पक्षिणाम् उड्डयनक्रियाविन्यासः

Pakshi1.jpg
अयं लेखः सम्भाषणसन्देशः इत्येतस्यां संस्कृतमासपत्रिकायां प्रकाशितपूर्वः । अत्र उड्डयनविन्यासस्य वैज्ञानिकपरिचयं निरूपयति ग्रन्थकर्ता ।


महाभारतस्य कर्णपर्वणि, शल्य: कर्णं कस्यचित् काकस्य कथां वदति । तस्यां काक: उड्डयनस्पर्धार्थं हंसम् आह्वयति । तदवसरे ग्रन्थकर्ता उड्डयनविन्यासस्य वैज्ञानिकपरिचयं निरूपयति । तत्रत्या: श्लोका: एवं सन्ति -

शतमेकं च पातानां पतितास्मि न संशय: ।
शतयोजनमेकैकं विचित्रं विविधं तथा ॥
उड्डीनमवडीनं च प्रडीनं डीनमेव च ।
निडीनमथ सण्डीनं तिर्यग्डीनगतानि च ॥
विडीनं परिडीनं च पराडीनं सुडीनकम् ।
अभिडीनं महाडीनं निडीनमतिडीनकम् ॥
अवडीनं प्रडीनं च सण्डीनं डीनडीनकम् ।
सण्डीनोड्डीनडीनं च पुनर्डीनविडीनकम् ॥
सम्पातं समुदीषं च ततोऽन्यद् व्यतिरिक्तकम् ।
गतागतप्रतिगतं बह्वीश्च निकुलीनका: ॥ इति ।

अत्र काक: स्वम् एकोत्तरशते उड्डयनप्रकारेषु चतुरं वदति । अस्मत्पूर्वजानां सूक्ष्मावलोकनस्य प्रमाणम् अत्र लभ्यते । श्लोकेषु उक्ता: उड्डयनप्रकारा: एवं वर्तन्ते -

1. उड्डीनम् - ऊर्ध्वगमनम् ।
2. अवडीनम् - अधोगति: ।
3. प्रडीनम् - शीघ्रगमनमिति वादिराज: ।
सर्वतोगमनमिति नीलकण्ठ: ।
4. डीनम् - समतया गमनम्, साधारणगमनम् ।
5. निडीनम् - ईषत्पक्षौ निगूह्य गमनम्, शनकै: गमनम् ।
6. सण्डीनम् - सम्यक् पक्षौ विस्तार्य गमनम्, ललितगमनम् ।
7. तिर्यग्डीनम् - वक्रगमनम् । एतत् दिगनुसृत्य चतुर्भेदम् ।
8. विडीनम् - विरोधे सति मारुतम् उद्भाव्य गमनम्, अन्यं पक्षिणम् अनुकृत्य गमनम् ।
पक्षिणः उड्डयनावसरे जायमानाः पक्षचालनप्रकाराः अत्र दर्शिताः । सकृत् पक्षयोः चालनाय स्वीक्रियमाणः समयः (मिलिसेकेण्ड्परिमाणेन) तदीयं गमनारम्भवेगम् अवलम्बते ।
9. परिडीनम् - वृत्ताकारेण उड्डयनम् ।
10. पराडीनम् - पश्चाद्गति: ।
11. सुडीनम् - सुखेन (प्रयत्नराहित्येन) उड्डयनम् ।
12. अतिडीनम् (अभिडीनम्) - एकस्यां दिशि बहुकालगमनम् ।
13. महाडीनम् - बहुवारं पक्षचालनम्, अतिवेगेन गमनम् ।
14. निडीनम् (खडीनम्) - निश्चलेन (पक्षचालनेन विना) गमनम् ।
15. अतिडीनम् - प्रचण्डगमनम् ।
16. सण्डीनडीनडीनम् - वर्तुलाकारेण उड्डयनम्, अधोगमनम् ।
17. सण्डीनोड्डीनडीनम् - वर्तुलाकारेण ऊर्ध्वगमनम् ।
18. विडम्बितम् - मल्लवत् उड्डीयोड्डीय गमनम् ।
19. प्रडीनम् - विचित्ररीत्या गमनम् ।
20. डीनविडीनम् - वर्तुलपथात् व्यत्यस्य गमनम् ।
21. सम्पात: - वेगेन पक्षौ चालयता क्रियमाणं गमनागमनम् ।
22. समुदीषम् - वेगेन अत्यूर्ध्वं गत्वा क्षणाभ्यन्तरे अध: आगमनम् ।
23. व्यतिरिक्तकम् - सङ्कल्पितस्थानं विहाय अन्यत्र गमनम् ।

एवं बह्व्य: विचित्रगतय: अत्र प्रदर्शिता: । महाडीनं विहाय अन्यानि गतागतप्रत्यागतरूपेण त्रिधा सन्ति । अत एव ‘शतोत्तरविधा: पक्षिणां गतय: सन्ति’ इति प्रथमत: लिखितं ग्रन्थकारेण । इदानीं विमानानि एवं विचित्रगती: प्रदर्शयन्ति इति तु सत्यम् । उपर्युक्तेषु विधानेषु पराडीनम् (पश्चाद्गमनम्) खगेषु कुत्रापि अधुनातने काले न दृष्टं, न वा श्रुतम् । सर्वेषां पक्षिणाम्, आधुनिकविमानस्य च पुरोगति: एव विद्यते । पश्चाद्गतियुक्ता: खगा: नष्टा जाता: स्यु: इति भाव्यते । उपर्युक्ता: पक्षिणां सर्वा: उड्डयनगतय: वैज्ञानिकरीत्या चतुर्धा विभक्तुं शक्या: - निश्चलपक्षयानम् (Gliding) ऊर्ध्वगमनम् (Soaring), पक्षताडनम् (Flapping), वर्तुलचलनम् (Hovering) चेति । (चित्रम् - 1 पश्यत) श्लोके उक्तानां विधानां परिचयम् एतेषां सङ्गमनेन विश्लेषयाम -

1. उड्डीनम् - इदं विशेषपरिणतियुक्तम् उड्डयनविधानं वर्तते । ऊर्ध्वगमनं निश्चलपक्षयानं च अत्र समावेश्येते । विशालपक्षयुक्ता: खगा: इमं विन्यासं प्रदर्शयन्ति । श्येन:, गृध्र:, स्टाकर्नामक: पक्षी च अत्र उदाहरणानि भवन्ति । अस्मिन् विधाने विहग: स्वस्य उड्डयनस्य ऊर्ध्वतां समानरूपेण रक्षति । पक्षचालनेन विनैव तेन ऊर्ध्वमुखं गन्तुं शक्यते । एतदर्थं तेन चलनशीलस्य वायो: साहाय्यं प्राप्यते ।

2. अवडीनम् - एतत् उड्डयनस्य अतिसरलं विधानम् । पक्षचालनेन विना अधोगमनम् भवति अत्र । अत्र पक्षी स्वपक्षौ विस्तार्य स्थिरं धरति । एवमेव स: ऊर्ध्वप्रदेशात् अध: आगच्छति । अस्मिन् विधानेऽपि वायो: गति: पक्षिण: उपयोगाय भवति । क्रौञ्च:, जलपक्षिण: च परिणामकारितया एतस्य प्रकारस्य उपयोगं कुर्वन्ति । अस्मिन् विधाने सम्पातसमडीनयो: समानं मिश्रणं पश्याम: । सम्पात: शीघ्रम् अधोगमनम्, समडीनं तु शनै: शनै: अधोगमनम् ।

Pakshi2.jpg

3. प्रडीनम् - पक्षचालनपुरस्सरं पुरोगमनं प्रडीनमिति कथ्यते । सर्वे विहगा: अनेन सामान्यविधानेन एव उड्डयन्ते । अस्मिन् विधाने पक्षिण: पक्षौ ऊर्ध्वम् अधश्च निरन्तरं चलत: । प्रचलन्तौ पक्षौ विस्तारितौ भवत: । एतत् सण्डीनम् । तदनन्तरं पक्षौ पुरत: अधोदिशि यत् अवनतौ भवत: तत् उच्यते विडीनम् इति । पक्षयो: प्रत्यङ्मुखनमनं पराडीनम् इति कथ्यते । यस्मिन् विन्यासे पक्षयो: चरमभाग: ईषद् उन्नमित: भवति तत् भवति अतिडीनम् । एता: गतय: खगाय आवश्यकम् ऊर्ध्वगमनबलं पुरोगमनबलं च दास्यन्ति । [[चित्रम्:pakshi6.jpg|thumb|right|पक्षचालनतन्त्रज्ञानम् अवलम्ब्य पक्षिप्रकाराः अत्र स्थूलतया दर्शिताः सन्ति जेरमी रेनरेण । (१९८८) (रेनरः कश्चन पक्षिशास्त्रविशेषज्ञः)

ऊर्ध्वचलनावसरे पक्षौ भागश: निडीनगतियुक्तौ भवत: । अनेन प्रधानपुच्छं विस्तृतं भूत्वा वायो: अन्तश्चलनाय अवसरं कल्पयति । एवं पक्षी ऊर्ध्वं गन्तुं शक्त: भवति । एतै: सर्वै: पक्षचालनविधानै: खग: बहुकालपर्यन्तं गगने स्वं धरन् पुरत: गच्छति । पक्षिणां पक्षचालने प्रतिवर्गं विन्यासा: विनूतना: भवन्ति । कपोत: प्रतिनिमेषम् अष्टवारं पक्षौ चालयति । अन्येषाम् अपि पक्षिणां पक्षचालनवेग: प्रकार: च विभिन्न: एव ।

4. डीनम् - पक्षचालनसमेते उड्डयने एतत् परिष्कृतं विधानम् अस्ति । अत्र पक्षिण: शरीरं बाणवत् ऋजु भवति । पक्षयो: अन्तिम: भाग: निरन्तरं वर्तुलाकारेण चलति । एतत् विधानं ‘8’ इति सङ्ख्याया: आकारस्य पुनरावर्तनमिव भासते ।

पक्षिणाम् ऊर्ध्वगमने अधश्चलने च पक्षयो: विविधा: भागा: विविधै: प्रकारै: सहकारं यच्छन्ति ।

1. पक्षयो: मध्यभाग: (मूलत: देहार्धस्य निकटभाग:) शनै: कम्पमान: ऊर्ध्वगमनबलम् उत्पादयति ।
2. पक्षयो: अन्तिम: भाग: विशालवृत्ताकारेण चलन्,पुरोगमनबलं ददाति ।
3. अधश्चलने, एक: पक्ष: अधोदिशायां पुरत: च चलति । अनेन पक्षस्य अन्त्यभाग: अन्यपक्षात् अध: आगच्छति । तदा चित्रे (चित्रम् -2) यथा दर्शितं तथा बलं पुरत: तिष्ठति ।
4. देहसमीपस्थ: पक्षभाग: अत्यल्पं चलति इति उक्तं किल ! अन्त्यभागे वायो: वेग: अनेन वर्धते । अस्य वायो: परिणामेन पक्षी उड्डयनमार्गं परिवर्तयितुं शक्नोति । ऊर्ध्वबलपुरोगमनबलयो: आधारेण पक्षी अभीष्टायां दिशि चलति ।
5. पक्षयो: ऊर्ध्वचालनावसरे पुच्छं विस्तृतं सत् रन्ध्रयुक्तं भवति । वायु: एतेषु सञ्चरन् घर्षणं तनूकरोति । भागश: जानुसमीपे सङ्कोचयुक्तौ पक्षौ शरीरस्य अभिमुखौ भूत्वा श्रमं निवारयत: ।

5. पुनर्डीनम् - इदं पक्षचालनेन विना क्रियमाणम् उड्डयन- विधानम् । केचन पक्षिण: वायौ अप्रयत्नेन उड्डयमाना: इव भासन्ते । ते सकृत् पक्षचालनेन उड्डयनदिशं गतिं च व्यत्यस्यन्ति । तेषु ऊर्ध्वमुखपुरोगामिबलयो: अनुपात: (Ratio) अधिकं वर्तते । विशालौ तेषां पक्षौ अल्पप्रयत्नेन अधिकं बलम् उत्पादयत: । द्वितीयत:, यदि शरीरं पीनं भारयुतं वा भवेत्, तर्हि पक्षचालनं कठिनतरम् । शरीरस्य मांसखण्डा: यदि अल्पभारयुता: भवेयु:, तर्हि अस्थीनि श्रमं वोढुं समर्थानि स्यु: । सर्वत्र भौतशास्त्रीया: नियमा: पालिता: भवन्ति । एतेषां सर्वेषां सहयोगेन पक्षी विनायासं विहायसि विहरति । पक्षिणाम् आहाराभ्यास: जीवितविधानं च तेषाम् उड्डयनशैलीं, वेगं, चातुर्यं च निश्चिनोति । तेषां देहरचना, मानसिकस्थिति:, स्नायुस्थिति: इत्यादय: अत्र प्रमुखा: भवन्ति । भूसमीपे उड्डयमाना: खगा: भूमे: औष्णिकबलम् अपि उपयुञ्जते । तेषां वेग: अपि अल्प: । अत: ते अल्पाकारान् जीविन: आहाराय निहत्य चञ्च्वा धृत्वा उड्डयन्ते । एते खगा: घनारण्ये, वृक्षाणां निबिडतायां च उपरि गत्वा अध: आगमने समर्था: भवन्ति ।

Pakshi7.jpg

वाल्मीकिमहर्षि: पक्षिणाम् उड्डयनविधानम् अनुसृत्य तान् सप्तधा विभजति । रामायणस्य किष्किन्धाकाण्डे एते श्लोका: सन्ति -

आद्य: पन्था: कुलिङ्गानां ये चान्ये धान्यजीविन: ।
द्वितीयो बलिभोजानां ये च वृक्षफलाशिन: ॥
भासास्तृतीयं गच्छन्ति क्रौञ्चाश्च कुररै: सह ।
श्येनाश्चतुर्थं गच्छन्ति गृघ्रा गच्छन्ति पञ्चमम् ॥
बलवीर्योपपन्नानां रूपयौवनशालिनाम् ।
षष्ठस्तु पन्था हंसानां वैनतेयगति: परा ॥ (59.24 -27)

कुलिङ्गा: भूमौ पतितानि धान्यानि अवलम्ब्य जीवन्ति । तेषां गति: अतिनीचा भवति । काका: इव केचन पक्षिण: शुकादिभि: विसृष्टै: फलादिभि: उदरं पूरयन्ति । ते द्वितीये वर्गे कविना निक्षिप्ता: । भासपक्षी (जलवायस:) ऊर्ध्वदेशे उड्डयने समर्थ: । अत: तस्य अन्य: प्रकार: । एवम् अन्ते गरुड: सप्तमे विभागे अन्तर्भवति, यस्य गति: भवति अत्युच्चा ।

पक्षिणाम् उड्डयनविन्यासाध्ययनपण्डित: लीड्स्विश्व-विद्यालयस्य प्राध्यापक: जेरमीरेनर्महाभाग: अस्मिन् विषये विशेषाध्ययनं कृतवान् । तथापि विषयोऽयं पूर्णतया ज्ञात: इति न । पक्षिषु दैहिकक्रिया: उपावचयादय: (Metabolism) तीव्रतरा: वर्तन्ते, उड्डयनार्थं तत: अधिकप्रमाणेन शक्तिव्यय: सम्भवति । स च व्यय: पक्षयो: रचनाविशेषम्, उड्डयनवेगं च अवलम्बते । पक्षचालनपूर्वकम् एव उड्डयनेन अधिक: शक्तिव्यय: सम्पद्यते । अत एव महाभारतस्य कथायां काक: हंसेन सह जातायां स्पर्धायाम् अपजयम् अनुभूतवान् । हंसकाकयो: मध्ये काक: शीघ्रम् आयासितो भवति । पक्षिणाम् उड्डयनविन्यासस्य इदम् अध्ययनं नूनम् उल्लासदायकम्, आवश्यकं, महत्त्वपूर्णं च वर्तते इति तु सन्देहातीत: विषय: ।

आधारःसम्पाद्यताम्

'सम्भाषणसन्देशः' - मे २००९
लेखिका – डा. एन्. एस्. लीला
अनु – डा. एस्. हेमलता