न्यायसूत्राणि/अध्यायः ३
- तृतीयोऽध्यायः प्रथम आह्निकः
दर्शनस्पर्शनाभ्यामेकार्थग्रहणात् १
न विषयव्यवस्थानात् २
तद्व्यवस्था-नादेवात्मसद्भावादप्रतिषेधः ३
शरीरदाहे पातकाभावात् ४
तदभावः सात्म-कप्रदाहेऽपि तन्नित्यत्वात् ५
न कार्याश्रयकर्तृवधात् ६
सव्यदृष्टस्येतरेण प्रत्यभिज्ञानात् ७
नैकस्मिन्नासास्थिव्यवहिते द्वित्वाभिमानात् ८
एकविनाशे द्वितीयाविनाशान्नैकत्वम् ९
अवयवनाशेऽप्यवयव्युपलब्धेरहेतुः १०
दृष्टा-न्तविरोधादप्रतिषेधः ११
इन्द्रियान्तरविकारात् १२
न स्मृतेः स्मर्तव्य-विषयत्वात् १३
तदात्मगुणसद्भावादप्रतिषेधः १४
नात्मप्रतिपत्तिहेतूनां मनसि सम्भवात् १५
ज्ञातुर्ज्ञानसाधनोपपत्तेः संज्ञाभेदमात्रम् १६
नियमश्च निरनुमानः १७
पूर्वाभ्यस्तस्मृत्यनुबन्धाज्जातस्य हर्षभयशोकसम्प्रतिपत्तेः १८
पद्मादिषु प्रबोधसम्मीलनविकारवत्तद्विकारः १९
नोष्णशीतवर्षाकालनिमित्त-त्वात्पञ्चात्मकविकाराणाम् २०
प्रेत्याहाराभ्यासकृतात्स्तन्याभिलाषात् २१
अयसोऽयस्कान्ताभिगमनवत्तदुपसर्पणम् २२
नान्यत्र प्रवृत्त्यभावात् २३
वीतरागजन्मादर्शनात् २४
सगुणद्रव्योत्पत्तिवत्तदुत्पत्तिः २५
न संकल्पनि-मित्तत्वाद्रागादीनाम् २६
पार्थिवं गुणान्तरोपलब्धेः २७
पार्थिवाप्यतैजसं तद्गुणोपलब्धेः २८
निःश्वासोच्छ्वासोपलब्धेश्चातुर्भौतिकम् २९
गन्धक्लेद-पाकव्यूहावकाशदानेभ्यः पाञ्चभौतिकम् ३०
श्रुतिप्रामाण्याच्च ३१
कृष्णसारे सत्युपलम्भाद्व्यतिरिच्य चोपलम्भात्संशयः ३२
महदणुग्रहणात् ३३
रश्म्य-र्थसंनिकर्षविशेषात्तद्ग्रहणम् ३४
तदनुपलब्धेरहेतुः ३५
नानुमीयमानस्य प्रत्यक्षतोऽनुपलब्धिरभावहेतुः ३६
द्रव्यगुणधर्मभेदाच्चोपलब्धिनियमः ३७
अनेकद्रव्यसमवायाद्रूपविशेषाच्च रूपोपलब्धिः ३८
कर्मकारितश्चेन्द्रियाणां व्यूहः पुरुषार्थतन्त्रः ३९
मध्यन्दिनोल्काप्रकाशानुपलब्धिवत्तदनुपलब्धिः ४०
न रात्रावप्यनुपलब्धेः ४१
वाह्यप्रकाशानुग्रहाद्विषयोपलब्धेरनभिव्यक्तितो-ऽनुपलब्धिः ४२
अभिव्यक्तौ चाभिभवात् ४३
नक्तञ्चरनयनरश्मिदर्शनाच्च ४४
अप्राप्यग्रहणं काचाभ्रपटलस्फटिकान्तरितोपलब्धेः ४५
कुड्यान्तरिता-नुपलब्धेरप्रतिषेधः ४६
अप्रतिघातात्संनिकर्षोपपत्तिः ४७
आदित्यरश्मेः स्फटिकान्तरेऽपि दाह्येऽविघातात् ४८
नेतरेतरधर्मप्रसङ्गात् ४९
आदर्शो-दकयोः प्रसादस्वाभाव्याद्रूपोपलब्धिवत्तदुपलब्धिः ५०
दृष्टानुमितानां नियोगप्रतिषेधानुपपत्तिः ५१
स्थानान्यत्वे नानात्वादवयविनानास्थानत्वाच्च संश-यः ५२
त्वगव्यतिरेकात् ५३
न युगपदर्थानुपलब्धेः ५४
विप्रतिषेधाच्च न त्वगेका ५५
इन्द्रियार्थपञ्चत्वात् ५६
न तदर्थबहुत्वात् ५७
गन्ध-त्वाद्यव्यतिरेकाद्गन्धादीनामप्रतिषेधः ५८
विषयत्वाव्यतिरेकादेकत्वम् ५९
न बुद्धिलक्षणाधिष्ठानगत्याकृतिजातिपञ्चत्वेभ्यः ६०
भूतगुणविशेषोपलब्धे-स्तादात्म्यम् ६१
गन्धरसरूपस्पर्शशब्दानां स्पर्शपर्यन्ताः पृथिव्याः ६२
अप्तेजोवायूनां पूर्वं पूर्वमपोह्याकाशस्योत्तरः ६३
न सर्वगुणानुपलब्धेः ६४
एकैकश्येनोत्तरोत्तरगुणसद्भावादुत्तरोत्तराणां तदनुपलब्धिः ६५
विष्टं ह्यपर-म्परेण ६६
न पार्थिवाप्ययोः प्रत्यक्षत्वात् ६७
पूर्वपूर्वगुणोत्कर्षात्तत्तत्प्रधानम् ६८
तद्व्यवस्थानं तु भूयस्त्वात् ६९
सगुणानामिन्द्रियभावात् ७०
तेनैव तस्याग्रहणाच्च ७१
न शब्दगुणोपलब्धेः ७२
तदुपलब्धिरितरेतरद्रव्य-
गुणवैधर्म्यात् ७३
इति प्रथम आह्निकः
तृतीयोऽध्यायः द्वितीय आह्निकः
कर्माकाशसाधर्म्यात्संशयः १
विषयप्रत्यभिज्ञानात् २
साध्यसमत्वादहेतुः ३
न युगपदग्रहणात् ४
अप्रत्यभिज्ञाने च विनाशप्रसङ्गः ५
क्रमवृत्ति-त्वादयुगपद्ग्रहणम् ६
अप्रत्यभिज्ञानञ्च विषयान्तरव्यासङ्गात् ७
न गत्यभा-वात् ८
स्फटिकान्यत्वाभिमानवत्तदन्यत्वाभिमानः ९
स्फटिकेऽप्यपरापरो-त्पत्तेः क्षणिकत्वाद्व्यक्तीनामहेतुः १०
नियमहेत्वभावाद्यथादर्शनमभ्यनुज्ञा ११
नोत्पत्तिविनाशकारणोपलब्धेः १२
क्षीरविनाशे कारणानुपलब्धिव-द्दध्युत्पत्तिवच्च तदुपपत्तिः १३
लिङ्गतो ग्रहणान्नानुपलब्धिः १४
न पयसः परिणामगुणान्तरप्रादुर्भावात् १५
व्यूहान्तराद्द्रव्यान्तरोत्पत्तिदर्शनं पूर्वद्रव्य-निवृत्तेरनुमानम् १६
क्वचिद्विनाशकारणानुपलब्धेः क्वचिच्चोपलब्धेरनेकान्तः १७
नेन्द्रियार्थयोस्तद्विनाशेऽपि ज्ञानावस्थानात् १८
युगपज्ज्ञेयानुपलब्धेश्च न मनसः १९
तदात्मगुणत्वेऽपि तुल्यम् २०
इन्द्रियैर्मनसः संनिकर्षाभावा-त्तदनुत्पत्तिः २१
नोत्पत्तिकारणानपदेशात् २२
विनाशकारणानुपलब्धेश्चाव-स्थाने तन्नित्यत्वप्रसङ्गः २३
अनित्यत्वग्रहाद्बुद्धेर्बुद्ध्यन्तराद्विनाशः शब्दवत् २४
ज्ञानसमवेतात्मप्रदेशसंनिकर्षान्मनसः स्मृत्युत्पत्तेर्न युगपदुत्पत्तिः २५
नान्तःशरीरवृत्तित्वान्मनसः २६
साध्यत्वादहेतुः २७
स्मरतः शरीरधार-णोपपत्तेरप्रतिषेधः २८
न तदाशुगतित्वान्मनसः २९
न स्मरणकालानियमात् ३०
आत्मप्रेरणयदृच्छाज्ञताभिश्च न संयोगविशेषः ३१
व्यासक्तमनसः पाद-व्यथनेन संयोगविशेषेण समानम् ३२
प्रणिधानलिङ्गादिज्ञानानामयुगप-द्भावादयुगपत्स्मरणम् ३३
ज्ञस्येच्छाद्वेषनिमित्तत्वादारम्भनिवृत्त्योः ३४
त-ल्लिङ्गत्वादिच्छाद्वेषयोः पार्थिवाद्येष्वप्रतिषेधः ३५
परश्वादिष्वारम्भनिवृत्ति-दर्शनात् ३६
नियमानियमौ तु तद्विशेषकौ ३७
यथोक्तहेतुत्वात्पारतन्त्र्या-दकृताभ्यागमाच्च न मनसः ३८
परिशेषाद्यथोक्तहेतूपपत्तेश्च ३९
स्मरणं त्वात्मनो ज्ञस्वाभाव्यात् ४०
प्रणिधाननिबन्धाभ्यासलिङ्गलक्षणसादृश्यपरि-ग्रहाश्रयाश्रितसम्बन्धानन्तर्यवियोगैककार्यविरोधातिशयप्राप्तिव्यवधानसुख-दुःखेच्छाद्वेषभयार्थित्वक्रियारागधर्माधर्मनिमित्तेभ्यः ४१
कर्मानवस्थायि-ग्रहणात् ४२
अव्यक्तग्रहणमनवस्थायित्वाद्विद्युत्सम्पाते रूपाव्यक्तग्रहणवत् ४३
हेतूपादानात्प्रतिषेद्धव्याभ्यनुज्ञा ४४
प्रदीपार्चिःसंतत्यभिव्यक्तग्रहणव-त्तद्ग्रहणम् ४५
द्रव्ये स्वगुणपरगुणोपलब्धेः संशयः ४६
यावच्छरीर-भावित्वाद्रूपादीनाम् ४७
न पाकजगुणान्तरोत्पत्तेः ४८
प्रतिद्वन्द्विसिद्धेः पा-कजानामप्रतिषेधः ४९
शरीरव्यापित्वात् ५०
न केशनखादिष्वनुपलब्धेः ५१
त्वक्पर्यन्तत्वाच्छरीरस्य केशनखादिष्वप्रसङ्गः ५२
शरीरगुणवैधर्म्यात् ५३
न रूपादीनामितरेतरवैधर्म्यात् ५४
ऐन्द्रियकत्वाद्रूपादीनामप्रतिषेधः ५५
ज्ञानायौगपद्यादेकं मनः ५६
न युगपदनेकक्रियोपलब्धेः ५७
अलातचक्र-दर्शनवत्तदुपलब्धिराशुसंचारात् ५८
यथोक्तहेतुत्वाच्चाणु ५९
पूर्वकृतफला-नुबन्धात्तदुत्पत्तिः ६०
भूतेभ्यो मूर्त्युपादानवत्तदुपादानम् ६१
न साध्य-समत्वात् ६२
नोत्पत्तिनिमित्तत्वान्मातापित्रोः ६३
तथाहारस्य ६४
प्राप्तौ चानियमात् ६५
शरीरोत्पत्तिनिमित्तवत्संयोगोत्पत्तिनिमित्तं कर्म ६६
एतेना-नियमः प्रत्युक्तः ६७
तददृष्टकारितमिति चेत्पुनस्तत्प्रसङ्गोऽपवर्गे ६८
मनः-कर्मनिमित्तत्वाच्च संयोगानुच्छेदः ६९
नित्यत्वप्रसङ्गश्च प्रायणानुपपत्तेः ७०
अणुश्यामतानित्यत्ववदेतत्स्यात् ७१
नाकृताभ्यागमप्रसङ्गात् ७२
- इति द्वितीय आह्निकः इति तृतीयोऽध्यायः