पञ्चक्रमः
[[लेखकः :|]]


पञ्चक्रमः

[१]
वज्रजापक्रमः प्रथमः

ओं नमो बुद्धाय

सर्वबुद्धात्मकं नाथं नत्वा श्रीमन्महासुखम् ।
वज्रजापक्रमं वक्ष्ये योगतन्त्रानुसारतः ॥ १.१ ॥
उत्पत्तिक्रमसंस्थानां निष्पन्नक्रमकाङ्क्षिणाम् ।
उपायश्चैष संबुद्धैः सोपानमिव निर्मितः ॥ १.२ ॥
प्राणभूतश्च सत्त्वानां वाय्वाख्यः सर्वकर्मकृत् ।
विज्ञानवाहनश्चैष पञ्चात्मा दशधा पुनः ॥ १.३ ॥
वायुतत्त्वानुपूर्वेण मन्त्रतत्त्वं समाविशेत् ।
मन्त्रनिध्यप्तिमागम्य वज्रजापः सुशिक्ष्यते ॥ १.४ ॥
वज्रजापस्थितो मन्त्री चित्तनिध्यप्तिमाप्नुयात् ।
मयोपमसमाधिस्थो भूतकोट्यां समाविशेत् ॥ १.५ ॥
भूतकोटेः समुत्तिष्ठन्नद्वयज्ञानमाप्नुयात् ।
युगनद्वसमाधिस्थो न किञ्चिच्छक्षते पुनः ॥ १.६ ॥
अयं निष्पन्नयोगाख्यो महावज्रधरश्च सः ।
सर्वाकारवरोपेतः सर्वज्ञो जायते ततः ॥ १.७ ॥
अनागतमतीतं च वर्तमानं भवत्रयम् ।
तत्क्षणात्निखिलं पश्येत्प्रभास्वरविशुद्धितः ॥ १.८ ॥
एतत्तत्त्वं स्थितं तन्त्रे श्रीसमाजे सुमुद्रितम् ।
व्याख्यातन्त्रानुसारेण बोद्धव्यं गुरुवक्त्रतः ॥ १.९ ॥

तत्र प्रथमतरं वायुतत्त्वोद्देशपदं मूलसूत्रादेवावतार्यते-

नासाग्रे सर्षपं चिन्तेत्सर्षपे सचराचरम् ।
भावयेज्ज्ञानपदं रम्यं रहस्यं ज्ञानकल्पितम् ॥ १.१० ॥
पञ्चवर्णं महारत्नं सर्षपस्थूलमात्रकम् ।
नासिकाग्रे प्रयत्नेन भावयेद्योगतः सदा ॥ १.११ ॥

इति सन्धाभाषेयमस्य वज्रपदस्य निर्देशमाह चतुर्देवीव्याख्यातन्त्रे-

तद्देवि सम्प्रवक्ष्यामि सारात्सारतरं परम् ।
रहस्यं सर्वबुद्धानां यत्तत्सर्वात्मनि स्थितम् ॥ १.१२ ॥
पश्चज्ञानमयं तत्त्वं सर्षपस्थूलमात्रकम् ।
तस्य मध्ये स्थितो देवो ह्यव्यक्तो व्यक्तरूपवान् ॥ इति । १.१३ ॥

समाजोत्तरेऽप्यमुमर्थं द्योतयन्नाहः ।

पञ्चज्ञानमयं श्वासं पञ्चभूतस्वभावकम् ।
निश्चार्य पद्मनासाग्रे पिण्डरूपेण कल्पयेत् ॥ १.१४ ॥
पञ्चवर्णं महारत्नं प्राणायाममिति स्मृतम् ।
स्वमन्त्रं हृदये ध्यात्वा चित्तं बिन्दुगतं न्यसेत् ॥ १.१५ ।

इत्यस्यापि प्रतिनिर्देशमाह वज्रमालानाम्नि व्याख्यातन्त्रे-

नासाग्रे सर्षपं नाम प्राणायामस्य कल्पना ।
प्राणायामस्थिताः पञ्च रश्मयो बुद्धभावतः ॥ १.१६ ॥
ऊर्ध्वं घ्राणाद्विनिष्क्रान्तो वामदक्षिणद्वन्द्वतः ।
स्तब्धश्चेति चतुर्धास्माद्वेला आध्यात्मिका स्मृता ॥ १.१७ ॥
कण्ठहृन्नाभिगुह्याब्जे गत्यागती विनिर्दिशेत् ।
विहरेदर्धयामिकां वेलां परिपाट्या यथाक्रमम् ॥ १.१८ ॥
दक्षिणाद्विनिर्गतो रश्मिर्हुतभुङ्मण्डलं च तत् ।
रक्तवर्णमिदं व्यक्तं पद्मनाथोऽत्र देवता ॥ १.१९ ॥
वामाद्विनिर्गतो रश्मिर्वायुमण्डलसंज्ञितः ।
हरितश्यामसङ्काशः कर्मनाथोऽत्र देवता ॥ १.२० ॥
द्वाभ्यां विनिर्गतो रश्मिः पीतवर्णो महाद्युतिः ।
माहेन्द्रमण्डलं चैतद्रत्ननाथोऽत्र देवता ॥ १.२१ ॥
स्तब्धो मन्द्रप्रचारस्तु सितकुन्देन्दुसन्निभः ।
मण्डलं वारुणं चैतद्वज्रनाथोऽत्र देवता ॥ १.२२ ॥
सर्वदेहानुगो वायुः सर्वचेष्टाप्रवर्तकः ।
वैरोचनस्वभावोऽसौ मृतकायाद्विनिश्चरेत् ॥ १.२३ ॥
वायुतत्त्वमिदं व्यक्तं पञ्चज्ञानस्वभावकम् ।
तार्किका न प्रजानन्ति अगम्यं बालयोगिनाम् ॥ १.२४ ॥

इत्येवं वायुत्तत्वं प्रतिपाद्येदानीं मन्त्रतत्त्वस्योद्देशपदं मूलसूत्रादवतार्यते-

सर्वतथागतकायवाक्चित्तरहस्यं सर्वतन्त्रहृदयसञ्चोदनं नाम परमगुह्यं स्वकायवाक्चित्तवज्रेभ्यो वाक्पथनिरुक्त्या मन्त्रसमुच्चयमुदाजहार ओमाः हूम् ।

अर्थानुमजापेन निःस्वभावेन चारुणा ।
विचारणा त्र्यध्वबुद्धेभ्यो वज्रजापः स उच्यते ॥ १.२५ ॥
भिक्षाशिना न जप्तव्यं न च भैक्षरतो भवेत् ।
जपेन्मन्त्रमभिन्नाङ्गं सर्वकामोपभोगकृत् ॥ १.२६ ॥

इत्युद्देशपदमस्य निर्देशमाह सन्ध्याव्याकरणव्याख्यातन्त्रे तदवतार्यते-

प्रत्युवाच ततः श्रीमान्महावैरोचनं विभुम् ।
विश्वरूपमिदं चित्तं सर्वसत्त्वोपपत्तितः ॥ १.२७ ॥
जातं सन्निःस्वभावोऽपि भावाख्यं तु प्रतीत्यतः ।
कृत्वा चानुभवं सम्यग्बोधिचित्तं खतुल्यकम् ॥ १.२८ ॥
जगदर्थं विधातुं च तद्देशयोत्तमे जने ।
साधनोपायितामात्रं ज्ञात्वा तन्त्रे विपञ्चितम् ॥ १.२९ ॥
आचार्या वयमित्येवं वदन्त्यागामिका विभो ।
यद्वाक्यं ममेत्येवमुक्त्वा क्षिपन्ति बालिशाः ।
सन्ध्याय बोधिचित्तं ते न विदन्ति यथार्थतः ॥ इति । १.३० ॥
यथेदं भगवान् स्वामी महावैरोचनो विभुः ।
त्रिष्कृत्वा साधुवचनं वज्रपाणिं वदेदिदम् ॥ १.३१ ॥
कथयमामि प्रभेदेन निर्विकल्पार्थतत्त्वतः ।
प्रव्याहारोपलम्भाख्यं साङ्केतं पारमार्थिकम् ॥ १.३२ ॥
प्रव्याहारो हि सामान्यं बुद्धरूपोपलम्भकम् ।
साङ्केतं मन्त्रतत्त्वाख्यं तथता पारमार्थिकम् ॥ १.३३ ॥
एकादिर्नवमध्ये तु दशभिर्यो न बध्यते ।
तमबद्धं विजानीयात्स वेत्ति परसम्पदम् ॥ १.३४ ॥
स्वरव्यञ्चनवर्णाश्च नवसंख्यानुवर्तिनः ।
ऽ अबद्धान्योन्यसंयोओगाद्यो वेत्ति स जगद्गुरुः ॥ १.३५ ॥
भूतान्तेन समायुक्तं कलादिषोडशे स्थितम् ।
पञ्चपञ्चकसंयुक्तं चतुस्त्रयनियोजितम् ॥ १.३६ ॥
सानुस्वारं सदीर्घं न गुणसंयोलोपवत् ।
ह्रस्वं समस्तवाक्यं स्यान्न चानेकं न चैककम् ॥ १.३७ ॥
ये वर्णाः पृष्ठतः प्रोक्ता अभिमुखाश्च ये पुनः ।
स्त्री-पुं-नपुंसकास्ते च धात्वादिपरिकल्पिताः ॥ १.३८ ॥
अधोर्ध्वसमायुक्तं ज्ञात्वा बुद्ध्या नियोजयेत् ।
प्रव्याहारमिदं मन्त्रं निःस्वभावस्वभावजम् ॥ १.३९ ॥
ततः परिणतं रूपं यद्देवतोपलम्भिकम् ।
साङ्केतिकं त्रितत्त्वस्थं प्रकृतिजापलपक्षणम् ॥ १.४० ॥
अकारोद्देशकं ज्ञानं बुद्धस्य हृदयं भवेत् ।
ओंकारः संसृजेत्सत्त्वान् बुद्धरूपाग्रकल्पितान् ॥ १.४१ ॥
हूंकारःसंहरेत्सत्त्वानाःकारः स्थापको भवेत् ।
प्रवेशश्व स्थितिश्चैव व्युत्थानं च क्रमेण च ॥ १.४२ ॥
जपेन्मन्त्रमभिन्नाङ्गं प्रज्ञोपायपदे स्थितः ।
पाण्डरादिजपः प्रक्तः पञ्चविंशच्छतद्वयम् ॥ १.४३ ॥
चतुर्भिर्गुणितं सम्यक्चतुर्योगशतं नव ।
नवशतं तु यद्दृष्टं चतुर्विंशत्परिक्रमैः ।
प्रत्युत्पादाद्भवेत्तत्र द्व्ययुतं शतषोडशम् ॥ १.४४ ॥

इदमेवाध्यात्मिकवेलायां द्योतयन्नाह समाजोत्तरे-

विद्यानयविधानेन चतुःसन्ध्याप्रयोगतः ।
जपेन्मन्त्रमभिन्नाङ्गं लक्षमक्षरसंख्यया ॥ १.४५ ॥
बाह्यजापं त्यजेद्योगी भावनायान्तरायिकम् ।
मन्त्रार्थो भगवान् वज्री वज्रात्मात्र कथं जपेत् ॥ १.४६ ॥
हस्तिनं लभते सद्यो मृगयेद्धस्तिनः पदम् ।
मन्त्रमूर्तिः स्वयं साक्षात्किमन्यत्तु गवेषते ॥ १.४७ ॥
अपि च वज्रधृक्कश्चित्त्रिसंयोगान्वितो नरः ।
आवाहनविसर्जनं स्यात्तथा स्थापनमेव च ॥ १.४८ ॥
आवाहनं प्रवेशेन त्वरितेन विसर्जनम् ।
वाष्पेण स्थापनं तत्स्याद्विश्वस्तात्सिद्धिरुत्तमा ॥ १.४९ ॥
त्वरिते निबन्धके वाष्पे मन्त्रनियोजना कथिता ।
कर्णमूले तु शिष्यायाचार्येण सुप्रयत्नतः ॥ १.५० ॥
अथ योगेश्वराणां तु दिव्योपायः प्रदर्शितः ।
गुह्याक्षरं प्रवक्ष्यामि योगसिद्धिफलप्रदम् ॥ १.५१ ॥
येन चिन्तितमात्रेण योगिनः स्युर्वरप्रदाः ।
आद्यक्षरप्रयोगेण उच्छवासं कुरुते सदा ॥ १.५२ ॥
अष्टान्तेन समायुक्तमुकारेण सबिन्दुकम् ।
निश्वासं कुरुते योगी रुचिजाप्तमिहोच्यते ॥ १.५३ ॥
अयुतद्वयं सहस्रं च षट्शतानि तथैव च ।
अहोरात्रेण योगीन्द्रो जपसंख्यां करोति च ॥ १.५४ ॥
तदेवं गुह्यसन्ध्यायां सूक्ष्मयोगः प्रकाशितः ।
ध्यानाध्ययनवीतं तु तथापि जाप उच्यते ॥ १.५५ ॥
अनेन वज्रजापेन सेवां कृत्वा यथाविधि ।
साधयेत्सर्वकार्याणि मायोपमसमाधिना ॥ १.५६ ॥

अत्राह अद्वयसमतामहायोगतन्त्रे-

जपित्वा मन्त्रमतुलं साधयेत्साधनात्मकः ।
सिध्यते तस्य त्रैलोक्यं मासैकेन न संशयः ॥ १.५७ ॥
षड्लक्षाणि जपित्वा तु मन्त्रं ज्ञानसमुद्भवम् ।
वज्रसत्त्वं नमस्कृत्य पूर्णमास्यां स सिध्यति ॥ १.५८ ॥
न तस्य व्रतमाख्यातं नाक्षसूत्रं न मन्त्रकम् ।
धारणा होमकर्माणि वर्ज्यन्ते च परापरम् ॥ १.५९ ॥
यकारार्थेन यत्किञ्चित्सिद्धिमिच्छता ।
रेफादित्रितयेनैव जतत्कार्यं प्रवर्तते ॥ १.६० ॥
अग्निवायव्यमाहेन्द्रवारुणे प्रतिमण्डले ।
अर्धयामिकवेलायां द्वौ द्वौ कर्मणि तिष्ठतः ॥ १.६१ ॥
पूजाप्रायो भवेत्पूज्यो जापप्रायो विशुध्यति ।
अग्निहोत्रपरो भूतिं मोक्षं ध्यानपरो लभेत् ॥ १.६२ ॥
ज्ञात्वा इत्थं ततो मन्त्री जगद्बालवदाचरेत् ।
ततः सिध्यन्ति मन्त्राश्च निर्विकल्पैकधर्मतः ॥ १.६३ ॥
मन्त्रतत्त्वमिदं व्यक्तं वाग्वज्रस्य प्रसाधनम् ।
ज्ञानत्रयप्रभेदेन चित्तमात्रे नियोजयेद् ॥ इति ॥ १. ६४ ॥
गुरोरवज्ञासुशठोऽप्रसन्नो मन्त्रोद्धतः पुस्तकदृष्टिगर्वः ।
अश्रद्दधानस्त्वभिषेकहीनो वार्ता क्रमस्यापि च तस्य नोक्ता ॥ १.६५ ॥
यः श्रद्दधानो गुरुभक्तिरक्तः शुश्रूषणायां च सदाभियुक्तः ।
ग्राह्यः श्रुतिं नैव धनं निरीक्ष्यं गुरुप्रधानोऽय गुरुप्रसादः ॥ १.६६ ॥
गिरीन्द्रमूर्ध्नः प्रपतेत्तु कश्चित्नेच्छेच्च्युतिं तु च्यवते तथापि ।
गुरुप्रसादाप्तहितोपदेश इच्छेन्न मोक्तं स तथापि मुक्तंः ॥ १.६७ ॥

॥ वज्रजापक्रमः समाप्तः ॥

कृतिरियं श्रीनागार्जुनपादानामिति ।
ग्रन्थप्रमाणमस्य षदधिकसप्ततिः ॥

प्रथमः क्रमः ॥


[२]
अनुत्तरसन्धिरित्यपरनामा सर्वशुद्धिविशुद्धिक्रमः द्वितीयः

नमः श्रीवज्रसत्त्वाय

नमस्तेऽस्तु नमस्तेऽस्तु नमस्तेऽस्तु नमो नमः ।
एवं स्तुते नमस्तेऽस्तु कः स्तोता कश्च संस्तुतः ॥ २.१ ॥
यथा जलं जले न्यस्तं घृतं चैव यथा घृते ।
स्वकीयं च स्वयं पश्येज्ज्ञानं यत्रेह वन्दना ॥ २.२ ॥
किन्तु सर्वज्ञगतिभिर्विना तन्नोपलभ्यते ।
तमःपटलसञ्छन्नं प्रसादाद्द्वीपमाप्नुयात् ॥ २.३ ॥
शून्यं च अतिशून्यं च महाशुन्यं तृतीयकम् ।
चतुर्थं सर्वशून्यं च फलहेतुप्रभेदतः ॥ २.४ ॥
प्रज्ञोपायसमायोगान्निष्पन्नमुपलब्धकम् ।
उपलब्धाच्च निष्पन्नात्सर्वशून्यं प्रभास्वरम् ॥ २.५ ॥
हेतुक्रमविशुद्धं तु विज्ञानत्रययोगतः ।
शून्यत्रयसमायोगाल्लभ्यतेऽनुत्तरं पदम् ॥ २.६ ॥
आलोकश्शून्यं प्रज्ञा च चित्तं च परतन्त्रकम् ।
तस्येदानीं प्रवक्ष्यामि प्रकृतिस्फरणं स्फुटम् ॥ २.७ ॥
विरागो मध्यमश्चैव अधिमात्रस्तथैव च ।
मनोगतागतं चैव शोकादितृतीयं तथा ॥ २.८ ॥
सौम्यं विकम्पो भीतश्च मध्यभीतोऽतिभीतकः ।
तृष्णा मध्यतृष्णा चातितृओस्णोओपादानकं तथा ॥ २.९ ॥
निःशुभं क्षुत्तृषा चैव वेदना समवेदना ।
अतिवेदना क्षणश्चैव वेत्तिविद्धारणापदम् ॥ २.१० ॥
प्रत्यवेक्षणं लज्जा च कारुण्यं स्नेहतस्त्रयम् ।
चकितं संशयश्चैव मात्सर्यं चेति कीर्तिताः ॥ २.११ ॥
त्रयस्त्रिंशत्प्रकृतयः स्वसंवेद्याः शरीरिणाम् ।
संवृतिस्फुटरुपेण निशासंज्ञा प्रदर्शिताः ॥ २.१२ ॥
स्त्रीसंज्ञा तथा प्रोक्ता मन्दाकारा तथैव च ।
वामसंज्ञा पुनश्चैव चन्द्रमण्डलपङ्कजम् ॥ २.१३ ॥
दृढीकरणहेतुत्वात्सबिन्दुः प्रथमः स्वरः ।
निशाकरांशुसङ्काश आलोकज्ञानसम्भवः ॥ २.१४ ॥
आलोकाभासमित्युत्कमतिशून्यमुपायकम् ।
परिकल्पितं तथा प्रोक्तं प्रोक्तं चैतसिकं तथा ॥ २.१५ ॥
रागो रक्तं तथा तुष्टं मध्यतुष्टातितुष्टकम् ।
हर्षणं चैव प्रामोद्यं विस्मयो हसितं तथा ॥ २.१६ ॥
ह्लादनालिङ्गनं चैव तथा चुम्बनचूषणम् ।
धैर्यं वीर्यं च मानश्च कर्तृहर्तृबलानि च ॥ २.१७ ॥
उत्साहः साहसं चैव तथा चोत्तमसाहसम् ।
मध्यमं साहसं राद्रं विलासो वैरमेव च ॥ २.१८ ॥
शुभं च वाक्स्फुटा सत्यमसत्यं निश्चयस्तथा ।
निरुपादानदातृत्वे चोदनं शूरता तथा ।
अलज्जा धूर्तदुष्टश्च हठः कुटिल एव च ।
चत्वारिंशत्प्रकृतयः क्षणिकाश्चातिशून्यज्जाः ॥ २.२० ॥
दिवापुरुषसंज्ञा च खराकारश्च दक्षिणः ।
सूर्यमण्डलसंज्ञा च वज्रसंज्ञा तथैव च ॥ २.२१ ॥
कला सैव तु विज्ञेया बिन्दुद्वयविभूषिता ।
दिवाकरांशुइसङ्काशा आलोकाभासयोगजा ॥ २.२२ ॥
आलोकस्योपलब्धिश्च उपलब्धं तथैव च ।
परिनिष्पन्नकं चैव अविद्या चैव नामतः ॥ २.२३ ॥
महाशून्यपदस्यैते पर्यायाः कथिता जिनैः ।
मध्यरागक्षणश्चैव विस्मृतिर्भ्रान्तिरेव च ॥ २.२४ ॥
तूष्णींभावश्च खेदश्च आलस्यं दन्धता तथा ।
अविद्यायाः क्षणाः सप्त विज्ञेयाः सुक्ष्मयोगिभिः ॥ २.२५ ॥
न बीजं विन्दुसंयुक्तं न वायुर्द्वारनिर्गतः ।
यदालोकोपलब्धं तु तत्परिनिष्पन्नलक्षणम् ॥ २.२६ ॥
एताः प्रकृतयः सूक्ष्माः शतं षष्ट्युत्तरं दिवा ।
रात्रौ चापि प्रवर्तन्ते वायुवाहनहेतुना ॥ २.२७ ॥
क्षणे लवे मुहूर्त्ते च निमेषे मात्रके तथा ।
क्षण इत्यच्छटावस्था लवः सर्षपवर्तनम् ॥ २.२८ ॥
आश्वासस्तु मुहूर्त्तं स्यान्निमेषोऽक्षिनिमेषणम् ।
मात्रा तु हस्ततालं स्यात्क्षणादीनां तु लक्षणम् ॥ २.२९ ॥
संवित्तिमात्रकं ज्ञानमाकाशवदलक्षणम् ।
किन्तु तस्य प्रभेदोऽस्ति सन्ध्यारात्रिदिवात्मना ॥ २.३० ॥
आलोकालोकाभासौ च तथालोकोपलब्धकम् ।
चित्तं त्रिविधमित्युक्तमाधारस्तस्य कथ्यते ॥ २.३१ ॥
वायुना सूक्ष्मरूपेण ज्ञानं संमिश्रतां गतम् ।
निःसृत्येन्द्रियमार्गेम्यो विषयानवलम्बते ॥ २.३२ ॥
आभासेन यदा युक्तो वायुर्वाहनतां गतः ।
तदा तत्प्रकृतीः सर्वा अस्तव्यस्ताः प्रवर्तयेत् ॥ २.३३ ॥
यत्र यत्र स्थितो वायुस्तां तां प्रकृतिमुद्वहेत् ।
यावत्समीरणोत्पादो नाभासो निश्चलो भवेत् ॥ २.३४ ॥
आभासद्वयहेतुः स्यादात्मभावविकल्पना ।
उभयांशिकमेव स्याद्यदालोकोपलब्धकम् ॥ २.३५ ॥
सर्वासामेव मायानां स्त्रीमायैव विशिष्यते ।
ज्ञानत्रयप्रभेदोऽयं स्फुटमत्रैव लक्ष्यते ॥ २.३६ ॥
रागश्चैव विरागश्च द्वरोरन्तरिति त्रयम् ।
द्वीन्द्रियस्य समापत्त्या वज्रपद्मसमागमात् ॥ २.३७ ॥
ज्ञानद्वयसमायोगः समापत्तिः प्रकीर्तीता ।
ज्ञानद्वयसमापत्त्या यथोक्तकरणेन तु ॥ २.३८ ॥
यज्ज्ञानं प्राप्यते यत्नात्तदालोकोपलब्धकम् ।
यस्य वज्राब्जसंयोगः संवृत्या तु न विद्यते ॥ २.३९ ॥
सिध्यते योगसामर्थ्यात्सकृदप्यनुभूतवान् ।
यथा प्रभेदं विज्ञाय ज्ञानवृत्तिं स्वभावतः ॥ २.४० ॥
लक्षयेत्सततं योगी तामेव प्रकृतिं पुनः ।
पयोधरा यथा नैके नानासंस्थानवर्णकाः ॥ २.४१ ॥
उद्भूता गगनाभोगाल्लयं गच्छन्ति तत्र वै ।
एवं प्रकृतयः सर्वा आभासत्रयहेतुकाः ॥ २.४२ ॥
निर्विश्य विषयान् कृत्स्नान् प्रविशन्ति प्रभास्वरम् ।
एषां स्वभावाबिज्ञानदज्ञानपटलावृताः ॥ २.४३ ॥
कृत्वा शुभाशुभं कर्म भ्रमन्ति गतिपञ्चके ।
आनन्तर्यादिकं कृत्वा नरकेषु विपच्यते ॥ २.४४ ॥
शुभं दानादिकं कृत्वा स्वर्गादिषु महीयते ।
अनन्तजन्मसाहस्रं प्राप्य चैवं पुनः पुनः ॥ २.४५ ॥
पूर्वकर्मविपाकोऽयमिति शोचति मोहतः ।
प्रकृत्याभासयोगेन येन क्लिश्यन्ति जन्तवः ॥ २.४६ ॥
ज्ञात्वा तमेव मुच्यन्ते ज्ञानिनो भवपञ्जरात् ।
प्रज्ञास्वभाव एवायं चन्द्रमण्डलकल्पना ॥ २.४७ ॥
चित्तमेव स्वयं पश्येत्स्वमेव शशिबिम्बवत् ।
अथ चन्द्रं समालम्ब्य वज्रचिन्हं प्रकल्पयेत् ॥ २.४८ ॥
उपायसूचकं ह्येतद्वज्राद्युत्पत्तियोगिनाम् ।
चन्द्रवज्रादिसंयोगश्चित्तचैतससङ्गमः ॥ २.४९ ॥
प्रज्ञोपायसमायोगाज्जायते देवताकृतिः ।
चतुर्मुद्राभिरामुद्र्य देवतागर्वमुद्वहन् ॥ २.५० ॥
विचरेत्तु सदा मन्त्री उत्पत्तिक्रमयोगवान् ।
यथोक्तं श्रीसमाजादौ तत्र तत्र सुविस्तरम् ॥ २.५१ ॥
यावत्स्याद्भावनायोगस्तावत्स्यादादिकर्मिकः ।
परिनिष्पन्नयोगस्य सूचन क्रियतेऽधुना ॥ २.५२ ॥
शून्यत्रयविशुद्धिर्या प्रभास्वरमिहोच्यते ।
सर्वशून्यपदं तच्च ज्ञानत्रयविशुद्धितः ॥ २.५३ ॥
ज्ञानशुद्धिपदं तत्त्वं सर्वज्ञत्वमनुत्तरम् ।
निर्विकारं निराभासं निर्द्वन्द्वं परमं शिवम् ॥ २.५४ ॥
अस्तीति न च नास्तीति न च वाक्यगोचरम् ।
अतः प्रभास्वराच्चूद्धाज्ज्ञानत्रयसमुद्भवः ॥ २.५५ ॥
द्वात्रिंशल्लक्षणधरो ह्यशीतिव्यञ्चनान्वितः ।
सर्वाकारवरोपेतः सर्वज्ञो जायते ततः ॥ २.५६ ॥
तथा चोक्तं महायानसूत्रे ललितविस्तरे ।
अभिसम्बोधिकामोऽयं शाक्यसिंहस्तथागतः ॥ २.५७ ॥
महाशून्येन बुद्धत्वं प्राप्स्यामीत्यभिमानतः ।
नैरञ्चनानदीतीरे निस्पाद्यास्फानकं गतः ॥ २.५८ ॥
तिलबिम्बीव सम्पूर्णाः खमध्यस्था जिनास्तदा ।
एकस्वरेण तं प्राहुरच्छटेन जिनौरसम् ॥ २.५९ ॥
अविशुद्धमिदं ध्यानं न चैतदिष्टकावहम् ।
प्रभास्वरमातु आलम्ब्यमाकाशतलवत्परम् ॥ २.६० ॥
प्रभास्वरपदे प्राप्ते स्वेच्छारूपस्तु जायसे ।
सवैश्वर्यं तथा प्राप्य वज्रकाये प्रमोदसे ॥ २.६१ ॥
एवं श्रुत्वा तु तं श्ब्दं विसर्ज्यास्फानकं ततः ।
निशार्धसमये तत्त्वमालम्ब्यैव जिनौरसः ॥ २.६२ ॥
ऋजुकेनैव कायेन वाचाय ऋजुरेव च ।
साशनो नाशनो नैव न मौनी नाप्यमौनवान् ॥ २.६३ ॥
नोन्मीलितसुनेत्रस्तु न च मीलितलोचनः ।
स्वच्छं व्यक्तं महाज्ञानं सर्वशून्यं महाद्भुतम् ॥ २.६४ ॥
अथ पश्यति तद्वयक्तं गुरुपादप्रसादतः ।
अनागतमतीतं च वर्तमानं भवत्रयम् ॥ २.६५ ॥
तत्क्षणान्निखिलं पश्येत्प्रभास्वरविशुद्धधृक् ।
जलचन्द्रमरीच्यादिमायागुणविभूषितः ॥ २.६६ ॥
अरुणोद्गमकाले तु वज्रोपमसमाधिना ।
निषद्य बोधिमूले तु सोऽकरोन्मारभञ्चनम् ॥ २.६७ ॥
सम्प्राप्य शाक्यनाथेन तत्त्वज्ञानमनुत्तरम् ।
जगत्त्रयहितार्थाय तदेवेह प्रदर्शितम् ॥ २.६८ ॥
तत्त्वज्ञानमिति प्रोक्तमभिसम्बोधिदर्शनम् ।
पञ्चानन्तर्यकर्मा च मन्दपुण्योऽपि यो नरः ॥ २.६९ ॥
गुरुप्रसादादाप्नोति चिन्तामणिरिवापरम् ।
यथेष्टं कुरुते चर्यां संबुद्धोऽयमनागतः ॥ २.७० ॥
न रागो न विरागश्च मध्यमा नोपलभ्यते ।
न शून्यं नापि चाशून्यं मध्यमा नोपलभ्यते ॥ २.७१ ॥
सर्वबुद्धसमायोग इदमेव प्रदर्शितम् ।
त्रिज्ञानाद्व्यतिरिक्तं यत्तत्त्वं सन्ध्याय भाषया ॥ २.७२ ॥
अभावेत्यादिगाथाभिः पटले बोधिचित्तके ।
श्रीसमाजेऽपि तत्प्रोक्तमभिसम्बोधिलक्षणम् ॥ २.७३ ॥
रागादीनां विशुद्धिर्या परमाद्ये प्रदर्शिता ।
सर्वशून्यं समुद्दिश्य सापि प्रोक्ता तथागतैः ॥ २.७४ ॥
नानासूत्रेषु तन्त्रेषु यत्तत्त्वमुपदर्शितम् ।
सर्वशून्यपदं ह्येतन्नान्यत्तत्राभिधीयते ॥ २.७५ ॥
चतुरशीतिसाहस्रे धर्मस्कन्धे महामुनेः ।
सारात्सारतरं प्रोक्तमभिसम्बोधिलक्षणम् ॥ २.७६ ॥
जटी नग्नश्च मुण्डी वा शिखिनिःसङ्गवृत्तयः ।
तैस्तैश्च विविधैर्लिङ्गैरभिसम्बोधिकामिनः ॥ २.७७ ॥
तेषां तत्त्वविहीनानां व्रतचर्यादिकः क्रमः ।
तत्त्वज्ञानविहीनत्वात्तेन मुक्तिर्न लभ्यते ॥ २.७८ ॥
आदिकर्मिकयोगेन चाष्टमीं भूमिमाप्नुयात् ।
आलोकत्रयदर्शी च दशभूम्यां प्रतिष्ठितः ॥ २.७९ ॥
सम्प्राप्य ह्यभिसम्बोधिं शुद्धावासमुपागतः ।
बुद्धक्षेत्रेस्ववैवर्ती सर्वज्ञ इह जन्मनि ॥ २.८० ॥
धर्मोदयाभिसम्बोधिः क्रीडारागादिविस्तरैः ।
धर्मधात्वाभिसमबोधिर्यथालाभविचेष्टितैः ॥ २.८१ ॥
अनुतराभिसम्बोधिरभिसम्बोधियोगतः ।
प्रपञ्चाकारादिचर्याभिरभ्यस्यन्तीह योगिनः ॥ २.८२ ॥
आः किमभ्यासयोगेन आदिशुद्धिः स्वभाविका ।
प्रकृत्यैव हि सा सिद्धा तथता न विकल्पजा ॥ २.८३ ॥
य एवं कल्पयन्तीह ज्ञानक्रममपास्य वै ।
तत्प्रभेदमजानानाः पुनः शैक्षा भवन्ति ते ॥ २.८४ ॥
प्रकृत्याभासभेदज्ञा चतुर्थं तत्त्वमाश्रिताः ।
त्रिधा नाभ्यस्यते यस्तु न शीघ्रमाप्नुयात्फलम् ॥ २.८५ ॥
यथाग्निर्दारुगर्भस्थो नोत्तिष्ठेन्मथनाद्विना ।
तथाभ्यासाद्बिना बोधिर्जायते नेह जन्मनि ॥ २.८६ ॥
यः शाठ्यबुद्धिरलसो गुरुनिन्दकश्च प्राप्ताभिषेक इति गर्वितमानसः स्यात् ।
सर्वज्ञता न सुलभेति विहीनचित्तो दोषान् स पश्यति गुरोर्न गुणान् वराकः ॥ २.८७ ॥
सूश्रूषया विरहितो लघु तत्त्वमिच्छेन्नेति प्रश्स्तवचनं चलयेत्सरोषः ।
दृष्ट्वा सभासु गुरुमस्य पराङ्मुखस्तु कुर्यात्प्रणाममथ तस्य रहोगतस्य ॥ २.८८ ॥
एवं च दौरात्म्यगतं कुशिष्यं स्वपुत्रमप्यौरसमार्यगर्ह्यम् ।
वैश्यं तथा पार्थिवमग्रबोधिं कुर्यात्समीपे न हि जातु धीरः ॥ २.८९ ॥
शुभगुणसुसमेतो ज्ञानवान् वीर्ययुक्तो गुरुजनमथ भक्त्या वीक्षते बुद्धतुल्यम् ।
अधिगतजिनधर्मः शासनेषु प्रसन्नः स इह भवति पात्रं तस्य कुर्यात्प्रसादम् ॥ २.९० ॥
श्रुतबहुतरतन्त्रोऽउयागमेषु प्रवीणो गुरुजनपरिचर्याहान्यलब्धोपदेशः ।
स्वहितमपि स कर्तुं न प्रभुः शास्त्रचञ्चुर्भवति तदपि शास्त्रं केवलं खेदहेतुः ॥ २.९१ ॥
अथ भवति सभाग्यः प्राप्ततत्त्वोपदेशो जडमतिरसमर्थो मीलनेऽर्थस्य यस्तु ।
परहितकृतबुद्धिर्देशनायां प्रवृत्तो वचनगुणविहीनः सोऽप्यवज्ञामुपैति ॥ २.९२ ॥
श्रुतबहुतरतन्त्रो ज्ञानवान् षट्पदज्ञः स्मृतिमतिधृतिमेधावीर्यसम्पत्समेतः ।
गुरुचणसपर्याप्राप्ततत्त्वोपदेशः प्रभवति स हि वक्तुं तन्त्रराजोपदेशम् ॥ २.९३ ॥
श्रुतबहुतरतन्त्रेणायवज्रिप्रसादात्स्फुटविरचितवाचा बोधिमार्गं विभज्य ।
कुशलमुपचित्तं यच्छाक्यमित्रेण तेन प्रकटपटुविपाकाद्बोधिभाजो भवन्तु ॥ इति । २.९४ ॥

अनुत्तरसन्धिरित्यपरनामा

॥ सर्वशुद्धिविशुद्धिक्रमः समाप्तः ॥

कृतिरियं शाक्यमित्रपादानाम् । ग्रन्थप्रमाणमस्य शतमेकम् ।

द्वितीयः क्रमः ।


[३]
स्वाधिष्ठानक्रमः तृतीयः

नमः श्रीवज्रगुरवे

प्रणिपत्य वरं वज्रं वज्रसत्त्वादिनायकम् ।
स्वाधिष्ठानक्रमश्चैव वक्ष्यते कृपया मया ॥ ३.१ ॥

प्रथमतरं तावदुत्पत्तिक्रमानुसारेण प्राप्ताभिषेकश्चतुर्विधतन्त्राभिप्रायज्ञः प्राप्तकायवाक्चित्तविवेकः श्रुतिधरः सत्यद्वयाधिमोक्षो वज्रगुरुं सम्यगाराध्य, ततः प्रसन्नाय गुरवे महतीं गणपूजां कृत्वा षोडशाब्दिकां मुद्रां महावज्रगुरवे दत्वा, तदनन्तरं गुरुवक्त्रादाप्तस्वाधिष्ठानक्रमोपदेशः, ततो मालोदकसम्बुद्धवज्रघण्टादानदर्पणनामाचार्यानुज्ञा इत्येभिः सह गुह्याभिषेकं लब्ध्वा एभिः शास्तारं गुरुं स्तूयात्ः ।

शौषीर्यं नास्ति ते काये मांसास्थिरुधिरं न च ।
इन्द्रायुधमिवाकाशे कायं दर्शितवानसि ॥ ३.२ ॥
नामया नाशुचिः काये क्षुत्तृष्णासम्भवो न च ।
त्वया लोकानुवृत्त्यर्थं दर्शिता लौकिकी क्रिया ॥ ३.३ ॥
दकचन्द्रवदग्राह्य सर्वधर्मेष्वनिश्रित ।
अनहङ्कार निर्मोह निरालम्ब नमोऽस्तु ते ॥ ३.४ ॥
सदा समाहितश्चासि गच्छंस्तिष्ठन् स्वपंस्तथा ।
ईर्ष्यापथेषु सर्वेषु निरालम्ब नमोऽस्तु ते ॥ ३.५ ॥
विकुर्वसि महाऋद्ध्या मायोपमसमाधिना ।
निर्नानात्वं समापन्न निरालम्ब नमोस्तु ते ॥ ३.६ ॥

एवं वज्रगुरं सद्भूतगुणेन संस्तुत्य श्रवणार्थमध्येषयेदनया गाथया-

सर्वज्ञ ज्ञानसन्दोह भवचक्रविशोधक ।
अद्य व्याख्यानरत्नेन प्रसादं कुरु मे विभो ॥ ३.७ ॥
त्वत्पादपङ्कजं मुक्त्वा नास्त्यन्यच्छरणं विभो ।
तस्मात्प्रसीद बुद्धाग्र जगद्वीर महामुने ॥ ३.८ ॥
एवं श्रुत्वा तु तद्वाक्यमध्येषणविशारदम् ।
शिष्यकारुण्यमुत्पाद्य स्वाधिष्ठानमथारभेत् ॥ ३.९ ॥
स्वाधिष्ठानक्रमो नाम संवृतेः सत्यदर्शनम् ।
गुरुपादप्रसादेन लभ्यते तच्च नान्यथा ॥ ३.१० ॥
स्वाधिष्ठानक्रमो येन साधकेन न लभ्यते ।
सूत्रान्ततन्त्रकल्पेषु वृथा तस्य परिश्रमः ॥ ३.११ ॥
स्वाधिष्ठानक्रमं लब्ध्वा सर्वबुद्धामयः प्रभुः ।
जन्मनीहैव बुद्धत्वं निःसन्देहं प्रपद्यते ॥ ३.१२ ॥
स्वाधिष्ठानसमाधिश्च प्रभास्वरपदं तथा ।
सत्यद्वयमिति ख्यातं फलहेतुविशेषतः ॥ ३.१३ ॥
स्वाधिष्ठानानुपूर्वेण प्राप्यते हि प्रभास्वरम् ।
तस्माद्वज्रगुरुः पूर्वं स्वाधिष्ठानं प्रदर्शयेत् ॥ ३.१४ ॥
अस्वतन्त्रं जगत्सर्वं स्वतन्त्रं नैव जायते ।
हेतुः प्रभास्वरं तस्य सर्वशून्यं प्रभास्वरम् ॥ ३.१५ ॥
येन चित्तेन बालाश्च संसारे बन्धनं गताः ।
योगिनस्तेन चित्तेन सुगतानां गतिं गताः ॥ ३.१६ ॥
न चात्रोत्पद्यते कश्चिन्मरणं नापि कस्यचित् ।
संसार एव ज्ञातव्यश्चित्तरूपाकृतिष्ठितः ॥ ३.१७ ॥
वायुयोगाद्विना चित्तस्वरूपं नैव गृह्यते ।
चित्तात्प्रकृतिहेतुत्वात्कर्मजन्मसमुद्भवः ॥ ३.१८ ॥
तदेव वायुसंयुक्तं विज्ञानत्रितयं पुनः ।
जायते योगिनां मूर्त्तिर्मायादेहस्तदुच्यते ॥ ३.१९ ॥
तस्मादेव जगत्सर्वं मायोपम इहोच्यते ।
मायोपमसमाधिष्ठः सर्वं पश्यति तादृशम् ॥ ३.२० ॥
रूपं च वेदना चैव संज्ञा संस्कार एव च ।
विज्ञानं पञ्चमं चैव चत्वारो धातवस्तथा ॥ ३.२१ ॥
अक्षाणि विषयाश्चैव ज्ञानपञ्चकमेव च ।
अध्यात्मबाह्यतो भिन्नं सर्वं मायैव नान्यथा ॥ ३.२२ ॥
दर्पणप्रतिबिम्बेन मायादेहं च लक्षयेत् ।
वर्णानिन्द्रायुधेनेव व्यापित्वमुदकेन्दुना ॥ ३.२३ ॥
दर्पणे विमले व्यक्तं दृश्यते प्रतिबिम्बवत् ।
भावाभावाविनिर्मुक्तो वज्रसत्त्वः सुचित्रितः ॥ ३.२४ ॥
सर्वाकारवरोपेतो असेचनकविग्रहः ।
दर्शयेत्तं सुशिष्याय स्वाधिष्ठानं तदुच्यते ॥ ३.२५ ॥
इयमेव हि संलक्ष्या माया निर्दोषलक्षणा ।
मायैव संवृतेः सत्यं कायः साम्भोगिकश्च सः ॥ ३.२६ ॥
सैव गन्धर्वसत्त्वः स्याद्वज्रकायः स एव हि ।
वज्रसत्त्वः स्वयं तस्मात्स्वस्य पूजां प्रवर्तयेत् ॥ ३.२७ ॥
आत्मा वै सर्वबुद्धत्वं सर्वसौरित्वमेव च ।
तस्मात्सर्वप्रयत्नेन ह्यात्मानं पूजयेत्सदा ॥ ३.२८ ॥
मन्त्रमुद्राप्रयोगं च मण्डलादिविकल्पनम् ।
बलिहोमक्रिर्यां सर्वां कुर्यान्मायोपमां सदा ॥ ३.२९ ॥
शान्तिकं पौष्टिकं चापि तथा वश्याभिचारिकम् ।
आकर्षणादि यत्सर्वं कुर्यादिन्द्रायुधोपमम् ॥ ३.३० ॥
शृङ्गाराद्युपभोगं च गीतवाद्यादिसेवनम् ।
कलासु च प्रवृत्तिं च कुर्यादुदकचन्द्रवत् ॥ ३.३१ ॥
रूपे शब्दे तथा गन्धे रसे स्प्रष्टव्य एव च ।
चक्षुरादिप्रवृत्तिं च मायावदुपलक्षयेत् ॥ ३.३२ ॥
बहुनात्र किमुक्तेन वज्रयाने तु तत्त्वतः ।
यद्यदालम्बयेद्योगी तद्तद्मायैव कल्पयेत् ॥ ३.३३ ॥
दर्पणे प्रतिबिम्बं च स्वप्नं मायां च बुद्बुदम् ।
इन्द्रजालं च सादृश्यं यः पश्येद्स प्रभुः स्मृतः ॥ ३.३४ ॥
दृश्यते स्पृश्यते चैव यथा माया जगत्सदा ।
न चोपलम्भः संवृत्या मायावत्परिकीर्तितः ॥ इति ॥ ३.३५ ॥
यद्यदिन्द्रियमार्गत्वं माया तत्तत्स्वभावतः ।
असमाहितयोगेन सर्वं बुद्धमयं वहेत् ॥ ३.३६ ॥
सर्वत्र सर्वतः सर्वं सर्वथा सर्वदा स्वयम् ।
सर्वबुद्धमयं सिद्धं स्वमात्मानं स पश्यति ॥ ३.३७ ॥
गच्छंस्तिष्ठन्महासत्त्वः सर्वसौखमयः प्रभुः ।
विहाराहारपानादीनाकाशाल्लभते क्षणात् ॥ ३.३८ ॥
भवेयुर्भवच्छेत्तारः शास्तारः प्रवरे जने ।
पूज्यन्ते ससुरैः सर्वैः प्रणिपत्य मुहुर्मुहुः ॥ ३.३९ ॥
यथा शास्तरि सम्बद्धे लोकयात्राहितैषिणि ।
एवमेव महायोगी विश्वज्ञानार्थसङ्ग्रहाद् ॥ ३.४० ॥
नास्ति किञ्चिदसाध्यं वै वज्रसत्त्वेन लक्षितम् ।
स्वयं प्रत्युसिध्यन्ति सर्वमुद्रा महासुखाः ॥ ३.४१ ॥
क्लेशाः कर्मपथा देहः कर्तारश्च फलं च वै ।
मरीचिस्वप्नसङ्काशा गन्धर्वनगरोपमाः ॥ ३.४२ ॥
इमं समाधिमज्ञात्वा संवृतावुपलम्भतः ।
जायन्ते विविधा रोगास्तेषां माया भिषग्जितम् ॥ ३.४३ ॥
स्वाधिष्ठानोपदेशस्तु येन नासाद्यते गुरोः ।
शाश्वतोच्छेदमालम्ब्य स वैवर्ती भवेत्पुनः ॥ ३.४४ ॥
सर्वपूजां परित्यज्य गुरुपूजां समारभेत् ।
तेन तुष्टेन तल्लभ्यं सर्वज्ञज्ञानमुत्तमम् ॥ ३.४५ ॥
किं तेन न कृतं पुण्यं किं वा नोपासितं तपः ।
अनुत्तरकृदाचार्यवज्रसत्त्वप्रपूजनात् ॥ ३.४६ ॥
यद्यदिष्टतरं किञ्चिद्विशिष्टतरमेव च ।
तत्तद्धि गुरवे देयं तदेवाक्षयमिच्छता ॥ ३.४७ ॥
आचार्यो हरते पापमाचार्यो हरते भयम् ।
आचार्यस्तारयेत्पारं दुःखार्णवमहाभयात् ॥ ३.४८ ॥
योऽहङ्कार[म]लालिप्तः सद्भूतक्रमधर्षकः ।
सावज्ञस्तत्त्वधर्मेषु तस्य तत्त्वं न दर्शयेत् ॥ ३.४९ ॥
सत्यवाग्गुरुभक्तश्च विविक्तश्चैकसन्धिओकः ।
समयाचाररक्षी च क्रमं तस्य प्रदर्शयेत् ॥ ३.५० ॥

॥ स्वाधिष्ठानक्रमस्तृतीयः समाप्तः ॥

कृतिरियमाचार्यनागार्जुनपादानाम् । ग्रन्थप्रमाणमस्य षट्पञ्चाशत् ।


[४]
अभिसम्बोधिक्रमः चतुर्थः

नमः श्रीवज्रसत्त्वाय

वज्रसत्त्वं नमस्कृत्य सर्वशून्योपदेशकम् ।
चतुर्थो ह्याभिसम्बोधिक्रमोऽयं वक्ष्यते मया ॥ ४.१ ॥
असौ स्वयम्भूर्भगवानेक एवाधिदैवतः ।
उपदेशप्रदानात्तु वज्राचार्योऽधिकस्ततः ॥ ४.२ ॥
तत्समाराधनं कृत्वा वर्षं मासमथापि वा ।
तस्मै तुष्टाय गुरवे पूजां कुर्यात्तु शक्तितः ॥ ४.३ ॥
यथास्वभावतो मुद्रां निवेद्यास्मै सुशिक्षिताम् ।
गणमण्डलमध्ये तु कुर्यात्पूजां यथाविधि ॥ ४.४ ॥
ततस्तुष्टो महायोगी पञ्चकामोपभोगतः ।
आलोकस्योदयं कुर्यात्समापत्तिविधानतः ॥ ४.५ ॥
कलशादौ सुसंस्थाप्य बोधिचित्तं प्रयत्नतः ।
अर्धरात्रे चाभिसिञ्चेत्सुशिष्यं कृपया गुरुः ॥ ४.६ ॥
अभिषेकं तु सम्प्राप्य प्रत्यूषमये पुनः ।
सम्पूज्याराधयेत्स्तोत्रैर्गुरुं शिष्यं कृताञ्जलिः ॥ ४.७ ॥
त्रैधातुकविनिर्मुक्त आकाशसमतां गतः ।
नोपरिष्यसि कामेषु निरालम्ब नमोऽस्तु ते ॥ ४.८ ॥
अनिःश्रितोऽसि स्कन्धेषु धातुष्वायतनेषु च ।
विपर्यासविनिर्मुक्त निरालम्ब नमोऽस्तु ते ॥ ४.९ ॥
अविकल्पितसङ्कल्प अप्रतिष्ठितमानस ।
अचिन्त्यमनसिकार निरालम्ब नमोऽस्तु ते ॥ ४.१० ॥
अनालयं यथाकाशं निष्प्रपञ्चं निरञ्चनम् ।
आकाशसमचित्तोऽसि निरालम्ब नमोऽस्तु ते ॥ ४.११ ॥
द्रष्टुकामोऽभिसम्बोधिं सर्वशून्यस्वभाविकाम् ।
स्तुत्वा कृताञ्जलिः शिष्यो गुरं सञ्चोदयेत्पुनः ॥ ४.१२ ॥
प्रयच्छ मे महानाथ अभिसम्बोधिदर्शनम् ।
कर्मजन्मविनिर्मुक्तमाभासत्रयवर्जितम् ॥ ४.१३ ॥
प्रयच्छ मे महाचार्य वज्रज्ञानमनुत्तरम् ।
सर्वबुद्धमहाज्ञानं सर्वताथागतालयम् ॥ ४.१४ ॥
प्रयच्छ मे महावज्र कायवाक्चित्तशोधनम् ।
अनादिनिधनं शान्तं सर्वक्लेशविशोधनम् ॥ ४.१५ ॥
एवमाराधितो योगी सद्भूतगुणकीर्तनैः ।
शिष्ये कारुण्यमुत्पाद्य क्रममेवमथारभेत् ॥ ४.१६ ॥
आलोको रात्रिभागः स्फुटरविकिरणः स्याद्दिवालोकभासः ।
सन्ध्यालोकोपलब्धः प्रकृतिभिरसकृद्युज्यते स्वाभिरेतत् ।
नो रात्रिर्नापि सन्ध्या न च भवति दिवा यः प्रकृत्या विमुक्तः
स स्याद्बोधिक्षणोऽयं वरगुरुकथितो योगिनामेव गम्यः ॥ ४.१७ ॥
नैशं ध्वान्तं विनष्टं व्यपगतमखिलं सान्ध्यतेजस्तु यस्मिन्
भास्वान्नोदेति यावत्क्षण इह विमले दर्शयेद्भूतकोटिम् ।

शिष्यायाचार्यमुख्यो विनिहततिमिरो बाह्यसम्बोधिदृष्ट्या ।
प्राप्नोत्यध्यात्मसौख्यं व्यपगतकलुषं बुद्धबोधिं क्षणेन ॥ ४.१८ ॥
अनादिभूतं त्वथवादिभूतममध्यभूतं त्वथ मध्यभूतम् ।
अनन्तभूतं त्वथवान्तभूतं तत्सर्वशून्यं प्रवदन्ति सन्तः ॥ ४.१९ ॥
गमनागमनं च यत्र नास्ति क्षयवृद्धी न चाप्यभावभावौ ।
अतिविस्मयरूपमरूप्यविस्मयं स्थितिमन्नापि न चापि गत्वरम् ॥ ४.२० ॥
यदस्ति-नास्तिव्यवहारमुक्तं न पुण्यरूपं न च पापरूपम् ।
न पुण्यपापात्मकमग्रभूतं तत्सर्वशून्यं प्रवदन्ति बुद्धाः ॥ ४.२१ ॥
एवंविधं तत्त्वमवाप्य योगी चराचरात्मा जगदेकबन्धुः ।
यः पर्यटेज्ज्ञानमयो नृसिंहः कृत्स्नं जगत्सोऽव्ययकायलाभी ॥ ४.२२ ॥
स जिह्यकायोऽप्यविजिह्यकायः सोऽनासनोऽप्यासनबन्धधीरः ।
समीलिताक्षोऽपि विबुद्धनेत्रः समाहितः सन्न समाहितौऽसौ ॥ ४.२३ ॥
स वाग्युतो वागसमन्वितोऽपि भोगान्वितः सोऽपि विरुपवृत्तिः ।
स लोकनाथः परभृत्यभूतो यस्तत्त्ववित्क्षीणसमस्तदोषः ॥ ४.२४ ॥
प्राप्तोपदेशकः शिष्यो द्विधा योगमथाभ्यसेत् ।
पिण्डग्राहक्रमेणैव तथा चैवानुभेदतः ॥ ४.२५ ॥
शिरसः पादतो चापि यावद्धृदयमागतः ।
भूतकोटिं विशेद्योगी पिण्डग्राह इति स्मृतः ॥ ४.२६ ॥
स्थावरं जङ्गमं चैव पूर्वं कृत्वा प्रभास्वरम् ।
पश्चात्कुर्यात्तथात्मानमनुभेदक्रमो ह्ययम् ॥ ४.२७ ॥
श्वासवातो यथादर्शे लयं गच्छति सर्वतः ।
भूतकोटिं तथा योगी प्रविशोच्च मुहुर्मुहुः ॥ ४.२८ ॥
गच्छंस्तिष्ठन् स्वपन् भुञ्जन्नुन्मिषन्निमिषन् हसन् ।
अनेन ध्यानयोगेन सदा तिष्ठति तत्त्ववित् ॥ ४.२९ ॥
सत्त्वार्थोऽपि कदाचित्स्यात्तत्तत्सारूप्यरश्मिना ।
वायुविज्ञानयुक्तेन स्वाधिष्ठानक्रमेण तु ॥ ४.३० ॥
यथा नदीजलात्स्वच्छान्मीनमुत्तिष्ठते द्रुतम् ।
सर्वशून्यात्तथा स्वच्छान्मायाजालमुदीर्यते ॥ ४.३१ ॥
पञ्चबुद्धकुलायत्ता महामुद्रादिकल्पना ।
पञ्चरश्मिसमुच्छ्रेया गगने शक्रचापवत् ॥ ४.३२ ॥
मुद्राबन्धं प्रकुर्याद्वा मन्त्रं चापि जपेद्यदि ।
सर्वमन्यत्प्रकुर्याच्च सर्वशून्यपदे स्थितः ॥ ४.३३ ॥
सर्वभुक्सर्वपश्चैव सर्ववन्दी च सर्वगः ।
सर्वकृत्सर्वलिङ्गी च सर्वशून्येन सिध्यति ॥ ४.३४ ॥
प्राप्तोपदेशः सुभगः सुशिष्यो बौधौ हि चित्तं परमार्थनाम ।
गुरोः सकाशात्पुनराददीत कृताञ्जलिर्धारितपुष्पहस्तः ॥ ४.३५ ॥

सर्वभावविगतं स्कन्धधात्वायतनग्राह्यग्राहकवर्जितं धर्मनैरात्म्यसमतया स्वचित्तमाद्यनुत्पन्नं शून्यतास्वभावमिति ।

ततस्तु गुरवे दद्याद्दक्षिणां त्वनुरूपतः ।
रत्नं गृहं वा हस्त्यश्वं ग्रामं वा शयनासनम् ॥ ४.३६ ॥
दासं दासीं प्रियां भार्यां पुत्रीं चाप्यतिवर्णभाम् ।
आत्मानं चापि यद्दद्यात्किमन्यदवशिष्यते ॥ ४.३७ ॥
प्राप्ताचार्यप्रसादो विमलदृढमतिः सर्वभावस्वभावः
स्वच्छं शुद्धं सुसूक्ष्मं परमशिवमयं बुद्धनिर्वाणधातुम् ।
निर्द्वन्द्वं निर्विकल्पं सततसुखमयं भावयेत्तत्त्वयोगी
पुण्यापुण्याद्विमुक्तः स्वयमिह भगवान् जायते वज्रसत्त्वः ॥ ४.३८ ॥

। परमरहस्यसुखाभिसम्बोधिक्रमश्चतुर्थः समाप्तः ॥

कृतिरियमाचार्यनागार्जुनपादानाम् ।
ग्रन्थप्रमाणमस्य श्लोकाश्चत्वारिंशत् ।


[५]
युगनद्धक्रमः पञ्चमः

नमः श्रीवज्रधराय

फलहेत्वात्मकं नाथं सर्वद्वन्द्वविवर्जितम् ।
प्रणम्य लिख्यते सम्यग्युगनद्धक्रमोत्तमः ॥ ५.१ ॥
संसारो निर्वृतिश्चेति कल्पनाद्वयवर्जनात् ।
एकीभावो भवेद्यत्र युगनद्धं तदुच्यते ॥ ५.२ ॥
सङ्क्लेशं व्यवदानं च ज्ञात्वा तु परमार्थतः ।
एकीभावं तु यो वेत्तिं स वेत्ति युगनद्धकम् ॥ ५.३ ॥
साकारभावसङ्कल्पं निराकारत्वकल्पनाम् ।
एकीकृत्य चेरद्योगी स वेत्ति युगनद्धकम् ॥ ५.४ ॥
ग्राह्यं च ग्राहकं चैव द्विधा बुद्धिर्न विद्यते ।
अभिन्नता भवेद्यत्र तदाह युगनद्धकम् ॥ ५.५ ॥
शाश्वतोच्छेदबुद्धी तु यः प्रहाय प्रवर्तते ।
युगनद्धक्रमाख्यं वै तत्त्वं वेत्ति स पण्डितः ॥ ५.६ ॥
प्रज्ञाकरुणयोरैक्यं ज्ञात्वा यत्र प्रवर्तते ।
युगनद्ध इति ख्यातः क्रमोऽयं बुद्धगोचरः ॥ ५.७ ॥
प्रज्ञोपायसमापत्त्या ज्ञात्वा सर्वं समासतः ।
यत्र स्थितो महायोगी तद्भवेद्युगनद्धकम् ॥ ५.८ ॥
यत्र सोपधिशेषं च तथानुपधिशेषकम् ।
इत्येवं कल्पना नास्ति तत्तद्धि युगनद्धकम् ॥ ५.९ ॥
यत्र पुद्गलनैरात्म्यं धर्मनैरात्म्यमित्यपि ।
कल्पनाया विविक्तत्वं युगनद्धस्य लक्षणम् ॥ ५.१० ॥
ज्ञात्वा क्रमेण तत्त्वज्ञः स्वाधिष्ठानप्रभास्वरम् ।
तयोरेव समाजं यद्युगनद्धक्रमो ह्ययम् ॥ ५.११ ॥
पिण्डग्राहनुभेदाभ्यां प्रवेशस्तथतालये ।
उत्थानं च ततो यत्र समन्ताद्युगनद्धकम् ॥ ५.१२ ॥
संवृतिं परमार्थं च पृथग्ज्ञात्वा विभागतः ।
संमीलनं भवेद्यत्र युगनद्धं तदुच्यते ॥ ५.१३ ॥
तथातलम्बनं नैव व्युत्थानं यत्र नैव हि ।
युगनद्धं भवेत्तच्च योगिनां पदमव्ययम् ॥ ५.१४ ॥
सुप्तः प्रबुद्ध इत्येतदवस्थाद्वयवर्जितम् ।
युगनद्धं वदेच्छास्ता स्वापबोधविवर्जितम् ॥ ५.१५ ॥
समाधानासमाधानं यस्य नास्त्येव सर्वथा ।
युगनद्धे स्थितो योगी भावाभावविवर्जितः ॥ ५.१६ ॥
अस्मृतिस्मृतिनिर्मुक्तः सततोदयलक्षणः ।
विचरेदिच्छया योगी युगनद्धक्रमे स्थितः ॥ ५.१७ ॥
रागारागविनिर्मुक्तः परमानन्दमूर्तिमान् ।
आसंसारं स्थितिं कुर्याद्युगनद्धविभावकः ॥ ५.१८ ॥
कार्यं च कारणं चैव कृत्वाभिन्नंस्वभावतः ।
या स्थितिर्योगिनां बुद्धा युगनद्धं वदन्ति तत् ॥ ५.१९ ॥
उत्पत्तिक्रम एकोऽयमुत्पन्नक्रम इत्यपि ।
एकत्वं तु द्वयोर्यत्र युगनद्धस्तदुच्यते ॥ ५.२० ॥
देवता परिशुद्धेयमशुद्धेयं भवेदिति ।
इति या कल्पनाभिन्ना यत्र तद्युगनद्धकम् ॥ ५.२१ ॥
रूपीति चाप्यरूपीति कल्पनाद्वयवर्जनात् ।
यःशान्तिं वेत्ति योगीन्द्रः स प्राप्तो युगनद्धकम् ॥ ५.२२ ॥
एवं वै यः स्थितो योगी युगनद्धक्रमे स्थितः ।
उच्यते स हि सर्वज्ञः तत्त्वदर्शी च विश्वधृक् ॥ ५.२३ ॥
मायाजालाभिसम्बुद्धः संसारार्णवपारगः ।
कृतकृत्यो महायोगी सत्यद्वयनये स्थितः ॥ ५.२४ ॥
एतदेवाद्वयं ज्ञानमप्रतिष्ठितनिर्वृतिः ।
बुद्धत्वं वज्रसत्त्वत्वं सर्वैश्वर्यं तथैव च ॥ ५.२५ ।
वज्रोपमसमाधिस्तु निष्पन्नक्रम एव च ।
वज्रोपमसमाधिश्चाप्यद्वयं तच्च कथ्यते ॥ ५.२६ ॥
अनुत्पादादयः शब्दा अद्वयज्ञानसूचकाः ।
अस्यैव वाचकाः सर्वे नान्यत्तत्राभिधीयते ॥ ५.२७ ॥
महामुद्रात्मिकां सिद्धिं सदसत्पक्षवर्जिताम् ।
अनेनैव गता बुद्धा गङ्गायाः सिकतोपमाः ॥ ५.२८ ॥
घटमानो महायोगी युगनद्धपदे स्थितः ।
भावयेद्युगनद्धं तु चर्यां चापि तदन्वयाम् ॥ ५.२९ ॥
यथात्मनि तथा शत्रौ यथा भार्या तथात्मजा ।
यथा माता तथा वैश्या यथा डोम्बी तथा द्विजा ॥ ५.३० ॥
यथा वस्त्रं तथा चर्म यथा रत्नं तथा तुषम् ।
यथा मूत्रं तथा मद्यं यथा भक्तं तथा शकृत् ॥ ५.३१ ॥
यथा सुगन्धि कर्पूरं तथा गन्धममेध्यजम् ।
यथा स्तुतिकरं वाक्यं तथा वाक्यं जुगुप्सितम् ॥ ५.३२ ॥
यथा रुद्रस्तथा वज्री यथा रात्रीस्तथा दिवा ।
यथा स्वप्नं तथा दृष्टं यथा नष्टं तथा स्थितम् ॥ ५.३३ ॥
यथा सौख्यं तथा दुःखं यथा दुष्टस्तथा सुतः ।
यथावीचिस्तथा स्वर्गस्तथा पुण्यं तु पापकम् ॥ ५.३४ ॥
एवं ज्ञात्वा चरेद्ज्ञानी निर्विशङ्कस्तु सर्वकृत् ।
प्रच्छन्नव्रतमासाद्य सिध्यन्ते सर्वसम्पदः ॥ ५.३५ ॥
प्रकाश्य पुण्यं यत्प्राप्तं पञ्चक्रममनुत्तरम् ।
अनेन क्रीडतां लोको युगनद्धसमाधिना ॥ इति ॥ ५.३६ ॥

युगनद्धक्रमः पञ्चमः समाप्तः ॥

कृतिरियमाचार्यनागार्जुनपादानाम् । ग्रन्थप्रमाणमस्य श्लोकाः पञ्चत्रिंशत् ।

॥ पञ्चक्रमः समाप्तः ॥

प्रज्ञाकरुणयोरैक्यं ज्ञात्वा यत्र प्रवर्तते ।
युगनद्ध इति ख्यातः क्रमोऽयं बुद्धगोचरः ॥
(पञ्चक्रमः, ५-७)

अत्युद्गाढरयस्थिराकृतिघनध्वानभ्रमन्मन्दर-
क्षुब्धधीरधिवीचिसञ्चयगतप्रालेयपादोपमः ।
श्रीमत्पोतलके गभीरविवृतिध्वानप्रतिध्वानिते
सान्द्रस्वांशुचयश्रिया वलयितो लोकेश्वरः पातु वः ॥
(सुभाषितरत्नकोशे विद्याकरः)

न सत्या नासत्या न च तदुभयी नाप्यनुभयी
निरुल्लेखा सर्वाकृतिवरमयी मध्यमकधीः ।
जिनः शास्ता सैव स्थिर-चलजगत्तत्त्वमपि सा
स्वसंवित्तिर्देवी जयति सुखवज्रप्रणयिनी ॥
(अमृतकणिकाभिधायां नामसंगीतिटिकायाम्, रविश्रीः)

ये धर्मा हेतुप्रभवा हेतुस्तेषां तथागतो ह्यवदत् ।
तेषां च यो निरोध एवंवादी महाश्रमणः ॥

शुभमस्तु

"https://sa.wikisource.org/w/index.php?title=पञ्चक्रमः&oldid=370091" इत्यस्माद् प्रतिप्राप्तम्