दर्पदलनम्/पञ्चमो विचारः

(पञ्चमो विचारः इत्यस्मात् पुनर्निर्दिष्टम्)

दर्पदलनम्

अहं शूरः क्रूरप्रतिभटघटापाटनपटु-
स्तरस्वी सेनायां हयगजघटानामधिपतिः ।
इति प्रौढः पुंसां निजभुजबलाक्रान्तजगतां
भवत्यन्तर्दर्पः परिभवपदं कालगलितः ॥ १ ॥

शौर्येण दर्पः पुरुषस्य कोऽयं दृष्टस्तिरश्चामपि शूरभावः ।
औचित्यहीनं विनयव्यपेतं दयादरिद्रं न वदन्ति शौर्यम् ॥ २ ॥

बालस्य शौर्यं कुसुमोपमस्य मातुः प्रहारे प्रणयस्मितेषु ।
वृद्धस्य शौर्यं शिथिलाङ्गसंधेः स्वश्लाघया पूर्वकथापथेषु ॥ ३ ॥

वयस्त्रिभागे तरुणस्य शौर्यं यदेव दर्पप्रभवाभिभूतम् ।
तच्चित्तवृत्तेर्विविधस्वभावात्पर्यायशो यात्यतिवैपरीत्यम् ॥ ४ ॥

verse 5 corrupted
ह्यो येन भग्नाः पुरतोऽरिसेना भीतः स एवाद्य भवत्यधीरः ।
वृत्रेण शक्रः समरे निगीर्णः फेनेन शक्रः स जघान वृत्रम् ॥ ६ ॥

verse 7 corrupted
यः कार्तवीर्यस्य च दोःसहस्रं विच्छेद वीरो नहि युधि जामदग्न्यः ।
स सायके रामकराधिरूढे ब्राह्मण्यदैन्यप्रणयी बभूव ॥ ८ ॥

रामोऽपि साहायकलाभलोभाच्चक्रे कपेः संश्रयदैन्यसेवाम् ।
शूरप्रतापः शिशिरर्तुनेव कालेन लीढस्तनुतामुपैति ॥ ९ ॥

वाली प्रसह्य प्लवगः करेण सोल्लासकैलाससहं दशास्यम् ।
निक्षिप्य कक्षाञ्चलसंधिबन्धे सप्ताब्धिसंध्याविधिमन्वतिष्ठत् ॥ १० ॥

युद्धोद्धता भूपतयः प्रसिद्धा बद्धा जरासंधनृपेण पूर्वम् ।
सभीमसेनेन भुजायुधेन द्विधा कृतः संधिविदारणेन ॥ ११ ॥

भीमोऽपि कर्णेन विकीर्णधैर्यः प्रमूढशक्तिः कृपया विमुक्तः ।
कर्णेऽर्जुनस्याततकार्मुकस्य क्षणात्क्षणं याचकतां प्रयातः ॥ १२ ॥

त्यक्त्वार्जुनः कृष्णकलत्रवर्गं जगाम गोपालबलाभिभूतः ।
न ज्ञायते दैवपथानुयाता शौर्यस्य वृत्तिः करिकर्णलोला ॥ १३ ॥

भीरुः शूरत्वमायाति शूरोऽप्यायाति भीरुताम् ।
न क्वचिच्चपलस्यास्य शौर्यस्य नियता स्थितिः ॥ १४ ॥

बाणस्त्र्यक्षेण कंसारिचक्रधारापथातिथिः ।
आजन्मभक्तिप्रणयी रक्षणार्हो न रक्षितः ॥ १५ ॥

वेगाप्ते कालयवने मुचुकुन्दमशिश्रियत् ।
शौरिः शयनपर्यङ्कतलसंकुचिताकृतिः ॥ १६ ॥

शिशुपालस्य शिरसि च्छिन्ने चक्रेण चक्रिणा ।
दृष्टिः कृता न चापेषु नृपैस्तत्पक्षिपातिभिः ॥ १७ ॥

भीमनिष्पीयमाणसृग्दृष्टो दुर्योधनानुजः ।
अशस्त्राभिरेव स्त्रीभिर्द्रोणकर्णकृपादिभिः ॥ १८ ॥

स्फाराजगरसंरुद्धभुजद्वन्द्वो वृकोदरः ।
जननीकरुणाक्रन्दनिनादमुखरोऽभवत् ॥ १९ ॥

महतामपि पूर्वेषामेवंरूपा मदक्षितिः ।
सामान्यविक्रमोद्दामश्लाघा केनाभिनन्द्यते ॥ २० ॥

अशक्ते रौद्रतातैक्ष्ण्यं तीव्रपापेषु धीरता ।
छद्मधीर्वाचि पारुष्यं नीचानां शौर्यमीदृशम् ॥ २१ ॥

निष्कारणनृशंसस्य शौर्यं हिंस्रत्वमुच्यते ।
यः सर्प इव संनद्धः प्राणभाधाय देहिनाम् ॥ २२ ॥

एतदेव परं शौर्यं यत्परप्राणरक्षणम् ।
नहि प्राणहरः शूरः शूरः प्राणप्रदोऽर्थिनाम् ॥ २३ ॥

न कश्चिद्बुद्धिहीनस्य शौर्येण क्रियते गुणः ।
पर्जन्यगर्जितामर्षी श्वभ्रे पतति केसरी ॥ २४ ॥

किं शौर्येण सरागस्य मदक्षीबस्य दन्तिनः ।
बन्धकीलाभलोभेन यः क्षिपत्यवटे तनुम् ॥ २५ ॥

शौर्यं विक्रीतकायस्य सेवकस्य किमद्भुतम् ।
मेषस्येव वधो यस्य सूनाबद्धस्य् निश्चितः ॥ २६ ॥

न दर्पविकृतं शौर्यं न मायामलिनं मनः ।
न द्वेषोष्णं श्रुतं येषां गण्यन्ते तद्गुणा बुधैः ॥ २७ ॥

कुलं कुतनयेनेव लोभेनेव गुणोदयः ।
ऐश्वर्यं दुर्नयेनेव शौर्यं दर्पेण नश्यति ॥ २८ ॥

प्रभावभवनस्तम्भ इव दम्भोद्भवोऽभवत् ।
सप्ताब्धिपरिखालेखमेखलायाः प्रभुर्भुवः ॥ २९ ॥

तस्य निःशेषितारातेः सदा युद्धमनोरथः ।
अप्राप्तप्रतिमल्लस्य ययौ हृदयशल्यताम् ॥ ३० ॥

स सुरासुरयुद्धाप्तदर्पदर्पितमानसः ।
कः कोऽस्ति शूरः संरम्भादित्यपृच्छत्सदाजनम् ॥ ३१ ॥

दर्पकण्डूलदोर्दण्डं पृच्छन्तं रभसेन तम् ।
सर्वावमानसंनद्धं जगादाभ्येत्य नारदः ॥ ३२ ॥

नास्ति त्वत्सदृशः शूरस्त्रैलोक्ये सत्यमुच्यते ।
किं तु जाने रणार्हौ ते नरनारायणावृषी ॥ ३३ ॥

बदर्याश्रमसंसक्तौ तीव्रे तपसि निष्ठितौ ।
युद्धेच्छौ तौ यदि स्यातां तत्पूर्णस्ते मनोरथः ।। ३४ ॥

नारदेनेत्यभिहिते स बदर्याश्रमं ययौ ।
विलोकयन्निजभुजौ प्रत्यासन्नरणोत्सवौ ॥ ३५ ॥

दृष्ट्वा तेजोनिधी तत्र नरनारायणौ नृपः ।
मनोरथपथाभ्यस्तं ययाचे युद्धमुद्धतः ॥ ३६ ॥

तं युद्धकामुकं तिर्यग्दृशा गम्भीरधीरया ।
विलोक्योवाच सावज्ञस्मितदिग्धाधरं नरः ॥ ३७ ॥

महीपते निवर्तस्व न वयं युद्धकोविदाः ।
युक्तस्तैरेव सङ्ग्रामस्तव ये भूम्यनन्तराः ॥ ३८ ॥

इत्युक्तोऽपि यदा राजा न चचाल रणादरात् ।
तदा तं दृप्तमैषीकनिशितास्त्रैरपूरयत् ॥ ३९ ॥

प्रदीप्तज्वलनाकारैः शरैराकीर्णविग्रहः ।
विनष्टविग्रहरुचिर्नृपस्तत्याज धीरताम् ॥ ४० ॥

अकाण्डखण्डितोच्चण्डदर्पज्वरभरो नृपः ।
कृपणः प्राणरक्षायै तमेव शरणं ययौ ॥ ४१ ॥

वारितास्त्रस्ततस्तेन भग्नमानमनोरथः ।
लज्जाविकुण्ठकण्ठः स्वां राजधानीं ययौ नृपः ॥ ४२ ॥

इति मानस्य महतामपि घोराशनिर्मदः ।
लोहस्य स्वमलेनेव क्षयो दर्पेण तेजसः ॥ ४३ ॥

तस्मात्सदा मानधनेन पुंसा दर्पः प्रयत्नेन निवारणीयः ।
दर्पोग्रवक्त्रस्य सुहृज्जनोऽपि सर्वात्मना तिव्रनिपातसज्जः ।
अदर्पशौर्यस्पृहणीयसत्त्वा गोविप्ररक्षाक्षपितस्वदेहाः ।
प्रयान्ति वीराः सुकृतामृताद्रैर्यशःशरीरैरजरामरत्वम् ॥ ४५ ॥




==षष्ठो विचारः==
जगत्येको भद्रद्विरद इव दानार्द्रसरणि-
र्यशस्वी निःस्वानामहमभिमताशाफलतरुः ।
इति त्यागोदग्रं वहति किल दर्पं मनसि य-
स्तदुद्भूतं सर्वं सुकृतमपहाय व्रजति सः ॥ १ ॥

स्वर्गादिसंभोगफलाभिलाषात्पात्राय पूजां प्रतिपद्यते यः ।
धर्मार्थपण्यक्रयविक्रयोऽसौ कस्तेन दानप्रभवोऽभिमानः ॥ २ ॥

यद्विद्यादिगुणोत्कर्षविशेषपरितोषितैः ।
दीयते प्रीतिधनयोः स पण्यक्रयविक्रयः॥ ३ ॥

लोकप्रसिद्धिसिद्ध्यै यः प्रयच्छति गुणस्तवैः ।
करोति वित्तयशसोः स तदा क्रयविक्रयम् ॥ ४ ॥

अवमानहतं यच्च दत्तमश्रद्धया धनम् ।
ऊषरे निष्फलं बीजं क्षिप्तमक्षिप्तमेव तत् ॥ ५ ॥

त्यागिनोऽन्यस्य संघर्षे कीर्त्युत्कर्षजिगीषया ।
दत्तं कारणभूतस्य तस्यैवान्ते फलप्रदम् ॥ ६ ॥

परार्तिशमनं वित्तमज्ञातमनुदीरितम् ।
अफलाकाङ्क्षया युक्तं प्रयात्यल्पमनल्पताम् ॥ ७ ॥

कुरुक्षेत्रादिदेशेषु कालेष्वर्कग्रहादिषु ।
आत्मोपकारमात्रेण पात्रे दानेन किं मदः ॥ ८ ॥

देशकालक्रियापात्राण्यविचार्यैव केवलम् ।
परेषामार्तिशमनं दयार्द्रं दानमुच्यते ॥ ९ ॥

रक्षायै संपदां पुत्रकलत्रसुखसिद्धये ।
दीयते यत्प्रयत्नेन लोभदानेन तेन किम् ॥ १० ॥

वादे खलैः खलीकृत्य वेधद्रुतपरीक्षया ।
दीयते यच्चिरक्लिष्टं कष्टदानेन तेन किम् ॥ ११ ॥

त्यक्त्वाशागतसत्पात्रं पूर्णायाभ्यर्थ्य दीयते ।
यत्तदुच्छ्वाससंतप्तं दग्धदानेन तेन किम् ॥ १२ ॥

अन्यदाभाषितं पूर्वं दत्तमन्यत्ततोऽल्पकम् ।
यत्सदोषमयोग्यं वा कूटदानेन तेन किम् ॥ १३ ॥

चिरसेवानुरोधेन लोभकृच्छ्रादनिच्छया ।
अप्रसादेन यद्दत्तं बलादानेन तेन किम् ॥ १४ ॥

यत्पुष्पधूपतिलकप्रतिपत्तिप्रदर्शितम् ।
दत्तमत्यल्पनिःसारं दम्भदानेन तेन किम् ॥ १५ ॥

प्रभूतभारसंभारं राजचौरादिविप्लवे ।
दत्त्वा यद्दुष्टमुद्घुष्टं शल्यदानेन तेन किम् ॥ १६ ॥

अनास्वाद्यमविक्रेयमनादेयमनीप्सितम् ।
दत्तं निरुपकारं यद्वन्ध्यदानेन तेन किम् ॥ १७ ॥

ऋणवच्चिरसंशोध्यं वचसा प्रतिपादितम् ।
यन्नित्ययाचनद्वेषं याच्यदानेन तेन किम् ॥ १८ ॥

एकस्मै पूर्णमन्यस्मै कृशं तुल्यगुणोदये ।
भेदाद्यदर्पितं रागद्वेषदानेन तेन किम् ॥ १९ ॥

ऋणदैः स्वजनैः पुत्रैर्लब्धक्षामप्रतिग्रहः ।
नित्यमायास्यते येन कलिदानेन तेन किम् ॥ २० ॥

न परस्यार्तिशनमं नात्मनः पुण्यकारणम् ।
दत्ताल्पमूल्येनाप्तं यत्स्वल्पदानेन तेन किम् ॥ २१ ॥

दुर्ग्रहेषु विरुद्धेषु दशापाकेऽतिदारुणे ।
दीयते दोषशान्त्यै यद्भयदानेन तेन किम् ॥ २२ ॥

मुमूर्षस्त्यक्तसर्वाशः शयनस्थो ददाति यत् ।
मूर्च्छास्थानेन मनसा मोहदानेन तेन किम् ॥ २३ ॥

दत्तं प्रियवियोगोग्रशोकशल्यार्तचेतसा ।
यत्पश्चात्तापजननं बाष्पदानेन तेन किम् ॥ २४ ॥

पुरोहिताय गुरवे शान्तिस्वस्तिविधायिने ।
दीयते यत्प्रसङ्गेन भृतिदानेन तेन किम् ॥ २५ ॥

यत्संत्यक्तफलस्पृहं यदुचितं सर्वस्वभूतं च य-
न्नान्यायेन यदर्जितं परधनस्पर्शेन शप्तं न यत् ।
दत्त्वा दुःखशतं न यत्स्ववचसा पश्चान्न यद्गण्यते
तद्दानं धनबीजवापनिपुणः शेषः प्रकारः कृषेः ॥ २६ ॥

प्राप्तुं स्वर्गवराङ्गनास्तनतटस्पर्शातिरिक्तं सुखं
दत्तो मेरुरपि प्रयाति तृणतामात्मोपकारेच्छया ।
आपन्नार्तिविलोकने करुणया श्रद्धासुधापूरितं
सत्त्वोत्साहसमन्वितं तृणमपि त्रैलोक्यदानाधिकम् ॥ २७ ॥

युधिष्ठिरस्य भूभर्तुः पुरा कनकवर्षिणः ।
अश्वमेधे विधानेन वर्तमाने महाक्रतौ ॥ २८ ॥

सज्जासु राजभोज्यासु विविधास्वन्नपालिषु ।
अनिशं रत्नपात्रेषु भुञ्जानेषु द्विजन्मसु ॥ २९ ॥

विप्रेषु पूर्यमाणेषु मणिकाञ्चनशासनैः ।
उच्छिष्टभूमिं नकुलः स्वबिलात्समुपाययौ ॥ ३० ॥

दीप्तकाञ्चनवर्णेन पार्श्वेनैकेन शोभितः ।
अपरेणासुवर्णेन वितीर्णजनकौतुकः ॥ ३१ ॥

सोऽभ्येत्य तूर्णमुच्छिष्टहेमपात्रच्युतेऽम्भसि ।
लुलोठ शफरोत्फालपरिवर्तविवर्तनैः ॥ ३२ ॥

सुवर्णपार्श्वं नकुलं दृष्ट्वा सर्वे कुतूहलात् ।
मज्जन्तमुच्छिष्टजले क्षितिपाय न्यवेदयन् ॥ ३३ ॥

प्राप्तेन भूभुजा दृष्ट्वा पृष्ट इवेष्टया ।
सोऽवदद्विस्मयभुवा सुस्पष्टाक्षरया गिरा ॥ ३४ ॥

राजन्नस्यातिदानस्य न पश्याम्युचितं फलम् ।
अस्मात्प्रभूतसंभारात्सक्तुपात्रं वरं परम् ॥ ३५ ॥

प्रवृत्तेऽस्मिन्महादाने महतस्ते महीपते ।
वित्ते वृत्ते च चित्ते च शुद्धिं को वेत्ति तत्त्वतः ॥ ३६ ॥

संभारोऽयं भुवनभवनव्याप्तिपर्याप्तभोगः ।
सर्वाशासु प्रततजनतापूरणेऽत्यन्ततुच्छः ।
आपन्नार्तिप्रशमनविधौ सत्त्वशुद्धिप्रदाने
संनद्धानामपि तृणकणः काञ्चनाद्रित्वमेति ॥ ३७ ॥

श्रूयताम् यन्मया दृष्टं भूपते स्वयमद्भुतम् ।
उदेत्युदीरिते यस्मिन्काये रोमाञ्चकञ्चुकः ॥ ३८ ॥

शिलोञ्छवृत्तिना पूर्वं विप्रेण क्षेत्रचारिणा ।
उपवासकृशेनाप्तं यवस्तोकं कलत्रिणा ॥ ३९ ॥

सक्तुपात्रे ततः सिद्धे कृतदेवपितृक्रियः ।
जायापुत्रविभागेन स्वं भागं भोक्तुमुद्ययौ ॥ ४० ॥

स प्राणाहुतितोयार्थी ददर्शातिथिमागतम् ।
क्षुत्क्षामकुक्षिं संक्षिप्तसर्वाङ्गशिथिलाकृतिम् ॥ ४१ ॥

तस्मै विहितसत्कारः सप्रसादेन चेतसा ।
श्रद्धासुधावसिक्तं तत्स ददौ निजभोजनम् ॥ ४२ ॥

निगीर्णोऽतिथिना तस्मिन्नक्षीणक्षुद्विकारिणा ।
तद्भार्याप्यादरवती तस्मै स्वमशनं ददौ ॥ ४३ ॥

तेनाप्यतृप्तिमालोक्य तत्सूनुः श्रद्धयातिथिम् ।
स्वभोजनेन विदधे संपूर्णाशननिर्वृत्तम् ॥ ४४ ॥

गते भुक्त्वातिथौ तस्मिन्नुपवासकृशो द्विजः ।
सत्त्वोत्साहयुतस्तस्थौ क्लान्तोऽपि निशि निर्व्यथः ॥ ४५ ॥

अथाहं सक्तुगन्धेन निर्गतः क्षुधितो बिलात् ।
प्राप्तस्तत्पर्णकुटिकामुत्सृष्टोच्छिष्टवर्तिनीम् ॥ ४६ ॥

तत्राचमनतोयेन स्पृष्टमात्रस्य मे नृप ।
पस्य मे दक्षिणं पार्श्वं जतं हेममयच्छवि ।। ४७ ॥

ततोऽहं वामपार्श्वस्य हेमच्छायाप्तये सदा ।
निर्निद्रश्चिन्तया यातः कृशतामेव केवलम् ।। ४८ ॥

यद्यत्प्राप्नोति पुरुषः कर्मयोगात्समीहितम् ।
तत्तत्संपूर्णायैव याति चिन्ताविधेयताम् ॥ ४९ ॥

अधुना वर्तमानेऽस्मिन्नश्वमेधे तव क्रतौ ।
हेमपार्श्वाशयायातो विप्रोच्छिष्टामहीमहम् ॥ ५० ॥

रत्नकाञ्चनपात्राम्बुसिक्तस्य लुठतश्चिरम् ।
मम कान्तिलवोऽप्यङ्गे न कश्चिदिह दृश्यते ॥ ५१ ॥

सर्वथा सत्त्वशुद्धाय दानायातिलघीयसे ।
नमो महाफलायैव न भोगाङ्गप्रसङ्गिने ॥ ५२ ॥

इत्युक्त्वा नकुले याते तत्तथेति युधिष्ठिरः ।
विचिन्त्य संततोच्छ्वासः क्षणं स्तिमिततां ययौ ॥ ५३ ॥

तस्मात्सुवर्णाम्बररत्नभूमिदानैर्न दर्पः पुरुषेण कार्यः ।
भवत्युदारं करुणार्द्रसत्त्वं दानं सदा कस्यचिदेव पुण्यैः ॥ ५४ ॥



==सप्तमो विचारः==

तपः सदा रागधनाभिमानमोहप्रहाणाय सतामभीष्टम् ।
तेनैव दर्पो यदि किं वृथैव त्यक्तो निकायः क्षपितश्च कायः ॥ १ ॥

सर्वात्मना शुद्धधिया विधेयः संसारदोषप्रशमाय यत्नः ।
कोपोपतप्तं धनरागदिग्धं करोति तीव्रं न तपः प्रशान्तिम् ॥ २ ॥

चित्तं विरक्तं यदि किं तपोभिश्चित्तं सरागं यदि किं तपोभिः ।
चित्तं प्रसन्नं यदि किं तपोभिश्चित्तं सकोपं यदि किं तपोभिः ॥ ३ ॥

कोपेन शापश्पुरिताधराणां कामेन कम्पस्फुरिताधराणाम् ।
स्वेदाम्भसा तुल्यसमुद्भवेन निस्तेजसां किं तपसा मुनीनाम् ॥ ४ ॥

भार्याप्यहल्या किल गौतमस्य क्रुद्धस्य शापेन शिला बभूव ।
नीतो वसिष्ठेन रुषाभिशप्तश्चण्डालतां भूमिपतिस्त्रशङ्कुः ॥ ५ ॥

भूमग्नमूर्तिर्वररत्नलोभाद्विपाटयन्तीं नयने सुकन्याम् ।
तत्पाणिसंस्पर्शसुखादरेण सेहे निकारं च्यवनः सरागः ॥ ६ ॥

पाण्डुः प्रियाकण्ठविलम्बिबाहुर्ययौ स्तनन्यस्ततनुर्यदस्तम् ।
दग्धः परीक्षित्फणिफूत्कृतैर्यत्तपस्विकोपस्य विजृम्भितं तत् ।। ७ ॥

विसारसंसारतरोर्न येन निःशेषमुन्मूलितमेव मूलम् ।
शापोपतापप्रभुणा परेषां किं तेन मिथ्यातपसा मुनीनाम् ॥ ८ ॥

न राजसेवारजसा विलुप्तं न भूमिविद्यादिविवादतप्तम् ।
न दम्भदीक्षाकुहकाकुलं यत्कल्याणमित्त्रं विमलं व्रतं तत् ॥ ९ ॥

ससंचयं गुप्तकलत्रपुत्रं पुनर्गृहीतव्यवाहरभारम् ।
दम्भाभिमानोद्भवकष्टभूतं मिथ्याव्रतं जीवितवृत्त्युपायः ॥ १० ॥

सरागरोगं बहुलप्रमोहं सरोगसंभारमखर्वगर्वम् ।
प्रद्वेषदोषोष्णममेयमायं संसारचिह्नं व्रतमेतदग्र्यम् ॥ ११ ॥

जटाक्षसूत्राजिनयोगपट्टकन्यादृढग्रन्थिनिपीड्यमानम् ।
विवेकहीनं विरतप्रकाशं व्रतं बृहद्बन्धनमामनन्ति ॥ १२ ॥

सरागकाषायकषायचित्तं शीलांशुकत्यागदिगम्बरं वा ।
लौल्योद्भवद्भस्मभरप्रहासं व्रतं न वेषोद्भटतुल्यवृत्तम् ॥ १३ ॥

निःसङ्गयोगं धनभोगसङ्गं विलम्बिकङ्कालकपालमालम् ।
कोपाकुलं स्पर्शविवर्जनीयं भारव्रतं तत्कथयन्ति पापम् ॥ १४ ॥

बालस्तपस्वी किमतोऽस्ति हास्यं युवा वनैषी किमतोऽस्त्ययोग्यम् ।
वृद्ध सरागः किमतोऽस्ति निन्द्यं मूर्खः प्रमाता किमतोऽस्ति शोच्यम् ॥ १५ ॥

क्षमा शमः शासनमिन्द्रियाणां मनः प्रसिक्तं करुणामृतेन ।
तपोऽर्हमेतत्सजने वने वा कायस्य संशोषणमन्यदाहुः ॥ १६ ॥

हिमाचले श्यामलदेवदारुवने पुरा निर्झरचारुहास्ये ।
तपस्यतां शोषजुषां मुनीनां कालो ययौ वर्षसहस्रसंख्यः ॥ १७ ॥

ततः कदाचिद्भगवान्भवार्तिहारी विहाराय नभःपथेन ।
समं भवान्या वृषभाधिरूढः समाययौ शीतमयूखमौलिः ॥ १८ ॥

तस्योदितानां वदनप्रभाणां दीर्घीकृतानेकशशिप्रभाणाम् ।
विलासहास्येन नभो बभूव विभक्तिसंसक्तसितोत्तरीयम् ॥ १९ ॥

देवी विलोक्याथ तपःप्रयत्नतीव्रप्रयासप्रकटास्थिशेषान् ।
मुनीन्कृपावेशविषण्णचित्ता शशाङ्कलेखाभरणं बभाषे ॥ २० ॥

देव त्वदाराधननिश्चलानां संत्यक्तसर्वाग्रहनिग्रहाणाम् ।
तप क्रियाशोषितविग्रहाणां नाद्यापि मुक्तिः किमहो मुनीनाम् ॥ २१ ॥

कस्मादमी वर्षसहस्रलग्नक्लेशावलग्नास्तनुशोषमग्नाः ।
भवत्पदं नित्यसुखाय नैव निरामयं तन्मुनयः प्रयान्ति ॥ २२ ॥

पृथुः प्रसादः प्रथमागतेषु निरादरत्वं चिरसंश्रितेषु ।
स्वाच्छन्द्यलीलाविपुलावलेपादेषु स्वभावः सुलभः प्रभूणाम् ॥ २३ ॥

इति प्रियायाः प्रणयोपपन्नमाकर्ण्य वाक्यं गिरिशोऽब्रवीत्ताम् ।
कुर्वन्विषश्यामलकण्ठकान्तिं दन्तप्रभाभिः प्रतिभाविहीनम् ॥ २४ ॥

देवि त्वयोक्तम् दयया मुनीनां भक्तानुरोधादुचितं ममैतत् ।
एषां भवोल्लङ्गनविघ्नभूतौ शान्तिं गतौ किं तु न कामकोपौ ॥ २५ ॥

वनप्रवेशैर्नियमैरशेषैः क्रियाविशेषैः कृतकायशोषैः ।
न निर्विकारं पदमाप्नुवन्ति कोपेन कामेन च कृष्यमाणाः ॥ २६ ॥

प्रत्यक्षमेषां मनसो विकारं संदर्शयाम्येष निषक्तमन्तः ।
तीव्रव्रतैः शुष्यति काय एव न वासनालीनघन/धनप्रमोहः ॥ २७ ॥

संत्यक्तभोगाः स्पृहया विमुक्ताः स्नेहेऽप्यरागाः सुजनेऽप्यसङ्गाः ।
भजन्त्यविक्लेशतपःप्रसक्ता युक्ताः प्रकामं पदमव्ययं तत् ॥ २८ ॥

उक्त्वेति शंभुर्वृषभात्सलीलं गिरेरिवाग्रादवतीर्य भूमिम् ।
क्षणादभूदद्भुतरूपराशिर्नग्नव्रतः कान्तिसुधावदातः ॥ २९ ॥

तस्यामराधीशकिरीटरत्नशोणप्रभार्द्राविव पादपद्मौ ।
प्रचक्रतुर्विद्रुमबालवल्लीनवप्ररोहाद्भुतगर्वमुर्व्याम् ॥ ३० ॥

सुस्पष्टजानु प्रचितोरुशोभि नाभिह्रदावर्तविभक्तमध्यम् ।
तत्तस्य रूपं प्रविलम्बिबाहोः पीनांसमासीन्मुखपूर्णचन्द्रम् ॥३१ ॥

अनन्यलावण्यसुधाब्धिमध्यस्नातैरिवाङ्गैः स्फटिकावदातैः ।
चक्रे दशाशाः स पृथुप्रकाशा दिगम्बरत्वादिव जातहासाः ॥ ३२ ॥

पाणिस्थितश्याममयूरपिच्छच्छायाच्छटाविच्छुरितोऽस्य कण्ठः ।
रराज लीनान्तरकालकूटमिषाग्निनेवार्पितधूमलेखः ॥ ३३ ॥

स लोचनाभ्यां पृथुपक्ष्मलाभ्यामारक्तपर्यन्तमनोहराभ्याम् ।
व्यधादिवानङ्गनवाङ्गसङ्गे दिगङ्गनानामनुरागदीक्षाम् ॥ ३४ ॥

दृष्ट्वा त्रिलोकीकलिताभिलाषं वपुः स्मरारेर्जनितस्मरं तत् ।
पूर्वापकारस्मृतिजातलज्जं चक्षुः क्षणं क्वापि ययौ तृतीयम् ॥ ३५ ॥

बभौ स कान्तः कुटिलासितेन स्कन्धस्पृशा कुन्तलसंचयेन ।
अन्वेष्टुमिष्टां मुकुटेन्दुलेखां निशागणेनेव समागतेन ॥ ३६ ॥

लतावधूपल्लवपाणिमुक्तैः स्मितावदातैर्विबभौ च पुष्पैः ।
रूपान्तरे निह्नुतजह्नुकन्याफेनावशेषैरिव कीर्णकेशः ॥ ३७ ॥

तेनान्यरूपेण कृता नवैव कान्तिश्चकाशे निजरूपगुप्त्यै ।
जूटादिवेन्दुर्मृदितः कराभ्यां सर्वाङ्गमभ्यङ्गपदे नियुक्तः ॥ ३८ ॥

रूपं विरूपीकृतमन्मथस्य तत्तस्य कान्त्या कमनीयमासीत् ।
लज्जापहाराद्वनदेवतानां सविस्मयो येन नवाभिलाषः ॥ ३९ ॥

विवाससस्तस्य ससङ्गमङ्गे लज्जावतीनां स्पृहयैव पेतुः ।
नेत्राणि विद्याधरसुन्दरीणां लीलारविन्दार्धतिरस्कृतानि ॥ ४० ॥

नभःस्थितानां त्रिदशाङ्गनानां तद्गात्रसौन्दर्यवशीकृतानाम् ।
प्रकम्पशिञ्जानविभूषणानां नेत्रोत्सवोऽभूद्गतिविघ्नभूतः ॥ ४१ ॥

सुसिद्धकन्याञ्जलिपल्लवाग्रविमुक्तनीलोत्पलपुष्पकुञ्जम् ।
अङ्गे जगल्लोचनवर्गमस्य सौन्दर्यसंसक्तमिवाबभासे ॥ ४२ ॥

तद्दर्शने कौतुकनिश्चलानां कर्णावतंसीकृतलोचनानाम् ।
मृगाङ्गनानामपि सस्पृहाभून्नितान्तमन्तःकरणप्रवृत्तिः ॥ ४३ ॥

तस्य प्रवेशे वदनाधिवासलोभभ्रमद्भृङ्गगणाञ्चितानाम् ।
अभूत्सजृम्भश्वसनाकुलानां मुहुर्लतानां कुसुमेषु कम्पः ॥ ४४ ॥

शनैः शनैराश्रमसंनिकर्षं तं यौवनं मूर्तमिवापतन्तम् ।
विलोक्य कान्तं मुनिकामिनीनां मनः प्रहर्षोच्छलितं बभूव ॥ ४५ ॥

तासां तदालोकननिर्निमेषा दृष्टिः परं कर्णपथप्रविष्टा ।
उत्सृष्टलज्जाविपुलाभिलाषादसूचयन्मुग्धमृगीविलासम् ॥ ४६ ॥

तासां तदर्चारभसोत्थितानां स्रस्तांशुकोत्कम्पिघनस्तनीनाम् ।
नवेन कामेन खलीकृतानां जृम्भाभवोऽभूद्भुजयोर्विलासः ॥ ४७ ॥

तासां बभौ रोमलता मुखेन्दुभीता तमःश्रीः स्तनरक्षितेव ।
रागाग्निधूमप्रसराग्र्यलेखा तनीयसी नाभिविनिर्गतेव ॥ ४८ ॥

तस्याधरे चुम्बनलालसेव कण्ठे हठालिङ्गनसस्पृहेव ।
हृदि स्तनन्याससमुत्सुकेव पपात दृष्टिः सहसैव तासाम् ॥ ४९ ॥

भृङ्गस्वनैराहितहुंकृताभिः पुष्प्यत्प्रसूनैः प्रसृतस्मिताभिः ।
वाताञ्चितैः पल्लवपणिभिस्ता निवार्यमाणा इव मञ्जरीभिः ॥ ५० ॥

संतर्ज्यमाना इव होमधूमलेखावलीभ्रूभ्रमणेन दिग्भिः ।
तस्यान्तिके शीलदुकूलमुक्तिसज्जा विलज्जाः प्रसभं बभूवुः ॥ ५१ ॥

निःश्वासिनीनां स्मरबाणपुङ्खपक्षान्तवातैरिव कम्पितानाम् ।
तासां विलोक्यैव मनोविकारं भ्रूभङ्गभीमा मुनिपर्षदासीत् ॥ ५२ ॥

कोपोत्कटव्याघ्रवीर्यमाणक्षमामृगीरक्तचितेव तेषाम् ।
आसन्नदोषागमवासरान्तसंध्यानिभाभूत्सहसैव दृष्टिः ॥ ५३ ॥

दष्टाधराः कम्पविधूर्णमानाः स्वेदार्द्रदेहा विषमं श्वसन्तः ।
ते भेजिरे रागसमुद्गतेर्ष्याः कोपाकुलाः कामुकवृत्तमेव ॥ ५४ ॥

अन्तर्ज्वलत्कोपकृशानुधूमसंकाशकृष्णाजिनबद्धकक्षः।
त्रिदण्डमुद्यम्य जवेन कश्चिदभ्याद्रवन्नग्नतनुं वृषाङ्कम् ॥ ५५ ॥

बृसीं समुत्क्षिप्य सकम्पबाहुश्चिक्षेप कश्चित्क्षमया विहीनः ।
येनासनात्क्ष्माविरहादिवाशु मोहे निरालम्बतनुः पपात ॥ ५६ ॥

कमण्डलुं कश्चिदकाण्डचण्डसंरम्भपिण्डीकृतकोपतुल्यम् ।
आदाय मोहेन पिनाकपाणेः पुरः प्रहाराभिमुखो बभूव ॥ ५७ ॥

तेषाममर्षाद्भृशमक्षमाणां सोढुं निकारं क्षणमक्षमाणाम् ।
प्रापुः प्रयाताः क्षितिमक्षमाला भ्रूभङ्गतां तस्य तपोवनस्य ॥ ५८ ॥

तत्संभ्रमादाश्रममञ्जरीणां कम्पाकुलानां कुसुमान्तरोत्थैः ।
आसीत्प्रमोहप्रतिमोऽन्धकारः शापाक्षरामैर्भ्रमरैर्भ्रमद्भिः ॥ ५९ ॥

ते प्रापुरीर्ष्यापदमन्धकारि वक्त्रं शशाङ्कोपममीक्षमाणाः ।
कण्ठस्थलालोकनकालकूटसंपूरिताक्षा इव मोहमूर्च्छाम् ॥ ६० ॥

ते तं स्मितप्रस्फुरिताधराग्रमुदग्रलावण्यविशेषतर्षाः ।
पत्नीविकारोग्रनिकारमूचुः कण्ठान्तरश्वासविकीर्णवर्णाः ॥ ६१ ॥

कोऽयं विजातिर्विगुणः कलावान्नग्नो वृषाङ्कः प्रविशत्यलज्जः ।
प्रदूषिता येन महर्षिजुष्टा गङ्गेव शुद्धा ललनावलीयम् ॥ ६२ ॥

अनेन संसूचयता निगूढरूपेण दर्पादकुलीनभावम् ।
नीता पवित्रत्वमियं मुनीनां कापालिकेनेव वनान्तभूमिः ॥ ६३ ॥

अहो बतास्य प्रतिभा प्रसह्य सतीसमालिङ्गनसस्पृहस्य ।
केनापि कामत्कुहकक्रमेण कान्तं कृतं रूपमनेन नूनम् ॥ ६४ ॥

उक्त्वेति तस्मै ससृजुः सकोपास्ते दण्डपाषाणबृसीशतानि ।
द्वेषावृताक्ष्णामविवेकजन्मा मोहः प्रमादे गुरुतामुपैति ॥ ६५ ॥

दूरे भवत्यथ शनैः शिशिरांशुमौलौ
तेषं प्रकोपविपुलानलतापितानाम् ।
तद्दर्शनानुसरणप्रसृतस्य यत्नः
पत्नीजनस्य सुतरां विनिवर्तनेऽभूत् ॥ ६६ ॥

अथ स भगवान्भर्गः स्वर्गापगापृथुनिर्झर-
प्रसृतहसितस्तस्मादेशात्क्रमेण तिरोहितः ।
प्रशमविमलं व्योम व्याप्य प्रियामवदत्स्मय-
स्मितसितमुखीं दृष्टं देवि त्वया मुनिचेष्टितम् ॥ ६७ ॥

भस्मस्मेरशरीरता पृथुजटाबन्धः शिरोमुण्डनं
कुण्डी दण्डकमण्डलुप्रणयिता चर्माक्षसूत्रग्रहः ।
काषायव्यसनं निरम्बररुचिः कङ्कालमालाधृतिः
कामक्रोधवशाद्विशेषरुचिरं सर्वं वृथैव व्रतम् ॥ ६८ ॥

दर्पोत्कोपात्परणितजटासूत्रबन्धच्च मोहा-
दन्तःसीदत्सरसविषयास्वादसंवादसङ्गात् ।
आशापाशव्यसननिचयाद्वासनालीनदोषा-
न्नैषां मुक्तिर्भवति तपसा कायसंशोषणेन ॥ ६९ ॥

इत्युक्तं त्रिपुरारिणा गिरिसुता श्रुत्वा यथार्थं वचो
निश्चित्य व्रतमप्रशान्तमनसां मिथ्यैव कायक्षयम् ।
संसारोपरमाय मोहरजसः शान्त्यै मुनीनां परं
रागद्वेषविमुक्तये च दयया चक्रे हरस्यार्थनाम् ॥ ७० ॥

देव्यार्थितोऽथ भगवान्कृपया स्मरारि-
स्तेषामनुग्रहमयेन विलोकनेन ।
चक्रे स्मितस्नपितदिग्वदनो मुनीनां
लीनस्य मोहरजसः सहसैव शान्तिम् ॥ ७१ ॥

तपोविशेषैर्निशितप्रयत्नैस्तस्मान्न कार्यः पृथुमोहदर्पः ।
द्वेषेण रागेण मोहदयेन तपः क्षयं याति सह स्मयेन ॥ ७२ ॥

प्रशान्तोऽन्तस्तृष्णाविषमपरितापः शमजलै-
रशेषः संतोषामृतविसरपानेन वपुषः ।
असङ्गः संभोगः कमलदलकीलालतुल्या
भवारण्ये पुंसां परहितमुदारं खलु तपः ॥ ७३ ॥