न्यायसुधा (जयतीर्थकृता)/प्रथमाध्यायस्य चतुर्थः पादः


ॐ तत् सत्
न्यायसुधा
अथ आनुमानिकाधिकरणम्॥१॥
अन्यत्रैव प्रसिद्धशब्दसमन्वयप्रतिपादनं पादार्थ इति भाष्यात् परिशेषाद् वा सिद्धम्। अन्यत्र प्रसिद्धेभ्योऽन्यत्रैव प्रसिद्धानां विवेकश्च भाष्य एवोपपादित इति नेहोच्यते।
॥ पूर्वपक्षिणा ब्रह्मणो दुःख्यादिशब्दवाच्यत्वनिराकरणम्॥
आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च। अत्र “महतः परमव्यक्तमव्यक्तात् पुरुषः परः” इति वाक्यमुदाहृत्य, अव्यक्तशब्दं परं ब्रह्मैवेत्युपपादितम्। तत्र यदुक्तं पूवपक्षिणा अव्यक्तं चेत् परं ब्रह्म तदा तस्य पुरुषादवरत्वं प्राप्नोति। नच तद् युक्तम्। सकलश्रुत्यादिविरोधादिति। तत्परिहारार्थं सूत्रम् “तदधीनत्वादर्थवत्” इति। तस्यार्थं विवृणोति दुःखीति।
॥ ब्रह्मणो दुःख्यादिशब्दव्याच्यत्वे स्वामित्वं प्रवृत्तिनिमित्तम्॥
ॐ तदधीनत्वादर्थवत्ॐ॥३॥
अनुव्याख्यानम्
दुःखिबद्धावराद्यास्तु तदधीनत्वहेतुतः।
शब्दा ब्रह्मणि वर्तन्ते................॥१॥
अव्यक्तग्रहणमुपलक्षणम्। यत्र वाक्ये सर्वेश्वरत्वविरोधि दुःखित्वादिकं प्रतीयते “जीवा एव तु दुःखिनः”, “योनिमन्ये प्रपद्यन्ते” इत्यादौ, तस्य सर्वस्यापि समन्वयोऽत्र प्रतिपाद्यत इत्यतो दुःख्यादिग्रहणम्। नाव्यक्तादिशब्दानां ब्रह्मपरत्वेऽप्यवरत्वादिप्राप्त्या सर्वमानविरोधोऽस्ति। यतः स्वस्मिन्नवरत्वाद्यभावेऽपि तद्वतां प्रधानादीनां ब्रह्माधीनत्वेन हेतुना दुःखी, बद्धः, अवर इत्याद्या अपि शब्दा ब्रह्मणि वर्तन्त इत्यङ्गीकृतम्।
एतदुक्तं भवति दुःख्यादिशब्दबलादेव हि दुःखित्वादिप्राप्तिः। ततश्च प्रमाणविरोधो वाच्यः। नच दुःख्यादिशब्दो नियमेन दुःखादिसमवायस्य वाचकः। किन्तु “तदस्यास्ति” इति तत्सम्बन्धमात्रस्य। सम्बन्धश्च समवाय इव स्वाम्यमपि भवति। तत्र “निरनिष्टो निरवद्यः”, “नामानि सर्वाणि यमाविशन्ति” इति निरवकाशश्रुतिद्वयान्यथानुपपपत्त्या दुःखादिनियन्तृत्वेन दुःख्यादिशब्दप्रवृत्तिरित्यङ्गीकारे काऽनुपपत्तिरिति।
भवत्वेवं तद्धितान्तेषु गतिः। कृदन्तेषु बद्धादिशब्देषु, रूढेषु चावरादिशब्देषु कथम्? इत्थम् बद्धशब्दस्य बन्धं प्रति कर्मत्वं प्रवृत्तिनिमित्तम्। तद् यस्यास्ति तत्र स शब्दो वर्तते। यस्यास्तीति च सम्बन्धमात्रमुच्यते। सम्बन्धविशेषे प्रमाणाभावात्। एवं कारकान्तरवाचिष्वपि द्रष्टव्यम्। अवरादिशब्दा अपि अवरत्वादिनिमित्ताधीनप्रवृत्तय एवमेव योज्याः। किञ्च “प्रातिपदिकाद् धात्वर्थे” इति ण्यन्तेभ्यः पचाद्यचि विहिते सुलभैवावरादिशब्दप्रवृत्तिः।
स्यादेषा व्याख्या, यत्र शब्दतोऽवरत्वादिप्रतीतिः। यत्र पुनः “अव्यक्तात् पुरुषः परः” इत्यादावर्थादवरत्वादिप्राप्तिः, तत्र कथम्? नहि शब्दवदुपपत्तिर्व्याख्यानमर्हति। उच्यते अव्यक्तादिति पञ्चम्या हि पुरुषगतं परत्वं प्रति अव्यक्तस्यावधित्वमस्तीत्येतावदेव लभ्यते। नच “तदस्यास्ति” इत्यनेन समवाय एव प्राप्नोतीति नियमोऽस्ति। तत्स्वामित्वेनाप्युपपत्तेः। ततश्च यद्गतं परत्वं प्रत्यवधित्वं तस्यावरत्वमर्थादापद्यताम्। परगतं तु यत्स्वामिकं तस्यावरत्वादिकं प्रति स्वाम्यमेव अर्थादापद्यत इति न कश्चिद् विरोधः।
॥ दृष्टान्तोपदर्शनादिना स्वमित्वस्य प्रधानप्रवृत्तिनिमित्तत्वप्रतिपादनम्॥
स्यादेतत्। यद्यपि “तदस्यास्ति” इति सम्बन्धसामान्यं दुःख्यादिशब्दप्रवृत्तिनिमित्तमुच्यते। तथाऽपि समवायादिरेव, न स्वामित्वम्। प्रयोगानुसारित्वात् कृत्तद्धितसमासानाम्। प्रयोगश्च समवायादिनिमित्त एव दृश्यते। न स्वामित्वनिमित्तः। अत एव “तदस्यास्त्यस्मिन्निति मतुप्” इतीतिकरणो विवक्षितार्थो निबद्धः। तस्मान्न तदधीनत्वहेतुतो दुःख्यादिशब्दानां ब्रह्मणि प्रवृत्तिरित्यतः, अस्ति तदधीनत्वनिमित्तोऽपि प्रयोग इत्याह राज्ञीति।
......................राज्ञि यद्वत् पराजयः॥१॥
स्वातन्त्र्यं तद्गतत्वं च शब्दवृत्तेर्हि कारणम्।
स्वातन्त्र्यं तत्र मुख्यं स्यात्कुतो राज्ञि जयोऽन्यथा॥२॥
भृत्यसमवेतस्य पराजयस्य राजाधीनत्वेन यथा राज्ञि पराजयः पराजयनिमित्तकः पराजयीति शब्दो वर्तते “पराजयी भद्रसेनः’ इति तथेत्यर्थः।
किञ्च स्वाम्यसम्बन्धेन मतुबर्थाप्रवृत्तौ गोमान् देवदत्त इत्यादिकमपि न स्यात्। एतदेव विवृणोति स्वातन्त्र्यमिति। यस्मात् प्रवृत्तिनिमित्तानां दुःखादीनां तद्गतत्वमिव परगतेषु स्वातन्त्र्यमपि दुःख्यादिशब्दप्रवृत्तेः कारणम्, अनुशासनप्रयोगयोरुभयत्र साम्यात्, तस्माद् दुःख्यादिशब्दा अपि उक्तार्थापत्तिबलात् तदधीनत्वहेतुतो ब्रह्मणि वर्तन्त इति सम्बन्धः।
अस्तु स्वातन्त्र्यमपि शब्दप्रवृत्तिनिमित्तम्। किन्त्वमुख्यमेव। तत्र प्रयोगस्याप्रचुरत्वात्। प्रयोगप्राचुर्यात् तद्गतत्वमेव मुख्यम्। तथाच दुःख्यादिशब्दानां जीवादिष्वेव मुख्यत्वाद् ब्रह्मण्यमुख्यत्वात् “तत्तु समन्वयात्” इत्यनुपपन्नमित्यत आह स्वातन्त्र्यमिति। तत्र स्वातन्त्र्यतद्गतत्वयोर्मध्ये स्वातन्त्र्यमेव मुख्यं शब्दप्रवृत्तिनिमित्तं स्यात्। नतु तद्गतत्वमित्यर्थः।
॥ स्वामित्वस्य प्रवृत्तिनिमित्तत्वानभ्युपगमे राजा जयीत्यादिप्रयोगानुपपत्तिः॥
स्वातन्त्र्यमपि शब्दप्रवृत्तिकारणमिति मुख्यमिति च क्रमेण प्रतिज्ञातम्। तत्क्रमेणैवोपपादयिषुः स्वातन्त्र्यस्य कारणत्वानभ्युपगमे बाधकमाह कुत इति। अन्यथा स्वातन्त्र्यस्य शब्दप्रवृत्तिकारणत्वाभावे, राज्ञि जयो जयनिमित्तको जयिशब्दः कुतः, कथम्? स्वधामोपविष्टे राज्ञि जयः कुतः, न कुतोऽपि यत इत्यर्थः। जयस्य राजगतत्वाभावात् स्वातन्त्र्यमपि यदि शब्दप्रवृत्तिनिमित्तं न स्यात्, तदा निमित्ताभावाद् राज्ञि जयिशब्दप्रवृत्तिर्न स्यात्। नचैवम्। तस्मात् स्वातन्त्र्यमपि कारणमङ्गीकरणीयमिति। लक्षणया प्रयोगोऽस्त्विति चेत्, न। “तदस्यास्ति” इति निमित्तसाम्यात्। अन्यथा वैपरीत्यस्याप्यापातात्। पराजयस्य प्रकृतत्वेऽपि जयग्रहणं व्याप्त्यर्थम्।
॥ प्रवृत्तिनिमित्तयोः स्वामित्वतद्गतत्वयोर्मध्ये स्वामित्वस्य प्राधान्यप्रतिपादनम्॥
स्वातन्त्र्यस्य मुख्यकारणत्वमुपपादयति नहीति।
नहि भृत्यस्य विजयिशब्दस्तावत् प्रयुज्यते।
यावद् राज्ञ्यन्यगत्वेऽपि स्वातन्त्र्याभासमात्रतः॥३॥
हिशब्दो यस्मादित्यर्थे। तावद् यावदिति क्रियाविशेषणे। जयस्यान्यगत्वेऽपि भृत्यगतत्वेऽपि तं जयं प्रति स्वातन्त्र्याभासमात्रेण राज्ञि विजयिशब्दो यावत् प्रयुज्यते तावज्जयाधिकरणस्यापि भृत्यस्य सम्बन्धितया न प्रयुज्यते यस्मात् तस्मात् स्वातन्त्र्यं तत्र मुख्यं स्यादिति सम्बन्धः।
स्वातन्त्र्यादिति वक्तव्ये स्वातन्त्र्याभासमात्रत इति वचनं किमुतानुपचरितस्वातन्त्र्ये परमात्मनीति कैमुत्यद्योतनार्थम्। भृत्याज्ञाननिमित्तं राज्ञि प्रयोगप्राचुर्यमिति चेत्, न। भृत्यज्ञानेऽपि तदुपलम्भात्।
ननु प्रयोगप्राचुर्यं न मुख्यताहेतुः। अज्ञातमुख्यलाक्षणिकादिप्रयोगेष्वपि दर्शनादिति चेत्, सत्यम्। प्रयोगप्राचुर्यात् तद्गतत्वमेव मुख्यम्। स्वातन्त्र्यं तु तदप्राचुर्यादमुख्यमिति परेण पर्यनुयुक्ते असिद्धिरनेनाभिधीयते। नतु प्रयोगप्राचुर्येण मुख्यता साध्यते। येन व्यभिचारचोदना सङ्गता स्यात्।
यद्यप्यत्र प्रयोगप्राचुर्यस्य मुख्याज्ञाननिमित्तत्वादिनाऽन्यथासिद्धिर्व्यभिचारो वा शक्यते वक्तुम्। तथाऽपि “जगद्वाचित्वात्” इति सूत्रदिशा शिष्यैरेव ज्ञातुं शक्यत इत्यसिद्धिरेवोक्ता।
कुतस्तर्हि मुख्यतासिद्धिरिति चेत्। उच्यते “तदस्यास्ति” इति हि दुःख्यादिशब्दप्रवृत्तिनिमित्तमुक्तम्। यच्च यदधीनसत्ताप्रतीतिप्रवृत्तिकम्, तत् तस्य मुख्यतो भवति। यथेष्टविनियोगयोग्यत्वात्। नतु यत्र यत् सम्बद्धं तस्य तन्मुख्यः। यथेष्टविनियोगायोग्यत्वात्। नहि जीवेन दुःखादिकं हातुमुपादातुं वा शक्यते। अतः स्वातन्त्र्यमेव मुख्यमिति। अथवाऽभिधानवृत्तावेव स्वातन्त्र्यतद्गतत्वयोर्निर्धारणायां स्वातन्त्र्यं मुख्यमिति प्रतिज्ञातम्। तत्र प्रयोगप्राचुर्यस्य हेतुत्वाभिधाने न कश्चिद् दोषः। प्रकरणवशादेव व्यभिचारपरिहारात्।
॥ स्वामित्वस्य शब्दप्रवृत्तिनिमित्तत्वे राजा बद्धो मृत इत्यादिप्रयोगप्रसङ्गः इत्याशङ्का॥
ननु यदि स्वाम्यं प्रवृत्तिनिमित्तं स्यात्, तदा भृत्ये बद्धे मृते वा “राजा बद्धः’, “राजा मृतः’ इति प्रयोगः स्यात्। नचैवमस्ति। तेन जानीमो न स्वाम्यं प्रवृत्तिनिमित्तमिति। नच वाच्यम्, प्रयोगे सति निमित्तानुसरणम्, नतु निमित्तमस्तीति प्रयोग इति। अमुख्यप्रयोगविषयत्वादस्य न्यायस्य। तत्र हि निमित्तं न सामग्री। किन्तु तदेकदेशः। मुख्यप्रयोगे तु निमित्तमेव सामग्री। नहि सिंहशब्दस्य शार्दूले प्रयोगाभाववत् उपगोरपत्येऽप्यौपगवशब्दप्रयोगाभावो भवतीति।
॥ राजा बद्ध इत्यादेः संशयकारणत्वात् प्रयोगाभावः, नतु स्वामित्वस्यानिमित्तत्वात्॥
अत्र वक्तव्यम् कोऽयं प्रयोगो नाम? किं शब्दशक्तिः, प्रयोगमूलं व्याकरणमिति यथा, किंवा उच्चारणम्? नाऽद्यः, प्रसङ्गस्येष्टत्वात्। विपर्ययपर्यवसाने चासिद्धेः। द्वितीये त्वन्यथासिद्धिमाह भृत्येति।
भृत्यबन्धादिकं राज्ञि राज्ञो बन्धादियोग्यतः।
कारणं संशयस्य स्यादिति नैव प्रयुज्यते॥४॥
राजाधीनभृत्यबन्धादिकं विवक्षित्वा राज्ञि राजा बद्धो मृत इत्यादिवाक्यं न प्रयुज्यते। किं कारणम्? स प्रयोगः संशयस्य कारणं स्यादित्येव। नतु स्वातन्त्र्यस्याकारणत्वात्। कुतः संशयस्य कारणम्? राज्ञोऽपि बन्धादियोग्यत्वात्।
इदमुक्तं भवति भवत्येव स्वातन्त्र्यं शब्दप्रवृत्तिनिमित्तम्, प्रयोगाभावस्तु प्रतिबन्धकनिमित्तः। राजा बद्धो मृत इति प्रयोगे हि संशयो व्युत्पन्नस्य स्यात् किं राजाधीनस्य भृत्यस्य बद्धत्वादिनैवमुच्यते, किंवा राज्ञ एव बद्धत्वादिनेति। आकाङ्क्षासन्निधियोग्यतानामुभयत्र सद्भावेनार्थद्वयप्रतीतेः अवर्जनीयत्वात्। नच संशयो मा भूदित्येवं निवृत्तः प्रयोगोऽकारणत्वं स्वातन्त्र्यस्य गमयति। नहि मणिमन्त्रादिप्रतिबद्धोऽग्न्र्निाधाक्षीदिति न तत् कारणमिति।
॥ संशयनिमित्तकानर्थशङ्का च प्रयोगाभावे कारणम्॥
न संशयकारणत्वमात्रं प्रयोगप्रतिबन्धकम्। व्याख्यानतः संशयनिवृत्तिसम्भवात्। यथोक्तम् “व्याख्यानतो विशेषप्रतिपत्तिर्नहि सन्देहादलक्षणम्” इति। अन्यथा राजा जयीत्यपि प्रयोगो न स्यात्। तत्राप्युक्तविधया संशयावतारादित्यत आह अमङ्गलत्वादिति।
अमङ्गलत्वाच्छब्दानां राज्ञो योगादमङ्गले।
अप्रियत्वात्तु शब्दस्य स्यात् प्रयोगनिवर्तनम्॥५॥
तुशब्दोऽवधारणे। शब्दस्येति जात्येकवचनम्। राज्ञो बन्धनादावमङ्गले योगाद् योग्यतासद्भावात्। आकाङ्क्षादेश्च स्फुटत्वाद् राजा बद्ध इत्यादिपदानां पाक्षिकराजबन्धाद्यमङ्गलप्रतीतिजनकत्वसम्भवात्। राज्ञोऽमङ्गलाभिधानस्य च राजतत्पुरुषाप्रीतिहेतुत्वादेव शब्दस्य प्रयोगनिवर्तनं स्यात्।
अयमभिसन्धिः न केवलं संशयप्राप्तेः प्रयोगाभावः। किन्तु संशयनिमित्ताप्रीतिहेतुकानर्थशङ्कयैव। न पुनः स्वातन्त्र्यस्याकारणत्वादिति। तर्हि राजा पराजयीत्यपि न प्रयोक्तव्यमिति चेत्। भृत्यद्वारैव राजा विजयते पराजयते चेति प्रसिद्धतया संशयानुत्पादात्।
॥ उक्तप्रयोगस्यान्यथैव सिद्धत्वमुपपाद्य स्वामित्वस्य प्रधानप्रवृत्तिनिमित्तत्वसमर्थनम्॥
नन्वस्ति तावद् राजा बद्ध इत्यादिप्रयोगाभावः। स तु स्वाम्यस्याकारणत्वान्न भवति, किन्तूक्तसंशयप्रतिबन्धादिति कुतो निश्चेयम्? नच वाच्यम् मा भूदयं निश्चयः, प्रयोगाभावस्यान्यथासिद्धिशङ्काऽपि तर्कानुमाने शक्नोति दूषयितुमिति। वादिनोऽपि निश्चयस्याऽवश्यकत्वात्। अन्यथा स्वातन्त्र्यनिमित्तकसमन्वयानवधारणापातादित्यत आह गुणास्त्विति।
गुणास्तु तादृशा यत्र प्रयुज्यन्तेऽखिला अपि।
पूज्येष्वेव विशेषेण स्वातन्त्र्यं मुख्यकारणम्॥६॥
तादृशाः स्वाम्यनिमित्तकाः शब्दाः। यत्र यदि। गुणाः शुभाभिधायिनः, नतु पाक्षिकमप्यमङ्गलं प्रत्याययन्ति। तत्र तर्हि। तेऽखिला अपि प्रयुज्यन्ते। यथा जितं राज्ञेत्यादयः। प्राप्ताप्राप्तविवेकेनानर्थशङ्कैव प्रयोगाभावकारणम्, नतु स्वातन्त्र्यस्यानिमित्तत्वमिति निश्चीयत इति भावः। अत एवोक्तम् अखिला अपीति। नचायं नियमोऽस्ति निमित्तसद्भावे प्रयोगो भवतीति। अनन्तानां हि शब्दानां लक्षणानि व्याकरणकारैरुक्तानि। नच तेषां प्रयोगो दृश्यत इति स्फुटत्वन्नोक्तम्।
तदेवं स्वातन्त्र्यस्य शब्दप्रवृत्तिहेतुत्वं मुख्यत्वं च सिद्धमित्याह पूज्येष्विति। यतः पूज्येषु स्वामिषु जयिप्रभृतयः शब्दाः प्रयुज्यन्ते। तेन ज्ञायते स्वातन्त्र्यं शब्दप्रवृत्तिकारणमिति। यतश्च पूज्येष्वेव विशेषेण प्राचुर्येण प्रयुज्यन्ते न भृत्येषु। तेन निश्चीयते स्वातन्त्र्यं शब्दप्रवृत्तौ तद्गतत्वादपि मुख्यं कारणमिति।
॥ निमित्तसद्भावात्, संशयानर्थशङ्कयोरभावाच्च भगवति दुःख्यादिशब्दप्रयोगः॥
किमतो यद्येवमित्यत आह अत इति।
अतो दोषतिदूरत्वात् संशयस्याप्यसम्भवात्।
दोषाणां विष्णुगत्वस्य प्राज्ञबुद्धिव्यपेक्षया।
स्वातन्त्र्यार्थमभिप्रेत्य दोषशब्दाश्च विष्णवि॥७॥
यतः स्वातन्त्र्यं कारणम्, मुख्यं च, अतः स्वातन्त्र्यार्थमभिप्रेत्य दुःखिबद्धावराद्या दोषशब्दा अपि विष्णवि विष्णौ “जीवा एव तु दुःखिन” इत्यादौ प्रयुज्यन्त इति सम्बन्धः।
सत्यपि निमित्ते यथा राजा बद्ध इत्यादिप्रयोगाभावः, तथा विष्णुर्दुःखीत्यादिप्रयोगाभावोऽपि कुतो न भवेत्? अत्रापि पाक्षिकस्य विष्णुवैष्णवभयस्य प्रतिबन्धकत्वसम्भवादित्यत उक्तम् दोषेति। “निरनिष्टो निरवद्यः” इत्यादिश्रुतेर्विष्णौ दोषातिदूरत्वनिश्चयात्। प्राज्ञबुद्धिव्यपेक्षया दोषाणां विष्णुगतत्वस्य तद्विषयस्य संशयस्यासम्भवात्। निमित्तसद्भावात् प्रतिबन्धकाभावादपीत्यपेरर्थः।
एतदुक्तं भवति सत्यपि निमित्ते वैदिकप्रयोगनिवृत्तिर्हि विष्णुवैष्णवेभ्यो भयात् स्यात्। तत्कारणं च तदप्रीतिः। तत्रापि हेतुर्विष्णोरनेन दोषित्वमुच्यत इति संशयः। तस्य च निमित्तं वाक्यस्योभयार्थप्रतीतिजनकत्वम्। तस्याप्युभयत्र योग्यतादिसद्भावः। नचासावस्ति प्रकृते। विष्णुवैष्णवानां परमेश्वरनिर्दोषतानिश्चयवत्त्वेन योग्यताध्यवसायानुपपत्तेः। अन्यथा जरद्गवादिवाक्येऽपि तत्प्रसङ्गात्। यद्यपि वाक्यतात्पर्याज्ञेऽप्रीतिसम्भवः, तथाऽपि सदभिप्रायवाक्यप्रयोगनिवृत्तौ किमायातमिति। एतदप्युक्तम् प्राज्ञबुद्धिव्यपेक्षयेति। स्वस्य परमवैदिकताख्यापनाय विष्णवीति वैदिकप्रयोगः।
॥ उक्तार्थस्य श्रुत्या समर्थनम् ॥
अत्र श्रुतिसम्मतिमप्याह वासुदेवेति।
वासुदेवश्रुतिश्चाऽह नैव विष्णावमङ्गलम्।
मङ्गलामङ्गलेऽन्यत्र ततो नामङ्गलं वदेत्।
स्वातन्त्र्यापेक्षया विष्णौ दोषो नामङ्गलोक्तितः॥८॥
बहुभुक्त्वं यथा दोषो नृषु नैव हरौ क्वचित्।
एवं दुःख्यादिशब्दाश्च स्वातन्त्र्यापेक्षयोदिताः॥९॥
नैव दोषा हरौतद्गबुद्ध्योक्ता दोषकारिणः।
तस्मात् ते दोषशब्दाश्च तत्रैव गुणवाचकाः॥१०॥
आह एतमर्थमिति शेषः। यतो नैव विष्णौ अमङ्गलं दुःखादिकमस्ति। ततो योग्यताविरहेणार्थान्तरप्रतीत्यभावात् स्वातन्त्र्यापेक्षया विष्णावमङ्गलोक्तितो दोषोऽनर्थो नास्ति। तस्माद् दुःख्यादिशब्दा अपि विष्णौ वेदे प्रयुज्यन्त इति शेषः। अन्यत्र तु राजादौ यतो मङ्गलामङ्गले सम्भवतोऽतो योग्यतासम्भवेनार्थान्तरप्रतिभासनात् पाक्षिकानर्थशङ्कया तत्रामङ्गलं राजा बद्ध इत्यादिकं न वदेदित्यर्थः।
एकस्यैव शब्दस्य क्वचिद् दोषप्रत्यायकत्वेनानर्थहेतुत्वम्, क्वचित् तदभाव इत्येतद् दृष्टान्तेन बोधयति बहुभुक्त्वमिति। यथा बहुभुग् देवदत्त इत्युक्ते बहुभोगवानिति निन्द्यश्चेति प्रतीयते। “अस्वर्ग्यं चातिभोजनम्” इति स्मृतेः। उभयस्यापि देवदत्ते सम्भवेन योग्यत्वात्। अत एव देवदत्ताद् भीरुणा नैवं प्रयुज्यते। परमेश्वरे तु संसारधर्माणामत्यन्तासम्भवान्न दोषप्रतिभासः। किन्तु सर्वसंहर्तृत्वादिकमेव प्रतीयत इति तत्र तत्प्रयोगः। दार्ष्टान्तिकमाह एवमिति। दोषा दोषहेतवः। प्रथमदृष्टान्तस्यापि दार्ष्टान्तिकमध्याहार्यम्।
॥ परब्रह्मणो दुःखित्वज्ञानस्यानर्थसाधनत्वम् ॥
कथन्तर्हि परमेश्वरे दुःखित्वादिवेदनमनर्थहेतुत्वेनोच्यते “असन्नेव स भवति” इत्यादावित्यत आह तद्गबुद्ध्येति। दुःखादीनां तद्गतत्वविवक्षयेत्यर्थः। तस्मादिति श्रुतिः स्वोक्तार्थमुपसंहरति। अतोऽव्यक्तादिशब्दवाच्यः परमात्मेति सिद्धम्॥*॥ इत्यानुमानिकाधिकरणम्॥१॥
अथ ज्योतिरधिकरणम्॥२॥
॥ पूर्वपक्षिणा “ज्योतिष्टोमेन” इत्यादिवाक्येषु ब्रह्मणो वाक्यार्थत्वे पदार्थत्वे चानुपपत्तिव्युत्पादनम्॥
ज्योतिरुपक्रमात्तु तथा ह्यधीयत एके। “ज्योतिष्टोमेन स्वर्गकामो येजेत”, “वसन्ते वसन्ते ज्योतिषा यजेत” इत्यादिकर्मकाण्डगते वाक्ये सन्देहः किमेतद् ब्रह्मणि समन्वेति, उत नेति। नेति पूर्वः पक्षः। तथाहि किमत्र वाक्यार्थो ब्रह्म, किंवा पदार्थः? नाऽद्यः, ज्योतिष्टोमकर्तव्यतादेः वाक्यार्थतया प्रतीतेः।
न द्वितीयः, पदानि ह्यमूनि किं रूढ्या ब्रह्मवाचीनि, किंवा योगेन? आद्येऽपि किं प्रसिद्धवसन्ताद्यात्मकत्वेन तत्पदानां ब्रह्मणि रूढिराश्रीयते, उत पृथगेव? नाऽद्यः, तेषां जडत्वानित्यत्वादिना ब्रह्मणोऽपि दूषणप्रसङ्गात्। न द्वितीयः, अनेकार्थतास्वीकारस्यान्याय्यत्वात्। नहीश्वरे वसन्तादिशब्दानां रूढिः प्रमाणवती। नच रूढ्या समन्वयसमाश्रयणे प्रयोजनमस्ति। गुणपूर्त्यसिद्धेः। नापि योगेन। योगस्य रूढेर्जघन्यवृत्तित्वेन मुख्यार्थतासिद्धेः। नचैवंविधं योगमपि पश्यामः। योगे च प्रकृत्यादिविभागः, पूर्वोत्तरपदविभागश्चाङ्गीकरणीयः। तत्र प्रकृत्यादेरीश्वरवाचित्वमस्ति नवा? आद्ये योगानुपपत्तिः, सामर्थ्याभावात्। द्वितीये ब्रह्मणि सर्वशब्दसमन्वयानुपपत्तिः। प्रकृत्यादेरन्यपरत्वात्।
किञ्च सर्वेषां पदानां ब्रह्मपरत्वे विभक्तिवैयर्थ्यम्, कर्मानुष्ठानविलोपश्च प्राप्नोति। क्रियोपहितरूपत्वात् कारकाणाम्, क्रियाभिधायकस्य चाभावात्। अनुष्ठापकप्रमाणान्तरादर्शनात्। तस्मादयुक्तं समन्वयसूत्रमिति।
॥ वसन्तेज्योतिषाआयजेतादिपदानां ब्रह्मवाचकत्वप्रकारप्रदर्शनपूर्वकं
ब्रह्मणः पदार्थत्वपक्षसमर्थनम्॥
अत्रोच्यते यत्तावदुक्तं किं ब्रह्मणि वाक्यस्यान्वयः, किंवा पदानामिति। तत्रतावत् पदानामिति ब्रूमः। नच वृत्त्यसम्भवः। योगसद्भावादित्यभिप्रेत्य निर्वक्ति जातमिति।
जातमोतं हरौ यस्माज्ज्योतिः षः प्राणरूपतः।
आयजेतश्चाऽयजेतो वसन्तिश्च वसंस्ततः॥११॥
जिर्जातम्। जनेरौणादिको डिप्रत्ययः। ओतिरोतम्। अवतेः क्तिन्। जातं जगत् ओतं प्रविष्टं यस्मिन्नसौ ज्योतिः। प्राणरूपतश्चेष्टकरूपत्वात्, “षकारः प्राण आत्मा” इति श्रुतेः। ज्योतिश्चासौ षश्चेति ज्योतिषः। तस्य सम्बुद्धिर्ज्योतिष।
यजतेर्भावे “घञर्थे कविधानम्” इति कप्रत्ययः। सम्प्रसारणाभावस्तु च्छान्दसः। यजो यज्ञः। अथवा कर्तर्येव पचाद्यच्। तथाच आ सम्यक्, समन्ताद् वा यजेन यज्ञेन कर्मणा, याजकेन पुरुषेण वा इतः प्राप्तः आयजेतः। सकलयज्ञभोक्ता यज्वभिर्ज्ञानद्वारा प्राप्यश्चेत्यर्थः। तस्य सम्बुद्धिरायजेत।
वसतेः पचाद्यच्। वसतीति वसः। तनोतेरौणादिको डिप्रत्ययः। तनोतीति तिः। “वर्णागमो वर्णविपर्ययश्च” इति पूर्वपदस्य नकारागमः। वसंश्चासौ तिश्चेति वसन्तिः। व्याप्तो वर्तत इत्यर्थः। तत्सम्बुद्धिर्वसन्ते। द्विरुक्तिरादरार्था।
॥ गच्छभुक्ष्वहुंपदानां ब्रह्मणि निर्वचनम्॥
विगतच्छादनत्वात्तु गच्छभूतक्षयङ्करः।
भुक्ष्वेत्युक्तो हरिर्हुं च हुतमस्मिन् जगद् यतः॥१२॥
गमेश्छदेश्च “डोऽन्यत्रापि दृश्यते” इति डप्रत्ययः। गं विगतं, छं छादनमविद्यादिकं यस्मादसौ गच्छः, तस्य सम्बुद्धिर्गच्छ। “इन्द्राऽगच्छ” इत्यादिव्याख्यानमेतत्।
भुशब्दो भूतशब्दस्याऽदेशः। क्षयशब्दस्य च क्ष्वः। पूर्वपदस्य मकारागमः। पृषोदरादिरयम्। यद्वा “क्षि क्षये” इत्यस्माद् प्रत्ययः। अयमपि सम्बुद्ध्यन्तः।
जुहोतेरधिकरणे मकारप्रत्ययः। “कृन्मेजन्तः” इत्यव्ययत्वम्। हुतं स्वेनैवास्मिन् विष्णौ जगत्प्रलयादौ यतोऽतो हुं चासावित्यर्थः। कर्मविशेषानुक्तेर्जगदित्युक्तम्।
॥ फकवचवषवौषदानां भगवद्वाचकत्वम्॥
स्फुटत्वात् फडिति प्रोक्तः कव रक्षण इत्यतः।
कवचं वर्तते यस्माच्छुणत्वेन सर्वदा।
वषतद्गत्वतस्तेषां वौषडित्येव कथ्यते॥१३॥
“स्फुट विकसने” इत्यस्मात् कर्तरि क्विप्। सकारलोपः। उकारस्याकारः। स्फुटत्वात् स्वात्मानं प्रति व्यक्तत्वादसङ्कुचितवृत्तित्वादिति वा।
“कव रक्षणे” इत्यतः इत्यस्य धातो रूपं कवचमित्येतदित्यर्थः। कवतेरच इत्येतावानेव प्रत्ययः। कवति रक्षतीति कवचम्।
“वृतु वर्तने” डप्रत्ययः, वर्तत इति वः। षुणात्मकत्वात् ष। वश्चासौ ष चेति वष। तस्य तात्पर्यं वर्तत इत्यादि। ऐश्वर्यवीर्ययशःश्रीज्ञानवैराग्याणि षुणाः।
विः विष्णुः। “अकयप्रविसंभूमसखहा विष्णुवाचकाः” इति वचनात्। तस्मिन् वौ वर्तमानाः ष गुणा वौष। सप्तम्या अलुक्। अस्य तात्पयार्थः तेषां षण्णां गुणानां तद्गत्वतो वौषडिति। नचैवं भगवन्नामत्वानुपपत्तिः। तद्गतगुणानामपि तदात्मकत्वात्। तदिदमुक्तम् इत्येवेति। तर्हि कथ्यत इति कथम्? भावे प्रयोगो न कर्मणीत्यतो न दोषः।
॥ स्वाहानमःशब्दयोः भगवति निर्वचनम्॥
स्वीयं स्वीकुरुते यस्मात् स्वाहेत्युक्तो जनार्दनः।
नमन्त्यस्मिन् गुणा यस्यान्नम इत्येव कथ्यते॥१४॥
हरतेर्जहातेर्वा डः। द्वावप्यापूर्वकौ स्वीकारे वर्तेते। स्वं स्वभावतः स्वीयमेव हविरादि, भ्रान्त्याऽस्ववत् प्रतीतं स्वीकुरुत इति स्वाहः। स चासौ अश्चेति। स्वाहेति सम्बुद्धिः।
नमतेरधिकरणेऽसुन्प्रत्ययः। नपुंसकलिङ्गता तु शब्दानुसारिणी। गुणा इति योग्यतया सम्बन्धः। नमनेनाऽत्यन्तिकसम्बन्धमुपलक्षयति। अथवाऽस्मिन् परमेश्वरे विषये गुणा उपसर्जनभूता ब्रह्मादयो नमन्ति प्रह्वीभवन्तीति व्याख्येयम्।
॥ पदार्थत्वपक्षे पूर्वपक्ष्युक्तबाधकोद्धारः, प्रयोजनाभिधानेन तत्समर्थनं च॥
एवं योगवृत्त्या पदसमन्वयेऽङ्गीकृते लब्धं प्रयोजनमाह इत्यशेषेति।
इत्यशेषक्रियानामशब्दैरेको जनार्दनः।
उच्यते मुख्यतो यस्मात् पदवर्णस्वरात्मभिः॥१५॥
तस्मादनन्तगुणता श्रुतितात्पर्यतोऽस्य हि।
विज्ञानार्थत्वतः सर्वशब्दानां नास्ति दूषणम्॥१६॥
इति उक्तदिशा। तेन न विभक्त्यार्थानुपपत्तिः। क्रियाशब्दा आख्यातपदानि। नामशब्दाः सुबन्तानि। एक इति शब्दान्तरन्यायेन प्राप्तं भेदमपाकरोति। अभिधेयभेदे हि नानन्तगुणता सिद्ध्यति। मुख्यतो योगवृत्त्या। क्रियानामशब्दैरित्यस्यानुवादः पदवर्णस्वरात्मभिरिति। न केवलं पदवर्णात्मभिः किन्तूदात्तादिस्वरात्मभिश्च।
ननु वर्णानामपि वाचकत्वे विभक्त्यन्तत्वे च पदत्वमेव। तत् किमर्थं पृथग् ग्रहणम्? एकानेकवर्णात्मकत्वविवक्षयेति ब्रूमः। अनन्तगुणता सिद्ध्यतीति शेषः। हिशब्दोऽपर्यायत्वादिति सूचयति। अनेन रूढिमात्रेण पदसमन्वयाङ्गीकारो निष्प्रयोजनः अनन्तगुणत्वासिद्धेरिति पूर्वपक्षिणोक्तं परिहृतमित्युक्तं भवति।
ननुच न निर्वचनस्य शक्यकरणत्वमात्रेणानन्तगुणत्वं परमेश्वरस्य वेदतः सिद्ध्यति। निर्वचनस्य व्याख्यातृमतिपरिकल्पितस्यार्थान्तरेऽन्यथा च सम्भवात्। अन्यथा श्वित्री शोधनं करोति इत्यभिप्रायेण प्रयुक्तस्य “श्वेतो धावति’ इति वाक्यस्य इतः सारमेयो द्रुतं गच्छतीत्यपि प्रमेयं प्रसज्येतेत्यत उक्तम् श्रुतीति। भवेदेवम्, यदि “वसन्ते” इत्यादिश्रुतीनामुक्तविधनिर्वचनेन परमेश्वरगुणेषु तात्पर्यं न स्यात्। तच्चास्तीत्युपपादयिष्याम इति च हिशब्दः।
योगवृत्त्यङ्गीकारस्य प्रयोजनान्तरमाह विज्ञानेति। वैदिकानां सर्वशब्दानामेवं योगवृत्त्या विज्ञानार्थत्वतः अनन्तगुणोपेततया परमेश्वरज्ञानार्थत्वेनाङ्गीकृतत्वाद् वसन्ताद्यात्मकतया रूढ्यङ्गीकारप्रयुक्तं यदनित्यत्वादिदूषणमुक्तं तन्नास्तीत्यर्थः। तदनेन ज्योतिरिति सूत्रस्य लेशतस्तात्पर्यमुक्तं भवति।
॥ ब्रह्मणो वाक्यार्थत्वपक्षसमर्थनम्॥
एवं कर्मकाण्डस्य ब्रह्मणि प्रतिपदसमन्वयप्रतिपादनेन समन्वयसूत्रस्यानुपपत्तिः परिहृता। इदानीं वाक्यान्वयपक्षाङ्गीकारेणापि तां परिहरति अङ्गीकृतेऽपीति।
अङ्गीकृतेऽपि नैवास्ति दोषो वाक्यसमन्वये।
तदर्थत्वेन कर्मादेः सम्भवादल्पबुद्धये॥१७॥
वाक्यसमन्वयेऽङ्गीकृतेऽपि ब्रह्मणि “वसन्ते” इत्यादिवाक्यानां समन्वयाङ्गीकारादपि दोषः समन्वयसूत्रानुपपत्तिर्नैवास्तीत्यर्थः। अनेन वाक्यान्वयादिति सूत्रस्य तात्पर्यमुक्तं भवति।
ननूक्तमत्र न वाक्यानां ब्रह्मणि समन्वयो घटते। साङ्गकमपरत्वावगमादागमानामिति तत्राऽह तदर्थत्वेनेति। तदिति विज्ञानं परामृशति। अल्पबुद्धय इति षष्ठ्यर्थे चतुर्थी। “अहल्यायै जार” इति यथा। न वाक्यान्वयानुपपत्तिरिति शेषः।
यथा खलु यूपाहवनीयादिवाक्यानि न निष्फले तावन्मात्रे पर्यवस्यन्ति, किन्तु ज्योतिष्टोमादीतिकर्तव्यतापराणि, तथा सर्वमपि कर्मकाण्डं नाल्पास्थिरफले कर्ममात्रे पर्यवस्यति, किन्तु ब्रह्मज्ञानार्थमेव। तत्प्रतिपादितस्य कर्मादेर्ब्रह्मज्ञानार्थत्वात्। “विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन” इत्यादिश्रुतेरिति भावः।
ननुच यः कर्मकाण्डस्य ब्रह्मणि प्रतिपदसमन्वयोऽभिहितः स युक्तः, नवा? नेति पक्षे न व्युत्पादनीयः। आद्ये किमनेन वाक्यान्वयाङ्गीकारेणेत्यत उक्तम् अल्पबुद्धय इति। प्रपञ्चयिष्यते चैतत्। (३६२) अनेन “अन्यार्थम्” इत्यादिसूत्राणां तात्पर्यमुक्तं भवति।
॥ चतुर्मुखस्यैव प्रतिपदसमन्वयज्ञानयोग्यत्वम्, तदन्येषां वाक्यार्थत्वज्ञानयोग्यत्वम्॥
नन्वल्पबुद्धीनामपि प्रतिपदान्वय एव ब्रह्मज्ञानहेतुर्भवतीति किं वाक्यान्वयेनेत्यत आह क इति।
कश्छन्दसां योगमिति श्रुतेर्योगार्थतत्ववित्।
ब्रह्मैको नैव चान्योऽस्तिक इत्यस्योभयार्थतः॥१८॥
“कश्छन्दसां योगमावेद धीरः” इति श्रुतेर्वैदिकपदयोगवृत्तेरल्पबुद्धिभिरशक्यज्ञानत्वाद् युक्तं वाक्यान्वयव्युत्पादनमिति शेषः।
नन्वेवन्तर्हि योगवृत्त्या प्रतिपदसमन्वयव्युत्पादनं न कर्तव्यम्। को धीरश्छन्दसां योगं ब्रह्मणि योगवृत्तिमावेद? न कोऽपीति निरधिकारिकत्वश्रवणात्। नहि गायमानो बधिरेषु गायतीत्यत आह योगार्थेति। योगस्यार्थो योगार्थः। तस्य तत्वं याथार्थ्यम्। चशब्दोऽर्थद्वयसमुच्चयार्थः। अयमस्याः श्रुतेरर्थ इति शेषः।
एतदुपपादयति क इति। “प्रजापतिर्वै कः” इति श्रुतेः कशब्दो ब्रह्मार्थः। किंवृत्तस्य चाऽक्षेपे वृत्तिः सुप्रसिद्धा। तथाच क इत्यस्योभयार्थत्वाद् ब्रह्मार्थत्वे तस्य योगवृत्तिज्ञाने सामर्थ्यकथनान्नानधिकारिकत्वम्। आक्षेपार्थत्वे तदन्येषामनधिकारकथनाद् युक्तो वाक्यान्वयाभ्युपगमः। ननु कथमेतत्? आवृत्तेस्तन्त्रधर्माद् वेत्यदोषः। प्रमाणं चात्रान्यथानुपपपत्तिरिति।
॥ पदार्थत्वज्ञानस्य एकाधिकारिकत्वोक्तौ बाधकोद्धारः॥
यदि ब्रह्मा एक एव पदानां योगवृत्त्याऽर्थसम्बन्धं वेद तदा “एकस्य प्रतिभातं तु कृतकान्न विशिष्यते” इति न्यायात् कृतकत्वं शब्दार्थसम्बन्धस्येत्याद्यापद्यते। तथाच “औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धः” इति जैमिन्युक्तः शब्दानामर्थैर्नित्ययोगः परित्यक्तः स्यादित्यत आह तस्यापीति।
तस्यापि पूर्वसिद्धस्य ज्ञानमेवेति निश्चयात्।
नित्ययोगोऽपि शब्दानामर्थैर्नैव निषिद्घ्यते॥१९॥
यद्यप्येक एव प्रतिपत्ता, तथाऽपि तस्य पूर्वसिद्धस्यैव पूर्वस्थितस्यैव ज्ञातस्यैव च शब्दार्थसम्बन्धस्य ज्ञानमेव प्रमितिरेव भवति, न तूत्प्रेक्षामात्रमिति अस्यार्थस्य श्रुत्यादिभ्यो निश्चयात् जैमिन्युक्तः अर्थैः शब्दानां नित्ययोगो नैवास्माभिस्त्यज्यत इति योजना।
एतदुक्तं भवति स्यादयं दोषो यदि ब्रह्मणः शब्दार्थसम्बन्धज्ञानमुत्प्रेक्षारूपं स्यात्। नचैवम्। किन्तु पूर्वजन्मनि प्रतीतं स्वतः सिद्धमेव सम्बन्धमिह जन्मनि सुप्तप्रबुद्धन्यायेनेश्वरप्रसादादवबुद्ध्यत इति। तथाच श्रुतिः “यो ब्रह्माणम्” इत्येवञ्जातीयका। एकदेशे पुरुषान्तरप्रतिपत्तिसंवादाच्चैतदेवम्। तथाच स्मृतिः। “जन्मान्तरे श्रुतास्तास्तु” इत्यादिका। अत एव श्रुतिः “आवेद” इत्याह। एतेन नैकाधिकारिकं शास्त्रमित्यपि परास्तम्॥*॥
॥ प्रकृत्यधिकरणस्य सर्वव्याख्यानाधिकरणस्य च तात्पर्यकथनम्॥
इदानीं “प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्”, “एतेन सर्वे व्याख्याता व्याख्याताः” इत्यधिकरणद्वयस्य सङ्क्षेपतस्तात्पर्यमाह स्त्रीशब्दाश्चेति।
स्त्रीशब्दाश्च निषेधार्थाः सर्वेऽपि ब्रह्मवाचकाः।
स्त्रीलिङ्गाः प्रकृत्यादिशब्दाः स्त्रीशब्दाः। निषेधनं निषेधोऽभावः। निषिद्ध्यत इति निषेधः असत्। तदुभयार्थाः। शब्दा इति च वर्तते।
॥ प्रथमाध्यायचतुर्थपादाधिकरणानां विषयाः, पूर्वपक्षसिद्धान्तयुक्तयश्च॥
अत्र न सर्वाणि सूत्राणि व्याख्यातानि। ततः प्रतिज्ञा व्याहन्येतेत्यतो विषयादिकथनेन व्याख्याततां मन्वानः सर्वाधिकरणविषयपूर्वपक्षसिद्धान्तयुक्तीराह विरोधीति।
विरोधिसर्वबाहुल्यकारणस्त्रीनिषेधिनाम्।
पृथक् समन्वयार्थानि स्थानान्येतानि सर्वशः॥२०॥
सर्वमानैर्विरोधश्च व्युत्पत्तेरप्यशक्यता।
परस्परविरोधश्च विरोधः कार्यतद्वतोः।
स्त्रीलिङ्गत्वं निषेधश्च पूर्वपक्षेषु हेतवः॥२१॥
दोषात्यस्पृष्टिनियमः शब्दार्थानेकता तथा।
बहुरूपत्वमीशस्य व्यक्त्यव्यक्तिविशेषिता॥२२॥
उत्पादनं स्वदेहाच्च दुर्जनाव्यक्तता तथा।
इत्यादियुक्तयः साक्षात् सिद्धान्तस्थापका इह॥२३॥
यद्वा अत्राऽद्येन श्लोकेनाधिकरणोपाधयः कथ्यन्ते। विरोधीति परमैश्वर्यविरोध्यर्थाः। सर्वेति उक्तवक्ष्यमाणव्यतिरिक्ताः। बाहुल्येति बाहुल्यविशिष्टार्थवाचिनः। कारणेत्यवान्तरकारणवाचिनः। स्त्रीति स्त्रीलिङ्गाः। निषेधो वाच्यो येषामस्ति ते निषेधिनः। अथवाद्वन्द्वात् पर इन्प्रत्ययो द्रष्टव्यः। तथात्वे विरोध्यादयोऽर्था ग्राह्याः। शब्दानामिति शेषः। एतानि एतत्पादगतानि सर्वशः स्थानानि अधिकरणानि एषां शब्दानां समन्वयप्रयोजनानीत्युक्ते प्रत्येकं सर्वशब्दसमन्वयसिद्धिरित्यपि प्रतीयेत। अतः पृथगित्युक्तम्। सर्वेत्यनेनैव समाकर्षाधिकरणार्थोऽपि सङ्गृहीतः। तस्य ज्योतिरधिकरणार्थाक्षेपपरिहारार्थत्वात्। “सर्वमानैर्विरोधश्च” इत्याद्यर्थो न्यायविवरणादाववगन्तव्यः।
॥ समाकर्षाधिकरणे वाक्यान्वयप्रतिपादनस्य प्रयोजनम्॥
एवं “आनुमानिकम्” इत्यादीनि सूत्राणि सङ्क्षेपतो व्याख्याय सिंहावलोकनन्यायेन समाकर्षाधिकरणं ज्योतिरधिकरणं च “अन्वयः” इत्यादिना किञ्चिद् विवृणोति।
तथाहि समाकर्षाधिकरणे प्रतिपाद्यमानो वाक्यान्वयः सूत्रकारस्याभिमतः, नवा? आद्ये वक्तव्यम् प्रागुक्तप्रतिपदान्वयो युक्तो नवेति। नेति पक्षे न वक्तव्यः। युक्तत्वे हि मुख्ये तस्मिन् विद्यमानेऽस्य वैयर्थ्यम्।
किञ्च वाक्यान्वयस्य स्वमतत्वे “अन्यार्थं तु जैमिनिः” इत्यादिसूत्रेषु जैमिन्यादिग्रहणं व्यर्थं स्यात्। अपिच “प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः”, “उत्क्रमिष्यत एवं भावादित्यौडुलोमिः” “अवस्थितेरिति काशकृत्स्नः” इति वाक्यान्वयस्त्रिप्रकारोऽभिहितः। तस्य परस्परमविरोधे मतभेदो न स्यात्। विरोधे तु कथं सूत्रकाराभिमतत्वम्? अथ सूत्रकारस्यानभिमतो वाक्यान्वयः, तदा निराकरणसूत्रेण भाव्यम्। नचैतदस्ति। तत् कथमेतदित्यत आह अन्वय इति।
अन्वयः सर्वशब्दानामशक्यो ज्ञातुमञ्जसा।
इति यल्लोकवैमुख्यं जैमिन्यादिमतं वदन्।
विद्याधिनाथो भगवानपाचक्रे स्वयं प्रभुः॥२४॥
प्रतिपादान्वयेऽभिहिते हि मन्दाधिकारिणां मोक्षमार्गवैमुख्यं स्यात्। सर्वशब्दानां ब्रह्मणि अञ्जसा मुख्यया वृत्त्या अन्वयस्तावज्ज्ञातुमशक्यः। “कश्छन्दसाम्” इति श्रुतेः। नच तज्ज्ञानेन विना मोक्षः। नचाशक्ये प्रवृत्तिर्युक्ता। आकाशरोमन्थानादौ प्रवृत्त्यदर्शनात्। तथाचाऽहुः
“व्यसनानि दुरन्तानि समव्ययफलानि च।
अशक्यानि च वस्तूनि नाऽरभेत विचक्षणः” इति।
तस्मादास्तामयं मोक्षः। शक्यानुष्ठानसाधनधर्माद्यर्थमेव प्रवर्तेमहीति। एवं मन्दलोकस्य मोक्षमार्गवैमुख्यं भगवान् सूत्रकारः स्वयमेव जैमिन्यिादिमतमेतदिति वदन् वाक्यान्वयप्रदर्शनेन निराकृतवान्। अनेन स्वाभिमत एव वाक्यान्वयोऽतो न निराकरणसूत्राभावो दोषाय। प्रतिपदान्वयश्च युक्त एवेति तद्व्युत्पादनमुपपन्नमेव। तथाऽपि प्रतिपदमन्वये सामर्थ्यवैकल्येन मोक्षमार्गाद् विमुुखानां मन्दाधिकारिणामुपायान्तरप्रदर्शनेन समाश्र्वासार्थं वाक्यान्वयकथनं चोपपन्नमित्युक्तं भवति।
॥ वाक्यान्वयस्य जैमिन्यादिमतत्वेनोक्तौ,
अनेकप्रकारकत्वे च निमित्तकथनम्॥
तर्हि जैमिन्यादिग्रहणं व्यर्थमित्युक्तमित्यत आह स्वशिष्याणामिति।
स्वशिष्याणां प्रसिद्ध्यर्थं मतमात्मीयमंशतः।
विज्ञाते तैर्जगादात्र तारतम्यं नृणां वदन्॥२५॥
जैमिन्यादीनामिति शेषः। नात्र जैमिन्यादिग्रहणेन तदीयमेवैतन्मतमित्युच्यते। किन्तु मदीयमेव मतमेकदेशतो जैमिन्यादिभिर्विज्ञातमिति। एतच्च तेषां ख्यात्यर्थम्। गुरुणा श्र्लाधिता हि शिष्या लोके ख्यातिं लभन्ते।
ननु वाक्यान्वयस्य प्रकारत्रयं परस्परविरुद्धं कथं सूत्रकारस्याभिमतं स्यादित्यत आह तारतम्यमिति। नृणामल्पाधिकारिणामवस्थातारतम्यं वदन्नित्यनेनावस्थातारतम्यव्यवस्थया मतभेदः, न विरोधेनेत्युक्तं भवति। एतेनाङ्गीकृतेऽपीत्याद्युक्तं विवृतं वेदितव्यम्।
॥ श्रुतिसिद्धत्वात् सर्वशब्दानां भगवद्वाचित्वम्, प्रयोजनसद्भावात् पदार्थान्तरवाचित्वम्
इति शब्दानामुभयार्थत्वप्रतिपादनम्॥
ज्योतिरधिकरणे योगवृत्त्या परमेश्वरेऽखिलशब्दसमन्वयोऽभिहितः। नासौ युज्यते। प्रकृत्यादेरन्यपरत्वाभावे निर्वचनानुपपत्तेः। नहि जातादिपदानामन्यपरत्वानङ्गीकारे “जातमोतं यस्मिन्” इति व्युत्पत्तिः सम्भवति। प्रकृत्यादेरन्यपरत्वे तु सर्वशब्दानां भगवद्वाचित्वमिति गतः पक्षः। किञ्च “वसन्ते” इत्यादीनां भगवत्परत्वे कर्मानुष्ठानलोपो लोकव्यवहारविलोपश्च प्रसज्येतेत्युक्तमित्यत आह तेष्विति।
तेषुतेषु पदार्थेषु रूढिरङ्गीकृता यतः।
प्रयोजनबहुत्वेन तस्यतस्याविरोधतः।
उपदेशादिसामर्थ्याद् विष्णौ शक्तिश्च गृह्यते॥२६॥
व्युत्पत्त्युपपत्तिः, कर्मानुष्ठानसम्भवः, लोकव्यवहारानुच्छेदश्चेत्येवं प्रयोजनानां बहुत्वेन कारणेन तेषुतेषु तत्तच्छब्दवाच्यतया प्रसिद्धेष्वर्थेषु तत्तच्छब्दानाम्, रूढिरित्युपलक्षणम्, वृत्तिरङ्गीकृता यतः तस्मात् तस्यतस्याविरोधतः तन्तमर्थमपरित्यज्य उपेदशलिङ्गप्रकरणादिबलेन सर्वशब्दानां विष्णौच शक्तिर्गृह्यते।
यद्यप्यत्रैतावदेव वक्तव्यम् “नैष दोषः, सर्वशब्दानां भगवद्वाचिनामपि प्रसिद्धार्थान्तरवाचकत्वस्यापि स्वीकारात्। ज्योतिरादिशब्दानां हि ज्योतिष्टोमाद्यर्थत्वस्याङ्गीकृतत्वान्नानुष्ठानलोकव्यवहारविलोपः। जातमोतमित्यवयववृत्त्या परमेश्वरे वृत्तौ जातादिपदानामन्यपरत्वमङ्गीक्रियत इति व्युत्पत्त्युपपत्तिः। पुनस्तदवयवस्याप्यन्यपरत्वमुपादाय परमेश्वरे जातपदव्युत्पत्तिसम्भवः’ इति।
तथाऽपि, स्यादेतदेवम्, यदि शब्दानामनेकार्थत्वं स्यात्। तदेव कुत इति शङ्कानिरासार्थमिदमुक्तमिति ज्ञातव्यम्। तथाहिपदार्थान्तरवाचित्वं तावदुक्तप्रयोजनसिद्धयेऽङ्गीकरणीयम्। परमेश्वरवाचित्वं च सर्वशब्दानां “नामानि सर्वाणि यमाविशान्ति”, “ता वा एताः सर्वा ऋचः” इत्याद्युपदेशबलाछ्रुतिलिङ्गादिसामर्थ्याच्च तत्तच्छब्दानामवश्यमङ्गीकरणीयमिति। अनेन “कल्पनोपदेशाच्च मध्वादिवदविरोधः” इति सूत्रस्य तात्पर्यमुक्तं भवति।
॥ शब्दानामुभयार्थत्वानुपपत्तौ परेमेश्वरमात्रवाचित्वस्याङ्गीकर्तव्यता॥
यदि सर्वशब्दानामुभयार्थत्वं तर्हि “विश्वस्मानिन्द्र उत्तरः”, “असदेवेदमग्र आसीत्” इत्यादौ कथम्? उभयोः सर्वोत्तमत्वादेर्विरुद्धत्वेनात्रोभयार्थत्वानुपपत्तेः। पदानामुभयार्थवाचित्वेऽपि यत्र विरोधः, तत्रान्यतरमात्रे तात्पर्यमङ्गीकार्यमिति चेत्। तत्रापि किमुपादेयं किं परित्याज्यमिति न ज्ञायत इत्यत आह तथाऽपीति।
तथाऽप्येतद्विरोधे तु तद्वाचित्वमपोद्यते।
यद्यप्युभयार्थाः शब्दा इति सामान्येनोक्तम्। तथाऽपि परमेश्वरपरत्वविरोधेऽन्यपरत्वमपोद्यते। तुशब्दो विशेषद्योतनार्थः। उभयपरत्वं तावद् विरुद्धमिति परेणैवोक्तम्। अन्यतरपरित्यागे च परमेश्वरपरित्यागो न युक्तः। निश्चिततात्पर्यवाक्यान्तरविरोधात्। अतः परिशेषादितरपरित्याग एवोचित इति।
॥ विरोधाभावस्थलेऽपि शब्दानामीश्वरवाचित्वं मुख्यम्, अन्यदमुख्यम्॥
तर्हि “कल्पनोपदेशात्” इत्यादिविरोधः। तत्र सर्वशब्दानामुभयपरत्वस्योक्तत्वादिति चेत्, न। निरपवादस्थले पर्यवसायित्वात् तस्येत्याह अविरोध इति।
अविरोधे तु बह्वर्था एतन्मूलतया मताः॥२७॥
बहुशब्दोऽनेकार्थः। मताः तत्रतत्र सूत्रेऽभिमताः। नन्वविरोधेऽप्युभयार्थत्वाङ्गीकारो न युक्तः, “तत्तु समन्वयात्” इत्यवधारणविरोधादित्यत उक्तम् एतन्मूलतयेति। एष परमेश्वरो मूलं मुख्यो येषां ते तथोक्ताः, तेषां भावस्तत्ता, तयेतीत्थम्भूतलक्षणे तृतीया। मुख्यमर्थान्तरं वारयितुमवधारणम्। नत्वर्थान्तरमात्रम्। उक्तप्रयोजनव्याघातादिति भावः। एतेनान्याय्यं चानेकार्थत्वमित्यपि समाहितम्। मुख्यार्थस्यैकत्वात्।
॥ इन्द्रादीनां इन्द्रादिशब्दवाच्यत्वस्य भगवत्सन्निधानसापेक्षत्वादमुख्यत्वम्॥
ननु पुरन्दरादिष्वपीन्द्रादिशब्दा रूढियोगाभ्यां प्रवृत्ताः। रूढियोगौ च मुख्यवृत्ती कथ्येते। अतोऽक्षादिशब्दानामिवेन्द्रादिशब्दानामुभयं मुख्याभिधेयं युक्तम्। नेश्वर एवेत्यत आह इतो हीति।
इतो हि रूढताऽन्येषामुपजीव्यत्वमत्र हि।
सत्यमस्ति पुरन्दरादीनामपीन्द्रादिशब्दरूढिविषयता, तथाऽपि सा इतः परमेश्वरादेव। हि यस्मात्, यस्माच्च अत्र योगविषयत्वे परमेश्वरस्यैवोपजीव्यत्वम्, तस्मात् स एव मुख्यार्थो न पुरन्दरादयः। स्वत एवानवधिकैश्वर्यादिमतीश्वर एवेन्द्रादिशब्दानां योगरूढी। तत्सन्निधानात् तदायत्तप्रवृत्तिनिमित्तत्वादेव च पुरन्दरादिषु। प्रसिद्धं चैतत्। यद् यत्सन्निधानाद् यच्छब्दप्रतिपाद्यं तदमुख्यमन्यन्मुख्यमिति। यथा दग्धृशब्दस्यायोऽग्न्श्र्चि। नचाक्षादिशब्दार्थानामितरेतरापेक्षाऽस्तीति वैषम्यमिति।
॥ अर्थान्तरसापेक्षाणामेव शब्दानां भगवत्परत्वसम्भवाद् भगवद्वाचित्वमप्यमुख्यमित्याशङ्कानिरासः॥
नन्वेवं चेदीश्वरस्याप्यमुख्यत्वं प्रसक्तम्। अर्थान्तरापेक्षयैव तत्र शब्दप्रवृत्तेः। न खलु जातादिशब्दानामन्यार्थतामनपेक्ष्य ज्योतिषेत्यादिशब्दानां भगवति प्रवृत्तिः सम्भवतीत्यत आह तत्सिद्धिरिति।
तत्सिद्धिस्तदपेक्षा चसाऽपेक्षा च हरीच्छया॥२८॥
चशब्दोऽवधारणे। नायमस्ति दोषः। यतः परमपुरुषे तत्तच्छब्दप्रवृत्तिप्रतीतिरेवार्थान्तरापेक्षा, नतु प्रवृत्तिः। नहि घटस्य रूपं प्रदीपापेक्षया प्रतीयत इत्येतावता तदायत्तं भवति। यथाऽन्यत्र शब्दप्रवृत्तिरेव परमेश्वरापेक्षा, नैवं परमात्मनि वृत्तावितरापेक्षां कामपीक्षमाह इति।
इतश्च नायं दोष इत्याह साऽपेक्षा चेति। या परमेश्वरे शब्दानां वृत्तावर्थान्तरापेक्षा सा च भगवदिच्छानिबन्धनैव, नत्वनन्यगतिकतयेत्यतो न तस्यामुख्यार्थताप्राप्तिः। नहीच्छया प्रकृत्यादिकमुपाददानस्य सृष्टिः परायत्ता। नापि पटुकरणो लीलानिमित्तमिच्छया दण्डमवष्टभ्य गच्छन् दण्डायत्तगतिर्भवतीति।
॥ अभिधावृत्तिलक्षणावृत्तिगौणीवृत्तिभेदेन वृत्तेस्त्रैविध्यम्,
अभिधावृत्तेः परममुख्यमुख्यभेदेन द्वैविध्यं च॥
यद्येवं हरिसन्निधानादिना शब्दानामन्यत्र वृत्तिः, तत् किमयसीव दग्धृशब्दस्य लोके सर्वशब्दानां लक्षणैव? तथासति गङ्गातीरयोरविशेषप्रसङ्गः। ईक्षत्यधिकरणोक्तार्थस्य मूले निहितः कुठार इत्याशङ्कां परिहरन्नेतन्मूलतयेत्यादिनोक्तमर्थमुपसंहरति तस्मादिति।
तस्मात् परममुख्यत्वं विष्णावन्यत्र मुख्यता
उपलक्षणा च गौणी च तिस्रः शब्दस्य वृत्तयः॥२९॥
नायसि दग्धृशब्दस्येवेन्द्रादिशब्दानां पुरन्दरादिषु लक्षणैव। रूढेरभिधानादिसिद्धत्वात्। योगनिमित्तस्य च परमैश्वर्यादेः सद्भावात्। किन्तु परमेश्वरविषययो रूढियोगयोरपराधीनत्वनिरङ्कुशत्वाभ्याम्, अन्यत्र तदधीनत्वाल्पत्वाभ्यां, मुख्यार्थतायामेवायं मुख्यामुख्यविभागोऽभिहित इति। तदिदमुक्तम् परममुख्यत्वमिति मुख्यतेति च। गौणीत्यतः परमितिशब्दोऽध्याहार्यः।
॥ परममुख्यवृत्तेः महायोगमहायोगरूढिभेदेन द्वैविध्यम्
निरवधिकप्रवृत्तिनिमित्तसापेक्षा वृत्तिः महायोगः॥
एतदेव दर्शयन् परममुख्यादिवृत्तिलक्षणान्याह प्रवृत्तीत्यादिना। तत्र परममुख्यवृत्तिर्द्वेधा महयोगः, महायोगरूढिश्चेति। महारूढिस्तु न सम्भवति। “सा योगादेव लभ्यते” इत्युक्तत्वात्। तत्र महायोगस्वरूपमाह प्रवृत्तिहेतोरिति।
प्रवृत्तिहेतोर्बाहुल्यं ज्ञेयं परममुख्यता।
निर्वचनलभ्योऽर्थः प्रवृत्तिहेतुः, तस्य बाहुल्यं निरवधिकत्वम्। यद्यपि स्वातन्त्र्यं चात्र वक्तव्यम्। प्रकृतत्वात्। तथाऽप्यन्यतरमात्रेणेतरव्यावृत्तिसिद्धेः लक्षणपदानां च तन्मात्रप्रयोजनत्वान्नाभिहितम्। परममुख्यतेति ज्ञेयमिति योजना।
ननु बाहुल्यं प्रवृत्तिहेतोर्धर्मः। बहुलप्रवृत्तिहेतुमत्त्वं चाभिधेयस्य। परममुख्यता तु शब्दधर्मः। तत् कथं सामानाधिकरण्यम्? नैष दोषः। उपचरितत्वात्। निरवधिकं स्वतन्त्रं वा प्रवृत्तिहेतुमपेक्ष्य या शब्दस्य प्रवृत्तिः सा परममुख्यता महायोगलक्षणा ज्ञातव्येति तात्पर्यार्थः।
॥ निरवधिकप्रवृत्तिनिमित्तविशिष्टप्रयोगबाहुल्यसापेक्षा वृत्तिः महायोगरूढिः॥
महायोगरूढिस्वरूपं निरूपयन्नाह तत्रेति।
तत्र प्रयोगबाहुल्यं यदि तत्परता किमु॥३०॥
यत्रार्थे प्रवृत्तिहेतोरनवधिकत्वं तत्रैव चेत् प्रयोगबाहुल्यं स्यात्, तदा तस्या वृत्तेः परता परममुख्यता किमु वक्तव्येति। अत्रानवधिकप्रवृत्तिनिमित्तवति यत्रार्थे यस्य शब्दस्य प्रयोगबाहुल्यमस्ति तस्य तत्र महायोगरूढिलक्षणा परममुख्यवृत्तिरित्येतावदेव वक्तव्यम्। कैमुत्यकथनं तु शङ्कानिरासार्थम्।
तथाहि किमत्र प्रयोगबाहुल्यमात्रं लक्षणम्, उतानवधिकप्रवृत्तिनिमित्तविशेषितम्। नाऽद्यः, रूढिमात्रत्वात् परममुख्यत्वायोगात्। न द्वितीयः, अनवधिकप्रवृत्तिनिमित्तेनैव परममुख्यत्वे विशेष्यवैयर्थ्यात्। नच समाहारेण विधान्तरं भवति। तथासत्यसिद्धबाधितसमाहारोऽपरो हेत्वाभासः स्यादिति।
अत्र द्वितीय एवाभ्युपगम्यते। नचोक्तदोषः। विशेषणमात्रेण परममुख्यत्वे, विशेष्यसद्भावेन सुतरां तत्सिद्धेः। नह्यस्माभिः परममुख्यतामात्रसिद्धये विशिष्टोपादानं क्रियते। किन्तु समाहाररूपविधान्तरसिद्धये। नचातिप्रसङ्गः, वैषम्यात्। अनवधिकप्रवृत्तिनिमित्तापेक्षप्रयोगबाहुल्यं खलु विवक्षितम्। न समाहारमात्रम्। एतदर्थं च तत्र प्रवृत्तिहेतोर्बाहुल्ये सतीति योज्यम्। नचैवं महायोगस्यात्र प्रवेशः। अतिबहुलप्रयोगाभावस्य तत्र विवक्षितत्वादिति।
॥ उभयविधपरममुख्यवृत्त्या विष्णोः सर्वशब्दवाच्यत्वम्॥
अत्र कतरा वृत्तिर्विष्णौ? येन परममुख्यत्वं विष्णावित्युक्तमित्यत आह उभयमिति।
उभयं दृश्यते विष्णौ शब्दानामपि सर्वशः।
उभयं वृत्तिद्वयम्। दृश्यते प्रमाणैः। सर्वशोऽपि शब्दानामित्यस्यायमर्थः नारायणादिशब्दानां महायोगरूढिः। तदितरेषां महायोग इति।
अथवा विष्णौ परममुख्यवृत्तिरित्युक्तमनेनोपपादयति। उभयं प्रवृत्तिहेतोर्बाहुल्यम्, प्रयोगबाहुल्यं च। यद्वा प्रमितान्वाख्यानं परीक्षकधर्मः। नतु स्वेच्छयाऽर्थकल्पनम्। नचैते वृत्ती क्वचित् प्रमिते। अतो न निरूपणीये इत्यत्रेदमुदितम्। प्रमाणानि तु वक्ष्यन्ते। (३७२)
ननु योगो योगरूढिश्चैते किं न स्याताम्? किमेवं भेदकाभावादाशयते, अथवा तद्विवक्षाकारणाभावात्? नाऽद्यः, तस्योक्तत्वात्। न द्वितीयः, यौगिकादीनामप्यर्थानाममुख्यतामभिधाय विष्णोः मुख्यत्वाभिधानस्य कारणत्वादिति।
॥ मुख्यवृत्तेः योगरूढियोगरूढिभेदेन त्रैविध्यम्, प्रवृत्तिनिमित्तसापेक्षा वृत्तिः योगः॥
मुख्यवृत्तिरपि त्रेधा भवति योगः, रूढिः, योगरूढिश्चेति। तत्र प्रवृत्तिनिमित्तापेक्षा वृत्तिर्योगः। यथा कुम्भकारः, औपगवः, राजपुरुष इति। ननु नैतेऽपि यौगिकाः। किन्नाम। रूढा एव। कृत्तद्धितसमासकरणं तु व्युत्पत्तिमात्रार्थम्। यथोक्तम् “वृक्षादिवदमी रूढाः” इत्यादि। मैवम्। शब्दार्थविभागस्यावापोद्धाराभ्यां प्रतीतस्यापलापे कारणाभावादित्यादि शिष्यैरेवोह्यतामिति मत्वा रूढेः स्वरूपमाह प्रयोगेति।
॥ प्रयोगमात्रबाहुल्यसापेक्षा वृत्ती रूढिः॥
प्रयोगमात्रबाहुल्यं रूढिरित्यभिधीयते॥३१॥
यत्रार्थे यस्य शब्दस्य प्रयोगमात्रबाहुल्यं तत्र वृत्ती रूढिरित्यभिधीयते। मात्रेत्यवयवार्थसादृश्यादिसापेक्षताव्युदासार्थम्। तेन परममुख्यवृत्तेर्योगरूढे रूढोपचारलक्षणाभ्यां च व्यवच्छेदः। बाहुल्यमिति स्वरूपकथनम्।
“सर्वेऽपि यौगिकाः, नास्ति रूढः” इति शाकटायनः। तदसत्। घटपटादिशब्दानां बहुलमुपलम्भात्। तेप्युणादिप्रत्ययान्ता यौगिका एवेति चेत्, न। अर्थानुगमादर्शनात्, अन्ततः प्रकृतिप्रत्यययोस्तदर्थे रूढेराश्रयणीयत्वाच्चेति।
॥ प्रवृत्तिनिमित्तविशिष्टप्रयोगबाहुल्यसापेक्षा वृत्तिः योगरूढिः॥
प्रवृत्तिनिमित्तापेक्षो यत्र बहुलप्रयोगः, तत्र योगरूढिः। यथा पङ्कजादिशब्दानां तामरसादाविति प्रसिद्धत्वान्नोक्तम्।
विरोधाद् वैफल्याच्च योगरूढिरयुक्तेति केचित्। तथाहि अवयववृत्तिर्योगः, रूढिस्त्वखण्डवृत्तिः। नह्येतयोरेकत्र समावेशो युज्यते। नच योगरूढ्यङ्गीकारे किमपि प्रयोजनमस्ति। पङ्कजादिशब्दानां सम्प्रतिपन्नवृत्त्यैवोपपत्तेरिति। तदयुक्तम्। नहि योगरूढ्योः समहारो योगरूढिरिति ब्रूमः। येन विरोधः स्यात्। किन्नाम। यथा रूढलक्षणा लक्षणामात्रात्, रूढगौणी च गौणीमात्रात् प्रयोगप्राचुर्येण भिद्यते, तथा प्रवृत्तिनिमित्तापेक्षत्वाद् रूढिमात्रात् प्रयोगबाहुल्येन योगमात्राच्च भिन्ना तृतीयेयं वृत्तिरिति।
किञ्च पङ्कजादिशब्दाश्च किं केवलं रूढा अङ्गीकरणीयाः, उत यौगिकाः? नाऽद्यः, अवयवार्थप्रतीतिविरोधात्। “सप्तम्यां जनेर्डः” इत्यनुशासनविरोधाच्च। अनेनैव न्यायेन यौगिकाभावप्रसङ्गाच्च। न द्वितीयः, भेकादिष्वपि प्रयोगप्रसङ्गात्। गवादिशब्दानामिव व्यवहारप्राचुर्याप्राचुर्यकृते शक्तिसाम्येऽपि प्रसिद्ध्यप्रसिद्धीति चेत्, न। वैषम्यात्। गवादिशब्दानामनेकार्थत्वे शास्त्रतो निश्चिते हि प्रसिद्ध्यादेः कारणान्तरं मार्गणीयम्। नचैवमेषां शब्दानामनेकत्र शक्तिरवधृता।
किञ्च शमिधातोः सञ्ज्ञायां “स्तम्बकर्णयो रमिजपोर्हस्तिसूचकयोः” इत्यादिनाऽवयवार्थव्यतिरेकेणोपाधीनपि वदता शास्त्रकारेणाङ्गीकृतैवेषा वृत्तिरित्यलम्।
॥ मुख्यार्थसादृश्यं निमित्तीकृत्य वृत्तिः गौणी, मुख्यार्थसम्बन्धं निमित्तीकृत्य वृत्तिः लक्षणा॥
एवमव्यवहितामभिधावाचकत्वादिशब्दवेद्यां मुख्यवृत्तिं निरूप्येदानीं व्यवहितां गौणीं लक्षणां चामुख्यवृत्तिं निरूपयति प्रयोगेति।
प्रयोगयुक्तसादृश्यं सम्बन्धो वाऽप्यमुख्यतः।
वृत्तिहेतुरिति ज्ञेयः.......................॥३२॥
सम्बन्धः प्रयोगयुक्तेन। वाशब्दो व्यवस्थितविभाषायाम्। अपिशब्दो मुख्यवृत्तिलक्षणेनामुख्यवृत्तिलक्षणस्य समुच्चयार्थः। अमुख्यत इति समासे गुणभूताया अपि वृत्तेर्बुद्ध्या पृथक्कृताया विशेषणम्। अमुख्याया गौण्या लक्षणायाश्च वृत्तेर्हेतुरिति ज्ञेय इत्यर्थः। यस्य शब्दस्य यत्रार्थे प्रयोगः सामर्थ्यं तस्य प्रवृत्तिनिमित्तातिरिक्तं तत्सादृश्यं निमित्तीकृत्यान्यत्र वृत्तिर्गौणी। तत्सम्बन्धं निमित्तीकृत्य वृत्तिस्तु लक्षणेत्युक्तं भवति।
कश्चिदाह गौणी नाम वृत्तिर्नास्ति। सादृश्यस्यापि सम्बन्धत्वेन लक्षणायामन्तर्भूतत्वादिति। तन्निराकर्तुं पश्चादुद्दिष्टाऽपि गौणी प्रथमं लक्षिता। स्वातन्त्र्यं ह्येवमस्या ज्ञापितं स्यात्।
यदि खलु कश्चिद् ब्रूयात् लक्षणा नाम नास्ति। सम्बन्धस्याप्येकस्थानत्वादिसादृश्यरूपत्वेन गौण्यामन्तर्भूतत्वादिति। तदा किं वक्तव्यम्? नैवं लौकिकी प्रतीतिरिति चेत्। तत् किं सादृश्यं सम्बन्धत्वेन प्रतियन्ति लौकिकाः?
॥ रूढगौणीअरूढगौणीभेदेन गौणीवृत्तैर्द्वैविध्यम्॥
तत्र गौणी द्विविधा रूढारूढभेदात्। तत्राऽद्या यथा मृद्गवकादौ गवादिशब्दस्य। द्वितीया यथा गौर्वाहीक इति। अत्र स्वार्थसहचारिणो गुणा जाड्यमान्द्यादयो लक्ष्यमाणा गोशब्दस्य वाहीके वृत्तौ निमित्ततामुपयन्तीति केचित्। तदसत्। गौण्या लक्षणातो भेदाभावप्रसङ्गात्। गोशब्दस्य वाहीके वृत्तौ लक्ष्यमाणगुणानां निमित्ततायाश्र्चोपपत्तिशून्यत्वात्। लक्ष्यमाणगुणसादृश्याद् गुणान्तरम्, ततो गुणी लक्ष्यत इति तु नानुभाविकम्।
स्वार्थसहचारिगुणाभेदेन परार्थगता गुणा एव लक्ष्यन्त इत्यपरे। तदप्यसत्। गुणानां भेदस्य साधयिष्यमाणत्वात्। (७२६) वाहीके वृत्तौ निमित्ताभावाच्च। तस्मात् सदृशगुणाश्रयत्वं निमित्तीकृत्य परार्थे वृत्तिर्गौणीति साधूक्तम्।
॥ रूढलक्षणाअरूढलक्षणाभेदेन लक्षणावृत्तेर्द्वैविध्यम्॥
लक्षणाऽपि द्वेधा रूढारूढभेदात्। तत्राऽद्या यथा राजाऽयं गच्छतीति। द्वितीया यथा गङ्गायां घोष इति। केचिदभिधेयाविनाभूतप्रतीतिर्लक्षणोच्यत इत्याहुः। तेषां मञ्चाः क्रोशन्तीत्यादौ लक्षणा न स्यात्। स्याच्च शब्दात् प्रतीतेन लिङ्गेनानुमितार्थस्य। अथाविनाभावोऽत्र सम्बन्धमात्रम्, तथाऽपि लक्षितलक्षणायामव्याप्तिः। नहि तत्राभिधेयसम्बन्धिनि वृत्तिः। किन्तु लक्षितसम्बन्धिनि। यथा प्राग् विरुद्धा इदानीं परस्परमेकीभूता इति। परम्परयाऽयमर्थोऽभिधेयसम्बन्धीति चेत्, तर्हि किमनया क्लिष्टकल्पनया? प्रयोगयुक्तसम्बन्ध इति यथोक्तमेवास्तु।
॥ पराभिमतव्यञ्जनवृत्तेरनुमानरूपत्वम्॥
व्यञ्जनं नामापरा वृत्तिरस्तीति चेत्, न। अनुमानतया तस्य शब्दशक्तित्वानङ्गीकारात्। यथोक्तम् “वचनलिङ्गानुमा हि सा” इति। तात्पर्यवृत्तिस्तु नातिरिच्यत इति स्वयमेवाऽचार्यो वक्ष्यति।(१२५४)
॥ मम्मटेन मुख्यार्थानुपपत्तिप्रयोजनयोरपि अमुख्यवृत्तिकारणत्वप्रतिपादनम्॥
ननु मुख्यार्थानुपपत्तिं तत्सादृश्यं प्रयोजनं चापेक्ष्य गौणी प्रवर्तते। मुख्यार्थानुपपत्तितत्सम्बन्धप्रयोजनान्यपेक्ष्य तु लक्षणा। यथोक्तम्
“मुख्यार्थबाधे तद्योगे रूढितोऽथ प्रयोजनात्।
अन्यार्थो लक्ष्यते यत् सा लक्षणाऽऽरोपिता क्रिया” इति।
॥ मुख्यार्थानुपपत्तेः अमुख्यवृत्तिकारणत्वनिरासः॥
तत् कथं सादृश्यसम्बन्धावेवोक्तावित्यत आह पूर्वेति।
.................... पूर्वायोगे परग्रहः॥३२॥
न मुख्यानुपपत्तिरमुख्यवृत्तेः कारणम्। प्रयोगोत्तरकालीनत्वादनुपपत्तिदर्शनस्य। किन्तु मुख्यार्थानुपपत्तिदर्शनममुख्यार्थग्रहणस्य हेतुः। अत एव हि न शब्देनापेक्ष्यते। नापि प्रयोक्त्रा। किन्तु प्रतिपत्त्रैव। शब्दो हि व्युत्पत्तिवशान्मुख्यमेवार्थं प्रथमं बुद्धावारोहयति। नच प्रतिपत्ता तं सहसोत्स्रष्टुमुत्सहत इति तदर्थमेवानुपपत्तिमपेक्षते। अतो न वृत्तिकारणचिन्तायामियं वाच्या।
॥ प्रयोजनस्य अमुख्यवृत्तिकारणत्वनिरासः॥
प्रयोजनमपि न वृत्तिहेतुः। किन्तु सति मुख्येऽस्मदायत्ते शब्दप्रयोगेऽकस्मादमुख्यं प्रयुञ्ज्मह इति वक्त्रा प्रतिपत्त्रा चानुसन्धीयते। अतोऽत्र न वक्तव्यमिति। अत्रायोगग्रहणं प्रयोजनस्याप्युपलक्षणम्। यथाऽयोगः सार्वत्रिको न तथा प्रयोजनम्। रूढायां गौण्यां लक्षणायां चाभिधातुल्यत्वेन अनपेक्षितत्वादिति विशेषसूचनाय न स्वशब्देनोपात्तम्। निर्दलत्वात्। “मुख्यायोगेऽमुख्यग्रहः’ इति वक्तव्ये “पूर्वायोगे परग्रहः” इति वचनं लक्षितलक्षणाद्यनुगमार्थम्। नहि लक्षितलक्षणा मुख्यासम्भवमात्रेणाऽश्रीयते, किन्तु लक्षितस्यापि। अत एवैतदयुक्तम् “मुख्यार्थबाधे” इति।
॥ वृत्तीनां तारतम्यम्॥
किञ्च यथा मुख्यवृत्तिष्वपि स्वीकारे तारतम्यमस्ति, तथाऽमुख्यवृत्तिष्वपि। कुत इति चेत्। अर्थप्रतीतिसन्निकर्षविप्रकर्षाभ्यामिति ब्रूमः। ननुच सादृश्यसम्बन्धयोस्तद्धितमुत्पाद्य तस्यापि लुपि कृते सर्वं सेत्स्यति। किममुख्यवृत्तिस्वीकारेणेत्यतो वेदमुदितम्। यदि गोशब्दस्य गवि वाहीके च गङ्गाशब्दस्य गङ्गायां तीरे चोक्तविधयाऽभिधैव स्यात्, तदा गोगङ्गाशब्दोच्चारणे गोगङ्गयोः पूर्वं प्रतीतिः, तदयोगे चानुसंहितेऽर्थान्तरे प्रतीतिरिति न स्यात्। नहि हरीतक्यादिशब्दोच्चारणे सत्ययं प्रतीतिक्रमोऽस्ति। किन्तु वृक्षे फले च स्वातन्त्र्येण प्रतीते प्रकरणादिवशेनान्यतरनियन्त्रणं क्रियते। अस्ति चायं पूर्वायोगे परग्रहः। तेन जानीमो नोभयत्रोक्तविधयाऽभिधैवेति।
॥ वृत्त्यङ्गीकारस्य वैयर्थ्यमाशय तन्निरासः॥
नन्वत्रानुपपत्तेरर्थप्रतीतिहेतुत्वेऽर्थापत्तिरेवास्तु। किं शब्दशक्तिसमाश्रयणेन? तथाहि किमाप्तप्रणीताच्छब्दादसावर्थः प्रतीयते, अन्यथा वा? नान्यथा। उन्मत्तवाक्यादौ तदभावात्। आद्ये त्वर्थापत्तिरेव। वक्तुराप्तेः प्रतीतार्थानुपपत्तेश्च विरोधेनार्थान्तरस्य कल्प्यमानत्वात्। स्यादेवं यदि वक्तुराप्तत्वं निश्चीयेत। तस्य पदस्य तत्र शक्त्यभावेऽसम्बद्धभाषिणि तस्मिन्नाप्तत्वमेव कथं निश्चीयेतेति। तदर्थमवश्यं शब्दशक्तिराश्रयणीयेति सर्वमवदातम्।
॥ महायोगादेः लौकिकरूढितः प्राबल्यस्य श्रुत्या प्रतिपादनम्॥
एतेनैतदपि परिहृतम्। यदभिहितं पूर्वपक्षिणा योगस्य रूढितो दुर्बलत्वेन न परमेश्वरस्य मुख्यार्थत्वमिति। महायोगस्याविद्वद्रूढिमात्रात् प्राबल्योपपत्तेः। विद्वद्रूढेरप्युक्तत्वेन तत्सहितस्य योगस्य सुतरां तदुपपत्तेरिति। यदुक्तम् “उभयं दृश्यते विष्णौ” इति, यच्च सूचितं विशिष्टयोगस्य रूढितः प्राबल्यमिति तदुपपादयति एतमेवेति।
एतमेव तथा सन्तं शतर्चीत्यादिनामभिः।
आचक्षत इति ह्यत्र सन्तमित्यवधारणात्॥३३॥
योगस्य रूढेः प्रबाल्यं विद्वद्रूढिं च तत्रगाम्।
बहुशो दर्शयत्यञ्जस्तात्पर्यात् सनिरुक्तिकम्॥३४॥
“तं यच्छतं वर्षाण्यभ्यार्चत् तस्माच्छतर्चिनस्तस्माच्छतर्चिन इत्याचक्षत एतमेव सन्तम्। स यदिदं सर्वं मध्यतो दधे यदिदं किञ्च तस्मान्मध्यमास्तस्मान्मध्यमा इत्याचक्षत एतमेव सन्तम्” इत्यादिका श्रुतिः। सनिरुक्तिकं योगवृत्तिसाहित्येन। तत्रगां परमेश्वरविषयाम्। शतर्च्यादिशब्दोपलक्षितानां सर्वशब्दानां विद्वद्रूढिं दर्शयति। आचक्षत इत्युक्तत्वात्। यच्चात्र बहुशोऽतिबहुवारं दर्शयति तेन ज्ञायते अञ्जस्तात्पर्यादेव नतु प्रासङ्गिकत्वेनेति।
किञ्चात्र सन्तमिति वचनादेतमेवेत्यवधारणाच्च लौकिकरूढितो भगवद्विषयस्य योगस्य प्राबल्यं दर्शयति श्रुतिः। एतमेव परमात्मानं शतर्च्यादिनामार्थं सन्तं उक्तेन योगेन शतर्च्यादिनामवाच्यमाचक्षते विद्वांसः। मधुच्छन्दःप्रभृतींस्तु रूढार्थानमुख्यत इति। अस्यार्थस्य पदद्वयसामर्थ्येन प्रतीतेः। सन्तमित्यनेन ह्यगङ्गां गङ्गेत्याचक्षते यथा, न तथा हरिमिति मुख्यार्थतोच्यते। तदुपपादनार्थमाचक्षत इति निर्वचनं च सम्बद्ध्यते। अवधारणेन त्वन्यस्य तच्छब्दमुख्यार्थत्वं प्रतिषिद्ध्यते। नच सर्वथा प्रतिषेधो युक्तः। प्रागुक्तप्रयोजनव्याघातात्। ततः परमेश्वरसमकक्षतया वाच्यत्वप्रतिषेधो ज्ञायते। रूढार्थेभ्यो यौगिकार्थस्याऽधिक्येऽभिहिते तद्विषयस्य विशिष्टयोगस्य लौकिकरूढितः प्राबल्यं सिद्धम्। “अवधारणा” इति क्वचित् पाठः। अत्र सन्तमिति पदं अवधारणा चेति पदद्वयं दर्शयतीति योजना। हि यस्मादेवं तस्मादुक्तं युक्तमिति।
॥ सर्वशब्दानां अकारव्याख्यानरूपत्वम्, अकारस्य विष्णुवाचित्वं च श्रुत्या उपपाद्य
विष्णोः सर्वशब्दाभिधेयत्वसमर्थनम्॥
वाक्यान्तरैरपि विष्णोः सर्वशब्दवाच्यतामुपपादयति अ इतीति।
अ इति ब्रह्म कथितं तद्व्याख्यानात्मता तथा।
शब्दानामपि सर्वेषां नामवित्कृतकृत्यता॥३५॥
“अः इति ब्रह्म” इति श्रुतावकारस्य ब्रह्मवाचकत्वं तावत् कथितम्। अन्यथा इतिकरणवैयर्थ्यात्। “अकारो वै सर्वा वाक्” इति श्रुतौ सर्वेषामपि शब्दानामकारव्याख्यानता च कथिता। साक्षादैक्यस्य प्रत्यक्षादिविरुद्धत्वेन लक्षणाश्रयणस्याऽवश्यकत्वात्। नच व्याख्यानव्याख्येययोर्भिन्नविषयता युक्ता। तस्मादेतद्वाक्यद्वयपर्यालोचनया सर्ववागभिधेयत्वं ब्रह्मणः प्रतीयते।
॥ नामज्ञानिनो मोक्षश्रवणात्, मोक्षस्य ब्रह्मज्ञानैकसाध्यत्वाच्च नाममात्रस्य भगवद्वाचित्वसमर्थनम्॥
किञ्च “यद्वाच ओमिति यच्च नेति यच्चास्याः क्रूरं यदु चोल्बणिष्णु तद् वियूय कवयोऽन्वविन्दन् नामायत्ता समतृप्यञ्छृतेऽधि” इत्यस्यां श्रुतौ वाचो वाक्समूहस्य मध्ये यत् ओमिति पदमङ्गीकारवाचीति यावत्, यच्च नेति पदं प्रतिषेधार्थम्, यच्चास्या वाचो मध्ये क्रूरं अर्थतः कठिनं च, यच्चोल्बणिष्णु शब्दतः कठिनम्, उपलक्षणमेतत्, यावद् वैदिकं पदजातं तत् सर्वं वियूय विचार्य कवयो विवेकिनः नामायत्तानि नामप्रकाश्यतया नामाधीनानि तत्तच्छब्दप्रवृत्तिनिमित्तानि अन्वविन्दन् विदितवन्तः। तस्मिंश्च वेदनेऽधिश्रुते परिपक्वे सति तदनन्तरं समतृप्यन् कृतकृत्या मुक्ता अभूवन्निति, नाममात्रविदः कृतकृत्यता तावत् कथिता। “तमेवं विद्वान्” इति परमेश्वरज्ञानादेव मोक्षः श्रूयते। तदेतदुभयान्यथानुपपत्त्या सर्वाण्यपि वैदिकानि नामानि परमेश्वरार्थानीति गम्यत इत्याह नामेति।
॥ पूर्ववर्णउत्तरवर्णतत्संहितानां विष्णुनामार्थत्वश्रवणात्,
एतज्ज्ञानपूर्वकत्वेन संहिताध्ययनस्य विहितत्वाच्च विष्णुरेव सर्वशब्दवाच्यः॥
अथान्यच्च। सकलवैदिकसंहितानां पूर्वोत्तरवर्णानां च विष्णुनामार्थरूपत्वं तत्प्रतिपादकत्वमब्रवीद् वेदः। तेन सर्वे वर्णाः सर्वाश्च संहिता विष्णुमेव प्रतिपादयन्तीति ज्ञायत इत्याह विष्णुनामेति।
विष्णुनामार्थरूपत्वं संहितादेरथाब्रवीत्।
णकारं च षकारं च बलचेष्टात्मकं वदन्।
तज्ज्ञानपूर्वकत्वेन संहिताध्ययनं तथा॥३६॥
क्वाब्रवीदित्यतस्तद्वाक्यमर्थतः पठति णकारं चेति। “णकारो बलं षकारः प्राण आत्मा” इति विष्णुनामगतौ णकारषकारौ परमेश्वरबलचेष्टाप्रतिपादकौ वदन् वेदोऽनन्तरं “स यो ह एतौ णकारषकारावनुसंहितमृचो वेद” इत्यृचामनुसंहितं सर्वसंहितासु णकारषकारौ यो वेद णकारषकारतत्संहिताभिः प्रतिपाद्यो योऽर्थः स एव सर्वत्र पूर्वोत्तरवर्णतत्संहिताभिः प्रतिपाद्यत इति यो वेदेति विष्णुनामसमानार्थताज्ञानपूर्वकत्वेन सर्वसंहिताध्ययनमब्रवीदित्यर्थः।
॥ विष्णुशब्दे णकारषकारयोः प्राधान्येन विष्णुनामत्वम्,
वीत्यस्य उन्प्रत्ययस्य च तदुपसर्जनतया भगवद्वाचित्वम्॥
नन्वत्र णकारषकारार्थप्रतिपादकत्वं सर्ववर्णादेरुच्यते। नतु विष्णुनामार्थत्वम्। नहि णकारषकारावेव विष्णुनामेत्यत आह उपसर्गत्वत इति।
उपसर्गत्वतो वेस्तु ताच्छील्यार्थादुनस्तथा।
णकारश्च षकारश्च नामरूपतया मतौ॥३७॥
सत्यम्, सन्ति विष्णुनाम्यन्येऽपि वर्णाः। तथाऽपि वीत्यस्योपसर्गत्वेनोत्तरपदार्थविशेषकत्वात्, उन्प्रत्ययस्य ताच्छील्यार्थत्वादुपसर्जनत्वं मन्वानस्य वेदस्य प्राधान्यात् णकारश्च षाकरश्च द्वावेव नामस्वरूपतयाऽभिमतावित्यदोषः।
ननूपसर्गाः क्रियायोगे। नचात्र क्रियायोगोऽस्ति। तत् कथमुपसर्गत्वम्? मैवम्। “षोऽन्तकर्मणि”, “णु स्तुतौ” इति धातुद्वयरूपत्वाङ्गीकारात्। अत एव ताच्छीलिकप्रत्ययोत्पत्त्युपपत्तिः।
॥ उक्तार्थोपंसहारः॥
उदाहृतानां श्रुतीनां प्रयोजनमाह तस्मादिति।
तस्मात् समन्वयो विष्णौ स्वरवर्णपदात्मनः।
अपि वेदस्य किमुत वाक्यरूपेण सङ्गतिः॥३८॥
यौ पुरा सर्वशब्दानां प्रतिपदसमन्वयो वाक्यसमन्वयश्च विष्णावुक्तौ तावेताभिः श्रुतिभिः सिद्धावित्यर्थः।
॥ विष्णोः सर्वशब्दवाच्यत्वे श्रुत्युपन्यासः॥
उपपत्त्यपेक्षाः श्रुतयः प्रागुदाहृताः। इदानीं स्पष्टं पदवाक्यसमन्वयवादिनीरुदाहरति घोषा इति।
घोषाः सर्वेऽपि वेदाश्च सर्वे वेदाश्च यत् पदम्।
इन्द्रं मित्रं यमिन्द्रं च प्रथमः सङ्कृतिस्तथा॥३९॥
नामधाः सर्वदेवानामेक इत्यादिका श्रुतिः।
प्रमाणमुक्तविषये.......................।
“ता वा एताः सर्वा ॠचः सर्वे वेदाः सर्वे घोषा एकैव व्याहृतिः प्राण एव”
“सर्वे वेदा यत् पदमामनन्ति”
“इन्द्रं मित्रं वरुणमग्निमाहुरथो दिव्यः स सुपर्णो गरुत्मान्।
एकं सद् विप्रा बहुधा वदन्त्यग्निं यमं मातरिश्र्वानमाहुः”
“यमिन्द्रमाहुर्वरुणं यमाहुर्यं मित्रमाहुर्यमु सत्यमाहुः”
“स प्रथमः सङ्कृतिर्विश्वकर्मा स प्रथमो मित्रो वरुणोऽग्निः”
“यो देवानां नामधा एक एव”
इत्येतानि वाक्यान्येतैः प्रतीकैरुपात्तानि। आदिपदेन “नामानि सर्वाणि” इत्यादेर्ग्रहणम्। अत्राऽद्यद्वितीयान्तिमश्रुतयः समन्वयद्वये प्रमाणम्। अन्यास्तु वाक्यान्वये। इन्द्रादिनाम्नां परमेश्वरपरत्वे सति “इन्द्रस्य नु वीर्याणि” इत्यादिवाक्यानां तत्परत्वं हि सिद्ध्यति।
॥ विष्णोः सर्वशब्दाभिधेयत्वप्रतिपादनस्य उत्सूत्रितत्वशङ्कापरिहारः॥
नन्वेतदर्थप्रतिपादकसूत्रस्यादर्शनादुत्सूत्रितोऽयमर्थः कस्मादुक्त इत्यत आह तदेवेति।
...................तदेवोक्तमुपक्रमात्।
इति स्वयं भगवता ब्रुवताऽशेषमन्वयम्॥।४०॥
तदेतद् भगवता सूत्रकारेण स्वयमुक्तमेव, नोत्सूत्रितं कथ्यते। तथाच सूत्रम् “ज्योतिरुपक्रमात्तु तथा ह्यधीयत एके” इति। अत्र ज्योतिरिति सूत्रप्रतीके ग्राह्ये यदुपक्रमादित्याह। तेन “ज्योतिरुपक्रमा” इति परेषामपपाठ एवेति सूचयति।
अथवा, अत्र ज्योतिर्मात्रग्रहणात् कथं सर्वशब्दसमन्वयप्रतिपादनम्? ज्योतिःशब्दस्योपलक्षणत्वादिति वदामः। कथमुपलक्षणाभिप्रायोऽवगम्यत इत्यत उक्तम् उपक्रमादिति ब्रुवतेति। अत्रहि ज्योतिरिति प्रतिज्ञाय “उपक्रमात्तु तथा ह्यधीयत एके” इति हेतुरुच्यते। तस्य चायमर्थः “एष इमं लोकमभ्यार्चत्” इत्युपक्रमात् उपक्रमं विधाय “ता वा एताः” इत्याद्यधीयत एक इति। तथाच यदि ज्योतिश्शब्दमात्रसमन्वयोऽत्र विवक्षितः स्यात्, तदा तन्मात्रोपपादकं किमपि वक्तव्यम्। सर्वशब्दवाच्यतोपपादकस्योपादानं क्वोपयुज्यते? नहि विशेषविषयं प्रमाणं नास्ति, येन सामान्यद्वारा साधनं विधेयम्। अतः सर्वविषयं प्रमाणमुपाददानेन सूत्रकृता ज्योतिःशब्दो लाक्षणिको विवक्षित इति ज्ञायते।
॥ सर्वशब्दसमन्वयस्य ज्योतिरधिकरणप्रतिपाद्यत्वसमर्थनम्॥
किञ्च “तत्तु समन्वयात्” इति ब्रह्मणि सर्वशब्दसमन्वयः प्रतिज्ञातः, न कतिपयशब्दसमन्वय इत्युपपादितम्। तद्विवरणार्थमध्यायशेषस्य प्रवृत्तिरिति चोक्तम्। तत्राऽनन्दमयाद्यधिकरणैः प्राकरणिकशब्दसमन्वयः प्रतिपादितः। अस्मिंश्च पादे विरोध्यादिशब्दसमन्वयः। तथाच कर्मक्रमाद्यभिधायिनः शब्दाः। इदं चावशिष्टमधिकरणमिति परिशेषात् तत्समन्वयार्थमेतदिति ज्ञायत इत्याशयवानाह ब्रुवतेति।
॥ ब्रह्मणः पदार्थत्वपक्षसमर्थनस्य उत्सूत्रितत्वशङ्कानिरासः॥
अस्त्वत्र सर्वशब्दसमन्वयप्रतिज्ञानम्। तथाऽपि योऽत्र तत्प्रतिपादनार्थं “जातमोतम्” इत्यादिना न्वयोऽभिहितः स न सूत्रित इत्यतो वोक्तम् उपक्रमादिति। “एष इमं लोकमभ्यार्चत्” इत्युपक्रमवाक्यमुपादाय “तथा ह्यधीयत एके” इति वदता सूत्रकारेण तदेवोक्तं यदस्माभिरुक्तम्। उपक्रमे सर्वस्यास्य दर्शनात्। यथाचैतत् तथा “एतमेव” इत्यादिनोक्तमिति।
॥ मायावादिना प्रधानस्य शब्दवाच्यतानिरासस्य पादप्रतिपाद्यत्वकथनम्॥
एवं सङ्क्षेपविस्तराभ्यां “आनुमानिकम्” इत्यादिसूत्राणि व्याख्याय परेषां व्याख्यानं प्रत्याख्याति। तथाहि केचिदेतत्पादप्रमेयमन्यथा वर्णयन्ति यदुक्तं प्राधनस्याशाब्दत्वम्, “ईक्षतेर्नाशब्दम्” इति। तदसिद्धम्, कासुचिच्छाखासु प्रधानसमर्पणपराणां शब्दानां श्रूयमाणत्वदिति। तदेतद् यावन्न निराक्रियते न तावद् ब्रह्मकारणवादस्य स्थैर्यं भवति। अतः प्रधानस्याशाब्दत्वं प्रतिपादयितुमयं पाद आरभ्यत इति।
॥ मायावाद्युदाहृतवाक्येषु प्रधानस्य जगत्कारणत्वाश्रवणात् तन्निरासानुपपत्तिः॥
तत्तावन्निराचष्टे न शब्दवाच्यतैवेति।
न शब्दवाच्यतैवात्र प्रधानस्य निषिद्ध्यते।
अत्रैव प्रथमेऽध्याये प्रधानस्य शब्दवाच्यता निषिद्ध्यत इति नोपपद्यते। तथासति समन्वयलक्षणे अन्तर्भावाभावेन पादस्यासङ्गतत्वप्रसङ्ग इति भावः। ननूक्तमत्र समन्वयस्थेम्ने प्रधानस्याशाब्दत्वमत्रोपपाद्यत इति, तथाच कथमसङ्गतिरिति। मैवम्। तथासत्यविरोधलक्षणेऽन्तर्भावप्रसङ्गात्। अन्यथा द्वितीयाध्यायार्थोऽपि समन्वयस्थैर्यायैवेति सोऽप्यत्र वक्तव्यः स्यात्। केवलं शब्दवाच्यता एवात्र प्रधानस्य निषिद्ध्यते इति न युज्यते, विशेषाभावात्।
किञ्चात्र पादे जागत्कारणवाचिशब्दवाच्यत्वं प्रधानस्य निषिद्ध्यते, शब्दवाच्यतैव वा? नाऽद्यः, अत्रोदाहृतवाक्येषु “महतः परमव्यक्तम्,” “यस्मिन् पञ्चपञ्च जनाः” इत्यादिषु प्रधानस्य जगत्कारणत्वाश्रवणात्।
॥ भामतीकृता श्रुतेः प्रधानपरतया व्याख्यानम्, तन्निरासश्च ॥
कश्चिदाह “महतः परमव्यक्तम्” इति परशब्देन कालविप्रकृष्टत्वमुच्यते, ततः कारणत्वशङ्केति। तदयुक्तम्। किं कालविप्रकर्ष एव कारणत्वम्, उत तेनानुमेयम्, अथ सम्भाव्यम्? न प्रथमद्वितीयौ, कार्यकारणभावविकलयोरपि परापरभावदर्शनात्। न तृतीयः, सम्भवनामात्रस्येयन्तं सूत्रसन्दर्भं प्रति प्रयोजकत्वायोगात्। “अजामेकाम्” इत्यादौ कारणत्वं प्रतीयत इति चेत्। तत् किं ब्रह्मपरं करिष्यते? तेजोबन्नविषयं हि तद् व्याख्यातं भवता। तथाच लौकिकमाभाणकं नातिवर्तते “व्याघ्रेणोरणे नीते का हानिः? वृकेणोरणे नीते को लाभः?” इति।
॥ प्रयोजनाभावाच्च प्रधानस्य शब्दवाच्यत्वनिराकरणानुपपत्तिः॥
द्वितीये त्विदमुपतिष्ठते न शब्दवाच्यतैवात्र प्रधानस्य निषिद्ध्यते, प्रकृतानुपयोगादिति। शाब्दत्वे हि प्रधानस्य स्वरूपमात्रं सिद्ध्यति। नच स्वरूपसिद्धिमात्रेण काचिल्लक्षणक्षतिः। नह्यस्माभिरिव परेण सर्वशब्दसमन्वयः प्रतिज्ञातः। नापि प्रधानं निषिद्ध्य ब्रह्म तत्र निवेशितम्। येनास्मदीयदिशाऽप्युपयोगः स्यात्। तदिदमुक्तम् ब्रह्मनिवेशनं विना प्रधानस्य शब्दवाच्यतैवात्र निषिद्ध्यत इति न युक्तमिति।
॥ प्रधानस्य शब्दवाच्यतानिरासस्य असङ्गतत्वम्॥
किञ्च प्रधानस्य शब्दवाच्यता ईक्षत्यधिकरणानन्तरमेव निषेद्ध्या। त्रिपादीमतिक्रम्यात्र निषिद्ध्यत इति न युज्यते। व्यवधाने कारणानिरूपणादिति।
किञ्च पादप्रतिपाद्योऽर्थस्तथाविधो भवति, यः तत्पादस्थसकलसूत्रप्रतिपाद्यः। नचात्र पादे सर्वेष्वपि सूत्रेषु प्रधानस्य शब्दवाच्यतैव निषिद्ध्यत इति नियमोऽस्ति, येनायमेतत्पादार्थः स्यात्। “कारणत्वेन” इत्यादौ तदभावात्। तत्रापि परम्परया तदेव साध्यमिति चेत्, तर्हि पारम्पर्यस्यातीतपादार्थेऽपि सुवचत्वादत्रैव प्रधानस्य शब्दवाच्यता निषिद्ध्यत इति नास्ति। स हि पादार्थो यो नान्यत्र प्रतिपाद्यत इति।
॥ मायावादिना काठकगताव्यक्तपदस्य प्रधानपरतानिरासपरतया आनुमानिकाधिकरणव्याख्यानम् ॥
एवं सामान्यतः पादार्थं निराकृत्येदानीं प्रथमाधिकरणव्याख्यां निराकरोति न शब्दवाच्यतैवेति। “आनुमानिकम्” इत्यादिसूत्रम्। तत् परेण व्याख्यातम् आनुमानिकमप्यनुमाननिरूपितं प्रधानमप्येकेषां शाखिनां शब्दवदुपलभ्यते। काठके हि पठ्यते “महतः परमव्यक्तमव्यक्तात् पुरुषः परः” इति। तत्र य एव यन्नामानो यत्क्रमाश्च महदव्यक्तपुरुषाः स्मृतिप्रसिद्धास्त एवेह प्रत्यभिज्ञायन्ते। तत्राव्यक्तमिति रूढियोगाभ्यां प्रधानमुच्यते। एवं तस्य शाब्दत्वादशाब्दत्वमनुपपन्नमिति चेत्। नैतदेवम्। नह्येतत् काठकवाक्यं प्रधानपरमिति।
॥ काठकगताव्यक्तपदस्य प्रधनपरत्वनिरासे प्रयोजनाभावः॥
अत्र पृच्छामः किमत्र काठकगताव्यक्तशब्दवाच्यतैव प्रधानस्य निषिद्ध्यते, किंवा कुत्रापि केनापि शब्देन नोच्यत इति। आद्यस्योत्तरम् अत्र काठके वाक्येऽव्यक्तशब्दवाच्यतैव प्रधानस्य निषिद्ध्यत इति नोपपन्नम्। तन्मात्रेणाशब्दत्वासिद्धेः।
॥ प्रधानस्य श्रुत्यादिप्रतिपादितत्वात् तस्य शब्दवाच्यतानिरासासम्भवः॥
द्वितीयेऽपि किं परममुख्यया वृत्त्या, उत शब्दवाच्यतैव निषिद्ध्यते? आद्ये तन्मात्रमनुमतमेव। सर्वथा शब्दवाच्यतैवात्र प्रधानस्य निषिद्ध्यत इति द्वितीयस्तु नोपपद्यते। कुत इत्यत आह सर्वेति।
सर्ववेदेतिहासेषु पुराणेषु च सङ्ग्रहात्॥४१॥
सङ्ग्रहात् प्रधानस्येति शेषः। वेदे तावदाथर्वणिकाः पठन्ति
“विकारजननीमज्ञामष्टरूपामजां ध्र्ुवम्।
ध्यायतेऽध्यासिता तेन तन्यते प्रेर्यते पुनः” इत्यादि।
इतिहासपुराणे तूदाहरिष्यमाणे द्रष्टव्ये।
॥ त्रिगुणत्वादिलक्षणोपेतप्रधानप्रतिपादकगीतावाक्योदाहरणम्॥
ननूक्तमत्र नह्यत्र स्मृतिप्रसिद्धं कारणं त्रिगुणं प्रधानमुच्यते। तेन यद्यदुदाह्रियते तत्तद् विप्रतिन्नमेवेत्यतः त्रिगुणत्वादिलक्षणोपेतप्रधानप्रतिपादकमितिहासवाक्यं पठति सत्त्वमिति।
सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः।
निबध्नन्ति महाबाहो देहे देहिनमव्ययम्॥४२॥
इत्यादिवाक्यरूपेण....................।
आदिपदेन “भूमिरापोऽनलो वायुः” इत्यादेर्ग्रहणम्। इत्यादिवाक्यप्रतिपाद्येन त्रिगुणत्वादिना रूपेणोपेतस्य प्रधानस्य सङ्ग्रहादिति सम्बन्धः।
॥ काठकगताव्यक्तपदस्य शरीरपरत्वव्याख्यानप्रत्याख्यानम्॥
किञ्च “अव्यक्तात् पुरुषः परः” इत्यव्यक्तशब्दवाच्यं न चेत् प्रधानम्, तर्हि तद्वाच्यं वाच्यम्। नन्वत्र सूत्रकृतैवोक्तं “शरीररूपकविन्यस्तगृहीतेः” इति, “आत्मानं रथिनं विद्धि शरीरं रथमेव च” इति प्राग् यच्छरीरं रथरूपकतया विन्यस्तं तदत्राव्यक्तशब्देन गृह्यते, प्रकरणात् परिशेषाच्चेति।
नैवं सूत्रकृदाह। तथात्वे हि रूपकविन्यस्तशरीरगृहीतेरित्यवक्ष्यत्। अस्तु वा कथञ्चिद् विशेषणस्य परनिपातः। इदं तु वक्तव्यम्। कथमव्यक्तशब्देन शरीरमुच्यत इति। नह्येषा रूढिः। नापि योगः सम्भवति। शरीरस्य व्यक्तत्वात्।
ननु परिहृतमेतत् सूत्रकृता “सूक्ष्मं तु तदर्हत्वात्” इति। यद्यपीदं शरीरं व्यक्तम्, तथाऽप्यस्य यन्मूलमुपादानकारणं तेजोबन्नलक्षणं भूतसूक्ष्मं तत्तावदव्यक्तम्। अनादेस्तस्य सूक्ष्मस्याव्यक्ततार्हत्वात्। कार्यकारणशब्दाश्च सङ्कीयन्ते। “गोभिः श्रीणीत मत्सरम्” इति यथेति।
अत्र वक्तव्यम् किमनेनोक्तं भवतीति। किं शरीरमेवात्रोच्यते, अव्यक्तशब्दस्तत्रोपचरितः शरीरमूलोपादानस्य तेजोबन्नात्मकस्य भूतसूक्ष्मस्यानादेरव्यक्तत्वादिति, किंवा भूतसूक्ष्ममेवाव्यक्तशब्दवाच्यम्, शरीरशब्दस्तु तत्रोपचरितः शरीरस्य तत्कार्यत्वादिति। पक्षद्वयेऽपि दोषमाह यत्रेति।
...................यत्रार्थो नान्य इष्यते।
तेजोबन्नात्मकं वाऽपि यद्युपादानमिष्यते।
अनाद्येवापराधः कः प्रधानमिति चोदिते॥४३॥
यत्र वाक्ये यदि अव्यक्तशब्दस्यान्योऽर्थो नेष्यते परब्रह्मलक्षणः, अपितु तेजोबन्नात्मकं शरीरमूलोपादानमनादि भूतसूक्ष्ममेवेष्यते। प्रथमे स्वरूपेणैव। द्वितीयेऽव्यक्तशब्दवाच्यतया तत्र तर्हि तत् प्रधानमिति चोदिते को दोषोऽस्ति। येन नेति प्रतिषिद्ध्यते।
अयमभिसन्धिः सर्वथा तावन्नाव्यक्तपदं ब्रह्मपरं त्वयोच्यते, किन्तु भूतसूक्ष्मकार्यशरीरस्य भूतसूक्ष्मस्य वा वाचकमिति। परेण तु प्रधानवाचकमिति। यदिचाव्यक्तस्य कारणत्वमभिप्रेतम्, तदा पक्षद्वयमपि ब्रह्मवादस्य प्रतिपक्षभूतमिति। शरीराङ्गीकारेण प्रधाननिरासो व्यर्थः। कारणत्वाविवक्षायां तु पक्षद्वयस्याप्यविरुद्धत्वात् किमनेनान्यतरपरिग्रहेण, अन्यतरनिराकरणाग्रहेण? विफलत्वात्, असङ्गतत्वाच्चेति।
अथवाऽनादेरुपादानस्य जडस्य भूतसूक्ष्मशब्दाभिधेयस्याङ्गीकारे प्रधानं नेति रिक्तं वचः। तल्लक्षणत्वात् प्रधानस्य। नाम्नि विवादायोगादिति भावः।
नन्विदमाशय सूत्रकारेणैव परिहृतम् “तदधीनत्वादर्थवत्” इति। स्यादेतदेवम्। यदि वयं स्वतन्त्रं तेजोबन्नात्मकं कारणमित्यभ्युपगच्छामः। नैतदस्ति। तस्य ब्रह्माधीनत्वाङ्गीकारात्। अवश्यं चैतदेवमङ्गीकर्तव्यम्। अर्थवद्धि तत्। नहि तेन विना ब्रह्मणो जगत्कारणत्वं निर्वहतीति।
अत्रोच्यते किमनेनोक्तं भवति? अस्ति प्रधानमिति सम्प्रतिपन्नम्। तद्धर्मेषु तु स्वातन्त्र्यादिषु विप्रतिपत्तिरिति। एवं चेत् प्रधानस्य स्वातन्त्र्यादिकं साङ्ख्येन चोदनीयम्। त्वया तु पारतन्त्र्यादिकं व्युत्पादनीयम्। किमनेनाव्यक्तादिशब्दानां प्रधानपरतानिरासप्रयासेन। नह्यत्र प्रधानस्य स्वातन्त्र्यादिकमवभासते। प्रत्युत “अव्यक्तात् पुरुषः परः” इत्यव्यक्तस्य पुरुषाधीनत्वं प्रतीयते। तदिदमप्युक्तम् प्रधानमत्रोच्यत इत्येवोक्तेऽपराधः कः? किन्तु स्वतन्त्रमित्युदिते। नचैवमत्रोच्यत इति।
॥ मायावादिना “अजामेकाम्’ इति श्रुतेः प्रकृतिपरत्वनिराकरणम्॥
“चमसवदविशेषात्” इत्यादिकमधिकरणमपि प्रधानस्याशाब्दत्वप्रतिपादकमिति व्याचक्षते। तथाहि
“अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानां सरूपाः।
अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः”
इत्यस्मिन् मन्त्रे प्रधानस्य प्रतिपादनात् कथं तदशब्दमिति। अत्रोच्यते यथा हि “अर्वाग् बिलश्चमसः” इत्यस्मिन् मन्त्रे स्वातन्त्र्येण “अयं नामाऽसौ चमसः’ इति न शक्यते निरूपयितुम्, विशेषाभावात्। ऊर्ध्वबुध्नत्वादेर्यथाकथञ्चित् सर्वत्र योजयितुं शक्यत्वात्। तथा “अजामेकाम्” इत्यत्रापि प्रधानप्रतिपादनं न शक्यावधारणम्, विशेषाभावादिति।
॥ श्रुतेः प्रकृतिपरत्वप्रतिपादनम्, तदनङ्गीकारे श्रुतेर्निर्विषयत्वप्रसङ्गर्श्र्चें
तदिदमनुपपन्नम्। “गौरनाद्यन्तवती सा जनित्री भूतभाविनी। सिताऽसिता च रक्ता च सर्वकामदुघा विभोः” इत्यादिश्रुतिसमाख्यया निर्णयोपपत्तेः।
किञ्च न तावदत्र अजाशब्देन रूढार्थत्वाच्छागी स्वीकर्तुमुचिता, विद्याप्रकरणत्वात्। नापि परब्रह्म, लोहितादित्वासम्भवात्। भोग्यत्वानुपपत्तेश्च। अत एव न जीवोऽपि, भोक्तृतया पृथगभिधानाच्च। नाप्यन्यत् किञ्चिदचेतनम्, अजननानुपपत्तेः। अतः प्रकृतिरेवाजा, जन्माभावात्। लोहितशुक्लकृष्णा च रजस्सत्त्वतमोरूपत्वात्। प्रसिद्धं च रजआदीनां लोहितादित्वमागमेषु। तदनुषक्तश्च जीवः संसरति, असंसक्तस्तु मुच्यत इति सुप्रसिद्धम्। नचेदेवम्, मन्त्रस्य निर्विषयत्वापत्तिरिति।
॥ मायावादिना श्रुतेः तेजोबन्नपरत्वप्रतिपादनम्॥
ननु न मन्त्रस्य निर्विषयत्वमापद्यते। यतः सूत्रकृदेवाऽह “ज्योतिरुपक्रमा” इति। अत्र मन्त्रे प्रतिपादिताऽजा ज्योतिरुपक्रमा तेजोबन्नरूपा। कुतः? “यदग्नेर्लोहितं रूपं तेजसस्तद् रूपं यच्छुक्लं तदपां यत् कृष्णं तदन्नस्य” इति लोहितादिरूपवत्तया तेजोबन्नान्यधीयते ह्येके। तत्समाख्ययाऽत्रापि तेजोबन्नात्मैवाजा प्रतिपत्तव्या। तस्याश्चतुर्विधभूतग्रामोपादानभूताया बहुप्रजाजननीत्वम्, जडत्वेन भोग्यत्वमप्युपपन्नमिति।
॥ श्रुतेः तेजोबन्नपरत्वव्याख्यानप्रत्याख्यानम्॥
अत्र दूषणमाह अजामिति।
अजामेकामिति प्राह श्रुतिरेतां यदा तदा।
को दोषः सर्वथैवास्ति परिणामि जडं यदि॥४४॥
यद्यत्र मन्त्रे परिणामि जडं तेजोबन्नलक्षणं प्रतिपाद्यमङ्गीक्रियते, तर्हि “अजामेकाम्” इति श्रुतिरेतां प्रकृतिं प्राहेति यदा तदा को दोषोऽस्ति? न कोऽपीति।
ननु कथं नास्ति? “ईक्षतेर्नाशब्दम्” इत्युक्ताशब्दत्वासिद्धेर्विद्यमानत्वादिति चेत्, न। तस्यास्माभिरन्यथाव्याख्यातत्वादित्याशयेनोक्तम् सर्वथैवेति। अपरिहार्य इत्यर्थः।
इदमत्राऽकूतम् जगत्कारणत्वेन खल्वत्राजा प्रतीयते। सा ब्रह्मवादिना ब्रह्मतया समर्थनीया। तेजोबन्नात्मकतया तु समर्थने प्रधानरूपाऽपि कुतो नाङ्गीकरणीया? लक्षणातिव्याप्तेस्तुल्यत्वादिति। तेजोबन्नान्यपि परमेश्वराधीनानि। अतो न तत्रातिव्याप्तिरिति चेत्। एवन्तर्हि किं मन्त्रस्य प्रकृतिपरत्वनिराकरणेन? किन्तु प्रकृतिपरत्वमङ्गीकृत्यैव “यो योनिमधितिष्ठत्येकः” इत्यादिवाक्यबलेनेश्वराधीनत्वमेवोपपादनीयम्।
किञ्च तेजोबन्नेषु न तावदजाशब्दो रूढः। नापि यौगिकः। “तत् तेजोऽसृजत” इत्यादिश्रुतेरजननासम्भवात्। नच स्त्रीलिङ्गत्वमुपपद्यते। नाप्येकवचनम्। त्रिवृत्करणादिति चेत्, न। बहुत्वानिवृत्तेः।
॥ “कल्पनोपदेशात्’ इति सूत्रव्याख्याननिरासः॥
अथ मन्येत तेजोबन्नोपादानं जडमनादिद्रव्यं किमप्येकमस्ति। तत्कार्यत्वादुपचारादजादिशब्दोपपत्तिरिति। तर्हि तदेवात्र प्रतिपाद्यमस्तु, शब्दानां मुख्यवृत्तिलाभात्। अस्त्विति चेत्, तर्हि प्रकृतिरत्र प्रतिपाद्येति वदता पूर्वपक्षिणा किमपराद्धम्? तल्लक्षणत्वात् प्रकृतेः। नाममात्रे विवादायोगाच्च, तदिदमुक्तम् अजामेकामिति।
नन्वत्रोत्तरमुक्तम् “कल्पनोपदेशात्” इति। यथाहि मधुविद्यादावादित्यादीनां मध्वादित्वेन कल्पना क्रियते, एवमत्रापि तेजोबन्नानामजात्वदिकल्पनोपदेशादविरोध इति। एतदयुक्तम्। कल्पनायाः प्रयोजनाभावात्। नहीदं पामरजनमनोरञ्जनार्थं काव्यम्। अत एव दृष्टान्तोऽपि निरस्तः।
॥ रामानुजीयव्याख्यानप्रत्याख्यानम्॥
कश्चित् “ज्योतिरुपक्रमा” इत्येतदन्यथा व्याचष्टे “ज्योतिर्ब्रह्म। तदुपक्रमा तत्कारणैवेयमजा न स्वतन्त्रा” इति। तस्य प्रथमसूत्रं व्यर्थम्। अनेनैव चरितार्थत्वात्। किञ्च “तदधीनत्वात्” इत्यनेनैव प्रधानस्य ज्योतिरुपक्रमत्वं प्रतिपादितम्। प्रतिपादनीयं च साङ्ख्यपरीक्षायामिति।
॥ अजामित्यादिश्रुतेः परममुख्यया वृत्त्या ब्रह्मपरत्वम्, मुख्यया वृत्त्या प्रकृतिपरत्वम्॥
अस्याः श्रुतेः प्रधानपरत्वेऽपि न दोष इत्ययुक्तम् “तत्तु समन्वयात्” इत्यवधारणानुपपत्तेरिति चेत्, न। तेजोबन्नपरत्वेऽपि तदनिस्तारात्। अस्तु परस्यैवम्। भवतां तु कथं न दोष इत्यत आह अस्माकमिति।
अस्माकं परमुख्यार्थो भगवानेक एव तु।
मुख्यमात्रतया रूढं सर्वमभ्युपगम्यते
सर्वेषामपि शब्दानां गौण्याद्यं तदयोगतः॥४५॥
अस्माकं तु मते “तत्तु समन्वयात्” इत्यवधारणस्यायमर्थः सर्वेषामपि शब्दानां भगवानेक एव परममुख्यार्थो नान्य इति। अतो रूढं यस्य शब्दस्य यदर्थतया प्रसिद्धम्, तदपि सर्वं तन्मुख्यार्थमात्रतयाऽभ्युपगम्यते। मुख्यायोगे गौणाद्यमपि। एवं चाजादिशब्दाः परममुख्यया वृत्त्या परब्रह्मपरा मुख्यमात्रतया प्रधानस्यापि प्रतिपादका इत्यङ्गीकारे काऽनुपपत्तिरिति।
॥ शब्दानामुभयार्थत्वस्य प्रामाणिकत्वात् समन्वयसूत्रोक्तमवधारणं
परममुख्यार्थान्तरव्यावृत्त्यर्थमेवेत्युपपादनम्॥
नन्वेवन्तर्हि सौत्रमवधारणं किमिति परममुख्यार्थान्तरव्यावृत्त्यर्थं व्याख्यायते? वाच्यान्तरमात्रव्यावृत्त्यर्थं कुतो न व्याख्यातव्यम्? नचोक्तप्रयोजनानुपपत्तिः। अमुख्यया वृत्त्या सङ्केतमात्रेण वा तदुपपत्तेरिति चेत्, न। सूत्रकारेणैव ग्रन्थान्तरे वैदिकानां शब्दानामुक्तविधानेकार्थत्वस्याभ्युपगतत्वादित्याह अर्थद्वयमिति।
अर्थद्वयमभिप्रेत्य प्रवृत्ते हरिरुक्तवान्।
कार्याणां कारणं पूर्वं वचसां वाच्यमुत्तमम्।
योगानां परमां सिद्धिं परमं ते पदं विदुः॥४६॥
इति...............................।
तदेव पठति कार्याणामिति। वचसां वैदिकानामुत्तमं वाच्यम्। तदपेक्षयाऽन्यान्यमुख्यवाच्यानि। कुत एतत्? योगानां योगवृत्तीनां परमां सिद्धिम्। सिद्ध्यन्त्यस्मिन्निति सिद्धिः। इन्द्रादयस्त्वपरमसिद्धयः। एतदपि कुतः? कार्याणां महदादीनां पूर्वं मुख्यं कारणम्। प्रकृत्यादीनि त्वमुख्यकारणानि। पदं स्वरूपम्। तस्मात् परमं विदुः।
यद्यपि रूढिरविलम्बेनार्थप्रत्यायकतामात्रेण बलवती, तथाऽपि विशेषज्ञानहेतुत्वाद् योग एव बलीयानिति मत्वा स एव गृहीतः। तत्र साक्षादर्थद्वयस्यानुक्तत्वेऽप्युत्तमं वाच्यमिति विशेषणाद् वाच्यान्तरसद्भावोऽवगम्यते। अत एव प्रागभिप्रेत्येत्युक्तम्।
॥ निरपवादप्रतीतिबलात्, बाधकाभावाच्च शब्दानामुभयार्थताऽङ्गीकरणीया॥
वैदिकानां शब्दानामुभयार्थत्वे प्रमाणान्तरमाह बुद्धाविति।
.......बुद्धौ समारोहादुभयोर्योगरूढयोः।
त्यागे च कारणाभावादुभयार्थत्वमिष्यते॥४७॥
विपरीतप्रमाभावे पूर्वारोहस्तु कारणम्।
सा भवेद् यत्र स व्यर्थः पूर्वारोहो भ्रमो यथा।
अतो जगदुपादानं प्रधानं वक्ति सा श्रुतिः॥४८॥
योग इति योगवृत्तिविषयः परमेश्वरः। रूढः प्रसिद्धः प्रकृत्यादिः।
अयमर्थः अस्ति तावद् विदितपदपदार्थसङ्गतेरधिगतशाब्दन्यायस्याजादिशब्दश्रवणे ब्रह्मण इव प्रधानस्यापि बुद्धावारोहः। धियां च स्वत एव प्रामाण्यम्, अप्रामाण्यं तु बाधाकाधीनमित्युपपादितं प्रथमसूत्रे। (१४६) नचात्रार्थद्वयाभ्युपगमे बाधकमस्ति। येन बुद्धावारूढमपि त्यज्येत। अतो निरपवादप्रतीतिबलात् सर्वेषामपि शब्दानामुभयार्थत्वमेष्टव्यमिति।
एतेदेव विवृणोति विपरीतेति।कारणं स्वीकारस्येति शेषः। सा विपरीतप्रमा। स स्वीकारकारणत्वेनोक्तोऽपि पूर्वारोहो व्यर्थः स्वीकारकारणं न भवति। भ्रमो यथेति। प्रसिद्धशुक्तिरजतादिविपर्ययो यथेत्यर्थः।
यद्वा अजादिपदानि द्व्यर्थानि, बाधकविधुरायां बुद्धौ तथा रूढत्वादिति प्रतिज्ञाहेतू कथितौ। अनेनान्वयव्यतिरेकाभ्यां व्याप्तिमाचष्टे। तत्र पूर्वार्धे यथा स्तम्भादिप्रत्यय इति दृष्टान्तोक्तिरपि द्रष्टव्या।
॥ उक्तार्थोपसंहारः॥
नन्वत्राजायाः कारणत्वमुच्यते। तच्च ब्रह्मलक्षणत्वेनोक्तमित्यतो बाधकाद् बुद्धावारूढमपि प्रधानं त्याज्यमिति चेत्, न। निमित्तमात्रत्वस्य ब्रह्मलक्षणत्वेन जगदुपादानत्वस्य प्रधानेऽपि सत्त्वादस्य तदर्थत्वोपपत्तेरित्याशयवानुपसंहरति अत इति। सा श्रुतिः “अजामेकम्” इत्यादिका॥*॥ इत्यानुमानिकज्योतिरुपक्रमाधिकरणे॥२॥
पञ्चजनाधिकरणम्॥३॥
॥ मायावादिना “यस्मिन् पञ्चपञ्च जनाः’ इति श्रुतेः प्रधानपरत्वनिराकरणम्॥
“न सङ्ख्योपसङ्ग्रहादपि” इत्येतदपि प्रधानस्याशब्दत्वप्रतिपादनार्थतया व्याचक्षते। तथाहि
 “यस्मिन् पञ्च पञ्च जना आकाशश्च प्रतिष्ठितः।
तमेव मन्य आत्मानं विद्वान् ब्रह्मामृतोऽमृतम्”
इत्यस्मिन् मन्त्रे पञ्च पञ्च जना इति पञ्चसङ्ख्याविषयाऽपरा पञ्चसङ्ख्या श्रूयते। पञ्चशब्दद्वयदर्शनात्। त एते पञ्च पञ्चकाः पञ्चविंशतिः सम्पद्यते। तथाच श्रुतिप्रसिद्धया पञ्चविंशतिसङ्ख्यया तेषां स्मृतिप्रसिद्धानां पञ्चविंशतितत्वानामुपसङ्ग्र्रहात् प्राप्तं श्रुतिमत्त्वं प्रधानादीनामिति।
अत्रोच्यते न सङ्ख्योपसङ्ग्रहादपि प्रधानादीनां श्रुतिमत्त्वप्रत्याशा कर्तव्या। कस्मात्? नानाभावात्। नाना ह्येतानि पञ्चविंशतितत्वानि। नैषां पञ्चशःपञ्चशः साधारणो धर्मोऽस्ति। येन पञ्चविंशतेरन्तराले पञ्च पञ्च सङ्ख्या निविशेरन्। नह्येकं निबन्धनमन्तरेण नानाभूतेषु द्वित्वादिकाः सङ्ख्या निविशन्ते। अतिरेकाच्च। अतिरेको हि भवत्यात्माकाशाभ्यां पञ्चविंशतिसङ्ख्यायाः। आत्मनो हि पञ्चविंशतावन्तर्भावे यस्मिन्नित्यधिकरणत्वोक्तिविरोधः। आकाशस्यापि पृथगुक्तिविरोधः। तस्मान्न प्रधानादीनां शाब्दत्वमिति।
॥ पञ्चविंशतितत्वप्रक्रियायाः प्रामाणिकत्वप्रतिपादनपूर्वकं मायावादिव्याख्याननिरासः॥
अत्र वक्तव्यम् किं पञ्चविंशतितत्वप्रक्रिया सर्वथाऽप्रामाणिकीत्यभिप्रायः, उतैतद्वाक्यं तत्परं न भवतीति। पक्षद्वयमप्यनुपपन्नमित्याह यत्तदिति।
यत्तत् त्रिगुणमव्यक्तं नित्यं सदसदात्मकम्।
प्रधानं प्रकृतिं प्राहुरविशेषं विशेषवत्॥४९॥
पञ्चभिः पञ्चभिर्ब्रह्म चतुर्भिर्दशभिस्तथा।
एतच्चतुर्विंशतिकं गणं प्राधानिकं विदुः॥५०॥
इति भागवते प्राह विद्याधीशः स्वयं प्रभुः।
सदसदात्मकं कार्यकारणात्मकम्। अविशेषत्वादकार्यत्वात् प्रधानम्, विशेषवत्त्वात् कार्यत्वात् प्रकृतिं प्राहुः। विशेषवदित्यस्य विवरणम् पञ्चभिरिति। पञ्चभिर्महाभूतैः, पञ्चभिस्तन्मात्राभिः, चतुर्भिर्महदहङ्कारमनोबुद्धिभिः, दशभिरिन्द्रियैश्च ब्रह्म पूरितम्। एतच्चतुर्विंशतिकं गणं प्रधानकार्यं विदुरिति सूत्रकृतैव ग्रन्थान्तरे पञ्चविंशतितत्वानां प्रतिपादितत्वान्न तावदाद्यः कल्पः।
अनुवादोऽयमिति चेत्। किं प्रमितस्य, उत कल्पितस्य? आद्ये तत्प्रमाणैरेव सिद्धिस्तत्वानाम्। न द्वितीयः, वैयर्थ्यात्। दूषणार्थमिति चेत्, न तदभावात्। नहि ग्रन्थान्तरे अनुवादो ग्रन्थान्तरे दूषणमिति सम्भवति।
॥ उक्तवाक्यस्य प्रधानपरत्वे मायावाद्युक्तबाधकोद्धारः॥
न द्वितीयः, विरोधाभावात्। यदुक्तं नानाभावादिति तदसत्। सूत्रकारस्यापि सङ्ग्राहकाभावेन “पञ्चभिः” इत्याद्युक्त्यनुपपत्तिप्रसङ्गात्। अथ तत्र भूतत्वादीनि संग्राहकाणि सन्तीति चेत्, तर्हि तान्येव भूतत्वतन्मात्रत्वज्ञानेन्द्रियत्वकर्मेन्द्रियत्वतदितरत्वानि च श्रुतावपि सन्तीति समानम्। नचायमस्ति नियमोऽन्तराले सङ्ग्राहकेण विना सङ्ख्यानिवेशो नास्तीति। “पञ्च सप्त च वर्षाणि न ववर्ष शतक्रतुः”, “व्र्तमेतदनुष्ठेयं वर्षाणि नव पञ्च च” इत्यादौ व्यभिचारात्। यदप्यतिरेकाच्चेति। तदप्यसत्। पातञ्जलैरीश्वरस्याङ्गीकृतत्वात्। आकाशश्चेत्याकाशाद्या इति व्याख्यानोपपत्तेः।
॥ “पञ्चपञ्च जनाः’ इत्यस्य मायावाद्युक्तार्थपरत्वासम्भवः॥
किञ्चेदं वाक्यं पञ्चविंशतितत्वसिद्धये साङ्ख्येन स्वशास्त्रे गृहीतत्वाद् वा शङ्कितम्, सम्भावितत्वाद् वा? न द्वावपि सम्भवतः। पञ्चपञ्च जना इत्यस्य पञ्चविंशत्यप्रत्यायकत्वात्। पञ्चजना इत्यस्य समासत्वे हि द्वितीयः पञ्चशब्दो न तावत् पञ्चशब्देन सम्बद्ध्यते, विशेषणस्योपसर्जनेन सम्बन्धायोगात्। नापि जनशब्देन, पञ्चजनाः कतीत्याकाङ्क्षानुदयेन विशेषणायोगात्। असमासत्वेऽपि न तावत् पञ्चशब्देन सम्बन्धः, एकार्थयोर्विशेषणविशेष्यभावानुपपत्तेः। नापि जनशब्देन, निराकाङ्क्षत्वात्। कथञ्चिदाकाङ्क्षायामपि दशत्वस्य प्राप्तेः।
ननु पञ्चजना इति समाहारद्विगुः। तस्य पञ्चेति विशेषणे पञ्चविंशतिः सम्पद्यते। यथा पञ्च पञ्चपूल्य इत्युक्ते पञ्चविंशतिपूला लभ्यन्त इति। मैवम्। तथासति पुँल्लिङ्गानुपपत्तेरित्यलम्। “कारणत्वेन” इत्यादिसूत्राणामपव्याख्यानं स्फुटदूषणमिति न दूषितम्॥*॥ इति पञ्चजनाधिकरणम्॥३॥
अथ प्रकृत्यधिकरणम्॥६॥
॥ भास्करशङ्करप्रभृतिभिः प्रकृत्यधिकरणस्य ब्रह्मणो जगदुपादानत्वप्रतिपादकत्वेन व्याख्यानम्॥
“प्रकृतिश्च” इत्येतदधिकरणं ब्रह्मणो जगदुपादानताप्रतिपादनार्थमिति व्याचक्षते। तथाहि “जन्माद्यस्य यतः” इति जगत्कारणं ब्रह्मेत्युक्तम्। तत्र संशयः किमुपादानत्वेन, उत निमित्तत्वेनेति। “स ईक्षाञ्चक्रे। स प्राणमसृजत” इतीक्षापूर्वककर्तृत्वश्रवणादिना केवलं निमित्तत्वेनैवेति प्राप्तेऽभिधीयते प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्।
न केवलं निमित्तकारणमेव ब्रह्म। किन्तु प्रकृतिः उपादानं च। कुतः? प्रतिज्ञादृष्टान्तानुपरोधात्। एवं हि प्रतिज्ञादृष्टान्तौ नोपरुद्ध्येते। “येनाश्रुतं श्रुतं भवति” इति ब्रह्मविज्ञानेन सर्वविज्ञानं प्रतिज्ञातम्। तच्चोपादानत्व एवोपपद्यते। कार्यस्योपादानाव्यतिरेकात्। नहि निमित्तकारणाव्यतिरेकः कार्यस्यास्ति। तक्ष्णः प्रासादव्यतिरेकदर्शनात्। दृष्टान्ताश्च “यथा सोम्यैकेन मृत्पिण्डेन” इत्यादय उपादनगोचरा आम्नायन्ते। “यतो वा इमानि भूतानि” इति पञ्चमी चोपादानत्वं गमयतीति। “जनिकर्तुः प्रकृतिः” इति विशेषस्मरणात्।
अभिध्योपदेशाच्च। “सोऽकामयत बहु स्याम्” इत्यभिधानपूर्वकं बहुभवनोपदेशाच्च निमित्तत्वम्, उपादानत्वं च गम्यते।
साक्षाच्चोभयाम्नानात्। इतश्र्चोपादानं ब्रह्म। “सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते आकाशं प्रत्यस्तं यन्ति” इति साक्षाद् ब्रह्मैव कारणमुपादायोभयोः प्रभवप्रलययोराम्नानात्। यद्धि यस्मात् प्रभवति यस्मिंश्च लीयते तत् तस्योपादानं प्रसिद्धम्। यथा व्रीह्यादीनां पृथिवीति। प्रत्यस्तमयश्च नोपादानादन्यत्र कार्यस्य दृष्टः।
आत्मकृतेः परिणामात्।”तदात्मानं स्वयमकुरुत” इत्यात्मनः कर्मत्वकर्तृत्वश्रवणादुपादानं ब्रह्म। कथं पुनः पूर्वसिद्धस्य क्रियमाणत्वम्? परिणामात्। पूर्वसिद्धोऽप्यात्मा विकारात्मना विशेषेण आत्मानं परिणामयामासेति ह्युपपन्नम्। परिणामादिति वा पृथक् सूत्रम्। “सच्च त्यच्चाभवत्” इत्यादिना ब्रह्मण एव विकारात्मना परिणामः सामानाधिकरण्येनाऽम्नायते। अतश्र्चोपादानं ब्रह्म।
योनिश्च हि गीयते।”यद् भूतयोनिम्” इति योनिश्च ब्रह्म गीयते। योनिशब्दश्र्चोपादानवचनः समधिगतो लोके। अतश्र्चोपादानं ब्रह्मेति।
॥ परब्रह्मणो निर्विकारत्वादिप्रतिपादकश्रुतीरुदाहृत्य तस्य जगदुपादनत्वनिराकरणम्॥
तदेतन्निराकरोति नचेति।
नच प्रकृतिशब्देन ब्रह्मोपादानमुच्यते॥५१॥
अविकारः सदा शुद्धो नित्य आत्मा सदा हरिः।
सदैकरूपविज्ञानबल आनन्दरूपकः॥५२॥
निर्विकारोऽक्षरः शुद्धो निरातङ्कोऽजरोऽमरः।
अविश्र्वो विश्वकर्ताऽजो यः परः सोऽभिधीयते॥५३॥
निर्विकारमनौपम्यं सदैकरसमक्षयम्।
ब्रह्मेति परमात्मेति यं विदुर्वैदिका जनाः।
इति श्रुतिपुराणोक्त्या न विकारी जनार्दनः॥५४॥
कुतो नोच्यत इति चेत्। प्रमाणान्तराविरुद्धो हि सूत्रार्थो वर्णनीयः। उपादानत्वं च ब्रह्मणः श्रुत्यादिविरुद्धम्। परिणामिकारणं ह्युपादानमुच्यते। यथा घटरुचकादीनां मृत्सुवर्णादि। ब्रह्मणश्च रूपान्तरापत्तिलक्षणो विकारापरपर्यायः परिणामो निषिद्ध्यते श्रुत्यादाविति कथं सूत्रार्थतया वक्तुं शक्यत इत्याह अविकार इति। सदाशब्दद्वयस्याविकारः शुद्ध इत्याभ्यां सम्बन्धः। विकारो द्वेधा भवति धर्मिणो धर्मस्य चेति। तत्राविकारः सदेत्याद्यस्य निषेधः। सदैकरूपेति द्वितीयस्य। एकरूपे निर्विकारे विज्ञानबले यस्यासौ तथोक्तः। उपमाविषय औपम्यम्। न औपम्यमनौपम्यम्। एकरसं स्वगतभेदवर्जितम्। प्रधानानन्दात्मकं वा। न विकारीति गम्यत इति शेषः।
॥ अनिवर्त्यविशेषाप्तिनिवर्त्यविशेषाप्तिअनिवर्त्यविशेषपरिवर्तनिवर्त्यविशेषपरिवर्तभेदात्
चतुर्विधस्य विकारस्य सदृष्टान्तं निरूपणम्॥
युक्तिविरुद्धं च ब्रह्मणो विकारित्वमिति वक्तुं विकारप्रकारांस्तावदाह पराधीनेति।
पराधीनविशेषाप्तिरनिवर्त्योऽन्यथाभवः।
क्षीरादिवद् विकारः स्यात्.............॥५५॥
विकारस्तावद् द्विविधो भवति विशेषाप्तिः,विशेषिपरिवर्तश्चेति। तत्र विशेषाप्तिर्नाम धर्मिणः तादवस्थ्ये सति धर्ममात्रपरिवृत्तिः। विशेषिपरिवर्तस्तु धर्मिस्वरूपस्यैव परिणामः। द्विविधोऽप्ययं पराधीनो भवति। प्रत्येकं च द्वेधा। अनिवर्त्योऽन्यथाभावः, निवर्त्यश्चेति। अत्रैकैकप्रकारानुक्तिः स्फुटत्वादिति ज्ञातव्यम्। अन्यथा वाक्यस्यासामञ्जस्यं स्यात्। क्षीरादिवदिति चतुर्णामुदाहरणम्। क्षीरादीनामिव दधित्वाद्यापत्तिरित्यर्थः।
तत्रानिवर्त्यविशेषाप्तिर्यथा श्यामस्य फलस्य पीतत्वापत्तिः। तत्र हि धर्मिणस्तादवस्थ्यम्, पीतत्वेऽपि फलव्यवहारानिवृत्तेः। केवलं श्यामत्वापगमेन पीतत्वमुत्पन्नं सौरातपादिवशात्, न निर्निमित्तम्। नच पुनर्निवर्तते।
निवर्त्यविशेषाप्तिर्यथा कुण्डलाद्याकारस्य सुवर्णस्य कटकादित्वापत्तिः। अत्रापि हि धर्मिणः तादवस्थ्यम्। कटकादित्वापन्नेऽपि सुवर्णव्यवहारदर्शनात्। परं कुण्डलत्वापायेन स्वर्णकाराद्यधीनकटकभावो जातः। निवर्त्यश्चासौ। पुनः कुण्डलीकर्तुं शक्यत्वात्।
अनिवर्त्यविशेषिपरिवर्तो यथा क्षीरस्य दधिभावः। अत्र हि न धर्मिणस्तादवस्थ्यम्। दधित्वापत्तौ क्षीरव्यवहारानुपलम्भात्। किन्तु धर्मिभूतं क्षीरमेव आतञ्चनादिवशाद् दधिभूतम्। नच दधिभावनिवृत्त्या तत् क्षीरं भवति।
निवर्त्यधर्मिपरिवर्तो यथा शुल्बस्य तारत्वम्। अत्रापि न धर्मिणस्तादवस्थ्यम्। तारतायां शुल्बव्यवहारानुपलब्धेः। किन्नाम। ओषध्यधीनतया शुल्बमेव तारं संवृत्तम्। प्रबलौषधिबलात् तारतानिवृत्त्या शुल्बं च सम्पद्यते। नच पञ्चमी विधा दृष्टा, सम्भाविता वेति।
॥ विकारनिमित्ताभावाद् ब्रह्मणो विकारासम्भवः॥
किमतो यद्येवम्भूतो विकार इत्यत आह नैवेति।
................. नैव स स्याद्धरेः क्वचित्॥।५५॥
क्वचिदिति निमित्तसप्तमी। अयमाशयः सकलोऽपि खलु विकारः पराधीनो भवतीति निदर्शितम्। नचैवमेवासौ क्वापि दृष्टः। तथात्वे वा सर्वदा स्यात्। नच बह्मणो विकारनिमित्तं किञ्चिदस्ति। “सदेव सोम्य” इति प्राक् सृष्टेर्वस्त्वन्तरनिषेधात्। नच कालादिकमपि परेण प्रलयेऽभ्युपगतम्। अभ्युपगमेऽपि पराधीनतापत्तेश्च।
॥ भास्करोक्तब्रह्मविकारप्रक्रियाभङ्गः॥
अस्तु जडेषु पराधीनो विकारः। चेतनं ब्रह्म तु स्वेच्छयैव जगदाकारेण विक्रियते। “तदात्मानं स्वयमकुरुत” इत्यादिश्रुतेरिति चेत्, न। प्रेक्षावतस्तस्य नानाविधानर्थरूपप्रपञ्चीभवनेच्छाया एवानुपपत्तेः। नह्युन्मत्तोऽप्यात्मनोऽनर्थरूपतामिच्छति। दूरे प्रेक्षावान्। नच प्रपञ्चस्यानर्थरूपतां न जानाति ब्रह्म। असर्वज्ञतापातात्। नायं प्रपञ्चो ब्रह्मणोऽनर्थरूप इति चेत्, न। “दुःखादिरूपेण परिणतस्य न दुःखादिरूपता’ इत्यस्य व्याहतत्वात्। नहि विवर्तवादिनामिव कल्पितोऽयं प्रपञ्चो भवताम्। सत्यत्वाभ्युपगमात्। दुःखादिमत्त्वमनिष्टम्, नतु तद्रूपतेत्यभिप्राय इति चेत्, न। तथासति सुखरूपस्येष्टत्वमपि न स्यात्। ततश्च न मोक्षाय प्रवर्तेत।
किञ्च ब्रह्मणोऽनर्थाभावे कस्यायमनर्थ इति वक्तव्यम्। जीवस्येति चेत्। स किं ब्रह्मणो भिन्नः, अभिन्नो वा? नाऽद्यः, अपसिद्धान्तात्। द्वितीये कथं ब्रह्मणो नानर्थः? भिन्नाभिन्न इति चेत्, न। अभेदेन अनर्थप्रसङ्गात्। निराकरिष्यते चायं पक्षः “अत एव चोपमा” इति।
अपिच चेतनस्यापि विक्रिया दृष्टादृष्टाकारणायत्ता दृष्टेति कथं ब्रह्मणः स्वेच्छामात्रेण स्यात्? सर्वशक्तित्वादिति चेत्, न। अनर्थीभवतः सर्वशक्तित्वानुपपत्तेः। न तर्कावसेयं ब्रह्म, येन दृष्टान्तानुगुण्यवैगुण्यचिन्ताऽत्रोपयुज्यते। किन्नाम। श्रुतिमात्रसिद्धम्। श्रुतिश्चान्यानपेक्षमेव प्रपञ्चतापत्तिमाचष्ट इति चेत्, न। तथासति विचारशास्त्रानवतारप्रसङ्गात्। युक्तश्चायं तर्कागोचरत्ववादो यत्र श्रुुतीनामविगानं स्यात्। नचैवमत्रेत्युक्तम्।
अतो न सामान्यतो विकारित्वं ब्रह्मणो युज्यते, नापि विशेषतः। तथाहि न तावदप्रच्युतस्वरूपस्यैव ब्रह्मणोऽयमाकारपरिणामः प्रपञ्च इति युक्तम्। अस्थूलत्वादिश्रुतिविरोधात्। स्वरूपापेक्षया तदुपपत्तिरिति चेत्, न। स्वरूप एव स्थूलत्वादिजननात्। नहि कुण्डलत्वानपगमेन कटकत्वं सुवर्णस्य भवति। स्वभावापेक्षयाऽस्त्विति चेत्, न। कालभेदेन स्थूलत्वादिभावाभाववतः “अयं स्वभावः, अयं न स्वभावः’ इति विवेकायोगात्। नहि ब्रह्मणः कारणान्तरात् प्रपञ्चतापत्तिं मन्यसे, येन सा न स्वभावः स्यात्। प्रपञ्चाकारतायाश्चानिवर्त्यत्वे प्रलयश्रुतिव्याकोपः स्यात्। निष्प्रपञ्चब्रह्मभावापत्तिलक्षणमोक्षाभावप्रसङ्गश्च। एकदेशपरिणामस्तु निराकरिष्यते। नापि स्वरूपप्रच्युत्या प्रपञ्चरूपतापत्तिः, स्थितिसमये ब्रह्माभावप्रसङ्गेन ब्रह्मज्ञानस्य निरालम्बनत्वापातात्। तस्याश्चानिवर्त्यत्वे न कदाऽपि ब्रह्मणोऽस्तित्वमित्येषा दिक्।
॥ रामानुजीयव्याख्यानस्य उत्सूत्रितत्वम्॥
अत्र कश्चिदन्धानुगतान्ध इव “प्रकृतिश्च” इत्यादीनि सूत्राणि ब्रह्मणो जगदुपादानताप्रतिपादकतया व्याख्यायोक्तदूषणगणाद् भीतः सूत्रतात्पर्यमाह “परमसूक्ष्माचिद्रूपप्रधानशरीरं ब्रह्म “योऽव्यक्ते तिष्ठन् यस्याव्यक्तं शरीरम्” इत्यादिश्रुतिसिद्धम्। तथाच ब्रह्माधिष्ठितं ब्रह्मात्मकं प्रधानं जगदुपादनमिति ब्रह्मैव जगदुपादानतयाऽङ्गीक्रियते। अतो नोक्तदोषः” इति। तं प्रत्याह अपादानत्वमेवेति।
अपादानत्वमेवास्य यद्युपादानतेष्यते।
अङ्गीकृतं तत् पितृवन्नतु विश्र्वात्मना भवः॥५६॥
एवं हि वदता पितुरिव पुत्रजन्मनि जगदुत्पत्तौ ब्रह्मणोऽपायावधित्वलक्षणमपादानत्वमेवोपादानत्वमिष्टं स्यात्। सर्वथा निर्विकारस्य ब्रह्मणो विकारिप्रधानशरीरकस्य तदधिष्ठातृत्वेनोपादानतयोदितत्वात्। एवम्भूतं चोपादानत्वं ब्रह्मणोऽस्माभिरङ्गीकृतमेवेति नात्रास्माकं प्रद्वेषः।
ननूपादानत्वं चेद् ब्रह्मणोऽङ्गीकृतम्, कथन्तर्हि तन्निराकरणमित्यत आह नत्विति। शुद्धचैतन्यस्यैव ब्रह्मणो विश्र्वात्मना भवो भास्कराद्यभ्युपगतो नास्माभिरङ्गीक्रियते। अतस्तन्निराकरणमुपपन्नमेवेति।
अत्रायमभिसन्धिः यद्यपि परव्युत्पादितं जगदुपादानत्वं ब्रह्मणो नास्माकमर्थतो विरोधि। तथाऽपि नैतेषां सूत्राणामर्थः। तथाहि किमत्रास्य व्युत्पादनस्य प्रयोजनम्? न तावद् भास्करस्येव निमित्तोपादानभेदनिराकरणम्। प्रधानस्योपादानतयाऽङ्गीकृतत्वात्। विकारिवस्त्वधिष्ठातृत्वमेव मुख्यमुपादानत्वमिति चेत्, न। लोकविरोधात्। लोकव्यवहारानुसारेण हि परीक्षकैर्लक्षणं कार्यम्। नतु स्वाभिप्रायानुसारेण लोकव्यवहारो नियन्तव्यः। लोके च विक्रियावदुपादानमुच्यते।
अथ पातञ्जलाः प्रधानस्यैव स्वातन्त्र्येण जगदुपादानत्वम्, ईश्वरस्य तु तदनुग्राहकत्वमेवेति मन्यन्ते। तन्निरासार्थं ब्रह्मशरीरतया ब्रह्मात्मकमेव प्रधानं तदीयमुपादानत्वमपि ब्रह्मण एवेत्यत्र व्युत्पाद्यत इति ब्रूषे। तदाऽनवसरदुस्थत्वम्, अस्य समयपादे कर्तव्यत्वात्। करिष्यते च “अन्यत्राभावात्” इति। तस्मान्नेदं सूत्रतात्पर्यमिति।
॥ चेतनस्य उपादानत्वोक्तिप्रत्याख्यानम्॥
पितृवदित्युक्तं दृष्टान्तममृष्यमाणो ब्रह्मपरिणामवादी वदति पिता पुत्रस्योपादानमेवातो नायं दृष्टान्तो युक्त इति। तत्राऽह नचेति।
नचोर्णनाभिजनितृमातॄणां च विकारिता।
आद्यश्चशब्दोऽवधारणे। द्वितीयः परोक्तानुवादकः। जनितृशब्दं प्रयुञ्जानः स्वग्रन्थस्य मन्त्रतुल्यतां दर्शयति भगवानाचार्यः। “जनिता मन्त्रे” इति स्मरणात्।
अत्र प्रकृतत्वात् पितृमात्रग्रहणे प्राप्ते यदूर्णनाभिमातृग्रहणं तेनैतदपि निराकृतं भवति यद् ब्रह्मपरिणामिवादिनोक्तम् ब्रह्मणो जगत्कारणत्वे “यथोर्णनाभिः सृजते गृह्णते च” “पिताऽहमस्य जगतो माता” इत्यूर्णनाभ्यादिदृष्टान्तोपादानादुपादानत्वमेव विवक्षितम्। ऊर्णनाभ्यादीनां तन्त्वादिकं प्रत्युपादानत्वादिति। यच्च “योनिश्च हि गीयते” इत्यत्रोक्तम् यद्यपि योनिशब्दो “योनिष्ट इन्द्र निषदे अकारि” इत्यादौ स्थानाद्यर्थः प्रतीयते। तथाऽपि यथोर्णनाभिरिति वक्ष्यमाणदृष्टान्तबलादुपादानवाचीति निश्चीयत इति। उदाहरिष्यमाणं ब्रह्मतर्कवचनमपि व्याख्यातं भवति।
कुतो नेति चेत्। अत्र पित्रादीनां पुत्रादीनां च चेतनाचेतनसमाहाररूपत्वाच्चत्वारः पक्षाः सम्भवन्ति। पित्रादिचेतनः पुत्रादिचेतनं प्रति वा उपादानम्, पुत्राद्यचेतनं प्रति वा, पित्राद्यचेतनः पुत्रादिचेतनं प्रति वा, पुत्राद्यचेतनं प्रति वेति। तत्रऽद्यं पक्षत्रयं तावन्नोपपद्यत इत्यत्र हेतुमाह चेतनत्वादिति।
चेतनत्वात् तदन्नं हि कार्यरूपतया भवेत्॥५७॥
आद्ये द्वयोश्चेतनत्वात्। उत्तरयोरन्यतरस्य। चतुर्थं त्वङ्गीकरोति तदन्नं हीति। तैरूर्णनाभ्यादिभिरुपभुक्तमन्नं तत्परिणतास्तच्छरीरधातव इति यावत्। तन्त्वादिकार्यरूपतया परिणतं भवेदित्यर्थः।
एतदुक्तं भवति पित्रादिदृष्टान्तानामयं खलु निष्कृष्टोऽर्थः यत् पित्राद्युपभुक्तमन्नं तच्छरीरभूतं पुत्रादिगताचेतनांशोपादानं भवतीति। पक्षान्तरस्यासम्भावितत्वात्। नचायमस्माकमनिष्टः। महाप्रलये परमेश्वरेण निगीर्णं महदादिकार्यं तच्छरीररूपकप्रधानतां गच्छति। तच्च प्रधानं पुनर्महदादिकार्योपादानं भवतीत्यङ्गीकारादिति। एतेनोर्णनाभ्यादीनां न विकारिता चेत्, निरुपादाना तन्त्वाद्युत्पत्तिः प्रसज्यत इत्यपि निरस्तम्।
॥ ब्रह्मणो निमित्तकारणत्वे उपादानकारणत्वाभावे चश्रुत्याद्युपन्यासः॥
एवं श्रुतिपुराणयुक्तिभिर्ब्रह्मणो निर्विकारत्वावगमान्न जगदुपादानकारणत्वम्, किन्तु निमित्तत्वमेव इत्युक्तम्। अधुना श्रुतिस्मृतिपुराणयुक्तिभिर्निमित्तत्त्वस्यैवोक्तत्वादपीत्याह अपादानतयेति।
अपादानतया विश्वकर्तृत्वं बुद्धिपूर्वकम्।
उक्तं भाल्लविशाखायां ब्रह्मतर्के च सादरम्॥५८॥
इच्छामात्रात् प्रभोः सृष्टिरविकारस्य सर्वदा।
स्वभावोऽयमनन्तस्य रजो येनाभवज्जगत्॥५९॥
स्वदेहादिच्छया विश्र्वं भुक्तपूर्वं जनार्दनः।
ससर्ज मातापितृवदूर्णनाभिवदेव वा
प्रधानं परिणाम्येशो निर्विकारः स्वयं सदा॥।६०॥
विश्वकर्तृत्वमित्येवोक्ते कुलालादीनामिव तटस्थकर्तृत्वं प्रतीयते। तन्निवृत्त्यर्थमपादानतयेत्युक्तम्। अपादनत्वमित्येवोक्ते परस्य नानिष्टम्। उपादानस्याप्यपादानविशेषत्वेनोपादानत्वापादानत्वयोरविरोधात्। अपादानविशेषविवक्षायां च पर्णपतने वृक्ष्यस्येवावधित्वमात्रं प्रतीयते। अतो विश्वकर्तृत्वमित्युक्तम्। तथाऽपि बुद्धिपूर्वकमिति व्यर्थम्। कर्तुर्बुद्धिमत्त्वनियमादिति। मैवम्। अशेषविशेषज्ञानस्य विवक्षितत्वात्।
एतदुक्तं भवति सकलकार्यक्रियाकारकफलविषयबुद्ध्यादिमानीश्वरो बाह्येन रूपेणानुगृह्णन्नान्तरेण प्रधानादीनां परिणामादिशक्तीः प्रेरयन् स्वशरीररूपकप्रधानादिपरिणामभूतमहदादिकार्यापगमेऽवधिर्भवतीति। सादरत्वं दर्शयिष्यामः।
तदेव वाक्यद्वयं क्रमेण पठति इच्छामात्रादिति। नतु परिणामितयेति मात्रार्थः। तत्र हेतुः अविकारस्येति। किं प्रयोजनोद्देशेनेत्यत उक्तम् स्वभाव इति। उपादानाभावात् कथमित्यत उक्तम् रज इति। येन प्रेरितं रजःशब्दोपलक्षितं गुणत्रयात्मकं प्रधानं जगदभावत्। अत्रोपपादनेनाऽदरः प्रतीयते।
स्वदेहात् सच्चिदानन्दाद्यात्मकादवधेः। अथवा स्वदेहात् प्रधानादुपादानात्। भुक्तपूर्वं पूर्वकल्पे भुक्तेन सदृशम्। भुक्तपूर्वं सूक्ष्मावस्थोपादानकमिति वा। एवशब्देन नतु मृदादिवदित्याह। वाशब्दो दृष्टान्तसमुच्चये। स्वदेहादिति भुक्तपूर्वमिति च विवृणोति प्रधानमिति। एवशब्दोक्तस्योपपादनम् निर्विकार इति। अत्रापि पूर्ववदादरो गम्यते।
॥ ब्रह्मणश्चेतनत्वात्, जगतोऽचेतनत्वाच्च उपादानोपादेयभावासम्भवः॥
प्राक् चेतनत्वादित्यनेन त्रयः प्रयोगाः सूचिताः पितापुत्रौ नोपादानोपादेयभूतौ, चेतनत्वात्; देवदत्तयज्ञदत्तवत्। पुत्राद्यचेतनो न पित्रादिचेतनोपदाानकः; अचेतनत्वात्, घटवत्। पुत्रादिचेतनो न पित्राद्यचेतनोपादानकः; चेतनत्वात्, ब्रह्मवदिति। सर्वत्र पक्षधर्मताया निश्चितत्वाद् द्वितीये तावद् व्याप्तिमुपपादयति न चेतनेति।
न चेतनविकारः स्याद् यत्र क्वापि ह्यचेतनम्
नाचेतनविकारोऽपि चेतनः स्यात् कदाचन॥६१॥
यदि खलु यत्र क्वापि देशकाले वाऽचेतनं चेतनविकारो दृष्टः स्यात् तदेयं व्याप्तिर्भज्येत। नचैवमित्यर्थः। महदादिजगद् ब्रह्मकार्यमुपलब्धमिति चेत्, न। अद्याप्यसिद्धेः। उक्तवक्ष्यमाणप्रमाणैः निराकृतत्वाच्च।
तृतीये व्याप्तिमुपपादयति नाचेतनेति। व्याख्यानं पूर्ववत्। एवं न चेतनविकारश्चेतनोऽप्युपलब्ध इत्याद्येऽपि व्याप्तिरुपपादनीया।
अथवा महदादिकं न चेतनविकारः, अचेतनत्वात्; घटवदिति युक्त्यन्तरविरुद्धं च ब्रह्मणो जगदुपादानत्वमिति चेतसि निधायास्य व्याप्तिमुपपादयति न चेतनेति। ननु घटादयोऽपि ब्रह्मविकारा इति चेत्, न। मृदादिविकारत्वस्य प्रमितत्वत्। परम्परयेति चेत्, एवन्तर्हि न स्वयं चेतनविकाराः। किन्तु तत्कारणानीत्युक्तं स्यात्। तथाच कथं न दृष्टान्तता? तर्हि तत्कारणेषु व्यभिचार इति चेत्, न। तेषामेव पक्षत्वात्। सुखदुःखादिष्वनैकान्तिकमिति चेत्, न। तेषामन्तःकरणविकारत्वाभ्युपगमात्। एतेनैतदपि प्रत्युक्तम् जगत् अभिन्ननिमित्तोपादानम्, प्रेक्षापूर्वजनितकार्यत्वात्; सुखादिवदिति। घटादिषु व्यभिचाराच्च। तेषामपि पक्षीकरणे प्रमाणबाधः स्यात्।
॥ ब्रह्मस्वरूपानुगतिशून्यत्वाच्च जगतो न ब्रह्मोपादनकता॥
नन्वचेतनमपि जगच्चेतनविकारश्चेत्, तदा को दोषः स्यात्? एवन्तर्हि चेतनोऽप्यचेतनविकारः स्यात्। नचैतदस्तीत्याह नाचेतनेति।
अयमभिसन्धिः यदि महदादिकं ब्रह्मणो विकारः स्यात्, तर्हि तत्स्वरूपानुगतिमत् प्रसज्येत। कार्ये कारणस्वरूपानुगमदर्शनात्। घटादयो मृद्विकारा मृदनुगतिमन्तो दृष्टाः। नचैतदस्ति। तस्मान्न महदादिर्ब्रह्मविकारः। यदि पुनः कारणस्वरूपानुगममन्तरेण विकारिविकारभावोऽभ्युपगम्येत, तदा चेतनोऽप्यचेतनविकारः किं नाभ्युपगन्तव्यः? नचैवमङ्गीकृतं परेण। तथाहि सति “एक आत्मनः शरीरे भावात्” इत्यत्र परस्य भूतचतुष्टयपरिणाम एवायं चेतनवान् काय इति वदन्तं चार्वाकं प्रति भूतेष्वविद्यमानं चैतन्यं कथं काये स्यादिति परिहारो मदिराद्रव्ये मदशक्तिवत् स्यादिति पुनश्च चार्वाकेण चोदिते मदिरोपादानेऽपि सूक्ष्मरूपमदशक्तिव्युत्पादनं व्याहतं स्यादिति।
यद्वा ब्रह्मजगती नोपादानोपादेयभाववती, विलक्षणत्वात्; देवदत्तघटवत्। ननु विलक्षणानामपि मृद्घटादीनामुपादानोपादेयभावो दृश्यत इति चेत्, न। चेतनाचेतनरूपवैलक्षण्यस्य विवक्षितत्वात्।
यदत्र परेणोक्तम् दृश्यते हि लोके चेतनत्वेन प्रसिद्धेभ्योऽपि पुरुषादिभ्यो विलक्षणानां केशनखादीनामुत्पत्तिः। अचेतनत्वेन प्रसिद्धेभ्यो गोमयादिभ्यो वृश्चिकादीनामिति। तदेतदयुक्तम्। केशनखादीनामचेतनाच्छरीरादेवोत्पत्तेः। गोमयाद् वृश्चिकशरीरस्यैव जन्मनो वक्ष्यमाणत्वादित्याशयवानाह न चेतनेति।
॥ जगद्ब्रह्मणोः भेदेनोपलभ्यमानत्वाच्च नोपादानोपादेयभावः॥
अनुमानान्तरं वक्तुं व्याप्तिनिश्चयाय व्यतिरेकव्याप्तिं तावदाह नचेति।
नचान्यस्यान्यरूपत्वं विकृतत्वेऽपि दृश्यते।
न क्षीरादन्यता दध्नः केनचिद् दृश्यते क्वचित्॥६२॥
सर्वज्ञाद् ब्रह्मणोऽन्यत्वं जगतो ह्यनुभूयते।
अपिचेति युक्तिसमुच्चये। विकृतत्वे विकृतिदशायामन्यस्यान्यरूपत्वमन्यविकारत्वं न दृश्यते। विकारविकारिणावन्योन्यमन्यतया क्वापि नोपलब्धाविति यावत्। अत्र दृष्टान्तमाह नेति। यस्य क्षीरस्य विकारो यद् दधि तस्मात् क्षीरादन्यता तस्य दध्नः केनापि क्वापि न दृश्यत इत्यर्थः। एवमन्यतादर्शनस्य सिद्धा विकारविकारिभावाद् व्यावृत्तिः। ततः किमित्यत आह सर्वज्ञादिति। हिशब्दो यस्मादित्यर्थे। तस्मान्न तयोर्विकारविकारिभाव इति शेषः।
अयमत्र प्रयोगः जगद् ब्रह्मविकारो न भवति, ततोऽन्यत्वेनोपलभ्यमानत्वात्; यो यतोऽन्यत्वेन उपलभ्यते न स तद्विकारः, यथा घटः पटस्य। यश्च यद्विकारः, नासौ ततोऽन्यत्वेनोपलभ्यते, यथा दधि क्षीरादिति।
यद्वा जगद्ब्रह्मणी, नान्योन्यविकारविकारिणी; अन्योन्यमन्यत्वेनोपलभ्यमानत्वात्। घटपटवदिति प्रयोगः। नचायमसिद्धो हेतुः, “यः सर्वज्ञः” इति ब्रह्मणः सर्वज्ञत्वश्रवणात्, ज्ञानकार्यस्य सर्वथाऽप्यनुपलम्भेन जगतो ज्ञानाभावानुमानात्। विरुद्धधर्माधिकरणयोश्चान्योन्यमन्यत्वोपलम्भनियमादिति भावेनोक्तम् सर्वज्ञादिति।
ननु विकारविकारिणोर्भेदाभेदाभ्युपगमात् कथमयं हेतुरिति चेत्, न। भेदेनैवोपलम्भस्य हेतुत्वात्। तर्हि दृष्टान्तः साधनविकलः। सर्वत्र मया भेदाभेदाभ्यां सङ्करस्याभ्युपगमात्। तत् किं त्वदभ्युपगममात्रेण घटपटयोरभेदः, उतोपलम्भात्? नाऽद्यः, मदभ्युपगमेन शुद्धभेदस्यैव ग्राह्यत्वात्। न द्वितीयः, असिद्धेः। अभेदानुपलम्भो वा हेतुत्वेन विवक्षितः।
॥ भास्करोक्तस्य जगद्ब्रह्माभेदसाधकसत्त्वानुमानस्य दूषणम्॥
नन्वयमसिद्धो हेतुः। जगद् ब्रह्मणाऽभिन्नम्, सत्त्वात्; ब्रह्मवदित्यनुमानेनाभेदोपलम्भादिति चेत्, न। खर्वं स्वर्णेनाभिन्नम्, सत्त्वात्; स्वर्णवदित्याभाससमानयोगक्षेमत्वादित्याह अभेद इति।
अभेदः सत्त्वमात्रेण स्यात् खर्वस्वर्णयोरपि॥६३॥
यदि जगद्ब्रह्मणोः साध्येत तर्हीति शेषः। खर्वं अयः। खर्परं वा। नन्विदमिष्टमेव। खर्वसुवर्णयोरभेदस्य मयाऽङ्गीकृतत्वादिति चेत्, न। अभेदशब्देन भेदाभावस्य विवक्षितत्वात्। अत्र प्रमाणविरोध इति चेत्। जगद् ब्रह्मणोऽत्यन्तं भिद्यते, तत्स्वरूपानुगतिशून्यत्वादिति त्वदनुमानस्यापि प्रमाणविरोध इति समं समाधानम्।
अत्यन्तभेदो मम न क्वापीत्यप्रसिद्धविशेषणतेति चेत्, न। मोक्षाभावप्रसङ्गात्। तथाहि ज्ञानेन निवृत्तकर्मणा च मोक्षोऽभ्युपेयते। तच्च ज्ञानमज्ञानमपि भवति, निवृत्तं कर्म प्रवृत्तमपि भवतीति कथं मोक्षसाधनं स्यात्? ज्ञानत्वादिना तद्भावेऽज्ञानादेरपि तद्भावः स्यात्। ज्ञानादिकं ज्ञानादिस्वरूपेण अत्यन्ताभिन्नम्, अज्ञानादिस्वरूपेण तु भिन्नाभिन्नम्, अतो न कार्यसङ्कर इति चेत्, तथाऽप्यज्ञानाद्यभेदेन स्वकार्यस्य कर्तव्यत्वात्।
एवं मोक्षोऽपि संसाराभिन्न इत्यमोक्षः स्यात्। मोक्षात्मना सद्भावेन मोक्षत्वे संसारोऽपि तथा स्यात्। यदिचायमभेदोऽनुपलभ्यमानोऽर्थक्रियासु नोपयुज्यते, तदा व्यसनितयैवाभ्युपगन्तव्यः स्यादिति।
॥ जगति ब्रह्मसत्त्वानुगमेन तयोर्विकारविकारिभावाङ्गीकारे खर्वस्वर्णयोरपि तत्प्रसङ्गः॥
ब्रह्मस्वरूपानुगतिशून्यत्वान्न तत्परिणामोऽयं प्रपञ्च इत्युक्तम्। तत्र किं सर्वस्वरूपानुगतिशून्यताऽभिप्रेता,उत किञ्चिदनुगमशून्यता? नाऽद्यः, सर्वानुगमाभावेऽपि घटादीनां मृदादिविकारत्वदर्शनात्। न द्वितीयः, सत्त्वानुगमेन विकारविकारिभावोपपत्तेरित्यत आह अभेद इति। अभेदो विकारविकारिभावः।
ननु न सुवर्णगतं सत्त्वं खर्वेऽनुगतम्। तत् कथमयं प्रसङ्गः? तत् किं ब्रह्मसत्त्वमेव वियदादीनाम्? अद्धेति चेत्, न। प्रमाणाभावात्। “प्राणा वै सत्यं तेषामेष सत्यम्” इत्यादिश्रुतेः प्राणसत्यत्वस्य ब्रह्माधीनतार्थत्वोपपत्तेः। ब्रह्मण एव सामान्यसत्ता वियदादावनुगतेति चेत्, तर्हि कथं न स्वर्णसत्ता खर्वेऽनुगता?
॥ अव्यभिचरितस्वभावानुगमस्य विकारविकारिभावव्यवस्थापकत्वे जगद्ब्रह्मणोरपि तथात्वानुपपत्तिः॥
अथ मन्यसे कारणमेव कार्यात्मना भवतीति परिणामवादिनां मतम्। ततश्च कारणं यत्स्वभावाव्यभिचारि तदनुगमः कार्येऽवश्याभ्युपगन्तव्यः। अन्यथा कारणमेव कार्यात्मना भवतीति रिक्तं वचः स्यात्। अव्यभिचरितस्वभावाननुगमे कारणस्यैवाननुगमप्राप्तेः। नच सन्मात्रस्वभावं सुवर्णम्। येन खर्वं तद्विकारः स्यात्। किन्तु तदव्यभिचारिसुवर्णत्वाद्यनुगमे सतीति।
एवन्तर्हि जगदपि कथं ब्रह्मपरिणामः स्यात्? नहि सन्मात्रस्वभावं ब्रह्म। किन्तु “विज्ञानमानन्दं ब्रह्म” इत्यादिश्रुत्या विज्ञानादीनामपि तदव्यभिचारिस्वभावत्वावगमात्। नच विज्ञानानन्दाद्यनुगमः प्रपञ्चेऽस्तीति समम्।
ननुच क्षीराव्यभिचारिस्वभावमाधुर्यानुगतिविधुरं दधि तद्विकारो दृष्टमिति चेत्, न। सत्कार्यवादभङ्गप्रसङ्गात्। किञ्च क्षीरकार्यं दधीति निश्चये न माधुर्यं क्षीरस्वभाव इति कल्प्यते। माधुर्यस्य क्षीरस्वभावतानिश्चये वा क्षीरविनाशे तत्कारणस्य दध्युपादानत्वं कल्प्यत इति न दोषः।
अपिचाऽगमैरनुमानैश्च ब्रह्मणो निर्विकारत्वे सिद्धे सति अप्रच्युतस्वरूपस्वभावस्यैव ब्रह्मणो जगदुपादानत्वं यो मन्यते तं प्रत्येतौ प्रसङ्गविपर्ययावुक्ताविति को विरोधः? एतेन प्रधानस्य जगदुपादनत्वेऽप्ययं समानो दोष इति निरस्तम्।
॥ एकस्य ब्रह्मणो निर्विकारत्वम्, अपरस्य परिणामित्वमित्यङ्गीकारे
तथात्वस्य श्रुतिसिद्धत्वादेव विवादाभावात् अधिकरणारम्भानुपपत्तिः॥
अथ मतम् द्विरूपं ब्रह्माभ्युपगम्यते अनन्तानन्दचिदात्मकम्, सदात्मकं चेति। तत्राऽद्येन रूपेण निमित्तम्। द्वितीयेनोपादनम्। अतो न कश्चिदुक्तो दोषः। तथाहि यत्तावदुक्तं निर्विकारत्वं तच्चिच्छक्तिविषयत्वाच्छ्रुत्यादेरदूषणम्। निमित्तकारणेन चिच्छक्तिकेन प्रकृतिप्रधानाद्यभिधानं सच्छक्तिकं ब्रह्म परिणमतीत्यङ्गीकारे न युक्तिविरोधोऽपि। सदात्मकस्य जगदुपादानत्वाच्चैतन्याद्यननुगमोऽपि न दोषः, सदनुगमस्य विद्यमानत्वात्। अन्यत्वदर्शनं च न विरुद्ध्यते। यतो यस्मादन्यत्वमुपलभ्यते सर्वज्ञात्, तन्निमित्तमेव नोपादानम्। यच्चोपादानं सद्रूपं न तस्माद् भेदेनोपलभ्यत इत्याशयाऽह भागेनेति।
भागेन परिणामश्चेद् भागयोर्भेद एव हि।
यो भागो न विकारी स्यात् स एवास्माकमीश्वरः॥६४॥
यदि ब्रह्मणः सद्भागेन परिणामः, चिद्भागेन निर्विकारत्वमङ्गीक्रियते, तदा वक्तव्यम् तयोर्भागयोः अभेदः, भेदाभेदौ वा? न तावदभेदः, द्वयोरपि परिणामित्वादिप्राप्त्या भागद्वयकल्पनावैयर्थ्यात्। नापि भेदाभेदौ, अभेदेन सङ्करप्रसङ्गात्। भेदोऽभेदकार्यं निरुणद्धीति चेत्। किं तर्ह्यप्रयोजकेन अभेदेन, तस्माद् भागयोरत्यन्तभेद एवाङ्गीकरणीयः।
ततः किमित्यत आह यो भाग इति। परस्परमत्यन्तभिन्ने द्वे वस्तुनी। तत्रैकं निर्विकारं जगन्निमित्तमेव। अपरं तु परिणामि जगदुपादनमेवेत्यङ्गीकारे नेश्वरस्य केवलनिमित्तत्ववादिनामस्माकं कश्चिद् विवादः। निर्विकारस्य जगन्निमित्तस्यास्माभिरीश्वरत्वेन, परिणामिनो जगदुपादानस्य प्रधानत्वेन स्वीकृतत्वात्। विवादाभावाच्च “प्रकृतिश्च” इत्यादिसूत्राणामनारम्भ एवेति। अत्र यो भाग इति पराभ्युपगमेनोक्तम्। स्वमतेन तु यद् वस्त्विति ज्ञातव्यम्। नहि भागिनं विना भागः सम्भवति। नापि विकार्यविकारिणोः कश्चिद् भागी विद्यते।
॥ परोक्ताधिकरणारम्भनिमित्तानां निरासः॥
नन्वस्ति विवादविषयः। निमित्तोपादानभेदवादिना निमित्तस्यैव ब्रह्मत्वमभ्युपगम्यते। मया तु सदनन्तानन्दचितां समुदायस्येति तदर्थमधिकरणारम्भ इति चेत्। किमिदं ब्रह्मत्वम्? किं ब्रह्मनामवत्त्वम्, उत जगत्कारणत्वादिलक्षणार्थवत्त्वम्? आद्यं दूषयति भिन्नानामिति।
भिन्नानां समुदायस्य नाम ब्रह्मेति तद् भवेत्।
तद् भवेदित्यभ्युपगममाह। ततश्चायमर्थः यद्यर्थे न विवादोऽस्ति तदाऽनारम्भणीयमेवाधिकरणम्। शब्दमात्रे परेण विवादाकरणात्। करणेऽप्यशब्दशास्त्रत्वादिति।
द्वितीयेऽपि विवेक्तव्यम्। किं परस्परं भिन्नाः सच्छिदानन्दाद्याः प्रत्येकं ब्रह्मणि, उत ते न ब्रह्माणि किन्तु तत्समुदाय एवेति। नाऽद्यः, “एकमेवाद्वितीयम्” इत्यादिश्रुतिविरोधात्। द्वितीयेऽपि तत्समुदायो नाम किं तदुपादानकं द्रव्यान्तरम्, सङ्ख्या वा, संयोगो वा? सर्वत्रापि दोषमाह ब्रह्मेति।
ब्रह्मोपादानता न स्यात् तदा विश्वस्य हि क्वचित्॥६५॥
तदेति मनसि स्थितानां विकल्पितानां पक्षाणां वाऽङ्गीकारे। क्वचित् पक्षे। हिशब्देनानुपपत्तेः प्रसिद्धतामाह। अत्रहि ब्रह्मोपादानस्य वा, तद्गुणिनो वा जगदुपादानत्वं प्राप्तमिति विश्वस्य ब्रह्मोपादानकता न स्यात्। नह्युपादानगुणिगताः शक्तयः कार्यद्रव्ये गुणे वा सम्भवन्ति। तदुपादानत्वादेरसम्भवात्।
अथवा ब्रह्मणः कार्यत्वाद् गुणत्वाच्च न विश्र्वोपादानत्वं सम्भवतीति व्याख्येयम्। अत्र ब्रह्मोपदनतेत्युपलक्षणम्। ब्रह्मनिमित्तकता च न युक्तेत्यपि द्रष्टव्यम्।
॥ उपादाने पञ्चम्या अविहितत्वाद् “यतो वा’
इत्यादिपञ्चमीबलाद् ब्रह्मण उपादानत्वसाधनायोगः॥
स्यादेतत्। कालात्ययापदिष्टमेतदनुमानजातम्। “यतो वा इमानि भूतानि जायन्ते”, “आत्मन आकाशः सम्भूतः”, “जन्माद्यस्य यतः” इत्यादिविरोधात्। “जनिकर्तुः प्रकृतिः” इति प्रकृतावुपादानलक्षणायां हि पञ्चमी विधीयते। तथाचैवोदाहृतम् “शृङ्गाच्छरो जायते, गोमयाद् वृश्चिको जायते” इति। प्रसिद्धश्चात्रोपादानोपादेयभाव इति। तदिदमसङ्गतम्। पञ्चमीबलात् किलोपादानत्वं सिषाधयिषितम्। नचेदं सूत्रमुपादाने पञ्चम्या विधायकम्।
॥ “जनिकर्तुः’ इति सूत्रे प्रकृतिशब्दस्य,
शृङ्गाच्छर इत्यादिदृष्टान्तेषु पञ्चम्याश्च अपादानत्वमेवार्थः॥
अथ मतम् अपादाने तावत् पञ्चमी विहिता “अपादाने पञ्चमी” इति। उपादानं चापादानविशेषः। “जनिकर्तुः प्रकृतिः” इति स्मरणात्। ततोऽपादाने विहिता पञ्चम्युपादानेऽपि भविष्यति। नचैवंसति पञ्चम्या नियमेनोपादानत्वासिद्धिः। विशेषस्मरणस्य ग्राह्यत्वादित्यत आह शृङ्गादिति।
शृङ्गाच्छरोऽविलोमभ्यो दूर्वा गोमयतस्तथा।
वृश्चिकश्चेत्येवमाद्येष्वपादानत्वमिष्यते॥६६॥
तथाशब्दो द्वितीयोदाहरणेन सम्बद्ध्यते। एवमाद्येषूदाहरणेषु शृङ्गादीनां शरादीन् प्रत्यपादानत्वमिष्यते। पञ्चम्यर्थतयेति शेषः। उपलक्षणं चैतत्, सूत्रे चेत्यपि ज्ञातव्यम्।
एतदुक्तं भवति भवेदेवं कथञ्चिद् यदि सूत्रस्य तदुदाहरणानां च परपरिकल्पितोऽर्थो भवेत्। नचैवम्। किन्नाम। “जनिकर्तुः प्रकृतिः” इत्यनेनेदमुच्यते जनेः कर्तुर्जायमानस्य या प्रकृतिरुपादानसंसृष्टमपायेऽवधिभूतं द्रव्यं तत् कारकमपादानसञ्ज्ञं भवतीति। उदाहरणेष्वपि यच्छृङ्गादीनां शरादीन् प्रत्यपायावधित्वमेव पञ्चमीप्रतिपाद्यमिति।
॥ शृङ्गादीनां शरादीन् प्रति एकदेशेन अपायावधित्वम्, एकदेशेन उपादानत्वं चोपपाद्य
अवधिभागस्यैव अपादानत्वम्, पञ्चमीवाच्यत्वं चेत्युपपादनम्॥
एतदेव प्रपञ्चयति उपादानेति।
उपादानैकदेशत्वं यद्यप्यत्र प्रदृश्यते।
अप्यपादानतैवात्र दृष्टान्तो ब्रह्मणो भवेत्॥६७॥
यद्यप्यत्र शृङ्गादौ शराद्युपादानभूतैकदेशवत्त्वं प्रतीयते, तथाऽपि याऽत्रापादानता अपाायावधित्वलक्षणाऽस्ति सैव ब्रह्मणो दृष्टान्तो भवेत्। पञ्चम्यर्थतायामुदाहरणं भवेत् न तूपादानतेत्यर्थः।
अयमभिप्रायः शृङ्गादिकं ह्येकदेशेन शरादीन् प्रत्युपादानम्, एकदेशेन चापायावधितया कारकं भवति। तस्मिन्नसत्येकदेशान्तरस्योपादानतानुपपत्तेः। मुद्गमाषादयो हि यद्यपि तुषान्तरावस्थितेनैव अंशेनाङ्कुरोपादानम्, तथाऽपि न तुषविकलानामंशानामङ्कुरजनकताऽस्ति। तत्रावधिभाग एवापादनं पञ्चमीवाच्यश्च। तद्दृष्टान्तेन ब्रह्मणोऽपि पञ्चमीबलादुपादानप्रधानसंसृष्टावधित्वमेव भवति। नतूपादानत्वमिति।
ननु कथन्तर्हि “प्रकृतेर्महान्’, “महतोऽहङ्कारः’ इत्यादिप्रयोगः? तत्रापि परिणतभागसंसृष्टस्य अपरिणतभागस्यावधिभूतस्य पञ्चमीविषयत्वमिति वदामः। यत्र सर्वस्यापि परिणामस्तत्र कथम्? न प्रयोक्तव्यैव पञ्चमी। नहि क्षीराद् दधि जातमिति प्रयुञ्जते। किन्तु क्षीरमेव दधि जातमिति। यत्र क्वचित् प्रयोगो दृश्यते स गौणो वा सूत्रस्यार्थान्तरकल्पनामूलो वेति।
॥ अवयवविभागेन शृङ्गे उपादानत्वअपादानत्वयोरङ्गीकारे शृङ्गाच्छरः इति प्रयोगानुपपत्तिः॥
अथ मन्येत शृङ्गमेव शरोपादानम्। नतु केचिदवयवा उपादानम्, केचित् तदवधय इति विभागः। तथासति शृङ्गाच्छरो जायत इति प्रयोगानुपपत्तेः। यदिचेयं पञ्चमी उपादाने, यदिवाऽवधौ, तथाऽपि शृङ्गावयवादिति वक्तव्यम्। नच तर्ह्यवधित्वमेवास्तु इति वाच्यम्। निरुपादानोत्पत्तिप्रसङ्गात्। अतः शृङ्गस्यैवोपादनत्वात् तत्र पञ्चमीश्रवणादुपादाने पञ्चमीति।
॥ शृङ्गे उपादानावयवापेक्षया अपादानावयवानां बहुत्वात् तदपेक्षया प्रयोगो नानुपपन्नः॥
तत्राऽह नहीति।
नह्युपादानतैवात्रबाह्यावयवगौरवात्।
अत्र शृङ्गादावुपादानतैवेति न वक्तव्यम्। अपरिणतभागस्य शराङ्कुरादेरत्यन्तभिन्नस्य प्रमितत्वात्। अन्यथेदमस्योपादानम्, इदं नेति व्यवस्थानुपपत्तेरिति हिशब्दार्थः। कथन्तर्हि शृङ्गादिति प्रयोग इत्यत आह बाह्यावयवेति। बाह्याः शराकारेण परिणतेभ्योऽन्ये येऽवधिभूतावयवास्तेषां गौरवाद् बहुत्वात्।
एतदुक्तं भवति कतिपयावयवेषु परिणतेषु बहूनामवशिष्टत्वेन शृङ्गान्तरोत्पत्त्या, शृङ्गबुद्धिमात्रोत्पत्त्या वा शृङ्गशब्दोपपत्तिरिति।
॥ सौत्रप्रकृतिशब्दस्य अपादानपरत्वं महाभाष्यकारस्यापि सम्मतमित्युपपादनम्॥
ननु कुतः सूत्रादेरर्थान्तरकल्पना? शब्दार्थविरोधादिति ब्रूमः। उपादीयते कार्यमनेन स्वरूपतया स्वीक्रियत इत्युपादानम्। अपादीयते परित्यज्यते कार्यमनेनेत्यपादानमिति स्फुटो विप्रतिषेधः।
किञ्च भाष्यकारेण “अयमपि योगः शक्योऽवक्तुम्” इति प्रत्याचक्षाणेनायमेव सूत्रार्थः सूचितः। यदि “जनिकर्तुः प्रकृतिः” इति सूत्रमुपादानस्यापादानसञ्ज्ञां विदध्यात्, कथन्तर्हि “ध्र्ुवमपाये अपादानम्” इत्यनेनैव गतार्थतामाह। नह्युपादानस्यापाये ध्र्ुवत्वमस्ति। तस्मादुपादानसंसृष्टस्यैवावधिभागस्यापादानसञ्ज्ञायामनेन विहितायां भाष्यकारीयं दूषणं सम्बद्ध्यते। तथा सूत्रं समादधानैरपि तस्यैवायं प्रपञ्च इत्युक्तम्। अन्यथा प्रागवधेरपादानसञ्ज्ञोक्ता, अत्र तूपादानस्य, नह्यवधिरुपादानमित्येकोऽर्थ इत्यवक्ष्यन्। ततस्तेषामपि सम्मतोऽयमर्थ इति गम्यते।
॥ उपादानपञ्चम्यङ्गीकारेऽपि “यतो वा’ इत्यादीनां ब्रह्मण उपादानपरत्वासम्भवः॥
अस्तु वोपादानेऽपि पञ्चमी। तथाऽपि यत इति पञ्चमीबलादुपादानत्वनिश्चयो नोपपद्यते। अनेकार्थत्वात्। विशेषस्मरणादित्युक्तमिति चेत्। किमिदं विशेषस्मरणम्? जनिधातुग्रहणेनेति चेत्, तर्हि “आत्मन आकाशः सम्भूतः” इत्यादीनमनुदाहरणीयत्वं स्यात्। कुतश्च यत इति पञ्चमीत्यवधृतम्। तसेः सार्वविभक्तिकत्वात्। आत्मन आकाश इत्यनेनैकार्थत्वादिति चेत्, न। तस्याः पञ्चम्यां “भुवः प्रभवः” इति विशेषविहिताभिव्यक्त्यवधितार्थत्वात्। तथाचैवोदाहृतम् “हिमवतो गङ्गा प्रभवति, प्रथममुपलभ्यत इत्यर्थः” इत्यास्तां विस्तरः।
॥ जगतो ब्रह्मविकारत्वाभावसाधकस्य भेदेनोपलभ्यमानत्वहेतोः व्यभिचारशङ्कानिरासः॥
अथवा यदुक्तं न ब्रह्मविकारो विश्वम्, ततो भेदेनोपलम्भादिति। तदसत्। शरादिषु व्यभिचारात्। शरादयो हि शृङ्गाद्युपादानास्ततो भेदेनोपलभ्यन्त इत्यतो गूढाभिसन्धिराह शृङ्गादिति। एवमाद्येषु स्थलेषु शरादीन् प्रति शृङ्गादीनामप्यपायावधित्वलक्षणमपादानत्वमेवेष्यते। न पुनरुपादानत्वम्। अतो विपक्षत्वाभावाद् भेदेनोपलम्भो न तत्र साध्यं व्यभिचारतीति।
ननु कथमुच्यते शृङ्गादीनां शरादीन् प्रति नोपादानत्वमिति। तथासत्युपादानान्तरानुपलम्भाच्छरादीनां निरुपादनोत्पत्तिः प्रसज्येतेत्यतोऽभिसन्धिमद्घाटयति उपादानेति। शृङ्गादेरुक्तरूपापादानत्वेऽपि न शरादीनां निरुपादानोत्पत्तिप्रसङ्गः। कतिपयानां शृङ्गाद्यवयवानां शराद्युपादानत्वाभ्युपगमात्। नचैवमनैकान्त्यतादवस्थ्यम्। यद्यप्यत्र शृङ्गादौ शराद्युपादानैकदेशत्वं प्रतीयते, तथाऽप्यत्र शृङ्गादौ यस्यैकदेशस्योक्तरूपापादानता स एव ब्रह्मणो दृष्टान्तो भवेत्। तत एव शरादीनां भेदोपलम्भात्। नतूपादानभागः। ततस्तदभावात्।
एतदुक्तं भवति शृङ्गादेरवयवा हि केचिच्छरादीनामुपादानभूताः, केचिन्निमित्तभूताः। तत्र ये निमित्तभूताः, तेषु हेतुवृत्तावपि नानैकान्त्यम्। तेषां सपक्षप्रविष्टत्वात्। ये तूपादानभूतास्तेषां विपक्षप्रवेशेऽपि न तत्र हेतुवृत्तिरिति कुतोऽनैकान्त्यमिति।
॥ शृङ्गस्यापादानत्वमङ्गीकृत्य केवलमुपादनत्वाभ्युपगमे बाधकोक्तिः॥
यस्तु वैयात्यान्मन्यते। नात्रापादानताऽस्ति, किन्तूपादानत्वमेव केवलम्। तथाचानैकान्तिकत्वमिति। स प्रष्टव्यः किमत्राविनष्ट एव शृङ्गावयव्युपादानमित्यभिप्रायः, किंवा शृङ्गेऽविनष्टे तदवयवाः सर्वेऽपीति, उत नष्टे शृङ्गे तदवयवाः सर्वेऽपीति?
नाऽद्य इत्याह नहीति। अत्र शृङ्गे। तथात्वे सुवर्णवच्छरे शृङ्गस्यापि प्रतीतिप्रसङ्गादिति हिशब्दार्थः।न द्वितीय इत्याह नहीति। अविनष्टशृङ्गेषु तदवयवेषु सर्वेषु शराद्युपादानतैवेति न युक्तम्। तथासति शृङ्गशरयोः समानदेशताप्रसङ्गादिति हिशब्देन सूचयति।
न तृतीय इत्याह नहीति। अत्र सर्वेष्वपि शृङ्गावयवेषु शृङ्गनाशोत्तरं शराद्युपादानतैवेति न युज्यते। अतो नानैकान्त्यमिति हिशब्दः। कुतो न युज्यत इत्यत आह बाह्येति। कार्याद् ब्राह्यानामपरिणतानामवयवानामुपलम्भात्। अपरिणतस्याप्युपादानत्वेऽतिप्रसङ्गात्। ननु शृङ्गं चेन्नष्टम्, कथन्तर्हि शरोत्पत्त्यनन्तरमपि शृङ्गप्रत्ययप्रयोगावित्यतो गौरवादित्युक्तम्। समाधानं पूर्ववत्।
॥ चेतनस्य अचेतनविकारत्वाभावे गोमयाद् वृश्चिकजन्मानुपपत्तिमाशय परिहारकथनम्॥
मा भूद् भेदोपलम्भस्यात्र व्यभिचारः। तथाऽपि यदुक्तं नाचेतनविकारश्चेतन इति तदत्र व्यभिचरति। अचेतनाद् गोमयादेश्चेतनस्य वृश्चिकादेर्जननदर्शनादित्यत आह नचेति।
नचाचेतनतस्तत्र चेतनस्य समुद्भवः॥६८॥
उपादानतयाकिन्तर्ह्यपादानं ह्यचेतनम्।
कार्यदेहगतस्यास्य चेतनस्य प्रदृश्यते॥६९॥
तत्र गोमयादेर्वृश्चिकादिजन्मनि। नन्वनादिश्चेतन इति पूर्वाभ्यस्ताहाराभिलाषादिना प्रसिद्धम्। अन्यथा पूर्वकर्माभावे जन्मनोऽप्यसम्भवात्। मध्ये कथञ्चित् सम्भवेऽप्यादिसर्गे सर्वथाऽप्यनुपपत्तेः। तत् कथं निर्दलमिदमाशङ्कितम्? सत्यम्। तथाऽपि परेण स्वग्रन्थे निवेशितत्वात्।
अचेतनाच्चेतनस्य जन्माभावे गोमयाद् वृश्चिको जायत इत्यादिव्यवहारविरोध इत्यत आह उपादानतयेति। पूर्वेणैव सम्बन्धः। न वयं कारणत्वमात्रं निषेधामो येन व्यवहारविरोधः स्यात्। किन्तूपादानतया। तस्यैव प्रकृतत्वात्।
यदि गोमयादिकं वृश्चिकादिकं प्रति नोपादानम्, किंरूपं तर्हि कारणम्? येन व्यवहारोपपत्तिरिति पृच्छति किन्तर्हीति। उत्तरमाह अपादानमिति। अस्य वृश्चिकादिशब्दाभिधेयस्य। प्रदृश्यते हीति ततो निर्गतत्वोपलम्भादित्यर्थः। नन्वेकदेशेनोपादानत्वमभ्युपगतमिति। सत्यम्। तच्छरीरापेक्षयेत्युक्तम् कार्यदेहगतस्येति। गोमयाद्युपादानकदेहगतस्येत्यर्थः।
अयमत्र समुयायार्थः वृश्चिकादिशब्देन द्वयमुच्यते देहः, चेतनश्च। तत्र गोमयाद्यचेनमचेतनस्य देहस्योत्पत्तावेकदेशेनोपादानम्, एकदेशेनापादानं च भवति। चेतनस्य तु प्रादुर्भावलक्षणे जनने निमित्तमेव। देहहेतुत्वात्, तत्रैव चास्य प्रादुर्भावात्। अत एवास्येति प्रत्यक्षवन्निर्देशः कृतः। अपगमने तु अवधित्वेनापादानमेव। अतो नोक्तनियमभङ्ग इति।
॥ “सच्च त्यच्चाभवत्’ इत्यत्र सत्त्यदादिशब्दानां जगद्वाचित्वनिरासः॥
एवं ब्रह्मणो जगदुपादानत्वाभावे प्रमाणान्यभिधाय परोपन्यस्तानि प्रमाणानि निराकरिष्यन् क्रमस्याप्रयोजकत्वात् परिणामादिति सूत्रार्थतयोक्तां श्रुतिं तावन्निराचष्टे सच्चेति।
सच्च त्यच्चाभवदिति नास्य विश्वत्वमुच्यते।
तत् सृष्ट्वेति गिरैवास्य पूर्वं विश्वस्य सिद्धितः॥६७॥
“सच्च त्यच्चाभवत्। निरुक्तं चानिरुक्तं च। निलयनं चानिलयनं च। विज्ञानं चाविज्ञानं च। सत्यं चानृतं च सत्यमभवत्” इत्यस्यां श्रुतावस्य ब्रह्मणः सत्त्यदादिशब्दाभिधेयमूर्तामूर्तराशिद्वयात्मकविश्वभाव उच्यत इति नास्ति।
कुतो नेत्यत आह तत् सृष्ट्वेति। “स इदं सर्वमसृजत। यदिदं किञ्च। तत् सृष्ट्वा। तदेवानु प्राविशत्। तदनु प्रविश्य। सच्च त्यच्चाभवत्” इति वचनेन ब्रह्मणः सत्त्यदादिभवनात् पूर्वमेवास्य मूर्तामूर्तरूपस्य विश्वस्योत्पत्तेरवगतत्वात्।
एतदुक्तं भवति नेदं सत्त्यदादिभवनं विश्वस्योत्पादनम्, विश्र्वोत्पत्त्युत्तरकालीनत्वात्। या क्रिया यदुत्तरकालीना, नासावसौ। यथा भुक्त्वा चरतीत्युक्तं चरणं न पूर्वकालीनं भोजनमति। अनुपपन्नार्थं चान्यथा वाक्यमापाद्येत। नहि मृत्सुवर्णादिकं घटरुचकादि सृष्ट्वा तदनुप्रविश्य तद् भवति। यद्वा विश्र्वं सत्त्यदादिशब्दार्थतयाऽत्र न विवक्षितम्, तद्भवनात् पूर्वकालीनोत्पतिकत्वात्; भोजनवदित्यादि प्रयोक्तव्यम्।
॥ सत्त्यत्निरुक्तअनिरुक्तनिलयनअनिलयनविज्ञानअविज्ञान
सत्यअनृतसत्यशब्दानां भगवति निर्वचनम्॥
कस्तर्हि श्रुत्यर्थ इत्यत आह सत्त्वादिति।
सत्त्वात् ततेर्वैदिकत्वात् सम्यग् वक्तुमशक्यतः।
आश्रयत्वात् स्वाश्रयत्वाज्ज्ञानत्वाद् दुर्विदत्वतः॥७१॥
सत्ततेर्यातनाच्चैव ह्यप्राप्यत्वाच्च दुर्जनैः।
नित्यसाधुगुणव्याप्तियन्तृरूपत्वतः सदा।
जगद्गतेन रूपेण ब्रह्मैव हि तथोच्यते॥७२॥
जगद्भावं विना सत्त्वादिधर्मयोगेन ब्रह्मैव तथा सत्त्यदादिकमुच्यते। तर्हि “तदनु प्रविश्य” इत्यस्यान्वयो नास्ति। नहि ब्रह्मणः सत्त्वादिधर्मयोगे सदादिशब्दवाच्यत्वे वा जगत्प्रवेशस्योपयोगोऽस्ति। नापि ततः पूर्वकालीनता।
किञ्चैवंसति प्रसिद्धिविरोधः। सत्त्यदादिशब्दानां “द्वे वाव ब्रह्मणो रूपे” इत्यादौ मूर्तामूर्तवाचितया प्रसिद्धत्वादित्यतो जगद्गतेन रूपेणेत्युक्तम्। यद्यप्यनन्यापेक्षया सर्वदा सत्त्वादिधर्मयोगः सदादिशब्दवाच्यता च ब्रह्मणः। तथाऽपि तत्तद्वस्तुगतरूपेणैव तत्तच्छब्दवाच्यत्वमित्यस्ति व्यवस्था। तथाच मूर्तामूर्तजगद्गतेन रूपेण ब्रह्म सदादिशब्दवाच्यमित्यतस्तदनुप्रविश्येति सम्बद्ध्यते। परमेश्वरसन्निधानादेव मूर्तामूर्तादेरपि सदादिशब्दवाच्यता चोपपद्यत इति।
सत्त्वादुत्तमत्वात् सत्। ततेर्व्याप्तेः त्यम्। “तनु विस्तारे” इत्यस्माड्यत्प्रत्ययः। वैदिकत्वान्निरुक्तम्। निश्चयेनोक्तं हि निरुक्तम्। नहि वेदादृतेऽन्येन ब्रह्म निश्चयेन वक्तुं शक्यते। सम्यग् वक्तुमशक्यत्वतोऽनिरुक्तम्। यद्यपि निश्चयेनोक्तं न भवतीत्यनिरुक्तम्। तथाऽपि निरुक्तमित्यनेन विरोधात् सम्यक् कार्त्स्न्येन वक्तुमशक्यत्वत इत्युक्तम्।
ननु वेदेतरप्रमाणेनानिरुक्तमिति कुतो न व्याख्यायते? न। प्रकृतपरित्यागप्रसङ्गात्। वेदेन निरुक्तमिति हि प्रकृतम्। किञ्चोक्तेः शब्दधर्मत्वात् प्रत्यक्षानुमानाभ्यामनिरुक्तमित्ययुक्तम्। स्मृतीनामपि वेदात्मकत्वेन विरोधतादवस्थ्यम्। महिमाधिक्यं चात्र लभ्यत इति। जगदाश्रयत्वान्निलयनम्। निश्चितमयन्ते प्रवर्तन्तेऽस्मिन्निति। “रो लः” इति योगविभागाल्लत्वम्। निपूर्वस्य “ली श्लेषणे” इत्यस्य वाऽधिकरणे ल्युटि कृते रूपमेतत्। स्वाश्रयत्वादनिलयनम्। न विद्यते स्वातिरिक्तं निलयनं यस्येति। ज्ञानत्वाद् विशेषज्ञानरूपत्वाद् विज्ञानम्। दुर्विदत्वतो दुर्ज्ञेयत्वादविज्ञानम्। न विद्यते विज्ञानं सकलविशेषावगाहिजीवज्ञानं यद्विषय इति।
सत्ततेः सम्यग् व्याप्तेः, यातनाद् यतनं प्रति हेतुत्वाच्च सत्यम्। तनोतेः ड्विप्रत्यये तकारमात्रं रूपम्। तेन सच्छब्दस्य बहुव्रीहिः। “यती प्रयत्ने” इत्यस्य अन्तर्णीतण्यर्थस्य डप्रत्यये यमिति रूपम्। ततः कर्मधारयः। “अयस्मयदीनि च्छन्दसि” इति भसञ्ज्ञाश्रयणाज्जश्त्वाभावः। दुर्जनैरप्राप्यत्वादेवानृतम्, नतु मिथ्यात्वात्। यद्यपि ऋतं प्राप्तं नेत्यनृतम्, तथाऽपि “ब्रह्मविदाप्नोति परम्” इत्यादिश्रुतिविरोधपरिहाराय दुर्जनैरित्युक्तम्। हिशब्दो ब्रह्मणो मिथ्यात्वाभावे प्रसिद्धिं द्योतयति।
नित्यसाधुगुणव्याप्तियन्तृरूपत्वतः सत्यम्। अत्र नित्यत्वत इत्येकं व्याख्यानम्। नित्यसत्यशब्दयोः ऐकार्थ्यस्य वक्ष्यमाणत्वात्। (४४३) सत् साधुगुणाः, “सद्भावे साधुभावे” च इति वचनात्। तेषां व्याप्तिः बाहुल्यं तकारेणोक्तम्। पूर्ववत् तनोतेर्भावे प्रित्ययः। तस्य यन्तृरूपत्वाद् यम्। “यम उपरमे” इति धातोर्डः। भक्तेषु साधुगुणबाहुल्यप्रेरकत्वादिति यावत्। अभवदिति वचनाद् ब्रह्मणः सत्त्वादिकं सादीति शङ्कानिरासायोक्तम् सदेति। प्रत्येकं चास्य सम्बन्धः।
॥ परमेश्वरगुणानां नित्यत्वेऽपि “अभवत्’ इति प्रयोगे निमित्तस्य, श्रुतितात्पर्यार्थस्य च कथनम्॥
तर्हि कथमभवदिति प्रयोग इत्यत आह व्यक्तिरिति।
व्यक्तिरुक्तगुणानां हि पुरुषापेक्षया नृणाम्।
भवेदभवदित्यस्मात् प्रयोगश्चात्र युज्यते॥७३॥
उक्तगुणानां सदादिशब्दोक्तानां धर्माणांव्यक्तिः प्रतीतिः। नृणामुपदेष्टृपुरुषापेक्षया सृष्टौ सत्यामेव भवेत्, हि यस्मादस्मात् कारणात्, अत्र च नित्यगुणेऽपि ब्रह्मणि सदादिकमभवदिति प्रयोगो युज्यते।
ततश्चायं श्रुत्यर्थः सम्पद्यते तद् ब्रह्म मूर्तामूतात्मकं विश्र्वं सृष्ट्वा तत्प्रेरकत्वेन नानारूपैस्तदेव विश्र्वं प्रविश्य प्राक् सृष्टेरुपदेष्टॄणामुपदेश्यानां च शरीरेन्द्रियवतामभावादप्रतीतगुणकं सत्, अथेदीनामुपदेष्टॄणामुपदेश्यानां च शरीरेन्द्रियवत्त्वे सति प्रतीतसत्त्वादिगुणकमभवदिति। तदनेन पारमेश्वरी सृष्टिः योग्यानां स्वगुणज्ञानार्थेत्युक्तं भवति। यथोक्तम् “सोऽयं विहार इह मे तनुभृत्स्वभावसम्भूतये भवति भूतिकृदेव भूत्याः” इति।
॥ अधिकरणतात्पर्यकथनपूर्वकं अपव्याख्याननिरासोपसंहारः॥
ब्रह्मपरिणामनिराकरणमुपसंहरति तस्मादिति।
तस्मादशेषकर्तैको निर्विकारो रमापतिः।
शब्दैः प्रकृतिरित्याद्यैः स्त्रीलिङ्गैरभिधीयते॥७४॥
निर्विकार एवाशेषकर्तेति सम्बन्धः। द्विभागं ब्रह्मेति यन्निराकृतं तस्योपसंहारः एक इति। परिणामानुपपत्तावुक्तयुक्तेरनुवादो वा। अतो न ब्रह्मोपादानत्वं प्रकृत्यधिकरणार्थ इति शेषः। कस्तर्हि तदर्थ इति आह शब्दैरिति। इत्यर्थोऽस्येति शेषः। अनेनापव्याख्याननिराकरणस्य स्वव्याख्यानदार्ढ्यार्थत्वान्नासङ्गतिरित्यपि सूचितम्।
॥ “बहु स्यां प्रजायेय’ “तदात्मानं स्वयमकुरुत’ इत्यादिवाक्यानां व्याख्यातप्रायत्वमुपदर्श्य
उपसंहारस्य अयुक्तताशङ्कापरिहारः॥
ननु वक्तव्यार्थस्यावशिष्टत्वात् कथमुपसंहारः क्रियते? तथाहि “प्रतिज्ञादृष्टान्तानुपरोधात्” इत्युक्तं तावद् दूषणीयम्। सत्यम्। विवर्तनिराकरणेन निराकरिष्यते। (४४५) तर्हि “अभिध्योपदेशाच्च” इत्यत्रोक्तं “बहु स्यां प्रजायेय” इति वाक्यं दूषणीयमिति चेत्, न। अस्यापि “सच्च त्यच्च” इति वाक्यव्याख्यानन्यायेनैव व्याख्यातत्वादित्याह बहु स्यामिति।
बहु स्यामिति तस्यैव ह्युक्तमार्गेण युज्यते।
तत्तद्गतेन रूपेणतदर्थं ह्यसृजज्जगत्॥७५॥
तस्यैव निर्विकारस्यैव। उक्तमार्गेणेत्यस्यैव विवरणम् तत्तद्गतेन रूपेणेति। तत्तदनन्तपदार्थप्रेरकानन्तरूपैः बहु स्यामिति “सोऽकामयत” इत्यस्याः श्रुतेरर्थ इत्यर्थः।
एवन्तर्हि “स इदं सर्वमसृजत” इत्युत्तरवाक्यमसङ्गतं स्यात्। नह्यन्यार्थं सङ्कल्पमभिधायान्यक्रियाभिधानं सङ्गच्छते। नहीश्वरोऽस्वतन्त्रोऽसत्यकामो वेत्यत आह तदर्थमिति। तत्तत्पदार्थनियामकबहुस्वरूपत्वकामनानन्तरं, नियम्यापेक्षत्वात् नियामकत्वस्य, तदर्थं नियामकबहुस्वरूपत्वार्थं, नियम्यं जगत् तावदसृजत्। ततो नियामकबहुस्वरूपो भूत्वा “तदेवानु प्राविशत्” इति वाक्ययोजनोपपत्तेः काऽत्रासङ्गतिरित्यर्थः।
अनेनैव “तदात्मानं स्वयमकुरुत” इति श्रुतिर्व्याख्याता वेदितव्या। नह्यत्राऽत्मानं प्रपञ्चात्मना अकुरुतेति श्रूयते। उभयाम्नानं च ऊर्णनाभिदृष्टान्तोक्त्यैव निरस्तम्। नह्यूर्णनाभेरुत्पद्यमानस्य, तस्मिन्नेव विलीयमानस्य च तन्तोरूर्णनाभिरुपादानम्। किन्तु तदुपभुक्तमन्नमेवेत्युक्तम्। “योनिश्च” इत्येतत् प्रागेव निरस्तमिति (३९१) युक्त एवोपसंहार इति।
॥ मायावादिना अविद्यापरिणाममृषाविश्वभ्रमाधिष्ठानत्वेन ब्रह्मण उपादानत्वमित्युपपादनम्॥
अपव्याख्यानान्तरं दूषयितुमनुवदति यच्चेति।
यच्चाविकृतमेवैकं ब्रह्म विश्र्वात्मना मृषा।
दृश्यते मन्ददृष्ट्यैव स सर्ग इति कथ्यते॥७६॥
ब्रह्म विश्र्वात्मना दृश्यत इति यत् स सर्ग इति कथ्यत इत्येतावत् परिणामवादेऽपि समम्। अत उक्तम्अविकृतमेवेति। अविकृतत्वं कुत इत्यत उक्तम् एकमिति। अद्वितीयम्, निरवयवं चेत्यर्थः।
तथाहि किं ब्रह्मणः स्वत एव विश्र्वाकारपरिणामः, किंवा परतः? नाऽद्यः, क्वाप्यदर्शनात्। यदपि “क्षीरवद्धि” इत्युदाहृतम्। तत् कालादेर्विद्यमानत्वादयुक्तम्। स्वेच्छयैवेति चेत्, न। प्रयोजनाभावात्। स्वभावोऽयमिति चेत्, न। प्रेक्षावत्त्वहानेः। न द्वितीयः, अद्वितीयत्वात्। नच निरवयवं क्वापि परिणतं दृष्टम्। आकाशं संयोगादिमदुपलब्धमिति चेत्, न। द्रव्याकारपरिणामस्य प्रकृतत्वात्। परमाण्वादयस्तु स्वरूपेणैव न सिद्धा इति।
अविकृतमेवान्यदन्यात्मना दृश्यत इत्यसम्भवीदमित्यत उक्तम् मृषेति। मृषाशब्देन विश्वस्य, ब्रह्मतादात्म्यस्य, तद्दर्शनस्य चानिर्वचनीयतोच्यते। यथा रज्जुरविकृतैव मृषा भुजङ्गाद्याकारेणावभासते, तथैवेति।
तर्हि विश्र्वोपादानमन्यद् वक्तव्यमित्यत उक्तम् मन्ददृष्ट्यैवेति। मन्दा भवति दृष्टिर्यया सा मन्ददृष्टिः, तया। माययेत्यर्थः। अथवाऽसम्भवपरिहारार्थमुक्तम् मन्ददृष्ट्यैवेति। मन्दा चा सा दृष्टिश्च मन्ददृष्टिर्भ्रान्तिः, तयेत्यर्थः। भ्रान्तेरपि याथार्थ्याद् विश्वसत्यत्वापत्तिरित्यत उक्तम् मृषेति। तदेतन्मिथ्याप्रप्रञ्चारोपाधिष्ठानत्वमेव ब्रह्मणः “प्रकृतिश्च” त्यादिना कथ्यत इति।
एतदुक्तं भवति “प्रकृतिश्च” इत्यादिसूत्रैरुक्तरीत्या ब्रह्मणो जगदुपादानत्वमुच्यते। उपादानत्वं च न परिणामितया। अपितर्हि? अविद्यापरिणाममृषाविश्वभ्रमाधिष्ठानत्वेनैव। अतो नोक्तदोष इति।
॥ मायामते अविद्याया अनुपपन्नताव्युत्पादनम्॥
दूषयितुमुपक्रमते कथ्यत इति। यद् ब्रह्म विवर्तवादिना कथ्यते, तस्य दूषणं कथ्यत इत्यावृत्त्या योजनीयम्। तच्च नेति नञनुवृत्तिर्वा कर्तव्या। कुतो नेत्यतो विकल्पेन पृच्छति सेति।
सा मन्ददृष्टिस्तस्यैव ब्रह्मणः किं ततोऽन्यगा।
विश्वस्य ब्रह्मविवर्तत्वे निराकर्तव्ये मन्ददृष्ट्याश्रयप्रश्र्नोऽसङ्गत इत्यत उक्तम् सेति। एकस्य तत्त्वाप्रच्युतस्य पूर्वविपरीतासत्यानेकरूपावभासलक्षणविवर्ततया, तदुपादानतया चोक्तेत्यर्थः। मन्ददृष्टावाश्रयानिरूपणादिना निराकृतायां सर्वमिदं निराकृतं भवतीति भावः। तस्यैव यदवष्टम्भो विश्र्वो विवर्त इत्यर्थः। ततोऽन्यगा जीवगतेत्यर्थः। किंशब्दस्योभयतः सम्बन्धः।
॥ अविद्याश्रयविषये मायावादिनां मतभेदाः॥
मायावादिनो हि केचिद् ब्रह्मैव स्वाविद्यया जगदाकारेण विवर्तते स्वप्नादिवदिति मन्यन्ते। बिम्बस्थानीयं ब्रह्म मायाशक्तिमत् कारणम्, जीवाश्च प्रत्येकमविद्यानुबद्धा इत्यपरे। मायाविद्याप्रतिबिम्बितं ब्रह्म जगत्कारणम्, विशुद्धं ब्रह्मामृतत्वालम्बनम्, जीवाश्चाविद्यानुबद्धा इत्यन्ये। जीवा एव स्वाविद्यया प्रत्येकं प्रपञ्चाकारेण ब्रह्म विभ्राम्यन्ति, सादृश्याच्च प्रपञ्चैकतावभासः, अनेकावगतद्वितीयचन्द्रवत्, स्वरूपापेक्षया च ब्रह्म जगत्कारणमित्येके।
॥ अविद्यापरिणाममृषाविश्वविषयकभ्रान्तेः ब्रह्माश्रितत्वे तस्य असार्वज्ञ्यप्रसङ्गः॥
तत्रावान्तरभेदमविवक्षित्वा द्वेधैव विकल्पितम्। इह जीवगेत्यनुक्त्वा ततोऽन्यगेति वदता स जीवः किं ब्रह्मणोऽन्यः, अनन्यो वेत्यपि विकल्पः सूचितः। तत्र द्वितीयः प्रथमे प्रविशतीति तं दूषयति ब्रह्मणश्चेदिति।
ब्रह्मणश्चेत् क्व सार्वज्ञ्यमन्यगा चेत् स्वतोऽन्यता॥७७॥
यदि ब्रह्मणो विश्वभ्रमः, तदा भ्रमस्य विशेषाज्ञानूपर्वकत्वात् तदपि ब्रह्मणोऽङ्गीकरणीयम्। तथाच तस्य सार्वज्ञ्यं न स्यात्। यदि च न ब्रह्मणि सार्वज्ञ्यम्, तर्हि क्व तत् स्यात्? न तावज्जीवे, अनुभवविरोधात्। नापि जडे, ज्ञानमात्रासम्भवात्। तथाच “यः सर्वज्ञः” इत्यादिश्रुतिवैयर्थ्यं स्यात्।
ननु सार्वज्ञ्यमपि ब्रह्मणो भ्रान्त्यैवेति चेत्, न। यादृशतादृशस्यापि विशेषाज्ञानविरोधित्वात्। अन्यथा शुक्तिज्ञानवतोऽपि तदज्ञानं न विरुद्ध्येतेति भ्रमानुच्छेदप्रसङ्गः। उपलक्षणं चैतत्। ब्रह्मणो विशेषाभावात् तदनवभासनिमित्तो भ्रमो नोपपद्यते। स्वरूपं तु स्वप्रकाशतया सिद्धम्। असिद्धत्वे च सुतरां विभ्रमानुपपत्तिः, अधिष्ठानानुपलम्भादित्यपि द्रष्टव्यम्।
॥ विश्वभ्रान्तेः जीवाश्रितत्वाङ्गीकारे अद्वैतभङ्गः॥
द्वितीयस्याऽद्यं दूषयति अन्यगा चेदिति। यदि ब्रह्मव्यतिरिक्तजीवाश्रया विश्वभ्रान्तिरङ्गीक्रियते, तदा भ्रान्त्याश्रयस्य भ्रान्तिकल्पितत्वायोगात् जीवब्रह्मणोरन्यता स्वाभाविकीत्यापन्नम्। ततश्चापसिद्धान्त इति।
॥ परमते प्रकृत्यधिकरणस्य निर्विषयत्वेन अनारम्भणीयत्वम्॥
नन्वस्तु जीवब्रह्मभेदो वास्तवः। अनात्मप्रपञ्चोऽस्तु भ्रान्तिकल्पितो ब्रह्मणीत्यत आह नेति।
नादेहयोगिनो दृष्टिरिति तत् कारणं स्वतः।
देहिनः कारणयुता देहाश्च यदि न भ्रमात्॥७८॥
किं भ्रान्तिकल्पितं तत्र................।
यद्यपि नैवं मायावादिनो मन्यन्ते। तथाऽपि सूत्रार्थनिराकरणाय प्रवृत्तस्य तत्रैवानुपपत्तिव्युत्पादनं श्र्लाघ्यमित्ययमारम्भः। न केवलं ब्रह्मव्यतिरिक्तानां जीवानामकल्पितत्वम्, किन्तु देहयोगरहितस्य इन्द्रियाभावात् पदार्थदर्शनं न सम्भवतीत्यतो हेतोरारोपकारणमिन्द्रियम्, तदाश्रयो देहश्च कल्पनां विनैवास्तीत्यङ्गीकरणीयम्। नहि सुखादिवद् रजतादिवद् वाऽस्य प्रपञ्चस्य साक्षिमात्रसिद्धत्वं परो मन्यते, देहेन्द्रियाणामप्युत्पत्तिमत्त्वात्। तत् कारणं च स्वत इत्यङ्गीकरणीयम्।
अस्तु ब्रह्मव्यतिरिक्तानां जीवानां सकारणानां तदीयदेहेन्द्रियाणां चाभ्रान्तिकल्पितत्वम्। द्रष्टृत्वेन, दर्शनकरणत्वेन, तदाश्रयत्वेन, तत्कारणत्वेन च भ्रान्तेः पूर्वभावित्वात्। तदतिरिक्तस्तु प्रपञ्चोऽस्तु भ्रान्तिकल्पित इत्यत आह देहिन इति। कारणशब्देन ज्ञानकारणानामिन्द्रियाणाम्, देहेन्द्रियकारणानां च ग्रहणम्। भ्रमात्। सिद्धा इति शेषः। किमाक्षेपे। तत्र तर्हि प्रपञ्चे ब्रह्मणीति वा। अनन्तजीवसकारणकदेहेन्द्रियातिरिक्तस्य प्रपञ्चस्य अभावात्। विषयाणामपि देहेन्द्रियनिर्वाहार्थत्वादिति भावः। तथाच न केवलमपसिद्धान्तः, “प्रकृतिश्च” इत्यादिसूत्राणां निर्विषयत्वापत्तिश्च स्यादिति शेषः।
॥ भ्रमाज्ञानजीवभेदानामन्योन्यसापेक्षत्वात् चक्रकापत्तिः॥
ननु “अन्यगा चेत् स्वतोऽन्यता” इत्ययुक्तम्। जीवब्रह्मभेदस्यापि भ्रान्तिसिद्धत्वात्। भ्रान्त्या ब्रह्मणो भिन्नस्य जीवस्य बाह्याध्यात्मिकार्थभ्रम इति हि मन्यत इत्यत आह भेदोऽपीति।
..................भेदोऽपि भ्रमजो यदि।
भ्रान्तेरज्ञानमूलत्वात् तस्य भेदव्यपेक्षया॥७९॥
नाज्ञानकल्पकं किञ्चिदन्योन्याश्रयता यतः।
 न केवलं प्रपञ्चः, किन्तु जीवब्रह्मणोर्भेदोऽपि यदि भ्रमजो भ्रमसिद्धोऽङ्गीक्रियते, तदाऽन्योन्याश्रयता स्यादिति सम्बन्धः। अत्रान्योन्याश्रयताशब्देन चक्रकमुच्यते।तस्यापि बहुष्वन्योन्याश्रयत्वात्। कथमन्योन्याश्रयता इत्यत उक्तम् भ्रान्तेरिति। भ्रान्तेर्जीवब्रह्मभेदहेतोर्भावरूपाज्ञानकारणकत्वात्। तस्याज्ञानस्य च भेदसापेक्षत्वात्। अज्ञानमनादित्वात् कथं भेदव्यपेक्षया स्यादित्यत उक्तम् नेति। यतो ब्रह्मव्यतिरिक्ताज्जीवादृते नाज्ञानकल्पकं किञ्चिदस्ति।
एतदुक्तं भवति जीवब्रह्मणोर्भेदो यया भ्रान्त्या सिद्धः, सा तावदज्ञानापेक्षा। भ्रान्तेः स्वरूपतो विषयतश्चाज्ञानकार्यताङ्गीकारात्। यद्यपि भेदविषया भ्रान्तिः साक्षिचैतन्यम्, तथाऽपि तस्यासङ्गस्य आरोपितार्थसंसृष्टरूपता नाज्ञानेन विनोपपद्यते। तच्चाज्ञानं भेदसापेक्षम्। अनादित्वेऽपि भ्रान्तिकल्पितत्वस्याङ्गीकृतत्वात्। अन्यथा सत्यतापातात्। भ्रान्तेश्च जीवाश्रितत्वस्याङ्गीकृतत्वात्। भेदकल्पनया विना च जीवस्याभावात्। नचाविद्यारोपो ब्रह्मण्येवेति युक्तम्। सर्वस्यापि तदाश्रयत्वोपपत्तौ अर्धजरतीयानुपपत्तेः। अतो भ्रमाज्ञानजीवभेदानामन्योन्यसापेक्षत्वाच्चक्रकमिति।
॥ भेदभ्रान्त्योरन्योन्यसापेक्षत्वादन्योन्याश्रयता॥
अथवा भेदस्य भ्रान्तिकल्पितत्वे, भ्रान्तेश्च भेदसापेक्षत्वादन्योन्याश्रयत्वमनेनोक्तम्। व्युत्पादनार्थमेवाज्ञानं मध्ये निवेशितमिति द्रष्टव्यम्। अनेन जीवाज्ञानपक्षोऽपि निरस्तः। इतरेतराश्रयादिदोषसाम्यात्। बीजाङ्कुरवददोष इति चेत्, न। वैषम्यात्। व्यक्तिभेदेन हि तत्रादोषत्वम्। नच जीवाविद्याव्यक्तिभेदोऽस्तीति।
यदुक्तं “नादेहयोगिनः” इत्यादि तदनुपपन्नम्। देहादेरपि भ्रान्तिकल्पितत्वात्। नच तत्र कारणाभावः, पूर्वदेहादेर्विद्यमानत्वात्। नचैवमनवस्था, अनादित्वादिति। मैवम्। आदिसर्गे देहादिदर्शनानुपपत्तेः। नह्ययं साक्षिमात्रसिद्धोऽर्थ इत्युक्तम्। किञ्च स्यादयमनवस्थापरिहारः, यदि पूर्वपूर्वतरादिदेहादेरपि भ्रान्तिसिद्धत्वं प्रमितं स्यात्। अन्यथा एवं सर्वत्रानवस्थापरिहारः प्रसज्येत। नचात्र प्रमाणमस्ति।
॥ “नेह नाना’ इत्यादिश्रुतेः प्रपञ्चमिथ्यात्वपरत्वे तस्या अर्थप्रत्यायकत्वाभावप्रसङ्गः॥
ननु कथं नास्ति? “नेह नाना” इत्यादिश्रुतेर्विद्यमानत्वादित्यत आह भ्रमत्वे त्विति।
भ्रमत्वे त्वियमुक्तिश्च तदन्तःपतनान्नहि॥८०॥
यद्वा सर्वोऽप्ययं प्रसङ्गो विपर्ययपर्यवसानहीनत्वादाभास एव। “नेह नाना” इत्यादिश्रुत्या सर्वस्यापि वियदादेः प्रपञ्चस्य भ्रान्तिकल्पितत्वाभिधानादित्याशयेदमुदितम्। उपपत्त्यविरुद्धो हि वेदार्थो ग्राह्यः। अन्यथा “अन्धो मणिमविन्दत्’ इत्यादेरपि ग्रहणप्रसङ्गात्। विचारशास्त्रानारम्भप्रसङ्गाच्च।
“नेह नाना” इत्यादिवाक्यं चोपपत्तिविरुद्धम्। तथाहि यदि वियदादिकं सर्वं भ्रमसिद्धं स्यात्, तदा तदन्तःपातित्वादियं श्रुतिश्च तथा स्यात्। भ्रमारोपितं चासदिति श्रुतेरप्यसत्त्वान्नार्थधीहेतुत्वमिति। भ्रमशब्दो ज्ञाने, अर्थे च परेषां प्रसिद्ध इति भ्रमत्व इत्युक्तम्। यद्यप्ययमर्थः प्रथमसूत्रे वर्णितः, (४९) तथाऽपि तत्राऽध्यात्मिकः प्रसङ्गः, अत्र तु बाह्यविषय इति भेदः। अधिकविवक्षया चोक्तस्य पुनरुक्तिरिति।
॥ प्रपञ्चस्य व्यावहारिकसत्यत्वाङ्गीकारे बाध्यत्वाभावप्रसङ्गः॥
ननु सर्वोऽप्ययं प्रपञ्चो भ्रान्तिसिद्धोऽपि व्यावहारिको भवत्येव। अतस्तदन्तःपतिता श्रुतिरपि व्यावहारिकत्वादर्थधीहेतुर्भविष्यतीत्यत आह व्यावहारिकतेति।
व्यावहारिकता चास्य स्यादबाध्यत्व एव हि।
चस्त्वर्थः। स्यादप्येवं यदि प्रपञ्चस्य व्यावहारिकता तावच्छक्याङ्गीकारा स्यात्। नचैवम्। यतोऽस्य प्रपञ्चस्य व्यावहारिकता त्वबाध्यत्व एव स्यात्।
एतदुक्तं भवति यदि प्रपञ्चो व्यावहारिकोऽङ्गीक्रियते, तर्ह्यबाध्योऽप्यङ्गीकर्तव्यः प्रसज्येत। नच तथाऽङ्गीक्रियते भवता। अतो न व्यावहारिकोऽप्यङ्गीकर्तुमुचित इति। सत्यत्वाङ्गीकारापादने त्विष्टापादनं स्यात्। परेणापि कथञ्चित् सत्यत्वस्याप्यङ्गीकृतत्वात्। अतोऽबाध्यत्व एवेत्युक्तम्।
॥ अर्थक्रियाकारित्वस्य व्यावहारिकपदेन विवक्षितत्वात् न शुक्तिरजतादौ व्यभिचारः ॥
ननु शुक्तिरजतादेर्बाध्यस्याप्यभिज्ञाभिवदनरूपव्यवहारविषयत्वाद् व्याप्तिहीनोऽयं तर्क इत्यत आह बाध्यमिति।
बाध्यं नार्थक्रियाकारिनच स्वप्नोऽपि नो मृषा॥८१॥
सत्यम्, बाध्यं शुक्तिरजतादिकमभिज्ञादिव्यवहारविषय इति। तथाऽप्यर्थक्रियाकारि न भवति। नहि तेन रजतोचिता वलयनिर्माणाद्यर्थक्रिया जायमाना दृष्टा। अर्थक्रियाकारित्वलक्षणमेव व्यावहारिकत्वमिह प्रकृतम्। नाभिज्ञादिविषयत्वम्। श्रुतेरर्थधीजनकत्वोपपादनाय उपन्यस्तत्वात्। अतो न तर्कस्याङ्गवैकल्यमिति।
ननु बाध्यत्वं शुक्तिकाद्यधिष्ठानस्य धर्मः। “विज्ञातस्यान्यथा” इत्युक्तत्वात्। शुक्तिकादिकं चार्थक्रियाकारीति कथमुच्यते बाध्यं नार्थक्रियाकारीति। मैवम्। निषेध्यत्वलक्षणबाध्यत्वस्य पराभ्युपगतस्यात्राऽश्रयणात्।
॥ सिद्धान्ते स्वाप्नपदार्थानां सत्यत्वाभ्युपगमात् न तत्र व्यभिचारशङ्का॥
ननु तथाऽप्यसत्यस्य स्वाप्नकामिनीसम्भोगादेश्चरमधातुविसर्गाद्यर्थक्रियाकारित्वदर्शनाद् व्याप्तिविकलस्तक इत्यत आह नचेति। स्वप्न इति स्वप्नावस्थोपलब्धोऽर्थः। नोऽस्माकं बादरायणीयानां मते। तर्हि मम मतेन व्याप्तिभङ्गोऽस्तु। मया मृषात्वेनाङ्गीकृतत्वादिति चेत्, न। बादरायणीयेन तथा अङ्गीकर्तुमशक्यत्वात्।
॥ स्वाप्नपदार्थानां सत्यत्वस्य वेदसूत्रसिद्धत्वम्॥
ननु कथं बादरायणस्य न मृषा स्वप्न इत्यत आह वासनेति।
वासनाजनितत्वेन तस्याप्यङ्गीकृतत्वतः।
स हि कर्तेति वाक्याच्च..............॥८२॥
तस्य स्वप्नस्यापि “मायामात्रम्” इति वदता सूत्रकारेण वासनाजनितत्वेनाङ्गीकृतत्वादिदं ज्ञायते यत् न तस्य स्वप्नो मृषाऽभिमत इति। नहि कश्चिदविद्यमानस्य कारणं निरूपयेत्।
किञ्च श्रुत्यनुसारी हि सूत्रकारस्य सिद्धान्तः स्यात्। श्रुत्या च स्वाप्नार्थस्य कर्तारं वदन्त्या सत्यत्वमेवाभिप्रेतमिति न मृषात्वं सूत्रकृतोऽभिमतमित्याह स हीति।
ननु कथं स्वप्नो न मृषा? “मायामात्रम्” इति सूत्रकृतैव तन्मिथ्यात्वस्य वक्ष्यमाणत्वादित्यतो वाऽऽह वासनेति। न मायामात्रपदेन स्वप्नस्य मृषात्वमभिमतम्, किन्तु वासनाजनितत्वम्। अतो न मृषेत्यर्थः। यथाचैतत् तथोपपादयिष्यते। (९२२) तस्याऽगामिनः सूत्रस्य वासनाजनितत्वप्रतिपादकत्वेन अस्माभिरङ्गीकृतत्वादिति वा योज्यम्। न केवलं वक्ष्यमाणोपपत्तिवशान्मृषात्वं न सूत्रार्थः, किन्तु श्रुतिवशाच्चेत्याह स हीति।
॥ स्वाप्नपदार्थानां सोपादानत्वात् सकर्तृकत्वाच्च न मिथ्यात्वम्॥
यद्वा स्वाप्नार्थो न तावदनादिनित्यः, पश्चाददृष्ट्यादिविरोधात्। नापि सादिविनाशी, उपादाननिमित्तयोरनिरूपणात्। नच प्रकारान्तरं सम्भवति। तत् कथं न मृषेत्यत आह वासनेति। नोपादानाभाव इति शेषः। “न मृषा” इति पूर्वेण वा सम्बन्धः। एवमुपादानं निरूप्य निमित्तमुपपादयति सहीति। निमित्तं चेश्वरो ज्ञायत इति शेषः। “न मृषा” इति पूर्वेणैव वाऽन्वयः।
॥ स्वप्नकाले जाग्रत्त्वादिप्रत्ययानां भ्रान्तित्वम्॥
ननु कथन्तर्हि “स्वप्नमायासरूपा” इत्यादौ भ्रान्तित्वोक्तिरित्यत आह जाग्रत्त्वमिति।
............... जाग्रत्वमिति हि भ्रमः॥८२॥
इतिशब्द आद्यर्थे, उल्लेखार्थे वा। जाग्रदहमस्मीति द्रष्टुर्यज्जग्रत्त्वम्, यच्चैतत् पदार्थानां जाग्रद्दृशा दृष्टपदार्थैरैक्यम्, बाह्यमृदादिजन्यत्वं वा एवमादिप्रतिभासो भ्रमः। बाध्यत्वादिति हिशब्दार्थः। तदपेक्षया श्रुत्यादिवचनानीति भावः।
॥ सर्पभ्रमादौ ज्ञानस्यैव भयकम्पाद्यर्थक्रियाकारित्वम्, न सर्पस्य॥
ननुच रज्जौ सर्पभ्रमेऽसत्यस्यापि सर्पस्य सर्पोचितभयकम्पाद्यर्थक्रियाकारित्वं दृश्यते, तथा सर्पे समारोपितायाः कुसुममालायाः सन्तोषकारिता उपलभ्यते, अतो व्याप्तिभङ्गस्तकस्येत्यत आह सर्पेति।
सर्पभ्रमादावपि हि ज्ञानमस्त्येव तादृशम्।
तदेवार्थक्रियाकारि तत् सदेवार्थकारकम्॥८३॥
“मा भूदत्र सर्पः’ इतिवत् “न सर्पज्ञानमभूत्’ इति बाधकानुदयात्। अभूदेवेत्यनुवृत्तेश्च। भ्रमत्वस्य विषयवैपरीत्यमात्रेणोपपत्तेरिति हिशब्दार्थः।
किमतो यदि ज्ञानमस्त्येवेत्यत आह तदेवेति। एवशब्देन सर्पादिकं व्यावर्तयति। सत्यपि सर्पादौ असति च ज्ञाने भयकम्पाद्यनुत्पत्तेः। सति च तस्मिन् तदुत्पत्तेर्ज्ञानकार्यमेव भयकम्पादिकं न सर्पकार्यम्। तत्कार्यं त्वभिसर्पणदंशनादिकम्। मरणमपि धातुव्याकुलतानिमित्तकम्। सा च विषद्रव्येणेव भयादिनाऽपि भवतीति न बाध्यस्यापि सर्पादेरर्थक्रियाकारित्वम्।
॥ विषयावच्छिन्नज्ञानस्यैव अर्थक्रियाकारित्वेऽपि विषयस्य व्यावर्तकत्वमात्रम्,
न क्रियाकारित्वमित्यस्य दूषणम् ॥
ननु किं ज्ञानमात्रं भयादिजनकम्, किंवा विषयावच्छिन्नम्? नाऽद्यः, घटज्ञानस्यापि ज्ञानत्वेन तदापत्तेः। द्वितीये न तावद् विषयो रज्ज्वादिः। रज्जुरियमित्यादिज्ञानस्यापि भयादिहेतुतापातात्। सर्पादिश्चेत्, विशेषणतया तस्यापि भयादिहेतुत्वं प्राप्तम्।
अत्र कश्चिदाह नायं दोषः, ज्ञानव्यावर्तकतयोपयुक्तस्य सर्पादेर्विषयस्य ज्ञानजन्यार्थक्रियायामप्रवेशात्। नहि कुरूणां क्षेत्रे वसति, गुरूणां टीकां पठति इत्यादौ विशेषणस्यापि कारकत्वमस्ति। किन्त्वतिप्रसक्तयोः क्षेत्रटीकयोर्व्यावृत्तिमात्रेण चरितार्थत्वमिति। तदसत्। एवमपि बाध्यस्य सर्पादेः व्यावर्तकत्वस्यावश्यमभ्युपगमनीयत्वात्। व्यावृत्तिबुद्धिजनकत्वं हि व्यावर्तकत्वम्। तत्रापि ज्ञानाभ्युपगमेन परिहारे व्यावर्तकोपादानेन प्रसङ्गतादवस्थ्यमिति।
॥ विषयान्तर्भावमन्तरेण स्वगतेनैव विशेषेण ज्ञानस्यार्थक्रियाकारित्वम्॥
तत्राऽह तादृशमिति। यादृशं सत्यसर्पोल्लेखि ज्ञानं, तादृशमित्यर्थः। सत्यसर्पज्ञानं तावद् घटादिज्ञानाद् व्यावृत्तमनुभूयते। व्यावृत्तिश्च व्यावर्तकधर्मकृता सर्वत्रोपलब्धा। नच विषयो व्यावर्तकः, तस्यातद्धर्मत्वात्। सम्बद्धं हि व्यावर्तकं भवति। अन्यथा अतिप्रसङ्गात्। विषयसम्बन्धो व्यावर्तकोऽस्त्विति चेत्, न। तस्य संयोगादिरूपस्याभावात्। अतः कश्चिज्ज्ञानगत एव धर्मोऽभ्युपगन्तव्यः।
किञ्च विलक्षणसामग्रीजन्मनोर्ज्ञानयोर्यथा परोक्षत्वापरोक्षत्वरूपो विशेषो विषयोपाधिना विना अभ्युपगम्यते, एवमपरोक्षज्ञानेऽपि कथं स्वगतो विशेषो नाङ्गीकरणीयः, अपिच सर्पज्ञानस्य विलक्षणार्थक्रिया न स्वगतेनातिशयेन विनोपपद्यते। नहि देवदत्तसम्बन्धितामात्रेण कलमबीजं कलमबीजान्तरकार्यविलक्षणं कार्यमुपजनयति। स चायं विशेषः सत्यसर्पज्ञाने समीचीनया सामग्र्या जातः, मिथ्यासर्पज्ञाने त्वसमीचीनया इति न कश्चिद् विशेषः। अतो विषयान्तर्भावमन्तरेण स्वगतेनैव विशेषेण सर्पादिज्ञानस्य भयादिजनकत्वान्न सर्पस्य किञ्चित्करत्वमिति। तदेवं यत्रार्थक्रिया निश्चिता न तत्र मिथ्यात्वम्, यत्र तु मिथ्यात्वं न तत्रार्थक्रियेति न तर्कमूलव्याप्तेः क्वापि भङ्ग इत्युपसंहरति तदति।
॥ ब्रह्मणः क्रियावेशशून्यत्वेन अर्थक्रियाकारित्वाभावादसाधारण्यमित्याशङ्कापरिहारः॥
नन्वर्थक्रियाकारित्वं यथा विपक्षान्मिथ्याभूताद् व्यावृत्तम्, एवं सपक्षात् सत्याद् ब्रह्मणोऽपि व्यावृत्तत्वादसाधारणम्। नच ज्ञानस्य सत्यस्यार्थक्रियोक्तेति वाच्यम्, तस्यापि प्रपञ्चान्तर्भावेन विप्रतिपन्नत्वादित्यत आह ब्रह्म त्विति।
ब्रह्म त्वर्थक्रियाकारि परतः स्वत एव वा।
अङ्गीकृतं हि तेनैव परतस्त्वे नच प्रमा॥८४॥
तेन मायावादिनैव ब्रह्म प्रपञ्चादप्यतिशयेनार्थक्रियाकार्यङ्गीकृतमेव हि। जन्मादिसूत्रे जगत्कारणत्वेन उक्तत्वात्। अतः सपक्षप्रवेशित्वान्नासाधारण्यं मन्तव्यम्।
ननु मयाऽङ्गीक्रियमाणं ब्रह्मणोऽर्थक्रियाकारित्वं न स्वाभाविकम्। किन्तु परत एव मायायां तदापतत इत्यङ्गीकारात्। अतः कथमापादकस्य सपक्षप्रवेश इत्यत आह परत इति। अङ्गीकृतं तावदर्थक्रियाकारित्वं ब्रह्मणः, तत् स्वतः परतो वाऽस्तु। किमनेन प्रकृतानुपयुक्तेन? नहि स्वतोऽर्थक्रियाकारित्वमापादकत्वेनास्माभिरभिहितम्, परेण वा प्रस्तावितम्। अन्यथा सामान्यतः प्रयुक्तस्य धूमादेर्विशेषाकारेण सपक्षाप्रवेशितयाऽसाधारण्यस्य वक्तुं शक्यत्वेन तद्भङ्गः स्यात्।
॥ ब्रह्मणः अर्थक्रियाकारित्वस्य मायाकल्पितत्वे प्रमाणाभावः॥
स्यादेतत्। ब्रह्मणोऽर्थक्रियाकारित्वं परत इत्यस्य नायमर्थः दारुयन्त्रस्येव पराधीनमिति, नापि कुलालस्येव प्रयोजनाद्यपेक्षमिति। किन्तु गगने मिलनतेव निष्क्रिय एव ब्रह्मणि मायासम्बन्धादर्थक्रियाऽवभासत इति। नचैवंविधेन सपक्षप्रवेशो भवत्यापादकस्येत्यत आह परतस्त्व इति। ब्रह्मणोऽर्थक्रियाकारित्वस्येति शेषः। परतस्त्वे निरूपितरूपे। प्रमा प्रमाणम्।
अयमत्राऽशयः ब्रह्मणो जगन्निर्माणाद्यर्थक्रिया प्रतीता, नवा? नचेत् कथं लक्षणत्वेनोच्यते? कस्य च मायामयत्वमङ्गीक्रियते? प्रतीतत्वेऽपि न तावत् प्रत्यक्षानुमानाभ्याम्। तदगोचरत्वात्। अतः श्रुत्यैवेति वक्तव्यम्। तथाच कथं मायिकत्वम्? तत् किं श्रुतिप्रतीतं सर्वमेव सत्यम्? अद्धा। बाधकाभावे तथैव। नच ब्रह्मणोऽर्थक्रियायाः परतस्त्वे प्रमाणमस्ति, यद् बाधकं भवेत्। बाधकाभावमात्रेण कथं सत्यार्थत्वमिति चेत्, प्रामाण्यस्य स्वतस्त्वादिति ब्रूमः। परतस्त्वे च प्रामाण्यस्यानवस्थापातेन न प्रमा निश्चीयेत। सन्ति “निष्कलं निष्क्रियम्” इत्यादिश्रुतयो बाधिका इति चेत्। एवं श्रुतिबलेन परस्त्वेऽर्थक्रियायाः स्वीकृते तदभिधात्री “स इदं सर्वमसृजत” इत्यादिश्रुतिर्न प्रमा स्यात्। प्रतिपादितार्थमिथ्यात्वातिरिक्तस्याप्रामाण्यस्याभावात्। किञ्चाविशेषात् “निष्कलं निष्क्रियम्” इति श्रुतिरेतच्छ्रुतिविरोधात् परतस्त्वे न प्रमेति किं न स्यात्? अन्यदुत्तरत्र वक्ष्याम इति।
॥ व्यावहारिकसतः साधकत्वायोगः॥
नन्वस्त्वबाध्यमेवार्थक्रियाकारि। प्रपञ्चमप्यबाध्यमङ्गीकरोमि। आत्यन्तिकाबाध्यत्वाभावेऽपि प्राग् ब्रह्मात्मैक्यज्ञानादबाध्यत्वात्। अतस्तदन्तर्गता श्रुतिरप्यमुख्यसत्यत्वात् साधिका भविष्यतीत्यत आह अमुख्येति।
अमुख्यसत्यमानस्य साधकत्वे सदाऽऽवयोः।
नहि सम्प्रतिपत्तिः स्यादतस्तिष्ठतु सा प्रमा
नहि विप्रतिपन्नेन शक्यं साधयितुं क्वचित्॥।८५॥
सदेत्यनेनास्य प्रमेयस्य प्रागेवोपपादितत्वमित्याचष्टे। (६३)ततश्च पुनरुक्तिदोषः परिहृतो भवति। तिष्ठतु न वक्तव्येति यावत्। सा प्रमा ब्रह्मज्ञानबाध्यं प्रमाणमित्यर्थः। यस्मात् सा श्रुतिरप्रमा तस्मात् तिष्ठत्विति वा। प्रपञ्चमिथ्यात्वं हि तदर्थः। नचासौ ब्रह्मस्वरूपम्। सोपाधिकत्वात्। ततोऽस्य बाध्यत्वमावश्यकम्। बाध्यार्थं चाप्रमाणमिति प्रसिद्धमेव। बाध्यार्थत्वेऽपि प्राग् ब्रह्मज्ञानादबाध्यार्थत्वेन प्रामाण्यमस्त्वित्यत उक्तम् अमुख्येति। सत्यमबाध्यार्थम्। नहि कालविलम्बेन बाधितार्थं प्रमाणं भवतीति वक्ष्यामः। (९७५, १३१५)
अस्त्वेवं स्वरूपतो विषयतश्चासत्यत्वात् साधकत्वेन विप्रतिपन्ना श्रुतिः, तथाऽपि प्रपञ्चमिथ्यात्वसाधनाय तदुपन्यासः कुतो न कार्य इत्यत आह नहीति। तथात्वे स्वरूपासिद्धकालातीतयोरप्युपन्यासःस्यात्। आरोपमात्रस्य तत्रापि सुलभत्वादिति भावः।
॥ सत्यत्वेन उभयवादिसम्प्रतिपन्नेन साक्षिणा प्रपञ्चसत्यत्वसाधनम् ॥
स्यादेतत्। आस्तामियं प्रमाणसदसत्त्वचिन्ता। प्रमाणेनैव प्रमेयसिद्धेः। अन्यथा भवतामपि प्रपञ्चमिथ्यात्वनिराकरणे तत्सत्यत्वसाधने च प्रमाणाभावेन कथाभावप्रङ्गात्। युष्माभिरुपन्यस्यमानं प्रमाणं सत्यमसत्यं वा स्यात्। न तावत् सत्यं मां प्रति वक्तुमुचितम्, मया सत्यस्य साधकत्वानङ्गीकारात्, यत् सत्यं न तत्र क्रियावेशः, यत्र च क्रियावेशो न तत् सत्यमिति। नच वाच्यम् साक्षिणः सत्यस्य साधकत्वं त्वयाऽङ्गीकृतमिति। कथञ्चित् सुखादौ तस्य शक्योपन्यासत्वेऽपि बाह्यप्रपञ्चे तदयोगात्। बाह्यप्रमाणविषयो ह्यसौ। अन्यथाऽन्धबधिराद्यभावप्रसङ्गात्। स एव चात्र प्रकृत इति। नाप्यसत्यम्, भवद्भिरनङ्गीकृतत्वादित्यत आह साधकत्वमिति।
साधकत्वं तु सत्यस्य साक्षिणो ह्यावयोर्द्वयोः।
सम्यक् सम्प्रतिपन्नं तन्न विवर्तमतं भवेत्॥८६॥
सत्यस्य त्विति सम्बन्धः। सम्यगिति मुख्यत एव, नत्वधिकरणसिद्धान्तत्वेन। हिशब्दः सर्वं वस्तु ज्ञाततयाऽज्ञाततया वा साक्षिचैतन्यस्य विषय एवेत्यादितत्प्रसिद्धिद्योतकः। तदित्यव्ययम्। तेन साक्षिणा। विश्वविवर्तमतं न भवेत्। निराकुर्म इति यावत्। उपलक्षणं चैतत्। विश्वस्य सत्यतामपि तेनैव साधयाम इत्यपि द्रष्टव्यम्। तथाच वक्ष्यते। (४१७)
॥ प्रमाणप्रमेयादिव्यवस्थाद्यनङ्गीकारे वादित्वाभावप्रसङ्गः॥
न काऽपि प्रमाणप्रमेयादिव्यवस्था मयाऽङ्गीकृता। किन्तु परकीयरीत्यैव सर्वमुच्यते। तत् कथं किमप्यनङ्गीकुर्वाणं मां प्रति साक्षिणः साधकत्वं त्वयाऽङ्गीकृतमित्युच्यत इत्यत आह यदीति।
यदि नाङ्गीकृतं किञ्चिदनङ्गीकृतताऽपि हि।
नाङ्गीकृतेति मूकः स्यादिति नास्मद्विवादिता॥८७॥
न विद्यतेऽङ्गीकृतमङ्गीकारो यस्येत्यनङ्गीकृतः। तस्य भावोऽनङ्गीकृतता। अनङ्गीकारित्वमित्यर्थः। इतिशब्दद्वयं हेतौ। यदि परो ब्रूयात् “मया किञ्चिन्नाङ्गीकृतम्’ इति। तदाऽसौ वक्तव्यः सर्वथा अनङ्गीकृतत्वमात्मनस्त्वयाऽङ्गीकृतम्, नवा? आद्ये किञ्चिदपि नाङ्गीकृतमिति पक्षहानेः आत्मनोऽनङ्गीकर्तृताऽपि नाङ्गीकृतेति द्वितीय एवाङ्गीकरणीयः। तथाचासौ मूकः स्यात्। अङ्गीकारानङ्गीकारोदासीनस्य मृतकस्येव वाक्प्रवृत्तेरयुक्तत्वात्। ततश्च मौनमवलम्बमानस्य नास्मत्प्रतिवादितेति किमत्र वक्तव्यम्?
सत्यमेतत्। वस्तुतस्तु वयं सर्वतो निवृत्ताः, स्वतः सिद्धे चिदात्मनि ब्रह्मतत्वे केवले भारमवलम्ब्य चरितार्थाः सुखमास्महे। ये तु स्वपरिकल्पितसाधनदूषणादिव्यवस्थया विचारमवतार्य तत्वं निर्णेतुमिच्छन्ति तान् प्रति ब्रूमः न साध्वीयं भवतां विचारव्यवस्थेति। मैवम्। एवमपि परकीयविचारव्यवस्थितेरसाधुत्वस्यावश्यमङ्गीकरणीयत्वात्। अन्यथा तद्व्युत्पादनं व्यर्थं स्यात्।
अथ तन्मात्रमङ्गीकृत्य प्रमाणादिव्यवस्था नाङ्गीकृतेति मन्यसे। तन्न। प्रमाणादिना विना परव्यवस्थाया असाधुत्वस्य व्युत्पादयितुमशक्यत्वात्। भवत्कल्पितव्यवस्थयैव व्याहतत्वादसध्वी भवद्व्यवस्थेति ब्रूमो न पुनरत्र किमपि प्रमाणमङ्गीकुर्म इति चेत्, न। यत् स्वाभ्युपगतव्यवस्थाविरुद्धं तदसाध्वित्यस्यापि प्रमाणस्याङ्गीकर्तव्यत्वात्।
एतदपि परेणाभ्युपगतमेवाऽश्रीयत इति चेत्, न। किं परकीयव्यवस्थाया असाधुत्वं स्वयमवबुद्ध्य परं प्रति बोद्ध्यते, अनवबुद्ध्यैव वा? द्वितीये विप्रलम्भकत्वं स्यात्। विजिगीषुकथायामेवमेवेति चेत्, न। शिष्यस्यापि बोध्यत्वात्। आद्येऽस्मादन्यस्माद् वा प्रमाणात् स्वयं बोद्धव्यम्। तत् कथं प्रमाणाद्यनङ्गीकर्तृत्वम्। प्रमितिकरणत्वादिनोपादानस्यैव प्रमाणाद्यङ्गीकारित्वात्। तस्मात् सत्त्वासत्त्वाभ्युपगमोदासीनैः प्रमाणादिकमङ्गीकृत्योच्यत इति वक्तव्यम्। तच्च प्रागेव निरस्तमिति। (५८)
॥ विश्वसत्यत्वे श्रुत्यनुमानोपन्यासः॥
एवं विश्वस्य ब्रह्मविवर्तत्वं निराकृत्य तत्सत्यतायां प्रमाणमाह विश्वमिति।
विश्र्वं सत्यं यच्चिकेत प्रघान्वस्य यथार्थतः।
इत्यादिश्रुतयः सर्वा विश्वसत्यत्ववाचिकाः॥८८॥
यथार्थत इत्यनेन “कविर्मनीषी” इति श्रुतिमुपादत्ते। व्यावहारिकसत्यतापराः श्रुतय इति चेत्, न। “तत् सत्यम्” इत्यस्या अपि तथात्वप्रसङ्गात्। श्रुत्यन्तरविरोधादिति चेदत्रापि “असदेवेदम्” इति श्रुतिविरोधात्। अपुरुषार्थत्वान्न प्रपञ्चसत्यतायां तात्पर्यमिति चेत्, न। सत्यजगन्निर्मातृत्वादिपारमेश्वरमाहात्म्यज्ञानस्यैव पुरुषार्थहेतुत्वात्। निष्प्रपञ्चात्मज्ञानसाध्याद्वितीयतापत्तिरूपपुरुषार्थविरुद्धं प्रपञ्चसत्यत्वमिति चेत्, तर्हि ब्रह्मसत्यत्वमपि शून्यपरिभावनालभ्यशून्यतापत्तिलक्षणमोक्षविरुद्धमिति समानम्। तत् प्रमाणाननुगुणमिति चेत्। सममेतदपीति वक्ष्यामः। (११४६, १३१२) अनुमानमपि प्रपञ्चसत्यतायामर्थक्रियाकारित्वं द्रष्टव्यम्। (४१०) प्रागुक्ततर्कोपपादनेनैव अस्योपपादित्वादिति।
॥ वियदादिप्रपञ्चस्य साक्षिप्रत्यक्षसिद्धत्वम्॥
एवमागमानुमानाभ्यां सिद्धे विश्वसत्यत्वे प्रत्यक्षमप्याह सत्यत्वमिति।
सत्यत्वं गगनादेश्च साक्षिप्रत्यक्षसाधितम्।
चशब्दः प्रमाणसमुच्चये। न केवलमान्तरस्य सुखादेः किन्तु बाह्यस्य गगनादेश्चेति वा। तत्रापि गगनकालदिगादयः साक्षात् साक्षिसिद्धसत्यत्वाः। स्तम्भकुम्भादयस्तु वक्ष्यमाणेन प्रकारेणेति ज्ञापयितुं गगनादेरित्युक्तम्। अन्यथा विश्वस्य प्रकृतत्वात् तदेवात्रानुवर्तिष्यते किमनेन? साक्षीत्येवोक्ते साक्षिणोऽप्रामाण्यात्, प्रामाण्ये वा प्रमाणत्रित्वभङ्गात् न विश्वसत्यत्वं प्रमितमिति शङ्का स्यात्। तन्निवृत्त्यर्थं प्रत्यक्षेत्युक्तम्। तथाच वक्ष्यते। (५०२) प्रत्यक्षेत्येवोक्ते अतीन्द्रियार्थसत्यतायां न प्रमाणमुक्तं स्यात्। नच साक्षिणा विना बाह्यप्रत्यक्षमात्रेणैन्द्रियकाणामपि सत्यता सिद्ध्यतीत्यतः साक्षीत्युक्तम्। उभयवादिसिद्धं प्रमाणमस्मत्पक्षेऽस्तीत्युक्तेनैवास्यार्थस्य लब्धत्वात् साधितमित्याह। तथाऽपि तदुपपादनाय पुनरुपन्यासः।
॥ नैयायिकैः आकाशस्य चाक्षुषत्वप्रतिपादनम्, तन्निरासश्च॥
केचित् “इह विहङ्गमः पतति’ इति चक्षुर्व्यापारानन्तरं प्रतिभासनादाकाशादेश्चाक्षुषतामस्थित। तदनुपपन्नम्। रूपरहितद्रव्यत्वेन चाक्षुषतासामग्रीवैकल्यात्। अन्यथाऽऽत्मपवनयोरपि तत्प्रसङ्गत्। कथन्तर्ह्येष प्रतिभास इति चेत्, साक्षिसिद्धाकाशादिसम्बन्धितयेति ब्रूमः। दृष्टो हि प्रमाणान्तरोपनीतेनापि सुरभि चन्दनमित्यादिविशिष्टप्रत्ययः। परेषां च “इह भूतले घटाभावः’ इति।
अपर आह आलोकमण्डलमाश्रित्यायं प्रत्यय इति। तदसत्। इहाऽलोक इत्यपि प्रत्ययदर्शनात्। सोऽपि तदवयवानाश्रित्येति चेत्, न। लौकिकानामवयवाश्रयतयाऽवयविबुद्धेरभावात्। नहि ते हस्तादिषु शरीरमिति व्यवहरन्ति। किन्तु तदात्मकतयैव।
किञ्चैवमपि “नेहाऽलोकः’ इति “इहाऽलोकत्र्यणुकम्’ इति च प्रत्ययो दुःसम्पादः। प्रमाणान्तरोपनीतावयवमाश्रित्येति चेत्। एवन्तर्हि तथाभूतमाकाशादिकमेवाऽश्रित्य “इह पक्षी’ इत्यादिप्रत्ययः कुतो न समर्थनीयः? तथाच लौकिकानुभवोऽप्यनुसृतः स्यात्। तथाऽप्यनुमानवेद्यमाकाशमस्त्विति चेत्, न। लिङ्गाभावात्।
॥ नैयायिकैः शब्दाश्रयत्वेन आकाशसाधनम्॥
अथ मतम् शब्दस्तावत् प्रत्यक्षसिद्धः। स च गुणः, सामान्यवत्त्वे सत्यस्मदादिबाह्यैकेन्द्रियग्राह्यत्वात्; रूपवदिति। गुणत्वाद् द्रव्याश्रितः, तद्वदेवेति सामान्यतो द्रव्ये सिद्धे, शब्दो न स्पर्शवद्विशेषगुणः, प्रत्यक्षत्वे सत्यकारणगुणपूर्वकत्वात्, अयावद्द्रव्यभावित्वात्; सुखादिवत्। स्पर्शवद्गुणत्वे तदनुपलम्भप्रसङ्गः। शब्दो हि श्रोत्रेण प्राप्तो वा गृह्यते, अप्राप्तो वा? अप्राप्तग्रहणेऽतिप्रसङ्गः। प्राप्तिस्तु शब्दश्रवसोर्न सम्भवति। सा हि न तावच्छ्रोत्रस्य गमनेन सम्भवति। तस्यामूर्तस्य गतेरसम्भवात्। नापि शब्दस्याऽगमनेन। स हि न तावच्छङ्खादिकमाश्रयं परित्यज्याऽगन्तुमलम्। गुणत्वात्। नापि शङ्खाद्यागमनेन श्रोत्रस्य प्रत्यासत्तिः। तदनुपलम्भात्। नच शब्दान्तरोत्पादपरम्परया। गुणस्य स्वाश्रये स्वाश्रयाश्रिते वा गुणेऽसमवायिकारणत्वात्। नच शङ्खश्रवसोर्मध्ये शङ्खो वा तदारब्धद्रव्यं वाऽस्ति। तस्माच्छङ्खादिनिमित्तान्यपहायाऽश्रयान्तरे वर्तमानो वीचीतरङ्गन्यायेन कर्णशष्कुलीमन्तमाकाशदेशमासन्न उपलभ्यते नान्यथेति स्थितम्।
नाप्यात्मगुणः, बाह्येन्द्रियप्रत्यक्षत्वात्, आत्मान्तरग्राह्यत्वात्, आत्मन्यसमवायात्, अहङ्कारेण विभक्तस्य ग्रहणात्; रूपादिवत्। न दिक्कालमनसां गुणः, प्रत्यक्षत्वात्; विशेषगुणत्वाच्चेति प्रसक्तप्रतिषेधे परिशेषादेभ्योऽतिरिक्तं द्रव्यं सिद्ध्यति। तदाकाशमिति। तदयं प्रमाणार्थः शब्दोऽष्टद्रव्यातिरिक्तद्रव्याश्रितः, तद्वृत्तौ बाधकोपपन्नत्वे सति गुणत्वात्; रूपवदिति।
॥ अकाशस्य शब्दानुमेयत्वे जातिबधिराणां अकाशप्रतीत्यभावप्रसङ्गः॥
तदिदमयुक्तम्, जातिबधिराणामाकाशादिप्रतिभासानुपपत्तिप्रसङ्गात्। ततश्च “इहाऽलोको नास्ति’ इति प्रतीतिर्न स्यात्। मूर्तावकाशेन तेषामाकाशानुमानमिति चेत्, न। मूर्तान्तराभावेनान्यथासिद्धत्वात्। मूर्ताभावस्याधिकरणेन भाव्यमिति चेत्, सत्यम्। तथाऽपि तस्याप्रतीतावाश्रयासिद्धेः। प्रतीतौ च साधिकरणस्यैव प्रतीतत्वादनुमानानवकाशः।
॥ वर्णात्मकशब्दस्य पक्षत्वे गुणत्वहेतोरसिद्धिः॥
किञ्च शब्दो वर्णात्मा वा पक्षः, ध्वनिरूपो वा? नाऽद्यः, तस्य गुणत्वासिद्धेः। नचोक्तानुमानात् तत्सिद्धिः। घटादीनामेकेन्द्रियग्राह्यत्वाभावेऽप्यात्मनस्तथात्ववद् द्रव्यस्यैव सतो बाह्यैकेन्द्रियग्राह्यत्वेऽपि विरोधाभावात्। यदि शब्दो द्रव्यं स्यात्, बाह्येन्द्रियग्राह्यो न स्यात्। निरवयवद्रव्यस्य बाह्येन्द्रियाग्राह्यत्वेन प्रतिबन्धादिति चेत्, न। निरवयवस्यापीन्द्रियग्राह्यत्ववद् बाह्येन्द्रियग्राह्यत्वेऽपि बाधकाभावेन प्रतिबन्धानिश्चयात्।
॥ ध्वन्यात्मकशब्दस्य पृथिव्यादिगुणत्वोपपत्तेः आकाशानुमापकत्वाभावः॥
द्वितीये त्वाश्रयद्रव्यसिद्धावपि नाऽकाशसिद्धिः। पृथिव्यादिगुणत्वोपपत्तेः। प्रत्यक्षत्वे सत्यकारणगुणपूर्वकत्वायावद्द्रव्यभावित्वयोः पिठरपाकपक्षे तद्गतरूपादिना व्यभिचारात्। प्रत्यक्षत्वे सतीति च किमर्थं वक्तव्यम्? पार्थिवपरमाणुरूपादिव्यावृत्त्यर्थमिति चेत्, कुतस्तत्परिहरणीयम्? प्रमितत्वादिति चेत्, तर्हि शब्दस्यापि शङ्खाद्याश्रयतया प्रमितत्वाद् व्याप्तिग्रहणसमये तद्व्यवच्छेदार्थं विशेषणमुपादेयमेव। नच स्पर्शवद्विशेषगुणत्वे बाधकं पश्यामः।
अनुपलब्धिस्तु न प्रसज्यते। चक्षुष इव श्रोत्रस्य गत्या सन्निकर्षोपपत्तेः। अमूर्तस्य तदनुपपत्तिस्त्वाकाशसिद्ध्युत्तरकालीनैव। श्रोत्रस्य च चक्षुष इव गत्वा ग्राहित्वे शब्दे दिक्संशयो न स्यादिति चेत्। अगत्वा ग्राहित्वे दिनिश्चयोऽपि न स्यात्। संशयादपि निश्चयो महीयान्। शङ्खाद्यवयवागमनेन वा सन्निकर्षोपपत्तिः। नचोक्तदोषः। घ्राणगन्धसन्निकर्षतुल्ययोगक्षेमत्वात्। किञ्च वायुगुणत्वे हेतुद्वयमसिद्धम्। तर्कश्चानुपपन्नः।
॥ शब्दस्य वायवीयत्वे बाधकमाशय परिहारकथनम्॥
नैवं युक्तम्। श्रोत्रस्य प्रतिनियतार्थग्राहकत्वेन बहिरिन्द्रियत्वात्। बहिरिन्द्रियस्य ग्राह्यसजातीयविशेषगुणवत्त्वनियमात्। शब्दस्य वायवीयत्वे श्रोत्रस्यापि तथात्वप्रसङ्गादिति चेत्, न। प्रतिनियतार्थग्राहकशब्दस्येन्द्रियान्तराग्राह्यग्राहकार्थत्वे मनसि व्यभिचारात्। इन्द्रियान्तराग्राह्यस्यैव ग्राहकमित्यभिप्राये सत्तादिग्राहकत्वेनासिद्धेः। बहिरिन्द्रियत्वेऽपि न ग्राह्यसजातीयविशेषगुणवत्त्वनियमः। स्नेहग्राहके चक्षुषि व्यभिचारात्। श्रोत्रस्य वायवीयत्वेऽपि न बाधकं पश्यामः। सामग्रीभेदेन प्रतिनियतार्थत्वोपपत्तेः।
घ्राणादीनामप्येवमेकप्रकृतित्वं स्यादिति चेत्। अस्तु। बाधकसद्भावे तु तत एवान्या गतिर्भविष्यति। शब्दो न वायवीयः, विशेषगुणत्वे सति त्वगिन्द्रियावेद्यत्वात्; गन्धवदिति चेत्, न। विपक्षे बाधकाभावात्। अन्यथा पाकजरूपादयोऽपि न पार्थिवाः, घ्राणावेद्यत्वात्; शब्दवदित्यपि स्यात्।
॥ शब्दस्य आत्मगुणत्वाङ्गीकारेऽपि बाधकाभावः॥
किञ्चाऽत्मगुणः कस्मान्न स्यात्? धर्मादीनामप्रत्यक्षत्वेऽपि सुखादीनां प्रत्यक्षत्ववदस्य बाह्येन्द्रियप्रत्यक्षत्वोपपत्तेः। अन्यथा प्रत्यक्षत्वेनाष्टद्रव्यातिरिक्तगुणोऽपि न स्यात्। तत्सिद्धौ बाधः। असिद्धावप्रसिद्धविशेषणतेति चेत्, न। परिशेषानुमानेऽपि साम्यात्। आत्मान्तरग्राह्यत्वस्य च कोऽर्थः? अनेकप्रतिपत्तृसाधारणत्वमिति चेत्, न। सन्दिग्धासिद्धेः। सन्तानानुमानेन मूलप्रत्यभिज्ञानान्नैष दोष इति चेत्, तर्हि सुखादीनामप्यनुमानेनानेकप्रतिपत्तृसाधारण्येनानैकान्तिकत्वं स्यात्। आत्मसमवेतस्यैव वीचीतरङ्गन्यायेन मूलप्रत्यभिज्ञानोपपत्तौ विपक्षे बाधकाभावाच्च।
अपर आह ग्राहकस्थत्वेनाग्रहणमात्मान्तरग्राह्यत्वमिति। तदसिद्धम्। आत्मन्यसमवायात् तत्सिद्धिरिति चेत्, न। तस्याप्यसिद्धेः। अहङ्कारेण विभक्तस्य ग्रहणात् तत्सिद्धिरिति चेत्, न। “पादे मे सुखम्’, “शिरसि मे दुःखम्’, “मनो मे दुःखितम्’ इति दर्शनात् सुखादिषु व्यभिचारात्। ग्रहणं प्रमितिरिति चेत्, न। सन्दिग्धासिद्धत्वात्। कालादिगुणो वा किं न स्यात्? प्रत्यक्षत्वादिति चेत्, न। स्पर्शस्यापि प्रत्यक्षत्वेनावायवीयत्वप्रसङ्गात्। कालादीनां विशेषगुणवत्त्वे बाधकाभावात्। तद्विरहिततयैव तत्सिद्धिरिति चेत्, न। अन्यथा तत्सिद्धेर्वक्ष्यमाणत्वात्। (४२०)
॥ आकाशानुमापकपरिशेषानुमानस्य दूषणम्॥
किञ्चात्र सर्वत्र साहचर्यदर्शने सङ्कोच एव द्रव्यान्तरकल्पनाया लघीयान्। परिशेषानुमानं त्वष्टद्रव्यातिरिक्तद्रव्याप्रसिद्धेरप्रसिद्धविशेषणम्। प्रसिद्धौ चानुमानवैयर्थ्यम्। अष्टद्रव्यातिरिक्ताश्रित इत्येव साधने गुणादिवृत्तिसामान्यादपि व्यावृत्तत्वेनासाधारणता स्यात्। शब्दाश्रय इतरेभ्यो भिद्यते, शब्दाश्रयत्वात्; व्यतिरेकेण पृथिवीवदिति प्रयोग इति चेत्, न। पृथिव्यादिप्रतियोगिकानेकभेदानां प्रत्येकं साधनेऽबादीनां सपक्षत्वेन तत्रावृत्तेरसाधारण्यात्। समुदितसाधने पुनरप्रसिद्धविशेषणत्वात्। अभावस्य साध्यत्वादभावाभावस्य च भावत्वेन प्रतियोग्यनपेक्षतया व्याप्तिग्रहणसम्भवान्न दोष इति चेत्, न। तथाऽपि प्रतिषेधमुखेन प्रतीतेरनिवारणात्। शब्दाश्रयो नेतरेभ्यो भिद्यते, प्रमेयत्वात्; घटवदिति सत्प्रतिपक्षत्वाच्च। सर्वप्रतियोगिकैकभेदसाधने तु प्रमाणबाधश्चाधिकः। प्रतियोगिभेदेन भेदभेदस्यापि दर्शनादिति।
॥ भूताकाशस्यानुमानिकत्वेऽपि अव्याकृताकाशस्य साक्षिमात्रसिद्धत्वम्॥
अस्तु वा शब्दगुणकाकाशसिद्धिरनुमानात्। तथाऽप्यव्याकृताकाशसिद्धिः साक्षिणैव। तत्साधकलिङ्गाभावात्। आकाशद्वैतं च वियदधिकरणे वक्ष्यते।(८५९) जातिबधिराणामप्याकाशप्रतीतेर्नाऽगमोऽपि तत्र प्रमाणमिति साक्षिसिद्धमेव गगनम्। तद्भागा एव दिशो न द्रव्यान्तरमिति तासामपि साक्षिसिद्धतैव। अन्यत् स्वावसरे वक्ष्यामः। (४२१, ६७३)
॥ साक्षिसिद्धस्य अबाध्यत्वनियमः॥
नन्वस्तु गगनादिकं साक्षिसिद्धम्। न तावता तस्य त्रैकालिकबाधवैधुर्यलक्षणं सत्त्वं सिद्ध्यति, प्रतीतस्यापि शुक्तिरजतादेर्बाधदर्शनादित्यत आह साक्षिसिद्धस्येति।
साक्षिसिद्धस्य न क्वापि बाध्यत्वं तददोषतः॥८९॥
क्वापि काले। तस्य साक्षिणोऽदोषत्वात्। औत्सर्गिकं हि प्रत्ययानां प्रामाण्यम्। अप्रामाण्यं तु दोषापवादात्। नच साक्षिज्ञानं दोषजन्यम्, तस्यानादित्वात्। एवमेवायथार्थत्वे मुक्तावपि तथात्वप्रसङ्गात्। अविद्यादोषसंसर्गात् साक्षिणो बाध्यार्थप्रतिभासित्वमिति चेत्, न। अविद्यासम्बन्धस्य त्वन्मतेऽनुपपत्तेरुक्तत्वात्। (१०७, ४०७) अस्माभिरप्यविद्यायाः कार्यान्तरस्यैवाभ्युपगतत्वादिति।
॥ गगनादीनां त्रैकालिकाबाध्यत्वस्यापि साक्षिसिद्धत्वम्॥
ननु तर्हीदमापन्नम् गगनादिस्वरूपं साक्षिसिद्धम्। कालत्रयाबाध्यत्वं तु तस्य साक्षिप्रामाण्यग्राहकेणेति। प्रामाण्यस्याप्यबाध्यविषयतानतिरेकात्। तथाच “सत्यत्वं गगनादेश्च” इत्ययुक्तमित्यत आह सर्वेति।
सर्वकालेष्वबाध्यत्वं साक्षिणैव प्रतीयते।
कालो हि साक्षिप्रत्यक्षः सुषुप्तौ च प्रतीतितः॥९०॥
अबाध्यत्वं गगनादीनामिति शेषः। साक्षिण एव हि साक्षिप्रामाण्यग्राहकत्वस्य वक्ष्यमाणत्वादिति भावः। (४२९, ६८२)
यद्वा गगनादिस्वरूपं साक्षिसिद्धम्, तस्य त्रैकालिकाबाध्यत्वं तु तत्प्रामाण्यग्रहणद्वारा सिद्ध्यतीत्युक्तम्। इदानीं साक्षिणस्त्रैकालिकाबाध्यार्थगोचरत्वस्य वक्ष्यमाणत्वात् (४३३) सार्वकालिकबाधाभावविशिष्टतयैव गगनादिग्राहकत्वमस्तीत्याह सर्वकालेष्विति।
॥ सौषुप्तिकप्रतीत्यन्यथानुपपत्त्या कालस्य साक्षिसिद्धत्वसमर्थनम्॥
ननु काल एव कुतः सिद्धः। येन सर्वकालेष्वबाध्यत्वं साक्षिणा प्रतीयत इत्यत आह कालो हीति। सुषुप्तौ हीन्द्रियाणामुपरतत्वान्न बाह्यप्रत्यक्षानुमानागमानां तत्र प्रवृत्तिः। अस्ति तदाऽपि कालप्रतिभासः। एतावन्तं कालं सुखमहमस्वाप्समिति सुषुप्त्युत्थितस्य परामर्शदर्शनात्। नह्यननुभूतस्य परामर्शो युज्यते, अतिप्रसङ्गात्। अतः परिशेषात् साक्षिवेद्य एवेति गम्यते।
अत्रायं प्रयोगः कालः बाह्यप्रत्यक्षाद्यतिरिक्तप्रमाणवेद्यः, असत्स्वपि तेषु प्रतीयमानत्वात्; यद् यस्मिन्नसति प्रतीयते तत् ततोऽतिरिक्तप्रमाणवेद्यम्, यथाऽसति चक्षुषि प्रतीयमानो गन्धस्तदतिरिक्तघ्राणवेद्य इति।
॥ अतीतानागतकालयोरपि साक्षिसिद्धत्वम्॥
स्यादेतदेवम्। यदि सुषुप्तावनुभूयमानस्यायं परामर्शो भवेत्। नैतदस्ति। किन्तु तदैवातीतं सुषुप्तिकालमनुभूय तदातनो दुःखाभावोऽनुमीयत इत्यत आह अतीतेति।
अतीतानागतौ कालावपि नासाक्षिगोचरौ।
उत्थितस्य किं साक्षिणाऽतीतकालानुभवमभ्युपगम्य सुखपरामर्शो निराक्रियते, उत प्रमाणान्तरेण? आद्ये सिद्धं नः समीहितम्, परेणापि कालस्य साक्षिवेद्यतयाऽङ्गीकृतत्वात्। द्वितीये त्विदमुपतिष्ठते असाक्षिगोचरौ साक्षीतरप्रमाणविषयौ।
अथवा सौषुप्तिकप्रतीतिबलादस्तु वर्तमानकालस्य साक्षिवेद्यत्वम्। अतीतानागतकालयोस्तु साक्षिवेद्यत्वाभावात् कथं त्रैकालिकबाधभावः साक्षिणा प्रपञ्चस्य सिद्ध्यतीत्यत आह अतीतेति। अपिपदेन साक्षिप्रत्यक्षाविति समाकृष्यते।
कुत इत्यत आह नेति। साक्षीतरप्रमाणागोचरौ। प्रतीयेते च। तस्मात् साक्षिगोचरावित्यर्थः। तत् कथमेतदिति चेत्, न तावत् प्रत्यक्षवेद्यः काल इत्युक्तम्। (४१८) जातिबधिराणामपि प्रतिभासानात् नाऽगमवेद्योऽपि।
॥ कालस्यानुमानिकत्वभङ्गः॥
अनुमानमपि कालमेव पक्षीकृत्य प्रवर्तते, अन्यद् वा? नाऽद्य इत्याह पक्षीकर्तुमिति।
पक्षीकर्तुमशक्यत्वान्नानुमा तत्र वर्तते॥९१॥
कालस्यासिद्धौ आश्रयासिद्ध्या, सिद्धौ सिद्धसाधनत्वेन पक्षीकर्तुमशक्यत्वात्। द्वितीयेऽप्येतदेवोत्तरम्। पक्षीकर्तुमशक्यत्वादित्युपलक्षणम्। व्याप्तिस्मरणपक्षधर्मताज्ञानयोरयोगादित्यपि द्रष्टव्यम्। कालप्रतीतिमन्तरेणेति शेषः।
तदेव प्रपञ्चयति तदेतदिति।
तदेतदिति सर्वं च दृश्यं वा स्मृतिगोचरम्।
साक्षिसिद्धेन कालेन खचितं ह्येव वर्तते॥९२॥
तस्मान्न तं विना किञ्चित् स्मर्तुं द्रष्टुमथापि वा।
शक्यंतन्नित्यसिद्धेर्हि नानुमावसरो भवेत्॥९३॥
यस्मात् तदिति स्मृतिगोचरमेतदिति दृश्यं वा सर्वमपि साक्षिसिद्धेन कालेन खचितं सम्बद्धमेव वर्तते। तस्मात् तं कालं विना कालप्रतिभासं विना किञ्चिद् व्याप्त्यादिकं स्मर्तुं वा धर्म्यादिकं द्रष्टुमपि वा न शक्यमित्यर्थः।
इदमुक्तं भवति अनुभूतव्याप्तिकस्य पुंसोऽनुभूयमाने स्मर्यमाणे वा धर्मिणि व्याप्यधर्मस्यानुभवात् स्मरणाद् वा प्रागनुभूतां व्याप्तिं स्मृतवतो व्याप्तस्य पक्षेऽनुसन्धानमनुमानम्। तच्च व्यापकसम्बन्धप्रमितिलक्षणानुमितिकरणम्। स्मृत्यनुभवरूपाश्च सर्वाः प्रतीतयो न केवलमर्थमवगाहन्ते। अपितु कालकिलतमेव। तदिति हि स्मृतिरुत्पद्यते। न पुना रूपमित्येव, तत्ता च पूर्वकालसम्बन्धितैव। एवमनुभवोऽपि चक्षुरादिजन्यस्तावत् एतदिति जायते। अनुमानादिजन्योऽपि अभूदिति वा, भवतीति वा, भविष्यतीति वोदेति। एतत्त्वादिकं च न वर्तमानादिकालसम्बन्धित्वातिरिक्तं किञ्चित्। एतच्च सर्वानुभवसिद्धत्वान्नापलापमर्हति। नचैवंसति कालस्य चाक्षुषत्वादिप्रसङ्गः। साक्षिसिद्धविशेषणविशिष्टप्रत्ययोपपत्तेः। तथाच व्याप्त्यादिविषया अपि प्रतीतयो न कालाविशिष्टं स्वार्थं गोचरयितुं शक्नुवन्ति। तासामपि “इदं तत्’ इत्येवमाकारेणैवोत्पत्तेरिति।
ततः किमित्यत आह तदिति। तस्य कालस्य नित्यसिद्धेर्व्याप्त्यादिग्रहण एव साक्षिणा सिद्धत्वान्न कालानुमानस्यावसरो भवेत्। अनिश्चिते ह्यर्थे न्यायस्यावसरः। निश्चितविषयं तु सिद्धसाधनत्वात् परेषामाश्रयासिद्धम्, अस्माकं त्वसङ्गतमिति।
॥ न्यायभाष्योक्तकालानुमानभङ्गः॥
एवं कालविषयाणि सर्वानुमानानि सामान्यतो निराकृत्य विशेषतो निराकरोति तदेतदिति। तथाहि “कालः परापरव्यतिकरव्यौगपद्यायौगपद्यचिरक्षिप्रप्रत्ययिलङ्गः” इति परेषां भाष्यम्। तदेवं केचिद् व्यावक्षते “अस्ति तावत् स्थविरे परोऽयमिति प्रत्ययः। यूनि चापर इति। सोऽयं दिक्कृतपरापरप्रत्ययविलक्षणत्वात् परापरव्यतिकरप्रत्ययः। तथा युगपदागतौ, अयुगपदागतौ, चिरेणाऽगतः, क्षिप्रमागत इति प्रत्ययाः। त एते ष प्रत्ययाः कालस्य लिङ्गानि। कथम्? स्थविरादिविषयेषु जायमानानामेषां कालमन्तरेण विषयानवक्लृप्तेः। नहि द्रव्यादिकमेवैषामालम्बनम्। तत्प्रत्ययविलक्षणत्वात्” इति।
एतदयुक्तम्। तथाहि तदिति परमिति। एतदित्यपरमिति। युगपदादीनामुपलक्षणमेतत्। दृश्यं वा स्मृतिगोचरं वा प्रतीयमानमिति यावत्। तत् सर्वं साक्षिसिद्धेन कालेन खचितमेव वर्तते। तस्मात् तन्नित्यसिद्धेः नानुमानावसरो भवेत्। तस्मादित्यस्यैव विवरणम् न तं विनेति। न शक्यं हीति सम्बन्धः।
एतदुक्तं भवति परापरादिविषयाः प्रत्ययास्तावत् कालविशिष्टपिण्डविषया इति परेणैवोक्तम्। तथाच लिङ्गप्रतीतावेव लिङ्गिनः कालस्य स्फुरणात् कथं तेन तदनुमानम्? नहि दण्डिज्ञानेन दण्डोऽनुमीयते। अथ विशिष्टज्ञानत्वादिदं विशेषणज्ञानपूर्वकम्। विशेषणं च न कालातिरिक्तमस्तीत्यनुमीयते। तर्हि नेदं कालानुमानम्। किन्तु ज्ञानानुमानम्। तच्च सिद्धसाधनम्। साक्षिसिद्धकालविशिष्टप्रत्ययाभ्युपगमादिति।
अथ वलीपिलतकाकश्यादिना कालसम्बन्धेऽनुमिते, विप्रतिपन्नं प्रति परापरादिप्रत्ययानां कार्यत्वेन निमित्तानुमानार्थमिदं भाष्यमिति। मैवम्। शरीरावस्थया हि तस्य कालसम्बन्धोऽनुमीयते, यत्किञ्चिद्द्रव्यसम्बन्धो वा? आद्ये किमस्मादनुमानात् प्राक् कालः सिद्धः, अथवा नेति वाच्यम्। आद्ये तन्नित्यसिद्धेस्तस्य कालस्य प्रागनुमानान्नित्येन साक्षिणा सिद्धेः। द्वितीये चाप्रसिद्धविशेषणत्वान्नानुमानावसरो भवेत्।
किञ्च वलीपिलतकाकश्यादिशरीरावस्थाकारणत्वेन कालानुमाने तन्नित्यसिद्धेः तस्य कालसम्बन्धस्य नित्यं सर्वदा वलीपिलतादिवैधुर्यदशायामपि सिद्धेर्नित्ये परमाणावपि सिद्धेर्बाधितविषयत्वेन नानुमानावसरो भवेत्।
अथ बहुकालसम्बन्धोऽनुमीयते। तन्न। बहुत्वं हि कालस्य किं परमाणूनामिव सहैव, उत क्रियाणामिव पूर्वापरभावित्वेन? नाऽद्यः, तत्सम्बन्धस्यापि नित्यसिद्धेः। नोत्तरः, तस्य कालस्य नित्यसिद्धेः। नित्यतयाऽङ्गीकृतत्वात्। न द्वितीयः, तस्य नित्यसिद्धेः सिद्धसाधनत्वात्। अथ परिशेषादितरनिषेधः करिष्यत इति चेत्, न। परिशेषावधारणानुपपत्तेरिति।
॥ श्रीवल्लभोक्तकालसमर्थनप्रकारः॥
अन्ये तु व्याचक्षते बहुतरणिपरिस्पन्दान्तरितजन्मत्वं परत्वम्। अल्पतरसूरसञ्चारान्तरितजन्मत्वं चापरत्वम्। एकतपनप्रचारविशिष्टत्वं यौगपद्यम्। अनेकतद्विशिष्टत्वमयौगपद्यम्। बहुक्रियाविशिष्टत्वं चिरत्वम्। कतिपयक्रियाविशिष्टत्वं क्षिप्रत्वम्। तत्प्रत्ययैः कालोऽनुमीयते। तरणिपरिस्पन्दा हि पदार्थसार्थे विशिष्टप्रत्ययोत्पत्तौ स्वप्रत्यासत्तिमपेक्षन्ते, स्वरसतोऽप्रत्यासन्नत्वे सति विशिष्टव्यवहारजनकत्वात्; चन्दनसौरभवत्। परम्परासम्बन्धिनश्च साक्षात् सम्बन्धविरहे सति सम्बन्धित्वात्; पटसम्बन्धिनीलिमवत्। अतः पिण्डतपनपरिस्पन्दयोः संयुक्तसंयोगिसमवायात्मनि परम्परासम्बन्धे यद् द्रव्यं निमित्तं स काल इति।
॥ श्रीवल्लभोक्तकालसमर्थनप्रकारनिरासः॥
एतदप्यसत्। घटशून्यं भूतलमित्यादिवत् स्वभावप्रत्यासत्त्यैव विशिष्टप्रत्ययोपपत्तेः। अन्यथाऽभावे परापरयौगपद्यादिप्रत्ययानुपपत्तिप्रसङ्गात्। दृश्यते च युगपदुत्पन्नावभावावित्यादिप्रत्ययः। अत्र सम्बन्धे बाधकाभावान्नैवमिति चेत्, न। अन्यसमवेतत्वस्यैव बाधकत्वात्। उपनायकद्रव्यान्तरकल्पनया तदुपपत्तिरिति चेत्, तर्हि भूतलघटाभावयोस्तृतीयसम्बन्धकल्पनयोपपत्तौ बाधकाभावात्। स्वारसिकसम्बन्धेनैव विशिष्टप्रत्ययोपपत्तौ किमप्रतीयमानसम्बन्धकल्पनया इति चेत्, तर्हि तथैव परापरादिविशिष्टप्रत्ययोत्पत्तौ किमप्रतीयमानद्रव्यकल्पनयेति समानम्। तदिदमुक्तम् तेषां विशिष्टप्रत्ययानां नित्यसिद्धेर्द्रव्यान्तरकल्पानां विना स्वभावादेव सिद्धेः द्रव्यान्तरानुमानावसरो न भवेदिति। तदनेन स्वरसतोऽप्रत्यासन्नत्वे सतीति विशेषणासिद्धिः। विशिष्टव्यवहारजनकत्वमात्रस्य चानैकान्त्यमुक्तं भवति।
ननु विषम उपन्यासः। भूतलाभावयोरस्ति सान्निध्यम्। तेन सम्बन्धाभावेऽपि भविष्यति विशिष्टव्यवहारः। दर्शनस्य दुरपह्नवत्वात्। सम्बन्धान्तरकल्पनस्य च व्यर्थत्वात्। नच तरणिपरिस्पन्दानां पिण्डसान्निध्यमस्ति। ततो भवितव्यं मध्ये द्रव्यान्तरेणेति। मैवम्। विनाऽपि सान्निध्येन घटज्ञानमिति विशिष्टप्रत्ययदर्शनात्।
॥ श्रीराम॥
किञ्चाभावस्यापि न भूतलसान्निध्यं परपक्षे किमपि पश्यामः। अस्तु वा तपनपरिस्पन्दानां पिण्डं प्रत्युपनायकं द्रव्यान्तरम्। तच्च पृथिव्यादिकं किं न स्यात्? तपनपिण्डाभ्यामसंसर्गान्नेति चेत्, न। एकैकस्याव्यापकत्वेऽपि बहूनां संयुक्तसंयोगभूयस्त्वेन क्रियोपनायकत्वोपपत्तेः। नच तरणिपिण्डान्तराले तानि न सन्त्यनुपलम्भादिति वाच्यम्। सूक्ष्माणां कल्पनीयत्वात्। नच विनिगमनायां कारणाभावः। संशयेऽपि परिशेषावधारणानुपपत्तेः। धर्मिकल्पनातो धर्मकल्पनस्य लघीयस्त्वात्। आकाशो वा किं न स्यात्? न स्यात्। विशेषगुणवत्त्वात् पृथिव्यादिवदिति चेत्, न। विशेषगुणवतोऽपि नीलद्रव्यस्य पटे नीलिमोपसङ्क्रामकत्वदर्शनात्। सूर्यगत्युपनायकत्वं च द्रव्यस्वरूपं वा, अतीन्द्रियशक्तिर्वा, सहकारिशक्तिर्वा? नाऽद्यः, द्रव्यमात्रे प्रसङ्गात्। न द्वितीयः, अनभ्युपगमात्। तृतीयेऽपि किं तद्व्यापकत्वं वा, विशेषगुणविरहो वेति विवेक्तव्यम्।
॥ श्रीराम॥
वयं तु ब्रूमः व्यापकत्वमेव तदिति। अन्यथा मनसोऽपि तत्प्रसङ्गात्। व्यापकत्वस्य प्रयोजकतायामात्मनोऽपि तत्प्रसङ्ग इति चेत्, न। तद्व्यापकत्वाभावस्य वक्ष्यमाणत्वात्। व्यापकत्वेऽप्यनिष्टाभावात्। क्रियोपनायकत्वं खल्वान्तरालिकस्य द्रव्यस्य नोभयसंयोगातिरिक्तं किञ्चित्। तदेकस्येव अनेकेषामपि समानम्। यद्याकाशः स्वसम्बन्धेनान्यगतं धर्ममन्यत्र सङ्क्रामयेत्, तदा सर्वं सर्वत्र सङ्क्रामयेत्, अविशेषादिति चेत्, न। नियतोपसङ्क्रामकत्वस्यैव कल्पनीयत्वात्। गुर्वी हि धर्ममात्रकल्पनातो धर्मिकल्पना। अन्यथा कालेऽपि समानः प्रसङ्गः।

॥ श्रीराम॥
तत्सिद्ध्यसिद्धिभ्यामनवसरदुःस्थत्वमिति चेत्, न। भावानवबोधात्। विशिष्टप्रत्ययदर्शनानन्तरं हि बहवः पक्षाः प्राप्नुवन्ति। किमयं स्वरसम्बन्धनिबन्धनः, किंवाऽतिरिक्तसम्बन्धाधीन इति। द्वितीयेऽपि किं साक्षात्सम्बन्धोऽत्र निमित्तम्, उत द्रव्यान्तरकृत इति। उत्तरत्रापि तद् द्रव्यं प्रसिद्धेष्वन्यतमद् वा भवतु, अन्यद् वेति। सर्वत्र बाधकानि पर्यालोचयन् प्रसिद्धद्रव्येषु यद् बाधकं पश्येत् तदप्रसिद्धेऽपि कल्प्यमाने कथं नानुसन्दध्यात्? अनुसन्दधानश्च तत्स्वाभाव्येन परिहारं चिन्तयन् कल्पनागौरवव्यसनमपहाय लघीयांसमेव पक्षं न कथं वा रोचयत इत्यस्यार्थस्य विवक्षितत्वात्। परसिद्धत्वेन प्रसङ्गस्य न दोष इत्यस्याप्ययमेवाभिप्रायः।
किञ्चायं प्रसङ्गो वस्तुतः साधुः, अथाऽभासः? नाऽद्यः, कालप्रतीत्युत्तरकालं व्याप्तिभङ्गात्। द्वितीये कथमाकाशस्य क्रियोपनायकत्वं त्याजयेत्? अन्यथा जातिनिराकरणमपि न स्यादिति।
॥ श्रीराम॥
अस्तु वाऽऽकाशस्य विशेषगुणवतः क्रियोपनायकत्वाभावः। दिशस्तु स्यात्, विशेषगुणशून्यत्वात्, व्यापकत्वाच्च। तस्याः संयोगोपनायकत्वेन सिद्धत्वान्नेति चेत्, न। उभयोपनायकत्वेऽपि बाधकाभावात्। सहकारिभेदेन च व्यवस्थिताव्यवस्थितप्रतीतिजनकत्वं कल्प्यतां लाघवादेव। अन्यथा कालेऽपि भेदकल्पनाप्रसङ्गादिति। तदिदमुक्तम् तस्य विशिष्टप्रत्ययस्य नित्येन नियतेन प्रसिद्धेनैव पृथिव्यादिना सिद्धेर्नाप्रसिद्धे द्रव्येऽनुमानावसरो भवेदिति।
॥ श्रीराम॥
अन्ये तु परापरशब्दाभ्यां परत्वापरत्वे गुणौ युवस्थविरपिण्डवर्तिनावाचक्षते। तावसमवायिकारणसंयोगाश्रयतया निमित्तकारणापेक्षाबुद्धिसम्पादकतया वा कालमनुमापयत इति। तदप्युक्तन्यायेन निरस्तमिति।
॥ श्रीराम॥
किञ्च परापरादिप्रत्ययानां सूर्यगतयो वा परत्वापरत्वे वा यद्यालम्बनम्, तदाऽस्तु कालानुमानम्। नचैतदस्ति। कालभेदानामेव विशेषणतया प्रतीतेः। तथाहि परोऽयमित्यादि प्रयुक्तवन्तः कोऽस्यार्थ इति पृष्टा लौकिकाः परीक्षिकाश्च बहुकालीनोऽयमित्यादि व्याचक्षाणा दृश्यन्ते। तत्र कालस्वरूपं साक्षिसिद्धम्। तद्बहुत्वादि च क्वचित् साक्षिणा क्वचिदनुमानादिना च ज्ञायत इति। एतदप्युक्तम् तदेतदिति श्लोकाभ्याम्। अनयैव दिशा दिशोऽपि परापरप्रत्ययादिलिङ्गत्वं निराकर्तव्यम्।
॥ श्रीराम॥
तमेतं चिरन्तनं पन्थानमरोचयमाना नवीनास्तु दिक्कालयोरन्यथाऽनुमानमाहुः। विवादाध्यासितं कार्यं विशेषगुणरहितद्रव्याभ्यां जन्यम्, कार्यत्वात्; अन्तःकरणद्वयसंयोगवदिति।
एतदप्ययुक्तम्। साध्ये बहुवचनप्रक्षेपेऽतिप्रसङ्गात्। नच दृष्टान्ताभावः, अन्तःकरणगतबहुत्वस्य सत्त्वात्। नचान्तःकरणद्वयसंयोगे प्रमाणमस्ति। मनो मनसा संयुज्यते, मूर्तत्वात्; शरीरवदिति च आकालिके विद्युदादौ सन्दिग्धव्यभिचारात्।
॥ श्रीराम॥
अपर आह परममहत्परिमाणं द्रव्यचतुष्टयवृत्ति, परिमाणत्वात्; अणुत्ववदिति। अत्र यद्याकाशात्मगतपरिमाणपक्षीकारः, तदा सिद्धसाधनम्, आत्मनां बहुत्वात्। आत्मत्वेनैक्यमुपादाय प्रयोगेऽपि बाधः। परिमाणद्वयस्य द्रव्यचतुष्टयवृत्तित्वायोगात्। एकैकद्रव्यवृत्ति खलु परिमाणम्। अत एव न कालादिगतस्य पक्षीकारः। आश्रयासिद्धिश्चाधिका।
परमहत्परिमाणसामान्यं विशेषगुणशून्यद्रव्याधिकरणानेकव्यक्तिवृत्ति, परिमाणतारतम्यविश्रान्तिविषयजातित्वात्; अणुपरिमाणवृत्तिजातिवदिति चानुपपन्नम्। परममहत्परिमाणसामान्यं हि परिमाणत्वं वा, तदवान्तरजातिर्वा? आद्ये मनःसिद्ध्याऽप्यस्य सम्भवेनार्थान्तरता। सामान्यस्याप्यनेकवृत्तिताया निराकरिष्यमाणत्वेन बाधाश्रयासिद्धी च। न द्वितीयः, तस्या निराकरिष्यमाणत्वात्। वर्णसिद्ध्याऽर्थान्तरत्वाच्च। अनेकपदस्थाने बहुपदप्रक्षेपेऽतिप्रसङ्गश्च।
अस्तु कालस्य दिशश्च बहुत्वम्, आत्मवदुपसङ्ग्राहकैक्येन द्रव्याणां नवत्वोपपत्तिरिति चेत्, तर्हि दिशा कालेन वा साध्यपर्यवसानसम्भवादुभयसाधकत्वमस्य न स्यात्। मा भूदिति चेत्, न। अनेकपदवैयर्थ्यात्। अन्यतरसाधनेऽन्यतरेणार्थान्तरताप्रसङ्गात्। हेतुदृष्टान्तयोश्चानुपपत्तिर्वक्ष्यत इत्यलं पल्लवेन।
॥ प्रामाण्यस्य स्वतस्त्वात् साक्षिणा प्रपञ्चस्य त्रैकालिकाबाध्यत्वरूपसत्यत्वसिद्धिः॥
गगनादेः सकलप्रपञ्चस्य त्रैकालिकाबाध्यत्वं साक्षिसिद्धमित्युक्तमर्थमुपसंहरन् विवृणोति अत इति।
अतोऽदोषप्रतीतस्य सत्यत्वं साक्षिणा मतम्।
न विद्यते दोषः कारणं यस्य ज्ञानस्य तेन प्रतीतस्य विषयीकृतस्यादोषेण प्रत्यक्षादिना वा प्रतीतस्य गगनादेः प्रपञ्चस्य सत्यत्वं त्रैकालिकाबाध्यत्वं साक्षिणा मतं सिद्धम्। प्रामाण्यग्रहणादिनेति शेषः।
अयमत्राभिप्रायः आकाशकालदिगात्ममनांसि सुखादयश्च साक्षात् साक्षिसिद्धाः। तदितरे तु पदार्था यथास्वमिन्द्रियलिङ्गशब्दगम्याः। ज्ञानं च भावाभावलक्षणं स्वविषयं सत्त्वेनैवावगाहते, नासत्त्वेन, नाप्युदासीनेन रूपेण। नचैवं घटोऽस्ति घटो नास्तीति प्रत्ययानुपपत्तिः, पौनरुक्त्यात्, व्याघाताच्चेति युक्तम्। घटोऽस्तीति देशकालविशेषसम्बन्धिसत्ताविषयत्वात्, क्वचिद् विपरीताकाङ्क्षाव्यवच्छेदार्थत्वात्, क्वापि व्याख्यानव्याख्येयभावात्, नास्तीत्यस्य च देशकालविशेषसम्बन्धिसत्ताप्रतिषेधपरत्वात्। नहि सता सकलदेशकालसता भवितव्यमिति नियामकमस्ति। ज्ञानगतं च याथार्थ्यलक्षणं प्रामाण्यं ज्ञानग्राहकेणैव गृह्यते। ज्ञानग्राहकश्च साक्षीत्यविवादं वादिप्रतिवादिनोः। तथाच साक्षिणा ज्ञानप्रामाण्यं गृह्णता तद्विषयस्य सकलप्रपञ्चस्य त्रैकालिकाबाध्यत्वलक्षणं सत्यत्वमेव गृहीतं भवति। यदिहि ज्ञानगोचरस्य नित्यस्य वा, अनित्यस्य वा, सर्वगतस्य वा, असर्वगतस्य वाऽर्थस्य स्वदेशकालप्रकारोपाधावसत्त्वावेदनलक्षणो बाधः स्यात्, कोऽर्थस्तदा ज्ञानप्रामाण्यं साक्षिणा प्रमितमित्यस्येति।
॥ ज्ञानग्राहकस्य साक्षिण एव प्रामाण्यग्राहकत्वाङ्गीकारे रजतज्ञानस्यापि प्रामाण्यापत्तिः॥
यदितर्हि ज्ञानस्वरूपग्राहकः साक्षी तत्प्रामाण्यमपि गृह्णन् प्रपञ्चसत्यतां निश्चिनुयात्, शुक्तिरजतादिज्ञानस्वरूपग्राहकोऽपि स एवेति तत्प्रामाण्यमपि गृह्णन् शुक्तिरजतादिकमपि सत्यं व्यवस्थापयेत्। नच शुक्तिरजतादिज्ञानानां प्रामाण्यमेव नास्ति, किं साक्षिणा गृह्यतामिति युक्तम्, प्रपञ्चगोचराणामपि ज्ञानानां प्रामाण्याभावात् किं साक्षिणा गृह्यत इत्यपि वक्तुं शक्यत्वात्। तस्मात् साक्षिणा प्रपञ्चसत्यतासिद्धिमभिलषता ज्ञानग्राहकस्य साक्षिणः प्रामाण्यग्राहकत्वं स्वभाव इति वक्तव्यम्। तथाचोक्तोऽतिप्रसङ्ग इत्यत उक्तम् अदेषेति।
॥ परीक्षासहकृतस्यैव साक्षिणः प्रामाण्यग्रहाकत्वाङ्गीकारात् नोक्तातिप्रसङ्गः॥
अयमर्थः न साक्षी ज्ञानं गृह्णन् प्रमाणमेवैतदिति गृह्णति। किन्तर्हि? अदोषं चेत् प्रमाणम्, सदोषमप्रमाणमिति व्यवस्थया। यदा त्वर्थित्वेन प्रामाण्यं निर्दिधारयिषितम्, तदा सजातीयविजातीयसंवादविसंवादभावाभावलक्षणया परीक्षया दोषाभावं निश्चित्य प्रामाण्यमवधारयति, दोषदर्शने त्वप्रामाण्यम्। प्रपञ्चप्रतीतेश्च प्रयत्नेनान्विष्यापि दोषमपश्यन् प्रामाण्यमेवावधारयतीति तत्सत्यत्वं साक्षिसिद्धम्। नचैवं शुक्तिरजतादीनाम्। दोषाप्रतीतिदशायां प्रामाण्यानवधारणात्, तत्प्रतीतौ त्वप्रामाण्यनिश्चयात्। ननु शुक्तिरजतादिज्ञानस्यापि प्रामाण्यं निर्धार्यत एव। कथमन्यथा निःशङ्का प्रवृत्तिरिति चेत्, सत्यम्। नासौ साक्षिरूपावधारणा। अपितु मानसीति वक्ष्यामः। (१२१९) मनसश्च दोषसंसर्गसम्भवेन न तावता प्रामाण्यसिद्धिरिति।
॥ परीक्षासहकृतसाक्षिणः प्रामाण्यग्राहकत्वेऽनवस्थाशङ्कापरिहारः॥
ननु यदि परीक्षासहकृतः साक्षी ज्ञानप्रामाण्यं गृह्णीयात्, तदाऽनवस्था स्यात्। परीक्षाऽपि हि स्वयं प्रमाणत्वेनावधृता परप्रामाण्यावधारणायालम्। नान्यथा। तथाच तत्रापि परीक्षान्तरमवतरणीयमिति। किञ्च साक्षिणोऽप्यनवधृतप्रमाणभावस्य स्वयं दुःस्थस्य न परप्रामाण्यावधारणसामर्थ्यमिति तत्प्रामाण्यावधारणाय परीक्षान्तरापेक्षा ग्राहकान्तरापेक्षा चेत्यनवस्थैवेत्यत आहपरीक्षादेश्चेति।
परीक्षादेश्च सत्यत्वं तेन ह्येव मतं भवेत्॥९४॥
आदिपदेन साक्षी गृह्यते। चस्त्वर्थः। सत्यत्वं यथार्थत्वम्। तेन साक्षिणैव केवलेन नतु परीक्षासहकृतेन। हिशब्दोऽस्यार्थस्यानुभवसिद्धत्वं द्योतयति। तस्मान्नानवस्थेतिहेतौ वा।
एतदुक्तं भवति दोषाभावावधारणार्थं न्यायानुसन्धानं हि खलु परीक्षा। सन्दिग्धश्चार्थो न्यायविषयः। सन्देहश्र्चोभयकोटिप्रापकसद्भावे भवति। एवञ्च यत्रयत्र दोषसम्भावनया तत्सन्देहः, तत्रतत्रैव परीक्षापेक्षा नान्यत्र। नच सर्वत्र दोषसन्देहोऽस्ति। साक्षिसिद्धेऽर्थे तत्प्राप्त्यभावात्। अतो न तावत् परीक्षानवस्था। तथाहि “अस्त्यत्र पुरतः पानीयम्’ इति वाक्यं श्रुतवतो भवति सन्देहः किमिदं विपर्ययादिमूलम्, उत नेति। पुरुषवचसामुभयथा दर्शनात्। तत एवार्थे सन्दिहानः प्रत्यासीदन् रूपविशेषादिनाऽनुमिनोति पानीयमेतदिति। तत्रापि भवति संशयः। किमिदमनुमानम्, उताऽभास इति। व्याप्त्यादिग्राहिणां याथार्थ्यायाथार्थ्योपलम्भात्। प्रत्यासन्नश्र्चोदकाभ्यवहारानन्तरं रसविशेषेण अनुमायापि पूर्ववत् सन्दिग्धे। पीतोदकस्तूदन्यादिनिमित्तदुःखाभावम्, सुखं चानुभवन्न तत्र संशेते। सुखादौ तदभावे च साक्षिसिद्धे कदाऽप्यन्यथाभावाद्यनुपलम्भात्। नच प्रतीतत्वसामान्येन तत्रापि संशयः। विशेषनिष्ठस्य निश्चायकस्य सद्भावात्। अन्यथा संशयानुच्छेदेन व्यवहाराभावप्रसङ्गात्। संशयाभावे च न तत्पूर्विका परीक्षेति कुतोऽनवस्था? अत एव साक्षिप्रामाण्यावधारणे परीक्षानवस्थाऽपि परिहृता। ग्राहकानवस्था तु नास्त्येव। साक्षिणः स्वप्रकाशत्वेन स्वप्रामाण्यग्राहकत्वात्।
एतावानत्र विशेषः इन्द्रियलिङ्गशब्दजन्येषु ज्ञानेष्वनादौ संसारे द्वयीं गतिमननुसन्दधत् साक्षी न सहसैव प्रमाणमेतदिति निश्चेतुं शक्नोति, किन्तु दोषाभावनिश्चयद्वारैव। दोषाभावं च न स्वयमेव अवधारयितुमीष्टे। अपितु परीक्षासहकृत एव। परीक्षायां चेन्द्रियलिङ्गशब्दजायां पूर्वन्यायेन परीक्षान्तरमनुसरति यावत् साक्षात् स्वविषये सुखादाववतरति। नच स्वात्मन्यनेन कदाऽप्यन्यथाभावोऽवगत इति सन्देहाभावात् परीक्षानुसरणान्निवर्तते।
॥ साक्षिणः परीक्षासहकृतत्वे प्रामाण्यपरतस्त्वप्रसङ्गनिरासः॥
नचैवं परतः प्रामाण्यग्रहापत्तिः। परीक्षाया दोषशङ्कालक्षणबुद्धिदोषनिरासमात्रकारणत्वात्। साक्षी हि ज्ञानस्वरूपं प्रामाण्यं च विषयीकर्तुं स्वमहिम्नैव शक्नोति। तस्य तु मानस्या दोषशङ्कया प्रामाण्यग्रहणशक्तिः प्रतिबद्धा। अतो व्यवस्थयैव तत् स्पृशति। नत्ववधारणस्येष्टे। परीक्षया च प्रतिबन्धेऽपगते निजयैव शक्त्या प्रामाण्यमवधारयति।
॥ अप्रामाण्यस्य स्वतस्त्वशङ्कापरिहारः॥
नचास्य व्युत्पादनस्याप्रामाण्येऽपि समत्वात्, तस्यापि स्वतो ग्रहणमिति वाच्यम्, वैषम्यात्। प्रामाण्यावधारणे हि परीक्षायाः प्रतिबन्धकनिवर्तकत्वमात्रं शक्यतेऽवधारयितुम्। प्रतिबन्धकरहिते साक्षिप्रामाण्यग्रहे तदनपेक्षणात्। सहकारित्वे हि सर्वत्र तदपेक्षा स्यात्। तथाचानवस्थेत्युक्तम्। अन्यथा कारणत्वं व्याहन्येत। नचाप्रामाण्यं क्वापि परीक्षानपेक्षेण साक्षिणा निश्चिततरम्। येन प्रतिबन्धकनिवर्तकत्वं तस्याः प्रतीमः। किन्तु सार्वत्रिकत्वात् कारणत्वमेव।
प्रतिबन्धकस्य सार्वत्रिकत्वादन्यथासिद्धं सार्वत्रिकत्वमिति चेत्, न। प्रतिबन्धकनिवृत्तावप्रामाण्यग्रहणे च परीक्षायाः कारणत्वोपपत्तेः। एवंसति गौरवमिति चेत्, न। विशेषावधारणाया अशक्यत्वस्यैव कल्पकत्वात्। तथाऽपि परीक्षान्वयव्यतिरेकानुविधायित्वस्यान्यथासिद्धिः शयत इति चेत्, न। प्रतिबन्धकस्य सार्वत्रिकतायाः क्वाप्यदर्शनेनान्यथासिद्धिशङ्कानिरासात्। अन्यथा सर्वत्र सहकारिणां तथात्वं स्यात्। यदि ज्ञानग्राहकातिरिक्तस्य यथाकथमपि प्रवेशात् प्रामाण्यस्य परतस्त्वमिति मतम्, तदा साक्षिण एव स्वतःप्रामाण्यम्, अन्यस्य परत इत्यङ्गीकारेऽपि न कश्चिद् विरोध इति सङ्क्षेपः। विस्तरस्तु स्वयमाचार्येण वक्ष्यते। (१२१८१२२४)
॥ साक्षिणः त्रैकालिकाबाध्यत्वरूपसत्यताग्रहित्वानङ्गीकारे ब्रह्मण्यपि तथात्वासिद्धिप्रसङ्गः॥
अथ मतम् साक्षी प्रत्यक्षादीनां प्रामाण्यं गृह्णन्नपि कतिपयकालकतिपयपुरुषसम्बन्धिबाधवैधुर्यरूपमेव। न पुनरस्य कदाचित् कुत्रापि केनापि स्वार्थव्यभिचारो न भविष्यतीत्येवंरूपम्। तत् कथं तेनाऽत्यन्तिकबाधाभावलक्षणं सत्यत्वं विश्वस्य सिद्ध्येदित्यत आह अन्यथेति।
अन्यथा श्रुतियुक्त्यादिप्रमाणैश्च सहैव तु।
अकस्माद् विनिवृत्तिश्च किं विश्वस्य न शयते॥९५॥
साक्षिणः सर्वथा बाधवैधुर्यलक्षणप्रामाण्याग्राहकत्वे विश्वस्य पूर्णस्य ब्रह्मणोऽपि प्रपञ्चवद् विनिवृत्तिः किं कस्मान्न शयते? निवर्तकाभावादित्यत उक्तम् अकस्मादिति। ननुच “सत्यं ज्ञानम्”, “तत् सत्यम्” इत्यादिश्रुत्या ब्रह्म न निवृत्तिमत्, अज्ञानतत्कार्यातिरिक्तत्वात्; इत्याद्यनुमानेन निरधिष्ठानकस्यासाक्षिकस्य भ्रमस्य, निरवधिकस्य बाधस्य चादर्शनात् प्रपञ्चारोपाद्यन्यथानुपपत्त्या, ब्रह्मणः सत्यतावगमात् तन्नेत्यत उक्तम् श्रुतीति। एतेषामपि प्रमाणानां प्रत्यक्षादीनामिव विनिवृत्तिः शयतामित्यर्थः।
एतदुक्तं भवति प्रपञ्चविषयाणां प्रत्यक्षादिप्रमाणानां नाऽत्यन्तिकं प्रामाण्यं साक्षी गृह्णाति। किन्तु तात्कालिकमेवेति वदन् वक्तव्यः साक्षिणः किमात्यन्तिकप्रामाण्यग्रहणे शक्तिरस्ति, उत नास्ति। आद्ये कथं प्रपञ्चविषयाणां प्रत्यक्षादीनां प्रामाण्यमात्यन्तिकं न गृह्णीयात्? द्वितीये ब्रह्मणः सत्यताप्रतिपादकानां श्रुत्यादीनामपि नाऽत्यन्तिकं प्रामाण्यं गृह्णीयात्। तथाच न ब्रह्मणोऽबाध्यत्वमात्यन्तिकं सिद्ध्येत्। ततश्च साधकबाधकप्रमाणाभावात् तस्यापि बाधः शयेत। एवञ्च तज्ज्ञानमपि न तत्वज्ञानमिति न तदर्थः प्रयत्नः स्यात्। अथ क्वचिच्छक्तिः क्वचिन्नेति ब्रूयात्, तदा नियामकं वाच्यमिति।
॥ इतः पूर्वं निवृत्त्यभावाद् ब्रह्मणोऽबाध्यत्वाङ्गीकारे अविद्याया अपि अबाध्यत्वप्रसङ्गः॥
ननु यदि ब्रह्म बाधार्हं स्यात्, तर्हीयता कालेन कुतो न निवृत्तम्? तस्मादितःपूर्वं बाधरहितत्वान्नोत्तरत्रपि बाधः शयत इति चेत्, न। उक्तोत्तरत्वात्। अस्या अप्युपपत्तेः साक्षिग्राह्यप्रमाणभावाया आत्यन्तिकप्रामाण्यासिद्धेः। अन्यथा प्रपञ्चग्राहिणां प्रत्यक्षादीनामपि तथात्वस्यानिवारणात्। व्यवस्थापकाभावात्। दूषणान्तरमाह इतः पूर्वमिति।
इतःपूर्वं तथाऽभावाद् यदि नो संसृतेर्गतिः।
तथाऽभावात् निवृत्त्यभावात्। यदि ब्रह्मणो निवृत्तिर्न शयत इति सम्बन्धः, तर्हीत्यध्याहारः। गतिः निवृत्तिः। स्यादिति शेषः।
अयमाशयः इतः पूर्वमनिवृत्तत्वादिति किं ब्रह्मणो निवृत्त्यभावे सम्भावनोक्ता, उतानुमानम्? नाऽद्यः, सम्भावनाया अपि संशयरूपत्वेन शङ्कानिवारणासामर्थ्यात्। न द्वितीयः, तथासति संसृतेरविद्याया निवृत्त्यभावप्रसङ्गात्। नहीतःप्राङ्मूलाविद्या निवृत्ता। अन्यथा तस्यामेव व्यभिचारः स्यादिति। किञ्च शुक्तिरजतादिकं प्रागनिवृत्तमेव निवर्तते। निवृत्तस्य निवृत्त्ययोगात्। अतो विरुद्धता च।
॥ सार्धश्लोकस्य रीत्यन्तरेण व्याख्यानम्॥
अन्यथेत्याद्यन्यथा व्याख्यायते। अन्यथा साक्षिणः प्रपञ्चग्राहकप्रत्यक्षाद्यात्यन्तिकप्रामाण्याग्राहकत्वे विश्वस्य वियदादेरुत्तरक्षण एव निवृत्तिर्विनाशः किं न शयते? तथाच सर्वप्रवृत्तिविलयः स्यात्। परमेश्वरसञ्जिहीर्षाद्यभावादित्यत उक्तम् अकस्मादिति। नन्वीश्वरेच्छयैव श्रुतिस्मृतीतिहासपुराणानि प्रपञ्चप्रलयं प्रतिपादयन्ति। विश्वविनाशो न निर्हेुतकः, विनाशत्वात्; पटनाशवदित्यनुमानमपि। तत् कथमेवं शयत इत्यत उक्तम् श्रुतीति। प्रमाणानां निवृत्तिर्नामाऽत्यन्तिकप्रामाण्याभावः। तात्पर्यं पूर्ववत्।
ननु प्रागितो न प्रपञ्चविलयोऽकस्मादभूत्। तत् कथमुत्तरत्रापि शयेत इत्यत उक्तम् इतः पूर्वमिति। किमत्र यत् पूर्वं नाभूत् तदुत्तरत्रापि न भविष्यतीति व्याप्तिः, किंवा यत् पूर्वं न निर्हेतुकं विनष्टम्, न तदुत्तरत्रापि तथा विनाशवदिति। यद्वा यन्निर्हेतुकं न तद् भविष्यतीति व्याप्तिः, पूर्वोक्तिस्तु तदुपपादनायेति। नाऽद्यः, संसृतेरविद्याया निवृत्त्यभावप्रसङ्गात्। न द्वितीयः, संसारानिवृत्तिप्रसङ्गात्।
तथाहि विद्या संसारनिवृत्तिहेतुः। साऽप्यविद्यात्मकत्वात् संसृतिरेव। नच तस्या निवर्तकान्तरमस्ति। तथाचाकस्मात् किमपि न निवर्तत इत्यङ्गीकारे नो संसृतेर्गतिः। विद्या स्वयमेव स्वनिवृत्तिहेतुः, अविद्यामात्रविरोधित्वादिति चेत्, न। एवन्तर्हि प्रपञ्चोऽप्युत्तरक्षणे स्वयमेव निवर्तिष्यत इति शङ्का स्यात्। अत एव न तृतीयोऽपीति।
॥ उक्तार्थसमर्थनम्॥
उक्तमेवार्थं विवृणोति वाक्येति।
वाक्यानुमादितश्चेत् स्यात् तत्प्रामाण्यं च साक्षितः॥९६॥
अथवा नो संसृतेर्गतिरित्ययुक्तम्। संसारगतेः श्रुत्यादिसिद्धत्वात्। तदसिद्ध्या च हेतोर्विशेषणादित्यत आह वाक्येति। ब्रह्मणेऽपि निवृत्त्याशङ्कायामापादितायां यदि परो वाक्यानुमादितो निवृत्त्यभावनिश्चयः स्यादिति ब्रूयात्, यदिवाऽऽकस्मिकोत्तरक्षणे प्रलयशङ्कापादने वाक्यानुमादितः परमेश्वरेच्छादिनैव स्यादिति मन्येत, यदिच वाक्यानुमादितः संसारनिवृत्तिः स्यादिति वदेत्, तदा तस्य वाक्यादेः प्रामाण्यं केन निश्चितमिति वक्तव्यम्। साक्षीतरेणेत्यङ्गीकारे ज्ञानस्य साक्षिवेद्यत्वेन परतः प्रामाण्यग्रहापत्तेः साक्षिणैवेति वक्तव्यम्।
ततः किमिति चेत्। साक्षी किं ब्रह्मसत्यत्वादिप्रतिपादकानां वाक्यादीनां प्रामाण्यं तात्कालिकमेव गृह्णाति किंवाऽऽत्यन्तिकम्? आद्ये न तेन ब्रह्माबाध्यत्वादिसिद्धिरिति नोक्ताशङ्कानिवृत्तिः।
द्वितीये त्वाह तत्प्रामाण्यमिति।
तत्प्रामाण्यं यथा साक्षी स्थापयत्येवमेव हि।
सर्वकालेष्वपि स्थैर्याद् व्यभिचारमपोह्य च॥९७॥
एवमक्षजमानत्वसिद्धां विश्वस्य सत्यताम्।
किमिति स्थापयेन्नायम्.................॥९८॥
यथाशब्दस्यात्रोत्तरत्र च सम्बन्धः। तस्य ब्रह्मसत्यत्वादिप्रतिपादकस्य वाक्यादेः प्रामाण्यं यथा साक्षी वर्तमानकालीनं स्थापयति गृह्णाति, एवमेव सर्वकालेष्वपि स्थैर्येण गृह्णाति। हिशब्दः परप्रसिद्धिद्योतकः। स्थैर्यमेव विवृणोति व्यभिचारं बाधकमपोह्य निराकृत्यैवेति। न केवलं ब्रह्मसत्यत्वादिवाक्यादिप्रामाण्यं साक्षी तात्कालिकं गृह्णाति किन्त्वात्यन्तिकमेवेत्यर्थः।
अथवा यथाशब्दस्योत्तरेणैव सम्बन्धः। स्थापयत्यात्यन्तिकमेव गृह्णातीत्यर्थः। अस्यैव विवरणम् एवमेवेति। इतिशब्दोऽध्याहार्यः। सर्वकालेष्वपीदमेवमेव न कदाऽपि विषयापहारलक्षणं बाधमाप्नोतीति व्यभिचारमपोह्य तत एव स्थैर्येण गृह्णातीति।
यद्वा एवंशब्दः समुच्चये। साक्षी ब्रह्मादिविषयवाक्यादिप्रामाण्यं स्थापयत्यात्यन्तिकं गृह्णाति। अत एव तद्विषयमपि ब्रह्मादिकं सर्वकालेष्वपि स्थैर्यादतिशयेन व्यभिचारमपोह्यैव स्थापयतीति। प्रामाण्यात्यन्तिकत्वान्तर्गतत्वाद् विषयाबाध्यताया इति हिशब्दार्थः। एवमिति दार्ष्टान्तिकोक्तिः। अयं साक्षी। यदि “तत् सत्यम्” इत्यादिप्रमाणप्रामाण्यमात्यन्तिकं गृह्णन् साक्षी तद्विषयस्य ब्रह्मादेस्त्रैकालिकाबाध्यत्वं व्यवस्थापयेत्, तर्हि तथैव विश्वविषयस्याक्षजादिज्ञानस्याऽत्यन्तिकं प्रामाण्यं गृह्णन् तदन्तर्गतां विश्वस्याबाध्यतामपि स्थापयेदेव, अविशेषादिति समुदायार्थः।
॥ श्रीराम॥
ननु गृह्णात्वात्यन्तिकं प्रामाण्यमक्षजादीनां साक्षी। तस्य तथात्वं तु कुतः? ततश्च न विश्वसत्यतासिद्धिरित्यत आह निर्दोषेति।
.....................निर्दोषज्ञानशक्तितः॥९८॥
साक्षिणो निर्दोषज्ञानरूपत्वशक्त्या तथात्वमपि सिद्ध्यति। अन्यथा ब्रह्मसत्यत्वाद्यपि न सिद्ध्येत्। यद्वा “तत् सत्यम्” इत्यादेरात्यन्तिकं प्रामाण्यं गृह्णाति साक्षी, विश्वविषयस्याक्षजादेस्तु तात्कालिकमेवेति किं न स्यादित्यत आह निर्दोषेति।
अयमर्थः तत् सत्यमित्यादिज्ञानस्याऽत्यन्तिकं प्रामाण्यं गृह्णाति साक्षीत्यत्र किं निमित्तम्? ज्ञानं गृह्णन् तस्य निर्दोषतायां प्रामाण्यमपि गृह्णातीति साक्षिणः स्वाभावोऽयमिति चेत्। कथन्तर्हि अक्षजादेरप्यात्यन्तिकं प्रामाण्यं न गृह्णीयात्? तस्यापि निर्दोषज्ञानरूपत्वशक्तिसद्भावादिति।
अथवा किं साक्षी कुत्रापि प्रामाण्यमात्यन्तिकं ग्रहीतुं न शक्नोति, किंवा क्वचिच्छक्तः, क्वचिदशक्तः? आद्यस्येत्तरम् अन्यथेत्यादि। द्वितीयस्योत्तरम् वाक्येति।
॥ विश्वस्य एकजीवाज्ञानवादकल्पितत्ववादस्य अप्रामाणिकत्वम्॥
स्यादेतदेवं यद्यक्षजादिज्ञानं निर्दोषं स्यात्। नचैवम्। अविद्याकृतप्रपञ्चविषयत्वात् शुक्तिकारजतादिज्ञानवत्। नन्वविद्या किमाश्रितेति चेत्। जीवाश्रितेति ब्रूमः। नन्वत्रापि दूषणमुक्तम् “स्वतोऽन्यता” इति। नैतदस्ति। तद्भेदस्याप्याऽविद्यकत्वात्। नच चक्रकादिदोषः। विश्वस्य जीवाज्ञानकृतत्वेन श्रुत्यादिसिद्धत्वात्। प्रमिते चार्थे तर्काणामवकाशाभावात्। नच कल्प्याभावदोषः। विश्वस्यैकज्ञानकृतत्वाङ्गीकारात्। तदतिरिक्तजीवजडप्रपञ्चस्य कल्प्यत्वोपपत्तेः। एकजीववादो हि मायावादिनां परं हृदयम्। बहुजीववादस्तु मन्दानामाभिमुख्यायावतारित इत्यत आह एकेति।
एकाज्ञानकृतं विश्वमिति यच्चोच्यते मृषा।
बहुज्ञानकृतं विश्वमिति तस्योत्तरं भवेत्॥९९॥
उच्यते ब्रह्मविवर्तवादिभिः, मृषा प्रमाणेन विना। एतदुक्तं भवति स्यादपीदं कथञ्चित्। यदि विश्वस्यैकजीवाज्ञानकल्पितत्वं स्यात्। नचैतदस्ति। प्रमाणाभावात्। श्रुत्यादेरनुपदमेव सम्यग् व्याख्यास्यमानत्वात्। बहूनामीश्वरस्य तत्प्रेरितानां ब्रह्मादीनां च ज्ञानेच्छाप्रयत्नैर्निर्मितत्वे श्रुत्यादिप्रमाणसद्भावेन तद्विरुद्धत्वाच्चेति।
॥ विश्वस्य एकजीवाज्ञानवादकल्पितत्ववादस्य उपपत्तिविरुद्धत्वम्॥
किञ्चैकजीवाज्ञानपरिकल्पितं जीवजडात्मकं समस्तमिति वदन् प्रष्टव्यः किमसावेको जीवः त्वम्, उतान्य इति। अन्यश्चेत् तदज्ञानकल्पितस्य तव बन्धमोक्षाभावाद् व्यर्थं पारिव्राज्यादिकमित्यापद्येत। आद्येऽपि प्रतिवादिप्रमुखान् जीवान् पश्यसि नवा? प्रथमेऽपि किं सन्ति, उत न सन्तीति। आद्यं दूषयति परस्येति।
परस्य सत्यतां जानन्नपि यः स्वात्मतस्करः।
परो नास्तीति वदतिकिमित्युन्मत्तवद् वदेत्॥१००॥
यः परस्य प्रतिवाद्यादेः सत्यतां जानन्नपि परो नास्तीति वदति, स स्वात्मतस्कर इति योजना। स्वात्मानमिव परमपि सत्यतया पश्यतः “अहमेक एव सत्यो मदज्ञानकल्पिताः सर्वे जीवा जडाश्च’ इति वचनं स्वानुभवविरुद्धमित्यर्थः। नहि त्वदज्ञानपरिकल्पितं समस्तमित्यत्र बलवत्प्रमाणमस्ति। येन दर्शनमपि बाध्येत। नहि सत्त्वेन प्रतीयमानस्यापि गन्धर्वनगरादेरसत्त्वमेवमेवाङ्गीक्रीयते, किन्तु बलवत्प्रमाणबाधात्। अन्यथा प्रतिवाद्यज्ञानकल्पितस्त्वमिति कथं न स्याः? तथाचानिश्चयेन न मोक्षार्था प्रवृत्तिः स्यादिति।
द्वितीयतृतीयौ निराचष्टे किमिति। यदि परः प्रतिवाद्यादिजीवान्न पश्यति, पश्यन् वा न सन्तीति पश्यति, तदा किमित्युन्मत्तवद् वदेत्? न कथायां प्रविशेत्, न शास्त्रं विरचयेत्, व्याकुर्याद् वा। अन्यथोन्मत्तवन्नायं लौकिकः, नापि परीक्षक इत्युपेक्षणीयः स्यात्। कुतो न वदेत्? येन वदन्नुन्मत्तपदवीमासादयेदित्यत आह पराभाव इति।
पराभावेऽपि वाग् व्यर्थायदि नैवोच्यते तदा।
कशावेत्रादिकं तस्य तस्करस्योत्तरं वदेत्॥१०१॥
वाचः परबोधनार्थत्वात्। पराभावे च तद्वैयर्थ्याद् व्यर्थां वाचं न प्रयुञ्जीत। प्रयुञ्जानश्च कथमुन्मत्तो न स्यादिति। सत्यम्, पराभावे वचनमनर्थकम्। मयाऽपि किमपि नोच्यत इत्यत आह यदीति। मया किमपि कदाऽपि नैवोच्यत इति यद्युच्यते तदा स्वक्रियाविरोधिनः सकललोकावगतार्थपलापिनस्तस्य तस्करस्येव दण्ड एवोचितो न प्रत्युत्तरम्। परमार्थतो नोच्यत इत्युच्यत इति चेत्। तत् किं प्रतियोग्यभावे निश्चिते व्यवहारतोऽपि वदन्तः प्रेक्षावन्तो भवन्ति, येनेदमुच्येतेति।
॥ “प्रपञ्चो यदि विद्येत’ इत्यस्य प्रपञ्चमिथ्यात्वपरत्वनिराकरणम्॥
प्राक् प्रपञ्चमिथ्यात्वसिद्धये परोदाहृतानां श्रुतीनां बाह्योपपत्तिविरोधः व्युत्पादितः। इदानीमान्तरानुपपत्तिप्रदर्शनपूर्वकं तासामविरुद्धार्थव्याख्यानार्थमुत्तरो ग्रन्थः।
अथवा सर्वश्रुतिसाधारणानुपपत्तिः प्राक् प्रपञ्चिता। इदानीमसाधारणानुपपत्तिर्व्युत्पाद्यते। तत्र तावत् “प्रपञ्चो यदि विद्येत” इत्यादिवाक्यद्वयं पठित्वा पराभिमतार्थेऽनुपपत्तिमाह प्रपञ्च इति।
प्रपञ्चो यदि विद्येत निवर्तेत न संशयः।
मायामात्रमिदं द्वैतमद्वैतं परमार्थतः॥१०२॥
विकल्पो विनिवर्तेत कल्पितो यदि केनचित्।
उपदेशादयं वादोऽज्ञाते द्वैतं न विद्यते॥१०३॥
इत्यत्र यदिशब्दौ च निवर्तेतेति च द्वयम्।
विश्वस्य सत्यतामाहुः..................॥१०४॥
नन्वत्र सूत्रगृहीततया परेणोपात्तानां श्रुतीनामनुपपत्त्यादिकं प्रथमतो वक्तव्यम्। सत्यम्। तथाऽप्येकजीवाज्ञानपरिकल्पितत्वे समस्तस्य, न प्रमाणमस्तीत्यनन्तरमेवोक्तम्। अत उभयानुगुण्यादस्याः प्रथमप्राप्तिः। इत्यत्र श्लोकद्वये यदिशब्दद्वयम्, निवर्तेतेति लिङ्प्रयोगद्वयं च। उपलक्षणं चैतत्। “विद्येत” इत्यपि ग्राह्यम्। तथा “केनचित्” इति। सत्यतामित्युपलक्षणम्। अनादितां चेति ग्राह्यम्। आहुरित्यवगमयन्तीत्यर्थः। तथाच विश्वमिथ्यात्वपरतया व्याख्याने तदनुपपत्तिरिति शेषः।
यद्यत्र प्रपञ्चमिथ्यात्वमभिसन्धित्सितं स्यात्, तदा योऽयं प्रपञ्चो विद्यत इव दृश्यते स निवर्तिष्यते। अज्ञानेन कल्पितो विकल्पो विनिवर्तिष्यत इति वक्तव्यम्। यद्याद्यास्तु शब्दा विगतार्था विरुद्धार्थाश्च। तत्प्रयोगे हि प्रसङ्गद्वयपरमेतद्वाक्यद्वयमिति विज्ञायते। यदि पर्वतो निरग्न्किो भवेत्, तर्हि निर्धूमोऽपि स्यादिति यथा।
॥ श्रुत्यर्थकथनम्॥
प्रसङ्गस्य च विपर्यये पर्यवसानादनिवृत्त्यादिकमेव वाक्यसामर्थ्याल्लभ्यत इति परकीयमर्थमपाकुर्वतैव श्रुतितात्पर्यं सूचितम्। तत् स्पष्टीकुर्वन् विद्येतेत्यस्यार्थं तावदाह विद्येतेति।
.....................विद्येतोत्पत्तिमेव च॥।१०४॥
विदोत्पत्ताविति ह्यस्माद् धातोरुत्पत्तिरेव हि।
निवृत्तिव्याप्तियुक् प्रायः...................॥१०५॥
इत्येतच्छब्दरूपमुत्पत्तिमेवाऽह। नतु सत्तामिति प्रकृत्यर्थकथनम्। चशब्देन निवर्तेतेति विनाशमाह। नतु बाधमिति समुच्चिनोति। विद्यतेरुत्पत्त्यर्थत्वं कुत इत्यत आह विदेति। “विद उत्पत्तौ” इति ह्यस्माद् धातोः धातुव्याख्यानादित्यर्थः। विद्यतेरुत्पत्त्यर्थत्वं प्रत्येतव्यमिति पूर्वेण सम्बन्धः। धातोरिति षष्ठ्यन्तं वा। तस्य व्याख्यानादिति शेषः। मन्दानामप्रसिद्धमपीदं धातुव्याख्यानं बहुज्ञानां प्रसिद्धमेवेति हिशब्दार्थः।
तथाऽप्युत्पत्तिरेवेति कुतः? सत्ताऽत्र कुतो नेत्यत आह उत्पत्तिरेवेति। अत्रहि प्रपञ्चो यदि विद्येत तर्हि निवर्तेतेति यदिशब्दादिबलात् प्रसङ्गोऽयमिति ज्ञायते। प्रसङ्गश्च व्याप्तिमूलः। “व्याप्याङ्गीकारेऽनिष्टव्यापकप्रसज्जनं तकः” इति तल्लक्षणात्। तथाच विद्येतेत्यापादकतयोक्तस्यार्थस्य निवर्तेतेत्यापाद्यतयोक्तया निवृत्त्या व्याप्तिरवश्यम्भाविनी। उत्पत्तिरेव निवृत्तिव्याप्तियुक्ता, न सत्ता। अस्माकं व्यभिचारित्वात्। परस्य विरुद्धत्वात्। अतः प्रतीयमानान्वययोग्यताभावान्न सत्ता विद्यतेरर्थः, किन्तूत्पत्तिरेव तद्योग्यत्वादिति।
प्रध्वंसव्युदासार्थं प्राय इत्युक्तम्। उत्पत्तिर्निवृत्तियुगित्ययं प्रायो बाहुल्यमित्यर्थः। तथाच भावत्वे सतीत्यापादकविशेषणं विवक्षितमित्युक्तं भवति। एतेनाल्पज्ञानां धातुव्याख्याने विप्रतिपत्तिरपि निरस्ता वेदितव्या।
ननूत्पत्तिर्नाम कारणायत्तसत्तालाभः। नचाभावे सत्ताऽस्तीत्यभावस्य प्रसक्त्यभावात् प्राय इति व्यर्थम्। मैवम्। केयं सत्ता नाम? अनुगतरूपा वा, स्वरूपमेव वा? नाऽद्यः, तस्या घटादावप्यभावस्य वक्ष्यमाणत्वात्। (७२४) न द्वितीयः, अभावे तद्भावस्य “अस्त्यभावोऽस्ति च ध्वंसः” इत्यादौ वक्ष्यमाणत्वादिति।
॥ श्रौतप्रपञ्चशब्दस्य भेदपञ्चकपरत्वम्॥
नन्वस्मिन्नपि व्याख्याने नान्वययोग्यताऽस्ति। तर्कस्य व्याप्तिरिव विपर्यये पर्यवसानमवश्यम्भावि। तथाच प्रपञ्चो यद्युत्पद्येत तर्हि विनश्येत, नच विनश्यति, तस्मान्नोत्पद्यत इति वक्तव्यम्। नचैतद् युक्तम्। क्षित्यादेः प्रपञ्चस्योत्पत्तिविनाशयोः प्रमाणदृष्टत्वात्। अत एव तर्काङ्गभूतमापाद्यस्य अनिष्टत्वं च नोपपद्यत इत्यतः प्रपञ्चशब्दमन्यथा व्याचष्टे प्रपञ्च इति।
.......................प्रपञ्चो भेदपञ्चकः॥१०५॥
नायं प्रपञ्चशब्दो विश्वविस्तारवाची। येनोक्तदोषः स्यात्। किन्तु पञ्चानां वर्गः पञ्चः। “पञ्चद्दशतौ वर्गे वा” इति वाशब्देन पञ्चशब्दस्यापि निपातनाङ्गीकारात्। प्रकृष्टः पञ्चः प्रपञ्चः। प्रकृष्टता च मोक्षाङ्गज्ञानतया भवति। सा च भेदसम्बन्धिन एव पञ्चकस्योपपन्ना। “वैलक्षण्यं तयोर्ज्ञात्वा मुच्यते बद्ध्यतेऽन्यथा” इत्यादेः। अतः प्रपञ्चो भेदपञ्चकः। स च जीवेश्वरप्रकृत्यादिनित्यस्वरूपभूतः अनादिनित्य एवेति नोक्तदोषः।
टीकाकारास्तु मन्यन्ते भेदो नामान्योन्याभावः। स चान्योन्यतादात्म्यापत्त्यैव निवर्तनीयः। प्रतियोग्युत्पत्तेरेवाभावविपत्तित्वस्य प्रागभावे दृष्टत्वात्। नच कदाऽपि पदार्थानामन्योन्यं तादात्म्यमस्तीत्यनित्यानामपि भेदो नित्य एवेति। अन्येऽप्याहुः “नित्ये च त्रयाणां सिद्धिः” इति।
॥ भेदपञ्चकाभिधायकसमाख्याश्रुत्या उक्तार्थसमर्थनम्॥
प्रपञ्चशब्दो भेदपञ्चकवाचीत्येतत् कुत इति चेत्। परोक्तानुपपत्तेरेवेति ब्रूमः। समानार्थायाः श्रुतेश्चेत्याह जीवेति।
जीवेश्वरभिदा चैव जडेश्वरभिदा तथा।
जीवभेदो मिथश्चैव जडजीवभिदा तथा।
मिथश्च जडभेदोऽयं प्रपञ्चो भेदप्रञ्चकः॥१०६॥
सोऽयं सत्यो ह्यनादिश्च सादिश्चेन्नाशमाप्नुयात्।
द्वैतं न विद्यत इति तस्मादज्ञानिनां मतम्॥१०७॥
इति श्रुतेर्मितं त्रातं मायाख्यहरिविद्यया।
उत्तमोऽर्थो हरिस्त्वेकस्तदन्यन्मध्यमाधमम्॥१०८॥
अत्र चशब्दास्तथाशब्दौ चान्योन्यसमुच्चये। एवशब्दावभेदसाहित्यव्यवच्छेदार्थौ। एष भेदपञ्चकः प्रपञ्च उक्तः, “प्रपञ्चो यदि विद्येत” इत्यादावित्यर्थः। “सोऽयं सत्यो ह्यनादिश्च” इत्यनेनात्रापि प्रतिज्ञाद्वयं बहिरेव कर्तव्यमिति ज्ञायते। तत्रानादित्वानङ्गीकारे बाधकम् सादिश्चेदिति। अनेन प्रथमश्लोकस्य पूर्वार्धो व्याख्यातो भवति। सत्यत्वाभावे बाधकं स्वयमूहनीयमित्यभिप्रेत्य तदुपसंहृतम् द्वैतमिति। तेन “अज्ञाते” इत्युक्तार्थं भवति।
॥ मायामात्रशब्दस्य, “अद्वैतं परमार्थतः’ इत्यस्य चार्थकथनम्॥
श्रुत्यन्तरेणाव्याख्यातत्वात् “मायामात्रम्” इत्येतद् व्याचष्टे मितमिति। “मा माने”, “त्रै पालने” इत्याभ्यां “घञर्थे कविधानम्” इति कर्मणि कप्रत्यये मात्रमिति भवति। धातुद्वयादप्येकः प्रत्ययः “अदिभूभ्यां डुतच्” “अद्भुतम्’ इत्यादौ दृष्टः। “विष्णोः प्रज्ञप्तिरेवैका शब्दैरेवाभिधीयते” इत्यतो मायाख्यहरिविद्ययेत्युपपन्नम्।
“अद्वैतं परमार्थतः” इत्येतद् व्याख्याति उत्तमोऽर्थ इति। तस्योपपादनम् तदन्यदिति। यतः तस्माद् हरेरन्यत् किञ्चिन्मध्यमम्, किञ्चिदधमं तस्मादुत्तमोऽर्थो हरिरैवेक इति। “विकल्पो विनिवर्तेत” इत्येतत् प्रपञ्चसत्यातायां स्फुटमिति न व्याकृतम्।
॥ विस्तरेण श्रुत्यर्थनिरूपणम्॥
इयमत्र योजना “अनादिमायया सुप्तो यदा जीवः प्रबुद्ध्यते। अजमनिद्रमस्वप्नमद्वैतं बुद्ध्यते तदा” इति पूर्वश्लोकेऽनादिमायया परमेश्वरप्रज्ञया तदिच्छया वा जीवजातस्य प्रकृत्यादिजडावृतज्ञानत्वलक्षणं सुप्तत्वम्, तयैव परमेश्वरादितत्वविषयपरोक्षज्ञानलक्षणं प्रबोधमभिधायापरोक्षज्ञानमप्युक्तम्। तेन जीवेश्वरयोर्जडेश्वरयोर्जीवजडयोश्च भेदाः प्रतिपादिताः। प्रभोरिच्छया निगडादिना पुरुषे बद्धे मुक्ते वा भेदत्रयदर्शनात्।
प्राक् “प्रभवः सर्वभावानाम्” इति भावशब्दोक्तानां जीवानां मिथो भेदोऽप्युक्तः। तत एव आवरणानां जडानामपि मिथो भेदोऽर्थाल्लभ्यते। तेषां च पञ्चानामपि भेदानाम् “अनादिमायया” “अजमनिद्रम्” इत्यादिविशेषणसामर्थ्यादिनाऽनादित्वमपि लब्धम्। तदेतत् पञ्चभेदस्य सत्यत्वमनादित्वं चोपपादयितुमिदं श्लोकद्वयम्।
तत्र तावदनादित्वं विपक्षे बाधकप्रदर्शनेनोपपादयति प्रपञ्च इति। यदिच जडजीवभेदो निवर्तेत तदा जीवानां जडत्वापत्त्या मोक्षशास्त्रवैयर्थ्यमित्यादिरूपेण निवर्तेतेत्यस्यानिष्टत्वं द्रष्टव्यम्। न संशय इति व्याप्तेर्निश्चयमाह।
एवं भेदपञ्चकस्यानादितामुपपाद्य सत्यतायां प्रमाणमाह मायामात्रमिति। यस्मादिदं प्रपञ्चशब्दोक्तं द्वैतमुक्तरीत्या मायामात्रं तस्मात् सत्यम्। नह्यविद्यमानमीश्वरप्रज्ञाविषयो भवति। भ्रान्तित्वप्रसङ्गात्। नाप्यविद्यमानं केनापि रक्ष्यते। अत्र द्वयोर्भावो द्विता। तदीयो वर्गो द्वैतम्। सामान्ये नपुंसकम्। प्रपञ्चसम्बन्धस्तु प्रकरणाल्लभ्यत इति ज्ञातव्यम्।
तर्हि “अद्वैतः सर्वभावानाम्” इत्यादि कथमुक्तमित्यत आह अद्वैतमिति। यदिदं परमेश्वरस्य अद्वैतत्वं च विशेषणमुक्तं न तद् द्वितीयवस्तुराहित्याभिप्रायेण। किन्तु परमार्थतः। ल्यब्लोपनिमित्ता पञ्चमी। उत्तममर्थमभिप्रेत्येति। सप्तम्यर्थे वा तसिः। उत्तमार्थविषय इति।
भेदसत्यतानङ्गीकारे बाधकं चाऽह विकल्प इति। विकल्पः प्रकृतो भेदो यदि केनचिदज्ञानादिना कल्पितः स्यात्, तर्हि चन्द्रभेदवन्निवर्तेत, बाध्येत। नच बाध्यते, तस्मान्न कल्पितः। किन्तु सत्य एवेति।
उपसंहरति उपदेशादिति। तदेवमुपदेशाच्छ्रुत्याद्यनुसारित्वादयमेव सतां वादः यो भेदसत्यत्वादिविषयः। द्वैतं न विद्यत इति तु तत्वेऽज्ञाते सति भवति। अतो दुर्वाद इति।
॥ भास्करेण कार्यकारणयोरभेदात् कारणज्ञानेन कार्यस्य ज्ञाततानिरूपणं दृष्टान्तत्रयार्थ इत्युपपादनम्॥
अधुना परिणामवादिना विवर्तवादिना च “प्रतिज्ञादृष्टान्तानुपरोधात्” इति सूत्रार्थतया गृहीतां “उत तमादेशमप्राक्षः” इत्यादिकां श्रुतिं व्याख्याति।
तत्र परिणामवादिनो व्याख्यानम् “उत तमादेशमप्राक्षो येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम्” इति जगतो ब्रह्मपरिणामतया ततोऽनन्यत्वाभिप्रायेण तद्विज्ञानेन सर्वविज्ञानं प्रतिज्ञातम्। तत्र सर्वस्य ब्रह्मोपादानतामजानता उपादानोपादेययोरपि भेदं मन्यमानेन श्वेतकेतुनाऽन्यज्ञाने सत्यन्यज्ञानस्य क्वाप्यदर्शनात् “कथं नु भगवः स आदेशो भवति” इति चोदिते जगतो ब्रह्मोपादानतया तदनन्यत्वमुपदेक्ष्यन् लौकिकप्रतीतिसिद्धं कारणात् कार्यस्यानन्यत्वम्, तज्ज्ञानेन तज्ज्ञानं च दर्शयति
“यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं स्याद्
वाचाऽऽरम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्।
यथा सोम्यैकेन लोहमणिना सर्वं लोहमयं विज्ञातं स्याद्
वाचाऽऽरम्भणं विकारो नामधेयं लोहमणिरित्येव सत्यम्।
यथा सोम्यैकेन नखनिकृन्तनेन सर्वं कार्ष्णायसं विज्ञातं स्याद्
वाचाऽऽरम्भणं विकारो नामधेयं कार्ष्णायसमित्येव सत्यम्” इति।
यथैकमृत्पिण्डादिपरिणामानां घटादीनां तदननन्यतया तज्ज्ञानेन ज्ञाततेति दृष्टान्तत्रयार्थः। अनन्यत्वे कथं कार्यत्वमित्याशय व्यवहारार्थमित्याह वाचाऽऽरम्भणमिति। वाचेति षष्ठ्यर्थे तृतीया। वाग्ग्रहणं समस्तेन्द्रियव्यवहारोपलक्षणम्। विकारोऽभिधेयो घटादिः, नामधेयं तदभिधानमिति कुम्भादेर्वाच्यस्य तद्वाचकानां च स्वरूपकार्यव्यपदेशादिभेदात् परस्परं भेदो वास्तव इत्युक्तम्। एतैर्हेतुभिः परस्परं भेदश्चेत् कारणादपि तैरेव भेद इति पूर्वपक्षं निषेद्धुमाह मृत्तिकेत्येव सत्यमिति। इतिशब्दः प्रकारवचनः। यत्प्रकारेण यत्सत्तया मृत्तिका सती तत्प्रकारेणैव मृन्मयं सत्यम्। नाश्वमहिषादिवन्नैरपेक्ष्येणेति।
॥ मायावादिना कार्यकारणयोरभेदपरतया, प्रपञ्चमिथ्यात्वपरतया च दृष्टान्तव्याख्यानम्॥
विवर्तवादी तु व्याचष्टे एकविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय दृष्टान्ताकाङ्क्षायामुच्यते यथा सोम्येति। एतदुक्तं भवति एकेन मृत्पिण्डेन परमार्थतो मृदात्मना विज्ञातेन सर्वं मृन्मयं घटादिकं मृदात्मकत्वाविशेषाद् विज्ञातं भवेत्। यतो वाचाऽऽरम्भणं विकारो नामधेयम्। वाचा केवलमस्तीत्यारभ्यते, विकारो घटः शराव उदञ्चनं चेति। नतु वस्तुवृत्तेन विकारो नाम कश्चिदस्ति। नामधेयमात्रं ह्येतदनृतम्। मृत्तिकेत्येव सत्यमित्येष ब्रह्मणो दृष्टान्त आम्नात इति।
॥ साङ्केतिकनाम्न उत्पत्तिविनाशवत्त्वम्, वैदिकत्वात् संस्कृतनाम्नामनादिनित्यत्वं श्रुत्यर्थः॥
तत्रैकविज्ञानेन सर्वविज्ञानप्रतिज्ञानम्, मृत्पिण्डादिदृष्टान्ताश्च विकारविवर्ताभिप्राया इत्येवं न तावद् वाक्यात् प्रतीयते। किन्तु “वाचाऽऽरम्भणम्” इत्युपपादकवाक्यबलादिति वक्तव्यम्। अतस्तदेव प्रथमं व्याकुर्वन् वाचारम्भणशब्दार्थमाह वाचाऽऽरब्धमिति।
वाचाऽऽरब्धं तु साङ्केत्यनाम स्याद्विकृतं बहु।
नित्यं तु नामधेयं यन्मृत्तिकेत्यादि वैदिकम्॥१०९॥
नन्वारम्भणशब्दो ल्युडन्तः। ल्यु च भावे करणाधिकरणयोश्च विहितो न कर्मणि। नच “कृत्यल्युटो बहुलम्” इति कर्मणि ल्यु। प्रबलनियामकमन्तरेण बहुलग्रहणस्य कर्मणि व्याख्यातुमशक्यत्वात्। “नचाऽरभ्यस्याऽरम्भणमिति युज्यते शब्दः” इति स्ववचनविरोधाच्च। तत् कथमारब्ध इति व्याख्यानमिति।
मैवम्। भाव एवाऽरम्भणशब्दस्याङ्गीकारात्। वाचा वागिन्द्रियेणाऽरम्भणमुत्पादनं यस्येति तृतीयाया अलुक्। “टापं चापि हलन्तानां यथा वाचा निशा दिशा” इति वचनात्, वाचयाऽऽरम्भणं यस्येति वा बहुव्रीहिरयम्। तस्यार्थकथनं वाचाऽऽरब्धमिति। तुशब्दोऽवधारणार्थ उत्तरत्र सम्बद्ध्यते।
वाचारम्भणशब्दादेव विकारत्वलाभाद् विकार इति पुनरुक्तं स्यात्, अतस्तात्पर्यमाह साङ्केत्येति। वाचारम्भणशब्देन साङ्केतिकं नामैव वाच्यं स्यात्। अवयवार्थकथनं तु वैशद्यार्थमेव। यथा चष्टेऽनेनेति चक्षुरिति निर्वचनलभ्येऽपि दर्शनकरणत्वे चक्षुषा पश्यतीति नोक्तार्थता। तस्यां दशायामवयवार्थस्य अविवक्षितत्वात्। तथाच वाचारम्भणशब्दोऽपि साङ्केतिकपर्याय इति।
विकारशब्दार्थमाह विकृतमिति। अनेन विक्रियत इति विकार इति कर्मणि घञित्युक्तं भवति। विकृतत्वोपपादकमर्थान्तरं चाऽह बह्विति। विविधः कारः प्रकारो विकारः। प्रकारप्रकारिणोरभेदाद् बह्वित्युक्तम्। बहुविधमित्यर्थः।
“नामधेयं मृत्तिकेत्येव सत्यम्” इत्यस्यार्थमाह नित्यं त्विति। सत्यशब्दार्थो नित्यमिति। तुशब्दोऽवधारणे। आदिशब्देन लोहमण्यादेर्ग्रहणम्। यन्मृत्तिकेत्यादि संस्कृतं नामधेयं तदेव नित्यमिति सम्बन्धः। वैदिकमिति तदुपपादनम्।
ततश्चैवं योजना वाचारम्भणं साङ्केतिकं नामधेयं विकार उत्पत्तिमत्। तत एवानित्यम्। कुतः? बहुविधत्वात्। पुरुषेच्छानुसारेणानेकप्रकारत्वात्। मृत्तिकेत्यादि नामधेयं वैदिकत्वान्नित्यमानादि चेति। नच वाचारम्भणं विकार इति लिङ्गवैषम्यदोषः। नामधेयविकारशब्दयोर्नियतलिङ्गत्वात्। वाचारम्भणशब्दस्य च नामधेयविशेषणत्वात्। विशेषणानां च विशेष्यनिघ्नत्वात्। अत एव “साङ्केत्यम्” इत्येव वक्तव्ये “साङ्केत्यनाम” इत्यवोचत्।
यदा तु “वाचा यस्याऽरम्भणं तन्नामधेयं विकारो जनिमत्” इति, “वाचा नाम्नामारम्भणं विविधाकारः, आकाराकारिणोरभेदात्। विकारित्वादुत्पत्तिविनाशवदिति यावदिति वा” ग्रन्थान्तरोक्ता योजना, तदा लिङ्गव्यत्यासशङ्कैव नास्तीति।
॥ प्रधानज्ञानादप्रधानस्य ज्ञातप्रायत्वप्रदर्शनाय वाचारम्भणमित्यादिदृष्टान्ताः॥
ननुच साङ्केतिकनाम्नामुत्पत्तिविनाशवत्त्वम्, संस्कृतनाम्नामनादिनित्यत्वं किमर्थमत्रोच्यते? परमप्रकृते ब्रह्मविज्ञानेन सर्वविज्ञाने, अवान्तरप्रकृतेऽस्माकमिव दृष्टान्ते चोपयोगाभावात्। अतोऽसङ्गतत्वान्नायं श्रुत्यर्थ इति।
मैवम्। यद्यपि परस्येव नेदं दृष्टान्तोपपादकम्। तथाऽपि ब्रह्मज्ञानेन सर्वविज्ञाने दृष्टान्तान्तरतयोपयोक्ष्यते। यथा तेन तद् विज्ञातं स्यादिति, प्रकृतानुवृत्तेरित्याशयवानाह प्राधान्यादिति।
प्राधान्यात् तत्परिज्ञानात् प्राकृताज्ञोऽपि पूरुषः।
विद्वानित्युच्यते सद्भिरेवं नित्यपरात्मवित्॥११०॥
इदमुक्तं भवति कृतकत्वादनित्यत्वाच्च परापेक्षत्वेन साङ्केतिकं नामाप्रधानम्। अनादिनित्यत्वात् परानपेक्षत्वेन संस्कृतं प्रधानम्। तत्र यथा प्राधान्यात् संस्कृतज्ञानमात्रेण साङ्केतिकं ज्ञातं भवति। तज्ज्ञानेन यत् फलं विद्वद्व्यवहारगोचरत्वादिकं तद् भवतीति यावत्। एवमनित्यत्वादिनाऽप्रधानस्य देवताकर्मादिमिश्रस्य सकलस्यापि जगतो ज्ञानेन यत् फलं तत् समस्तमपि नित्यत्वादिना प्रधानस्य परमात्मनो ज्ञानाल्लभ्यते। तत्फलेऽन्तर्भवतीति।
अत्र प्राकृताज्ञोऽपीत्यनेन फलापेक्षयेदमिति सूचितं भवति। एवन्तर्ह्येकविज्ञानेन सर्वविज्ञानममुख्यं स्यादिति चेत्। सत्यम्। नहि परेणापि तन्मुख्यं व्याख्यातुं शक्यम्। तथासति दृष्टमृदः पुरुषस्य घटशरावादिसंस्थानविशेषादिजिज्ञासाभावप्रसङ्गात्। पामरा नहि विद्वानिति वदन्ति, अतः सद्भिरित्युक्तम्। एवं नित्यपरात्मविदिति वाक्यस्योक्तानुसारेण शेषो ज्ञातव्यः।
॥ सत्यशब्दस्य नित्यार्थत्वसमर्थम्॥
ननु सत्यशब्दः कथं नित्यार्थः? रूढेर्योगस्य चाभावादित्यतो योगं तावद् दर्शयति सदातनमिति।
सदातनं सत्यमिति नित्यमेवोच्यते बुधैः।
प्रयोगश्र्चोत्तरत्रास्तिजरा यद्येनमाप्नुयात्॥१११॥
देहः प्रध्वंसते वाऽयं किं ततोऽस्यातिशिष्यते।
हन्यते न वधेनायं जरया च न जीर्यते।
एतत् सत्यं ब्रह्मपुरमिति नित्यत्व एव हि॥११२॥
सत्यमितीत्यावर्तनीयम्। सदातनं सत्यमिति निर्वचनेन सत्यमिति पदेन नित्यमुच्यत एव। नतूपचर्यत इति। बुधैर्वैयाकरणैरिति निर्वचनमूलं सूचयति। सदाशब्दात् तत्र भव इत्यर्थे “अव्ययात् त्यप्” इति त्यप्प्रत्यये कृते “सर्वस्य सोऽन्यतरस्यां दि” इत्यत्र योगविभागात् सदाशब्दस्य सोऽन्यतरस्यां भवति। सदाशब्दात् “भवार्थे तद्धिताः” इति ड्यप्रत्ययो वोत्पाद्यः। दकारस्य च तकारः।
इदानीं रूढिमपि दर्शयति प्रयोगश्चेति। उत्तरत्राष्टमे प्रपाठके सत्यशब्दस्य नित्यत्व एव प्रयोगश्च अस्तीति सम्बन्धः। तमेव प्रयोगं दर्शयितुं “यदैनं जराऽवाप्नोति प्रध्वंसते वा किं ततोऽस्यातिशिष्यत इति स ब्रूयान्नास्य जरयैतज्जीर्यते न वधेनास्य हन्यते एतत् सत्यं ब्रह्मपुरम्” इति वाक्यमर्थतः पठति जरेति। यदैनं देहं जराऽवाप्नोति, प्रध्वंसते वाऽयं देहः, ततः तदा अस्य देहस्यान्तर्गतः परमात्मा दह्यमानगेहान्तर्गतगगनवत् किमतिशिष्यते, किंवा पटादिवन्नश्यतीति पृष्टे, नास्य देहस्य जरयाऽयं परमात्मा जीर्यते, अस्य वधेन न हन्यते, किन्त्वेतद् ब्रह्म पूर्णत्वात् पुरं सत्यं नित्यमिति परिहारोऽभिधीयते। इतिशब्दस्य पूर्वेणान्वयः।
अत्रापि सत्यशब्दः कुतो नित्यार्थ इत्यत आह नित्यत्व एव हीति। अत्र सत्यशब्दो नित्यार्थश्चेत् सङ्गच्छते। विनाशस्य प्रकृतत्वात्। तथ्यार्थतायामसङ्गतिः। अनृतताया अप्रस्तुतत्वादिति हिशब्दार्थः। एतदेव स्पष्टीकर्तुम् “एतत् सत्यं ब्रह्मपुरम्” इत्येतावति पठितव्ये पूर्ववाक्यमपि पठितम्। पूर्वेणैव सम्बन्धः।
ब्रह्मणो जरावधयोरभावे सत्यत्वं हेतुत्वेनोच्यत इति चेत्, न। त्वया ब्रह्मव्यतिरिक्तस्य सत्यस्य अनभ्युपगतत्वेनान्वयाभावात्। जराद्युपेतानां देहानामसत्यत्वस्यासिद्धेः, असत्यानां च शुक्तिरजतादीनां जराद्यभावेन व्यतिरेकस्याप्यभावात्।
॥ दृष्टान्तत्रयोक्तिसमर्थनम्॥
ननु तथाऽपि वाचारम्भणवाक्यं त्रिवारं कस्मात् पठ्यते? शब्दान्तरं दृष्टान्तीकर्तुमिति ब्रूमः। तर्हि षडेते दृष्टान्ताः स्युः। एवमेवैतत्। तथासति संस्कृतशब्ददृष्टान्तत्रयमेकत्रैव वक्तव्यम्। मैवम्। तत्तदभिधेयप्रसङ्गायत्तस्य तदभिधानस्य तदैव वक्तव्यत्वात्।
तथाऽपि प्रतिशब्दं दृष्टान्तीकरणेऽपर्यवसानप्रसक्तेः, उपलक्षणत्वे चैकेनापि कृतत्वाच्छब्दत्रयोपादानमनुपपन्नमिति चेत्, न। मृत्पिण्डादिदृष्टान्तत्रयोपादानेऽप्यस्य समानत्वात्। गहने प्रमेये त्रयोपादानं न दोषाय। किन्तु बुद्धिवैशद्यहेतुतया गुणायैवेति चेत्। समं प्रकृतेऽपीति।
॥ मायवादिव्याख्याने अश्रुतकल्पनापौनरुक्त्यनिरर्थकत्वदोषाः॥
एवं स्वमतेन “वाचारम्भणम्” इत्यादिवाक्यं व्याख्याय विवर्तवादिव्याख्याने दोषमाह वाचारम्भणमिति।
वाचारम्भणमित्युक्ते मिथ्येत्यश्रुतकल्पनम्।
पुनरुक्तिर्नामधेयमितीत्यस्य निरर्थता॥११३॥
उक्तं उक्तिः, शब्द इति यावत्। वाचारम्भणमिति शब्दे मिथ्येति व्याख्यायमाने सतीति शेषः। तथाहि किं रूढिमाश्रित्य वाचारम्भणमित्यस्य मिथ्येति व्याख्यानं क्रियते, किंवा योगम्? आद्ये रूढिज्ञापकप्रमाणाभावादश्रुतकल्पनम्।
अथाऽरभ्यत इत्यारम्भणमिति द्वितीयः। तथाऽपि कृद्योगे षष्ठ्यां प्राप्तायां तृतीयाङ्गीकारेऽश्रुतकल्पनम्। ल्युटः कर्मणि विधानाभावाच्चाश्रुतकल्पनमेव। अस्मिन्नपि पक्षे मिथ्यात्वस्यालाभादश्रुतकल्पनम्। वाचाऽऽरभ्यत्वमात्रेण तथात्वे ब्रह्मणोऽपि तत्प्रसङ्गात्। वाचा केवलमारभ्यते विकारः, नतु वस्तुवृत्ते नास्तीति व्याख्याने मिथ्यात्वं लभ्यत इति चेत्, न। यतः श्रुत्या वाचारम्भणमित्येवोक्ते केवलशब्दप्रक्षेपेण मिथ्येति व्याख्यानेऽश्रुतकल्पनमेवेति।
दूषणान्तरमाह पुनरुक्तिरिति। इतिशब्दोऽत्राध्याहार्यः। आगामिनो वा काकाक्षिन्यायेनोभयत्र सम्बन्धः। नामधेयमित्येतत् “नामधेयमात्रं ह्येतदनृतम्” इति परेण व्याख्यातम्। तस्य वाचारम्भणमित्यनेनैव गतार्थत्वान्नामधेयमिति पुनरुक्तिः स्यात्। अथ विकारो नामधेयं च द्वयमपि वाचारम्भणमिति व्याख्यानम्, तथाऽपि विकारशब्देनैव अभिधेयाभिधानयोर्ग्रहणसम्भवान्नामधेयमिति पुनरुक्तिरेव। “तन्नामरूपाभ्यां व्याक्रियते” इत्यादिश्रुतेः।
दोषान्तरमाह इतीत्यस्येति। मृत्तिकायाः सत्यत्वं हि परस्य विवक्षितम्। तत्र मृत्तिकैव सत्येति वक्तव्यम्। इतिशब्दस्तु निरर्थक एव। स हि क्वचित् पदार्थविपर्यासकृत्, क्वचिद्धेतौ, क्वाप्येवमित्यर्थे, कुत्रचिदादिशब्दार्थे, क्वचित् प्रकारार्थे, क्वचित् परिसमाप्तौ। नचात्रैवमादिष्वन्यतमेनार्थेनार्थवान्। अस्माकं तु “शब्दादर्थे सम्प्रत्ययः” इति मृत्तिकार्थे प्राप्ते तत्परिहारेण शब्दस्वरूपग्रहणार्थं तदुपपत्तिः।
॥ भास्करीयव्याख्याने अश्रुतकल्पनापौनरुक्त्यनिरर्थकत्वदोषाः॥
परिणामवादिनोऽपि कृद्योगे तृतीयाया अङ्गीकृतत्वात्, ल्युटः कर्मणि व्याख्यातत्वात्, वाचाऽऽरम्भणं विकारो नामधेयमित्येतेषां पदानामन्वयाभावेन पदान्तराध्याहारस्येष्टत्वादश्रुतकल्पनम्, नामधेयस्यापि विकारग्रहणेन ग्रहणसम्भवात् पुनरुक्तिः, इतिशब्दस्य निरर्थकता चेति स्फुटत्वान्नोक्तम्।
ननु तेनेतिशब्दः प्रकारवचन इत्युक्तम्, तत् कथं निरर्थकता? उच्यते कार्यकारणयोर्भेदाशङ्कानिरासार्थं हीदमुच्यते। तत्र यत्सत्तया मृत्तिका सती तयैव मृन्मयं सत्यमिति व्याचक्षाणेन वक्तव्यम् केयं सत्ता विवक्षितेति। स्वरूपसत्ता चेत् साध्याविशिष्टता। यो हि कार्यकारणयोर्भेदं मन्यते, स कथं कारणस्वरूपेणैव कार्यं स्वरूपसदित्यङ्गीकुर्यात्?
अथ सामान्यसत्ता। साऽनैकान्तिकी। नहि महिषसत्तया सन्नश्र्वो महिषान्न भिद्यते। अथ मृत्तिकासत्ताधीनसत्ताकं मृन्मयमिति विवक्षितम्, तथाऽपि कुलालादिसत्ताधीनसत्ताकमपि भवतीत्यनैकान्त्यमेव। विरुद्धं चैतत् यद् यदधीनं तदेव तदिति। अतो विवक्षितसाधनानुपयोगित्वादितिशब्दस्य तन्मतेऽपि निरर्थकतैवेति।
॥ मृत्पिण्डादिदृष्टान्तव्याख्याननिरासः॥
इदानीं “यथा सोम्य” इत्यादीनि दृष्टान्तवाक्यानि स्वमतेन व्याकरिष्यन् परकीयव्याख्यायां तावद् दोषमाह एक इति।
एकः पिण्डो मणिश्चेति पदवैयर्थ्यमेव च।
विकारत्वविवक्षायां नचैकनखकृन्तनम्॥११४॥
सर्वं कार्ष्णायसं च स्यात्................।
पदसमुच्चये प्रथमश्चशब्दः। इतिशब्दस्य प्रत्येकं सम्बन्धः। वैयर्थ्यं विगतार्थत्वं विरुद्धार्थत्वं च। एवशब्देन वैयर्थ्यस्यापरिहार्यतामाह। चशब्दस्य विवर्तविवक्षायां चेत्यर्थः। जगतो ब्रह्मविकारत्वेन तदारोपितत्वेन चैकविज्ञानेन सर्वविज्ञाने विवक्षिते मृदा विज्ञातया मृन्मयं विज्ञातं स्यात्। लोहेन विज्ञातेन लोहमयं विज्ञातं स्यात्। कृर्ष्णायसा विज्ञातेन कार्ष्णायसं विज्ञातं स्यादित्येतावता पूर्णत्वात् त्रयाणामेकशब्दानाम्, पिण्डमणिनखनिकृन्तनशब्दानाम्, सर्वशब्दानां च विगतार्थत्वं स्यात्। सर्वमृन्मयादीनामेकमृत्पिण्डादिविकारत्वाभावाद् विरुद्धार्थता च स्यात्।
आरोपितत्वं त्वेकस्यापि मृन्मयस्यैकस्मिन् मृत्पिण्डे नास्ति। कुतः सर्वस्य? युक्त्या समर्थ्यत इति चेत्। तर्हि विवादपदत्वेन दृष्टान्ततानुपपत्तिः। “लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः” इति हि न्यायविदः। किन्तु घटादीनामबाधितप्रत्यक्षादिसिद्धत्वेन युक्तिरेवाऽभासभूतेति परमाणुपुञ्जवादनिरासे वक्ष्यते। (७७५) आरोपितत्वेऽपि नैकस्मिन् सर्वमित्येकादिपदानां वैयर्थ्यमेव।
नन्वेकेनेति परमकारणस्यैकत्वम्, पिण्डेनेति कार्याभिमुख्यम्, सर्वमिति कार्यनानात्वं विवक्षितम्। अतः कथं वैयर्थ्यमिति। मैवम्। दार्ष्टान्तिकवाक्ये तद्विवक्षायामत्र वैयर्थ्यापरिहारात्।
अपिचाऽद्ययोर्दृष्टान्तयोः कार्यकारणभावमात्रमस्ति। किन्त्वेकादिपदवैयर्थ्यमेव। इदन्तु सर्वथा नोपपद्यते “यथा सोम्यैकेन नखनिकृन्तनेन” इति। नखनिकृन्तनस्यान्त्यावयवित्वेन कार्ष्णायसान्तरं प्रति कारणत्वस्यैवासम्भवात्। किम्वेकस्य सर्वं प्रतीत्याह नचेति। सर्वं चेति द्वितीयचशब्दसम्बन्धः।
॥ मृत्पिण्डादिदृष्टान्तत्रये सादृश्यमेव विवक्षितम्, न विकारविवर्तौ॥
यद्यत्र दृष्टान्तत्रये न विकारविवर्तविवक्षा किं तर्हि विवक्षितमित्यत आह अत इति।
.....................अतः सादृश्य एव च।
विवक्षाऽत्र तु नित्यत्वे प्राधान्ये चोक्तवर्त्मना।
अर्थान्तरस्य दूषितत्वादित्यर्थः। चशब्दवितरेतरसमुच्चये। तुशब्देन नित्यत्वं विशिनष्टि। नित्यत्वं प्राधान्योपपादकमेव, नतु स्वतन्त्रमेकविज्ञानेन सर्वविज्ञानस्येति। मृत्पिण्डादिदृष्टान्तत्रयं सादृश्यविषयम्। वाचारम्भणामित्यदि तु प्राधान्यविषयमिति विवेक्तव्यम्।

वाचारम्भणदृष्टान्तस्य पूर्वमेव व्याख्यातत्वात् किं पुनर्वचनेनेति चेत्, न। बुद्ध्यारोहार्थमुक्तस्याप्यनुक्तेन सहैकेन वाक्येनोक्तिसम्भवादित्याशयेनोक्तम् उक्तेति। सादृश्यादेकविज्ञानेन सर्वविज्ञानमाचार्येणान्यत्र व्युत्पादितमत्रानुसन्धेयम्। तथा मृत्पिण्डादिदृष्टान्तानामवान्तरभेदोऽपीति।
॥ “सदेव सोम्य’ इत्यादेः ब्रह्मणः प्राधान्यनिरूपणार्थं प्रवृत्तत्वात् नासङ्गतिः॥
नन्वस्मिन्नपि पक्षे “सदेव सोम्येदमग्र आसीत्” इत्यादेरुत्तरग्रन्थस्य सङ्गत्यभावो दोषः। अस्माकं तु कार्यकारणभावादिप्रपञ्चार्थत्वेन अस्त्युपयोग इत्यत आह प्राधान्येति।
प्राधान्यप्रतिपत्त्यर्थं सृष्ट्यादेश्चैष विस्तरः॥११५॥
आदिपदेन प्रलयेऽवस्थानम्, त्रिवृत्करणम्, जीवरूपेण प्रवेशनमित्यादिकं गृह्यते। प्राधान्याद् ब्रह्मज्ञानेन सर्वज्ञानस्य फलं भवतीत्युक्ते, कुतस्तस्य प्राधान्यमित्याशङ्कायां, तत्प्रतिपत्त्यर्थं सृष्ट्यादेः प्रतिपादक एष ग्रन्थविस्तरः प्रवृत्तोऽतः कथमसङ्गतिरिति। चशब्दोऽवधारणे। नतूपादानत्वादिप्रतिपत्त्यर्थमिति। नह्युादानं प्रेक्षापूर्वं कार्यं करोति। नाप्यधिष्ठानमध्यस्तम्। एष चेति वा सम्बन्धः। तेन “अपागादग्नेरग्न्त्विम्” इत्याद्यपि परस्य ब्रह्मणः प्राधान्यप्रतिपत्त्यर्थमेवेत्युक्तं भवति। तथाचोक्तं भाष्ये।
॥ मायामतस्य प्रेक्षावदनुपादेयत्वम्॥
विवर्तमतनिराकरणमुपसंहरति तस्मादिति।
तस्मात् केनापि मार्गेण न विवर्तमतं भवेत्।
तदसङ्ख्यातदोषेतं हेयमेव शुभार्थिभिः॥११६॥
असङ्ख्यत्वेन दोषाणां ग्रन्थाधिक्यभयादपि।
उपरम्यते................................ ।
केनापि मार्गेणेति। ब्रह्माविद्यापक्षेण वा, जीवाविद्यापक्षेण वा, एकजीवमतेन वा, अनेकजीवमतेन वा, स्वपक्षसाधनेन वा, परपक्षनिरासेन वा, युक्तिपर्यालोचनया वा, श्रुतिपर्यालोचनया वा, विचारितमिति शेषः। न भवेत्। उपपन्नमित्यध्याहारः। ततः किमित्यत आह तदिति। तद् विवर्तमतम्। तस्मादिति वा। तस्यैव विवरणम् असङ्ख्यातदोषेतं यस्मादिति। हेयमेव तत्। नतु तदुक्तरीत्या सूत्रार्थो ग्राह्यः। एतेन परमतनिराकरणस्य असङ्गतिरपि निरस्ता वेदितव्या।
यद्युक्तातिरिक्तदोषाः सन्ति, तर्हि दूषणाभिधानाय प्रवृत्तैर्वक्तव्याः। किमुपरमेणेत्यत आह असङ्ख्यत्वेनेति। दोषाणामतिबहुत्वेन कांश्चिदुक्त्वा, केषाञ्चिदुपलक्षणत्वेनैवोपरन्तव्यम्। उपलक्षणं चैतावताऽपि भवतीत्युपरम्यत इति। सर्वेऽपि वक्तव्याः, किमुपलक्षणत्वेनेत्यत उक्तम् ग्रन्थेति। ग्रन्थाधिक्ये हि श्रोतॄणां प्रवृत्तिर्न स्यात्। तथाच कृतमप्यकृतं स्यादिति भयादपीत्यर्थः।
॥ अध्यायसिद्धार्थोक्तिपूर्वमुपसंहारः॥
यदि नोपादानतया, विभ्रमाधिष्ठानतया वा ब्रह्मणो जगत्कारणत्वम्, कीदृशं तर्हि जन्मादिसूत्रेऽभिहितमित्यत आह तत इति।
.............ततो विष्णुरिच्छापूर्वकमश्रमः।
करोति पितृवद् विश्र्वं पूर्णाशेषगुणात्मकः॥११८॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
श्रीमद्ब्रह्मसूत्रानुव्याख्याने प्रथमाध्यायस्य चतुर्थः पादः।
परिणामादिवादस्य निरस्तत्वादित्यर्थः। पितृवदिच्छापूर्वकमिति कर्तृत्वेन निमित्तत्वमभिप्रैति। विचित्रानेककार्यकर्तृत्वे श्रमादिदोषाः प्रसज्यन्त इत्यत उक्तम् अश्रम इति। तदुक्तमन्तर्याम्यधिकरणे। (३२१)
यद्वाऽश्रम इत्यनेनेदमभिप्रैति “अधिकं तु भेदनिर्देशात्” इत्यादिना ब्रह्मणः श्रमादिर्निरसिष्यते। नचोपादानादेः श्रमादिप्रसक्तिरस्ति। अतोऽपि कर्तृत्वमेवाभिप्रेतं सूत्रकारस्येति। एवमस्मिन्नध्याये परब्रह्मणि नारायणे प्रतिपादितस्य सकलश्रुतिसमन्वयस्य फलं जन्मादिसूत्रोदितलक्षणसिद्धिमुपसंहरति पूर्णेति। पूर्णाः प्रत्येकं निरवधिकाः॥*॥ इति प्रकृत्यधिकरणम्॥६॥
इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृते
रनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना।
कृतायां टीकायां विषमपदवाक्यार्थविवृता
वयं पूर्वेऽध्याये चरमचरणः पर्यवसितः॥*॥
इति श्रीमद्ब्रह्मसूत्रानुव्याख्यानटीकायां
श्रीजयतीर्थमुनिविरचितायां श्रीमन्न्यायसुधायां
प्रथमाध्यायस्य चतुर्थः पादः।