पञ्चपादिकाविवरणम्/पञ्चमवर्णकम् - जन्माद्यधिकरणम्

← ४ विषय-प्रयोजनाक्षेपपरिहारनिरूपणम् पञ्चपादिकाविवरणम्
श्रीप्रकाशात्मयतिः
६ ब्रह्मणः सर्वज्ञत्वनिरूपणम् →



                                                                  अथ पञ्चमं वर्णकम्

                                जगज्जन्म-स्थिति-ध्वंसा यतः सिध्यन्ति कारणात्।

                                तत् स्वरूप-तटस्थाभ्यां लक्षणाभ्यां प्रदर्श्यते।।

                वृत्तसङ्कीर्तभाष्यस्यान्तर्णीतं विचाराप्थोपादानेनार्थं कथयति--ब्रह्म जिज्ञासितव्यमित्युक्तमित्यादिना।।

ननु ब्रह्मविचारप्रतिज्ञायां साधनादिविचारणामप्रतिज्ञातत्वादसाध्यतेति, अत आह--यदैवेदमित्युक्तमित्यादिना।। ननु पञ्चानां विचाराणां प्रतिज्ञातत्वे किमिति स्वरूपमेव प्रथमं विचार्यते फलभूततया प्राधानायादिति चेत्, न; साधनाद्यधीनत्वात्साध्यसिद्धेस्तेषामेव प्रथमं विचारः क्रियतामिति, अत आह--तत्र स्वरूपस्याभ्यर्हितत्वादिति।। ब्रह्मप्रमाणं ब्रह्मयुक्तिर्ब्रह्मसाधनं ब्रह्मफलमिति विशिष्टविचाराणां ब्रह्म-विशेषणसापेक्षत्वाद् ब्रह्मस्वरूपनिर्णयस्य चानन्यापेक्षत्वात्, प्राधान्येन साध्यत्वाच्चेत्यर्थः।।

                वृत्तं सङ्कीर्त्योत्तरेणाकाङ्क्षापुरःसरं सम्बन्धमाह--किंलक्षणं तदिति।। जिज्ञास्यपुरुषार्थब्रह्मस्वरूपप्रदर्शननिमित्तमाचार्ये पूजयति--भगवानिति।। ननु अस्येदं लक्षणमिदं वाऽनेन लक्ष्यमिति लक्ष्य-लक्षणयोरव्याप्त्यतिव्याप्तिपरिहारेणाविनाभावः प्रमाण-युक्तिव्यतिरेकेण न सिध्यति तत्कथं स्वरूपलक्षणपरमेव सूत्रमिति ।। तत्राह--युक्तिरपि लक्षणनिर्णयेऽर्थादिति।। अपिशब्दात् प्रमाणमपीत्यर्थः। अत्र तु सूत्रितयोर्ब्रह्मणि प्रमाण-युक्त्योरध्यायद्वयेन निर्णयः क्रियते। जन्मोत्पत्तिरित्यारभ्य तृतीयलिङ्गेत्यतः प्राक्तनः स्पष्टार्थः।। तद्गुणसंविज्ञान इति।। विशेष्यैकदेशमेव विशेषणं कृत्वा समास इत्यर्थः। ननु एवमपि जन्म-स्थिति-भङ्गास्त्रयोऽपि विशेष्याः, तत्कथमेकत्वनिर्देश इति अत आह--तृतीयलिङ्गेति।। जन्मादीनामादिमध्यावसानमाक्षिपति--ननु आदिरिति।।

                परिहरति--जन्मनश्चादित्वमिति।। भाष्यं व्याचष्टे--यदनेन सूत्रेणेति।। ननु सर्वं जनित्वैव नश्यति, न किञ्चित्कालं तिष्ठति; स्वसत्ताप्रयुक्तत्वाद्विनाशस्येत्यत आह--क्षणिकत्वनिराकरणादिति।। अतो जनित्वेत्यादिः स्पष्टार्थः। ननु इदंशब्दः किञ्चिदेव सन्निहितं गमयति नाखिलं जगदित्यत आह--तथाहि सर्वत्रेति।। ननु जन्मादीनां जगतश्च कः सम्बन्धः षष्ठ्या विवक्षित इति तदाह--सर्वं एवेति।। ननु जगज्जन्मस्थिति-भङ्गं किंसम्बन्धितया लक्षणं भवति न तावत् काकवल्लक्ष्यसम्बन्धितया; जगदाश्रयत्वाद्धर्माणामिति, कारणसम्बन्धितयेत्याह--यत इति कारणनिर्देश इति।।

                ननु जगज्जन्मादिकारणत्वमपि लक्षणान्तर्गतम् आहोस्विल्लक्ष्यस्वरूपान्तर्गतम् इति वक्तव्यम्। ननु गृहस्य काकाधिकरणत्वं नाम धर्मः कस्मिन्नन्तर्भवति लक्ष्य इति चेत्, काकाधिकरणत्वं च गृहशब्दार्थः स्यात्। ततश्च काकविगमे गृहैकदेशभङ्गबुद्धिः स्यात्। लक्षणान्तर्गतमिति चेत्, कारणत्वमपि तथा। नहि नानाविधकार्याक्रियावेशात्मकत्वं तत्प्रसवशक्त्यात्मकत्वं वा जिज्ञास्यविशुद्धब्रह्मान्तर्गतं भवितुमर्हति। तस्माद् जगज्जन्मादिकारणत्वमेवोपलक्षणमिति।। ननु निमित्तकारणत्वमुपादानकारणत्वमुभयं वोपलक्षणत्वेनोच्यते न तावन्निमित्तकारणत्वमेव ब्रह्मोपलक्षणम्; जगदभिन्नस्योपादानकारणस्य भेदेनावस्थानाद् ब्रह्मशब्दस्य स्वार्थान्वयाभावप्रसङ्गात्। नाप्युपादानकारणत्वमुपलक्षणम्; निमित्तकारणस्य सर्वज्ञस्य भेदेनावस्थानाद् "यतः सर्वज्ञात् सर्वशक्तेरि"ति व्यपदेशो न स्यात्; उपादानकारणस्य लोकेऽचेतनत्वात्। "सत्यं ज्ञानमनन्तमि"ति च स्वरूपलक्षणस्योभयत्रायोगात्। नाप्युभयकारणत्वं ब्रह्मोपलक्षणम्; एकस्योभयकारणत्वे प्रमाणाभावात्। प्रमाणान्तरसिद्धं हि लक्षणमनधिगतलक्ष्यस्वरूपाधिगमायालम्। न तावदेकस्य जगन्निमित्तोपादानत्वमनुमानेनावगन्तुं शक्यम्; दृष्टान्ते भेददर्शनात्। महाभूतपञ्चकव्यतिरिक्तेषु पदार्थेषु नानाविधनिमित्तोपादानदर्शनान्न तदनुवादेन ब्रह्म विधातुं शक्यम्। भूतपञ्चकनिमित्तोपादानत्वमेकस्याप्रसिद्धमिति, तत्राह--प्रकृतित्वनिबन्धना पञ्चमीति।। निमित्तत्वस्याप्युपलक्षणमेतत्; उभयत्र पञ्चमीविधानात्। भूतपञ्चकस्य तावदेका प्रकृतिरनुमीयते; सद्वस्त्वेकस्वभावानुगमात्।।

                तथाहि--महाभूतानि, सद्वस्तुप्रकृतिकानि, सत्स्वभावानुरक्तत्वे सति, विविधविकारत्वात्; मृदनुस्यूतघटादिवत्। द्रव्यत्वाद्यभेदा अपि प्रकृतिस्वभावा एव सामान्यवदवभासन्ते, सद्वस्तु पुनः सर्वानुगमात्सर्वविकारप्रकृतिः। भौतिकानां च भूतोपादानत्वं दृश्यमानं मूलप्रकृत्यधीनतामेव सर्वस्य गमयति। अतः सर्वकार्योपादानमेकमेव लाघवात्, इति न्यायानुगृहीतानुमानेन सिद्धम्। तस्यैव च निमित्तकारणत्वमनुमानेन कल्प्यते। तथाचेदं जगत्, अभिन्ननिमित्तोपादानं भवितुमर्हति, प्रेक्षापूर्वजनितकार्यत्वात्; आत्मगतसुख-दुःख-राग-द्वेषादिवत्। नच घटादिष्वनैकान्तिकता; तथाप्यभिन्ननिमित्तोपादानत्वकल्पनात्। अदृष्टादिनिमित्तभेदो दृश्यत इति चेत्, न; उपादानाधिष्ठात्रोरेवैकत्वानुमानात्। तस्मादनुमानेनैव

प्रसिद्धमेकस्योभयकारणत्वं लक्षणत्वेन निर्दिश्यते। सृष्टिवाक्यप्रसिद्धं चैकस्योभयकारणत्वं लक्षणत्वेन निर्दिश्यते।।

                तत्र केचित्परिणामवादमवतारयन्ति। तैस्तत्र प्रमाणं वक्तव्यम्। सृष्टिश्रुतय इति चेत्, न; तत्रपरिणामशब्दाश्रवणात्। सत्यतोऽन्यथाभावः परिणामो ब्रह्मणोऽपि सत्यतः प्रपञ्चापत्तिं प्रतिपादयतीति चेत्, न; तासु सत्यशब्दाश्रवणात्। स्वतःप्रामाण्यात् तथाभूतैव सृष्टिरिति चेत् किमिदं तथाभूतत्वं नाम सत्यत्वमिति चेत्, न; "मिथ्येदं रजतमि"ति विशिष्टेऽर्थे प्रमाणगम्ये स्वप्नसृष्टावपि सत्यबुध्यभावात्। स्वोपाधौ स्वविषयाभावविरोधितेति चेत्, न; मायात्मकत्वेऽपि समानम्। सृष्टेश्च स्वोपाधावभावव्यावृत्तत्वात् सर्वे च सोपाधिकधर्माः स्वाश्रयोपाधावबाध्यतया सत्या भवन्ति, सृष्टिरपि स्वरूपेण न बाध्यते, किन्तु परमार्थसत्यत्वांशेन।।

                ननु मिथ्यासृष्टिविषयत्वे वाक्यस्याप्रामाण्यं स्यात्, न तत्; प्रमाणव्यापारानभिज्ञो देवानां प्रियः। प्रमाणं हि प्रमेयाभावं न सहते, नाप्रमेयाभावम्। नच सृष्टिश्रुतिः परमार्थसत्यतां प्रमिमीते; तदभिधानाभावात्। यथा "घटः" इत्युक्ते भावाभावयोः साधारणोऽवभासते, अन्यताराभिधानाभावात्, तद्वत्। न हि स्वप्नविषया सृष्टिश्रुतिस्तत्सत्यतां प्रतिपादयति। प्रयोजनशून्यतया तात्पर्यहीनत्वाच्च न ब्रह्मणः प्रपञ्चापत्तिं प्रतिपादयति; अनर्थहेतुत्वाच्च दुःख-तत्साधनपरिणामस्य। नच कर्मकाण्डस्य प्रत्यक्षादेर्वा सिद्धिः प्रयोजनम्; जगन्नित्यतयाप्युपपत्तेः, सृष्टिश्रुत्यवगमात्प्रागेव सिद्धत्वाच्च। अभेदस्यापि सत्त्वादिरूपेण सिद्धात्वाच्च शब्दापेक्षेति चेत्, केयमतिव्याकुलता सर्वसंकरवादिनः। न हि नित्य-शुद्ध-बुद्ध-मुक्त-निरतिशयानन्द-प्रकाशमानसर्वज्ञाऽद्वितीय-प्रत्यगात्मभूतं ब्रह्मावगमात् प्रागेव सिध्यति। किं तर्हि सृष्टिश्रुतेः प्रयोजनम्। प्रत्यक्षादिसिद्धप्रपञ्चस्य ब्रह्मण्येवोत्पत्ति-विनाशवत्तयाऽन्यत्राभावमुपवर्ण्य, तत्रापि प्रतिषिध्य, मिथ्यात्वापादनेन प्रमाणान्तराविरुद्धतयाऽद्वितीयब्रह्मस्वरूपसिद्धिः प्रयोजनम्; तेनैकवाक्यत्वात्, अन्यथा शेषिविरोधात्। सृष्ट्याभासत्वाद् रजताभासवत् तज्ज्ञानस्याप्रामाण्यमिति चेत्, न; सत्यरजतवन्मुख्यसृष्ट्यन्तराभावात्, तस्या एव मुख्यसृष्टित्वात् तज्ज्ञानवत् प्रामाण्यात्। "देवदत्तो व्याघ्रोऽभवत्" "माया ह्येषा मया सृष्टे"त्यादौ मिथ्याकार्येऽपि तद्भाव-सृष्टिशब्दयोः श्रवणात्।।

                कुतः पुनः सत्य-मिथ्यासाधारण्यां सृष्टौ मिथ्यात्वे पक्षपातः "नासदासीन्नो सदाऽऽसीत्तम आसीत्" "आसीदिदं तमोभूतम्" "मायां तु प्रकृतिमि"त्यादौ सदसद्विलक्षणानिर्वचनीयप्रकृतित्वश्रवणात् तदात्मकत्वाच्च विकारस्य "तमो मोहो महामोहस्तामिस्रो ह्यन्धसंज्ञितः। अविद्या पञ्चपर्वैषा प्रादुर्भूता महात्मनः"।। इति स्मृतेः, तमोऽविद्या मायानां पर्यायत्वात्। तदेवं श्रुत्यवगतायां मिथ्यासृष्टौ सत्यत्वकल्पनायां श्रुतिबाधप्रसङ्गात्। तथाच "अस्ति घटः" इत्यस्त्यर्थोपाधौ प्रतिपन्नस्य घटस्य तदुपाधावेव नास्तीति प्रत्यक्षेणैव बाधो दृश्यते, देश-कालयोर्देशकालान्तराभावात्तयोर्द्वयोर्निरुपाधिकनिषेधात्, अस्त्यर्थस्यानुयायिनो निषेधाभावात्। अतो देश-काल-तदुपाधिघटानामस्त्यर्थे ब्रह्मस्वरूपे प्रतिपन्नोपाधौ प्रत्यक्षेणैव बाधान्मिथ्यात्वसिद्धिः। एवं सर्वभावप्रत्ययगोचरे ब्रह्मणि स्वरूपोपाधावस्त्यर्थे कालाद्युपाधिभिः सहाभावप्रत्यक्षेण बाधान्मिथ्यैवेति सिद्धम्। अन्याभावविशिष्टवस्त्वन्तरज्ञानस्य प्रत्यक्षत्वात्।।

                अनुमानमपि--सर्वे विकाराः, स्वानुभूत एकस्मिन् वस्तुनि परिकल्पिताः, प्रत्येकमेकस्वभावानुविद्धत्वे सति विभक्तत्वात्; चन्द्रभेदवत्। जडत्वात्, कार्यत्वात्, भेदत्वात्; रजतवत्, चन्द्रभेदवच्च। प्रतिपन्नोपाधावस्थूलादिवाक्यैः प्रतिषिध्यमानत्वात्; देहात्मभाववत्। विरोधिकारणस्वभावानुपमर्देन विरोधिकार्यापत्तिलक्षणत्वात्; मायाव्याघ्रवत्। प्रलयावस्थायां सह कालेन स्वोपाधौ शून्यत्वात्; देहात्मभाववत्।।

                अर्थापत्तिरपि--प्रपञ्चजन्म-विनाशावनुपपन्नौ तस्य मिथ्यात्वमन्तरेण; अमिथ्याभूतयोर्ब्रह्म-शून्ययोरजन्म-विनाशित्वात्। नच ब्रह्मज्ञानस्यापि प्रपञ्चज्ञानवन्मिथ्यात्वानुमानम्; "तत्सत्यं स आत्मे"ति वचनविरोधात्। नचास्थूलादिवाक्यैः स्थूलादिभ्योऽन्यत्वमात्रमुच्यते; कार्य-कारणतादात्म्ये सत्येवंप्रतिषेधानुपपत्तेः। यथा शुक्लायां गव्यन्यत्वविवक्षयाप्यशुक्ला गौरिति प्रतिषेधो न दृश्यते; तथा च प्रतिषेधे शुक्लतास्वरूपमात्रनिषेधदर्शनात्। तर्काप्रतिष्ठानान्न मिथ्यात्वानुमानमिति चेत्, न; विचारशास्त्रानारम्भप्रसङ्गात्। शब्दमूलत्वाद् ब्रह्मणि न विरोधबुद्धिरिति चेत्, तर्हि--"असद्वा इदमग्र आसीत्" "सदेव सौम्येदमग्र आसीदि"त्यादिश्रुतिद्वयसामर्थ्यात् कारणस्य सदसत्त्वे स्याताम्। श्रुत्यर्थस्य तर्कागोचरत्वात् सर्वशक्तित्वाद् ब्रह्मणः

सर्वमुपपन्नमिति चेत्, न; ब्रह्मणि विरोधपरिहाराय विचारानारम्भप्रसङ्गात्। अत एवासत्यतापि ब्रह्मणः कदाचित् किं न स्यात्। तस्मात्प्रत्यक्षानुमानार्थापत्तिभिः प्रप़ञ्चस्य मिथ्यात्वावगमात् प्रशान्तत्वाच्च ब्रह्मणो निष्प्रयोजना न सृष्टिश्रुतिर्विवर्त एवेति। नच सद्बुध्यनुगमविरोधः; अधिष्ठानत्वात्तस्य। घटादिविशेषाणामेव मिथ्यात्वादिति सिद्धम्।।

                लक्षणमनूद्य लक्ष्यस्वरूपं कथयितुमुत्तरं भाष्यमित्याह--अस्य जगत इति।। ननु न तावदिदं विशेषणलक्षणम्; प्रपञ्चजन्मादिकारणत्वस्य प्रपञ्चोपाधित्वात्, निरुपाधिकब्रह्मस्वरूपलक्षणकथनमन्तरेण सोपाधिकधर्मप्रतिपत्त्ययोगात्, नाप्युपलक्षणमेतत्; लक्ष्यस्य ब्रह्मशब्दार्थत्वायोगादवच्छेदादिति, तत्राह--द्विविधं हि लक्षणमित्यादि।। उपलक्षणत्वेऽपि नाद्वितीयस्वरूपलक्षणविरोधः; यद्रजतमित्यभात् सा शुक्तिरितिवद् मिथ्याभूतेनापि प्रपञ्चकारणत्वेनोपलक्षणयोगात्। असाधारणसंबन्धो हि लक्षणनिमित्तम्,--न लक्षणसत्यत्वम्; काकादीनामसंबद्धानां गृहोपलक्षणत्वदर्शनादिति। कार्यप्रपञ्चं केचिदिति।।

                अयमर्थः--नाम-रूपकर्मात्मकमिति वेदान्तिनः। द्रव्य-गुण-कर्म-सामान्यात्मकमिति वार्तिककारीयाः। कार्य-कारण-योग-विधि-दुःखान्ताः पञ्चेति शैवाः। द्रव्य-गुण-कर्म-सामान्य-विशेष-समवायाः षडिति वैशेषिकाः। जीवाजीवास्रव संवर निर्जर-बन्ध-मोक्षाः सप्तेति क्षपणकाः। द्रव्य-गुण-कर्म-सामान्य-विशेष-शक्ति-पारतन्त्र्य-नियोगा इत्यष्टौ प्राभाकराः। प्रमाण-प्रमेय-संशय-प्रयोजन-दृष्टान्त-सिद्धान्तावयव-तर्क-निर्णय-वाद-जल्प-वितण्डाहेत्वाभास-च्छल-जाति-निग्र   हस्थानानि षोडशेति नैयायिकाः। ज्ञानेन्द्रिय-कर्मेन्द्रिय-भूत-तन्मात्र-महाभूत-मनोऽहङ्कार-महदव्यत्तः पुरुषा इति सांख्या इति। कस्तर्हि सिद्धान्तः तदाह--तद्व्युदासायेत्यादि।। यद्यपि रूप्यत इति रूपेणेत्थंभूतं जगद् व्याक्रियते। कथं नाम्ना रूपितवत्पाद्यत इति तत्राह--व्याक्रियमाणं हि वस्त्विति।। अयमर्थः--लोके घटं चिकीर्षुः कुलालः प्रथमं घटशब्दादिकल्पितं पृथु-बुध्नोदराकाररूपविकल्पितं च स्वबुद्धावाविर्भावयति, पश्चाद् यथाविर्भूतं घटशब्दालम्बनयोग्यं पृथु-बुध्नोदराकाररूपितं च घटं निर्वर्तयति। एवमेव मूलकारणमपि नाम-रूपाभ्यां स्वबुद्धावाविर्भूतमेव सर्वं पश्चाद्व्यनक्ति, इति नाम-रूपाभ्यामित्थंभूतं व्याकृतमित्युच्यते। "अनेक-कर्तृ-भोक्तृसंयुक्तस्ये"त्यारभ्य नन्वन्येऽपि परिणामादयो भावविकारा इत्यतः प्राक्तनः स्पष्टार्थः। ननु किमत्रोपलक्षितस्य ब्रह्मणः स्वरूपलक्षणमुच्यते। नच स्वरूपलक्षणमन्तरेण कस्यिचिद्वस्तुनः प्रतिपत्तिरस्ति। नच यत्र शाखाग्रं स चन्द्र इत्येतावता प्रकृष्टप्रकाशात्मप्रतिपत्तिमन्तरेण चन्द्रावगतिरस्ति। नच स्वरूपलक्षणमन्तरेण कस्यचिद्वस्तुनः प्रतिपत्तिरस्ति। नच यत्र शाखाग्रं स चन्द्र इत्येतावता प्रकृष्टप्रकाशात्मप्रतिपत्तिमन्तरेण चन्द्रावगतिरस्ति। न तावत्सर्वशक्तित्वं ब्रह्मासाधारणलक्षणम्। प्रधानादीनामप्यविशेषात्। सर्वज्ञत्वमिति चेत्, न; तस्य सर्वोपाधिकधर्मत्वान्निरुपाधिकब्रह्मस्वरूपाप्रतिपत्तिः।।

                कथं चेदं सर्वज्ञत्वमिति वक्तव्यम्--न तावत्प्रत्यक्षानुमानागमोपमानार्थापत्त्यभावप्रमाणैः सर्वं वेत्ति; तेषामयुगपत्प्रवृत्तेः सर्वस्य च प्रत्यक्षताहानात्, सत्स्वपि तेष्वस्माकं सर्वज्ञताऽभावात्, इन्द्रियाणां च देश काल-वस्तुविप्रकृष्टार्थग्राहित्वाभावात्, संयुक्तसमवायात् संयुक्तसंयोगात् संयुक्तविशेषणतया वा सर्वार्थप्रत्यक्षत्वेऽस्माकमपि प्रसङ्गात्। मानसमपि ज्ञानमात्मनोऽन्यत्रेन्द्रियादिसापेक्षम्, इति सर्वं न मानसप्रत्ययगम्यम्। नच धर्मातिशयवशादपीन्द्रियैरयोग्य वस्तु गृह्यते; मार्जारादिदृष्टीनामपि योग्यरूपादिष्वेवातिशयवत्त्वदर्शनात्। नच कृत्स्नपरिभावनासंस्कारजन्यं मानसं सर्वज्ञज्ञानं कृत्स्नार्थं ग्राहयति; प्रथमं कृत्स्नार्थं ग्रहणाभावे तत्र परिभावनाऽयोगात् तज्जन्यकृत्स्नग्राहिज्ञानायोगात्। परिभावनायाः प्रागपि कृत्स्नार्थग्रहणेऽस्माकमपि प्रसङ्गात्। अतीतानागत-वर्तमानार्थानामियत्तानवधारणाच्च सर्वग्रहणानुपपत्तिः। एतावदिदम्, नातः परमस्त्यज्ञातमित्यनवधारणात्। नच स्वरूपज्ञानेनैव सर्वज्ञता; तस्य प्रदीपप्रभावदतीतानागतार्थग्राहित्वाभावात्। तस्मान्नास्ति सर्वज्ञ इति।।

                उच्यते--सर्वस्य कर्तृत्वादेव वर्तमानस्वकार्यसर्वविषयज्ञता तावत् सिद्धा। एवं तत्तत्कालेऽतीतसर्वविषयावगमादनुभूतविषयाऽसंप्रमोषा स्मृतिः स्वमायापरिणामोपाधिरनावरणा सर्वविषया कल्प्यते। तथा सृष्टेः प्रागपि सृज्यमानपदार्थावधारणस्य कुलालादिषु दृष्टत्वाद् आगामिसर्वविषयज्ञानं

स्वमायापरिणामोपाधिकल्प्यत इति युक्ता सर्वज्ञता। "यः सर्वज्ञः सर्वविदि"ति च जगत्कारणे सर्वज्ञपदप्रयोगात्सर्वज्ञानं प्रमीयत इति श्रुति-युक्तिभ्यां युक्ता सर्वज्ञता। ननु सोपाधिकधर्मत्वान्न स्वरूपलक्षणमित्युक्तम्, न; अनेन सर्वज्ञशब्देन सर्वावभासक्षमं विज्ञप्तिमात्रमादित्यादिप्रकाशवदविषयोपाधिकं विज्ञानमेव ब्रह्मस्वरूपलक्षणं विवक्ष्यत इत्यविरोधः। ननु अन्येऽपीत्यादिः स्पष्टार्थः।।

                ननु निरुक्तवाक्यमेव मूलीकृत्य सूत्रेऽपि षड् भावविकारा गृह्यन्ता इति चोदयति--ननु षड् भावविकारा इति। यास्कपरिपठितानामित्यादेः परिहारस्यायमर्थः आर्षेयस्य वाक्यस्य मूलप्रमाणं प्रत्यक्षम्, आगमो वा भवति; अनुमानादेरस्माकमपि प्रवृत्तेर्वाक्यानपेक्षणात्। तत्र प्रत्यक्षमूलत्वे यास्कवाक्यस्य भौतिकधर्मा एव भावविकाराः प्रत्यक्षेणावगन्तुं शक्यन्ते, न महाभूतविषयाः। तत्र भौतिकविकारकारणे ब्रह्मणि गृह्यमाणे भूतपञ्चकमेव ब्रह्म गृहीतं स्यात्, श्रुतौ तु मूलप्रमाणानपेक्षत्वाद् यत्किञ्चिद्भवनधर्मवत् तस्य मूलकारणं ब्रह्म ग्रहीतुं शक्यत इति। किंच श्रुत्यर्थपरत्वात् सूत्राणां श्रुतिरेव जन्मादिसूत्रमूलमित्याह--तदर्थनिर्णयार्थत्वादिति।।

                ननु भूत-भौतिकमूलकारणं न ब्रह्मेति प्रतिपत्तुं युक्तम्; मायाया अपि मूलकारणत्वात्, "मायां तु प्रकृतमि"ति श्रुतेः। प्रक्रियतेऽनयेति प्रकृतिरिति करणमात्रं मायेति चेत्, न; प्रकृतिशब्दस्योपादाने रूढत्वाद् व्युत्पादनायोगात्। "आत्मन आकाशः" इति प्रकृत्यन्तरश्रवणाद् व्युत्पाद्यत इति चेत् न; तुल्यश्रुतित्वान्मायाप्रकृतित्वविरोधात्, निमित्तेऽपि पञ्चमी प्रयोगात्, दृश्यमानजाड्यानुसारेण च मायोपादानत्वनियमोपपत्तेः। "इन्द्रो मायाभिरि"ति तृतीयैव श्रूयत इति चेत्, सत्यम् आत्मनो बहुत्वापत्तौ करणता भवति; प्रपञ्चोपादानत्वे का हानिः, निरपेक्षप्रकृतिद्वयानुपपत्तिरिति चेत्, तर्हि परस्परविशिष्टतया द्विसूत्ररज्जुवत्प्रकृतिता स्यात्। अतो जगत्कारणे ब्रह्मणि मायाया अपि ब्रह्मत्वं लक्षितं स्यात्। मायेत् प्रज्ञाऽभिधीयते। सा च ब्रह्मचैतन्यमेवेत्यविरोध इति चेत्, न; अन्वय-व्यतिरेकविरोधात्। परिदृश्यमानहस्त्यश्वरथादौ प्रतिपन्नोपाधौ बाधिते च वृद्धव्यवहारेऽन्वयव्यतिरेकाभ्यां मायाशब्दः प्रयुज्यमानो दृश्यते। लोकसंवेदनविरोधाच्च। नहि प्रज्ञातिशयवन्तं मायाविनं वदन्ति। गर्हन्ति च विदुषि मायाशब्दप्रयोगम्। बुद्धिविषयत्वान्मायाशब्दस्य न ब्रह्मचैतन्यप्रज्ञाय। प्रसङ्गः। स्वप्नादिविविधमायाकारप्रतिभासनाद्वा बुद्धेः कार्यवादिनौ मायाशब्दस्योपचारात्करणे प्रयोग इत्यनवद्यम्। अपि च "भूयश्चान्ते विश्वमायानिवृत्तिः" "मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते" "देवी ह्येषा गुणमयी मम माया दुरत्यया" "माययाऽपहृतज्ञाना आसुरं भावमाश्रिताः"। इति निवर्त्य तर्तव्यत्व-गुणमयत्व ज्ञानावरणत्वलिङ्गाच्च न ब्रह्मचैतन्यं माया। बुद्धिरेव मायेति चेत्, न; प्रकृतिशब्दविरोधात्। मन्त्रौषधादिमायेति चेत्, न; दृश्यमानगन्धर्वनगरादौ मायाशब्दप्रयोगात्, मन्त्रौषधादौ तदप्रयोगात्। तथाऽपि जडात्मिका मायाशक्तिः पारमार्थिकीति चेत्, न; नासदासीन्नो सदासीत्तम आसीदि"ति जगत्प्रागवस्थायाः सदसद्विलक्षणानिर्वचनीयत्वश्रवणात्। लोके च हस्त्यश्वरथादिषु व्यभिचारिषु मिथ्यावस्तुमात्रेऽनुयायिनि मायाशब्दप्रयोगात्। "तरत्यविद्यां विततां हृदि यस्मिन्निवेशिते। योगी मायाममेयाय तस्मै विद्यात्मने नमः"।। इति मायाऽविद्ययोः सामानाधिकरण्याच्च। तस्मादनिर्वचनीयमायाविशिष्टं कारणं ब्रह्मेति प्राप्तम्, तत्राह--अतो यदवष्टम्भो विश्वो विवर्तत इति।। त्रैविध्यमत्र सम्भवति--रज्ज्वाः संयुक्तसूत्रद्वयवन्मायाविशिष्टं ब्रह्म कारणमिति वा, "देवात्मशक्तिं स्वगुणैर्निगूढमि"ति श्रुतेर्मायाशक्तिमत्कारणमिति वा, जगदुपादानमायाश्रयतया ब्रह्म कारणमिति वेति। 2तत्र विशिष्टपक्षे तथैव ब्रह्मत्वेनोपलक्षितस्य ज्ञानानन्दादिस्वरूपलक्षणेन मायानिष्कर्षाल्लक्षणद्वयेन विशुद्धब्रह्मसिद्धिः। उत्तरपक्षयोस्तु मायाया ब्रह्मपरतन्त्रत्वात्तत्कार्यमपि ब्रह्मपरतन्त्रं भवति; यथांऽशुतन्त्रतन्त्वारब्धोऽपि पटोंऽशुतन्त्रः प्रतीयते। ततश्चोत्पद्यमानकार्यस्य यद् आश्रयोपाधि ज्ञानानन्दलक्षणं च, तद् ब्रह्मेति शुद्धब्रह्मलाभ इति, तदाह यदवष्टम्भ इति।

                केचित्तु--ब्रह्मैव जगदाकारेण परिणमते मृदिव घटाकारेणेति--वदन्ति, तद् व्यावर्तयन्ति--विश्वो विवर्तत इति।। 2एकस्य तत्त्वादप्रच्युतस्य पूर्वविपरीतासत्यानेकरूपावभासौ विवर्तः। एकस्य पूर्वरूपपरित्यागेन सत्यरूपान्तरापत्तिः परिणामः,2 तत्र ब्रह्म न विवर्तते, किंतु परिणमत एवेति तैस्तत्र प्रमाणं वक्तव्यम्। सृष्टिश्रुतेः

परिणमत इति चेत्, सा खलु सृष्टिश्रुतिः ज्ञानानन्द-सत्य-निरवयवापरिच्छिन्न-ब्रह्मस्वरूपस्य पूर्वसिद्धस्य परित्यागेन जड-दुःख-मिथ्या-सावयवपरिच्छिन्नकार्यापत्तिं ब्रह्मणो ब्रवीति आहोस्वित्पूर्वसिद्धरूपापरित्यागेनैव तद्विपरीतकार्यरूपापत्तिं ब्रह्मणो ब्रवीति इति वक्तव्यम्। तत्र पूर्वपरित्यागे ब्रह्मस्वरूपोच्छेदात्कार्यमात्रमेव स्यात्। पुनः प्रलयावस्थायां ज्ञानानन्दादिरूपेण परिणमत इति चेत्, अनिर्मोक्षप्रसङ्गात्। "अज आत्मा महान् ध्रुवः" "न जायते चे"त्यादिश्रुतिविरोधश्च स्यात्। अथ पूर्वविपरीतब्रह्मस्वरूपापरित्यागेनैव कार्यरूपापत्तिं ब्रूयात् सृष्टिश्रुतिः, एवं तर्हि विवर्तं प्रतिपादयति; शुक्तिकारजत-मायाव्याघ्रादिषु विवर्तस्य तल्लक्षणत्वात्। अथ सृष्टिश्रुतिः सृष्टिमात्रविषया, न पूर्वस्वरूपपरित्यागापरित्यागयोर्व्याप्रियत इति चेत्, तथाऽपि व्यवस्थितब्रह्मवाक्यैरेकवाक्यत्वात् तत्स्वरूपापरित्यागेनैव कार्यरूपापत्तिं ब्रह्मणो ब्रुवाणा विवर्तमेव दर्शयतीत्यनवद्यम्।। योऽपि कश्चिदाह निरवयवमपि परिणमत इति। तथाहि-हेमद्रव्ये रूचककारेण परिणममाने तदवयवा अपि परिणमेरन् नवा इति वक्तव्यम्। यदि परिणमेरन्, तर्हि तदवयवा अपि तथा, इति निरवयवपर्यन्तः परिणामः स्यात्। अथ न परिणमेरन्, तर्ह्यवयवी न परिणमेत; आश्रयविकारमन्तरेणाश्रितविकारायोगात्। तस्माद् यथा संयोगोऽवयव्येकदेशसमवेतः परम्परया निरवयवपरमाणुसंयोगपुरःसरः, तथा निरवयवपरिणामपुरःसरोऽवयविपरणाम इति।।

                स वक्तव्यः--कश्चायं परिणाम इति यदि तावत् स्वावयवानां पूर्वसंयोगात् संयोगान्तरापत्त्या वाऽवयवान्तरसंयोगेन वा संमूर्छितावयवत्वं परिणामः, न तर्हि निरवयवे परिणामः; स्वावयवाभावान्निरवयवस्य। नचावयवानां संयोगान्तरेण संमूर्छितत्वमन्तरेणावयविनः परिणामोऽवस्थान्तरं वाऽन्यथाभावो वा निरूपयितुं शक्यते। नच वस्तुनो वस्त्वन्तरसंयोगो वा परिस्पन्दो वा गुणान्तरोदयो वा परिणामः; ब्रह्मणि तेषामभावात्। आकाशे च वस्त्वन्तरसंयोगिनि परिस्पन्दमाने च भ्रमरे लौहित्योदये च घटे द्रव्ये परिणामबुद्ध्यभावात्। अथ तदनुषक्तद्रव्यान्तरोत्पत्तिः परिणाम इति, तत्र किं हेमावयवानां रुचकरूपेणैव परिणामः किं वा द्रव्यान्तररूपेण  न तावत् द्रव्यान्तरूपेण; तत्र रुचकद्रव्यातिरिक्तकार्यद्रव्यादर्शनात्, नापि रुचकाकारेणैव; तस्यावयविपरिणामत्वात्, अवयवानां च रुचकानुगमस्य रुचकानुगतावयव्यनुगमेनैवान्यथासिद्धत्वात्। नच रुचकावस्थाव्यतिरेकेण हेमावयवानामवस्थान्तराणि दृश्यन्ते येन परिणामभेदः स्यात्। नच संयोगभेद एवावयवपरिणाम इत्युक्तम्। नचावयवि द्रव्यं विना हेमावयवा रुचकाकारेण परिणमन्त इति युक्तम्; आरम्भवादप्रसङ्गात्। अथादृश्यमानोऽप्यवयवपरिणामोऽवयविपरिणामानुपपत्त्या कल्प्यते; आश्रयविकारमन्तरेणाश्रितविकारानुपपत्तेः,नैतत्सारम्; अवयविजन्म-विनाशयोरवयवानामपि तत्तन्त्राणां जन्म-विनाशप्रसङ्गात्, अवयविगमनेऽवयवानां गमनवत्। परिणामोऽपि भविष्यतीति चेत्, न; अवयविनि घटत्वजातिसमवायिन्यवयवानां घटत्वजातिसमवायाभावात्। ननु अवयवानामन्यथाभावमन्तरेण कथमवयविनो़न्यथाभावः नहि द्रव्यस्यावस्थान्तरद्रव्यान्तरापत्तिवद् नैल्यं गुणान्तरमापद्यतेऽवस्थान्तरं वा। नचावयविकार्यव्यतिरेकेणावयवानां कार्यं दृश्यत इत्युक्तम्। न हि पटे कार्यान्तरावभासेऽपि तन्तवोऽतन्त्वात्मनाऽवभासन्ते। पटकार्ये तन्त्वनुगमः स्वानुगतानुगमादन्यथासिद्ध इत्युक्तम्। किंच अवयविपरिणामोपाधावेवायवपरिणामो दृष्टः, इति न निरुपाधिनिरवयवात्मपरिणामसिद्धिः।। यत्तु निरवयवसंयोगवत्परिणाम इति, तत्रापि दृश्यमानोऽवयविसंयोगो न परमाणुसमवेतः; तद्गतरूपादिवदप्रत्यक्षत्वप्रसङ्गात्। नाप्यवयव्येकदेशसंयोगेन निरवयवे संयोगः कल्पयितुं शक्यते; अवयविन्येव जातिसमवायवदवयवसंयोगमन्तरेणावयविन्येव संयोगोपपत्तेः। अवयवानां संयोगानुगमस्यावयव्यनुगमेनान्यथासिद्धत्वात्। अवयवेष्वेव संयोगो नावयविनीति चेत्, न; अवयविभ्यामसंयुक्ताभ्यां कार्यान्तरानारम्भप्रसङ्गात्। तस्मादवयविन्येव संयोगो नावयवेषु। अवयविसमवाये संयोगस्य कृत्स्नवृत्तिता संयोगस्य प्राप्नोतीति चेत्, तर्हि निरवयवसंयोगेऽपि कृत्स्नवृत्तेः प्रचयाभावप्रसङ्ग इति। कथं पुनर्ब्रह्मणो निरवयवत्वलाभः उच्यते; अवयवावयविनोः स्वयंप्रकाशत्वे सतीतरेतराविषयत्वान्न सावयवत्व ब्रह्मणा स्वात्मन्यनुभवितुं शक्यम्। अन्यतरस्यास्वयंप्रकाशत्वेऽन्यतरेण वेद्यत्वाद् घटात्मनोरिव नांशांशिभावसिद्धिः। श्रुतिश्च "निष्कलं निष्क्रियं शान्तमि"ति क्रियावयवशून्यतामाह। नियन्तृत्वादिक्रियाऽपि श्रूयत इति चेत्, तर्हि परस्परविरोधे सति मायया तत्त्वातत्त्वव्यवस्था कल्पनीया। "मायाभिः पुरुरूप ईयते" इति प्रवृत्तेर्मायानिबन्धनत्वश्रवणात् चेतनस्य

सुषुप्तेः पुरुषार्थत्वावगमाद् ब्रह्मणः स्वत प्रवृत्तिप्रयोजनाभावाच्च विपरीतस्वरूपापरित्यागेन विपरीतकार्यापत्तेश्च विवर्त एवेति सिद्धम्।।

                ननु जगदुत्पत्तिकारणत्वं न सिद्धवद् ब्रह्मलक्षणत्वेनोपादातुं शक्यम्, भूतपञ्चकस्य कार्यत्वासिद्धेः, भौतिकानां च भूतोपादानत्वादिति चोदयति--ननु श्रुतिनिर्दिष्टग्रहण इत्यादिना।। "उच्यते" इत्यादेः परिहारस्यायमर्थः। पृथिव्यप्तेजोवायवो विवादपदानि, जन्मविनाशवन्तः, पृथिव्यप्तेजो-वायु-बुद्धिगोचरत्वात्; एकदेशपृथिव्यप्तेजो-वायुवदिति। ननु प्रत्यनुमानमस्ति-पृथिव्यादयः, न जायन्ते, महाभूतत्वात्; आकाशवत्, आकाशश्च, न जायते, निरवयवद्रव्यत्वात्; आत्मवदिति विशेषतो दर्शनमेव बलीय इत्यनवद्यम्। "न यथोक्तविशेषणस्ये"त्यादिभाष्यतात्पर्यमाह--युक्तिरपि ब्रह्मस्वरूपनिर्णयेत्यादिना।।

                अस्य जगत इत्यादि भाष्यं व्याचष्टे--नान्यतः परपरिकल्पितात् प्रधानादेरिति।। अयमर्थः--सर्व एव ह्याध्यात्मिका भावाः, सुख-दुःख-मोह-सामान्यप्रकृतिकाः, सुख-दुःख-मोहसामान्येन नियमेनान्वितस्वभावत्वात्; ये विकारा यदन्वितस्वभावास्ते तत्प्रकृतिका दृष्टाः, यथा मृदन्विताः शरावादयः। तथा सर्वे विकाराः, अविभक्तैकप्रकृतिकाः, परिमितानेकविकारत्वात्; ये परिमितानेकविकाराः, तेऽविभक्तैकप्रकृतिकाः, यथा मृत्पिण्डप्रकृतिकाः शरावादयः, इति जगन्मूलकारणं प्रधानमनुमिमते सांख्याः। तथाऽणुवादिनश्चानुमिमते--सर्वे कार्यद्रव्यम्, स्वपरिमाणादणुतरपरिमाणसंयोगसचिवसमानजातीयानेकद्रव्यारब्धम्, कार्यद्रव्यत्वात्; यत्कार्यद्रव्यम्, तत्तथा, यथानेकद्रव्यारब्धः पटः, इति निरवयवपरमाणुपर्यन्तमनुमानप्रवृत्तेः परमाणवो मूलकारणमिति। तथा शून्यवादिनश्च--सर्वं कार्यम्, अभावपुरःसरं भवितुमर्हति, योग्यत्वे सत्यनुपलभ्यमानपूर्वावस्थत्वात्; यथा परपरिकल्पित आत्मेति शून्यालम्बनत्वं सर्वत्र--वदन्ति। योगाः शैवाश्च--हिरण्यगर्भ पशुपतिं चागमसामार्थ्याज्जगत्कारणं कल्पयन्ति। तान् पक्षान् व्यावर्तयति--नान्यतः परपरिकल्पितादित्यादिना।।

                तत्र प्रथमं तावत् प्रमाणपूरणं सम्भावयति--अचेतनात्तावदित्यतः प्राक्तनेन ग्रन्थेन। कथम् सांख्यानुमाने तावत्सुख-दुःख-मोहान्वयो भावानामसंप्रतिपन्नः; अन्तर्बहिर्भावेनोपलब्धेः। स्यादेतत्--सर्वे विकाराः, सुख-दुःख-मोहात्मकाः, चित्तोपरक्तत्वे सति तत्र तदाकारप्रतिभासहेतुत्वात्; दर्पणोपरक्ततया मुखाकारप्रतिभासहेतुबिम्बवदिति भावानां सुख-दुःख-मोहान्वयोऽनुमीयत इति, न; अन्तर्बहिर्भवभेदप्रतयक्षविरोधात्, एकं च शब्दमुपलभमानानां प्रत्येकं सुख-दुःख-मोहत्रितयोपलम्भप्रसङ्गाच्च, अदृष्टेन च वस्तुसामर्थ्यनियमायोगात्, अतोऽसिद्धो हेतुः, अनैकान्तिकश्च; गुणसामान्यैरप्यप्रकृतिभिर्द्रव्याणां समन्वयात्। यत्तु परिमितत्वादिति, तत्रापि वस्तुतः परिमितत्वे हेतोर्गुण-पुरुषेष्वनैकान्तिकता। देश-कालपरिमितत्वे घट-हिम-करकादिषु प्रत्यक्षदृष्टभिन्नप्रकृतिष्वनेकान्तः। वैशेषिकानुमानेऽपि स्वपरिमाणादणुतरपरिमाणारभ्यत्वे दीर्घविस्तीर्णदुकूलैः क्रियमाणरज्जुद्रव्यस्य हृस्वस्यापि कार्यत्वदर्शनादनैकान्तिको हेतुः, प्रत्यनुमानदुष्टश्च। न किञ्चिदपि कार्यद्रव्यम्, निरवयवद्रव्यसंयोगपुरस्सरम्, प्रचयात्मकत्वात्, यत् प्रचयात्मकम्, न तद् निरवयवद्रव्यसंयोगपुरस्सरम्, यथा घटः। शून्यानुमानेऽपि घटस्य पूर्वावस्था, प्रत्यक्षदृष्टा, मृदित्यनुपलभ्यमानपूर्वावस्थत्वात्, इत्यसिद्धो हेतुरिति। इदानीमर्थदूषणमभिप्रेद्याह--अचेननात्तावदचेतनत्वादेवेत्यादिना।। मा भूदनीश्वरात् प्रधानाद् विचित्रकार्यरचना, परमाणुवादे तु पुनरधिष्ठातुरीश्वरस्य विद्यमानत्वात् तद्बुद्धिसामर्थ्यादेव विचित्रजगत्कार्यरचना भविष्यति, इत्याशङ्क्याह--चेतनादपीति।। अयमर्थः--कुलालादिदृष्टान्तेनानुमीयमानस्येश्वरस्य शरीरेन्द्रियपरिच्छिन्नज्ञानशक्तत्वात् तेनैव दृष्टान्तेन परिच्छिन्नज्ञानशक्तेश्च जगद्रचनानुपपत्तिः, इति घटादिषु कर्तृद्वयप्रसङ्गाद् मूलकारणेऽपि तदनुमानमिति।।

                यत्तु शून्यालम्बनं जगदिति, तत्राह--अभावात्पुनरिति।। नच निरुपाख्योपादानता जगतः; सदन्वयादिति। किंच निरुपाख्यस्य कारणत्वे पूर्वकल्पस्य निरन्वयविनाशात् संस्काराभावात् पुनः सजातीयकार्योत्पादनियामकाभावाद् विशिष्टसंस्थानपश्वादिकामितयाऽनुष्ठितकर्मणां कल्पान्तरे तथाविधपश्वाद्यनुपपत्तेः, शब्दार्थ-सम्बन्ध-तद्व्यवहारिणां च "नाकस्य पृष्ठे तं कालं दिवि सूर्य इव रोचते। ततः कृतयुगस्यादौ ब्रह्मपूतो महाशयाः। सर्वज्ञो धृतिमानृषिः पुनराजायते स्मरन्।।" इत्यादिश्रुतिप्रतिपन्नानां

निरन्वयविनाशात्, कल्पान्तरे पूर्वकल्पव्यवहारानुसन्धानेन व्यवहारप्रवृत्त्यभावाद् अपूर्वसङ्केते च, धर्मस्य प्रमाणान्तरागोचरत्वाद् गोपदार्थस्यापूर्वसाधनत्वं प्रमाय तत्र च गोशब्दं प्रयुज्य "गवा यजेत" इति वाक्यरचनानुपपत्तेश्च कर्म-तत्फल-तत्प्रमाणव्यवहारोच्छेद इत्याह--अतीतकल्पसंस्काराभावादित्यादिना।।

                अत्र स्वभाववादी जल्पति--न कारणापेक्षमिदमुत्पद्यते। ननु स्वयमेव स्वस्य निमित्तमित्युक्तं भवति किंवा निर्निमित्तमुत्पद्यत इति निर्निमित्तमिति ब्रूमः। ननु तर्हि घटस्य भावाभावौ युगपत् स्याताम्; क्रमकारिनिमित्तनिरपेक्षत्वात्, उच्यते; कारणस्य क्रमकारित्वं स्वभाव इति चेत्, स्वभाववादप्रसङ्गः, निमित्तान्तरसापेक्षत्वेऽनवस्थापातः। कालभेदेन क्रमकार्यवस्थेति चेत्, स कालक्रमः स्वाभाविकश्चेत्, स्वभाववादः, निमित्तान्तरापेक्षत्वेऽनवस्था। तस्मात् सर्वं कार्यं विचित्रं क्रमवर्ति च यथादर्शनं स्वभावेनैव जायत इति, तत्राह--न स्वभावत इत्यादिना।।

                स्वतःसिद्धसामर्थ्यानामपि भावानां परस्परोपकार्योपकारकभावः प्रत्यक्षसिद्ध इत्यर्थः। अत इत्युपसंहारः। ननु अनुमानेनैव यथोक्तविशेषणमीश्वरं तार्किका व्यवस्थापयन्ति, किं युक्तिसहितेनागमेवेति अत आह--एतदेवानुमानमित्यादिना।। युक्तिर्हि संभावनाबुद्धिमात्रमुत्पादयति, अनुमानं पुनरर्थं निश्चापयति। व्याप्त्यनुपपत्त्याभास उदाहरणमात्रप्रदर्शनं युक्तिः, अव्यभिचारिणी व्याप्तिरनुमानम्। तत्र कुलालादिदृष्टान्तैर्न सर्वज्ञेश्वरकारणत्वं निश्चेतुं शक्यते; विपरीतोदाहरणसंभवात्, किन्तु प्रमाणान्तरे सति कुलालादिदृष्टान्तैः संभावयितुं शक्यते। अतो युक्तिरेवैषा। तत्राज्ञानादर्थनिश्चायकमनुमानं मन्यन्त इति। किं तदनुमानमिति उच्यते--सर्वं कार्यम्, स्वरूपोपादानोपकरण संप्रदान-प्रयोजन-सामर्थ्यविषयविज्ञानवत्कर्तृकम्, विविधविन्यासकार्यत्वात्; घटादिवत्, इति वैशेषिकानुमानम्। सांख्य-योगाः--ज्ञानैश्वर्य-शक्तयः क्रमेणोत्कृष्यमाणाः, क्वचित् सर्वविषयज्ञानैश्वर्य-शक्तिमति पर्यवस्यन्ति, तरतमभावेनोत्कृष्यमाणधर्मत्वात्; परिमाणवत्--इत्यनुमिमते। नैयायिकास्तु--सर्वं कर्मफलजातम्, कर्म-तत्फल-तद्भोक्तृ-देश-कालादिविशेषविज्ञानवता प्रदीयमानम्, कर्मफलत्वात्; सेवादिकर्मफलवत्--इत्यनुमिमते।।

                तत्र वैशेषिकानुमाने जगतो बहुकर्तृत्व-परिच्छिन्नज्ञानैश्वर्यादिमत्कर्तृत्वानुमानेषूदाहरणसंभवाद् युक्तिमात्रमेतत्। योगानुमानेऽपि ज्ञानैश्वर्य-शक्तीनां क्वचित् काष्ठाप्राप्तिमात्रेऽनुमीयमाने लक्ष्यपदार्थविषयज्ञानादिषु पर्यवसानसिद्धेः कुतः सर्वज्ञत्वादिसिद्धिः सर्वविषयज्ञानाद्यनुमाने गुरुत्व-राग-द्वेष-दुख-भ्रान्त्यादिष्वनैकान्तिकता, इति युक्तिमात्रमेतत्। नैयायिकानुमानेऽपि कर्मफलस्य शरीरेन्द्रियादिमद्बहुदातृत्वदर्शनादेकेश्वरासिद्धेः श्रुतिप्रतिपन्न-सर्वकारण-सर्वज्ञ-सर्वेश्वर-सर्वफलदात्रद्वितीयब्रह्मप्रतिपत्तावुदाहरणमात्रेण संभावनाबुद्धिहेतुत्वाद् युक्तिमात्रम्, इत्यज्ञानाद् किं तदिति निश्चायकमनुमानं मन्यन्ते।

                ननु वाक्येषु सत्सु किंमित्यनुमानप्रयास इति अनुमानसिद्धार्थानुवादकत्वादित्याह--जन्मादीति।। ननु सूत्रेऽप्येतान्येवानुमानानि स्वातन्त्र्येणार्थनिश्चायकत्वेन सूत्रितानि, तत् कथमागमगुणभूतेयं युक्तिः इति चोदयतिनन्विहापि तदेवोपन्यस्तमित्यादिना।।

                परिहरति--न वेदान्तवाक्यग्रथनार्थत्वादित्यादिना।। किंचानुमानमात्रात् कारणसद्भावमात्रं सिध्यति, नाधिकम्, इह तु सत्य-ज्ञानानन्त-सर्वज्ञ-प्रत्यगात्मब्रह्मावगतिर्विवक्षिता। नचागममात्रेण सामान्यमात्रविषयानुमानादेव विशिष्टार्थसिद्धिरित्याह--समन्वयसूत्रप्रमुखोपात्तैरित्यादिना।। न तर्हि युक्तिरत्र सूत्रिता; आगमेनैव विशिष्टार्थसिद्धेरिति, तत्राह--सत्स्वु त्विति।।

                न धर्मजिज्ञासायामि"त्यादिः स्पष्टार्थः।। श्रुतिः पदान्तरनिरपेक्षः शब्दः। लिङ्गम् श्रुतस्यार्थस्यार्थान्तरेणाविनाभावः। अनेकपदसामर्थ्यं वाक्यम्।। वाक्यद्वयासामर्थ्यमारभ्याधीतविषयं प्रकरणम्।। क्रमवर्तिनां पदार्थानां क्रम वर्तिभिः पदार्थैर्यथाक्रमं सम्बन्धः स्थानम्।। संज्ञासामान्यं समाख्या।। ननु शब्देन ब्रह्मस्वरूपेऽवधारिते नानुभवेन कृत्यमस्ति। नच शब्दप्रमेयमनुभवितुं शक्यमिति, तत्राह--अनुभवावसानत्वादित्यादिना।।

                ननु धर्मजिज्ञासायामित्यादिः स्पष्टार्थः। किमिति धर्मस्यानुभवानपेक्षेति चोदयति--कथमिति।।

धर्मस्यानुभवायोग्यत्वादनपेक्षितानुभवत्वाच्च न शब्दादन्यापेक्षेति दर्शयति--कर्तव्यं हीत्यादिना। ननु सिद्धस्वभावस्यानुभवयोग्यत्वेऽपि किमित्यनुभवोऽपेक्ष्यत इति तत्राह--इह तु सिद्धस्येति।। ननु वेदप्रमेयत्वाविशेषान्मनन-निदिध्यासनानुभवेषु धर्मवद् ब्रह्मण्यपि मा भूदपेक्षा, ब्रह्मवद्वा धर्मेऽपि स्यादपेक्षेत्यत आह--नहि कर्तव्य-सिद्धार्थनिष्ठयोरिति।। अस्तु पुरुषेच्छावशनिर्वर्त्यत्वमपीति, तत्राह--ततो विधिप्रतिषेधेति।। यजेत न भक्षयेदितिवद् ब्रह्मणो विधेयत्वं प्रतिषेध्यत्वं चेत्यर्थः। विकल्पेति।। "व्रीहिभिर्यवैर्वेतिवद् ब्रह्म वा स्थाणुर्वेतीच्छाविकल्पः"। समुच्चयेतिषड्‌यागसमुच्चयः, इह ब्रह्म स्थाणुश्चेत्यर्थः। उत्सर्गापवादेति।। "न हिंस्यात्सर्वा भूतानि" "अग्नीषोमीयं पशुमालभेत" "आहवनीये जुहोति" "पदे जुहोती"तिवत् सामान्यप्रतिपन्नब्रह्मणो विशेषेऽपवादः। बाधाभ्युच्चययेति।। प्रकृतेरतिदिष्टानां कुशमयबर्हिषां विकृतावुपदिष्टशरमयबर्हिर्भिर्बाधवद् ब्रह्मणोऽपि क्वचिद् प्राप्तस्य पदार्थान्तरेण बाधः। प्राकृतानां पञ्चनारिष्टहोमानां वैकृतैरुपहोमैः समुच्चित्यानुष्ठानवद् ब्रह्मणोऽप्यतिदिष्टस्योपदिष्टेन समुच्चित्यानुष्ठानमभ्युच्चयः। "पञ्च प्रयाजान् यजती"तिप्रकृतेर्विकृतावतिदिष्टानां विकृतौ-"एकादश प्रयाजान् यजती"त्युपदिष्टेन समुच्चित्यावृत्त्या षोडशप्रयाजानुष्ठानवद् ब्रह्मणोऽप्यतिदिष्टस्योपदिष्टेन समुच्चित्यानुष्ठानमभ्युच्चयः। व्यवस्थितविकल्प इति।। "उदिते जुहोत्यनुदिते जुहोती"ति शाखाभेदेन व्यवस्थावत् क्वचिद् ब्रह्म भवति न भवतीति व्यवस्था। अस्त्वेवं धर्मसाम्यं ब्रह्मण इति चेत्, नेत्याह--न वस्तुनीति।। तदेव प्रपञ्चयति--तथाचैकस्मिन्निति।।

                अपरः परिचोदयतीत्यतः प्राक्तनः स्पष्टार्थः। पुनरनुमानवादिनश्चोदयन्ति--ननु भूतवस्तिविषयत्व इति। ननु अनुमानसूचनपरं सूत्रं न प्रतिभातीति, अत आह--पूर्वसूत्रेणेति।। ज्ञानानन्दप्रत्यग्भूतब्रह्मणश्चक्षुरादिना सामान्यमात्रविषयानुमानैश्च भूतवस्तुत्वेऽपि नानुभावः कर्तुं शक्यत इति परिहरति--नेन्द्रियादिविषयत्व इत्यादिना।। अतः इत्युपसंहारः।।

                ननु एवं सतीति स्पष्टार्थः।। उच्यत इत्यादेः परिहारस्यायमर्थः--ज्ञानानन्द-सर्वज्ञ-प्रत्यगात्मभूतं ब्रह्म निश्चापयितुमसमर्था अपि युक्तयः शब्दावगते ब्रह्मणि सामान्यद्वारेण संभावनाबुद्धिहेतवो भवन्ति। कथम् जगदुपादानेऽद्वितीयशब्दावगते मृदादिदृष्टान्तैरुपादानव्यतिरेकेण कार्यस्यानिरूपणादद्वितीया संभाव्यते। स्पटिकलौहित्यप्रतिबिम्ब-रज्जुसर्प-घटाकाशदृष्टान्तैरात्मनि कर्तृत्वादेरारोरितत्वं जीवब्रह्मैक्यं ब्रह्मव्यतिरिक्तप्रपञ्चस्वातन्त्र्याभावोऽसङ्गत्वद्वारेण विशुद्धाद्वितीयप्रत्यगात्मता च संभाव्यत इति। किं पुनस्तद् वेदवाक्यमिति भाष्यस्याक्षेपार्थमाह--सर्वत्र वेदान्तवाक्ये ब्रह्मपदस्येत्यादिना।।

                येषां वेदान्तवाक्यानामित्यादेः परिहारस्यायमर्थः--सत्य-ज्ञानानन्दप्रत्यगात्माद्वितीय-ब्रह्मपदार्थेऽप्रसिद्धेऽपि बृहत्त्वमात्रस्य प्रसिद्धत्वात् तदनुवादेन सन्निहितपदार्थसंसर्गसामर्थ्याद् विशिष्टब्रह्म प्रतिपत्तुं शक्यते, इति ब्रह्मप्रतिपादनपरं सत्यादिवाक्यम्, अर्थात्तदेव लक्षणम्, इति न सत्य-ज्ञानानन्द-ब्रह्मस्वरूपलक्षणस्य सिद्धानुवादप्रसङ्ग इति। ननु स्वाध्यायपाठक्रमेण नार्थप्रतिपत्तिः, किन्तु वैपरीत्येन; "प्रसिद्धानुवादेनाप्रसिद्धम्" इति न्यायात्। तथाच कारणस्य प्रसिद्धत्वात् यस्मादाकाशः संभूतः स आत्मा सत्यं ज्ञानमनन्तं ब्रह्मेति वाक्यवृत्तिः; तथा यस्मादेतद् ब्रह्म नाम रूपमन्नं च जायते, स सर्वज्ञः सर्वविदिति; तथा यस्मात्प्राणादि जायते, स दिव्यो ह्यमूर्तः पुरुष इत्यादि; तथा यो भूतयोनि, तदद्रेश्यमग्राह्यमित्यादि; यस्मात्तेजोवन्नानि जायन्ते, तत्सदद्वितीयमणिमा तत्वमसीत्यादिकारणमात्रानुवादेन तद्विशेषः प्रतिपाद्यत इति, सत्यम्; अधिकारिज्ञाकर्तव्यताब्रह्मात्मप्रतिपादनानां क्रममभिप्रेत्येदमुक्तम्, तदाह--तथैवोदाहरणमिति।।

                ननु जगत्कारणे नानात्वस्यापि प्रतिपत्तेः कथं तदनुवादेन ब्रह्म प्रतिपादनीयमिति चोदयति--कथमिति।। परिहरति--पूर्वोक्तेनेत्यादिना।।

                अयमर्थः--जगत्कारणमात्रानुवादेऽपि तस्य नानात्वशङ्कायाम्--"यतः" इत्येकत्वनिर्देशादेकत्वमपि प्रमीयते। ननु अनुवादे प्रमितिरनुपपन्ना, न; जगत्कारण एकत्वपुरोवादाभावादनुवादसामर्थ्यादेवैकत्वं प्रमीयते; अन्यथाऽनुवादवैयर्थ्यात्। ननु एकत्वे ब्रह्मलक्षणे च प्रमीयमाणे वाक्यभेदः स्यात्, न; एकत्वस्य

ब्रह्मप्रतिपत्तिर्गुणभूततयैकवाक्यत्वात्। अथवा--एकत्वमपि लक्ष्यान्तर्गतमेव भवति, न लक्षणान्तर्गतम्। तथाहि--जगत्कारणमात्रानुवादेनैकं ब्रह्म विधीयत इति। ततः किमायातमिति तदाह--अर्थात्सर्वज्ञमिति।। न संज्ञा-संज्ञिसंबन्धपरं वाक्यम्, किंत्वर्थप्रतिपादनपरम्। आर्थिकस्तु संज्ञा-संज्ञिसम्बन्ध इत्याह--पुनस्तद्विजिज्ञासस्वेत्यादि।। एकं सर्वज्ञं सर्वशक्ति सर्वतोऽनवच्छिन्नं च जगत्कारणम्, तच्च ब्रह्मशब्दाभिधेयमित्यर्थः।।

                ननु निरुपाधिकब्रह्मस्वरूपकथनमन्तरेण सोपाधिकानां सर्वज्ञत्वादीनां कस्यचिद् धर्मतया प्रतिपत्तिर्न युक्ता, तन्न; "यत् सुषिरं तदाकाशम्" "प्रकृष्टप्रकाशश्चन्द्रः" इत्यादिवत् स्वरूपलक्षणमेव किंचिद् वक्तव्यम्। ब्रह्मशब्दाभिधेयमेव स्वरूपलक्षणमिति चेत्, न; बृहत्व-धर्ममात्राभिधानात्। महान् घट इत्युक्ते महत्त्वस्य निरुपाधिर्घटो धर्मितया प्रतीयते, तथेहापि वक्तव्यं सच्छब्दाभिधेयं लक्षणमिति चेत्, न; महासामान्यमात्राभिधानात्। सन्नित्युक्ते घट इत्यवान्तरसामान्यव्यक्तिर्महासामान्यपर्यवसानत्वेनापेक्ष्यते, तथेहाप्यवान्तरसामान्यव्यक्तिर्वक्तव्या। विज्ञानमेव बृहत्व-सर्वज्ञत्वादिधर्मवत्तया निरुपाधि ब्रह्मस्वरूपलक्षणमिति चेत्, न; तस्य सुख-दुःख-राग-द्वेषादिमहासामान्यत्वात् तस्याप्यवान्तरसामान्यव्यक्तौ पर्यवसानं वक्तव्यमिति, तदाह-तस्य च निर्णयवाक्यमानन्दाद्धेयवेति।। आनन्द एव हि ब्रह्मत्व-सर्वज्ञत्व-कारणत्वादिधर्मवत्तया निरुपाधि ब्रह्मस्वरूपं निर्णीयते। तथाहि--"यत्र नान्यत्पश्यती"त्यारभ्य "यो वै भूमा तत्सुखमि"ति सुखस्यैव बृहत्वधर्मवत्तामाह। विज्ञानं तर्हि निरुपाधिकब्रह्मगुण इति चेत्, किं विज्ञानानन्दयोः सामानाधिकरण्यं नीलोत्पलवद् गुण-गुणिभावात् किं वा द्रव्यं घट इतिवत्परापरसामान्यभावादिति न तावद् गुण-गुणिभावात्; "साक्षी चेता केवलो निर्गुणश्चे"ति श्रुतेः "एकधैवानुद्रष्टव्यं नेह नानास्ती"ति च गुण-गुणिभावभेदप्रतिषेधात्, गुणस्य गुणिनोऽन्यत्वानन्यत्वाभ्यामनिरूपणात्।।

                अत्र सर्वसङ्करवादी न निर्गुणं द्रव्यमस्तीति जल्पति। मा भून्निर्गुणं द्रव्यम्, ब्रह्म तु न द्रव्यम्; प्रमाणाभावात्। समवायिकारणत्वाद् द्रव्यमिति चेत्, न; आरम्भवादानभ्युपगमात्। उपादानकारणत्वाद् द्रव्यमिति चेत्, न; गुणादीनामपि ग्रहणधर्मत्वादिधर्मोपादानत्वात्। न निर्गुणं वस्त्विति चेत्, अन्त्यगुणेष्वनेकान्तः। तस्मात्तत्वज्ञानप्रद्वेषमात्रमेतद् न निर्गुणं ब्रह्मेति। तस्माद् "द्रव्यं घटः" "सन् घटः" इतिवत्परापरसामान्यनिबन्धनं विज्ञानमानन्दमिति सामानाधिकरण्यम्। तस्माद् विज्ञानसामान्यालम्बनमानन्दविशेषो ब्रह्मेति। तत्र सर्वज्ञाद्वितीयत्वादिधर्माणां प्रपञ्चोपाधितयाऽनिर्वचनीयत्वान्न तैर्ब्रह्म सगुणं सद्वितीयं वा भवति। विज्ञानसामान्यमपि दुःख-रागादिप्रपञ्चोपाधितयाऽनिर्वचनीयं सद् ब्रह्मणि विज्ञानशब्दप्रवृत्तिमात्रहेतुर्भवति। विज्ञानगुणत्वाभावे न विज्ञानं ब्रह्मेति चेत्, न; विज्ञानसामान्यालम्बनस्य विज्ञानव्यवहारगोचरत्वात्, विज्ञानप्रयुक्तार्थक्रियाकारित्वाच्च। सामान्यस्याभासत्वात् तदालम्बनं ब्रह्मज्ञानं मिथ्याज्ञानमिति चेत्, न; मुख्यसामान्यान्तराभावात्, अस्यैव च मुख्यत्वात्। तस्माद्विज्ञानस्वभाव आनन्दो ब्रह्मेत्यानन्दस्यैव ब्रह्मतां प्रतिपादयति--प्रसिद्धावद्योतकेनेत्यादिना।। तस्मात् सर्वेषु वेदान्तवाक्येषु पाठव्यत्यासेन जगत्कारणमात्रानुवादेन तस्य ब्रह्मत्वं प्रतिपाद्यत इत्युपसंहरति--तस्माद् ब्रह्मपर इति।।

                      इति श्रीमत्परमहंसपरिव्राजकानन्यानुभवपूज्यपादशिष्यस्वप्रकाशानुभवभगववः कृतौ

                            पञ्चपादिकाविवरणे 2जन्माद्यधिकरणं नाम 2पञ्चमवर्णकं समाप्तम्।।