् तत् सिद्धसाधनम्।
प्रतिपत्तिसौकर्यायोदाहरणनिष्ठतया मतुपा प्रश्र्नः कृतोऽग्न्मित्त्वमिति। धूमाद्यनुमानसाध्यं विशिष्टमित्यर्थः। औपाधिकादेरप्युपलक्षणमेतत्।
अयमर्थः अग्न्मिदादिविशिष्टं च यदि विशेषणविशेष्यतत्सम्बन्धेभ्योऽनन्यदङ्गीक्रियते, तदाऽपि वक्तव्यम्। किं तत् त्रितयमपि प्रत्येकं विशिष्टम्, उत तत्रान्यतमम्? द्वितीयोऽपि किं विशेषणभूतोऽग्न्रिेवाग्न्मिच्छब्दार्थः, उत विशेष्यरूपः पर्वतः, अथ सम्बन्धः संयोगलक्षणः। संयोगपक्षेऽपि किं निर्विशेषणसंयोगः किंवाऽग्न्निा संयोगः? उत्तरत्रापि किमग्न्सिंयोगमात्रम्, उत पर्वतस्याग्न्सिंयोग इति। एवं पाचकादेरपि पचनादित्रयानन्यत्वे विकल्पो द्रष्टव्यः।
अन्त्यपक्षातिरिक्तान् सर्वपक्षानपाकरोति अग्नीति। अग्न्सिंयोगमात्रमिति सर्वपक्षोपलक्षणम्। चेत् अग्न्मिच्छब्दार्थ इति शेषः। तद् धूमवत्त्वाद्यनुमानमग्न्पिर्वतसंयोगानां समस्तानां व्यस्तानामग्न्निा संयोगस्य चाग्न्मिच्छब्दवाच्यविशिष्टत्वे धूमानुमानं सिद्धसाधनं स्यात्। विशिष्टस्यानुमानसाध्यत्वात्। अग्न्यादेर्विशिष्टस्य मानान्तरत एव सिद्धत्वादिति।
॥ विशेष्यस्य विशेषणसंयोग एव विशिष्टपदार्थ इत्यङ्गीकृत्य
तस्यानुमानसाध्यत्वे न सिद्धसाधनता इत्याक्षेपः॥
अस्तु तर्हि पर्वतस्याग्न्निा संयोगो विशिष्टरूपोऽग्न्मिच्छब्दार्थोऽनुमानसाध्य इत्यन्तिमः पक्षः। तत्रोक्तदोषाभावात्। पर्वताग्न्सिंयोगानां समस्तानां व्यस्तानामग्न्सिंयोगस्य च सिद्धत्वेऽपि पर्वतस्याग्न्निा यः संयोगस्तस्यानुमानतः प्रागसिद्धेरिति शङ्कते भूधरस्येति।
भूधरस्याग्न्सिंयोगो यदि ...........॥१२६॥
अग्न्मिच्छब्दार्थे विशिष्टोऽनुमानसाध्य इति शेषः।
॥ तथात्वे षष्ट्यर्थसम्बन्धस्यैव अनुमानसाध्यत्वात्, गुणगुणिनोः संयोगपर्वतयोः सम्बन्धस्य समवायत्वात्, तस्य च एकत्वाभ्युपगमेन तन्तुपटादौ प्रागेव सिद्धत्वात् सिद्धसाधनता तदवस्था॥
दूषयितुं पृच्छति षष्ठ्यर्थ इति।
....................... षष्ठ्यर्थ एव कः॥१२६॥
समवायो यदि ह्यस्य चैकत्वात् सिद्धसाधनम्।
पर्वतस्याग्न्सिंयोगस्य च सिद्धत्वेऽपि पर्वतस्य योऽग्न्सिंयोगः स न सिद्ध इत्यतः स एव विशिष्टोऽग्न्मिच्छब्दार्थोऽनुमानवेद्य इति वदता पर्वतस्येति षष्ठ्या निर्दिष्टः सम्बन्ध एव विशिष्टोऽग्न्मिच्छब्दार्थोऽनुमानवेद्य इत्युक्तं भवति। अन्यस्य सर्वस्य सिद्धत्वात्। षष्ठ्यर्थाश्च सम्बन्धा वैयाकरणैरनेके गणिताः। अतः कोऽत्र सम्बन्धो विवक्षित इति प्रश्र्नार्थः। एवशब्दः तस्यैव प्राधान्यद्योतनार्थः।
उत्तरं शङ्कते समवाय इति। संयोगो हि गुणः पर्वतश्च गुणी गुणगुणिनोश्च समवायः सम्बन्ध इति प्रसिद्धमिति हिशब्दार्थः। षष्ठ्यर्थ इति वर्तते। निराकरोति अस्य चेति। पर्वतादेरिवास्य समवायस्य च सिद्धत्वादिति शेषः। सिद्धसाधनं धूमाद्यनुमानमिति शेषः। कथं समवायस्य सिद्धत्वमित्यत उक्तम् एकत्वादिति। यस्तन्तुपटयोः समवायः स एव हि पर्वताग्न्सिंयोगयोः समवायः परेणाङ्गीकृतः। तन्तुपटयोः समवायश्च प्रत्यक्षेण वाऽनुमानेन वा सिद्ध एवेति।
॥ समवायस्य एकत्वाभ्युपगमे सर्वानुमानोच्छेदप्रसङ्ग इत्युक्तार्थस्य सङ्ग्रहेण निरूपणम्॥
अयमत्र समुदायार्थः यद्येक एव सर्वत्र समवायः स्यात्, तदा सर्वानुमानानां सिद्धसाधनता स्यात्। यद्यपि याथार्थ्यमेव प्रामाण्यम्, तथाऽपि शब्दवत् परार्थानुमानस्य परापेक्षया प्रवृत्तत्वात् सिद्धसाधनता दोष एव।
तथाहि सर्वमप्यनुमानं न वस्तुस्वरूपमात्रपरम्। तस्यासिद्धावाश्रयासिद्धेः। सिद्धौ च सिद्धसाधनत्वात्। किन्तु केनचिदुपहितं वा विशिष्टं वोपलक्षितं वेति वक्तव्यम्। तच्च विशिष्टादिकं न विशेषणादित्रयादन्यदेवेति युक्तम्। अनुपलम्भादिबाधात्। त्रयानन्यत्वेऽपि न विशेषणमात्रम्। तस्य अनुमानात् प्राक् सिद्धत्वात्। असिद्धौ चाप्रसिद्धविशेषणत्वापत्तेः। अग्नेरेवाग्न्मिच्छब्दार्थत्वे मतुपो वैयर्थ्यापत्तेश्च। नापि धर्मिस्वरूपमात्रम्। उक्तदोषात्। पर्वतोऽग्निमानित्येतयोरेकार्थत्वापत्तेश्च। नच सम्बन्धमात्रम्। संयोगो हि क्वचित् सम्बन्धः स्यात्, यथाऽग्न्पिर्वतयोः। क्वचित् समवायः, यथा रसाद् रूपानुमाने। द्वावपि स्वरूपतः सिद्धाविति सिद्धसाधनमेव। संयोगमात्रस्य सिद्धत्वेऽप्यग्न्यादिसंयोगः साध्य इत्यपि न वाच्यम्। तस्यापि महानसादौ सिद्धत्वात्। अथ पर्वतादेरग्न्यादिसंयोगः साध्यः। अत्रापि विवेक्तव्यम्। कस्यात्रासिद्ध्या साध्यत्वमिति। अन्यस्यासम्भवात्। षष्ठ्यर्थस्य समवायस्येति वक्तव्यम्। स च सर्वत्रैक एव चेत्, पुनः सिद्धसाधनतैव स्यात्। अतः सर्वानुमानोच्छेदप्रसङ्गात् सर्वत्र समवायैक्यमयुक्तमिति।
॥ समवायेऽङ्गीकृतैक्यस्य अभेदरूपत्वेन तत्रौपाधिकभेदाङ्गीकारे
विरुद्धयोः भेदाभेदयोरेकत्र समावेशप्रसङ्गः॥
ननु तन्तुषु पटादिसमवायः पर्वताग्न्सिंयोगादिसमवायश्च यद्यपि स्वरूपेणैक एव, तथाऽपि तन्तुपटादिपर्वताग्न्सिंयोगाद्युपाधिनिमित्तः समवायस्य भेदोऽस्ति। ततः सिद्धत्वेऽपि साध्यत्वमुपपद्यत इत्यत आह यदीति।
यद्यस्यौपाधिको भेदः कुत एकत्वमिष्यते॥१२७॥
यदि अस्य समवायस्य साध्यत्वसिद्ध्यर्थमौपाधिको भेद इष्यते, तदैकत्वं कुत इष्यते? समवायस्यैकत्वं हि न सङ्ख्याविशेषः। निर्गुणत्वात्। किन्त्वभेदः। नच भेदाभेदौ क्वापि परेणाङ्गीकृतौ। तस्मात् समवाये भेदस्याङ्गीकृतौ तद्विरुद्धोऽभेदो नाङ्गीकर्तुमुचित इति।
॥ औपाधिकभेदस्य अपारमार्थिकत्वाङ्गीकारेऽपि न विरोधपरिहारः॥
ननु स्वाभाविकमेकत्वं स्वाभाविकेनैव भेदेन विरुद्ध्यते, न पुनरौपाधिकेन। स्वभावतोऽभिन्नेऽपि गगनादावौपाधिकभेददर्शनात्। समवाये चौपाधिक एव भेदोऽभ्युपगतः। तत् कथं स्वाभाविकैकत्वाङ्गीकारोऽनुचित इत्यत आह नेति।
नानिर्वाच्यं हि तेनेष्टमत औपाधिकान्ययोः।
सत्यत्वात् को विशेषः स्यान्मायावाद्यन्यथा भवेत्॥१२८॥
विरुद्धाभिमतयोरविरोधो हि कालभेदेन भवति, यथा तत्रैव भूतले तस्यैव घटस्य भावाभावयोः। देशभेदेन वा, यथा तदैव तस्यैव घटस्यास्तित्वनास्तित्वयोः। व्यक्तिभेदेन वा, यथा तत्रैव भूतले यदैकस्य घटस्य भावः, तदैव घटान्तरस्याभावः। पारमार्थिकत्वापारमार्थिकत्वाभ्यां वा, यथा गगने रूपतदभावयोः।
तत्रतावत् समवायेऽभेदभेदयोर्नाऽद्यं विधात्रयं सम्भवतीति परस्यापि सम्प्रतिपन्नम्। नापि चतुर्थी विधा सम्भवति। समवायभेदस्यापारमार्थिकत्वमसत्त्वम्, अनिर्वाच्यत्वं वा? आद्ये सिद्धसाधनत्वं तदवस्थमेव। द्वितीये त्विदमुपतिष्ठते हि यस्मात् तेन वैशेषिकादिनाऽनिर्वाच्यं वस्तु नेष्टम्, अतोऽसत्त्वानिर्वाच्यत्वाभावादौपाधिकस्य स्वाभाविकस्य च सत्यत्वात् को विशेषः स्यात्? औपाधिकस्यापि स्वाभाविकवत् सत्यत्वात् पारमार्थिकत्वापारमार्थिकत्वलक्षणस्य विरोधशान्तिहेतोरभावादौपाधिकत्वाद्युक्त्या न किञ्चित् कृतं स्यादिति भावः।
॥ औपाधिकभेदस्य अनिर्वचनीयत्वाङ्गीकारे मायावादानुप्रवेशप्रसङ्गः॥
इष्यते समवायभेदस्यानिर्वाच्यत्वं मया चेत्, तदा को दोष इति चेदपसिद्धान्त इत्याह मायेति। अनिर्वाच्यवस्त्वङ्गीकारे वैशेषिकादिरपि मायावादी भवेदित्यर्थः।
॥ समवाये भेदस्य उपाधिजन्यत्वरूपौपाधिकत्वाङ्गीकारे उपाधीनामानन्त्येन समवायानन्त्यप्रसङ्गः॥
ननु प्रकारभेदेनापि विरोधशान्तिर्भविष्यति। यथा तत्रैव तदैव नीलपटसद्भावेऽपि पीतपटाभावः, तथा समवायेऽप्यौपाधिको भेदो न स्वाभाविकमभेदं विरुणद्धीत्यत आह उपाधीति।
उपाधिजन्यं तद्गम्यमिति वौपाधिकं भवेत्।
उभयत्राप्यनन्ताः स्युः समवाया इतस्ततः।
भिन्नत्वं चैव तेष्वस्ति को विशेष उपाधिगे॥१२९॥
उपाधिशब्दात् तृतीयासमर्थाज्जन्यगम्ययोः शैषिके ठकि कृते सति औपाधिकमिति भवति। ततः किमित्यत आह उभयत्रेति। एवंसति समवायभेदस्यौपाधिकत्वं नामोपाधिजन्यत्वं वा, उपाधिगम्यत्वं वा वक्तव्यम्। तथाच पक्षद्वयेऽप्यनन्ताः समवायाः स्युः। तत् कथमित्यत आह इतस्तत इति। सर्वदेशकालगतानामवयवावयव्याद्युपाधीनामनन्तत्वादिति शेषः।
उपाधीनामनन्तत्वेऽपि समवायानन्त्यं कुत इत्यत आह भिन्नत्वमिति। चो यस्मादित्यर्थे। नह्यौपाधिको भेदो नामोपाधीनामेव भेदः। तथासति समवायस्येति न स्यात्। उक्तदोषपरिहारश्च न भवेत्। किन्तु तेषु समवायेष्वेवोपाधिजन्यं तदवगम्यं वा भिन्नत्वमस्ति। भेदहेततवश्र्चोपाधयोऽनन्ता इति कथं न समवायानन्त्यम्?
तथाऽप्यौपाधिकमेव तदानन्त्यमित्युक्तस्य किमायातमित्यत आह क इति। उपाधिगः तत्सम्बन्धी औपाधिक इति यावत्। औपाधिकभेदे को विशेषो येनासावभेदं न विरुणद्धीत्यर्थः।
एतदुक्तं भवति नीलपटसद्भावेऽपि पीतपटाभाव इत्यत्र हि यदि विशिष्टविषयौ विधिनिषेधौ, तदा भिन्नविषयत्वेन विरोधाभावः। नीलपीतपटयोर्भिन्नत्वात्। नचैवं प्रकृते। भेदविशेषाभावेऽपि भेदान्तराभ्युपगमापत्तेः। तथाचैकत्वोक्तिरयुक्तैव। नहि पार्थिवपरमाणौ रूपादयोऽग्न्सिंयोगजा नत्वाप्यपरमाणुरूपादय इव स्वाभाविका इत्येतावता रूपादिरहितोऽसौ भवति। यदिच विशेषणविषयौ तदा समवाये भेदोऽस्त्येव। स तु सम्बन्धिभिरुपाधिभिः कृतो नत्वकृत्रिम इत्युक्तं स्यात्। तथाच घटादिभेदेन तुल्य इति रिक्तैवाभेदेक्तिः। उपधीनां च सर्वदाऽनपायान्न भेदस्याऽगन्तुकत्वं युक्तमिति।
॥ समवायभेदस्य उपाधिगम्यत्वरूपौपाधिकत्वादविद्यमानत्वाङ्गीकारे अविद्यमानानेकत्वविशिष्टसमवायस्य अनुमानसाध्यत्वेन सर्वानुमानानां बाधितविषयत्वम्,
समवायाभावप्रसङ्गश्च ॥
उपाधिगम्यमौपाधिकमिति पक्षमङ्गीकृत्योक्तदोषाभावं शङ्कते अविद्यमान एवेति।
अविद्यमान एवान्यः समवायोऽधिगम्यते।
उपाधिनातद्गमकमनुमानं न मा भवेत्॥१३०॥
सत्यमुपाधिगम्यत्वादौपाधिकः समवायभेदः। अधिगमश्च न प्रमा। येनासौ भेदः पारमार्थिकः स्यात्। किन्तु विभ्रम एव। नचैवं भेदस्यासत्त्वप्राप्त्या सिद्धसाधनतातादवस्थ्यमिति वाच्यम्। यतोऽविद्यमान एवान्यः समवायोऽधिगम्यते तत्तदुपाधिनेति ब्रूमः। यथा अङ्गुल्यवष्टब्धनयनाद्युपाधिवशादविद्यमान एव द्वितीयश्चन्द्रोऽधिगम्यते, तथा तैस्तैः सम्बन्धिलक्षणोपाधिभिरविद्यमाना एवानेके समवायाः प्रतीयन्ते। त एते समवाया औपाधिकभेदभिन्ना इत्युच्यन्ते। त एव चाग्न्मिदादिशब्दवाच्या अनुमानसाध्या विशिष्टाकाराः। तथाच न समवायैकत्वहानिः। चन्द्रवदारोपितानामनेकत्वेऽप्यनारोपितस्यैकत्वाविरोधात्। नाप्यनुमानानां सिद्धसाधनता। तथाविधसमवायानां प्रागसिद्धत्वादिति।
परिहरति तद्गमकमिति। यद्यप्यस्मिन् पक्षे न सिद्धसाधनं धूमाद्यनुमानम्। तथाऽपि तद्गमकमविद्यमानसमवायसत्तां प्रतिपादयदनुमानजातं दहनशैत्यानुमानमिव बाधितविषयतया न प्रमाणं भवेत्। उपलक्षणं चैतत्। उपाधीन् विना समवायावभासस्य क्वाप्यभावात् सर्वत्रापि तस्याविद्यमानतैव स्यादित्यपि द्रष्टव्यम्।
तदेवं सर्वानुमानानां सिद्धसाधनत्वादिप्रसङ्गान्न समवायैक्यमुपपन्नमिति। एतच्चोपलक्षणम्। आगमापह्नवश्च समवायैक्ये स्यात्। पदार्थानां तत्संसर्गाणां च सिकतावद् विशकिलतानां सिद्धत्वात्।
॥ समवायस्य नित्यत्वे प्रागसतः सत्तासमवायरूपोत्पत्तेः सर्वदा विद्यमानत्वेन
पदार्थानामनुत्पत्तिप्रसङ्गः॥
इदानीं समवायस्य नित्यत्वं निराकरोति एवमेवेति।
एवमेवासतः सत्तासमवायो जनिर्मता।
तत्रापि ह्युक्तदोषाणां नैव किञ्चिन्निवारकम्॥१३१॥
यथा समवायस्य सर्वत्रैकत्वाङ्गीकारे सर्वानुमानानां सिद्धसाधनत्वादिदुष्टत्वमुक्तम्, एवमेव तन्नित्यत्वाभ्युपगमे प्रागसतः सत्तासमवायो जनिर्दुष्टा मता। समवायनित्यत्वे न कस्यापि जनिः स्यादित्यर्थः। तत् कथमित्यत आह तत्रापीति। उक्तदोषाणां सिद्धसाधनत्वादीनाम्।
तथाहि प्रागसतः सत्तासमवायो जनिरिति परेण जनिलक्षणमभिहितम्। तत्र यदि समवायो नित्यः स्यात्, तदा तल्लक्षणा घटजनिः प्राक् कुलालादिव्यापारादस्तीति तदर्थस्य तस्य सिद्धसाधनता स्यात्। ज्ञप्तौ हि सिद्धस्यापि साधनं घटते। किन्तु क्वचिदनपेक्षत्वमित्येव। कृतौ तु प्राक्सिद्धस्य साधनमेवाशक्यमिति कुलालादिव्यापारस्य निष्फलत्वं स्यात्।
अथ समवायस्य नित्यत्वेऽपि प्रागसतः सत्तासमवायः साध्योऽस्तु को दोष इति चेत्, न। समवायैक्यव्याघातात्। औपाधिकः समवायस्य भेद इति चेत्, यथासम्भवं सर्वमुक्तमनुसन्धेयम्। नहि प्रागसद्विषयो व्यापारः सम्भवति। तस्य सत्करणातिरिक्तकर्तव्याभावात्। सत्करणस्य सत्तासमवायानतिरेकात्। स्वरूपलाभः कुलालादिव्यापारसाध्य इति चेत्, एवन्तर्हि किमपरेण सत्तासमवायेन? तदेवं समवायस्यैकत्वनित्यत्वे सर्वथाऽप्ययुक्ते इति।
॥ वैशेषिकाभिमतविशिष्टादिपदार्थनिराकरणम्॥
यद्वा समवायनिराकरणप्रसङ्गात् परोक्तं विशिष्टादेर्जनेश्च स्वरूपं तन्मतासामञ्जस्यप्रदर्शनाय औपाधिकेत्यादिना निराकृतं वेदितव्यम्।
॥ सिद्धान्ते विशेष्यमेव विशिष्टम्, विशिष्टाकारस्य यावद्द्रव्यभावित्वे विशेष्येणात्यन्ताभेदः,
अयावद्द्रव्यभावित्वे भेदाभेदौ, विशेषबलात् सर्वानुपपत्तिपरिहारश्च॥
नन्वेतत्सर्वं व्याहतम्। युष्माभिरपि लोकवेदव्यवहारं परिपालयद्भिर्विशिष्टादेरङ्गीकरणीयत्वात्। तत्राप्युक्तदोषानुषङ्गादित्यतो विशिष्टादिनिरूपणे तावद् दोषाभावं स्वमते दर्शयति अस्मदिति।
अस्मत्पक्षे विशेषस्य सर्वत्राङ्गीकृतत्वतः।
नास्ति दोषः क्वचित्...................॥१३२॥
विशिष्टाकारो न विशेषणम्, नापि सम्बन्धः। किन्नाम। विशेष्यम्। नच तन्मात्रम्। द्विविधो हि विशिष्टाकारः। यावद्विशेष्यभावी, अयावद्विशेष्यभावी च। तत्राऽद्यो विशेष्येणात्यन्ताभिन्नः। यथेश्वरः स्वरूपेण सर्वज्ञः। एवं यत्रयत्र विशेषणसम्बन्धो यावद्विशेष्यभावी तत्रतत्र विशिष्टाकारोऽपि तथाभूतो विशेष्येणात्यन्ताभिन्नो द्रष्टव्यः। तथाऽपि विशेषस्य भेदप्रतिनिधेः सर्वपदार्थेष्वङ्गीकृतत्वेनेश्वरः सर्वज्ञ इत्यपर्यायशब्दप्रवृत्त्याद्यनुपपत्तिदोषो नास्ति। ईश्वर एव सर्वज्ञ इत्यभेदस्तावत् प्रमितः। भेदे तु न निरवकाशं प्रमाणमस्तीति।
द्वितीयस्तु विशेष्येण भिन्नाभिन्नः। यथा पर्वतेनाग्निमान्। यथाहि संयोगविशेषसचिवास्तन्तवः पटाकारेण परिणमन्ते, तथाऽऽगन्तुकविशेषणसम्बन्धाद् विशेष्यस्वरूपं विशिष्टाकारेण परिणमते। तत्र यद्यपि भेदाभेदौ वस्तुनः स्वरूपभूतौ, तथाऽप्यस्मत्पक्षे विशेषस्य सर्वत्राङ्गीकृतत्वतो न सङ्करदोषः। तदिदमुक्तम् क्वचिदिति। अत्यन्ताभेदस्थले भेदाभेदस्थले चेत्यर्थः।
॥ औपाधिकोपलक्षितयोरपि विशिष्टवद् द्वैविध्यम्॥
यद्वा क्वचिदित्यौपाधिकादित्रय इत्यर्थः। तस्याप्युक्तप्रकारत्वात्। एतेन भेदहीनेऽप्याकाशादावौपाधिको भेदो दृष्ट इत्यप्यपास्तम्। विशेषनिबन्धनानामेवाऽकाशाद्यंशानां घटाद्युपाधिभिः स्फुटीकरणादिति।
॥ सिद्धान्ते मृदादीनां घटाद्याकारपरिणाम एव जनिः॥
जनिनिरूपणे दोषाभावं स्वमते दर्शयति अस्मदिति। विशेषस्य परिणामस्य जनित्वेनाङ्गीकृतत्वतो न कश्चिद् दोषोऽस्तीति योजना। मृदादीनां घटाद्याकारापत्तिरेव घटादिजनिर्नतु समवाय इत्यर्थः।
॥ विशिष्टस्य विशेष्याभेदोक्तौ भावाभावयोरभेदप्रसङ्गमाशय परिहारकथनम् ॥
स्यादेतत्। क्वचिद् भावो विशेष्यो विशिष्टाकारश्चाभावो दृश्यते। यथा घटो न जानाति, प्रकृतिर्न कर्त्रीति। क्वचिच्चाभावो विशेष्यो विशिष्टाकाराश्च भावः प्रतीयते। अभावोऽस्ति, अभावः प्रमेय इति। नच विधिनिषेधात्मनोर्भावाभावयोरभेदो युज्यते। तत् कथं विशेष्याभिन्नं विशिष्टमुच्यत इत्यत आह भावो हीति।
............भावो ह्यभावश्च स एव हि॥१३२॥
क्वचिदित्यनुवर्तते। यो भावः स एव क्वचिदभावो भवति। यश्चाभावः स एव क्वचिद् भावो भवतीत्येतदुभयं प्रसिद्धमेवेत्यर्थः। वाक्यार्थद्वयप्रसिद्धिद्योतनार्थं हिशब्दद्वयम्। तत् कथमित्यत आह अभावस्य चेति।
अभावस्य च धर्माः स्युर्भावास्तेषां च तेऽखिलाः।
प्रत्यक्षमानतः सर्वमेतन्नो वारणक्षमम्॥१३३॥
अस्ति तावदिदं यदभावस्यापि भावा धर्माः स्युः, तथा तेषां च भावानां च तेऽभावा धर्माः स्युरिति। अखिला इति बहुत्वोपलक्षणम्। एतदपि नाङ्गीकरोमीत्यत आह प्रत्यक्षेति। प्रत्यक्षग्रहणमुपलक्षणार्थम्। यस्मादभावस्यापि भावा धर्माः सन्ति, भावस्य चाभावा इत्येतत् सर्वं प्रत्यक्षादिप्रमाणतः सिद्धम्, अतो न वारयितुं शक्यम्।
॥ पदार्थानां भावाभावात्मकत्वसमर्थनम्॥
अस्त्वभावभावयोर्भावाभावधर्मवत्त्वम्, तथाऽपि भावस्याभावत्वमभावस्य च भावत्वं क्वचिदस्तीत्यत्र किमायातमित्यत आह सर्व इति।
सर्वे भावा अभावाश्च पदार्थास्ते न सर्वदा।
यतोऽभावभावयोर्भावाभावधर्मवत्त्वं सिद्धम्, सिद्धश्च धर्मधर्मिणोरभेदः, तेन कारणेन सर्वे भावाः पदार्था अभावाश्च भवन्ति। अभावाश्च सर्वे पदार्था भावा भवन्तीत्युक्तमुपपन्नमित्यर्थः।
॥ प्रथमप्रतिपत्तौ विधिबुद्धिविषयत्वं भावत्वम्,
निषेधबुद्धिविषयत्वमभावत्वमिति व्यवस्थापकोक्तिः॥
यद्येवं भावस्याप्यभावत्वमभावस्य च भावत्वम्, तर्हि द्रव्यादयो भावा एव प्रागभावादयस्त्वभावा एवेति सर्वत्र प्रसिद्धो भावाभावविभागः कथमित्यत आह तथाऽपीति।
तथाऽपि प्रथमं बुद्धेर्यो निषेधस्य गोचरः।
सोऽभावो विधिबुद्धेस्तु गोचरः प्रथमं परः॥१३४॥
निषेधस्य बुद्धेरिति सामानाधिकरण्यम्। परो भवतः। यद्येप्येषोऽर्थः प्रागेवोक्तः, (५५७) तथाऽपि प्रसङ्गात् पुनः स्मारित इत्यदोषः।
॥ “अभावोऽस्ति’ इत्यादिप्रत्यक्षप्रतीतिः अभावस्य भावधर्मत्वे प्रमाणम्॥
अभावभावयोर्भावाभावधर्मवत्त्वं प्रत्यक्षादिसिद्धमित्युक्तम्। तत् कथमित्यत आह तस्मादिति।
तस्मात् प्रध्वस्तभेदादि सदित्येवावगम्यते।
प्रध्वस्तं प्रध्वंसः, भेदः पृथक्त्वम्। आदिपदेन प्रमेयत्वादिग्रहणम्। यस्मादभावस्य भावधर्मत्वमस्ति। तस्मादेव हि प्रध्वंसाभावादेः पृथक्त्वप्रमेयत्वादिभावधर्मजातमस्त्येवेत्यवगम्यते। प्रत्यक्षादिनेति योजना। प्रध्वंसः प्रागभावाद् वा घटाद् वा पृथक् प्रमेयोऽभिधेयश्चेत्यवगम्यते। अभावस्य भावधर्मानभ्युपगमे तद्विरोधः स्यादिति भावः। घटः पटो न भवतीति भावस्यान्योन्याभावधर्मत्वं स्फुटत्वान्न प्रदर्शितम्।
॥ विशेष्यविशिष्टयोर्भावाभावयोरभेदस्य प्रामाणिकत्वसमर्थनम्॥
एवमभावभावयोर्भावाभावात्मकत्वं सामान्यतः प्रसाध्य प्रकृते योजयति अस्तीति।
अस्त्यभावोऽस्ति च ध्वंसो देहाभावश्च भस्मता।
इत्यादि युज्यते सर्वं प्रत्यक्षादिप्रमाणतः॥१३५॥
तस्मादित्यनुवर्तते। यत एवमभावस्य भावत्वं भावस्य चाभावत्वमुपपादितम्, तस्मादभावोऽस्ति, प्रध्वंसोऽस्ति, देहाभावो भस्मतेत्यभावस्य विशेष्यत्वं भावस्य च विशिष्टत्वं तयोश्चाभेदः, तथा घटो न जानातीति भावो विशेष्योऽभावश्च विशिष्टाकारस्तयोश्चाभेद इत्युक्तं युज्यत इत्यर्थः।
यदि भावाभावयोरेकत्वं न विरुद्धम्, तदा घटोऽपि स्वाभावात्मा किन्न स्यादित्यत आह प्रत्यक्षादीति। सिद्धमिति शेषः। भावाभावयोर्विशेष्यविशिष्टयोरैक्यं प्रत्यक्षादिप्रमाणसिद्धम्। नतु घटतदभावोः, अतो नातिप्रसङ्ग इत्यर्थः।
यद्वा भावाभावयोर्धर्मधर्मिभावो धर्मधर्मिणोश्चाभेदः प्रामाणिक इत्येतत् किं भावाभावयोर्विशेष्यविशिष्टयोरैक्यस्योपपादकम्? किंवा सम्भावनाहेतुः? आद्ये तूक्तोऽतिप्रसङ्गः। द्वितीये साधकं वाच्यमित्यत्रेदमुक्तम्। अनेन क्वचिदित्युक्तं विवृतं भवति।
॥ सिद्धान्तरीत्या परिणामवाद(सदसत्कार्यवाद)निरूपणम्॥
अथवा भावो हीत्यादिना परिणामवादः प्रपञ्चयते। तथाहि केचित् परिणामवादिनः सत एवाभिव्यक्तिं जनिमाहुः। तद्व्युदासार्थमाह भावो हीति। अत्र भावाभावशब्दौ सदसत्परौ। यः कारणत्वाभिमतो मृत्पिण्डः स कार्यघटात्मनाऽभावः स एव तदात्मना भावश्च। यद्वा स घटः प्रागुत्पत्तेर्भावः सन्, स एव तदभावोऽसंश्च। अथवा यः कुलालादिव्यापारात् प्रागभावो घटात्मनाऽसन् मृत्पिण्डः स एव तदनन्तरं भावो घटात्मना सन् भवतीति।
एतदुक्तं भवति कार्यं कारणेन भिन्नाभिन्नम्। तत एव प्रागुत्पत्तेः सदसत्। अतः कारणं प्राक् कारकव्यापारादकार्यात्मकं सत् कार्यरूपतामापद्यते यत् सा जनिरिति।
नन्वेकस्यैव भिन्नत्वमभिन्नत्वं च सत्त्वमसत्त्वं च विरुद्धमित्यतः, यथैकस्यैव भावत्वमभावत्वं च न विरुद्धम्, तथैतदपीत्यादौ सम्भावनां तावदुपदर्शयन्नेकैकस्य भावत्वमभावत्वं चोपपादयति अभावस्येति सार्धश्लोकद्वयेन। पूर्ववदेव व्याख्यानम्।
अस्त्वियं सम्भवना। निश्चायकं तु किमित्यतो भेदासत्त्वयोः परेणाप्यङ्गीकृतत्वादभेदसत्त्वे प्रमाणेन साधयति तस्मादिति। प्रध्वस्तस्य घटादेर्भेदः प्रध्वस्तभेदः। आदिपदेनानुत्पन्नस्य कारकत्वं गृह्यते। “नष्टानामपि वस्तूनां भेदो नैव विनश्यति” इति यत् प्रध्वस्तभेदस्य सत्त्वमवगम्यते, यच्च घटो जायते, घटं जनयतीत्यनुत्पन्नस्यापि कर्तृत्वं कर्मत्वं च, तत् तस्मात् कार्यस्य कारणाभेदात् प्रागुत्पत्तेर्विनाशोत्तरं च सत्त्वादेव हि युज्यते। नह्यत्यन्तासत्त्वमापन्नस्य स्वरूपभेदः सन्निति युज्यते। नाप्यत्यन्तासतः कारकत्वम्। नच कार्यस्य पृथगेव सत्त्वमस्ति। अनुपलम्भात्। अतः सत्त्वं कारणाभेदश्चाङ्गीकरणीयः। नच विनैव बाधकेनोपचारत्वकल्पना युक्ता। अतिप्रसङ्गात्। तदिदमुक्तम् अवगम्यत एवेति। न केवलं व्यवह्रियत इत्यर्थः। अभावस्य च भावाः स्युर्धर्मास्ते च प्रत्यक्षादिप्रमाणसिद्धत्वाद् युज्यन्त एव, नतु निराकरणार्हा इत्युक्तम्, तद् विशदयति अस्तीति। आदिपदेन घटादेर्भावस्य पटान्योन्याभावधर्मत्वं गृह्यते।
॥ अन्योन्याभावभेदपृथक्त्वानां परस्परं भिन्नत्वे कल्पनागौरवप्रसङ्गः॥
स्यादेतत्। अन्योन्याभावस्य भावधर्मत्वेऽपि तस्य भावात् पृथक्त्वेन कथं भावस्याप्यभावत्वमुच्यते? अन्योन्याभावस्य भेदत्वाद् भेदस्य च स्वरूपत्वाङ्गीकारादिति चेत्, न। स्वरूपभेदस्यान्योन्याभावातिरिक्तत्वात्। यच्चोक्तमभावेऽपि पृथक्त्वमस्तीति, तदसत्। प्रमाणाभावात्। स्वरूपभेदेनैवासङ्करोपपत्तेः। पृथक्त्वस्य च स्वरूपभेदातिरिक्तत्वादित्यत आह अन्योन्येति।
अन्योन्याभावभेदौ च पृथक्त्वं च पृथक्पृथक्।
यत् कल्पयन्ति तच्चैव कल्पनागौरवाद् गतम्।
पर्यायत्वेन ते शब्दा ज्ञायन्ते सर्व एव हि॥१३६॥
पृथक्पृथक् विभिन्नानीत्यर्थः। चशब्दो दूषणान्तरसमुच्चयार्थः। गतं प्रागेव निराकृतम्। (३२५) अनेन पुनरुक्तिदोषः परिहृतो भवति। कथं कल्पनागौरवादिकमित्यत आह पर्यायत्वेनेति। क्रमप्रयोज्यत्वेनेत्यर्थः। सर्व एव लौकिका वैदिकाश्च।
॥ मायावादिना भेदस्य वस्तुस्वरूपत्वे, तस्य विदारणात्मकत्वाद् वस्तुविदारणप्रसङ्गेन सर्वशून्यत्वप्रसङ्ग इति बाधकोक्तिः॥
अत्र मायावादिनश्र्चोदयन्ति स्वरूपभेदानतिरिक्तयोरन्योन्याभावपृथक्त्वयोर्भावाभावधर्मत्वोपलम्भात् सर्वपदार्थानामपि भावाभावात्मतासिद्धिरिति यदुक्तं तदयुक्तम्। भेदस्य वस्तुस्वरूपत्वानुपपत्तेः। तथाहि भेदस्तावाद् विदारणात्मा। “भिदिर्विदारणे” इति विदारणार्थभिदिधातुरुपत्वाद् भेदशब्दस्य। तस्य च विदारणात्मनो भावस्वभावत्वे तस्यापि विदारणं स्यात्, तथा तदेकदेशानामपि भेदः स्वभाव इति तत्रापि विदारणं भवेदित्यनेन क्रमेण सर्वशून्यता स्यात्।
॥ भेदस्य धर्मिस्वरूपत्वे पदार्थानामेकत्वानेकत्वानुपपत्तेश्च सर्वशून्यत्वप्रसङ्गः॥
किञ्च भेदस्य वस्तुस्वरूपत्वे न तत्रैकता समवेयात्। अभेदैकार्थसमवायिन्या एकताया भेदेन विरोधात्। एकत्वाभावेऽनेकत्वमपि न स्यात्। तत्समाहाररूपत्वात् तत्कार्यत्वाद् वा तस्य। एकत्वानेकत्वविकलं च शून्यमेवाऽपद्यते।
॥ स्वरूपस्य अन्यानपेक्षत्वाद् भेदस्य वस्तुस्वरूपत्वे प्रतियोग्यनिरूप्यत्वप्रसङ्गः
विशेष्यविशेषणभावानुपपत्तिः, संशयविपर्ययानुपपत्तिः, अद्वैताङ्गीकारप्रसङ्गश्च॥
अपिच यदि भेदो वस्तुस्वरूपं स्यात्, तदा प्रतियोग्यनपेक्षः प्रसज्येत। स्वरूपस्यानपेक्षत्वात्। नहि घटात् पटस्य भेद इतिवद् घटात् पट इति प्रतीतिरस्ति। घटो भिन्नः, घटस्य भेद इति विशेषणविशेष्यभावसम्बन्धप्रतिभासोऽपि भेदस्य वस्तुस्वरूपत्वे दुर्घटः स्यात्। नहि स्वयमेव स्वस्य विशेषणम्, सम्बन्धि वा भवति। संशयविपर्ययौ चैवमुच्छिद्येयाताम्। भेदाग्रहनिमित्तौ हि तौ भवतः। तत्र यदि धर्मिणमवगाह्य तौ भवतः, तदा तत्स्वभावभूतो भेदोऽपि गृहीत इति क्व तयोरवकाशः? नचेन्निर्विषयत्वात् सुतराम्। यदिचास्मादयं भिन्न इति प्रतियोगिघटिततया प्रतीयमानो भेदो वस्तुनः स्वरूपं स्यात्, तदा तस्य सपरिकरस्य भेदस्य स्वरूपेऽन्तर्भावात् प्रतियोगिनोऽपि स्वरूपतया निमज्जनादद्वैतमतमेव पर्यवस्येदिति।
॥ भेदस्य केवलं प्रतियोगितो अनुयोगिनो विदारकत्वेन स्वस्मिन् विदारणाभावात् सर्वशून्यतापादनमयुक्ततरम्॥
तानपाकरोति भेदस्येति।
भेदस्य तु स्वरूपत्वे ये वदन्ति च शून्यताम्।
अद्भुतास्ते यतोऽन्यस्य प्रतियोगित्वमिष्यते।
प्रतियोगिनो हि भेदोऽयं नतु स्वस्मात् कथञ्चन॥१३७॥
तुशब्दः प्रकृताद् वैशेषिकादेर्व्यवच्छिन्दन् ये त्विति सम्बद्ध्यते। स्वरूपत्वे भेद्यवस्तुस्वरूपत्वे। शून्यतां सर्वस्यापीति शेषः। चशब्दः पूर्वोक्तदूषणसमुच्चयार्थः। अद्भुता आश्चर्याः। न लौकिकेष्वेवंविधा दृश्यन्ते, नापि परीक्षकेष्विति यावत्। तत् कथमित्यतः शून्यतापत्तिं तावन्निराकरोति यत इति। यो भेदो यस्य स्वरूपमिष्यते तं भेदं प्रति ततोऽन्यस्यैव वस्तुनः प्रतियोगित्वमिष्यते यतः, तस्मादद्भुतास्त इति सम्बन्धः। अन्यस्य प्रतियोगित्वेऽपि कथमुक्तदोषपरिहार इत्यत आह प्रतियोगिनो हीति। हिशब्दः पूर्ववद्धेतौ। अयमित्येवम्भावस्य प्रत्यक्षादिसिद्धतां सूचयति। स्वस्माद् धर्मिस्वरूपात्।
इदमुक्तं भवति विदारणात्मा हि भेदो यस्य यतः, तं ततो विदारयेत्। नतु यं कमपि यतःकुतश्चित्। नहि घटस्वरूपस्य भेदस्य घट एव प्रतियोगी, येन स्वस्मिन् विदारणं स्यात्। किन्तु घटादन्य एव। ततो विदारणं तु नानिष्टम्। तस्य शून्यतानापादकत्वादिति।
॥ वस्तुतस्तु भेदस्य विदारकत्वस्यैवानङ्गीकारात् न शून्यतापादनं युक्तम्॥
किञ्च भिद्यतेऽनेनेति यदि भेदशब्दः करणसाधनो भवेत्, तदा भेदः कमपि विदारयेत्। नचैवम्। भावसाधनत्वाङ्गीकारात्। अतोऽभ्युपगम्यैव करणसाधनतामयं परिहारोऽभिहित इत्याशयवानाह कथञ्चनेति। इदमुदितमिति शेषः। किञ्च विदारणमपि लवित्रादि यत्सम्बन्धि तद् विदारयति। नतु स्वात्मानम्। अतो धर्मभेदवादे कथञ्चिदिदं वक्तव्यम्। स्वरूपभेदवादे तु क्वास्यावकाशः?
॥ वस्तुनः स्वापेक्षया एकत्वम्, अन्यापेक्षयाऽनेकत्वमिति तयोरविरुद्धत्वात्
एकत्रैव समावेशसम्भवात् न शून्यतापादनं युक्तम्॥
भेदस्य वस्तुस्वरूपत्वे न तत्रैकता समवेयादित्यप्यनेनैव निरस्तम्। नह्येकतानेकते स्वरूपेण विरुद्धे। एकस्यैव घटस्यान्यापेक्षयाऽनेकत्वदर्शनात्। किन्तु यदपेक्षया अनेकः, तदपेक्षयैवैक इति विरुद्धम्। तत्र घटस्य परस्मात् प्रतियोगिन एव भेद इति। तदपेक्षयैवानेकत्वम्, स्वापेक्षया त्वेकत्वमिति को विरोधः? अपिचैकत्वानेकत्वयोः सामानाधिकरण्यं वा विरुद्धम्, धर्मधर्मिभावो वा? आद्ये नैकताया भेदेन विरोधः। भेदस्य स्वरूपत्वेनैकतासामानाधिकरण्याभावात्। न द्वितीयः, एकं द्वित्वमिति दर्शनात्। एकत्वानेकत्वाभावेऽपि शून्यत्वं कुतः? वैशेषिकादीनां गुणादिवत्, मायावादिनां ब्रह्मवदगुणस्यापि सत्त्वोपपत्तेरिति।
॥ मायामते परनिरूप्यस्यापि ब्रह्मणो जीवैक्यस्य ब्रह्मस्वरूपत्ववत्
प्रतियोगिनिरूप्यस्य भेदस्य धर्मिस्वरूपत्वे को विरोधः?॥
ननु भेदो वस्तुस्वरूपं चेत्, प्रतियोगिनिरूप्य एव न स्यात्। स्वरूपस्य तदभावात्। अतो नायं परिहारो युज्यते। तथाच स्वस्मिन्नेव विदारणे पुनः शून्यतैवेति चेत्, न। स्वतः परतोऽपि व्याप्त्यसिद्धेः। यथाहि परनिरूप्यमपि ब्रह्मणो जीवैक्यं ब्रह्मस्वरूपं मायावादिनाऽङ्गीकृतम्, अस्माभिश्च परत्वादिकं द्रव्यस्वरूपम्, तथा प्रतियोगिनिरूप्यस्यापि भेदस्य वस्तुस्वरूपत्वे को विरोधः?
किञ्च भेदो वस्तुस्वरूपमिति ब्रुवाणो वस्तुस्वरूपस्यापरनिरूप्यत्वं कथमभ्युपेयात्? एतावत्तु स्यात् एकस्यैव वस्तुनः प्रतियोगिप्रतीतिमपेक्ष्यानपेक्ष्य च प्रतीतिः कथम्? तत्रापि न सैव प्रतीतिरुभयीं गतिमश्नुते। किन्तु प्रतीतिद्वयमेतत्। तच्चैकस्मिन्नपि वस्तुनि विशेषबलमवलम्ब्य समञ्जसं भविष्यतीति भेदस्य परप्रतियोगितोपपत्तेः कुतः स्वस्मिन् विदारणापत्तिः?
॥ भेदस्य विदारकत्वाङ्गीकारेऽपि पदार्थानां सूक्ष्मतमत्वं स्यात्, न शून्यत्वम्॥
अस्तु वा स्वरूपविदारणम्। तथाऽपि शून्यतापादनमयुक्तमेवेत्याशयवानाह विभागेनेति।
विभागेनाल्पतैव स्यात् कुत एव तु शून्यता।
न शून्यानां हि संयोगाद् भावो वस्तुन इष्यते॥१३८॥
लोष्ठादेः खल्ववयवविभागेन लोष्ठादिविनाशे सत्यल्पपरिमाणावयवावशेषोऽवगतः, नतु सर्वशून्यता, तथा सर्वत्रापि विभागेनाल्पताऽल्पावयवावशेषतैव स्यात्। शून्यता तु कुत एव स्यात्?
ननुच पञ्चषेषु स्थलेषु विदारणेनाल्पाल्पतराल्पतमवस्त्ववशेषेऽप्यन्ततः कस्यचिदवयवजातस्य शून्यतायां सर्वशून्यता स्यादित्यत आह नेति। यत्संयोगेन हि यद् वस्तूत्पन्नं तस्मिन् विदारणे सति संयोगनाशाद् वस्तुनाशानन्तरं तदवशेषो भवति। यथा तन्तुसंयोगेनोत्पन्ने पटे तन्तुविदारणसंयोगनाशक्रमेण विनष्टे तन्त्ववशेषः। एवञ्च यदि केषाञ्चित् परमाल्पानां वस्तूनां शून्यसंयोगादुत्पत्तिः स्यात्, तदा विदारणे सति संयोगनाशेन कार्यनाशे शून्यावशेषः स्यात्। नचैवं प्रामाणिकैरिष्यते। अतोऽसङ्गतं सर्वशून्यतापादनमिति। भावो जन्म।
॥ भेदशब्दस्य विभागअन्योन्याभावरूपद्व्यर्थकत्वेऽपि अन्योन्याभावस्यैवात्र विवक्षितत्वात्
वस्तूनां सूक्ष्मतमत्वरूपशून्यत्वापादनमप्ययुक्तम्॥
ननु शून्यत्वं नाम नात्यन्तासत्त्वमापाद्यत्वेन विवक्षितम्। किन्तु सूक्ष्मतमत्वमेव। तच्चानिष्टमित्यत आह विदारणेति।
विदारणार्थो धातुश्च विभागगुणवाचकः।
स्यादेतद् यदि भेदो विदारणात्मा भवेत्। नचैवम्। प्रमाणाभावात्। अङ्गीकृत्यैव तु पूर्वः परिहारोऽभिहितः।
ननूक्तमत्र भेदशब्दादेव भेदस्य विदारणात्मकत्वमवगम्यते। स हि भिदेर्धातो रूपम्। स च विदारणार्थतया व्याख्यात इति। अत्रोत्तरम् यदा भिदिधातुर्विदारणार्थो विवक्षितः, तदा भेदशब्दो विभागाख्यगुणवाचकः, नत्वन्योन्याभावलक्षणभेदवाचक इति। एतदुक्तं भवति
“क्रियावाचित्वमाख्यातुमेकैकोऽर्थः प्रदर्शितः।
प्रयोगतोऽनुगन्तव्या अनेकार्था हि धातवः”
इति वचनाद् भिदिर्विभागवचनोऽन्यत्ववचनश्च। भिन्नो घट इत्युक्ते स्फुटित इति गम्यते। भिन्नं गगनं घटादित्यन्यदिति विज्ञायते। तत्र विभागो विदारणात्मा नान्यत्वम्। तदेव चात्र प्रकृतं न विभाग इत्यन्यतालक्षणस्य भेदस्य वस्तुस्वरूपत्वे विदारणप्रसङ्गेनात्यल्पतापादनमप्यसङ्गतमेव, छलत्वादिति। ननु विभागस्यान्यत्वस्य च को विशेषो येनैवमुच्यत इति चेत्, न। गुणग्रहणेनैव परिहृतत्वात्। विभागो हि गुणतया वैशेषिकादिभिरुपात्तः। अन्यता चान्योन्याभाव इति स्फुटो भेदः।
॥ विभागस्य गुणत्वात्, भेदस्य चाभावत्वात् तयोर्भिन्नत्वमित्युक्तार्थस्य समर्थनम्॥
यस्तु गुणादिप्रक्रियां न मायावादी मन्यते, तं बोधयितुमाह अविदारणेऽपीति।
अविदारणेऽपि ह्यास्यस्य भिन्नावोष्ठौ च तस्य च।
आस्यस्येत्यास्यसम्बन्धिनोरोष्ठयोर्ग्रहणम्। तस्य च मायावादिन एव। यदा हि मायावादी निरुत्तरतया तूष्णीमास्ते, तदा तदीययोरोष्ठयोर्विदारणलक्षणविभागाभावेऽप्योष्ठौ भिन्नावन्योन्याभावलक्षणभेदवन्तौ भवत एव। यदभावे च यदस्ति तत् ततोऽन्यदिति च प्रसिद्धमेव। अतो विभागाद् भेदोऽर्थान्तरमेवेति ज्ञायते। तस्य चेत्यनेन नातःपरं स्वरूपभेदे काचिदनुपपत्तिः सम्भाविताऽस्तीति सूचितम्।
॥ भेदस्य वस्तुस्वरूपत्वे विशेष्यविशेषणभावसंशयविपर्ययानुपपत्तिपरिहारः॥
ननु कथं नास्ति? विशेषणविशेष्यभावानुपपत्त्यादेरपरिहृतत्वादिति चेत्, न। स्वरूपत्वेऽपि विशेषबलेन विशेषणविशेष्यभावसम्बन्धावभासोपपत्तेः। अन्यथा “आनन्दं ब्रह्म”, “आनन्दं ब्रह्मणः” इत्यादेरनुपपत्तिप्रसङ्गात्। संशयविपर्ययानुपपत्तिरपि नास्ति। सविशेषत्वेन ज्ञाताज्ञातत्वोपपत्तेः। अन्यथाऽऽत्मस्वरूपे स्वयम्प्रकाशमाने तत्स्वरूपमात्राणामद्वितीयत्वानन्दत्वादीनामपि प्रकाशनियमान्न जातु कस्यचित् संशयविपर्ययौ स्याताम्। अविद्यावशात् तत्र तथेति चेत्, अत्रापि सादृश्यादिवशात् तथेति सन्तोष्टव्यम्।
॥ अद्वैतपर्यवसनोक्तिनिरासः॥
यच्चाद्वैतपर्यवसानमुक्तम्, तत् कुत इति वक्तव्यम्। यदि मन्येत यथाहि लम्बकर्ण आगतः, नीलमानीयतामित्यादौ परिकरवतो यद् भवति तत् परिकरस्यापि, तथा प्रतियोगिघटितस्य भेदस्य धर्मिस्वरूपत्वे प्रतियोगिनोऽपि तन्निमज्जनं स्यादिति तत्र किं सम्भावनयेदमुच्यते, उत व्याप्त्या? नाऽद्यः, प्रशिथिलमूलत्वात्। न द्वितीयः, चित्रगुरानीयताम्, काशीनिवासी समागत इत्यादौ तदभावात्। पारमार्थिकीं दृष्टिमवलम्बमानस्य तदप्यसिद्धमिति चेत्, अहो पक्षपातोऽस्य! यत् परस्य अनिष्टं प्रसञ्जयन् व्याप्तिग्रहणाय लौकिकं दृष्टान्तं बहुमन्यते, व्यभिचारे तु तत्रोदास्ते। परसिद्धेन परस्यैवानिष्टापादनमिति चेत्, तर्हि मूलशैथिल्यमपि परः स्वसिद्धेन प्रतिपत्स्यते। वैचित्र्यं किन्निमित्तमिति चेत्, व्यावर्तकत्वमात्रेण प्रतियोगिनामुपयोगादिति ब्रूमः।
॥ सूत्रकृता मायावादस्यानिरासेनैव उपेक्षितत्वे निमित्तम्॥
तदेवं स्वपरमतावलोकानपेक्षयैव दोषोद्भावनादुपेक्षणमेवोन्मत्तवाक्यवन्मायावादस्योचितम्। किं निराकरणेनेत्याशयवानुपसंहरति अत इति।
अत उन्मत्तवाक्यत्वान्मायावादो ह्युपेक्षितः॥१३९॥
नन्वेवंविधं मतं सिद्धान्तविरुद्धत्वात् सूत्रकृता कुतोऽत्र न निराकृतमित्येतदनेन परिह्रियते। उपेक्षितः सूत्रकारेणेति शेषः।
॥ ईश्वरस्याष्टगुणत्वनिराकरणम्॥
एवं समवायं निराकृत्येदानीं सम्बन्धप्रसङ्गेन सम्बन्धिनामपि गुणादीनां प्रसक्तत्वादीश्वरगुणसङ्ख्याविप्रतिपत्तिं निराकरोति नचेति।
नचामन्दसदानन्दस्यन्द्यनन्तगुणार्णवः।
ईश्वरोऽष्टगुणत्वेन प्रमेयोऽप्रमितत्वतः॥१४०॥
ईश्वरोऽष्टगुणत्वेन अष्टावेव गुणा अस्य सन्तीत्येवंरूपेण, न प्रमेयो न प्रतिपत्तव्यः। कुतः? अप्रमितत्वतः, अष्टगुणत्वे प्रमाणाभावात्। किन्त्वमन्दसदानन्दस्यन्द्यनन्तगुणार्णवः प्रमेयः। अर्णव इवार्णवः। क्षीरार्णवः सुधास्यन्दी भवति। अयं चानल्पविदोषानन्दसुधास्यन्दी। सः अनन्ता गुणाः शुभपदार्थाश्चिन्तामणिप्रभृतयोऽस्मिन्नित्यनन्तगुणः। अयमप्यानन्दादयोऽनन्ता गुणा अस्मिन्नित्यनन्तगुणः। अमन्दसदानन्दस्यन्दी चासावनन्तगुणश्चासावर्णवश्चेति विग्रहः।
॥ श्रुत्या ईश्वरस्यानन्तगुणत्वप्रतिपादनम्॥
अष्टगुणत्ववदनन्तगुणत्वेऽपीश्वरस्य प्रमाणं नास्तीत्यत आह मयीति।
मय्यनन्तगुणेऽनन्ते गुणतोऽनन्तविग्रहे।
अनन्तगुणमाहात्म्यशक्तिज्ञानमहार्णवः।
नारायणः परोऽशेषचेतनेभ्यः परं पदम्॥१४१॥
इत्यादिवेदतद्वाक्यैरनन्तैश्चावसीयते।
अनन्तगुणता विष्णोः कथमेव ह्यपोद्यते॥१४२॥
अनन्ता असङ्ख्याता गुणा यस्यासावनन्तगुणः। “गुणतोऽनन्ते” इति गुणानां प्रत्येकमनवधिकत्वम्, अनन्तावान्तरविशेषवत्त्वं चाभिप्रेयते। “अनन्तविग्रहे” इत्यन्तं भगवद्वाक्यम्। उत्तरं वेदवाक्यम्। गुणमाहात्म्येति सामान्यविशेषाभ्यामुक्तम्। माहात्म्यं परिमाणातिशयः। “परं पदम्” इत्युद्दिश्यान्यदुच्यत इति न लिङ्गव्यत्ययदोषः।
॥ अनन्तगुणवाचिश्रुतीनामौपचारिकत्वोक्तिनिरासः॥
नन्वेताति वचनान्युपचरितार्थानि किं न स्युरित्यत आह कथमेवेति। बाधकवशाद्धि मुख्यार्थोऽपोद्यते। नचात्र तदस्तीत्यतोऽनन्तगुणता विष्णोः कथमेवापोद्यते?
॥ ईश्वरज्ञानेच्छाप्रयत्नानां निर्विषयत्वे
तस्य सर्वज्ञत्वसर्वकर्तृत्वसर्वसंहर्तृत्वाभावप्रसङ्गः॥
यच्च वैशेषिकादिभिरीश्वरज्ञानेच्छाप्रयत्नानामखण्डत्वमुक्तम्, तदप्यसत्। “अनन्तं गुणतः” इति प्रत्येकं गुणानामनन्तविशेषवत्त्वस्याऽगमसिद्धत्वात्। तदनङ्गीकारे बाधकं चाऽह यदीति।
यद्यनन्तविशेषाश्च तज्ज्ञानादेर्निवारिताः।
कथं तत्तद्विषयता सार्वज्ञ्यार्थं विधीयते।
तत्तद्विषयता घटादिविषयता, विधीयते अस्तित्वेनाङ्गीक्रियते। मा भूत् तत्तद्विषयत्वमित्यत उक्तम् सार्वज्ञ्यार्थमिति। उपलक्षणं चैतत्। सर्वकर्तृत्वाद्यर्थं चेत्यपि द्रष्टव्यम्। अत्रानन्तविशेषा इति यथागमसिद्धोक्तिः। वस्तुतस्तु यदि ईश्वरज्ञानादि निर्विशेषं स्यात्, तदा तत्तद्विषयत्वं न स्यात्, तदा च तस्य सार्वज्ञ्यादिकं न स्यात्। सर्वविषयज्ञानवान् हि सर्वज्ञो नाम। तथा सर्वकार्योत्पत्तिविषयेच्छाप्रयत्नवान् सर्वकर्ता। सर्वकार्यविनाशविषयेच्छादिमांश्च सर्वसंहर्ता। अङ्गीकृतं च सार्वज्ञ्यादि परेण परमेश्वरस्य। अतस्तदर्थं ज्ञानादेस्तत्तद्विषयतया भाव्यम्। कथञ्च तथासति निर्विशेषत्वमिति।
एतेनैतदपि निरस्तम्। यदाहुः “अनित्यं हि ज्ञानादि कर्मकारकतया विषयसहितत्वमपेक्षेत। नित्यस्य तु किं विषयेण” इति। विषयाणां चानन्त्यादनन्तविशेषतासिद्धिः।
॥ ज्ञानादीनामौपाधिकविशेषवत्त्वनिरासः॥
स्यादेतत्। निर्विशेषमेवेश्वरज्ञानं ज्ञप्तिरूपम्। तत्तु तैस्तैर्घटाद्युपाधिभिस्तत्तद्विषयमिति व्यपदिश्यते। एवमखण्डैव तस्येच्छाऽस्त्वित्येवमाकारा। तथाऽपि तैस्तैः सृष्ट्याद्युपाधिभिः सिसृक्षा सञ्जिहीर्षेत्याद्युच्यते, तथा प्रयत्नोऽपि। अतः स्वतो विशेषाभावेऽप्यौपाधिकविशेषवशात् तत्तद्विषयता सार्वज्ञ्यादिकं च युक्तमित्यत आह औपाधिकेति।
औपाधिकविशेषस्तु पूर्वमेव निराकृतः॥१४३॥
औपाधिकोऽपि विशेषोऽस्ति, नवा? अस्ति चेत् कथं निर्विशेषत्वम्? नचेत् पुनः सार्वज्ञ्याद्यभाव इत्यादिपूर्वोक्तन्यायेनैव निरस्तमित्यर्थः। किञ्चोपाधिर्ज्ञानादिसम्बद्धो विशेषमापादयेत्, असम्बद्धो वा? आद्ये सम्बन्धो विषयविषयिभावातिरिक्तो नास्तीति पूर्वमेव तद्विषयतैष्टव्या। द्वितीयेऽतिप्रसङ्गः।
अपिचास्त्वित्येवमाकारेणैवेच्छादिना सृष्ट्यादिकं भवति, उत सृष्ट्यादिकं भवत्वित्येवमाकारेण? नाऽद्यः, अतिप्रसङ्गात्। द्वितीये स्वतः सविशेषत्वमित्येषा दिक्।
॥ ईश्वरज्ञानस्य स्वप्रकशत्वाभावे सर्वज्ञत्वाभावप्रसङ्गः॥
वैशेषिकादायः केचिदीश्वज्ञानं स्वप्रकाशं न भवतीत्याहुः। तानपाकरोति स्वप्रकाशत्वमपीति।
स्वप्रकाशत्वमपि तु यैर्ज्ञानस्य निवारितम्।
कथं सर्वज्ञता तस्यस्वज्ञानाधिगमं विना॥१४४॥
यैस्त्विति सम्बन्धः। केचिद् वैशेषिकादायः स्वप्रकाशतामङ्गीकुर्वन्तीत्येतत् सूचयितुं तुशब्दः। ज्ञानस्य ईश्वरज्ञानस्य। तेषां पक्ष इति शेषः। तस्य ईश्वरस्य। कथं स्वप्रकाशत्वाभावे सर्वज्ञताभाव इत्यत आह स्वेति। स्वज्ञानाधिगमाभावादित्यर्थः। एकमेव हीश्वरज्ञानं तच्च स्वव्यतिरिक्तमेव विषयीकरोति, नतु स्वरूपमिति कथमीश्वरः सर्वज्ञः स्यादिति।
॥ परेण ईश्वरस्य ज्ञानद्वयमभ्युपगम्य सर्वज्ञत्वसमर्थनम्॥
स्वप्रकाशज्ञानाभावेऽपीश्वरस्य सार्वज्ञ्यसम्भवं शङ्कते ज्ञानमिति।
ज्ञानं विश्र्वाधिगं त्वेकं तज्ज्ञानविषयं परम्।
इति ज्ञानद्वयेनव सर्ववित् परमेश्वरः॥१४५॥
इति चेदेष एवार्थस्तज्ज्ञानावसितो यदि।
स्वप्रकाशत्वमेव स्याज्ज्ञानं ह्येतद् विशेषणम्॥।१४६॥
विश्र्वाधिगं स्वव्यतिरिक्तसमस्तविषयम्। तज्ज्ञानं विषयो यस्य तत् तथोक्तम्। स्यादयं दोषो यदीश्वरस्यैकमेव ज्ञानं स्यात्, नचैवम्। द्वे खल्वीश्वरज्ञाने। तत्रैकं स्वव्यतिरिक्तद्वितीयज्ञानसहितसर्वविषयम्। द्वितीयं तु तज्ज्ञानविषयीकारि। एवञ्च ज्ञानस्य स्वविषयत्वाभावेऽपीश्वरस्यैवंविधज्ञानद्वयेनैव सर्ववित्त्वमुपपद्यत इति।
॥ ज्ञानद्वयवत्त्वस्य अङ्गीकृतज्ञानद्वयान्यतरविषयत्वे स्वप्रकाशत्वमभ्युपगतमेव ॥
तथाऽपीश्वरस्यासार्वज्ञ्यम्, तज्ज्ञानस्य वा स्वप्रकाशत्वं दुष्परिहरमित्याशवानुत्तरमाह एष एवेति। आस्तां तावत् सजातीयात्मविशेषगुणयौगपद्यानुपपत्तिः। ज्ञानद्वयवानहं, ज्ञानद्वयेन सर्वज्ञोऽस्मि, इदं मे ज्ञानमेतज्ज्ञानविषयम्, एतच्चैतद्विषयमित्यादिरेष एवार्थ ईश्वरेण ज्ञायते, नवा? नेति पक्षे तस्य सार्वज्ञ्यं न स्यात्।
आद्ये किमेतयोरन्यतरेण, उत ज्ञानान्तरेण? प्रथमस्येदमुत्तरम् एष एवार्थस्तयोरन्यतरेण ज्ञानेन अवसितो विषयीकृतो यदि, तदा तस्य ज्ञानस्य स्वप्रकाशत्वं स्यादेवेति। तत् कथमित्यत आह ज्ञानं हीति। यद्यप्येतज्ज्ञानं न निष्कृष्टं स्वस्य स्वविषयतामापद्यते। तथाऽपि ज्ञानविषयस्यैतस्य ज्ञानद्वयवानहमित्यादेरर्थस्य विशेषणं भवत्येव। तथाच विशिष्टार्थविषयत्वे विशेषणभूतस्वविषयत्वमवर्जनीयमेव। नहि दण्डिसाक्षात्कारे दण्डो न स्फुरतीति युक्तमिति।
॥ ज्ञानद्वयवत्त्वस्य ज्ञानान्तरविषयत्वाङ्गीकारे अनवस्थाप्रसङ्गः॥
द्वितीये दोषमाह ज्ञानान्तरेणेति।
ज्ञानान्तरेण चेदत्र भवेदेवानवस्थितिः।
स्वप्रकाशत्वमेतस्माद् दुर्निवारं समापतेत्॥१४७॥
ज्ञानान्तरेण तृतीयेन ज्ञानेन, यद्येषोऽर्थो विषयीक्रियते, अत्र अस्मिन् पक्षे अनवस्थितिः ज्ञानद्वयवानीश्वर इति नियमाभावो भवेत्।
यस्तु ज्ञानत्रयवानिति नियमं मन्यते, स प्रष्टव्यः किं ज्ञानत्रयवानहमस्मीत्यादिकमर्थमीश्वरो वेत्ति, नवेति। द्वितीये तु पुनरसार्वज्ञ्यम्। आद्ये किमेतत्त्रयान्यतमेन, उत चतुर्थेन? नाऽद्यः, स्वप्रकाशतापत्तेः। द्वितीये पुनरनवस्थैव। एवं ज्ञानान्तरपरम्पराभ्युपगमव्यसनं दुर्वारं स्यात्।
॥ ज्ञानस्वप्रकाशत्वस्यावश्यमभ्युपगमनीयत्वोक्तिः॥
नन्वनन्तानीश्वरज्ञानान्यभ्युपगच्छामि को दोष इति चेत्, न। कल्पनागौरवाद् वरमेकस्यैव ज्ञानस्य स्वप्रकाशत्वाभ्युपगम इत्याशयवानुपसंहरति स्वप्रकाशत्वमिति।
ननु ज्ञानं न स्वप्रकाशम्, वस्तुत्वादित्यादेः विरुद्धं स्वप्रकाशत्वं कथमङ्गीकर्तुमुचितमिति चेत्, न। यद् वस्तु, न तत् स्वप्रकाशमिति व्याप्तिज्ञानं स्वात्मानं न विषयीकरोति चेत्, न सर्वोपसंहारवद्व्याप्तिसिद्धिः। विषयीकरणे तु स्वप्रकाशत्वं दुर्निवारमित्याशयवतो वोपसंहारः।
॥ ईश्वरस्य सुखित्वे दुःखित्वं स्यादिति तर्कनिरासः॥
यदुक्तमीश्वरोऽनन्तगुण इति तदनुपपन्नम्। चतुर्विंशतेरधिकानां गुणानामभावात्। तत्रापि केषाञ्चिदीश्वरेऽनुपपत्तेः। तस्मादुपपन्नैरष्टभिरेव गुणैरुपपन्नो भगवानिति। मैवम्। शौर्यौदार्यप्रागल्भ्यप्रभृतीनां गुणानां भावात्। परेण स्वीकृतेष्वपि केषाञ्चिदनुपपत्त्यभावाच्च। तथाहि सुखं तावदीश्वरस्य कुतो नाङ्गीकर्तव्यम्? ईश्वरः सुखरहितः, दुःखरहितत्वात्; घटवत्, सुखवांश्चेद् दुःखवान् प्रसज्यते देवदत्तवदिति विपक्षे बाधकोपपन्नादनुमानादिति चेत्, तत्रानुग्राहकस्य तर्कस्य तावद् दूषणमाह सुखवानिति।
सुखवान् दुःखवांश्च स्यादिति व्याप्तिश्च नो भवेत्।
निर्दुःखत्वं महानन्दः श्रुत्यैवेशस्य भण्यते॥१४८॥
कथं व्याप्त्यभाव इत्यत आह निर्दुःखत्वमिति। यद्यपि सुखित्वं दुःखित्वेन सहचरितं देवदत्तादावुपलब्धम्, तथाऽपीश्वरे निर्दुःखेऽपि वर्तमानं व्यभिचारित्वाद् व्याप्तिविकलं भवति। व्याप्त्या विना प्रसञ्जने चातिप्रसङ्गः।
नन्विदमयुक्तम्। आपादनस्थले व्याप्तिभङ्गाङ्गीकारे प्रसङ्गमात्रोच्छेदापत्तेः। नच वाच्यम्, प्राक् प्रसञ्जनाद् व्याप्तिग्रहणवेलायामेवेदं व्याप्तिभङ्गोद्भावनमिति। सर्वत्राप्येवं वक्तुं शक्यत्वेनोक्तदोषानिरस्तारादिति। मैवम्। स्वाभ्युपगममात्रेणाऽपादनस्थले व्याप्तिभङ्गाभिधाने सत्येवमेतत्। नचैवं प्रकृते। श्रुतिबलेनैवेश्वरे सुखित्वस्य दुःखित्वव्यभिचारोपपादनात्। तदिदमुक्तम् श्रुत्यैव भण्यत इति। प्रत्येकं सम्बन्धादेकवचनम्।
॥ ईश्वरस्य निर्दुःखत्वे सुखित्वे च श्रुत्युपन्यासः॥
काऽसौ श्रुतिरित्यतोऽर्थतस्तामुदाहरति य इति।
योऽशनायापिपासे च शोकादींश्चातिवर्तते।
आनन्दं ब्रह्मणो विद्वान् विपाप्मेत्यादिका च सा॥१४९॥
अनेन “योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येति” इति श्रुतिमुपादत्ते। विपाप्मेत्यनेन “य आत्माऽपहतपाप्मा” इत्यादिश्रुतिम्। सा निर्दुःखत्वाद्यभिधात्री।
॥ आनन्दश्रुतेः दुःखाभावविषयत्वोक्तिनिरासः॥
नन्वानन्दश्रुतेर्दुःखाभावविषयत्वोपपत्तेर्न श्रुत्यवष्टम्भेन प्रसङ्गमूलभूतव्याप्तिभङ्गो वक्तुं शक्यत इत्यतोऽङ्गीकृत्य तावत् सोपाधिकत्वमाह ईश्वरस्येति।
ईश्वरस्य तथेष्टत्वं दुःखित्वोपाधिरित्यपि।
उक्ते किमुत्तरं ब्रूयात् श्रुत्यनादरतत्परः॥१५०॥
नचाऽत्मदुःखितेच्छा स्यादत एतन्निवार्यते।
तथेष्टत्वं दुःखी भवत्वितीष्टत्वम्। दुःखित्वोपाधिः दुःखित्वप्रयोजकम्। अपिपदेनाधर्मादिमत्त्वं समुच्चिनोति। अनादरो विना बाधकेन प्रतीतार्थपरित्यागः। मा भूत् तावत् श्रुत्यवष्टम्भेन व्याप्तिभङ्गः, सोपाधिकतया तु भविष्यति। सोपाधिकसम्बन्धस्य व्यभिचारनियमादिति।
यः सुखी स दुःखी भवत्वितीश्वरेच्छाविषय एवेति नियमान्नायमुपाधिरित्यत आह नचेति। ईश्वरस्य हि “आनन्दं ब्रह्मणो विद्वान्” इत्यादिश्रुतेः सुखित्वेऽपि नोपाधिमत्त्वम्। कस्याप्यात्मदुःखितेच्छाभावादत एतदुपाधेर्व्याप्याभिमतव्यापकत्वं निवार्यते। यद्यप्ययं नियमो न दर्शनमात्रेण सिद्ध्यति, अतिप्रसङ्गात्। नियामकं तु नास्तीति शक्यते वक्तुम्। तथाऽपि श्रुत्यर्थपरित्यागं वारयितुं प्रसङ्गापादनायेदमुदितमिति द्रष्टव्यम्।
॥ अनुमानबलादानन्दश्रुतेः स्वार्थप्रच्यावने अन्योन्याश्रयता॥
भवेदेतद् यद्यानन्दश्रुतिः सुखवादिनी स्यात्, नचैतदस्ति। तस्या दुःखाभावपरत्वादिति चेत्, किं बाधकादियं श्रुतिः स्वार्थात् प्रच्याव्यते, उतैवमेव? न तावद् द्वितीयः। दुःखाभावश्रुतेरप्यन्यथयितुं शक्यत्वेन तर्कस्येष्टापत्तितापत्तेः। आद्ये न तावत् प्रत्यक्षमागमो वा बाधकोऽस्ति। ततः सुखित्वे दुःखित्वप्रसङ्गो वा निर्दुःखत्वानुमानं वा बाधकमिति वाच्यम्। तदुभयमपि व्याप्तिबलप्रवृत्तं वा स्यात्, सहदर्शनमात्रबलप्रवृत्तं वा। नाऽद्यः, इतरेतराश्रयत्वप्रसङ्गात्। सिद्धे हि श्रुतेः स्वार्थप्रच्यावने तर्कानुमानयोर्व्याप्तिसिद्धिः, तत्सिद्धौ च श्रुतेः स्वार्थात् प्रच्यावनसिद्धिरिति।
नन्वेतद् भवतामपि समानम्। श्रुतेः स्वार्थपरत्वे तर्कानुमानयोर्व्याप्तिभङ्गः, सति च तस्मिन् श्रुतेः स्वार्थपरत्वमिति। मैवम्। यतः प्रतीतार्थपरित्याग एव बाधकमपेक्षते। न स्वार्थपरत्वम्, बाधकाभावम्। तस्य प्रतीत्यैव सिद्धत्वात्।
॥ सहदर्शनमात्रेण श्रुत्यर्थप्रच्यावने यागीयहिंसादेरपि पापहेतुत्वकल्पनाप्रसङ्गः॥
द्वितीये त्वतिप्रसङ्गः स्यादित्याह सहेति।
सहदर्शनमात्रेण श्रुतीनामपलापकः॥१५१॥
यज्ञादेरपि पापस्य हेतुत्वं हिंसया युतेः।
नानुमाति कथं तत्र यद्युपाधिर्निषिद्धता॥१५२॥
आपाद्येन साध्येन वा सहदर्शनं यस्याऽपादकस्य साधनस्य वा तत् सहदर्शनम्। तन्मात्रेण श्रुतीनामीश्वरस्याऽनन्दवादिनीनामपलापकः स्वार्थप्रच्यावकः। यज्ञादेरित्यादिपदेन गोभ्यो यवसदानं गृह्यते। युतेः योगात्। यदि सहदर्शनमात्रेणाऽनन्दश्रुत्यर्थापलापः क्रियेत, तदा या हिंसा सा पापहेतुरिति सहदर्शनेन ज्योतिष्टोमादिश्रुत्यर्थापलापोऽपि क्रियताम्, अविशेषादिति भावः।
॥ सुखित्वदुःखित्वसम्बन्धस्य सोपाधिकत्वम्॥
नन्वविशेषोऽसिद्धः। हिंसात्वपापसाधनत्वयोः साहचर्ये निषिद्धत्वस्योपाधेर्विद्यमानत्वात्। नच सुखित्वदुःखित्वसम्बन्धे कश्चिदुपाधिरस्ति। ईश्वरस्य तथेष्टत्वमुपाधिस्त्विदानीमपि गहनं प्रविष्ट इत्याशङ्कते तत्रेति। अस्तीत्युच्यत इति शेषः। केयं निषिद्धता नाम? अकर्तव्यतया श्रुत्युक्तत्वमिति चेत्, केयमकर्तव्यताऽपि? करणानर्हता, वा कर्तुरनिष्टहेतुता वा? नाऽद्यः, ब्रह्महिंसाया अपि क्रियमाणत्वात्। द्वितीयेऽपि किं साक्षादनिष्टसाधनत्वम्, परम्परया वा? नाऽद्यः, हिंसानन्तरमेव दुःखोत्पादादर्शनात्। द्वितीये तु पापसाधनतयोक्तत्वमुपाधिरित्युक्तं स्यात्। एवञ्चात्राप्युपाधिसद्भावादविशेष एवेति परिहरति अदुःखित्वेनेति।
अदुःखित्वेन चानुक्तिः कथं नोपाधितां व्र्जेत्।
अदुःखमितरत् सर्वं जीवा एव तु दुःखिनः।
तेषां दुःखप्रहाणाय श्रुतिरेषा प्रवर्तते॥१५३॥
इति श्रुतिर्हि परमा........................।
अदुःखित्वेनानुक्तिरिति, दुःखित्वेनोक्तिरित्यर्थः। काऽसौ देवदत्तादीनां श्रौती दुःखित्वोक्तिरित्यत आह अदुःखमिति। प्रवर्तते दुःखप्रहाणसाधनं परमात्मानं प्रतिपादयतीत्यर्थः।
॥ सुखाभावादिसाधकानुमानभङ्गः॥
एवमनुमानानुग्राहकं तर्कं निराकृत्येदानीमीश्वरो न सुखी, निर्दुःखत्वात्; घटवदित्यनुमानमपि दूषयति श्रुत्युक्तिरिति।
.............श्रुत्युक्तिर्यदि कारणम्।
किं कार्यमनुमानेन गलस्तनसमेन हि॥१५४॥
कारणं प्रमायाः। “आनन्दं ब्रह्मणो विद्वान्” इत्यादिश्रुतिः प्रमाणम्, नवा? नेति पक्षेऽपसिद्धान्तः। आद्ये तद्बाधितत्वेनाजागलस्तन इव विवक्षितार्थासाधकमनुमानमुपेक्षणीयमिति भावः।
ननु श्रुतिः प्रमाणमेव, किन्त्वनुमानविरुद्धत्वात् प्रतीतार्थं परित्यज्य दुःखाभावपरतया व्याख्यातव्येत्याशय; नैवम्, अनुमानस्य श्रुतिबाधकत्वादर्शनात्, क्वचिदुपजीव्यत्वादिनैव बाधकत्वात्। एवमेव बाधकत्वाभ्युपगमे त्वतिप्रसङ्गः स्यादित्याह अनुमानेनेति।
अनुमानेन यद्यर्थः श्रुतिदृष्टोऽप्यपोद्यते।
पूर्वोक्तेन प्रकारेण नेश्वरो धर्म एव च।
स्यात् तत्फलं चतेनात्र श्रुतिरेव प्रमा भवेत्॥१५५॥
पूर्वोक्तेन शास्त्रयोनिसूत्रोक्तेन। नेश्वरः स्यात् श्रुतिदृष्टोऽपीश्वरोऽनुमानविरोधात् त्याज्यः स्यादिति यावत्। धर्मश्च नैव स्यात्, तत्फलं च नैव स्यादित्यत्राप्येवमेव तात्पर्यम्। यज्ञक्रिया नादृष्टफलहेतुः, क्रियात्वात्; निष्ठीवनादिक्रियावत्। धर्मो वा न सुखसाधनम्, अदृष्टत्वात्; अधर्मवदित्याद्यनुमानसम्भवात्।
अतिप्रसङ्गस्य विपर्यये पर्यवसानमाह तेनेति। यस्मादुपजीव्यत्वादिरहितेनानुमानेनाऽनन्दश्रुतेर्बाधाभ्युपगमेऽनिष्टप्रसङ्गः, तेन कारणेनैषा श्रुतिरत्रेश्वरस्याऽनन्दवत्त्व एव प्रमाणं भवेत्, न पुनरन्यथा योज्येति।
॥ ईश्वरस्याऽनुमानिकत्वनिरासात् श्रुतेरेव धर्मिग्राहकत्वेनोपजीव्यत्वात् तद्विरोधेनानुमानस्याप्रामाण्यम्॥
मा भूत् श्रुतिरप्रमाणम्, मा च भूदनुमानबाधयाऽर्थान्तरपरा, तथाऽप्यनुमानस्य बाधिका कुतः? प्रतिरोधिका तु भवेदित्यत आह ईशस्येति।
ईशस्यानुमयाऽसिद्धेः श्रुतिर्धर्मिप्रमा भवेत्।
तया सर्वगुणैः पूर्ण ईश उक्तो यतस्ततः॥१५६॥
अनानन्दानुमानस्य धर्मिग्राहिविरोधतः।
न प्रमाणं भवेत् तस्मान्नानुमाऽत्रोपयोगिनी॥।१५७॥
अनुमयेति श्रुतिव्यतिरिक्तप्रमाणोपलक्षणम्। धर्मिप्रमा धर्मिग्राहकं प्रमाणम्। अनुमानं हि प्रमाणान्तरेण सिद्धे धर्मिणि प्रवर्तते, नान्यथा। अत्र चेश्वरो धर्मी। नचासावनुमानेन सिद्ध्यतीति समर्थितं प्राक्। (२०२) प्रत्यक्षाद्यविषयत्वं तु परस्यापि सम्मतम्। ततः परिशेषात् श्रुतिरेव धर्मिणः परमेश्वरस्य ग्राहिकेत्येष्टव्यम्। तथाचानेनानुमानेन श्रुतिप्रामाण्यमनुमतम्। अन्यथा स्वस्यानुत्थानप्रसङ्गात्। सा चोपजीव्या श्रुतिरीश्वरमानन्दवन्तमाचष्टे। ततस्तद्विरोधादनुमानमप्रमाणमेव। अग्न्स्विरूपग्राहकप्रत्यक्षविरुद्धतच्छैत्यानुमानवदिति। नच वाच्यम्, “यः सर्वज्ञः” इत्यादिवाक्यमनुमानस्योपजीव्यं नाऽनन्दवादीति। सर्वस्यापि वेदस्यैकवाक्यत्वेनार्धजरतीयायोगात्। अन्यथाऽग्न्ग्रिाहकमेवोपजीव्यम्। नतु तदौष्ण्यग्राहकमित्यपि स्यात्।
अनेनैव न्यायेनेश्वरस्य विग्रहराहित्याद्यनुमानमपि सर्वं श्रुतिविरुद्धत्वादप्रमाणमेवेत्याशयवानुपसंहरति तस्मादिति। अत्र ईश्वरविषये। अत एव सर्वगुणैः पूर्ण इत्युक्तम्। अन्यथाऽऽनन्दवानित्यवक्ष्यत्॥*॥
॥ वैशेषिकमते ईश्वरेच्छापरमाण्वोर्नित्यत्वात् कालादेः प्रलये सत्त्वाभ्युपगमाच्च सर्वदा सृष्ट्यादिप्रसङ्गः॥
अनुपपत्त्यन्तरं वैशेषिकादिदर्शने दर्शयत् “नित्यमेव च भावात्” इति सूत्रं व्याख्याति नित्येच्छत्वादिति।
ॐ नित्यमेव च भावात् ॐ॥१४॥
नित्येच्छत्वात् परेशस्य परमाणुसदात्वतः।
अदृष्टकालयोश्चैव भावात् कार्यं सदा भवेत्॥१५८॥
वैशेषिकादयो हि कालविशेषे द्व्यणुकादिप्रक्रमेण महाभूतसृष्टिमभ्युपगच्छन्ति। तत् तदीयप्रक्रियापर्यालोचनायां नोपपद्यते। किन्तु तत्पक्षे कार्यं सदा भवेत्। यदाऽभिलष्यते ततः प्रागपि भवेत्। कुतः? कारणसामग्रीसम्पत्तिनिबन्धनो हि कार्योत्पत्तेः कालनियमः। तत्राऽदिसृष्टौ परमाणवः समवायिकारणभूतास्तावत् सदा विद्यन्ते। निमित्तकारणं चेश्वरेच्छा नित्यैव, तथा कालो दिक् च। यद्यप्यदृष्टं धर्माधर्मसमाख्यातं न नित्यम्, तथाऽपि प्रलयेऽस्तीत्यङ्गीक्रियत एव। वृत्तिलाभस्तदा नास्तीति चेत्, न। तस्यापीश्वरेच्छादिकारणकस्य तद्भावेऽभावानुपपत्तेः। अत एव परमाणुसंयोगस्य असमवायिकारणस्याभावान्न सदा महदादिसृष्टिरिति निरस्तम्। संयोगानुत्पादस्याप्यनुपपत्तेः। तदसमवायिकारणकर्माभावादिति चेत्, न। तदनुत्पादस्याप्ययोगात्। नचातोऽन्यद् द्व्यणुकादेः कारणमस्ति। यद्वैकल्यादभिलषितसमयात् प्राक् कार्याभावो भवेत्। सत्यां चाभिमतसामग्रयां कार्यानुदये पश्चादपि नोत्पद्येत। नियामकाभावादिति।
सदात्वं सदातनत्वम्। भावात् प्रलयेऽपीति शेषः। एवशब्दस्य सदैवेति सम्बन्धः। कार्यं भवेदिति चाभ्युपगम्योक्तम्। वस्तुतस्तु तत्पक्षे कदाऽपि द्व्यणुकाद्युत्पत्तिर्न सम्भवति। विनाशकारणस्येश्वरेच्छादेः सदातनत्वेन सत्प्रतिपक्षत्वात्। कार्योत्पत्तिसहकृतमेवेश्वरेच्छादिकं विनाशकारणमित्यङ्गीकारेऽप्युत्पत्त्यनन्तरमेव विनाशः प्रसज्येतेति। अत एव सृष्ट्यादीति वक्ष्यति।
॥ कालविशेषस्य सृष्ट्यादिसमयनियमव्यवस्थापकत्वे, कालस्यैकत्वाङ्गीकारादपसिद्धान्तः॥
स्यादेवं यदि कालमात्रं सृष्टेर्वा संहारस्य वा कारणं स्यात्। नचैवम्। किन्तु कालविशेष एव। अतस्तद्भावाभावाभ्यां सृष्टिसंहारनियमो घटते। तथा नेश्वरेच्छामात्रं सृष्ट्यादिहेतुः, किन्तु तद्विशेष एव। ततस्तद्भावाभावप्रयुक्ता सृष्ट्यादिव्यवस्था स्यादिति चेत्, न। किं कालदेशादेरौपाधिको भेदः, किंवा स्वाभाविकः? नाऽद्यः, निरस्तत्वात्। द्वितीये त्वपसिद्धान्त इत्याह नहीति।
नहि कालविभेदोऽस्ति तत्पक्षेऽस्मन्मते हरेः।
विशेषकाल एवैतत्सृष्ट्यादीच्छा सदातना॥१५९॥
हिशब्देन “आकाशकालदिशामेकैकत्वात्” इत्यादि तद्वाक्यं स्मारयति। कालेतीश्वरेच्छाया अप्युपलक्षणम्।
॥ सिद्धान्ते, काले स्वाभाविकभेदस्याङ्गीकारात् सृष्ट्यादिसमयनियमोपपत्तिः॥
नन्विदं दूषणं भवतामपि समानम्। तथाहि महदाद्युपादानकारणं प्रकृतिर्नित्यैव, तथा निमित्तकारणमीश्वरेच्छाकालादिकमपि। तदेव च प्रलयकारणम्। अतः सृष्टिप्रलयसमयनियमो भवतामपि दुर्घट इत्यत आह अस्मन्मत इति। यद्यप्यस्मन्मते हरेरिच्छा सदातना। प्रकृत्याद्युपलक्षणमेतत्। तथाऽपि विशेषकाल एवैतस्य महदादेः सृष्ट्यादि भवतीति योजना। अस्माभिः काले स्वभावत एव भेदोऽभ्युपगम्यते। तथाच कालविशेषस्यैव सृष्टिं संहारं च प्रति कारणत्वात् तद्भावाभावाभ्यां सत्स्वपीतरकारणेषु सृष्ट्यादिसमयनियमो युज्यत इति भावः।
॥ “विशेषकाले’ “सदातना’ इत्येतयोः सिद्धिप्रकारः॥
ननु कालविशेष इति वाच्यम्। मैवम्। विशिष्यत इति विशेषः, स चासौ कालश्चेति विग्रहग्रहणात्। ननु सदातनीति भवितव्यम्। मैवम्। नायं ट्युट्युलोरन्यतरः प्रत्ययः। किन्तु भवार्थे तनप्रत्ययोऽयम्। अथवा तनेति तनोते रूपमेतत्।
॥ कालविशेषाणां अनित्यत्वम्, प्रकृत्युपादनकत्वम्, ईश्वरेच्छया निरन्तरप्रवाहतया सृष्ट्यादिमत्त्वम्॥
ननु ते कालभेदा यदि नित्याः, तदा स प्रसङ्गस्तदवस्थः। व्यर्थश्च कालभेदाभ्युपगमः। अनित्यत्वे तत्कारणं वाच्यमिति चेत्, सत्यम्। उपादानं तु प्रकृतिरेव। निमित्तमाह विशेषाश्चेति।
विशेषाश्चैव कालस्य हरेरिच्छावशाः सदा।
न केवलं महदादि, किन्तु कालस्य विशेषाश्च क्षणलवादयः। एवशब्दस्य हरेरेवेति सम्बन्धः। सदेत्यनेन न युगपत् सर्वक्षणसृष्टिः, येन तेषामपि क्षणिकत्वं स्यात्। किन्तु निरन्तरप्रवाहतयेत्युक्तं भवति।
॥ कालविशेषाणां ईश्वराज्जनिमत्त्वे श्रुतिस्मृत्युदाहरणम्॥
ननु कालविशेषाणां परमेश्वराज्जन्म कुतः प्रमाणात् सिद्धमित्यत आह सर्व इति।
सर्वे निमेषा इति हि श्रुतिरेवाऽह सादरम्।
उदीरयति कालाख्यां शक्तिमित्यस्य वागपि॥१६०॥
“सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि” इति श्रुतिरेव कालविशेषाणामीश्वराज्जनिमाह हि इत्यर्थः। विशेषेण द्योतत इति विद्युत् तस्मात् परमपुरुषात् सर्वे निमेषाः कालभेदा अधिजज्ञिरे यथास्वं जायन्त इति।
नन्वेषा श्रुतिः कालोपाधीनामीश्वराज्जननमाह, नतु कालस्य। तथासति “काष्ठाकलामुहूर्ताश्च” इत्युत्तरवाक्यस्य पौनरुक्त्यप्रसङ्गात्। नहि सर्वनिमेषातिरिक्तं काष्ठाकलादिकमस्ति। उपाधयस्तु निमेषादिरूपाः पृथगेवेति न तत्र पुनरुक्तिदोष इत्यत उक्तम् सादरमिति। यत् सर्वनिमेषजन्माभिधाय पुनः काष्ठादिजन्माभिधत्ते तदादरार्थमित्यतो न पुनरुक्तिदोषः। उपाधिभेदस्तु नोपपद्यत इत्युक्तमेवेति। (७३८)
ननु निमेषादिशब्दा अक्षिपक्ष्मसंयोगादिवाचिनो न साक्षात् कालाभिधायिनः। अतो नेयं श्रुतिर्व्यक्तं कालस्यैवेश्वराज्जन्म प्रतिपादयितुमलमित्यतोऽत्र स्पष्टां स्मृतिं चाऽह उदीरयतीति। “सोऽन्तःशरीरेऽर्पितभूतसूक्ष्मः कालात्मिकां शक्तिमुदीरयाणः” इति, अस्य ईश्वरस्य वागपि कालस्येश्वरादुत्पत्तिमाहेत्यर्थः। कालात्मिकां कालाख्यां सहकारिशक्तिमुदीरयाणो जनयन्नित्यर्थः। अत्र कालशब्दादीश्वरस्य जगत्सृष्टौ शक्तित्वाभिधानाच्च नार्थान्तरकल्पनावकाशः।
॥ कालोत्पत्तौ काल एवाधिकरणम्॥
स्यादेतत्। कालस्तावत् सर्वोत्पत्तिमतां निमित्तम्। नच कालस्योत्पत्तौ कालान्तरमस्ति। तत् कथं तस्योत्पत्तिः? पूर्वकालः परकालस्य निमित्तमिति चेत्, न। इदानीं जातस्तदानीं जात इत्यधिकरणतया कालस्य कारणतावधारणात्। अधिकरणस्य कार्योत्पत्तिसमानकालीनताया गेहे जातो गोष्ठे जात इत्यादौ निश्चितत्वादित्यत आह कालस्येति।
कालस्य कालगत्वेन न विरोधोऽपि कश्चन।
कालस्योत्पत्त्यङ्गीकारे न केवलं साधकसद्भावः किन्तु कश्चन विरोधोऽपि नास्तीति योजना। एतच्च प्रपञ्चयिष्यते। (उत्तरश्लोके)
॥ ईश्वरेच्छाया अनन्तविशेषवत्त्वाङ्गीकारात् तद्व्यक्त्यव्यक्तिप्रयुक्तत्वेन सृष्ट्यादिसमयनियमोपपत्तिः॥
एवं स्वमते कालविशेषभावाभावप्रयुक्तः सृष्ट्यादेः समयनियम इति समर्थितम्। प्रकारान्तरेण तं समर्थयते असङ्ख्यातेति।
असङ्ख्यातविशेषत्वादिच्छाया अपि सर्वदा॥१६१॥
सर्वदा विद्यमानाया इति शेषः। सर्वदा विद्यमानाया अपीश्वरेच्छायाः शक्तिव्यक्तिरूपावस्थितसिसृक्षात्वाद्यसङ्ख्यातविशेषवत्त्वात्, तद्व्यक्त्यव्यक्तिप्रयुक्तः सृष्ट्यादेः समनियमो युज्यत इत्यर्थः। यद्यपि कालभेदमात्रेण कृतसमाधानमेतत्। कालविशेषे स्रक्ष्यामीत्येवंरूपत्वाद् भगवदिच्छाया न मोघत्वमापद्यते। तथाऽपि वस्तुस्थितिरियं दर्शिता वेदतव्या।
॥ एकस्यैव कालस्य अधिकरणत्वअधिकर्तव्यत्वप्रतिपादनपूर्वकं कालसृष्टिसमर्थनम्॥
कालस्य कालगत्वेनेत्युक्तम्, तत्र किं कालः स्वगतः, किं वा कालान्तरगतः? नाऽद्यः, स्वस्कन्धारोहणवद् विरुद्धत्वात्। न द्वितीयः, तदभावात्। भावे वा कालान्तरसृष्टिवैयर्थ्यात्। तस्याप्युत्पत्तौ कालान्तराङ्गीकारप्रसङ्गादित्यतः सप्रमाणकमुक्तं विवृणोति ईश इति।
ईशो देशश्च कालश्च स्वगता एव सर्वदा।
ईशाधीनौ च तौ नित्यं तदाधारौ च तद्गतौ॥१६२॥
इति श्रुतिरपि प्राह काले स्वोद्दिष्ट एव तु।
तत्कालसृष्टिमेवातो वाञ्छतीशः सदैव हि॥१६३॥
स्यात् कालः स तदैवेति कालस्य स्वगतत्वतः
देश इत्यव्याकृताकाशाभिधानम्। स्वगता इत्युक्त्या प्राप्तां देशकालयोः स्वातन्त्र्यशङ्कां वारयति ईशाधीनाविति। विशेषणत्रयेण सत्ताप्रतीतिप्रवृत्तीनां परेमेश्वरायत्तत्वमुच्यते। श्रुतिरपीति साक्षिणं समुच्चिनोति। यतः कालस्य स्वगतत्वं श्रुतिः प्राह, साक्षिणा च सिद्धम्, अतः कालस्य स्वगतत्वतः। स कालस्तदैव स्यादितीशः सदैव स्वोद्दिष्ट एव काले, तत्तत्कालसृष्टिमेव वाञ्छतीत्यन्वयः।
एतदुक्तं भवति कालातिरिक्तकार्याणामेव कालोऽधिकरणतया कारणम्, न कालस्य। केवलं “श्र्वो घटं स्रष्टाऽस्मि’ इतिवत् कालसृष्टिं वाञ्छतः परमेश्वरस्याधिकरणतयोद्धेश्यः कालः क इति प्रश्र्नोऽवशिष्यते। तत्र यः सृज्यः स एवेत्युक्तम्। नहि सृज्यस्य प्राक् सत्त्वमस्ति, येनोद्देश्यत्वं सत्त्वमपेक्षेत। अधिकरणाधिकर्तव्यता चैकस्यैव श्रुत्यादिसिद्धा, विशेषबलाच्चोपपद्यते। अतो न कालस्य उत्पत्तौ काचिदनुपपत्तिरिति।
॥ ईश्वरेच्छाया वैचित्र्याणां कालविशेषनिमित्तकत्वाभावात् नान्योन्याश्रयता॥
यदुक्तं यदेश्वरेच्छा सिसृक्षाकारा व्यज्यते, तदा महादादिसृष्टिर्भवति। यदातु सञ्जिहीर्षारूपा सम्पद्यते, तदा संहारो भवतीति। तत्रेदं वैचित्र्यं किन्निमित्तमिति वाच्यम्। नच कालविशेषो निमित्तमिति युक्तम्। तस्येश्वरेच्छायत्तत्वात्। नापि पुरुषार्थायत्तम्। पारतन्त्र्यापत्तेरित्यत आह स्वभावादेवेति।
स्वभावादेव हीच्छैषा देवस्यैष इति श्रुतेः॥१६४॥
एषा विचित्रा। तस्मात् कालविशेषाणामीश्वराधीनत्वे नेतरेतराश्रयदोषापत्तिरिति हिशब्दार्थः। कुत एतदित्यत आह देवस्येति। एतदवगम्यत इति शेषः।
॥ कार्यकारणानां स्वभावस्यापि ईश्वराधीनत्वस्योपपादितत्वात् न स्वभाववादोऽनुसरणीयः॥
अपर आह किमनया कालादिवैचित्र्यकल्पनया? यावता कारणानां कार्याणां च स्वभावादेव समयनियमोपपत्तेः। अन्ततोऽपि हि स्वभाववादोऽभ्युपगन्तव्यः। ततो वरमादावेव स्वभाववादाभ्युपगम इत्यत आह स्वभावोऽपीति।
स्वभावोऽपि परेशेच्छावश इत्युदितः पुरा।
नित्या अनित्याश्च ततस्तदधीना इति श्रुतिः॥१६५॥
पुरा “चेतनानां विशेषो यः” इत्यादौ। (३१९, ३६, ५७९, ६४६) स्वभाववादमभ्युपगच्छताऽपि तन्नियामकतयेश्वर अङ्गीकार्यः। ततस्तत्रैकत्रैव स्वभावानुसारेण प्रमाणायत्तेऽङ्गीकार्ये किमनेकत्र तदभ्युपगमेनेति भावः। न केवलं पूर्वोक्तमेव प्रमाणं स्मर्तव्यम्। किन्तु प्रमाणान्तरमप्यस्तीत्याह नित्या इति। तत इत्यस्य श्रुतावेव परामर्शविषयो द्रष्टव्यः। श्रुतिः सर्वस्येश्वराधीनतामाहेति शेषः॥*॥
॥ भौतिकरूपरसादिमत्त्वाच्च परमाणूनामनित्यत्वम्, रूपादिमत्त्वेऽपि नित्यत्वाङ्गीकारे घटादीनां नित्यत्वापत्तिः, अनित्यत्वे तु तेषां मूलकारणत्वायोगः॥
अनुपपत्त्यन्तरं वैशेषिकादिमते दर्शयत् “रूपादिमत्त्वाच्च विपर्ययो दर्शनात्”,”उभयथा च दोषात्” इति सूत्रद्वयं व्याचष्टे रूपेति।
ॐ रूपादिमत्त्वाच्च विपर्ययो दर्शनात् ॐ॥१५॥
ॐ उभयथा च दोषात् ॐ॥१६॥
रूपस्पर्शादिहेतुभ्यः परमाणोरनित्यता।
अनुमेया...........................।
परमाणोरिति जात्यपेक्षमेकवचनम्। पार्थिवादीनां चतुर्विधानां परमाणूनां नित्यतामुपयन्ति वैशेषिकादयः। तदनुपपन्नम्। पार्थिवाः पाथसीयास्तैजसाश्च परमाणवोऽनित्याः, रूपवत्त्वात्; पटवत्। यद्वा चतुर्विधा अप्यनित्याः, स्पर्शवत्त्वात्; पटवत्। एवं पार्थिवा आप्याश्चानित्याः, रसवत्त्वात्; पटवत्। पार्थिवा अनित्याः, गन्धवत्त्वात्; तद्वदेवेत्याद्यनुमानविरुद्धत्वात्।
नच सावयवत्वमुपाधिः। गुणादौ साध्याव्याप्तेः। नच द्रव्यत्वावच्छिन्ने साध्येऽस्योपाधित्वम्। यद् रूपादिमत् तत् सावयवमिति साधनव्यापकत्वात्। नच धर्मिग्राहकविरोधः। साक्षिणैव परमाणुसिद्धेरुक्तत्वात्। अनित्यत्वे च परमाणूनां न मूलकारणत्वसिद्धिः। यदिच रूपादिमन्तोऽपि परमाणवो नानित्याः, तदा घटादयोऽप्यनित्या न स्युः, अविशेषात्। तथाऽपि न परमाणूनां मूलकारणत्वम्। नचेश्वरे हेतूनां व्यभिचारः, भौतिकत्वेन विशेषणात्। तथाच वक्ष्यति “भौतिकं त्वेव रूपादि व्याप्तं नाशेन नो मते” इति। (८१९)
॥ सिद्धान्ते भूतसूक्ष्माणां नित्यत्वेऽपि न तानि परमाणवः॥
नन्वस्माभिर्भूतसूक्ष्माणां नित्यताऽङ्गीक्रियते। तत् कथमेवमनुमीयते? मैवम्। नहि परमाणवो भूतसूक्ष्माणि, किन्नाम। अहङ्कारोपचितानि। विकृताकाराश्च अनित्या एवेति॥*॥
॥ श्रुत्यादिपरिग्रहशून्यत्वात्, तद्विरुद्धत्वाच्च वैशेषिकमतस्य प्रेक्षावदनुपादेयत्वम्॥
“अपरिग्रहाच्चात्यन्तमनपेक्षा” इति सूत्रं व्याचष्टे श्रुतीनां चेति।
ॐ अपरिग्रहाच्चात्यन्तमनपेक्षा ॐ॥१७॥
......श्रुतीनां च विरुद्धत्वान्न तन्मतम्।
उपादेयमतश्चायमविरुद्धः समन्वयः॥१६६॥
सम्बन्धमात्रे षष्ठी। अन्यथा तृतीया स्यात्। श्रुतयश्च “आत्मन आकाशः” इत्याद्यास्तत्रतत्रोदाहृता ज्ञातव्याः। वैशेषिकादिमतस्यानुपादेयत्वे सिद्धे किं लब्धमित्यत आह अतश्चेति। अयं सकलगुणपूर्णपरब्रह्मविषयः। अविरुद्ध इति न वैशेषिकादिमतविरोधेनासमञ्जसो मन्तव्य इति भावः॥*॥ इति वैशेषिकाधिकरणम्॥६॥
अथ समुदायाधिकरणम्॥७॥
॥ बौद्धमतस्य चातुर्विध्यम्, वैभाषिकसौत्रान्तिकयोरादौ निराकरणे निमित्तं च॥
समुदाय उभयहेतुकेऽपि तदप्राप्तिः। अथेदानीं सौगतमतमपाक्रियते। ते च चतुर्विधाः वैभाषिकाः, सौत्रान्तिकाः, माध्यमिकाः, योगाचाराश्चेति। तत्र जगत् सत्यमेव परमाणुमयमाचक्षाणानां वैशेषिकादीनां निरसनप्रसङ्गादनतिभेदं वैभाषिकसौत्रान्तिकमतमादौ तावन्निराक्रियते।
॥ बौद्धानां परमाणुपुञ्जमतानुवादः, जगतः क्षणिकतास्वभावत्वम्॥
विप्रतिपत्तिं दर्शयंस्तन्मतमुपन्यस्यति वैभाषिकाश्चेति।
वैभाषिकाश्च सौत्रान्ताः स्वरसक्षणिकं जगत्।
आहुरिति वक्ष्यमाणेन सम्बन्धः। क्षणिकं क्षणमात्रावस्थायि। मुद्गराभिघातादीनां विनाशहेतूनां प्रतिक्षणमनुपलम्भात् कथं क्षणभङ्गित्वमित्यत उक्तम् स्वरसेति। स्वभावेनैव क्षणिकम्, स्वभाव एवायं वस्तुनो यद् विनाशित्वम्। तत्र का कारणापेक्षा? मुद्गरादयोऽपि न वस्तुविनाशहेतवः। किन्नाम। घटादितः कपालादेर्विसदृशकार्यस्योत्पत्तौ निमित्तभूता एवेति।
॥ अवयसमुदायातिरिक्तावयव्यभावः॥
ननुच कारणानां क्रियया संयोगे सति तत्समवेततया तत्परिणामतया वा कार्येणोत्पत्तव्यम्। तत्कार्येणाप्येवमिति कथं क्षणिकत्वं जगत इत्यत आह अणूनामिति।
अणूनां समुदायं च कालकर्मनिमित्ततः॥१६७॥
उत्पत्तिकाले युक्तानाम्................।
जगदाहुः। अणुसमुदाया एव गोघटादिबोधबोध्याः। नतु तदतिरिक्तोऽवयवी नामास्ति, येन क्षणिकता विरुद्ध्येत। अणुमात्रमिति वक्तव्ये समुदायग्रहणमेको महानिति प्रत्यक्षप्रत्ययविरोधपरिहारार्थम्। प्रत्येकमणूनामप्रत्यक्षत्वेऽनेकत्वेऽमहत्त्वेऽपि तत्समुदायस्य प्रत्यक्षत्वादि युज्यत इति भावः।
॥ जगत्सृष्टेः, पदार्थानां विचित्राकारत्वस्य च कालकर्मनिमित्तकत्वेनैवोपपत्तेः
ईश्वरादिकृत्याभावात् तदनभ्युपगमः॥
समुदायो हि मेलकेन केनचित् पुंसा भवति। नचास्मदादिस्तथेतीश्वरोऽभ्युपगन्तव्यः स्यात्। तथा अवयव्यनभ्युपगमे गोघटादिविलक्षणाकारता न स्यादित्यत आह कालेति। कालकर्मणी च ते निमित्ते च, ततः। उत्पत्तिकाले आदिसृष्टौ। अन्यदा तु निमित्तान्तरमस्तीति भावः। युक्तानां सन्निकृष्टतयोत्पन्नानामणूनां समुदायमिति सम्बन्धः।
कर्मादिवशादेव तथातथा सन्निकृष्टाः परमाणवो जायन्ते, यथायथा गोघटादिविचित्राकारावभाासः स्यात्। तत्र किमीश्वरेण? किं वाऽवयविना? सिद्धान्तिनाऽपि हि कर्मादिकं निमित्तमङ्गीकर्तव्यम्। संयोगश्चावयव्युत्पादानुगुणः। तावतैव सर्वमुपपद्यत इति।
॥ जीवस्यापि क्षणिकत्वम्॥
किमनात्मप्रपञ्च एव क्षणिको नेत्याह आत्मानमिति।
..................आत्मानं च क्षणस्थितम्।
नित्यं सन्तानमेतेषाम् .....................॥१६८॥
क्षणिकत्वहेतोः सत्त्वस्य सर्वत्र साम्यादिति भावः। क्षणिकत्वे प्रत्यभिज्ञाविरोध इत्यत आह नित्यमिति। एतेषाम्, अणूनाम्। सन्तानविषया प्रत्यभिज्ञेति भावः। नचैवं सत्त्वस्यानैकान्त्यम्। सन्तानस्य सत्त्वाभावात्।
॥ जगद्वृक्षस्य संस्काररूपविज्ञानसञ्ज्ञादुःखरूपपञ्चस्कन्धात्मकत्वम्॥
एवं सामान्यतो निरूप्य विभागमाह पञ्चेति।
................. पञ्चस्कन्धात्मना स्थितम्॥१६८॥
संस्काररूपविज्ञानसञ्ज्ञादुःखात्मना स्थितिः।
जगद्वृक्षं पञ्चस्कन्धात्मना स्थितमाहुः। पञ्चस्कन्धानाह संस्कारेति। स्थितिः स्कन्धानामिति शेषः। समनन्तरप्रत्ययः संस्कारस्कन्धः। रूपरसगन्धस्पर्शशब्दात्मकाः परमाणवो रूपस्कन्धः। निर्विकल्पकं ज्ञानं विज्ञानस्कन्धः। सविकल्पकं ज्ञानं सञ्ज्ञास्कन्धः। वेदनापरपर्यायं दुःखं चैकस्कन्धः। अत्र रूपस्कन्धो बाह्यः। अन्ये चत्वार आभ्यन्तरा इत्याहुरिति सम्बन्धः।
॥ सुखादिपदार्थस्थितुक्तिः, संसारमोक्षस्वरूपम्॥
सुखादीनां पदार्थान्तराणां विद्यमानत्वात् कथं पञ्चैव स्कन्धा इत्यत आह दुःखाभावमिति।
दुःखाभावं सुखं चाऽहुररूपज्ञासनसन्ततिम्॥१६९॥
मोक्षम्..................................।
चशब्देन केचित् सुखं वेदनास्कन्धेऽन्तर्भावयन्तीति सूचितं भवति। यद्वाऽनुक्तसमुच्चयार्थश्चशब्दः। यथा मूर्ताभावा एवाऽकाशम्, रूपादय एव पृथिव्याद्याः। सङ्ख्यादयस्तु गुणाः पृथगनुपलम्भान्न सन्त्येव। देशान्तरोत्पाद एव कर्मप्रत्ययालम्बनम्। क्षणिकस्य वास्तवकर्मायोगात्। सन्निकृष्टविप्रकृष्टतयोत्पाद एव संयोगादिव्यवहारगोचरः। अतद्व्यावृत्तिरेव गोत्वादिसामान्यबुद्धिबोध्येत्यादि।
अरूपेति। सन्तन्यमानं ज्ञानमेवाऽत्मा तस्य विषयोपप्लवः संसारः। अरूपा निर्विषया या ज्ञानसन्ततिः, तामेव मोक्षमाहुर्नान्यमित्यतो न पञ्चस्कन्धप्रक्रियाभङ्ग इति।
॥ समुदायस्य एकपरमाणुहेतुकत्वे व्याहतिः, असमुदितानेकपरमाणुहेतुकत्वे अतिप्रसङ्गः,
समुदितपरमाणुहेतुकत्वे अन्योन्याश्रयप्रसङ्गः॥
एवं वैभाषिकसौत्रान्तिकायोः साधारणं मतमुपन्यस्यावान्तरभेदं तु निराकरणप्रस्ताव एव विवक्षुः, यत् तावदुक्तं परमाणुसमुदाय एव गोघटादिप्रपञ्चो नत्ववयवी कश्चिदस्तीति, तन्निराकर्तुं “समुदाय उभयहेतुकेऽपि तदप्राप्तिः” इति सूत्रं व्याचष्टे स इति।
ॐ समुदाय उभयहेतुकेऽपि तदप्राप्तिः ॐ॥१८॥
......स समुदायो हि नैकस्मादेव युज्यते।
नोभयोश्र्चोभयत्वं यत् समुदायव्यपेक्षया।
अतोऽन्योन्याश्रयत्वेन समुदायो न युज्यते॥१७०॥
योऽयं गोघटादिबुद्धिविषयत्वेनाभ्युपगतः समुदायः स किमेकपरमाणुहेतुकः, किंवाऽनेकपरमाणुहेतुकः? नाऽद्यः, एकस्मात् परमाणोः समुदायोत्पादानुपपत्तेः। नह्येकैकस्मिंस्तरौ तरुसमुदायबुद्धिः कस्यापि विद्यते। समुदायकल्पनं वाऽनर्थकमापद्येत। महत्त्वैन्द्रियकत्वयोरसमर्थितत्वात्। अनेन अपिशब्दलब्धोऽर्थो दर्शितः। द्वितीयं निराकरोति नेति। उभयग्रहणमनेकमात्रोपलक्षणम्। सकाशादिति शेषः। चशब्देन समुदायो युज्यत इत्यनुकृष्यते।
कुतो न युज्यत इति चेत्, अनेकहेतुकत्वेऽपि किमसमुदितानेकहेतुकः, अथ समुदितानेकहेतुक इति वक्तव्यम्। आद्ये सर्वत्रापि गोघटादिबुद्धिप्रसक्तिः, असमुदितपरमाणूनां सर्वत्र भावात्, समुदायस्य च तन्मात्रहेतुकत्वात्, समुदायाङ्गीकारवैयर्थ्यप्रसङ्गश्च। द्वितीयानुपपत्तौ हेतुमाह उभयत्वमिति। यद् यस्मादुभयत्वं समुदितानेकत्वं समुदायसापेक्षम्। जाते हि समुदायेऽनेकेषां समुदितत्वं सम्भवति, तस्मान्नेति सम्बन्धः।
समुदितानेकत्वस्य समुदायसापेक्षत्वेऽपि कुतस्ततः समुदायोत्पादो न युज्यत इत्याशङ्कां परिहरत्सूत्रार्थमुपसंहरति अत इति। समुदायस्य समुदितानेकेषां चेतरेतरापेक्षोत्पत्तिकत्वेनेत्यर्थः। समुदायानुपपत्तौ चाणूनां महानेक इति प्रत्यक्षबुद्धिगोचरतायोगादवश्यमङ्गीकरणीयोऽवयवीति।
॥ समुदायस्य अनिरूप्यत्वम्॥
किञ्चायं समुदायः किं परमाणूनां संयोगः, किंवाऽनेकत्वसङ्ख्या, उत द्रव्यान्तरम्? नाऽद्यद्वितीयौ, अनङ्गीकारात्। अङ्गीकारेऽप्यतीन्द्रियाश्रितयोस्तयोरैन्द्रियकत्वानुपपत्तिः। तृतीये स एवावयवी। सांवृतोऽसाविति चेत्, तर्हि पुनर्महानित्यादिप्रमानुपपत्तिस्तदवस्थैव। भ्रान्तिरियमिति चेत्, न। भ्रान्तेरभ्रान्तिपूर्वकत्वेन क्वचिन्महत्त्वादेर्वास्तवत्वप्रसङ्गात्। अनादिवासनावशादनादिरेवेयं भ्रान्तिरिति चेत्, न। नीलादिज्ञानस्यापि तथात्वप्रसङ्गात्।
॥ अवयव्यङ्गीकारे परोक्तबाधकनिस्तारः॥
ननु विषममिदमुच्यते। अवयविनि बाधकसद्भावात्। तथाहि अवयवी किमवयवेषु प्रत्येकं कार्त्स्न्येन वर्तते, किंवैकदेशेन? आद्येऽनेकत्वप्रसङ्गः। न द्वितीयः, तस्यावयवान् विहायैकदेशाभावात्। भावे वा तत्रापि वृत्तिविकल्पप्रसङ्गात्।
किञ्च केषुचित् तन्तुषु चलत्सु तद्गतोऽवयवी चलति, नवा? नेति पक्षे युतसिद्धिप्रसङ्गः। आद्ये तु निश्चलावयवाश्रितो न चलतीति चलाचलत्वलक्षणो विरुद्धधर्माध्यासः। एवमावृतानावृतत्वरक्तारक्तत्वलक्षणावपि विरुद्धधर्माध्यासौ द्रष्टव्याविति।
उच्यते नास्माभिरवयवेभ्योऽत्यन्तभिन्नोऽवयवी गृह्यते। किन्तु तत्परिमाणमविशेष एव। तत्र कुतो वृत्तिविकल्पावकाशः? चलाचलत्वादिविरोधस्तु भेदाभेदविरोधवदपाक्रियत इति नावयविनि बाधकसद्भावः। नच वाच्यम्, समुदायो भवद्भिरङ्गीकृत एव, ततश्चात्राऽक्षेपसमाधानसाम्यमिति। यतोऽनेकेषामेककालदेशकार्याद्यवच्छेदेन मेलनं समुदायोऽभ्युपगम्यते। स चामिलितेभ्य एव भवतीति। स्थायितायां च तत्सम्भवो न क्षणभङ्गवाद इति वक्ष्यति। (७७२७७३)
॥ परेण, अनेकपरमाणुरूपस्य समुदायस्य नित्यत्वात् नान्योन्याश्रयता,
नित्यत्वेऽपि तत्प्रतीतिव्यवहारयोः परमाणुसामीप्यहेतुकापेक्षाबुद्ध्यधीनत्वेन कादाचित्कत्वम्, सृष्ट्यादिनियमश्र्चोपपद्यत इति प्रतिपादनम्॥
उक्तमर्थमाक्षिप्य समादधत् सूत्रम् “इतरेतरप्रत्ययत्वादिति चेन्नोत्पत्तिमात्रनिमित्तत्वात्” इति। तत्राऽक्षेपांशं तावद् व्याचष्टे अन्योन्येति।
ॐ इतरेतरप्रत्ययत्वादिति चेन्नोत्पत्तिमात्रनिमित्तत्वात् ॐ॥१९॥
अन्योन्यापेक्षया पुंसः समुदायत्ववेदनम्।
स्यात् तत्सदातनत्वेऽपि तच्च सामीप्यहेतुकम्॥१७१॥
इति चेत्................................।
भवेदिदमन्योन्याश्रयत्वं यद्ययं समुदायः कादाचित्कः स्यात्। नचैवम्। सदातनं त्विममभ्युपगच्छामः। एवन्तर्हि सृष्टिप्रलयव्यवस्था न स्यादिति चेत्, न। यतस्तस्य समुदायस्य सदातनत्वेऽपि पुंसः समुदायत्ववेदनं स्यात्। कदाचिदिति शेषः। ततस्तदपेक्षया सृष्ट्यादिव्यवस्थोपपद्यत इति भावः। समुदायस्य सदातनत्वे तद्वेदनमपि कुतः कादाचित्कमित्यत उक्तम् तच्चेति। तत्समुदायत्ववेदनं परमाणुसामीप्यहेतुकम्। नच सामीप्यं सदाऽस्तीति वेदनस्य कादाचित्कत्वमिति। समुदायत्ववेदनस्य सामीप्यहेतुकता कुत इत्यत आह अन्योन्येति। अन्योन्यपरमाणुज्ञानापेक्षया हि तद् भवति। नचान्योन्यज्ञानं सामीप्येन विना भवतीति।
ननु वेदनमेव पुमानिति सौगता मन्यन्ते, तत् कथं पुंसो वेदनमिति? उच्यते ज्ञानं हि द्विविधं भवति, प्रवृत्तिज्ञानम्, आलयज्ञानं चेति। तत्राऽलयज्ञानं प्रवृत्तिज्ञानदुःखसंस्कारास्पदं पुमानित्युच्यते। प्रवृत्तिज्ञानं तु समुदायत्ववेदनमिति न विरोधः।
एतदुक्तं भवति अनेके परमाणव एव समुदायः। तदनेकत्वं च समुदायत्वम्। तन्मिलितेष्विव विरलेष्वपि विद्यते। किन्तु न सदा समुदायत्ववदेनं भवति। इतरपरमाणुसहितेतरपरमाणुज्ञाने सति हि समुदायत्वज्ञानं भवति। अपेक्षाबुद्धेरनेकत्वव्यञ्जकत्वात्। नचेतरेतरप्रत्ययो विरलेषु परमाणुषु सम्भवति। नहि मथुरापाटिलपुत्रस्थितयोर्वृक्षयोरितरेतरप्रत्ययो दृष्टः।
किञ्चाधिपतिसहकार्यालम्बनसमनन्तरप्रत्ययाश्चत्वारो हि ज्ञानहेतवः। अधिपतिरिन्द्रियम्। नच विरलानां परमाणूनामिन्द्रियालम्बनताऽस्ति। नापि तेष्विन्द्रियाणामाधिपत्यम्। अतोऽदृष्टादिसहकारिवशादिन्द्रियानालम्बनविरलपरमाणुभ्यस्तदालम्बनतया तथातथा सन्निकृष्टाः परमाणवो जायन्ते। अनधिपतीन्द्रियेभ्यश्चाधिपतीन्द्रियाणि। अथेदानीं समनन्तरप्रत्ययबलादेको महानिति ज्ञानमुपत्पद्यते। तेन नान्योन्याश्रयत्वम्। नापि सृष्ट्याद्यनुपपत्तिरिति।
एतेन पक्षान्तरमपि सूचितम्। विरलपरमाणुभ्यः सन्निकृष्टाः परमाणवो जायन्ते। तदेव तेषां समुदायत्वम्। अतो न कश्चिद् दोष इति।
॥ कारणस्य स्वसदृशकार्यजनकत्वपक्षे अप्रत्यक्षविरलपरमाण्वादिभ्यः
प्रत्यक्षसमुदायोत्पत्त्यसम्भवः, परमाण्वादीनां वा प्रत्यक्षत्वाद्यभ्युपगमप्रसङ्गः॥
समाधानांशं व्याचष्टे कार्येति।
....कार्यसम्भूतिमात्रव्यापृति कारणम्।
नतु कार्यविशेषेषु व्यापृतं कारणं भवेत्॥१७२॥
अतोऽर्थेन्द्रियसंयोगिरूपकारणतात्मनः।
संयोगिरूपराहित्यान्नैव तज्ज्ञानताऽपि हि॥१७३॥
कार्यसम्भूतिमात्रे व्यापृतिर्यस्य तत् तथोक्तम्, कारणं कार्यसम्भूतिमात्रव्यावृति यतः, ततो नेति शेषः। यथाश्रुतमेतन्न परिहारक्षमम्। अतोऽभिप्रायमाह नत्विति। विशिष्यन्त इति विशेषाः। कार्याण्येव विशेषाः कार्यविशेषाः। कारणमिति जातावेकवचनम्। कारणानि खलु स्वसदृशकार्यजननव्यापाराणि। नतु विसदृशकार्यजनने व्यापृतानीत्यर्थः।
किमतो यद्येवमित्यत आह अत इति। सदृशकार्यजनकत्वनियमादित्यर्थः। संयोगिरूपे ग्राह्यग्राहकरूपे येऽर्थेन्द्रिये तयोः कार्ययोः कारणता संयोगिरूपकारणता। अर्थेन्द्रिययोः संयोगिरूपकारणता सा नैवोपपद्यते। कुतः? संयोगिरूपराहित्यात्। कारणयोरर्थेन्द्रिययोर्ग्राह्यग्राहकरूपराहित्यात्। आत्मनोऽपि कार्यस्य तत्समुदायविषयं ज्ञानं यस्यासौ तज्ज्ञानः, तस्य भावस्तज्ज्ञानता, नैवोपपद्यते। कुतः? हि यस्मात् कारणस्याऽत्मनो नैव तज्ज्ञानताऽस्तीति योजना।
इदमुक्तं भवति कारणं हि सदृशकार्यजननस्वभावं वा स्यात्, विसदृशकार्यजननस्वभावं वा, उभयस्वभावं वा, अनुभयजननस्वभावं वा। तत्र यद्याद्यः कल्पोऽङ्गीक्रियते, तदेन्द्रियानालम्बनेभ्यो विरलपरमाणुभ्यः, तथाभूता एव परमाणवो जायेरन्। न पुनः कदाचिदिन्द्रियालम्बनभूता मिलिताः। इन्द्रियेभ्यश्चार्थानधिपतिभ्यस्तथाविधान्येवेन्द्रियाण्युत्पद्येरन्। न जात्वर्थाधिपतीन्द्रियाणि। आत्मनश्चासमुदायज्ञानात् तादृश एवाऽत्मा जायेत। न कदाचित् तज्ज्ञानवान्। अन्यथा कारणपरमाण्वादीनामपीन्द्रियालम्बनत्वादिकमभ्युपगन्तव्यं स्यात्। इतरथा सदृशकार्यजननस्वभावभङ्गापत्तेः। उभयथा समुदायवेदनस्य कादाचित्कत्वं नोपपद्यत इति।
॥ कारणस्य विसदृशकार्यजनकत्वपक्षे घटाद् गजस्य गजाद् गर्दभादेरुत्पत्तिप्रसङ्गेन
आ प्रध्वंसं घटाकारानुवृत्त्यनुपपत्तिः॥
द्वितीयमाशङ्कते विशेषेति।
विशेषकार्यजनकं यदि कारणमिष्यते।
कुतः समानरूपत्वं कार्याणामपि सर्वशः॥१७४॥
तथाचेन्द्रियानालम्बनविरलपरमाण्वादिभ्यस्तदालम्बनमिलितपरमाण्वादिजनिरुपपद्यत इति भावः। निराकरोति कुत इति। तर्हीति शेषः। सर्वशोऽपि कार्याणामिति सम्बन्धः। अत्र कार्यग्रहणं परमतानुसारेण। कारणस्य विसदृशकार्यजननस्वभावतायामाकपालभावात् सर्वेष्वपि घटक्षणेषु घटाकारता न स्यात्। किन्तु घटक्षणाद् गजक्षणः ततो गर्दभक्षण उत्पद्येत, तथा नीलक्षणात् पीतक्षणः ततः कपोतक्षणो जायेत। नीलानुवृत्तिस्तु न स्यादिति।
॥ कारणस्य सदृशविसदृशोभयकार्यजनत्वे कार्यकारणभावानुपपत्तिप्रसङ्गः॥
अस्तु तर्ह्युभयस्वभावं कारणमिति तृतीयः पक्ष इति चेत्, न। विरोधेनैकस्याप्यजननप्रसङ्गात्। अविरोधे त्वाह अत इति।
अतोऽनियत्या यत्किञ्चिद् यस्यकस्यापि कारणम्।
प्रकृतपक्षद्वयं समाहृत्यात इति परामृशति। अनियत्या घटो घटस्यैव नीलो नीलस्यैवेति नियतिं विना। यत्किञ्चिद् घटादिकं नीलादिकं वा। यस्यकस्यापि घटादेरघटादेः, नीलादेरनीलादेश्च। कारणं स्यात्। घटक्षणस्योभयविधकार्यजननस्वभावत्वेऽसौ तदुभयं जनयेत्। तथाचोपलभ्येतेति यावत्।
केचिदिदं वाक्यं पूर्ववाक्यशेषतया व्याचक्षते। सर्वशोऽपि कार्याणां समानरूपत्वं न स्यात्। किन्तु विसदृशकार्यजननस्वभावत्वाद् घटादिकं गजादेः कारणं स्यादिति।
॥ कारणस्य उभयाजनकत्वे कार्योत्पत्त्यसम्भवेन कारणस्यार्थक्रियाकारित्वाभावादसत्त्वप्रसङ्गः॥
न चतुर्थः, अर्थक्रियारहितस्यासत्त्वप्राप्तेः। अर्थक्रियाकारित्वं सत्त्वमिति हि सौगताः।
॥ कारणस्य कार्यजननमात्रस्वभावत्वे कार्यकारणभावानुपपत्तिः॥
ननुच कार्यजननमात्रं वस्तुनः स्वभाव इत्यङ्गीकुर्मः, नतूक्तेषु कमपि पक्षमित्यत आह अत इति। बुद्धिस्थमिमं कल्पमत इति परामृशति। अतिप्रसङ्गस्तु न तिरोहितः।
॥ कारणस्य सदृशकार्यजनकत्वे, उभयकार्यजनकत्वे, कार्यमात्रजनकत्वे वा
अदृष्टादिसहकारिवशाद् विसदृशकार्योत्पत्तिरिति परेणोपपादनम्॥
स्यादेतत्। यथा भवन्मते प्रमाजननस्वभावत्वेऽपीन्द्रियादेर्दोषसहकारिवशादप्रमाजननम्, तथा कारणस्य सदृशकार्यजनकत्वेऽप्यदृष्टादिसहकारिसामर्थ्यात् कदाचिद् विसदृशकार्यजननं भविष्यति।
यद्वा यथा साङ्ख्यानामिन्द्रियादीनि प्रमाप्रमाजननस्वभावानि, तत्राप्रमाप्रतिपक्षाणां गुणानामुपनिपाते प्रमामेवोपजनयन्ति, प्रमाप्रतिपक्षाणां दोषाणामुपनिपाते त्वप्रमाम्, तथा कारणस्योभयस्वभावत्वेऽप्यदृष्टादिवशात् तदन्यतरजन्मोपपत्स्यते।
अथवा यथा नैयायिकादीनामिन्द्रियादीनि ज्ञानमात्रजननस्वभावानि, गुणादिसहकार्युपनिपातेन प्रमाद्युत्पत्तिः, तथा कारणं कार्यजननस्वभावमेव। अदृष्टादिसहकारिसमवधानात् तु तत्सदृशं विसदृशं वा जनयिष्यतीत्यत आह अदृष्टमपीति।
॥ अदृष्टादेः क्षणिकत्वेन पूर्वपूर्वादृष्टानि उत्तरोत्तरादृष्टेषु विसदृशकार्यजनकत्वअन्यतरप्रतिबन्धकत्वउभयजनकत्वरूपविशेषत्रयस्य अनापादका आपदका वेति विकल्प्य प्रथमपक्षदूषणम्॥
अदृष्टमपि तस्यैव विशेषापादकं कुतः॥१७५॥
अत्रादृष्टग्रहणमुपलक्षणं सहकारिमात्रस्य। अदृष्टमपि विशेषस्य, आद्ये विसदृशकार्यजनकत्वस्य, द्वितीयेऽन्यतरप्रतिबन्धस्य, तृतीये तूभयजनकत्वस्याऽपादकं कुत इत्येकं वाक्यम्। तथाहि पूर्वपूर्वतराद्यदृष्टक्षणा विशेषानापादकाः, तदापादका वा? आद्ये त्वस्यादृष्टक्षणस्य विशेषापादकत्वं न सिद्ध्यति। कारणाभावात्। विशेषानापादकादृष्टक्षणजन्योऽप्ययमदृष्टक्षणः सहकारिवशाद् विशेषमापादयिष्यतीति चेत्, न। तत्सहकारिण्यप्यस्य साम्यात्। तत्रापि सहकार्यन्तरानुसरणे गौरवमिति।
॥ अदृष्टादेः विवक्षितकारणस्यैव उक्तरूपविशेषापादकत्वं वा,
कारणमात्रस्य तदापादकत्वं वेति विकल्प्य प्रथमपक्षदूषणम्॥
तस्यैव कारणस्य विशेषापादकं कुत इत्यपरं वाक्यम्। तथाहि विशेषापादकमप्यदृष्टं किं विवक्षितस्यैव कारणस्य विशेषमापादयति, कारणमात्रस्य वा? नाऽद्यः, नियामकयोः कारणज्ञापकयोरभावादिति। येभ्य इन्द्रियानालम्बनविरलपरमाणुभ्यस्तदालम्बनमिलितपरमाणूत्पत्तिराशास्यते, यतश्चार्थानधिपतेरिन्द्रियादर्थाधिपतीन्द्रियस्य, यस्माच्च समुदायज्ञानरहितादात्मनः तद्वदात्मोत्पादः, तदिदं तस्यैवेत्युच्यते।
॥ पूर्वादृष्टानां उत्तरादृष्टेषु विशेषापादकत्वे पूर्वपूर्वतरादृष्टपरमाणुभ्य एव समुदायोत्पत्तिप्रसङ्गात्
समुदायप्रतीत्यादेः कादाचित्कत्वभङ्गप्रसङ्गः॥
उभयत्रापि द्वितीयौ कल्पौ दूषयति यस्येति।
यस्यकस्यापि यत्किञ्चिद् विशेषमुपपादयेत्।
अत्रापि यत्किञ्चिददृष्टं विशेषमुपपादयेदित्येकं वाक्यम्। यदि पूर्वपूर्वतराद्यदृष्टस्याप्यस्ति विशेषापादकत्वम्, तर्हि तदपि पूर्वपूर्वतरादिपरमाण्वादौ विशेषमापादयेदेव। समर्थस्य क्षेपानभ्युपगमात्। तथाच समुदायप्रतीतेः समयनियमो न स्यादिति।
॥ अदृष्टादेः कारणमात्रस्य विशेषापादकत्वे युगपत् सर्वसमुदायोत्पत्तिप्रसङ्गेन
एकसमुदायप्रतीतिदशायां सर्वसमुदायप्रतीतिप्रसङ्गः॥
यस्यकस्यापि विशेषमुपपादयेदिति द्वितीयम्। यदि कारणमात्रस्य विशेषापादकमदृष्टमङ्गीक्रियते, तदा सर्वेषामपि कारणानां विशेषमुपपादयेत्। तथाच घटपरमाणुमेलने सर्वेषामपि मेलनं स्यात्। नतु कुत्राप्यभिलषितपरमाण्ववस्थानं भवेत्। नच युगपत् सर्वसमुदायो दृश्यत इति।
॥ पदार्थस्थैर्यवादेऽपि उक्तानुपपत्तिमाशय, कार्यकारणभावव्यवस्थापकसद्भावात्
स्थिरत्वपक्षे नानुपपत्तिः, क्षणिकत्वपक्षे तदभावादनुपपत्तिरिति प्रतिपादनम्॥
अथ मतम् सर्वमिदं स्वव्याहतम्। तथाहि तन्तवो यदि सदृशकार्यजननस्वभावाः, तदा तन्त्वन्तरमेव जनयेयुर्नतु पटम्। यदिच विसदृशकार्यजननस्वभावाः, तदा न तेभ्यः पार्थिवपटस्योत्पत्तिः स्यात्। किन्तु पाथसीयं किमपि जायेत। उभयस्वभावत्वं तु विरुद्धम्। अनुभयस्वभावत्वे पटस्याप्यनुत्पत्तिः। सहकारिवशाद् व्यवस्थाङ्गीकारे सहकारिष्वपीदं समानम्।
अथोच्येत अस्ति तावत् तन्तुपटयोः कार्यकारणभावः। प्रमितस्यापह्नवानर्हत्वात्। स च यथायथोपपद्यते, तथातथा कल्पयिष्यत इति। सममेतन्ममापीत्यत आह कार्यं चेति।
कार्यं च कारणं चैव यत्किञ्चिद् यस्यकस्यचित्॥१७६॥
भवेन्नियामकाभावात्......................।
नित्यविनाशित्व इत्येतद् वक्ष्यमाणमत्रापि सम्बद्ध्यते। यत्किञ्चिन्नीलादिकं यस्यकस्यचिदेव पीतादेः कार्यं स्यात्, यत्किञ्चित् पीतादिकं यस्यकस्यचिदेव नीलादेः कारणं स्यात्। कुतः? नीलं नीलस्यैव कार्यं स्यात्, न पीतस्य। नीलमेव नीलस्य कारणम्, न पीतमिति नियामकाभावादिति योजना। चशब्दौ मिथः समुच्चये।
एतदुक्तं भवति सम्भवति स्थिरवादे परिहारोऽयम्। यद् यत्र समवेतम्, यद् येनाऽकारेण परिणतं वा, तत् तस्य कारणं कार्यं चेति नियामकसद्भावेन कार्यकारणभावावधारणे सति तदुपपादककल्पनोपपत्तेः। क्षणभङ्गनये तु पूर्वोत्तरक्षणयोर्निरन्वयविनाशोत्पादयोः कार्यकारणभावावधारणोपाय एव नास्ति। समवायपरिणामयोरभावात्। तथाच कस्य बलादुपपादकं कल्पयिष्यत इति।
॥ परोक्तकार्यकारणभावव्यवस्थापकदूषणम्॥
समवायपरिणामयोरभावेऽपि यद् यदपेक्षया पूर्वभावि तदेव तस्य कारणम्। यच्च यदपेक्षया पश्चाद्भावि तदेव तस्य कार्यमित्यवधारणोपपत्तेर्नियामकाभावोऽसिद्ध इत्यतः कार्यनियमं तावन्निराकरोति इदमस्यैवेति।
.................. इदमस्यैव कारणम्।
इति नित्यविनाशित्वे केन मानेन गम्यते।
इदं न जायतेऽमुष्मादित्यात्रापि न कारणम्॥१७७॥
इदं नीलमस्य नीलस्यैव कारणम्, नतु पीतस्येत्येवं नीलस्य नीलकार्यत्वम्, नित्यविनाशित्वे निरन्वयविनाशोत्पादपक्षे, केन मानेन गम्यते? न केनापि। पश्चाद्भावमात्रस्य नीलस्येव पीतस्याऽपि सत्त्वादिति भावः। सादेश्यं सारूप्यं वा नियामकमिति चेत्, न। विरलपरमाणुभ्यो मिलितानां मिलितेम्यश्च विरलानामुत्पत्त्यङ्गीकारात्।
कारणनियममप्यकारोति इदं नेति। इदं नीलममुष्मात् पीतान्न जायते, किन्तु नीलादेवेत्यत्र नीलस्य कारणत्वावधारणेऽपि कारणं प्रमाणं नास्ति। नीलस्येव पीतस्यापि नीलापेक्षया पूर्वभावितायाः सत्त्वादिति भावः।
॥ स्थिरवादे आत्मनः स्थायित्वाभ्युपगमेन कार्यकारणभावावधारणोपपत्तिः॥
ननु यथा भवतां समवायपरिणामयोरभावेऽपि कुविन्दपटयोः कार्यकारणभावावधारणम्, तथा ममापि भविष्यतीत्यत आह इदमस्येति। नित्यविनाशित्व आत्मन इति शेषः। युज्यतेऽस्माकं निमित्तकारणकार्ययोस्तद्भावावधारणमन्यत्रानुपक्षीणान्वयव्यतिरेकाभ्याम्। नतु परस्य। अस्माभिरन्वयव्वतिरेकानुसन्धातुरात्मनः स्थायित्वाभ्युपगमात्। परेण च क्षणिकतास्वीकारात्। नहि तथाविधोऽन्वयव्यतिरेकयोरन्यत्रानुपक्षयस्य चावधृतेरीष्ट इति भावः। योजना तु पूर्ववदेव।
॥ क्षणिकत्वस्य प्रत्यक्षत्वनिरासः॥
एवं समुदायं निराकृत्य सर्वस्य क्षणिकतामधुना प्रमाणाभावेन तद्विरोधेनचापाकर्तुमुत्तरो ग्रन्थः। तथाहि न केवलं समुदायो नोपपद्यते। किन्नाम। सर्वस्य क्षणिकता च। तत्र प्रमाणाभावात्।
ननु प्रत्यक्षं क्षणिकतामर्थानामवगमयति। तद्धि वर्तमानमात्रगोचरमर्थस्य वर्तमानक्षणमात्रसम्बन्धिनीं सत्तामवगाहते। न पूर्वोत्तरक्षणसम्बन्धिनीमपि। तत् कथं क्षणिकत्वमर्थानामप्रामाणिकमिति। उच्यते किमिदं क्षणिकत्वं नाम? किं क्षणसम्बन्धिसत्त्वम्, किंवा क्षणमात्र एवोत्पत्तिनाशवत्त्वम्, यद्वा क्षणान्तरासम्बन्धित्वे सत्येकक्षणसम्बन्धित्वम्? आद्यस्त्विष्ट एव। स्थायिनोऽप्यर्थस्यैकक्षणसत्तास्वीकारात्। द्वितीयतृतीयौ दूषयति विनाशेति।
विनाशोत्पत्तयश्चैव न दृश्यन्ते सदातनाः।
अनेकपदार्थसम्बन्धित्वेन बहुवचनम्। चशब्दस्तृतीयपक्षसमुच्चयार्थः। एवशब्दस्य नैवेति सम्बन्धः। सदातनाः प्रतिक्षणभाविन्यः। प्रत्यक्षं खल्वर्थानां वर्तमानकालसत्तामवगाहते, न पुनः क्षणमात्रभाविनावुत्पत्तिविनाशावपि। नापि क्षणान्तरासम्बन्धित्वम्। तथाच कथं तेन क्षणिकता सिद्ध्येदिति।
ननुच प्रत्यक्षं पूर्वोत्तरक्षणवर्तित्वमप्यर्थस्य गृह्णाति, नवा? नाऽद्यः, वर्तमानमात्रग्राहित्वात्। द्वितीये तु प्रत्यक्षानुपलम्भेन पूर्वोत्तरक्षणयोरसत्त्वसिद्धेः क्षणिकतैव सिद्धेति चेत्, द्वितीयं तावदुररीकुर्मः। नचैवं क्षणिकतासिद्धिः। योग्यानुपलम्भस्यैवासत्त्वगमकत्वात्। नच पूर्वोत्तरकालवर्तिता प्रत्यक्षयोग्या। वर्तमानमात्रग्राहितायाः परेणैवोक्तत्वात्।
॥ पदार्थस्थायित्वे प्रत्यभिज्ञालक्षणप्रत्यक्षं प्रमाणम्॥
अस्तु वाऽऽद्यः पक्षः। कस्यचित् प्रत्यक्षस्य वर्तमानमात्रग्राहित्वेऽपि तदेवेदमिति प्रत्यभिज्ञानलक्षणस्य तदभावादित्याशयेनाऽह दृश्यत इति।
ॐ अनुस्मृतेश्च ॐ॥२५॥
दृश्यते प्रत्यभिज्ञातः स्थिरत्वं सर्ववस्तुषु॥१७८॥
विषयीक्रियत इत्यर्थः। तृतीयार्थे तसिः। एकस्यैवानेकक्षणसम्बन्धित्वं स्थिरत्वम्। एतेन न केवलं प्रत्यक्षं क्षणिकतां न गोचरयति। किन्तु स्थायित्वमपि गोचरयतीति वदता परपक्षे प्रमाणविरोधः स्वपक्षे प्रमाणसद्भावश्र्चोदितो भवति। अनेन “अनुस्मृतेश्च” इति सूत्रं कृतव्याख्यानं वेदितव्यम्।
॥ एकपरमाणुनाशे द्व्यणुकनाशादिक्रमेण घटनाशस्यावश्यम्भावित्वात्
तत्स्थैर्यग्राहिप्रत्यभिज्ञाया भ्रान्तित्वमिति बौद्धेन प्रतिपादनम्॥
सर्ववस्तुष्वित्यनेन सौगतानां प्रत्यभिज्ञानिराकरणं वैशेषिकादिमतमेव स्पृशति, नत्वस्मन्मतमिति सूचयति। तथाहि किमनया प्रत्यभिज्ञया नित्यत्वेनाभ्युपगतेषु परमाण्वादिषु स्थिरत्वं साध्यते, किंवा घटादिषु? नाऽद्यः, तेषामतीन्द्रियत्वेन प्रत्यभिज्ञानप्रत्यक्षगोचरत्वस्याभ्युपगन्तुमशक्यत्वात्। न द्वितीयः, घटादिषु परेणापि प्रत्यभिज्ञाया भ्रान्तित्वस्य स्वीकार्यत्वात्। यदाहि घटादौ सूच्यग्रादिनैकोऽपि परमाणुरपैति तदा नष्टव्यमेव तदारब्धेन द्व्यणुकेन। विभागेनासमवायिकारणस्य संयोगस्य नष्टत्वात्। द्व्यणुकनाशे समवायिकारणनाशात् त्र्यणुकनाश इत्यनेन क्रमेण घटनाशोऽप्यवश्यम्भावी। नच परमाणुः प्रत्यक्षो येन तदपगमानपगमौ प्रत्यक्षेण शक्यनिश्चयौ। नच वाच्यम्, निबिडावयवेषु स्फटिकादिषु प्रत्यभिज्ञया स्थिरत्वं सेत्स्यतीति। तत्रापि परमाण्वपगमाभावस्य प्रत्यक्षेण निश्चेतुमशक्यत्वात्। निबिडावयवत्वं च न विभागायोग्यावयवत्वम्। विभागस्य प्रत्यक्षसिद्धत्वात्। किन्तु घटादितोऽप्युत्कृष्टकारणापेक्षत्वम्। नच तद्विशेषाभावः शक्योऽस्माभिरवगन्तुम्। दृश्यते हि कालतः स्फटिकादावपि गुरुत्वापकर्षः। नचावयवानपगमे स सम्भवतीति। नापि गुणादौ स्थायित्वं प्रत्यभिज्ञया सिद्ध्यति। तस्यापि कस्यचिदतीन्द्रियत्वात्। कस्यचिद् घटादितुल्यत्वात्। सामान्यादिकं तु स्वरूपतो नास्त्येव। सत्त्वेऽपि रूपादिसमानमेवेति शङ्कितप्रामाण्यं प्रत्यभिज्ञानं न कुत्रापि स्थैर्यसिद्धौ प्रमाणयितुं युक्तमिति।
॥ परमाण्वारम्भवादे इदं दूषणम्,
परिणामवादे तु पदार्थानां विकारित्वाङ्गीकारेण प्रत्यभिज्ञा यथार्थैव॥
अत्रोच्यते स्यादयं दोषः परमाण्वारम्भवादिनाम्। न परिणामवादिनामस्माकम्। तदेव हि वस्त्ववयवोपचयापचयाभ्यामन्यथा विक्रियते, न पुनरन्यदेव भवतीति हि परिणामवादिनो मन्यन्ते। अतः प्रत्यक्षयोग्येषु सर्ववस्तुषु प्रत्यभिज्ञया स्थिरत्वग्रहणं युक्तमेवेति।
॥ सिद्धान्ते विशिष्टयोर्भेदाभेदस्याप्यङ्गीकारात् तदत्यन्ताभेदग्राहिप्रत्यभिज्ञायाः
भ्रान्तित्वमाशय परिहारकथनम्॥
ननु भवन्मतेऽपि प्रत्यभिज्ञा भ्रान्तिरेव। परिणामवादे पूर्वोत्तरवस्तुनोर्भेदाभेदाङ्गीकारात्। तदेवेदमिति च प्रत्यभिज्ञयाऽत्यन्ताभेदस्यावगाहनात्। उच्यते यदातु पूर्वोत्तरकालभाविनोरभेदः प्रत्यभिज्ञाविषयोऽङ्गीक्रियते, तदा सावधारणस्य प्रत्यभिज्ञानस्य भ्रमत्वेऽपि तदिदमिति तु न भ्रमः। तेनैव च स्थायित्वसिद्धिः। यदातु कालादिद्वयसम्बन्धो विषयः, तदा सावधारणमपि न भ्रम इति।
नन्विदं प्रत्यभिज्ञानं परिलूनपुनर्जातकुन्तलकलापादाविव भ्रान्तं किं न स्यादिति चेत्, न। बाधकाभावात्। एवमेव भ्रान्तित्वाभ्युपगमे नीलादिप्रत्ययानामपि तथात्वापत्तेः। नच प्रत्यक्षं बाधकमित्युक्तम्।
॥ सत्त्वहेतुना पदार्थानां क्षणिकत्वसाधने आकाशादेरपि क्षणिकत्वप्रसङ्गेन
न तदनुमानं प्रत्यभिज्ञाबाधकम्॥
प्रत्यक्षस्याबाधकत्वेऽप्यनुमानं बाधकं भविष्यतीति शङ्कते फलादीनामिति।
फलादीनां विशेषेण सर्वत्राप्यनुमीयते।
सत्त्वेन क्षणिकत्वं चेदाकाशस्याविशेषतः।
अविशेषोऽखिलस्यापि सत्त्वात् किं नानुमीयते॥१७९॥
आदिपदेन देहदीपादिग्रहणम्। विशेषेण परिमाणभेदेन, क्षणिकत्वं तावदनुमीयत इति सम्बन्धः। ततस्तद्दृष्टान्तेन सर्वत्र फलादिव्यतिरिक्तेऽपि वस्तुनि सत्त्वेन हेतुना क्षणिकत्वमनुमीयते।
एतदुक्तं भवति यत् सत् तत् क्षणिकम्, यथा फलादि, सन्तश्च पञ्चस्कन्धा इत्यनुमानं स्थिरत्वविषयप्रत्यभिज्ञाया बाधकं भविष्यति। नच फलादिदृष्टान्तः साध्यविकलः। यद् विरुद्धपरिमाणं तन्नाना दृष्टम्, यथा घटपटौ, विरुद्धपरिमाणं च फलादिकं पूर्वोत्तरक्षणयोरित्यनुमानेन फलादीनां क्षणिकतासिद्धेरिति।
परिहरति आकाशस्येति। अविशेषतः पूर्वोत्तरक्षणयोर्भेदरहितत्वतः, अविशेषः पूर्वोत्तरक्षणयोर्भेदराहित्यम्। अखिलस्यापि विप्रतिपन्नस्य।
इदमुक्तं भवति यत् सत् तदक्षणिकम्, यथाऽऽकाशम्। सच्च नीलादीति प्रत्यनुमानप्रतिरुद्धत्वेन अनुमानस्याऽभासत्वान्न प्रत्यभिज्ञाबाधकत्वं सम्भवतीति। नचाऽकाशदृष्टान्तः साध्यविकलः, “आकाशो द्वौ निरोधौ च नित्यं त्रयमसंस्कृतम्” इति परेणैवाङ्गीकृतत्वात्। क्षणिकतासाधकस्य परिमाणभेदादेराकाशेऽभावाच्च। तदिदमप्युक्तम् अविशेषतः परिमाणभेदादिरहितत्वत इति।
॥ सत्त्वानुमानस्याऽभासत्वाच्च न प्रत्यभिज्ञाबाधकत्वम्॥
यद्वाऽऽकाशस्याविशेषतः परिमाणभेदरहितत्वतः। तद्दृष्टान्तेनाखिलस्यापि फलादेरविशेषः पूर्वोत्तरकालयोः परिमाणभेदाभावः सत्त्वात् किं नानुमीयत इति योजना।
एतदुक्तं भवति नानुमानं प्रत्यभिज्ञाया बाधकं भवितुमर्हति। अनुमानस्य प्रत्यक्षतो दुर्बलत्वेन तद्बाध्यत्वात्। अन्यथा फलादिकं परिमाणभेदरहितम्, सत्त्वात्; आकाशवदित्यप्यनुमानप्रसङ्गात्। नह्यत्र प्रत्यक्षादिबाधं विना कश्चिद् दोषोऽस्ति। तथाच तद्दृष्टान्ते क्षणिकत्वसाधकस्यासिद्धत्वात् साध्यविकलता स्यात्। ततः प्रत्यक्षविरोधेनैवास्यानुमानस्याप्रामाण्यम्। अन्यथाऽन्योन्याश्रयप्रसङ्ग इत्येव वक्तव्यम्। तच्च समं प्रकृतेऽपीति।
एतेन “आकाशे चाविशेषात्” इति सूत्रं व्याख्यातं भवति। तदनेन क्षणिकत्वसाधकानुमानस्य सत्प्रतिपक्षत्वं बाधितविषयत्वं च वदताऽऽकाशेऽनैकान्त्यमपि सूचितम्। भवदनुमानस्यापि फलादिनाऽनैकान्त्यमिति चेत्, न। तत्रापि क्षणिकताभावस्य वक्ष्यमाणत्वादिति।
॥ आकाशस्याभावरूपत्वादसत्त्वाङ्गीकारे देहादीनामप्यसत्त्वप्रसङ्गः॥
भवेदिदं यद्याकाशस्य सत्त्वं स्यात्। नचैतदस्ति। मूर्ताभावत्वादाकाशस्य। भावत्वं हि सत्त्वमत्र विवक्षितम्। सस्वरूपत्वेऽपि वा सत्त्वे, अभावो निःस्वरूप इत्यङ्गीकृतमित्याशयाऽह यदीति।
यद्याकाशस्य सत्त्वं न कुत एव नरादिषु।
यद्याकाशस्य सत्त्वं नास्तीत्यङ्गीकृत्य प्रत्यनुमानेऽतिप्रसङ्गानुमाने च दृष्टान्तस्य साधनवैकल्यं स्वानुमानस्यानैकान्तिकत्वाभावश्र्चोच्यते, तदा देहादिषु सत्त्वं कुत एव सिद्धमिति ब्रूमः। तथाच परकीयस्यापि दृष्टान्तस्य साधनवैकल्यं स्यात्। यदिच विधिमुखप्रत्ययवेद्यत्वाद् देहादीनां भावत्वं प्रमाविषयत्वात् सत्त्वं चोच्यते, तदाकाशेऽपि समानमिति।
॥ अभावस्य धर्मिप्रतियोगिसाहित्यनियमः॥
प्रमाणान्तरेणाऽकाशस्याभावत्वं वारयितुमुपोद्धातमाह सधर्मीति।
सधर्मिप्रतियोगित्वमभावस्य नियामकम्॥१८०॥
तौ विना नह्यभावश्च क्वचिद् दृष्टः कदाचन।
यत्राभावः स धर्मी। यस्याभावः स प्रतियोगी। तदुभयवत्त्वमभावस्य नियामकं व्यापकम्। योऽभावः सर्वोऽपि धर्मिप्रतियोगिसहित एव। यथा घटाद्यभावः। स हि भूतलदिधर्मिणा घटादिप्रतियोगिना चोपेत एवेति।
नन्विदमनुपपन्नम्। अभावस्य हि धर्मिप्रतियोगिसाहित्यनियमः किं देशतः स्यात्, किंवा कालतः? आद्ये धर्मिणा सादेश्यं तावन्नास्ति। भूतलस्य स्वाश्रये, अभावस्य तु भूतले वृत्तेः। प्रतियोगिना तु विरुद्धमेव। द्वितीयस्तु यद्यपि धर्मिणा कथञ्चित् स्यात्। तथाऽपि प्रतियोगिना नास्त्येव। प्रागभावप्रध्वंसाभावयोः प्रतियोगिभिन्नकालत्वनियमादित्याशङ्कां परिहरन्नभावस्य धर्मिप्रतियोगिसाहित्यव्याप्तत्वमुपपादयति तौ विनेति। अत्र दृष्ट इति प्रकरणात् तौ विनेति तज्ज्ञानं विनेत्यर्थः। चशब्दोऽभावो दृश्यमानो धर्मिप्रतियोगिप्रतीतावेव दृश्यत इत्यन्वयसमुच्चयार्थः। हिशब्देनान्वयव्यतिरेकयोः प्रसिद्धत्वं सूचयति। तदनेनान्वयव्यतिरेकाभ्यामभावप्रतीतेर्धर्मिप्रतियोगिप्रतीतिपूर्वकतया व्याप्तिरुपपादिता भवति।
यद्वा तावित्यनेन न ज्ञानमुपलक्षणीयम्। अभावः प्रतीयमानो धर्मिप्रतियोगिघटित एव, “अत्रेदं नास्ति’ इत्यादिरूपेण प्रतीयते। नतु तौ विना केवल इत्यन्वयव्यतिरेकाभ्यामेकज्ञानसम्बन्धेन व्याप्यव्यापकभावोपपादनमेतदित्यवगन्तव्यम्। प्रातर्गजाद्यभावज्ञानं त्वन्यथोपपादयिष्यामः। (९५४)
॥ आकाशस्याभावत्वोक्तिप्रत्याख्यानम्॥
किमतो यद्येवमभावस्य धर्मिप्रतियोगिसाहित्यं प्रतीतौ व्यापकमित्यत आह अधर्मीति।
अधर्मिप्रतियोगित्वमाकाशस्यावगम्यते॥१८१॥
प्रतीतावभावस्य व्यापकं सधर्मिप्रतियोगित्वमाकाशात् तावद् व्यावर्तते। यस्मादाकाश इत्येवावगम्यते नत्वत्रेदं नास्तीति। इयमपि च वस्तुतो मूर्ताभावगोचरैव प्रतीतिः प्रलयादिवन्नञ्वर्जिताभिलापसम्बन्धादतादृशीव प्रकाशत इति चेत्, न। नीलादिप्रतीतेरपि तथात्वप्रसङ्गात्। अनानुभाविकत्वस्योभयत्रापि साम्यात्। तथाच परस्याप्यसिद्ध्याद्यापातः। व्यापकनिवृत्त्या च व्याप्यनिवृत्तिरवश्यम्भाविनीत्याकाशस्य नाभावत्वमिति। तदयं प्रयोगः आकाशो नाभावः, धर्मिप्रतियोगिनौ विनैव प्रतीयमानत्वात्; रूपवदिति। किञ्च मूर्ताभावमाकाशं वदता यो धर्मी तस्योच्यते, स एवास्माकमाकाश इति नाम्येव विवादोऽवशिष्यते। वक्ष्यते चैतद् वियदधिकरण इति। (८५९)
॥ सूत्रद्वयार्थोपसंहारः॥
सूत्रद्वयार्थमुपसंहरति स्वीकारेति।
स्वीकारत्यागतोऽदृष्टदृष्टयोः सर्ववस्तुषु।
गुणानुन्मत्त एवासौ विदधात्यधिकं पुनः॥१८२॥
अदृष्टस्य क्षणिकत्वादेः स्वीकारतः, दृष्टस्य स्थिरत्वादेस्त्यागतः। असौ सौगतः। अधिकं स्वत इति शेषः। उन्मत्तमपि स्वस्मादधिकविवेकवन्तं ख्यापयतीत्यर्थः। नह्युन्मत्तः सर्वत्राप्रमितं स्वीकरोति नापि प्रमितं त्यजतीति।
॥ पदार्थाानां क्षणिकत्वाभावे अर्थक्रियाकारित्वरूपसत्त्वाभावप्रसङ्गेन
तदभ्युपगमनीयमिति परेणोपपादनम्॥
ननुच यदि नीलादिकं क्षणिकं न स्यात्, तदा सन्न स्यात्। अर्थक्रियाकारित्वं हि सत्त्वम्। व्याप्तं च क्रमयौगपद्याभ्याम्। तृतीयप्रकाराभावात्। नच स्थिरे तत्सम्भवः प्रसङ्गतद्विपर्ययाभ्याम्। तथाहि स्थायीभावः किं स्वकीयामर्थक्रियां क्रमेण कुर्यात्, युगपद् वा? आद्ये कालान्तरभाविनीमर्थक्रियां प्रतीदानीं समर्थः, नवा? प्रथमे तामपीदानीमेव कुर्यात्। समर्थस्य क्षेपायोगात्। द्वितीये तदाऽपि न कुर्यात्। इदानीमसमर्थोऽपि तदानीं समर्थत्वात् करिष्यतीति चेत्, तदा सामर्थ्यासामर्थ्यलक्षणविरुद्धधर्माध्यासो भावं भिन्द्यात्। द्वितीये त्वाद्यक्षण एव कर्तव्यस्य सर्वस्य कृतत्वात् द्वितीयादिक्षणेऽसत्त्वमवर्जनीयमेव। तदेवमनुकूलतर्कबललब्धप्रतिबन्धस्य क्षणिकत्वानुमानस्य बलवत्त्वात् प्रत्यभिज्ञाप्रत्यनुमाने तद्बाधिते न स्थैर्यसाधनायालमिति।
॥ आत्मानात्मनोः क्षणिकत्वे अनुमानप्रक्रियासम्भवेन अनुमित्यभावप्रसङ्गः॥
मैवम्। एषां तर्काणां प्रतितर्कपराहतत्वादिनाऽऽभासत्वात्। तथाहि यद्यात्मानात्मप्रपञ्चः सर्वोऽपि क्षणिकः स्यात्, तदा प्रमाप्रमारूपः सकलोऽप्यनुमानागमप्रत्यभिज्ञालक्षणो व्यवहारो लुप्येत। तर्कस्याप्यस्य नोत्थानं स्यात्। तस्य तज्जातीयस्य वा तेन तज्जातीयेन वा सह भूयः सम्बन्धावगमे तादात्म्यतदुत्पत्त्यवधारणेन वा उपाध्यभावाद्यवधारणेन वा व्यभिचाराभावनिश्चये सति व्याप्त्यवधारणम्। अवधृतव्याप्तेश्च पक्षदर्शनं लिङ्गदशनं च। ततोऽनुभूतव्याप्तिस्मरणम्। अथ यन्मया व्याप्तत्वेन ज्ञातं लिङ्गं तदत्र पक्षेऽस्तीत्यनुसन्धानम्। अथेदानीमनुमितिरित्यनुमानप्रक्रिया। नह्येतत् सर्वं क्षणिकस्याऽत्मनः सम्भवति। येन हि सकृद् धूमो दृष्टो नष्ट एवासौ। कस्य भूयोदर्शनम्? कस्य च व्याप्त्यवधारणादि? यस्मिंश्च पर्वते धूमो दृष्टो नष्ट एवासौ। कुत्र पुनर्व्याप्तिलिङ्गानुसन्धानम्? कुत्र च साध्याध्यवसायः?
॥ आत्मनः क्षणिकत्वे वाक्यार्थज्ञानप्रत्यभिज्ञयोरनुत्पत्तिप्रसङ्गः
अनुमानप्रक्रियानिरासेनैव तर्कप्रक्रियाया अपि निरासात् तदनुपपत्तिश्च॥
एवमागमेऽप्येकैकवर्णश्रवणानि, पदानुसन्धानम्, समयग्रहः, पुनः पदश्रवणम्, समयस्मरणम्, वाक्यार्थज्ञानमित्यनेकानुसन्धानं नाऽत्मनः क्षणिकतायामुपपद्यते। प्रत्यभिज्ञानमपि येन पूर्वावस्थोऽर्थो ज्ञातः, तेनैव तस्य वा तत्सदृशस्य वा दर्शने भवति। तत् कथं क्षणिकस्याऽत्मनः स्यात्? अनुमानेन तर्कोऽपि व्याख्यातः।
॥ आत्मानात्मप्रपञ्चस्य प्रतिक्षणं भिन्नत्वेऽपि अनुमित्याद्यङ्गीकारे बहुविप्लवः स्यात्॥
प्रतिक्षणमात्मनोऽनात्मनश्च भेदेऽप्यनुमानाद्यङ्गीकारेऽतिप्रसङ्गः स्यात्। यस्यकस्यचिद् व्याप्तिज्ञाने नारिकेलद्वीपवासिनोऽप्यग्न्प्रिमा स्यात्। पर्वते लिङ्गदशनेन ह्रदेऽप्यग्न्रिनुमीयेतेत्यादि। पूर्वोत्तरक्षणवर्तिनामात्मनां पर्वतादीनां च कार्यकारणभावादुपपन्नोऽनुमानादिव्यवहार इति चेत्, न। अन्यत्वस्य अनपायात्। अन्यथोपाध्यायशिष्यबुद्ध्यादावपि प्रसङ्गात्।
॥ कार्यक्षणोत्पत्तौ कारणक्षणानां विनष्टत्वात् कारणानां कार्येषु संस्काराधानासम्भवेन
कार्यकारणभावनवधारणात् अनुमानादिव्यवहारविलोपप्रसङ्गस्तदवस्थः॥
अथ मतम् कारणक्षणाः कार्यक्षणेषु संस्कारानर्पयन्ति। अतः पूर्वपूर्वात्मसंस्कारयोगिनामुत्तरोत्तरेषामात्मनामनुमानादिव्यवाहरो युज्यते। पर्वतादयोऽपि पूर्वपूर्वसंस्कारभाजः पक्षादित्वमश्नुवते इति। एतन्निराकरणाय सूत्रम् “उत्तरोत्पादे च पूर्वनिरोधात्” इति। तद् व्याचष्टे उत्तरेति।
ॐ उत्तरोत्पादे च पूर्वनिरोधात् ॐ॥२०॥
उत्तरोत्पत्तिमात्रेण विनाशात् पूर्ववस्तुनः।
न संस्कारार्पकत्वं च युज्यते कस्यचित् क्वचित्।
अतो ज्ञातं मयेत्यादि न ज्ञेयमनुमा कुतः॥१८३॥
कस्यचित् कारणस्य, क्वचित् कार्ये। ततः किमित्यत आह अत इति। आत्मनः क्षणिकत्वात्, संस्कारार्पणस्य चासम्भवादित्यर्थः। यन्मया व्याप्तत्वेन ज्ञातम्, तदत्र विद्यत इत्यादि यथा भवति, तथा न ज्ञेयं ज्ञातुमशक्यम्। ततश्चानुमा कुतः? आगमादेरप्युपलक्षणमेतत्।
॥ अनुमानादिव्यवहारस्य अन्यथैवोपपत्तेः, न तदन्यथानुपपत्त्या
कारणस्य कार्याद् भिन्नकालीनत्वेऽपि संस्कारार्पकत्वं कल्पनीयम् ॥
नन्वस्ति तावदनुमानादिव्यवहारः, सर्वलोकसिद्धस्यापह्नवायोगात्। तद्बलेनालौकिकमप्यसहभाविनः संस्कारार्पकत्वं कल्पयिष्यत इत्यत आह एकत्वमिति।
एकत्वमनुभूतिस्थं त्यक्त्वा निर्मानिका भिदा।
कुत आत्मादिकेषु स्याद् बल्येवानुभवो यतः॥१८४॥
किमनुमानादिव्यवहारान्यथानुपपत्तिमात्रेणालौकिकं कल्पनीयम्, किंवाऽऽत्मादेः क्षणिकत्वेऽपि सति? नाऽद्यः, आत्मादेः स्थायित्वेनैव तदुपपत्तेः। द्वितीयस्तु स्यात्, यद्यात्मादेः क्षणिकत्वं सिद्धं स्यात्। नच तदस्ति। प्रमाणबाधितत्वान्निष्प्रमाणकत्वाच्चेति भावः। एकत्वं भिदेत्यत्र पूर्वोत्तरकालयोरिति शेषः। अनुभूतिस्थं प्रत्यभिज्ञासिद्धम्। कुतोऽङ्गीकार्येत्यध्याहारात् समानकर्तृतासिद्धिः।
ननुच प्रत्यभिज्ञानं भ्रान्तमित्युक्तम्। तत् कथमात्मादेरैक्यं ततः सिद्ध्येदित्यत आह बल्येवेति। तर्कबलेनानुमाने निरवकाशतया प्रबले सति हि तद्विरोधात् प्रत्यभिज्ञानं भ्रान्तं स्यात्। यदा तु तर्कस्य उक्तविधयाऽऽभासत्वम्, तदा कुतः क्षणिकत्वानुमानप्राबल्यम्? कुतश्च प्रत्यभिज्ञायास्तद्बाधः? अबाधितश्च प्रत्यभिज्ञानुभवो यतो बल्येव। अत आत्मादेरेकत्वं तेन सिद्धमिति सम्बन्धः। एतेनानुमानसिद्धस्य भेदस्य कथं निर्मानकत्वमित्यपि परास्तम्। तदुपजीव्यस्य तर्कस्याद्याप्यनवस्थानात्।
॥ तैलादिसम्बद्धानामेव कुसुमादीनां संस्काराधायकत्वदर्शनात्, एककालीनयोरेव सम्बद्धत्वसम्भवात्, भिन्नकालीनत्वात् कार्यासम्बद्धस्य कारणस्य संस्काराधायकत्वासम्भवः॥
नन्वस्तूत्तरोत्पाद एव पूर्वस्य निरोधः, तथाऽपि कुतः पूर्वस्योत्तरस्मिन् संस्कारानाधायकत्वमित्यत आह कार्यकारणयोश्चेति।
कार्यकारणयोश्चैककालीनत्वं विना कथम्।
पूर्वसंस्कारयोगी स्यादुत्तरो नियमेन च॥१८५॥
सम्बद्धा एव संस्कारमन्यत्राऽदधतेऽखिलाः।
असम्बद्धः कथं पूर्व उत्तरे वासनाकरः॥१८६॥
उत्तरोत्पाद एव पूर्वस्य निरोधात् कार्यकारणयोरेककालीनत्वं तावन्नास्तीति लभ्यते। एककालीनत्वं च विना पूर्वाहितसंस्कारयोगित्वमुत्तरस्य न युज्यते। नियमेन चेत्यनेन क्वचिदपि न युज्यते, कुतः सर्वत्रेति सूचयति। यद्वैककालीनत्व एव संस्कारार्पकत्वं दृष्टम्, न भिन्नकालत्व इति व्याप्तेरित्यर्थः।
नन्वेककालीनत्वाभावेऽपि कुतः संस्कारार्पकत्वं न स्यादित्यत आह सम्बद्धा एवेति। यस्मात् अखिलाः संस्काराधायकाश्चम्पककुसुमादयः पदार्थास्तैलादिभिः सम्बद्धा एव अन्यत्र तैलादौ संस्कारमादधते, नासम्बद्धा इत्यस्ति नियमः, नच भिन्नाकालीनयोः सम्बन्धो युज्यते, तस्मादुत्तरेणासम्बद्धः पूर्वः, तस्मिन्नुत्तरे वासनां न कुर्यादिति।
॥ उक्तार्थपिण्डीकरणम्॥
उक्तमर्थं बुद्ध्यारोहार्थं सङ्कलय्याऽह एककालतयेति।
एककालतया योगं विना संस्कारतः कथम्।
अत्रैककालतया विना कार्यकारणयोर्योगो न युज्यते। योगं विना कारणस्य कार्ये संस्कारार्पकत्वं च न घटते, संस्कारतो विना कथमनुमानादिव्यवहार इत्यध्याहारेण योजना। यदिदं सङ्कलनं न क्रियेत, तदा पूर्वोक्तानां प्रत्येकं संस्कारानाधयकत्वे हेतुत्वं ज्ञायेत। सर्वत्र साध्यनिर्देशात् तत्र को दोषः? उक्ताकाङ्क्षाकुण्ठितत्वमेवेति।
अत्रैते प्रयोगाः पूर्वक्षण उत्तरक्षणे संस्काराधायको न भवति, तेनासम्बद्धत्वात्; यो येनासम्बद्धो नासौ तत्र संस्काराधायकः, यथा सम्प्रतिपन्नः। यद्वा यो यत्र संस्काराधायकः स तत्सम्बद्ध एव दृष्टः, यथा सम्मतः। असम्बद्धस्यापि संस्काराधायकत्वे मृगमदो वसनमिव सर्वं वासयेत्, अविशेषात्। असम्बद्धश्च पूर्व उत्तरेण, ततो भिन्नकालीनत्वात्; सम्प्रतिपन्नवत्। भिन्नकालीनयोरपि सम्बन्धेऽतिप्रसङ्गः। भिन्नकालीनश्च पूर्व उत्तरेण, तदुत्पाद एव विनष्टत्वात्; सम्मतवत्। प्रागेव नष्टस्य तेनैककालीनत्वशङ्का एव व्याहतेति। ननु लाक्षारसाहितबीजपूरकुसुमलौहित्यवत् किं न स्यादिति चेत्, न। तत्रापि निरन्वयविनाशोत्पादानभ्युपगमात्। अत्र च परसिद्धन्यायेन परस्य बोधनान्नाऽश्रयासिद्ध्यादि शङ्कनीयमिति।
॥ कारणस्य कार्यात् पूर्वभावित्वनियमात् कार्यक्षणे कारणसत्त्वाङ्गीकारे क्षणिकत्वभङ्गः
क्षणिकत्वे कार्योत्पत्तौ कारणविनाशावश्यम्भावात् सुस्थः तयोः सम्बन्धाभावः॥
भवेदेतद् यदि कारणस्य कार्योत्पाद एव विनाशः स्यात्। स एव कुतः सिद्ध इत्यत आह क्षणमात्रमिति।
क्षणमात्रमवस्थानं स्वीकृतं सर्ववस्तुषु॥१८७॥
कार्यकारणयोस्तावदुत्तरपूर्वत्वमावश्यकम्। यौगपद्ये कार्यकारणभावव्याघातात्। ततः पूर्वक्षणवर्ति कारणं यदि कार्यक्षणेऽपि स्यात्, तदा सर्ववस्तूनामङ्गीकृतं क्षणमात्रमवस्थानं भज्येत। अतः क्षणिकत्वाभ्युपगम एवोत्तरोत्पादे च पूर्वनिरोधं गमयतीति।
॥ बौद्धैः क्षणे विभागानङ्गीकाराच्च कार्यकारणयोः सम्बन्धानुपपत्तिः॥
स्यादेतत्। कारणं क्षणस्य पूर्वविभागे लब्धसत्ताकं मध्यविभागे कार्यमुत्पाद्यापरविभागे तत्र संस्कारमाधाय नश्यतीत्याङ्गीकारे न कोऽपि दोष इत्यत आह पूर्वेति।
पूर्वमध्यापरकलाविकलः क्षण इष्यते।
अत्र विभागमात्रं कलोच्यते। पूर्वापरयोरभावे तन्निरूप्यमध्याभावः सिद्धः। इष्यते सौगतेः।
॥ असति कारणे कार्योत्पत्त्यङ्गीकारे तत् तस्य कार्यमिति प्रतिज्ञाभङ्गः
सति कारणे कार्योत्पत्त्यङ्गीकारे सर्वकार्याणां यौगपद्यप्रसङ्गः इति सूत्रार्थः॥
एवं तर्कस्य प्रतितर्कपराहतिमभिधायेदानीं यथा स्थायिनः सत्त्वानुपपत्तिः, एवं क्षणिकस्यापि तदनुपपत्तेरननुकूलता नाम तर्कदोष इति प्रतिपादयितुं सूत्रम् “असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा” इति। तद् व्याचक्षाणस्तावद् विकल्पेन तत् पृच्छति पूर्वेति।
ॐ असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा ॐ॥२१॥
पूर्वभावभवं कार्यमुत तन्नाशसम्भवम्॥१८८॥
यौगपद्यं सति भवेदुत्पाद्यानामशेषतः।
विनाशे चेन्न तत् कार्यं कार्योत्पत्तौ च का प्रमा॥१८९॥
॥ कार्यस्य कारणसत्तासमानकालीनत्वे युगपत् सर्वकार्योत्पत्तिप्रसङ्गः॥
अर्थक्रियाकारित्वं हि सत्त्वं परस्याभिमतम्। तच्च वक्ष्यमाणविकल्पद्वयव्याप्तम्। तृतीयप्रकारानिरूपणात्। नच तत् क्षणिके सम्भवति। तथाहि क्षणिकाद् भावाद् भवत् कार्यं किं पूर्वस्य कारणस्य भावे भवति, कारणसत्तासमानकालीनसत्तमिति यावत्। उत तस्य कारणस्य नाशे सति सम्भवतीति। आद्ये दोषमाह यौगपद्यमिति। सति कारणे। कार्यं भवति चेत्, तर्हीति शेषः। क्षणिकं हि कारणम्, कार्यं च तत्सत्तासमानकालीनसत्तं चेत् कार्यकारणयोः सहोत्पाद इत्युक्तं स्यात्। क्षणे विभागाभावस्योक्तत्वात्। तत्तत्कार्याणामप्ययमेव न्याय इति तत्सन्तानभाविनामशेषकार्याणां यौगपद्यं स्यात्। तच्च प्रत्यक्षादिविरुद्धमिति। अत्र यद्यपि युगपद् भवतोः कार्यकारणभावानुपपत्तिरपि दूषणम्। तथाऽपि तच्छिष्यैरेव ज्ञातुं शक्यत इति, “उभयथा च दोषात्” इति सूत्रे कथितमिति चात्र नोक्तम्।
॥ कारणस्य विनाशानन्तरं कार्योत्पत्त्यङ्गीकारे कार्यकारणभावानुपपत्तिः॥
द्वितीयं निराकरोति विनाशे चेदिति। कारणस्य कार्यं भवेत्, तर्हीति शेषः। तत् तस्य कार्यं न भवतीत्यापन्नम्। अन्यथा सर्वस्य सर्वं कार्यं स्यात्। नह्यानन्तर्यमात्रेण कार्यकारणभावः। तथात्वे विनाशकार्यत्वप्रसङ्गात्। आनन्तर्यस्यान्यापेक्षयाऽपि सत्त्वात्। सादेश्यादेरपाकृतत्वात्। एवमन्यस्यापि कार्यं न भवतीति न कार्यं स्यादकारणं वा। उभयथाऽपि पूर्वस्यार्थक्रियाविरहादसत्त्वप्राप्तिरिति।
सूत्रकृता सौगताभ्युपगतं पक्षं प्रधानीकृत्य दूषणमुक्तम्। भाष्यकृता त्वभावस्य भावसापेक्षत्वात् तेन क्रमेण। अतोऽर्थविरोधाभावः।
॥ प्रतिक्षणं कार्योत्पत्तौ प्रमाणाभावः॥
नन्वस्ति तावत् प्रतिक्षणं कार्योत्पत्तिः। नच कार्यं कारणेन विनोत्पत्तुमलम्। तथासति नित्यं सत्त्वमसत्त्वं चेत्यापत्तेः। अतः कार्योत्पत्तिरेवान्यतरपक्षदोषमाभासयिष्यति। पक्षान्तरं वा ग्राहयिष्यतीत्यत आह कार्योत्पत्तौ चेति। स्यादेतद् यदि प्रतिक्षणं कार्योत्पत्तिः प्रमाणवती स्यात्। नचैतदस्ति। नच स्वाङ्गीकारमात्रेणार्थान्तराक्षेपसामर्थ्यम्, अतिप्रसङ्गादिति।
नन्वस्ति यत् सत् तत् क्षणिकम्, यथा देहादि। सच्च विवादपदमिति प्रतिक्षणं कार्योत्पत्तौ प्रमाणमिति चेत्, न। अस्यैव निराक्रियमाणत्वात्। देहादीनामपि क्षणिकत्वाभावेन दृष्टान्तस्य साध्यविकलत्वाच्च।
॥ देहादेः परिमाणभेदस्यान्यथैव सिद्धत्वात् न तदन्यथानुपपत्त्या क्षणिकत्वसिद्धिः॥
ननु देहादेः पूर्वोत्तरक्षणयोः परिमाणभेदेन भेदसिद्धौ क्षणिकत्वसिद्धिरित्युक्तमित्यत आह अभेदेऽपीति।
अभेदेऽपि विशेषेण देहदीपफलादिषु।
विशेषदर्शनं युक्तमस्माकमनुभूतितः॥१९०॥
पूर्वोत्तरक्षणयोरिति शेषः। विशेषेण आरम्भवादाद् वैलक्षण्येन। आदिपदेनाङ्कुरादि। विशेषदर्शनं परिमाणभेददर्शनम्। अस्माकं परिणामवादिनां मते।
अयमर्थः आरम्भवादिनो हि परिमाणं यावद्द्रव्यभाव्यभ्युपयन्ति। अवयवसङ्ख्यातिशयानतिशयायत्तत्वात् परिमाणभेदस्य। अवयवापचये द्रव्यविनाशस्यावयवोपचये च तदुत्पादस्यावर्जनीयत्वात्। अतस्तेषां परिमाणभेदो द्रव्यं भिन्द्यादेव। अस्माकं त्ववस्थितमेव द्रव्यमवयवोपचयापचयाभ्यां तत्तत्परिमाणकतया विक्रियत इति दर्शनम्। तत्र परिमाणभेदो न भेदमाक्षिपतीति।
किञ्च फलादीनां पूर्वोत्तरक्षणयोर्भेदः साध्यते, उताभेदाभावः? आद्ये सिद्धसाधनम्, भेदस्यास्माभिरप्यङ्गीकृतत्वात्। तावता क्षणभङ्गासिद्धेः। द्वितीये दोषमाह अनुभूतित इति। तदिदं फलमिति प्रत्यभिज्ञया पूर्वोत्तरक्षणयोरभेदसिद्धेर्बाधितविषयमनुमानमिति शेषः।
भ्रान्ता प्रत्यभिज्ञा नाभेदं साधयितुमलमिति चेत्, तर्हि भ्रान्तं परिमाणभेददर्शनं न भेदसाधनायालमिति ब्रूमः। परिमाणभेददर्शनं बाधकाभावात् प्रमाणमेवेति चेत्, तत्राऽह विशेषेति।
विशेषदर्शनं मानं यदि न स्थैर्यदृक् कुतः।
तर्हि स्थैर्यदृक् कुतो न मानम्? तस्या अपि बाधकरहितत्वात्। विशेषदर्शनं बाधकमिति चेत्, तर्हि तत्स्थैर्यदर्शनं कुतो न बाधकम्? अतोऽनुपलभ्यमानविशेषयोरनयोर्बाध्यबाधकभावायोगादन्योन्यप्रतिपक्षताननुभवाच्चान्यतरपक्षपातं परित्यज्य भेदाभेदविषयतयैव व्यवस्थापनं युक्तम्। अन्यथा दृष्टान्ते साध्यसन्देहेनापि परानुमानं दुष्टं स्यादिति। एवं तर्काङ्गान्तरवैकल्यं स्वयमूहनीयम्।
॥ सूत्राणां व्युत्क्रमेण व्याख्याने, सूत्रद्वयस्याव्याख्याने च निमित्तकथनम्॥
नन्वेतानि सूत्राणि कुतो व्युत्क्रमेण व्याख्यातानि? उच्यते उपोद्धातप्रक्रियया सूत्रकारेणैवाऽदौ बाधकानि निराकृत्यान्ते निष्कण्टका प्रत्यभिज्ञोपन्यस्ता। भाष्याकारेण तु सुबोधत्वाय शिष्याकाङ्क्षाक्रमेणाऽदौ प्रत्यभिज्ञामभिधायानन्तरं तद्बाधकानि परिहृतानीति। “प्रतिसङ्ख्या” इत्यादिसूत्रद्वयं भाष्य एव स्पष्टमिति नात्र व्याख्यातम्।
॥ “आकाशे चाविशेषात्’ इति सूत्रस्य “आकाशे भावत्वसाधको यो न्यायः
तस्य सुखेऽप्यविशेषात् न सुखमभावरूपम्’ इति वर्णकान्तरम् ॥
“दुःखाभावं सुखं चाऽहुः” इति यदनूदितं तन्निराकरोति दिगिति।
दिक्सुखे च खदृष्टान्ताद् भावौ सच्चेत् क्वचिद् भवेत्॥१९१॥
खदृष्टान्तादित्याकाशस्य भावत्वे यो न्यायोऽभिहितः, तस्मादिति हेत्वतिदेशः। धर्मिप्रतियोगिनिरपेक्षमेव विधिरूपेण प्रतीयमानत्वादित्यर्थः। सद्भावः क्वचिद् भवेच्छेत्, तद्दृष्टान्तेनेति शेषः। अनेनान्यथा रूपादीनामपि भावत्वं न स्यादविशेषादिति बाधकं सूचयति। यद्यपि दिशो नाऽकाशाद् भिद्यन्ते, तथाऽप्याकाशस्य भागसद्भावं ज्ञापयितुं तासां ग्रहणम्। एकवचनं तु जात्यभिप्रायम्। एतेन “आकाशे चाविशेषात्” इति सूत्रं प्रकारान्तरेण व्याख्यातं भवति।
आकाशादीनां भावत्वसमर्थनेन पञ्चस्कन्धात्मकं विश्वमिति निरस्तम्। आत्मनो ज्ञानात्मकत्वं तु नास्माकं विरुद्धम्। क्षणभङ्गिताया निरस्तत्वात्। ज्ञानस्यापि ग्राहकतायाः परेणाभ्युपगतत्वात्। मोक्षस्तु चतुर्थे परीक्षिष्यते। (१३२८)
॥ सौत्रान्तिकाणां बाह्यानुमेयतावादस्य मायावादवदत्यन्तनिर्दलत्वात्,
स्फुटदूषणत्वाच्च सूत्रेऽनिरासः॥
स्यादेतत्। वैभाषिकसौत्रान्तिकयोर्यः साधारणः स्वमतविरुद्धः सिद्धान्तः स एव सूत्रकृता निराकृतः, यस्तु सौत्रान्तिकस्य सिद्धान्तविशेषः “प्रमाणं तावद् द्विविधम्, प्रमेयद्वैविध्यात्। तत्र ज्ञानातिरिक्तः सर्वोऽपि रूपादिप्रपञ्चोऽनुमेय एव। नतु प्रत्यक्षः। ज्ञानं तु नीलाद्याकारं प्रत्यक्षवेद्यम्” इति, स कस्मान्न निराकृत इत्यत आह विश्वमिति।
विश्र्वं प्रत्यक्षगं त्यक्त्वा तयोर्योऽनुमितं वदेत्।
मायावादिवदेवासावुपेक्ष्यो भूतिमिच्छता॥१९२॥
तयोः वैभाषिकसौत्रान्तिकयोर्मध्ये यः सौत्रान्तिको विश्र्वं रूपादिकं प्रत्यक्षगं त्यक्त्वा रूपादेर्विश्वस्य प्रत्यक्षवेद्यतां वैभाषिकादिभिरभ्युपगतामनभ्युपगम्येति यावत्, अनुमितं वदेद् रूपादेर्विश्वस्य अनुमानवेद्यतामङ्गीकुर्यात्। मायावादिना तुल्यं वर्तत इति मायावादिवत्।
एतदुक्तं भवति यथा सर्वान् दुःसमयानपाकुर्वताऽपि सूत्रकृता न मायावादोऽत्र पादे निराकृतः। तस्यात्यन्तनिर्दलस्योपेक्षैव कार्या, नत्वीषत्सदलैः साङ्ख्यादिसमयैः सह निरास इति ज्ञापनार्थम्, तथा बाह्यानुमेयतावादोऽपीति।
ननु मायावादः सूत्रोत्पत्त्युत्तरकालभावी। तस्य कथं निरासप्रसक्तिः? मैवम्। “अनदिकालतो वृत्ताः” इत्युक्तत्वात्। अन्यथा साङ्ख्यादिनिरासस्याप्यप्रसक्तेरिति।
॥ बाह्यार्थानां प्रत्यक्षत्वस्य प्रत्यक्षानुमानागमसिद्धत्वप्रतिपादनम्॥
नन्वप्रतिषिद्धमनुमतं भवतीति न्यायेन नीलादेर्विश्वस्याप्रत्यक्षत्वं सूत्रकारस्याभिमतमेवेति कुतो न कल्प्यते? नैवं शक्यम्। प्रमाणाविरुद्धः प्रमाणानुसारी च सूत्रकारस्याभिप्रायः कल्पनीयः। नचायमर्थस्तथेत्याशयवानाह सर्वेति।
सर्वप्रमाणसिद्धं यद् बुद्धेर्भेदेन सर्वदा।
कथं नु तस्य बुद्धित्वम्..............॥१९३॥
अयमत्रोत्तरक्रमः नीलादेरर्थस्याप्रत्यक्षत्वं न वक्तुं शक्यते, नीलादिप्रतीतेरपरोक्षतायाः साक्षिसिद्धत्वात्। इन्द्रियव्यापारभावभावित्वेनानुमानसिद्धत्वाच्च।
अथ मतम् येनार्थेन यज्ज्ञानं जायते तत् तदाकारं भवति। तच्च ज्ञानं स्वप्रकाशतया स्वगतं नीलाद्याकारमपि साक्षात्कुरुते। अतोऽपरोक्षतयोपलभ्यमानस्य नीलाद्याकारनिकरस्य बुद्धिगतत्वान्न कश्चिद् दोष इति।
अत्रेदमुपतिष्ठते यदपरोक्षतयाऽवभासमानं नीलाद्याकारचक्रं बुद्धेर्भेदेन सर्वदा सर्वप्रमाणसिद्धम्, तस्य कथं नु बुद्धित्वमङ्गीक्रियते? बहिर्मुखतयेदन्त्वेन ह्ययं नीलाद्याकारोऽपरोक्षमवभासते। न जात्वन्तर्मुखतयाऽहं नीलमिति।
तथा नीलापरोक्षज्ञानसमनन्तरं नीलार्थी नियमेन बहिः प्रवर्तते। तेनानुमीयतेऽनेन बहिरर्थ एव साक्षात्कृत इति। नह्यन्यत्र ज्ञानमन्यत्र प्रवृत्तिरिति युज्यते, अतिप्रसङ्गात्। मध्येऽनुमानं तु निरसिष्यते। (७८८) एवमाप्तोऽपि किमपरोक्षतया पश्यसीति पृष्टोऽङ्गुलि प्रसार्येदमिति बाह्यमेव ब्रवीति, अतस्त्रिभिरपि प्रमाणैरपरोक्षतयाऽवभासमानस्य नीलाद्याकारस्य बुद्धितो भेद एवावसीयते।
नचेदं सर्वं भ्रान्तम्। कदाऽप्यन्यथाप्रतीत्यभावात्। विनैव बाधकेन भ्रान्तित्वाभ्युपगमेऽतिप्रसङ्गात्। अतोऽपरोक्षतयाऽवभासमानो नीलाद्याकारो बाह्य एव, नतु बुद्धिगत इति।
॥ बाह्यार्थस्याप्रत्यक्षत्वे तत्साधकप्रमाणाभावात् तदसिद्धिप्रसङ्गेन तदभ्युपगमवैयर्थ्यम्॥
किञ्च बाह्यार्थस्याप्रत्यक्षत्वे तदसिद्धिरेव स्यात्। प्रमाणाभावात्। तथाच बाह्यार्थाभ्युपगमो रिक्तः स्यादित्याह विश्वमिति।
................विश्वमन्यच्च किम्प्रमम्॥१९३॥
अन्यत् ज्ञानमिति शेषः। का प्रमा यस्य तत् किम्प्रमम्। अनुमेयो बाह्याकार इति चेत्, न। सर्वथाऽसिद्धस्य पक्षीकरणायोगात्। लिङ्गाभावाद् व्याप्त्यसिद्धेश्च।
॥ सामान्यपरिशेषानुमानाभ्यां बाह्यार्थसाधनायोगः॥
स्यादेतत्। बुद्धिगतस्तावदाकारोऽपरोक्षमवभासते। स कादाचित्कत्वात् किमपि कारणमपेक्षमाणो बाह्यं नीलाद्यनुमापयिष्यतीति। मैवम्। बाह्यतयैव नीलाद्याकारस्य स्फुरणात्। कुत्र चेदमुपलब्धम्, यत् कादाचित्कं तत् कारणवदिति। ज्ञान एवेति चेत्, न। बाह्याप्रत्यक्षत्ववादे तत्रापि कारणवत्त्वानवधारणात्। ज्ञानं पूर्वज्ञानकारणकमुपलब्धमिति चेत्, तर्ह्याकारोऽपि पूर्वाकारजन्यः कल्प्यताम्। किं बाह्यार्थव्यसनेन? नीलज्ञानानन्तरं पीतज्ञानोत्पाददर्शनान्नेति चेत्, न। सदृशजन्यत्वस्य परेण क्वाप्यनुपलब्धत्वात्।
किञ्च वासनादिकमान्तरमेव सहकारीकृत्य विसदृशमपि ज्ञानं जनयतीति कल्पनीयम्। न बाह्यम्। दृष्टेनैव कथञ्चिदुपपत्तावदृष्टकल्पनानुपपत्तेः। अतो बाह्योऽप्यर्थः प्रत्यक्षसिद्ध इति शङ्कानास्पदत्वादिदं मतमत्र न दूषितमित्युक्तम्।
॥ नीलादेरनुभवसिद्धबाह्यार्थत्वापलापात्, अप्रामाणिकज्ञानगतत्वाङ्गीकाराच्च स्फुटदूषणोऽयं वादः॥
यद्वा स्फुटतरानल्पदोषत्वेन शिष्यैरेव हेयतया ज्ञातुं शक्यत्वादित्याशयेनाऽह सर्वेति।
सर्वलोको विभेत्यञ्जो यस्मादनुभवात् सदा।
तस्यापलापिनः किं न निष्प्रमाणकवादिनः॥१९४॥
माध्यमिकादयोऽपि बाह्यार्थान् अपह्नुवाना अपि ह्यनुभवाद् बिभ्यतः सांवृतसत्त्वाद्यभ्युपयन्ति। ततः सर्वैरनुसरणीय एवायमनुभवः। तमपि यः सौत्रान्तिकोऽपलपति, अनुभवसिद्धाया अपरोक्षस्य नीलाद्याकारस्य बाह्यताया अपाकरणात्। तथा निष्प्रमाणकं वदति, नीलाद्याकारस्य बुद्धिस्थतायां प्रमाणाभावात्। तस्य अनुभवस्यापलापिनः निष्प्रमाणकवादिनस्तस्य सौत्रान्तिकस्य किं दूषणं न भवेत्? सर्वमपि भवेदिति।
॥ आत्मानात्मप्रपञ्चस्थायित्वस्य, सुखस्य विधित्वस्य, दिग्गनयोर्भावत्वस्य चानुभवसिद्धत्वम्॥
“एकत्वमनुभूतिस्थम्”, “खदृष्टान्तात्”, “तस्यापलापिनः” इति परपक्षे तत्रतत्रानुभवविरोधोऽभिहितः। स कथमित्यतोऽभिनयेन तं दर्शयति सोऽहमिति।
सोऽहं तदिदमेवाहं सुखी सद् गगनं दिशः।
सत्या इत्याद्यनुभवाः सदा तत्प्रतिपक्षगाः॥१९५॥
अत्र स एवाहमित्यात्मैकत्वग्राही प्रत्यभिज्ञानुभवो दर्शितः। तदिदमित्यनात्मनः। अहं सुखीति सुखस्य विधित्वानुभवः। सद् भावरूपं गगनम्, दिशः सत्या भावरूपा इति गगनस्य दिशां च भावत्वानुभवः। आदिपदादिदं नीलम्, नाहं नीलमित्यादेः परिग्रहः। तत्प्रतिपक्षगाः तदभ्युपगतार्थविरुद्धविषयाः।
॥ वैभाषिकसौत्रान्तिकमतयोः सदनुपादेयत्वम्॥
वैभाषिकसौत्रान्तिकमतनराकरणमुपसंहरति अत इति।
अतो निर्मानमखिलप्रमाणप्रतिपक्षगम्।
दुर्मतं को नु गृह्णीयाद् विनाऽसुरततिं क्वचित्॥१९६॥
अखिलप्रमाणप्रतिपक्षगं सर्वप्रमाणविरुद्धार्थविषयम्। अत एव दुर्मतम्। दिागप्रभृतिभिर्बहुभिः र्गृहीतत्वात् कथं को नु गृह्णीयादित्याक्षेप इत्यत उक्तम् विनेति। सत्पुरुषविषय एवायमाक्षेप इति भावः। नचैवं निराकरणवैयर्थ्यम्। उक्तार्थानुसन्धाने को नु गृह्णीयादिति व्याख्यानादिति॥*॥ इति समुदायाधिकरणम्॥७॥
अथ असदधिकरणम्॥८॥
॥ माध्यमिकैः शून्यस्य जगदात्मकत्वस्वयम्भातत्वादिनिरूपणम्॥
नासतोऽदृष्टत्वात्। माध्यमिकमतमत्रापाक्रियते। तस्योक्तार्थविरुद्धतां दर्शयितुं तत् तावदुपन्यस्यति अपर इति।
अपरः शून्यमखिलं मनोवाचामगोचरम्।
निर्विशेषं स्वयम्भातं निर्लेपमजरामरम्।
अशेषदोषरहितमनन्तं देशकालतः॥१९७॥
वस्तुतश्च.............................।
अपरो माध्यमिकः। “इति ब्रूते” इति वक्ष्यमाणेन सम्बन्धः। शून्यमेव तत्वं न ततोऽन्यदस्तीति शेषः। ननु पञ्चस्कन्धास्ततोऽतिरिक्ताः सन्तीत्यत उक्तम् अखिलमिति। पञ्चस्कन्धात्मकमखिलं जगच्छून्यमेव, न ततोऽन्यदित्यर्थः। तच्छून्यं कुतः सिद्धमित्यत उक्तम् स्वयम्भातमिति। स्वयम्भातत्वं च न स्वकर्मकप्रकाशत्वम्। किन्त्वपरप्रकाश्यत्वमेवेत्याशयेनोक्तम् मन इति। प्रमाणमात्रोपलक्षणमेतत्। कुतः प्रमाणाविषयत्वं शून्यस्य? निर्धर्मकत्वात्। सधर्मक एव प्रमाणप्रवृत्तेरित्युक्तम् निर्विशेषमिति।
निखिलजगदात्मकं चेच्छून्यम्, तर्हि तद्धर्मा लेपजरामरणदुःखपरिच्छेदादयस्तस्यैव स्युरिति कथं निर्विशेषत्वादिकमित्यत आह निर्लेपमिति। लेपो धर्माधर्मसम्बन्धः। दोषा दुःखादयः। वस्तुतश्च अनन्तं वस्त्वन्तरप्रतियोगिकान्योन्याभावरहितम्।
यद्वा शुद्धं सर्वगतं नित्यं सर्वात्मकं शून्यमभिलप्यते। तत् कथं निर्विशेषमित्युच्यत इत्यत एतदुक्तम्। लेपादिदोषाभावमात्रेण शुद्धमुच्यते। देशादिपरिच्छेदाभावमादाय सर्वगतत्वादिवादः, नतु कमपि धर्ममाश्रित्येति।
॥ शून्यैक्यज्ञानात् शून्यत्वापत्तिरूपो मोक्षः॥
उपायोपेयभावावस्थितपदार्थख्यापनं शास्त्रधर्मः। अतस्तत्वविषयां विप्रतिपत्तिं दर्शयित्वा विप्रतिपन्ने उपायोपेये दर्शयति तदस्मीति।
...तदस्मीति नित्योपासापरोक्षितम्।
रागादिदोषरहितं तद्भावं योगिनं नयेत्॥१९८॥
तच्छून्यमहमस्मीति नित्योपासयाऽपरोक्षीकृतम्। तच्छून्यं रागादिदोषरहितं योगिनं तद्भावं शून्यत्वलक्षणं मोक्षं नयेदिति सम्बन्धः। यथोक्तम् “प्रदीपस्येव निर्वाणं विमोक्षस्तस्य भाविनः” इति।
॥ जगतः शून्याविद्याकल्पितत्वम्, सांवृतसत्यत्वम्, शून्यस्यैव पारमार्थिकसत्यत्वम्॥
यदि शून्यमुक्तरूपम्, कथन्तर्ह्यखिलं शून्यमित्युक्तमित्यत आह तस्यैवेति।
तस्यैवानादिसंवृत्या नानाभेदात्मकं जगत्।
सदिवाऽभाति सत्यत्वं सांवृतं तस्य चेष्यते॥।१९९॥
पारमार्थिकसत्त्वं तु शून्यादन्यस्य न क्वचित्।
शून्यस्यैव। संव्र्यितेऽनयेति संवृतिरविद्या। संवृतेः सत्यत्वेऽद्वैतहानिः, आरोपितत्वे तु संवृत्यन्तरापेक्षेत्यतोऽनादीत्युक्तम्। नानाभेदात्मकं पञ्चस्कन्धात्मकम्। शून्याविद्याकल्पितत्वादखिलं शून्यमित्युच्यते। न पुनस्तदेव तदिति। तत् किमसदेवेदम्? तथात्वे वा कथं सदिति प्रतिभासः? सत्त्वारोपात्। पक्षान्तरमाह सत्यत्वमिति। तस्य अरोपितस्यापि जगतः, सांवृतं सत्यत्वमिष्यतेऽतो न सत्प्रत्ययविरोधः। अस्ति चेत् जगतः सत्त्वं कथन्तर्ह्यसत्। येन सदिवाऽभातीत्युक्तमित्यत आह पारमार्थिकेति। सर्वथाऽबाध्यत्वं पारमार्थिकसत्त्वम्, तदभावादसदिदं जगदुद्गीयत इति।
॥ सांवृतसत्यस्यैव व्यवहारनिर्वाहकत्वम्॥
पारमार्थिकसत्त्वाभावे कथं जगत्यर्थक्रियादिव्यवहार इत्यत आह सांवृतेनैवेति।
सांवृतेनैव सत्त्वेन व्यवहारोऽखिलो भवेत्॥२००॥
अखिलो हानोपादानोपेक्षाभिज्ञाभिवदनार्थक्रियालक्षणः। व्यवहारस्याप्यसत्त्वात्। स्वप्न इवेति शेषः। पारमार्थिकसत्त्वमेव व्यवहारविरोधि, तस्य विक्रियारहितत्वात्। नतु तदभाव इति भावेनोक्तम् सांवृतेनैव सत्त्वेनेति।
॥ निष्क्रियस्य शून्यस्यैव संवृतियोगात् जगत्कतृत्वम्॥
सृष्टिप्रलयविषयं विगानं दर्शयति शून्यादिति।
शून्यात् संवृतियोगेन विश्वमेतत् प्रवर्तते।
सृष्टिकाले पुनश्चान्ते स्तिमितं शून्यतां व्र्जेत्।
इति ब्रूते तमुद्दिश्य जगाद जगतां गुरुः॥२०१॥
सृष्टिकाले प्रवर्तते जायते। शून्यस्य निष्क्रियत्वात् कथं विश्वकर्तृत्वमित्यत उक्तम् संवृतियोगेनेति। अन्ते प्रलयकाले। स्तिमितं निष्क्रियम्। अनेन क्रियाविभागादिन्यायेन या विश्वस्य सत्यत्ववादिनां प्रलयप्रक्रिया सा निराक्रियते। स्वाप्नगजादिरिवेति शेषः। एवमुपन्यस्तमतनिरासार्थत्वेनाधिकरणमवतारयति तमुद्दिश्येति। जगाद इदमधिकरणमिति शेषः।
॥ सर्वधर्मरहितत्वेन शशविषाणसदृशात् शून्यात् जगदुत्पत्तिर्न सम्भवति, शून्यादुत्पत्तेरप्रत्यक्षत्वात् ॥
यत् तावदुक्तं शून्यादेवेदं जगदुत्पद्यत इति, तद् यथाश्रुतमपाकर्तुं सूत्रम् “नासतोऽदृष्टत्वात्” इति। तद् व्याचष्टे नासत इति।
ॐ नासतोऽदृष्टत्वात् ॐ॥२६॥
नासतो जगतो भावोनहि दृष्टाऽसतो जनिः।
सतः क्वचित्प्रमाणं च दृष्टिरेवाखिलाद् वरम्॥२०२॥
असतः सर्वविशेषविनिर्मुक्तत्वेन गगनकुसुमसमानााच्छून्याज्जगतो भावो जन्म नोपपद्यते। कुत इत्यत आह नहीति। सतो भवतः कार्यस्येति यावत्। क्वचिदसतो जनिर्न दृष्टा यतः। अत्र सर्वत्र शून्यस्यासत्त्वमापाद्य दूषणाभिधानमिति ज्ञातव्यम्।
॥ सूत्रे प्रमाणाभावादिति वक्तव्ये प्रत्यक्षाभावादित्युक्तौ निमित्तम्॥
स्यादेतत्। प्रमाणाभावः प्रमेयाभावं साधयति। न पुनः प्रमाणविशेषाभावः। मा हि भूदस्मदादिप्रत्यक्षव्यावृत्त्या धर्माद्यभावसिद्धिः। तदत्रापि प्रमाणाभावादिति हेतुर्वक्तव्यः। “अदृष्टत्वात्” इति प्रत्यक्षाभावकथनं तु कथम्? अनैकान्तिकत्वादित्यत आह प्रमाणं चेति। दृष्टिः प्रत्यक्षमेव अखिलात् अनुमानादागमाच्च वरं प्रमाणम्।
अयमभिसन्धिः नासतो जगतो भाव इति प्रतिज्ञाय कुत इत्याकाङ्क्षायां तत्र प्रमाणाभावादिति हेतुं मनसि विधाय, कथं तत्र प्रमाणाभाव इति जिज्ञासायामनुमानागमयोः प्रत्यक्षमूलत्वेन ततः प्रत्यक्षमेव वरं प्रमाणमिति, आदावदृष्टत्वादिति तदभावोऽयं दर्शितः, नतु प्रधानप्रतिज्ञायां हेतुत्वेन, येनोक्तदोषः स्यादिति।
तर्ह्यनुमानाद्यभावोऽपि वक्तव्य इत्यत आह प्रमाणं चेति। अयमाशयः वेदादेः शून्यवादिना प्रामाण्यं नाङ्गीक्रियते। तदीयागमस्य त्वस्माभिरित्यतो नास्त्यत्राऽगमः सम्प्रतिपन्न इति शिष्यैरेव शक्यते ज्ञातुम्। प्रत्यक्षाभावेनानुमानस्याप्यभावः सिद्ध एव। प्रत्यक्षस्यानुमानोपजीव्यत्वात्। प्रत्यक्षेण क्वचिदुपलब्धमेव ह्यनुमानेन क्वचित् साधनीयम्। अतोऽनुमानाद्यभावस्यानुक्तावपि लाभाददृष्टात्वादित्येवोक्तं सूत्रकृतेति। अत एव प्रागुक्तम् क्वचिदिति।
॥ शून्याज्जगदुत्पत्त्यङ्गीकारे सप्तमरसादीनां सकाशात् पीनत्वादिकार्यसिद्धिप्रसङ्गः॥
मा भूच्छून्याज्जगदुत्पत्तौ प्रत्यक्षं प्रमाणम्। मा च भूदागमः। तथाऽप्यनुमानं भविष्यति। असतः सदुत्पत्तौ प्रत्यक्षाभावेन दृष्टानुमानानुपपत्तावपि सामान्यतो दृष्टस्योपपत्तेः। कारणस्य हि सत्त्वे निषिद्धेऽसत एव जन्म सेत्स्यतीत्याशयानुमानानां तर्कप्रतिघातं वक्तुं सूत्रम् “उदासीनानामपि चैवं सिद्धिः” इति। तद् व्याचष्टे यद्येवमिति।
ॐ उदासीनानामपि चैवं सिद्धिः ॐ॥२७॥
यद्येवं सप्तमरसान्मधुरादिव पीनता।
भवेज्जनस्य मार्जारशृङ्गं गोरिव घातकम्॥२०३॥
यद्यसत एव यत्किञ्चित् कार्यं जायेत, तदा मधुरादिव सप्तमरसाज्जनस्य पीनता स्यात्। गोः शृङ्गमिव मार्जारशृङ्गमपि जनस्य घातकं भवेदविशेषादित्यनेनन एवंसत्यदुासीनानां हेयोपादेयोपेक्षणीयबुद्ध्यविषयाणां सप्तमरसादीनामपि सकाशात् पीनत्वादिकस्य सिद्धिः प्रसज्येतेति सूत्रं व्याख्यातं भवति।
॥ शून्याज्जगदुत्पत्तौ तन्त्वाद्युपादानादिरहितानां पुंसां सकाशात् पटादिकार्योत्पत्तिप्रसङ्गः॥
प्रकारान्तरेण व्याख्याति कार्यार्थीति।
कार्यार्थी कारणं सच्च नोपादद्यात् कथञ्चन।
न प्रवर्तेत चेष्टाय शून्यादेवेष्टसम्भवात्।
यद्यसत एव कार्यमुत्पद्यते, तदा पटादिकार्यार्थी कुविन्दादिः सत् तन्त्वादिकारणं सर्वथा नोपाददीत। असत एव पटाद्युत्पत्तेः। अतिप्रसङ्गान्तरमाह नेति। न केवलमसतः कार्योत्पत्तौ सत्कारणोपादानानुपपत्तिः। किन्त्विष्टाय पटाद्युत्पादाय न प्रवर्तेत। न प्रयतेत च। कुतः? शून्यादेवेष्टसम्भवात्। एतेन तन्त्वाद्युपादानादुदासीनानां चिकीर्षादिरहितानां च पुंसां पटादिसिद्धिः स्यादिति सूत्रं व्याख्यातं भवति।
॥ शून्याज्जगदुत्पत्तौ कार्याणां देशकालादिनियममनपेक्ष्यैव उत्पत्तिप्रसङ्गः॥
प्रकारान्तरेण व्याख्याति देशेति।
देशकालादिनियमो नहि शून्यात् सतो भवेत्॥२०४॥
शून्यात् सतः शून्यादेव भवतः कार्यस्य देशकालवयोवस्थानियमो न भवेत्। तथाहि यदि जगच्छून्यादेव भवेत्, तदा गोधूमाः कृष्णभूमौ सम्पद्यन्ते न पाण्डुभूमौ। वसन्ते किंशुकाः पुष्पिता भवन्ति, न वर्षासु। त्रिहायिण्येव गौर्गर्भं धत्ते, नान्यथा। सतुषा एव व्रीहयोऽङ्करानुत्पादयन्ति नेतरथा इत्यादिदेशकालादिनियमः कार्योत्पत्तौ न स्यात्। शून्यस्य सर्वत्राविशिष्टत्वात्। अनोनोदासीनानां देशकालादिनियमानपेक्षाणामपि कार्याणां सिद्धिरुत्पत्तिः स्यादिति सूत्रं व्याख्यातं भवति। शून्यादेव कार्योत्पत्तौ कर्त्रुपादाननिमित्तापेक्षा न स्यादिति समुदायार्थः।
॥ “ना सतो दृष्टत्वात्” इत्यस्य वर्णकान्तरम्॥
नन्वादिसृष्टावेव शून्यात् कार्योत्पादं ब्रूमः, न सर्वदा। अन्यदा तु कर्त्रादिकारणगणादेव। अतो नातिप्रसङ्ग इत्यत आह पुरुषेति।
पुरुषेच्छानुसारेण यदि किञ्चित् प्रजायते।
किं नानुमीयते तद्वद् वस्तुत्वात् पुरुषोद्भवः॥२०५॥
सर्वस्यापि.............................।
किञ्चिदित्यधुनातनं कार्यम्। वस्तुत्वात् कार्यत्वात्। सर्वस्यापीति। आदिकालीनस्यापि कार्यस्येत्यर्थः। अनेन ना पुरुषः सतः आदिकालीनस्य कार्यस्य कर्ताऽनुमातव्यः, कुतः? दृष्टत्वात्; अधुनातनानां कार्याणां पुरुषकर्तृत्वस्य निश्चितत्वादिति प्रथमसूत्रं प्रकारान्तरेण व्याख्यातं भवति। सूत्रभाष्ययोः पुरुषग्रहणं तु उपादानाद्युपलक्षणम्।
॥ परेण सतः कारणत्वेऽपि प्रमाणाभावातिप्रसङ्गयोर्व्युत्पादनम्॥
नन्विदं सर्वमपि स्वव्याहतम्। तथाहि यदुक्तम्, “नासतोऽदृष्टत्वात्” इति। तत् सतः करणत्वेऽपि समानम्। नहि सतः कारणत्वमपि क्वाप्यावयोः सम्मतम्। ननुच “मधुरादिव’,” गोः शृङ्गमिव’ इत्यादिना सतः सृष्टिसंहारकारित्वं निदर्शितम्। मैवम्। सर्वस्यापि जगतोऽसत्त्वेन तदन्तःपातिनो मधुरादेरपि सत्त्वाभावात्।
यश्चायमतिप्रसङ्गः, असतः कारणत्वे सप्तमरसादेरपि मधुरादिवत् कार्यकारित्वप्रसङ्ग इति, सोऽपि सतः कारणत्वे तन्त्वादीनां मृदादिकार्यकारित्वप्रसङ्गेन तुल्यः। तथाऽपि कारणत्वमात्रं सतोऽस्तीति चेत्, न। तत्सत्त्वासम्मतेरुक्तत्वात्। नहि सकलविक्रियातीतस्य कारणत्वं शक्यसम्भावनम्। मधुरादीनां सप्तमरसादीनां चासत्त्वाविशेषेऽपि सद्बुद्धिभावाभावाभ्यां विशेषात्।
यदपि “कार्यार्थी’ इत्यादि, तदीश्वरस्य सर्वकारणत्वे तत एव पटादिसम्भवात् तन्त्वाद्युपादानं न स्यात्। कुविन्दादेरिच्छादिकं च व्यर्थं स्यादिति समानम्। एतेन देशकालादीति प्रसङ्गोऽपि समीकृतो वेदितव्यः। यच्च “पुरुषेच्छानुसारेण” इत्युक्तम्, तदपि तन्महदादिकार्यस्य कुलालादिजन्यतासाधनसमानयोगक्षेममिति।
॥ विश्वस्य प्रत्यक्षेण सत्यत्वावगमात् नासत्त्वकल्पना युक्ता॥
अत्र यद् विश्वस्यासत्त्वमुक्तं तत् तावन्निराकर्तुं सूत्रम् “नाभाव उपलब्धेः” इति। तद् व्याचष्टे नचेति।
ॐ नाभाव उपलब्धेः ॐ॥२८॥
.......नचाभावो विश्र्वं सदिति गम्यते।
यतोऽनुभवरोधे तु वचनं वादिनः कुतः॥२०६॥
भवतीति भावः। न भावोऽभावः। असदिति यावत्। सदिति गम्यते यत इत्यनेन विश्वसत्यत्वे प्रत्यक्षं प्रमाणमुक्तं वेदितव्यम्। प्रत्यक्षेण सदित्यनुभूयमानमपि विश्वमसच्चेत् को दोष इत्यत आह अनुभवेति। अनुभवविरोधे तु क्रियमाण इति शेषः। तत्र यदि सत्त्वेनोपलभ्यमानमप्यसत् स्यात् तदोत्तरं वदत्यपि शून्यवादिनि नोक्तं त्वयेत्यतस्तेऽप्रतिभेति ब्रुवाणं परं प्रति शून्यवादिनः स्ववचनसाधकोपायभावात् पराजय एवाऽपद्येत। यदिच प्राश्र्निकाद्यवगतं कथं मद्वचनं नास्तीति ब्रूयात्, तदाऽङ्गीकृतं प्रत्यक्षस्य प्रामाण्यमिति सत्त्वेन तदवगतं विश्र्वं कथमसत् स्यादिति।
॥ परेण विश्वसत्यत्वप्रतीतेर्भ्रान्तित्वप्रतिपादनम्॥
उक्तदोषपरिहारं शङ्कते स्वप्नेति।
स्वप्नभ्रान्तिवदेवेदं संवृत्यैवोपलभ्यते।
यदि सत्त्वेन.........................॥२०७॥
स्वप्नश्च भ्रान्तिश्च तयोरिव स्वप्नभ्रान्तिवत्। यद्यपि परस्य स्वप्नोऽपि भ्रान्तिरेव। तथाऽपि गोबलीवर्दन्यायेन लोकव्यवहारमपेक्ष्य पृथगुक्तिः। यथा स्वप्ने भ्रान्तौ चासदेव गाजादिकं सर्पादिकं च सदित्युपलभ्यते तथाऽसदेवेदं विश्र्वं सत्त्वेनोपलभ्यते। एतदेव विश्वस्य शून्यकारणत्वं नाम, नापरम्। तत्र कथं सदित्युपलम्भेन विश्वस्य सत्यत्वसिद्धिः? नचैवमधिष्ठानस्य द्रष्टुः कारणानां तद्विषयाणां च सत्त्वमङ्गीकार्यम्। अन्यथा भ्रान्तिवैचित्र्याद्यनुपपत्तिरिति वाच्यम्। असत्प्रकाशनशक्त्या संवृत्यैव सर्वस्योपपत्तौ तदङ्गीकारवैयर्थ्यात्। एवञ्च न वचनासिद्धिः। सांवृतसत्त्वस्य वचनस्य प्रत्यक्षेणैव सिद्धेः। तावतैव व्यवहारोपपत्तौ पारमार्थिकसत्त्वस्योपयोगाभावादिति।
॥ प्रतीतेर्भ्रान्तित्वावधारणस्य बाधबोधाधीनत्वेन, बाधकाभावाद् विश्वसत्त्वप्रततिर्न भ्रान्तिः॥
एतत्परिहाराय “वैधर्म्याच्च न स्वप्नादिवत्” इति सूत्रम्। तद् व्याचष्टे किञ्चेति।
ॐ वैधर्म्याच्च न स्वप्नादिवत् ॐ॥२९॥
..........किञ्चात्र भ्रमो नैव निवर्तते॥२०७॥
भवेदेवं यदि प्रपञ्चे रज्जुसर्पादाविव सत्त्वप्रत्ययो भ्रमः स्यात्। नचैवम्। तथात्वे अत्र प्रपञ्चे सत्त्वभ्रमः किमिति नैव निवर्तते? ज्ञानानां भ्रमत्वावधारणं हि बाधबोधाधीनम्। सम्प्रतिपन्नस्थले तथा दर्शनात्। प्रत्ययत्वमात्राधीनत्वे प्रागपि बाधबोधोदयाद् रज्जुसर्पादिज्ञाने लौकिकपरीक्षकाणां भ्रमत्वावधारणं स्यात्। नचैवं क्वचिद् दृष्टम्। नच प्रपञ्चसत्तावगमस्य बाधकं पश्यामः। ततो न भ्रमत्वावधारणं युक्तमिति। स्वप्नस्य भ्रान्तित्वाभावः, भ्रमस्य चाधिष्ठानाद्यपेक्षानियमः, सांवृतसत्त्वस्य व्यवहारनिर्वाहकत्वस्याभावश्चान्यत्र समर्थितोऽत्रानुसन्धेयः। (४११,९२२; ४०८; ५२,६४,४१० तत्वनिर्णयादौ च)
॥ प्रत्ययत्वात् सर्वप्रतीतेर्भ्रमत्वे बाधप्रतीतेरपि भ्रमत्वप्रसङ्गः॥
स्यादेतत्। किं प्रपञ्चप्रत्ययस्येदानीं बाधो नास्तीत्युच्यते, उतोत्तरकालेऽपि? आद्ये न तावता भवतोऽपि विश्वसत्यत्वावधारणम्, शुक्तिरजतादौ तदयोगात्। द्वितीयस्तु नास्ति। प्रपञ्चप्रत्ययो बाधिष्यते, प्रत्ययत्वात्; सम्प्रतिपन्नवदित्यागामिबाधसिद्धेरित्यत आह अनादेरिति।
अनादेरस्य विश्वस्य निवृत्तिर्यदि चेष्यते।
निवृत्तिश्च निवर्तेत तस्या भ्रान्तित्वसम्भवात्॥२०८॥
अनादितोऽनुवृत्तस्येत्यर्थः। विश्वस्य तत्प्रत्ययस्य। निवृत्तिः बाधः। निवर्तेत बाध्येत। यदि प्रत्ययत्वात् प्रपञ्चप्रत्ययस्य बाधोऽनुमीयते, तदाऽवश्यं बाधप्रत्ययस्यापि बाधेन भाव्यम्। अन्यथा प्रत्ययत्वहेतोस्तत्र व्यभिचारापत्तेः। बाधकप्रत्ययस्य बाध्यत्वे प्रपञ्चप्रत्ययस्य याथार्थ्यसिद्धिः। तिष्ठतु तावत् परमार्थचिन्ता, व्यावहारिके तु तथा दृष्टमेव। न केवलमिदमापादनम्, किन्तु सम्भावितं चैतत्। यत् प्रपञ्चप्रत्ययस्य याथार्थ्यं तन्नास्तिताप्रत्ययस्य बाध्यत्वम्। अनादितोऽनुवृत्तस्यानेकसजातीयविजातीयसंवादतो याथार्थ्यसम्भवात्। कादाचित्कस्य संवादविधुरत्वेन भ्रमत्वसम्भवादिति।
॥ प्रमितस्य कल्पितत्वाद् बाध्यत्वम्, अप्रमितस्याकल्पितत्वादबाध्यत्वमित्यस्य दूषणम्॥
ननुच प्रपञ्चनिवृत्तिर्नाम शून्यमेव। तच्च परमार्थरूपम्, न कल्पितम्, अदृष्टत्वात्। तत् कथं तत्प्रत्ययस्य बाध्यता स्यात्? किन्तु प्रपञ्चस्य दृष्टत्वेन कल्पितत्वसम्भवात् तत्प्रत्यय एव बाध्यः। हेतुश्च प्रपञ्चप्रत्ययत्वेन विवेक्तव्य इत्यत आह दृष्टस्येति।
दृष्टस्य भ्रान्तिता चेत् स्याददृष्टे न भ्रमः कुतः।
गवामशृङ्गिभावेन नहि स्याच्छाशशृङ्गिता॥२०९॥
भ्रान्तिताभ्रमशब्दाभ्यां कल्पितत्वमुच्यते। इदमुक्तं भवति विपरीतमेतदुक्तं यत् सर्वप्रमाणदृष्टस्य प्रपञ्चस्य कल्पितत्वमादाय तत्सत्ताप्रत्ययस्य बाध्यत्वस्वीकरणम्। केनापि प्रमाणेनादृष्टस्य शून्यस्य अकल्पितत्वं गृहीत्वा तत्सत्त्वप्रत्ययस्याबाध्यत्वोपादानम्। प्रामाणिकमकल्पितम्, अप्रामाणिकं चाङ्गीक्रियमाणं कल्पितमिति सर्वसम्मतत्वादिति।
एतदेव दृष्टान्तेन दर्शयति गवामिति। अशृृङ्गिभावेन सहितेति शेषः। कश्चिद् गवां शृृङ्गित्वमस्तीत्याह, कश्चिच्छशस्येति। तत्र परोक्तरीत्या गवां शृृङ्गिता कल्पिता, दृष्टत्वात्। शशशृृङ्गिता त्वकल्पिताऽदृष्टत्वादिति स्यात्। नह्येवं लोके प्रतीतिः, लोकानुसारेणैव च परमार्थो बोद्धव्यो नान्यथा। लोकन्यायस्यैव तद्बोधोपायत्वादिति।
॥ सतः कारणत्वे प्रतिवाद्युक्तातिप्रसङ्गोद्धारः॥
तदेवं प्रत्यक्षबलेन विश्वसत्यता साधिता। तद्बाधकशङ्का च परिहृता। ततः किं सिद्धमित्यतो यदुक्तं पूर्वपक्षिणा, सतोऽपि कारणत्वे प्रमाणाभाव इति तत् परिहृतमिति वदन् समीकरणान्तरमपि परिहरति अस्माकं त्विति।
अस्माकं तु प्रमाणेन प्रसादादीश्वरस्य च।
उक्तभग्याऽऽगमानां च प्रामाण्याद् युज्यतेऽखिलम्॥२१०॥
सत्कारणत्ववादिनाम्। अखिलं परेणाऽक्षिप्तं युज्यते। कथम्? बाधविधुरेण प्रमाणेन जगतः सत्यत्वसिद्धौ मधुरादीनां पुष्ट्यादिकारणानां सत्त्वसिद्धेः।
तन्त्वादीनां च विचित्रस्वभावतया प्रमाणेन सिद्धानां न मृदादिकार्यकारित्वप्रसङ्गः। नहि सत इवासतोऽपि स्वभावभेदः, असत्त्वव्याघातात्। प्रमाणेनैव सतः कारणत्वोपलब्धेरनुपपत्तिराभासभूतैव। प्रमाणेन सत्तया प्रमितानां मधुरादीनां सद्बुद्धिमात्रवैलक्षण्यकल्पना त्वयुक्तैव। अन्यथा सद्बुद्ध्याऽवगतात् सप्तमरसादपि पीनता सती स्यात्।
ईश्वरस्य सर्वकारणत्वेऽपि तन्त्वाद्यपेक्षा, पुरुषप्रयत्नाद्यपेक्षा, देशकालादिनियमश्च युज्यत एव। तन्त्वाद्यपेक्षयैव कार्यमुत्पद्यतामितीश्वरस्य प्रसादात् सङ्कल्पात्। नचैवं निर्विर्शेषस्य शून्यस्य सङ्कल्पो युज्यते।
नचैतदप्रामाणिकम्। आरम्भणाधिकरणोक्तरीत्याऽत्राऽगमानुमानादीनां प्रमाणत्वात्। (५८८, ५७९; ५८२ ) नच वेदाद्यागमप्रामाण्यमसिद्धम्। प्रथमसूत्रोक्तरीत्याऽऽगमप्रामाण्यस्य सिद्धत्वात्। अनुमानेऽतिप्रसङ्गोऽप्यागमप्रामाण्येनैवापास्त इति। ब्रह्मादीन् सृष्ट्यादावीश्वरस्तेषु कृपयाऽपेक्षते। परमेश्वरनियोगानुष्ठाने तेषां परमपुरुषार्थलाभादिति ज्ञापयितुं प्रसादादित्युक्तम्।
॥ दृश्यत्वानुमानस्य असिद्धिव्यभिचाराभ्यामाभासताव्युत्पादनम्॥
प्राग् विश्वसत्यत्वसाधनायोपन्यस्तस्य प्रत्यक्षस्यान्यथासिद्धिमाशय तत्परिहारत्वेन “वैधर्म्याच्च न स्वप्नादिवत्” इति सूत्रं व्याख्यातम्। इदानीं विश्वमिथ्यात्वे पराभिहितस्यानुमानस्य दूषकत्वेनापि तद् व्याख्यातुं मिथ्यात्वेऽनुमानं तावच्छङ्कते दृश्यत्वादिति।
दृश्यत्वाद् विमतं मिथ्या स्वप्नवच्चेदियं च मा।
मिथ्या चेत् साध्यसिद्धिर्न व्यभिचारो नचेद् भवेत्॥२११॥
सर्वं मिथ्येत्युक्ते सम्प्रतिपन्नमिथ्यात्वे शुक्तिरजतादौ सिद्धसाधनता, शून्ये बाधश्च स्यात्। अतः सत्यत्वमिथ्यात्वाभ्यां विमतमित्युक्तम्। विमतं गगनादिकं मिथ्या, दृश्यत्वात्; स्वप्नवदित्यनुमानेन विश्वमिथ्यात्वसिद्धेः कथं तत्सत्यत्वमङ्गीक्रियत इत्यर्थः।
दूषयितुं पृच्छति इयं चेति। तिष्ठतु तावद् विश्वम्। इयं च मा इदमेव दृश्यत्वानुमानम्, मिथ्या सत्या वेति शेषः। आद्यं दूषयति मिथ्येति। नहि शब्देऽविद्यमानेन चाक्षुषत्वेन शब्दानित्यत्वं सिद्ध्यतीति भावः।
द्वितीये दृश्यत्वं दृश्यम्, अदृश्यं वा? प्रथमं दूषयति व्यभिचार इति। दृश्यत्वं मिथ्या न चेत्, अथ च दृश्यम्। तदा दृश्यत्वस्य दृश्यत्व एव व्यभिचारो भवेत्। द्वितीये त्वज्ञानासिद्धता हेतोरिति भावः।
॥ दृश्यत्वस्यापि मिथ्यात्वे साधकत्वानुपपत्त्यादिः॥
स्यादेतत्। मिथ्यैव दृश्यत्वमिति ब्रूमः। नचैवं साध्यासाधकत्वम्। वर्णदैर्घ्यादीनां मिथ्याभूतानामपि साधकत्वस्योभयसिद्धत्वात्। चाक्षुषत्वादीनां त्वारोपाभावात्। आरोपेऽप्यसांव्यावहारिकत्वादसाधकत्वम्, नतु मिथ्यात्वादित्यत आह साधकत्वमिति।
साधकत्वमसत्यस्य साध्यं विप्रतिपत्तितः।
तस्य चेत्यनवस्था स्यात्सत्त्वं चास्यानुभूतितः॥२१२॥
यत्रोदाहरणे मिथ्यात्वं सम्प्रतिपन्नं तत्र साधकत्वे, यत्र च साधकत्वं सम्मतं तत्र मिथ्यात्वे विप्रतिपत्तितोऽसत्यस्य साधकत्वं साध्यमेव, न पुनरस्माकं सिद्धमिति।
विप्रतिपत्तौ साधकत्वं मिथ्यात्वं वा साधयिप्यामीति चेत्, किं सत्येन प्रमाणेन, उत मिथ्याभूतेन? आद्ये तूक्तमेवोत्तरम्। द्वितीये दोषमाह तस्य चेति। नहि क्वाप्यस्माकं मिथ्याभूतस्य साधकत्वं सम्मतम्। अतस्तस्यापि साधकत्वं साध्यमेव।
तस्यापि साधकत्वं साधयिष्यामीत्यत आह इतीति। पूर्वोक्तप्रकारेणेत्यर्थः। नहि सर्वमसत्यं साधकमित्येकं प्रमाणमस्ति। नापि सद्वादी कदाऽपि सत्त्वासत्त्वोदासीनेन प्रमाणेन साध्यसिद्धिमङ्गीकुर्यात्। येनानवस्थाशान्तिर्भवेदिति।
एवमसिद्धिव्यभिचाराभ्यामनुमानं निराकृत्य प्रमाणबाधं चाऽह सत्त्वं चेति। अस्य प्रपञ्चस्य। अनुभूतितः सिद्धमतो बाधितविषयं चानुमानमिति शेषः।
॥ जडत्वाद्यनुमानामप्याभासत्वम्॥
न केवलं दृश्यत्वानुमानस्यानेन दोषेणाऽभासत्वम्, किन्तु यदन्यदपि प्रपञ्चमिथ्यात्वेऽनुमानं जडत्वं वा परिच्छिन्नत्वं वा परैरुच्यते तस्यापीत्याह अनुभूतीति।
अनुभूतिविरोधेन मिथ्यात्वे मा न काचन।
उपलक्षणमेतत्। पूर्वोक्तव्यभिचारासिद्धिभ्यां चेत्यपि द्रष्टव्यम्। तथाहि जडत्वादिकं सत्यम्, मिथ्या वा? आद्ये जडत्वादिमत्, नवा? प्रथमे व्यभिचारः। द्वितीयेऽपसिद्धान्तः। मिथ्या चेत् साध्यसिद्धिर्नेति।
॥ प्रपञ्चत्रैकालिकाबाध्यत्वस्य प्रत्यक्षसिद्धत्वसमर्थनम्॥
भवेदसत्त्वमनुमानानां यद्यनुभवविरोधो भवेत्। नचासावस्ति, मिथ्यात्वापरपर्यायं बाध्यत्वं ह्यनुमानसाध्यम्। नच तदभावः प्रत्यक्षेण वेद्यः। तस्य वर्तमानमात्रविषयत्वेन कथञ्चिद् वर्तमानकालीनबाधाभावविषयत्वेऽपि कालान्तरभाविबाधाभावविषयत्वायोगादित्यत आह अतीतेति।
अतीतानागतौ कालावपि नः साक्षिगोचरौ॥२१३॥
तत्सम्बन्धितया सत्त्वमपि दृष्टस्य साक्षिगम्।
दृढदृष्टं तु यद्द्दष्टं दृष्टाभासस्ततोऽपरम्॥२१४॥
अत्रातीतग्रहणं प्रासङ्गिकम्। न केवलं वर्तमान इत्यपेरर्थः। नः सर्वेषाम्। अन्यथा तद्विशिष्टव्यवहारानुपपत्तिरिति भावः। किमतो यद्येवमवर्तमानोऽपि कालः साक्षिगोचर इत्यत आह तदिति।
कालान्तरसम्बन्धितया सत्त्वमबाध्यत्वम्। न केवलं कर्तमानकालीनबाधाभावोऽनुभववेद्यः। किन्तु सर्वकालगतोऽपीत्यर्थः। तत् कथमित्यत उक्तम् दृष्टस्येति। प्रत्यक्षादिप्रतीतिविषयस्य। प्रत्यक्षादिप्रतीतानां प्रामाण्यस्य साक्षिणा ग्रहणादिति भावः। नहि विषयस्य त्रैकालिकाबाध्यत्वमनन्तर्भाव्य तत्प्रतीतेः प्रामाण्यं शक्यग्रहणम्।
यदि प्रतीतिं गृह्णन् साक्षी तत्प्रामाण्यग्रहणस्वभावत्वात् तद् गृह्णंस्तद्विषयस्य त्रैकालिकाबाध्यत्वं व्यवस्थापयेत्, तदा शुक्तिरजतादिप्रतीतेरपि स एव ग्राहक इति तस्या अपि प्रामाण्यं गृह्णीयात्। तथाच तद्विषयस्यापि रजतादेस्त्रैकालिकाबाध्यत्वं सिद्ध्येदित्यतो दृष्टशब्दं व्याख्याति दृढेति। यन्निर्दोषत्वेनावधृतया प्रतीत्या विषयीकृतम्, तदेव दृष्टमित्युक्तम्। कुतः? इतरस्य सम्मुग्धदृष्टस्य दृष्टाभासत्वात्। मुख्यामुख्ययोश्च मुख्यग्रहणस्य न्याय्यत्वात्। कृतव्युत्पादनं चैतत् प्राक्। (४१७)
॥ मिथ्यात्वानुमानानां सत्प्रतिपक्षत्वम्॥
सत्प्रतिपक्षाणि च दृश्यत्वाद्यनुमानानीत्याशयवानाह भ्रान्तेरिति।
भ्रान्तेः संवृतिसत्यस्य विशेषोऽव्यभिचारवान्।
तेनाप्यङ्गीकृतः सम्यक् स नः सत्यत्वमेव हि॥२१५॥
भ्रान्तिविषयत्वेन सम्प्रतिपन्नाच्छुक्तिरजादिकादित्यर्थः। संवृतिसत्यस्य तथात्वेनाभ्युपगतस्य विश्वस्य विशेषो वैलक्षण्यम्, अव्यभिचारवान् कदाचित् क्वचिदपि सम्प्रतिपन्नमिथ्याभावेऽवर्तमानः। तेन शून्यत्वादिनाऽपि। सम्यगित्यसन्देहेन। स एव विशेषो, नः अस्माकं मते विश्वस्य सत्यत्वं साधयिष्यतीति शेषः। ततः सत्प्रतिपक्षाणि दृश्यत्वाद्यनुमानानीति।
अत्र तेनापि सम्यगङ्गीकृत इत्यनेन पक्षधर्मता समर्थिता। अव्यभिचारवानित्यनेन तु व्याप्तिः। अयमत्र प्रयोगः विश्र्वं कालत्रयाबाध्यम्, प्रातीतिकविलक्षणत्वात्; व्यतिरेकेण शुक्तिरजतादिवदिति।
॥ प्रपञ्चस्य शून्यज्ञाननिवर्त्यत्वनिरासः॥
ननुच शुक्तिरजतादीनां प्राक् शून्यतत्वज्ञानाच्छुक्त्यादिज्ञानेनैव निवृत्तिर्भवति। प्रपञ्चस्य तु शून्यज्ञानेन कदाचिन्निवृत्तिर्भविष्यतीत्येवं मया प्रातीतिकसांवृतयोः वैलक्षण्यमङ्गीकृतम्। नचेदं विश्वसत्यत्वे भवता हेतूकर्तुं शक्यम्, विरोधादित्यत आह विज्ञानादिति।
विज्ञानाद् व्यभिचारोऽस्य कदाचित् स्यादिति प्रमा।
नैव दृष्टा प्रमा सा च न भवेत् स्वविरोधतः॥२१६॥
व्यभिचारो निवृत्तिः। नायं विशेषोऽङ्गीकर्तुं शक्यते, अप्रामाणिकत्वात्। नह्यप्रामाणिकेन शृङ्गेणाश्र्वोऽन्यतो विशिष्यमाणो दृश्यत इति।
नन्विदं कदाचिद् बाधिष्यते, दृश्यत्वात्; शुक्तिरजतादिवदित्यनुमानस्य सत्त्वात् कथमत्र प्रमाणाभाव इत्यतस्तस्योक्तं दोषं स्मारयति प्रमेति। या च शयते सेत्यर्थः। स्वविरोधत इति। स्वविषयस्य स्वस्य च बाध्यत्वापादकत्वादित्यर्थः। अन्यथा व्यभिचारापत्तेः। यस्य विषयोऽसन्, यत् स्वयं च बाध्यम्, कथं तत् प्रमाणं भवेत्? अतोऽस्य विशेषस्याप्रामाणिकत्वेन अङ्गीकर्तुमशक्यत्वे, योऽन्यो विशेषः प्रामाणिकः प्रमाणाविरोधी चाङ्गीकर्तव्यः, सोऽस्माकं सत्यत्वे हेतुर्भविष्यतीति। स च प्रमाणगम्यत्वमर्थक्रियाकारित्वं चेति हृदयम्।
ननुतर्ह्येवमेव कुतो नोच्यते? तथोच्यमाने प्रमाणानां तत्वावेदकत्वम्, अर्थक्रियायाः सत्त्वम्, असति तदभाव इत्यादि बहु संविधेयं स्यात्। लाघवार्थं त्वेवमुक्तम्, तदपि यथावसरमुपपादितमेव। (५२, ४१०,४१२)
॥ परिशेषप्रमाणेन विश्वस्याबाध्यत्वसिद्धिः॥
यद्वा प्रपञ्चस्याबाध्यत्वे परिशेषप्रमाणमनेनोक्तम्। तथाहि जगतो बाध्यत्वम्, अबाध्यत्वं च प्रसक्तम्। तृतीयप्रकाराभावात्। बाध्यत्वं च प्रसिद्धपदार्थतत्वज्ञानेन, अन्येन वा? तत्राऽद्यं वादिप्रतिवादिभ्यामनभ्युपगतम्। द्वितीयं तु प्रमाणाभावनिरस्तम्। परिशेषादबाध्यत्वमेव सिद्ध्यतीति।
॥ विश्वमबाध्यम्, बाध्यत्वव्यापकप्रसिद्धपदार्थतदितरज्ञाननिवर्त्यत्वाभाववत्त्वात्; इत्यबाध्यत्वेऽनुमानान्तरम्॥
अथवा व्यापकानुपलब्धिलिङ्गकमनुमानमेतेन श्लोकद्वयेनोक्तम्। बाध्यत्वं हि प्रसिद्धपदार्थतदितरतत्वज्ञाननिवर्त्यत्वेन व्याप्तम्। तच्च व्यापकमनभ्युपगमप्रमाणाभावाभ्यां जगतो व्यावर्तमानं स्वव्याप्यं बाध्यत्वमपि व्यावर्तयतीति।
॥ बौद्धेन, भेदज्ञानस्य विशेष्यविशेषणधर्मिप्रतियोगिज्ञानसापेक्षत्वात्,
तज्ज्ञानयोश्च भेदज्ञानसापेक्षत्वात् अन्योन्याश्रयत्वेन भेदस्य दुर्ग्राह्यत्वमित्युपपादनम्॥
एवं प्रपञ्चभिथ्यात्वानुमानानि निराकृत्येदानीं तदनुग्राहकत्वेन, सत्यत्वप्रत्यक्षस्य प्रतिकूलत्वेन च परोत्प्रेक्षितं तर्कमपि निराकर्तुमाशङ्कते भेद इति।
भेदो विशेष्यधर्म्यादिग्रहणापेक्षया यदि।
अन्योन्याश्रयताहेतोर्दुर्ग्राह्य इति यन्न तत्॥२१७॥
आदिपदेन विशेषणप्रतियोगिनोर्ग्रहणम्। यदि गृह्यत इति शेषः। तर्हीति च।
अयमर्थः यदि प्रपञ्चो सांवृतो न स्यात्, तदा प्रत्यक्षोऽप्यसौ न स्यात्। तथाहि अनेकभेदभिन्नो हि प्रपञ्च इष्यते। भेदस्य चाप्रत्यक्षतायां सोऽप्यप्रत्यक्ष एव। विना भेदेन तत्प्रतीतावद्वितीयशून्यप्रतीत्यापत्तेः। नच भेदप्रतीतिरुपपद्यते। भेदो हि प्रतीयमानः, घटपटौ भिन्नाविति घटपटयोर्विशेषणतया, घटपटयोर्भेद इति ताभ्यां विशेष्यतया वा प्रत्येतव्यः। भेद इत्येव प्रतीतेरभावात्। यद्वा घटात् पटो भिन्न इति, घटात् पटस्य भेद इति वा घटप्रतियोगितया, पटधर्मिकतया च भेदग्रहणमेष्टव्यम्।
तत्रोभयत्राप्यन्योन्याश्रयत्वम्। विशेष्ययोर्घटपटयोर्ज्ञाने सति हि तद्विशेषणतया भेदो ज्ञातव्यः। नहि देवदत्तादर्शने दण्डस्य तद्विशेषणतया दर्शनं युज्यते। विशेष्यज्ञानं च भेदापेक्षम्। नहि भेदाप्रतीतौ घटपटाविति द्वित्वविशिष्टार्थप्रतीतिः सम्भवति। एवं विशेष्यतया भेदप्रतीतावपि द्रष्टव्यम्।
तथा धर्मिप्रतियोगिज्ञाने सति भेदज्ञानम्, तन्निरूप्यत्वात्। भेदज्ञाने सति च धर्मिप्रतियोगिनोर्ज्ञानम्। नहि भेदाग्रहे धर्मिप्रतियोगिभावोऽवगन्तुं शक्यते। तथात्वे घटाद् घटस्य भेद इत्यपि प्रतीतिः स्यात्। नच परस्पराश्रयाणि कार्याणि सम्भवन्ति। अतो वास्तवत्वे भेदस्य प्रतीत्यनुपपत्तौ प्रपञ्चस्यापि तदापत्तेरविचारितरमणीयः संवृतिमय एवायमङ्गीकरणीय इति। निराकारोति नेति। यदुक्तं भेदस्य दुर्ग्राह्यत्वं तन्नास्तीत्यर्थः।
॥ भेदस्य धर्मिस्वरूपत्वेन धर्मिज्ञानस्यैव भेदज्ञानत्वात् नान्योन्याश्रयता॥
तत् कथमित्यत आह स्वरूपमिति।
स्वरूपं वस्तुनो भेदोयन्न तस्य ग्रहेऽग्रहः।
यद् यस्माद् भेदो वस्तुनः स्वरूपम्, तस्मात् तस्य वस्तुनो ग्रहणे सति पश्चाद् भेदग्रह इति नास्ति। किन्तु वस्तुग्रह एव भेदग्रहः। तथाच क्वान्योन्याश्रयत्वं येन भेदो दुर्ग्रहः स्यादिति।
॥ ताकिकादीन् प्रति भेदस्य धर्मिस्वरूपत्वसमर्थनम्॥
भेदस्य वस्तुस्वरूपत्वं कुत इति चेत्, यो हि भेदमेव नाङ्गीकुर्यात्, किं तस्याऽर्द्रकवणिजो वहित्रचिन्तया? यस्तु भेदमङ्गीकृत्य तस्य वस्तुस्वरूपत्वं नाभ्युपैति, तं प्रत्याह यदिति। यस्माद् वस्तुनो ग्रहे तस्य भेदस्याग्रहो नास्ति तस्माद् भेदो वस्तुनः स्वरूपमिति सम्बन्धः।
अयमत्र प्रयोगः विमतो भेदो घटस्वरूपं भवितुमर्हति, घटग्रहेऽगृह्यमाणत्वरहितत्वात्; घटस्वरूपवदेवेति। यद्यत्र तस्य ग्रहे गृह्यमाणत्वादित्येवोच्येत तदा घटपटाविति घटज्ञानेन ज्ञायमानेन पटेनानैकान्तिकत्वं स्यात्। तदर्थं “तस्य ग्रहेऽग्रहो न’ इत्युक्तम्। नहि घटग्रहे गृह्यमाणोऽपि पटो घटग्रहे सर्वथा गृह्यत एवेति नियमोऽस्ति। यज्ज्ञाने यत् सर्वथोपलभ्यते तत् तत्स्वरूपमिति व्याप्तावुच्यमानायां दण्डिज्ञाने दण्डोऽप्यवश्यं स्फुरत्येव। नचासौ दण्डिनः स्वरूपमित्यतो विशेषनिष्ठैव व्याप्तिरभिधातव्या।
किञ्च विशिष्टं नाम विशेषणसम्बन्धनिमित्तो विशेष्यस्याऽकारभेद इति पक्षे न विशिष्टप्रत्यये विशेषणस्फुरणमस्ति। किन्नाम। विशेषणज्ञानं विशिष्टज्ञानकारणम्। आशुभावाच्च न क्रमो लक्ष्यते। यद्वा घटभेदौ पक्षीकृत्य नियमेनान्यतरप्रतीतावन्यतरस्य स्फुरणेनान्योन्याभिन्नत्वं साध्यम्। नहि दण्डिप्रतीतौ दण्डस्य स्फुरणेऽपि, दण्डप्रतीतौ सर्वथा दण्डिनः स्फुरणमस्तीति।
॥ भेदप्रतीतेः धर्मिप्रतीतिसमानकालीनत्वानभ्युपगमे सविकल्पकज्ञानानुत्पत्तिप्रसङ्गः॥
भवेदेतद् यदि भेदो वस्तुग्रह एव गृह्येत। नचैवम्। किन्नाम। वस्तुप्रतीत्युत्तरकालमेव। निर्विकल्पके हि प्रत्यये वस्तुमात्रमवभासते। भेदस्तु वस्तुदर्शनोत्तरकालं प्रतियोगिस्मरणे सत्यवभासते। यथा सादृश्यम्, अभावश्चेत्यत आह अन्यथेति।
अन्यथाऽस्यामुना भेद इति वक्तुं न शक्यते॥२१८॥
यदि भेदो वस्तुप्रतीतौ न प्रतीयेत, तदाऽस्यामुना भेद इत्युत्तरकालं सविकल्पकज्ञानमपि न जायेत। तथाच तथा व्यवहारोऽपि न स्यात्। अस्यामुनेति हि धर्मिप्रतियोगितया वस्तुद्वयमुद्दिश्य भेदो ज्ञायते। नचागृहीतभेदं तथोद्देष्टुं शक्यते। एकस्मिन्नपि तत्प्रसङ्गात्। भेदसत्तामात्रेण तदुपपत्तिरिति चेत्, न। दूरस्थवनस्पत्योरभेदप्रत्ययाभावप्रसङ्गात्। दोषात् तत्र तथेति चेत्, न। भेदस्य स्वरूपसत्तयैवोपयोगे दोषस्याकिञ्चित्करत्वादिति।
॥ भेदप्रतीतेः धर्मिप्रतीतिसमानकालीनत्वानभ्युपगमे घटपटयोरभिन्नत्वेन प्रतीतिप्रसङ्गः॥
न केवलं वस्तुदर्शने भेदस्फुरणमनभ्युपगच्छतोऽस्यामुना भेद इति पश्चात्कालीनं सविकल्पकज्ञानं तथा व्यवहारश्च नोपपद्यते, किन्तर्हीत्यत आह अगृहीत इति।
अगृहीतो यदा भेदस्तदा स्वस्मादिति ग्रहः।
स्यात् प्रतीतिविरोधाच्चनहि कश्चित् तथा वदेत्॥२१९॥
यदि घटदर्शनेऽपि तद्भेदो न दृष्टः, तदाऽनन्तरं स्मार्यमाणो वा प्रतियोगी पटोऽपि विना भेदेनोपलब्धव्यः। भेदादर्शने चावश्यमभेदज्ञानं स्यात्। तथाचोत्तरकालं स्वस्मात् स्वयं भिन्न इति सविकल्पको भेदग्रहः स्यादिति।
अस्त्वेवमित्यत आह प्रतीतीति। चशब्दस्योत्तरत्र सम्बन्धः। पटाद् घटो भिन्न इत्येव हि सविकल्पिका प्रतीतिरनुभूयते। न जातु स्वस्मात् स्वयं भिन्न इति। अतः प्रतीतिविरोधादेवंविधः सविकल्पकग्रहो नाङ्गीकर्तुमुचित इति शेषः।
किञ्च यदि स्वस्मात् स्वयं भिन्न इति सविकल्पको भेदग्रहः स्यात्, तदा कदाचित् तथाविधो वाग्व्यवहारोऽपि स्यात्। नचैवमित्याह नहीति। एतेन किमेकप्रतीतिविरोधः, उत सर्वप्रतीतिविरोधः? नाऽद्यः, व्यभिचारात्। न द्वितीयः, असिद्धेरित्यपि परास्तम्। कदाऽपि कस्यचिदपि तथा व्यवहाराभावेन, विपरीतव्यवहारेण च सर्वप्रतीतिसिद्धेरिति। अतो वस्तुप्रतीतावेव भेदस्य स्फुरणात् तत्स्वरूपत्वमेवेति।
॥ प्रकारान्तराभ्यामन्योन्याश्रयत्वमाशय परिहारकथनम्॥
नन्वेवं भेदस्य वस्तुस्वरूपत्वेन तत्प्रतीतिभेदाभावादितरेतरसापेक्षत्वस्य सुतरामभावान्नान्योन्याश्रयत्वमित्युक्तम्। तत्र किं भेदो धर्मिणः स्वरूपम्, उत प्रतियोगिनोऽपि। न तावद् द्वितीयः, एकस्यैव भेदस्योभयस्वरूपत्वेऽद्वैतप्रसङ्गात्। आद्ये तु यद्यपि धर्मिज्ञानभेदज्ञानयोर्नान्योन्याश्रयत्वम्, तथाऽपि प्रतियोगिज्ञानापेक्षयाऽन्योन्याश्रयत्वं कथं परिहरणीयम्? मैवम्। भेदस्य स्वरूपतो ज्ञाने प्रतियोगिविशेषज्ञानानपेक्षणात्। प्रतियोगिस्वरूपज्ञाने चैतद्भेदज्ञानानपेक्षणात्।
अस्तु तहिरर् विशेषणज्ञानेऽन्योन्याश्रयत्वम्। तद्धि घटात् पटो भिन्न इत्युत्पद्यते। तत्र धर्मिणो भेदेन प्रतिपन्नस्य वा प्रतियोगिता, अन्यथा वा? न तावद् द्वितीयः, स्वतोऽपि भेदप्रतीत्यापत्तेः। आद्ये प्रतियोगिस्वरूपभेदप्रतीतौ धर्मिणः प्रतियोगितायां स एव न्यायः। तथाच पटाद् घटस्य भेदप्रतीतौ घटात् पटस्य भेदप्रतीतिरित्यन्योन्याश्रयत्वमिति। मैवम्। वस्तुतोऽन्योन्यप्रतियोगिकयोर्घटपटस्वरूपभेदयोः प्रतीतयोः सतोरसति सादृश्यादौ प्रतिबन्धकेऽन्योन्यप्रतियोगिकतया विशिष्टभेदप्रतीतौ बाधकाभावादिति।
॥ भासर्वज्ञाद्युक्तान्योन्याश्रयपरिहारप्रकारानुवादः॥
एवं स्वमतेन भेदप्रतीतावन्योन्याश्रयत्वं परिहृत्य भिन्नभेदवादिनां परिहारमाह धर्मित्वेति।
धर्मित्वप्रतियोगित्वतद्भेदा युगपद् यदि।
विशेषणं विशेष्यं च तद्भावश्चैव गृह्यते॥२२०॥
को विरोधः स्वरूपेण गृहीतो भेद एव तु।
अस्यामुष्मादिति पुनर्विशेषेणैव गृह्यते॥२२१॥
उपलक्षणं चैतत्। धर्मिप्रतियोगिनौ चेत्यपि द्रष्टव्यम्। तद्भावो विशेषणत्वम्, विशेष्यत्वं च। अत्र विशेषणविशेष्ययोरन्यतरत्वाद् भेदस्य पृथग् ग्रहणाभावः।
अयमर्थः किं निर्विकल्पकप्रतीतावन्योन्याश्रयत्वमुच्यते, उत सविकल्पकप्रतीतौ? नाऽद्यः, तत्र धर्मिप्रतियोगिस्वरूपयोः, तद्भावयोः, तद्भेदस्य, भेदयोर्वा युगपदुभयावभासात्, तथा विशेषणविशेष्यभूतयोर्घटपटयोर्भेदस्य च तद्भावयोश्च युगपत् प्रतीतेः। युगपदेव सर्वस्येन्द्रियसन्निकृष्टत्वात्, दर्शनयोग्यत्वाच्च। ननु धर्मिप्रतियोगिनोर्विशेषणविशेष्ययोश्च तद्भावोऽपरो भिन्नभेदवादिभिर्नेष्यते। तत् कथमेतत्? मैवम्। भूषणकारादिभिस्तस्याङ्गीकृतत्वात्। तेषामेव चायं परिहार इति।
ननु यत्र प्रतियोगी पश्चात् प्रतीयते, तत्र युगपदवभासो नास्तीति तद्दृष्टन्तेन सर्वत्राप्येवमनुमीयत इति चेत्, न। असन्निहितवत् सन्निहितस्याप्यज्ञानसाधने प्रतीतिविरोधात्। यत्रच प्रतियोगी न सन्निहितः, तत्रापि धर्मिधर्मित्वभेदानां तावद् युगपत् प्रतीतिर्नानुपपन्ना। तददिदमुक्तम् को विरोध इति।
द्वितीयं निराकरोति स्वरूपेणेति। अस्यामुष्मादित्युपलक्षणम्। “अनयोर्भेदः’ “भिन्नाविमौ’ इत्यपि ग्राह्यम्। निर्विकल्पकप्रतीतार्थानामन्योन्यवैशिष्ट्यमात्रं सविकल्पकज्ञानेऽवभासते नाधिकमिति न तत्रापीतरेतराश्रयत्वमिति। तथाचाऽहुर्भिन्नभेदवादिनः “एकस्यामेव निर्विकल्पिकायां संविदि भेदस्य भेदिनोश्च युगपदवभासे सति तत्रैकं भेदिनमवधिं कृत्वा “एतस्मादयं भिन्नः’ इति सविकल्पकबोधोदयात् कथं व्यतिरिक्तभेदपक्षेऽन्योन्याश्रयत्वम्” इति।
॥ नैयायिकोक्तपरिहारानुवादे निमित्तम्॥
ननु किमर्थमयं परमतोपन्यासः? भेदपार्थक्यमन्तरेण विशेषप्रतीतावस्माकमप्ययमेव परिहार इति ज्ञापनार्थम्। तर्हीदमेव वाक्यं तथा व्याख्यायताम्। नैवं शयम्। तद्भेदश्चेति पृथग् भेदग्रहणविरोधात्। विशेषणविशेष्यभावेन ग्रहणमपि न धर्मिप्रतियोगिप्रकाराद् भिद्यत इति वैशेषिकपरीक्षायामुक्तम्। (७१३, ७१४) अतो नात्र व्युत्पादनं कृतमिति।
॥ भेदज्ञानधर्मिज्ञानयोरन्योन्याश्रयत्वापादने स्वव्याहत्यादिप्रसङ्गः॥
एवमापादकानभ्युपगमेनान्योन्याश्रयत्वप्रसङ्गं निराकृत्येदानीं दूषणान्तरं प्रतिजानीते किञ्चेति।
किञ्च भेदः कथं ग्राह्य इति यः परिपृच्छति।
धर्म्यादिभेदग्रहणात् तेनोक्तोऽन्योन्यसंश्रयः॥२२२॥
अन्यत्वाग्रहणे प्रोक्तः कथमन्योन्यसंश्रयः।
अन्यत्वं यदि सिद्धं स्यात् कथमन्योन्यसंश्रयः॥२२३॥
अन्यच्चेत्यर्थः। कथमिति चेत्, किमत्र यदि धर्म्यादिप्रतीत्यपेक्षया भेदः प्रतीयेत, तदाऽन्योन्याश्रयत्वं स्यादित्येवाऽपाद्यते, किंवा यदि भेदः प्रतीयेत, तदाऽन्योन्याश्रयत्वं स्यादिति।
आद्ये दोषमाह भेद इति। कथमित्याक्षेपे। परिपृच्छतीति मृदूक्तिः। आक्षिपतीति यावत्। धर्म्यादिभेदग्रहणाद् धर्म्यादिग्रहणसापेक्षभेदग्रहणात्। कथमिदं लभ्यते? धर्म्यादिपदस्य तद्ग्रहणोपलक्षणत्वात्। आदिपदस्य च कारणार्थस्याऽवृत्तेः। तदेतत् परस्परं व्याहतमिति शेषः।

तथाहि भेदो दुर्ग्रह इति प्रतिज्ञाय तदुपपत्तये हीदमुच्यते। अनेन च यदि भेदो धर्म्यादिप्रतीतिमपेक्ष्य प्रतीयेत, तदाऽन्योन्याश्रयत्वं स्यात्। तथाच न प्रतीयेतेत्यापादनेन प्रतीयते चातो न धर्म्यादिग्रहणापेक्षा तत्प्रतीतिरिति लब्धं भवेत्। तथाच “भेदो दुर्ग्रहः’,”प्रतीयते च’ इत्येतयोः कथं न पूर्वोत्तरविरोध इति।
द्वितीये पृच्छामः किं परेण क्वापि भेदो न गृहीतः, किंवा क्वचिद् गृहीत इति। आद्यं दूषयति अन्यत्वेति। यद्यन्यत्वं क्वापि न गृहीतम्, तदाऽन्योन्याश्रयत्वापादनमेव न शक्यम्, निराश्रयत्वात्। तद्धि प्रतीतयोर्द्वयोः कार्यकारणभावाश्रयणे सत्यापाद्यते। अन्ततो वादिप्रतिवादिनोः दूष्यदूषकयोरापाद्यापादकयोर्भेदाग्रहेऽनुत्थानमेवाऽपादनस्य।
द्वितीयं दूषयति अन्यत्वमिति। सिद्धं प्रतीतम्। अन्योन्याश्रयत्वे हि भेदप्रतीतिरेव न स्यात्। नह्यन्योन्याश्रयाणि कार्याणि क्वापि प्रकल्प्यन्ते। तथाचास्ति चेद् भेदप्रतीतिः, नूनमाभासभूतमेवेदमन्योन्याश्रयत्त्वम्, अप्रतिबन्धकत्वादिति।
अस्ति भेदप्रतीतिः, सा न प्रमेति तु तात्पर्यमिति चेत्, न। किमन्योन्याश्रयत्वमन्योन्योत्पादं प्रतिबध्नातीति मतम्, किंवा तद्धर्मम्? आद्ये कथमप्रमाऽपि भेदप्रतीतिरुत्पद्यते। न द्वितीयः, अन्ययोरन्योन्याश्रयत्वम्, अन्यत्तु लुप्यते इत्यस्यान्यायत्वात्। सांवृती प्रतीतिरिति चेत्, तत् किं पटः सावृत इति येभ्यस्तन्तुभ्यो जातः , तेषामेव कारणं भविष्यतीति।
॥ बौद्धमायावाद्युक्तीनां जात्युत्तरत्वम् ॥
नन्वनेनास्य तर्कस्य किं दूषणमुक्तं स्यादित्यत आह एतादृशस्येति।
एतादृशस्य वक्तारावुभौ जात्युत्तराकारौ।
मायी माध्यमिकश्चैव तदुपेक्ष्यौ बभूषुभिः॥२२४॥
न केवलमेतज्जात्युत्तरम्, किन्तु यदन्यदपि तदीयं वचनम्। तथाहि “भेदस्यापि भेदान्तरभेद्यत्वेऽनवस्था” इति। तथा “भिन्ने भेदनिवेशश्चेत् तेनैव भेदेन भिन्नतायामात्माश्रयत्वम्, भेदान्तराङ्गीकारे त्वनवस्था, अभिन्ने भेदनिवेशश्चेत् स्वतोऽपि पटस्य भेदापत्तिः” इति।
तथा “न तावत् प्रत्यक्षेण भेद एव दृश्यते। भेद इत्येव प्रतीतेरननुभवात्। वस्तुनोऽपि प्रतीतौ न तावद् भेदपूर्वं वस्तुप्रतीतिः। उक्तदोषात्। नापि वस्तुप्रतीतिपूर्विका भेदप्रतीतिः। अभेदेन प्रतीते भेदप्रतीतावतिप्रसक्तेः। नच युगपत्। भेदप्रतीतिं प्रति वस्तुप्रतीतेः कारणत्वेन यौगपद्यायोगात्। नच प्रकारान्तरमस्ति” इति।
तथा “सत्तावत्कारणं वा, कारणे सत्ता वा? आद्ये कारणस्यासत्त्वम्। द्वितीयेऽसत एव कारणत्वम्” इत्यादि। तत् सर्वं जात्युत्तरमिति ज्ञापयितुमेतादृशस्येत्युक्तम्। सर्वस्यापि स्वव्याघातकत्वात्। भेदस्य सत्तायाश्च स्वरूपातिरिक्तयोरयुक्तयोरेवाङ्गीकरणाच्च। कतमेयं जातिरिति चेत्, न। सामान्यलक्षणसद्भावेऽस्य निर्बन्धस्य व्यर्थत्वात्। अहेतुप्रसङ्गनित्यसमास्वन्तर्भावाच्च।
॥ शून्यवादनिराकृत्यैव मायावादस्यापि निराकृतत्वम् ॥
मायाशब्दस्य व्रीह्यादित्वान्मायीति साधुः। शून्यवादिनिरासेनैव मायावादोऽपि निरस्तो वेदितव्य इत्यतिदेशज्ञापनाय मायी चेत्युक्तम्। एवशब्दस्योत्तरत्र सम्बन्धः।
॥ सूत्रकृताऽन्योन्याश्रयत्वाद्यनिराकरणे निमित्तकथनम् ॥
नन्वेतदन्योन्याश्रयत्वादिकं सूत्रकृतैव कुतो न निराकृतमित्यत आह तदिति। तस्माज्जात्युत्तराकरत्वादुपेक्ष्यावेव। नतु परिहाराय प्रतिवादीकर्तव्यौ।
एतदुक्तं भवति सदलमेव पूर्वपक्षिवचनं निराकर्तव्यं भवति, न निर्दलम्। अन्यथाऽतिप्रसङ्गात्। एतच्च जात्युत्तरत्वेन निर्दलमित्युपेक्षितं सूत्रकृता। अस्माभिस्तु शिष्यव्युत्पादनाय निराकृतमिति।
॥ परप्रमेयविषये शून्यवादमायावादयोः साम्यम् ॥
स्यादेतत्। शून्यवादी शून्यं जगत्कारणं मन्यते। मायावादी तु ब्रह्म। तत् कथं “नासतोऽदृष्टत्वत्” इत्यादिशून्यवादनिरासस्य मायावादेऽतिदेशः। मतवैषम्येऽतिदेशासम्भवादित्यत आह यदिति।
यच्छून्यवादिनः शून्यं तदेव ब्रह्म मायिनः।
नहि लक्षणभेदोऽस्ति निविशेषत्वतस्तयोः।
अनृतादिविरोधित्वमुभयोश्च स्वलक्षणम्॥२२५॥
तस्मादतिदेशो युक्त इति शेषः। तत् कथमित्यत आह नहीति। लक्षणभेदेन हि विप्रतिपन्नो भेदो बोधनीयः। नचासौ शून्यब्रह्मणोः सम्भवति। द्वयोरपि निर्विशेषत्वाङ्गीकारात्।
ननु निर्विर्शेषत्वेन बाह्यलक्षणभेदाभावेऽपि सत्यज्ञानानन्तानन्दात्मकत्वं ब्रह्मणः स्वलक्षणं मायावादिनाऽङ्गीकृतम्। न शून्यस्य शून्यवादिना। तेन ब्रह्मशून्ययोर्भेदो भविष्यतीत्यत आह अनृतादीति। ब्रह्मणः सत्यज्ञानाद्यात्मकत्वं नामानृतजडादिविरधित्वमेवाभिमतं मायावादिनः, अन्यस्य असम्भवात्, “अनृतजडविरोधिरूपमन्तत्रयमलबन्धनदुःखताविरुद्धम्” इति तद्व्याख्यानाच्च। अनृतादिविरोधित्वं च शून्यवादी शून्यस्यापि मन्यते। “जाड्यसंवृतिदुःखान्तपूर्वदोषविरोधि यत्” इति वचनात्। ततो नैतदपि भेदकमिति युक्त एवातिदेशः।
॥ प्रागुक्तमिथ्यात्वानुमानदूषणानां उत्सूत्रितत्वशङ्कापरिहारः॥
स्यादेतत्। प्रपञ्चमिथ्यात्वानुमाननिरासार्थं “वैधर्म्याच्च न स्वप्नादिवत्” इति सूत्रम्। तत्र यद् “भ्रान्तेः संवृतिसत्यस्य” इति दूषणमुक्तम्, तदेव वैधर्म्यादिति सूत्रे प्रतीयते। यतु पुनरुक्तम्, दृश्यत्वस्य सत्यत्वे तत्रैव व्यभिचारप्रसङ्गात् तस्य मिथ्यात्वं वाच्यम्, तथाचासाधकत्वमिति, तत् सूत्रे न दृश्यते। तत् कथमेतद् व्याख्यानमित्यत आह स्ववाक्येति।
स्ववाक्याभावसंवादान्न कृत्यं प्रतिवादिनः।
तत्पक्ष इति वैधर्म्यान्न स्वप्नादिवदित्यजः॥२२६॥
अप्रयत्नान्निराचक्रे चेति दृष्टिविरुद्धताम्।
निष्प्रमाणत्वमप्यस्य सूचयामास विश्वकृत्॥२२७॥
अत्र वाक्यमिति हेतुवाक्यार्थो दृश्यत्वं लक्ष्यते। तत्पक्ष इति विषयसप्तमी। तन्मिथ्यात्वसाधनविषय इति यावत्। इतिशब्दो हेतौ। अप्रयत्नात् प्रयत्नमविधाय, “वैधर्म्याच्च न स्वप्नादिवत्” इत्येव निराचक्र इति सम्बन्धः।
एतदुक्तं भवति दृश्यत्वस्य मिथ्यत्वं शून्यवादिनैवाभ्युपगतम्। मिथ्याभूतस्य चासाधकत्वं सुप्रसिद्धमेव। अत एवैतद्विषये सद्वादिनः किमपि कृत्यं नास्त्येव। स्फुटदूषणव्युत्पादने सूत्रत्वव्याघातात्। तस्मादेतद्दूषणव्युत्पादने सूत्रकृता प्रयत्नो न विहितः। अस्माभिस्तु तदभिप्रायः स्फुटीकृत इति।
तथाऽपि “सत्त्वं चास्यानुभूतितः” इति यत् प्रपञ्चमिथ्यात्वस्य प्रत्यक्षविरुद्धत्वमुक्तम्, यच्च “मिथ्यात्वे मा न काचन” इति निष्प्रमाणत्वम्, तदुभयं सूत्रे न दृश्यत इत्यत आह चेति। अस्य मिथ्यात्वस्य। नन्वनुक्तसमुच्चयार्थेन चशब्देनेदं दूषणद्वयं सूचितमिति यथा व्याख्याते, तथा तदपि चशब्दार्थतया व्याख्यायताम्। किमनुक्तत्वाङ्गीकारेण? मैवम्। “न कृत्यं प्रतिवादिनः” इत्युक्तत्वात्।
सूत्रे हेतुविशेषस्यानुपादानान्निष्प्रमाणकत्वं ज्ञापितमित्यस्तु। किं चशब्दस्योभयसूचकत्वग्रहणेन? न। सति शब्दे सावकाशज्ञापकादरणानुपपत्तेः।
॥ “स्वप्नादिवत्” इत्यत्राऽदिपदकृत्यम्॥
“स्वप्नादिवत्” इति सूत्रं स्वप्नवदिति व्याख्यातम्। कोऽत्राभिप्रायः? उच्यते। बहुषु स्थलेषु गृहीतेयं व्याप्तिरित्यतो न व्यभिचारमर्हतीति पूर्वपक्षिणोऽभिमानं सूचयितुं सूत्रकारेणाऽदिपदं प्रयुक्तम्। तथाऽपि प्रयोगवेलायामेक एव दृष्टान्त उपादेयः, अन्यथाऽऽधिक्यं प्रसज्येतेति। यथाऽऽह “हेतूदाहरणादिकमधिकम्” इति। एतज्ज्ञापनाय भाष्यकारेण स्वप्नवदित्येवोक्तमिति सर्वं सुस्थम्॥*॥ इत्यसदधिकरणम्॥८॥
अथ अनुपलब्ध्यधिकरणम्॥९॥
॥ विज्ञानवादिमतानुवादः॥
न भावोऽनुपलब्धेः। अत्र योगाचाराणां मतमपाक्रियते। तदर्थं तदुपन्यस्यति ज्ञानमेवेति।
ज्ञानमेवैकमखिलज्ञेयाकारं प्रभासते।
विज्ञानमेव तत्वम्, न रूपादयश्चत्वारः स्कन्धा इति योगाचारा मन्यन्त इत्यर्थः। विज्ञानाङ्गीकारेऽपि विशेषमाह एकमिति। अद्वितीयमित्यर्थः।
ननु ज्ञेयमपि रूपादिकं प्रत्यक्षादिसिद्धम्, तत् कथं विज्ञानमेव तत्वमित्यत आह अखिलेति। ज्ञानमेव ज्ञेयाकारम्। न ज्ञेयं नाम ज्ञानाद् भिन्नमस्तीत्यर्थः। कुतो ज्ञेयस्य ज्ञानात्मकत्वमित्यत आह प्रभासत इति। ज्ञानं हि प्रकाशते। तेन प्रकाशमानत्वस्य ज्ञानत्वेन व्याप्तौ सिद्धायां नीलादेरपि प्रकाशमानस्य ज्ञानत्वं सिद्धमित्यर्थः। यद्वा प्रभासते नीलादिना सहैवेति शेषः। तेन “सहोपलम्भनियमादभेदो नीलतद्धियोः” इत्युक्तं भवति।
नन्वयुक्तो ज्ञानज्ञेययोरभेदः। भेदस्य प्रतिभासनात्। एकमिति चायुक्तम्। विज्ञानसन्ततीनां भेदस्य एकैकस्यामपि सन्ततौ विज्ञानभेदस्य च विद्यमानत्वात्। किञ्च आस्तामन्यो भेदः। भेदाभावस्तावदभ्युपगम्यते। तेनैव विज्ञानस्य सद्वितीयत्वप्राप्तेर्नैकत्वमुपपद्यत इत्यत आह तत्रेति।
तत्र सन्ततिभेदश्च स्वभेदो भेद एव च।
कल्पिताः प्रतिभासन्ते नानासंवृतिभूमिषु॥२२८॥
तत्र ज्ञानज्ञेययोर्भेद इति सम्बन्धः। सन्ततिभेदः सन्ततीनां परस्परं भेदः। स्वभेदः एकैकस्यामपि सन्ततौ पूर्वोत्तरज्ञानभेदः। कल्पिता एवेति सम्बन्धः। नानासंवृतिभूमिषु अनेकाज्ञानस्थानेष्वन्तःकरणेषु। यद्वा नानासंवृतिकारणकासु वासनास्विति निमित्तसप्तमी। तदुक्तम् “भेदस्तु भ्रान्तिबुद्ध्यैव दृश्य इन्दाविवाद्वये” इति।
॥ ज्ञानज्ञेययोरभेदस्य प्रत्यक्षविरुद्धत्वम्॥
एवमनूदितं मतमपाकरोति इत्येतदपीति।
ॐ न भावोऽनुपलब्धेः ॐ॥३०॥
इत्येतदपि नो युक्तं नहि ज्ञानतया जगत्।
भासतेऽनुभवस्यैव विरुद्धत्वादपेशलम्॥२२९॥
तन्मतम्..............................।
पूर्वमतसमुच्चयार्थोऽपिशब्दः। अनेन “न भावः” इति सूत्रांशो व्याख्यातः। जगद् भावो ज्ञानं न भवतीत्यर्थः। भवतेरनुभवार्थत्वात्। उपसर्गा हि धातुलीनस्यार्थस्य व्यञ्जका एव।
कुतो न युक्तमिति चेत्, किं ज्ञेयं स्वरूपेणासदेव विज्ञाने समारोपितं विज्ञानात्मकमित्युच्यते, किंवा परमार्थसत एव ज्ञेयस्य जगतो विज्ञानात्मकत्वम्, भेदमात्रं त्वसदिति। आद्यस्त्वतीताधिकरणरीत्या निरस्तः। न द्वितीयः, जगतो ज्ञानाभेदे प्रमाणाभावात्। न तावत् तत्र प्रत्यक्षमस्तीत्याह नहीति। अनेन “अनुपलब्धेः” इत्येतद् व्याख्यातं भवति।
॥ ज्ञानज्ञेययोरभेदानुमानस्य बाधितविषयत्वम्॥
मा भूत् प्रत्यक्षेण ज्ञानार्थयोरभेदसिद्धिः। प्रकाशमानत्वाद्यनुमानेन तु भविष्यतीत्यत आह अनुभवस्यैवेति। सम्बन्धमात्रे षष्ठी। एवशब्देनानुभवस्यानुमानतः प्राबल्यं सूचयति। तन्मतं तदभिमतमनुमानमिति शेषः। ज्ञानज्ञेययोरैक्यमिति वा। ज्ञानज्ञेययोः स्फुटं भेदस्यैव साक्षिसिद्धत्वात् कालात्ययापदिष्टत्वमनुमानस्येत्यर्थः। अनेनानुपलब्धेरित्येतदुपलब्धिविरोधादिति च व्याख्यातम्।
ननु भेदग्राहकं प्रत्यक्षं भ्रान्तमिति चेत्, न। बाधकाभावात्। अनुमानं बाधकमिति तु न वाच्यम्। प्रत्यक्षस्यानुमानतो बलवत्त्वात्। अन्यथा कालातीतोच्छेदप्रासङ्गात्। प्रत्यक्षस्य भ्रान्तित्वेऽनुमानप्रामाण्यम्, तस्मिंश्च सति प्रत्यक्षस्य भ्रान्तत्वमित्यन्योन्याश्रयत्वाच्चेति।
॥ ज्ञानज्ञेययोरभेदानुमानस्य सत्प्रतिपक्षत्वम्॥
अनुमानविरोधं चानुमानस्य प्रतिपादयितुं सूत्रम् “क्षणिकत्वाच्च” इति। तद् व्याचष्टे क्षणिकत्वाच्चेति।
ॐ क्षणिकत्वाच्च ॐ॥३१॥
......क्षणिकत्वाच्च ज्ञानस्य स्थिररूपतः।
ज्ञेयस्योक्तप्रकारेण......................।
आशुतरविनाशित्वादित्यर्थः। नच ज्ञानस्य क्षणिकत्वं भ्रान्तम्। अबाधितप्रत्ययसिद्धत्वात्। स्थिररूपतः आशुतरविनाशितारहितत्वतः, “अनुस्मृतेश्च” इत्याद्युक्तप्रकारेण। अत्र क्षणिकत्वाक्षणिकत्वलक्षणविरुद्धधर्माध्यासं भेदहेतुं वदताऽऽन्तरबाह्यत्वादिरनेको विरुद्धधर्मसंसर्ग उपलक्षितो बोद्धव्यः।
॥ सकलबौद्धमतसाधारणदूषणम्॥
एवं प्रत्येकं निराकृतानि बौद्धमतानि साधारणदोषेण दूषयितुं सूत्रम् “सर्वथाऽनुपपत्तेश्च” इति। तद् व्याख्याति सर्वेति।
ॐ सर्वथाऽनुपपत्तेश्च ॐ॥३२॥
....................सर्वश्रुतिविरोधतः।
अनुभूतिविरुद्धत्वादपि पक्षा इमेऽशिवाः॥२३०॥
श्रुतिप्रामाण्यस्य समर्थितत्वादवैदिकं प्रत्यपि श्रुतिविरोधकथनं युक्तमेव। अभ्युपगगतश्रुतिप्रामाण्यं शिष्यं प्रति वा तेषां पक्षाणामशिवत्वमनेन ज्ञाप्यत इति। नन्वनुभूतिविरोधः प्रागुक्त एव पुनः कस्मादुच्यते? उपसंहारार्थमित्यदोषः। यद्वा तदीयप्रमेयान्तरेऽपीति॥*॥ इत्यनुपलब्ध्यधिकरणम्॥९॥
अथ नैकस्मिन्नधिकरणम्॥१०॥
॥ स्याद्वादिमतानुवादः॥
नैकस्मिन्नसम्भवात्। जैनमतमत्र निराक्रियते। निराकार्यांशज्ञापनाय तदुपन्यस्यति आहेति।
॥ जैनमते पदार्थनिरूपणम्॥
आह क्षपणको विश्र्वं सदसद् द्वयमद्वयम्।
द्वयाद्वयमतत्सर्वं सप्तभङ्गि सदातनम्॥२३१॥
द्विविधं तावद् विश्वम्, जीवाजीवात्मकं निरीश्वरम्। तत् पुनः षद्रव्यात्मकम्। तानि च द्रव्याणि जीवधर्माधर्मपुद्गलकालाकाशनामानि। तत्र जीवास्त्रिविधाः बद्धाः, योगसिद्धाः, मुक्ताश्चेति। धर्मो गतिहेतुर्जगद्व्यापी। अधर्मः स्थितिहेतुर्व्यापक एव। पुद्गलो रूपरसगन्धस्पर्शवद् द्रव्यम्। तद् द्विविधम् परमाणुरूपम्, सङ्घातरूपं च। कालः अभूत्, भवति, भविष्यतीति व्यवहारहेतुरप्यणुरूपः। आकाश एकोऽनन्तप्रदेशश्च। स द्विविधः लोकाकाशः, अलोकाकाशश्चेति। एतेष्वणुव्यतिरिक्तान्यस्तिकायशब्दानि। अनेकदेशवर्तिनि द्रव्येऽस्तिकायशब्दप्रवृत्तेः। ते च जीवास्तिकायः, धर्मास्तिकायः, अधर्मास्तिकायः, पुद्गलास्तिकायः, आकाशास्तिकाय इति पञ्च।
अत्र च मोक्षोपयोगिनः सप्त पदार्था जीवाजीवास्रवबन्धनिर्जरसंवरमोक्षाः। जीवो ज्ञानदर्शनसुखवीर्यगुणः। अजीवो जीवोपभोग्यं वस्तुजातम्। आस्रवः तद्भोगोपकरणमिन्द्रियादिकम्। बन्धो द्विविधः घात्यघातिकर्मचतुष्टयभेदात्। आद्यं जीवगुणानां ज्ञानानन्दादीनां प्रतिबन्धकम्। द्वितीयं शरीरसंस्थानतदभिमानतत्स्थितितत्प्रयुक्तसुखदुःखहेतुभूतम्। निर्जरो मोक्षसाधनं तपः। संवर इन्द्रियनिरोधः। मोक्षः स्वाभाविकात्मस्वरूपाविर्भावः। मोक्षग्रहणेनैव मोक्षमार्गोऽपि सङ्गृहीतः। स च सम्यग्ज्ञानसम्यग्दर्शनसम्यक्चारित्र्याख्यरत्नत्रयात्मकः।
॥ सत्त्वम्, असत्त्वम्, सदसत्त्वम्, सदसद्विलक्षणत्वम्, सत्त्वे सति सद्विलक्षणत्वम्, असत्त्वे सति असद्विलक्षणत्वम्, सदसत्त्वे सति सदसद्विलक्षणत्वमिति विश्वस्य सप्तप्रकारतानिरूपणम्॥
तदेतद् विश्र्वं सप्तभङ्गि, प्रत्येकं सप्तप्रकारकमाह क्षपणकः। कथम्? सदित्येकप्रकारः। असदिति द्वितीयः। द्वयं सदसदात्मकमिति तृतीयः। अद्वयम्, अवक्तव्यमिति चतुर्थः। द्वयाद्वयमिति पञ्चमषष्ठौ। तत्र सदवक्तव्यं चेति पञ्चमः, असदवक्तव्यं चेति षष्ठः। अतत्सर्वमिति सप्तमः। सर्वमिति सदसदात्मकम्, अतदिति अवक्तव्यम्। तत् किं कालभेदेन सप्तभङ्गि नेत्याह सदातनमिति। एतच्चोपलक्षणम्। नित्यत्वानित्यत्वभिन्नत्वाभिन्नत्वादिरूपेणाप्यनेकान्तवादोऽवगन्तव्यः।
॥ अप्रामाणिकत्वेनासम्भावितत्वात् एकस्मिन् पदार्थे अनियतसप्तप्रकारा न युक्ताः॥
अत्र सप्तभङ्गित्वनिरासार्थं “नैकस्मिन्नसम्भवात्” इति सूत्रं व्याचष्टे नैतदिति।
ॐ नैकस्मिन्नसम्भवात् ॐ॥३३॥
नैतत् पदार्थ एकस्मिन् युक्तं दृष्टिविरोधतः।
भावाभावतया विश्र्वं येन रूपेण मीयते।
तद्रूपमेव तदिति नियमः केन वार्यते॥२३२॥
एतत् सप्तप्रकारत्वम्। कुतः? असम्भवात्। सोऽपि कथम्? दृष्टिविरोधतः। सर्वं हि स्वोपाधौ सत्, परोपाधावसत्। स्वरूपेण भावः, अन्यात्मत्वादिनाऽभावः। द्रव्यरूपेण नित्यम्, अवस्थाभेदेन अनित्यम्। स्वरूपादिनाऽभिन्नम्, स्वगुणादिना भिन्नाभिन्नमित्येव प्रतीयते। नातोऽन्येन प्रकारेण। अतो व्यवस्थया नियमग्राहकप्रत्यक्षविरोधेनासम्भवादयुक्तमेवानेकान्तमतमिति।
नन्वेकान्तदर्शनस्य मिथ्यादृष्टित्वेन न तद्विरोधोऽसम्भवमाहवतीत्यत आह भावेति। येन रूपेण इत्यस्यैव विवरणम् भावाभावतयेति। तच्च व्यवस्थितसदसत्त्वाद्युपलक्षणं बोद्धव्यम्। यद्वा भावाभावतयाऽन्येन च येन सत्त्वादिना रूपेणेति योजना। अथवा येन भावाभावतया रूपेणेति सामानाधिकरण्येन योज्यम्। यदिवा भावाभावतयेत्यस्य विशेषणमेतत्। येन व्यवस्थितेन रूपेणेति। केन प्रमाणेनेत्याक्षेपः। भवेदेतन्नियमदर्शनस्य मिथ्यादृष्टित्वम्। यदि दृष्टस्य नियमस्य निवारकमनेकान्तसाधकं प्रबलप्रमाणं स्यात्। नचैतदस्ति। नच बाधकेन विना प्रत्ययानां मिथ्यात्वं कल्पयितुं युक्तम्, अतिप्रसङ्गादिति।
॥ सकलवाद्युक्तपक्षाङ्गीकारे तत्तद्वाद्युक्तपक्षान्तरदोषाणामपि प्रसक्तिः॥
नियमस्य बाधकमाशङ्कते तत्तदिति।
तत्तद्दोषनिवृत्त्यर्थं स्वीकृता तत्तदात्मना।
यदि तैरखिलैर्दोषैर्लिप्यते चलदर्शनः॥२३३॥
सद्वादिनो हि सत्त्वं विश्वस्य प्रमाणैः प्रातिष्ठिपन्। तदनङ्गीकारे दोषांश्च न्यरूरुपन्। एवमसद्वादिनोऽप्यसत्त्वस्थापनम्, तदनङ्गीकारे दूषणं च व्युत्पादितवन्तः। तथाऽन्येऽपि स्वपक्षसाधनं तदनभ्युपगमे बाधनं च कृतवन्तः। तथाच यदि सत्त्वं नाङ्गीक्रियते, तदा तु तदुपन्यस्तं प्रमाणमुपरुद्ध्येत, दूषणं चानुषज्जेत। एवमसत्त्वाद्यनङ्गीकारेऽपि। अतस्तत्तद्दोषपरिहारार्थं तत्तत्प्रमाणानुसरणार्थं च तत्तदात्मता विश्वस्य मया स्वीकृता। तथाचानेकान्ते प्रबलप्रमाणसद्भावात् कथं नियमे बाधकाभाव इति। परिहरति तैरिति। तर्हीति शेषः।
इदमत्र वक्तव्यम् सद्वादिमतानुसरणसमयेऽसत्त्वादिभङ्गीरङ्गीकरोषि वा, नवेति। एवमसद्वादिचरणशरणप्रवेशवेलायां सत्त्वादिप्रकारानूरीकरोषि वा, नवेति। एवमन्येष्वपि पक्षेषु विकल्पः। यद्याद्यः, तदाऽसौ चलदर्शनः सदा सकलपक्षाङ्गीकारवान् तैरखिलैर्दोषैर्लिप्यते।
तथाहि सद्वादिनो हि न केवलं सत्त्वे प्रमाणं तदनङ्गीकारे च दूषणं च व्युत्पाद्य निवृत्ताः। किन्त्वसत्त्वादिपक्षेषु दोषानपि व्युत्पादितवन्तः। एवमसद्वादिनोऽपि नासत्त्वे प्रमाणं तदनभ्युपगमे बाधकं चाभिधायैवोपरताः। किन्नाम। सत्त्वादिक्षेषु दोषानप्युपपादितवन्तः। एवमन्येऽपि। तथाच सकलपक्षकक्षीकारे तु तत्तद्वाद्युक्तपक्षान्तरदोषलेपः कथं न स्यात्?
अथ मन्यसे। न ते दोषाः, किन्त्वाभासाः। ते च नानेकान्तवादं बाधन्त इति। तदा कथं तानि प्रमाणानि? अनङ्गीकारे दोषाश्च नाऽभासाः। ये नानुुसरणीयाः। तस्मात् तत्तद्वादिव्युत्पादितप्रमाणाद्यनुसारेण सप्तभङ्गीरङ्गीकुर्वाणेन तदुक्तविपक्षदोषानुसारेण तत्परित्यागोऽपि कार्यः स्यात्। तथाचाङ्गीकारपरित्यागाभ्यामुभयत आकृष्टोऽयं कष्टां दशामाविष्टः स्यात्।
नन्वनेकान्तो द्वेधा क्रमाक्रमभेदात्। तत्र क्रमानेकान्ते तावन्नाङ्गीकारपरित्यागौ विरुद्धौ। अक्रमानेकान्तेऽपि येन रूपेण नित्यत्वं तेनैवानित्यत्वमित्याद्यनङ्गीकारान्न विरोधः। तथाच सप्तभग्यङ्गीकारिणा मया तानि प्रमाणानि दूषणानि च व्यवस्थापितानि भवन्तीति नोक्तदोषः।
मैवम्। तत्तत्प्रमाणादीनां व्यवस्थानर्हत्वात्। न खलु तत्तत्प्रमाणवादिभिस्तानितानि प्रमाणादीनि सावकाशान्युपन्यस्तानि। तस्मात् सर्वेष्वपि वादिषु परमास्तिकस्य कथितैव गतिः। अपिचैवमपि सप्तभग्यङ्गीकारो निर्मूल एव। नह्येवंवादिनो वादिनः प्रसिद्धाः। सम्भावनया तदङ्गीकारे च न सप्तत्वपरिनिष्टा। सम्भावनाकोशस्य निस्सीमत्वात्। किञ्च सर्वाङ्गीकारपक्षे स्यादस्ति च नास्ति चेति पक्षात् स्यादस्ति स्यान्नास्तीति पक्षद्वयं न भिद्यते।
द्वितीयपक्षे तु चलदर्शन इत्येव दूषणम्। अपसिद्धान्ती स्यादिति। तदेवं सप्तभग्यङ्गीकारः प्रमाणविरुद्धोऽप्रामाणिकश्चेत्युक्तम्। अखिलैर्दोषैर्लिप्यत इत्यनेन परस्परव्याहतिश्चेत्यपि सूचितम्।
॥ सप्तभङ्गित्वाङ्गीकारे अप्रामाणिकस्वीकारप्रामाणिकपरित्यागस्वव्याहत्यादिदोषप्रसक्तिः॥
एवम्भूतस्यापि सप्तभङ्गिनयस्य स्वीकारेऽतिप्रसङ्गं चाऽह अतिहायेति।
अतिहाय प्रमाणाप्तनियमं सदसत्तया।
अशेषमाविरुद्धं च निर्मानं व्याहतं सदा॥२३४॥
सर्वप्रकारं वदतो दृष्टहानिरमग्रहः।
स्वव्याहतत्वमित्याद्या दोषाः सर्वे भवन्ति हि॥२३५॥
अशेषमाविरुद्धं वदत इत्यस्योपपादनं व्यवस्थितया सदसत्तया प्रमाणाप्तनियममतिहायेति। सर्वे प्रकारा यस्य विश्वस्य तत् तथोक्तम्। सर्वश्चासौ प्रकारश्चेति वा। ननु क्रमानेकान्ते तावत् कालभेदेन न व्याघातः। अक्रमानेकान्तेऽपि रूपभेदेनेत्यत उक्तम् सदा सर्वप्रकारं वदत इति। सदेति रूपाभेदस्याप्युपलक्षणम्।
अयमाशयः यदि क्रमेण वा रूपभेदेन वाऽनेकप्रकारत्वम्, तदा नायमनेकान्तवादः समर्थनीयः। सर्वैरपि वादिभिरङ्गीकृतत्वात्। नहि कोऽपि वादी पदार्थानां कालतो रूपतश्चावस्थावैचित्र्यमनङ्गीकुर्वाणोऽस्ति, यं प्रत्यनेकान्तवादावतारः सङ्गच्छेत। केवलं क्षणभङ्गो वा, अत्यन्तसत्कार्यवादो वा, अवस्थावस्थावतोरत्यन्तभेदो वाऽपाकरणीयः। अतः अनेकान्तवदामवतारयता क्षपणकेन सदा रूपाभेदेनैव च सर्वप्रकारत्वमित्येव वक्तव्यम्। तथाच न व्याघातनिस्तार इति।
अशेषमाविरुद्धं सदा सर्वप्रकारत्वं वदतो दृष्टहानिः स्यात्। निर्मानं च सदा सर्वप्रकारं वदतो अमग्रहः अप्रामाणिकस्वीकारः स्यात्। व्याहतं सदा सर्वप्रकारं वदतः स्वव्याहतत्वं स्यादिति योजना। दृष्टहान्याद्यनुषङ्गिदोषान्तरसङ्ग्रहार्थमित्याद्या इत्युक्तम्। हिशब्दः सर्वत्र प्रसङ्गे हेतुसूचनार्थः।
अयमर्थः यदि प्रमाणविरुद्धमपि सर्वप्रकारत्वं विश्वस्य स्वीक्रियते, तदा दहनशैत्यं वा गवालम्भनादेधर्मसाधनत्वादिकं वाऽङ्गीकार्यं स्यात्। प्रमाणविरोधेन प्रतिपक्षनिराकरणं च न स्यात्। किन्तु प्रत्यभिज्ञादिविरुद्धमपि क्षणिकत्वादिकमङ्गीकर्तव्यं स्यात्, अविशेषात्।
यदिचाप्रामाणिकमपि सर्वप्रकारत्वमुररीक्रियते, तदा खरविषाणादिकं वा गोमांसादिभक्षणस्य धर्मसाधनत्वं चोररीकरणीयं स्यात्। प्रमाणाभावेन परमतनिरासोऽपि न कार्यः स्यात्। तदप्यभ्युपगमनीयमेव भवेत्, अविशेषात्। तथाच दूष्योपादेयहीनस्य शास्त्रनिर्माणमपि न स्यात्।
यदिच व्याहतमपि सर्वप्रकारत्वमङ्गीकुर्यात् तदा मातुरपि वन्ध्यात्वम्, जिनोपदेशस्य प्रमाणतयाऽभ्युपगतस्याप्यप्रामाण्यम्, बद्धस्यापि मुक्तत्वम्, मुक्तस्यापि बद्धत्वम्, सिद्धस्यापि रागित्वम्, श्वपचस्यापि सिद्धत्वमित्यादिसर्वमप्यङ्गीकार्यं स्यात्। अन्यथाऽनेकान्तभङ्गप्रसङ्गात्। एवञ्च न शास्त्रप्रणयनप्रयासः कार्यः। मत्तोन्मत्तादिभिरेवास्य कृतत्वादिति।
॥ परेण आत्मनः कायपरिमाणत्वप्रतिपादनम्॥
एवं विश्वस्य क्षपणकोक्तं सर्वप्रकारत्वं निराकृत्य तदुक्तमर्थान्तरमपि निराकर्तुमनुवदति वक्तीति।
वक्ति स्वप्रभमात्मानं देहमानम्.....।
क्षपणक इति वर्तते। स्वप्रभं स्वप्रकाशम्। देहस्य मानं परिमाणमिव मानं यस्यासौ तथोक्तः। अत्र देहमानत्वमेव विप्रतिपन्नोऽर्थः। स्वप्रभत्वं तु सम्मतमेवास्माकम्। यद्वा स्वप्रभमिति क्रियाविशेषणम्। विना प्रमाणेन स्वीयया प्रभयोत्प्रेक्ष्यैव वक्तीति। अथवाऽनेन देहपरिमाणत्वे जैनोक्तं प्रमाणाभासमनुवदति। तत्र स्वशब्देन स्वीयो देह उचयते। तत्र प्रभा यस्यासौ तथोक्तः।
तथाच प्रयोगः देवदत्तात्मा तद्देह एव, तत्र सर्वत्रैव च विद्यते, तत्रैव तत्र सर्वत्रैव च स्वासाधरणगुणाधारतयोपलम्भात्; यो यत्रैव यत्र सर्वत्रैव स्वासाधारणगुणाधारतयोरपलभ्यते स तत्रैव तत्र सर्वत्र च विद्यते। यथा देवदत्तगृह एव तत्र सर्वत्र चोपलभ्यमानस्वासाधारणभास्वरत्वादिगुणः प्रदीपः। तथाचायम्। तस्मात् तथेति। अन्यथा कमनीयतनयालिङ्गनेन सर्वत्राऽह्लादकरस्य सुखस्याननुभवप्रसङ्गः। तथाच सर्वाङ्गीणरोमाञ्चादिकार्यानुदयः स्यादिति। यद्वा प्रदीपस्येव स्वानपायिनी प्रभा यस्यासौ स्वप्रभ इति।
॥ आत्मनः कायपरिमाणत्वे पिपीलिकादिदेहस्थात्मनो
गजादिदेहप्राप्तौ सर्वदेहव्यापित्वाभावप्रसङ्गः॥
अत्राऽत्मनः कायपरिमाणत्वनिरासार्थं सूत्रम् “एवञ्चाऽत्माकार्त्स्न्यम्” इति। तस्य तात्पर्यमाह तदपीति।
ॐ एवञ्चाऽत्माकार्त्स्न्यम् ॐ॥३४॥
ॐ नच पर्यायादप्यविरोधो विकारादिभ्यः ॐ॥३५॥
........................तदप्यलम्।
दुष्टं नानाशरीरेषु प्रवेशादन्यथाभवात्॥२३६॥
कुतः? अकार्त्स्न्यादिप्रसङ्गादिति शेषः। पिपीलिकादिदेहस्थस्य तत्परिमाणस्याऽत्मनः कर्मविपाकवशाद् गजगवयादिदेहप्राप्तौ तत्राकार्त्स्न्यं स्यात्। गजादिदेहगतस्य च तत्परिमाणस्य पिपीलिकादिदेहेऽतिरेकः स्यादित्युभयथा कायपरिमाणत्वानुपपत्तिरेवेति। एतदर्थत्वेन वा नानाशरीरेष्विति वाक्यं योज्यम्। तत्रान्यथाभवादिति कायपरिमाणत्वाभावापत्तेरित्यर्थः।
॥ क्रमात् तत्तद्देहपरिमाणत्वाङ्गीकारे आत्मनो विकारित्वप्रसङ्गः॥
स्यादेतत्। यंयं देहं प्राप्नोत्यात्मा तत्तत्परिमाणो भवति, अतो नोक्तदोष इत्याशङ्कानिरासार्थं सूत्रम् “नच पर्यायादप्यविरोधो विकारादिभ्यः” इति। तस्य तात्पर्यमाह तदप्यलमिति। चित्तस्थं परिमाणपर्यायं तच्छब्देन परामृशति। नानाशरीरेषु प्रवेशादन्यथाभावादिति। स्थूलसूक्ष्मशरीरेषु प्रवेशात् स्थूलसूक्ष्मपरिमाणोपजनने सति परिमाणतद्वतोरत्यन्तभेदानभ्युपगमादात्मन एवान्यथाभावप्रसङ्गादित्यर्थः।
॥ आत्मनो विकारित्वाङ्गीकारेऽनित्यत्वप्रसङ्गः॥
अस्त्वात्मन एवान्यथाभावः, ततः को दोष इत्यत आह अन्यथेति।
अन्यथाभावि यद् वस्तु तदनित्यमिति स्थितिः।
तन्मते तदनित्यत्वं पुद्गलस्यानिवारितम्॥२३७॥
स्थितिः व्याप्तिः। तन्मते जैनदर्शने। अङ्गीकृतेति शेषः। ततोऽपि किमित्यत आह तदिति।यत एवं व्याप्तिः, यतश्चान्यथाभावित्वमङ्गीकृतम्, तत् तस्मादात्मनोऽनित्यत्वमापतीति शेषः। अत्र दृष्टान्तः पुद्गलस्येति। इवशब्दोऽध्याहार्यः। पुद्गलस्य देहस्येवेति। यद्वा पुद्गलशब्दो जरज्जैनैरात्मवाचित्वेन स्वीकृत इत्यत्राऽत्मवाची। यद्वा स्वमतेनायमात्मनि प्रयुक्तः। यथाऽऽहुः “पुद्गलो निरयं गिरन्” इति।
नन्ववस्थापर्यायरूपेणाऽत्मनोऽप्यनित्यत्वमङ्गीक्रियत एव। तत् कथमनित्यत्वापादनमित्यतो वा पद्गलस्य देहस्येवेत्युक्तम्। यथा देहस्य देहाकारनामपरित्यागेन भस्मीभावलक्षणानित्यत्वम्, तथाविधमात्मनोऽप्यापाद्यत इति। नन्वन्यथाभावस्यैवंविधानित्यत्वेन व्याप्तिर्नास्ति, परमाण्वादौ व्यभिचारात्। तत् कथमापादनम्? मैवम्। परिमाणव्यत्ययलक्षणस्यान्यथाभावस्यैवंविधानित्यत्वव्याप्तत्वेन देहादौ दृष्टतया तद्वतोऽप्यात्मनस्तथाविधानित्यत्वस्य निवारयितुमशक्यत्वात्। तदिदमुक्तम् अनिवारितमिति।
॥ सिद्धान्ते आत्मनो सुखदुःखादिना विकारित्वाङ्गीकारेऽपि नानित्यत्वप्रसङ्गः॥
नन्वस्मन्मतवद् भवन्मतेऽप्यात्मनोऽन्यथाभावोऽस्त्येव, सुखदुःखाभ्यामुच्चनीचत्वाभ्युपगमात्। अन्यथाभाविनश्च देहादेरनित्यतोपलब्धा। तस्माद् भवन्मतेऽप्यात्मनोऽनित्यता दुर्वारेत्यत आह नेति।
नानित्यताऽस्मत्पक्षे तु चैतन्यादेर्विशेषिणः।
लक्षणस्य निवृत्तौ तु स्यान्न तच्चेतने क्वचित्॥२३८॥
अन्यथाभाववतोऽप्यात्मनः प्रसज्यत इति शेषः। तत् कथमित्यत आह चैतन्यादेरिति। अस्मन्मत इति वर्तते। अनित्यतेति च। तुशब्दोऽवधारणे। अस्मन्मते चैतन्यादेर्लक्षणस्य निवृत्तावेव विशेषिणो लक्षणवतोऽर्थस्यानित्यता स्यात्। नतु जैनानामिवान्यथाभावमात्रेण।
एतदुक्तं भवति यस्य वस्तुनो यल्लक्षणं तन्निवृत्तिरूपोऽन्यथाभाव एव तदनित्यतानिबन्धनम्, नान्यथाभावमात्रमिति।
एवन्तर्हि शब्दादिलक्षणाभावाद् गगनादीनां महाप्रलये विनाशः स्यात्, चेष्टाश्रयत्वाभावाच्छरीरस्य सुप्त्यादौ विलयो भवेदित्यत उक्तम् विशेषिणो लक्षणस्येति। विशेषवतो लक्षणस्य, नतु लक्षणमात्रस्येत्यर्थः। किमतो यद्येवमित्यत आह नेति। तदिति सामान्येन वाक्यार्थं परामृशति। अनित्यत्वकारणत्वेनोक्तं विशेषिणो लक्षणस्य निवर्तनं चेतने क्वचिदपि न स्यात्। अतस्तस्यानित्यताऽपि न स्यात्। यद्वा तदिति लक्षणपरामर्शः। चेतने वर्तमानं क्वचिन्न निवर्तत इति शेषः।
॥ यावल्लक्ष्यभाविलक्षणनिवृत्तेरेवानित्यताकारणत्वम्॥
विशेषिणो लक्षणस्य निवृत्तौ लक्षस्यानित्यता स्यादित्युक्तम्। तद् विशदयति ओतेति।
ओतप्रोतात्मकत्वं तु पटे देहेऽङ्गसंस्थितिः।
इत्यादिलक्षणस्यैव निवृत्तौ स्यादनित्यता।
औतप्रोतात्मकत्वं नाम तन्तूनां संयोगविशेषः पटे लक्षणमिति शेषः। अङ्गसंस्थितिः करचरणाद्यङ्गानां सन्निवेशविशेषः। आदिशब्दः प्रकारवचनः। अनित्यता लक्ष्यस्येति शेषः। यावल्लक्ष्यभाविनां लक्षणानां निवृत्तिरेव लक्ष्यानित्यत्वनिमित्तम्। तादृशं चाऽत्मनश्चैतन्यम्। तच्च कदाऽपि न निवर्तते इति कथं तस्य विनाशप्रसङ्ग इति।
॥ आत्मनः स्वप्रभत्वाङ्गीकारेऽपि अनित्यत्वप्रसङ्गः॥
यदुक्तमात्मा स्वप्रभ इति, तदप्यसत्। स्वप्रभावतः प्रदीपादेरिव रूपस्पर्शापत्तेः। रूपादिमत्वाच्च विनाशित्वापत्तेः। यद् रूपादिमत् तदनित्यमिति परेणैव व्याप्तेरङ्गीकृतत्वादिति।
॥ सिद्धान्ते आत्मनो रूपादिमत्त्वेऽपि प्राकृतरूपाद्यभावात् नानित्यताप्रसङ्गः॥
ननु सिद्धान्तेऽप्यात्मनो रूपादिमत्त्वमङ्गीक्रियत एव, रूपादिमतोऽनित्यत्वमिति व्याप्तिश्च। “रूपादिमत्त्वाच्च विपर्ययो दर्शनात्” इत्युक्तत्वात्। तत् कथमनित्यत्वपरिहार इत्यत आह भौतिकं त्विति।
भौतिकं त्वेव रूपादि व्याप्तं नाशेन नो मते॥२३९॥
तुशब्दो विशेषार्थः। स एव भौतिकमिति विवृतः। न रूपादिमात्रमित्येवार्थः। नच भौतिकं रूपादिकमात्मन्यस्ति। तस्मान्नानित्यताप्रसङ्ग इति भावः।
॥ जैनमते आत्मनोऽनित्यत्वप्रसङ्गस्य दुष्परिहरत्वम्॥
यथा भवद्भिरन्यथाभावो विशेष्यते, यावल्लक्ष्यभाविविशेषलक्षणव्यावृत्तिरूपोऽन्यथाभावोऽनित्यत्वव्याप्त इति। रूपादिमत्त्वं च भौतिकत्वेन। तथाऽस्मन्मतेऽपि विशेषणप्रक्षेपे नोक्तदोष इत्यत आह नैवमिति।
नैवं तस्यान्यथाभावो यस्यानित्यत्वमीरितम्।
रूपादियुक्तस्य तथा जगन्नाशित्वसिद्धये।
व्याप्त्या तयाऽन्यथाभावादात्मनोऽनित्यता भवेत्॥२४०॥
तस्य क्षपणकस्य मते नैवमन्यथाभावो रूपादिमत्त्वं च विशेष्यते। किन्तु सामान्यमेवानित्यत्वव्याप्ततयाऽङ्गीक्रियते ततो नोक्तदोषपरिहार इत्यर्थः।
तत् कथमित्यत आह अन्यथेति। भूभूधरादेर्जगतो नाशित्वसिद्धये यस्यान्यथाभावः, तस्यानित्यत्वमीरितं क्षपणकेन। तथाशब्दः समुच्चये। रूपादियुक्तस्याप्यनित्यत्वमीरितमिति। यद्वा यद् रूपादियुक् तत् तथाऽनित्यमीरितमिति योजना। तस्येत्यस्य यस्येत्यनेनान्वयः। अन्यथा तु यच्छब्दश्रवणात् तच्छब्दाध्याहारः। पूर्ववाक्यात् तस्येत्यनुवर्तते वा। एतच्चोपपादययिष्यते। (८२०)
उक्तमुपसंहरति व्याप्त्येति। यदन्यथाभावि तदनित्यम्, यच्च रूपादिमत् तदनित्यमिति व्याप्त्या। अन्यथाभावादित्युपलक्षणम्। रूपादिमत्त्वाच्चेत्यपि द्रष्टव्यम्।
स्यादेतत्। सम्प्रतिपन्नव्याप्तिकव्याप्यारोपे अनिष्टव्यापकारोपस्तकः। अत्र च नचेद् व्याप्तिः सम्मता कथन्तर्हि तर्कत्वम्? मैवम्। व्याप्यवद् व्याप्तेरपि पराभ्युपगतत्वेऽपि तर्कत्वाविरोधात्। एवमेव क्वचिदाश्रयस्योभयासम्मतावपि न दोषः। वक्ष्यति चैतत् “परन्यायैस्तु दूषणम्” इति। (९५७)
॥ मोक्षस्य सन्ततोर्ध्वगतिरूपत्ववादभङ्गः॥
क्षपणकोक्तं प्रमेयान्तरं निराकर्तुं सूत्रम् “अन्त्यावस्थितेश्र्चोभयनित्यत्वादविशेषात्” इति। तत्रान्त्यावस्थितेश्चेत्येतावत् तावद् व्याख्याति नित्येति।
ॐ अन्त्यावस्थितेश्र्चोभयनित्यत्वादविशेषात् ॐ॥३६॥
नित्योर्ध्वगतिरप्येषा या मुक्तिरिति कथ्यते।
अलोकाकाशमाप्तस्य कथं न विकृतिश्च सा॥२४१॥
अपिशब्दः प्रमेयान्तरनिराकरणसमुच्चयार्थः। चशब्दः परिमाणपर्यायेण सह समुच्चये। या एषा नित्योर्ध्वगतिर्मुक्तिरिति जैनैः कथ्यते, सा च कथमात्मनो विकृतिर्नो भवेत्? भवेदेव। तत् कथम्? अलोकाकाशमाप्तस्य। प्राक् लोकाकाशस्थो ह्ययमात्मा निरन्तरोर्ध्वगत्याऽलोकाकाशमाप्नोति। तथाचान्यथाभावादात्मनोऽनित्यत्वापत्तिरिति भावः। अनेनान्त्या या अवस्थितिः सन्ततोर्ध्वगतिलक्षणा, ततश्चाऽत्मनोऽनित्यत्वापत्तिरिति सूत्रखण्डस्यार्थ उक्तो भवति।
नन्वन्यथाभावमात्रमनित्यत्वस्य प्रयोजकमिति न तावद् भवदीयः पक्ष इत्युक्तम्। नापि मदीयः पक्षः। तत् कथं प्रदेशविशेषसंयोगमात्ररूपान्यथात्वेन मुक्तात्मनोऽनित्यत्वप्रसञ्जनमित्यतो जैनपक्षोऽयमिति समर्थयितुं तावत् पृच्छति कीदृशश्चेति।
कीदृशश्चान्यथाभावो नाशहेतुतयेष्यते।
संस्थानापगमश्चेत् स नहि भूसागरादिषु।
यः कश्चिदन्यथाभावो यदि मुक्तिश्च तादृशी॥२४२॥
क्षपणकेन हि क्षित्यादेः सर्वस्य नित्यत्वाद्यनेकान्तं समर्थयमानेन द्रव्यपर्यायाभ्यां नित्यत्वमनित्यत्वं चेत्युक्तम्। द्रव्याकारस्य कदाऽप्यनपायान्नित्यत्वम्। पर्यायोऽन्यथाभावः तस्मादनित्यत्वमिति। तत्र वक्तव्यम्। कीदृशोऽत्रान्यथाभावो नाशं प्रति हेतुतयेष्यते? किं संस्थानादिलक्षणापगमरूपो वा, साधारणो वेति भावः।
आद्यं शङ्कते संस्थानेति। संस्थानग्रहणं लक्षणोपलक्षणम्। नाशहेतुतयेष्यत इति सम्बन्धः। प्रतिषेधति स नेति। वक्तुं शक्यत इति शेषः। कुतो नेत्यत आह स नहीति। यावल्लक्ष्यभाविलक्षणापगमलक्षणोऽन्यथाभावो भूसागरादिषु पक्षैकदेशभूतेषु नहीदानीं प्रमितः, ततो हेतोः सन्दिग्धासिद्धत्वं स्यादित्यर्थः। प्रमितत्वे तु तस्यानित्यत्वेऽपि संशयो नास्तीत्यनुमानं व्यर्थमापद्यते।
तर्हि द्वितीयोऽस्त्विति शङ्कते यः कश्चिदिति। पूर्ववदेव सम्बन्धः। अविवक्षितविशेष इत्यर्थः। एवन्तर्हि मुक्तात्मनोऽप्यनित्यत्वापादनं सुस्थितमिति भावेनाऽह मुक्तिश्चेति। तादृशी अन्यथाभावस्वरूपा। एवमप्यात्मनो नित्यत्वे भूभूधरादीनामपि नित्यत्वं स्यात्। अन्यथा हेतोरनैकान्त्यात्। तदिदमुक्तं सूत्रकृता “उभयनित्यत्वात्” इति।
अवयवोपचयापचयलक्षणोऽन्यथाभावोऽनित्यत्वे हेतुरिति चेत्, न। स्फटिकादौ पक्षैकदेशे सन्दिग्धत्वात्। रूपादिमत्त्वं सविशेषणमुपादीयते चेत् को दोष इति चेत्, न। परस्य वैयर्थ्यप्रसङ्गात्। नहि परो रूपादिमत् किञ्चिन्नित्यमभ्युपैति। आत्मनस्तु प्रभया रूपादिमत्त्वमापादितमेव। यद्वा आत्मनो रूपादिमत्त्वं स्वसिद्धान्त एव। रूपादिमतोऽनित्यत्वमिति व्याप्त्यङ्गीकारे पूर्वोक्तानित्यत्वप्रसङ्गो व्याख्यातव्यः।
॥ स्थावराणामनात्मकत्ववादभङ्गः॥
क्षपणकोक्तमर्थान्तरं दूषयितुमनुवदति देहेति।
देहमाने विकारः स्यादिति स्थास्नूननात्मनः।
आह हस्त्यादिदेहेषु ह्यपि स्यादन्यथाभवः॥२४३॥
देहमाने देहमानत्वे। प्रमिते सतीति शेषः। विकारः स्यात्, स्थावराणां सात्मकत्वाङ्गीकृतावात्मन इति शेषः। इति, स मा भूदित्येवमर्थम्। स्थास्नून् वृक्षादीन्। अनात्मनः आत्मानधिष्ठितान्। आह क्षपणकः।
अत्र क्षपणकः स्थावराननात्मन आहेत्येतावत्येव वक्तव्ये यदात्मनो देहपरिमाणत्वस्य प्रमितत्वाद् वृक्षादीनामपि सात्मकत्वे तत्परिमाणत्वापत्तावङ्कुरावस्थायामणुमात्रस्य महावृक्षावस्थायां च महतो विकारित्वं विकारित्वादनित्यत्वं च प्रसज्येत तन्मा प्रासाङ्क्षीदित्येतदर्थमिति हेतुकथनम्, तत् पूर्वोक्तप्रमेयदृढीकरणार्थम्। यदि विकारित्वमात्रमनित्यत्वे प्रयोजकं जैनो नाभ्युपेयात्, तदा विकारित्वेनानित्यत्वप्रसङ्गाद् बिभ्यता स्थावराणामनात्मत्वं यत् तेनाभ्युपगतम्, तदनुपपन्नं स्यात्। नहि स्थावराणां सात्मकतायामात्मनो लक्षणापगमो भवति। किन्त्वन्यथाभावमात्रमिति। यद्वा दूषणसौकार्यार्थं हेत्वनुवादः।
तदिदं विकारित्वापत्तिभयात् स्थावरणामनात्मत्वाङ्गीकरणमयुक्तम्। तथासति हस्त्यादिशरीराणामाप्यनात्मत्वस्याङ्गीकार्यत्वप्रसङ्गात्। तत् कथमित्यत आह हस्त्यादीति। पिपीलिकादिदेहस्थस्य तत्परिमाणस्य हस्त्यादिदेहेषु प्राप्तेष्वन्यथाभावः स्यात्, हि तस्मादिति। अथवा शरीरमात्रस्य अनात्मकत्वमापाद्य तदुपपादनमिदं क्रियते। हस्त्यादिसर्वदेहेष्वपि आत्मनोऽन्यथाभावः स्यात्। उत्पत्तिसमये देहानां हस्तवितस्त्यादिमात्रपरिमाणत्वात्। यौवने तूत्कृष्टपरिमाणत्वादिति। अनेन “अविशेषात्” इति सूत्रखण्डस्यार्थ उक्तो भवति।
॥ स्थावराणां सात्मकत्वे बाधकोद्धरः॥
ननुच विषमोऽयमुपन्यासः। अल्पैव हि हस्त्यादिदेहेष्वात्मनो विकृतिः। वृक्षादौ तु महती। ततो वृक्षादीनामनात्मत्वे हस्त्यादीनामपि तदापादनमनुचितमित्यत आह अणुदेहस्येति।
अणुदेहस्य जीवस्य गजत्वे विकृतिर्हि या।
देहव्याप्तौ विशेषः कस्तस्याः स्थास्नुतनौ च नुः॥२४४॥
अणुदेहस्य पिपीलिकादिदेहस्य जीवस्य गजत्वे प्राप्ते। यद्वोत्पत्तिसमये अणुदेहस्य हस्तवितस्त्यादिपरिमितदेहस्य महागजत्वे प्राप्ते देहव्याप्तौ या यावती विकृतिः, स्थास्नुतनौ च नुः पुरुषस्य या विकृतिः, तस्याः तस्याश्च परस्परं को विशेषः? न कोऽपि।
अयमर्थः आत्मनः किं महती विकृतिरनित्यत्वहेतुत्वादनभ्युपगन्तव्या, किंवा विकृतिमात्रम्? नाऽद्यः, महत्त्वस्य अपरिनिष्ठितत्वात् परिनिष्ठाकल्पने केषुचिद् वृक्षादिषु तदभावात्। तदविरोधेनापि परिनिष्ठाङ्गीकारे हस्त्यादावपि तद्भावात्। द्वितीये तूभयोर्विकारित्वेनाविशेषाद् वृक्षादिवद् हस्त्यादावप्यनात्मत्वमङ्गीकार्यम्। हस्त्यादिवद् वृक्षादीनामपि सात्मकत्वं न परित्याज्यमिति। एतेन “अविशेषात्” इत्यस्य अर्थान्तरमुक्तं वेदितव्यम्।
॥ वृक्षादीनां इन्द्रियवत्त्वप्रतिपादनपूर्वकं सात्मकत्वसमर्थनम्॥
स्यादेतत्। न वयं विकारित्वापत्तिभयाद् वृक्षादीनामनात्मकत्वमाचक्ष्महे। किन्तु सात्मकत्वे प्रमाणाभावात्, बाधकप्रमाणसद्भावाच्च। वृक्षादीनां देहत्वे तद्व्यापकमिन्द्रियवत्त्वमपि स्यात्। नच तदस्ति। तत्कार्यस्य श्रवणादेरभावात्। सोऽपि तज्ज्ञापकस्याभावात्। अदेहत्वे च न सात्मकत्वम्, शिलादिवदित्यत आह गीतादिति।
गीतात् पुष्पफलावाप्तिः स्पर्शात् कार्श्यं रसात् स्थितिः।
अपि वृक्षस्य दृश्यन्त इति नानात्मता भवेत्।
गीतात् तावद् वृक्षस्यापि पुष्पफलावाप्तिर्दृश्यते। तया श्रवणमनुमीयते, विमतः श्रवणवान् गीतसान्निध्ये सति लब्धविकासत्वात्; राजादिवदिति। नचायं स्वभाव एव। राजादेरपि तत्प्रसङ्गात्। श्रवणेन च श्रोत्रसद्भावोऽनुमीयते। एवं शीतोष्णस्पर्शविशेषात् कार्श्यं दृश्यते। तेन सुकुमारशरीरवत् स्पर्शज्ञानमनुमीयते। तेन च त्वगिन्द्रियसत्त्वम्। तथोदकादिरसात् स्थितिरशुष्यतोऽवस्थानं दृश्यते। तेन सम्मतदेहवद् रसज्ञानम्, ततो रसनेन्द्रियसद्भावोऽनुमीयते। एवं कमनीयकान्तावलोकनेनोत्कोरकत्वं तिलकवृक्षस्योपलभ्यते। तेन दर्शनकामौ। ततो नयनमनसी सिद्ध्यतः। धूपोपयोगेन चातिशयदर्शनाद् घ्राणसिद्धिरिति प्रसिद्धशरीराविशेषात् स्थावराणामनात्मता न सिद्ध्येत्।
॥ नैयायिकोक्तसात्मकत्वानुमानदूषणम्॥
केचित्, मूले निषिक्तानामपामुपरि सर्पणादाध्यात्मिकवायुसम्बन्धमनुमाय सात्मकत्वमनुमिमते। तदसत्। भस्मगुलिकादौ व्यभिचारात्। एतेन “अविशेषात्” इत्येतत् प्रकारान्तरेण व्याख्यातं भवति।
॥ उक्तार्थानामुत्सूत्रितत्वशङ्कानिरासः॥
“वक्ति स्वप्रभम्” इत्यादिकमुत्सूत्रितं कस्माद् वर्णितमिति मन्दाशङ्कां निवारयितुं सूत्रारूढं करोति एवञ्चेति।
एवञ्चाऽत्माकार्त्स्न्यमिति तत एवाऽह वेदवित्॥२४५॥
इति त्रिसूत्रीमिति शेषः। तत एव तदर्थमेव। उक्तस्यार्थस्य प्रतिपादनार्थमेव। एवमन्यत्रापि सूत्रानुपन्यासेन व्याख्यानेऽपि नैवमाशङ्कनीयमिति ज्ञापयितुमिदमभिहितमिति॥*॥ इति नैकस्मिन्नधिकरणम्॥१०॥
अथ पत्युरधिकरणम्॥११॥
॥ पाशुपतमतानुवादः॥
पत्युरसामञ्जस्यात्। इह महादेवं पुरस्कृत्य प्रवर्तमानानां मतमपाक्रियते। ते चतुर्विधाः शैवाः पाशुपताः कालामुखा महाव्र्ताश्चेति। तेषां सत्यप्यवान्तरभेदे साधारणमेव प्रमेयं वेदवादस्य अतिविरुद्धत्वादपाकर्तुमनुवदति सर्वज्ञत्वादिकैरिति।
सर्वज्ञत्वादिकैः सर्वैगुणैर्युक्तं सदाशिवम्।
जगद्विचित्ररचनाकर्तारं दोषवर्जितम्॥२४६॥
आहुः पाशुपताः..................।
पशुपतेरिमे पाशुपता इति चतुर्विधा अपि गृह्यन्ते। ते सदाशिवं जगद्विचित्ररचनाकर्तारमाहुः। ततो “जन्माद्यस्य यतः” इत्युक्तमसदिति। अज्ञानादिदोषयुक्तं कथं जगत्कर्तारमाहुरित्यत उक्तम् दोषवर्जितमिति। सार्वज्ञ्याद्यभावेऽज्ञानादिवर्जनं चेतनस्य नोपपद्यत इत्यतः सर्वज्ञत्वादिकैः सर्वैर्गुणैर्युक्तमित्युक्तम्। यद्वा सर्वज्ञत्वादिकैः सर्वैर्गुणैर्युक्तं दोषवर्जितमिति प्रधानलक्षणविरुद्धार्थोपन्यासः। जगद्विचित्ररचनाकर्तारमिति श्रौतब्रह्मलक्षणविरुद्धार्थोक्तिरित्यवगन्तव्यम्।
॥ श्रुतिभिः शिवस्य पारतन्त्र्यादिदोषवत्त्वप्रतिपादनपूर्वकं तस्य जन्मादिकारणत्वोक्तिप्रत्याख्यानम्॥
तदेतद् दूषयितुं “पत्युरसामञ्जस्यात्” इति सूत्रतात्पर्यमाह तच्चेति।
ॐ पत्युरसामञ्जस्यात् ॐ॥३७॥
..................तच्च बहुश्रुतिविरोधतः।
नोपादेयं मतं ह्यस्य देवस्य स्तुहि गर्तगम्॥२४७॥
उत्पिपेष शिरस्तस्य गृणीषे सत्पतिं पदम्।
यद् विष्णोरुपमं हन्तुं रुद्रमाकृष्यते मया॥२४८॥
धनुर्यं कामये तं तमुग्रं मा शिश्नदेवताः।
घ्नञ्छिश्नदेवानेकोऽसावासीन्नारायणः परः॥२४९॥
तस्माद् रुद्रः सम्प्रसादश्चाभूतां वैष्णवं मखम्।
यज्ञेन यज्ञमयजन्ताबधन्न् पुरुषं पशुम्॥२५०॥
यो भूतानामधिपती रुद्रस्तन्तिचरो वृषा।
इत्यादिश्रुतिसामर्थ्यात् पारतन्त्र्यं जनिर्मृतिः॥२५१॥
पराधीनपदप्राप्तिरज्ञत्वं प्रलयेऽभवः।
प्रतीयन्ते सदोषत्वान्नेशः पशुपतिस्ततः॥२५२॥
चशब्दः पूर्वमतैः सह समुच्चयार्थः। हिशब्दो हेतौ। तत् पशुपतेः सर्वजगत्कारणत्वादिकं मतं नोपादेयम्। कुतः? पत्युः पशुपतेः, असामञ्जस्यात् दोषित्वात्। तदनङ्गीकारे च बहुश्रुतिविरोध इति योजना। कास्ताः श्रुतय इत्यतस्ता उदाहरति अस्येति। अनेन
“अस्य देवस्य मीळ्हुषो वया विष्णोरेषस्य प्रभृथे हविर्भिः।
विदे हि रुद्रो रुद्रियं महित्वं यासिष्टं वर्तिरश्विनाविरावत्”
इति श्रुतिमुपादत्ते। स्तुहि गर्तगमित्यनेन,
“स्तुहि श्रुतं गर्तसदं युवानं मृगं न भीममुपहत्नुमुग्रम्।
मृळा जरित्रे रुद्र स्तवानोऽन्यं ते अस्मन्निपन्तु सेनाः” इति।
उत्पिपेषेत्यनेन “रुद्रस्य त्वेव धनुरार्त्निः शिर उत्पिपेष” इति।
गृणीषेत्यनेन
“कुमारश्चित् पितरं वन्दमानं प्रति नानाम रुद्रोपयन्तम्।
भूरेर्दातारं सत्पत्तिं गृणीषे स्तुतस्त्वं भेषजा रास्यस्म” इति।
पदमित्यनेन
“तव श्रिये मरुतो मर्जयन्त रुद्र यत्ते जनिम चारु चित्रम्।
पदं यद् विष्णोरुपमं निधायि तेन पासि गुह्यं नाम गोनाम्” इति।
हन्तुमित्यनेन “अहं रुद्राय धनुरातनोमि ब्रह्मद्विषे शरवे हन्तवा उ” इति।
यं कामय इत्यनेन “यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम्” इति।
मा इत्यनेन “मा शिश्नदेवाँ अपि गुर्ऋतं नः” इति।
घ्नन्नित्यनेन “घ्र्ञ्छिश्नदेवाँ अभिवर्पसा भूत्” इति।
एकोऽसावित्यनेन “एको नारायण आसीन्न ब्रह्मा नच शङ्करः” इति।
तस्मादित्यनेन “स रुष्टः स प्रसन्नो यद् रुष्टो यत् प्रसन्नस्तस्माद् रुद्रसम्प्रसादावभूताम्” इति।
वैष्णवमित्यनेन “तेषां मखं वैष्णवं यश आर्छत्” इति।
“यज्ञेन” इति “अबधन्न्” इति, “यो भूतानाम्” इति प्रसिद्धम्।
कथमेताभिः श्रुतिभिः पशुपतेर्निर्दोषत्वं विरुद्धमित्यतस्तासां तात्पर्यमाह इत्यादीति। अभवः अभावः। प्रतीयन्ते पशुपतेरिति शेषः।
“अस्य देवस्य” इत्यनेन पराधीनपदप्राप्तिः प्रतीयते। मीळ्हुषः सेचकस्य, एषस्य इच्छारूपस्य, अस्य विष्णोर्देवस्य, प्रभृथे प्रभरणे पूजायामिति यावत्। हविर्भिः कृते सति वयाः बन्धको रुद्रः, रुद्रियं महित्वं रौद्रं पदम्, विदे विविदे लेभे। हि यथा तथा हे अश्विनौ युवामपि इरावत् अन्नवत्, वर्ति वर्तनम्, यासिष्टं अयासिष्ट प्राप्तवन्तौ स्थ इति।
“स्तुहि” इत्यनेन स्तावकतया पारतन्त्र्यम्। हे रुद्र त्वं श्रुतं प्रसिद्धम्, गर्तसदं हृदयगुहानिवासम्, युवानम्, मृगं न भीमं सिंहमिव भीषणम्, उग्रं उग्राणां दैत्यानां उपहत्नुं उपहन्तारं नृहरिं स्तुहि स्तौषि। स एवं स्तवानः स्तुवंस्त्वम्, जरित्रे स्तोत्रे, त्वां स्तुवन्तं माम्। मृळ मृडय सुखय। ते सेनाश्चास्मदन्यमेव निवपन्तु घ्नन्त्विति।
“रुद्रस्य” इत्यनेनाज्ञत्वम्, पारतन्त्र्यम्, मृतिश्च। आरोपितं धनुर्हनाववष्टभ्यावस्थितस्य रुद्रस्य शिरो ज्यायां वम्र्रिूपेणेन्द्रेण छिन्नायामुत्क्षिप्ता धनुरार्त्निरुत्पिपेष चिच्छेदेति।
“कुमारः” इत्यनेनापि पारतन्त्र्यम्, जनिश्च। हे रुद्र कुमारः पुत्रो भवान् जगद्व्यामोहनाय कैलासमुपयन्तम्, त्वां वन्दमानं पितरं कृष्णं प्रति ननाम। तेन स्तुतस्त्वं भूरेः पुरुषार्थस्य दातारं सत्पतिं गृणीषे स्तौषि स्तुतवानसि। एवम्भूतस्त्वमस्माभिः स्तुतः अस्मेऽस्मभ्यं भेषजा भेषजानि संसारव्याधिनिरसनानि ज्ञानानि रासि ददासि देहीति।
“तव श्रिये” इत्यनेन पराधीनपदप्राप्तिः, जनिः, पारतन्त्र्यं च। हे रुद्र यत् येभ्यः, ते जनिम जन्म अभूत्, ते मरुतो ब्रह्माणः अतीतवर्तमानाः, तव श्रिये सम्पदे, चारु सुन्दरम्, चित्रमाश्चर्यम्, उपमं उप समीपे मा लक्ष्मीर्यस्य संवहनकर्त्री तत् तथोक्तम्, यद् विष्णोः पदम्, मर्जयन्तः शोधितवन्तः क्षालितवन्तः, तत् त्वया हृदि निधायि न्यधायि। तेन कारणेन त्वं गोनां गवां वाचां मध्ये गुह्यं नाम नारायणादिकं पासि जपोपदेशादिना पालयसीति।
“अहम्” इत्यनेन मृतिः। अहं ब्रह्मद्विषे ब्रह्मद्विषां दैत्यानाम्, शरवे हिंसकाय हिंसकम्, रुद्राय रुद्रम्, हन्तवै हन्तुमेव प्रलये धनुरातनोमि विस्तारयामीति।
“यम्” इत्यनेन पराधीनपदप्राप्तिः। अहं यंयं रुद्रं कर्तुं कामये तन्तमुग्रं रुद्रं कृणोमि करोमि। एवं तं ब्रह्माणं तमृषिं तं सुमेधां सुमधसं करोमीति।
“मा” इत्यनेनाज्ञत्वम्। अतीतानागतवर्तमाना गुह्याभिमानिनो देवा रुद्रा अपि नोऽस्माकमुपास्यं ऋतं ज्ञानरूपं ब्रह्म मा गुर्न ज्ञातवन्त इति।
“घन्न्” इत्यनेन मृतिः। गुह्याभिमानिदेवान् घ्नन्नीश्वरो वर्पसा बलेन सर्वमभ्यभूदभिभूतवानिति।
“एकः” इत्यनेन प्रलयेऽभावः जनिश्च।
“तस्मात्” इत्यनेन जनिः। परमेश्वररोषजो रुद्र इत्यर्थः। सम्प्रसादो ब्रह्मा।
“तेषाम्” इत्यादिवाक्यैः पारतन्त्र्यम्। तेषां देवानां यशः, वैष्णवं मखं विष्णुमखे पशुत्वेन नियुक्तं रुद्रमार्छत् प्राप्तवदिति। देवा यज्ञेन रुद्रेण पशुना यज्ञं विष्णुमयजन्तेति। देवाः पुरुषं रुद्रं पशुमबध्नन्निति। यो भूतानाधिपती रुद्रः स विष्णोराज्ञारूपायां तन्त्यां चरति वृषा प्रसिद्धतन्त्यामिवेति।
एतासां श्रुतीनामेतदर्थत्वोपपादनं त्वाचार्येणैवान्यत्रोदाहृतेभ्यो वाक्येभ्यः, टीकातश्चावगन्तव्यम्। अत एव सामर्थ्यादित्युक्तम्।
सूत्रार्थमुपसंहरति सदोषत्वादिति। ततः श्रुतिबलेन सदोषत्वात् पशुपतिः ईशो जगत्कर्ता न भवति। दोषिणो यज्ञदत्तस्येव जगत्कर्तृत्वानुपपत्तेरिति।
॥ शिवस्याशरीरत्वात् जगता कार्यकर्तृभावरूपसम्बन्धानुपपत्तेश्च न तस्य कर्तृत्वम्॥
युक्त्यन्तरेण शिवस्य जगत्कर्तृत्वमपाकर्तुं सूत्रम् “सम्बन्धानुपपत्तेश्च” इति। तस्यार्थमाह अशरीरत्वत इति।
ॐ सम्बन्धानुपपत्तेश्च ॐ॥३८॥
अशरीरत्वतस्तस्य सम्बन्धो जगता क्वचित्।
कर्तृत्वेन न युज्येत.......................॥२५३॥
तस्य शिवस्य। अशरीरस्यापि गगनादेर्जगता सम्बन्धदर्शनात् कथमेतदित्यतः सम्बन्धमेव व्याख्याति क्वचित् कार्येकर्तृत्वेनेति। कार्यकर्तृत्वलक्षणः सम्बन्धो न युज्यत इत्यर्थः। क्वचिदित्यनेन कुतः सर्वकर्तृत्वमिति सूचयति। अयमत्र प्रयोगः शिवो न कर्ता, अशरीरत्वात्; सुप्तप्रलीनवदिति।
॥ उक्तानुमाने बाधकोद्धारः॥
ननु शिवः सिद्धः, नवा? न द्वितीयः, आश्रयासिद्धेः। आद्ये तु कर्तृत्वेनैव सिद्ध इति धर्मिग्राहकमानविरोधः। किञ्च भवन्मतेऽपि शिवस्य कर्तृत्वम्, शरीरित्वं चाङ्गीक्रियत एव। तथाचापसिद्धन्तान्यतरासिद्धी स्यातामिति।
उच्यते। इदमत्राऽकूतम् पशुपतेर्जगत्कारणत्वं वदन् प्रष्टव्यः। किं पाशुपतादिशास्त्राण्यनुमानानि वाऽऽश्रित्येदमुच्यते, उत श्रुत्यादिकम्? आद्ये त्वतिप्रसङ्गोऽयमुच्यते। यदि पाशुपताद्याश्रित्येदमुच्यते तर्हि तस्याशरीरत्वमपि ततः सिद्धमिति तदप्यङ्गीकार्यं स्यात्। तथाच कर्तृत्वानुपपत्तिरिति। अत एव न युज्येतेति लिङ्प्रयोगः। द्वितीये तु वक्ष्यत इति।(८३३) एवञ्च न कश्चिद् दोषः। शिवस्वरूपस्य अस्माकं श्रुत्यादितः सिद्धेराश्रयासिद्ध्यभावात्। परसिद्धेनाशरीरत्वेन कर्तृत्वाभावापादनाद् धर्मिग्राहकविरोधाद्यभावात्। एतेन पाशुपतादिविरोधात् श्रुतयोऽन्यथा योज्या इति निरस्तम्।
॥ कर्तृत्वशरीरित्वयोर्व्याप्त्युपपादनम्॥
नन्वशरीरस्यापि कर्तृत्वे बाधकाभावाद् व्याप्तिविधुरोऽयं प्रसङ्गः। कारकप्रयोक्तृत्वं हि कर्तृत्वं न शरीरित्वमित्यत आह देहिन इति।
..................देहिनो ज्ञानदृष्टितः॥२५३॥
सत्यं कारकप्रयोक्तृत्वमेव कर्तृत्वम्, न शरीरित्वमिति। तच्च न प्रयत्नेन विना सम्भवति। नचेच्छामन्तरेण प्रयत्नः। नच ज्ञानाद् विनेच्छा। नच शरीराद् ऋते ज्ञानम्। देहिनामेव जाग्रतां ज्ञानदर्शनात्। अदेहिनां सुप्तप्रलीनानां चादर्शनात्। ततः कर्तृत्वस्य व्यापकं शरीरं शिवाद् व्यावर्तमानं तदपि व्यावर्तयतीति।
ननु ज्ञानजन्मन्येव शरीरस्योपयोगः, ज्ञानस्येन्द्रियजन्यत्वात्। इन्द्रियाणां च शरीरसंयोगनियमात्। नित्यज्ञानश्च भगवाञ्छिव इति किं तस्य शरीरेणेति। एवन्तर्हि प्रयत्नजन्मन्येवेच्छा उपयोगिनीति नित्यप्रयत्नस्येच्छाऽपि न स्यात्। तथेच्छोत्पत्तावेव ज्ञानमुपयुज्यत इति नित्येच्छस्य ज्ञानमपि न स्यात्।
अथ न प्रयत्नमात्रं कर्तृत्वम्। अपितर्हि? ज्ञानेच्छे अपि। परिदृष्टसामर्थ्यकारकप्रयोक्तृत्वं कर्तृत्वमिति हि वृद्धा इति चेत्। तथाऽपीच्छात्यागे बाधकाभावात्। कुतश्चैवं कल्पनीयम्? कुलालादौ तथा दर्शनादिति चेत्। किं तत्र शरीरं न दृष्टम्? दृष्टमप्यनुपयुक्तमिति चेत्, किं नियमाभावादेवमाश्रीयते, अन्यत्रोपक्षयाद् वा? नाऽद्यः, व्यभिचाराभावात्। शरीरप्रेरणेऽपरं शरीरं नास्तीति चेत्, न। तेनैव सशरीरत्वात्। न द्वितीयः, निरस्तत्वात्। अन्यथा ज्ञानादीनामप्यनुपयोगप्रसङ्गः। कुतश्चास्य नित्यज्ञानत्वसिद्धिः? आगमादिति चेत्, न। परस्पराश्रयप्रसङ्गात्। सिद्धे ह्यागमप्रामाण्ये नित्यज्ञानेश्वरसिद्धिः, तत्सिद्धौ चाऽगमस्य तत्प्रणीतत्वेन प्रामाण्यसिद्धिरिति।
॥ विश्वस्यैव शिवशरीरत्वे शिवस्य विश्वसम्बन्धिसुखदुःखाद्यनुभवप्रसङ्गः॥
उक्तदोषपरिहारमाशय तन्निरासाय सूत्रम् “करणवच्चेन्न भोगादिभ्यः” इति। तन्नेत्यन्तं तावद् व्याचष्टे नचेति।
ॐ करणवच्चेन्न भोगादिभ्यः ॐ॥४०॥
नच देहादिवद् विश्वमस्य स्याद् भोगसम्भवात्।
यदुक्तमशरीरत्वाच्छिवस्य कर्तृत्वानुपपत्तिरिति, तदसत्। कुलालादयो हि कर्तारो दण्डादिकं साक्षात्प्रयत्नेनाधिष्ठातुमनीशानाः, तदधिष्ठानाय साक्षात्प्रयत्नाधिष्ठेयं शरीरमपेक्षन्ते। अस्य तु विश्र्वं कारकचक्रमेव देहवत् स्यात् साक्षात्प्रयत्नाधिष्ठेयं स्यात्। ततः किमपरेण शरीरेण? अत एव भगवान् विश्वमूर्तिरिति गीयते। नचाऽऽदिसृष्टेः प्राक् कारकाभावः। मायादेरनादेर्विद्यमानत्वात्। अन्यथा सृष्ट्यनुपपत्तेरिति। आदिपदेनेन्द्रियाणां वक्ष्यमाणस्याधिष्ठानस्य च सङ्ग्रहः। तदिदं नोपपद्यत इत्यर्थः।
कुतो नेत्यतः सौत्रहेतुं व्याख्याति भोगेति। यदि शिवस्य कारकग्रामः साक्षात्प्रयत्नाधिष्ठेयः स्यात्, तदा स तस्य सुखदुःखानुभवलक्षणभोगहेतुः स्यात्। साक्षात्प्रयत्नधिष्ठेयेऽस्मदादिशरीरे तथा दर्शनात्। कर्मार्जितस्यैव तथात्वमिति चेत्, न। साक्षात्प्रयत्नाधिष्ठेयत्वेन तथाभावस्याप्यापत्तेर्भोगादिमतश्च नेश्वरत्वम्। अतः शिवस्य भोगादिप्रसङ्गान्नेयं कल्पना युक्तेति।
॥ सृष्टिकाले भूतानां प्रलीनत्वेन पृथिव्याद्यधिष्ठानानुपपत्तेश्च शिवस्य न जगत्कर्तृत्वम् ॥
हेत्वन्तरेण शिवस्य विश्वकर्तृत्वं निराकुर्वत् “अधिष्ठानानुपपत्तेश्च” इति सूत्रं व्याचष्टे अधिष्ठान इति।
ॐ अधिष्ठानानुपपत्तेश्च ॐ॥३९॥
अधिष्ठाने स्थितः कर्ता कार्यं कुर्वन् प्रतीयते
यः कर्ता कुलालादिः स पृथिव्यादावधिष्ठाने स्थित एव घटादिकार्यं कुर्वन् प्रतीयते। नतु निरधिष्ठानः कश्चित् किञ्चित् कुर्वाणः। अनेन व्यतिरेकाविनाभावेन निरधिष्ठानत्वस्याकर्तृत्वेन व्याप्तिरुपपादिता भवति।
ततः किमित्यत आह नास्येति।
नास्याधिष्ठानयोगोऽस्ति भूतानां प्रलये तदा॥२५४॥
अस्य शिवस्य। तदा आदिसृष्टिसमये। कुतो नास्ति? प्रागुत्पन्नानां पृथिव्यादीनां महाभूतानां प्रलये सति। तस्मात् कर्तृत्वमपि तस्य नोपपद्यत इति शेषः।
ननु कारकाणामेव अधिष्ठानत्वं भविष्यति। मैवम्। साधिष्ठानस्य चेतनस्य भोगादिप्रसक्तेरुक्तत्वात्। नन्वयं निरधिष्ठानत्वहेतुः कर्तुर्विपक्षात् कुलालादिवाकर्तुः सपक्षाद् घटादेरपि व्यावृत्तत्वादसाधारणः। मैवम्। गगनादौ सपक्षे वृत्तेः।
॥ सूत्रद्वयस्य व्युत्क्रमेण व्याख्याने निमित्तम्॥
नन्विदं सूत्रद्वयं व्युत्क्रमेण कुतो व्याख्यातम्? सम्बन्धानुपपत्त्यधिष्ठानानुपपत्त्योरुभयोरपि परिहारः “करणवच्चेत्” इत्यनेन निरस्यत इति ज्ञापनार्थम्। यदि खलु यथाक्रममेव व्याख्यायेत, तदा सन्निहिताधिष्ठानानुपपत्तिपरिहारनिरासकमेवेदं ज्ञायेत। व्युत्क्रमेण तु उभयमध्ये व्याख्याने सत्युभयसम्बन्धि विज्ञायत इति। अत एव भाष्ये “अधिष्ठानादिरूपम्” इत्युक्तम्, अत्र तु देहादिवदिति।
॥ शिवस्य देहवत्त्वेऽन्तवत्त्वप्रसङ्गः, देहाभावे ज्ञानाभावप्रसङ्गः॥
ननु युक्तं कुलालस्याधिष्ठानसापेक्षत्वं शरीरित्वात्। शरीरं हि गुरुत्वात् प्रसक्तपतनं तत्प्रतिबन्धाय स्पर्शवदधिष्ठानमपेक्षते। अनवस्थितशरीरस्य कर्तृत्वायोगात्। ईश्वरस्य तु शरीरविधुरस्य किमधिष्ठानेन? इहेदं जातमित्यादिव्यवहारस्तु गगनादिकमाश्रित्योपपत्स्यत इत्यत आह अदेहश्चेदिति।
ॐ अन्तवत्त्वमसर्वज्ञता वा ॐ॥४१॥
अदेहश्चेदसर्वज्ञः शिलाकाष्ठादिवत् सदा।
देही चेदन्तवानेव यज्ञदत्तनिदर्शनात्॥२५५॥
सदेत्यनेन व्याप्तिमुपपादयति। अत एव शिलाकाष्ठादिवदित्यनेकदृष्टान्तोपादानम्। तथाच कुतः सार्वज्ञ्यम्, कुतश्च सर्वकर्तृत्वमिति भावः। स्यादेतत्। न सर्वथा सदाशिवोऽशरीरः। किन्तु लीलया शरीराण्यपि गृह्णाति। ततो नायं दोषः। नच भोगादिप्राप्तिः। लीलया गृहीतस्य विग्रहस्य तदहेतुत्वादित्यत आह देही चेदिति। अन्तवान् मरणवान् स्यात्। उपलक्षणं चैतत्। दुःखादिमांश्च स्यादित्यपि द्रष्टव्यम्।
नन्वसौ विग्रहो न तद्धेतुरित्युक्तम्। मैवम्। शरीरं न भोगायतनं चेत्यस्य व्याहतत्वात्। शरीरत्वेनैव तदनुमानाच्च। तदिदमाह एवेति। एतेन “अन्तवत्त्वमसर्वज्ञता वा” इति सूत्रं व्याख्यातं भवति। पाठक्रमादर्थक्रमो गरीयानित्यतो व्युत्क्रमेण व्याख्यानम्।
॥ विष्णोर्विश्वकर्तृत्वेऽपि प्रागुक्तदोषानाशय परिहारकथनम्॥
नन्वेवं शिवस्य जगत्कारणत्वमपाकुर्वतां कोऽभिप्रायः? किमकर्तृकमेवेदं विश्वमिति, किंवा विष्णुकर्तृकमिति। नाऽद्यः, कार्यस्याकर्तृकत्वे विरोधात्, अपसिद्धान्तप्रसक्तेश्च। न द्वितीयः, विष्णावपि कर्तर्यभ्युपगम्यमाने दोषाणामेषां समानत्वेन व्याहतत्वात्। तथाहि यदुक्तमसामञ्जस्यं शिवस्य तत् तावद् विष्णावपि समम्। “जनितोत विष्णोः” इत्यादौ जन्मादिदोषश्रवणात्। सम्बन्धानुपपत्त्यादिकं तु स्फुटमेवेत्यत आह नचेति।
नचैतदखिलं विष्णौ श्रुतिप्रामाण्यगौरवात्।
एतदखिलं दोषजातं विष्णावपि विश्वस्य कर्तर्यभ्युपगते समानमिति न वाच्यम्। कुतः? श्रुत्यैव सकलदोषपरिहारेण विष्णोर्विश्वकारणत्वस्य प्रतिपादितत्वात्। ननु पशुपतेरप्येवमागमैरनुमानैश्च जगत्कारणता प्रतिपादितैव। ततः को विशेष इत्यत आह श्रुतीति। पाशुपतादितोऽपि श्रुतीनां प्रामाण्यस्य गुरुत्वात्।
एतदुक्तं भवति पाशुपतादिकं हि शिवे जगत्कर्तरि सर्वज्ञे सिद्धे तत्प्रणीतत्वेन प्रमाणत्वेन निश्चीयेत। निश्चिते च तत्प्रामाण्ये शिवस्यैवंविधस्य सिद्धिरित्यन्योन्याश्रयतया दुरवधारणप्रामाण्यम्। अन्यतः शिवस्यैवंविधतासिद्धावलमनेन। नचान्यत् तादृशं प्रमाणमस्ति। अनुमानानां दूषितत्वात्। नचैवं श्रुतिप्रामाण्यम्। अपौरुषेयत्वेन करणदोषाणां बाधकप्रत्ययस्य चाभावे सति तस्य निष्कम्पमेव स्वतो निश्चितत्वात्। अतो निश्चितप्रमाणभावया श्रुत्या विधूतावद्यगन्धं विष्णोर्जगत्कारणत्वं सिद्ध्यत्येवेति।
॥ श्रुतिभिः विष्णोर्दोषराहित्यादिप्रतिपादनम् ॥
कास्ताः श्रुतय इत्यतस्ता उदाहरति मन इति।
मनोबुद्ध्यङ्गितां विष्णोर्लक्षयामो य एव सः॥२५६॥
स एव देहो विज्ञानमैश्वर्यं शक्तिरूर्जिता।
देहो विष्णोर्न ते विष्णो वासुदेवोऽग्रतो भवेत्॥२५७॥
एको नारायण आसीन्न ब्रह्मा नच शङ्करः।
अजस्य नाभावध्येकमर्पितं मात्रया परः॥२५८॥
सद्देहः सुखगन्धश्च ज्ञानभाः सत्पराक्रमः।
ज्ञानज्ञानः सुखसुखः स विष्णुः परमोऽक्षरः॥२५९॥
आनन्दः एक एवाग्र आसीन्नारायणः प्रभुः।
प्रित्यं तस्य शिरो मोदप्रमोदौ च भुजौ हरेः॥२६०॥
आनन्दो मध्यतो ब्रह्म पुच्छं नान्यदभूत् क्वचित्।
मनसोऽस्याभवद् ब्रह्मा ललाटादपि शङ्करः॥२६१॥
पक्षयोर्गरुडः शेषो मुखादासीत् सरस्वती।
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्॥२६२॥
इत्यादिश्रुतिसन्दर्भबलान्नित्यगुणात्मनः।
विष्णोर्देहाज्जगत् सर्वमाविरासीदितीयते॥२६३॥
अनेन “बुद्धिमनोङ्गप्रत्यङ्गवत्तां भगवतो लक्षयामहे। बुद्धिमान् मनोवानङ्गवान् प्रत्यङ्गवान्” इति श्रुतिमुपादत्ते। “य एव” इत्यनेन “यदात्मको भगवांस्तदात्मिका व्यक्तिः किमात्मको भगवान् ज्ञानात्मक ऐश्वर्यात्मकः शक्त्यात्मकः” इति। ऊर्जिता बलवती, सर्वत्राप्रतिबद्धा। एतदात्मको भगवांस्ततस्तस्य देहोऽप्येतदात्मक इति श्रुतिलब्धोऽर्थः। “न ते विष्णो” इत्यनेन “न ते विष्णो जायमानो न जातो देव महिम्नः परमन्तमाप” इति। “वासुदेवः” इत्यनेन “वासुदेवो वा इदमग्र आसीत्” इति। “मात्रया” इत्यनेन “परो मात्रया तन्वा वृधान न ते महित्वमन्वश्नुवन्ति” इति।
कथमेताभिः श्रुतिभिरभिप्रेतार्थसिद्धिरित्यतस्तासां तात्पर्यमाह इत्यादीति। नित्यश्चासौ गुणात्मा चेति तथोक्तः, तस्मात्। तत्र “बुद्धि” इति श्रुत्या विष्णोर्देहवत्त्वमवगम्यते। अङ्गं देहः, प्रत्यङ्गानि हस्तादीनि, लक्षयामहे ज्ञापयामः। कथम्? बुद्धिमानित्यादि। “यदात्मको भगवान्” इत्यनया भगवतो देहस्य ज्ञानादिगुणात्मकत्वम्। व्यक्तिः देहः। “न ते विष्णो” इत्यनया भगवतो देहस्य ज्ञानादिगुणात्मकत्वम्, अनादिनित्यत्वम्। जातादिभिरप्राप्यमहित्वस्यान्यथाऽनुपपत्तेः।
“वासुदेवः” इति श्रुतिद्वयेनानादिनित्यदेहत्वम्। “अजस्य” इत्यनया देहवत्त्वम्, तस्याप्यजत्वम्। “परो मात्रया” इत्यनया देशकालगुणैरपरिच्छिन्नतनुत्वम्। “सद्देहः” इत्यादिश्रुतिद्वयेन जन्मादिदोषरहितगुणात्मदेहवत्त्वम्। सद्देहो जन्मादिदोषरहितदेहः। सुखगन्धः सुगन्धः। ज्ञानभा नतु तैजसभाः। ज्ञानज्ञान इत्यादेरतिशयितज्ञान इत्यादिरित्यर्थः। प्रियादिशब्दाः सुखविशेषवाचिनः। अन्यत् प्राकृतादिकम्। “मनसः” इत्यादिश्रुतिद्वयेन देहवत्त्वम्, ततो जगतो जन्म च। “ब्राह्मणोऽस्य” इत्यादिवाक्यशेषात्। पक्षयोः पार्श्वयोः।
अत्र कासुचित् श्रुतिषु विवक्षिथार्थो न स्फुटं प्रतीयते। किन्तूपपत्तिसाध्य इत्याशयवतोक्तम् बलादिति। आविरासीदित्यनेन सत्कार्यवादं सूचयति। ईयते ज्ञायते। अत्र सकलजगत्कारणत्वस्यैव श्रुतिसिद्धत्वे सर्वदोषपरिहारः सिद्धत्येव। नहि दोषेषु सत्सु तत् सम्भवति। तथाऽपि दोषाभावोऽपि श्रौतोऽस्ति किमुपपत्तिगवेषणयेत्याशयेन सोऽपि दर्शितः। तत्र देहवत्त्वेन देहाभावप्रयुक्तानि दूषणानि प्रत्युक्तानि। तस्य च देहस्य ज्ञानानन्दादिगुणात्मकत्वेन जननादिदोषपरिहारोऽपि सिद्धः। “जनितोत” इत्यादिवाक्यं तु बह्वीभिर्निरवकाशादिभिः श्रुतिभिः विरुद्धमन्यथा व्याख्येयम्। तदिदमुक्तम् सन्दर्भबलादिति।
॥ विष्णोर्ज्ञानानन्दादिविग्रहत्वोक्तौ बाधकोद्धारः॥
स्यादेतत्। देहो ज्ञानानन्दादिगुणात्मा, अनादिनित्यश्चेत्येतच्छशो विषाणवानितिवद् विरुद्धम्। यो देहः स भौतिको जन्मादिमानिति नियमदर्शनात्। ततो विष्णोर्देहमङ्गीकृत्य तस्याभौतिकत्वाद्यङ्गीकारे शशस्यापि विषाणित्वमङ्गीकार्यमित्यतो देहस्याभौतिकत्वादिना विरोधं तावदपाकरोति मानवत्त्वादिति।
मानवत्त्वाद् विरोधः को नामानं क्वचिदिष्यते।
अविरोधो विरोधश्च मानेनैव हि गम्यते
अत उक्तं समस्तं च वासुदेवस्य युज्यते॥।२६४॥
क इत्याक्षेपे। नास्ति विरोधः इत्यर्थः। इदानीं शशविषाणप्रतिबन्धीं मोचयति नेति। अङ्गीकुर्मः शशविषाणमपि, यदि परमेश्वरविग्रहस्याऽनन्दाद्यात्मकत्वमिव प्रामाणिकं स्यात्। नचैवम्। नह्यप्रामाणिकं केनापि कदाऽपि क्वचिदप्येष्टुं शक्यत इति।
ननु प्रामाणिकत्वेऽपि विरोधाभावः कथमित्यत आह अविरोध इति। ययोः क्वचित् सहदर्शनं तयोरविरोधः। ययोस्तु नियमेन व्यधिकरणतयैव दर्शनं तयोर्विरोध इत्येवं सहदर्शनासहदर्शनलक्षणेन मानेन वस्तूनामविरोधविरोधाववगन्तव्यौ। तन्नियामकस्यान्यस्याभावात्। अतः प्रमाणेन सहदृष्टेऽर्थे विरोधः कथं स्यात्? व्याघातादिति।
उपसंहरति अत इति। प्रमाणैः सहदृष्टेऽर्थे विरोधस्यानाशङ्कनीयत्वात्। उक्तम्, उदाहृताभिः श्रुतिभिः। समस्तं चिदानन्दाद्यात्मकनिरवद्यविग्रहेण जगत्कारणत्वम्। एतच्च “अरूपवदेव” इत्यादिना वक्ष्यमाणं शिष्यहितैषिणाऽऽचार्येणात्रोक्तमिति ज्ञातव्यम्।
॥ विष्णोः शिवादिसर्वनामवत्त्वं श्रुतिभिरुपपाद्य शिवादिश्रुतीनां तत्परत्वसमर्थनम्॥
नन्वेतदस्माकमपि समानम्। तथाहि यद्यपि पाशुपतादिकमशक्यावधारणप्रमाणभावम्, तथाऽपि “ज्ञात्वा शिवं शान्तिमत्यन्तमेति”, “एको रुद्रो न द्वितीयाय तस्थे”, “स इमान् लोकानीशत ईशनीभिः” इत्याद्याः श्रुतयस्तावच्छिवस्य जगज्जन्मदिहेतुतामाचक्षते, शिवादिनामोपेतत्वात्। नच तथाविधस्यासमञ्जसत्वं सम्भवतीत्युदाहृताः श्रुतयोऽन्यथा योज्याः। अतः सम्बन्धानुपपत्त्यादिकं श्रुतिरेवाऽभासयिष्यति। तद्धटकं वा किमपि कल्पयिष्यतीत्यत आह शिवादीति।
शिवादिनामयुक्ताश्च श्रुतयो विष्णुवाचकाः।
नामानि सर्वाणि च यमेको यो देवनामधाः।
विष्णुनामानि नान्यस्य सर्वनामा हरिः स्वयम्॥२६५॥
न नारायणनामानि तदन्येष्वपरे हरौ।
इत्यादिश्रुतयस्तत्र मानं चोक्तः समन्वयः॥२६६॥
भवेदेवं यद्येताः श्रुतयः शिवपराः स्युः। नचैवम्। किन्तु शिवादिनामयुक्ता अपि विष्णुविषया एव। नन्वेतत् कुतः? एवंसत्यस्माभिरपि वक्तुं शक्यत एव। “एको नारायणः” इत्याद्या अपि श्रुतयः शिवपरा इति। मैवम्। शिवादिनाम्नां विष्णौ शक्तिमत्त्वात्। नारायणादिनाम्नां शिवे शक्त्यभवात्।
अत्रापि किं मानमित्यत आह नामानीति। अनेन “नामानि विश्र्वाभि न सन्ति लोके” इत्यादिकां श्रुतिमुपादत्ते। “एकः” इत्यनेन “यो देवानां नामधा एक एव” इति। नामानि धत्त इति नामधाः। नान्यस्य वाचकानि। न तदन्येषु वर्तन्ते। अपरे शिवादिशब्दाः। उक्तः समन्वयश्च तत्र मानमिति सम्बन्धः। समन्वयग्रहणेनैतदपि परिहृतम्। एता अपि श्रुतीरहं शिवादिविषयतया व्याख्यास्यामीति। उपक्रमादिभिर्लिङ्गादिभिश्च भगवत्परतया निश्चितत्वादिति।
॥ शैवपुराणानामप्रामाण्यप्रतिपादनम्, वैष्णवपुराणानामप्रमाण्यशङ्कापरिहारश्च॥
मा भूच्छ्रुतिभिः शिवस्य जगत्कारणत्वावधारणम्। शैवपुराणैस्तु भविष्यति। नच तान्यपि विष्णुपराणि। उपक्रमादिबलेन शिवविषयतया निश्चितत्वादित्यत आह पुराणानीति।
पुराणानि पुराणाद्यैर्विरुद्धत्वान्न तत् प्रमा।
तद्विरुद्धेषु नो मानं पूर्वापरविरोधतः॥२६७॥
समब्राह्मविरोधाच्च नियमाद् वैष्णवेष्वपि।
मोहार्थमुक्तितश्चेव विष्णुरेको गुणार्णवः॥२६८॥
पुराणाद्यैः वैष्णवैः। विरुद्धत्वात्, प्राक् प्राबल्यचिन्तायाः सत्प्रतिपक्षत्वात्। तदुत्तरं बाधितत्वाच्च। तत् तत्र, शिवस्य जगत्कारणत्वे।
न केवलं वैष्णवादिपुराणादिविरुद्धत्वादप्रमाणं शैवपुराणम्। किन्तु शैवप्रमाणविरुद्धत्वादपीत्याह तदिति। तद्विरुद्धेषु शैवपुराणादिविरुद्धेषु शिवजगत्कारणादिषु नो मानम्। शैवपुराणमिति शेषः। कथं शैवपुराणस्य शैवपुराणविरोध इत्यत आह पूर्वेति। एतच्चान्यत्र दर्शितम्।
किञ्च शैववैष्णवपक्षपातशून्यब्राह्मपुराणविरुद्धत्वाच्च शैवपुराणं विमतेऽर्थे न मानमित्याह समेति। इदमप्यन्यत्र दर्शितम्। एवन्तर्हि वैष्णवानामपि पुराणादीनामप्रामाण्यं स्यात्। तेषामपि शैवब्राह्मपुराणविरुद्धत्वात्, पूर्वापरविरोधाच्चेत्यत आह नियमादिति। एकप्रकारत्वात्। पूर्वापरविरोधाभावात्। शैवादिपुराणानामेतत्प्रतिबन्धकत्वाद्यसामर्थ्यादित्यपरेर्थः। तेषां नाप्रामाण्यमिति शेषः।
ननु वैष्णवेष्वपि पुराणादिषु शिवादीनां जगत्कारणत्वादिकम्, विष्णुना तदीयस्तुत्यादिकरणं च प्रतीयत एव। तत् कथं नियम उच्यत इत्यत आह मोहार्थमिति। शिवादीनां जगत्कारणत्वादेरयोग्यजनव्यामोहनार्थमेवोक्तितः , चशब्दाद् विष्णुना शिवस्तुत्यादेर्मोहार्थं कृतस्यानुवादतश्च नियमो न विरुद्ध इति।
कथं शैवपुराणादीनां प्रतिरोधकत्वाद्यसामर्थ्यमित्यत आह मोहार्थमिति। शैवपुराणादीनां मोहार्थमेव उक्तितः कृतत्वात्। चशब्देन वैष्णवानां तत्वज्ञानार्थमेव कृतत्वात्। अत्रचार्थेऽन्यत्र प्रमाणान्युक्तानि। अधिकरणार्थमुपसंहरति विष्णुरिति। तस्मादिति सिद्धमिति शेषः।

॥ पाशुपतमतनिराकरणन्यायस्य स्कन्दादिमतेष्वतिदेशः॥
ननु स्कन्दादिमतान्यप्युक्तार्थविरोधीनि सन्ति तानि कुतोऽत्र न निराक्रियन्त इत्यत आह स्कन्देति।
स्कन्दसूर्यगणेशादिमतानि न्यायतोऽमुतः।
निराकृतान्यशेषेण सिद्धान्तस्याविशेषतः॥२६९॥
अमुतो न्यायतः पाशुपतमतनिराकरणन्यायतः। अतो न निराक्रियन्त इति शेषः। कथमनेन न्यायेन तन्निराकरणमित्यत आह अशेषेणेति। कार्त्स्न्येन तदीयसिद्धान्तानां पाशुपतसिद्धान्तस्य चाविशेषतः। केवलदेवतान्तरपरिग्रहेणैव सिद्धान्तभेदः। प्रक्रिया तु सर्वत्र समानैव। अतः पूर्वनिराकरणन्यायेनैव तन्निराकरणं युक्तमेवेति भावः॥*॥ इति पत्युरधिकरणम्॥११॥
अथ उत्पत्त्यधिकरणम्॥१२॥
॥ पूर्वाधिकरणन्यायेन निराकृतस्यापि शाक्तमतस्य पुनर्निराकरणारम्भे निमित्तम्॥
उत्पत्त्यसम्भवात्। शाक्तं मतमत्रापाक्रियते। न निराकर्तव्यमेवैतत्। स्कान्दादिमतवदस्यापि पूर्वन्यायेनैव निरस्तत्वात्। यथाहि पत्युरित्यस्य स्थाने स्कन्दस्येत्यादि पठित्वाऽसामञ्जस्ये तदनुसारिण्यः श्रुतय उदाह्रियन्ते, सम्बन्धानुपपत्त्यादिकं च तद्विषयं योज्यते, तथा शक्तावपि वक्तुं शक्यते। अन्यथा स्कन्दादिदर्शनमपि पृथगपाकरणीयं स्यात्।
अथोच्येत शाक्तमते पाशुपतादाचारभेदादेर्विद्यमानत्वात् तत्सिद्धान्ताविशेषो नास्तीति। तन्न। सौरादिमतेष्वपि तस्य विद्यमानत्वात्। अथ किं तेन? देवताविशेषपरिग्रहमन्तरेणोक्तार्थविरुद्धो दूष्योऽर्थः सर्वत्र समान एवेति ब्रूषे। तच्छाक्तेऽपि समानमित्यतो नैतदपि पृथगपाकरणीयमित्यत आह निराकृताविति।
निराकृतौ विशेषस्य भावाच्छक्तिमतं पृथक्।
दूष्यते....................................।
सत्यम्। स्कान्दादिवच्छाक्तस्यापि मतस्य न पाशुपताद् विशेषः। अत एवोक्तदोषग्रामविषयत्वमपि। तथाऽपि तत्रासाधारणस्य दूषणस्य विद्यमानत्वात् तद्विवक्षया शक्तिमतं पृथग्भग्या दूष्यते सूत्रकारेण। उत्पत्त्यसम्भवो हि शाक्तस्यैवासाधारणदोषो नतु पुरुषदैवतानाम्। एतच्च वक्ष्याम इति। (८३७)
॥ महावाममध्यवामअणुवामलक्षणत्रिविधशाक्तसाधारणमतस्यानुवादः॥
एवमधिकरणारम्भमुपपाद्येदानीं शाक्तमतमुपन्यस्यति महतीति।
.......महती देवी ह्रीङ्कारी सर्वकारणम्।
त्रिपुराभैरवीत्यादिनामभिः साऽभिधीयते॥२७०॥
शक्तिमतमिति वर्तते। सर्वस्याऽगामिना इतिशब्देन सम्बन्धः। देवी महती सर्वोत्कृष्टेति शक्तिमतमिति। कथं महतीत्यत उक्तं सर्वकारणमिति। सकलजगत्सृष्ट्यादिकारणत्वात्, सार्वज्ञ्यादिसर्वगुणवती समस्तदोषदूरा भगवतीत्यतः सर्वोत्कृष्टेति।
नन्विदं शास्त्रमन्योन्यव्याहतं कथं प्रमाणं स्यात्? भुवनेश्वरीतन्त्रे हि सैव महती सर्वकारणमिति चोच्यते। त्रिपुरातन्त्रे तु त्रिपुरैव। तथा भैरवीतन्त्रे भैरवी। एवं कुब्जिकादितन्त्रेष्वन्या चान्या च। नच बह्वीनां सर्वोत्तमत्वमुपपद्यत इत्यत उक्तम् ह्रीङ्कारी, त्रिपुरा, भैरवीत्यादिनामभिः सा भगवत्येकैवाभिधीयते। अतो न व्याघत इति।
॥ महावामैः केवलशक्तेः शिवादिसृष्टिकथनम्॥
शाक्ताश्च त्रिविधाः महावामा मध्यवामा अणुवामाश्चेति। एत एव क्वचिच्छाक्तशाम्भवाणवशब्दैरुच्यन्ते। तत्राऽद्यानां मतविशेषं दर्शयति तस्या इति।
तस्याः सदाशिवाद्याश्च जायन्ते देवमानवाः।
भूतभौतिकमप्येतदिति तन्नोपपद्यते॥२७१॥
तस्याः केवलाया एव शक्तेः। सदाशिवग्रहणेन मतान्तराद् भेदो दर्शितः। तत्र सदाशिवस्य शक्तितो जन्मानभ्युपगमात्।
॥ पुरुषाननुगृहीतस्त्रीमात्रात् अपत्योत्पत्त्यसम्भवात् न शक्तेर्जगत्कारणत्वं युक्तम्॥
एवमुपन्यस्तं महावाममतं तावदयुक्तमित्याह तदिति। निरन्तरोपन्यस्तं महावाममतं तदिति परामृशति। कुत इत्याकाङ्क्षायां सूत्रम् “उत्पत्त्यसम्भवात्” इति। तद् व्याख्यातुं तावद् व्याप्तिमुपपादयति दृष्टेति।
ॐ उत्पत्त्यसम्भवात् ॐ॥४२॥
दृष्टा पुम्भ्यः सदा सृष्टिः स्त्रीपुम्भ्यो वा विशेषतः।
केवलाभ्यो नहि स्त्रीभ्यस्तत उत्पत्त्यसम्भवात्॥२७२॥
नार्च्यं महावाममतम्.........................।
अत्र सृष्टिशब्देनापत्योत्पत्तिर्विवक्षिता न सृष्टिमात्रम्। तस्य केवलाभ्योऽपि स्त्रीभ्यो दर्शनात्। सदेति व्यभिचाराभावं सूचयति। वाशब्दस्तुशब्दार्थः। विशेषतः प्राचुर्येण। केषाञ्चिदेव हि द्रोणादीनां सृष्टिः केवलेभ्यः पुरुषेभ्यो दृष्टा।
नन्वचतुरादिसूत्रेण स्त्रीपुंसेभ्य इति भवितव्यम्। स्त्रीपुम्भ्य इति कथम्? “समासान्तो विधिरनित्यः” इति भविष्यति। यद्वा द्वन्द्वात् परः समासान्तोऽसौ निपातितः। अत्र तु स्त्रीभिः सहिताः पुमांसः तेभ्य इति न द्वन्द्व इति न भविष्यति।
केवलाभ्यः पुरुषाननुगृहीताभ्यः। ततः किमित्यतः सूत्रं व्याख्याति तत इति। यत एवं व्याप्तिः, यतश्च प्रकृता केवला। शिवादीनां ततो जन्माङ्गीकारात्। ततः कारणात् ततः शक्तेरपत्योत्पत्त्यसम्भवादित्यर्थः।
अयमत्र प्रयोगः आदिकालीनापत्योत्पत्तिर्न केवलस्त्रीकृता, अपत्योत्पत्तित्वात्; याऽपत्योत्पत्तिः सा न केवलस्त्रीकर्तृका, यथा सम्प्रतिपन्ना। सा हि कदाचित् पुरुषमात्रात्, क्वचित् पुरुषानुगृहीताभ्यः स्त्रीम्यो दृष्टा। न पुनः क्वापि केवलाभ्यः स्त्रीभ्यो दृष्टा, येनोक्तव्याप्तेर्व्यभिचारः स्यादिति।
यद्वा शक्तिर्नापत्यप्रसवित्री, केवलस्त्रीत्वात्; सम्प्रतिपन्नकेवलस्त्रीवत्। अत्र केवलाभ्यो नहि स्त्रीभ्य इत्यन्वयकथनं दृष्टेत्यादि तद्व्यभिचारपरिहारार्थमिति ज्ञातव्यम्। यदि वा केवलस्त्रीत्वान्नापत्यप्रसवित्री चेच्छक्तिः स्यात्, तदा केवलपुरुषत्वात् पुरुषोत्तमोऽपि तथा न स्यादित्याक्षेपमपाकर्तुं प्रागेव दृष्टेत्याद्युक्तम्। असिद्धं च केवलत्वं तस्य लक्ष्मीपतेरित्याशयेन स्त्रीपुम्भ्य इत्युक्तम्। केवलाभ्य इति तु व्याप्त्युपपादकम्। अथवा यत् “निराकृतौ विशेषस्य भावात्” इत्यनेनास्य दोषस्य असाधारणत्वमुक्तम्, तदुपपादनाय दृष्टेत्याद्युपन्यासः।
॥ मध्यवामैः सशिवायाः शक्तेः सृष्टिकर्तृत्वप्रतिपादनम् ॥
इदानीमधिकाशङ्कया मतान्तरमुत्थापयति वामैरिति।
.....................वामैरन्यदुदीर्यते।
शिवोपसर्जना शक्तिः ससर्जेदं समन्ततः॥२७३॥
इति ..............................।
मध्यवामैरित्यर्थः। अन्यत् महावामसिद्धान्तात्। किं तदित्यत आह शिवेति। शिव उपसर्जनं यस्याः सा शिवोपसर्जना। इदमित्यस्यैव व्याख्यानम् समन्ततः, देशे काले च वर्तमानं कार्यमिति।
एतदुक्तं भवति नोत्पत्त्यसम्भवोऽस्मन्मतेऽस्ति। अस्माभिः शिवसहितायाः शक्तेर्विश्वप्रसवस्याङ्गीकृतत्वात्। नचैवं द्वयोः सर्वोत्कृष्टत्वं विरुद्धमापद्यते। शिवस्य शक्तिं प्रत्युपसर्जनत्वाङ्गीकारादिति।
॥ शिवस्य ज्ञानाद्यभावात् शक्त्यनुग्राहकत्वानुपपत्तिः॥
एतत् प्रतिषेधति तच्चेति। अत्राप्युत्पत्त्यसम्भवस्यापरिहारादिति भावः। तत् कथमित्यत्र सूत्रम्”नच कर्तुः करणम्” इति। तद् व्याचष्टे शिवस्येति।
ॐ नच कर्तुः करणम् ॐ॥४३॥
....तच्चोपपन्नं न शिवस्याकरणत्वतः।
अदेहत्वात्..........................॥२७४॥
अकरणत्वत इत्यस्यैव स्वपदस्य वर्णनम् अदेहत्वादिति। यद्वाऽकरणत्वतो ज्ञानादिकरणाभावादित्यर्थः। तदेव कथमित्यतोऽकरणत्वतो निरिन्द्रियत्वादित्युक्तम्। तदपि कुत इत्यत उक्तम् अदेहत्वादिति।
एतदुक्तं भवति देहवता हि शिवेनापत्योत्पत्तौ शक्तेः साचिव्यमाचरणीयम्। न विदेहेन। तस्य प्रलीनवदिन्द्रियविज्ञानादिविकलस्य तदनुपपत्तेः। नच शिवदेहोत्पत्तौ केवलायाः शक्तेः शक्तिरस्ति। प्रागुक्तदोषात्। अन्यथाऽत्रापि तथोपपत्तौ शिवाङ्गीकारवैयर्थ्यापत्तेश्च। नच शिवसहितायाः। विदेहस्य साहाय्यकरणानुपपत्तेः। अतः अङ्गीकृतस्यापि शिवस्याजागलस्तनायितत्वेनात्राप्युत्पत्त्यसम्भव एवेति।
॥ अणुवामैः सार्वज्ञ्यादिविशिष्टशिवस्य शक्त्यनुग्राहकत्वाङ्गीकारः॥
मतान्तरमुत्थापयति अपिहीति।
.........अपिह्यन्ये ब्रूयुः सर्वज्ञमीश्वरम्॥२७४॥
अणुवामा न तद् युक्तम्..............।
अन्येऽपीत्यन्वयः। तानेव विशेषनाम्नाऽऽह अणुवामा इति। अस्य मतस्य लोके प्रचुरतां सूचयितुं हिशब्दः। सर्वज्ञमित्युपलक्षणम्। जगत्सृष्ट्याद्युपयुक्तसकलकरणोपेतम्।
इदमुक्तं भवति शिवसहिता शक्तिर्जगज्जननीत्यभ्युपगच्छतो मम नोक्तदोषः। शिवस्य स्वाभाविकसार्वज्ञ्यादिमत्त्वेन देहेन्द्रियानपेक्षणात्। लीलाविग्रहग्रहणेन शक्तिसाहाय्यकरणस्याप्युपपत्तेरिति।
॥ शिवस्य सार्वज्ञ्याद्यङ्गीकारे शैवमतानुप्रवेशप्रसङ्गः॥
तदिदं दूषयति न तदिति। कुत इत्यत्र सूत्रम् “विज्ञानादिभावे वा तदप्रतिषेधः” इति।
ॐ विज्ञानादिभावे वा तदप्रतिषेधः ॐ॥४४॥
तस्यार्थः शिवस्य विज्ञानादिभावेऽङ्गीकृते तस्य मतस्य प्रतिषेधो न क्रियत इति। नन्विदं मतमनुमतम्, नवा? नाऽद्यः, उक्तार्थविरुद्धत्वात्। “न तद् युक्तम्’ इत्यस्य चायोगात्। द्वितीये कथं तदप्रतिषेध इत्युक्तम्? कथं च “न तद् युक्तम्’ इत्यत्रास्य हेतुत्वमित्यतस्तदप्रतिषेध इति निवेशयितुमुत्सूत्रं तावद्धेतुमाह ईशेति।
...................ईशवादप्रवेशनात्।
सार्वज्ञ्यादिगुणैर्युक्तं गुरुकल्पनया द्वयम्॥२७५॥
न युज्यते ततस्त्वीश एक एव प्रयोजकः।
उक्तदोषश्च तत्पक्ष इति नैवात्र दूष्यते॥२७६॥
शैवमतप्रवेशापत्तेरित्यर्थः। ननु शैवाः सार्वज्ञ्यादिगुणोपेतं शिवमेकमेवाभ्युपयन्ति। शाक्तास्तु शिवं शक्तिं चेत्यस्ति महान् सिद्धान्तभेदः। तत् कथं शाक्तानां शैवमतानुप्रवेश इत्यत आपादितदोषोऽयमित्याशयवानाह सार्वज्ञ्यादीति। सत्यं शाक्तैः सार्वज्ञ्यादिगुणैर्युक्तं शिवशक्त्याख्यं द्वयमभ्युपगतमिति। तत्तु न युज्यते। कल्पनागौरवात्।
तथाहि न तावत् सार्वज्ञ्याद्युपेतं प्रत्यक्षेण सिद्धम्। परचित्तवृत्तीनां परं प्रत्यतीन्द्रियत्वात्। नाप्यागमेन। शाक्तागमस्य प्रामाण्यसन्देहात्। अपौरुषेयागमस्य परेण प्रामाण्यानादरणात्। आदरणे वा तत एव स्वमतहानेः। ततः प्रपञ्चरचनानुपपत्त्यैव तथाविधं वस्तु कल्पनीयम्। एकेनैव सार्वज्ञ्यादिमता सर्वं निर्वहत्येव। तथा च वृथा तथाभूतवस्तुद्वयकल्पने कल्पनागौरवमेव। अत एकमेव तादृशं वस्त्वङ्गीकार्यमिति।
ततः किमित्यत आह तत इति। उक्तहेतोरेकस्यैव सार्वज्ञ्यादिमतोऽङ्गीकार्यत्वे केवलशक्तेरङ्गीकृतावुत्पत्त्यसम्भवप्रसङ्गादीश एव सार्वज्ञ्याद्युपेतः प्रपञ्चरचनायाः प्रयोजकः शाक्तैरङ्गीकर्तव्यः स्यात्। एवञ्च कथं न शैवमतप्रवेशः शाक्तमतस्येति।
किमतो यद्येवम्। शाक्तस्यापसिद्धान्तेन पराजयः स्यादिति चेत् सत्यम्। तावताऽपि भवत्सिद्धान्तानवक्लृृप्तिरेव। शैवमतस्यापि भवत्सिद्धान्तविरोधित्वेन निराकर्तव्यत्वादित्यतस्तदप्रतिषेध इति सूत्रांशं सोपपत्तिकं निवेशयति उक्तेति। यतः शैवपक्षो निरन्तरातीताधिकरण एवोक्तदोषः, अतोऽत्र न पुनर्दूष्यते पुनरुक्तिदोषभयादिति।
॥ शाक्तमतानां श्रुत्यादिविरुद्धत्वेन प्रेक्षावदनुपादेयत्वम्॥
एवं प्रत्येकमपाकृतानि त्रीण्यपि मतानि साधारणदूषणेन निराकर्तुं सूत्रम् “विप्रतिषेधाच्च” इति। तद् व्याचष्टे श्रुतीति।
ॐ विप्रतिषेधाच्च ॐ॥४५॥
श्रुतिस्मृतीतिहासानां सामस्त्येन विरोधतः।
सतां जुगुप्सितत्वाच्च नाङ्गीकार्यं हि तन्मतम्॥२७७॥
सतां मध्ये जुगुप्तिसतत्वात् गोप्तुमिष्टत्वात्। यद्वा “कर्तृकर्मणोः कृति” इति कर्तरि षष्ठी। सद्भिर्निन्दितत्वादित्यर्थः। हिशब्देन श्रुत्यादीनां प्रसिद्धतां द्योतयति।
॥ मायावादिना पञ्चरात्रनिरासपरतया चतुःसूत्रीव्याख्यानम्॥
केचिदिमां चतुःसूत्रीं भागवतमतनिराकरणपरतया व्याचक्षते। तथाहि पाञ्चरात्रिका “वासुदेवात् सङ्कर्षणो नाम जीवो जायते। सङ्कर्षणात् प्रद्युम्नसञ्ज्ञकं मनो जायते। प्रद्युम्नादनिरुद्धसञ्ज्ञकोऽहङ्कारो जायते” इति प्रक्रियामाहुः।
तत्र सूत्रम् उत्पत्त्यसम्भवादिति। वासुदेवात् सङ्कर्षणो नाम जीवो जायत इति तावदयुक्तम्। जीवस्योत्पत्त्यसम्भवात्। उत्पत्तिमतो हि जीवस्य अनित्यत्वादयो दोषाः प्रसज्येरन्। ततश्च नैवास्य भगवत्प्राप्तिर्मोक्षः स्यात्। “न जायते म्र्यिते” इत्यादिश्रुतिस्मृतिविरोधाच्च।
नच कर्तुः करणम्। सङ्कर्षणसञ्ज्ञकाज्जीवात् प्रद्युम्नसञ्ज्ञकस्य मनसो जन्मापि पञ्चरात्रोक्तं नोपपद्यते। नहि लोके कर्तुर्देवदत्तादेः करणं परश्र्वाद्युत्पद्यमानं दृश्यते। यदा चोत्पद्यते, तदा कर्मैव न करणम्। जीवश्च कर्ता मनश्च करणम्। ततस्तन्न ततो जनिमद् भवितुमर्हति। “एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च” इतीश्वरादेव मनोजननश्रवणाच्च। एतेन प्रद्युम्नादनिरुद्धसञ्ज्ञकोऽहङ्कारो जायत इत्यपि प्रत्युक्तम्।
अथापि स्यात्। नैवैते सङ्कर्षणादयो जीवादिभावेनाभिप्रेयन्ते। किन्तर्हि। ईश्वरा एवैते सर्वे ज्ञानैश्वर्यशक्तिबलवीर्यतेजोभिरैश्वरैर्धर्मैरन्विता अभ्युपगम्यन्ते। तस्मान्नायं दोष इति। अत्र परिहारं पठति विज्ञानादिभावे वा तदप्रतिषेधः। परमात्मनो वासुदेवस्येव सङ्कर्षणादीनामपि विज्ञानादिषाुण्यसद्भावे तत एव चेश्वरत्वेऽभ्युपगम्यमानेऽपि तस्योत्पत्त्यसम्भवदोषस्याप्रतिषेधः। प्रकारान्तरेण प्राप्नोत्येवायमुत्पत्त्यसम्भवदोषः। तथाहि न तावदेते चत्वारः परस्परं भिन्नाः। अनेकेश्वरकल्पनायां गौरवादिदोषापत्तेः। अभेदे तु कथं स्वत एव स्वस्योत्पत्तिः सम्भवेत्? निरतिशयत्वात्। नचैते भगवद्व्यूहाश्चतुःसङ्ख्यायामेवावतिष्ठेरन्। तद्व्यूहानामनन्तत्वाभ्युपगमात्।
विप्रतिषेधाच्च। परस्परविरोधश्च पञ्चरात्रे भवति। “ज्ञानैश्वर्यबलवीर्यशक्तितेजांसि भगवतो गुणाः” इति क्वचिदुच्यते। “आत्मान एवैते भगवन्तो वासुदेवाः” इति क्वचिद् भगवत्स्वरूपत्वमित्यादि।
वेदप्रतिषेधश्चात्र भवति। “भगवाञ्छाण्डिल्यः षडङ्गं वेदमधीत्य तस्मिन् महत्याम्नाये निष्ठामनधिगच्छन् यः सर्वपरो धर्मो यस्मान्न भूयोऽस्ति कथं तं विद्यामित्येवं बलवद्विवेकमातिष्ठमानो बभूव। तत्र भगवते शाण्डिल्याय भगवता सङ्कर्षणेन व्यक्तेन शब्दवच्छास्त्रं प्रोक्तम्” इति वेदनिन्दादर्शनात्। तथा चान्यत्र
“अधीता भगवन् वेदाः साङ्गोपाङ्गाः सविस्तराः।
श्रुतानि च मयाऽङ्गानि वाकोवाक्ययुतानि च।
नचैतेषु समस्तेषु संशयेन विना क्वचित्।
श्रेयोमार्गं प्रपश्यामि येन सिद्धिर्भविष्यति”
इति। तस्मादयुक्तं पञ्चरात्रशास्त्रमिति।
॥ पञ्चरात्रस्य प्रामाण्योपपादनपूर्वकं मायावादिव्याख्यानप्रत्याख्यानम्॥
तामिमामपव्याख्यां प्रत्याख्याति पञ्चरात्रेति।
पञ्चरात्रनिषेधार्थमेतान्याचक्षते यदि।
सूत्राण्यतिविरुद्धं तद् यत आह स भारते॥२७८॥
पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणः स्वयम्।
ज्ञानेष्वेतेषु राजेन्द्र सर्वेष्वेतद् विशिष्यते॥२७९॥
पञ्चरात्रविदो ये तु यथाक्रमपरा नृप।
एकान्तभावोपगता वासुदेवं विशन्ति ते॥२८०॥
इति.................................।
आचक्षते व्याचक्षते। यदित्यस्यार्थे यदिशब्दः। तद् व्याख्यानमतिशयेन विरुद्धं स्वव्याहतम्, प्रमाणान्तरप्रतिहतं चेत्यर्थः। तत् कथमित्यतः स्वव्याहतिं तावदुपपादयति यत इति। यस्मात् सूत्रकार एव भारते पञ्चरात्रस्य प्रामाण्यमाह। तस्मादत्र तन्निराकरणे सूत्रकारस्य स्ववचनव्याहतिः स्यादित्यर्थः। तद् भारतवचनमुदाहरति पञ्चरात्रस्येति।
“साङ्ख्यं योगः पाशुपतं वेदारण्यकमेव च।
ज्ञानान्येतानि भिन्नान्युताहो नेति चोच्यताम्”
इति ज्ञानकरणत्वाज्ज्ञानशब्दवाच्यानि साङ्ख्यादीनि शास्त्राण्यन्योन्यविरुद्धानि, उताविरुद्धानीति प्रश्नस्य
“साङ्ख्यं योगः पाशुपतं वेदारण्यकमेव च।
ज्ञानान्येतानि भिन्नानि नात्र कार्या विचारणा”
इति परिहारोऽभिहितः। ततः पुनर्वस्तुविकल्पानुपपत्तेः परस्परविरुद्धानां सर्वेषां प्रामाण्यायोगादेतेषु किं प्रमाणमिति जिज्ञासायां “साङ्ख्यस्य वक्ता कपिलः” इत्यादिना साङ्ख्यादीनामनाप्तकर्तृकत्वमभिधाय, प्राग् वेदारण्यकपदोपलक्षितस्य पञ्चरात्रस्य परमाप्ततमेन नारायणेन प्रणीतत्वात् प्रामाण्यमित्यनेन वाक्येनोच्यते। वेदानां त्वपौरुषेयतया स्वत एव प्रामाण्यं सिद्धमेवेति नोक्तम्। फलवत्प्रवृत्तिजनकत्वादपि पञ्चरात्रस्य प्रामाण्यमिति “पञ्चरात्रविदः” इत्यनेन वाक्येनोच्यते। यथाक्रमपरा देवतातारतम्यपराः। एकान्तभावोपगता अव्यभिचारिणीं भक्तिं प्राप्ताः।
॥ भगवद्गीतायाः पञ्चरात्रसङ्क्षेपरूपत्वम्॥
प्रकारान्तरेण स्वव्याहतिमाह गीता चेति।
....गीता च तच्छास्त्रसङ्क्षेप इति हीरितम्।
तच्छास्त्रसङ्क्षेपः पञ्चरात्रसङ्क्षेप इति हीरितम्।
“ब्रह्मरुद्रेन्द्रसूर्याणां यद् दत्तं विष्णुना पुरा।
पञ्चरात्रात्मकं ज्ञानं व्यासोऽदात् पाण्डवेषु तत्।
तेषामेवावतारेषु सेनामध्येऽर्जुनाय च।
प्रादाद् गीतेति निर्दिष्टं सङ्क्षेपेणायुयुत्सवे”
इत्यादिना पुराणवाक्येनेति शेषः। ततः प्रमाणतया पञ्चरात्रसङ्क्षेपरूपां गीतां प्रणीतवतो बादरायणस्य पञ्चरात्रप्रामाण्यमनुमतमेवेति पुनरत्र तन्निराकरणे कथं स्वव्याहतिर्न भवेदिति।
॥ पञ्चरात्रस्य भगवत्साक्षात्कारहेतुत्वम्॥
स्वव्याहतिं प्रकारान्तरेण दर्शयति वेदेनेति।
वेदेन पञ्चरात्रेण भक्त्या यज्ञेन चैव हि।
दृश्योऽहं नान्यथा दृश्यो वर्षकोटिशतैरपि॥२८१॥
इति वाराहवचनम्......................।
एवं वराहपुराणे भगवद्दर्शनसाधनत्वेन वेदवत् पञ्चरात्रस्य प्रामाण्यमभ्युपगम्येह पुनस्तन्निराकरणे व्याघात एवेति।
॥ पञ्चरात्राप्रामाण्यवादस्य वेदविरुद्धत्वम्॥
एवं स्वव्याहतिमुपपाद्य प्रमाणान्तरविरोधं दर्शयति श्लोका इति।
..................श्लोका इति वचः श्रुतौ।
वचः अस्तीति शेषः। “ऋग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासपुराणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्यानानि” इत्यस्यां श्रुतौ ऋग्वेदादिप्रमाणोद्देशप्रसङ्गे श्लोका इति पञ्चरात्रमुपात्तम्। “पञ्चरात्रविदो मुख्याः” इति प्रकृतपञ्चरात्रविषयत्वेन
“ऋषीनुवाच तान् सर्वानदृश्यः पुरुषोत्तमः।
कृतं शतसहस्रं हि श्लोकानां हितमुत्तमम्”
इति श्लोकशब्दस्य भारते प्रयोगात्। छन्दोगश्रुतौ “ऋग्वेदो यजुर्वेदः” इत्यारभ्य “एकायनम्” इति पञ्चरात्रमुच्यते। तत्समाख्यया श्लोकशब्दः पञ्चरात्रविषयोऽशेषो ज्ञायते। अतः श्रुत्या पञ्चरात्रप्रामाण्यं सिद्धमिति तदप्रामाण्यवादः श्रुतिविरुद्धः।
स्पष्टश्रुतिविरोधं च दर्शयति वेदैश्चेति।
वेदैश्च पञ्चरात्रैश्च ध्येयो नारायणः परः॥२८२॥
पञ्चरात्रं च वेदाश्च विद्यैकैव द्विधेयते।
इत्यादिवेदवचनैः पञ्चरात्रमपोद्यते॥२८३॥
कथमेव...........................।
वेदपञ्चरात्रोक्तप्रकारेणेत्यर्थः। संहिताभेदात् पञ्चरात्रैरिति बहुवचनम्। परस्परविरुद्धशास्त्रद्वयानुसारेण कथं ध्यानमित्यत उक्तम् पञ्चरात्रं चेति। इत्यादिवेदवचनैश्च पञ्चरात्राप्रामाण्यकथनं विरुद्धमिति शेषः। ततः किमित्यत आह पञ्चरात्रमिति। यत एवं पञ्चरात्रनिराकरणं स्वव्याहतम्, प्रमाणान्तरव्याहतं च। अतोऽत्र सूत्रकारेण पञ्चरात्रं अपोद्यते दूष्यत इति कथमेव वक्तुं शक्यते। नहि व्याहतभाषी भगवानिति।
॥ एकदेशप्रामाण्यवादस्य निराकरणम्॥
स्यान्मतम्। नास्त्ययं व्याघातः। “योऽसौ नारायणः परोऽव्यक्तात् प्रसिद्धः परमात्मा स आत्मनाऽऽत्मानमनेकधा व्यूह्य व्यवस्थितः। तमित्थम्भूतं षाुण्यविग्रहं भगवन्तमभिगमनोपादानेज्यास्वाध्याययोगैः पञ्चकालाभिधानैरनेककालमिष्ट्वा क्षीणक्लेशो भगवन्तमेव प्रतिपद्यते” इत्यादेः पञ्चरात्रोदितस्यार्थस्य स्वीकृतत्वात्। तत्परतयैव भारतादिवाक्यानामुपपत्तेरिति। मैवम्। एवंसति साङ्ख्यादिशास्त्रेष्वप्युपादेयांशस्य विद्यमानत्वेन विशेषतः पञ्चरात्रप्रामाण्याभिधानानुपपत्तेः। कृत्स्नस्येति विशेषणानुपपत्तेश्च।
“ऋगाद्या भारतं चैव पञ्चरात्रमथाखिलम्।
वेदार्थपूरकं ज्ञेयं पञ्चरात्रं यतोऽखिलम्”
इत्यखिलशब्दविरोधाच्चेति।
॥ पञ्चरात्रस्य जीवोत्पत्त्यभिधायकत्वादप्रामाण्ये वेदसूत्राणामपि तत्प्रसङ्गः॥
इतश्च न पञ्चरात्रदूषणं युक्तमित्याह अत्रेति।
......अत्र दोषः क उत्पत्तिर्ज्ञोऽत इत्यपि।
इहैवोक्ता नचाभूतभावस्तत्रापि कथ्यते॥२८४॥
अत्र पञ्चरात्रे को दोषो येन तन्निराक्रियेत? न कोऽपीत्यर्थः। ननु कथं दोषो नास्ति? जीवोत्पत्तेरसम्भावितायास्तत्रोक्तत्वादित्यतोऽङ्गीकारवादेनाऽह उत्पत्तिरिति। किं जीवोत्पत्त्यभिधानमात्रं पञ्चरात्राप्रामाण्यहेतुतयोपादीयते, उताभूतभवनरूपजीवोत्पत्त्यभिधानम्? आद्ये तूत्पत्तिमात्रं इहैव, प्रमाणतयाऽभ्युपगते मीमांसाशास्त्रे, “ज्ञोऽत एव” इति सूत्रेणोक्तम्। अपिपदेन “सर्व एवैत आत्मानो व्युच्चरन्ति” इति श्रुतावुक्तेति समुच्चिनोति। ततो वेदतन्मीमांसयोरप्यप्रामाण्यं स्यात्। अन्यथा हेतोरनैकान्त्यापत्तेरिति भावः। “ज्ञोऽत एव” इति सूत्रार्थे विप्रतिपन्नं प्रति श्रुतिरेवोदाहर्तव्या।
॥ जीवोत्पत्त्यभिधायकत्वहेतोः स्वरूपासिद्धता॥
स्यादेतत्। द्वितीय एव हेतुरुपादीयते। नचासौ श्रुतिसूत्रयोर्वर्तते। तत्र हि प्राग् विद्यमानस्यैव जीवस्य देहाद्युपाध्यपक्षयैवोत्पत्तिरुच्यते। नत्वभूतभावलक्षणेत्यत आह नचेति। तत्रापि पञ्चरात्रेऽपि। यथाहि श्रुतिसूत्रयोः प्रतीतमपि जीवजननमभूतभवनं विहाय उपाधिविषयं व्याख्यायते, तथा पञ्चरात्रोक्तमपि तत् तथा व्याख्यायताम्। ततश्च स्वरूपासिद्धो हेतुरिति भावः।
ननु विषमोऽयमुपन्यासः। श्रुतिसूत्रयोः खलु “अनादिमायया सुप्तः”, “नानादित्वात्” इत्यादिनाऽनादिकर्मसम्बन्धोऽभिधीयते। नह्यभूत्वा भाववतो जीवस्यासावुपपद्यते। अतस्तदनुरोधात् तत्र प्रतीतमपि जीवजननमन्यथा नेतव्यमेव। नच तथाविधं वाचकमिहास्ति। येन मुख्यार्थं परित्यज्यामुख्यार्थं प्रतिपद्येमहि। ततो मुख्यार्थे ग्राह्ये न हेतोरसिद्धिरित्यत आह अनादीति।
अनादिकर्मणा बद्धो जीवः संसारमण्डले।
वासुदेवेच्छया नित्यं भ्रमतीति हि तद्वचः
नहि संसारसादित्वं पञ्चरात्रोदितं क्वचित्॥।२८५॥
तद्वचः पञ्चरात्रवाक्यम्। श्रुतिसूत्रवत् पञ्चरात्रेऽपि जीवस्यानादिकर्मसम्बन्धाभिधानात् तदनुरोधेन तत्रोक्तं जीवजननमप्यन्यथाव्याख्यातव्यमेव। पक्षपाते कारणाभावात्। तथाच हेतोरसिद्धिस्तदवस्थेत्यर्थः।
अथापि स्यात्। न कुत्रापि वेदादौ संसारसादित्वादिकं जीवानामभूत्वाभवनज्ञापकं स्पष्टमुक्तम्। अतः सावकाशमिदमन्यथा योज्यमेवेति चेत्। एतदपि समानमत्रेति भावेनाऽह नहीति।
॥ द्वितीयसूत्रव्याख्यानप्रत्याख्यानम्॥
अनेनैव न्यायेन “नच कर्तुः करणम्” इत्येतदप्यपाकरणीयम्। तथाहि किं करणं कर्तुर्न जायत इति व्याप्तिः, किंवा यस्यां क्रियायां यत् करणं तत् तत्क्रियाकर्तुर्न जायत इति? नाऽद्यः, व्यभिचारात्। अन्यथा करणानामनुत्पत्तिप्रसङ्गात्। न द्वितीयः, प्रकृतेऽपि तथाभावासिद्धेः। “एतस्माज्जायते” इति श्रुतिविरोधोऽपि किं जीवान्मनसो जननमात्राभ्युपगमे स्यात्, उत जननविशेषाभ्युपगमे। नाऽद्यः, “अन्नमशितं त्रेधा विधीयते” इत्यादिश्रुतेः प्रत्यहं मनसो जीवादुत्पत्तेः। न द्वितीयः, तथात्वस्य प्रकृतेऽप्यसम्मतेः। एवं मनसोऽप्यहङ्कारजन्मनि दोषः परिहरणीयः।
॥ “जीवो जायते’ इत्यादेरर्थकथनपूर्वकं परोक्तार्थप्रत्याख्यानम्॥
एवं जीवादिपदानां यथाश्रुतार्थाभ्युपगमेन सूत्रद्वयारोपितदोषपरिहारोऽभिहितः। इदानीं “वासुदेवात् सङ्कर्षणो नाम जीवो जायते” इत्यादिवाक्यस्य परकल्पितादर्थादर्थान्तरमाह जीवेति।
जीवाभिमानिशेषस्य नाम्ना सङ्कर्षणस्य तु।
वासुदेवाज्जनिः प्रोक्ता प्रद्युम्नस्य ततस्तथा॥२८६॥
मनोभिमानिनः कामस्यैवं साक्षाद्धरेः क्वचित्।
सङ्कर्षणादिनाम्नैव नित्याचिन्त्योरुशक्तितः।
व्यूह उक्तोऽन्यथाऽनूद्य कथं दुष्टत्वमुच्यते॥२८७॥
जीवशब्दस्य प्रवृत्तिनिमित्तमुपपादयितुं जीवाभिमानीत्युक्तम्। सङ्कर्षणस्य भगवतो जनेरभावात् तद्व्युदासाय नाम्ना सङ्कर्षणस्य शेषस्येत्युक्तम्। प्रोक्ता वासुदेवादित्यादिना वाक्येन। ततः सङ्कर्षणात्। तथाशब्दः समुच्चये। जनिः प्रोक्तेत्यर्थः। मनोभिमानिनः कामस्येत्यस्य पूर्ववदेव प्रयोजनम्। एवंशब्देन “प्रद्युम्नादनिरुद्धसञ्ज्ञकोऽहङ्कारो जायते” इत्यत्राप्युक्तव्याख्यानन्यायमतिदिशति। प्रद्युम्नादहङ्काराभिमानिनः कामपुत्रस्यानिरुद्धस्य जनिः प्रोक्तेति।
नन्वेवमप्युत्पत्त्यसम्भवदोषस्तदवस्थः शेषादीनामपि जीवत्वादिति। मैवम्। नह्यत्र सङ्कर्षणादीनामुत्पत्तिरुच्यते। किन्तु जायत इति जनिरुच्यते। जनिश्च प्रादुर्भावः। “जनी प्रादुर्भावे” इति पठन्ति। प्रादुर्भावश्च शरीरोत्पत्तौ जीवस्य सुप्रसिद्धः। तदिदमुक्तम् जनिः प्रोक्तेति। अत एव पूर्वोऽभ्युपगमवादः।
अर्थान्तरमप्याह साक्षादिति। शेषादयोऽपि भगवदंशत्वाद्धरित्वेनोच्यन्ते। तद्व्युदासाय साक्षादित्युक्तम्। साक्षाद्धरेरेव सङ्कर्षणादिनाम्ना व्यूह उक्त इत्यन्वयः। नन्वत्रोक्तं तदप्रतिषेधो हरेरुत्पत्त्यभावादित्यत उक्तम् व्यूहो विभाग एवोक्तो न तूत्पत्तिरिति।
यदप्युक्तम्, किमेतेऽन्योन्यं भिन्ना उत नेति। तस्योत्तरं हरेरेकस्यैवेति। नन्वेवन्तर्हि निरतिशयत्वात् कथं स्वस्मादेव स्वस्य विभाग इत्यत उक्तम् नित्येति। किन्नाम। दुर्विभाव्यं भगवति यत् प्रमितमित्यर्थः।
यदप्युक्तम्, नैवेते भगवद्व्यूहाश्चतुःसंख्यायामेव परिनिष्ठिताः अनन्तत्वादिति। तत्रोत्तरम् क्वचिदिति। कालविशेषे, प्रयोजनविशेषे चेत्यर्थः। अनभिज्ञो भवान् भागवतसम्प्रदायस्य। आदिकाले हि भगवान् नारायणो निजमुक्तिपदप्रदानाद्यर्थं वासुदेवादिचतुर्व्यूहो बभूव। ततः कालान्तरे प्रयोजनान्तरार्थं दशद्वादशादिव्यूहो जातः। सेयं शुद्धसृष्टिरिति पाञ्चरात्रिकैरभिधीयते। तदपेक्षया चतुर्व्यूहवर्णनं कथं नामानुपपन्नमिति। एवमधिकारिविशेषाराधनार्थमियमुक्तिर्युक्तैव। यथोक्तम्
“एकमूर्तिश्चतुर्मूर्तिरथवा पञ्चमूर्तिकः।
द्वादशादिप्रभेदो वा पूज्यते सज्जनैर्हरिः” इति।
अर्थान्तरकथनस्य प्रयोजनमाह अन्यथेति। एवमर्थान्तरविवक्षया प्रयुक्तस्य वाक्यस्यान्यथा अनुवादं विधाय दूषणाभिधानं कथं क्रियते? छलप्रसङ्गादिति। नच जीवादिशब्दानामनुपपत्तिः। भगवत एव मुख्यतः प्राणधारणादिमतस्तदर्थत्वात्।
यच्च “विप्रतिषेधाच्च” इति सूत्रार्थतया कल्पितं परस्परव्याघातोऽस्ति पञ्चरात्र इति, तदपि नित्याचिन्त्योरुशक्तित इत्यनेनैव परिहृतम्। भगवच्छक्त्यैव गुणगुण्यादिव्यवहारोपपत्तिरिति। समर्थितश्च भेदपदेऽभिषिक्तः प्रमितसर्वनिर्वाहहेतुर्विशेषः। (१९५,३२९,७०४)
॥ पञ्चरात्रस्य वेदविरुद्धत्वोक्तिप्रत्याख्यानम्॥
यदप्युक्तम्, शाण्डिल्यवृत्तान्तकथने पञ्चरात्रस्य वेदविद्वेषः प्रतीयत इति। तन्निराकरोति यदीति।
यदि विद्याच्चतुर्वेदानितिवद् वेदपूरणम्।
पञ्चगत्रादिति कुतो द्वेषः शाण्डिल्यवर्तने॥२८८॥
“यदि विद्याच्चतुर्वेदान् साङ्गोपनिषदान् द्विजः।
नचेत् पुराणं संविद्यान्नैव स स्याद् विचक्षणः”
इत्यत्र वाक्ये यथेतिहासपुराणादितो वेदपूरणमभिप्रेयते, तथाऽत्रापि पञ्चरात्राद् वेदपूरणमेवाभिप्रेतं इति व्याख्याने सति, शाण्डिल्यवर्तनेऽभिधीयमाने पञ्चरात्रस्य वेदविद्वेषः प्रतीयत इति कुतः? न प्रतीयत इत्यर्थः। यद्वैवं वाक्यद्वये समाने सति शाण्डिल्यवर्तनाभिधायिन्येव वाक्ये भवतो द्वेषः कुतः? येन “यदि विद्यात्” इत्येतदितिहासपुराणयोर्वेदपूरकत्वाभिप्रायमादाय “भगवान् शाण्डिल्यः” इत्यादिकं पञ्चरात्रस्य वेदविरोधित्वाभिप्रायमिति व्याख्यायत इति।
अयमत्रोत्तरक्रमः यद्येतद्वाक्यबलात् पञ्चरात्रस्य वेदविरोधित्वं कल्प्यते, तदा “यदि विद्यात्” इति वाक्यबलादितिहासपुराणयोरपि तत् कल्प्यताम्, विशेषाभावात्। अथ तत्र इतिहासादेर्वेदपूरकत्वमभिप्रायः, अत्रापि स एव कल्प्यताम्, विशेषाभावात्। “इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्” इत्युत्तरवाक्यानुरोधात् तथा कल्पनं युक्तमिति चेत्। अत्रापि “वेदार्थपूरकं ज्ञेयं पञ्चरात्रम्” इत्यादिवाक्यानुरोधात् तथा कल्पनमिति न कश्चिद् विशेषः। “अन्यत्र विद्वेषात्” इति परमसंहितावाक्यमप्येवमेव व्याख्यातव्यम्।
॥ अपव्याख्याननिरासोपसंहारः॥
अपव्याख्याननिराकरणमुपसंहरति अतः परमेति।
अतः परमशास्त्रोरुद्वेषादुदितमासुरैः।
दूषणं पञ्चरात्रस्य वीक्षायामपि न क्षमम्॥२८९॥
वीक्षायामपि न क्षमं व्यधिकरणमित्यर्थः। तर्हि कस्मादुदितमित्यत उक्तम् परमेति। परमशास्त्रं पञ्चरात्रम्। द्वेष एव किन्निबन्धन इत्यत उक्तम् आसुरैरिति। भागवतशास्त्रे हि स्वाभाविक एव हि विद्वेषोऽसुराणाम्। नतु दोषदर्शननिमित्तः। एते चासुरसम्बन्धिनस्तत्स्वभावाश्च वृत्तिकाराः। आसुरैरेवोक्तम्, नतु सूत्रकारेणेत्यनेन तस्मान्नायं सूत्रार्थः, किन्तु शाक्तमतनिरास एवेत्युक्तं भवति।
॥ रामानुजीयापव्याख्याननिरासः॥
एतेनैतदपि प्रत्युक्तम् यत् केचिदिदमधिकरणं साङ्ख्यादिवत् पञ्चरात्रस्याप्यत्राप्रामाण्यमाशय तन्निरासार्थमिति वर्णयन्ति। तथाहि उक्तरीत्या “उत्पत्त्यसम्भवात्” “नच कर्तुः करणम्” इति सूत्रद्वयेन पञ्ञ्चरात्राप्रामाण्यं पूर्वपक्षयित्वा “विज्ञानादिभावे वा तदप्रतिषेधः” इति सिद्धान्तितम्। वाशब्दात् पक्षो विपरिवर्तते। विज्ञानं चादि चेति परं ब्रह्म विज्ञानादि। सङ्कर्षणप्रद्युम्नानिरुद्धानामपि परब्रह्मभावे सति तत्प्रतिपादकस्य शास्त्रस्य प्रामाण्यं न प्रतिषिद्ध्यते।
विप्रषतिषेधाच्च। प्रतिषिद्धा हि जीवोत्पत्तिरस्मिन्नपि तन्त्रे। यथोक्तं परमसंहितायाम्
“अचेतना परार्था च नित्या सततविक्रिया।
त्रिगुणा कर्मणां क्षेत्रं प्रकृते रूपमुच्यते।
प्राप्तिरूपेण सम्बन्धस्तस्याश्च पुरुषस्य च।
स ह्यनादिरनन्तश्च परमार्थेन निश्चितः” इति।
पञ्चरात्राप्रामाण्यशङ्कायां प्राप्तायामेव हि तन्निरासाय प्रयासः सार्थकः स्यात्। नच व्यधिकरणानि दूषणानि तच्छङ्कां प्रापयितुमीशते। नहि छलोत्तराण्येतावदधिकरणं प्रयोजयन्ति, अतिप्रसङ्गात्।
प्रकरणाननुगुणं चैतत्। परमतनिरासो ह्यत्र प्रकृतः, नतु स्वमतसमर्थनम्। कृतं च तत् “न विलक्षणत्वात्” इत्यादिना।
सूत्राक्षराननुरूपं चैतद् व्याख्यानम्। नह्यत्र विज्ञानादिपदं ब्रह्मणि क्वचित् प्रयुत्तम्। “तदप्रतिषेधः” इति च व्यर्थम्। न प्राज्ञत्वादित्येव वक्तव्यम्। लघु चैवं सूत्रं व्यक्तं च स्यात्। तस्मादुक्त एव सूत्रार्थ इति स्थितम्।
॥ पादार्थोपसंहारः॥
पादार्थमुपसंहरति अतोऽशेषेति।
अतोऽशेषजगद्धाता निर्दोषोरुगुणार्णवः।
नारायणः श्रुतिगणतात्पर्यादवसीयते॥२९०॥
साङ्ख्यादिविरोधिसमयानां निरस्तत्वात् प्रथमाध्याये यत् सकलश्रुतिसमन्वयेन भगवतो लक्षणद्वयं साधितं तन्निर्णीतमेवेत्यर्थः।
॥ परपक्षप्रत्याख्यानस्य कर्तव्यत्वसमर्थनम्॥
स्यादेतत्। “न निगृह्य कथां कुर्यात्” इत्यादिस्मृतिनिषिद्धं परनिराकरणमिदं न कार्यमेव। तत् कुतः साङ्ख्यादिनिराकरणं कृतमिति चेत्, न। अस्य निषेधस्य सद्विषयत्वात्। कुतः सङ्कोच इति चेत्। श्रुतिस्मृत्योः श्रुतेर्बलवत्त्वात्। श्रुतौ च परनिराकरणस्य कर्तव्यतयाऽवगतत्वादित्याशयवान्
“अन्धन्तमः प्रविशन्ति येऽविद्यामुपासते।
ततो भूय इव ते तमो य उ विद्यायां रताः”
“विद्यां चाविद्यां च यस्तद्वेदोभयं सह।
अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते”
इति मन्त्रद्वयमर्थतोऽनुवदति अन्धमिति।
अन्धन्तमः प्रविशन्ति ये त्वविद्यामुपासते।
ततो भूय इवाऽयान्ति एतस्या नैव निन्दकाः॥२९१॥
ततो विद्यामविद्यां च यो जानात्युभयं सह।
दोषज्ञानादतीत्यैतां विद्ययाऽमृतमश्नुते॥२९२॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
श्रीमद् ब्रह्मसूत्रानुव्याख्याने द्वितीयाध्यायस्य द्वितीयः पादः।
अविद्याम् अविद्याकल्पितमविद्यमानार्थम्। आयान्ति तमः। इवशब्दः किञ्चिदर्थः। उशब्दोऽवधारणार्थः। ये केवलं विद्यायामेव रता इत्युक्त्या लब्धस्यार्थस्य कथनम् एतस्या नैव निन्दका इति। अन्यथा “विद्ययाऽमृतमश्नुते” इत्यनेन विरोधः स्यात्। ततः अविद्यानिराकरणाभावे दोषसद्भावात्। सहेति समुच्चयनियमं द्योतयति। दोषज्ञानादतीत्यैतामित्यनेन अविद्यया दुष्टत्वेन ज्ञातया मृत्युं तामेवाविद्यां तत्कार्यं दुःखादिकं चातीत्य तीर्त्वा इत्यर्थो ज्ञायते।
यद्यपि तत्वज्ञानं न स्वपक्षप्रमाणमात्रेण भवति, यावत् परपक्षप्रमाणं न निराक्रियते। सत्प्रतिपक्षस्य प्रमाणस्य निर्णयानङ्गत्वात्। अतस्तत्वज्ञानं कामयमानेनावश्यं स्वपक्षसाधनमिव परपक्षनिरासोऽपि विधेय एवेत्युपपत्तिसिद्धोऽयमर्थः। तथाऽप्यागमावष्टम्भेन प्रत्यवतिष्ठमानः, तथैव बोधनीय इत्याशयवता मन्त्रावुदाहृताविति सर्वमनवद्यम्॥*॥ इत्युत्पत्त्यधिकरणम्॥१२॥
इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृते
रनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना।
कृतायां टीकायां विषमपदवाक्यार्थविवृतौ
द्वितीयेऽध्यायेऽयं समयचरणः पर्यवसितः॥*॥
इति श्रीमद्ब्रह्मसूत्रानुव्याख्यानटीकायां
श्रीजयतीर्थमुनिविरचितायां श्रीमन्न्यायसुधायां
द्वितीयाध्यायस्य द्वितीयः पादः।