पञ्चविंशतिसाहस्रिका
[[लेखकः :|]]

पञ्चविंशतिसाहस्रिका प्रज्ञापारमिता
००१०१ नमो भगवद्यै आर्यप्रज्ञापारमितायै॥
००१०२ निर्विकल्पे नमस्तुभ्यं प्रज्ञापारमितेऽमित्
००१०३ या त्वं सर्वानवद्याङ्गि निरवद्यैर्निरीक्ष्यस्।
००१०४ आकाशमिव निर्लेपां निष्प्रपञ्चां निरक्षराम्॥
००१०५ यस्त्वां पश्यति भावेन स पश्यति तथागतम्॥
००१०६ तव चार्यगुणाद्याया बुद्धस्य च जगद्गुरोः।
००१०७ न पश्यन्त्यन्तरं सन्तश्चन्द्रचन्द्रिकयोरिव् ।
००१०८ कृपात्मकाः प्रपद्य त्वां बुद्धधर्मपुरःसराम्।
००१०९ सुखेनायान्ति माहात्मामतुलं भक्तिवत्सल् ।
००११० सकृदप्याशये शुद्धे यस्त्वां विधिवदीक्षत्
००१११ तेनापि नियतं सिद्धिः प्राप्यतेऽमोघदर्शन् ।

००२०१ सर्वेषामपि वीराणां परार्थे नियतात्मनाम्।
००२०२ पोषिका जनयित्री च माता त्वमसि वत्सला॥
००२०३ यद्बुद्धा लोकगुरवः पुत्रास्तव कृपालवः।
००२०४ तेन त्वमसि कल्याणि सर्वसत्त्वपितामही॥
००२०५ सर्वपारमिताभिस्त्वं निर्मलाभिरनिन्दित्
००२०६ चन्द्रलेखेव ताराभिरनुयातासि सर्वदा॥
००२०७ विनेयं जनमासाद्य तत्र तत्र तथागथैः।
००२०८ बहुरूपा त्वमेवैका नानानामभिरीड्यस्।
००२०९ प्रभां प्राप्येव दीप्तांशोरवश्यायोदबिन्दवः।
००२१० त्वां प्राप्य प्रलयं यान्ति दोषा वादाश्च वादिनाम्॥
००२११ त्वमेव त्रासजननी बालानां भीमदर्शना।
००२१२ आश्वासजननी चासि विदुषां सौम्यदर्शना॥
००२१३ यस्य त्वय्यप्यभिष्वङ्गस्त्वन्नाथस्य न विद्यत्
००२१४ तस्यांब कथमन्यत्र रागद्वेषौ भविष्यतः॥
००२१५ नागच्छसि कुतश्चित्तं न च क्वचन गच्छसि।
००२१६ स्थानेष्वपि च सर्वेषु विद्वद्भिर्नोपलभ्यस्।
००२१७ ये त्वामेवं न पश्यन्ति प्रपद्यन्ते च भावतः।
००२१८ प्रपद्य च विमुच्यन्ते तदिदं महदद्भुतम्॥

००३०१ त्वामेव बध्यते पश्यन्नपश्यन्नपि बध्यत्
००३०२ त्वामेव मुच्यते पश्यन्नपश्यन्नपि मुच्यत् ।
००३०३ अहो विस्मयनीयासि गम्भीरासि यशस्विनी।
००३०४ सुदुर्बोधासि मायेव दृश्यसे न च दृश्यस्।
००३०५ बुद्धैः प्रयेकबुद्धैश्च श्रावकैश्च निषेविता।
००३०६ मार्गस्त्वमेको मोक्षस्य नास्त्यन्य इति निश्चयः॥
००३०७ व्यवहारं पुरस्कृत्य प्रज्ञप्त्यर्थं शरीरिणाम्।
००३०८ कृपया लोकनाथैस्त्वमुच्यसे च न चोच्यस्।
००३०९ शक्तः कस्त्वामिह स्तोतुं निर्निमित्तां निरञ्जनाम्।
००३१० सर्ववाग्विसयातीता या त्वं क्वचिदनिःश्रिता॥
००३११ सत्येवमपि संवृत्या वाक्पथैर्वयमीदृशैः।
००३१२ त्वामस्तुत्यामपि स्तुत्वा तुष्टूषन्तः सुनिर्वृताअः।
००३१३ प्रज्ञापारमितां स्तुत्वा यन्मयोपचितं शुभम्।
००३१४ तेनास्त्वाशु जगत्कृत्स्नं प्रज्ञापारपरायणम्॥

००४०१ एवं मया श्रुतम्। एकस्मिन् समये भगवान् राजगृहे विहरति स्म
००४०२ गृध्रकूटे पर्वते महता भिक्षुसंघेन सार्धं पञ्चमात्रैर्भिक्षुसहस्रैः सर्वैरर्हद्भिः
००४०३ क्षीणास्रवैर्निष्क्लेशैर्वशीभूतैः सुविमुक्तचित्तैः सुविमुक्तप्रज्ञैराजानेयै-
००४०४ र्महानागैः कृतकृत्यैः कृतकरणीयैरपहृतभारैरनुप्राप्रस्वकार्थैः परिक्षीण-
००४०५ भवसंयोजनैः सम्यगाज्ञासुविमुक्तचित्तैः सर्वचेतोवशिपरमपारमिताप्राप्तैः,
००४०६ पञ्चमात्रैर्भिक्षुणीशतैरुपासकैरुपासिकाभिश्च सार्धं सर्वैर्दृष्टधर्मैरपरि-
००४०७ माणैर्श्च बोधिसत्त्वकोटीनियुतशतसहस्रैः सार्धं सर्वैर्धारणीप्रतिलब्धैः
००४०८ शून्यताविहारिभिरनिमित्तगोचरैः प्रणिधानाकल्पितैः क्षान्तिसमताप्रति-
००४०९ लब्धैरसङ्गधारणीप्रतिलब्धैरच्युताभिज्ञैरादेयवचनैरकुहकैरलपकैररपगत-
००४१० ज्ञात्रलाभचित्तैर्निरामिषधर्मदेशकैर्गंभीरधर्मक्षान्तिपारंगतैर्वैशारद्य-
००४११ प्राप्तैर्मारकर्मसमतिक्रान्तैः कर्मावरणप्रतिप्रस्रब्धैर्धर्मप्रविचयविभक्ति-
००४१२ निर्देशकुशलैरसंख्येयकल्पप्रणिधानसुसमारब्धैः स्मितमुखैः पूर्वालापिभि-
००४१३ र्विगतभृकुटीमुखैर्गाथाभिर्गीतालपनकुशलैरपगतलीनचित्तैरनाच्छेद्यप्रति-
००४१४ भानैरनन्तपर्षदभिभवनवैशारद्यसमन्वागैरनन्तकल्पकोटीनिःसरणकुशलै-
००४१५ र्मायामरीचिदकचन्द्रस्वप्नप्रतिश्रुत्काप्रतिभासप्रतिबिम्बनिर्माणोपमधर्मा-

००५०१ धिमुक्तैः सत्त्वगतिचरितसूक्ष्मनानाधिमुक्त्यवतारकुशलैरप्रतिहतचित्तै-
००५०२ रधिमात्रक्सान्तिसमन्वागतैर्याथात्मावतारणकुशलैः सर्वबुद्धक्षेत्रआनन्तव्यूह-
००५०३ प्रणिधानप्रस्थानपरिगृहीतैरसंख्येयलोकधातुबुद्धानुस्मृतिसमाहित-
००५०४ सततसमिताभिमुखीभूतैरपरिमितबुद्धाध्येषणकुशलैर्नानादृष्ट्यनुशयपर्यव-
००५०५ स्थानक्लेशप्रशमनकुशलैः समाधिविक्रीडितशतसहस्रनिर्हारकुशलैः तद्यथा
००५०६ भद्रपालेन च बोधिसत्त्वेन महासत्त्वेन रत्नाकरेण च सार्थवाहेन च नर-
००५०७ दत्तेन च वरुणदत्तेन च शुभगुप्तेन च इन्द्रदत्तेन च उत्तरमतिना च विशेष-
००५०८ मतिना च वर्धमानमतिना च अमोघदर्शिना च सुसम्प्रस्थितेन च सुवि-
००५०९ क्रान्तविक्रमिणा च नित्योद्युक्तेन च अनिक्षिप्तधुरेण च सूर्यगर्भेण च
००५१० अनुपमचिन्तिना च अवलोकितेश्वरेण च महास्थामप्राप्तेन च मञ्जु-
००५११ श्रिया च वज्रमतिना च रत्नमुद्राहस्तेन च नित्योक्षिप्तहस्तेन च मैत्रे-
००५१२ येण च बोधिसत्त्वेन महासत्त्वेन एवं प्रमुखैरनेकैर्बोधिसत्त्वकोटीनियुत-
००५१३ शतसहस्रैः सार्धम्।
००५१४ अथ खलु भगवान् स्वयमेव सिंहासनं प्रज्ञप्य न्यषीदत्पर्यङ्कं बद्ध्वा
००५१५ ऋजुकायं प्रणिधाय अभिमुखीं स्मृतिमुपस्थाप्य समाधिराजं नाम
००५१६ समाधिं समापद्यते स्म यत्र सर्वसमाधयोऽन्तर्गमान् संग्रहं समव-
००५१७ सरणं गच्छन्ति।
००५१८ अथ खलु भगवान् स्मृतिमान् सम्प्रजानंस्तस्मात्समाधेर्व्युत्थाय

००६०१ दिव्येन चक्षुषा सर्वलोकधातुं व्यवलोक्य सर्वकायात्स्मितमकरोत् ।
००६०२ तस्याधस्तात्पादतलयोः सहस्राराभ्यां चक्राभ्यां षष्टिषष्टीरश्मिकोटी-
००६०३ नियुतशतसहस्राणि निश्चेरुः दशभ्यः पादाङ्गुलिभ्यः षष्टिषष्टीरश्मिकोटी-
००६०४ नियुतशतसहस्राणि निश्चेरुः। एवं षष्टिषष्टिगुल्फाभ्यां षष्टिषष्टिर्जंघाभ्यां
००६०५ षष्टिषष्टिर्जानुमण्डलाभ्यामेवं द्वाभ्यामूरुभ्यां कटिनाभिमण्डलाभ्यां द्वाभ्यां
००६०६ पार्श्वाभ्यां हृदयश्रीवत्सात्महापुरुषलक्षणात् । एवं षष्टिषष्टिर्दशभ्यो
००६०७ हस्ताङ्गुलिभ्यः षष्टिषष्टिर्द्वाभ्यां बाहुभ्यां षष्टिषष्टिर्द्वाभ्यामंशाभ्यामेवं ग्रीवा-
००६०८ याश्चत्वारिंशद्भ्यो दन्तेभ्यो द्वाभ्यां घ्राणाभ्यां द्वाभ्यां श्रोत्राभ्यां द्वाभ्यां
००६०९ चक्षुर्भ्यां मध्यादूर्णाया उपरिष्टादुष्णीषात्षष्टिषष्टी रश्मिकोटीनियुत-
००६१० शतसहस्राणि निश्चेरुः यै रश्मिभिरयं त्रिसाहस्रमहासाहस्रो लोकधाउर-
००६११ वभासितोऽभूत्परिस्फुटः। पूर्वस्यां दिशि गङ्गानदीवालुकोपमा लोक-
००६१२ धातवस्तेन महता रश्म्यवभासेन स्फुटा अवभासिताश्चाभूवन्। एवं दक्षि-
००६१३ णस्यां दिशि पश्चिमायामुत्तरस्यामुत्तरपूर्वस्यां पूर्वदक्षिणस्यां दक्षिणपश्चिमायां
००६१४ पश्चिमोत्तरस्यामधस्तादुपरिष्टाद्दिशि गङ्गानदीवालुकोपमा लोकधातव-
००६१५ स्तेन महता रश्म्यवभासेन स्फुटा अवभासिताश्चाभूवन्। ये च सत्त्वास्तेन
००६१६ महता रश्म्यवभासेन स्फुटा अवभासितास्ते सर्वे नियता अभूवननु-
००६१७ त्तरायां सम्यक्सम्बोधौ।

००७०१ अथ खलु भगवान् पुनरेव सर्वरोमकूपेभ्यः स्मितमकरोत् । एवकिकतश्च
००७०२ रोमकूपात्षष्टिषष्टीरश्मिकोटीनियुतशतसहस्राणि निश्चेरुः। यैरयं
००७०३ त्रिसाहस्रमहासाहस्रो लोकधातुरवभासितः स्फुटोऽभूत् । तैश्च पूर्वस्यां
००७०४ दिशि गङ्गानदीवालुकोपमाः सर्वलोकधातवोऽवभासेनावभासिताः स्फुटा-
००७०५ श्चाभूवन्। एवं दक्षिणस्यां दिशि पश्चिमायामुत्तरस्यामुत्तरपूर्वस्यां पूर्वदक्षिणस्यां दक्षिणपश्चिमायां पश्चिमोत्तरस्यामधस्तादुपरिष्टाद्दिशि गङ्गानदीवालुकोपमा लोकधातवस्तेन महता रश्म्यवभासेन स्फुटा अवभासिताश्चाभूवन्। ये च सत्त्वास्तेन महता रश्म्यवभासेन स्फुटा अवभासितास्ते सर्वे नियता अभूवननुत्तरायां सम्यक्-
००७०६ सम्बोधौ।
००७०७ अथ खलु भगवान् पुनरेव या सा बुद्धानां भगवतां प्रकृतिप्रभा तया
००७०८ प्रभया त्रिसाहस्रमहासाहस्रं लोकधातुमवभासयामास् यावत्सर्वासु
००७०९ दशसु दिक्षु एकैकस्यां दिशि गङ्गानदीवालुकोपमा लोकधातवयस्ता
००७१० प्रभया अवभासिता अभूवन्। ये च सत्त्वास्तया प्रभया स्पृष्टास्ते सर्वे
००७११ नियता अभूवननुत्तरायां सम्यक्सम्बोधौ॥
००७१२ अथ खलु भगवांस्तस्यां वेलायां जिह्वेन्द्रियं निर्णामयामास् येनेमं
००७१३ त्रिसाहस्रमहासाहस्रं लोकधातुं जिह्वेन्द्रियेणाच्छादयामास् त्रिसाहस्र-
००७१४ महासाहस्रं लोकधातुं जिह्वेन्द्रियेण स्फुरित्वा तस्माज्जिह्वेन्द्रियात्स्मित-
००७१५ मकरोत् । यतोऽनेकानि रश्मिकोटीनियुतशतसहस्राणि निश्चेरुः।
००७१६ रश्मिमुखे चैकैकस्मिन्नुत्तमरत्नमयानि सुवर्णनिर्भासानि सहस्रपत्राणि
००७१७ पद्मान्युत्पन्नान्यभूवन्। तेषु च पद्मेषु बुद्धविग्रहा निषणाः संस्थिता-
००७१८ श्चाभूवन् धर्मं देशयन्तो यदुत इमामेव षट्पारमिताप्रतिसंयुक्तां धर्म-
००७१९ देशनाम्। ते पूर्वस्यां दिशि गङ्गानदीवालुकोपमव्यतिवृत्तासंख्येषु लोक-
००७२० धातुषु गत्वा सत्त्वानां धर्मं देशयन्ति स्म् एवं दक्षिणस्यां पश्चिमाया-

००८०१ मुत्तरस्यामधस्तादूर्ध्वं दिग्विदिक्षु। एवकिकस्यां च दिशि दशसु दिक्षु गङ्गा-
००८०२ नदीवालुकोपमेषु अपरिमाणेषु लोकधातुषु गत्वा सत्त्वानां धर्मं देशयन्ति
००८०३ स्म यदुत इमामेव च षट्पारमिताप्रतिसंयुक्तां धर्मदेशनाम्। ये च सत्त्वा-
००८०४ स्तां धर्मदेशनां शृण्वन्ति ते नियता भवन्त्यनुत्तरायां सम्यक्सम्बोधौ।
००८०५ अथ खलु भगवांस्तस्मिन्नेव सिंहासने निषणः सिंहविक्रीडितं
००८०६ नाम समाधिं समापेद् तथारुपं चर्द्ध्यभिसंस्कारमभिसंस्करोति स्म
००८०७ यथारूपेणर्द्ध्यभिसंस्कारेणाभिसंस्कृतेनायं त्रिसाहस्रमहासाहस्रो लोक-
००८०८ धातुः षड्विकारमकम्पत प्राकम्पत संप्राकम्पत् अचलत्प्राचलत्
००८०९ संप्राचलत् । अवेधत्प्रावेधत्संप्रावेधत् । अरणत्प्रारणत्
००८१० संप्रारणत् । अक्षुभ्यत्प्राक्षुभ्यत्संप्राक्षुभ्यत् । अगर्जत्प्रागर्जत्
००८११ संप्रागर्जत् । अन्ते उन्नमति मध्ये अवनमति, मध्ये उन्नमति अन्ते
००८१२ अवनमति। मृदुकः स्निग्धः सर्वसत्त्वमुखजननोऽभूत् ।
००८१३ अथ खलु तेन क्षणलवमुह्वर्तेन येऽस्मिंस्त्रिसाहस्रमहासाहस्रे लोक-
००८१४ धातौ निरया वा तिर्यग्योनयो वा यमलोका वा ते सर्वे समुच्छिन्नाः
००८१५ शून्या अभूवन्। सर्वाक्षणाश्चास्तमिता अभूवन्। ये च सत्त्वास्ताभ्यो
००८१६ निरयतिर्यग्योनियमलोकगतिभ्यश्च्यूतास्ते सर्वए तेनैव प्रीतिप्रामोद्येन
००८१७ मनुष्याणां सभागतायामुपपन्नाश्चाभूवन्। एवं चातुर्महाराअजिकानां
००८१८ देवानां त्रयस्त्रिंशानां यामानां तुषितानां निर्माणरतीनां परनिर्मित-
००८१९ वशवर्तिनां देवानां सभागतायामुपपन्नाश्चाभूवन्।

००९०१ अथ खलु ते मनुष्यास्ते च देवा भगवत एवानुभावेन पूर्वजन्मान्यनु-
००९०२ स्मरन्ति स्म् अनुस्मृत्य च तेनैव प्रीतिप्रामोद्येन येन भगवांस्तेनोप-
००९०३ संक्रान्ताः। उपसंक्रम्य भगवतः पादौ शिरोभिरभिवन्द्य भगवन्तं
००९०४ प्राञ्जलयो भूत्वा नमस्यन्ति स्म् एवं पूर्वस्य्ं दिशि गङ्गानदीवालुकोप-
००९०५ मेषु लोकधातुषु दक्षिणस्यां पश्चिमायामुत्तरस्यां विदिक्षूर्ध्वमधः समन्ता-
००९०६ द्दशसु दिक्ष्वैकस्मिन् दिग्भागे गङ्गानदीवालुकोपमेषु लोकधातुषु सर्वे
००९०७ निरयाः सर्वास्तिर्यग्योनयः सर्वे यमलोकाः समुच्छिन्नाः शून्या अभूवन्।
००९०८ सर्वाक्षणाश्चास्तमिता अभूवन्। ये च सत्त्वास्ताभ्यो निरयतिर्यग्योनि-
००९०९ यमलोकगतिभ्यश्च्युतास्ते सर्वे देवमनुष्येषूपपद्यन्ते स्म् ते च देवमनु-
००९१० ष्येषूपपन्ना भगवत एवानुभावेन पूर्वनिवासमनुस्मरन्ति स्म् अनुस्मृत्य च
००९११ तेनैव प्रीतिप्रामोद्येन स्वकस्वकेषु बुद्धक्षेत्रेषु ये तत्र बुद्धा भगवन्त उत्पन्ना-
००९१२ स्तेषामन्तिकमुपसंक्रान्ताः। उपसंक्रम्य तेषां बुद्धानां भगवतां पाद-
००९१३ वन्दनां कृत्वा सर्वे प्राञ्जलयो भूत्वा भगवतो नमस्यन्ति स्म्
००९१४ अथ खलु येऽस्मिंस्त्रिसाहस्रमहासाहस्रे लोकधातौ जात्यन्धाः
००९१५ सत्त्वास्ते चक्षुषा रूपाणि पश्यन्ति स्म् वधिराः सत्त्वाः श्रोत्रेण शब्दान्
००९१६ शृण्वन्ति स्म् उन्मत्ताः स्मृतिं प्रतिलभन्ते स्म् विक्षिप्तचित्ता
००९१७ एकाग्रचित्ता भवन्ति स्म् जिघत्सिताः पूर्णपात्रा भवन्ति स्म्
००९१८ तृषिता विगतपिपासा भवन्ति स्म् रोगस्पृष्टा विअगतरोगा भवन्ति
००९१९ स्म् हीनेन्द्रियाः परिपूर्णेन्द्रिया भवन्ति स्म् अविरहिताकुशल-
००९२० कायवाङ्मनस्कर्मान्ताजीवाविरहिताकुशलकायवाङ्मनस्कर्मान्ताजीवाश्च

०१००१ भवन्ति स्म् सर्वसत्त्वाश्च मातापितृसमचित्ता भवन्ति स्म, भ्रातृभगिनी-
०१००२ समचित्ता मित्रामात्यज्ञातिसालोहितसमचित्ता दशकुशलकर्मपथ-
०१००३ सेविनश्च भवन्ति स्म् ब्रह्मचारिणः शुचयो निरामयगन्धाः सर्वसत्त्वाश्च
०१००४ सर्वसुखसमर्पिता ईदृशं सुखं प्रत्लभन्ते स्म तद्यथापि नाम तृतीयध्यान-
०१००५ समापन्नस्य भिक्षोः तस्मिन्नेव च समये एवंरूपया प्रज्ञया ते समन्वागता
०१००६ भवन्ति स्म् यदन्यबुद्धक्षेत्रस्था बुद्धा भगवन्त एवमुदानयन्ति स्म
०१००७ साधु दमः साधु संयमः साधु वीर्णो ब्रह्मचर्य्यावासः साधु प्राणिभूते-
०१००८ ष्वविहिंसेति।
०१००९ अथ खलु भगवांस्तस्मिन्नेव संहासने निषनः इमं त्रिसाहस्रमहा-
०१०१० साहस्रं लोकधातुमभिभूय तथागतस्तिष्ठति भासते तपति विरोचते स्म
०१०११ आभया वर्णेन श्रिया तेजसा च् पूर्वस्यां दिशि दक्षिणस्यां पश्चिमाया-
०१०१२ मुत्तरस्यामधस्तादूर्ध्वं दिग्विदिक्षु गङ्गानदीवालुकोपमान् लोकधातूनभिभूय
०१०१३ तथागतस्तिष्ठति भासत् तद्यथापि नाम सुमेरुः पर्वतराजः सर्वपर्वता-
०१०१४ नभिभूय तिष्ठति भासते तपति विरोचते स्म आभया वर्णेन श्रिया तेजसा च्
०१०१५ एवमेव भगवान् सर्वलोकधातूनभिभूय तिष्ठति भासते तपति विरोचते स्म आभया वर्णेन श्रिया
०१०१६ तेजसा च् एवमेव भगवान् सर्वलोकधातूनभिभूय
०१०१७ तिष्ठति भासते तपति विरोचते स्म आभया वर्णेन श्रिया तेजसा च्
०१०१८ अथ खलु भगवान् पुनरेव यादृक्त्रिसाहस्रमहासाहस्रलोकधातौ
०१०१९ सत्त्वानामात्मभावस्तत्समानमात्मभावं प्राकृतमुपदर्शयामास् अथ खलु
०१०२० येऽस्मिंस्त्रिसाहस्रमहासाहस्रलोकधातौ शुद्धावासकायिका देवाः शुभ-

०११०१ कृत्वा आभास्वरा ब्रह्मकायिका देवाः परनिर्मितवशवर्तिनश्च निर्माण-
०११०२ रतयश्च तुषिताश्च यामाश्च त्रयस्त्रिंशाश्च चातुर्महाराजकायिकाश्च देवास्ते
०११०३ तं तथागस्यासेचनकमात्मभावं दृष्ट्वा दिव्याः पुष्पधूपगन्धमाल्यविले-
०११०४ पनचूर्णचीवरच्छत्त्रध्वजपताकावैजयन्तीर्गृहीत्वा दिव्यानि उत्पलकुमुद-
०११०५ सौगन्धिकपुण्डरीकपद्मानि गृहीत्वा दिव्यानि च केशरतमालपत्राणि
०११०६ गृहीत्वा येन तथागतस्यासेचनक आत्मभावस्तेनोपसंक्रान्ताः। ये चेह
०११०७ त्रिसाहस्रमहासाहस्रलोकधातौ मनुष्यास्तेऽपि तं तथागतस्यासेचनक-
०११०८ मात्मभावं दृष्ट्वा स्थलजलजानि पुष्पाणि गृहीत्वा येन तथागतस्या-
०११०९ सेचनक आत्मभावस्तेनोपसंक्रान्ताः।
०१११० अथ खलु ते देवास्ते च मानुषास्ताभिर्दिव्याभिः पुष्पधूपगन्ध-
०११११ माल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकावैजयन्तीभिस्तैश्च स्थलजलजैः
०१११२ पुष्पैस्तथागतकायमवकिरन्ति स्म अभ्यवकिरन्ति स्म्
०१११३ अथ खलु यैस्तैः पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वज-
०१११४ पताकावैजयन्तीवर्षैः स्थलजलजैश्च पुष्पैर्भगवानवकीर्णस्तानि च सर्वाणि
०१११५ उपर्यन्तरीक्षे भगवतोऽधिष्ठानेन त्रिसाहस्रमहासाहस्रलोकधातुप्रमाण-
०१११६ मेकं कूटागारं संस्थितमभूत् । ततश्च कूटागारात्तानि दिव्यानि
०१११७ पुष्पपट्टदामानि लम्बन्ते प्रलम्बन्ते स्म् तैश्च पुष्पदामभिः पट्टदामभि-
०१११८ श्चायं त्रिसाहस्रमहासाहस्रो लोकधातुरतीवाशोभत् तेन च सुवर्ण-
०१११९ वर्णेन भगवतः प्रभावभासेन दशसु दिक्षु प्रसृतेन एकैकस्यां दिशि गङ्गा-

०१२०१ नदीवालुकोपमा लोकधातवः स्फुटावभासिताश्चाभूवन्। अस्मिंश्च
०१२०२ त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वेषु चातुर्द्वीपकेषु लोकधातुषु तेषां
०१२०३ देवमनुष्याणाञ्च एकैकस्यैतदभूत् । मम पुरतस्तथागतो निषणो
०१२०४ धर्म्मं देशयतीति।
०१२०५ अथ खलु भगवांस्तस्मिन्नेव सिंहासने निषणः पुनरेव स्मितमकरोत् ।
०१२०६ येन स्मितावभासेनायं त्रिसाहस्रमहासाहस्रलोकधातुः स्फुटोऽभूत् ।
०१२०७ यावद्दशसु दिक्षु गङ्गानदीवालुकोपमा लोकधातवः स्फुटा अभूवन्। ये
०१२०८ च त्रिसाहस्रमहासाहस्रलोकधातौ सत्त्वास्ते सर्वे पूर्वस्यां दिशि गङ्गा-
०१२०९ नदीवालुकोपमेषु लोकधातुषु बुद्धान् भगवतः पश्यन्ति स्म सश्रावकसंघान्
०१२१० तस्याञ्च पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु ये सत्त्वास्ते
०१२११ सर्वे इमां सहालोकधातुं पश्यन्ति स्म शाक्यमुनिं च तथागतं सार्धं
०१२१२ भिक्षुसंघेन् एवं दक्षिणस्यां दिशि पश्चिमायामुत्तरपूर्वस्यां पूर्वदक्षिणस्यां
०१२१३ दक्षिणपश्चिमायां पश्चिमोत्तरस्यामध ऊर्ध्वं दिग्भागं गङ्गानदीवालु-
०१२१४ कोपमेषु लोकधातुषु बुद्धान् भगवतः पश्यन्ति स्म सश्रावकसंघान्। तेषु
०१२१५ च गङानदीवालुकोपमेषु लोकधातुषु ये सत्त्वास्ते सर्वे इमां सहालोक-
०१२१६ धातुं पश्यन्ति स्म शाक्यमुनिञ्च तथागतं सार्धं भिकुसंघेन्
०१२१७ अथ खलु पूर्वस्यां दिशि गङ्गानदीवालुकोपमान् लोकधातूनतिक्रम्य
०१२१८ तेभ्यो यः सर्वावसानिको लोकधातू रत्नावती नाम तत्र रत्नाकरो नाम
०१२१९ तथागतोऽर्हन् सम्यक्संबुद्धस्तिष्ठति ध्रियते यापयति। स इमामेव
०१२२० प्रज्ञापारमितां बोधिसत्त्वानां धर्मं देशयति। अथ तत्र लोकधातौ
०१२२१ समन्तरश्मिर्नाम बोधिसत्त्वो महासत्त्वस्तं महान्तमवभासं दृष्ट्वा तञ्च
०१२२२ महान्तं पृथिवीचालं तञ्च भगवत आसेचनकमात्मभावं दृष्ट्वा येन भगवान्
०१२२३ रत्नाकरस्तथागतोऽर्हन् सम्य्कसंबुद्धस्तेनोपसंक्रामदुपसंक्रम्य तस्य भगवतः
०१२२४ पादावभिवन्द्य तं तथागतं रत्नाकरमेतदवोचत् । को भगवन् हेतुः कः

०१३०१ प्रत्ययोऽस्य महतोऽवभासस्य लोके प्रादुर्भावाय अस्य च महतः पृथिवी-
०१३०२ चालस्य अस्य च तथागतस्यासेचनकात्मभावस्य सन्दर्शनाय् एवमुक्ते
०१३०३ रत्नाकरस्तथागतः समन्तरश्मिं बोधिसत्त्वमेतदवोचत् । अस्ति कुलपुत्र
०१३०४ इतः पश्चिमायां दिशि गङ्गानदीवालुकोपमान् लोकधातूनतिक्रम्य सहा
०१३०५ नाम लोकधतुस्तत्र शाक्यमुनिर्नाम तथागतोऽर्हन् सम्यक्सम्बुद्धस्तिष्ठति
०१३०६ ध्रियते यापयति। स बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां सम्प्र-
०१३०७ काशयति तस्यायामीदृशोऽनुभावः।
०१३०८ अथ खलु समन्तरश्मिर्बोधिसत्त्वो रत्नाकरं तथागत्मेतदवोचत् ।
०१३०९ गमिस्याम्यहं भगवंस्तां सहां लोकधातुं तञ्च शाक्यमुनिं तथागतं दर्श-
०१३१० नाय वन्दनाय पर्युपासनाय तांश्च बोधिसत्त्वान्महासत्त्वान् भूयस्त्वेन
०१३११ कुमारभूतान् धारणीप्रतिलब्धान् समाधिनिर्हारकुशलान् सर्वसमाधि-
०१३१२ वशिपारमितां गतान्। भगवानाह गच्छ त्वं कुलपुत्र यस्येदानीं
०१३१३ कालं मन्यस्
०१३१४ अथ खलु रत्नाकरस्तथागतो नानारत्नमयानि सुवर्णावभासानि
०१३१५ सहस्रपत्राणि पद्मानि समन्तरश्मये बोधिसत्त्वाय प्रादात् । एतैस्त्वं
०१३१६ कुलपुत्र पद्मैस्तं शाक्यमुनिं तथागतमभ्यवकिरेः। एवञ्च वदेः रत्नाकरो
०१३१७ भगवान् भगवन्तमल्पाबाधतां परिपृच्छत्यल्पातङ्कतां लघूत्थानतां यात्रां
०१३१८ बलं सुखस्पर्शविहारतां परिपृच्छति। इमानि च तेन भगवता रत्ना-
०१३१९ करेण तथागतेनार्हता सम्यक्संबुद्धेन पद्मानि प्रहितानि भगवत
०१३२० इति। सम्प्रजानकारी च त्वं कुलपुत्र बुद्धक्षेत्रे भूयाः। तत्कस्य हेतो-
०१३२१ र्दुरासदा हि ते बोधिसत्त्वा ये तत्र सहायां लोकधातौ उपपन्नाः।

०१४०१ अथ खलु समन्तरश्मिर्बोधिसत्त्वो रत्नाकरस्य तथागतस्य सकाशात्
०१४०२ तानि नानारत्नमयानि पद्मानि गृहीत्वा सुवर्णनिर्भासानिःसहस्रपत्राणि
०१४०३ अनेकैर्बोधिसत्त्वकोटिनियुतशतसहस्रैर्गृहस्थैः प्रव्रजितैश्च दारकैर्दारिका-
०१४०४ भिश्च सार्धं परिवृतः पुरस्कृतः पूर्वस्यां दिशि तेषु गङ्गानदीवालुकोपमेषु
०१४०५ लोकधातुषु बुद्धानां भगवतः सत्कुर्वन् गुरूकुर्वन्मानयन् पूजयन् पुष्प-
०१४०६ धूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकावैजयन्तीभिर्येनेयं सहा
०१४०७ लोकधातुस्तेन संप्राप्तः। येन च शाक्यमुनिस्तथागतस्तेनोपसंक्रान्तः।
०१४०८ उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य एकान्तेऽतिष्ठत् । एकान्ते
०१४०९ स्थितश्च समन्तरश्मिर्बोधिसत्त्वो भगवन्तं शाक्यमुनिमेतदवोचत् । रत्ना-
०१४१० करो भगवान् भगवन्तमल्पाबाधतां परिपृच्छत्यल्पातङ्कतां लघूत्थानतां
०१४११ यात्रां बलं सुखस्पर्शविहारतां च परिपृच्छति। इमानि च तेन भगवता
०१४१२ रत्नाकरेण तथागतेन नानारत्नमयानि सुवर्णनिर्भासानि सहस्रपत्राणि
०१४१३ पद्मानि प्रेषितानि भगवतः।
०१४१४ अथ खलु भगवान् शाक्यमुनिस्तथागतस्तानि पद्मानि गृहीत्वा
०१४१५ येन ते पूर्वस्यां दिशि गङ्गानदीवालुकोपमा लोकधातवस्तेन प्राक्षिपत् ।
०१४१६ तैश्च पद्मैस्ते लोकधातवः स्फुटा अभूवन्। तेषु च पद्मेषु बुद्धविग्रहा-
०१४१७ निषणकाः तेषु च बुद्धक्षेत्रेषु धर्मं देशयन्ति यदुतेमामेव प्रज्ञापार-
०१४१८ मिताप्रतिसंयुक्तां धर्मदेशनाम्। यैश्च सत्त्वैः स धर्मः श्रुतस्ते नियता
०१४१९ अभूवननुत्तरायां सम्यक्सम्बोधौ।
०१४२० अथ खलु ते बोधिसत्त्वास्ते च गृहस्थास्ते च प्रव्रजितास्ते च दारका-
०१४२१ स्ताश्च दारिकास्ततो रत्नावत्या लोकधातोः समन्तरश्मिना बोधिसत्त्वेन
०१४२२ महासत्त्वेन सार्धमागताः स्वकस्वकैः कुशलमूलैर्भगवन्तं शाक्यमुनिं
०१४२३ सत्कृत्य गुरूकृत्य सम्मान्य संपूज्यैकान्ते न्यषीदन्।

०१५०१ अथ खलु दक्षिणस्यां दिशि गङ्गानदीवालुकोपमान् लोकधातूनतिक्रम्य तेभ्यो यः सर्वावसानिको लोकधातुः
०१५०२ सर्वशोकापगतो नाम तत्राशोकश्रीर्नाम तथागतः ऽर्हन् सम्यक्संबुद्धस्तिष्ठति ध्रियते यापयति। स इमामेव प्रज्ञापारमितां बोधिसत्त्वानां धर्मं देशयति। अथ
०१५०३ तत्र लोकधातौ विगतशोको नाम बोधिसत्त्वः महासत्त्वस्तं महान्तमवभासं दृष्ट्वा तञ्च महान्तं पृथिवीचालं तञ्च भगवत आसेचनकमात्मभावं दृष्ट्वा येन भगवान् रत्नाकरस्तथागतोऽर्हन् सम्य्कसंबुद्धस्तेनोपसंक्रामदुपसंक्रम्य तस्य भगवतः पादावभिवन्द्य तं तथागतं रत्नाकरमेतदवोचत् । को भगवन् हेतुः कः प्रत्ययोऽस्य महतोऽवभासस्य लोके प्रादुर्भावाय अस्य च महतः पृथिवीचालस्य अस्य च तथागतस्यासेचनकात्मभावस्य सन्दर्शनाय् एवमुक्ते रत्नाकरस्तथागतः समन्तरश्मिं बोधिसत्त्वमेतद् अवोचत् । अस्ति
०१५०४ कुलपुत्र इत उत्तरस्यां दिशि गङ्गानदीवालुकोपमान् लोकधातूनतिक्रम्य सहा नाम लोकधातुः तत्र शाक्यमुनिर्नाम तथागतोऽर्हन् सम्यक्सम्बुद्धस्तिष्ठति ध्रियते यापयति। स बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां सम्प्रकाशयति तस्यायामीदृशोऽनुभावः। अथ खलु समन्तरश्मिर्बोधिसत्त्वो रत्नाकरं तथागत्मेतदवोचत् । गमिस्याम्यहं भगवंस्तां सहां लोकधातुं तञ्च शाक्यमुनिं तथागतं दर्शनाय वन्दनाय पर्युपासनाय तांश्च बोधिसत्त्वान्महासत्त्वान् भूयस्त्वेन कुमारभूतान् धारणीप्रतिलब्धान् समाधिनिर्हारकुशलान् सर्वसमाधिवशिपारमितां गतान्। भगवानाह गच्छ त्वं कुलपुत्र यस्येदानीं कालं मन्यस् अथ खलु रत्नाकरस्तथागतो नानारत्नमयानि सुवर्णावभासानि सहस्रपत्राणि पद्मानि समन्तरश्मये बोधिसत्त्वाय प्रादात् । एतैस्त्वं कुलपुत्र पद्मैस्तं शाक्यमुनिं तथागतमभ्यवकिरेः। एवञ्च वदेः रत्नाकरो भगवान् भगवन्तमल्पाबाधतां परिपृच्छत्यल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां परिपृच्छति। इमानि च तेन भगवता रत्नाकरेण तथागतेनार्हता सम्यक्संबुद्धेन पद्मानि प्रहितानि भगवत इति। सम्प्रजानकारी च त्वं कुलपुत्र बुद्धक्षेत्रे भूयाः। तत्कस्य हेतोर्दुरासदा हि ते बोधिसत्त्वा ये तत्र सहायां लोकधातौ उपपन्नाः। अथ खलु समन्तरश्मिर्बोधिसत्त्वो रत्नाकरस्य तथागतस्य सकाशात्तानि नानारत्नमयानि पद्मानि गृहीत्वा सुवर्णनिर्भासानिःसहस्रपत्राणि अनेकैर्बोधिसत्त्वकोटिनियुतशतसहस्रैर्गृहस्थैः प्रव्रजितैश्च दारकैर्दारिकाभिश्च सार्धं परिवृतः पुरस्कृतः पूर्वस्यां दिशि तेषु गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धानां भगवतः सत्कुर्वन् गुरूकुर्वन्मानयन् पूजयन्
पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकावैजयन्तीभिर्येनेयं सहा लोकधातुस्तेन संप्राप्तः। येन च शाक्यमुनिस्तथागतस्तेनोपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य एकान्तेऽतिष्ठत् । एकान्ते स्थितश्च समन्तरश्मिर्बोधिसत्त्वो भगवन्तं शाक्यमुनिमेतदवोचत् । रत्नाकरो भगवान् भगवन्तमल्पाबाधतां परिपृच्छत्यल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां च परिपृच्छति। इमानि च तेन भगवता रत्नाकरेण तथागतेन नानारत्नमयानि सुवर्णनिर्भासानि सहस्रपत्राणि पद्मानि प्रेषितानि भगवतः। अथ
०१५०५ खलु भगवान् शाक्यमुनिः तथागतस्तानि पद्मानि गृहीत्वा येन ते दक्षिणस्यां दिशि गङ्गानदीवालुकोपमा लोकधातवस्तेन प्राक्षिपत् ।
०१५०६ तैश्च पद्मैः ते लोकधातवः स्फुटा अभूवन्। तेषु च पद्मेषु बुद्धविग्रहानिषणकाः तेषु च बुद्धक्षेत्रेषु धर्मं देशयन्ति यदुतेमामेव प्रज्ञापारमिताप्रतिसंयुक्तां धर्मदेशनाम्। यैश्च सत्त्वैः स धर्मः श्रुतस्ते नियता अभूवननुत्तरायां सम्यक्सम्बोधौ। अथ खलु ते बोधिसत्त्वास्ते च गृहस्थास्ते च प्रव्रजितास्ते च दारकास्ताश्च दारिकास्ततो रत्नावत्या लोकधातोः समन्तरश्मिना बोधिसत्त्वेन महासत्त्वेन सार्धमागताः स्वकस्वकैः कुशलमूलैर्भगवन्तं शाक्यमुनिं सत्कृत्य गुरूकृत्य सम्मान्य संपूज्यैकान्ते न्यषीदन्।
०१५०७ अथ खलु पश्चिमायां दिशि गङ्गानदीवालुकोपमान् लोकधातूनतिक्रम्य तेभ्यो यः सर्वासानिको लोकधातुरुपशान्ता
०१५०८ नाम तत्र रत्नार्चिर्नाम तह्तागतः ऽर्हन् सम्यक्संबुद्धस्तिष्ठति ध्रियते यापयति। स इमामेव प्रज्ञापारमितां बोधिसत्त्वानां धर्मं देशयति। अथ तत्र लोकधातौ
०१५०९ चारित्रमतिर्नाम बोधिसत्त्वः महासत्त्वस्तं महान्तमवभासं दृष्ट्वा तञ्च महान्तं पृथिवीचालं तञ्च भगवत आसेचनकमात्मभावं दृष्ट्वा येन भगवान् रत्नाकरस्तथागतोऽर्हन् सम्य्कसंबुद्धस्तेनोपसंक्रामदुपसंक्रम्य तस्य भगवतः पादावभिवन्द्य तं तथागतं रत्नाकरमेतदवोचत् । को भगवन् हेतुः कः प्रत्ययोऽस्य महतोऽवभासस्य लोके प्रादुर्भावाय अस्य च महतः पृथिवीचालस्य अस्य च तथागतस्यासेचनकात्मभावस्य सन्दर्शनाय् एवमुक्ते रत्नाकरस्तथागतः समन्तरश्मिं बोधिसत्त्वमेतद् अवोचत् । अस्ति कुलपुत्र इतः पूर्वस्यां
०१५१० दिशि गङ्गानदीवालुकोपमान् लोकधातूनतिक्रम्य सहा नाम लोकधातुः तत्र शाक्यमुनिर्नाम तथागतोऽर्हन् सम्यक्सम्बुद्धस्तिष्ठति ध्रियते यापयति। स बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां सम्प्रकाशयति तस्यायामीदृशोऽनुभावः। अथ खलु समन्तरश्मिर्बोधिसत्त्वो रत्नाकरं तथागत्मेतदवोचत् । गमिस्याम्यहं भगवंस्तां सहां लोकधातुं तञ्च शाक्यमुनिं तथागतं दर्शनाय वन्दनाय पर्युपासनाय तांश्च बोधिसत्त्वान्महासत्त्वान् भूयस्त्वेन कुमारभूतान् धारणीप्रतिलब्धान् समाधिनिर्हारकुशलान् सर्वसमाधिवशिपारमितां गतान्। भगवानाह गच्छ त्वं कुलपुत्र यस्येदानीं कालं मन्यस् अथ खलु रत्नाकरस्तथागतो नानारत्नमयानि सुवर्णावभासानि सहस्रपत्राणि पद्मानि समन्तरश्मये बोधिसत्त्वाय प्रादात् । एतैस्त्वं कुलपुत्र पद्मैस्तं शाक्यमुनिं तथागतमभ्यवकिरेः। एवञ्च वदेः रत्नाकरो भगवान् भगवन्तमल्पाबाधतां परिपृच्छत्यल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां परिपृच्छति। इमानि च तेन भगवता रत्नाकरेण तथागतेनार्हता सम्यक्संबुद्धेन पद्मानि प्रहितानि भगवत इति। सम्प्रजानकारी च त्वं कुलपुत्र बुद्धक्षेत्रे भूयाः। तत्कस्य हेतोर्दुरासदा हि ते बोधिसत्त्वा ये तत्र सहायां लोकधातौ उपपन्नाः। अथ खलु समन्तरश्मिर्बोधिसत्त्वो रत्नाकरस्य तथागतस्य सकाशात्तानि नानारत्नमयानि पद्मानि गृहीत्वा सुवर्णनिर्भासानिःसहस्रपत्राणि अनेकैर्बोधिसत्त्वकोटिनियुतशतसहस्रैर्गृहस्थैः प्रव्रजितैश्च दारकैर्दारिकाभिश्च सार्धं परिवृतः पुरस्कृतः पूर्वस्यां दिशि तेषु गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धानां भगवतः सत्कुर्वन् गुरूकुर्वन्मानयन् पूजयन् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकावैजयन्तीभिर्येनेयं सहा
लोकधातुस्तेन संप्राप्तः। येन च शाक्यमुनिस्तथागतस्तेनोपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य एकान्तेऽतिष्ठत् । एकान्ते स्थितश्च समन्तरश्मिर्बोधिसत्त्वो भगवन्तं शाक्यमुनिमेतदवोचत् । रत्नाकरो भगवान् भगवन्तमल्पाबाधतां परिपृच्छत्यल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां च परिपृच्छति। इमानि च तेन भगवता रत्नाकरेण तथागतेन नानारत्नमयानि सुवर्णनिर्भासानि सहस्रपत्राणि पद्मानि प्रेषितानि भगवतः। अथ खलु भगवान्
०१५११ शाक्यमुनिः तथागतस्तानि पद्मानि गृहीत्वा येन ते पश्चिमायां दिशि गङ्गानदीवालुकोपमा लोकधातवस्तेन प्राक्षिपत् । तैश्च पद्मैः ते लोकधातवः स्फुटा अभूवन्। तेषु च पद्मेषु बुद्धविग्रहानिषणकाः तेषु च बुद्धक्षेत्रेषु धर्मं देशयन्ति यदुतेमामेव प्रज्ञापारमिताप्रतिसंयुक्तां धर्मदेशनाम्। यैश्च सत्त्वैः स धर्मः श्रुतस्ते नियता अभूवननुत्तरायां सम्यक्सम्बोधौ। अथ खलु ते बोधिसत्त्वास्ते च गृहस्थास्ते च प्रव्रजितास्ते च दारकास्ताश्च दारिकास्ततो रत्नावत्या लोकधातोः समन्तरश्मिना बोधिसत्त्वेन महासत्त्वेन सार्धमागताः स्वकस्वकैः कुशलमूलैर्भगवन्तं शाक्यमुनिं सत्कृत्य गुरूकृत्य सम्मान्य संपूज्यैकान्ते
०१५१२ न्यषीदन्।
०१५१३ अथ खलु उत्तरस्यां दिशि गङ्गानदीवालुकोपमान् लोकधातूनतिक्रम्य तेभ्यो यः सर्वासानिको लोकधातुर्जया
०१५१४ नाम तत्र जयेन्द्रो नाम तथागतः ऽर्हन् सम्यक्संबुद्धस्तिष्ठति ध्रियते यापयति। स इमामेव प्रज्ञापारमितां बोधिसत्त्वानां धर्मं देशयति। अथ तत्र लोक-
०१५१५ धातौ जयदत्तो नाम बोधिसत्त्वः महासत्त्वस्तं महान्तमवभासं दृष्ट्वा तञ्च महान्तं पृथिवीचालं तञ्च भगवत आसेचनकमात्मभावं दृष्ट्वा येन भगवान् रत्नाकरस्तथागतोऽर्हन् सम्य्कसंबुद्धस्तेनोपसंक्रामदुपसंक्रम्य तस्य भगवतः पादावभिवन्द्य तं तथागतं रत्नाकरमेतदवोचत् । को भगवन् हेतुः कः प्रत्ययोऽस्य महतोऽवभासस्य लोके प्रादुर्भावाय अस्य च महतः पृथिवीचालस्य अस्य च तथागतस्यासेचनकात्मभावस्य सन्दर्शनाय् एवमुक्ते रत्नाकरस्तथागतः समन्तरश्मिं बोधिसत्त्वमेतद् अवोचत् । अस्ति कुलपुत्र इतो
०१५१६ दक्षिणस्यां दिशि गङ्गानदीवालुकोपमान् लोकधातूनतिक्रम्य सहा नाम लोकधातुः तत्र शाक्यमुनिर्नाम तथागतोऽर्हन् सम्यक्सम्बुद्धस्तिष्ठति ध्रियते यापयति। स बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां सम्प्रकाशयति तस्यायामीदृशोऽनुभावः। अथ खलु समन्तरश्मिर्बोधिसत्त्वो रत्नाकरं तथागत्मेतदवोचत् । गमिस्याम्यहं भगवंस्तां सहां लोकधातुं तञ्च शाक्यमुनिं तथागतं दर्शनाय वन्दनाय पर्युपासनाय तांश्च बोधिसत्त्वान्महासत्त्वान् भूयस्त्वेन कुमारभूतान् धारणीप्रतिलब्धान् समाधिनिर्हारकुशलान् सर्वसमाधिवशिपारमितां गतान्। भगवानाह गच्छ त्वं कुलपुत्र यस्येदानीं कालं मन्यस् अथ खलु रत्नाकरस्तथागतो नानारत्नमयानि सुवर्णावभासानि सहस्रपत्राणि पद्मानि समन्तरश्मये बोधिसत्त्वाय प्रादात् । एतैस्त्वं कुलपुत्र पद्मैस्तं शाक्यमुनिं तथागतमभ्यवकिरेः। एवञ्च वदेः रत्नाकरो भगवान् भगवन्तमल्पाबाधतां परिपृच्छत्यल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां परिपृच्छति। इमानि च तेन भगवता रत्नाकरेण तथागतेनार्हता सम्यक्संबुद्धेन पद्मानि प्रहितानि भगवत इति। सम्प्रजानकारी च त्वं कुलपुत्र बुद्धक्षेत्रे भूयाः। तत्कस्य हेतोर्दुरासदा हि ते बोधिसत्त्वा ये तत्र सहायां लोकधातौ उपपन्नाः। अथ खलु समन्तरश्मिर्बोधिसत्त्वो रत्नाकरस्य तथागतस्य सकाशात्तानि नानारत्नमयानि पद्मानि गृहीत्वा सुवर्णनिर्भासानिःसहस्रपत्राणि अनेकैर्बोधिसत्त्वकोटिनियुतशतसहस्रैर्गृहस्थैः प्रव्रजितैश्च दारकैर्दारिकाभिश्च सार्धं परिवृतः पुरस्कृतः पूर्वस्यां दिशि तेषु गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धानां भगवतः सत्कुर्वन् गुरूकुर्वन्मानयन् पूजयन्
पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकावैजयन्तीभिर्येनेयं सहा लोकधातुस्तेन संप्राप्तः। येन च शाक्यमुनिस्तथागतस्तेनोपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य एकान्तेऽतिष्ठत् । एकान्ते स्थितश्च समन्तरश्मिर्बोधिसत्त्वो भगवन्तं शाक्यमुनिमेतदवोचत् । रत्नाकरो भगवान् भगवन्तमल्पाबाधतां परिपृच्छत्यल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां च परिपृच्छति। इमानि च तेन भगवता रत्नाकरेण तथागतेन नानारत्नमयानि सुवर्णनिर्भासानि सहस्रपत्राणि पद्मानि प्रेषितानि भगवतः। अथ खलु भगवान्

०१६०१ शाक्यमुनिः तथागतस्तानि पद्मानि गृहीत्वा येन ते उत्तरस्यां दिशि गङ्गानदीवालुकोपमा लोकधातवस्तेन प्राक्षिपत् । तैश्च पद्मैः ते लोकधातवः स्फुटा अभूवन्। तेषु च पद्मेषु बुद्धविग्रहानिषणकाः तेषु च बुद्धक्षेत्रेषु धर्मं देशयन्ति यदुतेमामेव प्रज्ञापारमिताप्रतिसंयुक्तां धर्मदेशनाम्। यैश्च सत्त्वैः स धर्मः श्रुतस्ते नियता अभूवननुत्तरायां सम्यक्सम्बोधौ। अथ खलु ते बोधिसत्त्वास्ते च गृहस्थास्ते च प्रव्रजितास्ते च दारकास्ताश्च दारिकास्ततो रत्नावत्या लोकधातोः समन्तरश्मिना बोधिसत्त्वेन महासत्त्वेन सार्धमागताः स्वकस्वकैः कुशलमूलैर्भगवन्तं शाक्यमुनिं सत्कृत्य गुरूकृत्य सम्मान्य संपूज्यैकान्ते
०१६०२ न्यषीदन्।
०१६०३ अथ खलु उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमान् लोकधातूनतिक्रम्य तेभ्यो यः सर्वावसानिको लोकधातुः समा-
०१६०४ ध्यलङ्कृता नाम तत्र समाधिहस्त्युत्तरश्रीर्नाम तथागतः ऽर्हन् सम्यक्संबुद्धस्तिष्ठति ध्रियते यापयति। स इमामेव प्रज्ञापारमितां बोधिसत्त्वानां धर्मं देशयति।
०१६०५ अथ तत्र लोकधातौ विजयविक्रामी नाम बोधिसत्त्वः महासत्त्वस्तं महान्तमवभासं दृष्ट्वा तञ्च महान्तं पृथिवीचालं तञ्च भगवत आसेचनकमात्मभावं दृष्ट्वा येन भगवान् रत्नाकरस्तथागतोऽर्हन् सम्य्कसंबुद्धस्तेनोपसंक्रामदुपसंक्रम्य तस्य भगवतः पादावभिवन्द्य तं तथागतं रत्नाकरमेतदवोचत् । को भगवन् हेतुः कः प्रत्ययोऽस्य महतोऽवभासस्य लोके प्रादुर्भावाय अस्य च महतः पृथिवीचालस्य अस्य च तथागतस्यासेचनकात्मभावस्य सन्दर्शनाय् एवमुक्ते रत्नाकरस्तथागतः समन्तरश्मिं बोधिसत्त्वमेतद् अवोचत् ।
०१६०६ अस्ति कुलपुत्र इतो दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमान् लोकधातूनतिक्रम्य सहा नाम लोकधातुः तत्र शाक्यमुनिर्नाम तथागतोऽर्हन् सम्यक्सम्बुद्धस्तिष्ठति ध्रियते यापयति। स बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां सम्प्रकाशयति तस्यायामीदृशोऽनुभावः। अथ खलु समन्तरश्मिर्बोधिसत्त्वो रत्नाकरं तथागत्मेतदवोचत् । गमिस्याम्यहं भगवंस्तां सहां लोकधातुं तञ्च शाक्यमुनिं तथागतं दर्शनाय वन्दनाय पर्युपासनाय तांश्च बोधिसत्त्वान्महासत्त्वान् भूयस्त्वेन कुमारभूतान् धारणीप्रतिलब्धान् समाधिनिर्हारकुशलान् सर्वसमाधिवशिपारमितां गतान्। भगवानाह गच्छ त्वं कुलपुत्र यस्येदानीं कालं मन्यस् अथ खलु रत्नाकरस्तथागतो नानारत्नमयानि सुवर्णावभासानि सहस्रपत्राणि पद्मानि समन्तरश्मये बोधिसत्त्वाय प्रादात् । एतैस्त्वं कुलपुत्र पद्मैस्तं शाक्यमुनिं तथागतमभ्यवकिरेः। एवञ्च वदेः रत्नाकरो भगवान् भगवन्तमल्पाबाधतां परिपृच्छत्यल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां परिपृच्छति। इमानि च तेन भगवता रत्नाकरेण तथागतेनार्हता सम्यक्संबुद्धेन पद्मानि प्रहितानि भगवत इति। सम्प्रजानकारी च त्वं कुलपुत्र बुद्धक्षेत्रे भूयाः। तत्कस्य हेतोर्दुरासदा हि ते बोधिसत्त्वा ये तत्र सहायां लोकधातौ उपपन्नाः। अथ खलु समन्तरश्मिर्बोधिसत्त्वो रत्नाकरस्य तथागतस्य सकाशात्तानि नानारत्नमयानि पद्मानि गृहीत्वा सुवर्णनिर्भासानिःसहस्रपत्राणि अनेकैर्बोधिसत्त्वकोटिनियुतशतसहस्रैर्गृहस्थैः प्रव्रजितैश्च दारकैर्दारिकाभिश्च सार्धं परिवृतः पुरस्कृतः पूर्वस्यां दिशि तेषु गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धानां भगवतः सत्कुर्वन् गुरूकुर्वन्मानयन् पूजयन्
पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकावैजयन्तीभिर्येनेयं सहा लोकधातुस्तेन संप्राप्तः। येन च शाक्यमुनिस्तथागतस्तेनोपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य एकान्तेऽतिष्ठत् । एकान्ते स्थितश्च समन्तरश्मिर्बोधिसत्त्वो भगवन्तं शाक्यमुनिमेतदवोचत् । रत्नाकरो भगवान् भगवन्तमल्पाबाधतां परिपृच्छत्यल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां च परिपृच्छति। इमानि च तेन भगवता रत्नाकरेण तथागतेन नानारत्नमयानि सुवर्णनिर्भासानि सहस्रपत्राणि पद्मानि प्रेषितानि
०१६०७ भगवतः। अथ खलु भगवान् शाक्यमुनिः तथागतस्तानि पद्मानि गृहीत्वा येन ते उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमा लोकधातवस्तेन
०१६०८ प्राक्षिपत् । तैश्च पद्मैः ते लोकधातवः स्फुटा अभूवन्। तेषु च पद्मेषु बुद्धविग्रहानिषणकाः तेषु च बुद्धक्षेत्रेषु धर्मं देशयन्ति यदुतेमामेव प्रज्ञापारमिताप्रतिसंयुक्तां धर्मदेशनाम्। यैश्च सत्त्वैः स धर्मः श्रुतस्ते नियता अभूवननुत्तरायां सम्यक्सम्बोधौ। अथ खलु ते बोधिसत्त्वास्ते च गृहस्थास्ते च प्रव्रजितास्ते च दारकास्ताश्च दारिकास्ततो रत्नावत्या लोकधातोः समन्तरश्मिना बोधिसत्त्वेन महासत्त्वेन सार्धमागताः स्वकस्वकैः कुशलमूलैर्भगवन्तं शाक्यमुनिं सत्कृत्य गुरूकृत्य सम्मान्य संपूज्यैकान्ते न्यषीदन्।
०१६०९ अथ खलु पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमान् लोकधातूनतिक्रम्य तेभ्यो यः सर्वावसानिको लोकधातुर्बोधि-
०१६१० मण्डलाकारसुरुचिरा नाम तत्र पद्मोत्तरश्रीर्नाम तथागतः ऽर्हन् सम्यक्संबुद्धस्तिष्ठति ध्रियते यापयति। स इमामेव प्रज्ञापारमितां बोधिसत्त्वानां धर्मं देशयति।
०१६११ अथ तत्र लोकधातौ पद्महस्तो नाम तत्र बोधिसत्त्वः महासत्त्वस्तं महान्तमवभासं दृष्ट्वा तञ्च महान्तं पृथिवीचालं तञ्च भगवत आसेचनकमात्मभावं दृष्ट्वा येन भगवान् रत्नाकरस्तथागतोऽर्हन् सम्य्कसंबुद्धस्तेनोपसंक्रामदुपसंक्रम्य तस्य भगवतः पादावभिवन्द्य तं तथागतं रत्नाकरमेतदवोचत् । को भगवन् हेतुः कः प्रत्ययोऽस्य महतोऽवभासस्य लोके प्रादुर्भावाय अस्य च महतः पृथिवीचालस्य अस्य च तथागतस्यासेचनकात्मभावस्य सन्दर्शनाय् एवमुक्ते रत्नाकरस्तथागतः समन्तरश्मिं बोधिसत्त्वमेतद् अवोचत् । अस्ति
०१६१२ कुलपुत्र इतः पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमान् लोकधातूनतिक्रम्य सहा नाम लोकधातुः तत्र शाक्यमुनिर्नाम तथागतोऽर्हन् सम्यक्सम्बुद्धस्तिष्ठति ध्रियते यापयति। स बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां सम्प्रकाशयति तस्यायामीदृशोऽनुभावः। अथ खलु समन्तरश्मिर्बोधिसत्त्वो रत्नाकरं तथागत्मेतदवोचत् । गमिस्याम्यहं भगवंस्तां सहां लोकधातुं तञ्च शाक्यमुनिं तथागतं दर्शनाय वन्दनाय पर्युपासनाय तांश्च बोधिसत्त्वान्महासत्त्वान् भूयस्त्वेन कुमारभूतान् धारणीप्रतिलब्धान् समाधिनिर्हारकुशलान् सर्वसमाधिवशिपारमितां गतान्। भगवानाह गच्छ त्वं कुलपुत्र यस्येदानीं कालं मन्यस् अथ खलु रत्नाकरस्तथागतो नानारत्नमयानि सुवर्णावभासानि सहस्रपत्राणि पद्मानि समन्तरश्मये बोधिसत्त्वाय प्रादात् । एतैस्त्वं कुलपुत्र पद्मैस्तं शाक्यमुनिं तथागतमभ्यवकिरेः। एवञ्च वदेः रत्नाकरो भगवान् भगवन्तमल्पाबाधतां परिपृच्छत्यल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां परिपृच्छति। इमानि च तेन भगवता रत्नाकरेण तथागतेनार्हता सम्यक्संबुद्धेन पद्मानि प्रहितानि भगवत इति। सम्प्रजानकारी च त्वं कुलपुत्र बुद्धक्षेत्रे भूयाः। तत्कस्य हेतोर्दुरासदा हि ते बोधिसत्त्वा ये तत्र सहायां लोकधातौ उपपन्नाः। अथ खलु समन्तरश्मिर्बोधिसत्त्वो रत्नाकरस्य तथागतस्य सकाशात्तानि नानारत्नमयानि पद्मानि गृहीत्वा सुवर्णनिर्भासानिःसहस्रपत्राणि अनेकैर्बोधिसत्त्वकोटिनियुतशतसहस्रैर्गृहस्थैः प्रव्रजितैश्च दारकैर्दारिकाभिश्च सार्धं परिवृतः पुरस्कृतः पूर्वस्यां दिशि तेषु गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धानां भगवतः सत्कुर्वन् गुरूकुर्वन्मानयन् पूजयन्
पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकावैजयन्तीभिर्येनेयं सहा लोकधातुस्तेन संप्राप्तः। येन च शाक्यमुनिस्तथागतस्तेनोपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य एकान्तेऽतिष्ठत् । एकान्ते स्थितश्च समन्तरश्मिर्बोधिसत्त्वो भगवन्तं शाक्यमुनिमेतदवोचत् । रत्नाकरो भगवान् भगवन्तमल्पाबाधतां परिपृच्छत्यल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां च परिपृच्छति। इमानि च तेन भगवता रत्नाकरेण तथागतेन नानारत्नमयानि सुवर्णनिर्भासानि सहस्रपत्राणि पद्मानि प्रेषितानि भगवतः।
०१६१३ अथ खलु भगवान् शाक्यमुनिः तथागतस्तानि पद्मानि गृहीत्वा येन ते पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमा लोकधातवस्तेन प्राक्षिपत् ।
०१६१४ तैश्च पद्मैः ते लोकधातवः स्फुटा अभूवन्। तेषु च पद्मेषु बुद्धविग्रहानिषणकाः तेषु च बुद्धक्षेत्रेषु धर्मं देशयन्ति यदुतेमामेव प्रज्ञापारमिताप्रतिसंयुक्तां धर्मदेशनाम्। यैश्च सत्त्वैः स धर्मः श्रुतस्ते नियता अभूवननुत्तरायां सम्यक्सम्बोधौ। अथ खलु ते बोधिसत्त्वास्ते च गृहस्थास्ते च प्रव्रजितास्ते च दारकास्ताश्च दारिकास्ततो रत्नावत्या लोकधातोः समन्तरश्मिना बोधिसत्त्वेन महासत्त्वेन सार्धमागताः स्वकस्वकैः कुशलमूलैर्भगवन्तं शाक्यमुनिं सत्कृत्य गुरूकृत्य सम्मान्य संपूज्यैकान्ते न्यषीदन्।
०१६१५ अथ खलु दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमान् लोकधातूनतिक्रम्य तेभ्यो यः सर्वावसानिको लोकधातु-
०१६१६ र्विगतरजःसञ्चया नाम तत्र सूर्यमण्डलप्रभासोत्तमश्रीर्नाम तथागतः ऽर्हन् सम्यक्संबुद्धस्तिष्ठति ध्रियते यापयति। स इमामेव प्रज्ञापारमितां बोधिसत्त्वानां धर्मं
०१६१७ देशयति। अथ तत्र लोकधातौ सूर्यप्रभासो नाम बोधिसत्त्वः महासत्त्वस्तं महान्तमवभासं दृष्ट्वा तञ्च महान्तं पृथिवीचालं तञ्च भगवत आसेचनकमात्मभावं दृष्ट्वा येन भगवान् रत्नाकरस्तथागतोऽर्हन् सम्य्कसंबुद्धस्तेनोपसंक्रामदुपसंक्रम्य तस्य भगवतः पादावभिवन्द्य तं तथागतं रत्नाकरमेतदवोचत् । को भगवन् हेतुः कः प्रत्ययोऽस्य महतोऽवभासस्य लोके प्रादुर्भावाय अस्य च महतः पृथिवीचालस्य अस्य च तथागतस्यासेचनकात्मभावस्य सन्दर्शनाय् एवमुक्ते रत्नाकरस्तथागतः समन्तरश्मिं बोधिसत्त्वमेतद् अवोचत् ।
०१६१८ अस्ति कुलपुत्र इत उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमान् लोकधातूनतिक्रम्य सहा नाम लोकधातुः तत्र शाक्यमुनिर्नाम तथागतोऽर्हन् सम्यक्सम्बुद्धस्तिष्ठति ध्रियते यापयति। स बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां सम्प्रकाशयति तस्यायामीदृशोऽनुभावः। अथ खलु समन्तरश्मिर्बोधिसत्त्वो रत्नाकरं तथागत्मेतदवोचत् । गमिस्याम्यहं भगवंस्तां सहां लोकधातुं तञ्च शाक्यमुनिं तथागतं दर्शनाय वन्दनाय पर्युपासनाय तांश्च बोधिसत्त्वान्महासत्त्वान् भूयस्त्वेन कुमारभूतान् धारणीप्रतिलब्धान् समाधिनिर्हारकुशलान् सर्वसमाधिवशिपारमितां गतान्। भगवानाह गच्छ त्वं कुलपुत्र यस्येदानीं कालं मन्यस् अथ खलु रत्नाकरस्तथागतो नानारत्नमयानि सुवर्णावभासानि सहस्रपत्राणि पद्मानि समन्तरश्मये बोधिसत्त्वाय प्रादात् । एतैस्त्वं कुलपुत्र पद्मैस्तं शाक्यमुनिं तथागतमभ्यवकिरेः। एवञ्च वदेः रत्नाकरो भगवान् भगवन्तमल्पाबाधतां परिपृच्छत्यल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां परिपृच्छति। इमानि च तेन भगवता रत्नाकरेण तथागतेनार्हता सम्यक्संबुद्धेन पद्मानि प्रहितानि भगवत इति। सम्प्रजानकारी च त्वं कुलपुत्र बुद्धक्षेत्रे भूयाः। तत्कस्य हेतोर्दुरासदा हि ते बोधिसत्त्वा ये तत्र सहायां लोकधातौ उपपन्नाः। अथ खलु समन्तरश्मिर्बोधिसत्त्वो रत्नाकरस्य तथागतस्य सकाशात्तानि नानारत्नमयानि पद्मानि गृहीत्वा सुवर्णनिर्भासानिःसहस्रपत्राणि अनेकैर्बोधिसत्त्वकोटिनियुतशतसहस्रैर्गृहस्थैः प्रव्रजितैश्च दारकैर्दारिकाभिश्च सार्धं परिवृतः पुरस्कृतः पूर्वस्यां दिशि तेषु गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धानां भगवतः सत्कुर्वन् गुरूकुर्वन्मानयन् पूजयन्
पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकावैजयन्तीभिर्येनेयं सहा लोकधातुस्तेन संप्राप्तः। येन च शाक्यमुनिस्तथागतस्तेनोपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य एकान्तेऽतिष्ठत् । एकान्ते स्थितश्च समन्तरश्मिर्बोधिसत्त्वो भगवन्तं शाक्यमुनिमेतदवोचत् । रत्नाकरो भगवान् भगवन्तमल्पाबाधतां परिपृच्छत्यल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां च परिपृच्छति। इमानि च तेन भगवता रत्नाकरेण तथागतेन नानारत्नमयानि सुवर्णनिर्भासानि सहस्रपत्राणि पद्मानि प्रेषितानि
०१६१९ भगवतः। अथ खलु भगवान् शाक्यमुनिः तथागतस्तानि पद्मानि गृहीत्वा येन ते दक्षिणपश्चिमायां
०१६२० दिशि गङ्गानदीवालुकोपमा लोकधातवस्तेन प्राक्षिपत् । तैश्च पद्मैः ते लोकधातवः स्फुटा अभूवन्। तेषु च पद्मेषु बुद्धविग्रहानिषणकाः तेषु च बुद्धक्षेत्रेषु धर्मं देशयन्ति यदुतेमामेव प्रज्ञापारमिताप्रतिसंयुक्तां धर्मदेशनाम्। यैश्च सत्त्वैः स धर्मः श्रुतस्ते नियता अभूवननुत्तरायां सम्यक्सम्बोधौ। अथ खलु ते बोधिसत्त्वास्ते च गृहस्थास्ते च प्रव्रजितास्ते च दारकास्ताश्च दारिकास्ततो रत्नावत्या लोकधातोः समन्तरश्मिना बोधिसत्त्वेन महासत्त्वेन सार्धमागताः स्वकस्वकैः कुशलमूलैर्भगवन्तं शाक्यमुनिं सत्कृत्य गुरूकृत्य सम्मान्य संपूज्यैकान्ते न्यषीदन्।
०१६२१ अथ खलु पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमान् लोकधातूनतिक्रम्य तेभ्यो यः सर्वावसानिको लोकधातुर्वशी-
०१६२२ भुता नाम तत्रैकच्छत्त्रो नाम तथागतः ऽर्हन् सम्यक्संबुद्धस्तिष्ठति ध्रियते यापयति। स इमामेव प्रज्ञापारमितां बोधिसत्त्वानां धर्मं देशयति। अथ तत्र
०१६२३ लोकधातौ रत्नोत्तमो नाम बोधिसत्त्वः महासत्त्वस्तं महान्तमवभासं दृष्ट्वा तञ्च महान्तं पृथिवीचालं तञ्च भगवत आसेचनकमात्मभावं दृष्ट्वा येन भगवान् रत्नाकरस्तथागतोऽर्हन् सम्य्कसंबुद्धस्तेनोपसंक्रामदुपसंक्रम्य तस्य भगवतः पादावभिवन्द्य तं तथागतं रत्नाकरमेतदवोचत् । को भगवन् हेतुः कः प्रत्ययोऽस्य महतोऽवभासस्य लोके प्रादुर्भावाय अस्य च महतः पृथिवीचालस्य अस्य च तथागतस्यासेचनकात्मभावस्य सन्दर्शनाय् एवमुक्ते रत्नाकरस्तथागतः समन्तरश्मिं बोधिसत्त्वमेतद् अवोचत् । अस्ति कुलपुत्र

०१७०१ इतः पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमान् लोकधातूनतिक्रम्य सहा नाम लोकधातुः तत्र शाक्यमुनिर्नाम तथागतोऽर्हन् सम्यक्सम्बुद्धस्तिष्ठति ध्रियते यापयति। स बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां सम्प्रकाशयति तस्यायामीदृशोऽनुभावः। अथ खलु समन्तरश्मिर्बोधिसत्त्वो रत्नाकरं तथागत्मेतदवोचत् । गमिस्याम्यहं भगवंस्तां सहां लोकधातुं तञ्च शाक्यमुनिं तथागतं दर्शनाय वन्दनाय पर्युपासनाय तांश्च बोधिसत्त्वान्महासत्त्वान् भूयस्त्वेन कुमारभूतान् धारणीप्रतिलब्धान् समाधिनिर्हारकुशलान् सर्वसमाधिवशिपारमितां गतान्। भगवानाह गच्छ त्वं कुलपुत्र यस्येदानीं कालं मन्यस् अथ खलु रत्नाकरस्तथागतो नानारत्नमयानि सुवर्णावभासानि सहस्रपत्राणि पद्मानि समन्तरश्मये बोधिसत्त्वाय प्रादात् । एतैस्त्वं कुलपुत्र पद्मैस्तं शाक्यमुनिं तथागतमभ्यवकिरेः। एवञ्च वदेः रत्नाकरो भगवान् भगवन्तमल्पाबाधतां परिपृच्छत्यल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां परिपृच्छति। इमानि च तेन भगवता रत्नाकरेण तथागतेनार्हता सम्यक्संबुद्धेन पद्मानि प्रहितानि भगवत इति। सम्प्रजानकारी च त्वं कुलपुत्र बुद्धक्षेत्रे भूयाः। तत्कस्य हेतोर्दुरासदा हि ते बोधिसत्त्वा ये तत्र सहायां लोकधातौ उपपन्नाः। अथ खलु समन्तरश्मिर्बोधिसत्त्वो रत्नाकरस्य तथागतस्य सकाशात्तानि नानारत्नमयानि पद्मानि गृहीत्वा सुवर्णनिर्भासानिःसहस्रपत्राणि अनेकैर्बोधिसत्त्वकोटिनियुतशतसहस्रैर्गृहस्थैः प्रव्रजितैश्च दारकैर्दारिकाभिश्च सार्धं परिवृतः पुरस्कृतः पूर्वस्यां दिशि तेषु गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धानां भगवतः सत्कुर्वन् गुरूकुर्वन्मानयन् पूजयन्
पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकावैजयन्तीभिर्येनेयं सहा लोकधातुस्तेन संप्राप्तः। येन च शाक्यमुनिस्तथागतस्तेनोपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य एकान्तेऽतिष्ठत् । एकान्ते स्थितश्च समन्तरश्मिर्बोधिसत्त्वो भगवन्तं शाक्यमुनिमेतदवोचत् । रत्नाकरो भगवान् भगवन्तमल्पाबाधतां परिपृच्छत्यल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां च परिपृच्छति। इमानि च तेन भगवता रत्नाकरेण तथागतेन नानारत्नमयानि सुवर्णनिर्भासानि सहस्रपत्राणि पद्मानि प्रेषितानि भगवतः।
०१७०२ अथ खलु भगवान् शाक्यमुनिः तथागतस्तानि पद्मानि गृहीत्वा येन ते पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमा लोकधातवस्तेन
०१७०३ प्राक्षिपत् । तैश्च पद्मैः ते लोकधातवः स्फुटा अभूवन्। तेषु च पद्मेषु बुद्धविग्रहानिषणकाः तेषु च बुद्धक्षेत्रेषु धर्मं देशयन्ति यदुतेमामेव प्रज्ञापारमिताप्रतिसंयुक्तां धर्मदेशनाम्। यैश्च सत्त्वैः स धर्मः श्रुतस्ते नियता अभूवननुत्तरायां सम्यक्सम्बोधौ। अथ खलु ते बोधिसत्त्वास्ते च गृहस्थास्ते च प्रव्रजितास्ते च दारकास्ताश्च दारिकास्ततो रत्नावत्या लोकधातोः समन्तरश्मिना बोधिसत्त्वेन महासत्त्वेन सार्धमागताः स्वकस्वकैः कुशलमूलैर्भगवन्तं शाक्यमुनिं सत्कृत्य गुरूकृत्य सम्मान्य संपूज्यैकान्ते न्यषीदन्।
०१७०४ अथ खल्वधस्ताद्दिशि गङ्गानदीवालुकोपमान् लोकधातूनतिक्रम्य तेभ्यो यः सवावसानिको लोकधातुः पद्मा नाम तत्र
०१७०५ पद्मश्रीर्नाम तथागतः ऽर्हन् सम्यक्संबुद्धस्तिष्ठति ध्रियते यापयति। स इमामेव प्रज्ञापारमितां बोधिसत्त्वानां धर्मं देशयति। अथ तत्र लोकधातौ पद्मोत्तरो नाम
०१७०६ बोधिसत्त्वः महासत्त्वस्तं महान्तमवभासं दृष्ट्वा तञ्च महान्तं पृथिवीचालं तञ्च भगवत आसेचनकमात्मभावं दृष्ट्वा येन भगवान् रत्नाकरस्तथागतोऽर्हन् सम्य्कसंबुद्धस्तेनोपसंक्रामदुपसंक्रम्य तस्य भगवतः पादावभिवन्द्य तं तथागतं रत्नाकरमेतदवोचत् । को भगवन् हेतुः कः प्रत्ययोऽस्य महतोऽवभासस्य लोके प्रादुर्भावाय अस्य च महतः पृथिवीचालस्य अस्य च तथागतस्यासेचनकात्मभावस्य सन्दर्शनाय् एवमुक्ते रत्नाकरस्तथागतः समन्तरश्मिं बोधिसत्त्वमेतद् अवोचत् । अस्ति कुलपुत्र इत उपरिष्टाद्दिशि गङ्गानदीवालुकोपमान् लोकधातूनतिक्रम्य सहा नाम
०१७०७ लोकधातुः तत्र शाक्यमुनिर्नाम तथागतोऽर्हन् सम्यक्सम्बुद्धस्तिष्ठति ध्रियते यापयति। स बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां सम्प्रकाशयति तस्यायामीदृशोऽनुभावः। अथ खलु समन्तरश्मिर्बोधिसत्त्वो रत्नाकरं तथागत्मेतदवोचत् । गमिस्याम्यहं भगवंस्तां सहां लोकधातुं तञ्च शाक्यमुनिं तथागतं दर्शनाय वन्दनाय पर्युपासनाय तांश्च बोधिसत्त्वान्महासत्त्वान् भूयस्त्वेन कुमारभूतान् धारणीप्रतिलब्धान् समाधिनिर्हारकुशलान् सर्वसमाधिवशिपारमितां गतान्। भगवानाह गच्छ त्वं कुलपुत्र यस्येदानीं कालं मन्यस् अथ खलु रत्नाकरस्तथागतो नानारत्नमयानि सुवर्णावभासानि सहस्रपत्राणि पद्मानि समन्तरश्मये बोधिसत्त्वाय प्रादात् । एतैस्त्वं कुलपुत्र पद्मैस्तं शाक्यमुनिं तथागतमभ्यवकिरेः। एवञ्च वदेः रत्नाकरो भगवान् भगवन्तमल्पाबाधतां परिपृच्छत्यल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां परिपृच्छति। इमानि च तेन भगवता रत्नाकरेण तथागतेनार्हता सम्यक्संबुद्धेन पद्मानि प्रहितानि भगवत इति। सम्प्रजानकारी च त्वं कुलपुत्र बुद्धक्षेत्रे भूयाः। तत्कस्य हेतोर्दुरासदा हि ते बोधिसत्त्वा ये तत्र सहायां लोकधातौ उपपन्नाः। अथ खलु समन्तरश्मिर्बोधिसत्त्वो रत्नाकरस्य तथागतस्य सकाशात्तानि नानारत्नमयानि पद्मानि गृहीत्वा सुवर्णनिर्भासानिःसहस्रपत्राणि अनेकैर्बोधिसत्त्वकोटिनियुतशतसहस्रैर्गृहस्थैः प्रव्रजितैश्च दारकैर्दारिकाभिश्च सार्धं परिवृतः पुरस्कृतः पूर्वस्यां दिशि तेषु गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धानां भगवतः सत्कुर्वन् गुरूकुर्वन्मानयन् पूजयन् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकावैजयन्तीभिर्येनेयं सहा लोकधातुस्तेन संप्राप्तः। येन च
शाक्यमुनिस्तथागतस्तेनोपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य एकान्तेऽतिष्ठत् । एकान्ते स्थितश्च समन्तरश्मिर्बोधिसत्त्वो भगवन्तं शाक्यमुनिमेतदवोचत् । रत्नाकरो भगवान् भगवन्तमल्पाबाधतां परिपृच्छत्यल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां च परिपृच्छति। इमानि च तेन भगवता रत्नाकरेण तथागतेन नानारत्नमयानि सुवर्णनिर्भासानि सहस्रपत्राणि पद्मानि प्रेषितानि भगवतः। अथ कह्लु भगवान् शाक्यमुनिः तथागतस्तानि पद्मानि गृहीत्वा येन ते अधस्ता-
०१७०८ द्दिशि गङ्गानदीवालुकोपमा लोकधातवस्तेन प्राक्षिपत् । तैश्च पद्मैः ते लोकधातवः स्फुटा अभूवन्। तेषु च पद्मेषु बुद्धविग्रहानिषणकाः तेषु च बुद्धक्षेत्रेषु धर्मं देशयन्ति यदुतेमामेव प्रज्ञापारमिताप्रतिसंयुक्तां धर्मदेशनाम्। यैश्च सत्त्वैः स धर्मः श्रुतस्ते नियता अभूवननुत्तरायां सम्यक्सम्बोधौ। अथ खलु ते बोधिसत्त्वास्ते च गृहस्थास्ते च प्रव्रजितास्ते च दारकास्ताश्च दारिकास्ततो रत्नावत्या लोकधातोः समन्तरश्मिना बोधिसत्त्वेन महासत्त्वेन सार्धमागताः स्वकस्वकैः कुशलमूलैर्भगवन्तं शाक्यमुनिं सत्कृत्य गुरूकृत्य सम्मान्य संपूज्यैकान्ते न्यषीदन्।
०१७०९ अथ खलु उपरिष्टाद्दिशि गङ्गानदीवालुकोपमान् लोकधातूनतिक्रम्य तेभ्यो यः सर्वावसानिको लोकधातुर्नन्दा नाम
०१७१० तत्र नन्दश्रीर्नाम तथागतः ऽर्हन् सम्यक्संबुद्धस्तिष्ठति ध्रियते यापयति। स इमामेव प्रज्ञापारमितां बोधिसत्त्वानां धर्मं देशयति। अथ तत्र लोकधातौ नन्द-
०१७११ दत्तो नाम बोधिसत्त्वः महासत्त्वस्तं महान्तमवभासं दृष्ट्वा तञ्च महान्तं पृथिवीचालं तञ्च भगवत आसेचनकमात्मभावं दृष्ट्वा येन भगवान् रत्नाकरस्तथागतोऽर्हन् सम्य्कसंबुद्धस्तेनोपसंक्रामदुपसंक्रम्य तस्य भगवतः पादावभिवन्द्य तं तथागतं रत्नाकरमेतदवोचत् । को भगवन् हेतुः कः प्रत्ययोऽस्य महतोऽवभासस्य लोके प्रादुर्भावाय अस्य च महतः पृथिवीचालस्य अस्य च तथागतस्यासेचनकात्मभावस्य सन्दर्शनाय् एवमुक्ते रत्नाकरस्तथागतः समन्तरश्मिं बोधिसत्त्वमेतद् अवोचत् । अस्ति कुलपुत्र इतोऽधस्ताद्दिशि गङ्गानदीवालुकोपमान् लोकधातूनतिक्रम्य
०१७१२ सहा नाम लोकधातुः तत्र शाक्यमुनिर्नाम तथागतोऽर्हन् सम्यक्सम्बुद्धस्तिष्ठति ध्रियते यापयति। स बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां सम्प्रकाशयति तस्यायामीदृशोऽनुभावः। अथ खलु समन्तरश्मिर्बोधिसत्त्वो रत्नाकरं तथागत्मेतदवोचत् । गमिस्याम्यहं भगवंस्तां सहां लोकधातुं तञ्च शाक्यमुनिं तथागतं दर्शनाय वन्दनाय पर्युपासनाय तांश्च बोधिसत्त्वान्महासत्त्वान् भूयस्त्वेन कुमारभूतान् धारणीप्रतिलब्धान् समाधिनिर्हारकुशलान् सर्वसमाधिवशिपारमितां गतान्। भगवानाह गच्छ त्वं कुलपुत्र यस्येदानीं कालं मन्यस् अथ खलु रत्नाकरस्तथागतो नानारत्नमयानि सुवर्णावभासानि सहस्रपत्राणि पद्मानि समन्तरश्मये बोधिसत्त्वाय प्रादात् । एतैस्त्वं कुलपुत्र पद्मैस्तं शाक्यमुनिं तथागतमभ्यवकिरेः। एवञ्च वदेः रत्नाकरो भगवान् भगवन्तमल्पाबाधतां परिपृच्छत्यल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां परिपृच्छति। इमानि च तेन भगवता रत्नाकरेण तथागतेनार्हता सम्यक्संबुद्धेन पद्मानि प्रहितानि भगवत इति। सम्प्रजानकारी च त्वं कुलपुत्र बुद्धक्षेत्रे भूयाः। तत्कस्य हेतोर्दुरासदा हि ते बोधिसत्त्वा ये तत्र सहायां लोकधातौ उपपन्नाः। अथ खलु समन्तरश्मिर्बोधिसत्त्वो रत्नाकरस्य तथागतस्य सकाशात्तानि नानारत्नमयानि पद्मानि गृहीत्वा सुवर्णनिर्भासानिःसहस्रपत्राणि अनेकैर्बोधिसत्त्वकोटिनियुतशतसहस्रैर्गृहस्थैः प्रव्रजितैश्च दारकैर्दारिकाभिश्च सार्धं परिवृतः पुरस्कृतः पूर्वस्यां दिशि तेषु गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धानां भगवतः सत्कुर्वन् गुरूकुर्वन्मानयन् पूजयन् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकावैजयन्तीभिर्येनेयं सहा लोकधातुस्तेन संप्राप्तः।
येन च शाक्यमुनिस्तथागतस्तेनोपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य एकान्तेऽतिष्ठत् । एकान्ते स्थितश्च समन्तरश्मिर्बोधिसत्त्वो भगवन्तं शाक्यमुनिमेतदवोचत् । रत्नाकरो भगवान् भगवन्तमल्पाबाधतां परिपृच्छत्यल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां च परिपृच्छति। इमानि च तेन भगवता रत्नाकरेण तथागतेन नानारत्नमयानि सुवर्णनिर्भासानि सहस्रपत्राणि पद्मानि प्रेषितानि भगवतः। अथ खलु भगवान् शाक्यमुनिः तथागतस्तानि पद्मानि गृहीत्वा
०१७१३ येन ते उपरिष्टाद्दिशि गङ्गानदीवालुकोपमा लोकधातवस्तेन प्राक्षिपत् । तैश्च पद्मैः ते लोकधातवः स्फुटा अभूवन्। तेषु च पद्मेषु बुद्धविग्रहानिषणकाः तेषु च बुद्धक्षेत्रेषु धर्मं देशयन्ति यदुतेमामेव प्रज्ञापारमिताप्रतिसंयुक्तां धर्मदेशनाम्। यैश्च सत्त्वैः स धर्मः श्रुतस्ते नियता अभूवननुत्तरायां सम्यक्सम्बोधौ। अथ खलु ते बोधिसत्त्वास्ते च गृहस्थास्ते च प्रव्रजितास्ते च दारकास्ताश्च दारिकास्ततो रत्नावत्या लोकधातोः समन्तरश्मिना बोधिसत्त्वेन महासत्त्वेन सार्धमागताः स्वकस्वकैः कुशलमूलैर्भगवन्तं शाक्यमुनिं सत्कृत्य गुरूकृत्य सम्मान्य संपूज्यैकान्ते न्यषीदन्।
०१७१४ अथ खलु तेन क्षणलवमुर्ह्वर्तेन अयं त्रिसाहस्रमहासाहस्रो लोक-
०१७१५ धातुः सप्तरत्नमयः संस्थितोऽभूत्पुष्पाभिकीर्नः। अवसक्तपट्टदामकलापः
०१७१६ कल्पवृक्षैर्नानालङ्कारफलावनताग्रविटपैः पुष्पवृक्षैः फलवृक्षैर्गन्धवृक्षै-
०१७१७ र्माल्यवृक्षैश्चोपशोभितोऽभूत् । तद्यथापि नाम पद्मावती लोकधातुः
०१७१८ समन्तकुसुमस्य तथागतस्य बुद्धक्षेत्रं यत्र मञ्जुश्रीः कुमारभूतः प्रतिवसति
०१७१९ सुस्थितमतिश्च बोधिसत्त्वः अन्ये च महौजस्का बोधिसत्त्वाः। भगवां-
०१७२० श्चाद्राक्षीत्सदेवलोकं सन्निपतितं समारकं सब्रह्मकं सश्रमणब्राह्मणिकां
०१७२१ प्रजां सन्निपतितांस्तांश्च बोधिसत्त्वान् कुमारभूतान्॥ [इति निदानम्]॥
०१७२२ तत्र खलु भगवानायुष्मन्तं शारिपुत्रमामन्त्रयामास् सर्वाकारं

०१८०१ शारिप्तुर सर्वधर्मानभिसम्बोद्धुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापार-
०१८०२ मितायां योगः करणीयः॥ [इति समासतः सम्बोधिकामनासहगत-
०१८०३ श्चित्तोत्पादः॥]
०१८०४ एवमुक्ते आयुष्मान् शारिपुत्रो भगवन्तमेतदचोवत् । कथं भगवन्
०१८०५ बोधिसत्त्वेन महासत्त्वेन सर्वाकारं सर्वधर्मानभिसम्बोद्धुकामेन प्रज्ञा-
०१८०६ पारमितायां योगः करणीयः।
०१८०७ एवमुक्ते भगवानायुष्मन्तं शारिपुत्रमेवदवोचत् । इह शारिपुत्र
०१८०८ बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थित्वाऽस्थानयोगेन दान-
०१८०९ पारमिता परिपूरयितव्या अपरित्यागयोगेन देयदायकप्रतिग्राहकानुप-
०१८१० लब्धितामुपादाय् शीलपारमिता परिपूरयितव्या आपत्त्यनापत्त्यनध्या-
०१८११ पत्तितामुपादाय् क्षान्तिपारमिता परिपूरयितव्या अक्षोभणतामुपादाय्
०१८१२ वीर्यपारमिता परिपूरयितव्या कायिकचैतसिकवीर्यास्रंसनतामुपा-
०१८१३ दाय् ध्यानपारमिता परिपूरयितव्या अनास्वादनतामुपादाय्
०१८१४ प्रज्ञापारमिता परिपूरयितव्या प्रज्ञादौष्प्रज्ञानुपलब्धितामुपदाय् ।
०१८१५ [इति व्यासतः सम्बोधिकामनासहगतश्चित्तोत्पादः॥]
०१८१६ पुनरपरं शारिपुत्र दशदिक्षु प्रत्येकं गङ्गानदीवालुकोपमेषु लोक-
०१८१७ धातुषु ये सत्त्वास्तान् सर्वाननुपधिशेषनिर्वाणधातौ परिनिर्वापयितु-
०१८१८ कामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्॥ [इति
०१८१९ समासतः परार्थालम्बनश्चित्तोत्पादः॥]
०१८२० एवं मत्सरिणः सत्त्वान् दाने प्रतिष्ठापयितुकामेन दुःशीलान्
०१८२१ शीले व्यापादबहुलान् क्षान्तौ कुशीदान् वीर्ये विक्षिप्तचित्तान् ध्याने

०१९०१ दुष्प्रज्ञान् प्रज्ञासम्पदि प्रतिष्ठापयितुकामेन बोधिसत्त्वेन महासत्त्वेन
०१९०२ प्रज्ञापारमितायां शिक्षितव्यम्॥ [इति व्यासतः परार्थालम्बनश्चित्तो-
०१९०३ त्पादः॥]
०१९०४ पुनरपरं शारिपुत्र सर्वाकारं सर्वधर्मानभिसम्बोद्धुकामेन बोधिसत्त्वेन
०१९०५ महासत्त्वेन प्रज्ञापारमिताय्ं स्थातव्यम्॥ [इति च्छन्दसहगतः पृथिव्यु-
०१९०६ पमः॥]
०१९०७ एवमिह शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थित्वा-
०१९०८ऽस्थानयोगेन दानपारमिता परिपूरयितव्या देयदायकप्रतिग्राहकानुप-
०१९०९ लब्धितामुपादाय् एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता
०१९१० ध्यानपारमिता प्रज्ञापारमिता परिपूरयितव्या प्रज्ञादौष्प्रज्ञानुपलब्धिता-
०१९११ मुपादाय् । [इत्याशयसहगतः कल्याणसुवर्णोपमः॥]
०१९१२ एवं प्रज्ञापारमितायां शारिपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन
०१९१३ चत्वारि स्मृत्युपस्थानानि परिपूरयितव्यानि चत्वारि सम्यक्प्रहाणानि
०१९१४ चत्वारि ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्च बलानि सप्त बोध्यङ्गानि आर्या-
०१९१५ ष्टाङ्गमार्गः परिपूरयितव्यः। शून्यतासमाधिर्भावयितव्यः। अनिमित्त-
०१९१६ समाधिर्भावयितव्यः। अप्रणिहितसमाधिर्भावयितव्यः। एवं चत्वारि
०१९१७ ध्यानानि चत्वार्यप्रमाणानि चतस्र आरूप्यसमापत्तयः अष्टौ विमोक्षाः
०१९१८ नवानुपूर्वविहारसमापत्तयः नवाशुभाः संज्ञा भावयितव्याः। कतमा
०१९१९ नव् यदुत आध्मातकसंज्ञा विधूतकसंज्ञा विपूयकसंज्ञा विलो-

०२००१ हितकसंज्ञा विनीलकसंज्ञा विखादितकसंज्ञा विक्षिप्तकसंज्ञा विदग्धक-
०२००२ संज्ञा अस्थिसंज्ञा। आहारे प्रतिकूलसंज्ञा भावयितव्या। बुद्धानुस्मृति-
०२००३ र्भावयितव्या। संघानुस्मृतिर्भावयितव्या। शीलानुस्मृतिर्{भावयितव्या}। त्यागानु-
०२००४ स्मृतिर्{भावयितव्या}। देवतानुस्मृतिर्{भावयितव्या}। आनापानानुस्मृतिर्{भावयितव्या}। उद्वेगानु-
०२००५ स्मृतिर्{भावयितव्या}। मरणानुस्मृतिर्{भावयितव्या}। अनित्यसंज्ञा {भावयितव्या}। दुःखसंज्ञा {भावयितव्या}।
०२००६ अनात्मसंज्ञा {भावयितव्या}। अशुचिसंज्ञा {भावयितव्या}। मरणसंज्ञा {भावयितव्या}। सर्वलोके
०२००७ अनभिरतिसंज्ञा {भावयितव्या}। सर्वलोके अविश्वाससंज्ञा {भावयितव्या}। परिजयसंज्ञा-
०२००८ नं भावयितव्यम्। संवृतिसंज्ञानं भावयितव्यम्। यथारुतसंज्ञान-
०२००९ ं भावयितव्यम्। सवितर्कः सविचारः समाधिर्भावयितव्यः। अवितर्को-
०२०१०ऽविचारमात्रः समाधिर्भावयितव्यः। अवितर्कोऽविचारः समाधिर्भाव-
०२०११ यितव्यः। अनाज्ञातमाज्ञास्यामीन्द्रियं भावयितव्यम्। आज्ञेन्द्रियं भावयि-
०२०१२ तव्यम्। आज्ञातावीन्द्रियं भावयितव्यम्। अभिभ्वायतनं भावयितव्यम्।
०२०१३ कृत्स्नायतनं भावयितव्यम्। सर्वज्ञज्ञानं भावयितव्यम्। शमथविप-
०२०१४ श्यने भावयितव्ये तिस्रो विद्या भावयितव्याः। चतस्रः प्रतिसंविदो
०२०१५ भावयितव्याः। चत्वारि चैशारद्यानि भावयितव्यानि। अच्युताः

०२१०१ पञ्चाभिज्ञा भावयितव्याः। षट्पारमिता भावयितव्याः। सप्त धनानि
०२१०२ भावयितव्यानि। अष्टौ महापुरुषवितर्का भावयितव्याः। दश तथा-
०२१०३ गतबलानि भावयितव्यानि। अष्टादशावेणिका बुद्धधर्मा भावयितव्याः।
०२१०४ महामैत्री {भावयितव्या}। महाकरुणा {भावयितव्या}। महामुदिता {भावयितव्या}। महोपेक्षा
०२१०५ {भावयितव्या}॥ [इत्यध्याशयसहगतो नवचन्द्रोपमः॥]
०२१०६ सर्वज्ञतां ज्ञानेन दर्शनेन चावलोक्यातिक्रमितुकामेन बोधिसत्त्वेन
०२१०७ महासत्त्वेन प्रज्ञापारमिता भावयितव्या। मार्गज्ञतां परिपूरयितुकामेन
०२१०८ सर्वाकारज्ञतामनुप्राप्तुकामेन सर्वसत्त्वचित्तचरितज्ञानाकारतां परि-
०२१०९ पूरयितुकामेन सर्ववासनानुसन्धिक्लेशानुत्पाटयितुकामेन बोधिसत्त्वेन
०२११० महासत्त्वेन प्रज्ञापारमितायां योगः करणीयः। एवं बोधिसत्त्वेन महा-
०२१११ सत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्। बोधिसत्त्वन्यामभवक्रमितुकामेन
०२११२ श्रावकप्रत्येकबुद्धभूमिमतिक्रमितुकामेन अविनिवर्तनीयभूमौ स्थातुकामेन
०२११३ कुमारभूमिं समतिक्रमितुकामेन षडभिज्ञाः प्राप्तुकामेन सर्वसत्त्वचित्त-
०२११४ चरितविस्पन्दितानि विज्ञातुकामेन सर्वश्रावकप्रत्येकबुद्धानां ज्ञान-
०२११५ मभिभवितुकामेन धारणीसमाधिसुखं प्रतिलब्धुकामेन् । [इति प्रयोग-
०२११६ सहगतो ज्वलनोपमः॥]
०२११७ मत्सरिणः सत्त्वान् दाने प्रतिष्ठापयितुकामेन सर्वश्रावकप्रत्येक-
०२११८ बुद्धेभ्यो दानानि दीयमानानि एकेनानुमोदनासहगतेन चित्तोत्पादेना-
०२११९ भिभवितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्॥
०२१२० [इति दानपारमितासहगतो महानिधानोपमः॥]

०२२०१ दुःशीलान् शीले {प्रतिष्ठापयितुकामेन सर्वश्रावकप्रत्येकबुद्धानाम्} शीलम् {एकेनानुमोदनासहगतेन चित्तोत्पादेनाभिभवितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}॥ [इति शीलपारमिता-
०२२०२ सहगतो रत्नाकरोपमः।]
०२२०३ व्यापन्नचित्तान् क्षान्तौ {प्रतिष्ठापयितुकामेन सर्वश्रावकप्रत्येकबुद्धानाम्} क्षान्तिम् {एकेनानुमोदनासहगतेन चित्तोत्पादेनाभिभवितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}॥ [इति क्षान्तिसह-
०२२०४ गतो महार्णवोपमः।]
०२२०५ कुशीदान् वीर्ये {प्रतिष्ठापयितुकामेन सर्वश्रावकप्रत्येकबुद्धानाम्} वीर्यम् {एकेनानुमोदनासहगतेन चित्तोत्पादेनाभिभवितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}॥ [इति वीर्यसहगतो
०२२०६ वज्रोपमः।]
०२२०७ विक्षिप्तचित्तान् ध्याने {प्रतिष्ठापयितुकामेन सर्वश्रावकप्रत्येकबुद्धानाम्} ध्यानम् {एकेनानुमोदनासहगतेन चित्तोत्पादेनाभिभवितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}॥ [इति ध्यानपारमिता-
०२२०८ सहगतः पर्वतोपमः।
०२२०९ दुष्प्रज्ञान् सत्त्वान् प्रज्ञायां {प्रतिष्ठापयितुकामेन सर्वश्रावकप्रत्येकबुद्धानाम्} प्रज्ञाम् {एकेनानुमोदनासहगतेन चित्तोत्पादेनाभिभवितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}॥ [इति प्रज्ञासहगतो
०२२१० महाभैषज्योपमः।
०२२११ एकमपि कुशलचित्तोत्पादं सर्वाकारज्ञतायामुपादाय कौशल्येन
०२२१२ परिणामनयाऽप्रमेयमसंख्येयं कर्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञा-
०२२१३ पारमितायां शिक्षितव्यम्। अल्पमपि दानं ददता अल्पमपि शीलं
०२२१४ रक्षता अल्पामपि क्षान्तिं भावयता अल्पमपि वीर्यमारभमाणेन
०२२१५ अल्पमपि ध्यानं समापद्यमानेनाल्पामपि प्रज्ञां भावयता सर्वसत्त्वेभ्यः
०२२१६ सर्वाकारज्ञतायामुपादाय कौशल्येन परिणामनयाऽप्रमेयमसंख्येयं कर्तु-
०२२१७ कामेन बोधिसत्त्वेन {महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}। पुनरपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन
०२२१८ दानपारमितायां चरता प्रज्ञापारमितायां शिक्षितव्यम्। एवं शील-
०२२१९ पारमितायाञ्चरता क्षान्तिपारमितायाञ्चरता वीर्यपारमितायाञ्चरता
०२२२० ध्यानपारमितायाञ्चरता प्रज्ञापारमितायाञ्चरता बोधिसत्त्वेन {महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}। सर्व-

०२३०१ सत्त्वानामर्थाय नरकतिर्यग्योनियमलोकदुःखान्युत्सोढुकामेन कल्प-
०२३०२ शतसहस्रसञ्चितमपि शीलं सत्त्वापेक्षया त्यक्तुकामेन बुद्धकुले उपपत्तु-
०२३०३ कामेन अशीत्यनुव्यञ्जनानि द्वात्रिंशत्महापुरुषलक्षणानि च निष्पादयितु-
०२३०४ कामेन बोधिसत्त्वेन {महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}॥ [इत्युपायसहगतो मित्रोपमः॥]
०२३०५ पुनरपरं शारिपुत्र बुद्धकायं निष्पादयितुकामेन बोधिसत्त्वेन {महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}।
०२३०६ कुमारभूमिमाक्रमितुकामेन बोधिसत्त्वेन {महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}। बुद्धबोधिसत्त्वैरविरहितेन
०२३०७ भवितुकामेन बोधिसत्त्वेन {महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}।
०२३०८ पुनरपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन एकेन स्वरेन पूर्वस्यां दिशि
०२३०९ गङ्गानदीवालुकोपमान् लोकधातून् विज्ञापयितुकामेन प्रज्ञापारमितायां
०२३१० शिक्षितव्यम्। एवं दक्षिणस्यां पश्चिमायामुत्तरस्यां विदिक्षु अध ऊर्ध्व-
०२३११ मेकेन स्वरेण गङ्गानदीवालुकोपमान् लोकधातून् विज्ञापयितुकामेन
०२३१२ प्रज्ञापारमितायां शिक्षितव्यम्।
०२३१३ पुनरपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन त्रिरत्नवंशस्यानुपच्छेदाय
०२३१४ स्थातुकामेन प्रज्ञापारमितायां शिक्षितव्यम्।
०२३१५ पुनरपरं शारिपुत्र बोधिसत्त्वो महासत्त्वो यैः यैः कुशलमूलै-
०२३१६ राकाङ्क्षति तथागतानर्हतः सम्यक्संबुद्धान् सत्कर्तुं गुरूकर्तुं मानयितुं
०२३१७ पूजयितुं तानि तानि मे कुशलमूलानि समृध्यन्तामिति बोधिसत्त्वेन
०२३१८ {महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}॥ [इति प्रणिधिसहगतश्चिन्तामणिसदृशः॥]
०२३१९ पुनरपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वानां मनोरथान्
०२३२० परिपूरयितुकामेन अन्नपानवस्त्रगन्धमाल्यपुष्पधूपचूर्णविलेपनशयनासन-
०२३२१ गृहधनधान्यालङ्काररत्नमणिमुक्तावैदुर्यशङ्खशिलाप्रवाडजातरूपरजतो-
०२३२२ द्यानराज्यादिभिरुपकरणैः प्रज्ञापारमितायां शिक्षितव्यम्।

०२४०१ पुनरपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन धर्मधातुपरमे लोके
०२४०२ आकाशधातुपर्यवसाने सर्वसत्त्वान् दानपारमितायां प्रतिष्ठापयितुकामेन
०२४०३ शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपार-
०२४०४ मितायां प्रज्ञापारमितायां प्रतिष्ट्ःापयितुकामेन प्रज्ञापारमितायां
०२४०५ शिक्षितव्यम्। पुनरपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन एकमपि
०२४०६ कुशलचित्तोत्पादमक्षयं कर्तुकामेन यावद्बोधिमण्डाभिसंबोधेरिति
०२४०७ प्रज्ञापारमितायां शिक्षितव्यम्। पुनरपरं शारिपुत्र ये दशसु दिक्षु
०२४०८ बुद्धा भगवन्तस्ते मे वर्णं भाषेरन्निति बोधिसत्त्वेन {महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}॥ [इति बल-
०२४०९ सहगत आदित्योपमः॥]
०२४१० पुनरपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन अध्यात्मशून्यतायां
०२४११ शिक्षितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्। एवं बहिर्धाशून्यताया-
०२४१२ मध्यात्मबहिर्धाशून्यतायां शून्यताशून्यतायां महाशून्यतायां परमार्थ-
०२४१३ शून्यतायां संस्कृतशून्यतायामत्यन्तशून्यतायामनवराग्रशून्यतायामन-
०२४१४ वकारशून्यतायां प्रकृतिशून्यतायां सर्वधर्मशून्यतायां स्वलक्षणशून्यताया-
०२४१५ मनुपलम्भशून्यतायामभावस्वभावशून्यतायां भावशून्यतायामभावशून्य-
०२४१६ तायां स्वभावशून्यतायां परभावशून्यतायां शिक्ष्तुकामेन बोधि-
०२४१७ सत्त्वेन {महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}।
०२४१८ पुनरपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन सर्वधर्मतथतामवबोद्धु-
०२४१९ कामेन प्रज्ञापारमितायां शिक्षितव्यम्। एवं धर्मधातुतथतामवबोद्धु-
०२४२० कामेन बोधिसत्त्वेन {महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}। सर्वभूतकोटीतथतामवबोद्धुकामेन बोधि-
०२४२१ सत्त्वेन {महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}।

०२५०१ पुनरपरं शारिपुत्र त्रिसाहस्रमहासाहस्रलोकधातौ ये पृथिव्यप्ते-
०२५०२ जोवायुपरमाणवस्तान् ज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञा-
०२५०३ पारमितायां शिक्षितव्यम्।
०२५०४ पुनरपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां
०२५०५ चरञ्जानाति एवं दानं दत्तं महाफलं भवति। एवं दानं दत्तं क्षत्रिय-
०२५०६ महाशालकुलेषूपपादयति। ब्राह्मनमहाशालकुलेषूप{पादयति}। गृहपति-
०२५०७ महाशालकुलेषूप{पादयति}। एवं {दानं दत्तं} चातुर्महाराजकायिकेषु देवेषूप{पादयति}। एवं {दानं दत्तं}
०२५०८ त्रयस्त्रिंशेषु देवेषूप{पादयति}। एवं {दानं दत्तं} यामेषूप{पादयति}। एवं {दानं दत्तं} तुषितेषूप{पादयति}। एवं {दानं दत्तं}
०२५०९ निर्माणरतिषूप{पादयति}। एवं {दानं दत्तं} परनिर्मितवशवर्तिषु देवेषूप{पादयति}। एवं {दानं दत्तं} प्रथमध्यान-
०२५१० प्रतिलम्भाय संवर्तत् एवं {दानं दत्तं} द्वितीयध्यानप्रति{लम्भाय संवर्तते}। एवं {दानं दत्तं} तृतीयध्यान-
०२५११ प्रति{लम्भाय संवर्तते}। एवं {दानं दत्तं} चतुर्थध्यानप्रति{लम्भाय संवर्तते}। एवं {दानं दत्तं} आकाशानन्त्यायतनसमापत्ति-
०२५१२ प्रति{लम्भाय संवर्तते}। एवं {दानं दत्तं} विज्ञानानन्त्यायतनसमापत्तिप्रति{लम्भाय संवर्तते}। एवं {दानं दत्तं} आकिञ्च-
०२५१३ न्यायतनसमापत्तिप्रति{लम्भाय संवर्तते}। एवं {दानं दत्तं} नैवसंज्ञानासंज्ञायतनसमापत्तिप्रति{लम्भाय संवरत्ते}।
०२५१४ एवं {दानं दत्तम्} सप्तत्रिंशद्बोधिपक्षाणां धर्माणां प्रति{लम्भाय संवर्तते}। एवं {दानं दत्तं} स्रोतआपत्तिफल-
०२५१५ प्रति{लम्भाय संवर्तते}। एवं {दानं दत्तं} सकृदागामिफलप्रति{लम्भाय संवर्तते}। एवं {दानं दत्तम्} अनागामिफलप्रति{लम्भाय संवर्तते}।
०२५१६ एवं {दानं दत्तम्} अर्हत्फलप्रति{लम्भाय संवर्तते}। एवं {दानं दत्तं} प्रत्येकबुद्धत्वप्रति{लम्भाय संवर्तते}। एवं सम्यक्सं-
०२५१७ बुद्धत्वप्रति{लम्भाय संवर्तते}।
०२५१८ पुनरपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायाञ्चरता
०२५१९ ज्ञातव्यमेवमुपायकौशलेन दानं दत्तं दानपारमितां परिपूरयति। एवं
०२५२० दानं दत्तं शील{पारमितां परिपूरयति}। एवं {दानं दत्तं} क्षान्ति{पारमितां परिपूरयति}। एवं {दानं दत्तं} वीर्य{पारमितां परिपूरयति}। एवं {दानं दत्तं}
०२५२१ ध्यान{पारमितां परिपूरयति}। एवं {दानं दत्तं} प्रज्ञा{पारमितां परिपूरयति}।

०२६०१ एवमुक्ते आयुष्मान् शारिपुत्रो भगवन्तमेतदचोवत् । कथं भगवन्
०२६०२ बोधिसत्त्वेन महासत्त्वेन दानं ददता दानपारमिता परिपूरिता
०२६०३ भवति। कथं {दानं ददता} शील{पारमिता परिपूरिता भवति}। कथं {दानं ददता} क्षान्ति{पारमिता परिपूरिता भवति}। कथं {दानं ददता} वीर्य-
०२६०४ {पारमिता परिपूरिता भवति}। कथं {दानं ददता} ध्यान{पारमिता परिपूरिता भवति}। कथं भगवन् बोधिसत्त्वेन दानं ददता
०२६०५ प्रज्ञा{पारमिता परिपूरिता भवति}।
०२६०६ भगवानाह् अनुपलम्भेन देयस्य दायकस्य ग्राहकस्य च दानपार-
०२६०७ मिता परिपूरिता भवति। आपत्त्यनापत्त्यनध्यापत्तितः शील{पारमिता परिपूरिता भवति}।
०२६०८ अक्षोभानभिक्षोभणतः क्षान्ति{पारमिता परिपूरिता भवति}। कायिकचैतसिकवीर्यास्रंसनतो
०२६०९ वीर्य{पारमिता परिपूरिता भवति}। अविक्षेपासंकल्पनतामुपादाय ध्यान{पारमिता परिपूरिता भवति}। सर्वधर्म-
०२६१० प्रजाननानुपलम्भयोगेन प्रज्ञा{पारमिता परिपूरिता भवति}। एवं बोधिसत्त्वेन महासत्त्वेन
०२६११ दानं ददता षट्पारमिताः परिपूरिता भवन्ति। एवं शीलपारमितायां
०२६१२ सर्वाः षट्पारमिताः परिपूर्यन्त् एवं क्षान्तिपारमितायां सर्वाः

०२७०१ षट्पारमिताः परिपूर्यन्ते एवं वीर्यपारमितायां सर्वाः {षट्पारमिताः परिपूर्यन्ते} एवं ध्यान-
०२७०२ पारमितायां सर्वाः {षट्पारमिताः परिपूर्यन्ते} एवं प्रज्ञापारमितायां सर्वाः {षट्पारमिताः परिपूर्यन्ते}॥ [इति ज्ञान-
०२७०३ सहगतो मधुरसङ्गीतिभाषोपमः॥]
०२७०४ पुनरपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन एकचित्तोत्पादेन पूर्वस्यां
०२७०५ दिशि गङ्गानदीवालुकोपमान् लोकधातून् समतिक्रमितुकामेन एवं
०२७०६ दक्षिणस्यां पश्चिमायामुत्तरस्यां विदिक्ष्वध ऊर्ध्वं दिग्भागे गङ्गानदीवालु-
०२७०७ कोपमान् लोकधातून् समतिक्रमितुकामेन बोधिसत्त्वेन {महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}। पुनरपरं
०२७०८ शारिपुत्र त्रिसाहस्रमहासाहस्रलोकधातौ यो महासमुद्रेष्वप्यप्स्कन्धो
०२७०९ महानदीषु कुनदीषूत्ससरस्तडागेषु पल्वलेषु तं सर्वं शतधा भिन्नया
०२७१० बालाग्रकोट्याभ्युत्क्षेप्तुकामेन च तन्निश्रितान् प्राणिनो विहेठयितु-
०२७११ कामेन बोधिसत्त्वेन {महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}।
०२७१२ पुनरपरं शारिपुत्र त्रिसाहस्रमहासाहस्रं लोकधातुं कल्पोद्दाहाग्नि-
०२७१३ प्रदीप्तमेकेन मुखवातेन प्रशमयितुकामेन बोधिसत्त्वेन {महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}। पुनर-
०२७१४ परं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन या विक्षोभणा वातमण्डली-
०२७१५ वातसंवर्त्तन्यां वर्त्तमानायां यावत्सुमेरुमहासुमेरुचक्रवाडमहाचक्र-
०२७१६ वाडानुपादाय सर्वपर्वतान् सर्वमहापृथिवीं विधुनोति विकिरति
०२७१७ निर्मषीकरोति तां विक्षोभणावातमण्डलीमेकेनाङ्गुलिपर्वाग्रेणा-
०२७१८ च्छादयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्।

०२८०१ पुनरप्रं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} त्रिसाहस्रमहासाहस्रे लोकधातौ यावानाकाशधातुस्तं
०२८०२ सर्वमेकेन पर्यङ्केन स्फारितुकामेन {प्रज्ञापारमितायां शिक्षितव्यम्}। पुनरपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} त्रिसाहस्र-
०२८०३ महासाहस्रे लोकधातौ ये सुमेरुमहासुमेरुचक्रवाडमहाचक्रवाडादयः
०२८०४ पर्वतास्तानेकेन बालेन बद्ध्वा असंख्येयानप्रमाणान् लोकधातून् समति-
०२८०५ क्रामयेयं क्षिपेयमिति {प्रज्ञापारमितायां शिक्षितव्यम्}।
०२८०६ पुनरपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} दशसु दिक्षु प्रत्येकं सर्वबुद्धक्षेत्रेषु बुद्धान् भगवतो
०२८०७ दिव्येन चक्षुषा द्रष्टुकामेन तेषाञ्च धर्मदेशनां दिव्येन श्रोत्रेण श्रोतुकामेन
०२८०८ सर्वसत्त्वचित्तचरितानि च ज्ञातुकामेन तेषां पूर्वनिवासमनुस्मर्तुकामेन
०२८०९ आस्रवक्षयज्ञानाभिज्ञामभिनिर्हर्तुकामेन च भूतकोटिं साक्षात्कर्तु-
०२८१० कामेन {प्रज्ञापारमितायां शिक्षितव्यम्}॥ [इति अभिज्ञासहगतो महाराजोपमः॥]
०२८११ पुनरपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} दशसु दिक्षु प्रत्येकं यावन्तो गङ्गानदीवालुकोपमेषु
०२८१२ लोकधातुषु बुद्धा भगवन्तः सश्रावकबोधिसत्त्वसंघास्तानेकेन पिण्ड-
०२८१३ पात्रेण प्रतिपादयितुकामेन {प्रज्ञापारमितायां शिक्षितव्यम्}। एवं पुष्पधूपगन्धमाल्यविलेपन-
०२८१४ चूर्णचीवरच्छत्रध्वजपताकामेघैस्तांस्तथागतानर्हतः सम्यक्संबुद्धान् सत्-
०२८१५ कर्तुकामेन गुरूकर्तुकामेन मानयितुकामेन पूजयितुकामेन {प्रज्ञापारमितायां शिक्षितव्यं}
०२८१६ पुनरपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लकधातुषु ये
०२८१७ सत्त्वास्तान् शीलस्खन्धे {प्रतिष्ठापयितुकामेन} समाधिस्कन्धे {प्रतिष्ठापयितुकामेन} विमुक्तिज्ञान-
०२८१८ दर्शनस्कन्धे {प्रतिष्ठापयितुकामेन} स्रोतआपत्तिफले {प्रतिष्ठापयितुकामेन} सकृदागामिफले {प्रतिष्ठापयितुकामेन} अना-
०२८१९ गामिफले {प्रतिष्ठापयितुकामेन} अर्हत्त्वे {प्रतिष्ठापयितुकामेन} प्रत्येकबोधौ {प्रतिष्ठापयितुकामेन} यावदनुपधिशेष-
०२८२० निर्वाणधातौ {प्रतिष्ठापयितुकामेन} प्रज्ञापारमितायां शिक्षितव्यम्। यथा पूर्वस्यां दिशि
०२८२१ एवं दक्षिणस्यां पश्चिमायामुत्तरस्यां वदिक्ष्वध ऊर्ध्वं प्रत्येकं गङ्गानदी-

०२९०१ वालुकोपमेषु लोकधातुषु ये सत्त्वास्तान् यावदनुपधिशेषनिर्वाणधाअतौ
०२९०२ {प्रतिष्ठापयितुकामेन} बोधिसत्त्वेन माहासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्॥
०२९०३ [इति पुण्यज्ञानसहगतः कोष्ठागारोपमः॥]
०२९०४ पुनरपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} अतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां बुद्धगुणा-
०२९०५ ननुप्राप्तुकामेन {प्रज्ञापारमितायां शिक्षितव्यम्}। पुनरपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} संस्कृतासंस्कृतानां धर्माणां पारं
०२९०६ गन्तुकामेन {प्रज्ञापारमितायां शिक्षितव्यम्}। पुनरपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} सर्वधर्माणामतीतानागतप्रत्युत्पन्नानां
०२९०७ तथागतानामवबोद्धुकामेन धर्माणामनुत्पादकोटिमनुप्राप्तुकामेन
०२९०८ {प्रज्ञापारमितायां शिक्षितव्यम्।}॥ [इति बोधिपक्षसहगतो महामार्गोपमः॥]
०२९०९ पुनरपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} सर्वश्रावकप्रत्येकबुद्धानां पूर्वङ्गमेन भवितुकामेन
०२९१० {प्रज्ञापारमितायां शिक्षितव्यम्}। पुनरपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} बुद्धानां भगवतामुपस्थापकेन भवितुकामेन
०२९११ {प्रज्ञापारमितायां शिक्षितव्यम्}। पुनरपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} बुद्धानां भगवतामभ्यन्तरपरिवारेण भवितुकामेन
०२९१२ {प्रज्ञापारमितायां शिक्षितव्यम्}। पुनरपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} महापरिवारेण भवितुकामेन बोधिसत्त्वपरिवारं
०२९१३ प्रतिलब्धुकामेन {प्रज्ञापारमितायां शिक्षितव्यम्}। पुनरपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} दक्षिणां परिशोधयितुकाअमेन
०२९१४ {प्रज्ञापारमितायां शिक्षितव्यम्}। पुनरपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} मात्सर्यचित्तं निग्रहीतुकामेन {प्रज्ञापारमितायां शिक्षितव्यम्}। पुनरपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन}
०२९१५ दौःशील्यचित्तमनुत्पादयितुकामेन {प्रज्ञापारमितायां शिक्षितव्यम्}। पुनरपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} व्यापादचित्त-
०२९१६ मनुत्पादयितुकामेन {प्रज्ञापारमितायां शिक्षितव्यम्}। पुनरपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} कौशीद्यचित्तमुत्स्रष्टकामेन
०२९१७ {प्रज्ञापारमितायां शिक्षितव्यम्}। पुनरपरं {शारिप्तुर बोधिसत्त्वेन महासत्त्वेन} विक्षिप्तचित्तं निश्चितुकामेन {प्रज्ञापारमितायां शिक्षितव्यम्}। पुनरपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन}
०२९१८ दौष्प्रज्ञचित्तमप्रपञ्चितुकामेन {प्रज्ञापारमितायां शिक्षितव्यम्}। पुनरपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} सर्वसत्त्वान् दानमय-
०२९१९ पुण्यक्रियावस्तुनि प्रतिष्ठापयितुकामेन शीलमयपुण्यक्रियावस्तुनि

०३००१ {प्रतिष्ठापयितुकामेन} भावनामयपुण्यक्रियावस्तुनि {प्रतिष्ठापयितुकामेन} वैयावृत्यसहगते चौपधिके
०३००२ पुण्यक्रियावस्तुनि {प्रतिष्ठापयितुकामेन} {प्रज्ञापारमितायां शिक्षितव्यम्}।
०३००३ पुनरपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} पञ्च चक्षूंष्युत्पादयितुकामेन {प्रज्ञापारमितायां शिक्षितव्यम्}। कतमानि पञ्च
०३००४ यदुत मांसचक्षुर्दिव्यचक्षुः प्रज्ञाचक्षुर्धर्मचक्षुर्बुद्धचक्षुरुत्पादयितुकामेन
०३००५ {प्रज्ञापारमितायां शिक्षितव्यम्}।
०३००६ पुनरपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} पूर्वस्यां दिशि दिव्येन चक्षुषा गङ्गानदीवालुकोपमान्
०३००७ भगवतो द्रष्टुकामेन {प्रज्ञापारमितायां शिक्षितव्यम्}। एवं दक्षीणस्यां दिशि दिव्येन चक्षुषा
०३००८ गङ्गानदीवालुकोपमान् बुद्धान् भगवतो द्रष्टुकामेन {प्रज्ञापारमितायां शिक्षितव्यं}
०३००९ एवं पश्चिमायां दिशि दिव्येन चक्षुषा गङ्गानदीवालुकोपमान् बुद्धान् भगवतो द्रष्टुकामेन प्रज्ञापारमितायां शिक्षितव्यं। एवमुत्तरस्यां दिशि दिव्येन चक्षुषा गङ्गानदीवालुकोपमान् बुद्धान् भगवतो द्रष्टुकामेन प्रज्ञापारमितायां शिक्षितव्यं। एवमुत्तरपूर्वस्यां दिशि दिव्येन चक्षुषा गङ्गानदीवालुकोपमान् बुद्धान् भगवतो द्रष्टुकामेन प्रज्ञापारमितायां शिक्षितव्यं। एवं पूर्वदक्षिणस्यां दिशि दिव्येन चक्षुषा गङ्गानदीवालुकोपमान् बुद्धान् भगवतो द्रष्टुकामेन प्रज्ञापारमितायां शिक्षितव्यं। एवं दक्षिणपश्चिमायां दिशि दिव्येन चक्षुषा गङ्गानदीवालुकोपमान् बुद्धान् भगवतो द्रष्टुकामेन प्रज्ञापारमितायां शिक्षितव्यं। एवं पश्चिमोत्तरस्यां दिशि दिव्येन चक्षुषा गङ्गानदीवालुकोपमान् बुद्धान् भगवतो द्रष्टुकामेन प्रज्ञापारमितायां शिक्षितव्यं। एवमधस्ताद्दिशि दिव्येन चक्षुषा गङ्गानदीवालुकोपमान् बुद्धान् भगवतो द्रष्टुकामेन प्रज्ञापारमितायां शिक्षितव्यं। एवमुपरिष्टाद्दिशि दिव्येन चक्षुषा गङ्गानदीवालुकोपमान् बुद्धान् भगवतो द्रष्टुकामेन प्रज्ञापारमितायां शिक्षितव्यं।
०३०१० यांश्च ते बुद्धानां बह्गवन्तो धर्मान् भाषन्ते तान् धर्मान् दिव्येन
०३०११ श्रोत्रेण श्रोतुकामेन तेषाञ्च बुद्धानां भगवतं चेतसैव चित्तं यथाभूतं
०३०१२ परिज्ञातुकामेन तेषां बुद्धानां भगवतां पूर्वयोगसहगतां बोधिसत्त्वता-
०३०१३ मनुस्मर्तुकामेन तेषाञ्च बुद्धानामृद्धिविकुर्वितं द्रष्टुकामेन {प्रज्ञापारमितायां शिक्षितव्यम्}।
०३०१४ पुनरपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} यांस्ते बुद्धा भगवन्तः समन्ताद्दशसु दिक्षु सर्वलोकधातुषु
०३०१५ धर्मान् भाषन्ते ताञ्श्रुत्वा अनाच्छेद्येन स्मृतिबलाधानेन सर्वान्
०३०१६ सन्धारयितुकामेन यावदनुत्तरां सम्यक्संबोधिमभिसंबुद्ध इति {प्रज्ञापारमितायां शिक्षितव्यम्}।
०३०१७ पुनरपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} अतीतानां बुद्धानां भगवतां बुद्धक्षेत्राणि द्रष्तुकामेन
०३०१८ अनागतानामपि बुद्धानां भगवतां बुद्धक्षेत्राणि द्रष्टुकामेन {प्रज्ञापारमितायां शिक्षितव्यम्}। ये

०३१०१ चैतर्हि समन्ताद्दशदिशि लोके बुद्धा भगवन्तस्तिष्ठन्ति ध्रियन्ते
०३१०२ यापयन्ति तेषामपि बुद्धानां भगवतां बुद्धक्षेत्राणि द्रष्टुकामेन {प्रज्ञापारमितायां शिक्षितव्यम्}॥
०३१०३ [इति शमथविपश्यनासहगतो यानोपमः॥]
०३१०४ पुनरपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} यत्किञ्चिद्दशसु दिक्षु बुद्धैर्भगवद्भिर्भाषितं भाष्यते
०३१०५ भाषिष्यते च यदिदं सूत्रं गेयं व्याकरणं गाथा उदानं निदानमितिवृत्तकं
०३१०६ जातकं वैपुल्याद्भुता धर्मा अवदानमुपदेशाः यच्च श्रावकैर्न श्रुतं तत्सर्व-
०३१०७ मुद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन तथत्वाय प्रतिपत्तु-
०३१०८ कामेन परेभ्यश्च विस्तरेण सम्प्रकाशयितुकामेन {प्रज्ञापारमितायां शिक्षितव्यम्}। पुनरपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन}
०३१०९ यत्किञ्चित्पूर्वस्यां दिशि बुद्धैर्भगवद्भिर्भाषितं भाष्यते भाषिष्यते च
०३११० तत्सर्वमुद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन तथत्वाय
०३१११ प्रतिपत्तुकामेन परेभ्यश्च विस्तरेण संप्रकाशयितुकामेन {प्रज्ञापारमितायां शिक्षितव्यम्}। यत्
०३११२ किञ्चिद्दक्षिणस्यां दिशि बुद्धैर्भगवद्भिर्भाषितं भाष्यते भाषिष्यते च तत्सर्वमुद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन तथत्वाय प्रतिपत्तुकामेन परेभ्यश्च विस्तरेण संप्रकाशयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्। यत्किञ्चिद्पश्चिमायां दिशि बुद्धैर्भगवद्भिर्भाषितं भाष्यते भाषिष्यते च तत्सर्वमुद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन तथत्वाय प्रतिपत्तुकामेन परेभ्यश्च विस्तरेण संप्रकाशयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्। यत्किञ्चिदुत्तरस्यां दिशि बुद्धैर्भगवद्भिर्भाषितं भाष्यते भाषिष्यते च तत्सर्वमुद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन तथत्वाय प्रतिपत्तुकामेन परेभ्यश्च विस्तरेण संप्रकाशयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्। यत्किञ्चिदुत्तरपूर्वस्यां दिशि बुद्धैर्भगवद्भिर्भाषितं भाष्यते भाषिष्यते च तत्सर्वमुद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन तथत्वाय प्रतिपत्तुकामेन परेभ्यश्च विस्तरेण संप्रकाशयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्। यत्किञ्चिद्पूर्वदक्षिणस्यां दिशि बुद्धैर्भगवद्भिर्भाषितं भाष्यते भाषिष्यते च तत्सर्वमुद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन तथत्वाय प्रतिपत्तुकामेन परेभ्यश्च विस्तरेण संप्रकाशयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्। यत्किञ्चिद्दक्षिणपश्चिमायां दिशि बुद्धैर्भगवद्भिर्भाषितं भाष्यते भाषिष्यते च तत्सर्वमुद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन तथत्वाय प्रतिपत्तुकामेन परेभ्यश्च विस्तरेण संप्रकाशयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्। यत्किञ्चिद्पश्चिमोत्तरस्यां दिशि बुद्धैर्भगवद्भिर्
भाषितं भाष्यते भाषिष्यते च तत्सर्वमुद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन तथत्वाय प्रतिपत्तुकामेन परेभ्यश्च विस्तरेण संप्रकाशयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्। यत्किञ्चिदधस्ताद्दिशि बुद्धैर्भगवद्भिर्भाषितं भाष्यते भाषिष्यते च तत्सर्वमुद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन तथत्वाय प्रतिपत्तुकामेन परेभ्यश्च विस्तरेण संप्रकाशयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्।
०३११३ यत्किञ्चिदूर्ध्वं दिशि बुद्धैर्भगवद्भिर्भाषितं भाष्यते भाषिष्यते च तत्सर्वमुद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन तथत्वाय प्रतिपत्तुकामेन परेभ्यश्च विस्तरेण संप्रकाशयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्॥ [इति धारणीप्रतिभानसहगतः
०३११४ प्रस्नवणोपमः॥]
०३११५ पुनरपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} यानि पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोक-
०३११६ धातुषु अन्धकारतमिस्राणि यत्र सूर्याचन्द्रमसोरपि प्रभाया गतिर्नास्ति
०३११७ तानि सर्वाण्यवभासयितुकामेन {प्रज्ञापारमितायां शिक्षितव्यम्}। यानि दक्षिणस्यां दिशि
०३११८ गङ्गानदीवालुकोपमेषु लोकधातुषु अन्धकारतमिस्राणि यत्र सूर्याचन्द्रमसोरपि प्रभाया गतिर्नास्ति तानि सर्वाण्यवभासयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्। यानि पश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु अन्धकारतमिस्राणि यत्र सूर्याचन्द्रमसोरपि प्रभाया गतिर्नास्ति तानि सर्वाण्यवभासयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्। यानि उत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु अन्धकारतमिस्राणि यत्र सूर्याचन्द्रमसोरपि प्रभाया गतिर्नास्ति तानि सर्वाण्यवभासयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्। यानि उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु अन्धकारतमिस्राणि यत्र सूर्याचन्द्रमसोरपि प्रभाया गतिर्नास्ति तानि सर्वाण्यवभासयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्। यानि पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु अन्धकारतमिस्राणि यत्र सूर्याचन्द्रमसोरपि प्रभाया गतिर्नास्ति तानि सर्वाण्यवभासयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्। यानि दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु अन्धकारतमिस्राणि यत्र सूर्याचन्द्रमसोरपि प्रभाया गतिर्नास्ति तानि सर्वाण्यवभासयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्। यानि पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु अन्धकारतमिस्राणि यत्र सूर्याचन्द्रमसोरपि प्रभाया गतिर्नास्ति तानि सर्वाण्यवभासयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्। यानि अधस्ताद्दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु अन्धकारतमिस्राणि यत्र सूर्याचन्द्रमसोरपि प्रभाया गतिर्नास्ति तानि सर्वाण्यवभासयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्।
०३११९ यानि उपरिष्टाद्दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु अन्धकारतमिस्राणि यत्र सूर्याचन्द्रमसोरपि प्रभाया गतिर्नास्ति तानि सर्वाण्यवभासयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्। पुनरपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} ये पूर्वस्यां दिशि गङ्गानदीवालुको-
०३१२० पमेषु लोकधातुषु सत्त्वा नानाबुद्धक्षेत्रेषूपपन्नास्तान् सर्वान् बुद्धशब्दं
०३१२१ धर्मशब्दं सङ्घशब्दं संश्रावयितुकामेन ताम्श्च सत्त्वान् सम्यग्दृष्ट्यां

०३२०१ प्रतिष्ठापयितुकामेन {प्रज्ञापारमितायां शिक्षितव्यम्}। ये दक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वा नानाबुद्धक्षेत्रेषूपपन्नास्तान् सर्वान् बुद्धशब्दं धर्मशब्दं सङ्घशब्दं संश्रावयितुकामेन ताम्श्च सत्त्वान् सम्यग्दृष्ट्यां प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्। ये पश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वा नानाबुद्धक्षेत्रेषूपपन्नास्तान् सर्वान् बुद्धशब्दं धर्मशब्दं सङ्घशब्दं संश्रावयितुकामेन ताम्श्च सत्त्वान् सम्यग्दृष्ट्यां प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्। ये उत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वा नानाबुद्धक्षेत्रेषूपपन्नास्तान् सर्वान् बुद्धशब्दं धर्मशब्दं सङ्घशब्दं संश्रावयितुकामेन ताम्श्च सत्त्वान् सम्यग्दृष्ट्यां प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्। ये उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वा नानाबुद्धक्षेत्रेषूपपन्नास्तान् सर्वान् बुद्धशब्दं धर्मशब्दं सङ्घशब्दं संश्रावयितुकामेन ताम्श्च सत्त्वान् सम्यग्दृष्ट्यां प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्। ये पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वा नानाबुद्धक्षेत्रेषूपपन्नास्तान् सर्वान् बुद्धशब्दं धर्मशब्दं सङ्घशब्दं संश्रावयितुकामेन ताम्श्च सत्त्वान् सम्यग्दृष्ट्यां प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां
शिक्षितव्यम्। ये दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वा नानाबुद्धक्षेत्रेषूपपन्नास्तान् सर्वान् बुद्धशब्दं धर्मशब्दं सङ्घशब्दं संश्रावयितुकामेन ताम्श्च सत्त्वान् सम्यग्दृष्ट्यां प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्। ये पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वा नानाबुद्धक्षेत्रेषूपपन्नास्तान् सर्वान् बुद्धशब्दं धर्मशब्दं सङ्घशब्दं संश्रावयितुकामेन ताम्श्च सत्त्वान् सम्यग्दृष्ट्यां प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्। ये अधस्ताद्दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वा नानाबुद्धक्षेत्रेषूपपन्नास्तान् सर्वान् बुद्धशब्दं धर्मशब्दं सङ्घशब्दं संश्रावयितुकामेन ताम्श्च सत्त्वान् सम्यग्दृष्ट्यां प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्।
०३२०२ ये उपरिष्टाद्दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वा नानाबुद्धक्षेत्रेषूपपन्नास्तान् सर्वान् बुद्धशब्दं धर्मशब्दं सङ्घशब्दं संश्रावयितुकामेन ताम्श्च सत्त्वान् सम्यग्दृष्ट्यां प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम् ॥
०३२०३ [इति धर्मोद्दानसहगत आनन्दशब्दोपमः।]
०३२०४ पुनरपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} ये पूर्वस्यां दिशि गङ्गादनीवालुकोपमेषु लोकदातुषु
०३२०५ सर्वबुद्धक्षेत्रेषु सत्त्वा अन्धास्ते ममानुभावेन चक्षुषा रूपाणि द्रक्ष्यनीति
०३२०६ {प्रज्ञापारमितायां शिक्षितव्यम्}। एवं वधिराः श्रोत्रेण शब्दान् श्रोष्यन्तीति उन्मत्ताः स्मृतिं
०३२०७ प्रतिलप्स्यन्ते इति नग्नाश्चैलानि प्रतिलप्स्यन्त इति जिघत्सिताः
०३२०८ सत्त्वाः पूर्णपात्रा भ्विष्यन्तीति अपायोपपन्नाश्च सत्त्वाः सर्वापायेभ्यो
०३२०९ विमोक्ष्यन्ते मनुष्यात्मभावञ्च प्रतिलप्स्यन्ते इति दुःशीलान् शीलस्कन्धे
०३२१० प्रतिष्ठापयिष्यामीति असमाहितान् समाधिस्कन्धे {प्रतिष्ठापयिष्यामीति} दुष्-
०३२११ प्रज्ञान् प्रज्ञास्कन्धे {प्रतिष्ठापयिष्यामीति} अविमुक्तान् विमुतिस्कन्धे {प्रतिष्ठापयिष्यामीति} अवि-
०३२१२ मुक्तिज्ञानदर्शनान् विमुक्तिज्ञानदर्शन्स्कन्धे {प्रतिष्ठापयिष्यामीति} अट्टष्टसत्यान् स्रोत-
०३२१३ आपत्तिफले {प्रतिष्ठापयिष्यामीति} सकृदागामिफले अनागामिफले अर्हत्त्वे {प्रतिष्ठापयिष्यामीति}
०३२१४ प्रत्येकबोधौ {प्रतिष्ठापयिष्यामीति} अनुत्तरायां सम्यक्संबोधौ {प्रतिष्ठापयिष्यामीति} बोधिसत्त्वेन
०३२१५ प्रज्ञापारमितायां शिक्षितव्यम्। ये दक्षिणस्यां दिशि गङ्गादनीवालुकोपमेषु लोकदातुषु सर्वबुद्धक्षेत्रेषु सत्त्वा अन्धास्ते ममानुभावेन चक्षुषा रूपाणि द्रक्ष्यनीति प्रज्ञापारमितायां शिक्षितव्यम्। एवं वधिराः श्रोत्रेण शब्दान् श्रोष्यन्तीति उन्मत्ताः स्मृतिं प्रतिलप्स्यन्ते इति नग्नाश्चैलानि प्रतिलप्स्यन्त इति जिघत्सिताः सत्त्वाः पूर्णपात्रा भ्विष्यन्तीति अपायोपपन्नाश्च सत्त्वाः सर्वापायेभ्यो विमोक्ष्यन्ते मनुष्यात्मभावञ्च प्रतिलप्स्यन्ते इति दुःशीलान् शीलस्कन्धे प्रतिष्ठापयिष्यामीति असमाहितान् समाधिस्कन्धे प्रतिष्ठापयिष्यामीति दुष्प्रज्ञान् प्रज्ञास्कन्धे प्रतिष्ठापयिष्यामीति अविमुक्तान् विमुतिस्कन्धे प्रतिष्ठापयिष्यामीति अविमुक्तिज्ञानदर्शनान् विमुक्तिज्ञानदर्शन्स्कन्धे प्रतिष्ठापयिष्यामीति अट्टष्टसत्यान् स्रोतआपत्तिफले प्रतिष्ठापयिष्यामीति सकृदागामिफले अनागामिफले अर्हत्त्वे प्रतिष्ठापयिष्यामीति प्रत्येकबोधौ प्रतिष्ठापयिष्यामीति अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामीति बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्। ये पश्चिमायां दिशि गङ्गादनीवालुकोपमेषु लोकदातुषु सर्वबुद्धक्षेत्रेषु सत्त्वा अन्धास्ते ममानुभावेन चक्षुषा रूपाणि द्रक्ष्यनीति प्रज्ञापारमितायां शिक्षितव्यम्। एवं वधिराः श्रोत्रेण शब्दान् श्रोष्यन्तीति उन्मत्ताः स्मृतिं प्रतिलप्स्यन्ते इति नग्नाश्चैलानि प्रतिलप्स्यन्त इति जिघत्सिताः सत्त्वाः पूर्णपात्रा भ्विष्यन्तीति अपायोपपन्नाश्च सत्त्वाः सर्वापायेभ्यो विमोक्ष्यन्ते मनुष्यात्मभावञ्च प्रतिलप्स्यन्ते इति दुःशीलान् शीलस्कन्धे
प्रतिष्ठापयिष्यामीति असमाहितान् समाधिस्कन्धे प्रतिष्ठापयिष्यामीति दुष्प्रज्ञान् प्रज्ञास्कन्धे प्रतिष्ठापयिष्यामीति अविमुक्तान् विमुतिस्कन्धे प्रतिष्ठापयिष्यामीति अविमुक्तिज्ञानदर्शनान् विमुक्तिज्ञानदर्शन्स्कन्धे प्रतिष्ठापयिष्यामीति अट्टष्टसत्यान् स्रोतआपत्तिफले प्रतिष्ठापयिष्यामीति सकृदागामिफले अनागामिफले अर्हत्त्वे प्रतिष्ठापयिष्यामीति प्रत्येकबोधौ प्रतिष्ठापयिष्यामीति अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामीति बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्। ये उत्तरस्यां दिशि गङ्गादनीवालुकोपमेषु लोकदातुषु सर्वबुद्धक्षेत्रेषु सत्त्वा अन्धास्ते ममानुभावेन चक्षुषा रूपाणि द्रक्ष्यनीति प्रज्ञापारमितायां शिक्षितव्यम्। एवं वधिराः श्रोत्रेण शब्दान् श्रोष्यन्तीति उन्मत्ताः स्मृतिं प्रतिलप्स्यन्ते इति नग्नाश्चैलानि प्रतिलप्स्यन्त इति जिघत्सिताः सत्त्वाः पूर्णपात्रा भ्विष्यन्तीति अपायोपपन्नाश्च सत्त्वाः सर्वापायेभ्यो विमोक्ष्यन्ते मनुष्यात्मभावञ्च प्रतिलप्स्यन्ते इति दुःशीलान् शीलस्कन्धे प्रतिष्ठापयिष्यामीति असमाहितान् समाधिस्कन्धे प्रतिष्ठापयिष्यामीति दुष्प्रज्ञान् प्रज्ञास्कन्धे प्रतिष्ठापयिष्यामीति अविमुक्तान् विमुतिस्कन्धे प्रतिष्ठापयिष्यामीति अविमुक्तिज्ञानदर्शनान् विमुक्तिज्ञानदर्शन्स्कन्धे प्रतिष्ठापयिष्यामीति अट्टष्टसत्यान् स्रोतआपत्तिफले प्रतिष्ठापयिष्यामीति सकृदागामिफले अनागामिफले अर्हत्त्वे प्रतिष्ठापयिष्यामीति प्रत्येकबोधौ प्रतिष्ठापयिष्यामीति अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामीति बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्। ये
उत्तरपूर्वस्यां दिशि गङ्गादनीवालुकोपमेषु लोकदातुषु सर्वबुद्धक्षेत्रेषु सत्त्वा अन्धास्ते ममानुभावेन चक्षुषा रूपाणि द्रक्ष्यनीति प्रज्ञापारमितायां शिक्षितव्यम्। एवं वधिराः श्रोत्रेण शब्दान् श्रोष्यन्तीति उन्मत्ताः स्मृतिं प्रतिलप्स्यन्ते इति नग्नाश्चैलानि प्रतिलप्स्यन्त इति जिघत्सिताः सत्त्वाः पूर्णपात्रा भ्विष्यन्तीति अपायोपपन्नाश्च सत्त्वाः सर्वापायेभ्यो विमोक्ष्यन्ते मनुष्यात्मभावञ्च प्रतिलप्स्यन्ते इति दुःशीलान् शीलस्कन्धे प्रतिष्ठापयिष्यामीति असमाहितान् समाधिस्कन्धे प्रतिष्ठापयिष्यामीति दुष्प्रज्ञान् प्रज्ञास्कन्धे प्रतिष्ठापयिष्यामीति अविमुक्तान् विमुतिस्कन्धे प्रतिष्ठापयिष्यामीति अविमुक्तिज्ञानदर्शनान् विमुक्तिज्ञानदर्शन्स्कन्धे प्रतिष्ठापयिष्यामीति अट्टष्टसत्यान् स्रोतआपत्तिफले प्रतिष्ठापयिष्यामीति सकृदागामिफले अनागामिफले अर्हत्त्वे प्रतिष्ठापयिष्यामीति प्रत्येकबोधौ प्रतिष्ठापयिष्यामीति अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामीति बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्। ये पूर्वदक्षिणस्यां दिशि गङ्गादनीवालुकोपमेषु लोकदातुषु सर्वबुद्धक्षेत्रेषु सत्त्वा अन्धास्ते ममानुभावेन चक्षुषा रूपाणि द्रक्ष्यनीति प्रज्ञापारमितायां शिक्षितव्यम्। एवं वधिराः श्रोत्रेण शब्दान् श्रोष्यन्तीति उन्मत्ताः स्मृतिं प्रतिलप्स्यन्ते इति नग्नाश्चैलानि प्रतिलप्स्यन्त इति जिघत्सिताः सत्त्वाः पूर्णपात्रा भ्विष्यन्तीति अपायोपपन्नाश्च सत्त्वाः सर्वापायेभ्यो विमोक्ष्यन्ते मनुष्यात्मभावञ्च प्रतिलप्स्यन्ते इति दुःशीलान् शीलस्कन्धे प्रतिष्ठापयिष्यामीति असमाहितान्
समाधिस्कन्धे प्रतिष्ठापयिष्यामीति दुष्प्रज्ञान् प्रज्ञास्कन्धे प्रतिष्ठापयिष्यामीति अविमुक्तान् विमुतिस्कन्धे प्रतिष्ठापयिष्यामीति अविमुक्तिज्ञानदर्शनान् विमुक्तिज्ञानदर्शन्स्कन्धे प्रतिष्ठापयिष्यामीति अट्टष्टसत्यान् स्रोतआपत्तिफले प्रतिष्ठापयिष्यामीति सकृदागामिफले अनागामिफले अर्हत्त्वे प्रतिष्ठापयिष्यामीति प्रत्येकबोधौ प्रतिष्ठापयिष्यामीति अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामीति बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्। ये दक्षिणपश्चिमायां दिशि गङ्गादनीवालुकोपमेषु लोकदातुषु सर्वबुद्धक्षेत्रेषु सत्त्वा अन्धास्ते ममानुभावेन चक्षुषा रूपाणि द्रक्ष्यनीति प्रज्ञापारमितायां शिक्षितव्यम्। एवं वधिराः श्रोत्रेण शब्दान् श्रोष्यन्तीति उन्मत्ताः स्मृतिं प्रतिलप्स्यन्ते इति नग्नाश्चैलानि प्रतिलप्स्यन्त इति जिघत्सिताः सत्त्वाः पूर्णपात्रा भ्विष्यन्तीति अपायोपपन्नाश्च सत्त्वाः सर्वापायेभ्यो विमोक्ष्यन्ते मनुष्यात्मभावञ्च प्रतिलप्स्यन्ते इति दुःशीलान् शीलस्कन्धे प्रतिष्ठापयिष्यामीति असमाहितान् समाधिस्कन्धे प्रतिष्ठापयिष्यामीति दुष्प्रज्ञान् प्रज्ञास्कन्धे प्रतिष्ठापयिष्यामीति अविमुक्तान् विमुतिस्कन्धे प्रतिष्ठापयिष्यामीति अविमुक्तिज्ञानदर्शनान् विमुक्तिज्ञानदर्शन्स्कन्धे प्रतिष्ठापयिष्यामीति अट्टष्टसत्यान् स्रोतआपत्तिफले प्रतिष्ठापयिष्यामीति सकृदागामिफले अनागामिफले अर्हत्त्वे प्रतिष्ठापयिष्यामीति प्रत्येकबोधौ प्रतिष्ठापयिष्यामीति अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामीति बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्। ये पश्चिमोत्तरस्यां दिशि
गङ्गादनीवालुकोपमेषु लोकदातुषु सर्वबुद्धक्षेत्रेषु सत्त्वा अन्धास्ते ममानुभावेन चक्षुषा रूपाणि द्रक्ष्यनीति प्रज्ञापारमितायां शिक्षितव्यम्। एवं वधिराः श्रोत्रेण शब्दान् श्रोष्यन्तीति उन्मत्ताः स्मृतिं प्रतिलप्स्यन्ते इति नग्नाश्चैलानि प्रतिलप्स्यन्त इति जिघत्सिताः सत्त्वाः पूर्णपात्रा भ्विष्यन्तीति अपायोपपन्नाश्च सत्त्वाः सर्वापायेभ्यो विमोक्ष्यन्ते मनुष्यात्मभावञ्च प्रतिलप्स्यन्ते इति दुःशीलान् शीलस्कन्धे प्रतिष्ठापयिष्यामीति असमाहितान् समाधिस्कन्धे प्रतिष्ठापयिष्यामीति दुष्प्रज्ञान् प्रज्ञास्कन्धे प्रतिष्ठापयिष्यामीति अविमुक्तान् विमुतिस्कन्धे प्रतिष्ठापयिष्यामीति अविमुक्तिज्ञानदर्शनान् विमुक्तिज्ञानदर्शन्स्कन्धे प्रतिष्ठापयिष्यामीति अट्टष्टसत्यान् स्रोतआपत्तिफले प्रतिष्ठापयिष्यामीति सकृदागामिफले अनागामिफले अर्हत्त्वे प्रतिष्ठापयिष्यामीति प्रत्येकबोधौ प्रतिष्ठापयिष्यामीति अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामीति बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्। ये अधस्ताद्दिशि गङ्गादनीवालुकोपमेषु लोकदातुषु सर्वबुद्धक्षेत्रेषु सत्त्वा अन्धास्ते ममानुभावेन चक्षुषा रूपाणि द्रक्ष्यनीति प्रज्ञापारमितायां शिक्षितव्यम्। एवं वधिराः श्रोत्रेण शब्दान् श्रोष्यन्तीति उन्मत्ताः स्मृतिं प्रतिलप्स्यन्ते इति नग्नाश्चैलानि प्रतिलप्स्यन्त इति जिघत्सिताः सत्त्वाः पूर्णपात्रा भ्विष्यन्तीति अपायोपपन्नाश्च सत्त्वाः सर्वापायेभ्यो विमोक्ष्यन्ते मनुष्यात्मभावञ्च प्रतिलप्स्यन्ते इति दुःशीलान् शीलस्कन्धे प्रतिष्ठापयिष्यामीति असमाहितान् समाधिस्कन्धे प्रतिष्ठापयिष्यामीति
दुष्प्रज्ञान् प्रज्ञास्कन्धे प्रतिष्ठापयिष्यामीति अविमुक्तान् विमुतिस्कन्धे प्रतिष्ठापयिष्यामीति अविमुक्तिज्ञानदर्शनान् विमुक्तिज्ञानदर्शन्स्कन्धे प्रतिष्ठापयिष्यामीति अट्टष्टसत्यान् स्रोतआपत्तिफले प्रतिष्ठापयिष्यामीति सकृदागामिफले अनागामिफले अर्हत्त्वे प्रतिष्ठापयिष्यामीति प्रत्येकबोधौ प्रतिष्ठापयिष्यामीति अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामीति बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्।
०३२१६ ये ऊर्ध्वं दिशि गङ्गादनीवालुकोपमेषु लोकदातुषु सर्वबुद्धक्षेत्रेषु सत्त्वा अन्धास्ते ममानुभावेन चक्षुषा रूपाणि द्रक्ष्यनीति प्रज्ञापारमितायां शिक्षितव्यम्। एवं वधिराः श्रोत्रेण शब्दान् श्रोष्यन्तीति उन्मत्ताः स्मृतिं प्रतिलप्स्यन्ते इति नग्नाश्चैलानि प्रतिलप्स्यन्त इति जिघत्सिताः सत्त्वाः पूर्णपात्रा भ्विष्यन्तीति अपायोपपन्नाश्च सत्त्वाः सर्वापायेभ्यो विमोक्ष्यन्ते मनुष्यात्मभावञ्च प्रतिलप्स्यन्ते इति दुःशीलान् शीलस्कन्धे प्रतिष्ठापयिष्यामीति असमाहितान् समाधिस्कन्धे प्रतिष्ठापयिष्यामीति दुष्प्रज्ञान् प्रज्ञास्कन्धे प्रतिष्ठापयिष्यामीति अविमुक्तान् विमुतिस्कन्धे प्रतिष्ठापयिष्यामीति अविमुक्तिज्ञानदर्शनान् विमुक्तिज्ञानदर्शन्स्कन्धे प्रतिष्ठापयिष्यामीति अट्टष्टसत्यान् स्रोतआपत्तिफले प्रतिष्ठापयिष्यामीति सकृदागामिफले अनागामिफले अर्हत्त्वे प्रतिष्ठापयिष्यामीति प्रत्येकबोधौ प्रतिष्ठापयिष्यामीति अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामीति बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्।
०३२१७ [इति एकायनमार्गसहगतो नदीस्रोतोपमः॥]
०३२१८ पुनरपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} तथागतेर्यापथे शिक्षितुमामेन {प्रज्ञापारमितायां शिक्षितव्यम्}। पुनरपरं
०३२१९ {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} प्रज्ञापारमितायां चरता एवमुपपरीक्षितव्यम्। कदा न्वहं नागा-

०३३०१ वलोकितमवलोकयिष्यामीति किमित्यहं पृथिवीं चतुरङ्गुलमस्पृशन्
०३३०२ पद्भ्यां गच्छेयमिति {प्रज्ञापारमितायां शिक्षितव्यम्}। पुनरपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन
०३३०३ प्रज्ञापारमितायां चरता एवमुपपरीक्षितव्यम्। किमित्यहं चातु-
०३३०४ र्महाराजकायिकैस्त्रयस्त्रिंशैर्यामैर्स्तुषितैर्निर्माणरतिभिः परनिर्मितवश-
०३३०५ वर्तिभिर्ब्रह्मकायिकैर्ब्रह्मपुरोहितैर्ब्रह्मपारिषद्यैः परीत्ताभैः अप्रमाणाभै-
०३३०६ राभास्वरैः परीत्तशुभैरप्रमाणशुभैः शुभकृत्स्नैरनभ्रकैः पुण्यप्रसवै-
०३३०७ र्बृहत्फलैरसंज्ञिसत्त्वैः शुद्धावासैरस्पृहैरतपैः सदृशैः सुदर्शनैरक-
०३३०८ निष्ठैश्च परिवृतः पुरस्कृतोऽनेकदेवपुत्रकोटीनियुतशतसहस्रैर्बोधिमण्ड-
०३३०९ द्रुममूलमुपसंक्रमेयमिति {प्रज्ञापारमितायां शिक्षितव्यम्}। पुनरपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता एवमुपपरीक्षितव्यम्}। किमिति ये चातु-
०३३१० र्महाराजकायिका देवास्त्रयस्त्रिंशा यामास्तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो ब्रह्मकायिका ब्रह्मपुरोहिता ब्रह्मपारिषद्याः परीत्ताभा अप्रमाणाभा आभास्वराः परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्ना अनभ्रकाः पुण्यप्रसवा बृहत्फला असंज्ञिसत्त्वाः शुद्धावासा अस्पृहा अतपाः सदृशाः सुदर्शना
०३३११ अकनिष्ठाश्च देवाः बोधिमण्डद्रुममूलं प्रतिसंस्तरेयुरिति
०३३१२ {प्रज्ञापारमितायां शिक्षितव्यम्}। पुनरपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता एवमुपपरीक्षितव्यम्}। किमिति मेऽनुत्तरां सम्यक्संबोधिमभि-
०३३१३ संबुद्धस्य गच्छतो वा तिष्ठतो वा निषणस्य शयानस्य वा स पृथिवीप्रदेशो
०३३१४ वज्रमयः सन्तिष्ठते इति {प्रज्ञापारमितायां शिक्षितव्यम्}। पुनरपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता एवमुपपरीक्षितव्यम्}। किमित्यहं यत्रैव दिवसे
०३३१५ निष्क्रामेयं तत्रैव दिवसेऽनुत्तरां सम्यक्संबोधिमभिसंबुध्येयमिति।

०३४०१ तत्रैव दिवसे धर्मचक्रं प्रवर्तयेयमिति। धर्मचक्रं च मे प्रवर्तयमानस्या-
०३४०२ संख्येयानामप्रमेयाणां सत्त्वानां चिरजो विगतमलं धर्मेषु धर्मचक्षु-
०३४०३ र्विमुच्येदिति। असंख्येयानामप्रमेयाणां सत्त्वानामनुपादायास्रवेभ्य-
०३४०४ श्चित्तानि विमुच्येयुरिति। असंख्येया अप्रमेयाः सत्त्वा अविनिवर्तनीया
०३४०५ भवेयुरनुत्तरायाः सम्यक्संबोधेरिति {प्रज्ञापारमितायां शिक्षितव्यम्}। पुनरपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायामेवमुपपरीक्षितव्यम्}। किमिति
०३४०६ मेऽप्रमेयोऽसंख्येयः श्रावकसंङ्हः स्यादित्यप्रमेयाः असंख्येयाः सत्त्वा एकधर्म-
०३४०७ देशनाया एकासनिका बोधिसत्त्वा भवेयुरविनिवर्तनीया अनुत्तरायाः
०३४०८ सम्यक्संबोधेरिति। असंख्येयश्चाप्रमेयश्च बोधिसत्त्वसंघो भवेदिति।
०३४०९ अपरिमितं चायुःप्रमाणं भवेदिति। अपरिमिता च प्रभासम्पद्भवेदिति।
०३४१० {प्रज्ञापारमितायां शिक्षितव्यम्}। पुनरपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायामेवमुपपरीक्षितव्यम्}। किमिति मेऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य
०३४११ तस्मिन् बुद्धक्षेत्रे रागद्वेषमोहायतनानि सर्वेण सर्वं सर्वथा सर्वं न
०३४१२ भवेयुरिति {प्रज्ञापारमितायां शिक्षितव्यम्}। पुनरपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायामेवमुपपरीक्षितव्यम्}। किमिति मेऽनुत्तरां सम्यक्संबोधिमभि-
०३४१३ संबुद्धस्य एवंरूपया प्रज्ञया सत्त्वाः समन्वागता भवेयुर्यदन्यबुद्धक्षेत्रस्था
०३४१४ बुद्धा भगवन्तः एवमुदानमुदानयेयुः। साधु शमः साधु दमः साधु संयमः
०३४१५ साधु चीर्णब्रह्मचर्यावासः साध्वविहिंसा सर्वप्राणिभूतेष्विति {प्रज्ञापारमितायां शिक्षितव्यम्}।
०३४१६ पुनरपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायामेवमुपपरीक्षितव्यम्}। किमिति मे परिनिर्वृतस्य सद्धर्मान्तर्धानमपि न स्यात्सह
०३४१७ श्रवनेन च मे नामधेयस्य ये दशसु दिक्शु गङ्गानदीवालुकोपमेषु लोकधातुषु
०३४१८ सत्त्वास्ते नियता भवेयुरनुत्तरायाः सम्यक्संबोधेरिति {प्रज्ञापारमितायां शिक्षितव्यम्}।

०३५०१ यस्मिन् समये शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां
०३५०२ चरनिमान् गुणानुत्पादयति तदा ये त्रिसाहस्रमहासाहस्रे लोकधातौ
०३५०३ महाराजानस्ते एवं चिन्तयन्ति वयमस्मै बोधिसत्त्वाय चत्वारि पात्राणि
०३५०४ दास्यामः। यथा दत्तानि पूर्वकैर्महाराजैः पूर्वकाणां तथागतानां
०३५०५ त्रयस्त्रिंशाश्च देवा आत्तमनस्का भवन्ति यामास्तुषिता निमाणरतयः
०३५०६ परनिर्मितवशवर्तिनो देवा उत्सुका भविष्यन्ति। वयमस्य बोधि-
०३५०७ सत्त्वस्य महासत्त्वस्योपस्थानपरिचर्याः करिष्याम इति। एवमासुराः
०३५०८ कायाः परिहास्यन्त् दिव्याः कायाः अभिवर्धिष्यन्ते आत्तमनस्काश्च
०३५०९ त्रिसाहस्रमहासाहस्रे लोकधातौ भवन्ति। ब्रह्मपारिषद्या ब्रह्मपुरोहिता
०३५१० महाब्रह्माणः आत्तमनस्का भवन्ति। परीत्ताभा अप्रमाणाभाश्च
०३५११ आभास्वराः परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्ना अनभ्रकाः पुण्य-
०३५१२ प्रसवा बृहत्फला असंज्ञिसत्त्वाः शुद्धावासा अवृहा अतपाः सदृशाः
०३५१३ सुदर्शना अकनिष्ठाश्च देशास्तेषामेवं भवति। वयमेनमभिसंबुद्धमध्ये-
०३५१४ षिष्यामो धर्मचक्रप्रवर्तनाय्
०३५१५ यस्मिन् समये शारिप्तुर बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां
०३५१६ चरन् विवर्धते षड्भिः पारमिताभिः तस्मिन् समये आत्तमनस्का
०३५१७ भवन्ति बोधिसत्त्वयानिकाः कुलपुत्राः कुलदुहितरश्च वयमस्य माता-
०३५१८ पितरौ भ्विष्यामो भार्यापुत्रज्ञातिसालोहिता इति।
०३५१९ आत्तमनस्का भवन्ति चत्वारो महाराजानो देवास्त्रयस्त्रिंशा देवा

०३६०१ यामास्तुषिता देवा निर्माणरतयः परनिर्मितवशवर्तिनो ब्रह्मकायिका ब्रह्मपुरोहिता महाब्रह्माणा ब्रह्मपारिषद्याः परीत्ताभा अप्रमाणाभा आभास्वराः परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्ना अनभ्रकाः पुण्यप्रसवा बृहत्फला असंज्ञिसत्त्वाः शुद्धावासा अस्पृहा अतपाः सदृशाः सुदर्शना अकनिष्ठाश्च देवा
०३६०२ बोधिसत्त्वस्य महासत्त्वस्य मैथुनधर्मपरिवर्जनेन्
०३६०३ अथ यः प्रथमचित्तोत्पादमुपादाय बोधिसत्त्वो महासत्त्वो ब्रन्मचारी
०३६०४ भवति। न संयोजनीयैर्धर्मैः संप्रयुज्यत् तस्यैवं भवति अब्रह्मचारिणः
०३६०५ स खलु पुनः कामान् प्रतिसेवमानस्य ब्रह्मलोकोपपत्तेरप्यन्तरायो
०३६०६ भवति कः पुनर्वादोऽनुत्तरायाः सम्यक्संबोधेः। तस्मात्तर्हि
०३६०७ बोधिसत्त्वेन महासत्त्वेन ब्रह्मचारिणैव गृहादभिनिष्क्रम्यानुत्तरा सम्यक्-
०३६०८ संबोधिरभिसंबोद्धव्या नाब्रह्मचारिणा॥ एवमुक्ते आयुष्मान् शारिपुत्रो
०३६०९ भगवन्तमेतदवोचत् ॥ किं पुनर्भगवनवश्यं बोधिसत्त्वस्य माता-
०३६१० पितृभ्यां भवितव्यं भार्यापुत्रज्ञातिसालोहितैर्भवितव्यम्। एवमुक्ते
०३६११ भगवानायुष्मन्तं शारिपुत्रमेतदवोचत् । केषांचिच्छारिपुत्र बोधिसत्त्वानां
०३६१२ महासत्त्वानां मातापित्रौ भवतः भार्यापुत्रज्ञातिसालोहिता वा
०३६१३ केषाञ्चिद्बोधिसत्त्वानां महासत्त्वानां प्रथमचित्तोत्पादमुपादाय ब्रह्म-
०३६१४ चर्यासमादानन्ते कुमारभूता एव बोधिसत्त्व चारिकां चरन्तोऽनुत्तरां
०३६१५ सम्य्कसंबोधिमभिसंबुध्यन्त् केचिद्बोधिसत्त्वा महासत्त्वा उपाय-
०३६१६ कौशल्येन च पञ्च कामगुणान् परिभुज्याभिनिष्क्रम्यानुत्तरायां सम्यक्-

०३७०१ संबोधिमभिसंबुध्यन्त् तद्यथापि नाम शारिपुत्र दक्षो मायाकारो
०३७०२ वा मायाकारान्तेवासी वा सुशिक्षितो भवेत्मायायाम्। स पञ्च काम-
०३७०३ गुणानभिनिर्माय तैः पञ्चभिः कामगुणै रमेत क्रीडेत्परिचरेत् । तत्
०३७०४ किं मन्यसे शारिपुत्र अपि नु तेन मायाकारेण वा मायाकारान्ते-
०३७०५ वासिना वा पञ्च कामगुणा आस्वादिताः परिभुक्ता भवेयुः।
०३७०६ शारिपुत्र आह् नो हीदं भगवन्। भगवानाह् एवमेव शारिपुत्र
०३७०७ बोधिसत्त्वो महासत्त्व उपायकौशल्येन च पञ्च कामगुणान् परिभुंक्ते
०३७०८ सत्त्वानां परिपाकहेतोः। न पुनर्बोधिसत्त्वो महासत्त्वः कामगुणै-
०३७०९ र्लिप्यत् अनेन पर्यायेन बोधिसत्त्वो महासत्त्वः कामानामवर्णं
०३७१० भाषते आदीप्ताः कामाः जुगुप्सिताः कामाः बधकाः कामाः
०३७११ प्रत्यर्थिकाः कामाः। एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः सत्त्व-
०३७१२ परिपाकहेतोः पञ्च कामगुणानुपाददाति॥ [इति धर्मकामसहगतो
०३७१३ महामेघोपमः॥] [इति उक्तश्चित्तोत्पादः॥]
०३७१४ एवमुक्ते आयुष्मान् शारिपुत्रो भगवन्तमेतदवोचत् । कथं भगवन्
०३७१५ बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यम्। एवमुक्ते भग-
०३७१६ वानायुष्मन्तं शारिपुत्रमेतदवोचत् । इह शारिपुत्र बोधिसत्त्वो महासत्त्वः
०३७१७ प्रज्ञापारमितायां चरन् बोधिसत्त्व एव समानो बोधिसत्त्वं न समनुपश्यति
०३७१८ बोधिसत्त्वनामापि न समनुपश्यति। बोधिसत्त्वचर्यामपि न समनु-
०३७१९ पश्यति। प्रज्ञापारमितामपि न समनुपश्यति। रूपमपि न समनु-
०३७२० पश्यति। एवं वेदनां संज्ञां संस्कारान् विज्ञानमपि न समनुपश्यति।

०३८०१ तत्कस्य हेतोः। तथा हि बोधिसत्त्वो महासत्त्वो बोधिसत्त्वस्वभावेन
०३८०२ शून्यः प्रज्ञापारमितास्वभावेन शून्यः। तत्कस्य हेतोः। प्रकृतिरस्यैषा।
०३८०३ तथा हि शून्यतया न रूपं शून्यं न वेदना न संज्ञा न संस्कारा न विज्ञानं
०३८०४ शून्यतया शून्यं नान्यत्र रूपाच्छून्यता नाप्यत्र वेदनायाः शून्यता नान्यत्र
०३८०५ संज्ञायाः शून्यता नान्यत्र संस्कारेभ्यः शून्यता नान्यत्र विज्ञानाच्छून्यता।
०३८०६ तत्कस्य हेतोः। रूपमेव शून्यता वेदनैव शून्यता संज्ञैव शून्यता
०३८०७ संस्कारा एव शून्यता विज्ञानमेव शून्यता शून्यतैव रूपं शून्यतैव वेदना
०३८०८ शून्यतैव संज्ञा शून्यतैव संस्काराः शून्यतैव विज्ञानम्। तत्कस्य हेतोः।
०३८०९ तथा हि नाममात्रमिदं यदिदं बोधिसत्त्व इति। नाममात्रमिदं यदिदं
०३८१० प्रज्ञापारमितेति नाममात्रमिदं रूपं वेदना संज्ञा संस्काराः विज्ञानम्।
०३८११ तथा हि मायोपं रूपं वेदना संज्ञा संस्कारा विज्ञानं माया च नाममात्रं
०३८१२ न देशस्था न प्रदेशस्था असहसम्भूतं वितथदर्शनम्। मायादर्शन-
०३८१३ स्वभावस्य हि नोत्पादो न निरोधः। न संक्लेशो न व्यवदानम्। एवं
०३८१४ प्रज्ञापारमितायां चरन् बोधिसत्त्वो महासत्त्व उत्पादमपि न समनुपश्यति
०३८१५ निरोधमपि न समनुपश्यति। संक्लेशमपि न समनुपश्यति। व्यव-
०३८१६ दानमपि न समनुपश्यति। तत्कस्य हेतोः। तथा हि कृत्रिमं नाम
०३८१७ प्रतिधर्मम्। ते च कल्पिताः। आगन्तुकेन नामधेयेन व्यवह्रियन्त्
०३८१८ तानि बोधिसत्त्वः प्रज्ञापारमितायां चरन् सर्वनामानि न समनुपश्यति
०३८१९ असमनुपश्यन्नाभिनिविशत् पुनरपरं शारिपुत्र बोधिसत्त्वः प्रज्ञापार-
०३८२० मितायां चरन्नैवमुपपरीक्षते नाममात्रमिदं यदिदं बोधिसत्त्व इति।
०३८२१ नाममात्रमिदं यदुत बोधिरिति। नाम{मात्रमिदं यदुत} प्रज्ञा-

०३९०१ पारमितेति। नाम{मात्रमिदं यदुत} प्रज्ञापारमितायां चर्येति। नाम{मात्रमिदं यदुत} रूपमिति। नाम{मात्रमिदं यदुत}
०३९०२ वेदनेति। नाम{मात्रमिदं यदुत} संज्ञेति। नाम{मात्रमिदं यदुत} संस्कारा इति। नाम {मात्रमिदं यदुत} विज्ञानमिति।
०३९०३ तद्यथापि नाम शारिपुत्र आत्मेति चोच्यत् न चात्मा उपलभ्यत्
०३९०४ न सत्त्वो न जीवो न पोषो न पुरुषो न पुद्गलो न मनुजोऽप्युपलभ्यन्त्
०३९०५ अनुपलम्भशून्यतामुपादाय् तत्कस्य हेतोस्तथा हि बोधिसत्त्वस्तमपि
०३९०६ न समनुपश्यति येनाभिनिविशेत् एवं चरन् बोधिसत्त्वो महासत्त्वः
०३९०७ प्रज्ञापारमितायां चरति। सचेच्छारिपुत्रायं जम्बुद्वीपः परिपूर्णो भवे-
०३९०८ च्छारिपुत्रमौद्गल्यायनसदृशैर्भिक्षुभिः तद्यथापि नाम नलवनं वा वेणु-
०३९०९ वनं वा इक्षुवणं वा शरवणं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा
०३९१० सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य प्रज्ञायाः शततमीमपि कलां
०३९११ नोपैति सहस्रतमीमपि शतसहस्रतमीमपि संख्यामपि कलामपि गण-
०३९१२ नामप्युपमामप्युपनिषदमपि उपनिशामपि नोपैति। एवं शारिपुत्र प्रज्ञा-
०३९१३ पारमितायां चर्तो बोधिसत्त्वस्यैकदिवसभाविता या प्रज्ञा सा सर्वश्रावक-
०३९१४ प्रत्येकबुद्धानां प्रज्ञामभिभवति। तत्कस्य हेतोः। तथा हि शारिप्तुर
०३९१५ या बोधिसत्त्वस्य प्रज्ञा सा सर्वसत्त्वानां निर्वाणाय प्रत्युपस्थिता। तिष्ठतु
०३९१६ शारिपुत्रायं जम्बुद्वीपः परिपूर्णः शारिपुत्रमौद्गल्यायनसदृशैर्भिक्षुभिः।
०३९१७ सचेच्छारिपुत्र त्रिसाहस्रमहासाहस्रो लोकधातुः परिपूर्णो भवेच्छारि-
०३९१८ पुत्रमौद्गल्यायनसदृशैर्भिक्षुभिः तद्यथापि नाम नलवनं वा वेणुवनं वा इक्षुवणं वा शरवणं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य प्रज्ञायाः शततमीमपि कलां नोपैति सहस्रतमीमपि शतसहस्रतमीमपि संख्यामपि कलामपि गणनामप्युपमामप्युपनिषदमपि उपनिशामपि नोपैति। तिष्ठतु शारिपुत्र
०३९१९ त्रिसाहस्रमहासाहस्रो लोकधातुः परिपूर्णः शारिपुत्रमौद्गल्यायनसदृशै-
०३९२० र्भिक्षुभिः। सचेच्छारिपुत्र पूर्वस्यां दिशि गङ्गानदीवालुकोपमा लोक-
०३९२१ धातवः परिपूर्णा भवेयुः शारिपुत्रमौद्गल्यायनसदृशैर्भिक्षुभिः तद्यथापि नाम नलवनं वा वेणुवनं वा इक्षुवणं वा शरवणं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य प्रज्ञायाः शततमीमपि कलां नोपैति सहस्रतमीमपि शतसहस्रतमीमपि संख्यामपि कलामपि गणनामप्युपमामप्युपनिषदमपि उपनिशामपि नोपैति। सचेच्छारिपुत्र दक्षिणस्यां दिशि गङ्गानदीवालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारिपुत्रमौद्गल्यायनसदृशैर्भिक्षुभिः तद्यथापि नाम नलवनं वा वेणुवनं वा इक्षुवणं वा शरवणं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य प्रज्ञायाः शततमीमपि कलां नोपैति सहस्रतमीमपि शतसहस्रतमीमपि संख्यामपि कलामपि गणनामप्युपमामप्युपनिषदमपि उपनिशामपि नोपैति। स-
०३९२२ चेच्छारिपुत्र पश्चिमायां दिशि गङ्गानदीवालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारिपुत्रमौद्गल्यायनसदृशैर्भिक्षुभिः तद्यथापि नाम नलवनं वा वेणुवनं वा इक्षुवणं वा शरवणं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य प्रज्ञायाः शततमीमपि कलां नोपैति सहस्रतमीमपि शतसहस्रतमीमपि संख्यामपि कलामपि गणनामप्युपमामप्युपनिषदमपि उपनिशामपि नोपैति। सचेच्छारिपुत्र उत्तरस्यां दिशि गङ्गानदीवालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारिपुत्रमौद्गल्यायनसदृशैर्भिक्षुभिः तद्यथापि नाम नलवनं वा वेणुवनं वा इक्षुवणं वा शरवणं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य प्रज्ञायाः शततमीमपि कलां नोपैति सहस्रतमीमपि शतसहस्रतमीमपि संख्यामपि कलामपि गणनामप्युपमामप्युपनिषदमपि उपनिशामपि नोपैति। सचेच्छारिपुत्र उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारिपुत्रमौद्गल्यायनसदृशैर्भिक्षुभिः तद्यथापि नाम नलवनं वा वेणुवनं वा इक्षुवणं वा शरवणं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य प्रज्ञायाः शततमीमपि कलां नोपैति सहस्रतमीमपि शतसहस्रतमीमपि संख्यामपि कलामपि गणनामप्युपमामप्युपनिषदमपि उपनिशामपि नोपैति। सचेच्छारिपुत्र पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारिपुत्रमौद्गल्यायनसदृशैर्भिक्षुभिः तद्
यथापि नाम नलवनं वा वेणुवनं वा इक्षुवणं वा शरवणं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य प्रज्ञायाः शततमीमपि कलां नोपैति सहस्रतमीमपि शतसहस्रतमीमपि संख्यामपि कलामपि गणनामप्युपमामप्युपनिषदमपि उपनिशामपि नोपैति। सचेच्छारिपुत्र दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारिपुत्रमौद्गल्यायनसदृशैर्भिक्षुभिः तद्यथापि नाम नलवनं वा वेणुवनं वा इक्षुवणं वा शरवणं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य प्रज्ञायाः शततमीमपि कलां नोपैति सहस्रतमीमपि शतसहस्रतमीमपि संख्यामपि कलामपि गणनामप्युपमामप्युपनिषदमपि उपनिशामपि नोपैति। सचेच्छारिपुत्र पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारिपुत्रमौद्गल्यायनसदृशैर्भिक्षुभिः तद्यथापि नाम नलवनं वा वेणुवनं वा इक्षुवणं वा शरवणं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य प्रज्ञायाः शततमीमपि कलां नोपैति सहस्रतमीमपि शतसहस्रतमीमपि संख्यामपि कलामपि गणनामप्युपमामप्युपनिषदमपि उपनिशामपि नोपैति। सचेच्छारिपुत्र अधस्ताद्दिशि गङ्गानदीवालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारिपुत्रमौद्गल्यायनसदृशैर्भिक्षुभिः तद्यथापि नाम नलवनं वा वेणुवनं वा इक्षुवणं वा शरवणं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा
प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य प्रज्ञायाः शततमीमपि कलां नोपैति सहस्रतमीमपि शतसहस्रतमीमपि संख्यामपि कलामपि गणनामप्युपमामप्युपनिषदमपि उपनिशामपि नोपैति।
०३९२३ सचेच्छारिपुत्र ऊर्ध्वं दिशि गङ्गानदीवालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारिपुत्रमौद्गल्यायनसदृशैर्भिक्षुभिः तद्यथापि नाम नलवनं वा वेणुवनं वा इक्षुवणं वा शरवणं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य प्रज्ञायाः शततमीमपि कलां नोपैति सहस्रतमीमपि शतसहस्रतमीमपि संख्यामपि कलामपि गणनामप्युपमामप्युपनिषदमपि उपनिशामपि नोपैति।
०३९२४ अथ खल्वायुष्मान् शारिपुत्रो भगवन्तमेतदवोचत् । येयं भगवन्

०४००१ स्रोतआपन्नस्य प्रज्ञा सकृदागामिनोऽनागामिनोऽर्हतः प्रत्येकबुद्धस्य प्रज्ञा
०४००२ बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञा तथागतस्यार्हतः सम्यक्संबुद्धस्य प्रज्ञा
०४००३ सर्वा एताः प्रज्ञाञभिन्ना विविक्ता अनुत्पन्ना अस्वभावाः शून्याः। न
०४००४ च भगवन्नभिन्नस्य विविक्तस्य अनुत्पन्नस्यास्वभावस्य शून्यस्य नानाकरण-
०४००५ मुपलभ्यते विशेषो वा। तत्कथं पुनर्भगवन् या बोधिसत्त्वस्यैकदिवस-
०४००६ भाविता प्रज्ञा सा प्रज्ञापारमितायां चरतः प्रज्ञा सर्वश्रावकप्रत्येकबुद्धानां
०४००७ प्रज्ञामभिभवति। एवमुक्ते भगवानायुष्मन्तं शारिपुत्रमेतदवोचत् । तत्
०४००८ किं मन्यसे शारिपुत्र येन कार्येण बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापार-
०४००९ मितायां चरतः एकदिवसभाविता प्रज्ञा प्रत्युपस्थिता सर्वाकारवरोपेता
०४०१० सवज्ञतायां चरतः सर्वसत्त्वानामर्थं कुर्वतः सर्वाकारं सर्वधर्मान् बुद्ध्वा
०४०११ सर्वसत्त्वाः परिनिर्वापयितव्या इति। अपि नु शारिपुत्र तेन कृत्येन
०४०१२ सर्वश्रावकप्रत्येकबुद्धानां प्रत्युपस्थिता। शारिपुत्र आह् नो हीदं
०४०१३ भगवन्। भगवानाह् तत्किं मन्यसे शारिपुत्र अपि नु सर्वश्रावक-
०४०१४ प्रत्येकबुद्धानामेवं भवति। अस्माभिरनुत्तरां सम्यक्संबोधिमभिसंबुध्य
०४०१५ सर्वसत्त्वनिरुपधिशेषनिर्वाणधातौ परिनिर्वापयितव्या इति। शारिपुत्र
०४०१६ आह् नो हीदं भगवन्। भगवानाह् तदनेनापि ते शारिपुत्र
०४०१७ पर्यायेणैवं वेदितव्यम्। येयं सर्वश्रावकप्रत्येकबुद्धानां प्रज्ञा सा बोधि-
०४०१८ सत्त्वस्य प्रज्ञाया एकदिवसभावितायाः शततमीमपि कलां नोपैति सहस्रतमीमपि शतसहस्रतमीमपि संख्यामपि कलामपि गणनामप्युपमामप्युपनिषदमपि उपनिशामपि
०४०१९ नोपैति।
०४०२० तत्किं मन्यसे शारिपुत्र अपि नु सस्र्वश्रावकप्रत्येकबुद्धानामेवं
०४०२१ भवति। षट्सु पारमितासु चरित्वा सत्त्वान् परिपाच्य बुद्धक्षेत्रं परिशोध्य
०४०२२ दश तथागतबलानि परिपूर्य चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदोऽष्टा-
०४०२३ दशावेणिकान् बुद्धधर्मान् परिपूर्य अनुत्तरां सम्यक्संबोधिमभिसंबुध्य

०४१०१ अप्रमेयानसंख्येयानपरिमाणान् सत्त्वान् परिनिर्वापयिष्याम इति। शारि-
०४१०२ पुत्र आह् नो हीदं भगवन्। भवगानाह् बोधिसत्त्वस्य महा-
०४१०३ सत्त्वस्य पुनः शारिपुत्रैवं भवत्यहं षट्सु पारमितासु चरित्वा सत्त्वान्
०४१०४ परिपाच्य बुद्धक्षेत्रं परिशोध्य दश तथागतबलानि परिपूर्य चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदोऽष्टादशावेणिकान् बुद्धधर्मान् परिपूर्य अनुत्तरां सम्यक्संबोधिमभिसंबुध्य अप्रमेयानसंख्येयानपरिमाणान् सत्त्वान् परिनिर्वापयिष्यामीति। तद्यथापि
०४१०५ नाम शारिपुत्र न भवति खद्योतकस्य प्राणकजातस्य ममाभया जंबु-
०४१०६ द्वीपोऽवभास्येतेति ममाभया जम्बुद्वीपः स्फुटो भवेदिति। एवमेव
०४१०७ शारिपुत्र सर्वश्रावकप्रत्येकबुद्धानां नैवं भवति एकस्याप्यहं षट्सु पार-
०४१०८ मितासु चरित्वा सत्त्वान् परिपाच्य बुद्धक्षेत्रं परिशोध्य दश तथागतबलानि परिपूर्य चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदोऽष्टादशावेणिकान् बुद्धधर्मान् परिपूर्य अनुत्तरां सम्यक्संबोधिमभिसंबुध्य अप्रमेयानसंख्येयानपरिमाणान् सत्त्वान् परिनिर्वापयि-
०४१०९ ष्यामीति। तद्यथापि नाम शारिपुत्र सूर्यमण्डलमुदयत्सर्वजम्बुद्वीप-
०४११० मवभासेन स्फुटीकरोति। एवमेव शारिपुत्र बोधिसत्त्वो महासत्त्वः
०४१११ षट्सु पारमितासु चरित्वा सत्त्वान् परिपाच्य बुद्धक्षेत्रं परिशोध्य दश तथागतबलानि परिपूर्य चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदोऽष्टादशावेणिकान् बुद्धधर्मान् परिपूर्य अनुत्तरां सम्यक्संबोधिमभिसंबुध्य अप्रमेयानसंख्येयानपरिमाणान् सत्त्वान्
०४११२ परिनिर्वापयति।
०४११३ एवमुक्ते आयुष्मान् शारिपुत्रो भगवन्तमेतदवोचत् । कथं भगवन्
०४११४ बोधिसत्त्वो महासत्त्वः सर्वश्रावकप्रत्येकबुद्धभूमिं चातिक्रम्य अविनिवर्त-
०४११५ नीयभूमिमनुप्राप्नोति बोधिमार्गं च परिशोधयति। एवमुक्ते भगवाना-
०४११६ युष्मन्तं शारिपुत्रमेतदवोचत् । इह शारिपुत्र बोधिसत्त्वो महासत्त्वः
०४११७ प्रथमचित्तोत्पादमुपादाय षट्सु पारमितासु चरन् शून्यतानिमित्ता-
०४११८ प्रणिहितेषु धर्मेषु स्थित्वा श्रावकप्रत्येकबुद्धभूमिं चातिक्रामति अविनि-
०४११९ वर्तनीयभूमिमनुप्राप्नोति बोधिमार्गं च परिशोधयति।
०४१२० एवमुक्ते आयुष्मान् शारिपुत्रो भगवन्तमेतदवोचत् । कतमस्यां भग-
०४१२१ वन् भूमौ स्थित्वा बोधिसत्त्वो महासत्त्वः सततसमितं सर्वश्रावकप्रत्येक-

०४२०१ बुद्धानां दक्षिणीयो भवति। एवमुक्ते भगवानायुष्मन्तं शारिप्तुरमेतद-
०४२०२ वोचत् । प्रथमचित्तोत्पादमुपादाय शारिपुत्र बोधिसत्त्वो महासत्त्वः
०४२०३ षट्सु पारमितासु चरन् यावदा बोधिमण्डादत्रान्तरे सततसमितं सर्व-
०४२०४ श्रावकप्रत्येकबुद्धानां दक्षिणीयो भवति। तत्कस्य हेतोः। तथा हि
०४२०५ शारिप्तुर बोधिसत्त्वं महासत्त्वमागम्य सर्वेषां कुशलानां धर्माणां लोके
०४२०६ प्रादुर्भावो भवति। यदुत दशानां कुशलानां कर्मपथानां पञ्चानां
०४२०७ शिक्षाणामष्टाङ्गसमन्वागतस्य पोषधस्य चतुर्णां ध्यानानां चतुर्णामप्रमा-
०४२०८ णानां चतसृणामारूप्यसमापत्तीनां पञ्चानामभिज्ञानां चतुर्णामार्यसत्यानां
०४२०९ चतुर्णां स्मृत्युपस्थानानां चतुर्णां सम्यक्प्रहाणानां चतुर्णामृद्धिपादानां
०४२१० पञ्चानामिन्द्रियाणां पञ्चानां बलानां सप्तानां बोध्यङ्गानामार्याष्टाङ्गस्य
०४२११ मार्गस्य लोके प्रादुर्भावो भवति। चतुर्णां वैशारद्यानां लोके प्रादुर्भावो
०४२१२ भवति। चतसृणां प्रतिसंविदां लोके प्रादुर्भावो भवति। षण्णां पार-
०४२१३ मितानां दशानां तथागतबलानामष्टादशानामावेणिकानां बुद्धधर्माणां
०४२१४ लोके प्रादुर्भावो भवति। एतेषां च कुशलानां धर्माणां लोके प्रादुर्भावात्
०४२१५ क्षत्रियमहाशालकुलानि प्रज्ञायन्ते ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते
०४२१६ गृहपतिमहाशालकुलानि प्रज्ञायन्ते चातुर्महाराजकायिका देवाः प्रज्ञा-
०४२१७ यन्त् त्रयस्त्रिंशा देवाः प्रज्ञायन्त् यामा देवाः प्रज्ञायन्त् निर्माणरतयो देवाः प्रज्ञायन्त् परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्त् ब्रह्मकायिका देवाः प्रज्ञायन्त् ब्रह्मपुरोहिता देवाः प्रज्ञायन्त् महाब्रह्माणा देवाः प्रज्ञायन्त् ब्रह्मपारिषद्या देवाः प्रज्ञायन्त् परीत्ताभा देवाः प्रज्ञायन्त् अप्रमाणाभा देवाः प्रज्ञायन्त् आभास्वरा देवाः प्रज्ञायन्त् परीत्तशुभा देवाः प्रज्ञायन्त् अप्रमाणशुभा देवाः प्रज्ञायन्त् शुभकृत्स्ना देवाः प्रज्ञायन्त् अनभ्रका देवाः प्रज्ञायन्त् पुण्यप्रसवा देवाः प्रज्ञायन्त् बृहत्फला देवाः प्रज्ञायन्त् असंज्ञिसत्त्वा देवाः प्रज्ञायन्त् शुद्धावासा देवाः प्रज्ञायन्त् अस्पृहा देवाः प्रज्ञायन्त् अतपाः देवाः प्रज्ञायन्त् सदृशा देवाः प्रज्ञायन्त् सुदर्शना देवाः प्रज्ञायन्त्
०४२१८ अकनिष्ठा देवाः
०४२१९ प्रज्ञायन्त् आकाशानन्त्यायतना देवाः प्रज्ञायन्त् विज्ञानानन्त्या-

०४३०१ यतना {देवाः प्रज्ञायन्त्} आकिञ्चन्यायतना {देवाः प्रज्ञायन्त्} नैवसंज्ञानासंज्ञायतना {देवाः प्रज्ञायन्त्}
०४३०२ स्रोतआपन्ना लोके उत्पद्यन्त् सकृदागामिनो {लोके उत्पद्यन्त्} अनागमिनो
०४३०३ {लोके उत्पद्यन्त्} अर्हन्तो {लोके उत्पद्यन्त्} प्रत्येकबुद्धा {लोके उत्पद्यन्त्} बोधिसत्त्वा {लोके उत्पद्यन्त्} तथा-
०४३०४ गता अर्हन्तः सम्यक्संबुद्धा {लोके उत्पद्यन्त्}
०४३०५ एवमुक्ते आयुष्मान् शारिपुत्रो भगवन्तमेतदवोचत् । किं पुनर्भगवन्
०४३०६ बोधिसत्त्वो महासत्त्वो दक्षिणां शोधयति उत नेति। भगवानाह् न हि
०४३०७ शारिपुत्र बोधिसत्त्वो महासत्त्वो दक्षिणां शोधयति। तत्कस्य हेतोः।
०४३०८ अत्यन्तशुद्धैव दक्षिणा बोधिसत्त्वस्य महासत्त्वस्य् तत्कस्य हेतोः। दायकः
०४३०९ शारिपुत्र बोधिसत्त्वो महासत्त्वः। कस्य दायकः। कुशलानां धर्माणां
०४३१० दायकः। कतमेषां कुशलानां धर्माणां दायकः। यदुत दशानां कुश-
०४३११ लानां कर्मपथानां पञ्चानां शिक्षाणामष्टाङ्गसमन्वागतस्य पोषधस्य चतुर्णां ध्यानानां चतुर्णामप्रमाणानां चतसृणामारूप्यसमापत्तीनां पञ्चानामभिज्ञानां चतुर्णामार्यसत्यानां चतुर्णां स्मृत्युपस्थानानां चतुर्णां सम्यक्प्रहाणानां चतुर्णामृद्धिपादानां पञ्चानामिन्द्रियाणां पञ्चानां बलानां सप्तानां बोध्यङ्गानामार्याष्टाङ्गस्य मार्गस्य चतुर्णां वैशारद्यानां चतसृणां
०४३१२ प्रतिसंविदां षण्णां पारमितानां दशानां तथागतबलानामष्टादशाना-
०४३१३ मावेणिकानां बुद्धधर्माणां दायकः॥ [इति प्रतिपत्त्यववादः॥]
०४३१४ एवमुक्ते आयुष्मान् शारिपुत्रो भगवन्तमेतदवोचत् । कथं युज्य-
०४३१५ मानो भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्त इति
०४३१६ वक्तव्यः। एवमुक्ते भगवानायुष्मन्तं शारिपुत्रमेतदवोचत् । इह शारि-
०४३१७ पुत्र बोधिसत्त्वो महासत्त्वो रूपशून्यतायां युक्तो युक्त इति वक्तव्यः।

०४४०१ वेदनाशून्यतायां युक्तो युक्त इति वक्तव्यः। संज्ञा{शून्यतायां युक्तो युक्त इति वक्तव्यः।} संस्कार{शून्यतायां युक्तो युक्त इति वक्तव्यः।}
०४४०२ विज्ञान{शून्यतायां युक्तो युक्त इति वक्तव्यः।}
०४४०३ पुनरपरं शारिपुत्र बोधिसत्त्वो महासत्त्वश्चक्षुः{शून्यतायां युक्तो युक्त इति वक्तव्यः।} श्रोत्र{शून्यतायां युक्तो युक्त इति वक्तव्यः।}
०४४०४ घ्राण{शून्यतायां युक्तो युक्त इति वक्तव्यः।} जिह्वा{शून्यतायां युक्तो युक्त इति वक्तव्यः।} काय{शून्यतायां युक्तो युक्त इति वक्तव्यः।} मनः{शून्यतायां युक्तो युक्त इति वक्तव्यः।} रूप{शून्यतायां युक्तो युक्त इति वक्तव्यः।} शब्द{शून्यतायां युक्तो युक्त इति वक्तव्यः।}
०४४०५ गन्ध{शून्यतायां युक्तो युक्त इति वक्तव्यः।} रस{शून्यतायां युक्तो युक्त इति वक्तव्यः।} स्प्रष्टव्य{शून्यतायां युक्तो युक्त इति वक्तव्यः।} धर्म{शून्यतायां युक्तो युक्त इति वक्तव्यः।} चक्षुर्विज्ञानधातु{शून्यतायां युक्तो युक्त इति वक्तव्यः।}
०४४०६ श्रोत्रविज्ञानधातु{शून्यतायां युक्तो युक्त इति वक्तव्यः।} घ्राणविज्ञानधातु{शून्यतायां युक्तो युक्त इति वक्तव्यः।} जिह्वाविज्ञानधातु{शून्यतायां युक्तो युक्त इति वक्तव्यः।}
०४४०७ कायविज्ञानधातु{शून्यतायां युक्तो युक्त इति वक्तव्यः।} मनोविज्ञानधातु{शून्यतायां युक्तो युक्त इति वक्तव्यः।} दुःख{शून्यतायां युक्तो युक्त इति वक्तव्यः।} समुदय{शून्यतायां युक्तो युक्त इति वक्तव्यः।}
०४४०८ निरोध{शून्यतायां युक्तो युक्त इति वक्तव्यः।} मार्ग{शून्यतायां युक्तो युक्त इति वक्तव्यः।} अविद्या{शून्यतायां युक्तो युक्त इति वक्तव्यः।} संस्कार{शून्यतायां युक्तो युक्त इति वक्तव्यः।} विज्ञान{शून्यतायां युक्तो युक्त इति वक्तव्यः।}
०४४०९ नामरूप{शून्यतायां युक्तो युक्त इति वक्तव्यः।} षडायतन{शून्यतायां युक्तो युक्त इति वक्तव्यः।} स्पर्श{शून्यतायां युक्तो युक्त इति वक्तव्यः।} वेदना{शून्यतायां युक्तो युक्त इति वक्तव्यः।} तृष्णा{शून्यतायां युक्तो युक्त इति वक्तव्यः।}
०४४१० उपादान{शून्यतायां युक्तो युक्त इति वक्तव्यः।} भव{शून्यतायां युक्तो युक्त इति वक्तव्यः।} जाति{शून्यतायां युक्तो युक्त इति वक्तव्यः।} जरामरणशोकपरिदेवदुःख-
०४४११ दौर्मनस्योपायास{शून्यतायां युक्तो युक्त इति वक्तव्यः}॥
०४४१२ पुनरपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न-
०४४१३ ध्यात्म{शून्यतायां युक्तो युक्त इति वक्तव्यः।} बहिर्धा{शून्यतायां युक्तो युक्त इति वक्तव्यः।} अध्यात्मबहिर्धा{शून्यतायां युक्तो युक्त इति वक्तव्यः।} यावत्परभावशून्य-
०४४१४ तायां युक्तो युक्त इति वक्तव्यः। एवं हि शारिपुत्र बोधिसत्त्वो महा-
०४४१५ सत्त्वः प्रज्ञापारमितायां चरन्नासु सर्वासु शून्यतासु युक्तो युक्त इति
०४४१६ वक्तव्यः। स आभिः शून्यताभिः प्रज्ञापारमितायां चरन्न तावद्बोधि-
०४४१७ सत्त्वो महासत्त्वो युक्त इति वक्तव्योऽयुक्त इति। तत्कस्य हेतोः। तथा
०४४१८ हि न स रूपं न वेदनां न संज्ञां न संस्कारान्न विज्ञानं युक्तमिति वा
०४४१९ अयुक्तमिति वा समनुपश्यति॥ [इति दुःखसत्याववादः॥]
०४४२० स न रूपमुत्पादधर्मि वा निरोधधर्मि वा समनुपश्यति। न

०४५०१ वेदनामुत्पादधर्मिणीं वा निरोधधर्मिणीं वा समनुपश्यति न संज्ञामुत्पाद-
०४५०२ धर्मिणीं {वा निरोधधर्मिणीं वा समनुपश्यति}। न संस्कारानुत्पादधर्मिणो {वा निरोधधर्मिणिणो वा समनुपश्यति}। न विज्ञानमुत्पाद-
०४५०३ धर्मि {वा निरोधधर्मि वा समनुपश्यति}। न रूपं संक्लेशधर्मि वा व्यवदानधर्मि वा समनुपश्यति।
०४५०४ न वेदनां संक्लेशधर्मिणीं वा व्यवदानधर्मिणीं वा समनुपश्यति। न
०४५०५ संज्ञां {संक्लेशधर्मिणीं वा व्यवदानधर्मिणीं वा समनुपश्यति}। न संस्कारान् {संक्लेशधर्मिणो वा व्यवदानधर्मिणो वा समनुपश्यति}। न विज्ञानम् {संक्लेशधर्मि वा व्यवदानधर्मि वा समनुपश्यति}।
०४५०६ पुनरपरं शारिपुत्र बोधिसत्त्वो महासत्त्वो न रूपं वेदनायां समव-
०४५०७ सरतीति समनुपश्यति। न वेदना संज्ञायां {समवसरतीति समनुपश्यति}। न संज्ञा संस्कारेषु
०४५०८ {समवसरतीति समनुपश्यति}। न संस्कारा विज्ञाने {समवसरन्तीति समनुपश्यति}। न विज्ञानं धर्मे {समवसरतीति समनुपश्यति}। न धर्मः
०४५०९ क्वचिद्धर्मे समवसरतीति समनुपश्यति। तत्कस्य हेतोः। न हि कश्चि-
०४५१० द्धर्मः क्वचिद्धर्मे समवसरति प्रकृतिशून्यतामुपादाय् तत्कस्य हेतोः।
०४५११ तथा हि शारिपुत्र या रूपस्य शून्यता न तद्रूपम्। या वेदनायाः शून्यता
०४५१२ न सा वेदना। या संज्ञायाः शून्यता न सा संज्ञा। या संस्काराणां
०४५१३ शून्यता न ते संस्काराः। या विज्ञानस्य शून्यता न तद्विज्ञानम्। तत्कस्य
०४५१४ हेतोः। तथा हि या रूपशून्यता न सा रूपयति। या वेदनाशून्यता न
०४५१५ सा वेदयति। या संज्ञाशून्यता न सा संजानीत् या संस्कारशून्यता

०४६०१ न साभिसंस्कारोति। या विज्ञानशून्यता न सा विजानाति। तत्कस्य
०४६०२ हेतोः। तथा हि शारिपुत्र नान्यद्रूपमन्या शून्यता। नान्या शून्यता अन्य-
०४६०३ द्रूपम्। रूपमेव शून्यता शून्यतैव रूपम्। नान्या वेदना अन्या शून्यता।
०४६०४ नान्या शून्यता अन्या वेदना। वेदनैव शून्यता शून्यतैव वेदना। नान्या
०४६०५ संज्ञा अन्या शून्यता। नान्या शून्यता अन्या संज्ञा। संज्ञैव शून्यता
०४६०६ शून्यतैव संज्ञा। नान्ये संस्कारा अन्या शून्यता। नान्या शून्यता
०४६०७ अन्ये संस्काराः। संस्कारा एव शून्यता शून्यतैव संस्काराः। नान्यद्
०४६०८ विज्ञानमन्या शून्यता। नान्या शून्यता अन्यद्विज्ञानम्। विज्ञानमेव
०४६०९ शून्यता शून्यतैव विज्ञानम्। [इति समुदयसत्याववादः॥]
०४६१० शून्यता शारिपुत्र नोत्पद्यते न निरुध्यत् न संक्लिश्यते न व्यव-
०४६११ दायत् न हीयते न वर्धत् नातीता नागता न प्रत्युत्पन्ना। या च
०४६१२ ईदृशी न तत्र रूपं न वेदना न संज्ञा न संस्काराः न विज्ञानं न पृथिवी-
०४६१३ धातुर्नाब्धातुर्न तेजोधातुर्न वायुधातुर्नाकाशधातुर्न विज्ञानधातुर्न चक्षु-
०४६१४ रायतनं न रूपायतनं न श्रोत्रायतनं न शब्दायतनं न घ्राणायतनं न
०४६१५ गन्धायतनं न जिह्वायतनं न रसायतनं न कायायतनं न स्प्रष्टव्यायतनं न
०४६१६ मनआयतनं न धर्मायतनम्। न चक्षुर्धातुर्न रूपधातुर्न चक्षुर्विज्ञान-
०४६१७ धातुः। न श्रोत्रधातुर्न शब्दधातुर्न श्रोत्रविज्ञानधातुः। न घ्राणधातुर्न
०४६१८ गन्धधातुर्न घ्राणविज्ञानधातुः। न जिह्वाधातुर्न रसधातुर्न जिह्वाविज्ञान-
०४६१९ धातुः। न कायधातुर्न स्प्रष्टव्यधातुर्न कायविज्ञानधातुः। न मनोधातुर्न
०४६२० धर्मधातुर्न मनोविज्ञानधतुः। नाविद्योत्पादो नाविद्यानिरोधः। न
०४६२१ संस्कारोत्पादो न संस्कारनिरोधः।
०४६२२ न विज्ञानोत्पादो न विज्ञाननिरोधः। न नामरूपोत्पादो न नामरूपनिरोधः। न षडायतनोत्पादो न षडायतननिरोधः। न स्पर्शोत्पादो न स्पर्शनिरोधः। न वेदनोत्पादो न वेदनानिरोधः। न तृष्णोत्पादो न तृष्णानिरोधः। नोपादानोत्पादो नोपादाननिरोधः। न भवोत्पादो न भवनिरोधः। न जात्युत्पादो न जातिनिरोधः।

०४७०१ न जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासोत्पादो न जरा-
०४७०२ मरणशोकपरिदेवदुःखदौर्मनस्योपायासनिरोधः न दुःखं न समुदयो
०४७०३ न निरोधो न मार्गो न प्राप्तिर्नाभिसमयो न स्रोतआपन्ना न स्रोत-
०४७०४ आपत्तिफलं न सकृदागामी न सकृदागामिफलम्। नानागामी
०४७०५ नानागामिफलं नार्हत्त्वं नार्हत्त्वफलं न प्रत्येकबुद्धा न प्रत्येकबोधिः
०४७०६ न बुद्धो न बोधिः। एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापार-
०४७०७ मितायां चरन् युत्को युक्त इति वक्तव्यः। [इति निरोधसत्याववादः॥]
०४७०८ स प्रज्ञापारमितायां चरन्न दानपारमितायां युक्त इति वा अयुक्त
०४७०९ इति वा आत्मानं समनुपश्यति। न शीलपारमितायां युक्त इति वा
०४७१० अयुक्त इति वा समनुपश्यति। न क्षान्ति{पारमितायां युक्त इति वा अयुक्त इति वा समनुपश्यति}। न वीर्य{पारमितायां युक्त इति वा अयुक्त इति वा समनुपश्यति}। न
०४७११ ध्यान{पारमितायां युक्त इति वा अयुक्त इति वा समनुपश्यति}। न प्रज्ञा{पारमितायां युक्त इति वा अयुक्त इति वा समनुपश्यति}। न रूपे युक्त इति वा अयुक्त इति वा
०४७१२ समनुपश्यति। न वेदनायां युक्त {इति वा अयुक्त इति वा समनुपश्यति}। न संज्ञायां युक्त {इति वा अयुक्त इति वा समनुपश्यति}। न
०४७१३ संस्कारेषु युक्त {इति वा अयुक्त इति वा समनुपश्यति}। न विज्ञाने युक्त {इति वा अयुक्त इति वा समनुपश्यति}। न चक्षुषि युक्त {इति वा अयुक्त इति वा समनुपश्यति}। न
०४७१४ श्रोत्रे युक्त {इति वा अयुक्त इति वा समनुपश्यति}। न घ्राणे युक्त {इति वा अयुक्त इति वा समनुपश्यति}। न जिह्वायां युक्त {इति वा अयुक्त इति वा समनुपश्यति}। न काये
०४७१५ युक्त {इति वा अयुक्त इति वा समनुपश्यति}। न मनसि युक्त {इति वा अयुक्त इति वा समनुपश्यति}। न रूपे युक्त {इति वा अयुक्त इति वा समनुपश्यति}। न शब्दे युक्त {इति वा अयुक्त इति वा समनुपश्यति}।
०४७१६ न गन्धे युक्त {इति वा अयुक्त इति वा समनुपश्यति}। न रसे युक्त {इति वा अयुक्त इति वा समनुपश्यति}। न स्प्रष्टव्ये युक्त {इति वा अयुक्त इति वा समनुपश्यति}। न धर्मे
०४७१७ युक्त {इति वा अयुक्त इति वा समनुपश्यति}। न स्मृत्युपस्ह्तानेषु युक्त {इति वा अयुक्त इति वा समनुपश्यति}। न सम्यक्प्रहाणेषु युक्त {इति वा अयुक्त इति वा समनुपश्यति}। न ऋद्धि-
०४७१८ पादेषु युक्त {इति वा अयुक्त इति वा समनुपश्यति}। नेन्द्रियेषु युक्त {इति वा अयुक्त इति वा समनुपश्यति}। न बलेषु युक्त {इति वा अयुक्त इति वा समनुपश्यति}। न बोध्यङ्गे
०४७१९ युक्त {इति वा अयुक्त इति वा समनुपश्यति}। न मार्गेषु युक्त {इति वा अयुक्त इति वा समनुपश्यति}। न चस्तुर्षु सत्येषु युक्त {इति वा अयुक्त इति वा समनुपश्यति}। न चतुर्षु
०४७२० वैशारद्येषु युक्त {इति वा अयुक्त इति वा समनुपश्यति}। न चतसृषु प्रतिसंवित्सु युक्त {इति वा अयुक्त इति वा समनुपश्यति}। नाभिज्ञासु
०४७२१ युक्त {इति वा अयुक्त इति वा समनुपश्यति}। न दशसु तथागतबलेषु युक्त {इति वा अयुक्त इति वा समनुपश्यति}। नाष्टादशस्वावेणिकेषु

०४८०१ बुद्धधर्मेषु युक्त {इति वा अयुक्त इति वा समनुपश्यति}। यावन्न सर्वाकारज्ञतायां युक्त {इति वा अयुक्त इति वा समनुपश्यति}। न सर्वज्ञज्ञाने
०४८०२ युक्त इति वा अयुक्त इति वा समनुपश्यति। तदनेनापि ते शारि-
०४८०३ पुत्र पर्यायेणैवं वेदितव्यं बोधिसत्त्वो महासत्त्व एवं प्रज्ञापारमितायां
०४८०४ युक्तो युक्त इति वक्तव्यः॥
०४८०५ पुनरपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न
०४८०६ शून्यतां शून्यतया योजयति न शून्यतायोगम्। नानिमित्तमनि-
०४८०७ मित्तेन योजयति नानिमित्तयोगम्। नाप्रणिहितमप्रणिहितेन
०४८०८ योजयति नाप्रणिहितयोगम्। तत्कस्य हेतोः। तथा हि शून्यता न
०४८०९ योगो नायोगः एवमनिमित्तमप्रणिहितं न योगो नायोगः। एवं
०४८१० युज्यमानः शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्तो युक्त
०४८११ इति वक्तव्यः।
०४८१२ पुनरपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्
०४८१३ धर्माणां स्वलक्षणशून्यतामवतरति। एवमवतरन्न रूपं योजयति
०४८१४ न वियोजयति न वेदनां योजयति न वियोजयति। न संज्ञां {योजयति न वियोजयति}।
०४८१५ न संस्कारान् {योजयति न वियोजयति}। न विज्ञानं {योजयति न वियोजयति}। न रूपं पूर्वान्तेन {योजयति न वियोजयति}। पूर्वा-
०४८१६ न्तमेव न समनुपश्यति। न रूपमपरान्तेन {योजयति न वियोजयति}। अपरान्तमेव न
०४८१७ समनुपश्यति। न रूपं प्रत्युत्पन्नेन {योजयति न वियोजयति}। प्रत्युत्पन्नमेव न समनुपश्यति।
०४८१८ न वेदनां पूर्वान्तेन {योजयति न वियोजयति}। पूर्वान्तमेव न समनुपश्यति। न वेदना-

०४९०१ मपरान्तेन {योजयति न वियोजयति} अपरान्तमेव न समनुपश्यति। न वेदनां प्रत्युत्पन्नेन
०४९०२ योजयति न वियोजयति प्रत्युत्पन्नमेव न समनुपश्यति।
०४९०३ न संज्ञां पूर्वान्तेन योजयति न वियोजयति। पूर्वान्तमेव न समनुपश्यति। न संज्ञामपरान्तेन योजयति न वियोजयति। अपरान्तमेव न समनुपश्यति। न संज्ञां प्रत्युत्पन्नेन योजयति न वियोजयति प्रत्युत्पन्नमेव न समनुपश्यति। न संस्कारान् पूर्वान्तेन योजयति न वियोजयति। पूर्वान्तमेव न समनुपश्यति। न संस्कारानपरान्तेन योजयति न वियोजयति। अपरान्तमेव न समनुपश्यति। न संस्कारान् प्रत्युत्पन्नेन योजयति न वियोजयति प्रत्युत्पन्नमेव न समनुपश्यति।
०४९०४ न विज्ञानं पूर्वान्तेन योजयति न वियोजयति। पूर्वान्तमेव न समनुपश्यति। न विज्ञानमपरान्तेन योजयति न वियोजयति। अपरान्तमेव न समनुपश्यति। न विज्ञानं प्रत्युत्पन्नेन योजयति न वियोजयति प्रत्युत्पन्नमेव न समनुपश्यति।
०४९०५ पुनरपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न
०४९०६ पूर्वान्तमपरान्तेन योजयति नापरान्तं पूर्वान्तेन योजयति। न
०४९०७ प्रत्युत्पन्नं पूर्वान्तेन वा अपरान्तेन वा योजयति। नापरान्तं पूर्वा-
०४९०८ न्तेन वा प्रत्युत्पन्नेन वा योजयति। न पूर्वान्तमपरान्तेन वा प्रत्युत्प-
०४९०९ न्नेन वा योजयति। अध्वशून्यतामुपादाय एवं युज्यमानः शारि-
०४९१० पुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः।
०४९११ पुनरपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरनेवं
०४९१२ युज्यते यथा युज्यमानो न सर्वाकारज्ञतामतीतेन योजयति।
०४९१३ अनीतमेव न समनुपश्यति कथमतीतेन सर्वाकारज्ञतां योजयति।
०४९१४ न सर्वाकारज्ञतामनागतेन योजयति। अनागतमेव न समनुपश्यति
०४९१५ कथमनागतेन सर्वाकारज्ञतां योजयति। न सर्वाकारज्ञतां प्रत्युत्पन्नेन
०४९१६ योजयति। प्रत्युत्पन्नमेव न समनुपश्यति कथं प्रत्युत्पन्नेन सर्वाकार-
०४९१७ ज्ञतां योजयति। एवं युज्यमानः शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञा-
०४९१८ पारमितायां युक्त इति वक्तव्यः॥
०४९१९ पुनरपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न

०५००१ रूपं सर्वाकारज्ञतया योजयति रूपमेव न समनुपश्यति। न वेदनां
०५००२ सर्वाकारज्ञतया योजयति वेदनामेव न समनुपश्यति। न संज्ञां
०५००३ {सर्वाकारज्ञतया योजयति संज्ञामेव न समनुपश्यति}। न संस्काराण्{सर्वाकारज्ञतया योजयति संस्काराणेव न समनुपश्यति}। न विज्ञानं {सर्वाकारज्ञतया योजयति विज्ञानमेव न समनुपश्यति}। न चक्षुः {सर्वाकारज्ञतया योजयति चक्षुरेव न समनुपश्यति}। न
०५००४ श्रोत्रं {सर्वाकारज्ञतया योजयति श्रोत्रमेव न समनुपश्यति}। न घ्राणं {सर्वाकारज्ञतया योजयति घ्राणमेव न समनुपश्यति}। न जिह्वां {सर्वाकारज्ञतया योजयति जिह्वामेव न समनुपश्यति}। न कायं {सर्वाकारज्ञतया योजयति कायमेव न समनुपश्यति}। न मनः {सर्वाकारज्ञतया योजयति मनो एव न समनुपश्यति}।
०५००५ न रूपं {सर्वाकारज्ञतया योजयति रूपमेव न समनुपश्यति}। न शब्दान् {सर्वाकारज्ञतया योजयति शब्दानेव न समनुपश्यति}। न गन्धान् {सर्वाकारज्ञतया योजयति गन्धानेव न समनुपश्यति}। न रसान् {सर्वाकारज्ञतया योजयति रसानेव न समनुपश्यति}। न स्प्रष्टव्यं
०५००६ {सर्वाकारज्ञतया योजयति स्प्रष्टव्यमेव न समनुपश्यति}। न धर्मान् {सर्वाकारज्ञतया योजयति धर्मानेव न समनुपश्यति}। एवं युज्यमानः शारिपुत्र बोधिसत्त्वो महासत्त्वः
०५००७ प्रज्ञापारमितायां युक्त इति वक्तव्यः।
०५००८ पुनरपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न
०५००९ दानपारमितां सर्वाकारज्ञतया योजयति दानपारमितामेव न
०५०१० समनुपश्यति। न शीलपारमितां सर्वाकारज्ञतया योजयति शील-
०५०११ पारमितामेव न समनुपश्यति।
०५०१२ न क्षान्तिपारमितां सर्वाकारज्ञतया योजयति क्षान्तिपारमितामेव न समनुपश्यति। न वीर्यपारमितां सर्वाकारज्ञतया योजयति वीर्यपारमितामेव न समनुपश्यति। न ध्यानपारमितां सर्वाकारज्ञतया योजयति ध्यानपारमितामेव न समनुपश्यति। न प्रज्ञापारमितां सर्वाकारज्ञतया योजयति प्रज्ञापारमितामेव न समनुपश्यति। न स्मृत्युपस्थानानि सर्वाकारज्ञतया योजयति स्मृत्युपस्थानान्येव न समनुपश्यति। न सम्यक्प्रहाणानि सर्वाकारज्ञतया योजयति सम्यक्प्रहाणान्येव न समनुपश्यति। न ऋद्धिपादान् सर्वाकारज्ञतया योजयति ऋद्धिपादानेव न समनुपश्यति। न इन्द्रियाणि सर्वाकारज्ञतया योजयति इन्द्रियाण्येव न समनुपश्यति। न बलानि सर्वाकारज्ञतया योजयति बलान्येव न समनुपश्यति। न बोध्यङ्गानि सर्वाकारज्ञतया योजयति बोध्यङ्गान्येव न समनुपश्यति। न मार्गान् सर्वाकारज्ञतया योजयति मार्गानेव न समनुपश्यति। न प्रतिसंविदः सर्वाकारज्ञतया योजयति प्रतिसंविदो एव न समनुपश्यति। न वैशारद्यानि सर्वाकारज्ञतया योजयति वैशारद्यान्येव न समनुपश्यति। न अभिज्ञाः सर्वाकारज्ञतया योजयति अभिज्ञा एव न समनुपश्यति। न दशतथागतबलानि सर्वाकारज्ञतया योजयति दशतथागतबलान्येव न समनुपश्यति।
०५०१३ नाष्टादशावेणिकान् बुद्ध-
०५०१४ धर्मान् सर्वाकारज्ञतया योजयति अष्टाअदशावेणिकान् बुद्धधर्मानेव
०५०१५ न समनुपश्यति। एवं युज्यमानः शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञा-
०५०१६ पारमितायां युक्त इति वक्तव्यः।

०५१०१ पुनरपरं शाइपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न
०५१०२ बुद्धं सर्वाकारज्ञतया योजयति बुद्धमेव न समनुपश्यति। न सर्वा-
०५१०३ कारज्ञतां बुद्धेन योजयति सर्वाकारज्ञतामेव न समनुपश्यति।
०५१०४ न बोधिं सर्वाकारज्ञतया योजयति बोधिमेव न समनुपश्यति। न
०५१०५ सर्वाकारज्ञतां बोध्या योजयति सर्वाकारज्ञतामेव न समनुपश्यति।
०५१०६ तत्कस्य हेतोः। बुद्ध एव सर्वाकारज्ञता सर्वाकारज्ञतैव बुद्धः।
०५१०७ बोधिरेव सर्वाकारज्ञता सर्वाकारज्ञतैव बोधिः। एवं युज्यमानः
०५१०८ शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः।
०५१०९ [इति बुद्धरत्नाववादः॥]
०५११० पुनरपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न
०५१११ रूपं भवतीति योजयति न रूपं विभवतीति योजयति। न वेदना
०५११२ भवतीति योजयति न वेदना विभवतीति योजयति।
०५११३ न संज्ञा भवतीति योजयति न संज्ञा विभवतीति योजयति। न संस्कारा भवन्तीति योजयति न संस्कारा विभवन्तीति योजयति। न विज्ञानं भवतीति योजयति न विज्ञानं विभवतीति योजयति। न रूपं नित्यमिति योज-
०५११४ यति न रूपमनित्यमिति योजयति। न रूपं सुखमिति योजयति न
०५११५ रूपं दुःखमिति योजयति। न रूपमात्मेति योअजयति न रूपमनात्मेति
०५११६ योजयति। न रूपं शान्तमिति योजयति न रूपमशान्तमिति
०५११७ योजयति। न वेदना नित्येति योजयति न वेदना अनित्येति
०५११८ योजयति। न वेदना सुखेति योजयति न वेदना दुःखेति

०५२०१ योजयति। न वेदना आत्मेति योजयति न वेदना अनात्मेति योजयति।
०५२०२ न वेदना शान्तेति योजयति न वेदना अशान्तेति योजयति।
०५२०३ न संज्ञा नित्येति योजयति न संज्ञा अनित्येति योजयति। न संज्ञा सुखेति योजयति न संज्ञा दुःखेति योजयति। न संज्ञा आत्मेति योजयति न संज्ञा अनात्मेति योजयति। न संज्ञा शान्तेति योजयति न संज्ञा अशान्तेति योजयति। न संस्कारा नित्या इति योजयति न संस्कारा अनित्या
०५२०४ इति योजयति। न संस्काराः सुखा इति योजयति न संस्कारा दुःखा
०५२०५ इति योजयति। न संस्कारा आत्मान इति योजयति न संस्कारा
०५२०६ अनात्मान इति योजयति। न संस्काराः शान्ता इति योजयति
०५२०७ न संस्कारा अशान्ता इति योजयति। न विज्ञानं नित्यमिति योजयति न विज्ञानमनित्यमिति योजयति। न विज्ञानं सुखमिति योजयति न विज्ञानं दुःखमिति योजयति। न विज्ञानमात्मेति योअजयति न विज्ञानमनात्मेति योजयति। न विज्ञानं शान्तमिति योजयति न विज्ञानमशान्तमिति योजयति।
०५२०८ न रूपं शून्यमिति योजयति न रूपमशून्यमिति योजयति।
०५२०९ न रूपं सनिमित्तमिति वा चरति न रूपमनिमित्तमिति वा
०५२१० चरति। न रूपं सप्रणिहितमिति वा चरति न रूपमप्रणिहित-
०५२११ मिति वा चरति। न वेदना शून्येति वा चरति न वेदना
०५२१२ अशून्येति वा चरति। न वेदना सनिमित्तेति वा चरति न वेदना
०५२१३ अनिमित्तेति वा चरति। न वेदना सप्रणिहितेति वा चरति न
०५२१४ वेदना अप्रणिहितेति वा चरति। न संज्ञा शून्येति वा चरति न संज्ञा अशून्येति वा चरति। न संज्ञा सनिमित्तेति वा चरति न संज्ञा अनिमित्तेति वा चरति। न संज्ञा सप्रणिहितेति वा चरति न संज्ञा अप्रणिहितेति वा चरति। न संस्काराः
०५२१५ शून्या इति वा चरति न संस्कारा अशून्या इति वा चरति। न संस्काराः सनिमित्ता इति वा चरति न संस्कारा अनिमित्ता इति वा चरति। न संस्काराः सप्रणिहिता इति वा चरति न संस्कारा अप्रणिहिता इति वा चरति। न विज्ञानं शून्यम् इति योजयति न विज्ञानमशून्यमिति योजयति। न विज्ञानं सनिमित्तमिति वा चरति न विज्ञानमनिमित्तमिति वा चरति। न विज्ञानं सप्रणिहितमिति वा चरति न विज्ञानमप्रणिहितमिति वा चरति।। य एवं चरति स प्रज्ञा-
०५२१६ पारमितायां चरतीति नोपैति न चरतीति नोपैति चरति च न
०५२१७ चरति चेति नोपैति नैव चरति न न चरतीति नोपैति। एवं
०५२१८ चरन् शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः।

०५३०१ पुनरपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न
०५३०२ दानपारमितायाः कृतशः प्रज्ञापारमितायां चरति। न शीलपार-
०५३०३ मितायाः कृतशः प्रज्ञापारमितायां चरति। न क्षान्तिपारमितायाः
०५३०४ {कृतशः प्रज्ञापारमितायां चरति}। न वीर्यपारमितायाः {कृतशः प्रज्ञापारमितायां चरति}। न ध्यानपारमितायाः {कृतशः प्रज्ञापारमितायां चरति}। न
०५३०५ प्रज्ञापारमितायाः {कृतशः प्रज्ञापारमितायां चरति}। नाविनिवर्तनीयभूमेः {कृतशः प्रज्ञापारमितायां चरति}। न सत्त्वपरि-
०५३०६ पाकहेतोः {कृतशः प्रज्ञापारमितायां चरति}। न बुद्धक्षेत्रपरिशुद्धिहेतोः {कृतशः प्रज्ञापारमितायां चरति}। न दशानां तथा-
०५३०७ गतबलानां {कृतशः प्रज्ञापारमितायां चरति}। न चतुर्णां वैशारद्यानां {कृतशः प्रज्ञापारमितायां चरति}। न चतसृणां प्रति-
०५३०८ संविदां {कृतशः प्रज्ञापारमितायां चरति}। नाष्टादशानामावेणिकानां बुद्धधर्माणां {कृतशः प्रज्ञापारमितायां चरति}। नाध्यात्म-
०५३०९ शून्यतायाः {कृतशः प्रज्ञापारमितायां चरति}। न बहिर्धाशून्यतायाः {कृतशः प्रज्ञापारमितायां चरति}। नाध्यात्मबहिर्धाशून्य-
०५३१० तायाः {कृतशः प्रज्ञापारमितायां चरति}। न शून्यताशून्यतायाः {कृतशः प्रज्ञापारमितायां चरति}। न महाशून्यतायाः
०५३११ {कृतशः प्रज्ञापारमितायां चरति}। न परमार्थशून्यतायाः {कृतशः प्रज्ञापारमितायां चरति}। न संस्कृतशून्यतायाः {कृतशः प्रज्ञापारमितायां चरति}।
०५३१२ नात्यन्तशून्यतायाः {कृतशः प्रज्ञापारमितायां चरति}। नानवराग्रशून्यतायाः {कृतशः प्रज्ञापारमितायां चरति}। नानव-
०५३१३ कारशून्यतायाः {कृतशः प्रज्ञापारमितायां चरति}। न प्रकृतिशून्यतायाः {कृतशः प्रज्ञापारमितायां चरति}। न सर्वधर्म-
०५३१४ शून्यतायाः {कृतशः प्रज्ञापारमितायां चरति}। न स्वलक्षणशून्यतायाः {कृतशः प्रज्ञापारमितायां चरति}। नानुपलम्भशून्य-
०५३१५ तायाः {कृतशः प्रज्ञापारमितायां चरति}। नाभावस्वभावशून्यतायाः {कृतशः प्रज्ञापारमितायां चरति}। न भावशून्यतायाः
०५३१६ {कृतशः प्रज्ञापारमितायां चरति}। नाभावशून्यतायाः {कृतशः प्रज्ञापारमितायां चरति}। न स्वभावशून्यतायाः {कृतशः प्रज्ञापारमितायां चरति}। न पर-
०५३१७ भावशून्यतायाः {कृतशः प्रज्ञापारमितायां चरति}। न तथतायाः {कृतशः प्रज्ञापारमितायां चरति}। न धर्मधातोः {कृतशः प्रज्ञापारमितायां चरति}। न
०५३१८ भूतकोटेः {कृतशः प्रज्ञापारमितायां चरति}। तत्कस्य हेतोः। न हि बोधिसत्त्वो महासत्त्वः प्रज्ञा-
०५३१९ पारमितायां चरन् कस्यचिद्धर्मस्य संभेदं समनुपश्यति। एवं शारिपुत्र
०५३२० बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न दिव्यस्य चक्षुषः कृतशः
०५३२१ प्रज्ञापारमितायां चरति। न दिव्यस्य श्रोत्रस्य कृतशः प्रज्ञापार-
०५३२२ मितायां चरति। न परचित्तज्ञानस्य कृतशः प्रज्ञापारमितायां चरति।

०५४०१ न पूर्वनिवासानुस्मृतेः कृतशः प्रज्ञापारमितायां चरति। न ऋद्धिविधेः
०५४०२ कृतशः प्रज्ञापारमितायां चरति। तत्कस्य हेतोः। तथा हि प्रज्ञा-
०५४०३ पारमितायां चरन् प्रज्ञापारमितामेव न समनुपश्यति। कुत एव
०५४०४ बोधिसत्त्वं कुत एव सर्वाकारं सर्वाभिज्ञाः। एवं हि शारिप्तुर बोधि-
०५४०५ सत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् युक्त इति वक्तव्यः।
०५४०६ पुनरपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो
०५४०७ नैवं भवति। अहं दिव्येन चक्षुषा पूर्वस्यं दिशि गङ्गानदीवालुकोपमेषु
०५४०८ लोकधातुषु सत्त्वानां च्युतोपपादं ज्ञास्यामीति दिव्येन श्रोत्रेणैषां शब्दान्
०५४०९ श्रोष्यामिति तेषामेव च चित्तानि ज्ञास्यामीति। तेषामेव च पूर्वनिवास-
०५४१० मनुस्मृत्य ऋद्ध्या गत्वा धर्मं देशयिष्यामीति। एवं शारिपुत्र {बोधिसत्त्वस्य}
०५४११ महासत्त्वस्य नैवं भवति। अहं दिव्येन चक्षुषा दक्षिणस्यां दिशि
०५४१२ गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वानां च्युतोपपादं ज्ञास्यामीति दिव्येन श्रोत्रेणैषां शब्दान् श्रोष्यामिति तेषामेव च चित्तानि ज्ञास्यामीति। तेषामेव च पूर्वनिवासमनुस्मृत्य ऋद्ध्या गत्वा धर्मं देशयिष्यामीति। एवं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य नैवं भवति। अहं दिव्येन चक्षुषा पश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वानां च्युतोपपादं ज्ञास्यामीति दिव्येन श्रोत्रेणैषां शब्दान् श्रोष्यामिति तेषामेव च चित्तानि ज्ञास्यामीति। तेषामेव च पूर्वनिवासमनुस्मृत्य ऋद्ध्या गत्वा धर्मं देशयिष्यामीति। एवं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य नैवं भवति। अहं दिव्येन चक्षुषा उत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वानां च्युतोपपादं ज्ञास्यामीति दिव्येन श्रोत्रेणैषां शब्दान् श्रोष्यामिति तेषामेव च चित्तानि ज्ञास्यामीति। तेषामेव च पूर्वनिवासमनुस्मृत्य ऋद्ध्या गत्वा धर्मं देशयिष्यामीति। एवं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य नैवं भवति। अहं दिव्येन चक्षुषा उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वानां च्युतोपपादं ज्ञास्यामीति दिव्येन श्रोत्रेणैषां शब्दान् श्रोष्यामिति तेषामेव च चित्तानि ज्ञास्यामीति। तेषामेव च पूर्वनिवासमनुस्मृत्य ऋद्ध्या गत्वा धर्मं देशयिष्यामीति। एवं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य नैवं भवति। अहं दिव्येन चक्षुषा पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वानां च्युतोपपादं ज्ञास्यामीति दिव्येन
श्रोत्रेणैषां शब्दान् श्रोष्यामिति तेषामेव च चित्तानि ज्ञास्यामीति। तेषामेव च पूर्वनिवासमनुस्मृत्य ऋद्ध्या गत्वा धर्मं देशयिष्यामीति। एवं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य नैवं भवति। अहं दिव्येन चक्षुषा दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वानां च्युतोपपादं ज्ञास्यामीति दिव्येन श्रोत्रेणैषां शब्दान् श्रोष्यामिति तेषामेव च चित्तानि ज्ञास्यामीति। तेषामेव च पूर्वनिवासमनुस्मृत्य ऋद्ध्या गत्वा धर्मं देशयिष्यामीति। एवं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य नैवं भवति। अहं दिव्येन चक्षुषा पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वानां च्युतोपपादं ज्ञास्यामीति दिव्येन श्रोत्रेणैषां शब्दान् श्रोष्यामिति तेषामेव च चित्तानि ज्ञास्यामीति। तेषामेव च पूर्वनिवासमनुस्मृत्य ऋद्ध्या गत्वा धर्मं देशयिष्यामीति। एवं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य नैवं भवति। अहं दिव्येन चक्षुषा अधस्ताद्दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वानां च्युतोपपादं ज्ञास्यामीति दिव्येन श्रोत्रेणैषां शब्दान् श्रोष्यामिति तेषामेव च चित्तानि ज्ञास्यामीति। तेषामेव च पूर्वनिवासमनुस्मृत्य ऋद्ध्या गत्वा धर्मं देशयिष्यामीति। एवं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य नैवं भवति। अहं दिव्येन चक्षुषा
०५४१३ ऊर्ध्वं दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वानां च्युतोपपादं
०५४१४ ज्ञास्यामीति दिव्येन श्रोत्रेणैषां शब्दान् श्रोष्यामीति तेषामेव च
०५४१५ चित्तानि ज्ञास्यामीति। तेषामेव च पूर्वनिवासमनुस्मृत्य ऋद्ध्या
०५४१६ गत्वा धर्मं देशयिष्यामीति।

०५५०१ एवं हि शारिपुत्र {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन्नप्रमेयान-
०५५०२ संख्येयानपरिमाणान् सत्त्वान् परिनिर्वापयन् युक्त इति वक्तव्यः।
०५५०३ एवं हि शारिपुत {बोधिसत्त्वस्य} महासत्त्वस्य प्रज्ञापारमितायां चरतो मारः
०५५०४ पापीयानवतारं न लभत् सर्वे चास्यान्येऽपि लौकिका ये केचित्
०५५०५ क्लेशास्ते सर्वे दलिता भवन्ति। येऽपि ते शारिपुत्र पूर्वस्यां दिशि बुद्धा
०५५०६ भगवन्तो गङ्गानदीवालुकोपमेषु लोकधातुषु तिष्ठन्ति ध्रियन्ते याप-
०५५०७ यन्ति धर्मं च देशयन्ति ये च तेषां श्रावका ये च प्रत्येकबुद्धा ये च
०५५०८ चातुर्महाराजकायिका देवास्त्रयस्त्रिंशा यामास्तुषिता निर्माणरतयः
०५५०९ परनिर्मितवशवर्तिनो ब्रह्मपार्षद्या ब्रह्मपुरोहिता महाब्रह्माणः परीत्ताभा
०५५१० अप्रमाणाभा आभास्वराः परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्ना
०५५११ अनभ्रकाः पुण्यप्रसवा बृहत्फला असंज्ञिसत्त्वाः शुद्धावासा अवृहा
०५५१२ अतपाः सुदृशाः सुदर्शना अकनिष्ठा देवास्तेऽपि तं {बोधिसत्त्वं} महासत्त्वं
०५५१३ रक्षन्ति। मा खल्वस्य {बोधिसत्त्वस्य} महासत्त्वस्य कश्चिदन्तरायं कार्षीत् । येऽप्यस्य
०५५१४ केचित्कायिका दोषास्तेऽप्यस्य दृष्टधार्मिका भवन्ति। तत्कस्य हेतोः।
०५५१५ तथा हि स सर्वसत्त्वान्मैत्र्या स्फरति। येऽपि ते शारिपुत्र दक्षिणस्यां दिशि
०५५१६ बुद्धा भगवन्तो गङ्गानदीवालुकोपमेषु लोकधातुषु तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति ये च तेषां श्रावका ये च प्रत्येकबुद्धा ये च चातुर्महाराजकायिका देवास्त्रयस्त्रिंशा यामास्तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो ब्रह्मपार्षद्या ब्रह्मपुरोहिता महाब्रह्माणः परीत्ताभा अप्रमाणाभा आभास्वराः परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्ना अनभ्रकाः पुण्यप्रसवा बृहत्फला असंज्ञिसत्त्वाः शुद्धावासा अवृहा अतपाः सुदृशाः सुदर्शना अकनिष्ठा देवास्तेऽपि तं बोधिसत्त्वं महासत्त्वं रक्षन्ति। मा खल्वस्य बोधिसत्त्वस्य महासत्त्वस्य कश्चिदन्तरायं कार्षीत् । येऽप्यस्य केचित्कायिका दोषास्तेऽप्यस्य दृष्टधार्मिका भवन्ति। तत्कस्य हेतोः। तथा हि स सर्वसत्त्वान्मैत्र्या स्फरति।आ॰

०५६०१ येऽपि ते शारिपुत्र पश्चिमायां दिशि बुद्धा भगवन्तो गङ्गानदीवालुकोपमेषु लोकधातुषु तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति ये च तेषां श्रावका ये च प्रत्येकबुद्धा ये च चातुर्महाराजकायिका देवास्त्रयस्त्रिंशा यामास्तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो ब्रह्मपार्षद्या ब्रह्मपुरोहिता महाब्रह्माणः परीत्ताभा अप्रमाणाभा आभास्वराः परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्ना अनभ्रकाः पुण्यप्रसवा बृहत्फला असंज्ञिसत्त्वाः शुद्धावासा अवृहा अतपाः सुदृशाः सुदर्शना अकनिष्ठा देवास्तेऽपि तं बोधिसत्त्वं महासत्त्वं रक्षन्ति। मा खल्वस्य बोधिसत्त्वस्य महासत्त्वस्य कश्चिदन्तरायं कार्षीत् । येऽप्यस्य केचित्कायिका दोषास्तेऽप्यस्य दृष्टधार्मिका भवन्ति। तत्कस्य हेतोः। तथा हि स सर्वसत्त्वान्मैत्र्या स्फरति। येऽपि ते शारिपुत्र उत्तरस्यां दिशि बुद्धा भगवन्तो गङ्गानदीवालुकोपमेषु लोकधातुषु तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति ये च तेषां श्रावका ये च प्रत्येकबुद्धा ये च चातुर्महाराजकायिका देवास्त्रयस्त्रिंशा यामास्तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो ब्रह्मपार्षद्या ब्रह्मपुरोहिता महाब्रह्माणः परीत्ताभा अप्रमाणाभा आभास्वराः परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्ना अनभ्रकाः पुण्यप्रसवा बृहत्फला असंज्ञिसत्त्वाः शुद्धावासा अवृहा अतपाः सुदृशाः सुदर्शना अकनिष्ठा देवास्तेऽपि तं बोधिसत्त्वं महासत्त्वं रक्षन्ति। मा खल्वस्य बोधिसत्त्वस्य महासत्त्वस्य कश्चिदन्तरायं कार्षीत् । येऽप्यस्य केचित्कायिका दोषास्तेऽप्यस्य दृष्टधार्मिका भवन्ति। तत्कस्य हेतोः। तथा हि स सर्वसत्त्वान्मैत्र्या स्फरति। येऽपि ते शारिपुत्र
०५६०२ उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्त-
०५६०३ स्तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति। ये च तेषां श्रावका
०५६०४ ये च प्रत्येकबुद्धा ये च चातुर्महाराजकायिका देवा यावदकनिष्ठा
०५६०५ देवास्तेऽपि तस्य {बोधिसत्त्वस्य} महासत्त्वस्य रक्षां कुर्वन्ति। मा खल्वस्य
०५६०६ {बोधिसत्त्वस्य} महासत्त्वस्यान्तरायो भूदिति।
०५६०७ येऽपि ते शारिपुत्र पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस्तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति। ये च तेषां श्रावका ये च प्रत्येकबुद्धा ये च चातुर्महाराजकायिका देवा यावदकनिष्ठा देवास्तेऽपि तस्य बोधिसत्त्वस्य महासत्त्वस्य रक्षां कुर्वन्ति। मा खल्वस्य बोधिसत्त्वस्य महासत्त्वस्यान्तरायो भूदिति। येऽपि ते शारिपुत्र दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस्तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति। ये च तेषां श्रावका ये च प्रत्येकबुद्धा ये च चातुर्महाराजकायिका देवा यावदकनिष्ठा देवास्तेऽपि तस्य बोधिसत्त्वस्य महासत्त्वस्य रक्षां कुर्वन्ति। मा खल्वस्य बोधिसत्त्वस्य महासत्त्वस्यान्तरायो भूदिति। मा खल्वस्य बोधिसत्त्वस्य महासत्त्वस्यान्तरायो भूदिति। येऽपि ते शारिपुत्र पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस्तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति। ये च तेषां श्रावका ये च प्रत्येकबुद्धा ये च चातुर्महाराजकायिका देवा यावदकनिष्ठा देवास्तेऽपि तस्य बोधिसत्त्वस्य महासत्त्वस्य रक्षां कुर्वन्ति। मा खल्वस्य बोधिसत्त्वस्य महासत्त्वस्यान्तरायो भूदिति। येऽपि ते शारिपुत्र अधस्ताद्दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस्तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति। ये च तेषां श्रावका ये च प्रत्येकबुद्धा ये च चातुर्महाराजकायिका देवा यावदकनिष्ठा देवास्तेऽपि तस्य बोधिसत्त्वस्य महासत्त्वस्य रक्षां कुर्वन्ति। मा खल्वस्य बोधिसत्त्वस्य महासत्त्वस्यान्तरायो भूदिति।
०५६०८ येऽपि ते शारिपुत्र ऊर्ध्वं दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस्तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति। ये च तेषां श्रावका ये च प्रत्येकबुद्धा ये च चातुर्महाराजकायिका देवा यावदकनिष्ठा देवास्तेऽपि तस्य बोधिसत्त्वस्य महासत्त्वस्य रक्षां कुर्वन्ति। मा खल्वस्य बोधिसत्त्वस्य महासत्त्वस्यान्तरायो भूदिति।
०५६०९ पुनरपरं शारिपुत {बोधिसत्त्वस्य} महासत्त्वस्य प्रज्ञापारमितायां चरतः अल्प-
०५६१० कृच्छ्रेण धारणीमुखानि समाधिमुखानि चामुखीभवन्ति सर्वोपपत्त्याय-
०५६११ तनेषु च तथागतानर्हतः सम्य्कसंबुद्धानारागयति ननु कदाचिद्बुद्धै-
०५६१२ र्भगवद्भिर्विरहितो भवति यावदनुत्तरां सम्यक्संबोधिमभिसंबुद्ध इति।
०५६१३ एवं हि शारिपुत्र {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन् युक्त इति
०५६१४ वक्तव्यः।
०५६१५ पुनरपरं शारिपुत्र {बोधिसत्त्वस्य} महासत्त्वस्य प्रज्ञापारमितायां चरतो
०५६१६ नैवं भवति। अस्ति स कश्चिद्धर्मो यो धर्मैः सह संयुज्यते वा विसं-
०५६१७ युज्यते वा।
०५६१८ पुनरपरं शारिपुत्र {बोधिसत्त्वस्य} महासत्त्वस्य प्रज्ञापारमितायां चरतो नैवं
०५६१९ भवति। कश्चिदहं क्षिप्रतरं धर्मधातुमभिसंबुध्येयं वा न वाभि-

०५७०१ संबुध्येयम्। तत्कस्य हेतोः। न हि धर्मधातुर्धर्मधातुनाभिसंबुध्यत्
०५७०२ एवं हि शारिपुत्र {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन् युक्त इति
०५७०३ वक्तव्यः।
०५७०४ पुनरपरं शारिपुत्र {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन्न
०५७०५ किञ्चिद्धर्मधातोर्व्यतिरिक्तं समनुपश्यति नापि धर्मधातोर्धर्मनाना-
०५७०६ करणं करोति। नाप्यस्यैवं भवति अयं धर्मधातुरेवं प्रतिविध्यते न वा
०५७०७ प्रतिविध्यत इति। तथा हि न स कञ्चिद्धर्मं समनुपश्यति येन
०५७०८ धर्मेण तां धर्मतां प्रतिविध्येदिति। तथा हि स न धर्मधतुं शून्यमिति
०५७०९ योजयति नाशून्यमिति योजयति। एवं हि शारिपुत्र {बोधिसत्त्वो} महा-
०५७१० सत्त्वः प्रज्ञापारमितायां चरन् युक्त इति वक्तव्यः।
०५७११ पुनरपरं शारिपुत्र {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन्न चक्षु-
०५७१२ र्धातुं शून्यतया योजयति न शून्यतां चक्षुर्धातुना योजयति। न
०५७१३ रूपधातुं शून्यतया योजयति न शून्यतां रूपधातुना योजयति। न
०५७१४ चक्षुर्विज्ञानधातुं शून्यतया योजयति न शून्यतां चक्षुर्विज्ञानधातुना
०५७१५ योजयति।

०५८०१ न श्रोत्रधातुं शून्यतया योजयति न शून्यतां श्रोत्रधातुना योजयति।
०५८०२ न शब्दधातुं शून्यतया योजयति न शून्यतां शब्दधातुना योजयति।
०५८०३ न श्रोत्रविज्ञानधातुं शून्यतया योजयति न शून्यतां श्रोत्रविज्ञानधातुना योजयति।
०५८०४ न घ्राणधातुं शून्यतया योजयति न शून्यतां घ्राणधातुना योजयति।
०५८०५ न गन्धधातुं शून्यतया योजयति न शून्यतां गन्धधातुना योजयति।
०५८०६ न घ्राणविज्ञानधातुं शून्यतया योजयति न शून्यतां घ्राणविज्ञानधातुना योजयति।
०५८०७ न जिह्वाधातुं शून्यतया योजयति न शून्यतां जिह्वाधातुना योजयति।
०५८०८ न रसधातुं शून्यतया योजयति न शून्यतां रसधातुना योजयति।
०५८०९ न जिह्वाविज्ञानधातुं शून्यतया योजयति न शून्यतां जिह्वाविज्ञानधातुना योजयति।
०५८१० न कायधातुं शून्यतया योजयति न शून्यतां कायधातुना योजयति।
०५८११ न स्प्रष्टव्यधातुं शून्यतया योजयति न शून्यतां स्प्रष्टव्यधातुना योजयति।
०५८१२ न कायविज्ञानधातुं शून्यतया योजयति न शून्यतां कायविज्ञानधातुना योजयति।
०५८१३ न मनोधातुं शून्यतया योजयति न शून्यतां मनोधातुना योजयति।
०५८१४ न धर्मधातुं शून्यतया योजयति न शून्यतां धर्मधातुना योजयति।
०५८१५ न मनोविञानधातुं शून्यतया योजयति न शून्यतां मनोविञानधातुना योजयति।
०५८१६ तत्कस्य हेतोः। एष हि शारिपुत्र परमयोगो {बोधिसत्त्वस्य} महासत्त्वस्य
०५८१७ यदुत शून्यतायोगः। शून्यतायां शारिपुत्र चरन् {बोधिसत्त्वो} महासत्त्वो
०५८१८ न श्रावकप्रत्येकबुद्धभूमौ पतति बुद्धक्षेत्रं परिशोधयति सत्त्वान्
०५८१९ परिपाचयति क्षिप्रं चानुत्तरां सम्य्कसंबोधिमभिसंबुध्यत्
०५८२० ये केचिच्छारिपुत्र {बोधिसत्त्वस्य} महासत्त्वस्य योगास्तेषां प्रज्ञापारमिता-
०५८२१ योगोऽग्र आख्यायते श्रेष्ठ आख्यायते वरः प्रवर उत्तमोऽनुत्तरोऽसमो-
०५८२२ऽसमसमः प्रणीत आख्यायत् तत्कस्य हेतोः। निरुत्तरो ह्येषः शारिपुत्र

०५९०१ योगो यदुत प्रज्ञापारमितायोगः शून्यतायोगः अनिमित्तयोगः अप्र-
०५९०२ णिहितयोगः। एवं युज्यमानः शारिपुत्र {बोधिसत्त्वो} महासत्त्वो व्याकृत इति
०५९०३ धारयितव्यः। आसन्नीभूतो व्याकरणस्य् एवं युज्यमानः शारिपुत्र
०५९०४ {बोधिसत्त्वो} महासत्त्वः अप्रमेयाणामसंख्येयानां सत्त्वानामर्थं करिष्यति न
०५९०५ चास्यैवं भविष्यति मां बुद्धा भगवन्तो व्याकरिष्यन्तीति। अहमासन्नी-
०५९०६ भूतो व्याकरणस्येति। अहं बुद्धक्षेत्रं परिशोधयिष्यामीति। अहं
०५९०७ सत्त्वान् परिपाचयिष्यामीति। अहमनुत्तरां सम्यक्संबोदिमभिसंबुध्य
०५९०८ धर्मचक्रं प्रवर्तयिष्यामीति। तत्कस्य हेतोः। तथा हि स धर्मधातुं न
०५९०९ विविक्तीकरोति न च धर्मधातोरन्यधर्मं समनुपश्यति यः प्रज्ञापार-
०५९१० मितायां चरेत्यो वा बुद्धैर्भगवद्भिर्व्याक्रियेत अनुत्तरायां सम्यक्-
०५९११ संबोधौ। तत्कस्य हेतोः। तथा हि {बोधिसत्त्वस्य} महासत्त्वस्य प्रज्ञापार-
०५९१२ मितायां चरतो न सत्त्वसंज्ञोत्पद्यत् तत्कस्य हेतोः। तथा ह्यत्यन्ततया
०५९१३ सत्त्वो नोत्पद्यते न निरुध्यते अनुत्पादानिरोधधर्मत्वात् । यस्य
०५९१४ च नोत्पादो न निरोधः स कथं प्रज्ञापारमितायां चरिष्यति। एवं चरन्
०५९१५ {बोधिसत्त्वो} महासत्त्वः सत्त्वानुत्पादतया प्रज्ञापारमितायां चरति। सत्त्वशून्य-
०५९१६ तया प्रज्ञापारमितायां चरति। सत्त्वानुपलब्ध्या प्रज्ञापारमितायां
०५९१७ चरति। सत्त्वविविक्ततया प्रज्ञापारमितायां चरति। एवं हि शारिपुत्र
०५९१८ {बोधिसत्त्वानां} महासत्त्वानां परमयोगो यदुत शून्यतायोगः सर्वानन्यान् योगा-
०५९१९ नभिभूयावतिष्ठत् अत्र हि शारिपुत्र योगे चरन् {बोधिसत्त्वो} महासत्त्वो

०६००१ महामैत्रीमभिनिर्हरति न च मात्सर्यचित्तमुत्पादयति। न दौःशौल्य-
०६००२ चित्तम् {उत्पादयति}। न व्यापादचित्तम् {उत्पादयति}। न कुशीदचित्तम् {उत्पादयति}। न विक्षिप्त-
०६००३ चित्तम् {उत्पादयति}। न दौष्प्रज्ञचित्तम् {उत्पादयति}॥ [इति धर्म्मरत्नाववादः॥]
०६००४ एवमुक्ते आयुस्मान् शारिपुत्रो भगवन्तमेतदवोचत् । यो भगवन्
०६००५ {बोधिसत्त्वो} महासत्त्वोऽनेन प्रज्ञापारमिताविहारेण विहरति स कुतश्च्युत
०६००६ इहोपपद्यत् इतो वा च्युतः कुत्रोपपत्स्यत् एवमुक्ते भगवाना-
०६००७ युष्मन्तं शारिपुत्रमेतदवोचत् । यः शारिपुत्र {बोधिसत्त्वो} महासत्त्वोऽनेन
०६००८ प्रज्ञापारमिताविहारेण विहरति स इतश्च्युत इहैव बुद्धक्षेत्रे उपपद्यते
०६००९ अन्येभ्यो वा बुद्धक्षेत्रेभ्यश्च्युतस्तुषितेभ्यो वा देवेभ्यश्च्युत इहोपपद्यत् ।
०६०१० [इति बोधिसत्वाष्टमकः॥]
०६०११ तत्र शारिपुत्र योऽयं {बोधिसत्त्वो} महासत्त्वो मनुष्येभ्य एव च्युत्वा
०६०१२ मनुष्याणामेव सभागतायामुपपद्यते तस्य {बोधिसत्त्वस्य} महासत्त्वस्या-
०६०१३ विनिवर्तनीयान् {बोधिसत्त्वान्} महासत्त्वान् स्थापयित्वा धन्वानीन्द्रियाणि
०६०१४ भवन्ति। न च क्षिप्रं प्रज्ञापारमितायोगं समापद्यत् न चास्य
०६०१५ धारणीमुखमभिमुखीभवति न च समाधिमुखम्। यत्पुनः शारिपुत्र
०६०१६ एवं वदसि यो भगवन् {बोधिसत्त्वो} महासत्त्व इमं प्रज्ञापारमिता-
०६०१७ योगं समापद्यते स इतश्च्युतः कुत्रोपपत्स्यत इति। यः शारिपुत्र {बोधिसत्त्वो}
०६०१८ महासत्त्व इमं प्रज्ञापारमितायोगं समापद्यते स इतो बुद्धक्षेत्राच्च्युतः

०६१०१ बुद्धक्षेताद्बुद्धक्षेत्रं संक्रमिष्यति। तत्र बुद्धक्षेत्रे बुद्धान् भगवत आरा-
०६१०२ गयिष्यति। न कदाचिद्बुद्धविरहितो भविष्यति॥ [इति बोधिसत्त्व-
०६१०३ श्रद्धानुसारी॥]
०६१०४ यः पुनः शारिपुत्रायं {बोधिसत्त्वो} महासत्त्वोऽन्येभ्यो बुद्धक्षेत्रेभ्यश्च्युत
०६१०५ इहोपपद्यते तस्य तीक्ष्णानीन्द्रियाणि भवन्ति। स क्षिप्रमिमं
०६१०६ योगमापद्यते यदुत प्रज्ञापारमितायोगम्। तस्य जातिव्यतिवृत्तस्याप्यमी
०६१०७ गम्भीरगम्भीरा धर्मा अभिमुखीभवन्ति। स पश्चात्प्रज्ञापारमितायोगं
०६१०८ समाअपद्यत् यत्र यत्र बुद्धक्षेत्रे उपपद्यते तत्र तत्र तथागतानर्हतः
०६१०९ सम्यक्संबुद्धानारागयिष्यति। यः पुनः शारिपुत्र {बोधिसत्त्वो} महासत्त्वः तुषि-
०६११० तेभ्यो देवेभ्यश्च्युत्वा इहोपपन्नो भवति तस्यापि पटुतराणीन्द्रियाणि
०६१११ भवन्ति। अविप्रमुषिताः षट्पारमिताः सर्वधारणीसमाधिमुखानि
०६११२ चाभिमुखीभवन्ति॥ [इति बोधिसत्त्वधर्मानुसारी॥]
०६११३ सन्ति शारिपुत्र {बोधिसत्त्वा} महासत्त्वाः प्रज्ञापारमितायां चरन्तो घटमाना
०६११४ व्यायच्छन्तः सत्त्वपरिपाकायोपायकौशल्यबलेन स्रोतआपत्तिफलं साक्षात्-
०६११५ कुर्वन्ति। न च ते न मन्यन्ते इति स्रोतआपन्नः। सन्ति {शारिपुत्र बोधिसत्त्वा} महा-
०६११६ सत्त्वा अनुपायकुशला ये चत्वारि ध्यानानि निष्पादयन्ति पारमितासु
०६११७ च चरन्ति। तेन च ध्यानलाभेन दीर्घायुष्केषु देवेषूपपद्यन्ते सचेत्
०६११८ ततश्च्युत्वा मनुष्येषु देवेषु वा उपपद्यन्ते बुद्धांश्च भगवत आरागयि-

०६२०१ ष्यन्ति तेषामपि धन्वानीन्द्रियाणि भवन्ति न तीक्ष्णानि। सन्ति {शारिपुत्र बोधिसत्त्वा}
०६२०२ महासत्त्वा ध्यानानि च समापद्यन्ते प्रज्ञापारमितायां च चरन्ति। ते
०६२०३ चानुपायकौशल्येन ध्यानान्युत्सृज्य कामधातावुपपद्यन्ते तेषामपि शारि-
०६२०४ पुत्र {बोधिसत्त्वानां} महासत्त्वानां धन्वानीन्द्रियाणि भवन्ति न तीक्ष्णानि॥ [इति
०६२०५ द्वितीयतृतीयफलप्रतिपन्नकः श्रद्धाधिमुक्तः॥]
०६२०६ सन्ति {शारिपुत्र बोधिसत्त्वा} महसत्त्वाश्चत्वारि ध्यानान्युत्पाद्य चत्वार्यप्रमाणानि समा-
०६२०७ पद्यन्त् चतस्र आरूप्यसमापत्तीः स्मृत्युपस्थानसम्यक्प्रहाणऋद्धि-
०६२०८ पादेन्द्रियबलबोध्यङ्गमार्गान् समापद्यन्त् महाकारुणिका उपाय-
०६२०९ कौशल्येन चोपपद्यन्ते न ध्यानवशेन नाप्रमाणवशेन नारूप्यसमा-
०६२१० पत्तिवशेन तत्र चोपपद्यन्ते यत्र तथागतानर्हतः सम्यक्संबुद्धानारागयि-
०६२११ ष्यन्ति। ते पुनः प्रज्ञापारमिताविहारेणाविरहिता इहैव भद्रकल्पे
०६२१२ अनुत्तरां सम्य्कसंबोधिमभिसंभोत्स्यन्त् । [इति द्वितीयतृतीयफलप्रति-
०६२१३ पन्नको दृष्टिप्राप्तः॥]
०६२१४ सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वा एकजातिप्रतिबद्धा ये प्रज्ञापारमितायां
०६२१५ चरन्त उपायकौशल्येन चत्वारि ध्यानानि समापद्यन्त् चत्वार्य-
०६२१६ प्रमाणानि चतस्र आरुप्यसमापत्तीः स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादे-
०६२१७ न्द्रियबलबोध्यङ्गमार्गान् भावयन्ति। शून्यतासमाधिं समापद्यन्त्
०६२१८ अनिमित्तसमाधिं समापद्यन्त् अप्रणिहितसमाधिं समापद्यन्त्

०६३०१ न च तेषां वशेन गच्छन्ति संमुखीभूतांश्च बुद्धान् भगवत आरागयित्वा
०६३०२ तत्र ब्रह्मचर्यं चरित्वा पुनरेव तुषितानां देवानां सभागगतायै उपपद्यन्त्
०६३०३ ते तत्र यावदायुस्तिष्ठन्ति। ते तत्र यावदायुः स्थित्वा अहीनेन्द्रियाः
०६३०४ स्मृतिमन्तः संप्रजानन्तो अनेकैर्देवकोटीनियुतशतसहस्रैः परिवृताः पुर-
०६३०५ स्कृता इहोपपत्तिं सर्शयित्वा नानाबुद्धक्षेत्रेष्वनुत्तरां सम्यक्संबोधिमभिसं-
०६३०६ बुद्ध्यन्त् । [इति सकृदागामी॥]
०६३०७ सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वाः षण्णामभिज्ञानां लाभिनो ये न कामधातौ
०६३०८ न रूपधातौ नारूप्यधातावुपपद्यन्त् अपि तु बुद्धक्षेत्रेण बुद्धक्षेत्रं
०६३०९ संक्रामन्ति तथागतानर्हतः सम्यक्संबुद्धान् सत्कुर्वन्तो गुरूकुर्वन्तो
०६३१० मानयन्तः पूजयन्तः। सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वाः षण्णामभिज्ञानां
०६३११ लाभिनस्ते ताभिरभिज्ञाभिर्विक्रीडन्तो बुद्धक्षेत्रेण बुद्धक्षेत्रं
०६३१२ संक्रामन्ति येषु बुद्धक्षेत्रेषु न श्रावकप्रत्येकबुद्धयानस्य प्रज्ञप्ति-
०६३१३ रप्यस्ति। सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वाः षण्णामभिज्ञानां लाभिनस्ते ताभिरभि-
०६३१४ ज्ञाभिर्विक्रीडन्तो बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामन्ति येषु बुद्धक्षेत्रेष्व-

०६४०१ मितमायुः। सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वाः षण्णामभिज्ञानां लाभिनः ये
०६४०२ लोकधातोर्लोकधातुं संक्रामन्ति ते तत्रोपसंक्रम्य यत्र न बुद्धशब्दो
०६४०३ न धर्मशब्दो न सङ्घशब्दस्तत्रावस्थिताः बुद्धशब्दं च धर्मशब्दं च सङ्घशब्दं च
०६४०४ सत्त्वानां संश्रावयन्ति। त्रयाणां च रत्नानां वर्णं भाषन्त् ते तेन
०६४०५ बुद्धशब्देन धर्मशब्देन सङ्घशब्देन ततश्च्युता यत्र यत्र बुद्धा भगवन्तो
०६४०६ भवन्ति ते तत्र तत्रोपपद्यन्त् । [इति अनागामी॥]
०६४०७ सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वाश्चत्वारि ध्यानानि उत्पाद्य चत्वार्यप्रमाणानि
०६४०८ चतस्र आरूप्यसमापत्तीः समापद्यन्ते ते चोपायकौशल्येन समन्वा-
०६४०९ गताः समाधिसमापत्तिभ्यो निवृत्य कामधातावुपपद्यन्ते क्षत्रियमहा-
०६४१० शालकुलेषु वा ब्राह्मणमहाशालकुलेषु वा गृहपतिमहाशालकुलेषु वा
०६४११ उपपद्यन्ते सत्त्वपरिपाकाय् । [इति अयं मनुष्यकुलं कुलः॥]
०६४१२ सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वाश्चत्वारि ध्यानानि समापद्यन्ते चत्वार्यप्रमा-
०६४१३ णानि चतस्र आरूप्यसमापत्तीः समापद्यन्त् तेऽप्युपायकौशल्य-
०६४१४ बलेन ध्यानसमाधिसमापत्तिवशेन वा चातुर्महाराजकायिकाना-
०६४१५ मपि देवानां सभागतायै उपपद्यन्त् त्रयस्त्रिंशानां यामानां तुषितानां
०६४१६ निर्माणरतीनां परनिर्मितवशवर्तिनां सभागतायै उपपद्यन्त् ते

०६५०१ तत्र स्थित्वा सत्त्वान् परिपाचयन्ति बुद्धक्षेत्रं च परिशोधयन्ति
०६५०२ बुद्धांश्च भगवत आरागयन्ति। सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वाश्चत्वारि
०६५०३ ध्यानानि उत्पाद्य चत्वार्यप्रमाणानि चतस्र आरूप्यसमापत्तीः समा-
०६५०४ पद्यन्त् ते ततश्च्युताः सन्त उपायकौशल्येन ब्रह्मलोके यावदकनिष्ठे
०६५०५ उपपद्यन्त् ते तत्र भवन्ति ब्रह्माणो महाब्रह्माणस्तेषु ब्रह्मभवनेषु
०६५०६ तिष्ठन्ति। ते तत्र स्थित्वा बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामन्ति। ये च
०६५०७ तेषु बुद्धक्षेत्रेषु तथागता अर्हन्तः सम्यक्संबुद्धास्तांस्तथागतान्
०६५०८ धर्मचक्रप्रवर्तनायाध्येषयन्ति॥ [इति देवकुलं कुलः॥]
०६५०९ सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वा ये चतुर्णां ध्यानानां लाभिनो यावदष्टादशाना-
०६५१० मावेणिकानां बुद्धधर्माणां लाभिनस्तेषां चानुरोधाय चरन्ति। चतुर्णा-
०६५११ मार्यसत्यानां लाभिनो न च तानि प्रतिविध्यन्ति। ते पुनर्बोधि-
०६५१२ सत्त्वा महासत्त्वा एकजातिप्रतिबद्धा वेदितव्याः॥ [इत्यकवीचिकः॥]
०६५१३ सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वा ये प्रथमचित्तोत्पादमुपादाय चतुर्णां ध्यानानां
०६५१४ लाभिनो भवन्ति। चतुर्णामप्रमाणानां लाभिनो भवन्ति। चतसृणा-
०६५१५ मारूप्यसमापत्तीनां लाभिनो भवन्ति। स्मृत्युपस्थानसम्यक्प्रहाण-
०६५१६ र्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् भावयन्ति। बलवैशारद्यप्रतिसंविदा-

०६६०१ वेणिकबुद्धधर्मान् प्रतिलभन्त् उपायकौशल्येन ब्रह्मकायिकेषु देवेषु
०६६०२ यावदकनिष्ठेषु देवेषूपपद्यन्त् तत्र चानुत्तरां सम्यक्संबोधिमभिसंबुध्य
०६६०३ सत्त्वानामर्थं कुर्वन्ति॥ [इत्यन्तरापरिनिर्वायी॥]
०६६०४ सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वा ये प्रथमचित्तोत्पादेनैवानुत्तरां सम्यक्संबोधिमभि-
०६६०५ संबुध्यन्त् धर्मचक्रं प्रवर्तयन्त्यप्रमेयाणामसंख्येयानां सत्त्वानां चार्थं
०६६०६ कृत्वा निरुपधिशेषे निर्वाणधातौ परिनिर्वान्ति तेषां परिनिर्वृतानां
०६६०७ कल्पं वा कल्पावशेषं वा सद्धर्मस्तिष्ठति॥ [इत्युपपद्यपरिनिर्वायी॥]
०६६०८ सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वा ये षट्पारमितासु चरन्तो लोकधातोर्लोक-
०६६०९ धातुं संक्रामन्ति। तत्र च सत्त्वान् बोधये प्रतिष्ठापयिष्यन्ति।
०६६१० ते नित्यमुद्युक्ताः सत्त्वानां कृतशो न कदाचिदनर्थसंहितां वाचं
०६६११ भाषन्त् सत्त्वानां कृतशो नित्यमुद्युक्ता बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रा-
०६६१२ मन्ति। तेऽपि {बोधिसत्त्वा} महासत्त्वाः सत्त्वानां कृतशोऽसंख्येयैरप्रमेयैः
०६६१३ कल्पैर्जानाबुद्धक्षेत्रेष्वनुत्तरां सम्यक्संबोधिमभिसंबुध्यन्त् । [इत्य-
०६६१४ भिसंस्कारपरिनिर्वायी॥]
०६६१५ सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वा ये प्रथमचित्तोत्पादेनैव बोधिसत्त्वन्यासमव-
०६६१६ क्रामन्ति। अविनिवर्तनीयभूमौ वा अवतिष्ठन्त् सर्वबुद्धधर्मान्

०६७०१ वा समुदानयन्ति॥ सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वा ये प्रथमचित्तोत्पादेनैव
०६७०२ प्रज्ञापारमितायां योगमापद्यन्त् तेऽनेकैर्बोधिसत्त्वकोटीनियुतशत-
०६७०३ सहस्रैः सार्धं बुद्धक्षेत्रेण बुद्धक्षेत्रं स्वबुद्धक्षेत्रपरिशोधनाय संक्रामन्ति।
०६७०४ नानाबुद्धक्षेत्रेषु चानुत्तरां सम्यक्संबोधिमभिसंबुध्यन्त् । [इत्यनभि-
०६७०५ संस्कारपरिनिर्वायी॥]
०६७०६ सन्ति {शारिपुत्र बोधिसत्त्वा} महसत्त्वा ये षट्सु परिमितासु चरन्तश्चक्रवर्तिनो भूत्वा
०६७०७ दानपारमितां पुरस्कृत्य सर्वसत्त्वानां सर्वसुखोपधानान्युपसंहरिष्यन्ति
०६७०८ अन्नमन्नार्थिकेभ्यः पानं पानार्थिकेभ्यः। एवं गन्धमाल्यविलेपनचूर्णधूप-
०६७०९ शयनासनोपाश्रयगृहधनधान्यमणिमुक्तासुवर्णरूप्यप्रवाडाभरणानि
०६७१० जीवितोपकरणानि उपसंहरिष्यन्ति। यावद्दशकुशलकर्मपथेषु सत्त्वान्
०६७११ प्रतिष्ठाप्य ब्रह्मकायिकेषु यावदकनिष्ठेषु देवेषूपपद्यमाना नानाबुद्ध-
०६७१२ क्षेत्रेष्वनुत्तरां सम्यक्संबोधिमभिसंबुध्यन्त् । [इत्यकनिष्ठपरमः॥]
०६७१३ सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वा ये चत्वारि ध्यानानि निष्पाद्य ध्यानेभ्यः परि-
०६७१४ हीणाः प्रथमं ध्यानमासाद्य ब्रह्मकायिकेषु देवेषूपपद्यन्त् ते पुन-
०६७१५ र्ध्यानानि निष्पाद्याकनिष्ठेषूपपद्य नानाबुद्धक्षेत्रेष्वनुत्तरां
०६७१६ सम्यक्संबोधिमभिसंबुध्यन्त् । [इति प्लुतः॥]

०६८०१ सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वा ये ब्रह्मलोकाच्च्युत्वा शुद्धावासेषूपपद्यन्त् ते
०६८०२ शुद्धावासानामेकं वा द्वे वा स्थाने विलंध्याकनिष्ठेषु देवेषूपपद्य
०६८०३ नानाबुद्धक्षेत्रेष्वनुत्तरां सम्यक्संबोधिमभिसंबुध्यन्त् । [इत्यर्धप्लुतः॥]
०६८०४ सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वा ये तथागतसदृशमात्मभावमभिनिर्माय तुषितभवनं
०६८०५ परिशोध्य ब्रह्मकायिकेषु देवेषु यावदकनिष्ठेषु देवेषूपपद्योपायकौशल्येन
०६८०६ नैरयिकाणां सत्त्वानां धर्मं देशयन्ति तिर्यग्योनिगतानां सत्त्वानां धर्मं
०६८०७ देशयन्ति यमलौकिकानां सत्त्वानां धर्मं देशयन्ति। सन्ति {शारिपुत्र बोधिसत्त्वा} महा-
०६८०८ सत्त्वा ये षट्सु परिमितासु स्थित्वा यादृशस्तथागतकायस्तादृशमात्म-
०६८०९ भावमभिनिर्माय गङ्गानदीवालुकोपमानि बुद्धक्षेत्राण्युपसंक्रम्य सत्त्वानां
०६८१० धर्मं देशयन्ति तथागतांश्च पर्युपासते बुद्धक्षेत्रं च निष्पा-
०६८११ दयन्ति धर्मं च शृण्वन्ति। एवं पूर्वस्यां दिशि दक्षिणस्यां पश्चिमाया-
०६८१२ मुत्तरस्यामुत्तरपूर्वस्यां पूर्वदक्षिणस्यां दक्षिणपश्चिमायां पश्चिमोत्तर्स्या-
०६८१३ मूर्ध्वमधः सर्वासु दशसु दिक्षु एकैकस्यां दिशि गङ्गानदीवालुकोपमेषु
०६८१४ लोकधातुषु गत्वा सत्त्वानां धर्मं देशयन्ति बुद्धक्षेत्राणि च निष्पादयन्ति
०६८१५ बुद्धांश्च पर्युपासते धर्मं च शृण्वन्ति। ते तेभ्यो बुद्धक्षेत्रेभ्यो
०६८१६ निर्मितानि निर्माय श्रेष्ठानि विशिष्ठानि अनुत्तराणि बुद्धक्षेत्राणि

०६९०१ निष्पादयन्ति। एकजातिप्रतिबद्धाश्च {बोधिसत्त्वा} महासत्त्वास्तत्र बुद्ध-
०६९०२ क्षेत्रेषूपपद्य नानाबुद्धक्षेत्रेष्वनुत्तरां सम्यक्संबोधिमभिसंबुध्यन्त् । [इति
०६९०३ सर्वस्थानच्युतः॥]
०६९०४ सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वा ये ध्यानारूप्यसमापत्तीरासादयन्तो ब्रह्मकायि-
०६९०५ केषु यावच्छुभकृत्स्नेषु देवेषूपपद्यन्त् तत्र आकाशानन्त्यायतने याव-
०६९०६ द्भवाग्रे उपपद्यन्त् ततो नानाबुद्धक्षेत्रेषूपपद्यन्त् । [इति भवाग्रपरमः॥]
०६९०७ सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वा ये ध्यानारूप्यसमापत्तीनां लाभिनस्त आकाशा-
०६९०८ नन्त्यायतने यावद्भवाग्रे उपपद्यन्त् ततो नानाबुद्धक्षेत्रेषूपपद्यन्त् ।
०६९०९ [इति रूपवीतरागः॥]
०६९१० सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वा ये षट्पारमितासु चरन्तो द्वात्रिंशन्महा-
०६९११ पुरुषलक्षणालङ्कृतमूर्तयो निरुत्तरैः परिशुद्धैरिन्द्रियैः समन्वागता
०६९१२ भवन्ति। ते तैः परिशुद्धैरिन्द्रियैः समन्वागता बहुजनस्य प्रियाश्च
०६९१३ भवन्ति मनआपाश्च् ये पुनः सत्त्वास्तान् {बोधिसत्त्वान्} महासत्त्वान् पश्यन्ति
०६९१४ ते तेनैव चित्तप्रसादेनानुपूर्वेण त्रिभिर्यानैः परिनिर्वान्ति। एवं हि
०६९१५ शारिपुत्र {बोधिसत्त्वेन} महासत्त्वेन कायपरिशुद्धये शिक्षितव्यं वाक्परिशुद्धये
०६९१६ शिक्षितव्यं मनःपरिशुद्धये शिक्षितव्यम्। सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वा ये षट्सु
०६९१७ पारमितासु चरन्त उत्तप्तानीन्द्रियाणि प्रतिलभन्त् ते तैरुत्तप्तैरिन्द्रियै-

०७००१ र्नात्मानमुत्कर्षयन्ति न परान् पेषयन्ति। सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वा ये प्रथम-
०७००२ चित्तोत्पादमुपादाय दानपारमितायां शीलपारमितायां स्थित्वा नैवं कदा-
०७००३ चिदपायदुर्गतिविनिपातेषूपपद्यन्ते यावदविनिवर्तनीयभूमिमनुप्राप्नु-
०७००४ वन्ति। सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वा ये प्रथमचित्तोत्पादमुपादाय न जातु दश-
०७००५ कुशलान् कर्मपथानुत्सृजन्ति यावदविनिवर्तनीयां भूमिमनुप्राप्नुवन्ति।
०७००६ सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वा ये दानपारमितायां स्थित्वा राजानश्चक्रवर्तिनो
०७००७ भूत्वा दानं सत्त्वेभ्यो दत्त्वा तानेव दशकुशलकर्मपथेषु पतिष्ठापयन्ति।
०७००८ सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वा ये दानपारमितायां शीलपारमितायां स्थित्वा अने-
०७००९ कानि चक्रवर्तिराज्यशतानि परिगृह्णन्ति अनेकानि चक्रवर्तिराज्य-
०७०१० शतसहस्राणि परिगृह्णन्ति। तत्र स्थित्वा अनेकानि च बुद्धकोटी-
०७०११ नियुतशतसहस्राणि आरागयन्ति। तांश्च बुद्धान् भगवतः सत्कुर्वन्ति
०७०१२ गुरूकुर्वन्ति मानयन्ति पूजयन्ति। ततोऽनुत्तरां सम्यक्संबोधिमभि-
०७०१३ संबुध्यन्त् । [इति दृष्टधर्मपरिनिर्वायी॥]
०७०१४ सन्ति {शारिपुत्र बोधिसत्वा} महासत्त्वा ये प्रज्ञापारमितायां चरन्तश्चतुर्णां ध्यानानां
०७०१५ लाभिनश्चतसृणामारूप्यसमापत्तीनां लाभिनस्ते ताभिर्विक्रीडन्तः प्रथमं
०७०१६ ध्यानं समापद्यन्त् ततो व्युत्थाय निरोधसमापत्तिं समापाद्यन्त्
०७०१७ ततो व्युत्थाय द्वितीयं ध्यानं समापद्यन्त् {ततो व्युत्थाय} निरोधसमाधिं
०७०१८ {समापद्यन्ते}। {ततो व्युत्थाय} तृतीयं ध्यानं {समापद्यन्ते}। {ततो व्युत्थाय} निरोधसमापत्तिं {समापद्यन्ते}। {ततो व्युत्थाय}

०७१०१ चतुर्थं ध्यानं {समापद्यन्ते}। {ततो व्युत्थाय} निरोधसमापत्तिं {समापद्यन्ते}। {ततो व्युत्थाय} आकाशानन्त्या-
०७१०२ यतनं {समापद्यन्ते}। {ततो व्युत्थाय} निरोधसमापत्तिं {समापद्यन्ते}।{ततो व्युत्थाय} विज्ञानानन्त्यायतनं {समापद्यन्ते}।
०७१०३ {ततो व्युत्थाय} निरोधसमापत्तिं {समापद्यन्ते}। {ततो व्युत्थाय} आकिञ्चन्यायतनं {समापद्यन्ते}। {ततो व्युत्थाय} निरोध-
०७१०४ समापत्तिं {समापद्यन्ते}। {ततो व्युत्थाय} नैवसंज्ञानासंज्ञायतनं {समापद्यन्ते}। {ततो व्युत्थाय} निरोधसमा-
०७१०५ पत्तिं {समापद्यन्ते}। एवं हि शारिपुत्र {बोधिसत्त्वा} महासत्त्वाः प्रज्ञापारमितायां
०७१०६ चरन्त उपायकौशल्येनावस्कन्दकेन समाधिं समापद्य नानाबुद्ध-
०७१०७ क्षेत्रेष्वनुत्तरां सम्यक्संबोधिमभिसंबुध्यन्त् । [इति कायसाक्षी॥]
०७१०८ सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वा ये षट्सु पारमितासु स्थित्वा सत्त्वानां बुद्धधर्मा-
०७१०९ वभासं कुर्वन्ति। आत्मनापि बुद्धधर्मावभासेना विरहिता भवन्ति।
०७११० यावदनुत्तरां सम्यक्संबोधिमभिसंबुध्यन्त् । [इति अर्हत्त्वप्रतिपन्नकः॥]
०७१११ सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वा येऽबुद्धकेषु लोकधातुषु अपगतश्रावकेषु प्रत्येक-
०७११२ बोधिमभिसंबुध्यन्त् त उपायकौशल्येन बह्वनि प्राणिकोटीनियुत-
०७११३ शतसहस्राणि त्रिषु यानेषु परिपाच्यानुत्तरां सम्यक्संबोधिमभिसंबुध्यन्त् ।
०७११४ [इति प्रत्येकबुद्धः॥]
०७११५ सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वा ये स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबल-
०७११६ बोध्यङ्गमार्गाणां लाभिनो दशबलवैशारद्यप्रतिसंविदष्टादशावेणिकबुद्ध-
०७११७ धर्माणां लाभिनः। न च स्रोतआअत्तिफलं प्राप्नुवन्ति न सकृदा-

०७२०१ गामिफलं नानागामिफलं नार्हत्त्वं प्राप्नुवन्ति न प्रत्येकबुद्धत्वं प्राप्नु-
०७२०२ वन्ति। ते प्रज्ञापारमितायां चरन्त उपायकौशल्येन सर्वसत्त्वान्
०७२०३ मार्गेऽवतार्य विशोध्य स्रोतआपत्तिफलं प्रापयन्ति। सकृदागामि-
०७२०४ फलं प्रापयन्ति अनागामिफलं प्रापयन्ति अर्हत्त्वं प्रापयन्ति प्रत्येकां
०७२०५ बोधिं प्रापयन्ति। स्वयमसाक्षात्कुर्वन्तः परांस्तत्र प्रतिष्ठापयन्ति॥
०७२०६ [इति श्रावकप्रत्येकबुद्धमार्गलभ्यानि फलानि॥]
०७२०७ यच्छारिपुत्र सर्वश्रावकप्रत्येकबुद्धानां ज्ञानं च प्रकाशं च सानुत्-
०७२०८ पत्तिकधर्मक्षान्तिप्रतिलब्धस्य {बोधिसत्त्वस्य} महासत्त्वस्य क्षान्तिः। इति
०७२०९ स्वयमप्राप्ते धर्मे परप्रतिष्ठापनम्। अमी शारिपुत्र {बोधिसत्त्वा} महा-
०७२१० सत्त्वा अविनिवर्तनीया वेदितव्याः ये अनया प्रज्ञापारमितया विह-
०७२११ रन्ति॥ सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वा ये षट्सु पारमितासु स्थित्वा तुषित-
०७२१२ भवनं विशोधयन्ति। ते खलु पुनर्बोधिसत्त्वा महासत्त्वा भाद्रकल्पिका
०७२१३ वेदितव्याः। अमी शारिपुत्र वैवर्तिका {बोधिसत्त्वा} महासत्त्वा येषामयमुदयो
०७२१४ बुद्धधर्मेषु तस्मात्तर्हि शारिपुत्र {बोधिसत्त्वेन} महासत्त्वेन प्रज्ञापारमितायां चरता
०७२१५ सावद्यस्य कायवाङ्मनस्कर्मनोऽवकाशो न दातव्यः कायवाङ्मन-
०७२१६ स्कर्मपरिशुद्धये च शिक्षितव्यम्। [इतीदमवैवर्तिकबोधिसत्त्वसंघपरि-
०७२१७ दीपनम्।] [इति संघरत्नाववादः॥]

०७३०१ एवमुक्ते आयुष्मान् शारिपुत्रो भगवन्तमेतदवोचत् । कतमद्भगवन्
०७३०२ सावद्यं कायकर्म सावद्यं वाक्कर्म सावद्यं मनस्कर्म् एवमुक्ते भगवा-
०७३०३ नायुष्मन्तं शारिपुत्रमेतदवोचत् । इह शारिपुत्र {बोधिसत्त्वस्य} महासत्त्वस्यैवं
०७३०४ भवति। कतमः स कायः येन कायेन कायकर्म समारभेय् कतमा
०७३०५ सा वाग्यया वाक्कर्म समारभेय् कतमत्तन्मनः येन मनस्कर्म
०७३०६ समारभेय् एवमुपपरीक्षमाणः कायमुपलभते वाचमुपलभते मन
०७३०७ उपलभत् अयं शारिप्तुर {बोधिसत्त्वस्य} महासत्त्वस्य कायवाङ्मनस्कर्मसमारम्भः
०७३०८ सावद्यः। न खलु पुनः शारिपुत्र {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां
०७३०९ चरन् कायमुपलभते न वाचमुपलभते न मन उपलभत् येन कायेन
०७३१० वाचा मनसा मात्सर्यदौःशील्यव्यापादकौसीद्य विक्षेपदौष्प्रज्ञचित्त-
०७३११ मुत्पादयेत् । अस्थानमेतच्छारिपुत्रानवकाशो यद्{बोधिसत्त्वो} महासत्त्वः
०७३१२ प्रज्ञापारमितायां चरन् कायवाङ्मनोदौष्ठुल्यमुत्पादयेत् । नैतत्
०७३१३ स्थानं विद्यत् तत्कस्य हेतोः। तथा हि शारिपुत्र {बोधिसत्त्वो} महासत्त्वः षट्सु
०७३१४ पारमितासु चरन् कायदौष्ठुल्यं शोधयति वाग्दौष्ठुल्यं शोधयति मनो-
०७३१५ दौष्ठुल्यं शोधयति। शारिपुत्र आह् कथं भगवन् {बोधिसत्त्वो} महासत्त्वः
०७३१६ कायवाङ्मनोदौष्ठुल्यं शोधयति। भगवानाह् यतः शारिपुत्र {बोधिसत्त्वो}
०७३१७ महासत्त्वो न कायमुपलभते न वाचमुपलभते न मन उपलभत्

०७४०१ एवं हि शारिपुत्र {बोधिसत्त्वो} महासत्त्वः कायवाङ्मनोदौष्ठुल्यं शोधयति। सचेत्
०७४०२ पुनः शारिपुत्र {बोधिसत्त्वस्य} महासत्त्वस्य प्रथमचित्तोत्पादमुपादाय दश कुशला
०७४०३ कर्मपथा अनुवर्तन्त् न च श्रावकचित्तं प्रत्येकबुद्धचित्तं चोत्पादयति।
०७४०४ सततसमितं चास्य सर्वसत्त्वेषु महाकरुणाचित्तं प्रत्युपस्थितं भवति।
०७४०५ एवं हि शारिपुत्र {बोधिसत्त्वस्य} महासत्त्वस्य कायवाङ्मनोदौष्ठुल्यं शुद्धमिति
०७४०६ वदामि।
०७४०७ सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वा ये प्रज्ञापारमितायां चरन्तो बोधिमार्गं परि-
०७४०८ शोधयन्तो दानपारमितायां चरन्ति। शील{पारमितायां चरन्ति}। क्षान्ति{पारमितायां चरन्ति}।
०७४०९ वीर्य{पारमितायां चरन्ति}। ध्यान{पारमितायां चरन्ति}। प्रज्ञा{पारमितायां चरन्ति}। शारिपुत्र आह् कतमो भग-
०७४१० वन् {बोधिसत्त्वानां} महासत्त्वानां बोधिमार्गः। भगवानाह् यदा शारिपुत्र
०७४११ {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन्न कायमुपलभत् न वाच-
०७४१२ मुपलभत् न मन उपलभत् न दानपारमिताम् {उपलभते}। न शील-
०७४१३ पारमित्ताम् {उपलभते}। न क्षान्तिपारमिताम् {उपलभते}। न वीर्यपारमिताम् {उपलभते}। न
०७४१४ ध्यानपारमिताम् {उपलभते}। न प्रज्ञापारमिताम् {उपलभते}। न श्रावकम् {उपलभते}। न प्रत्येक-
०७४१५ बुद्धम् {उपलभते}। न बोधिसत्त्वम् {उपलभते}। न बुद्धम् {उपलभते}। अयं शारिपुत्र {बोधिसत्त्वस्य}
०७४१६ महासत्त्वस्य बोधिमार्गो यदुत सर्वधर्मानुपलम्भोऽनेन मार्गेण गच्छन्
०७४१७ {बोधिसत्त्वो} महासत्त्वः षट्सु पारमितासु चरन्न शक्योऽवमर्दितुम्॥
०७४१८ [इत्यशक्त्यववादः॥]
०७४१९ पुनरपरं शारिपुत्र {बोधिसत्त्वो} महासत्त्वः षट्सु पारमितासु चरन्

०७५०१ न रूपं मन्यत् न वेदनां {मन्यते}। न संज्ञां {मन्यते}। न संस्कारान् {मन्यते}। न विज्ञानं {मन्यते}।
०७५०२ न पृथिवीधातुं {मन्यते}। नाब्धातुं {मन्यते}। न तेजोधातुं {मन्यते}॥ न वायुधातुं {मन्यते}।
०७५०३ नाकाशधातुं {मन्यते}। न विज्ञानधातुं {मन्यते}। न चक्षुर्धातुं {मन्यते}। न रूपधातुं {मन्यते}।
०७५०४ न चक्षुर्विज्ञानधातुं {मन्यते}। न श्रोत्रधातुं {मन्यते}। न शब्दधातुं {मन्यते}। न श्रोत्र-
०७५०५ विज्ञानधातुं {मन्यते}। न घ्राणधातुं मन्यत् न गन्धधातुं मन्यत् न घ्राणविज्ञानधातुं मन्यत् न जिह्वाधातुं मन्यत् न रसधातुं मन्यत् न जिह्वाविज्ञानधातुं मन्यत् न कायधातुं मन्यत् न स्प्रष्टव्यधातुं मन्यत् न कायविज्ञानधातुं मन्यत् न मनोधातुं मन्यत् न धर्मधातुं मन्यत् न मनोविञानधातुं मन्यत्
०७५०६ न स्मृत्युपस्थानानि {मन्यते}। न
०७५०७ सम्यक्प्रहाणानि {मन्यते}। न ऋद्धिपादान् {मन्यते}। नेन्द्रियाणि। न बलानि {मन्यते}। न
०७५०८ बोध्यङ्गानि {मन्यते}। न मार्गं {मन्यते}। न दानपारमितां {मन्यते}।न शीलपारमितां मन्यत् न क्षान्तिपारमितां मन्यत् न वीर्यपारमितां मन्यत् न ध्यानपारमितां मन्यत् न प्रज्ञापार-
०७५०९ मितां {मन्यते}। न वैशारद्यानि {मन्यते}। न पतिसंविदः {मन्यते}। न दशतथागतबलानि {मन्यते}।
०७५१० नाष्टादशावेणिकान् बुद्धधर्मान् {मन्यते}। न स्रोतआपत्तिफलं। न सकृदा-
०७५११ गामिफलं। नानागामिफलं {मन्यते}। नार्हत्त्वं {मन्यते}। न प्रत्येकबोधिं {मन्यते}। न {बोधिसत्त्वं}
०७५१२ महासत्त्वं {मन्यते}। नानुत्तरां सम्यक्संबोधिं मन्यत् एवं हि शारिपुत्र
०७५१३ {बोधिसत्त्वो} महासत्त्वः षट्भिः पारमिताभिर्वर्धत् न च केनचिदव-
०७५१४ मृद्यत् सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वा ये प्रज्ञापारमितायां स्थित्वा सर्वज्ञानं
०७५१५ परिपूरयन्ति। येन ज्ञानेन समन्वागतानां सर्वाण्यपायद्वाराणि पिथि-

०७६०१ तानि भवन्ति। नापि मनुष्यदारिद्र्यविपत्तिमनुभवन्ति। नापि
०७६०२ तादृशमात्मभावं परिगृह्णन्ति। येन निन्दनीया भवन्ति सदेवकस्य
०७६०३ लोकस्य् । [इत्यपरिश्रान्त्यववादः॥]
०७६०४ शारिपुत्र आह् कतमद्भगवन् {बोधिसत्त्वस्य} महासत्त्वस्य सर्वज्ञज्ञानम्।
०७६०५ भगवानाह् येन ज्ञानेन समन्वागतो {बोधिसत्त्वो} महासत्त्वः पूर्वस्यां दिशि
०७६०६ गङ्गानदीवालुकोपमांस्तथागतानर्हतः सम्यक्संबुद्धान् पश्यति तेषां
०७६०७ धर्मदेशनां शृणोति संघं च पर्युपास्त् बुद्धक्षेत्रविशुद्धिं च पश्यति।
०७६०८ एवं दक्षिणस्यां पश्चिमायामुत्तरस्यां विदिक्ष्वध ऊर्ध्वं दिशि गङ्गानदीवालुकोपमांस्तथागतानर्हतः सम्यक्संबुद्धान् पश्यति तेषां धर्मदेशनां शृणोति संघं च पर्युपास्त् बुद्धक्षेत्रविशुद्धिं च पश्यति।
०७६०९ येन ज्ञानेन समन्वागतानां {बोधिसत्त्वानां} महासत्त्वानां न बुद्ध-
०७६१० संज्ञा भवति। न बोधि{संज्ञा भवति} । न श्रावक{संज्ञा भवति} । न प्रत्येकबुद्ध{संज्ञा भवति} । नात्म{संज्ञा भवति}
०७६११ न पर{संज्ञा भवति} । न बुद्धक्षेत्र{संज्ञा भवति} । येन ज्ञानेन समन्वागतो {बोधिसत्त्वो} महासत्त्वो
०७६१२ दानपारमितायां चरति। शीलपारमितायां चरति। क्षान्तिपारमितायां चरति। वीर्यपारमितायां चरति। ध्यानपारमितायां चरति। प्रज्ञापारमितायां चरति।
०७६१३ न च पारमितामुपलभत् येन ज्ञानेन समन्वागतो {बोधिसत्त्वो} महासत्त्वः
०७६१४ स्मृत्युपस्ह्तानानि भावयति न च स्मृत्युपस्थानान्युपलभत् सम्यक्-
०७६१५ प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् भावयति न च सम्यक्प्रहाणर्द्धि-
०७६१६ पादेन्द्रियबलबोध्यंगमार्गानुपलभत् बलवैशारद्यावेणिकान् बुद्धधर्मान्
०७६१७ समुदानयति न च बलवैशारद्यावेणिकान् बुद्धधर्मानुपलभत् इदं
०७६१८ शारिपुत्र {बोधिसत्त्वस्य} महासत्त्वस्य ज्ञानं येन ज्ञानेन समन्वागतो {बोधिसत्त्वो} महा-
०७६१९ सत्त्वः सर्वबुद्धधर्मांश्च परिपूरयति। न च सर्वबुद्धधर्मांश्च मन्यत् ।
०७६२० [इति प्रतिपत्संपरिग्रहाववादः॥]

०७७०१ सन्ति शारिपुत्र {बोधिसत्त्वा} महासत्त्वा ये पञ्चचक्षूंषि प्रतिलभन्ते परि-
०७७०२ शोधयन्ति। कतमानि पञ्च यदुत मांसचक्षुः दिव्यचक्षुः प्रज्ञाचक्षुः
०७७०३ धर्मचक्षुः बुद्धचक्षुः।
०७७०४ शारिपुत्र आह् कतमद्भगवन् {बोधिसत्त्वस्य} महासत्त्वस्य परिशुद्धं मांस-
०७७०५ चक्षुः। भगवानाह् अस्ति शारिपुत्र {बोधिसत्त्वस्य} महासत्त्वस्य मांसचक्षुः
०७७०६ यत्योजनशतं पश्यति। अस्ति शारिपुत्र {बोधिसत्त्वस्य} महासत्त्वस्य मांस-
०७७०७ चक्षुर्यत्योजनशतद्वयं पश्यति। अस्ति {शारिप्तुत्र बोधिसत्त्वस्य महासत्त्वस्य मांसचक्षुर्यत्} जम्बुद्वीपं पश्यति। अस्ति {शारिप्तुत्र बोधिसत्त्वस्य महासत्त्वस्य मांसचक्षुर्यत्}
०७७०८ चातुर्द्वीपकं लोकधातुं पश्यति। अस्ति {शारिप्तुत्र बोधिसत्त्वस्य महासत्त्वस्य मांसचक्षुर्यत्} सहस्रं लोकधातुं पश्यति।
०७७०९ अस्ति {शारिप्तुत्र बोधिसत्त्वस्य महासत्त्वस्य मांसचक्षुर्यत्} द्विसहस्रं लोकधातुं पश्यति। अस्ति {शारिप्तुत्र बोधिसत्त्वस्य महासत्त्वस्य मांसचक्षुर्यत्} त्रिसहस्रमहा-
०७७१० साहस्रं लोकधातुं पश्यति। इदं शारिपुत्र {बोधिसत्त्वस्य} महासत्त्वस्य परिशुद्धं
०७७११ मांसचक्षुः।
०७७१२ शारिपुत्र आह् कतमद्भगवन् {बोधिसत्त्वस्य} महासत्त्वस्य परिशुद्धं दिव्य-
०७७१३ चक्षुः। भगवानाह् यच्छारिपुत्र चातुर्महाराजकायिकानां देवानां
०७७१४ दिव्यचक्षुस्तद्बोधिसत्त्वः प्रजानीत् यत्त्रयस्त्रिंशानां देवानां
०७७१५ दिव्यचक्षुः तद्बोधिसत्त्वः प्रजानीते यद्यामानां देवानां दिव्यचक्षुः तद्
०७७१६ बोधिसत्त्वः प्रजानीत् यद्तुषितानां देवानां दिव्यचक्षुः तद्बोधिसत्त्वः प्रजानीत् यद्निर्माणरतीनां देवानां दिव्यचक्षुः तद्बोधिसत्त्वः प्रजानीत् यद्परनिर्मितवशवर्तिनां देवानां दिव्यचक्षुः तद्बोधिसत्त्वः प्रजानीत् यद्ब्रह्मकायिकाणां देवानां दिव्यचक्षुः तद्बोधिसत्त्वः प्रजानीत् यद्ब्रह्मपुरोहितानां देवानां दिव्यचक्षुः तद्बोधिसत्त्वः प्रजानीत् यद्ब्रह्मपारिषद्यानां देवानां दिव्यचक्षुः तद्बोधिसत्त्वः प्रजानीत् यद्परीत्ताभानां देवानां दिव्यचक्षुः तद्बोधिसत्त्वः प्रजानीत् यदप्रमाणाभानां देवानां दिव्यचक्षुः तद्बोधिसत्त्वः प्रजानीत् यदाभास्वराणां देवानां दिव्यचक्षुः तद्बोधिसत्त्वः प्रजानीत् यद्शुभकृत्स्नानां देवानां दिव्यचक्षुः तद्बोधिसत्त्वः प्रजानीत् यदनभ्रकाणां देवानां दिव्यचक्षुः तद्बोधिसत्त्वः प्रजानीत् यद्पुण्यप्रसवानां देवानां दिव्यचक्षुः तद्बोधिसत्त्वः प्रजानीत् यद्बृहत्फलानां देवानां दिव्यचक्षुः तद्बोधिसत्त्वः प्रजानीत् यदसंज्ञिसत्त्वानां देवानां दिव्यचक्षुः तद्बोधिसत्त्वः प्रजानीत् यद्शुद्धावासानां देवानां दिव्यचक्षुः तद्बोधिसत्त्वः प्रजानीत् यदस्पृहाणां देवानां दिव्यचक्षुः तद्बोधिसत्त्वः प्रजानीत् यदतपानां देवानां दिव्यचक्षुः तद्
बोधिसत्त्वः प्रजानीत् यद्सदृशानां देवानां दिव्यचक्षुः तद्बोधिसत्त्वः प्रजानीत् यद्सुदर्शनानां देवानां दिव्यचक्षुः तद्बोधिसत्त्वः प्रजानीत् यदकनिष्ठानां देवानां दिव्यचक्षुः तद्बोधिसत्त्वः प्रजानीत्

०७८०१ यत्पुनः शारिपुत्र {बोधिसत्त्वस्य} महासत्त्वस्य दिव्यचक्षुः तच्चातुर्महाराज-
०७८०२ कायिका देवा न प्रजानन्ति। न त्रयस्त्रिंशा देवाः प्रजानन्ति। न यामा
०७८०३ देवाः प्रजानन्ति। न तुषिता देवाः प्रजानन्ति। न निर्माणरतयो देवाः प्रजानन्ति। न परनिर्मितवशवर्तिनो देवाः प्रजानन्ति। न ब्रह्मकायिका देवाः प्रजानन्ति। न ब्रह्मपुरोहिता देवाः प्रजानन्ति। न ब्रह्मपारिषद्या देवाः प्रजानन्ति। न परीत्ताभा देवाः प्रजानन्ति। न अप्रमाणाभा देवाः प्रजानन्ति। न आभास्वरा देवाः प्रजानन्ति। न परीत्तशुभा देवाः प्रजानन्ति। न अप्रमाणशुभा देवाः प्रजानन्ति। न शुभकृत्स्ना देवाः प्रजानन्ति। न अनभ्रका देवाः प्रजानन्ति। न पुण्यप्रसवा देवाः प्रजानन्ति। न बृहत्फला देवाः प्रजानन्ति। न असंज्ञिसत्त्वा देवाः प्रजानन्ति। न शुद्धावासा देवाः प्रजानन्ति। न अस्पृहा देवाः प्रजानन्ति। न अतपा देवाः प्रजानन्ति। न सदृशा देवाः प्रजानन्ति। न सुदर्शना देवाः प्रजानन्ति। न अकनिष्ठा देवाः प्रजानन्ति।
०७८०४ तेनैव परिशुद्धेन दिव्येन चक्षुषा पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु
०७८०५ लोकधातुषु सर्वसत्त्वानां च्युतोपपादं यथाभूतं प्रजानाति। तेनैव परि-
०७८०६ शुद्धेन दिव्येन चक्षुषा दक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सर्वसत्त्वानां च्युतोपपादं यथाभूतं प्रजानाति। तेनैव परिशुद्धेन दिव्येन चक्षुषा पश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सर्वसत्त्वानां च्युतोपपादं यथाभूतं प्रजानाति। तेनैव परिशुद्धेन दिव्येन चक्षुषा उत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सर्वसत्त्वानां च्युतोपपादं यथाभूतं प्रजानाति। तेनैव परिशुद्धेन दिव्येन चक्षुषा उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सर्वसत्त्वानां च्युतोपपादं यथाभूतं प्रजानाति। तेनैव परिशुद्धेन दिव्येन चक्षुषा पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सर्वसत्त्वानां च्युतोपपादं यथाभूतं प्रजानाति। तेनैव परिशुद्धेन दिव्येन चक्षुषा दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सर्वसत्त्वानां च्युतोपपादं यथाभूतं प्रजानाति। तेनैव परिशुद्धेन दिव्येन चक्षुषा पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सर्वसत्त्वानां च्युतोपपादं यथाभूतं प्रजानाति। तेनैव परिशुद्धेन दिव्येन चक्षुषा अधस्ताद्दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सर्वसत्त्वानां च्युतोपपादं यथाभूतं प्रजानाति। तेनैव परिशुद्धेन दिव्येन चक्षुषा
०७८०७ ऊर्ध्वं दिशि गङ्गादनीवालुकोपमेषु लोकधातुषु सर्वसत्त्वानां च्युतोप-
०७८०८ पादं यथाभूतं प्रजानाति। इदं शारिपुत्र {बोधिसत्त्वस्य} महासत्त्वस्य परिशुद्धं
०७८०९ दिव्यचक्षुः॥
०७८१० शारिपुत्र आह् कतमद्भगवन् {बोधिसत्त्वस्य} महासत्त्वस्य परिशुद्धं प्रज्ञा-
०७८११ चक्षुः। भगवानाह् येन शारिपुत्र प्रज्ञाचक्षुषा समन्वागतो {बोधिसत्त्वो}
०७८१२ महासत्त्वो न कञ्चिद्धर्मं प्रजानाति संस्कृतं वा असंस्कृतं वा कुशलं वा
०७८१३ अकुशलं वा सावद्यं वा अनवद्यं वा सास्रवं वा अनास्रवं वा संक्लेशं वा
०७८१४ निष्क्लेशं लौकिकं वा लोकोत्तरं वा संक्लिष्टं वा व्यवदानं वा। येन
०७८१५ प्रज्ञाचक्षुषा {बोधिसत्त्वेन} महासत्त्वेन कश्चिद्धर्मो न दृष्टो न श्रुतो न मतो
०७८१६ न विज्ञातः। इदं शारिपुत्र {बोधिसत्त्वस्य} महासत्त्वस्य परिशुद्धं प्रज्ञाचक्षुः।

०७९०१ शारिपुत्र आह् कतमद्भगवन् {बोधिसत्त्वस्य} महासत्त्वस्य परिशुद्धं धर्मचक्षुः।
०७९०२ भगवानाह् इह शारिपुत्र {बोधिसत्त्वो} महासत्त्वो धर्मचक्षुषैव जानाति।
०७९०३ अयं पुद्गलः श्रद्धानुसारी। अयं पुद्गलो धर्मानुसारी। अयं पुद्गलः
०७९०४ शून्यताविहारी। अयं पुद्गलोऽनिमित्तविहारी। अयं पुद्गलोऽप्रणि-
०७९०५ हितविहारी। अयं पुद्गलः शून्यताविहारी। अस्य पुद्गलस्य शून्यता-
०७९०६ विमोक्षमुखेन पञ्चेन्द्रियाण्युत्पत्स्यन्त् पञ्चभिरिन्द्रियैरानन्तर्यसमाधिं
०७९०७ प्रेक्षत् आनन्तर्येण समाधिना विमुक्तिज्ञानदर्शनमुत्पादयिष्यति।
०७९०८ विमुक्तिज्ञानदर्शनेन त्रीणि संयोजनानि प्रहास्यति। सत्कायदृष्टिं
०७९०९ शीलव्रतपरामर्शविचिकित्सां चेति। अयमुच्यते पुद्गलः स्रोतआपन्नः।
०७९१० स भावनामार्गं प्रतिलभ्य कामरागव्यापादतनुत्वादयमुच्यते पुद्गलः
०७९११ सकृदागामी। स तेनैव भावनामार्गेणाधिमात्रभावितेन काम-
०७९१२ रागव्यापादप्रहाणादयमुच्यते पुद्गलोऽनागामी। स तेनैव भाव-
०७९१३ नामार्गेणाधिमात्रभावितेन रूपरागमारूप्यरागमविद्यां मानमौद्धत्यं च
०७९१४ प्रहायामुच्यते पुद्गलोऽर्हन्। अयं पुद्गलोऽनिमित्तविहारी अस्य
०७९१५ पुद्गलस्यानिमित्तविमोक्षमुखेण पञ्चेन्द्रियाणि उत्पत्स्यन्त् पञ्चभिरिन्द्रियैरानन्तर्यसमाधिं प्रेक्षत् आनन्तर्येण समाधिना विमुक्तिज्ञानदर्शनमुत्पादयिष्यति। विमुक्तिज्ञानदर्शनेन त्रीणि संयोजनानि प्रहास्यति। सत्कायदृष्टिं शीलव्रतपरामर्शविचिकित्सां चेति। अयमुच्यते पुद्गलः स्रोतआपन्नः। स भावनामार्गं प्रतिलभ्य कामरागव्यापादतनुत्वादयमुच्यते पुद्गलः सकृदागामी। स तेनैव भावनामार्गेणाधिमात्रभावितेन कामरागव्यापादप्रहाणादयमुच्यते पुद्गलोऽनागामी। स तेनैव भावनामार्गेणाधिमात्रभावितेन रूपरागमारूप्यरागमविद्यां मानमौद्धत्यं च प्रहायामुच्यते पुद्गलोऽर्हन्।
०७९१६ अयं पुद्गलोऽप्रणिहितविहारी। अस्य पुद्गलस्याप्रणिहित-
०७९१७ विमोक्षमुखेण पञ्चेन्द्रियाण्युत्पस्त्यन्त् पञ्चभिरिन्द्रियैरानन्तर्यसमाधिं प्रेक्षत् आनन्तर्येण समाधिना विमुक्तिज्ञानदर्शनमुत्पादयिष्यति। विमुक्तिज्ञानदर्शनेन त्रीणि संयोजनानि प्रहास्यति। सत्कायदृष्टिं शीलव्रतपरामर्शविचिकित्सां चेति। अयमुच्यते पुद्गलः स्रोतआपन्नः। स भावनामार्गं प्रतिलभ्य कामरागव्यापादतनुत्वादयमुच्यते पुद्गलः सकृदागामी। स तेनैव भावनामार्गेणाधिमात्रभावितेन कामरागव्यापादप्रहाणादयमुच्यते पुद्गलोऽनागामी। स तेनैव भावनामार्गेणाधिमात्रभावितेन रूपरागमारूप्यरागमविद्यां मानमौद्धत्यं च प्रहायामुच्यते पुद्गलोऽर्हन्।
०७९१८ इदं शारिपुत्र {बोधिसत्त्वस्य} महासत्त्वस्य परिशुद्धं धर्मचक्षुः॥

०८००१ पुनरपरं शारिपुत्र {बोधिसत्त्वो} महासत्त्वः एवं जानाति यत्किञ्चित्समु-
०८००२ दयधर्मि सर्वं तन्निरोधधर्मीति प्रजानाति प्रज्ञापारमितायां चरन् पञ्चे-
०८००३ न्द्रियाणि प्राप्नोति। इदं शारिपुत्र {बोधिसत्त्वस्य} महासत्त्वस्य परिशुद्धं धर्मचक्षुः।
०८००४ पुनरपरं शारिपुत्र {बोधिसत्त्वो} महासत्त्वः एवं जानाति अयं बोधिसत्त्वः
०८००५ प्रथमचित्तोत्पादिको यो दानपारमितायां वा चरति शीलपार-
०८००६ मितायां वा चरति स ततः श्रद्धेन्द्रियं प्रतिलभत् वीर्येन्दिर्यं च्
०८००७ स उपायकौशल्येन समन्वागतः संचिन्त्यात्मभावं परिगृह्णाति कुशल-
०८००८ मूलोपलम्भश्च भवति। अयं बोधिसत्त्वो ब्राह्मणमहाशालकुलेषूपपत्-
०८००९ स्यत् अयं क्षत्रियमहाशालकुलेषू{पपत्स्यते}। अयं गृहपतिमहाशालकुलेषू{पपत्स्यते}।
०८०१० अयं चातुर्महाराजकायिकेषु देवेषू{पपत्स्यते}। अयं त्रयस्त्रिंशेषु देवेषु{पपत्स्यते}। अयं
०८०११ यामेषु देवेषु{पपत्स्यते}। अयन् तुषितेषु देवेषू{पपत्स्यते}। अयं निर्माणरतिषु देवेषू{पपत्स्यते}।
०८०१२ अयं परनिर्मितवशवर्तिषू देवेषू{पपत्स्यते}। अयं यावदकनिष्ठेषु देवेषूपपत्स्यत्
०८०१३ स तत्र स्थित्वा सत्त्वान् परिपाचयिष्यति। सर्वमुखोपधानेन च सत्त्वान्
०८०१४ प्रत्युपस्थास्यति बुद्धक्षेत्रं च परिशोधयिष्यति। तथागतांश्चार्हतः सम्यक्-
०८०१५ संबुद्धानारागयिष्यति। सत्करिष्यति गुरूकरिष्यति मानयिष्यति
०८०१६ न च श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा पतिष्यति। अयं {बोधिसत्त्वो} महसत्त्वो
०८०१७ न निवर्तते यावन्नानुत्तरां सम्यक्संबोधिमभिसंबुद्ध इति। इदं शारि-
०८०१८ पुत्र {बोधिसत्त्वस्य} महासत्त्वस्य परिशुद्धं धर्मचक्षुः।

०८१०१ पुनरपरं शारिपुत्र {बोधिसत्त्वो} महासत्त्व एवं जानाति। अमी {बोधिसत्त्वा} महा-
०८१०२ सत्त्वा व्याकृता अनुत्तरायां सम्यक्संबोधौ। अमी बोधिसत्त्वा न
०८१०३ व्याकृताः। अमी बोधिसत्त्वा अविनिवर्तनीयाः। अमी बोधिसत्त्वा न
०८१०४ अविनिवर्तनीयाः। एषां बोधिसत्त्वानामभिज्ञाः परिपूर्णाः। एषां
०८१०५ बोधिसत्त्वानां न परिपूर्णाः। अयं बोधिसत्त्वोऽभिज्ञापरिपूर्णः पूर्वस्यां
०८१०६ दिशि यावदुपरिष्ठाद्दिशि गङ्गानदीवालुकोपमान् लोकधातून् गत्वा
०८१०७ तथागतानर्हतः सम्यक्संबुद्धान् सत्करोति गुरूकरोति मानयति पूजयति।
०८१०८ अयं बोधिसत्त्वो नाभिज्ञापरिपूर्णो यावन्न पूजयति। अयं बोधि-
०८१०९ सत्त्वोऽभिज्ञानां लाभी भविष्यति। अयं बोधिसत्त्वो नाभिज्ञानां लाभी
०८११० भविष्यति। अस्य {बोधिसत्त्वस्य} महासत्त्वस्य परिशुद्धं बुद्धक्षेत्रं भविष्यति। अस्य
०८१११ {बोधिसत्त्वस्य} महासत्त्वस्यापरिशुद्धं बुद्धक्षेत्रं भविष्यति अनेन बोधिसत्त्वेन सत्त्वाः
०८११२ परिशोधिताः। अस्य बोधिसत्त्वस्य महासत्त्वस्यापरिशुद्धं बुद्धक्षेत्रं भविष्यति अनेन बोधिसत्त्वेन सत्त्वाः न परिशोधिताः अस्य {बोधिसत्त्वस्य} महासत्त्वस्य बुद्धा
०८११३ भगवन्तो वर्णं भाषन्त् अस्य बोधिसत्त्वस्य महासत्त्वस्य बुद्धा भगवन्तो वर्णं न भाषन्त् अमी बोधिसत्त्वा बुद्धानां
०८११४ भगवतामासन्नस्थायिनो भविष्यन्ति। अमी बोधिसत्त्वा बुद्धानां भगवताम् नासन्नस्थायिनो भविष्यन्ति।
०८११५ अस्य बोधिसत्त्वस्य परिमितमायुर्भविष्यति। {अस्य बोधिसत्त्वस्य} अपरिमितमायुर्भविष्यति।
०८११६ अस्य बोधिसत्त्वस्य परिमितः संघो भविष्यति। अस्य बोधिसत्त्वस्य अपरिमितः
०८११७ संघो भविष्यति। अस्य बोधिसत्त्वस्यानुत्तरां सम्यक्संबोधिमभि-
०८११८ संबुद्धस्य बोधिसत्त्वसंघो भविष्यति। अस्य बोधिसत्त्वस्यानुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य न बोधिसत्त्वसंघो भविष्यति।

०८२०१ अयं {बोधिसत्त्वो} महासत्त्वो दुष्करचर्यां चरिष्यति। अयं बोधिसत्त्वो महासत्त्वो न दुष्करचर्यां
०८२०२ चरिष्यति। अयं बोधिसत्त्वश्चरमभविकः। अयं बोधिसत्त्वो न चरमभविकः। अयं
०८२०३ बोधिसत्त्वो बोधिमण्डे निषत्स्यत् अयं बोधिसत्त्वो बोधिमण्डे न निषत्स्यत् अस्य बोधिसत्त्वस्य
०८२०४ मारो भविष्यति। अस्य बोधिसत्त्वस्य न मारो भविष्यति। एवं हि शारिपुत्र {बोधिसत्त्वस्य}
०८२०५ महासत्त्वस्य परिशुद्धं धर्मचक्षुः।
०८२०६ शारिपुत्र आह् कतमद्भगवन् {बोधिसत्त्वस्य} महासत्त्वस्य परिशुद्धं बुद्धचक्षुः।
०८२०७ भगवानाह् यच्छारिपुत्र {बोधिसत्त्वो} महासत्त्वो बोधिचित्तानन्तरं वज्रोपमं
०८२०८ समाधिं समापद्य एकचित्तक्षणसमायुक्तया प्रज्ञया सर्वाकारज्ञतामनु-
०८२०९ प्राप्नोति। दशभिस्तथागतबलैः समन्वागतः। चतुर्भिर्वैशारध्यैश्चतसृभिः
०८२१० प्रतिसंविद्भिरष्टादशभिरावेणिकबुद्धधर्मैर्महामैत्र्या महाकरुणया च
०८२११ समन्वागतः। येन च चक्षुषा {बोधिसत्त्वेन} महासत्त्वेन नास्ति किञ्चिददृष्टं
०८२१२ वाऽश्रुतं वाऽमतं वाऽविज्ञातं वा सर्वैराकारैरेवं हि शारिपुत्र
०८२१३ {बोधिसत्त्वस्य} महासत्त्वस्य परिशुद्धं बुद्धशक्षुः।
०८२१४ एवं हि शारिपुत्र {बोधिसत्त्वेन} महासत्त्वेन पञ्चचक्षूंषि शोधयितुकामेन
०८२१५ षट्सु पारमितासु योगः करणीयः। तत्कस्य हेतोः। तथा हि शारिपुत्र
०८२१६ षट्सु पारमितासु सर्वे कुशला धर्मा अन्तर्गताः सर्वश्रावकधर्माश्च सर्व-

०८३०१ प्रत्येकबुद्धधर्माश्च बोधिसत्त्वधर्माश्च यत्खलु शारिपुत्र सम्यग्वदन्तो
०८३०२ वदेयुः सर्वकुशलधर्मसंग्रह इति प्रज्ञापारमितां खलु सम्यग्वदन्तो वदेयुः।
०८३०३ तत्कस्य हेतोः। तथा हि शारिपुत्र प्रज्ञापारमिता जनयित्री सर्वासां
०८३०४ पारमितानामेषां च पञ्चानां बोधिसत्त्वचक्षुषाम्। एषु च शारिपुत्र
०८३०५ पञ्चसु बोधिसत्त्वचक्षुःषु शिक्षित्वा {बोधिसत्त्वा} महासत्त्वा अनुत्तरां सम्यक्-
०८३०६ संबोधिमभिसंबुध्यन्त् [इति पञ्चचक्षुरववादः॥]
०८३०७ अत्र शारिप्तुर {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन्नभिज्ञा-
०८३०८ पारमितां भावयति। सोऽनेकविधमृद्धिविधिं प्रत्यनुभवति। पृथिवी-
०८३०९ मपि कम्पयति। एकोऽपि भूत्वा बहुधा भवति। बहुधापि भूत्वा
०८३१० एको भवति। आविविर्भावं तिरोभावमपि प्रत्यनुभवति। तिरःकुड्यं
०८३११ तिरःप्राकारं तिरःपर्वतमप्यसक्तो गच्छति तद्यथापि नाम
०८३१२ आकाशे पक्षी शकुनिः। पृथिव्यामप्युन्मज्जनिमज्जं करोति तद्-
०८३१३ यथापि नामोदक् उदकेऽभिद्यमानो गच्छति तद्यथापि नाम पृथि-
०८३१४ व्याम्। धूमायत्यपि प्रज्वलत्यपि तद्यथापि नाम महानग्निस्कन्धः।
०८३१५ उदकमपि कायात्प्रमुञ्चति तद्यथापि नाम महामेघः। इमावपि

०८४०१ सूर्यचन्द्रमसौ एवं महर्द्धिकौ महानुभावौ पाणिना परामृशति परि-
०८४०२ मार्ष्टि यावद्ब्रह्मलोकादपि कायं वशेन वर्तयति। तया च ऋद्ध्या न
०८४०३ मन्यत् तथा हि स तामृद्धिं नोपलभते यया मन्यते तदपि न
०८४०४ मन्यते स्वभावशून्यतामुपादाय स्वभावविविक्ततामुपादाय स्वभावा-
०८४०५ नुपलब्धितामुपादाय् स न ऋद्धिवेतनामप्युत्पादयति न ऋद्ध्यभि-
०८४०६ निर्हारचेतनां वा अन्यत्र सर्वज्ञतामनसिकारात् । एवं हि शारिपुत्र
०८४०७ {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरनृद्धिविध्यभिज्ञासाक्षात्क्रिया-
०८४०८ ज्ञानमभिनिर्हरति।
०८४०९ स दिव्येन श्रोत्रधातुना विशुद्धेनातिक्रान्तमानुष्यकेण शब्दान्
०८४१० शृणोति दिव्यान्मानुष्यकांश्च् न च तेन दिव्येन श्रोत्रेण मन्यते अहं
०८४११ शब्दान् शृणोमि। तथा हि स तमपि शब्दं नोपलभते स्वभाव-
०८४१२ शून्यतामुपादाय स्वभावविविक्ततामुपादाय स्वभावानुपलब्धितामुपादाय
०८४१३ स न दिव्यश्रोत्रचेतनामप्युत्पादयति न दिव्यश्रोत्राभिनिर्हारचेतनां
०८४१४ वा अन्यत्र सर्वाकारज्ञतामनसिकारात् । एवं हि शारिपुत्र बोधिसत्त्वो
०८४१५ महासत्त्वः प्रज्ञापारमितायां चरन् दिव्यश्रोत्राभिज्ञासाक्षात्क्रिया-
०८४१६ ज्ञानमभिनिर्हरति।

०८५०१ स परसत्त्वानां परपुद्गलानां चेतसैव चित्तं यथाभूतं प्रजानाति।
०८५०२ सरागचित्तं सरागचित्तमिति यथाभूतं प्रजानाति। विगतरागं चित्तं
०८५०३ विगतरागं चित्तमिति यथाभूतं प्रजानाति। सदोषं चित्तं सदोषं
०८५०४ चित्तमिति यथाभूतं प्रजानाति। वीतदोषं। समोहि चित्तं। वीत-
०८५०५ मोहं। सतृष्णं। वीततृष्णं। सोपादानं। निरुपादानं। संक्षिप्तं।
०८५०६ विक्षिप्तं। परीत्तं चित्तं। विपुलं। महद्गतं। समाहितं। असमाहितं।
०८५०७ विविक्तं। अविविक्तं। सास्रवं। अनास्रवं। साङ्गणं। अनङ्गणं।
०८५०८ सोत्तरं। अनुत्तरं। तेन च न मन्यत् तथा हि ताच्चित्तमचित्त-
०८५०९ मचिन्त्यतामुपादाय् सोऽहं प्रजानामीति न मन्यत् तदेव चित्तं
०८५१० नोपलभते स्वभावशून्यतामुपादाय स्वभावविविक्ततामुपादाय स्वभा-
०८५११ वानुपलब्धितामुपादाय् न स परचित्तचेतनामप्युत्पादयति न
०८५१२ परचित्ताभिनिर्हारचेतनां वा अन्यत्र सर्वाकारज्ञतामनसिकारात् ।
०८५१३ एवं हि शारिपुत्र {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन् सर्वसत्त्व-
०८५१४ चित्तचरिताभिज्ञासाक्षात्क्रियाज्ञानमभिनिर्हरति।

०८६०१ स पूर्वनिवासानुस्मृतिज्ञानेन एकामपि जातिमनुस्मरति द्वे तिस्रो
०८६०२ यावज्जातिशतसहस्राण्यप्यनुस्मरति। स एकमपि चित्तमनुस्मरति
०८६०३ यावच्चित्तशतमपि। एकमपि दिवसं दिवसशतमपि। एकमपि
०८६०४ मासं मासशतमपि। एकमपि वर्षं वर्षशतमपि। एकमपि कल्पं कल्प-
०८६०५ शतमपि। अनेकानि अपि कल्पशतान्यनेकान्यपि कल्पसहस्राण्यनेका-
०८६०६ न्यपि कल्पशतसहस्राण्येकानि अपि कल्पकोटिनियुतशतसहस्राणि
०८६०७ अनुस्मरति यावत्पूर्वान्तकोटीमप्यनुस्मरति। अमुत्राहमासमेवंनामा
०८६०८ एवंगोत्र एवंजातिः एवमाहार एवंचिरस्थितिकः एवमायुः-
०८६०९ पर्यन्तः। स ततश्च्युतोऽमुत्रोपपन्नः ततश्च्युत इहास्म्युपपन्न इति। स
०८६१० एवं साकारं सादृशं सनिर्देशमनेकविधं पूर्वनिवासमनुस्मरति। तेन
०८६११ च पूर्वनिवासानुस्मृत्यभिज्ञानेन न मन्यत् तथा हि तज्ज्ञानमज्ञान-
०८६१२ मचिन्त्यतामुपादाय् सोऽहं प्रजानामीति न मन्यत् स तदेव
०८६१३ ज्ञानं नोपलभते स्वभावशून्यतामुपादाय स्वभावविविक्ततामुपादाय
०८६१४ स्वभावानुपलब्धितामुपादाय् न स पूर्वनिवासानुस्मृतिचेतनामप्यु-
०८६१५ त्पादयति। न पूर्वनिवासानुस्मृत्यभिनिर्हारचेतनां वा अन्यत्र सर्वा-
०८६१६ कारज्ञतामनसिकारात् । एवं हि शारिपुत्र {बोधिसत्त्वो} महासत्त्वः

०८७०१ प्रज्ञापारमितायां चरन् पूर्वनिवासानुस्मृतिसाक्षात्क्रियाज्ञानमभि-
०८७०२ निर्हरति।
०८७०३ स दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेण सत्त्वान् पश्यति
०८७०४ च्यवमानानुत्पद्यमानान् सुवर्णान् दुर्वर्णान् हीनान् प्रणीतान् सुगतौ
०८७०५ दुर्गतौ यथाकर्मोपगान् सत्त्वान् प्रजानाति। अमी भवन्तः सत्त्वाः काय-
०८७०६ सुचरितेन समन्वागताः वाक्सुचरितेन समन्वागताः मनःसुच-
०८७०७ रितेन समन्वागताः आर्याणामनपवादकाः सम्यग्दृष्टयः तेन
०८७०८ कायवाङ्मनःसुचरितेन हेतुना सुगतौ स्वर्गलोक उपपद्यन्त् इमे
०८७०९ पुनर्भवन्तः सत्त्वाः कायदुश्चरितेन समन्वागताः। वाग्दुश्चरितेन
०८७१० समन्वागताः मनोदुश्चरितेन समन्वागताः आर्याणामपवादकाः
०८७११ मिथ्यादृष्टयस्ते मिथ्यादृष्टिकर्मसमादानहेतोः कायस्य भेदात्परं
०८७१२ मरणादपाय दुर्गतिविनिपातं नरकेषूपपद्यन्त् इति हि दिव्येन
०८७१३ चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेण दशदिशि लोके सर्वलोकधातुषु
०८७१४ धर्मधातूपरमे आकाशधातुपर्यवसाने षड्गतिकानां सत्त्वानां च्युतोप-
०८७१५ पादं यथाभूतं प्रजानाति। तेन च न मन्यत् तथा हि तच्चक्षु-

०८८०१ रचक्षुरचिन्त्यतामुपादाय सोऽहं पश्यामीति न मन्यत् तदेव
०८८०२ चक्षुर्नोपलभते स्वभावशून्यतामुपादाय स्वभावविविक्तामुपादाय
०८८०३ स्वभावानुपलब्धितामुपादाय् न स दिव्यचक्षुश्चेतनामप्युत्पादयति।
०८८०४ न दिव्यचक्षुरभिनिर्हारचेतनां वा अन्यत्र सर्वाकारज्ञतामनसिकारात् ।
०८८०५ एवं हि शारिपुत्र {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन् दिव्यचक्षु-
०८८०६ रभिज्ञासाक्षात्क्रियाज्ञानमभिनिर्हरति।
०८८०७ सोऽनुत्पादसाक्षात्क्रिया अभिज्ञानमभिनिर्हरति। न च श्रावक-
०८८०८ भूमौ वा प्रत्येकबुद्धभूमौ वा पतति। नाप्यन्यं कञ्चिद्धर्ममाशंसति
०८८०९ अन्यत्रानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यामीति। स तया आस्रवक्षय
०८८१० साक्षात्क्रियाभिज्ञाज्ञानाभिनिर्हारकुशलतया न मन्यते तथा
०८८११ हि तज्ज्ञानमज्ञानमचिन्त्यतामुपादाय् सोऽहं प्रजानामीति
०८८१२ न मन्यत् तदेव ज्ञानं नोपलभते स्वभावशून्यतामुपादाय स्वभाव-
०८८१३ विविक्ततामुपादाय स्वभावानुपलब्धितामुपादाय् न स आस्रव-
०८८१४ क्षयचेतनामप्युत्पादयति नास्रवक्षयाभिज्ञाभिनिर्हारचेतनां वा अन्यत्र
०८८१५ सर्वाकारज्ञतामनसिकारात् । एवं हि शारिपुत्र {बोधिसत्त्वो} महासत्त्वः प्रज्ञा-
०८८१६ पारमितायां चरन्नास्रवक्षयाभिज्ञासाक्षात्क्रियाज्ञानमभिनिर्हरति।

०८९०१ एवं पुनः शारिपुत {बोधिसत्त्वस्य} महासत्त्वस्य प्रज्ञापारमितायां चरतः षड-
०८९०२ भिज्ञाः परिपूर्यन्ते परिशुध्यन्ते च् अभिज्ञाः शाअरिपुत्र परिशुद्धाः सर्वा-
०८९०३ कारज्ञतामर्पयन्ति। सन्ति शारिपुत्र {बोधिसत्त्वा} महासत्त्वाः प्रज्ञापारमितायां
०८९०४ चरन्तो दानपारमितायां स्थित्वा सर्वाकारज्ञतापन्थानं शोधयन्ति
०८९०५ अत्यन्तशून्यतया न च गृहीततामुपादाय् सन्ति {शारिपुत्र बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्तः} {शीलपारमितायां स्थित्वा सर्वाकारज्ञतापन्थानं शोधयन्ति अत्यन्तशून्यतया} आप-
०८९०६ त्त्यनध्यापत्तितामुपादाय् सन्ति {शारिपुत्र बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्तः} {क्षान्तिपारमितायां स्थित्वा सर्वाकारज्ञतापन्थानं शोधयन्ति अत्यन्तशून्यतया} अक्षोभणतामुपादाय्
०८९०७ सन्ति {शारिपुत्र बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्तः} {वीर्यपारमितायां स्थित्वा सर्वाकारज्ञतापन्थानं शोधयन्ति अत्यन्तशून्यतया} कायिकचैतसिकवीर्य्यास्रंसनतामुपादाय् सन्ति {शारिपुत्र बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्तः}
०८९०८ {ध्यानपारमितायां स्थित्वा सर्वाकारज्ञतापन्थानं शोधयन्ति अत्यन्तशून्यतया} अविक्षिप्तचित्ततामुपादाय् सन्ति {शारिपुत्र बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्तः} {प्रज्ञापारमितायां स्थित्वा सर्वाकारज्ञतापन्थानं शोधयन्ति अत्यन्तशून्यतया} दौष्प्रज्ञचित्त-
०८९०९ परिवर्जनतामुपादाय् एवं खलु शारिपुत्र {बोधिसत्त्वा} महासत्त्वाः प्रज्ञापार-
०८९१० मितायां चरन्तः षट्सु पारमितासु स्थित्वा सर्वाकारज्ञतापन्थाअनं शोध-
०८९११ यन्ति अत्यन्तशून्यतामुपादाय् दानं परिग्रहतामुपादाय प्रज्ञप्यत्
०८९१२ शीलं दौःशील्यम् {उपादाय प्रज्ञप्यते}। क्षान्तिरक्षान्तिताम् {उपादाय प्रज्ञप्यते}। वीर्यं कौशीद्यम् {उपादाय प्रज्ञप्यते}।
०८९१३ समाधिरसमाहितताम् {उपादाय प्रज्ञप्यते}। प्रज्ञा दौष्प्रज्ञम् {उपादाय प्रज्ञप्यते}। स तीर्ण इति
०८९१४ न मन्यत् अतीर्ण इति न मन्यत् दानं परिग्रह इति न मन्यत्
०८९१५ शीलं दौःशील्यमिति {न मन्यते}। क्षान्तिः क्षोभ इति {न मन्यते}। वीर्य्यं कौशीद्य-

०९००१ मिति {न मन्यते}। समाधिरसमाहित इति {न मन्यते}। प्रज्ञा दौष्प्रज्ञमिति {न मन्यते}। आक्रुष्टो
०९००२ऽहमिति {न मन्यते}। वन्दितोऽहमिति {न मन्यते}। सत्कृतोऽहमिति {न मन्यते}। असत्कृतो
०९००३ऽहमिति {न मन्यते}। तत्कस्य हेतोः। न हि शारिपुत्र अनुत्पाद आक्रुष्टो
०९००४ऽहमिति मन्यत् वन्दितोऽहमिति {न मन्यते}। सत्कृतोऽहमिति {न मन्यते}। असत्-
०९००५ कृतोऽहमिति {न मन्यते}। तत्कस्य हेतोस्तथा हि प्रज्ञापारमिता सर्वमननाः
०९००६ समुच्छिनत्ति। इह शारिपुत्र {बोधिसत्त्वस्य} महासत्त्वस्य प्रज्ञापारमितायां चरतो
०९००७ ये गुणा भवन्ति न ते सर्वे श्रावकप्रत्येकबुद्धानां संविद्यन्त् स
०९००८ इमान् गुणान् परिपूरयन् सत्त्वांश्च परिपाचयति बुद्धक्षेत्रं च
०९००९ परिशोधयति सर्वाकारज्ञतां चानुप्राप्नोति।
०९०१० पुनरपरं शारिपुत {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन् सर्व-
०९०११ सत्त्वानामन्तिके समचित्ततामुत्पादयति। सर्वसत्त्वानामन्तिके सम-
०९०१२ चित्ततामुत्पाद्य सर्वधरम्समतां प्रतिलभत् सर्वधरम्समतां प्रतिलभ्य
०९०१३ सर्वसत्त्वान् सर्वधर्मसमतायां प्रतिष्ठापयति। स दृष्ट एव धर्मे बुद्धानां
०९०१४ भगवतां प्रियो भवति मनआपश्च् सर्वबोधिसत्त्वानां च सर्व-
०९०१५ श्रावकानां च प्रत्येकबुद्धानां च प्रियो भवति मनआपश्च् स यत्र
०९०१६ यत्रोपपद्यते तत्र तत्र न जातु चक्षुषा अमनआपानि रूपाणि
०९०१७ पश्यति। न श्रोत्रेणामनआपान् शब्दान् शृणोति। न घ्राणेना-

०९१०१ मनआपान् गन्धान् जिघ्रति। न जिह्व्याऽमनआपान् रसाना-
०९१०२ स्वादयति। न कायेनामनआपान् स्पर्शान् स्पृशति। न मनसाऽमन-
०९१०३ आपान् धर्मान् विजानाति। न च परिहीयते अनुत्तरायाः सम्यक्-
०९१०४ संबोधेः।
०९१०५ अस्मिन् खलु पुनः प्रज्ञापारमितानिर्देशे निर्देश्यमाने त्रीणि
०९१०६ भिक्षुणीशतानि भगवन्तं यथावृतैश्चीवरैरभिच्छादयामासुरनुत्त-
०९१०७ रायां सम्यक्संबोधौ चित्तान्युत्पादयामासुः। अथ खलु भगवांस्तस्यां
०९१०८ वेलायां स्मितमकरोत् । अथ खल्वायुष्मानानन्दः समुत्थायासना-
०९१०९ देकांसनुत्तरासङ्गं कृत्वा दक्षिणञ्जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन
०९११० भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत् । को भगवन् हेतुः कः
०९१११ प्रत्ययः स्मितस्य प्रादुर्भावाय् नाहेतुकं नाप्रत्ययं बुद्धा भगवन्तः
०९११२ स्मितं प्रादुष्कुर्वन्ति। भगवानाह् एतान्यानन्द त्रीणि भिक्षुणी-
०९११३ शतानि एकषष्टितमे कल्पे महाकेउनामानस्तथागता अर्हन्तः सम्यक्-
०९११४ संबुद्धा लोके उत्पत्स्यन्त् तारकोपमे कल्पे इतश्च्युतानि सन्ति
०९११५ अक्षोभ्यस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य बुद्धक्षेत्रे उपपत्स्यन्त् षष्टिश्च
०९११६ देवपुत्रसहस्राणि यानि यान्यनया धर्मदेशनया परिपाचितानि तानि

०९२०१ तानि मैत्रेयस्य तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तिके परिनिर्वा-
०९२०२ स्यन्ति।
०९२०३ अथ खलु भगवतोऽनुभावेन तस्यां वेलायां पूर्वस्यां दिशि बुद्धसहस्रं
०९२०४ पश्यन्ति स्म चतस्रः परिषदो भगवतः शाक्यमुनेः पर्षम्मण्डलात् ।
०९२०५ एवं दक्षिणस्यां दिशि बुद्धसहस्रं पश्यन्ति पश्चिमायां दिशि
०९२०६ बुद्धसहस्रं पश्यन्ति उत्तरस्यां दिशि बुद्धसहस्रं पश्यन्ति उत्तरपूर्वस्यां दिशि बुद्धसहस्रं पश्यन्ति पूर्वदक्षिणस्यां दिशि बुद्धसहस्रं पश्यन्ति दक्षिणपश्चिमायां दिशि बुद्धसहस्रं पश्यन्ति पश्चिमोत्तरस्यां दिशि बुद्धसहस्रं पश्यन्ति
०९२०७ अध ऊर्ध्वमेकैकस्यां दिशि बुद्धसहस्रं पश्यन्ति महतो बुद्धक्षेत्र-
०९२०८ गुणव्यूहान् पश्यन्ति न चेह सहायां लोकधातौ तान् बुद्धक्षेत्र-
०९२०९ गुणव्यूहान् पश्यन्ति यान् दशसु दशसु दिक्षु तेषां बुद्धानां भगवतां
०९२१० बुद्धक्षेत्रगुणव्याउहान् पश्यन्ति स्म् अथ खलु भगवतः शाक्यमुनेः
०९२११ पर्षन्मण्डलाद्दशभिः प्राणिसहस्रैः प्रणिधानानि कृतानि वयं
०९२१२ तानि पुण्यानि करिष्यामो यैः पुण्यैरेतेषु बुद्धक्षेत्रेषूपपत्स्यामह
०९२१३ इति। अथ खलु भगवांस्तेषां कुलपुत्राणामाशयं विदित्वा तस्यां
०९२१४ वेलायां स्मितमकरोत् । आनन्द आह् को भगवान् हेतुः कः प्रत्ययः
०९२१५ स्मितस्य प्रादुर्भावाय् भगवानाह् पश्यसि त्वमानन्देमानि
०९२१६ दशप्राणिसहस्राणि। आनन्द आह् पश्यामि भगवन्। भगवानाह्
०९२१७ एतान्यानन्द दशप्राणिसहस्राणि इतश्च्युतानि तेषु दशसु दिक्षु बुद्धक्षेत्र-
०९२१८ सहस्रेषूपपत्स्यन्त् न च कदाचित्तथागतविरहितानि भविष्यन्ति।
०९२१९ ततः पश्चाद्व्यूहराजनामानस्तथागता लोके उत्पत्स्यन्त्

०९३०१ अथ खल्वायुष्मान् शारिपुत्र आयुष्मांश्च महामौद्गल्यायन आयुष्मांश्च
०९३०२ सुभूतिरायुष्मांश्च महाकाश्यपः एते चान्ये च सम्बहुला अभिज्ञाता
०९३०३ अभिज्ञाता भिक्षवो बोधिसत्त्वाश्च भिक्षुभिक्षुण्युपासकोपासिकाश्च
०९३०४ भगवन्तमेतदवोचन्। महापारमितेयं भगवन् {बोधिसत्त्वानां} महासत्त्वानां
०९३०५ यदुत प्रज्ञापारमिता। अग्रपारमितेयं विशिष्ट{पारमितेयं} प्रवर{पारमितेयं} अनुत्तर{पारमितेयं}
०९३०६ निरुत्तर{पारमितेयं} असम{पारमितेयं} आकाश{पारमितेयं} स्वलक्षणशून्यता{पारमितेयं} सस्र्वगुणसम-
०९३०७ न्वागत{पारमितेयं}। अनवमर्दनीय{पारमितेयं} भगवन् {बोधिसत्त्वानां} महासत्त्वानां यदुत प्रज्ञा-
०९३०८ पारमिता। अत्र हि भगवन् प्रज्ञापारमितायां चरद्भिर्बोधिसत्त्वै-
०९३०९ र्महासत्त्वैरसमसमं दानं दत्तं तैरसमसमा दानपारमिता परिपूरिता।
०९३१० तैरसमसम आत्मभावः प्रतिलब्धः। तेऽसमसमस्य धर्मस्य लाभिनो
०९३११ भाविष्यन्ति यदुतानुत्तरायाः सम्यक्संबोधेः। तैरसमसमं शीलं रक्षितं
०९३१२ तैरसमसमा शीलपारमिता परिपूरिता {तैरसमसम आत्मभावः प्रतिलब्धस्ते असमसमस्य धर्मस्य लाभिनो भविष्यन्ति यदुतानुत्तरायाः सम्यक्संबोधेः} तैरसमसमा क्षान्ति-
०९३१३ र्भावितारसमसमा क्षान्तिपारमिता परिपूरिता {तैरसमसम आत्मभावः प्रतिलब्धस्ते असमसमस्य धर्मस्य लाभिनो भविष्यन्ति यदुतानुत्तरायाः सम्यक्संबोधेः} तैरसमसमं
०९३१४ वीर्यमारब्धं तैरसमसमवीर्यपारमिता परिपूरिता {तैरसमसम आत्मभावः प्रतिलब्धस्ते असमसमस्य धर्मस्य लाभिनो भविष्यन्ति यदुतानुत्तरायाः सम्यक्संबोधेः} तैरसमसमं

०९४०१ ध्यानमुत्पादितं तैरसमसमध्यानपारमिता परिपूरिता {तैरसमसम आत्मभावः प्रतिलब्धस्ते असमसमस्य धर्मस्य लाभिनो भविष्यन्ति यदुतानुत्तरायाः सम्यक्संबोधेः} तैरसम-
०९४०२ समा प्रज्ञा भाविता तैरसमसमा प्रज्ञापारमिता परिपूरिता {तैरसमसम आत्मभावः प्रतिलब्धस्ते असमसमस्य धर्मस्य लाभिनो भविष्यन्ति यदुतानुत्तरायाः सम्यक्संबोधेः}।
०९४०३ अत्रैव च त्वं भगवन् प्रज्ञापारमितायां चरन्नसमसमस्य रूपस्य
०९४०४ लाभी जातोऽसमसमाया वेदनायाः संज्ञायाः संस्काराणामसमसमस्य
०९४०५ विज्ञानस्य लाभी जातोऽसमसमां बोधिमभिसंबुद्धोऽसमसमं धर्मचक्रं
०९४०६ प्रवर्तितम्। एवमतीतानागतप्रत्युत्पन्ना बुद्धा भगवन्तोऽत्रैव प्रज्ञापार-
०९४०७ मितायां चरन्तोऽनुत्तरां सम्यक्सम्बोधिमभिसंबुद्धा अभिसंभोत्स्यन्ते
०९४०८ च अभिसम्बुध्यन्ते च् तस्मात्तर्हि भगवन् सर्वधर्माणां पारं गन्तुकामेन
०९४०९ {बोधिसत्त्वेन} महासत्त्वेन प्रज्ञापारमितायां योगः करणीयः। नमस्करणीयास्ते
०९४१० भगवन् {बोधिसत्त्वा} महासत्त्वा येऽस्यां प्रज्ञापारमितायां चरन्ति सदेवमानुषा-
०९४११ सुरेण लोकेन् एवमुक्ते भगवांस्तान् सम्बहुलान् श्रावकांस्तांश्च
०९४१२ बोधिसत्त्वानेतदवोचत् । एवमेतत्कुलपुत्रा एवमेतत् । नमस्करणीयास्ते
०९४१३ {बोधिसत्त्वा} महासत्त्वाः सदेवमानुषासुरेण लोकेन येऽस्यां प्रज्ञापारमितायां
०९४१४ चरन्ति। तत्कस्य हेतोः। बोधिसत्त्वं हि शारिपुत्रागम्य लोकस्य
०९४१५ लोके प्रादुर्भावो भवति। मनुष्यलोकस्य देवलोकस्य क्षत्रियमहा-
०९४१६ शालकुलानां ब्राह्मणमहाशालकुलानां गृहपतिमहाशालकुलानां राज्ञां
०९४१७ चक्रवर्तिनां चातुर्महाराजकायिकानां देवानां त्रयस्त्रिंशानां देवानां
०९४१८ यामानां देवानां तुषितानां देवानां निर्माणरतीनां देवानां परनिर्मितवशवर्तिनां देवानां ब्रह्मकायिकाणां देवानां ब्रह्मपुरोहितानां देवानां ब्रह्मपारिषद्यानां देवानां परीत्ताभानां देवानामप्रमाणाभानां देवानामाभास्वराणां देवानां परीत्तशुभानां देवामप्रमाणशुभानां देवां शुभकृत्स्नानां देवानामनभ्रकाणां देवानां पुण्यप्रसवानां देवानां बृहत्फलानां देवानामसंज्ञिसत्त्वानां देवानां शुद्धावासानां देवानामस्पृहाणां देवानामतपानां देवानां सदृशानां देवानां सुदर्शनानां देवानामकनिष्ठानां देवानां नैव संज्ञानासंज्ञायतनोपगानां देवानां लोके

०९५०१ प्रादुर्भावो भवति। स्रोतआपन्नानां सकृदागामिनामनागामिनामर्हतां
०९५०२ प्रत्येकबुद्धानां बोधिसत्त्वानां महासत्त्वानां तथागतानामर्हतां सम्यक्-
०९५०३ संबुद्धानां लोके प्रादुर्भावो भवति। बोधिसत्त्वं हि शारिपुत्रागम्य
०९५०४ त्रयाणां रत्नानां लोके प्रादुर्भावो भवति। लौकिकानाञ्च
०९५०५ सर्वजीवितोपकरणानामन्नपानवस्त्रशय्यासनग्लानप्रत्ययभैषज्यपरिस्का-
०९५०६ राणां मणिमुक्तावैदुर्यशंखशिलाप्रबालजातरूपरजतानां लोके
०९५०७ प्रादुर्भावो भवति। यावच्छारिपुत्र सर्वसुखोपधानां दिव्यानां मानुष्यकाणां
०९५०८ च भवमुखानाञ्च निर्वाणमुखानाञ्च लोके प्रादुर्भावो भवति सर्वशः
०९५०९ शारिपुत्र बोधिसत्त्वमागम्य् तत्कस्य हेतोः। बोधिसत्त्वो हि शारिपुत्र
०९५१० चर्याञ्चरन् षट्सु पारमितासु सत्त्वान्नियोजयति दानं दापयति
०९५११ शीलं समादापयति क्षान्त्यां प्रतिष्ठापयति वीर्यं नियोजयति
०९५१२ ध्याने प्रतिष्ठापयति प्रज्ञायां नियोजयति। सर्वे च सत्त्वा बोधि-
०९५१३ सत्त्वमागम्य प्रज्ञापारमितायां चरन्ति। तस्माच्छारिपुत्र {बोधिसत्त्वो} महासत्त्वो
०९५१४ सर्वसत्त्वानां हितमुखाय प्रतिपन्नो भवति।
०९५१५ अथ खलु भगवांस्तस्यां वेलायां जिह्वेन्द्रियं निर्नामयित्वा इमं
०९५१६ त्रिसाहस्रं महासहस्रं लोकधातुं जिह्वेन्द्रियेणाच्छादयामास् अथ
०९५१७ खलु ततो जिह्वेन्द्रियादनेकवर्णा नानावर्णा अर्चिषो निःसृत्य
०९५१८ पूर्वस्यां दिशि गङ्गानदीवालुकोपमान् लोकधातूनाभयावभासया-
०९५१९ मासुः। एवं दक्षिणस्यां दिशि गङ्गानदीवालुकोपमान् लोकधतूना-

०९६०१ भयावभासयामासुः। पश्चिमायां दिशि गङ्गानदीवालुकोपमान् लोकधतूनाभयावभासयामासुः। उत्तरस्यां दिशि गङ्गानदीवालुकोपमान् लोकधतूनाभयावभासयामासुः। उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमान् लोकधतूनाभयावभासयामासुः। पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमान् लोकधतूनाभयावभासयामासुः। दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमान् लोकधतूनाभयावभासयामासुः। पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमान् लोकधतूनाभयावभासयामासुः। अधस्ताद्दिशि गङ्गानदीवालुकोपमान् लोकधतूनाभयावभासयामासुः।
०९६०२ ऊर्ध्वं दिशि गङ्गानदीवालुकोपमान् लोकधातू-
०९६०३ नाभयावभासयामासुः। अथ खलु पूर्वस्यां यावदूर्ध्वं दिशि गङ्गानदी-
०९६०४ वालुकोपमेभ्यो बुद्धक्षेत्रेभ्योऽप्रमेयासंख्येया बोधिसत्त्वास्तान् प्रभाव्यूहान्
०९६०५ दृष्ट्वा स्वकस्वकेषु बुद्धक्षेत्रेषु बुद्धान् भगवतः परिपृच्छन्ति स्म् कस्यायं
०९६०६ भगवन्ननुभावो येनायमेवं प्रभावभासः संदृश्यत् ते बुद्धा भगवन्त-
०९६०७ स्तान् बोधिसत्त्वान्महासत्त्वानेवमाहुः। एष कुलपुत्राः पश्चिमायां
०९६०८ यावदधो दिग्भागे सहायां लोकधातौ शाक्यमुनिर्नाम तथागतोऽर्हन्
०९६०९ सम्यक्संबुद्धस्तिष्ठति ध्रियते यापयति तेन जिह्वेन्द्रियं निर्नमय्य
०९६१० सर्वस्यां दिशि गङ्गानदीवालुकोपमा लोकधातवोऽवभासेन स्फुटीकृता
०९६११ यावदूर्ध्वं दिशि एवं दशसु दिक्षु गङ्गानदीवालुकोपमा लोकधातवोऽव-
०९६१२ भासेन स्फुटीकृता यदुत {बोधिसत्त्वानां} महासत्त्वानां प्रज्ञापारमितां देशनाय
०९६१३ संप्रकाशनाय् ते बोधिसत्त्वास्तांस्तथागतानेवमाहुः। गमिष्यामो वयं
०९६१४ भगवंस्तां सहालोकधातुं तं बह्गवन्तं शाक्यमुनिं तथागतं दर्शनाय वन्द-
०९६१५ नाय पर्युपासनाय तांश्च दशदिक्सन्निपतितान् {बोधिसत्त्वान्} महासत्त्वांस्तां च प्रज्ञा-
०९६१६ पारमितां स्रवणाय् ते बुद्धा भगवन्त आहुः। गच्छत कुलपुत्रा यस्येदानीं
०९६१७ कालं मन्यध्वम्। अथ खलु ते {बोधिसत्त्वा} महासत्त्वा दशभ्यो दिग्भ्यो
०९६१८ पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकावैजयन्तीर्गृहीत्वा ना-
०९६१९ नारत्नसुवर्णरूप्यपुष्पपुटानि च गृहीत्वा महत्या तूर्यताडावचर
०९६२० संगीत्या भगवन्तं शाक्यमुनिमुपसंक्रान्ता अभूवन्। अथ खलु चातु-
०९६२१ र्महाराजकायिका देवास्त्रयस्त्रिंशा देवाः त्रयस्त्रिंशा देवा यामा देवाः तुषिता देवा निर्माणरतयो देवाः परनिर्मितवशवर्तिनो देवा ब्रह्मकायिका देवा ब्रह्मपुरोहिता देवा ब्रह्मपारिषद्या देवाः परीत्ताभा देवा अप्रमाणाभा देवा आभास्वरा देवाः परीत्तशुभा देवा अप्रमाणशुभा देवाः शुभकृत्स्ना देवा अनभ्रका देवाः पुण्यप्रसवा देवा बृहत्फला देवा असंज्ञिसत्त्वा देवाः शुद्धावासा देवा अस्पृहा देवा अतपा देवाः सदृशा देवाः सुदर्शना देवा
०९७०१ अकनिष्ठाश्च देवा दिव्यपुष्पधूपगन्धमाल्यविलेपन-
०९७०२ चूर्णचीवरच्छत्रध्वजपताका उत्पलकुमुदपुण्डरीकमन्दारवकेसरतमाल-
०९७०३ पत्राणि गृहीत्वा येन भगवांस्तेनोपसंक्रामन्। अथ खलु ते बोधि-
०९७०४ सत्त्वास्ते च देवास्तैः पुष्पधूपगन्धमाल्यविलेपनैस्तथागतमर्हन्तं सम्यक्-
०९७०५ संबुद्धमवकिरन्ति स्म् अथ खलु तानि पुष्पाणि विहाय समभ्युद्गम्यास्य
०९७०६ त्रिसाहस्रमहासाहस्रस्य लोकधातोरुपरिष्टात्पुष्पकूटागारः संस्थितो
०९७०७ऽभूत् । चतुस्थूणश्चतुरस्रो भागतः सुविभक्तो रमणीयो मनीरमः।
०९७०८ अथ खलु ततः पर्षदः प्राणिकोटीनियुतशतसहस्रमुत्थायासनादेकांस-
०९७०९ मुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवां
०९७१० स्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत् । वयं भगवन्ननागतेऽध्वनि
०९७११ एवंरूपाणां धर्माणां लाभिनो भवेम यथा तथागतोऽर्हन् सम्यक्-
०९७१२ संबुद्धः। एवञ्च श्रावकगणं परिकर्षेम एवञ्च पर्षदि धर्मं देशयेम
०९७१३ यच्चैतर्हि तथागतो भगवान् धर्मं देशयति। अथ खलु भगवांस्तेषां
०९७१४ कुलपुत्राणामाशयं विदित्वा सर्वधर्माणां चानुत्पादायानिरोधाया-
०९७१५ नभिसंस्कारायाप्रादुर्भावाय क्षान्तिं विदित्वा स्मितमकरोत् । अथ
०९७१६ ततोऽनेकवर्णा रश्मयो भगवतो मुखद्वारान्निश्चरितास्ते सर्वावन्तं लोकं
०९७१७ प्रदक्षिणीकृत्य पुनरेवागता भगवतो मूर्ध्वन्यन्तर्धीयन्ते स्म् अथ खल्वा-
०९७१८ युष्मानानन्द उत्थायासानादेकां समुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं

०९८०१ पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत् ।
०९८०२ को भगवन् हेतुः कः प्रत्ययः स्मितस्य प्रादुर्भावाय् अथ खलु भगवा-
०९८०३ नायुष्मन्तमानन्दमेतदचोवत् । एतदानन्द प्राणिकोटीनियुतशतसहस्र-
०९८०४ मष्टषष्ठ्या कल्पकोटीभिर्बोध्यङ्गपुष्पनामानस्तथागता अर्हन्तः सम्यक्-
०९८०५ संबुद्धा लोके उत्पत्स्यन्ते पुष्पाकरे कल्प् । [इति षडभिज्ञाववादः॥]
०९८०६ अथ खलु भगवांस्तस्यां वेलायामायुष्मन्तं सुभूतिमामन्त्रयामास्
०९८०७ प्रतिभातु ते सुभूते {बोधिसत्त्वानां} महासत्त्वानां प्रज्ञापारमितामारभ्य यथा
०९८०८ {बोधिसत्त्वा} महासत्त्वाः प्रज्ञापारमितायां निर्यायुरिति। अथ खलु तेषां
०९८०९ {बोधिसत्त्वानां} महासत्त्वानां तेषाञ्च महाश्रावकाणां तेषाञ्च देवपुत्राणामेतद-
०९८१० भवत् । किं नु खल्वायुष्मान् सुभूतिः स्वकेन प्रज्ञाप्रतिभानवला-
०९८११ धानेन {बोधिसत्त्वानां} महासत्त्वानां प्रज्ञापारमितामुपदेक्ष्यत्युताहो बुद्धानु-
०९८१२ भावेन् अथ खल्वायुष्मान् सुभूतिर्बुद्धानुभावेन तेषां {बोधिसत्त्वानां} महासत्त्वानां
०९८१३ तेषाञ्च महाश्रावकाणां तेषाञ्च देवपुत्राणां चेतसैव चेतःपरिवितर्क-
०९८१४ माज्ञाय आयुष्मन्तं शारिपुत्रमेतदचोवत् । यत्किञ्चिदायुष्मन् शारिपुत्र
०९८१५ भगवतः श्रावका भाषन्ते देशयन्त्युपदिशन्ति सर्वः स तथागतस्य पुरुष-
०९८१६ कारो वेदितव्यः। तत्कस्य हेतोः यो हि तथागतेन धर्मो देशितस्तस्यां
०९८१७ धर्मदेशनायां शिक्षमाणास्तां धर्मतां साक्षात्कुर्वन्ति तां धर्मतां

०९९०१ साक्षात्कृत्वा यद्यदेव भाषन्ते देशयन्त्युपदिशन्ति सर्वं तद्धर्मतया न
०९९०२ विरुध्यत् तथागत एवैष शारिपुत्र उपाययोगेन {बोधिसत्त्वानां} महासत्त्वानां
०९९०३ प्रज्ञापारमितामुपदेक्ष्यति। अविषयोऽत्र शारिपुत्र सर्वश्रावकप्रत्येक-
०९९०४ बुद्धानां {बोधिसत्त्वानां} महासत्त्वानां प्रज्ञापारमितामुपदेष्टुम्॥ [इति दर्शन-
०९९०५ मार्गाववादोपक्षेपः॥]
०९९०६ अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत् । बोधिसत्त्व इति
०९९०७ भगवन्नुच्यत् कतमस्यैतद्भगवन् धर्मस्याधिवचनं यदुत बोधिसत्त्व
०९९०८ इति। नाहं भगवन् धर्मं समनुपश्यामि यदुत बोधिसत्त्व इति।
०९९०९ सोऽहं भगवन् बोधिसत्त्वमसमनुपश्यन् प्रज्ञापारमितामप्यनुप-
०९९१० लभमानः कतमं बोधिसत्त्वं कतमस्यां प्रज्ञापारमितायामववदिष्यामि।
०९९११ भगवानाह् नाममात्रमिदं सुभूते यदुत प्रज्ञापारमिता इति बोधि-
०९९१२ सत्त्व इति च् तदपि च बोधिसत्त्वनाम नाध्यात्मं न बहिर्धा नोभय-
०९९१३ मन्तरेणोपलभ्यत् तद्यथापि नाम सुभूते सत्त्वः सत्त्व इति
०९९१४ चोच्यत् न च काचित्सत्त्वोपलब्धिः। यच्च तन्नाम तत्प्रज्ञप्तिमात्रं
०९९१५ प्रज्ञप्तिधर्मः प्रज्ञप्तिसत् ॥ [इति दुःखे धर्मज्ञानक्षान्तिः॥]
०९९१६ तस्याश्च धर्मप्रज्ञप्तेर्नोत्पादो न निरोधोऽन्यत्र नामसङ्केतमात्रेण
०९९१७ व्यवह्रियत् एवमात्मसत्त्वजीवपोषपुरुषपुद्गलमनुजमानवकारकवेदक-

१०००१ जानकपश्यकाः सर्व एते प्रज्ञप्तिधर्माः सर्व एते अनुत्पादा अनिरोधा
१०००२ यावदेव नाममात्रेण व्यवह्रियन्त् एवमेव सुभूते या च प्रज्ञापारमिता
१०००३ यश्च {बोधिसत्त्वो} महासत्त्वो यच्च बोधिसत्त्वनाम सर्व एते प्रज्ञप्तिधर्माः सर्व एते
१०००४ अनुत्पादा अनिरोधा यावदेव नाममात्रेण व्यवह्रियत् तद्यथापि
१०००५ नाम सुभूते इदमाध्यात्मिकं रूपमिति धर्मप्रज्ञप्तिमात्रं तस्याश्च धर्म-
१०००६ प्रज्ञप्तेर्नोत्पादो न निरोधोऽन्यत्र नामसङ्केतमात्रेण व्यवह्रियत् वेद-
१०००७ नेति {सुभूते धर्मप्रज्ञप्तिमात्रमेतत् । तस्याश्च धर्मप्रज्ञप्तेर्नोत्पादो न निरोधोऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते} संज्ञेति {सुभूते धर्मप्रज्ञप्तिमात्रमेतत् । तस्याश्च धर्मप्रज्ञप्तेर्नोत्पादो न निरोधोऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}। संस्कारा इति {सुभूते धर्मप्रज्ञप्तिमात्रमेतत् । तस्याश्च धर्मप्रज्ञप्तेर्नोत्पादो न निरोधोऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}। विज्ञानमिति {सुभूते धर्मप्रज्ञप्तिमात्रमेतत् । तस्याश्च धर्मप्रज्ञप्तेर्नोत्पादो न निरोधोऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}। एवमेव
१०००८ सुभूते प्रज्ञापारमिता च बोधिसत्त्वश्च बोधिसत्त्वनाम च सर्व एते
१०००९ प्रज्ञप्तिधर्मास्तेषाञ्च प्रज्ञप्तिधर्माणां नोत्पादो न निरोधोऽन्यत्र नामसङ्केत-
१००१० मात्रेण व्यवह्रियत् चक्षुरिति {सुभूते धर्मप्रज्ञप्तिमात्रमेतत् । तस्याश्च धर्मप्रज्ञप्तेर्नोत्पादो न निरोधोऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}। यदुत चक्षुरिति तच्च चक्षुर्ना-
१००११ ध्यात्मं न बहिर्धा नोभयमन्तरेणोपलभ्यत् श्रोत्रमिति{सुभूते धर्मप्रज्ञप्तिमात्रमेतत् । तस्याश्च धर्मप्रज्ञप्तेर्नोत्पादो न निरोधोऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}। यदुत श्रोत्र-
१००१२ मिति तच्च श्रोत्रं नाध्यात्मं न बहिर्धा नोभयमन्तरेणोपलभ्यत्
१००१३ घ्राणमिति {सुभूते धर्मप्रज्ञप्तिमात्रमेतत् । तस्याश्च धर्मप्रज्ञप्तेर्नोत्पादो न निरोधोऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}। जिह्वेति {सुभूते धर्मप्रज्ञप्तिमात्रमेतत् । तस्याश्च धर्मप्रज्ञप्तेर्नोत्पादो न निरोधोऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}। काय इति {सुभूते धर्मप्रज्ञप्तिमात्रमेतत् । तस्याश्च धर्मप्रज्ञप्तेर्नोत्पादो न निरोधोऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}। मन इति {सुभूते धर्मप्रज्ञप्तिमात्रमेतत् । तस्याश्च धर्मप्रज्ञप्तेर्नोत्पादो न निरोधोऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}। रूपमिति {सुभूते धर्मप्रज्ञप्तिमात्रमेतत् । तस्याश्च धर्मप्रज्ञप्तेर्नोत्पादो न निरोधोऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}।
१००१४ शब्द इति {सुभूते धर्मप्रज्ञप्तिमात्रमेतत् । तस्याश्च धर्मप्रज्ञप्तेर्नोत्पादो न निरोधोऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}। गन्ध इति {सुभूते धर्मप्रज्ञप्तिमात्रमेतत् । तस्याश्च धर्मप्रज्ञप्तेर्नोत्पादो न निरोधोऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}। रस इति {सुभूते धर्मप्रज्ञप्तिमात्रमेतत् । तस्याश्च धर्मप्रज्ञप्तेर्नोत्पादो न निरोधोऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}। स्पर्श इति {सुभूते धर्मप्रज्ञप्तिमात्रमेतत् । तस्याश्च धर्मप्रज्ञप्तेर्नोत्पादो न निरोधोऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}। धर्म इति {सुभूते धर्मप्रज्ञप्तिमात्रमेतत् । तस्याश्च धर्मप्रज्ञप्तेर्नोत्पादो न निरोधोऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}।
१००१५ चक्षुर्धातू रूपधातुश्चक्षुर्विज्ञानधातुः इति {सुभूते धर्मप्रज्ञप्तिमात्रमेतत् । तस्याश्च धर्मप्रज्ञप्तेर्नोत्पादो न निरोधोऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}। ते च नाध्यात्मं न बहिर्धा
१००१६ नोभयमन्तरेणोपलभ्यन्त् श्रोत्रधातुः शब्दधातुः श्रोत्रविज्ञानधातु-
१००१७ रिति {सुभूते धर्मप्रज्ञप्तिमात्रमेतत् । तस्याश्च धर्मप्रज्ञप्तेर्नोत्पादो न निरोधोऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}। ते च {नाध्यात्मं न बहिर्धा नोभयमन्त्रेणोपलभ्यन्ते}। घ्राणधातुर्गन्धधातुर्घ्राणविज्ञानधातुरिति {सुभूते धर्मप्रज्ञप्तिमात्रमेतत् । तस्याश्च धर्मप्रज्ञप्तेर्नोत्पादो न निरोधोऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}। ते च {नाध्यात्मं न बहिर्धा नोभयमन्त्रेणोपलभ्यन्ते}। जिह्वाधातू रसधातुर्जिह्वाविज्ञानधातुरिति {सुभूते धर्मप्रज्ञप्तिमात्रमेतत् । तस्याश्च धर्मप्रज्ञप्तेर्नोत्पादो न निरोधोऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}। ते च {नाध्यात्मं न बहिर्धा नोभयमन्त्रेणोपलभ्यन्ते}।

१०१०१ कायधातुः स्प्रष्टव्यधातुः कायविज्ञानधातुरिति {सुभूते धर्मप्रज्ञप्तिमात्रमेतत् । तस्याश्च धर्मप्रज्ञप्तेर्नोत्पादो न निरोधोऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}। ते च {नाध्यात्मं न बहिर्धा नोभयमन्त्रेणोपलभ्यन्ते}। मनो-
१०१०२ धातु धर्मधातुर्मनोविज्ञानधातुरिति {सुभूते धर्मप्रज्ञप्तिमात्रमेतत् । तस्याश्च धर्मप्रज्ञप्तेर्नोत्पादो न निरोधोऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}। ते च {नाध्यात्मं न बहिर्धा नोभयमन्त्रेणोपलभ्यन्ते}। एवमेव सुभूते यदु-
१०१०३ च्यते प्रज्ञापारमितेति। बोधिसत्त्व इति बोधिसत्त्वनामेति च धर्म-
१०१०४ प्रज्ञप्तिमात्रमेतत् । तस्याश्च धर्मप्रज्ञप्तेर्नोत्पादो न निरोधोऽन्यत्र नाम-
१०१०५ सङ्केतमात्रेण व्यवह्रियत् तच्च नाम नाध्यात्मं न बहिर्धा नोभय-
१०१०६ मन्तरेणोपलभ्यत् तद्यथापि नाम सुभूते यदेतदाध्यात्मिकं शरीरं
१०१०७ शरीरमिति व्यवह्रियते शिरोग्रीवा उदरमंसौ स्कन्धौ बादु पृष्ठं
१०१०८ पार्श्वकाः कट्यूरु जङ्घे पादावस्थीनीति व्यवह्रियन्ते ते च प्रज्ञप्तिधर्मा-
१०१०९ स्तेषाञ्च नोत्पादो न निरोधोऽन्यत्र नामसङ्केतमात्रेण व्यवह्रियत् एवमेव सुभुते
१०११० यदुच्यते प्रज्ञापारमितेति बोध्सिअत्त्व इति बोधिसत्त्वनामेति च सर्व एते
१०१११ प्रज्ञप्तिधर्मास्तेषाञ्च नोत्पादा न निरोधोऽन्यत्र नामसङ्केतमात्रेण व्यवह्रियत् तद्
१०११२ यथापि नाम सुभूते बाह्यं तृणकाष्ठं शाखापर्णपलाशं सर्वं तं नाना-
१०११३ नामधेयैर्व्यपदिश्यते तेषाञ्च नाम्नां नोत्पादो न निरोधोऽन्यत्र नामसङ्केतमात्रेण व्यवह्रियत्
१०११४ तानि च नामानि नाध्यात्मं न बहिर्धा नोभयमन्तरेणोपलभ्यन्त्
१०११५ एवमेव सुभूते यदुच्यते प्रज्ञापारमितेति बोध्सिअत्त्व इति बोधिसत्त्वनामेति च सर्व एते प्रज्ञप्तिधर्मास्ते च नामधेयैर्व्यपदिश्यन्ते तेषाञ्च नोत्पादा न निरोधोऽन्यत्र नामसङ्केतमात्रेण व्यवह्रियत्
१०११६ तानि च नामानि नाध्यात्मं न बहिर्धा नोभयमन्तरेणोपलभ्यन्त्
१०११७ एवं हि सुभूते {बोधिसत्त्वेन} महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्।
१०११८ पुनरपरं सुभूते तद्यथापि नाम स्वप्नप्रतिश्रुत्कामरीचिप्रतिभासमायोप-
१०११९ मास्तथागतनिर्मिताः सर्वे ते धर्मप्रज्ञप्तिमात्रास्तेषाञ्च नोत्पादो न निरोधोऽन्यत्र नामसङ्केतमात्रेण व्यवह्रियत्

१०२०१ एवमेव सुभूते यदुच्यते प्रज्ञापारमितेति यदुच्यते प्रज्ञापारमितेति बोध्सिअत्त्व इति बोधिसत्त्वनामेति च सर्व एते प्रज्ञप्तिधर्मास्तेषाञ्च नोत्पादा न निरोधोऽन्यत्र नामसङ्केतमात्रेण व्यवह्रियत्
१०२०२ एवं हि सुभूते {बोधिसत्त्वेन} महासत्त्वेन प्रज्ञापारमितायाञ्चरता
१०२०३ नामसङ्केतप्रज्ञप्त्यामववादप्रज्ञप्त्यां धर्मप्रज्ञप्त्याञ्च शिक्षितव्यम्॥ [इति
१०२०४ दुःखे धर्मज्ञानम्॥]
१०२०५ एवं हि सुभुते प्रज्ञापारमितायां चरन् {बोधिसत्त्वो} महासत्त्वो न रूपं
१०२०६ नित्यमिति समनुपश्यति। न रूपं सुखमिति {समनुपश्यति}। न रूपं दुःखमिति
१०२०७ {समनुपश्यति}। न रूपमात्मेति {समनुपश्यति}। न रूपमनात्मेति {समनुपश्यति}। न रूपं शान्त-
१०२०८ मिति {समनुपश्यति}। न रूपमशान्तमिति {समनुपश्यति}। न रूपं शून्यमिति {समनुपश्यति}।
१०२०९ न रूपमशून्यमिति {समनुपश्यति}। न रूपं निमित्तमिति {समनुपश्यति}। न रूपमनिमित्त-
१०२१० मिति {समनुपश्यति}। न रूपं प्रणिहितमिति {समनुपश्यति}। न रूपमप्रणिहितमिति
१०२११ {समनुपश्यति}। न रूपं संस्कृतमिति {समनुपश्यति}। न रूपमसंस्कृतमिति {समनुपश्यति}। न रूप-
१०२१२ मुत्पन्नमिति {समनुपश्यति}। न रूपमनुत्पन्नमिति {समनुपश्यति}। न रूपं निरुद्धमिति
१०२१३ {समनुपश्यति}। न रूपमनिरुद्धमिति {समनुपश्यति}। न रूपं विविक्तमिति {समनुपश्यति}। न
१०२१४ रूपमविविक्तमिति {समनुपश्यति}। न रूपं कुशलमिति {समनुपश्यति}। न रूपमकुशल-
१०२१५ मिति {समनुपश्यति}। न रूपं सावद्यमिति {समनुपश्यति}। न रूपमनवद्यमिति {समनुपश्यति}।
१०२१६ न रूपं सास्रवमिति {समनुपश्यति}। न रूपमनास्रवमिति {समनुपश्यति}। न रूपं संक्लेश-
१०२१७ मिति {समनुपश्यति}। न रूपं निःक्लेशमिति {समनुपश्यति}। न रूपं लौकिकमिति {समनुपश्यति}।
१०२१८ न रूपं लोकोत्तरमिति {समनुपश्यति}। न रूपं संक्लेशमिति {समनुपश्यति}। न रूपं व्यव-
१०२१९ दानमिति {समनुपश्यति}। न रूपं संसार इति {समनुपश्यति}। न रूपं निर्वाणमिति
१०२२० समनुपश्यति। न वेदना नित्येति {समनुपश्यति}। न वेदना सुखेति समनुपश्यति। न वेदना दुःखेति समनुपश्यति। न वेदनात्मेति समनुपश्यति। न वेदनानात्मेति समनुपश्यति। न वेदना शान्तेति समनुपश्यति। न वेदनाशान्तेति समनुपश्यति। न वेदना शून्येति समनुपश्यति। न वेदनाशून्येति समनुपश्यति। न वेदना निमित्तेति समनुपश्यति। न वेदनानिमित्तेति समनुपश्यति। न वेदना प्रणिहितेति समनुपश्यति। न वेदनाप्रणिहितेति समनुपश्यति। न वेदना संस्कृतेति समनुपश्यति। न वेदनासंस्कृतेति समनुपश्यति। न वेदनोत्पन्नेति समनुपश्यति। न वेदनानुत्पन्नेति समनुपश्यति। न वेदना निरुद्धेति समनुपश्यति। न वेदनानिरुद्धेति समनुपश्यति। न वेदना विविक्तेति समनुपश्यति। न वेदनाविविक्तेति समनुपश्यति। न वेदना कुशलेति समनुपश्यति। न वेदनाकुशलेति समनुपश्यति। न वेदना सावद्येति समनुपश्यति। न वेदनानवद्येति समनुपश्यति। न वेदना सास्रवेति समनुपश्यति। न वेदनानास्रवेति समनुपश्यति। न वेदना संक्लेशेति समनुपश्यति। न वेदना निःक्लेशेति समनुपश्यति। न वेदना लौकिकेति समनुपश्यति। न वेदना लोकोत्तरेति समनुपश्यति। न वेदना संक्लेशेति समनुपश्यति। न वेदना व्यवदानेति समनुपश्यति। न वेदना संसारेति समनुपश्यति। न वेदना निर्वाणेति समनुपश्यति।। न संज्ञा नित्येति {समनुपश्यति}।

१०३०१ न संज्ञा सुखेति समनुपश्यति। न संज्ञा दुःखेति समनुपश्यति। न संज्ञात्मेति समनुपश्यति। न संज्ञानात्मेति समनुपश्यति। न संज्ञा शान्तेति समनुपश्यति। न संज्ञाशान्तेति समनुपश्यति। न संज्ञा शून्येति समनुपश्यति। न संज्ञाशून्येति समनुपश्यति। न संज्ञा निमित्तेति समनुपश्यति। न संज्ञानिमित्तेति समनुपश्यति। न संज्ञा प्रणिहितेति समनुपश्यति। न संज्ञाप्रणिहितेति समनुपश्यति। न संज्ञा संस्कृतेति समनुपश्यति। न संज्ञासंस्कृतेति समनुपश्यति। न संज्ञोत्पन्नेति समनुपश्यति। न संज्ञानुत्पन्नेति समनुपश्यति। न संज्ञा निरुद्धेति समनुपश्यति। न संज्ञानिरुद्धेति समनुपश्यति। न संज्ञा विविक्तेति समनुपश्यति। न संज्ञाविविक्तेति समनुपश्यति। न संज्ञा कुशलेति समनुपश्यति। न संज्ञाकुशलेति समनुपश्यति। न संज्ञा सावद्येति समनुपश्यति। न संज्ञानवद्येति समनुपश्यति। न संज्ञा सास्रवेति समनुपश्यति। न संज्ञानास्रवेति समनुपश्यति। न संज्ञा संक्लेशेति समनुपश्यति। न संज्ञा निःक्लेशेति समनुपश्यति। न संज्ञा लौकिकेति समनुपश्यति। न संज्ञा लोकोत्तरेति समनुपश्यति। न संज्ञा संक्लेशेति समनुपश्यति। न संज्ञा व्यवदानेति समनुपश्यति। न संज्ञा संसारेति समनुपश्यति। न संज्ञा निर्वाणेति समनुपश्यति। न संस्कारा नित्या इति समनुपश्यति न संस्काराः सुखा इति समनुपश्यति। न संस्कारा दुःखा इति समनुपश्यति। न संस्कारा आत्मानो इति समनुपश्यति। न संस्कारा अनात्मानो इति समनुपश्यति। न संस्काराः शान्ता इति समनुपश्यति। न संस्कारा अशान्ता इति समनुपश्यति। न संस्काराः शून्या इति समनुपश्यति। न संस्कारा अशून्या इति समनुपश्यति। न संस्कारा निमित्ता इति समनुपश्यति। न संस्कारा अनिमित्ता इति समनुपश्यति। न संस्काराः
प्रणिहिता इति समनुपश्यति। न संस्कारा अप्रणिहिता इति समनुपश्यति। न संस्काराः संस्कृता इति समनुपश्यति। न संस्काराः असंस्कृता इति समनुपश्यति। न संस्कारा उत्पन्ना इति समनुपश्यति। न संस्कारा अनुत्पन्ना इति समनुपश्यति। न संस्कारा निरुद्धा इति समनुपश्यति। न संस्कारा अनिरुद्धा इति समनुपश्यति। न संस्कारा विविक्ता इति समनुपश्यति। न संस्कारा अविविक्ता इति समनुपश्यति। न संस्कारा कुशला इति समनुपश्यति। न संस्कारा अकुशला इति समनुपश्यति। न संस्काराः सावद्या इति समनुपश्यति। न संस्कारा अनवद्या इति समनुपश्यति। न संस्काराः सास्रवा इति समनुपश्यति। न संस्कारा अनास्रवा इति समनुपश्यति। न संस्काराः संक्लेशा इति समनुपश्यति। न संस्कारा निःक्लेशा इति समनुपश्यति। न संस्कारा लौकिका इति समनुपश्यति। न संस्कारा लोकोत्तरा इति समनुपश्यति। न संस्कारा संक्लेशा इति समनुपश्यति। न संस्कारा व्यवदाना इति समनुपश्यति। न संस्काराः संसारा इति समनुपश्यति। न संस्कारा निर्वाणा इति समनुपश्यति। न विज्ञानन्नित्यमिति
१०३०२ समनुपश्यति न विज्ञानं सुखमिति समनुपश्यति। न विज्ञानं दुःखमिति समनुपश्यति। न विज्ञानमात्मेति समनुपश्यति। न विज्ञानमनात्मेति समनुपश्यति। न विज्ञानं शान्तमिति समनुपश्यति। न विज्ञानमशान्तमिति समनुपश्यति। न विज्ञानं शून्यमिति समनुपश्यति। न विज्ञानमशून्यमिति समनुपश्यति। न विज्ञानं निमित्तमिति समनुपश्यति। न विज्ञानमनिमित्तमिति समनुपश्यति। न विज्ञानं प्रणिहितमिति समनुपश्यति। न विज्ञानमप्रणिहितमिति समनुपश्यति। न विज्ञानं संस्कृतमिति समनुपश्यति। न विज्ञानमसंस्कृतमिति समनुपश्यति। न विज्ञानमुत्पन्नमिति समनुपश्यति। न विज्ञानमनुत्पन्नमिति समनुपश्यति। न विज्ञानं निरुद्धमिति समनुपश्यति। न विज्ञानमनिरुद्धमिति समनुपश्यति। न विज्ञानं विविक्तमिति समनुपश्यति। न विज्ञानमविविक्तमिति समनुपश्यति। न विज्ञानं कुशलमिति समनुपश्यति। न विज्ञानमकुशलमिति समनुपश्यति। न विज्ञानं सावद्यमिति समनुपश्यति। न विज्ञानमनवद्यमिति समनुपश्यति। न विज्ञानं सास्रवमिति समनुपश्यति। न विज्ञानमनास्रवमिति समनुपश्यति। न विज्ञानं संक्लेशमिति समनुपश्यति। न विज्ञानं निःक्लेशमिति समनुपश्यति। न विज्ञानं लौकिकमिति समनुपश्यति। न विज्ञानं लोकोत्तरमिति समनुपश्यति। न विज्ञानं संक्लेशमिति समनुपश्यति। न विज्ञानं व्यवदानमिति समनुपश्यति। न विज्ञानं संसारमिति समनुपश्यति। न विज्ञानं निर्वाणमिति समनुपश्यति।
१०३०३ एवं न चक्षुर्धातुर्नित्य इति वा अनित्य इति वा समनुपश्यति। न
१०३०४ रूपधातुर्नित्य इति वा अनित्य इति वा समनुपश्यति। न चक्षुर्विज्ञान-
१०३०५ धातुर्नित्य इति वा अनित्य इति वा समनुपश्यति। न चक्षुर्धातुः सुख
१०३०६ इति वा दुःख इति वा समनुपश्यति। न रूपधातुः सुख इति वा दुःख
१०३०७ इति वा समनुपश्यति। न चक्षुर्विज्ञानधातुः सुख इति वा दुःख इति
१०३०८ वा समनुपश्यति। न चक्षुर्धातुरात्मेति वा अनात्मेति वा समनुपश्यति। न रूपधातुरात्मेति वा अनात्मेति वा समनुपश्यति। न चक्षुर्विज्ञानधातुरात्मेति वा अनात्मेति वा समनुपश्यति। न चक्षुर्धातुः शान्त इति वाशान्त इति वा समनुपश्यति। न रूपधातुः शान्त इति वाशान्त इति वा समनुपश्यति। न चक्षुर्विज्ञानधातुः शान्त इति वाशान्त इति वा समनुपश्यति। न चक्षुर्धातुः शून्य इति वाशून्य इति वा समनुपश्यति। न रूपधातुः शून्य इति वाशून्य इति वा समनुपश्यति। न चक्षुर्विज्ञानधातुः शून्य इति वाशून्य इति वा समनुपश्यति। न चक्षुर्धातुर्निमित्त इति वानिमित्त इति वा समनुपश्यति। न रूपधातुर्निमित्त इति वानिमित्त इति वा समनुपश्यति। न चक्षुर्विज्ञानधातुर्निमित्त इति वानिमित्त इति वा समनुपश्यति। न चक्षुर्धातुः प्रणिहित इति वाप्रणिहित इति वा समनुपश्यति। न रूपधातुः प्रणिहित इति वाप्रणिहित इति वा समनुपश्यति। न चक्षुर्विज्ञानधातुः प्रणिहित इति वाप्रणिहित इति वा समनुपश्यति। न चक्षुर्धातुः संस्कृत इति वासंस्कृत इति वा समनुपश्यति। न रूपधातुः संस्कृत इति वासंस्कृत इति वा समनुपश्यति। न चक्षुर्विज्ञानधातुः संस्कृत इति वासंस्कृत इति वा समनुपश्यति। न चक्षुर्धातुरुत्पन्न इति वानुत्पन्न इति वा समनुपश्यति। न रूपधातुरुत्पन्न इति वानुत्पन्न इति वा समनुपश्यति। न चक्षुर्विज्ञानधातुरुत्पन्न इति वानुत्पन्न इति वा समनुपश्यति। न चक्षुर्धातुर्निरुद्ध इति वानिरुद्ध इति वा समनुपश्यति। न रूपधातुर्निरुद्ध इति वानिरुद्ध इति वा समनुपश्यति। न चक्षुर्विज्ञानधातुर्निरुद्ध इति वानिरुद्ध इति वा समनुपश्यति। न चक्षुर्धातुर्विविक्त इति वाविविक्त इति वा समनुपश्यति। न रूपधातुर्विविक्त इति वाविविक्त इति वा समनुपश्यति। न चक्षुर्विज्ञानधातुर्विविक्त इति वाविविक्त इति वा समनुपश्यति। न चक्षुर्धातुः कुशल इति वाकुशल इति वा समनुपश्यति। न रूपधातुः कुशल इति वाकुशल इति वा समनुपश्यति। न चक्षुर्विज्ञानधातुः कुशल इति वाकुशल इति वा समनुपश्यति। न
चक्षुर्धातुः सावद्य इति वानसावद्य इति वा समनुपश्यति। न रूपधातुः सावद्य इति वानसावद्य इति वा समनुपश्यति। न चक्षुर्विज्ञानधातुः सावद्य इति वानसावद्य इति वा समनुपश्यति। न चक्षुर्धातुः सास्रव इति वानास्रव इति वा समनुपश्यति। न रूपधातुः सास्रव इति वानास्रव इति वा समनुपश्यति। न चक्षुर्विज्ञानधातुः सास्रव इति वानास्रव इति वा समनुपश्यति। न चक्षुर्धातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति। न रूपधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति। न चक्षुर्विज्ञानधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति। न चक्षुर्धातुर्लौकिक इति वा लोकोत्तर इति वा समनुपश्यति। न रूपधातुर्लौकिक इति वा लोकोत्तर इति वा समनुपश्यति। न चक्षुर्विज्ञानधातुर्लौकिक इति वा लोकोत्तर इति वा समनुपश्यति। न चक्षुर्धातुः संक्लेश इति वा व्यवदान इति वा समनुपश्यति। न रूपधातुः संक्लेश इति वा व्यवदान इति वा समनुपश्यति। न चक्षुर्विज्ञानधातुः संक्लेश इति वा व्यवदान इति वा समनुपश्यति। न चक्षुर्धातुः संसार इति वा निर्वाण इति वा समनुपश्यति। न रूपधातुः संसार इति वा निर्वाण इति वा समनुपश्यति। न चक्षुर्विज्ञानधातुः संसार इति वा निर्वाण इति वा समनुपश्यति। एवं न श्रोत्रधातुर्न शव्दधातुर्न श्रोत्रविज्ञान-
१०३०९ धातुर्नित्य इति वा अनित्य इति वा समनुपश्यति। न श्रोत्रधातुर्न
१०३१० शब्दधातुर्न श्रोत्रविज्ञानधातुः सुख इति वा दुःख इति वा समनुपश्यति
१०३११ न श्रोत्रधातुरात्मेति वा अनात्मेति वा समनुपश्यति। न शब्दधातुरात्मेति वा अनात्मेति वा समनुपश्यति। न श्रोत्रविज्ञानधातुरात्मेति वा अनात्मेति वा समनुपश्यति। न श्रोत्रधातुः शान्त इति वाशान्त इति वा समनुपश्यति। न शब्दधातुः शान्त इति वाशान्त इति वा समनुपश्यति। न श्रोत्रविज्ञानधातुः शान्त इति वाशान्त इति वा समनुपश्यति। न श्रोत्रधातुः शून्य इति वाशून्य इति वा समनुपश्यति। न शब्दधातुः शून्य इति वाशून्य इति वा समनुपश्यति। न श्रोत्रविज्ञानधातुः शून्य इति वाशून्य इति वा समनुपश्यति। न श्रोत्रधातुर्निमित्त इति वानिमित्त इति वा समनुपश्यति। न शब्दधातुर्निमित्त इति वानिमित्त इति वा समनुपश्यति। न श्रोत्रविज्ञानधातुर्निमित्त इति वानिमित्त इति वा समनुपश्यति। न श्रोत्रधातुः प्रणिहित इति वाप्रणिहित इति वा समनुपश्यति। न शब्दधातुः प्रणिहित इति वाप्रणिहित इति वा समनुपश्यति। न श्रोत्रविज्ञानधातुः प्रणिहित इति वाप्रणिहित इति वा समनुपश्यति। न श्रोत्रधातुः संस्कृत इति वासंस्कृत इति वा समनुपश्यति। न शब्दधातुः संस्कृत इति वासंस्कृत इति वा समनुपश्यति। न श्रोत्रविज्ञानधातुः संस्कृत इति वासंस्कृत इति वा समनुपश्यति। न श्रोत्रधातुरुत्पन्न इति वानुत्पन्न इति वा समनुपश्यति। न शब्दधातुरुत्पन्न इति वानुत्पन्न इति वा समनुपश्यति। न श्रोत्रविज्ञानधातुरुत्पन्न इति वानुत्पन्न इति वा समनुपश्यति। न श्रोत्रधातुर्निरुद्ध इति वानिरुद्ध इति वा समनुपश्यति। न शब्दधातुर्निरुद्ध इति वानिरुद्ध इति वा समनुपश्यति। न श्रोत्रविज्ञानधातुर्निरुद्ध इति वानिरुद्ध इति वा समनुपश्यति। न श्रोत्रधातुर्विविक्त इति वाविविक्त इति वा समनुपश्यति। न शब्दधातुर्विविक्त इति वाविविक्त इति वा समनुपश्यति। न श्रोत्रविज्ञानधातुर्विविक्त इति वाविविक्त इति वा समनुपश्यति। न श्रोत्रधातुः कुशल इति वाकुशल इति वा समनुपश्यति। न शब्दधातुः कुशल इति वाकुशल इति वा समनुपश्यति। न श्रोत्रविज्ञानधातुः कुशल इति वाकुशल इति वा समनुपश्यति। न श्रोत्रधातुः सावद्य इति वानसावद्य इति वा समनुपश्यति। न शब्दधातुः सावद्य इति वानसावद्य इति वा समनुपश्यति। न श्रोत्रविज्ञानधातुः सावद्य इति वानसावद्य इति वा समनुपश्यति। न श्रोत्रधातुः सास्रव इति वानास्रव इति वा समनुपश्यति।
न शब्दधातुः सास्रव इति वानास्रव इति वा समनुपश्यति। न श्रोत्रविज्ञानधातुः सास्रव इति वानास्रव इति वा समनुपश्यति। न श्रोत्रधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति। न शब्दधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति। न श्रोत्रविज्ञानधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति। न श्रोत्रधातुर्लौकिक इति वा लोकोत्तर इति वा समनुपश्यति। न शब्दधातुर्लौकिक इति वा लोकोत्तर इति वा समनुपश्यति। न श्रोत्रविज्ञानधातुर्लौकिक इति वा लोकोत्तर इति वा समनुपश्यति। न श्रोत्रधातुः संक्लेश इति वा व्यवदान इति वा समनुपश्यति। न शब्दधातुः संक्लेश इति वा व्यवदान इति वा समनुपश्यति। न श्रोत्रविज्ञानधातुः संक्लेश इति वा व्यवदान इति वा समनुपश्यति। न श्रोत्रधातुः संसार इति वा निर्वाण इति वा समनुपश्यति। न शब्दधातुः संसार इति वा निर्वाण इति वा समनुपश्यति। न श्रोत्रविज्ञानधातुः संसार इति वा निर्वाण इति वा समनुपश्यति। न घ्राणधातुर्न गन्धधातुर्न घ्राणविज्ञानधातुर्नित्य इति वा
१०३१२ अनित्य इति वा समनुपश्यति। न घ्राणधातुर्न गन्धधातुर्न
१०३१३ घ्राणविज्ञानधातुः सुख इति वा दुःख इति समनुपश्यति न घ्राणधातुरात्मेति वा अनात्मेति वा समनुपश्यति। न गन्धधातुरात्मेति वा अनात्मेति वा समनुपश्यति। न घ्राणविज्ञानधातुरात्मेति वा अनात्मेति वा समनुपश्यति। न घ्राणधातुः शान्त इति वाशान्त इति वा समनुपश्यति। न गन्धधातुः शान्त इति वाशान्त इति वा समनुपश्यति। न घ्राणविज्ञानधातुः शान्त इति वाशान्त इति वा समनुपश्यति। न घ्राणधातुः शून्य इति वाशून्य इति वा समनुपश्यति। न गन्धधातुः शून्य इति वाशून्य इति वा समनुपश्यति। न घ्राणविज्ञानधातुः शून्य इति वाशून्य इति वा समनुपश्यति। न घ्राणधातुर्निमित्त इति वानिमित्त इति वा समनुपश्यति। न गन्धधातुर्निमित्त इति वानिमित्त इति वा समनुपश्यति। न घ्राणविज्ञानधातुर्निमित्त इति वानिमित्त इति वा समनुपश्यति। न घ्राणधातुः प्रणिहित इति वाप्रणिहित इति वा समनुपश्यति। न गन्धधातुः प्रणिहित इति वाप्रणिहित इति वा समनुपश्यति। न घ्राणविज्ञानधातुः प्रणिहित इति वाप्रणिहित इति वा समनुपश्यति। न घ्राणधातुः संस्कृत इति वासंस्कृत इति वा समनुपश्यति। न गन्धधातुः संस्कृत इति वासंस्कृत इति वा समनुपश्यति। न घ्राणविज्ञानधातुः संस्कृत इति वासंस्कृत इति वा समनुपश्यति। न घ्राणधातुरुत्पन्न इति वानुत्पन्न इति वा समनुपश्यति। न गन्धधातुरुत्पन्न इति वानुत्पन्न इति वा समनुपश्यति। न घ्राणविज्ञानधातुरुत्पन्न इति वानुत्पन्न इति वा समनुपश्यति। न घ्राणधातुर्निरुद्ध इति वानिरुद्ध इति वा समनुपश्यति। न गन्धधातुर्निरुद्ध इति वानिरुद्ध इति वा समनुपश्यति। न घ्राणविज्ञानधातुर्निरुद्ध इति वानिरुद्ध इति वा समनुपश्यति। न घ्राणधातुर्विविक्त इति वाविविक्त इति वा समनुपश्यति। न गन्धधातुर्विविक्त इति वाविविक्त इति वा समनुपश्यति। न घ्राणविज्ञानधातुर्विविक्त इति वाविविक्त इति वा समनुपश्यति। न घ्राणधातुः कुशल इति वाकुशल इति वा समनुपश्यति। न गन्धधातुः कुशल इति वाकुशल इति वा समनुपश्यति। न घ्राणविज्ञानधातुः कुशल इति वाकुशल इति वा समनुपश्यति। न घ्राणधातुः सावद्य इति वानसावद्य इति वा समनुपश्यति। न गन्धधातुः सावद्य इति वानसावद्य इति वा समनुपश्यति। न
घ्राणविज्ञानधातुः सावद्य इति वानसावद्य इति वा समनुपश्यति। न घ्राणधातुः सास्रव इति वानास्रव इति वा समनुपश्यति। न गन्धधातुः सास्रव इति वानास्रव इति वा समनुपश्यति। न घ्राणविज्ञानधातुः सास्रव इति वानास्रव इति वा समनुपश्यति। न घ्राणधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति। न गन्धधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति। न घ्राणविज्ञानधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति। न घ्राणधातुर्लौकिक इति वा लोकोत्तर इति वा समनुपश्यति। न गन्धधातुर्लौकिक इति वा लोकोत्तर इति वा समनुपश्यति। न घ्राणविज्ञानधातुर्लौकिक इति वा लोकोत्तर इति वा समनुपश्यति। न घ्राणधातुः संक्लेश इति वा व्यवदान इति वा समनुपश्यति। न गन्धधातुः संक्लेश इति वा व्यवदान इति वा समनुपश्यति। न घ्राणविज्ञानधातुः संक्लेश इति वा व्यवदान इति वा समनुपश्यति। न घ्राणधातुः संसार इति वा निर्वाण इति वा समनुपश्यति। न गन्धधातुः संसार इति वा निर्वाण इति वा समनुपश्यति। न घ्राणविज्ञानधातुः संसार इति वा निर्वाण इति वा समनुपश्यति।
१०३१४ न जिह्वाधातुर्न रसधातुर्न जिह्वाविज्ञानधातुर्नित्य इति वा अनित्य
१०३१५ इति वा समनुपश्यति। न जिह्वाधातुर्न रसधातुर्न जिह्वाविज्ञान-
१०३१६ धातुः सुख इति वा दुःख इति वा समनुपश्यति न जिह्वाधातुरात्मेति वा अनात्मेति वा समनुपश्यति। न रसधातुरात्मेति वा अनात्मेति वा समनुपश्यति। न जिह्वाविज्ञानधातुरात्मेति वा अनात्मेति वा समनुपश्यति। न जिह्वाधातुः शान्त इति वाशान्त इति वा समनुपश्यति। न रसधातुः शान्त इति वाशान्त इति वा समनुपश्यति। न जिह्वाविज्ञानधातुः शान्त इति वाशान्त इति वा समनुपश्यति। न जिह्वाधातुः शून्य इति वाशून्य इति वा समनुपश्यति। न रसधातुः शून्य इति वाशून्य इति वा समनुपश्यति। न जिह्वाविज्ञानधातुः शून्य इति वाशून्य इति वा समनुपश्यति। न जिह्वाधातुर्निमित्त इति वानिमित्त इति वा समनुपश्यति। न रसधातुर्निमित्त इति वानिमित्त इति वा समनुपश्यति। न जिह्वाविज्ञानधातुर्निमित्त इति वानिमित्त इति वा समनुपश्यति। न जिह्वाधातुः प्रणिहित इति वाप्रणिहित इति वा समनुपश्यति। न रसधातुः प्रणिहित इति वाप्रणिहित इति वा समनुपश्यति। न जिह्वाविज्ञानधातुः प्रणिहित इति वाप्रणिहित इति वा समनुपश्यति। न जिह्वाधातुः संस्कृत इति वासंस्कृत इति वा समनुपश्यति। न रसधातुः संस्कृत इति वासंस्कृत इति वा समनुपश्यति। न जिह्वाविज्ञानधातुः संस्कृत इति वासंस्कृत इति वा समनुपश्यति। न जिह्वाधातुरुत्पन्न इति वानुत्पन्न इति वा समनुपश्यति। न रसधातुरुत्पन्न इति वानुत्पन्न इति वा समनुपश्यति। न जिह्वाविज्ञानधातुरुत्पन्न इति वानुत्पन्न इति वा समनुपश्यति। न जिह्वाधातुर्निरुद्ध इति वानिरुद्ध इति वा समनुपश्यति। न रसधातुर्निरुद्ध इति वानिरुद्ध इति वा समनुपश्यति। न जिह्वाविज्ञानधातुर्निरुद्ध इति वानिरुद्ध इति वा समनुपश्यति। न जिह्वाधातुर्विविक्त इति वाविविक्त इति वा समनुपश्यति। न रसधातुर्विविक्त इति वाविविक्त इति वा समनुपश्यति। न जिह्वाविज्ञानधातुर्विविक्त इति वाविविक्त इति वा समनुपश्यति। न जिह्वाधातुः कुशल इति वाकुशल इति वा समनुपश्यति। न रसधातुः कुशल इति वाकुशल इति वा समनुपश्यति। न जिह्वाविज्ञानधातुः कुशल इति वाकुशल इति वा समनुपश्यति। न जिह्वाधातुः सावद्य इति वानसावद्य इति वा समनुपश्यति। न रसधातुः सावद्य इति वानसावद्य इति वा समनुपश्यति। न जिह्वाविज्ञानधातुः सावद्य इति वानसावद्य इति वा समनुपश्यति। न जिह्वाधातुः
सास्रव इति वानास्रव इति वा समनुपश्यति। न रसधातुः सास्रव इति वानास्रव इति वा समनुपश्यति। न जिह्वाविज्ञानधातुः सास्रव इति वानास्रव इति वा समनुपश्यति। न जिह्वाधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति। न रसधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति। न जिह्वाविज्ञानधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति। न जिह्वाधातुर्लौकिक इति वा लोकोत्तर इति वा समनुपश्यति। न रसधातुर्लौकिक इति वा लोकोत्तर इति वा समनुपश्यति। न जिह्वाविज्ञानधातुर्लौकिक इति वा लोकोत्तर इति वा समनुपश्यति। न जिह्वाधातुः संक्लेश इति वा व्यवदान इति वा समनुपश्यति। न रसधातुः संक्लेश इति वा व्यवदान इति वा समनुपश्यति। न जिह्वाविज्ञानधातुः संक्लेश इति वा व्यवदान इति वा समनुपश्यति। न जिह्वाधातुः संसार इति वा निर्वाण इति वा समनुपश्यति। न रसधातुः संसार इति वा निर्वाण इति वा समनुपश्यति। न जिह्वाविज्ञानधातुः संसार इति वा निर्वाण इति वा समनुपश्यति। न काय-
१०३१७ धातुर्न स्प्रष्टव्यधातुर्न कायविज्ञानधातुर्नित्य इति वा अनित्य इति
१०३१८ वा समनुपश्यति। न कायधातुर्न स्प्रष्टव्यधातुर्न कायविज्ञानधातुः
१०३१९ सुख इति वा दुःख इति वा समनुपश्यति न कायधातुरात्मेति वा अनात्मेति वा समनुपश्यति। न स्प्रष्टव्यधातुरात्मेति वा अनात्मेति वा समनुपश्यति। न कायविज्ञानधातुरात्मेति वा अनात्मेति वा समनुपश्यति। न कायधातुः शान्त इति वाशान्त इति वा समनुपश्यति। न स्प्रष्टव्यधातुः शान्त इति वाशान्त इति वा समनुपश्यति। न कायविज्ञानधातुः शान्त इति वाशान्त इति वा समनुपश्यति। न कायधातुः शून्य इति वाशून्य इति वा समनुपश्यति। न स्प्रष्टव्यधातुः शून्य इति वाशून्य इति वा समनुपश्यति। न कायविज्ञानधातुः शून्य इति वाशून्य इति वा समनुपश्यति। न कायधातुर्निमित्त इति वानिमित्त इति वा समनुपश्यति। न स्प्रष्टव्यधातुर्निमित्त इति वानिमित्त इति वा समनुपश्यति। न कायविज्ञानधातुर्निमित्त इति वानिमित्त इति वा समनुपश्यति। न कायधातुः प्रणिहित इति वाप्रणिहित इति वा समनुपश्यति। न स्प्रष्टव्यधातुः प्रणिहित इति वाप्रणिहित इति वा समनुपश्यति। न कायविज्ञानधातुः प्रणिहित इति वाप्रणिहित इति वा समनुपश्यति। न कायधातुः संस्कृत इति वासंस्कृत इति वा समनुपश्यति। न स्प्रष्टव्यधातुः संस्कृत इति वासंस्कृत इति वा समनुपश्यति। न कायविज्ञानधातुः संस्कृत इति वासंस्कृत इति वा समनुपश्यति। न कायधातुरुत्पन्न इति वानुत्पन्न इति वा समनुपश्यति। न स्प्रष्टव्यधातुरुत्पन्न इति वानुत्पन्न इति वा समनुपश्यति। न कायविज्ञानधातुरुत्पन्न इति वानुत्पन्न इति वा समनुपश्यति। न कायधातुर्निरुद्ध इति वानिरुद्ध इति वा समनुपश्यति। न स्प्रष्टव्यधातुर्निरुद्ध इति वानिरुद्ध इति वा समनुपश्यति। न कायविज्ञानधातुर्निरुद्ध इति वानिरुद्ध इति वा समनुपश्यति। न कायधातुर्विविक्त इति वाविविक्त इति वा समनुपश्यति। न स्प्रष्टव्यधातुर्विविक्त इति वाविविक्त इति वा समनुपश्यति। न कायविज्ञानधातुर्विविक्त इति वाविविक्त इति वा समनुपश्यति। न कायधातुः कुशल इति वाकुशल इति वा समनुपश्यति। न स्प्रष्टव्यधातुः कुशल इति वाकुशल इति वा समनुपश्यति। न कायविज्ञानधातुः कुशल इति वाकुशल इति वा समनुपश्यति। न कायधातुः सावद्य इति वानसावद्य इति वा समनुपश्यति। न
स्प्रष्टव्यधातुः सावद्य इति वानसावद्य इति वा समनुपश्यति। न कायविज्ञानधातुः सावद्य इति वानसावद्य इति वा समनुपश्यति। न कायधातुः सास्रव इति वानास्रव इति वा समनुपश्यति। न स्प्रष्टव्यधातुः सास्रव इति वानास्रव इति वा समनुपश्यति। न कायविज्ञानधातुः सास्रव इति वानास्रव इति वा समनुपश्यति। न कायधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति। न स्प्रष्टव्यधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति। न कायविज्ञानधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति। न कायधातुर्लौकिक इति वा लोकोत्तर इति वा समनुपश्यति। न स्प्रष्टव्यधातुर्लौकिक इति वा लोकोत्तर इति वा समनुपश्यति। न कायविज्ञानधातुर्लौकिक इति वा लोकोत्तर इति वा समनुपश्यति। न कायधातुः संक्लेश इति वा व्यवदान इति वा समनुपश्यति। न स्प्रष्टव्यधातुः संक्लेश इति वा व्यवदान इति वा समनुपश्यति। न कायविज्ञानधातुः संक्लेश इति वा व्यवदान इति वा समनुपश्यति। न कायधातुः संसार इति वा निर्वाण इति वा समनुपश्यति। न स्प्रष्टव्यधातुः संसार इति वा निर्वाण इति वा समनुपश्यति। न कायविज्ञानधातुः संसार इति वा निर्वाण इति वा समनुपश्यति न मनोधातुर्न
१०३२० धर्मधातुर्न मनोविज्ञानधातुर्नित्य इति वा अनित्य इति वा समनु-

१०४०१ पश्यति। न मनोधातुर्न धर्मधातुर्न मनोविज्ञानधातुः सुख इति वा
१०४०२ दुःख इति वा समनुपश्यति न मनोधातुरात्मेति वा अनात्मेति वा समनुपश्यति। न धर्मधातुरात्मेति वा अनात्मेति वा समनुपश्यति। न मनोविज्ञानधातुरात्मेति वा अनात्मेति वा समनुपश्यति। न मनोधातुः शान्त इति वाशान्त इति वा समनुपश्यति। न धर्मधातुः शान्त इति वाशान्त इति वा समनुपश्यति। न मनोविज्ञानधातुः शान्त इति वाशान्त इति वा समनुपश्यति। न मनोधातुः शून्य इति वाशून्य इति वा समनुपश्यति। न धर्मधातुः शून्य इति वाशून्य इति वा समनुपश्यति। न मनोविज्ञानधातुः शून्य इति वाशून्य इति वा समनुपश्यति। न मनोधातुर्निमित्त इति वानिमित्त इति वा समनुपश्यति। न धर्मधातुर्निमित्त इति वानिमित्त इति वा समनुपश्यति। न मनोविज्ञानधातुर्निमित्त इति वानिमित्त इति वा समनुपश्यति। न मनोधातुः प्रणिहित इति वाप्रणिहित इति वा समनुपश्यति। न धर्मधातुः प्रणिहित इति वाप्रणिहित इति वा समनुपश्यति। न मनोविज्ञानधातुः प्रणिहित इति वाप्रणिहित इति वा समनुपश्यति। न मनोधातुः संस्कृत इति वासंस्कृत इति वा समनुपश्यति। न धर्मधातुः संस्कृत इति वासंस्कृत इति वा समनुपश्यति। न मनोविज्ञानधातुः संस्कृत इति वासंस्कृत इति वा समनुपश्यति। न मनोधातुरुत्पन्न इति वानुत्पन्न इति वा समनुपश्यति। न धर्मधातुरुत्पन्न इति वानुत्पन्न इति वा समनुपश्यति। न मनोविज्ञानधातुरुत्पन्न इति वानुत्पन्न इति वा समनुपश्यति। न मनोधातुर्निरुद्ध इति वानिरुद्ध इति वा समनुपश्यति। न धर्मधातुर्निरुद्ध इति वानिरुद्ध इति वा समनुपश्यति। न मनोविज्ञानधातुर्निरुद्ध इति वानिरुद्ध इति वा समनुपश्यति। न मनोधातुर्विविक्त इति वाविविक्त इति वा समनुपश्यति। न धर्मधातुर्विविक्त इति वाविविक्त इति वा समनुपश्यति। न मनोविज्ञानधातुर्विविक्त इति वाविविक्त इति वा समनुपश्यति। न मनोधातुः कुशल इति वाकुशल इति वा समनुपश्यति। न धर्मधातुः कुशल इति वाकुशल इति वा समनुपश्यति। न मनोविज्ञानधातुः कुशल इति वाकुशल इति वा समनुपश्यति। न मनोधातुः सावद्य इति वानसावद्य इति वा समनुपश्यति। न धर्मधातुः सावद्य इति वानसावद्य इति वा समनुपश्यति। न मनोविज्ञानधातुः सावद्य इति वानसावद्य इति वा समनुपश्यति। न
मनोधातुः सास्रव इति वानास्रव इति वा समनुपश्यति। न धर्मधातुः सास्रव इति वानास्रव इति वा समनुपश्यति। न मनोविज्ञानधातुः सास्रव इति वानास्रव इति वा समनुपश्यति। न मनोधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति। न धर्मधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति। न मनोविज्ञानधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति। न मनोधातुर्लौकिक इति वा लोकोत्तर इति वा समनुपश्यति। न धर्मधातुर्लौकिक इति वा लोकोत्तर इति वा समनुपश्यति। न मनोविज्ञानधातुर्लौकिक इति वा लोकोत्तर इति वा समनुपश्यति। न मनोधातुः संक्लेश इति वा व्यवदान इति वा समनुपश्यति। न धर्मधातुः संक्लेश इति वा व्यवदान इति वा समनुपश्यति। न मनोविज्ञानधातुः संक्लेश इति वा व्यवदान इति वा समनुपश्यति। न मनोधातुः संसार इति वा निर्वाण इति वा समनुपश्यति। न धर्मधातुः संसार इति वा निर्वाण इति वा समनुपश्यति। न मनोविज्ञानधातुः संसार इति वा निर्वाण इति वा समनुपश्यति।
१०४०३ यदपि चक्षुरूपचक्षुर्विज्ञानसंस्पर्शप्रत्ययादुत्पद्यते वेदयितं सुखं वा
१०४०४ दुःखं वा अदुःखासुखं वा तदपि न नित्यमिति वा नानित्यमिति वा
१०४०५ समनुपश्यति। एवं न सुखमिति वा न दुःखमिति वा समनुपश्यति।
१०४०६ नात्मेति वा नानात्मेति वा समनुपश्यति न शान्तमिति वा नाशान्तमिति वा समनुपश्यति। न शून्यमिति वा नाशून्यमिति वा समनुपश्यति। न निमित्तमिति वा नानिमित्तमिति वा समनुपश्यति। न प्रणिहितमिति वा नाप्रणिहितमिति वा समनुपश्यति। न संस्कृतमिति वा नासंस्कृतमिति वा समनुपश्यति। नोत्पन्नमिति वा नानुत्पन्नमिति वा समनुपश्यति। न निरुद्धमिति वा नानिरुद्धमिति वा समनुपश्यति। न विविक्तमिति वा नाविविक्तमिति वा समनुपश्यति। न कुशलमिति वा नाकुशलमिति वा समनुपश्यति। न सावद्यमिति वा नानवद्यमिति वा समनुपश्यति। न सास्रवमिति वा नानास्रवमिति वा समनुपश्यति। न संक्लेशमिति वा न निःक्लेशमिति वा समनुपश्यति। न लौकिकमिति वा न लोकोत्तरमिति वा समनुपश्यति। न संक्लेशमिति वा न व्यवदाणमिति वा समनुपश्यति। न संसारमिति वा न निर्वानमिति वा समनुपश्यति। यदपि श्रोत्रशब्दश्रोत्र-
१०४०७ विज्ञानसंस्पर्शप्रत्ययादुत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा
१०४०८ तदपि न नित्यमिति वा नानित्यमिति वा समनुपश्यति न शान्तमिति वा नाशान्तमिति वा समनुपश्यति। न शून्यमिति वा नाशून्यमिति वा समनुपश्यति। न निमित्तमिति वा नानिमित्तमिति वा समनुपश्यति। न प्रणिहितमिति वा नाप्रणिहितमिति वा समनुपश्यति। न संस्कृतमिति वा नासंस्कृतमिति वा समनुपश्यति। नोत्पन्नमिति वा नानुत्पन्नमिति वा समनुपश्यति। न निरुद्धमिति वा नानिरुद्धमिति वा समनुपश्यति। न विविक्तमिति वा नाविविक्तमिति वा समनुपश्यति। न कुशलमिति वा नाकुशलमिति वा समनुपश्यति। न सावद्यमिति वा नानवद्यमिति वा समनुपश्यति। न सास्रवमिति वा नानास्रवमिति वा समनुपश्यति। न संक्लेशमिति वा न निःक्लेशमिति वा समनुपश्यति। न लौकिकमिति वा न लोकोत्तरमिति वा समनुपश्यति। न संक्लेशमिति वा न व्यवदाणमिति वा समनुपश्यति। न संसारमिति वा न निर्वानमिति वा समनुपश्यति। यदपि घ्राणगन्ध-
१०४०९ घ्राणविज्ञानसंस्पर्शप्रत्ययादुत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखा-
१०४१० सुखं वा तदपि न नित्यमिति वा नानित्यमिति वा समनुपश्यति न शान्तमिति वा नाशान्तमिति वा समनुपश्यति। न शून्यमिति वा नाशून्यमिति वा समनुपश्यति। न निमित्तमिति वा नानिमित्तमिति वा समनुपश्यति। न प्रणिहितमिति वा नाप्रणिहितमिति वा समनुपश्यति। न संस्कृतमिति वा नासंस्कृतमिति वा समनुपश्यति। नोत्पन्नमिति वा नानुत्पन्नमिति वा समनुपश्यति। न निरुद्धमिति वा नानिरुद्धमिति वा समनुपश्यति। न विविक्तमिति वा नाविविक्तमिति वा समनुपश्यति। न कुशलमिति वा नाकुशलमिति वा समनुपश्यति। न सावद्यमिति वा नानवद्यमिति वा समनुपश्यति। न सास्रवमिति वा नानास्रवमिति वा समनुपश्यति। न संक्लेशमिति वा न निःक्लेशमिति वा समनुपश्यति। न लौकिकमिति वा न लोकोत्तरमिति वा समनुपश्यति। न संक्लेशमिति वा न व्यवदाणमिति वा समनुपश्यति। न संसारमिति वा न निर्वानमिति वा समनुपश्यति। यदपि
१०४११ जिह्वारसजिह्वाविज्ञानसंस्पर्शप्रत्ययादुत्पद्यते वेदयितं सुखं वा दुःखं
१०४१२ वा अदुःखासुखं वा तदपि न नित्यमिति वा नानितय्मिति वा समनुपश्यति न शान्तमिति वा नाशान्तमिति वा समनुपश्यति। न शून्यमिति वा नाशून्यमिति वा समनुपश्यति। न निमित्तमिति वा नानिमित्तमिति वा समनुपश्यति। न प्रणिहितमिति वा नाप्रणिहितमिति वा समनुपश्यति। न संस्कृतमिति वा नासंस्कृतमिति वा समनुपश्यति। नोत्पन्नमिति वा नानुत्पन्नमिति वा समनुपश्यति। न निरुद्धमिति वा नानिरुद्धमिति वा समनुपश्यति। न विविक्तमिति वा नाविविक्तमिति वा समनुपश्यति। न कुशलमिति वा नाकुशलमिति वा समनुपश्यति। न सावद्यमिति वा नानवद्यमिति वा समनुपश्यति। न सास्रवमिति वा नानास्रवमिति वा समनुपश्यति। न संक्लेशमिति वा न निःक्लेशमिति वा समनुपश्यति। न लौकिकमिति वा न लोकोत्तरमिति वा समनुपश्यति। न संक्लेशमिति वा न व्यवदाणमिति वा समनुपश्यति। न संसारमिति वा न निर्वानमिति वा समनुपश्यति।
१०४१३ यदपि कायस्प्रष्टव्यकायविज्ञानसंस्पर्शप्रत्ययादुत्पद्यते वेदयितं सुखं वा
१०४१४ दुःखं वा अदुःखासुखं वा तदपि न नित्यमिति वा नानित्यमिति
१०४१५ वा समनुपश्यति। न सुखमिति न दुःखमिति नात्मेति नानात्मेति
१०४१६ समनुपश्यति न शान्तमिति वा नाशान्तमिति वा समनुपश्यति। न शून्यमिति वा नाशून्यमिति वा समनुपश्यति। न निमित्तमिति वा नानिमित्तमिति वा समनुपश्यति। न प्रणिहितमिति वा नाप्रणिहितमिति वा समनुपश्यति। न संस्कृतमिति वा नासंस्कृतमिति वा समनुपश्यति। नोत्पन्नमिति वा नानुत्पन्नमिति वा समनुपश्यति। न निरुद्धमिति वा नानिरुद्धमिति वा समनुपश्यति। न विविक्तमिति वा नाविविक्तमिति वा समनुपश्यति। न कुशलमिति वा नाकुशलमिति वा समनुपश्यति। न सावद्यमिति वा नानवद्यमिति वा समनुपश्यति। न सास्रवमिति वा नानास्रवमिति वा समनुपश्यति। न संक्लेशमिति वा न निःक्लेशमिति वा समनुपश्यति। न लौकिकमिति वा न लोकोत्तरमिति वा समनुपश्यति। न संक्लेशमिति वा न व्यवदाणमिति वा समनुपश्यति। न संसारमिति वा न निर्वानमिति वा समनुपश्यति। यदपि कायस्प्रष्टव्यकायविज्ञानसंस्पर्शप्रत्ययादुत्पद्यते वेदयितं
१०४१७ सुखं वा दुःखं वा अदुःखासुखं वा। तदपि न संसारमिति वा न
१०४१८ निर्वाणमिति वा समनुपश्यति। यदपि मनोधर्ममनोविज्ञानसंस्पर्श-
१०४१९ प्रत्ययादुत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा तदपि
१०४२० न नित्यमिति वा नानित्यमिति वा समनुपश्यति। न सुखमिति
१०४२१ न दुःखमिति नात्मेति नानात्मेति समनुपश्यति न शान्तमिति वा नाशान्तमिति वा समनुपश्यति। न शून्यमिति वा नाशून्यमिति वा समनुपश्यति। न निमित्तमिति वा नानिमित्तमिति वा समनुपश्यति। न प्रणिहितमिति वा नाप्रणिहितमिति वा समनुपश्यति। न संस्कृतमिति वा नासंस्कृतमिति वा समनुपश्यति। नोत्पन्नमिति वा नानुत्पन्नमिति वा समनुपश्यति। न निरुद्धमिति वा नानिरुद्धमिति वा समनुपश्यति। न विविक्तमिति वा नाविविक्तमिति वा समनुपश्यति। न कुशलमिति वा नाकुशलमिति वा समनुपश्यति। न सावद्यमिति वा नानवद्यमिति वा समनुपश्यति। न सास्रवमिति वा नानास्रवमिति वा समनुपश्यति। न संक्लेशमिति वा न निःक्लेशमिति वा समनुपश्यति। न लौकिकमिति वा न लोकोत्तरमिति वा समनुपश्यति। न संक्लेशमिति वा न व्यवदाणमिति वा समनुपश्यति। न संसारमिति वा न निर्वानमिति वा समनुपश्यति।॥ [इति
१०४२२ दुःखेऽन्वयज्ञानक्षान्तिः॥]

१०५०१ तत्कस्य हेतोः। तथा हि बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां
१०५०२ चरन् प्रज्ञापारमितां प्रज्ञापारमितानाम तं च बोधिसत्त्वं तत्च
१०५०३ बोधिसत्त्वनाम न समनुपश्यति। संस्कृते वा धातावसंस्कृते वा धातौ
१०५०४ तथा हि सुभूते बोधिसत्त्वः प्रज्ञापारमितायां चरन्नैतान् सर्वधर्मान्
१०५०५ कल्पयति न विकल्पयति। सोऽविकल्पे धर्मे स्थित्वा स्मृत्युपस्थानानि
१०५०६ भावयति। प्रज्ञापारमितायां चरन्न प्रज्ञापारमितां नापि प्रज्ञापार-
१०५०७ मितानाम समनुपश्यति। न बोधिसत्त्वं नापि बोधिसत्त्वनाम समनु-
१०५०८ पश्यति। एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गपारमिता-
१०५०९ तथागतबलवैशारद्यप्रतिसंविदष्टादशावेणिकान् बुद्धधर्मान् भावयति
१०५१० प्रज्ञापारमितायां चरन्न प्रज्ञापारमितां नापि प्रज्ञापारमितानाम समनुपश्यति। न बोधिसत्त्वं नापि बोधिसत्त्वनाम समनुपश्यति अन्यत्र सर्वाकारज्ञता
१०५११ मनसिकारात् ॥ [इति दुःखेऽन्वयज्ञानम्॥]
१०५१२ तथा हि तेन प्रज्ञापारमितायां चरता धर्मलक्षणं प्रतिविद्धं भवति।
१०५१३ यच्च धर्माणां लक्षणं तन्न संक्लिश्यते न व्यवदायत् एवं हि सुभूते
१०५१४ {बोधिसत्त्वेन} महासत्त्वेन प्रज्ञापारमितायां चरता नामसांकेतिकी धर्मप्रज्ञप्ति-
१०५१५ रनुबोद्धव्या॥ [इति समुदये धर्मक्षान्तिः॥]
१०५१६ स नामसांकेतिक्या धर्मप्रज्ञप्त्या अवबुध्य न रूपमभिनिवेक्ष्यते न
१०५१७ वेदनाम् {अभिनिवेक्ष्यते}। न संज्ञाम् {अभिनिवेक्यते}। न संस्कारान् {अभिनिवेक्ष्यते}। न विज्ञानम् {अभिनिवेक्ष्यते}।

१०६०१ न चक्षुर्{अभिनिवेक्ष्यते}। न रूपम् {अभिनिवेक्ष्यते}। न चक्षुर्विज्ञानम् {अभिनिवेक्ष्यते}। न चक्षुःसंस्पर्श-
१०६०२ म् {अभिनिवेक्ष्यते}। यदपि चक्षुःसंस्पर्शप्रत्ययोत्पन्नं वेदयितं सुखं वा दुःखं वा अ-
१०६०३ दुःखासुखं वा तदपि {नाभिनिवेक्ष्यते}। न श्रोत्रम् {अभिनिवेक्ष्यते} न शब्दं न श्रोत्रविज्ञानं न
१०६०४ श्रोत्रसंस्पर्शं यदपि श्रोत्रसंस्पर्शप्रत्ययोत्पन्नं वेदयितं सुखं वा दुःखं वा
१०६०५ अदुःखासुखं वा तदपि {नाभिनिवेक्ष्यते}। न घ्राणमभिनिवेक्ष्यते न गन्धं न घ्राणविज्ञानं न घ्राणसंस्पर्शं यदपि घ्राणसंस्पर्शप्रत्ययोत्पन्नं वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा तदपि नाभिनिवेक्ष्यत् न जिह्वामभिनिवेक्ष्यते न रसं न जिह्वाविज्ञानं न जिह्वासंस्पर्शं यदपि जिह्वासंस्पर्शप्रत्ययोत्पन्नं वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा तदपि नाभिनिवेक्ष्यत्
१०६०६ न कायमभिनिवेक्ष्यते न स्प्रष्टव्यं न कायं न कायविज्ञानं न कायसंस्पर्शं यदपि कायसंस्पर्शप्रत्ययोत्पन्नं वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा तदपि नाभिनिवेक्ष्यत् न मनो अभिनिवेक्ष्यते न धर्मं न मनोविज्ञानं न मनःसंस्पर्शं यदपि मनःसंस्पर्शप्रत्ययोत्पन्नं वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा तदपि नाभिनिवेक्ष्यत्। नापि संस्कृतधातुम् {अभिनिवेक्ष्यते}। नाप्यसंस्कृतधातुम् {अभिनिवेक्ष्यते}॥
१०६०७ [इति समुदये धरम्ज्ञानम्॥]
१०६०८ स न दानपारमितामभिनिवेक्ष्यत् न शील{पारमितामभिनिवेक्ष्यते}। न क्षान्ति-
१०६०९ {पारमितामभिनिवेक्ष्यते}। न वीर्य{पारमितामभिनिवेक्ष्यते}। न ध्यान{पारमितामभिनिवेक्ष्यते}। न प्रज्ञा{पारमितामभिनिवेक्ष्यते}। न नामापि
१०६१० न लक्षणमपि तासामभिनिवेक्ष्यत् न कायेऽभिनिवेक्ष्यत् ना मांस-
१०६११ चक्षुष्य्{अभिनिवेक्ष्यते}। न दिव्यचक्षुष्य्{अभिनिवेक्ष्यते}। न प्रज्ञाचक्षुष्य्{अभिनिवेक्ष्यते}। न धर्मचक्षु-
१०६१२ ष्य्{अभिनिवेक्ष्यते}। न बुद्धचक्षुष्य्{अभिनिवेक्ष्यते}। नाभिज्ञास्व्{अभिनिवेक्ष्यते}। नाध्यात्मशून्यताया-
१०६१३ म् {अभिनिवेक्ष्यते}। न बहिर्धाशून्यतायाम् {अभिनिवेक्ष्यते}। नाध्यात्मबहिर्धाशून्यतायाम् {अभिनिवेक्ष्यते}।
१०६१४ न शून्यताशून्यतायां न महाशून्यतायां न परमार्थशून्यतायां न संस्कृत-
१०६१५ शून्यतायां नासंस्कृतशून्यतायां नात्यन्तशून्यतायां नानवराग्रशून्यतायां
१०६१६ नानवकारशून्यतायां न प्रकृतिशून्यतायां न सर्वधर्मशून्यतायां न स्वल-
१०६१७ क्षणशून्यतायां नानुपलम्भशून्यतायां नाभावस्वभावशून्यतायां न भावशून्य-

१०७०१ तायां नाभावशून्यतायां न स्वभावशून्यतायां न परभावशून्यताया-
१०७०२ मभिनिवेक्ष्यत् न तथतायां न भूतकोट्यां न धर्मधातौ न सत्त्व-
१०७०३ परिपाके न बुद्धक्षेत्रपरिशुद्धौ नोपायकौशल्येऽभिनिवेक्ष्यत् तत्
१०७०४ कस्य हेतोः। तथा हि ते सर्वधर्मा न संविद्यन्ते यश्चाभिनिविक्शेत् येन
१०७०५ चाभिनिविशेत यत्र चाभिनिविशेत् । [इति समुदयेऽन्वयज्ञानक्षान्तिः॥]
१०७०६ एवं हि सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ्चरन्ननभि-
१०७०७ निविष्टः सर्वधर्मेषु दानपारमितया विवर्द्धत् शील{पारमितया विवर्द्धते}। क्षान्ति{पारमितया विवर्द्धते}।
१०७०८ वीर्य{पारमितया विवर्द्धते}। ध्यान{पारमितया विवर्द्धते}। प्रज्ञा{पारमितया विवर्द्धते}। बोधिसत्त्वनियाममवक्रामति॥
१०७०९ [इति समुदयेऽन्वयज्ञानम्॥]
१०७१० एवं हि सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्नविनिवर्त-
१०७११ नीयां भूमिमवक्रामति॥ [इति निरोधे धरम्ज्ञानक्षान्तिः॥]
१०७१२ एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वोऽभिज्ञाः परिपूरयति।
१०७१३ अभिज्ञाः परिपूर्य बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामति सत्वांश्च परिपाचयति
१०७१४ बुद्धांश्च भगवतः सत्करोति गुरूकरोति मानयति तेनैव कुशलमूलेन
१०७१५ तेषां बुद्धानां भगवतां चान्तिक उपपद्यते धर्मं च शृणोति श्रुताश्चास्य
१०७१६ धर्मा न जातूच्छेत्स्यन्ते यावदा बोधिमण्डादिति धारणीमुखानि
१०७१७ प्रतिलप्स्यते समाधिमुखानि प्रतिलप्स्यत् एवं हि सुभूते {बोधिसत्त्वेन}
१०७१८ महासत्त्वेन र्पज्ञापारमितायां चरता नामसांकेतिकी धर्मप्रज्ञप्तिरनु-
१०७१९ बोद्धव्या॥ [इति निरोधे धर्मज्ञानम्॥]

१०८०१ तत्किं मन्यसे सुभूते यदुच्यते {बोधिसत्त्वो} महासत्त्व इति अपि तु
१०८०२ रूपं बोधिसत्त्व इति। वेदना बोधिसत्त्व इति। संज्ञा {बोधिसत्त्व इति}।
१०८०३ संस्कारा {बोधिसत्त्व इति}। विज्ञानं {बोधिसत्त्व इति}। तत्किं मन्यसे सुभूतेऽन्यत्र रूपाद्बोधि-
१०८०४ सत्त्व इति। अन्यत्र वेदनाया {बोधिसत्त्व इति}। अन्यत्र संज्ञाया बोधिसत्त्व इति। अन्यत्र संस्कारेभ्यो बोधिसत्त्व इति। अन्यत्र विज्ञानाद्बोधिसत्त्व इति। तत्किं मन्यसे सुभूते रूपे
१०८०५ बोधिसत्त्व इति। वेदनायां {बोधिसत्त्व इति}। संज्ञायां बोधिसत्त्व इति। संस्कारेषु बोधिसत्त्व इति। विज्ञाने बोधिसत्त्व इति। तत्किं मन्यसे सुभूते
१०८०६ बोधिसत्त्वे रूपमिति। बोधिसत्त्वे वेदनेति। बोधिसत्त्वे संज्ञेति। बोधिसत्त्वे संस्कारा इति। बोधिसत्त्वे विज्ञानमिति। तत्किं मन्यसे
१०८०७ सुभूते अरूपो {बोधिसत्त्व इति}। अवेदना {बोधिसत्त्व इति}। असंज्ञा बोधिसत्त्व इति। असंस्कारा बोधिसत्त्व इति। अविज्ञानं बोधिसत्त्व इति। तत्किं मन्यसे सुभूते
१०८०८ चक्षुर्बोधिसत्त्वोऽन्यत्र चक्षुषश्चक्षुषि बोधिसत्त्वो बोधिसत्त्वे चक्षुरचक्षुष्को
१०८०९ बोधिसत्त्व इति। श्रोत्रं बोधिसत्त्वोऽन्यत्र श्रोत्राच्छ्रोत्रे बोधिसत्त्वो
१०८१० बोधिसत्त्वे श्रोत्रमश्रोत्रो बोधिसत्त्व इति।
१०८११ घ्राणं बोधिसत्त्वोऽन्यत्र घ्राणाच्घ्राणे बोधिसत्त्वो बोधिसत्त्वे घ्राणमघ्राणो बोधिसत्त्व इति। जिह्वा बोधिसत्त्वोऽन्यत्र जिह्वाया जिह्वायां बोधिसत्त्वो बोधिसत्त्वे जिह्वा अजिह्वो बोधिसत्त्व इति। कायो बोधिसत्त्वोऽन्यत्र कायात्काये बोधिसत्त्वो बोधिसत्त्वे कायोऽकायो बोधिसत्त्व इति। मनो बोधिसत्त्वोऽन्यत्र मनसो मनसि बोधिसत्त्वो बोधिसत्त्वे मनोऽमनना बोधिसत्त्व इति। सुभूतिराह् नो हीदं भगवन्।
१०८१२ भगवानाह् तत्किं मन्यसे सुभूते रूपं बोधिसत्त्वोऽन्यत्र रूपाद्रूपे
१०८१३ बोधिसत्त्वो बोधिसत्त्वे रूपमरूपो बोधिसत्त्व इति।
१०८१४ शब्दो बोधिसत्त्वोऽन्यत्र शब्दात्शब्दे बोधिसत्त्वो बोधिसत्त्वे शब्दो अशब्दो बोधिसत्त्व इति। गन्धो बोधिसत्त्वोऽन्यत्र गन्धाद्गन्धे बोधिसत्त्वो बोधिसत्त्वे गन्धो अगन्धो बोधिसत्त्व इति। रसो बोधिसत्त्वोऽन्यत्र रसाद्रसे बोधिसत्त्वो बोधिसत्त्वे रसो अरसो बोधिसत्त्व इति। स्पर्शो बोधिसत्त्वोऽन्यत्र स्पर्शाद्स्पर्शे बोधिसत्त्वो बोधिसत्त्वे स्पर्शो अस्पर्शो बोधिसत्त्व इति। धर्मो बोधिसत्त्वोऽन्यत्र धर्माद्धर्मे बोधिसत्त्वो बोधिसत्त्वे धर्मो अधर्मो बोधिसत्त्व इति। तत्किं मन्यसे सुभूते
१०८१५ चक्षूरूपचक्षुर्विज्ञानानि बोधिसत्त्वोऽन्यत्र एभ्य एषु सः। एतानि
१०८१६ तस्मिन् विना चक्षूरूपचक्षुर्विज्ञानैर्बोधिसत्त्व इति। तत्किं मन्यसे

१०९०१ सुभूते श्रोत्रशब्दश्रोत्रविज्ञानानि बोधिसत्त्वो अन्यत्र एभ्य एषु सः।
१०९०२ एतानि तस्मिन् विना श्रोत्रशब्दश्रोत्रविज्ञानैर्बोधिसत्त्व इति।
१०९०३ तत्किं मन्यसे सुभूते घ्राणगन्धघ्राणविज्ञानानि बोधिसत्त्वो अन्यत्र एभ्य एषु सः। एतानि तस्मिन् विना घ्राणगन्धघ्राणविज्ञानानैर्बोधिसत्त्व इति। तत्किं मन्यसे सुभूते जिह्वारसजिह्वाविज्ञानानि बोधिसत्त्वो अन्यत्र एभ्य एषु सः। एतानि तस्मिन् विना जिह्वारसजिह्वाविज्ञानानैर्बोधिसत्त्व इति। तत्किं मन्यसे सुभूते कायस्प्रष्टव्यकायविज्ञानानि बोधिसत्त्वो अन्यत्र एभ्य एषु सः। एतानि तस्मिन् विना कायस्प्रष्टव्यकायविज्ञानानैर्बोधिसत्त्व इति।
१०९०४ तत्किं मन्यसे सुभूते मनोधर्ममनोविज्ञानानि बोधिसत्त्वो अन्यत्र एभ्य एषु सः। एतानि तस्मिन् विना मनोधर्ममनोविज्ञानानैर्बोधिसत्त्व इति। सुभूतिराह् नो हीदं भगवन्। भग-
१०९०५ वानाह् तत्किं मन्यसे सुभूते पृथिवीधातुर्बोधिसत्त्वोऽन्यत्र पृथिवी-
१०९०६ धातोस्तत्र बोधिसत्त्व बोधिसत्त्वे पृथिवीधातुरपृथिवीधातुको
१०९०७ बोधिसत्त्व इति। तत्किं मन्यसे सुभूते अब्धातुर्बोधिसत्त्वोऽन्यत्र अब्धातोस्तत्र बोधिसत्त्व बोधिसत्त्वे अब्धातुरनब्धातुको बोधिसत्त्व इति। तत्किं मन्यसे सुभूते तेजोधातुर्बोधिसत्त्वोऽन्यत्र तेजोधातोस्तत्र बोधिसत्त्व बोधिसत्त्वे तेजोधातुरतेजोधातुको बोधिसत्त्व इति। तत्किं मन्यसे सुभूते वायुधातुर्बोधिसत्त्वोऽन्यत्र वायुधातोस्तत्र बोधिसत्त्व बोधिसत्त्वे वायुधातुरवायुधातुको बोधिसत्त्व इति।
१०९०८ तत्किं मन्यसे सुभूते आकाशधातुर्बोधिसत्त्वोऽन्यत्र आकाशधातोस्तत्र बोधिसत्त्व बोधिसत्त्वे आकाशधातुरनाकाशधातुको बोधिसत्त्व इति। तत्किं मन्यसे सुभूते विज्ञानधातुर्बोधिसत्त्वोऽन्यत्र विज्ञानधातोस्तत्र बोधिसत्त्व बोधिसत्त्वे विज्ञानधातुरविज्ञानधातुको बोधिसत्त्व इति। सुभूतिराह् नो हीदं भगवन्।
१०९०९ भगवानाह् तत्किं मन्यसे सुभूते अविद्या बोधिसत्त्वोऽन्यत्राविद्यायाः
१०९१० अविद्यायां बोधिसत्त्वो बोधिसत्तेऽविद्याऽनविद्या बोधिसत्त्व इति। तत्
१०९११ किं मन्यसे सुभूते संस्कारा बोधिसत्त्वोऽन्यत्र संस्कारेभ्यः संस्कारेषु
१०९१२ बोधिसत्त्वो बोधिसत्त्वे संस्कारा असंस्कारा बोधिसत्त्व इति।
१०९१३ तत्किं मन्यसे सुभूते विज्ञानं बोधिसत्त्वोऽन्यत्र विज्ञानाद्विज्ञाने बोधिसत्त्वो बोधिसत्त्वे विज्ञानमविज्ञानं बोधिसत्त्व इति। तत्किं मन्यसे सुभूते नामरूपं बोधिसत्त्वोऽन्यत्र नामरूपाद्नामरूपे बोधिसत्त्वो बोधिसत्त्वे नामरूपमनामरूपं बोधिसत्त्व इति। तत्किं मन्यसे सुभूते षडायतनानि बोधिसत्त्वोऽन्यत्र षडायतनानेभ्यः षडायतनानेषु बोधिसत्त्वो बोधिसत्त्वे षडायतनान्यषडायतनानि बोधिसत्त्व इति। तत्किं मन्यसे सुभूते स्पर्शो बोधिसत्त्वोऽन्यत्र स्पर्शात्स्पर्शे बोधिसत्त्वो बोधिसत्त्वे स्पर्शोऽस्पर्शो बोधिसत्त्व इति। तत्किं मन्यसे सुभूते वेदना बोधिसत्त्वोऽन्यत्र वेदनाया वेदनायां बोधिसत्त्वो बोधिसत्त्वे वेदना अवेदना बोधिसत्त्व इति। तत्किं मन्यसे सुभूते तृष्णा बोधिसत्त्वोऽन्यत्र तृष्णायाः तृष्णायां बोधिसत्त्वो बोधिसत्त्वे तृष्णा अतृष्णा बोधिसत्त्व इति। तत्किं मन्यसे सुभूते उपादानं बोधिसत्त्वोऽन्यत्र उपादानादुपादाने बोधिसत्त्वो बोधिसत्त्वे उपादानमनुपादानं बोधिसत्त्व इति।
१०९१४ तत्किं मन्यसे सुभूते भवो बोधिसत्त्वोऽन्यत्र भवाद्भवे बोधिसत्त्वो बोधिसत्त्वे भवोऽभवो बोधिसत्त्व इति। तत्किं मन्यसे सुभूते जातिर्बोधिसत्त्वोऽन्यत्र जातेर्जातौ बोधिसत्त्वो बोधिसत्त्वे जातिरजातिर्बोधिसत्त्व इति। तत्किं मन्यसे सुभूते जरामरणं बोधिसत्त्वोऽन्यत्र जरामरणाद्जरामरणे बोधिसत्त्वो बोधिसत्त्वे जरामरणमजरामरणं बोधिसत्त्व इति। सुभूतिराह् नो हीदं भगवन्॥ [इति
१०९१५ निरोधेऽन्वयज्ञानक्षान्तिः॥]
१०९१६ भगवानाह् तत्किं मन्यसे सुभूतेऽपि नु या रूपस्य तथता सा
१०९१७ बोधिसत्त्वोऽन्यत्र रूपतथतायां रूपतथतायां बोधिसत्त्वो बोधिसत्त्वे रूप-
१०९१८ तथता अरूपतथता बोधिसत्त्व इति। तत्किं मन्यसे सुभूते या
१०९१९ वेदनातथता सा बोधिसत्त्वोऽन्यत्र वेदनातथताया वेदनातथतायां
१०९२० बोधिसत्त्वो बोधिसत्त्वे वेदनातथता अवेदनातथता बोधिसत्त्व इति।
१०९२१ तत्किं मन्यसे सुभूते या संज्ञातथता सा बोधिसत्त्वोऽन्यत्र संज्ञातथताया संज्ञातथतायां बोधिसत्त्वो बोधिसत्त्वे संज्ञातथता असंज्ञातथता बोधिसत्त्व इति। तत्किं मन्यसे सुभूते या संस्कारतथता सा बोधिसत्त्वोऽन्यत्र संस्कारतथताया संस्कारतथतायां बोधिसत्त्वो बोधिसत्त्वे संस्कारतथता असंस्कारतथता बोधिसत्त्व इति। तत्किं मन्यसे सुभूते या विज्ञानतथता सा बोधिसत्त्वोऽन्यत्र विज्ञानतथताया विज्ञानतथतायां बोधिसत्त्वो बोधिसत्त्वे विज्ञानतथता अविज्ञानतथता बोधिसत्त्व इति।

११००१ सुभूतिराह् नो हीदं भगवन्। भगवानाह् तत्किं मन्यसे सुभूते
११००२ यदि व्यस्तेषु न बोधिसत्त्वः समस्तेषु भवतु या स्कन्धतथता सा
११००३ बोधिसत्त्वोऽन्यत्र स्कन्धतथतायाः स्कन्धतथतायां बोधिसत्त्वो बोधिसत्त्वे
११००४ स्कन्धतथता अस्कन्धतथता बोधिसत्त्व इति। सुभूतिराह् नो हीदं
११००५ भगवन्। भगवानाह् तत्किं मन्यसे सुभूते या चक्षूरूपचक्षु-
११००६ र्विज्ञानतथता सा बोधिसत्त्वोऽन्यत्र चक्षूरूपचक्षुर्विज्ञानतथतायाश्चक्षु-
११००७ रूपचक्षुर्विज्ञानतथतायां बोधिसत्त्वो बोधिसत्त्वे चक्षूरूपचक्षुर्विज्ञान-
११००८ तथता अचक्षूरूपचक्षुर्विज्ञानतथता बोधिसत्त्व इति। एवं श्रोत्रशब्द-
११००९ श्रोत्रविज्ञानतथता, घ्राणगन्धघ्राणविज्ञानतथता, जिह्वारसजिह्वाविज्ञान-
११०१० तथता कायस्प्रष्टव्यकायविज्ञानतथता, मनोधर्मममोविज्ञानतथता॥

११०११ सुभूतिराह् नो हीदं भगवन्। भगवानाह् तत्किं मन्यसे सुभूते या
११०१२ पृथिवीधातुतथता सा बोधिसत्त्वोऽन्यत्र पृथिवीधातुतथतायाः पृथिवी-
११०१३ धातुतथतायां बोधिसत्त्वो बोधिसत्त्वे पृथिवीधातुतथता अपृथिवीधातु-
११०१४ तथता बोधिसत्त्व इति। तत्किं मन्यसे सुभूते या अब्धातुतथता सा बोधिसत्त्वोऽन्यत्र अब्धातुतथताया अब्धातुतथतायां बोधिसत्त्वो बोधिसत्त्वे अब्धातुतथता अनब्धातुतथता बोधिसत्त्व इति। तत्किं मन्यसे सुभूते या तेजोधातुतथता सा बोधिसत्त्वोऽन्यत्र तेजोधातुतथतायाः तेजोधातुतथतायां बोधिसत्त्वो बोधिसत्त्वे तेजोधातुतथता अतेजोधातुतथता बोधिसत्त्व इति।
११०१५ तत्किं मन्यसे सुभूते या वायुधातुतथता सा बोधिसत्त्वोऽन्यत्र वायुधातुतथतायाः वायुधातुतथतायां बोधिसत्त्वो बोधिसत्त्वे वायुधातुतथता अवायुधातुतथता बोधिसत्त्व इति। तत्किं मन्यसे सुभूते याकाशधातुतथता सा बोधिसत्त्वोऽन्यत्र आकाशधातुतथतायाः आकाशधातुतथतायां बोधिसत्त्वो बोधिसत्त्वे आकाशधातुतथता अनाकाशधातुतथता बोधिसत्त्व इति। तत्किं मन्यसे सुभूते विज्ञानधातुतथता सा बोधिसत्त्वोऽन्यत्र विज्ञानधातुतथतायाः विज्ञानधातुतथतायां बोधिसत्त्वो बोधिसत्त्वे विज्ञानधातुतथता अविज्ञानधातुतथता बोधिसत्त्व इति।
११०१६ सुभूतिराह् नो हीदं भगवन्। भगवानाह् तत्किं मन्यसे सुभूते
११०१७ यदि व्यस्तेषु धातुषु न बोधिसत्त्वः समस्तेषु
११०१८ भवतु या धातुतथता सा बोधिसत्त्वोऽन्यत्र धातुतथतायाः धातुतथतायां बोधिसत्त्वो बोधिसत्त्वे धातुतथता अधातुतथता बोधिसत्त्व इति । सुभूतिराह् नो हीदं भगवन्। भग-
११०१९ वानाह् तत्किं मन्यसे सुभूते या चक्षुस्तथता सा बोधिसत्त्वो
११०२०ऽन्यत्र चक्षुस्तथतायाश्चक्षुस्तथतायां बोधिसत्त्वो बोधिसत्त्वे चक्षुस्तथता
११०२१ अचक्षुस्तथता बोधिसत्त्व इति। एवं या श्रोत्रतथता घ्राणतथता जिह्वा-
११०२२ तथता कायतथता। तत्किं मन्यसे सुभूते या मनस्तथता सा बोधि-
११०२३ सत्त्वोऽन्यत्र मनस्तथताया मनस्तथतायां बोधिसत्त्वो बोधिसत्त्वे मनस्तथता

१११०१ अमनस्तथता बोधिसत्त्व इति। तत्किं मन्यसे सुभूते या रूपतथता सा बोधिसत्त्वोऽन्यत्र रूपतथताया रूपतथतायां बोधिसत्त्वो बोधिसत्त्वे रूपतथता अरूपतथता बोधिसत्त्व इति। तत्किं मन्यसे सुभूते या शब्दतथता सा बोधिसत्त्वोऽन्यत्र शब्दतथताया शब्दतथतायां बोधिसत्त्वो बोधिसत्त्वे शब्दतथता अशब्दतथता बोधिसत्त्व इति।
१११०२ तत्किं मन्यसे सुभूते या गन्धतथता सा बोधिसत्त्वोऽन्यत्र गन्धतथताया गन्धतथतायां बोधिसत्त्वो बोधिसत्त्वे गन्धतथता अगन्धतथता बोधिसत्त्व इति। तत्किं मन्यसे सुभूते या रसतथता सा बोधिसत्त्वोऽन्यत्र रसतथताया रसतथतायां बोधिसत्त्वो बोधिसत्त्वे रसतथता अरसतथता बोधिसत्त्व इति। तत्किं मन्यसे सुभूते या स्प्रष्टव्यतथता सा बोधिसत्त्वोऽन्यत्र स्प्रष्टव्यतथताया स्प्रष्टव्यतथतायां बोधिसत्त्वो बोधिसत्त्वे स्प्रष्टव्यतथता अस्प्रष्टव्यतथता बोधिसत्त्व इति। तत्किं मन्यसे सुभूते या धर्मतथता सा बोधिसत्त्वोऽन्यत्र धर्मतथताया धर्मतथतायां बोधिसत्त्वो बोधिसत्त्वे धर्मतथता अधर्मतथता बोधिसत्त्व इति। यदि सुभूते व्यस्तेष्वायतनेषु न
१११०३ बोधिसत्त्वः समस्तेषु भवतु या सुभूते आयतनतथता सा बोधिसत्त्वो
१११०४ऽन्यत्रायतनतथताया आयतनतथतायां बोधिसत्त्वो बोधिसत्त्वे आयतन-
१११०५ तथता अनायतनतथता बोधिसत्त्व इति। {सुभूतिराह् नो हीदं भगवन्}। {भागवानाह् तत्किं मन्यसे सुभूते}। अविद्यातथता
१११०६ सा बोधिसत्त्वोऽन्यत्राविद्यातथताया अविद्यातथतायां बोधिसत्त्वो
१११०७ बोधिसत्त्वे अविद्यातथता अनविद्यातथता बोधिसत्त्वः। एवं या
१११०८ संस्कारतथता विज्ञानतथता नामरूपतथता षडायतनतथता स्पर्श-
१११०९ तथता वेदनातथता तृष्णातथता उपादानतथता भवतथता जातितथता
११११० जरामरणतथता। यदि व्यस्तेषु प्रतीत्यसमुत्पादाङ्गेषु न बोधिसत्त्वः
१११११ समस्तेषु भवतु या प्रतीत्यसमुत्पादतथता बोधिसत्त्वोऽन्यत्र प्रतीत्य-
११११२ समुत्पादतथतायाः प्रतीत्यसमुत्पादतथतायां बोधिसत्त्वो बोधिसत्त्वे
११११३ प्रतीत्यसमुत्पादतथता अप्रतीत्यसमुत्पादतथता बोधिसत्त्व इति। {सुभूतिराह् नो हीदं भगवन्}।
११११४ किं पुनस्त्वं सुभूतेऽर्थवशमुपादायेवं वदसि। न रूपं बोधिसत्त्व
११११५ इति न वेदना न संज्ञा न संस्कारा न विज्ञानं, न पृथिवीधातुर्नाब्धातुर्न
११११६ तेजोधातुर्न वायुधातुर्नाकाशधातुर्न विज्ञानधातुः, न रूपाणि न शब्दा न
११११७ गन्धा न रसा न स्प्रष्टव्यानि न धर्माः, न चक्षुर्न श्रोत्रं न घ्राणं न जिह्वा न
११११८ कायो न मनः, न चक्षूरूपचक्षुर्विज्ञानं न श्रोत्रशब्दश्रोत्रविज्ञानं न
११११९ घ्राणगन्धघ्राणविज्ञानं न जिह्वारसजिह्वाविज्ञानं न कायस्प्रष्टव्यकाय-
१११२० विज्ञानं न मनोधर्ममनोविज्ञानं नाविद्या एवं न संस्कारविज्ञाननामरूप-
१११२१ षडायतनस्पर्शवेदनातृष्णोपादानभवजातिजरामरणं बोधिसत्त्व इति
१११२२ यावन्न स्कन्धधात्वायतनप्रतीत्यसमुत्पादो बोधिसत्त्व इति। न रूप-

११२०१ तथता बोधिसत्त्व इति। न वेदनातथता न संज्ञातथता न संस्कारतथता न विज्ञानतथता,
११२०२ न पृथिवीधातुतथता नाब्धातुतथता न तेजोधातुतथता न वायुधातुतथता नाकाशधातुतथता न विज्ञानधातुतथता, न चक्षूस्तथता
११२०३ न श्रोत्रतथता न घ्राणतथता न जिह्वातथता न कायतथता न मनस्तथता न रूपतथता न शब्दतथता न गन्धतथता न रसतथता न स्प्रष्टव्यतथता न धर्मतथता न चक्षू-
११२०४ रूपचक्षुर्विज्ञानतथता न श्रोत्रशब्दश्रोत्रविज्ञानतथता न घ्राणगन्धघ्राणविज्ञानतथता न जिह्वारसजिह्वाविज्ञानतथता न कायस्प्रष्टव्यकायविज्ञानतथता न मनोधर्मनोमनोविज्ञानतथता नाविद्या-
११२०५ तथता न संस्कारतथता न विज्ञानतथता न नामरूपतथता न षडायतनतथता न स्पर्शतथता न वेदनातथता न तृष्णातथता न उपादानतथता न भवतथता न जातितथता न जरामरणतथता, यावन्न स्कन्धधात्वायतनतथता न
११२०६ प्रतीत्यसमुत्पादतथता बोधिसत्त्व इति। सुभूतिराह् अत्यन्ततया
११२०७ भगवन् बोधिसत्त्वो न विद्यते नोपलभ्यत् तत्कुतो रूपं बोधिसत्त्वो
११२०८ भविष्यति। वेदना संज्ञा संस्कारा विज्ञानं बोधिसत्त्वो भविष्यति।
११२०९ अत्यन्ततया भगवन् बोधिसत्त्वो न विद्यते नोपलभ्यत् तत्कुतः
११२१० पृथिवीधातु बोधिसत्त्वो भविष्यति। एवमब्धातुस्तेजोधातुर्वायुधातुराकाश-
११२११ धातुर्विज्ञानधातुर्बोधिसत्त्वो भविष्यति। {अत्यन्ततया भगवन् बोधिसत्त्वो न विद्यते नोपलभ्यते}। तत्कुतो रूपं बोधि-
११२१२ सत्त्वो भविष्यति। एवं शब्दो गन्धो रसो स्प्रष्टव्यम् धर्मो बोधिसत्त्वो भविष्य-
११२१३ त्येवञ्चक्षुः श्रोत्रं घ्राणं जिह्वा कायो मनो बोधिसत्त्वो भविष्यति। तत्कुतश्चक्षूरूप-
११२१४ चक्षुर्विज्ञानानि बोधिसत्त्वो भविष्यति। एवं श्रोत्रशब्दश्रोत्रविज्ञानानि
११२१५ घ्राणगन्धघ्राणविज्ञानानि जिह्वारसजिह्वाविज्ञानानि कायस्प्रष्टव्यकायविज्ञानानि मनोधर्ममनोविज्ञानानि बोधिसत्त्वो भविष्यति। अविद्या
११२१६ बोधिसत्त्वो भविष्यति। एवं संस्कारा विज्ञानं नामरूपं षडायतनानि स्पर्शो वेदना तृष्णा उपादानं भवो जातिर् जरामरणं बोधिसत्त्वो
११२१७ भविष्यति। {अत्यन्ततया भगवन् बोधिसत्त्वो न विद्यते नोपलभ्यते}। तत्कुतः पुनरस्य रूपतथता उपलभ्यत् वेदनातथता
११२१८ संज्ञातथता संस्कारतथता विज्ञानतथता उपलभ्यत् {अत्यन्ततया भगवन् बोधिसत्त्वो न विद्यते नोपलभ्यत्} तत्कुतः पृथिवीधातुतथतोप-
११२१९ लभ्यत् एवमब्धातुतथतोपलभ्यते तेजोधातुतथतोपलभ्यते वायुधातुतथतोपलभ्यते आकाशधातुतथतोपलभ्यते विज्ञानधातुतथतोपलभ्यत् {अत्यन्ततया भगवन् बोधिसत्त्वो न विद्यते नोपलभ्यत्} तत्कुतो
११२२० रूपतथतोपलभ्यत् एवं शब्दतथतोपलभ्यते गन्धरथतोपलभ्यते रसतथतोपलभ्यते स्प्रष्टव्यतथतोपलभ्यते धर्म्मतथतोपलभ्यत् एवं चक्षु-
११२२१ स्तथत्ओपलभ्यते श्रोत्रतथतोपलभ्यते घ्राणतथतोपलभ्यते जिह्वातथतोपलभ्यते कायतथतोपलभ्यते मनस्तथतोपलभ्यत् एवं चक्षूरूपचक्षुर्विज्ञानतथतो-

११३०१ पलप्स्यते श्रोत्रशब्दश्रोत्रविज्ञानतथतोपलप्स्यते घ्राणगन्धघ्राणविज्ञानतथतोपलप्स्यते जिह्वारसजिह्वाविज्ञानतथतोपलप्स्यते कायस्प्रष्टव्यकायविज्ञानतथतोपलप्स्यते मनोधरम्मनोविजाञ्नतथतोपलप्स्यत् {अत्यन्ततया भगवन् बोधिसत्त्वो न विद्यते नोपलभ्यत्} तत्
११३०२ कुतोऽस्याविद्यातथतोपलप्स्यत् एवं संस्कारतथत्ओपलप्स्यते विज्ञानतथतोपलप्स्यते नामरूपतथतोपलप्स्यते षडायतनतथतोपलप्स्यते स्पर्शतथतोपलप्स्यते वेदनातथतोपलप्स्यते तृष्णातथतोपलप्स्यते उपादानतथतोपलप्स्यते भवतथतोपलप्स्यते जातितथतोपलप्स्यते जरामरणतथतोपल-
११३०३ प्स्यत् एवमेकैकशः स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु व्यस्तसमस्तेषु {अत्यन्ततया भगवन् बोधिसत्त्वो न विद्यते नोपलभ्यत्}
११३०४ तत्कुतोऽस्य स्कन्धधात्वायतनप्रतीत्यसमुत्पादतथतोपलप्स्यत् नैतत्स्थानं
११३०५ विद्यत् भगवानाह् साधु साधु सुभूत् एवं खलु सुभूते {बोधिसत्त्वेन}
११३०६ महासत्त्वेन सत्त्वानुपलब्ध्या प्रज्ञापारमितानुपलब्धौ शिक्षितव्यम्॥ [इति
११३०७ निरोधेऽन्वयज्ञानम्॥]
११३०८ भगवानाह् तत्किं मन्यसे सुभूते रुपस्यैतदधिवचनं बोधिसत्त्व
११३०९ इति। वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्यैतदधिवचनं बोधिसत्त्व
११३१० इति। सुभूतिराह् नो हीदं भगवन्। भगवानाह् तत्किं मन्यसे
११३११ सुभूते रूपनित्यताया रूपानित्यताया एतदधिवचनं बोधिसत्त्व इति।
११३१२ रूपसुखताया रूपदुःखताया रूपात्मताया रूपात्मताया रूपशान्तताया
११३१३ रूपशान्तताया एतदधिवचनं बोधिसत्त्व इति। तत्किं मन्यसे सुभूते
११३१४ वेदनानित्यताया वेदनाऽनित्यताया एतदधिवचनं बोधिसत्त्व इति। वेदना-
११३१५ सुखताया वेदनादुःखताया वेदनात्मताया वेदनाऽनात्मताया वेदनाशान्त-
११३१६ ताया वेदनाऽशान्तताया एवदधिवचनं बोधिसत्त्व इति।
११३१७ संज्ञासुखताया संज्ञादुःखताया संज्ञात्मताया संज्ञाऽनात्मताया संज्ञाशान्तताया संज्ञाऽशान्तताया एवदधिवचनं बोधिसत्त्व इति। संस्कारसुखताया संस्कारदुःखताया संस्कारात्मताया संस्कारानात्मताया संस्कारशान्तताया संस्काराशान्तताया एवदधिवचनं बोधिसत्त्व इति। विज्ञानसुखताया विज्ञानदुःखताया विज्ञानात्मताया विज्ञानानात्मताया विज्ञानशान्तताया विज्ञानाशान्तताया एवदधिवचनं बोधिसत्त्व इति। तत्किं मन्यसे सुभूते रूपशून्यताया
११३१८ रूपाशून्यताया रूपनिमित्तताया रूपानिमित्तताया रूपप्रणिहितताया रूपा-
११३१९ प्रणिहितताया एतदधिवचनं बोधिसत्त्व इति। एवं वेदना संज्ञा संस्काराः।
११३२० तत्किं मन्यसे सुभूते विज्ञानशून्यताया विज्ञानाशून्यताया विज्ञाननिमित्त-
११३२१ ताया विज्ञानानिमित्तताया विज्ञानप्रणिहिततताया विज्ञानाप्रणिहितताया
११३२२ एतदधिवचनं बोधिसत्त्व इति। सुभूतिराह् नो हीदं भगवन्। भगवानाह्
११३२३ किं पुनस्त्वं सुभूतेऽर्थवशं प्रतीत्य एवं वदसि। न रूपस्य नित्यताधिवचनं
११३२४ अनित्यताधिवचनं बोधिसत्त्व इति। एवं न सुखा{धिवचनं} न दुःखा{धिवचनं}

११४०१ नात्मा{धिवचनं} नानात्मा{धिवचनं} नानात्मा{धिवचनं} न शान्ता{धिवचनं} न शून्यता{धिवचनं}
११४०२ नाशून्यता{धिवचनं} न निमित्ता{धिवचनं} नानिमित्ता{धिवचनं} न रूपस्य प्रणिहिता{धिवचनं}
११४०३ नाप्रणिहिता{धिवचनं} बोधिसत्त्व इति। न वेदनाया नित्या{धिवचनं}
११४०४ अनित्यताधिवचनं बोधिसत्त्व इति। एवं न सुखाधिवचनं न दुःखाधिवचनं नात्माधिवचनं नानात्माधिवचनं नानात्माधिवचनं न शान्ताधिवचनं न शून्यताधिवचनं नाशून्यताधिवचनं न निमित्ताधिवचनं नानिमित्ताधिवचनं न वेदनाया प्रणिहिताधिवचनं नाप्रणिहिताधिवचनं बोधिसत्त्व इति। न संज्ञाया नित्याधिवचनमनित्यताधिवचनं बोधिसत्त्व इति। एवं न सुखाधिवचनं न दुःखाधिवचनं नात्माधिवचनं नानात्माधिवचनं नानात्माधिवचनं न शान्ताधिवचनं न शून्यताधिवचनं नाशून्यताधिवचनं न निमित्ताधिवचनं नानिमित्ताधिवचनं न संज्ञाया प्रणिहिताधिवचनं नाप्रणिहिताधिवचनं बोधिसत्त्व इति। न संस्काराणां नित्याधिवचनमनित्यताधिवचनं बोधिसत्त्व इति। एवं न सुखाधिवचनं न दुःखाधिवचनं नात्माधिवचनं नानात्माधिवचनं नानात्माधिवचनं न शान्ताधिवचनं न शून्यताधिवचनं नाशून्यताधिवचनं न निमित्ताधिवचनं नानिमित्ताधिवचनं न संस्काराणां प्रणिहिताधिवचनं नाप्रणिहिताधिवचनं बोधिसत्त्व इति। न विज्ञानस्य नित्याधिवचनमनित्यताधिवचनं बोधिसत्त्व इति। एवं न सुखाधिवचनं न दुःखाधिवचनं नात्माधिवचनं नानात्माधिवचनं नानात्माधिवचनं न शान्ताधिवचनं न शून्यताधिवचनं नाशून्यताधिवचनं न निमित्ताधिवचनं नानिमित्ताधिवचनं न विज्ञानस्य प्रणिहिताधिवचनं नाप्रणिहिताधिवचनं बोधिसत्त्व इति।
११४०५ सुभूतिराह् अत्यन्तया रूपं न विद्यते नोपलभ्यत् कुती रूपाधिवचनं
११४०६ बोधिसत्त्वो भविष्यति। अत्यन्ततया भगवन्ननितय्ं न विद्यते नोपलभ्यत्
११४०७ कुतो वेदनाधिवचनं बोधिसत्त्वो भविष्यति। अत्यन्ततया भगवन्ननितय्ं न विद्यते नोपलभ्यत्
११४०८ कुतो संज्ञाधिवचनं बोधिसत्त्वो भविष्यति। अत्यन्ततया भगवन्ननितय्ं न विद्यते नोपलभ्यत् कुतो संस्काराधिवचनं बोधिसत्त्वो भविष्यति। अत्यन्ततया भगवन्ननितय्ं न विद्यते नोपलभ्यत् कुतो विज्ञानाधिवचनं बोधिसत्त्वो भविष्यति। अत्यन्ततया भगवन्ननितय्ं न विद्यते नोपलभ्यत्
११४०९ अत्यन्ततया भगवन्नित्यं न विद्यते नोपलभ्यत् कुतो रूपानित्यताधि-
११४१० वचनं बोधिसत्त्वो भविष्यति। अत्यन्ततया भगवन्ननित्यं न विद्यते नोपलभ्यत्
११४११ कुतो रूपानित्यताधिवचनं बोधिसत्त्वो भविष्यति। एवं न सुखाधिवचनं
११४१२ न दुःखा{धिवचनं} नात्मा{धिवचनं} नानात्मा{धिवचनं} शान्ता{धिवचनं} नाशान्ता{धिवचनं} न
११४१३ शून्यता{धिवचनं} नाशून्यता{धिवचनं} न निमित्ता{धिवचनं} नानिमित्ता{धिवचनं} न प्रणि-
११४१४ हिता{धिवचनं} नाप्रणिहिता{धिवचनं} बोधिसत्त्वो भविष्यति। एवं वेदनासंज्ञा-
११४१५ संस्काराः। अत्यन्ततया भगवन्नित्यं न विद्यते नोपलभ्यत् कुतो
११४१६ विज्ञाननित्यता{धिवचनं} बोधिसत्त्वो भविष्यति। अत्यन्ततया भगवन्नित्यं न
११४१७ विद्यते नोपलभ्यत् कुतो विज्ञानानित्यताधिवचनं बोधिसत्त्वो भविष्यति। एवं
११४१८ न स्कुहाधिवचनं न दुःखाधिवचनं नात्माधिवचनं नानात्माधिवचनं नानात्माधिवचनं न शान्ताधिवचनं न शून्यताधिवचनं नाशून्यताधिवचनं न निमित्ताधिवचनं नानिमित्ताधिवचनं न रूपस्य प्रणिहिताधिवचनं नाप्रणिहिताधिवचनं बोधिसत्त्व भविष्यति। भगवानाह्
११४१९ साधु साधु सुभूत् एवं हि सुभूते {बोधिसत्त्वेन} महासत्त्वेन प्रज्ञापारमितायां चरता
११४२० रूपाधिवचनमनुपलम्भमानेन वेदना{धिवचनमनुपलम्भमानेन} संज्ञा{धिवचनमनुपलम्भमानेन} संस्कारा{धिवचनमनुपलम्भमानेन} विज्ञाना{धिवचनमनुपलम्भमानेन}
११४२१ रूपस्य नित्यानित्या{धिवचनमनुपलम्भमानेन} सुखदुःखा{धिवचनमनुपलम्भमानेन} शान्ताशान्ता{धिवचनमनुपलम्भमानेन} शून्यताशून्यता{धिवचनमनुपलम्भमानेन}
११४२२ निमित्तानिमित्ता{धिवचनमनुपलम्भमानेन} प्रणिहिताप्रणिहिता{धिवचनमनुपलम्भमानेन}। वेदनाया नित्यानित्याधिवचनमनुपलम्भमानेन सुखदुःखाधिवचनमनुपलम्भमानेन शान्ताशान्ताधिवचनमनुपलम्भमानेन शून्यताशून्यताधिवचनमनुपलम्भमानेन निमित्तानिमित्ताधिवचनमनुपलम्भमानेन प्रणिहिताप्रणिहिताधिवचनमनुपलम्भमानेन्
११४२३ संज्ञाया नित्यानित्याधिवचनमनुपलम्भमानेन सुखदुःखाधिवचनमनुपलम्भमानेन शान्ताशान्ताधिवचनमनुपलम्भमानेन शून्यताशून्यताधिवचनमनुपलम्भमानेन निमित्तानिमित्ताधिवचनमनुपलम्भमानेन प्रणिहिताप्रणिहिताधिवचनमनुपलम्भमानेन् संस्काराणां नित्यानित्याधिवचनमनुपलम्भमानेन सुखदुःखाधिवचनमनुपलम्भमानेन शान्ताशान्ताधिवचनमनुपलम्भमानेन शून्यताशून्यताधिवचनमनुपलम्भमानेन निमित्तानिमित्ताधिवचनमनुपलम्भमानेन प्रणिहिताप्रणिहिताधिवचनमनुपलम्भमानेन् विज्ञानस्य
११४२४ नित्यानित्याधिवचनमनुपलम्भमानेन सुखदुःखाधिवचनमनुपलम्भमानेन शान्ताशान्ताधिवचनमनुपलम्भमानेन शून्यताशून्यताधिवचनमनुपलम्भमानेन निमित्तानिमित्ताधिवचनमनुपलम्भमानेन प्रणिहिताप्रणिहिताधिवचनमनुपलम्भमानेन् प्रज्ञापारमितायां शिक्षितव्यम्॥ [इति मार्गे धर्मज्ञानक्षान्तिः॥]

११५०१ यदपि सुभूते एवं वदसि। नाहं तं धर्मं समनुपश्यामि यदुत बोधिसत्त्व
११५०२ इति। न हि सुभूते धर्मो धर्मधातुं समनुपश्यति। नापि धरम्धातुर्धर्मं
११५०३ समनुपश्यति॥ [इति मार्गे धर्मज्ञानम्॥]
११५०४ न सुभूते रूपधातु धर्मधातुं समनुपश्यति। नापि धर्मधातू रूपधातुं
११५०५ समनुपश्यति। न वेदनाधातुर्धर्मधातुं समनुपश्यति। नापि धर्मधातु-
११५०६ र्वेदनाधातुं समनुपश्यति न संज्ञाधातुर्धर्मधातुं समनुपश्यति। नापि धर्मधातुर्संज्ञाधातुं समनुपश्यति। न संस्कारधातुर्धर्मधातुं समनुपश्यति। नापि धर्मधातुर्संस्कारधातुं समनुपश्यति। न विज्ञानधातुर्धर्मधातुं समनुपश्यति। नापि धर्मधातुर्विज्ञानधातुं समनुपश्यति।
११५०७ न चक्षुर्धातुर्धर्मधातुं समनुपश्यति। नापि धर्मधातुर्चक्षुर्धातुं समनुपश्यति। न श्रोत्रधातुर्धर्मधातुं समनुपश्यति। नापि धर्मधातुर्श्रोत्रधातुं समनुपश्यति। न घ्राणधातुर्धर्मधातुं समनुपश्यति। नापि धर्मधातुर्घ्राणधातुं समनुपश्यति। न जिह्वाधातुर्धर्मधातुं समनुपश्यति। नापि धर्मधातुर्जिह्वाधातुं समनुपश्यति। न कायधातुर्धर्मधातुं समनुपश्यति। नापि धर्मधातुर्कायधातुं समनुपश्यति। न मनोधातुर्धर्मधातुं समनुपश्यति। नापि धर्मधातुर्मनोधातुं समनुपश्यति। न रूपधातुर्धर्मधातुं समनुपश्यति। नापि धर्मधातुर्रूपधातुं समनुपश्यति। न शब्दधातुर्धर्मधातुं समनुपश्यति। नापि धर्मधातुर्शब्दधातुं समनुपश्यति। न गन्धधातुर्धर्मधातुं समनुपश्यति। नापि धर्मधातुर्गन्धधातुं समनुपश्यति। न रसधातुर्धर्मधातुं समनुपश्यति। नापि धर्मधातुर्रसधातुं समनुपश्यति। न स्प्रष्टव्यधातुर्धर्मधातुं समनुपश्यति। नापि धर्मधातुर्स्प्रष्टव्यधातुं समनुपश्यति। न धर्मधातुर्धर्मधातुं समनुपश्यति। नापि धर्मधातुर्धर्मधातुं समनुपश्यति।॥ [इति मार्गेऽन्वयज्ञानक्षान्तिः]
११५०८ न सुभूते संस्कृतधातुरसंस्कृतधातुं समनुपश्यति। नाप्यसंस्कृतधातुः
११५०९ संस्कृतधातुं समनुपश्यति॥ [इति मार्गेऽन्वयज्ञानम्॥] [इति दर्शनमार्गाववादः॥]
११५१० न च सुभूते संस्कृतव्यतिरेकेणासंस्कृतं शक्यं प्रज्ञपयितुम्। नाप्यसंस्कृत-
११५११ व्यतिरेकेण संस्कृतं शक्यं प्रज्ञपयितुम्। एवं हि सुभूते महासत्त्वः प्रज्ञा-
११५१२ पारमितायां चरन्न कश्चिद्धर्मं समअनुपश्यति। असमनुपश्यन्नोत्त्रस्यति न
११५१३ सन्त्रस्यति न सन्त्रासमापद्यत् न चास्य क्वचिद्धर्मे चित्तमवलीयत् न
११५१४ विप्रतिसारी भवति मानसम्। तत्कस्य हेतोः। तथा हि सुभूते महासत्त्वः
११५१५ प्रज्ञापारमितायां चरन् रूपं न समनुपश्यति। वेदनां न समनुपश्यति।
११५१६ संज्ञां न समनुपश्यति। संस्कारान्न समनुपश्यति। विज्ञानं न समनुपश्यति। चक्षुर्न समनुपश्यति। श्रोत्रं न समनुपश्यति। घ्राणं न समनुपश्यति। जिह्वां न समनुपश्यति। कायं न समनुपश्यति। मनो न समनुपश्यति। रूपं न समनुपश्यति। शब्दं न समनुपश्यति। गन्धं न समनुपश्यति। रसं न समनुपश्यति। स्प्रष्टव्यं न समनुपश्यति। धर्मं न समनुपश्यति। चक्षुर्विज्ञानधातुं न समनुपश्यति। श्रोत्रविज्ञानधातुं न समनुपश्यति। घ्राणविज्ञानधातुं न समनुपश्यति। जिह्वाविज्ञानधातुं न समनुपश्यति। मनोविज्ञानधातुं न समनुपश्यति। अविद्यां न समनुपश्यति। संस्कारं न समनुपश्यति। विज्ञानं न समनुपश्यति। नामरूपं न समनुपश्यति। षडायतनं न समनुपश्यति। स्पर्शं न समनुपश्यति। वेदनां न समनुपश्यति। तृष्णां न समनुपश्यति। उपादानं न समनुपश्यति। भवं न समनुपश्यति। जातिं न समनुपश्यति। जरामरणं न समनुपश्यति।
११५१७ रागं न समनुपश्यति। द्वेषं न {समनुपश्यति}। मोहं न {समनुपश्यति}। आत्मानं
११५१८ न {समनुपश्यति}। सत्त्वजीवपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यकान्न {समनुपश्यति}।
११५१९ कामधातुं न {समनुपश्यति}। रूपधातुं न {समनुपश्यति}। आरूप्यधातुं न {समनुपश्यति}। आकाशधातुं

११६०१ न {समनुपश्यति}। श्रावकं न {समनुपश्यति}। प्रत्येकबुद्धं न {समनुपश्यति}। बोधिसत्त्वं न {समनुपश्यति}। श्रावकधर्मान्
११६०२ न {समनुपश्यति}। प्रत्येकबुद्धधर्मान्न {समनुपश्यति}। बोधिसत्त्वधर्मान्न {समनुपश्यति}। बुद्धं न {समनुपश्यति}।
११६०३ बुद्धधर्मान्न {समनुपश्यति}। बोधिं न {समनुपश्यति}। यावत्सर्वधर्मान्न {समनुपश्यति}। सर्वध्र्मा-
११६०४ नसमनुपश्यन्नोत्त्रस्यति न सन्त्रस्यति न सन्त्रासमापत्स्यत्
११६०५ सुभुतिराह् केन कारणेन भगवन्महासत्त्वस्य चित्तं नावलीयते न
११६०६ संलीयत् भगवानाह् तथा हि सुभूते महासत्त्वश्चित्तचैतसिकान् धर्मान्
११६०७ नोपलभते न समनुपश्यति। एवं हि सुभूते महासत्त्वस्य चित्तं नावलीयते
११६०८ न संलीयत् सुभूतिराः कथं भगवन् {बोधिसत्त्वस्य} महासत्त्वस्य नोत्त्रस्यति
११६०९ मानसम्। भगवानाह् तथा हि सुभूते {बोधिसत्त्वो} महासत्त्वो मनश्च मनोधातुं
११६१० च नोपलभते न समनुपश्यति। एवं हि सुभूते {बोधिसत्त्वस्य} महासत्त्वस्य नोत्त्रस्यति
११६११ मानसम्। एवं हि सुभूते {बोधिसत्त्वेन} महासत्त्वेन सर्वधर्मानुपलब्ध्या प्रज्ञापार-
११६१२ मितायां चरितव्यम्। सचेत्सुभूते {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितानु-
११६१३ चरंस्तां प्रज्ञापारमितां नोपलभते न समनुपश्यति तञ्च बोधिसत्त्वं तच्च
११६१४ बोधिसत्त्वानाम तच्च बोधिचित्तं नोपलभते न समनुपश्यति। एष एव
११६१५ बोधिसत्त्वस्य महासत्त्वस्याववादः। प्रज्ञापारमितायामेषैवानुशासनी।
११६१६ अथ खलु आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत् । रूपं परिज्ञातुकामेन
११६१७ भगवन् {बोधिसत्त्वेन} महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्। वेदनां परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्। संज्ञां परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्। संस्कारां परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्। विज्ञानं
११६१८ परिज्ञातुकामेन भगवन् {बोधिसत्त्वेन} महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्। चक्षुः

११७०१ {परिज्ञातुकामेन भगवन् बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्।} श्रोत्रं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्। घ्राणं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्। जिह्वां परिज्ञातुकामेन भगवन् बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्। कायं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्। मनः {परिज्ञातुकामेन भगवन् बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}। रूपं {परिज्ञातुकामेन भगवन् बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}। शब्दं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्। गन्धं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्। रसं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्। स्प्रष्टव्यं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्। धर्मं {परिज्ञातुकामेन भगवन् बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}। चक्षुर्विज्ञानं {परिज्ञातुकामेन भगवन् बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्।} श्रोत्रविज्ञानं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्। घ्राणविज्ञानं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्। जिह्वाविज्ञानं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्। कायविज्ञानं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्।
११७०२ मनोविज्ञानं {परिज्ञातुकामेन भगवन् बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}। चक्षुःसंस्पर्शां चक्षुःसंस्पर्शजां वेदनां {परिज्ञातुकामेन भगवन् बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्।} श्रोत्रसंस्क्पर्शां श्रोत्रसंस्पर्शजां वेदनां परिज्ञातुकामेन भगवन् बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्। घ्राणसंस्क्पर्शां घ्राणसंस्पर्शजां वेदनां परिज्ञातुकामेन भगवन् बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्। जिह्वासंस्क्पर्शां जिह्वासंस्पर्शजां वेदनां परिज्ञातुकामेन भगवन् बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्। कायसंस्क्पर्शां कायसंस्पर्शजां वेदनां परिज्ञातुकामेन भगवन् बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्। मनःसंस्पर्शां
११७०३ मनःसंस्पर्शजां वेदनां {परिज्ञातुकामेन भगवन् बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्।}
११७०४ रागद्वेषमोहान् प्रहातुकामेन भगवन् {बोधिसत्त्वेन} महासत्त्वेन प्रज्ञापारमितायां
११७०५ शिक्षितव्यम्। एवं सत्कायदृष्टिं शीलव्रतपरामर्शं विचिकित्सां कामरागं
११७०६ व्यापादं रूपरागमारुप्यरागं संयोजनानुशयपर्युत्थानानि प्रहातुकामेन {भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}
११७०७ पुनरपरं चतुरो योगानोघान् ग्रन्थानुपादानानि चतुरो विपर्यासान् प्रहातु-
११७०८ कामेन {भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्} दशाकुशलान् कर्मपथान् प्रहातुकामेन दशकुशलान् कर्मपथान्
११७०९ परिज्ञातुकामेन चत्वारि ध्यात्नानि चत्वार्यप्रमाणानि चतस्र आरूप्यसमा-
११७१० पत्तीश्चत्वारि स्मृत्युपस्हानानि चत्वारि सम्यक्प्रहाणानि चतुर ऋद्धिपादान्
११७११ पञ्चेन्द्रियाणि पञ्च बलानि सप्त बोध्यङ्गानि आर्याष्टांगमार्गा चतस्रः
११७१२ प्रतिसंविदश्चत्वारि वैशारद्यानि षडभिज्ञा दशतथागतबलानि अष्टादशावेणि-
११७१३ कान् बुद्धधर्मान् परिपूरयितुकामेन भगवन् {बोधिसत्त्वेन} महासत्त्वेन प्रज्ञापार-
११७१४ मितायां शिक्षितव्यं बोध्यङ्गं नाम समाधिं प्रतिलब्धुकामेन
११७१५ सिंहविक्रीडितं समाधिं सिंहविजृम्भितं {समाधिं} सर्वधारणीमुखं {समाधिं} शूरंगमं
११७१६ {समाधिं} रत्नमुद्रं {समाधिं} चन्द्रप्रभं {समाधिं} चन्द्रध्वजकेतुं {समाधिं} सर्वधर्ममुद्रागतं

११८०१ {समाधिं} अवलोकितमुद्रागतं {समाधिं} नियतध्वजकेतुं {समाधिं} वज्रोपमं {समाधिं} सर्वधर्म-
११८०२ प्रवेशमुखं {समाधिं} समाधिराजं {समाधिं} गगनगञ्जमुद्रं {समाधिं} बलविशुद्धं {समाधिं} समुद्गतं
११८०३ {समाधिं} सर्वधर्मनिरुक्तिनियतप्रवेशं {समाधिं} सर्वधर्मज्ञानमुद्राप्रवेशं {समाधिं} सरधर्म-
११८०४ मुद्राधारणीमुखं {समाधिं} सर्वधर्मासंप्रमोषं {समाधिं} सर्वधर्मसमवसरणा-
११८०५ कारमुद्रं {समाधिं} आकाशावस्थितं {समाधिं} त्रिमण्डलपरिशुद्धं {समाधिं} अच्युताना-
११८०६ गामिन्यभिज्ञां {समाधिं} पात्रगतं {समाधिं} ध्वजाग्रकेयुरं {समाधिं} सर्वक्लेशनिर्द-
११८०७ हनं {समाधिं} चतुर्मारबलविकिरणं {समाधिं} ज्ञानोल्कां {समाधिं} दशबलोद्गतं
११८०८ {समाधिं} आकाशासंगनिरुक्तनिरुपलेपं नाम {समाधिं}। एतानि चान्यानि च
११८०९ समाधिमुखानि प्रतिलब्धुकामेन भगवन् {बोधिसत्त्वेन} महासत्त्वेन प्रज्ञापारमितायां
११८१० शिक्षितव्यम्।
११८११ पुनरपरं भगवन् {बोधिसत्त्वेन} महासत्त्वेन सर्वसत्त्वानामभिप्रायं परिपूरयितुकामेन
११८१२ प्रज्ञापारमितायां शिक्षितव्यम्।
११८१३ पुनरपरं भगवन् {बोधिसत्त्वेन} महासत्त्वेन सर्वकुशलमूलानि परिपूरयितुकामेन
११८१४ यैः कुशलमूलैः परिपूर्नैर्नापायेषूपपद्यते न हीनकुलेषूपपद्यते न च

११९०१ श्रावकभूमिं वा न च प्रत्येकबुद्धभूमिं वा पतति न च बोधिसत्त्वमूर्धामं
११९०२ वा पततीति प्रज्ञापारमितायां शिक्षितव्यम्।
११९०३ शारिपुत्र आह् कथं वायुष्मन् सुभूते {बोधिसत्त्वो} महासत्त्वो मूर्धामं पतति।
११९०४ सुभूतिराह् यदायुष्मन् शारिपुत्र {बोधिसत्त्वो} महासत्त्वोऽनुपायकुशलः षट्सु
११९०५ पारमितासु चरन्नुपायकौशलमजानन् शून्यतानिमित्ताप्रणिहितान् समाधी-
११९०६ नागम्य नैव श्रावकभूमिं नैव प्रत्येकबुद्धभूमिं वा पतति नैव बोधिसत्त्वन्याम-
११९०७ मवक्रामति। अयमुच्यते बोधिसत्त्वमूर्धामः। शारिपुत्र आह् केन
११९०८ कारणेन आयुष्मन् सुभूते {बोधिसत्त्वस्य} महासत्त्वस्यायमामः। सुभूतिराह् आम
११९०९ इत्यायुष्मन् शारिपुत्र उच्यते {बोधिसत्त्वस्य} महासत्त्वस्य धर्मतृष्णा॥[इति भावना-
११९१० मार्गाववादः॥] [इत्युक्तोऽववादः॥]
११९११ शारिपुत्र आह् कतमा आयुष्मन् सुभूते धर्मतृष्णा। सुभूतिराह्
११९१२ इहायुष्मन् शारिपुत्र {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन् रूपमनित्य-
११९१३ मिति नाभिनिविशते नाधितिष्ठति न संजानीत् दुःखं शून्यम-
११९१४ नात्मकमिति {नाभिनिविशते नाधितिष्ठति न संजातीत्} शून्यमित्यप्रणिहितमिति {नाभिनिविशते नाधितिष्ठति न संजातीते}। वेदनां संज्ञां
११९१५ संस्कारान् विज्ञानमनित्यमिति {नाभिनिविशते नाधितिष्ठति न संजातीते}। दुःखं शून्यमनात्मकमिति {नाभिनिविशते नाधितिष्ठति न संजातीते}।
११९१६ शून्यमित्यप्रणिहितमिति {नाभिनिविशते नाधितिष्ठति न संजातीते}। इयमायुष्मन् शारिपुत्र {बोधिसत्त्वस्य} महासत्त्वस्य
११९१७ आनुलोमिकी धर्मतृष्णा आमः॥ [इति दुःखसत्याधिकारेण मृदूष्म-
११९१८ गतस्यालम्बनाकारविशेषः॥]
११९१९ एवं रूपं प्रहातव्यमनेन रूपं प्रहातव्यमिति नाभिनिविशते नाधितिष्ठति न

१२००१ संजानीत् एवं वेदना प्रहातव्या अनेन वेदना प्रहातव्येति नाभिनिविशते नाधितिष्ठति न संजानीत् एवं संज्ञा प्रहातव्या अनेन संज्ञा प्रहातव्येति नाभिनिविशते नाधितिष्ठति न संजानीत् एवं संस्काराः प्रहातव्या अनेन संस्काराः प्रहातव्या इति नाभिनिविशते नाधितिष्ठति न संजानीत् एवं विज्ञानं प्रहातव्यमनेन विज्ञानं प्रहातव्यमिति नाभिनिविशते नाधितिष्ठति न संजानीते। एवं
१२००२ दुःखं परिक्षयमनेन दुःखं परिक्षयमिति एवं समुदयः प्रहातव्योऽनेन समुदयः
१२००३ प्रहातव्य इति नाभिनिविशते नाधितिष्ठति न संजातीत् । [इति समुदय-
१२००४ सत्याधिकारेण मृदूष्मगतस्यालम्बनाकारविशेषः॥]
१२००५ एवं निरोधः साक्षात्कर्तव्योऽनेन निरोधः साक्षात्कर्तव्य इति। एवं
१२००६ मार्गो भावयितव्योऽनेन मार्गो भावयितव्य इति। अयं संक्लेश इदं
१२००७ व्यवदानमिति। इमे धर्माः सेवितव्याः इमे धर्मा न सेवितव्या इति। इह
१२००८ चरितव्यमिह न चरितव्यम्। अयं मार्गो भावयितव्योऽयं न भावयितव्यः।
१२००९ इयं बोधिसत्त्वस्य शिक्षा इयमशिक्षा। इयं बोधिसत्त्वस्य न दानपारमिता
१२०१० इयं {बोधिसत्त्वस्य} न शील{पारमिता} इयं {बोधिसत्त्वस्य} न क्षान्ति{पारमिता} इयं {बोधिसत्त्वस्य} न वीर्य{पारमिता} इयं {बोधिसत्त्वस्य} न ध्यान{पारमिता}
१२०११ इयं {बोधिसत्त्वस्य} न प्रज्ञा{पारमिता} इदं बोधिसत्त्वस्योपायकौशलमिदमनुपायकौशलमिति नाभि-
१२०१२ निविशते नाधितिष्ठति न संजानीतेऽयं बोधिसत्त्वस्य मूर्धामः। सचेदा-
१२०१३ युष्मन् {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरनिमान् धर्मानेवं नाभिनिविशते
१२०१४ नाधितिष्ठति न संजानीते इयं बोधिसत्त्वस्यानुलोमिकी धर्मतृष्णा आमः।
१२०१५ शारिपुत्र आह् कतमः पुनरायुष्मन् सुभूते {बोधिसत्त्वस्य} महासत्त्वस्य न्यामः।
१२०१६ सुभूतिराह् इहायुष्मन् शारिपुत्र {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन्
१२०१७ नाध्यात्मशून्यतया बहिर्धाशून्यतां समनुपश्यति। न बहिर्धाशून्यतया
१२०१८ अध्यात्मशून्यतां समनुपश्यति। न बहिर्धाशून्यतया अध्यात्मबहिर्धाशून्यतां
१२०१९ समनुपश्यति। नाध्यात्मबहिर्धाशून्यतया बहिर्धाशून्यतां समनुपश्यति।
१२०२० नाध्यात्मबहिर्धाशून्यतया शून्यताशून्यतां समनुपश्यति। न शून्यताशून्यतया
१२०२१ अध्यात्मबहिर्धाशून्यतां समनुपश्यति। न शून्यताशून्यतया महाशून्यतां

१२१०१ समनुपश्यति। न शून्यताशून्यतया परमार्थशून्यतां समनुपश्यति। न शून्यताशून्यतया संस्कृतशून्यतां समनुपश्यति। न शून्यताशून्यतया अत्यन्तशून्यतां समनुपश्यति। न शून्यताशून्यतया अनवराग्रशून्यतां समनुपश्यति। न शून्यताशून्यतया अनवकारशून्यतां समनुपश्यति। न शून्यताशून्यतया प्रकृतिशून्यतां समनुपश्यति। न शून्यताशून्यतया सर्वधर्मशून्यतां समनुपश्यति। न शून्यताशून्यतया स्वलक्षणशून्यतां समनुपश्यति। न शून्यताशून्यतया अनुपलम्भशून्यतां समनुपश्यति। न शून्यताशून्यतया अभावस्वभावशून्यतां समनुपश्यति। न शून्यताशून्यतया भावशून्यतां समनुपश्यति। न शून्यताशून्यतया अभावशून्यतां समनुपश्यति। न
१२१०२ परभावशून्यतया स्वभावशून्यतां समनुपश्यति। अयं हि शारिपुत्र
१२१०३ {बोधिसत्त्वस्य} महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वन्यामः॥ [इति
१२१०४ निरोधसत्याधिकारेण मृदूष्मगतस्यालम्बनाकारविशेषः॥]
१२१०५ पुनरपरं शारिपुत्र {बोधिसत्त्वेन} महासत्त्वेन प्रज्ञापारमितायां चरतैवं शिक्षितव्यम्।
१२१०६ यथा शिक्षमाणेन रूपं ज्ञातव्यं न च तेन मन्तव्यम्। वेदनासंज्ञासंस्कारा विज्ञानं
१२१०७ {ज्ञातव्यं न च तेन मन्तव्यं} चक्षुर्ज्ञातव्यमेवं श्रोत्रं घ्राणं जिह्वा कायो मनो {ज्ञातव्यं न च तेन मन्तव्यं}। शब्दगन्ध-
१२१०८ रसस्प्रष्टव्यधर्मा {ज्ञातव्या न च तैर्मन्तव्यं। दानपारमिता ज्ञातव्या न च तया मन्तव्यं। शीलपारमिता ज्ञातव्या न च तया मन्तव्यं। क्षान्तिपारमिता ज्ञातव्या न च तया मन्तव्यं। वीर्यपारमिता ज्ञातव्या न च तया मन्तव्यं। प्रज्ञापारमिता {ज्ञातव्या न च तया मन्तव्यं}।
१२१०९ एवं पञ्चाभिज्ञाः पञ्चचक्षूंषि चत्वारि स्मृत्युपस्थानानि सम्यक्प्रहाणर्द्धि-
१२११० पादेन्द्रियबलबोध्यङ्गमार्गा भावयितव्या न च तैर्मन्तव्यम्। चत्वारि
१२१११ वैशारद्यानि दशतथागतबलानि चतस्रः प्रतिसंविदोऽष्टादशावेणिका बुद्धधर्मा
१२११२ {ज्ञातव्या न च तैर्मन्तव्यं}। एवं हि शारिपुत्र {बोधिसत्त्वेन} महासत्त्वेन प्रज्ञापारमितायां चरता बोधि-
१२११३ चित्तं नाम ज्ञातव्यं समचित्तं नामोदारचित्तं नाम {ज्ञातव्यं न च तेन मन्तव्यं}। तत्कस्य
१२११४ हेतोः। तथा तच्चित्तमचित्तं प्रकृतिश्चित्तस्य प्रभास्वरा।
१२११५ शारिपुत्र आह् का पुनरायुष्मन् सुभूते चित्तस्य प्रभास्वरता।
१२११६ सुभूतिराह् यदायुष्मन् शारिपुत्र चित्तं न रागेण संयुक्तं न विसंयुक्तं

१२२०१ न द्वेषेण {संयुक्तं न विसंयुक्तं}। न मोहेन {संयुक्तं न विसंयुक्तं}। न पर्युत्थानैः {संयुक्तं न विसंयुक्तं}। नावरणैः {संयुक्तं न विसंयुक्तं}। नानुशयैः
१२२०२ {संयुक्तं न विसंयुक्तं}। न संयोजनैः {संयुक्तं न विसंयुक्तं}। न दृष्टिकृतैः {संयुक्तं न विसंयुक्तं}। इयं शारिपुत्र चित्तस्य
१२२०३ प्रभास्वरता।
१२२०४ शारिपुत्र आह् किं पुनरायुष्मन् सुभूते अस्ति तच्चित्तं यच्चित्तमचित्तम्।
१२२०५ सुभूतिराह् किं पुनरायुष्मन् शारिपुत्र या अचित्तता तत्रास्तिता वा नास्तिता
१२२०६ वा विद्यते वा उपलभ्यते वा। शारिपुत्र आह् न खल्वायुष्मन् सुभूत्
१२२०७ सुभूतिराह् सचेदायुष्मन् शारिपुत्र तत्राचित्ततायामस्तिता वा नास्तिता वा न
१२२०८ विद्यते नोपलभ्यते वा पै नु ते युक्त एष पर्यनुयोगः। यदायुष्मन् शारिपुत्र
१२२०९ एवमाह अस्ति तच्चित्तं यच्चित्तमचित्तमिति। शारिपुत्र आह् का पुनरेषा
१२२१० आयुष्मन् सुभूते अचित्तता। सुभूतिराह् अचिकारा आयुष्मन् शारिपुत्र
१२२११ अविकल्पा अचित्तता या सर्वधर्माणां धर्मता। इयमुच्यते अचित्तता।
१२२१२ शारिपुत्र आह् किं पुनरायुष्मन् सुभूते यथैव तच्चित्तमविकारमविकल्पं
१२२१३ तथैव रूपमप्यविकारमविकल्पं वेदनाप्यविकाराविकल्पा संज्ञाप्यविकारा अविकल्पा संस्कारा अप्यविकारा अविकल्पा विज्ञानमप्यविकारमविकल्पम्।
१२२१४ एवमेव चक्षुर्धातू रूपधातुश्चक्षुर्विज्ञानधातुरविकारोऽविकल्पः श्रोत्रधातुः शब्दधातुश्श्रोत्रविज्ञानधातुरविकारोऽविकल्पो घ्राणधातुर्गन्धधातुर्घ्राणविज्ञानधातुरविकारोऽविकल्पो जिह्वाधातू रसधातुर्जिह्वाविज्ञानधातुरविकारोऽविकल्पः कायधातुः स्प्रष्टव्यधातुश्कायविज्ञानधातुरविकारोऽविकल्पओ
१२२१५ मनोधातुर्धर्मधातुर्मनोविज्ञानधातुरविकारोऽविकल्पः। एवमायतनानि प्रतीत्य-
१२२१६ समुत्पादः पारमिता अभिज्ञाः स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रिय-
१२२१७ बलबोध्यङ्गमार्गवैशारद्यप्रतिसंविदावेणिका बुद्धधर्मा यावदनुत्तरा सम्यक्-
१२२१८ संबोधिरविकारा अविकल्पा। सुभूतिराह् एवमेतदायुष्मन् शारिप्तुर यथैव
१२२१९ चित्तमविकारमविकल्पं तथैव स्कन्धधात्वायतन्आनि प्रतीत्यसमुत्पादः पारमिता अभिज्ञाः स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गवैशारद्यप्रतिसंविदावेणिका बुद्धधर्मा
१२२२० यावदनुत्तरा सम्यक्संबोधिः। शारिपुत्र आह् साधु साधु आयुष्मन्
१२२२१ सुभूते तद्यथापि नाम भगवतः पुत्र औरसो मुखतो जातो धर्मजो धर्म-
१२३०१ निर्मितो धर्मदायदो नामिषदायादः प्रत्यक्षचक्षुर्धर्मेषु कायसाक्षी यथापि
१२३०२ नामाग्रारणविहारिणां भगवता अग्रतायां निर्दिष्टस्यायमुपदेशः। एवमायुष्मन्
१२३०३ सुभूते {बोधिसत्त्वेन} महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्। अतश्च {बोधिसत्त्वो} महा-
१२३०४ सत्त्वोऽविनिवर्तनीय उपपरीक्षितव्योऽविरहितश्च प्रज्ञापारमितया वेदितव्यः॥
१२३०५ [इति मार्गसत्याधिकारेण मृदूष्मगतस्यालम्बनाकारविशेषः॥]
१२३०६ श्रावकभूमावपि आयुष्मन् सुभूते शिक्षितुकामेन {बोधिसत्त्वेन} महासत्त्वेन इयमेव
१२३०७ प्रज्ञापारमिता श्रोतव्योद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या
१२३०८ योनिशश्च उपपरीक्षितव्या। प्रत्येकबुद्धभूमावपि आयुष्मन् सुभूते शिक्षितुकामेन बोधिसत्त्वेन महासत्त्वेन इयमेव प्रज्ञापारमिता श्रोतव्योद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या योनिशश्च उपपरीक्षितव्या।
१२३०९ बोधिसत्त्वभूमावपि आयुष्मन् सुभूते शिक्षितुकामेन बोधिसत्त्वेन महासत्त्वेन इयमेव प्रज्ञापारमिता श्रोतव्योद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या योनिशश्च उपपरीक्षितव्या।
१२३१० बुद्धभूमावपि आयुष्मन् सुभूते शिक्षितुकामेन बोधिसत्त्वेन महासत्त्वेन इयमेव प्रज्ञापारमिता श्रोतव्योद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या योनिशश्च उपपरीक्षितव्या। तत्कस्य हेतोः। तथा हि
१२३११ अत्र प्रज्ञापारमितायां त्रीणि यानानि विस्तरेणोपदिष्टानि यत्र बोधिसत्त्वैर्महा-
१२३१२ सत्त्वैः श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा बोधिसत्त्वभूमौ वा शिक्षितव्यम्॥
१२३१३ [इति सर्वेषां हेतुत्वविशेषः॥]
१२३१४ अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत् । योऽहं भगवन्न
१२३१५ बोधिसत्त्वं न प्रज्ञापारमितां विन्दामि नोपलभे न समनुपश्यामि तत्
१२३१६ कतमं बोधिसत्त्वं कतमस्यां प्रज्ञापारमितायामववदिष्याम्यनुशासिष्यामि।
१२३१७ एवदेव मे भगवन् कौकृत्यं स्यात् । योऽहं वस्तु न विन्दामि नोपलभे न
१२३१८ समनुपश्यामि सोऽहं भगवन् वस्त्वविन्दन्ननुपलभमानोऽसमनुपश्यन् कतमेन

१२४०१ धर्मेण कतमं धर्ममववदिष्याम्यनुशासिष्यामि। एतदेव मे भगवन् कौकृत्यं
१२४०२ स्यात् । योऽहं सर्वधर्मानविन्दन्ननुपलभमानोऽसमनुपश्यन्नामधेयमात्रेण
१२४०३ आयव्ययं कुर्यां बोधिसत्त्व इति वा प्रज्ञापारमितेति वा। अपि तु खलु पुन-
१२४०४ र्भगवन् तदपि नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्। तत्कस्य
१२४०५ हेतोः। अविद्यमानत्वेन तस्य नामधेयस्य एवं तन्नामधेयं न स्थितं नास्थितं न
१२४०६ विष्ठितं नाविष्ठितम्। रूपस्याहं भगवन्नायं च व्ययं च नोपलभे न समनुपश्यामि।
१२४०७ वेदनाया अहं {भगवनायञ्च व्ययञ्च नोपलभे न समनुपश्यामि}। संज्ञाया अहं {भगवन्नायञ्च व्ययञ्च नोपलभे न समनुपश्यामि}। संस्काराणामहं {भगवनायञ्च व्ययञ्च नोपलभे न समनुपश्यामि}। विज्ञानस्याहं {भगवनायञ्च व्ययञ्च नोपलभे न समनुपश्यामि}। सोऽहं
१२४०८ भगवन् रूपादीनामायञ्च व्ययञ्चानुपलभमानोऽसमनुपश्यन् कस्य नामधेयं
१२४०९ करिष्यामि बोधिसत्त्व इति। अनेन भगवन् पर्यायेण तदपि नामधेयं
१२४१० न स्थितं {नास्थितं न विष्ठितं नाविष्ठितम्}। तत्कस्य हेतोः। अविद्यमानत्वात्तस्य नामधेयस्य् एवं
१२४११ तन्नाम न स्थितं {नास्थितं न विष्ठितं नाविष्ठितम्}। चक्षुषोऽहं श्रोत्रस्याहं घ्राणस्याहं जिह्वाया अहं कायस्याहं मनसोऽहं {भगवन्नायञ्च व्ययञ्च नोपलभे न समनुपश्यामि}। अपि तु
१२४१२ खलु पुनर्भगवन् वेदयितं रूपं नाम वेदना नाम संज्ञा नाम संस्कारा नाम विज्ञानं नाम्
१२४१३ चक्षुः श्रोत्रं {घ्राणं जिह्वा कायो} मन इति नाम् एतानि नामधेयानि न स्थितानि
१२४१४ नास्थितानि न विष्ठितानि नाविष्ठितानि। तत्कस्य हेतोः। अविद्यमानत्वेन
१२४१५ तेषां नामधेयानाम्।
१२४१६ एवं तानि नामधेयानि न स्थितानि नास्थितानि न विष्ठितानि नाविष्ठि-
१२४१७ तानि। रूपस्याहं {भगवनायञ्च व्ययञ्च नोपलभे न समनुपश्यामि}। एवं शब्दगन्धरसस्प्रष्टव्यधर्माणामायञ्च व्ययञ्च न
१२४१८ समनुपश्यामि नोपलभ् सोऽहं भगवन् रूपशब्दगन्धरसस्प्रष्टव्यधर्माणामायञ्च

१२५०१ व्ययञ्चानुपलभमानोऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व
१२५०२ इति। अपि तु खलु पुनर्भगवन् तदपि नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्। तत्कस्य हेतोः। अविद्यमानत्वेन तस्य नामधेयस्य एवं तन्नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्। चक्षुर्विज्ञान-
१२५०३ स्याहं {भगवनायञ्च व्ययञ्च न समनुपश्यामि नोपलभे}। एवं श्रोत्रविज्ञानस्य्आहं भगवनायञ्च व्ययञ्च न समनुपश्यामि नोपलभ् घ्राणविज्ञानस्याहं भगवनायञ्च व्ययञ्च न समनुपश्यामि नोपलभ् जिह्वाविज्ञानस्याहं भगवनायञ्च व्ययञ्च न समनुपश्यामि नोपलभ् कायविज्ञानस्याहं भगवनायञ्च व्ययञ्च न समनुपश्यामि नोपलभ् मनोविज्ञानस्याहं {भगवनायञ्च व्ययञ्च न समनुपश्यामि नोपलभे}। सोऽहं
१२५०४ भगवंश्चक्षुर्विज्ञानस्य्आयञ्च व्ययञ्च न समनुपश्यन् श्रोत्रविज्ञानस्यायञ्च व्ययञ्च न समनुपश्यन् घ्राणविज्ञानस्यायञ्च व्ययञ्च न समनुपश्यन् जिह्वाविज्ञानस्यायञ्च व्ययञ्च न समनुपश्यन् कायविज्ञानस्यायञ्च व्ययञ्च न समनुपश्यन् मनोविज्ञानस्यायञ्च व्ययञ्च समनुपश्यन्
१२५०५ कस्य नामधेयं करिष्यामि बोधिसत्त्व इति। अपि तु खलु पुनर्भगवन् तदपि नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्। तत्कस्य हेतोः। अविद्यमानत्वेन तस्य नामधेयस्य एवं तन्नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्।
१२५०६ चक्षुःसंस्पर्शस्याहं भगवन् यावच्चक्षुःसंस्पर्शप्रत्ययवेदयितस्यायञ्च {व्ययञ्च न समनुपश्यामि नोपलभ्} श्रोत्रसंस्पर्शस्याहं
१२५०७ भगवन् यावच्छ्रोत्रसंस्पर्शप्रत्ययवेदयितस्यायञ्च {व्ययञ्च न समनुपश्यामि नोपलभ्} घ्राणसंस्पर्शस्याहं भगवन् यावद्घ्राणसंस्पर्शप्रत्ययवेदयितस्यायञ्च व्ययञ्च न समनुपश्यामि नोपलभ्
१२५०८ जिह्वासंस्पर्शस्याहं भगवन् यावज्जिह्वासंस्पर्शप्रत्ययवेदयितस्यायञ्च व्ययञ्च न समनुपश्यामि नोपलभ् कायसंस्पर्शस्याहं भगवन् यावत्कायसंस्पर्शप्रत्ययवेदयितस्यायञ्च व्ययञ्च न समनुपश्यामि नोपलभ् मनःसंस्पर्शस्याहं भगवन् यावत्मनःसंस्पर्शप्रत्ययवेदयित-
१२५०९ स्यायञ्च {व्ययञ्च न समनुपश्यामि नोपलभे}। पृथिवीधातोरेवमब्धातोस्तेजोधातोर्वायुधातोराकाशधातोर्विज्ञान-
१२५१० धातोरायञ्च {व्ययञ्च न समनुपश्यामि नोपलभे}। एवमविद्या यावज्जरामरणस्याहं भवगनायञ्च{व्ययञ्च न समनुपश्यामि नोपलभे}। एवमविद्या-
१२५११ निरोधस्य यावज्जरामरणनिरोधस्याहमायञ्च {व्ययञ्च न समनुपश्यामि नोपलभे}। स्कन्धधात्वायतनप्रतीत्यस-
१२५१२ मुत्पादानामहं भगवनायञ्च {व्ययञ्च न समनुपश्यामि नोपलभे}। रागद्वेषमोहानामहं {भगवनायञ्च व्ययञ्च न समनुपश्यामि नोपलभे}। पर्युत्थानावरणानु-
१२५१३ शयसंयोजनदृष्टिकृतानामहं {भगवनायञ्च व्ययञ्च न समनुपश्यामि नोपलभे}। दानपारमिताया अहं {भगवनायञ्च व्ययञ्च न समनुपश्यामि नोपलभ्} शीलपारमिताया अहं भगवनायञ्च व्ययञ्च न समनुपश्यामि नोपलभ् क्षान्तिपारमिताया अहं भगवनायञ्च व्ययञ्च न समनुपश्यामि नोपलभ् वीर्यपारमिताया अहं भगवनायञ्च व्ययञ्च न समनुपश्यामि नोपलभ् ध्यानपारमिताया अहं भगवनायञ्च व्ययञ्च न समनुपश्यामि नोपलभ् प्रज्ञापारमिताया
१२५१४ अहं {भगवनायञ्च व्ययञ्च न समनुपश्यामि नोपलभे}। आत्मनोऽहं {भगवनायञ्च व्ययञ्च न समनुपश्यामि नोपलभे} एवं सत्वजीवपोषपुरुषपुद्गलमनुजमानवकारकवेद-
१२५१५ कजानकपश्यकानामहं {भगवनायञ्च व्ययञ्च न समनुपश्यामि नोपलभे}। स्मृत्युपस्थानानामहं {भगवनायञ्च व्ययञ्च न समनुपश्यामि नोपलभे}। एवं सम्यक्प्रहाणर्द्धिपा-
१२५१६ देन्द्रियबलबोध्यङ्गमार्गस्याहं {भगवनायञ्च व्ययञ्च न समनुपश्यामि नोपलभे}। शून्यताया अनिमित्तस्याप्रणिहितस्याहं {भगवनायञ्च व्ययञ्च न समनुपश्यामि नोपलभे}।
१२५१७ चतुर्णां ध्यानानां चतुर्णामप्रमाणानां चतसृणामारूप्यसमापत्तीनामहं {भगवनायञ्च व्ययञ्च न समनुपश्यामि नोपलभे}।
१२५१८ बुद्धानुस्मृतेर्धर्मानुस्मृतेः संघानुस्मृतेः शीलानुस्मृतेस्त्यागानुस्मृतेर्देवतानु-
१२५१९ स्मृतेरायञ्च {व्ययञ्च न समनुपश्यामि नोपलभे}। आनापानानुस्मृतेर्मरणानुस्मृतेरायञ्च {व्ययञ्च न समनुपश्यामि नोपलभे}। पञ्चानां चक्षुषामभिज्ञानां
१२५२० वैशारद्यानां दशानां तथागतबलानामायञ्च {व्ययञ्च न समनुपश्यामि नोपलभे}। अष्टादशानामावेणिकानामहं भगवन्

१२६०१ बुद्धधर्माणामायञ्च {व्ययञ्च समनुपश्यामि नोपलभे}। सोऽहं भगवन्नष्टादशानामावेणिकानां बुद्धधर्माणामायञ्च
१२६०२ व्ययञ्चानुपलभमानोऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व
१२६०३ इति। अपि तु खलु पुनर्भगवन् तदपि नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्। तत्कस्य हेतोः। अविद्यमानत्वेन तस्य नामधेयस्य एवं तन्नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्। स्वन्पोपमानामहं
१२६०४ भगवन् पञ्चानामुपादानस्कन्धानामायञ्च{व्ययञ्च समनुपश्यामि नोपलभे}। एवं मायोपमानां प्रति-
१२६०५ श्रुत्कोपमानां प्रतिभासोपमानां प्रतिबिम्बोपमानां मरीच्युपमानामुदक-
१२६०६ चन्द्रोपमानां निर्मितकोपमानामहं भगवन् पञ्चानामुपादानस्कन्धाना-
१२६०७ मायञ्च {व्ययञ्च समनुपश्यामि नोपलभे}। एवं विविक्तस्य शान्तस्यानुत्पादस्यानिरोधस्यासंक्लेशस्या-
१२६०८ व्यवदानस्य अहं भगवनायञ्च {व्ययञ्च समनुपश्यामि नोपलभे}। एवं धर्मधातोस्तथताया भूतकोटेर्द्धर्म-
१२६०९ स्थितिताया धर्मनियामताया अहं भगवनायञ्च {व्ययञ्च समनुपश्यामि नोपलभे}। एवं कुशलानामकुश-
१२६१० लानां सावद्यानामनवद्यानां सास्रवाणामनास्रवाणां संक्लेशानां निः-
१२६११ क्लेशानां लौकिकानां लोकोत्तराणां संस्कृतानामसंस्कृतानां संक्लेशानां
१२६१२ व्यवदानानां सांसारिकाणां नैवाणिकानामहं भगवन् धर्माणामायञ्च {व्ययञ्च समनुपश्यामि नोपलभे}।
१२६१३ अतीतानागतप्रत्युत्पन्नानां धर्माणामायञ्च {व्ययञ्च समनुपश्यामि नोपलभे}। भगवतोऽप्यहं भगवन्
१२६१४ आयञ्च {व्ययञ्च समनुपश्यामि नोपलभे}। पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु तथागताना-
१२६१५ मर्हतां सम्यक्संबुद्धानां सश्रावकसंघानां सबोधिसत्त्वसंघानामहं भगवन्
१२६१६ आयञ्च {व्ययञ्च समनुपश्यामि नोपलभे}। दक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु तथागतानामर्हतां सम्यक्संबुद्धानां सश्रावकसंघानां सबोधिसत्त्वसंघानामहं भगवनायञ्च व्ययञ्च समनुपश्यामि नोपलभ् पश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु तथागतानामर्हतां सम्यक्संबुद्धानां सश्रावकसंघानां सबोधिसत्त्वसंघानामहं भगवनायञ्च व्ययञ्च समनुपश्यामि नोपलभ् उत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु तथागतानामर्हतां सम्यक्संबुद्धानां सश्रावकसंघानां सबोधिसत्त्वसंघानामहं भगवनायञ्च व्ययञ्च समनुपश्यामि नोपलभ् उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु तथागतानामर्हतां सम्यक्संबुद्धानां सश्रावकसंघानां सबोधिसत्त्वसंघानामहं भगवनायञ्च व्ययञ्च समनुपश्यामि नोपलभ् पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु तथागतानामर्हतां सम्यक्संबुद्धानां सश्रावकसंघानां सबोधिसत्त्वसंघानामहं भगवनायञ्च व्ययञ्च समनुपश्यामि नोपलभ् दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु तथागतानामर्हतां सम्यक्संबुद्धानां सश्रावकसंघानां सबोधिसत्त्वसंघानामहं भगवनायञ्च व्ययञ्च समनुपश्यामि नोपलभ् पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु तथागतानामर्हतां सम्यक्संबुद्धानां
सश्रावकसंघानां सबोधिसत्त्वसंघानामहं भगवनायञ्च व्ययञ्च समनुपश्यामि नोपलभ् अधस्ताद्दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु तथागतानामर्हतां सम्यक्संबुद्धानां सश्रावकसंघानां सबोधिसत्त्वसंघानामहं भगवनायञ्च व्ययञ्च समनुपश्यामि नोपलभ् उपरिष्टाद्दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु तथागतानामर्हतां सम्यक्संबुद्धानां सश्रावकसंघानां सबोधिसत्त्वसंघानामहं भगवनायञ्च व्ययञ्च समनुपश्यामि नोपलभ्
१२६१७ अपि तु खलु पुनर्भगवन् तदपि नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्। तत्कस्य हेतोः। अविद्यमानत्वेन तस्य नामधेयस्य एवं तन्नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्। आयञ्च व्ययञ्चानु-
१२६१८ पलभमानोऽसमनुपश्यन् कतमं बोधिसत्त्वं कतमस्यां प्रज्ञापारमितायाम-
१२६१९ ववदिष्याम्यनुशासिष्यामि। अपि तु खलु पुनर्भगवन् तदपि नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्। तत्कस्य हेतोः। अविद्यमानत्वेन तस्य नामधेयस्य एवं तन्नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्।
१२६२० सर्वधर्मतथताया अहं भगवनायञ्च {व्ययञ्च समनुपश्यामि नोपलभ्
१२६२१ [इति मध्योष्मगतस्यालम्बनाकारविशेषः॥]
१२६२२ यापीयं भगवन् धर्मसंकेतिकी धर्मप्रज्ञप्तिर्यदुत बोधिसत्त्व इति।
१२६२३ सा न केनचिद्वचनीया स्कन्धेन वा धातुना वा आयतनेन वा

१२७०१ यावदावेणिकेन वा बुद्धधर्मेण् यावदेवैषा धर्मप्रज्ञप्तिः। तद्यथापि
१२७०२ नाम भगवन् स्वप्नो न केनचिद्वचनीयः प्रतिश्रुत्को प्रतिभासः
१२७०३ प्रतिबिम्बं निर्मितकं न केनचिद्वचनीयम्। तद्याथापि नाम भगवन्
१२७०४ पृथिव्यप्तेजोवाय्वाकाशं नाम {न केनचिद्वचनीयं}। तद्यथापि नाम भगवन् शीलमिति
१२७०५ समाधिरिति प्रज्ञेति विमुक्तिरिति विमुक्तिज्ञानदर्शनमिति नाम {न केनचिद्वचनीयं}। स्रोतआपन्न
१२७०६ इति नाम {न केनचिद्वचनीयं}। सकृदागामीति अनागमीति अर्हन्निति प्रत्येकबुद्ध इति
१२७०७ यावद्बोधिसत्त्वधर्म इति तथागत इति बुद्ध तिइ तथतेति बुद्धधर्म इति
१२७०८ नाम {न केनचिद्वचनीयं}। कुशलेन वा अकुशलेन वा सावद्येन वा अनवद्येन वा सुखेन वा
१२७०९ दुःखेन वा आत्मना व अनात्मना वा शान्तेन वा अशान्तेन वा विविक्तेन वा
१२७१० अविविक्तेन वा निमित्तेन वा अनिमित्तेन वा भावेन वा अभावेन वा
१२७११ इममप्यहं भगवनर्थवशं प्रतीत्य एवं वदामि एतदेव मे भगवन्
१२७१२ कौकृत्यं स्यात् । योऽहं सर्वधर्माणामायञ्च व्ययञ्चानुपलभमानोऽसमनु-
१२७१३ पश्यन्नामधेयमात्रेणायञ्च व्ययञ्च कुर्यां बोधिसत्त्व इति। अपि तु खलु
१२७१४ पुनर्भगवंस्तदपि नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्। तत्
१२७१५ कस्य हेतोः। अविद्यमानत्वात्तस्य नामधेयस्य् एवं तत्नामधेयं
१२७१६ न स्थितं नास्थितं न विष्ठितं नाविष्ठितं। स चेह भगवनेवं {बोधिसत्त्वस्य} महा-
१२७१७ सत्त्वस्य प्रज्ञापारमितायां भाष्यमाणायां चित्तं नावलीयते न संलीयते
१२७१८ न विप्रतिसारी भवति। मानसं नोत्त्रस्यति न संत्रस्यति न संत्रासमापद्यते

१२८०१ नियतं महासत्त्वोऽविनिवर्तणीयायां बोधिसत्त्वभूमौ स्थितो वेदितव्यः
१२८०२ सुस्थितोऽस्थानयोगेन् । [इति अधिमात्रोष्मगतस्यालम्बनाकारविशेषः॥]
१२८०३ पुनरपरं बह्गवन् {बोधिसत्त्वेन} महासत्त्वेन प्रज्ञापारमितायाञ्चरतो न रूपे स्थातव्यं
१२८०४ न वेदनायां स्थातव्यं न संज्ञायां स्थातव्यं न संस्कारेषु स्थातव्यं न विज्ञाने स्थातवय्ं। तेन न चक्षुषि स्थातव्यं न श्रोत्रे स्थातव्यं न घ्राणे स्थातव्यं न जिह्वायां स्थातव्यं न काये स्थातव्यं
१२८०५ न मनसि स्थातव्यं। तेन न रूपे स्थातव्यं न शब्दे स्थातव्यं न गन्धे स्थातव्यं न रसे स्थातव्यं न स्प्रष्टव्ये स्थातव्यं न धर्मे
१२८०६ स्थातव्यम्। तेन न चक्षुर्विज्ञाने स्थातवय्ं न श्रोत्रविज्ञाने स्थातवय्ं न घ्राणविज्ञाने स्थातवय्ं न जिह्वाविज्ञाने स्थातवय्ं न कायविज्ञाने स्थातवय्ं न मनोविज्ञाने स्थातव्यं।
१२८०७ तेन न चक्षुःसंस्पर्शे स्थातव्यं न चक्षुःसंस्पर्शप्रत्ययवेदयिते स्थातव्यं न श्रोत्रसंस्पर्शे स्थातव्यं न श्रोत्रसंस्पर्शप्रत्ययवेदयिते स्थातव्यं न घ्राणसंस्पर्शे स्थातव्यं न घ्राणसंस्पर्शप्रत्ययवेदयिते स्थातव्यं न जिह्वासंस्पर्शे स्थातव्यं न जिह्वासंस्पर्शप्रत्ययवेदयिते स्थातव्यं न कायसंस्पर्शे स्थातव्यं न कायसंस्पर्शप्रत्ययवेदयिते स्थातव्यं
१२८०८ न मनःसंस्पर्शे न मनःसंस्पर्शप्रत्ययवेदयिते स्थातव्यम्। तेन न पृथिवी-
१२८०९ धातौ स्थातव्यं नाब्धातौ स्थातव्यं न तेजोधातौ स्थातव्यं न वायुधातौ स्थातव्यं नाकाशधातौ स्थातव्यम् न विज्ञानधातौ स्थातव्यम्। तेन नाविद्यायां स्थातव्यं
१२८१० न संस्कारेषु स्थातव्यं न विज्ञायां स्थातव्यं न नामरूपे स्थातव्यं न षडायतनेषु स्थातव्यं न स्पर्शे स्थातव्यं न वेदनायां स्थातव्यं न तृष्णायां स्थातव्यं न उपादाने स्थातव्यं न भवे स्थातव्यं न जातौ स्थातव्यं न जरामरणे स्थातव्यं न जरामरणे स्थातव्यं न शोके स्थातव्यं न परिदेवे स्थातव्यं न दुःखे स्थातव्यं न दौर्मनस्योपयासेषू स्थातव्यम्। तत्कस्य हेतोः। तथा
१२८११ हि भगवन् रूपं रूपत्वेन शून्यं। वेदना वेदनात्वेन शून्या संज्ञा संज्ञात्वेन शून्या संस्काराः संस्कारत्वेन शून्या विज्ञानं विज्ञानत्वेन शून्यं
१२८१२ या च भगवन् रूपस्य शून्यता न तद्रूपं। न चान्यत्र शून्यताया रुपं रूपमेव
१२८१३ शून्यता शून्यतैव रूपम्। या च भगवन् वेदनायाः शून्यता न सा वेदना। न चान्यत्र शून्यताया वेदना वेदनैव शून्यता शून्यतैव वेदना। या च भगवन् संज्ञायाः शून्यता न सा संज्ञा। न चान्यत्र शून्यताया संज्ञा संज्ञैव शून्यता शून्यतैव संज्ञा। या च भगवन् संस्काराणां शून्यता न ते संस्काराः। न चान्यत्र शून्यताया संस्काराः संस्काराः शून्यता शून्यतैव संस्काराः।
१२८१४ या च भगवन् विज्ञानस्य शून्यता न तद्विज्ञानं न चान्यत्र शून्यताया विज्ञानं
१२८१५ विज्ञानमेव शून्यता शून्यतैव विज्ञानम्।
१२८१६ अनेन भगवन् पर्यायेण {बोधिअत्त्वेन} महासत्त्वेन प्रज्ञापारमितायां चरता न रूपे
१२८१७ स्थातव्यं {न वेदनायां स्थातव्यं न संज्ञायां स्थातव्यं न संस्कारेषु स्थातव्यं} न विज्ञाने स्थातव्यं। न पृथिवीधातौ स्थातव्यं नाब्धातौ स्थातव्यं न तेजोधातौ स्थातव्यं न वायुधातौ स्थातव्यं नाकाशधातौ स्थातव्यम् न
१२८१८ विज्ञानधातौ स्थातव्यं। तत्कस्य हेतोः। तथा हि भगवन् पृथिवीधतुः पृथिवी-
१२८१९ धातुत्वेन शून्या। या च पृथिवीधातुशून्यता नासौ पृथिवीधातुर्न चान्यत्र
१२८२० शून्यतायाः पृथिवीधातुः। पृथिवीधातुरेव शून्यता। शून्यतैव पृथिवीधातुः।
१२८२१ एवमब्धातुस्तेजोधातुर्वायुधातुराकाशधातुस्तथा हि भगवन् विज्ञानधातुर्वि-
१२८२२ ज्ञानधातुत्वेन शून्या। या च विज्ञानधातुशून्यता नासौ विज्ञानधातुर्न चान्यत्र
१२८२३ शून्यताया विज्ञानधातुर्विज्ञानधातुरेव शून्यता। शून्यतैव विज्ञानधातुः। अनेन

१२९०१ भगवन् पर्यायेण {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} न पृथिवीधातौ स्थातव्यं नाब्धातौ स्थातव्यं न तेजोधातौ स्थातव्यं न वायुधातौ स्थातव्यं नाकाशधातौ स्थातव्यम् न विज्ञानधातौ
१२९०२ स्थातव्यम्। न रूपे स्थातव्यं न शब्दे स्थातव्यं न गन्धे स्थातव्यं न रसे स्थातव्यं न स्प्रष्टव्ये स्थातव्यं न धर्मे स्थातव्यं। तत्कस्य हेतोः। तथा हि
१२९०३ भगवन् रूपं रूपत्वेन शून्यम् शब्दः शब्दत्वेन शून्यो गन्धो गन्धत्वेन शून्यो रसो रसत्वेन शून्यः स्प्रष्टव्यं स्प्रष्टव्यत्वेन शून्यम्। या च भगवन् रूपस्य शून्यता न तद्रूपं। न चान्यत्र शून्यताया रुपं रूपमेव शून्यता शून्यतैव रूपम्। या च भगवन् शब्दस्य शून्यता न स शब्दः। न चान्यत्र शब्दात्शब्दः शब्द एव शून्यता शून्यतैव शब्दः। या च भगवन् गन्धस्य शून्यता न स गन्धः। न चान्यत्र गन्धाद्गन्धो गन्ध एव शून्यता शून्यतैव गन्धः। या च भगवन् रसस्य शून्यता न स रसः। न चान्यत्र रसाद्रसो रस एव शून्यता शून्यतैव रसः। या च भगवन् स्प्रष्टव्यस्य शून्यता न तद्स्प्रष्टव्यम्। न चान्यत्र स्प्रष्टव्यात्स्प्रष्टव्यं स्प्रष्टव्यमेव शून्यता शून्यतैव स्प्रष्टयम्।
१२९०४ या च भगवन् धर्मस्य शून्यता न स धर्मः। न चान्यत्र धर्माद्धर्मो धर्म एव शून्यता शून्यतैव धर्मः। अनेन
१२९०५ भगवन् पर्यायेण {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} न रूपे {स्थातव्यं} न शब्दे स्थातव्यं न गन्धे स्थातव्यं न रसे स्थातव्यं न स्प्रष्टव्ये स्थातव्यं न धर्मे {स्थातव्यं} न चक्षुषि {स्थातव्यं}
१२९०६ न श्रोत्रे स्थातव्यं न घ्राणे स्थातव्यं न जिह्वायां स्थातव्यं न काये स्थातव्यं न मनसि {स्थातव्यं}। न चक्षुर्विज्ञाने {स्थातव्यं} न श्रोत्रविज्ञाने स्थातवय्ं न घ्राणविज्ञाने स्थातवय्ं न जिह्वाविज्ञाने स्थातवय्ं न कायविज्ञाने स्थातवय्ं न मनोविज्ञाने
१२९०७ {स्थातव्यं}। तत्कस्य हेतोः। तथा हि भगवंश्चक्षुर्विज्ञानं चक्षुर्विज्ञानत्वेन शून्यम्
१२९०८ श्रोत्रविज्ञानं श्रोत्रविज्ञानत्वेन शून्यं घ्राणविज्ञानं घ्राणविज्ञानत्वेन शून्यं जिह्वाविज्ञानं जिह्वाविज्ञानत्वेन शून्यं कायविज्ञानं कायविज्ञानत्वेन शून्यं मनोविज्ञानं मनोविज्ञानत्वेन शून्यम्। या च भगवन् चक्षुर्विज्ञानस्य शून्यता न तद्चक्षुर्विज्ञानं न चान्यत्र शून्यताया चक्षुर्विज्ञानं चक्षुर्विज्ञानमेव शून्यता शून्यतैव चक्षुर्विज्ञानम्। या च भगवन् श्रोत्रविज्ञानस्य शून्यता न तद्श्रोत्रविज्ञानं न चान्यत्र शून्यताया श्रोत्रविज्ञानं श्रोत्रविज्ञानमेव शून्यता शून्यतैव श्रोत्रविज्ञानम्। या च भगवन् घ्राणविज्ञानस्य शून्यता न तद्घ्राणविज्ञानं न चान्यत्र शून्यताया घ्राणविज्ञानं घ्राणविज्ञानमेव शून्यता शून्यतैव घ्राणविज्ञानम्। या च भगवन् जिह्वाविज्ञानस्य शून्यता न तद्जिह्वाविज्ञानं न चान्यत्र शून्यताया जिह्वाविज्ञानं जिह्वाविज्ञानमेव शून्यता शून्यतैव जिह्वाविज्ञानम्। या च भगवन् कायविज्ञानस्य शून्यता न तद्कायविज्ञानं न चान्यत्र शून्यताया कायविज्ञानं कायविज्ञानमेव शून्यता शून्यतैव कायविज्ञानम्। या च भगवन्मनोविज्ञानस्य शून्यता न तद्मनोविज्ञानं न चान्यत्र शून्यताया मनोविज्ञानं मनोविज्ञानमेव शून्यता शून्यतैव मनोविज्ञानम्। अनेन
१२९०९ भगवन् पर्यायेण {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} न चक्षुर्विज्ञाने {स्थातव्यं} न श्रोत्रविज्ञाने स्थातवय्ं न घ्राणविज्ञाने स्थातवय्ं न जिह्वाविज्ञाने स्थातवय्ं न कायविज्ञाने स्थातवय्ं न मनोविज्ञाने
१२९१० {स्थातव्यं}। न चक्षुःसंस्पर्शे {स्थातव्यं} न श्रोत्रसंस्पर्शे स्थातव्यं न घ्राणसंस्पर्शे स्थातव्यं न जिह्वासंस्पर्शे स्थातव्यं न कायसंस्पर्शे स्थातव्यं न मनःसंस्पर्शे {स्थातव्यं}। तत्कस्य
१२९११ हेतोः। तथा हि भगवंश्चक्षुःसंस्पर्शश्चक्षुःसंस्पर्शत्वेन शून्यः
१२९१२ श्रोत्रसंस्पर्शश्श्रोत्रसंस्पर्शत्वेन शून्यो घ्राणस्पर्शश्घ्राणसंस्पर्शत्वेन शून्यो जिह्वासंस्पर्शश्जिह्वासंस्पर्शत्वेन शून्यः कायसंस्पर्शश्कायसंस्पर्शत्वेन शून्यः मनःसंस्पर्शश्मनःसंस्पर्शत्वेन शून्यः। या च भगवन् चक्षुःसंस्पर्शस्य शून्यता न स चक्षुःसंस्पर्शः। न चान्यत्र शून्यताया चक्षुःसंस्पर्शः चक्षुःसंस्पर्श एव शून्यता शून्यतैव चक्षुःसंस्पर्शः। या च भगवन् श्रोत्रसंस्पर्शस्य शून्यता न स श्रोत्रसंस्पर्शः। न चान्यत्र शून्यताया श्रोत्रसंस्पर्शः श्रोत्रसंस्पर्श एव शून्यता शून्यतैव श्रोत्रसंस्पर्शः। या च भगवन् घ्राणसंस्पर्शस्य शून्यता न स घ्राणसंस्पर्शः। न चान्यत्र शून्यताया घ्राणसंस्पर्शः घ्राणसंस्पर्श एव शून्यता शून्यतैव घ्राणसंस्पर्शः। या च भगवन् जिह्वासंस्पर्शस्य शून्यता न स जिह्वासंस्पर्शः। न चान्यत्र शून्यताया जिह्वासंस्पर्शः जिह्वासंस्पर्श एव शून्यता शून्यतैव जिह्वासंस्पर्शः। या च भगवन् कायसंस्पर्शस्य शून्यता न स कायसंस्पर्शः। न चान्यत्र शून्यताया कायसंस्पर्शः कायसंस्पर्श एव शून्यता शून्यतैव कायसंस्पर्शः। या च भगवन्मनःसंस्पर्शस्य शून्यता न स मनःसंस्पर्शः। न चान्यत्र शून्यताया मनःसंस्पर्शः मनःसंस्पर्श एव शून्यता शून्यतैव मनःसंस्पर्शः। अनेन भगवन् पर्यायेण
१२९१३ {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} न चक्षुःसंस्पर्शे {स्थातव्यं} न मनःसंस्पर्शे {स्थाअतव्यं}। न चक्षुःसंस्पर्शप्रत्यय-
१२९१४ वेदयिते {स्थातव्यं} एवं यावन्न मनःसंस्पर्शप्रत्ययवेदयिते {स्थातव्यं}। तत्कस्य हेतोः।
१२९१५ तथा हि भगवंश्चक्षुःसंस्पर्शप्रत्ययवेदयितं चक्षुःसंस्पर्शप्रत्ययवेदयितत्वेन शून्यं
१२९१६ श्रोत्रसंस्पर्शप्रत्ययवेदयितं श्रोत्रसंस्पर्शप्रत्ययवेदयितत्वेन शून्यं घ्राणसंस्पर्शप्रत्ययवेदयितं घ्राणसंस्पर्शप्रत्ययवेदयितत्वेन शून्यं जिह्वासंस्पर्शप्रत्ययवेदयितं जिह्वासंस्पर्शप्रत्ययवेदयितत्वेन शून्यं कायसंस्पर्शप्रत्ययवेदयितं कायसंस्पर्शप्रत्ययवेदयितत्वेन शून्यं मनःसंस्पर्शप्रत्ययवेदयितं मनःसंस्पर्शप्रत्ययवेदयितत्वेन शून्यं। या च भगवन् चक्षुःसंस्पर्शप्रत्ययवेदयितस्य शून्यता न तद्चक्षुःसंस्पर्शप्रत्ययवेदयितम्। न चान्यत्र शून्यताया चक्षुःसंस्पर्शप्रत्ययवेदयितं चक्षुःसंस्पर्शप्रत्ययवेदयितमेव शून्यता शून्यतैव चक्षुःसंस्पर्शप्रत्ययवेदयितम्। या च भगवन् श्रोत्रसंस्पर्शप्रत्ययवेदयितस्य शून्यता न तद्श्रोत्रसंस्पर्शप्रत्ययवेदयितम्। न चान्यत्र शून्यताया श्रोत्रसंस्पर्शप्रत्ययवेदयितं श्रोत्रसंस्पर्शप्रत्ययवेदयितमेव शून्यता शून्यतैव श्रोत्रसंस्पर्शप्रत्ययवेदयितम्। या च भगवन् घ्राणसंस्पर्शप्रत्ययवेदयितस्य शून्यता न तद्घ्राणसंस्पर्शप्रत्ययवेदयितम्। न चान्यत्र शून्यताया घ्राणसंस्पर्शप्रत्ययवेदयितं घ्राणसंस्पर्शप्रत्ययवेदयितमेव शून्यता शून्यतैव घ्राणसंस्पर्शप्रत्ययवेदयितम्। या च भगवन् जिह्वासंस्पर्शप्रत्ययवेदयितस्य शून्यता न तद्जिह्वासंस्पर्शप्रत्ययवेदयितम्। न चान्यत्र शून्यताया जिह्वासंस्पर्शप्रत्ययवेदयितं जिह्वासंस्पर्शप्रत्ययवेदयितमेव शून्यता शून्यतैव जिह्वासंस्पर्शप्रत्ययवेदयितम्। या च भगवन् कायसंस्पर्शप्रत्ययवेदयितस्य शून्यता न तद्कायसंस्पर्शप्रत्ययवेदयितम्। न चान्यत्र शून्यताया कायसंस्पर्शप्रत्ययवेदयितं कायसंस्पर्शप्रत्ययवेदयितमेव शून्यता शून्यतैव
कायसंस्पर्शप्रत्ययवेदयितम्। या च भगवन्मनःसंस्पर्शप्रत्ययवेदयितस्य शून्यता न तद्मनःसंस्पर्शप्रत्ययवेदयितम्। न चान्यत्र शून्यताया मनःसंस्पर्शप्रत्ययवेदयितं मनःसंस्पर्शप्रत्ययवेदयितमेव शून्यता शून्यतैव मनःसंस्पर्शप्रत्ययवेदयितम्।
१२९१७ अनेन भगवन् पर्यायेण {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} न चक्षुःसंस्पर्शप्रत्ययोत्पन्ने वेदयिते {स्थातव्यं}
१२९१८ न श्रोत्रसंस्पर्शप्रत्ययोत्पन्ने वेदयिते स्थातव्यं न घ्राणसंस्पर्शप्रत्ययोत्पन्ने वेदयिते स्थातव्यं न जिह्वासंस्पर्शप्रत्ययोत्पन्ने वेदयिते स्थातव्यं न कायसंस्पर्शप्रत्ययोत्पन्ने वेदयिते स्थातव्यं न मनःसंस्पर्शप्रत्ययोत्पन्ने वेदयिते {स्थातव्यं}। नाविद्यायां {स्थातव्यं}। एवं
१२९१९ यावन्न जरामरण् तत्कस्य हेतोः। तथा हि भगवनविद्या अविद्यात्वेन
१२९२० शून्या। या चाविद्याशून्यता न सा अविद्या न चान्यत्र शून्यताया अविद्या
१२९२१ अविद्यैव शून्यता शून्यतैवाविद्या। एवं संस्काराः सम्स्कारत्वेन शून्याः
१२९२२ विज्ञानं विज्ञानत्वेन शून्यं नामरूपं नामरूपत्वेन शून्यं षडायतनानि षडायतनत्वेन शून्यानि स्पर्शः स्पर्शत्वेन शून्यो वेदना वेदनात्वेन शून्या तृष्णा तृष्णात्वेन शून्या उपादानमुपादानत्वेन शून्यं भवो भवत्वेन शून्यो जातिर्जातित्वेन शून्या। तथा हि भगवन् जरामरणं

१३००१ जरामरणत्वेन शून्यम्। या च जरामरणशून्यता न तज्जरामरणं न चान्यत्र
१३००२ शून्यताता जरामरणं जरामरणमेव शून्यता शून्यतैव जरामरणम्। अनेन
१३००३ भगवन् पर्यायेण {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} नाविद्यायां स्थातव्यं न संस्कारेषु स्थातव्यं न विज्ञाने स्थातव्यं न नामरूपे स्थातव्यं न षडायतनेषु स्थातव्यं न स्पर्शे स्थातव्यं न वेदनायां स्थातव्यं न तृष्णायां स्थातव्यं न उपादाने स्थातव्यं न भवे स्थातव्यं न जातौ स्थातव्यं न जरामरने स्थातव्यम्।
१३००४ एवं स्कन्धधात्वायतनेषु च न कर्तव्यम्। पुनरपरं {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} स्मृत्युपस्थानेषु
१३००५ न स्थातव्यम्। तत्कस्य हेतोः। तथा हि भगवन् स्मृत्युपस्थानानि स्मृत्युप-
१३००६ स्थानत्वेन शून्यानि। या च भगवन् स्मृत्युपस्थानानां शून्यता न तानि स्मृत्युपस्थानानि। न चान्यत्र स्मृत्युपस्थानेभ्यः स्मृत्युपस्थानानि स्मृत्युपस्थानान्येव शून्यता शून्यतैव स्मृत्युपस्थानानि। तदनेनापि भगवन् पर्यायेण {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता}
१३००७ न स्मृत्युपस्थानेषु {स्थातव्यं}। एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्ग-
१३००८ पारमिताभिज्ञादशबलवैशारद्यप्रतिसंविदष्टादशावेणिकबुद्धधर्मेषु न {स्थातव्यं}। तत्
१३००९ कस्य हेतोः। तथा ह्यावेणिकबुद्धधर्म आवेणिकबुद्धधर्मत्वेन शून्या। या च भगवनावेणिकबुद्धधर्मस्य शून्यता न स आवेणिकबुद्धधर्मः। न चान्यत्रावेणिकबुद्धधर्मादावेणिकबुद्धधर्म आवेणिकबुद्धधर्म एव शून्यता शून्यतैव आवेणिकबुद्धधर्मः।
१३०१० तदनेनापि भगवन् पर्यायेण {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} न सम्यक्प्रहाणर्द्धि-
१३०११ पादेन्द्रिय{बलबोध्यङ्गमार्गबलवैशारद्यप्रतिसंविद्}आवेणिकबुद्धधर्मेषु न स्थातव्यम्।
१३०१२ पुनरपरं भगवन् {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} न दानपारमितायां {स्थातव्यम्}। तत्कस्य हेतोः।
१३०१३ तथा हि दानपारमितैव शून्या दानपारमितास्वभावेन् शीलपारमितैव शून्या शीलपारमितास्वभावेन् क्षातिपारमितैव शून्या क्षान्तिपारमितास्वभावेन् वीर्यपारमितैव शून्या वीर्यपारमितास्वभावेन् ध्यानपारमितैव शून्या ध्यानपारमितास्वभावेन् प्रज्ञापारमितैव शून्या प्रज्ञापारमितास्वभावेन् या च भगवन् दानपारमितायाः शून्यता न सा दानपारमिता। न चान्यत्र दानपारमितायाः दानपारमिता दानपारमितैव शून्यता शून्यतैव दानपारमिता। या च भगवन् शीलपारमितायाः शून्यता न सा शीलपारमिता। न चान्यत्र शीलपारमितायाः शीलपारमिता शीलपारमितैव शून्यता शून्यतैव शीलपारमिता। या च भगवन् क्षान्तिपारमितायाः शून्यता न सा क्षान्तिपारमिता। न चान्यत्र क्षान्तिपारमितायाः क्षान्तिपारमिता क्षान्तिपारमितैव शून्यता शून्यतैव क्षान्तिपारमिता। या च भगवन् वीर्यपारमितायाः शून्यता न सा वीर्यपारमिता। न चान्यत्र वीर्यपारमितायाः वीर्यपारमिता वीर्यपारमितैव शून्यता शून्यतैव वीर्यपारमिता। या च भगवन् ध्यानपारमितायाः शून्यता न सा ध्यानपारमिता। न चान्यत्र ध्यानपारमितायाः ध्यानपारमिता ध्यानपारमितैव शून्यता शून्यतैव ध्यानपारमिता। या च भगवन् प्रज्ञापारमितायाः शून्यता न सा प्रज्ञापारमिता। न चान्यत्र प्रज्ञापारमितायाः प्रज्ञापारमिता प्रज्ञापारमितैव शून्यता शून्यतैव प्रज्ञापारमिता।
१३०१४ तदनेनापि भगवन् पर्यायेण {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता}
१३०१५ न दानपारमितायां {स्थातव्यं} न शीलपारमितायां स्थातव्यं न क्षान्तिपारमितायां स्थातव्यं न वीर्यपारमितायां स्थातव्यं न ध्यानपारमितायां स्थातव्यं न प्रज्ञापारमितायां {स्थातव्यम्}।
१३०१६ पुनरपरं भगवन् {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} अक्षरेषु न {स्थातव्यं}। अक्षराभिनिर्हारेषु न {स्थातव्यं}।
१३०१७ एकोदाहारे द्विरुदाहारे त्रिरुदाहारे न {स्थातव्यं}। तत्कस्य हेतोः। तथा हि
१३०१८ अक्षराणि शून्यान्यक्षरस्वभावेन् या च भगवन्नक्ष्रशून्यता न सा अक्षराणि
१३०१९ न चान्यत्र शून्यताया अक्षराणि अक्ष्सरान्येव शून्यता शून्यतैवाक्षराणि।
१३०२० तदनेन भगवन् पर्यायेण {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} नाक्षरेषु स्थातव्यम्। पुनरपरं भगवन् {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता}

१३१०१ नाभिज्ञासु स्थातव्यम्। तत्कस्य हेतोः। अभिज्ञा एव शून्या अभिज्ञा-
१३१०२ स्वभावेन या च भगवन्नभिज्ञाशून्यता न ता अभिज्ञा न चान्यत्र शून्यताया
१३१०३ अभिज्ञा अभिज्ञा एव शून्यता शून्यतैवाभिज्ञा। तदनेन भगवन् पर्यायेण
१३१०४ {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} नाभिज्ञासु स्थातव्यम्।
१३१०५ पुनरपरं {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} न रूपमनित्यमिति {स्थातव्यं}। न वेदना न संज्ञा न
१३१०६ संस्कारा न विज्ञानमनित्यमिति {स्थातव्यं}। तत्कस्य हेतोः। तथा हि रूपानित्यता
१३१०७ अनित्यतास्वभावेन शून्या या च भगवन् रूपानित्यता शून्यता न सा
१३१०८ अनित्यता न चान्यत्र शून्यताया अनित्यता अनित्यतैव शून्यता शून्यतैव
१३१०९ अनित्यता। तदनेनापि भगवन् पर्यायेण {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} रूपमनित्यमिति न
१३११० स्थातव्यं वेदनानित्येति न स्थातव्यं संज्ञानित्येति न स्थातव्यं संस्कारा अनित्या इति न स्थातव्यं विज्ञानमनित्यमिति न स्थातव्यम्।
१३१११ एवं न रूपं दुःखमिति {स्थातव्यं}। न वेदना न संज्ञा न संस्कारा न विज्ञानं
१३११२ दुःखमिति स्थातव्यं। तत्कस्य हेतोः। तथा हि रूपदुःखता दुःखतास्वभावेन
१३११३ शून्या। या च भगवन् रूपदुःखताशून्यता न सा दुःखता न चान्यत्र शून्यताया
१३११४ दुःखता दुःखतैव शून्यता शून्यतैव दुःखता। तदनेनापि भगवन् पर्यायेण {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता}
१३११५ न रूपं दुःखमिति स्थातव्यम्। न वेदना न संज्ञा न संस्कारा न विज्ञानम्। तत्
१३११६ कस्य हेतोः। तथा हि विज्ञानदुःखता दुःखतास्वभावेन शून्या। या च भगवन्
१३११७ विज्ञानदुःखताशून्यता न सा दुःखता न चान्यत्र शून्यताया दुःखता दुःखतैव
१३११८ शून्यता शून्यतैव दुःखता। तदनेनापि भगवन् पर्यायेण {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} न विज्ञानम्
१३११९ दुःखमिति स्थातव्यम्। एवं न रूपमनात्ममिति स्थातव्यं। न वेदना न संज्ञा न संस्कारा न विज्ञानमनात्ममिति स्थातव्यं। तत्कस्य हेतोः। तथा हि रूपानात्मतानात्मतास्वभावेन शून्या। या च भगवन् रूपानात्मताशून्यता न सानात्मता न चान्यत्र शून्यताया अनात्मतानात्मतैव शून्यता शून्यतैवानात्मता। तदनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न रूपमनात्ममिति स्थातव्यम्। न वेदना न संज्ञा न संस्कारा न विज्ञानम्। तत्कस्य हेतोः। तथा हि विज्ञानानात्मतानात्मतास्वभावेन शून्या। या च भगवन् विज्ञानानात्मताशून्यता न सानात्मता न चान्यत्र शून्यताया अनात्मतानात्मतैव शून्यता शून्यतैवानात्मता। तदनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न विज्ञानमनात्ममिति स्थातव्यम्। एवं न रूपं शान्तमिति स्थातव्यं। न वेदना न संज्ञा न संस्कारा न विज्ञानं शान्तमिति स्थातव्यं। तत्कस्य हेतोः। तथा हि रूपशान्तता शान्ततास्वभावेन शून्या। या च भगवन् रूपशान्तताशून्यता न सा शान्तता न चान्यत्र शून्यताया शान्तता शान्ततैव शून्यता शून्यतैव शान्तता। तदनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न रूपं शान्तमिति स्थातव्यम्। न वेदना न संज्ञा न संस्कारा न विज्ञानम्। तत्कस्य हेतोः। तथा हि विज्ञानशान्तता शान्ततास्वभावेन शून्या। या च भगवन् विज्ञानशान्तताशून्यता न सा शान्तता न चान्यत्र शून्यताया शान्तता शान्ततैव शून्यता शून्यतैव शान्तता।
१३१२० तदनेनापि

१३२०१ भगवन् पर्यायेण {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} न विज्ञानं शान्तमिति {स्थातव्यं}। एवं हेतु-
१३२०२ समुदयप्रभवप्रत्ययतायां न {स्थातव्यं}।
१३२०३ पुनरपरं भगवन् {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} तथतायां न {स्थातव्यं}। तत्कस्य हेतोः। तथा हि
१३२०४ तथता तथतास्वभावेन शून्या। या च भगवंस्तथतायाः शून्यता न सा तथता
१३२०५ न चान्यत्र तथतायाः शून्यता तथतैव शून्यता शून्यतैव तथता। तदनेनापि
१३२०६ भगवन् पर्यायेण {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} तथतायां न स्थातव्यमेव धर्मतायां न स्थातव्यम्।
१३२०७ तत्कस्य हेतोः। तथा हि धर्मता धर्मतास्वभावेन शून्या
१३२०८ या च भगवंस्धर्मतायाः शून्यता न सा धर्मता न चान्यत्र धर्मतायाः शून्यता धर्मतैव शून्यता शून्यतैव धर्मता। तदनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता धर्मतायां न स्थातव्यम्। धर्मधातौ न स्थातव्यम्। तत्कस्य हेतोः। तथा हि धर्मधातुर्धर्मधातुस्वभावेन शून्यो या च भगवंस्धर्मधातोः शून्यता न स धर्मधातुर्न चान्यत्र धर्मधाओः शून्यता धर्मधातुरेव शून्यता शून्यतैव धर्मधातुः। तदनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता धर्मधातौ न स्थातव्यम्। धर्मनियामतायां न स्थातव्यम्। तत्कस्य हेतोः। तथा हि धर्मनियामता धर्मनियामतास्वभावेन शून्या या च भगवंस्धर्मनियामतायाः शून्यता न सा धर्मनियामता न चान्यत्र धर्मनियामतायाः शून्यता धर्मनियामतैव शून्यता शून्यतैव धर्मनियामता। तदनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता धर्मनियामतायां न स्थातव्यम्। भूतकोट्यां न स्थातव्यम्। तत्कस्य हेतोः। तथा हि भूतकोटिर्भूतकोटिस्वभावेन शून्या या च भगवंस्भूतकोट्याः शून्यता न सा भूतकोटिर्न चान्यत्र भूतकोट्याः शून्यता भूतकोटिरेव शून्यता शून्यतैव भूतकोटिः। तदनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता भूतकोट्यां न स्थातव्यम्।
१३२०९ पुनरपरं भगवन् {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} सर्वधारणीमुखेषु न स्थातव्यम्। तत्कस्य
१३२१० हेतोः। तथा हि धारणीमुखानि धारणीमुखैः शून्यानि या च भगवंस्धारणीमुखानां शून्यता न तानि धारणीमुखानि न चान्यत्र धारणीमुखेभ्यः शून्यता धारणीमुखान्येव शून्यता शून्यतैव धारणीमुखानि। तदनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता
१३२११ धारणीमुखेषु न स्थातव्यम्।
१३२१२ पुनरपरं भगवन् {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरननुपायकुशलो
१३२१३ऽहङ्कारममकारपतितेन मानसेन सचेद्रूपे तिष्ठति रूपाभिसंस्कारे चरति
१३२१४ न चरति प्रज्ञापारमितायाम्। सचेद्वेदनायां संज्ञायां संस्कारेषु सचेद्
१३२१५ विज्ञाने तिष्ठति विज्ञानाभिसंस्कारे चरति न चरति प्रज्ञापारमितायाम्। तत्
१३२१६ कस्य हेतोः। न ह्यभिसंस्कारे चरन् प्रज्ञापारमितायां परिगृह्णाति न प्रज्ञापार-
१३२१७ मितायां योगमापद्यते न प्रज्ञापारमितां परिपूरयति, अपरिपूरयन् प्रज्ञापार-
१३२१८ मितां न निर्यास्यति सर्वाकारज्ञतायाम्। तत्कस्य हेतोः। तथा हि भगवन्
१३२१९ रूपमपरिगृहीतं वेदनासंज्ञासंस्काराविज्ञानमपरिगृहीतम्। तत्कस्य हेतोः। यश्च
१३२२० रूपस्यापरिग्रहो न तद्रूपं प्रकृतिशून्यतामुपादाय वेदनासंज्ञासंस्कारा यश्च
१३२२१ विज्ञानस्यापरिग्रहो न तद्विज्ञानं प्रकृतिशून्यतामुपादाय एवं यावद्
१३२२२ भूतकोटिरपरिगृहीता। तत्कस्य हेतोः। यश्च भाउतकोट्या अपरिग्रहो न सा
१३२२३ भूतकोटिः प्रकृतिशून्यतामुपादाय एवं {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} प्रकृतिशून्याः सर्वधर्माः

१३३०१ प्रत्यवेक्षितव्याः। तथा च प्रत्यवेक्षितव्या यथा न क्वचिद्धर्मे मनसो
१३३०२ व्युपचारो भवेत् । इदं {बोधिसत्त्वस्य} महासत्त्वस्य सर्वधर्मापरिगृहीतं नाम
१३३०३ समाधिमण्डलं विपुलं पुरस्कृतमप्रमाणं नियतमसंहार्यं सर्वश्रावक-
१३३०४ प्रत्येकबुद्धैः। सापि सर्वाकारज्ञता अपरिगृहीता अध्यात्म{शून्यतामुपादाय} बहिर्धा{शून्यतामुपादाय}
१३३०५ अध्यात्मबहिर्धा{शून्यतामुपादाय} महा{शून्यतामुपादाय} शून्यता{शून्यतामुपादाय} परमार्थ{शून्यतामुपादाय} संस्कृत{शून्यतामुपादाय}
१३३०६ असंस्कृत{शून्यतामुपादाय} अत्यन्त{शून्यतामुपादाय} अनवराग्र{शून्यतामुपादाय} अनवकार{शून्यतामुपादाय} प्रकृति{शून्यतामुपादाय} सर्वधर्म{शून्यतामुपादाय}
१३३०७ स्वलक्षण{शून्यतामुपादाय} अनुपलम्भ{शून्यतामुपादाय} अभावस्वभाव{शून्यतामुपादाय} भाव{शून्यतामुपादाय} अभाव{शून्यतामुपादाय}
१३३०८ स्वभाव{शून्यतामुपादाय} परभावशून्यतामुपादायेति [मृदुमूर्द्धगतस्यालम्बनाकारविशेषः॥]
१३३०९ तत्कस्य हेतोः। तथा हि न भगवन् सर्वाकारज्ञता निमित्ततः उद्ग्रहीतव्या,
१३३१० निमित्तं हि क्लेशः। कतमत्पुनर्निमित्त् रूपं निमित्तं वेदना निमित्तं संज्ञा निमित्तं संस्कारा निमित्तं विज्ञानं
१३३११ निमित्तम्। चक्षुर्निमित्तम् श्रोत्रं निमित्तं घ्राणं निमित्तं जिह्वा निमित्तं कायो निमित्तम् मनो निमित्तं, रूपं निमित्तं शब्दो निमित्तं गन्धो निमित्तं रसो निमित्तं स्प्रष्टव्यं निमित्तं धर्मो
१३३१२ निमित्तं, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मशून्यतानिमित्ताप्रणिहितानभि-
१३३१३ संस्कारधर्मधातुधर्मताधर्मनियामताभूतकोटि निमित्तमयमुच्यते क्लेशः, स-
१३३१४ चेत्पुनः प्रज्ञापारमिता निमित्तत उद्ग्रहीतव्या अभविष्यन्नैवेह श्रेणिकः
१३३१५ परिव्राजकः शासने श्रद्धामलप्स्यत् अत्र सर्वज्ञज्ञाने कतमा च श्रद्धा येयं
१३३१६ प्रज्ञापारमितायामभिश्रद्दधानता अवकल्पनता अधिमुख्तिश्चिन्तना तुलना
१३३१७ व्युपपरीक्षणा तच्चानिमित्तयोगेन् एवमनिमित्तत उद्ग्रहीतव्या अत्र पुनः

१३४०१ श्रेणिकः परिव्राजकः अधिमुच्य श्रद्धानुसारी प्रादेशिकेन ज्ञानेनावतीर्णः।
१३४०२ सोऽवतीर्य न रूपं परिगृहीतवान्न वेदनां न संज्ञां न संस्कारान्न विज्ञानं परी-
१३४०३ गृहीतवान्। तत्कस्य हेतोः। तथा हि स तेन स्वलक्षणशून्येषु धर्मेषु न कश्चिद्धर्मः
१३४०४ परिगृहीतो निमित्तामनसिकारतामुपादाय् तत्कस्य हेतोः। तथा हि स
१३४०५ नाध्यात्मप्राप्त्यभिसमयतस्तज्ज्ञानं समनुपश्यति। न बहिर्धाप्राप्त्यभि-
१३४०६ समयतस्तज्ज्ञानं समनुपश्यति, नाध्यात्मबहिर्धाप्राप्त्यभिसमयतस्{तज्ज्ञानं समनुपश्यति।}
१३४०७ नाप्यन्यत्र प्राप्त्यभिसमयतस्{तज्ज्ञानं समनुपश्यति}। तत्कस्य हेतोः। तथा हि स तं धर्मं न
१३४०८ समनुपश्यति, यो वा प्रजानीयाद्येन वा प्रजानीयात् । तत्कस्य
१३४०९ हेतोः। नाध्यत्मं रूपस्य {तज्ज्ञानं समनुपश्यति}, नाध्यात्मं वेदनायास्{तज्ज्ञानं समनुपश्यति}, नाध्यात्मं
१३४१० संज्ञायास्{तज्ज्ञानं समनुपश्यति}, नाध्यात्मं संस्काराणां {तज्ज्ञानं समनुपश्यति}, नाध्यत्मं विज्ञानस्य {तज्ज्ञानं समनुपश्यति},
१३४११ न बहिर्धारूपस्य {तज्ज्ञानं समनुपश्यति} न बहिर्धावेदनाया न बहिर्धासंज्ञानां न बहिर्धा-
१३४१२ संस्काराणां न बहिर्धाविज्ञानस्य {तज्ज्ञानं समनुपश्यति}, नाध्यात्मबहिर्धारूपस्य {तज्ज्ञानं समनुपश्यति}
१३४१३ नाध्यात्मबहिर्धावेदनायाः तज्ज्ञानं समनुपश्यति नाध्यात्मबहिर्धासंज्ञायाः तज्ज्ञानं समनुपश्यति नाध्यात्मबहिर्धासंस्काराणां तज्ज्ञानं समनुपश्यति नाध्यात्मबहिर्धाविज्ञानस्य {तज्ज्ञानं समनुपश्यति}, नाप्यन्यत्र रूपात्{तज्ज्ञानं समनुपश्यति}
१३४१४ नाप्यन्यत्र वेदनायाः तज्ज्ञानं समनुपश्यति नाप्यन्यत्र संज्ञायाः तज्ज्ञानं समनुपश्यति नाप्यन्यत्र संस्कारेभ्यः तज्ज्ञानं समनुपश्यति नाप्यन्यत्र विज्ञानात्{तज्ज्ञानं समनुपश्यति}अध्यात्म-
१३४१५ बहिर्धाशून्यतामुपादाय् अत्र पदपर्याये श्रेणिकः परिव्राजकोऽधिमुक्तः
१३४१६ सोऽत्राधिमुच्य श्रद्धानुसारी प्रादेशिकेन ज्ञानेनावतीर्णः सर्वज्ञज्ञानधर्मतां
१३४१७ प्रमाणीकृत्य सर्वधर्मानुपलब्धितामुपादाय, एवमधिमुक्तस्तेन न कश्चिद्
१३४१८ धर्मः परीगृहीतो निमित्तामनसिकारतामुपादाय, नाप्यनेन कश्चिद्धर्म
१३४१९ उपलब्धोऽयं परिगृह्णीयाद्वा मुञ्चेद्वा सर्वधर्मानुद्ग्रहानुत्सर्गतामुपादाय,

१३५०१ स निर्वाणेनापि न मन्यते सर्वधर्मानुद्ग्रहानुत्सर्गतामुपादाय् तत्कस्य
१३५०२ हेतोः। यः सर्वधर्माणामपरिग्रहोऽनुत्सर्गः सा प्रज्ञापारमिता। इयमपि भगवन्
१३५०३ {बोधिसत्त्वस्य} महासत्त्वस्य प्रज्ञापारमिता अपारपारगतामुपादाय, यद्रूपं न
१३५०४ परिगृह्णाति यां वेदनां न परिगृह्णाति यां संज्ञां न परिगृह्णाति यान् संस्कारान्न परिगृह्णाति यद्विज्ञानं न परिगृह्णाति सर्वधर्मापरिगृहीततामुपादाय
१३५०५ यावद्व्यस्तसमस्तां स्कन्धधात्वायतनप्रतीत्यसमुत्पादस्मृत्युपस्थान-
१३५०६ सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मशून्यतानिमित्ताप्रणिहितानभिसंस्कारधर्मधातुधर्मताधर्म-
१३५०७ नियामतासमाधिमुखधारणीमुखानि यावत्समाधिं न परिगृह्णाति सर्वधर्मा-
१३५०८ परिगृहीततामुपादाय, न चान्तरापरिनिर्वाणापरिपूर्णैः प्रणिह्दानै-
१३५०९ र्यावद्दशभिस्तथागतबलैश्चतुर्भिर्वैशारद्यैश्चतसृभिः प्रतिसंविद्भिरष्टादश-
१३५१० भिरावेणिकैर्बुद्धधर्मैः। तत्कस्य हेतोः। तथा हि सर्वधर्मा अधर्मा यावत्
१३५११ स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा अधर्मा नापि ते धर्मा नाधर्माः, इयं
१३५१२ {बोधिसत्त्वस्य} महासत्त्वस्य प्रज्ञापारमिता सर्वधर्मापरिगृहीततामुपादाय् । [इति मध्य-
१३५१३ मूर्ध्वगतालम्बनाकारविशेषः॥]
१३५१४ पुनरपरं भगवन् {बोधिसत्त्वेन} महासत्त्वेन प्रज्ञापारमितायां चरता एवं
१३५१५ व्युपपरीक्षितव्यं, कतमैषा प्रज्ञापारमिता, कस्य वैषा प्रज्ञापारमिता, किमेषा
१३५१६ प्रज्ञापारमिता, केनैषा प्रज्ञापारमिता, सचेत्पुनः {बोधिसत्त्वो} महासत्त्वः
१३५१७ प्रज्ञापारमितायां चरन्नेवमुपनिध्यायति तत्किं यो धर्मो न विद्यते
१३५१८ नोपलभ्यते सा प्रज्ञापारमितेति न चरति प्रज्ञापारमितायां। अथ खलु
१३५१९ आयुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिमेतदवोचत् । कतमे ते आयुष्मन्
१३५२० सुभूते धर्मा न विद्यन्ते नोपलभ्यन्त् सुभूतिराह् प्रज्ञापारमिता आयुष्मन्

१३६०१ शारिपुत्र न विद्यते नोपलभ्यते, ध्यान{पारमिता न विद्यते नोपलभ्यते} वीर्य{पारमिता न विद्यते नोपलभ्यते} क्षान्ति{पारमिता न विद्यते नोपलभ्यते} शील{पारमिता न विद्यते नोपलभ्यते}
१३६०२ दान{पारमिता न विद्यते नोपलभ्यते} अध्यात्मशून्यतामुपादाय बहिर्धाशून्यतामुपादाय अध्यात्मबहिर्धाशून्यतामुपादाय महाशून्यतामुपादाय शून्यताशून्यतामुपादाय परमार्थशून्यतामुपादाय संस्कृतशून्यतामुपादाय असंस्कृतशून्यतामुपादाय अत्यन्तशून्यतामुपादाय अनवराग्रशून्यतामुपादाय अनवकारशून्यतामुपादाय प्रकृतिशून्यतामुपादाय सर्वधर्मशून्यतामुपादाय स्वलक्षणशून्यतामुपादाय अनुपलम्भशून्यतामुपादाय अभावस्वभावशून्यतामुपादाय भावशून्यतामुपादाय अभावशून्यतामुपादाय स्वभावशून्यतामुपादाय
१३६०३ परभावशून्यतामुपादाय रूपमायुष्मन् शारिपुत्र {न विद्यते नोपलभ्यते} वेदनायुष्मन् शारिपुत्र न विद्यते नोपलभ्यते संज्ञायुष्मन् शारिपुत्र न विद्यते नोपलभ्यते संस्कारा आयुष्मन् शारिपुत्र न विद्यन्ते नोपलभ्यन्ते विज्ञानमायुष्मन्
१३६०४ शारिपुत्र {न विद्यते नोपलभ्यते} अध्यात्मशून्यता आयुष्मन् शारिप्तुर {न विद्यते नोपलभ्यते} बहिर्धाशून्यता {न विद्यते नोपलभ्यते}
१३६०५ अध्यात्मबहिर्धाशून्यता न विद्यते नोपलभ्यते महाशून्यता न विद्यते नोपलभ्यते शून्यताशून्यता न विद्यते नोपलभ्यते परमार्थशून्यता न विद्यते नोपलभ्यते संस्कृतशून्यता न विद्यते नोपलभ्यते असंस्कृतशून्यता न विद्यते नोपलभ्यते अत्यन्तशून्यता न विद्यते नोपलभ्यते अनवराग्रशून्यता न विद्यते नोपलभ्यते अनवकारशून्यता न विद्यते नोपलभ्यते प्रकृतिशून्यता न विद्यते नोपलभ्यते सर्वधर्मशून्यता न विद्यते नोपलभ्यते स्वलक्षणशून्यता न विद्यते नोपलभ्यते अनुपलम्भशून्यता न विद्यते नोपलभ्यते अभावस्वभावशून्यता न विद्यते नोपलभ्यते भावशून्यता न विद्यते नोपलभ्यते अभावशून्यता न विद्यते नोपलभ्यते स्वभावशून्यता न विद्यते नोपलभ्यते परभावशून्यता {न विद्यते नोपलभ्यते} यावत्सप्तत्रिंशद्बोधिसपक्षा धर्मा {न विद्यन्ते नोपलभ्यन्ते}
१३६०६ अभिज्ञा {न विद्यते नोपलभ्यते} दशबलवैशारद्यप्रतिसंविदष्टादशावेणिका बुद्धधर्मा {न विद्यन्ते नोपलभ्यन्ते}, तथता
१३६०७ {न विद्यते नोपलभ्यते}, धर्मता {न विद्यते नोपलभ्यते}, धर्मस्थितिता {न विद्यते नोपलभ्यते}, धर्मनियामता {न विद्यते नोपलभ्यते}, भुतकोटिर्{न विद्यते नोपलभ्यते}
१३६०८ बुद्धोऽप्यायुष्मन् शारिपुत्र {न विद्यते नोपलभ्यते}, सर्वाकारज्ञताप्यायुष्मन् शारिपुत्र {न विद्यते नोपलभ्यते}
१३६०९ अध्यात्मशून्यतामुपादाय यावत्परभावशून्यतामुपादाय सचेत्पुनः
१३६१० शारिपुत्र {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन्नेवमुपपरीक्षते एवमुपनि-
१३६११ ध्यायति तस्यैवमुपपरीक्षमाणस्यैवमुपनिध्यायतश्चित्तं नावलीयते न संलीयते
१३६१२ नोत्रस्यति न संत्रस्यति न संत्रासमापद्यते अविरहितो {बोधिसत्त्वो} महासत्त्वः
१३६१३ प्रज्ञापारमिताया वेदितव्यः॥ [इत्यधिमात्रमूर्ध्वगतालम्बनाकारविशेषः॥]
१३६१४ अथ खलु आयुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिमेतदवोचत् । केन
१३६१५ कारणेनायुषमन् सुभूते {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितया अविरहितो
१३६१६ वेदितव्यः। सुभूतिराह् रूपमायुष्मन् शारिपुत्र विरहितं रूपस्वभावेन एवं
१३६१७ वेदनासंज्ञासंस्काराः, विज्ञानमायुष्मन् शारिपुत्र विरहितं विज्ञानस्वभावेन
१३६१८ दानपारमिताप्यायुष्मन् शारिपुत्र विरहिता दानपारमितास्वभावेन
१३६१९ शीलपारमिताप्यायुष्मन् शारिपुत्र विरहिता शीलपारमितास्वभावेन क्षान्तिपारमिताप्यायुष्मन् शारिपुत्र विरहिता क्षान्तिपारमितास्वभावेन वीर्यपारमिताप्यायुष्मन् शारिपुत्र विरहिता वीर्यपारमितास्वभावेन ध्यानपारमिताप्यायुष्मन् शारिपुत्र विरहिता ध्यानपारमितास्वभावेन प्रज्ञापारमिताप्यायुष्मन् शारिपुत्र विरहिता प्रज्ञापारमितास्वभावेन स्मृत्युपस्थानान्यप्यायुष्मन् शारिपुत्र विरहितानि स्मृत्युपस्थानस्वभावेन सम्यक्प्रहाणान्यप्यायुष्मन् शारिपुत्र विरहितानि सम्यक्प्रहाणस्वभावेन ऋद्धिपादा अप्यायुष्मन् शारिपुत्र विरहिताः ऋद्धिपादस्वभावेन इन्द्रियान्यप्यायुष्मन् शारिपुत्र विरहितानि इन्द्रियस्वभावेन बलान्यप्यायुष्मन् शारिपुत्र विरहितानि बलस्वभावेन बोध्यङ्गान्यप्यायुष्मन् शारिपुत्र विरहितानि बोध्यङ्गस्वभावेन मार्गा अप्यायुष्मन् शारिपुत्र विरहिता मार्गस्वभावेन अप्रमाणध्यानान्यप्यायुष्मन् शारिपुत्र विरहितानि अप्रमाणध्यानस्वभावेन आरूप्यसमापत्तयोऽप्यायुष्मन् शारिपुत्र विरहिता आरूप्यसमापत्तिस्वभावेन दशबलान्यप्यायुष्मन् शारिपुत्र विरहितानि दशबलस्वभावेन वैशारद्यान्यप्यायुष्मन् शारिपुत्र विरहितानि वैशारद्यस्वभावेन प्रतिसंविदा अप्यायुष्मन् शारिपुत्र विरहिताः प्रतिसंवित्स्वभावेन अष्टादशावेणिका बुद्धधर्मा विरहिता बुद्ध्धर्म-
१३६२० स्वभावेन, भूतकोटिरप्यायुष्मन् शारिपुत्र विरहिता भूतकोटिस्वभावेन्
१३६२१ शारिपुत्र आह् कथं पुनरायुष्मन् सुभूते रूपस्य स्वभावः, कथं वेदनायाः
१३६२२ संज्ञायाः संस्काराणाम्। कथं विज्ञानस्य स्वभावः कथं व्यस्तसमस्तानां

१३७०१ स्कन्धधात्वायतनप्रतीत्यसमुत्पादानां स्वभावः। एवं विस्तरेण यावत्कथं
१३७०२ भूतकोट्याः स्वभावः। सुभूतिराह् अभाव आयुष्मन् शारिपुत्र रूपस्य
१३७०३ स्वभावः। अभावो वेदनायाः स्वभावः। अभावो संज्ञायाः स्वभावः। अभावो संस्काराणां स्वभावः। अभावो विज्ञानस्य स्वभावः।
१३७०४ अभावो व्यस्तसमस्तानां स्कन्धधात्वायतनप्रतीत्यसमुत्पादानां स्वभावः,
१३७०५ अभावः शून्यतानिमित्ताप्रणिहितानाभिसंस्काराणां जातः स्वभावः,
१३७०६ अभावः तथताधर्मधातुधर्मस्थितिताधर्मनियामतानां स्वभावः, एवं
१३७०७ विस्तरेण यावदभावो भूतकोट्याः स्वभावः। तदनेन आयुष्मन् शारिपुत्र
१३७०८ पर्यायेणैवं वेदितव्यम्। यथा रूपं विरहितं रूपस्वभावेन वेदना विरहिता
१३७०९ वेदनास्वभावेन संज्ञा विरहिता संज्ञास्वभावेन संस्कारा विरहिताः संस्कारस्वभावेन विज्ञानं विरहितं विज्ञानस्वभावेन। एवं विस्तरेण
१३७१० व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु कर्तव्यं यावद्भूतकोटि-
१३७११ र्विरहिता भूतकोटिस्वभावेन्
१३७१२ पुनरपरं शारिपुत्र रूपं विरहितं रूपलक्षणेन, वेदना विरहिता वेदनालक्षणेन संज्ञा विरहिता संज्ञालक्षणेन संस्कारा विरहिताः संस्कारलक्षणेन विज्ञानं विरहितं विज्ञानलक्षणेन् एवं विस्तरेण व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु कर्तव्यं
१३७१३ यावद्भूतकोटिर्विरहिता
१३७१४ भूतकोटिलक्षणेन् लक्षणस्वभावेनापि लक्षणं विरहितं, स्वभाव-
१३७१५ लक्षणेनापि स्वभावो विरहितः।
१३७१६ शारिपुत्र आह् य आयुष्मन् सुभूते {बोधिसत्त्वो} महासत्त्वोऽत्र शिक्षिष्यते स
१३७१७ निर्यास्यति सर्वाकारज्ञतायाम्। सुभूतिराह् एवमेतदायुष्मन् शारिपुत्र
१३७१८ यो ह्येवमत्र शिक्षिष्यते स निर्यास्यति सर्वाकारज्ञतायाम्। [इति मृदु-
१३७१९ क्षान्तेरालम्बनाकारविशेषः]। तत्कस्य हेतोः। तथा ह्यायुष्मन् {शरिपुत्र} अजाता

१३८०१ अनिर्याताः सर्वधर्माः। {शारिपुत्र} आह् केन कारणेनायुष्मन् सुभूते अजाता अनि-
१३८०२ र्याताः सर्वधर्माः। सुभूतिराह् रूपमायुष्मन् {शारिपुत्र} शून्यं रूपस्वभावेन, तस्य
१३८०३ नापि जातिर्नापि निर्याणमुपलभ्यते, वेदनायुष्मन् शारिपुत्र शून्या वेदनास्वभावेन, तस्या नापि जातिर्नापि निर्याणमुपलभ्यते, संज्ञायुष्मन् शारिपुत्र शून्या संज्ञास्वभावेन, तस्या नापि जातिर्नापि निर्याणमुपलभ्यते, संस्कारा आयुष्मन् शारिपुत्र शून्या संस्कारस्वभावेन, तेषां नापि जातिर्नापि निर्याणमुपलभ्यते, विज्ञानमायुष्मन् शारिपुत्र शून्या विज्ञानस्वभावेन, तस्य नापि जातिर्नापि निर्याणमुपलभ्यते।
१३८०४ एवं विस्तरेण व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु
१३८०५ कर्तव्यं यावद्भूतकोटिः शून्या भूतकोटिस्वभावेन, तस्या नापि जातिर्नापि
१३८०६ निर्याणमुपलभ्यत् एवं हि शारिपुत्र {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायाञ्चरन्
१३८०७ सर्वाकारज्ञताया आसन्नीभवति यथा यथा च सर्वाकारज्ञताया आसन्नी-
१३८०८ भवति तथा तथा कायपरिशुद्धिञ्च चित्तपरिशुद्धिञ्च लक्षणपरिशुद्धिञ्चाधिगच्छति।
१३८०९ यथा यथा च कायपरिशुद्धिञ्च चित्तपरिशुद्धिञ्च लक्षणपरिशुद्धिञ्चाधिगच्छति
१३८१० तथा तथा {बोधिसत्त्वस्य} महासत्त्वस्य रूपसहगतं चित्तं नोत्पद्यते, दोष{सहगतं चित्तं नोत्पद्यते} मोह{सहगतं चित्तं नोत्पद्यते}
१३८११ मान{सहगतं चित्तं नोत्पद्यते}, लोभ{सहगतं चित्तं नोत्पद्यते} कुदृष्टि{सहगतं चित्तं नोत्पद्यते}, स रागचित्तानुत्पादाद्दोषचित्तानुत्पादात्
१३८१२ मोह{चित्तानुत्पादाद्} मान{चित्तानुत्पादात्} कुदृष्टि{चित्तानुत्पादाद्} न जातु मातुः कुक्षावुपपद्यते, सततसमितमौप-
१३८१३ पादुको भवति, बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामति, बुद्धांश्च भगवतः पर्युपास्ते,
१३८१४ सत्त्वांश्च परिपाचयति, बुद्धक्षेत्रं च परिशोधयति। न तैर्बुद्धैर्भगवद्भिर्विरहितो
१३८१५ भवति, यावदनुत्तरां सम्यक्संबोधिमभिसंबुद्धः। एवं हि शारिपुत्र {बोधिसत्त्वो}
१३८१६ महासत्त्व आसन्नीभवत्यनुत्तरायाः सम्यक्संबोधेः। [इति मध्यक्षान्तेराल-
१३८१७ म्बनाकारविशेषः।]
१३८१८ अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत् । सचेद्भगवन् {बोदिसत्त्वो}
१३८१९ महासत्त्वोऽनुपायकुशलः प्रज्ञापारमितायां चरन् रूपे चरति निमित्ते चरति न

१३९०१ चरति प्रज्ञापारमितायाम्। सचेद्वेदनायाञ्चरति निमित्ते चरति न चरति
१३९०२ प्रज्ञापारमितायां, सचेद्संज्ञायाञ्चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद्संस्कारेषु चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद्विज्ञाने चरति निमित्ते चरति न चरति प्रज्ञापारमितायां। स-
१३९०३ चेद्रूपं नित्यं {वेति चरति, निमित्ते चरति न चरति प्रज्ञापारमितायां} सचेद्वेदना नित्या वेति चरति, निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद्सज्ञा नित्या वेति चरति, निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद्संस्कारा नित्या वेति चरति, निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद्विज्ञानं नित्यं वेति चरति, निमित्ते चरति न चरति प्रज्ञापारमितायां
१३९०४ सचेद्रूपं सुखं दुखं {वेति चरति, निमित्ते चरति न चरति प्रज्ञापारमितायां} सचेद्वेदना सुखा दुखा वेति चरति, निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद्संज्ञा सुखा दुखा वेति चरति, निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद्संस्काराः सुखा दुखा वेति चरति, निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद्विज्ञानं सुखं दुखं वेति चरति, निमित्ते चरति न चरति प्रज्ञापारमितायां स-
१३९०५ चेद्रूपमात्मानात्म {वेति चरति, निमित्ते चरति न चरति प्रज्ञापारमितायां} सचेद्वेदनात्मानात्मा वेति चरति, निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद्संज्ञात्मानात्मा वेति चरति, निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद्संस्कारा आत्मान अनात्मान वेति चरति, निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद्विज्ञानमात्मानात्म वेति चरति, निमित्ते चरति न चरति प्रज्ञापारमितायां
१३९०६ सचेद्रूपं शान्तमशान्तम् {वेति चरति, निमित्ते चरति न चरति प्रज्ञापारमितायां} सचेद्वेदना शान्ताशान्ता वेति चरति, निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद्संज्ञा शान्ताशान्ता वेति चरति, निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद्संस्काराः शान्ता अशान्ता वेति चरति, निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद्विज्ञानं शान्तमशान्तं वेति चरति, निमित्ते चरति न चरति प्रज्ञापारमितायां
१३९०७ सचेद्रुपं विविक्तमविविक्तं {वेति चरति, निमित्ते चरति न चरति प्रज्ञापारमितायां} सचेद्वेदना विविक्ताविविक्ता वेति चरति, निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद्संज्ञा विविक्ताविविक्ता वेति चरति, निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद्संस्कारा विविक्ता अविविक्ता वेति चरति, निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद्विज्ञानं विविक्तमविविक्तं वेति चरति, निमित्ते चरति न चरति प्रज्ञापारमितायां
१३९०८ सचेद्भगवन् {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन्ननुपायकुशलः सप्तत्रिंशत्-
१३९०९ बोधिपक्षेषु धर्मेषु चरति निमित्ते चरति न चरति प्रज्ञापारमितायाम्। एवं
१३९१० यावदभिज्ञासु पारमितासु अप्रमाणध्यानारूप्यसमापत्तिषु पञ्चसु चक्षुःषु
१३९११ दशसु तथागतबलेषु चतसृषु प्रतिसंवित्सु चतुर्षु वैशारद्येषु यावदष्टादश-
१३९१२ स्वावेणिकेषु बुद्धधर्मेषु चरति निमित्ते चरति न चरति प्रज्ञापारमितायाम्।
१३९१३ सचेद्भगवन् {बोधिसत्त्वस्य} महासत्त्वस्यानुपायकौशलेन प्रज्ञापारमितायां चरत
१३९१४ एवं भवति। अहं प्रज्ञापारमितायां चरामीति उपलम्भे चरति, अहं चरामीति
१३९१५ चरति निमित्ते चरति, सचेद्{बोधिसत्त्वस्य} महासत्त्वस्यैवं भवति य एवञ्चरति स
१३९१६ प्रज्ञापारमितायाञ्चरति स प्रज्ञापारमितां भावयतीति। अथ खल्वायुष्मान्
१३९१७ शारिपुत्र आयुष्मन्तं सुभूतिमेतदवोचत् । केन कारणेनायुष्मन् सुभूते इदं
१३९१८ {बोधिसत्त्वस्य} महासत्त्वस्यानुपायकौशलं वेदितव्यम्। सुभूतिराह् तथा ह्यायुष्मन्
१३९१९ शारिपुत्र यो {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन् रूपमधितिष्ठति
१३९२० संजानीतेऽधिमुच्यते, वेदनाम् {अधितिष्ठति संजानीतेऽधिमुच्यत्} संज्ञाम् {अधितिष्ठति संजाईतेऽधिमुच्यत्} संस्कारान् {अधितिष्ठति संजानीतेऽधिमुच्यत्} विज्ञानम् {अधितिष्ठति संजानीतेऽधिमुच्यत्}
१३९२१ स रूपमधितिष्ठन् संजानानोऽधिमुच्यमानः, वेदनाम् {अधितिष्ठन् संजानानोऽधिमुच्यमानः}, संज्ञाम् {अधितिष्ठन् संजानानोऽधिमुच्यमानः},
१३९२२ संस्कारान् {अधितिष्ठन् संजानानोऽधिमुच्यमानः}, विज्ञानम् {अधितिष्ठन् संजानानोऽधिमुच्यमानः}, रूपस्याभिसंस्कारे चरति तत् । तस्य
१३९२३ जातिजरामरणशोकपरिदेवदुःखदौर्मनस्योपायासकरमिति वदामि।
१३९२४ पुनरपरं शारिपुत्र सचेद्{बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन्ननुपाय-

१४००१ कुशलः, चक्षुर्{अधितिष्ठति न संजानीते नाधिमुच्यते} श्रोत्रं घ्राणं जिह्वां कायं मनो {ऽधितिष्ठति न संजानीते नाधिमुच्यते} रूपम् {अधितिष्ठति न संजानीते नाधिमुच्यते} शब्दान्
१४००२ गन्धान् रसान् स्प्रष्टव्यं धर्मान् {अधितिष्ठति न संजानीते नाधिमुच्यते} चक्षुर्विज्ञानमधितिष्ठति न संजानीते नाधिमुच्यते श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्वाविज्ञानं कायविज्ञानं मनोविज्ञानमधितिष्ठति न संजानीते नाधिमुच्यते, चक्षुःसंस्पर्शमधितिष्ठति न संजानीते नाधिमुच्यते श्रोत्रसंस्पर्शं घ्राणसंस्पर्शं जिह्वासंस्पर्शं कायसंस्पर्शं मनःसंस्पर्शमधितिष्ठति न संजानीते नाधिमुच्यते, चक्षुःसंस्पर्शप्रत्ययवेदयितमधितिष्ठति न संजानीते नाधिमुच्यते श्रोत्रसंस्पर्शप्रत्ययवेदयितं घ्राणसंस्पर्शप्रत्ययवेदयितं जिह्वासंस्पर्शप्रत्ययवेदयितं कायसंस्पर्शप्रत्ययवेदयितं मनःसंस्पर्शप्रत्ययवेदयितमधितिष्ठति न संजानीते नाधिमुच्यते
१४००३ सुकह्ं वा दुःखं वा अदुःखं वा असुखं वाधितिष्ठति न संजानीते नाधिमुच्यते सचेत्
१४००४ सप्तत्रिंशद्बोधिपक्षान् धर्मान् {अधितिष्ठति न संजानीते नाधिमुच्यते}। एवं पञ्चचक्षूंषि षडभिज्ञाः षट्पारमिताश्चत्वा-
१४००५ रि वैशारद्यानि चरस्रः प्रतिसंविदश्चत्वार्यप्रमाणानि चत्वारि ध्यानानि चरस्र
१४००६ आरूप्यसमापत्तीर्दश तथागतबलान्यष्टादशावेणिकान् बुद्धधर्मानर्हत्त्वं प्रत्येक-
१४००७ बुद्धत्वं बोध्सिअत्त्वत्वं बुद्धधर्मान् {अधितिष्ठति न संजानीते नाधिमुच्यते}। सर्वान् बुद्धधर्मान् {अधितिष्ठन् संजानानोऽधिमुच्यमानो} बुद्ध-
१४००८ धर्माणामभिसंस्कारे चरति, अभिसंस्कारे चरन्नपरिमुच्यते जात्या जरामरणेन
१४००९ च शोकपरिदेवदुःखदौर्मनस्योपायासैर्न परिमुच्यते दुःखेनेति वदामि। स खलु
१४०१० पुनः शारिपुत्र {बोधिसत्त्वो} महासत्त्वोऽभव्यः श्रावकभूमिं प्रत्येकबुद्धभूमिं वा
१४०११ पतितुं कुतः सोऽनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते नेदं स्थानं विद्यत् एवं
१४०१२ हि शारिपुत्र {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन्ननुपायकुशलो वेदितव्यः।
१४०१३ शारिपुत्र आह् कथमायुष्मन् सुभूते {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां
१४०१४ चरनुपायकुशलो वेदितव्यः। सुभूतिराह् य आयुष्मन् शारिपुत्र {बोधिसत्त्वो}
१४०१५ महासत्त्वः प्रज्ञापारमितायां चरन्न रूपमधितिष्ठति न संजानीते नाधिमुच्यते,
१४०१६ वेदनासंज्ञासंस्कारान् विज्ञानं न{अधितिष्ठति न संजानीते नाधिमुच्यते} एवं यावद्बुद्धधर्मान्ना{धितिष्ठति न संजानीते नाधिमुच्यते}, स न रूपे
१४०१७ चरति न वेदनायां चरति न संज्ञायां चरति न संस्कारेषु चरति न विज्ञाने चरति, न रूपस्य निमित्ते चरति न वेदनाया निमित्ते चरति न संज्ञाया निमित्ते चरति न संस्काराणां निमित्ते चरति न विज्ञानस्य
१४०१८ निमित्ते चरति, न रूपं नित्यमिति नानित्यम् {इति चरति}, न वेदना स संज्ञा न संस्कारा
१४०१९ न विज्ञानं नित्यमिति नानित्यम् {इति चरति}, न रूपं सुखमिति न दुःखमिति नात्मेति
१४०२० नानात्मेति न शान्तमिति नाशान्तम् {इति चरति}, न वेदना न संज्ञा स संस्कारा न
१४०२१ विज्ञानं सुखमिति नात्मेति नानात्मेति न शान्तमिति नाशान्तम् {इति चरति}, न रूपं
१४०२२ शून्यमिति नाशून्यमिति चरति न निमित्तमिति नानिमित्तम् {इति चरति} न प्रणिहितमिति
१४०२३ नाप्रणिहितम् {इति चरति} न विविक्तमिति नाविविक्तम् {इति चरति}, एवं न वेदना न संज्ञा न
१४०२४ संस्कारा न विज्ञानं न शून्यमिति नाशून्यम् {इति चरति}, न निमित्तमिति नानिमित्तम् {इति चरति},

१४१०१ न प्रणिहितमिति नाप्रणिहितम् {इति चरति}, न विविक्तमिति नाविविक्तम् {इति चरति}। तत्कस्य
१४१०२ हेतोः। तथा हि आयुष्मन् शारिपुत्र या रूपस्य शून्यता न तद्रूपं चान्यत्र
१४१०३ शून्यतायाः रूपं नान्यत्र रूपाच्छून्यता रूपमेव शून्यता शून्यतैवं रूपम्। या
१४१०४ वेदनायाः शून्यता संज्ञायाः शून्यता संस्काराणां शून्यता या विज्ञानस्य
१४१०५ शून्यता तद्विज्ञानं न चान्यत्र शून्यताया विज्ञानं नान्यत्र विज्ञानाच्छून्यता
१४१०६ शून्यतैव विज्ञानं विज्ञानमेव शून्यता। एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु स्मृत्युपस्थानेषु सम्यक्प्रहाणेष्वृद्धिपादेष्विन्द्रियेषु बलेषु बोध्यङ्गेषु मार्गेषु बलेषु वैशारद्येषु प्रतिसंवित्स्वावेणिक-
१४१०७ बुद्धधर्मेसु यावद्या बुद्धधर्माणां शून्यता न ते बुद्धधर्मा न चान्यत्र शून्यताया
१४१०८ बुद्धधर्माः नान्यत्र बुद्धधर्मेभ्यः शून्यता, शून्यतैव बुद्धधर्मा बुद्धधर्मा एव
१४१०९ शून्यता, एवमायुष्मन् शारिपुत्र {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन्नुपाय-
१४११० कुशलो वेदितव्यः। एवमायुष्मन् शारिपुत्र {बोधिसत्त्वो} महासत्त्वः प्रज्ञापार-
१४१११ मितायाञ्चरन् भव्योऽनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम्।
१४११२ पुनः प्रज्ञापारमितायाञ्चरन् सचेत्कञ्चिद्धर्ममुपैति न चरति प्रज्ञापार-
१४११३ मितायां, नोपैति न चरति, उपैति नोपैति च न चरति, नैवोपैति न नोपैति च
१४११४ न चरति प्रज्ञापारमितायाम्। शारिपुत्र आह् केन कारणेनाउष्मन् सुभूते
१४११५ नोपैति {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायाञ्चरन्। सुभूतिराह् तथा हि आयुष्मन्
१४११६ शारिप्तुत्र प्रज्ञापारमितायाः स्वभावो नोपलभ्यत् तत्कस्य हेतोः। तथा
१४११७ ह्यभावस्वभावा प्रज्ञापारमिता, अनेनायुष्मन् शारिपुत्र पर्यायेण {बोधिसत्त्वो} महासत्त्वः
१४११८ प्रज्ञापारमितायां चरामीति नोपैति, न चरामीति नोपैति, चरामि च न
१४११९ चरामि चेति नोपैति, नैव चरामि न न चरामीति नोपैति। तत्कस्य
१४१२० हेतोः। तथा हि तेन सर्वधर्मा अभावस्वभावा इति अनुगता अनुप्राप्ताः।
१४१२१ सचेदेवं प्रज्ञापारमितायां चरतो {बोधिसत्त्वस्य} महासत्त्वस्य चित्तं नावलीयते न संलीयते
१४१२२ नोत्त्रस्यति न संत्रस्यति न संत्रासमापद्यते वेदितव्यमायुष्मन् शारिपुत्रासन्नी-
१४१२३ भवत्ययं {बोधिसत्त्वो} महासत्त्वः सर्वाकारज्ञतायाः। [इत्यधिमात्रक्षान्तेरालम्बनाकार-
१४१२४ विशेषः॥]

१४२०१ सोऽपि खल्वायुष्मन् शारिपुत्र सर्वाकारज्ञता अद्वया अद्वैधीकारा
१४२०२ सर्वधर्माभाअवस्वभावतामुपादाय, अयं सर्वधर्मस्वभावानुत्पत्तिर्नाम समाधि-
१४२०३ र्{बोधिसत्त्वानां} महासत्त्वानां विपुलः पुरस्कृतोऽप्रमाणो नियतोऽसंहार्यः
१४२०४ सर्वश्रावकप्रत्येकबुद्धैः अनेनायुष्मन् शारिपुत्र समाधिना विहरन् {बोधिसत्त्वो} महा-
१४२०५ सत्त्वः क्षिप्रमनुत्तरां सम्यक्संबोधिमभिसंबुध्यत्
१४२०६ शारिपुत्र आह् कतमैरायुष्मन् सुभूते समाधिभिर्विहरन् {बोधिसत्त्वो}
१४२०७ महासत्त्वः क्षिप्रमनुत्तरां सम्यक्संबोधिमभिसंबुध्यत् सुभूतिराह्
१४२०८ अस्त्यायुष्मन् शारिपुत्र {बोधिसत्त्वानां} महासत्त्वानां शूरङ्गमो नाम समाधिर्यत्समाधिना
१४२०९ विहरन् {बोधिसत्त्वो} महासत्त्वः क्षिप्रमनुत्तरां सम्यक्संबोधिमभिसंबुध्यत् अस्ति
१४२१० रत्नमुद्रो नाम समाधिः। {अस्ति} सुचन्द्रो {नाम समाधिः}। {अस्ति} चन्द्रध्वजकेतुः {नाम समाधिः}। {अस्ति}
१४२११ सर्वधर्ममुद्रो {नाम समाधिः}। {अस्ति} अवलोकितमूर्द्धा {नाम समाधिः}।{अस्ति} धर्मधातुनियतो {नाम समाधिः}। {अस्ति}
१४२१२ नियतध्वजकेतुः {नाम समाधिः}। {अस्ति} वज्रोपमो {नाम समाधिः}। {अस्ति} सर्वधर्मप्रवेशमुद्रो {नाम समाधिः}। {अस्ति} समाहिताव-
१४२१३ स्थाप्रतिष्ठानो {नाम समाधिः}। {अस्ति} राजमुद्रो {नाम समाधिः}। {अस्ति} बलवीर्यो {नाम समाधिः}। {अस्ति} सर्वधर्मसमुद्गतो {नाम समाधिः}।
१४२१४ {अस्ति} निरुक्तिनियतप्रवेशो {नाम समाधिः}। {अस्ति} आसेचनकप्रवेशो {नाम समाधिः}। {अस्ति} दिगवलोकनो {नाम समाधिः}। {अस्ति}
१४२१५ धारणीमुद्रो {नाम समाधिः}। {अस्ति} असंप्रमुषितो {नाम समाधिः}। {अस्ति} समवसरणो {नाम समाधिः}। {अस्ति} आकाशस्फारणो {नाम समाधिः}।
१४२१६ {अस्ति} वज्रमण्डलो {नाम समाधिः}। {अस्ति} ध्वजाग्रकेतुराजो {नाम समाधिः}। {अस्ति} इन्द्रकेतुः {नाम समाधिः}। {अस्ति}
१४२१७ स्रोतोऽनुगतो {नाम समाधिः}। {अस्ति} सिंहविजृम्भितो {नाम समाधिः}। {अस्ति} व्यत्यस्तसमापत्तिः {नाम समाधिः}। {अस्ति}
१४२१८ रणंजहो {नाम समाधिः}। {अस्ति} वैरोचनो {नाम समाधिः}। {अस्ति} निमिषो {नाम समाधिः}। {अस्ति} निकेतस्थितो {नाम समाधिः}। {अस्ति}
१४२१९ निश्चितो {नाम समाधिः}। {अस्ति} विपुलप्रतिपन्नो {नाम समाधिः}। {अस्ति} अनन्तप्रभो {नाम समाधिः}। {अस्ति} प्रभाकरो {नाम समाधिः}। {अस्ति}
१४२२० वरधर्ममुद्रो {नाम समाधिः}। {अस्ति} समन्तावभासो {नाम समाधिः}। {अस्ति} शुद्धावासो {नाम समाधिः}। {अस्ति} विमलप्रभो {नाम समाधिः}।

१४३०१ {अस्ति} अरतिकरो {नाम समाधिः}। {अस्ति} अजयो {नाम समाधिः}। {अस्ति} तेजोवती {नाम समाधिः}। {अस्ति} क्षयापगतो {नाम समाधिः}।
१४३०२ {अस्ति} अनिर्जितो {नाम समाधिः}। {अस्ति} विवृतो {नाम समाधिः}। {अस्ति} सूर्यप्रदीपो {नाम समाधिः}। {अस्ति} चन्द्रविमलो {नाम समाधिः}।
१४३०३ {अस्ति} शुद्धप्रतिभासो {नाम समाधिः}। {अस्ति} आलोककरो {नाम समाधिः}। {अस्ति} काराकारो {नाम समाधिः}। {अस्ति} ज्ञानकेतुः {नाम समाधिः}।
१४३०४ {अस्ति} चित्तस्थितो {नाम समाधिः}। {अस्ति} समन्तावलोको {नाम समाधिः}। {अस्ति} सुप्रतिष्ठितो {नाम समाधिः}। {अस्ति}
१४३०५ रत्नकोटिः {नाम समाधिः}। {अस्ति} सर्वधर्मसमता {नाम समाधिः}। {अस्ति} रतिजहो {नाम समाधिः}। {अस्ति} धर्मङ्गतो {नाम समाधिः}।
१४३०६ {अस्ति} विकिरणो {नाम समाधिः}। {अस्ति} सर्वधर्मपदप्रभेदो {नाम समाधिः}। {अस्ति} समाक्षरावतारो {नाम समाधिः}। {अस्ति}
१४३०७ अनिगरो {नाम समाधिः}। {अस्ति} प्रभाकरो {नाम समाधिः}। {अस्ति} नामनियतप्रवेशो {नाम समाधिः}। {अस्ति} अनिकेतचारी {नाम समाधिः}।
१४३०८ {अस्ति} वितिमिरापगतो {नाम समाधिः}। {अस्ति} चारित्रवती {नाम समाधिः}। {अस्ति} अचलो {नाम समाधिः}। {अस्ति} विषम-
१४३०९ शान्तिः {नाम समाधिः}। {अस्ति} सर्वगुणसंचयो {नाम समाधिः}। {अस्ति} निश्चितो {नाम समाधिः}। {अस्ति} शुभपुष्पितशुद्धो {नाम समाधिः}। {अस्ति}
१४३१० बोध्यङ्गवती {नाम समाधिः}। {अस्ति} अनन्तप्रभा {नाम समाधिः}। {अस्ति} आगमसमो {नाम समाधिः}। {अस्ति} विमतिविकिरणो {नाम समाधिः}।
१४३११ {अस्ति} प्रतिच्छेदकरो {नाम समाधिः}। {अस्ति} आकारानभिनिवेशनिर्हारो {नाम समाधिः}। {अस्ति} आकारानवकारो {नाम समाधिः}।
१४३१२ {अस्ति} निरतिशयसर्वभवतलविकिरणो {नाम समाधिः}। {अस्ति} संकेतरुतप्रवेशो {नाम समाधिः}। {अस्ति} घोष-
१४३१३ वती {नाम समाधिः}। {अस्ति} निरक्षरविमुक्तिः {नाम समाधिः}। {अस्ति} तेजोवती {नाम समाधिः}। {अस्ति} ज्वलनोल्का {नाम समाधिः}।
१४३१४ {अस्ति} रक्षानुपरिशोषणो {नाम समाधिः}। {अस्ति} अनाविलक्षान्तिः {नाम समाधिः}। {अस्ति} सर्वाकारावतारो {नाम समाधिः}। {अस्ति}
१४३१५ सर्वसुखदुःखनिरभिनन्दी {नाम समाधिः}। {अस्ति} अक्षयाकारो {नाम समाधिः}। {अस्ति} धारणीमतिः {नाम समाधिः}। {अस्ति}
१४३१६ सम्यकमिथ्यात्वसंग्रहो {नाम समाधिः}। {अस्ति} रोषविरोषप्रतिरोषो {नाम समाधिः}। {अस्ति} विमलप्रभो {नाम समाधिः}। {अस्ति}
१४३१७ शारवती {नाम समाधिः}। {अस्ति} परिपूर्णविमलचन्द्रप्रभो {नाम समाधिः}। {अस्ति} विद्युत्प्रभो {नाम समाधिः}। {अस्ति}

१४४०१ महाव्यूहो {नाम समाधिः}। {अस्ति} सर्वलोकप्रभाकरो {नाम समाधिः}। {अस्ति} समाधिसरता {नाम समाधिः}। {अस्ति} अनय-
१४४०२ विनयनयविमुक्तो {नाम समाधिः}। {अस्ति} अनुसरणसर्वसमवसरणो {नाम समाधिः}। {अस्ति} अनिलनियतो {नाम समाधिः}।
१४४०३ {अस्ति} तथतास्थितनिश्चितो {नाम समाधिः}। {अस्ति} कायकलिसंप्रमथनो {नाम समाधिः}। {अस्ति} वाक्कलिविध्वंसनो {नाम समाधिः}।
१४४०४ {अस्ति} गगनकल्पो {नाम समाधिः}। {अस्ति} आकाशसङ्गविमुक्तिनिरुपलेपो {नाम समाधिः}। इमे आयुष्मन् शारिपुत्र
१४४०५ समाधयो यैः समाधिभिर्विहरन् {बोधिसत्त्वो} महासत्त्वः क्षिप्रमनुत्तरां सम्यक्संबोधि-
१४४०६ मभिसंबुध्यत् अन्यानि चासंख्येयाप्रमेयाणि समाधिमुखानि येषु
१४४०७ शिक्ष्यमाणा {बोधिसत्त्वाः} महासत्त्वाः क्षिप्रमनुत्तरां सम्यक्संबोधिमभिसंबुध्यन्त्
१४४०८ तत्र कतमः शूरङ्गमो नाम समाधिः। येन समाधिना सर्वसमाधीनां
१४४०९ गोचरमनुभवत्ययमुच्यते शूरङ्गमो नाम समाधिः। तत्र कतमो रत्नमुद्रो नाम
१४४१० समाधिः। येन समाधिना सर्वसमाधयो मुद्रिता भवत्ययमुच्यते रत्नमुद्रो नाम
१४४११ समाधिः। एवं यावत्तत्र कतम आकाशसङ्गविमुक्तिनिरुपलेपो नाम समाधिः।
१४४१२ यत्र समाधौ स्थित्वा सर्वधर्माणामाकाशसङ्गविमुक्तिनिरुपलेपतामनुप्राप्नोत्यय-
१४४१३ मुच्यते आकाशसङ्गविमुक्तिनिरुपलेपो नाम समाधिः। [इति मृद्वग्रधर्मस्या-
१४४१४ लम्बनाकारविशेषः।]
१४४१५ अथ खल्वायुष्मन् सुभूतिर्बुद्धानुभावेन आयुष्मन्तं शारिपुत्रमेतदवोचत् ।
१४४१६ व्याकृतोऽयमायुष्मन् शारिपुत्र {बोधिसत्त्वो} महासत्त्वः पूर्वकैस्तथागतैरर्हद्भिः सम्यक्-
१४४१७ संबुद्धैः। येऽप्येतर्हि दशदिशि लोके तिष्ठन्ति ध्रियन्ते यापयन्ति। तेऽपि तथागता
१४४१८ अर्हन्तः सम्यक्संबुद्धस्तं {बोधिसत्त्वं} महासत्त्वं व्याकुर्वन्ति। य एतैः समाधिभि-
१४४१९ र्विहरति स समाधिमपि न समनुपश्यति। स न च तेन समाधिना मन्यते
१४४२० अहं समाहित इति। अहं समाधिं समापत्स्य् अहं समाधिं समापन्नः।
१४४२१ अहं समाधिं समापद्य् सर्वे एते विकल्पा {बोधिसत्त्वस्य} महासत्त्वस्य न विद्यन्ते
१४४२२ नोपलभ्यन्त् [इति मध्याग्रधर्मस्यालंबनाकारारविशेषः।]

१४५०१ {शारिपुत्र} आह् किं पुनरायुष्मन् {सुभूते} एषु समाधिषु स्थितो {बोधिसत्त्वो} महासत्त्वो
१४५०२ व्याक्रियते तथागतैरर्हद्भिः सम्यक्संबुद्धैः।
१४५०३ सुभूतिराह् नो हीदमायुष्मन् {शारिपुत्र}। तत्कस्य हेतोः। तथा ह्यायुष्मन्
१४५०४ {शारिपुत्र} नान्या प्रज्ञापारमिता अन्यः समाधिः अन्यो बोधिसत्त्वो बोधिसत्त्व
१४५०५ एव समाधिः समाधिरेव बोधिसत्त्वः।
१४५०६ {शारिपुत्र} आह् यद्यायुष्मन् {सुभूते} नान्यः समाधिः नान्यो बोधिसत्त्वः
१४५०७ समाधिरेव बोधिसत्त्वो बोधिसत्त्व एव समाधिः सर्वधर्मसमतामुपादाय्
१४५०८ तत्किं शक्यः स समाधिर्दर्शयितुम्।
१४५०९ {सुभूतिर्} आह् न ह्येतदायुष्मन् {शारिपुत्र}।
१४५१० {शारिपुत्र} आह् किं पुनरायुष्मन् स कुलपुत्रस्तं समाधिं संजानीत्
१४५११ {सुभूतिर्} आह् नायुष्मन् {शारिपुत्र} स कुलपुत्रस्तं समाधिं संजानीत्
१४५१२ {शारिपुत्र} आह् कथं न संजानीत्
१४५१३ {सुभूतिर्} आह् यथा न विकल्पयति।
१४५१४ {शारिपुत्र} आह् कथं न विकल्पयति।
१४५१५ {सुभूतिर्} आह् अविद्यमानत्वेन सर्वधर्माणामेव समाधिं न विकल्पयति।
१४५१६ अनेनायुष्मन् {शारिपुत्र} पर्यायेण {बोधिसत्त्वो} महासत्त्वो न संजानीत्
१४५१७ {शारिपुत्र} आह् कथं न संजानीत्
१४५१८ {सुभूतिर्} आह् अविकल्पत्वेन तस्य समाधेर्{बोधिसत्त्वो} महासत्त्वो न संजानीत्
१४५१९ [इति अधिमात्राग्रधर्मस्यालम्बनाकारविशेषः।]
१४५२० अथ खलु भगवानायुष्मते सुभूतये साधुकारमदात् । साधु
१४५२१ साधु {सुभूते} यथापि नाम ते मया अरणविहारिणामग्रतायां निर्दिष्टस्य
१४५२२ निर्देशः। एवं {सुभूते} {बोधिसत्त्वेन} महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्। एवं

१४६०१ ध्यानपारमितायां शिक्षितव्यं वीर्यपारमितायां शिक्षितव्यं क्षान्तिपारमितायां शिक्षितव्यं शीलपारमितायां शिक्षितव्यम् दानपारमितायां शिक्षितव्यम्। एवं सप्तत्रिंशद्बोधिपक्षेषु
१४६०२ धर्मेषु यावदष्टादशावेणिकेषु बुद्धधर्मेषु शिक्षितव्यम्।
१४६०३ अथ खल्वायुष्मन् {शारिपुत्र} भगवन्तमेतदवोचत् । एवं शिक्षमाणो भगवन्
१४६०४ {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां शिक्षत् भगवानाह् एवं शिक्षमाणः {शारिपुत्र}
१४६०५ {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां शिक्षते अनुपलम्भयोगेन् एवं ध्यानपारमितायां शिक्षते अनुपलम्भयोगेन वीर्यपारमितायां शिक्षते अनुपलम्भयोगेन क्षान्तिपारमितायां शिक्षते अनुपलम्भयोगेन शीलपारमितायां शिक्षते अनुपलम्भयोगेन दानपारमितायां शिक्षते अनुपलम्भयोगेन
१४६०६ यावद्विस्तरेण सप्तत्रिंशद्बोधिपक्षेषु धर्मेषु {शिक्षते अनुपलम्भयोगेन} यावदप्रमाणध्याना-
१४६०७ रूप्यसमापत्तिषु {शिक्षते अनुपलम्भयोगेन}। दशबलचतुर्वैशारद्याष्टादशावेणिकेषु बुद्धधर्मेषु {शिक्षते अनुपलम्भयोगेन}।
१४६०८ {शारिपुत्र} आह् किमिति भगवन्नोपलभत्
१४६०९ भगवानाह् आत्मानं शारिपुत्र नोपलभते यावत्सत्त्वजीवपोष-
१४६१० पुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यकान्नोपलभते अत्यन्तविशुद्धिता-
१४६११ मुपादाय यावद्व्यस्तसमस्तान् स्कन्धधात्वायतनप्रतीत्यसमुत्पादान्
१४६१२ नोपलभते अत्यन्तविशुद्धितामुपादाय् दुःखं {नोपलभते अत्यन्तविशुद्धितामुपादाय्} समुदयं {नोपलभते अत्यन्तविशुद्धितामुपादाय्} निरोधं {नोपलभते अत्यन्तविशुद्धितामुपादाय}।
१४६१३ मार्गं {नोपलभते अत्यन्तविशुद्धितामुपादाय}। रूपधातुं {नोपलभते अत्यन्तविशुद्धितामुपादाय}। आरूप्यधातु {नोपलभते अत्यन्तविशुद्धितामुपादाय}। अप्रमाणध्यानारूप्य-
१४६१४ समापत्तीर्{नोपलभते अत्यन्तविशुद्धितामुपादाय}। स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् {नोपलभते अत्यन्तविशुद्धितामुपादाय}।
१४६१५ पारमिता {नोपलभते अत्यन्तविशुद्धितामुपादाय}। दशबलचतुर्वैशारद्याष्टादशावेणिकान् बुद्धधर्मान् {नोपलभते अत्यन्तविशुद्धितामुपादाय}। स्रोतआपन्नं
१४६१६ {नोपलभते अत्यन्तविशुद्धितामुपादाय}। सकृदागामिनं {नोपलभते अत्यन्तविशुद्धितामुपादाय}। अनागामिनं {नोपलभते अत्यन्तविशुद्धितामुपादाय}। अर्हन्तं {नोपलभते अत्यन्तविशुद्धितामुपादाय}। प्रत्येकबुद्धं {नोपलभते अत्यन्तविशुद्धितामुपादाय}।
१४६१७ बोधिसत्त्वं {नोपलभते अत्यन्तविशुद्धितामुपादाय}। बुद्धं {नोपलभते अत्यन्तविशुद्धितामुपादाय}।
१४६१८ {शारिपुत्र} आह् का पुनर्भगवन् विशुद्धिः।
१४६१९ भगवानाह् अनुत्पादः शारिपुत्र अप्रादुर्भावोऽनुपलम्भोऽनभिसंस्कारो
१४६२० विशुद्धिरित्युच्यत् [इति सामान्येन विकल्पसंप्रयोगाधिकारः।]
१४६२१ {शारिपुत्र} आह् एवं शिक्षमाणो भगवन् {बोधिसत्त्वो} महासत्त्वः कतमेषु धर्मेषु
१४६२२ शिक्षत्
१४६२३ भगवानाह् एवं शिक्षमाणः शारिपुत्र {बोधिसत्त्वो} महासत्त्वो न कस्मिंश्चिद्

१४७०१ धर्मेषु शिक्षत् तत्कस्य हेतोः। नैते शारिपुत्र धर्मास्तथा संविद्यन्ते यथा
१४७०२ बालपृथग्जनानामभिनिवेशः।
१४७०३ {शारिपुत्र} आह् कथं भगवन्नैते धर्माः संविद्यन्त्
१४७०४ भगवानाह् तथा न संविद्यन्ते यथा बालपृथग्जनानामभिनिवेशः।
१४७०५ {शारिपुत्र} आह् कथं भगवन्नैते धर्माः संविद्यन्त्
१४७०६ भगवानाह् यथा न संविद्यन्ते तथा संविद्यन्त् एवमसंविद्यमानाः
१४७०७ तेनोच्यतेऽविद्येति॥ [इति उष्मगतविकल्पसंप्रयोगे प्रथमोऽविद्याविकल्पः॥]
१४७०८ {शाइपुत्र} आह् केन कारणेनोच्यते असंविद्यमाना अविद्येति।
१४७०९ भगवानाह् रूपं {शारिपुत्र} न संविद्यते अध्यात्मशून्यतामुपादाय बहिर्धा{शून्यतामुपादाय}
१४७१० अध्यात्मबहिर्धा{शून्यतामुपादाय} यावद्भावस्वभाव{शून्यतामुपादाय}। वेदना संज्ञा संस्कारा विज्ञानं {शारिपुत्र}
१४७११ न संविद्यते {अध्यात्मशून्यतामुपादाय् बहिर्धाशून्यतामुपादाय् अध्यात्मबहिर्धाशून्यतामुपादाय}। यावत्सप्तत्रिंशद्बोधिपक्षा धर्मा न संविद्यन्ते यावदष्टा-
१४७१२ दशावेणिकबुद्धधर्मा न संविद्यन्ते {अध्यात्मशून्यतामुपादाय् बहिर्धाशून्यतामुपादाय् अध्यात्मबहिर्धाशून्यतामुपादाय}।] [इति तत्रैव द्वितीयो रूपादिस्कन्ध-
१४७१३ विकल्पः॥] तत्र बाला अविद्यायां तृष्णायाञ्चाभिनिविष्टाः। तैरविद्यां
१४७१४ तृष्णां च कल्पितां कल्पयित्वा अविद्यातृष्णाभ्यामभिनिविश्य उभाभ्यां
१४७१५ अन्ताभ्यां सक्तास्ते उभावन्तौ न जानन्ति न पश्यन्ति यथा धर्मा न सं-
१४७१६ विद्यन्त् ते तान् धर्माण्कल्पयित्वा नामरूपे अभिनिविष्टाः। यावद्
१४७१७ बुद्धधर्मेष्वभिनिविष्टाः॥ [इति तत्रैव तृतीयो नामरूपाभिनिवेशविकल्पः॥] ते
१४७१८ धर्मेष्वभिनिविष्टा असंविद्यमानावुभावन्तौ कल्पयन्ति कल्पयित्वा न जानन्ति
१४७१९ न पश्यन्ति। किं न जानन्ति न पश्यन्ति। रूपं न जानन्ति न पश्यन्ति। वेदनां
१४७२० संज्ञां संस्कारान् विज्ञानं न {जानन्ति न पश्यन्ति}। यावत्स्कन्धधात्वायतनप्रतीत्यसमुत्पादं न {जानन्ति न पश्यन्ति}

१४८०१ यावदष्टादशावेणिकान् बुद्धधर्मान् {न जानन्ति न पश्यन्ति}। तेन ते बाला इति संख्यां गच्छन्ति॥ [इति
१४८०२ तत्रैव चतुर्थोऽन्तद्वयासक्तिविकल्पः॥] ते अविद्यातृष्णाप्रत्ययं न {जानन्ति न पश्यन्ति}। रूपं
१४८०३ संक्लिष्टमिति न {जानन्ति न पश्यन्ति}। एवं रूपं व्यवदानमिति न {जानन्ति न पश्यन्ति}। वेदनां संज्ञां विज्ञानं संक्लिष्ट-
१४८०४ मिति न {जानन्ति न पश्यन्ति}। एवं विज्ञानं व्यवदानमिति न {जानन्ति न पश्यन्ति}। ते न निर्यास्यन्ति। कुतो न
१४८०५ निर्यास्यन्ति। कामधातोर्न {निर्यास्यन्ति}। रूपधातोर्न {निर्यास्यन्ति}। आरूप्यधातोर्न {निर्यास्यन्ति}।
१४८०६ श्रावकप्रत्येकबुद्धधर्मेभ्यो न {निर्यास्यन्ति}॥ [इति तत्रैव पञ्चमः संक्लेशव्यवदानज्ञान-
१४८०७ विकल्पः॥] ते न श्रद्दधति। किमिति न श्रद्दधति। रूपं रूपेण शून्यमिति न
१४८०८ श्रद्दधति। यावद्बोधि बोध्यात्मना शून्यमिति न श्रद्दधति। ते न प्रतिष्ठन्त्
१४८०९ किमिइत्न प्रतिष्ठन्त् दानपारमितायां न {प्रतिष्ठन्ते} शीलपारमितायां न प्रतिष्ठन्ते क्षान्तिपारमितायां न प्रतिष्ठन्ते वीर्यपारमितायां न प्रतिष्ठन्ते ध्यानपारमितायां न प्रतिष्ठन्ते प्रज्ञापारमितायां
१४८१० न {प्रतिष्ठन्ते}। अविनिवर्तनीयभूमौ न {प्रतिष्ठन्ते} यावत्बुद्धधर्मेषू न {प्रतिष्ठन्ते}।
१४८११ अनेन कारणेन बाला इत्युच्यन्त् ते अभिनिविष्टाः। किमिति अभिनिविष्टाः।
१४८१२ रूपवेदनासंज्ञासंस्कारविज्ञानेष्व्{अभिनिविष्टाः}। रागद्वेषमोहेष्व्{अभिनिविष्टाः}। दृष्टिकृतेष्व्{अभिनिविष्टाः} यावद्
१४८१३ बोधाव्{अभिनिविष्टाः}। शारिपुत्र आह् एवं शिक्षमाणो भगवन् {बोधिसत्त्वो} महासत्त्वः
१४८१४ प्रज्ञापारमितायां शिक्षते सर्वाकारज्ञतायां निर्यास्यति। भगवानाह् एवं
१४८१५ शिक्षमाणः शारिपुत्र {बोधिसत्त्वो} महासत्त्वः {प्रज्ञापारमितायां न शिक्षत् सर्वाकारज्ञतायां न निर्यास्यति}। भगवानाह् इह शाइपुत्र {बोधिसत्त्वो}
१४८१६ महासत्त्वः प्रज्ञापारमितामनुपायकुशलः कल्पयत्यभिनिविशत् ध्यानपारमितां
१४८१७ {कल्पयत्यभिनिविशते} वीर्यपारमितां कल्पयत्यभिनिविशते क्षान्तिपारमितां कल्पयत्यभिनिविशते शीलपारमितां कल्पयत्यभिनिविशते दानपारमितां {कल्पयत्यभिनिविशते}। एवमप्रमाणध्यानारूप्यसमापत्तीः {कल्पयत्यभिनिविशते}।
१४८१८ स्मृत्युपस्थानं सम्य्कप्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् {कल्पयत्यभिनिविशते}। दशबल-
१४८१९ वैशारद्यप्रतिसंविदष्टादशावेणिकान् बुद्धधर्मान् {कल्पयत्यभिनिविशते} यावत्सर्वधर्मान् सर्वाकार-
१४८२० ज्ञातां {कल्पयत्यभिनिविशते}। अनेन शारिपुत्र पर्यायेण {बोधिसत्त्वो} महासत्त्वः {प्रज्ञापारमितायां न शिक्षत् सर्वाकारज्ञतायां न निर्यास्यति}। शारिप्तुर आह्
१४८२१ एवं शिक्षमाणो भगवन् {बोधिसत्त्वो} महासत्तः {प्रज्ञापारमितायां न शिक्षत् सर्वाकारज्ञतायां न निर्यास्यति}। भगवानाह् एवं शिक्षमाणः
१४८२२ शारिपुत्र {बोधिसत्त्वो} महासत्त्वः {प्रज्ञापारमितायां न शिक्षत् सर्वाकारज्ञतायां न निर्यास्यति}॥ [इति तत्रैव षष्ट आर्यमार्गप्रतिष्ठानविकल्पः॥]

१४९०१ शारिपुत्र आह् कह्तं पुनर्भगवन् {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां शिक्षते
१४९०२ यथा शिकाअमाणः सर्वाकारज्ञतायां निर्यास्यति। भगवानाह् यदा शारिपुत्र
१४९०३ {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायाञ्चरन् प्रज्ञापारमितां नोपलभते न समनुपश्यति।
१४९०४ एवं खलु शारिपुत्र {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायाञ्चरन् प्रज्ञापारमितायां
१४९०५ शिक्षमाणः सर्वाकारज्ञतायां निर्यास्यति अनुपलम्भयोगेन् एवं ध्यानपारमितां
१४९०६ नोपलभते न समनुपश्यति वीर्यपारमितां नोपलभते न समनुपश्यति क्षानिपारमितां नोपलभते न समनुपश्यति शीलपारमितां नोपलभते न समनुपश्यति दानपारमितां {नोपलभते न समनुपश्यति} यावद्बोधिं सर्वाकारज्ञतां {नोपलभते न समनुपश्यति}। एवं खलु
१४९०७ शारिपुत्र {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायाञ्चरन् प्रज्ञापारमितायां शिक्षमाणः
१४९०८ सर्वाकारज्ञतायां निर्यास्यत्यनुपलम्भयोगेन् । [इति तत्रैव सप्तम उपलम्भविकल्पः॥]
१४९०९ शारिपुत्र आह् कस्यानुपलम्भयोगेन् भगवानाह् आत्मानं शारिपुत्र
१४९१० {नोपलभते न समनुपश्यति} अत्यन्तविशुद्धितामुपादाय् । [इति तत्रैवाष्टम आत्मादिविकल्पः॥]
१४९११ अनुत्पादः शारिपुत्राप्रादुर्भावोऽनभिसंस्कारो विशुद्धिः॥ [इति तत्रैव
१४९१२ नवमो विशुद्द्युत्पादादिविकल्पः॥] [इति प्रथमो ग्राह्यविकल्पः॥]
१४९१३ सोऽनुपायकुशलो रूपं {कल्पयत्यभिनिविशते} यावद्विज्ञानं {कल्पयत्यभिनिविशते}॥ [इति मूर्धगतविकल्पसंप्रयोगे
१४९१४ प्रथमो राश्यर्थविकल्पः॥] चक्षुः {कल्पयत्यभिनिविशते} एवं यावन्मन् रूपं {कल्पयत्यभिनिविशते} एवं यावद्धर्मान्॥
१४९१५ [इति तत्रैव द्वितीय आयद्वारार्थविकल्पः॥] चक्षूरूपचक्षुर्विज्ञानधातून् {कल्पयत्यभिनिविशते}। एवं
१४९१६ यावन्मनोधर्ममनोविज्ञानधातून् {कल्पयत्यभिनिविशते}॥ [इति तत्रैव तृतीयो गोत्रार्थविकल्पः॥]
१४९१७ अविद्यां {कल्पयत्यभिनिविशते} एवं यावज्जरामरणं {कल्पयत्यभिनिविशते}॥ [इति तत्रैव चतुर्थ उत्पादार्थविकल्पः॥]
१४९१८ सोऽध्यात्मशून्यतां बहिर्धा{शून्यतां} अध्यात्मबहिर्धा{शून्यतां} यावदभावस्वभाव{शून्यतां}
१४९१९ {कल्पयत्यभिनिविशते}॥ [इति तत्रैव पञ्चमः शून्यतार्थविकल्पः॥] षट्पारमिताः {कल्पयत्यभिनिविशते}॥ [इति तत्रैव
१४९२० षष्ठः पारमितार्थविकल्पः॥] सप्तत्रिंशद्बोधिपक्षान् धर्मान् {कल्पयत्यभिनिविशते}॥ [इति तत्रैव
१४९२१ सप्तमो दर्शनमार्गविकल्पः॥] स ध्यानाभिज्ञाप्रमाणारूप्यसमापत्तीः {कल्पयत्यभिनिविशते}॥
१४९२२ [इति तत्रैवाष्टमो भावनामार्गविकल्पः॥] स दशतथागतबलानि यावत्सर्वा-

१५००१ कारज्ञतां {कल्पयत्यभिनिविशते}॥ [इति तत्रैव नवमो शैक्षमार्गविकल्पः॥] [इति द्वितीयो ग्राह्य-
१५००२ विकल्पः॥]
१५००३ आत्मानं शारिपुत्र {नोपलभते}। एवं सत्त्वं जीवं पोषं पुरुषं पुद्गलं मनुजं
१५००४ मानवं कारकां वेदकं जानकं पश्यकन् {नोपलभते}। तत्कस्य हेतोः। अत्यन्ततया
१५००५ ह्यात्मा न विद्यते {नोपलभते}॥ [इति क्षान्तिसहगतविकल्पसम्प्रयोगे प्रथमः
१५००६ स्वतन्त्रात्मविकल्पः॥] रूपं शारिपुत्र नोपलभते यावद्विज्ञानं {नोपलभते}॥ [इति
१५००७ तत्रैव द्वितीय एकात्मविकल्पः॥] चक्षुः शारिपुत्र {नोपलभते} एवं यावन्मनः। रूपं
१५००८ {नोपलभते} एवं यावद्बुद्धधर्मान् {नोपलभते}॥ [इति तत्रैव तृतीयः कारणात्मविकल्पः॥]
१५००९ चक्षूरूपविज्ञानानि शारिपुत्र {नोपलभते} यावत्मनोधर्ममनोविज्ञानानि {नोपलभते}॥ [इति
१५०१० तत्रैव चतुर्थो द्रष्टाद्यात्मविकल्पः॥] प्रतीत्यसमुत्पादं शारिपुत्र {नोपलभते} यावदा-
१५०११ रूप्यसमापत्तीर्{नोपलभते}॥ [इति तत्रैव षष्ठो वैराग्याधारात्मविकल्पः॥] आर्यसत्यानि
१५०१२ {नोपलभते}॥ [इति तत्रैव सप्तमो दर्शनाधारात्मविकल्पः॥] अष्टौ विमोक्षान्नवानुपूर्व-
१५०१३ विहारसमापत्तीर्{नोपलभते}॥ [इति तत्रैवाष्टमो भावनाधारत्मविकल्पः॥] दशबलानि
१५०१४ {नोपलभते} यावत्सर्वाकारज्ञतां {नोपलभते}। कथं {नोपलभते}। आत्मत्वेन् तत्कस्य
१५०१५ हेतोः। आत्मनोऽत्यन्तविशुद्धितामुपादाय् । [इति तत्रैव नवमः कृतार्थता-
१५०१६ धारात्मविकल्पः॥] [इति प्रथमो ग्राहकविकल्पः॥]
१५०१७ अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत् । यो भगवन् पृच्छेत्
१५०१८ किमयं मायापुरुषः प्रज्ञापारमितायां शिक्षित्वा सर्वाकारज्ञातायां निर्यास्य-

१५१०१ तीति। तस्यैवं पृच्छतः कथं निर्देष्टव्यं स्यात् । एवं ध्यानपारमितायां
१५१०२ शिक्षित्वा सर्वाकारज्ञतायां निर्यास्यतीति। एवं वीर्यपारमितायां शिक्षित्वा सर्वाकारज्ञतायां निर्यास्यतीति। एवं क्षान्तिपारमितायां शिक्षित्वा सर्वाकारज्ञतायां निर्यास्यतीति। एवं शीलपारमितायां शिक्षित्वा सर्वाकारज्ञतायां निर्यास्यतीति। दानपारमितायां {शिक्षित्वा सर्वाकारज्ञतायां निर्यास्यतीति}। तस्यैवं {पृच्छतः कथं निर्देष्टव्यं स्यात्} यावत्सप्तत्रिंशद्बोधिपक्षेषु
१५१०३ धर्मेषु यावत्सर्वाकारज्ञातायां {शिक्षित्वा सर्वाकारज्ञतायां निर्यास्यतीति} सर्वाकारज्ञतां प्राप्स्यतीति। तस्यैवं {पृच्छतः कथं निर्देष्टव्यं स्यात्}
१५१०४ भगवानाह् तेन हि सुभूते त्वामेवात्र प्रतिप्रक्ष्यामि। यथा ते क्षमते
१५१०५ तथा व्याकुर्याः। तत्किं मन्यसे सुभूत् अन्यद्रूपमन्या माया अन्या
१५१०६ वेदना अन्या संज्ञा अन्ये संस्काराः अन्यत्विज्ञानमन्या माया। सुभूतिराह्
१५१०७ नो भगवान्॥ [इत्यग्रधर्मगतविकल्पसंप्रयोगे प्रथमः स्कन्धप्रज्ञप्तिविकल्पः॥]
१५१०८ भगवानाह् तत्किं मन्यसे सुभूत् अन्या माया अन्यच्चक्षुः।
१५१०९ अन्या माया अन्यच्छ्रोत्रं घ्राणं जिह्वा कायोऽन्या माया अन्यन्
१५११० मनः अन्या माया अन्यद्रूपमन्या माया अन्यः शब्दो गन्धो रसः स्प्रष्टव्यम्।
१५१११ अन्या माया अन्ये धर्माः। सुभूतिराह् नो भगवन्॥ [इति तत्रैव द्वितीय आयतन-
१५११२ प्रज्ञप्तिविकल्पः॥]
१५११३ भगवानाह् तत्किं मन्यसे सुभूते अन्या माया अन्यच्चक्षु-
१५११४ र्विज्ञानं अन्या माया अन्यच्छ्रोत्रविज्ञानमन्या माया अन्यद्घ्राणविज्ञानमन्या माया अन्यज्जिह्वाविज्ञानमन्या माया अन्यत्कायविज्ञानमन्या माया अन्यद्मनोविज्ञानमन्या माया अन्यच्चक्षूरूपचज्षुर्विज्ञानमन्या माया अन्यच्छ्रोत्रशब्दश्रोत्रविज्ञानमन्या माया अन्यद्घ्राणगन्धघ्राणविज्ञानमन्या माया अन्यज्जिह्वारसजिह्वाविज्ञानमन्या माया अन्यत्कायस्प्रष्टव्यकायविज्ञानं अन्या माया अन्यत्मनोधर्ममनोविज्ञानम्
१५११५ अन्या माया अन्यः चक्षुःसंस्पर्शः {अन्या माया अन्यः श्रोत्रसंस्पर्शः अन्या माया अन्यो घ्राणसंस्पर्शः अन्या माया अन्यो जिह्वासंस्पर्शः अन्या माया अन्यः कायसंस्पर्शः} अन्या माया
१५११६ अन्यो मनःसंस्पर्शः। सुभूतिराह् नो भगवन्। भगवानाह् तत्किं मन्यसे सुभूत् अन्या माया
१५११७ अन्यच्छ्रोत्रघ्राणजिह्वाकायमनःसंस्पर्शप्रत्ययवेदनादुत्पद्यते वेदयितं सुखं वा दुखं
१५११८ वा अदुःखासुखं वा। सुभूतिराह् नो भगवन्।
१५११९ भगवानाह् तत्किं मन्यसे सुभूत् अन्या माया अन्यः पृथिवीधातुरन्या माया अन्योऽब्धातुर्
१५१२० अन्या माया अन्यः तेजोधातुरन्या माया अन्यो वायुधातुरन्या माया अन्य आकाशधातुरन्या माया अन्यो विज्ञानधातुः। सुभूतिराह नो भगवनन्यः
१५१२१ पृथिवीधातुरन्या माया। पृथिवीधातुरेव माया मायैव पृथिवीधातुः।

१५२०१ नो भगवनन्यो अब्धातुरन्या माया। अब्धातुरेव माया मायैवाब्धातुः। नो भगवनन्यः तेजोधातुरन्या माया। तेजोधातुरेव माया मायैव तेजोधातुः। नो भगवनन्यो वायुधातुरन्या माया। वायुधातुरेव माया मायैव वायुधातुः। नो भगवनन्य आकाशधातुरन्या माया। आकाशधातुरेव माया मायैवाकाशधातुः। नो भगवन्नन्यो विज्ञानधातुरन्या माया। विज्ञानधातुरेव
१५२०२ माया मायैव विज्ञानधातुः॥ [इति तत्रैव तृतीयो धातुप्रज्ञप्तिविकल्पः॥]
१५२०३ {भगवानाह् तत्किं मन्यसे सुभूते}। अन्या माया अन्यः प्रतीत्यसमुत्पादः। {सुभूतिराह}। नो भगवन्नन्या
१५२०४ अविद्या अन्या माया। अविद्यैव माया मायैवाविद्या। नो भगवन्नन्ये संस्कारा अन्या माया। संस्कारा एव माया मायैव संस्काराः। नो भगवन्नन्यद्विज्ञानमन्या माया। विज्ञानमेव माया मायैव विज्ञानं। नो भगवन्नन्यद्नामरूपमन्या माया। नामरूपमेव माया मायैव नामरूपं। नो भगवन्नन्यानि षडायतनान्यन्या माया। षडायतनान्येव माया मायैव षडायतनानि। नो भगवन्नन्यः स्पर्शो अन्या माया। स्पर्श एव माया मायैव स्पर्शो। नो भगवन्नन्या वेदनान्या माया। वेदनैव माया मायैव वेदना। नो भगवन्नन्या तृष्णान्या माया। तृष्णैव माया मायैव तृष्णा। नो भगवन्नन्यदुपादानमन्या माया। उपादानमेव माया मायैव उपादानं। नो भगवन्नन्यो भवो अन्या माया। भव एव माया मायैव भवो। नो भगवन्नन्या जातिरन्या माया। जातिरेव माया मायैव जातिः नो
१५२०५ भगवन्नन्यज्जरामरणमन्या माया। जरामरणमेव माया मायैव जरामरणम्॥
१५२०६ [इति तत्रैव चतुर्थः प्रतीत्यसमुत्पादप्रज्ञप्तिविकल्पः।]
१५२०७ {भगवानाह् तत्किं मन्यसे सुभूते}। अन्या माया अन्ये सप्तत्रिंशद्बोधिपक्षा धर्माः। {सुभूतिराह्
१५२०८ नो भगवन्}॥ [इति तत्रैव पञ्चमो व्यवदानप्रज्ञप्तिविकल्पः॥]
१५२०९ {भगवानाह् तत्किं मन्यसे सुभूते}। अन्या माया अन्या शून्यता। अन्या माया अन्यत्निमित्तमन्या
१५२१० माया अन्यत्प्रणिहितम्। {सुभूतिराह् नो भगवन्}॥ [इति तत्रैव षष्ठो दर्शनमार्गप्रज्ञप्तिविकल्पः॥]
१५२११ {भगवानाह् तत्किं मन्यसे सुभूते}। अन्या माया अन्या ध्यानारूप्यसमापत्तयः। {सुभूतिराह् नो भगवन्}॥
१५२१२ [इति तत्रैव सप्तमो भावनामार्गप्रज्ञप्तिविकल्पः॥]
१५२१३ {भगवानाह् तत्किं मन्यसे सुभूते}। अन्या माया अन्या सर्वशून्यता। {सुभूतिराह् नो भगवन्}। [इति
१५२१४ तत्रैवाष्टमो विशेषमार्गप्रज्ञप्तिविकल्पः।]
१५२१५ {भगवानाह् तत्किं मन्यसे सुभूते}। अन्या माया अन्यानि दशबलानि। अन्या माया
१५२१६ अन्येऽष्टादशावेणिकाबुद्धधर्माः। {सुभूतिराह् नो भगवन्}।
१५२१७ {भगवानाह् तत्किं मन्यसे सुभूते}। अन्या माया अन्यो बोधिः। {सुभूतिराह}। नो भगवनन्या
१५२१८ माया अन्यद्रूपं रूपमेव भगवन्माया मायैव भगवन् रूपम्
१५२१९ नो भगवनन्या माया अन्या वेदना वेदनैव भगवन्माया मायैव भगवन् वेदना नो भगवनन्या माया अन्या संज्ञा संज्ञैव भगवन्माया मायैव भगवन् संज्ञा नो भगवनन्या माया अन्ये संस्काराः संस्कारा एव भगवन्माया मायैव भगवन् संस्कारा नो भगवनन्या माया अन्यद्विज्ञानं विज्ञानमेव भगवन्माया
१५२२० मायैव भगवन् विज्ञानम्।
१५२२१ न बह्गवनन्यच्चक्षुरन्या माया न भगवनन्यद्रूपमन्या माया
१५२२२ न भगवनन्यत्श्रोत्रमन्या माया न भगवनन्यः शब्दो अन्या माया न भगवनन्यद्घ्राणमन्या माया न भगवनन्यो गन्धोऽन्या माया न भगवनन्या जिह्वा अन्या माया न भगवनन्यो रसोऽन्या माया न भगवनन्यः कायो अन्या माया न भगवनन्यत्स्प्रष्टव्यमन्या माया न भगवनन्यद्मनोऽन्या माया न भगवनन्यो धर्मोऽन्या माया न भगवनन्यच्छ्रोत्रविज्ञानमन्या माया न भगवनन्यच्छ्रोत्रविज्ञानमन्या माया न भगवनन्यद्घ्राणविज्ञानमन्या माया न भगवनन्यज्जिह्वाविज्ञानमन्या माया न भगवनन्यत्कायविज्ञानमन्या माया न भगवनन्यद्मनोविज्ञानमन्या माया न भगवनन्यच्चक्षूरूपचज्षुर्विज्ञानमन्या माया न भगवनन्यच्छ्रोत्रशब्दश्रोत्रविज्ञानमन्या माया न भगवनन्यद्घ्राणगन्धघ्राणविज्ञानमन्या माया न भगवनन्यज्जिह्वारसजिह्वाविज्ञानमन्या माया न भगवनन्यत्कायस्प्रष्टव्यकायविज्ञानमन्या माया न भगवनन्यत्मनोधर्ममनोविज्ञानमन्या माया न भगवनन्यः चक्षुःसंस्पर्शोऽन्या माया न भगवनन्यः श्रोत्रसंस्पर्शोऽन्या माया न भगवनन्यो घ्राणसंस्पर्शोऽन्या माया न भगवनन्यो जिह्वासंस्पर्शोऽन्या माया न भगवनन्यः कायसंस्पर्शोऽन्या माया न भगवनन्यो मनःसंस्पर्शोऽन्या माया। न भगवनन्यच्छ्रोत्रघ्राणजिह्वाकायमनःसंस्पर्शप्रत्ययवेदनादुत्पद्यते वेदयितं सुखं वा दुखं वा अदुःखं वा असुखं वा।
१५२२३ न भगवनन्या माया अन्ये बोधिपक्षा धर्माः। बोधिपक्षा धर्मा एव
१५२२४ भगवन्माया। मायैव भगवन् बोधिपक्षा धर्माः। न भगवन्

१५३०१ अन्या माया अन्येऽष्टादशावेणिका बुद्धधर्माः। अष्टादशावेणिका बुद्धधर्मा
१५३०२ एव भगवन्माया मायैव भगवन्नष्टादशावेणिका बुद्धधर्माः। न भगवनन्या
१५३०३ माया अन्यो बोधिः बोधिरेव माया मायैव भगवन् बोधिः।
१५३०४ {भगवानाह् तत्किं मन्यसे सुभूते}। अपि नु मायाया उत्पादो वा निरोधो वा। {सुभूतिराह् नो भगवन्}। {भगवानाह्
१५३०५ तत्किं मन्यसे सुभूते}। मायायाः संक्लेशो वा व्यवदानं वा। {सुभूतिराह् नो भगवन्}। {भगवानाह् तत्किं मन्यसे सुभूते}। यस्य नोत्पादो
१५३०६ न निरोधो न संक्लेशो न व्यवदानं स प्रज्ञापारमितायां शिक्षते ध्यान-
१५३०७ पारमितयां शिक्षते वीर्यपारमितायां शिक्षते क्षान्तिपारमितायां शिक्षते शीलपारमितायां शिक्षते दानपारमितायां शिक्षत् अप्रमाणध्यानारूप्यसमापत्तिषु
१५३०८ शिक्षते सप्तत्रिंशद्बोधिपक्षेषु धर्मेषु अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिक-
१५३०९ बुद्धधर्मेषु शिक्षत् सर्वज्ञतायां निर्यास्यति यावत्सर्वाकारज्ञतामनु-
१५३१० प्राप्स्यति। {सुभूतिराह् नो भगवन्}।
१५३११ {भगवानाह् तत्किं मन्यसे सुभूत्} अत्रैषा संज्ञा समज्ञा प्रज्ञप्तिर्व्यवहारो बोधिसत्त्व इति पञ्च-
१५३१२ सूपादानस्कन्धेषु। {सुभूतिराह् नो भगवन्}। {भगवानाह् तत्किं मन्यसे सुभूते}। संज्ञा समज्ञा प्रज्ञप्तिर्व्यवहारमात्रेण
१५३१३ पञ्चानामुपादानस्कन्धानामुत्पादो वा निरोधो वा संक्लेशो वा व्यवदानं वा
१५३१४ उपलभ्यत् {सुभूतिराह् नो भगवन्}। {भगवानाह् तत्किं मन्यसे सुभूते}। यस्य न संज्ञा न समज्ञा न प्रज्ञप्तिर्न
१५३१५ व्यवहारो न नाम न नामप्रज्ञप्तिर्न कायो न कायकर्म न वाक्न वाक्कर्म न
१५३१६ मनो न मनःकर्म नोत्पादो न निरोधो न संक्लेशो न व्यवदानमपि न स
१५३१७ प्रज्ञापारमितायां शिक्षित्वा सर्वाकारज्ञतायां निर्यास्यति। {सुभूतिराह् नो भगवन्}। {भगवानाह}।
१५३१८ एवं खलु सुभूते {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां शिक्षित्वा सर्वाकारज्ञतायां
१५३१९ निर्यास्यति अनुपलम्भयोगेन् {सुभूतिराह}। एवं भगवन् {बोधिसत्त्वेन} महासत्त्वेन प्रज्ञापार-
१५३२० मितायां शिक्षमाणेन मायापुरुषेणैव शिक्षितव्यं भगवत्यनुत्तरायां सम्यक्-
१५३२१ संबोधौ। तत्कस्य हेतोः। तथा हि भगवन् स एव मायापुरुषो वेदितव्यः।
१५३२२ यदुत पञ्चोपादानस्कन्धाः। {भगवानाह् तत्किं मन्यसे सुभूते}। अपि त्विमे पञ्चोपादानस्कन्धाः
१५३२३ प्रज्ञापारमितायां शिक्षित्वा सर्वाकारज्ञतायां निर्यास्यति। {सुभूतिराह् नो भगवन्}। तत्

१५४०१ कस्य हेतोः। तथा हि भगवन्नभावस्वभावाः पञ्चोपादानस्कन्धाः। एवं स्वप्नोपमाः
१५४०२ पञ्चस्कन्धाः स्वप्नश्चाभावस्वभावो नोपलभ्यते तथैव पञ्चस्कन्धा अभाव-
१५४०३ स्वभावतया नोपलभ्यन्त् {भगवानाह् तत्किं मन्यसे सुभूते}। प्रतिश्रुत्कोपमाः पञ्चस्कन्धाः प्रतिभासो-
१५४०४ पमाः निर्मितकोपमाः प्रतिबिम्बोपमाः पञ्चस्कन्धाः प्रज्ञापारमितायां शिक्षित्वा
१५४०५ सर्वाकारज्ञतायां निर्यास्यति। {सुभूतिराह् नो भगवन्}। तत्कस्य हेतोः। तथा हि
१५४०६ भगवन्नभावस्वभावो प्रतिश्रुत्क एव प्रतिभासो निर्मितकं प्रतिबिम्बस्तथैव
१५४०७ पञ्चस्कन्धा अभावस्वभावतया नोपलभ्यन्त् तथा हि भगवन्मायोपमं रूपं
१५४०८ मायोपमा वेदना मायोपमा संज्ञा मायोपमाः संस्कारा मायोपमं विज्ञानं। यच्च विज्ञानं तत्षडिन्द्रियं ते पञ्चस्कन्धास्ते
१५४०९ च अध्यात्मशून्यतया नोपलभ्यन्त् बहिर्धाशून्यतया {नोपलभ्यन्ते}। अध्यात्म-
१५४१० बहिर्धाशून्यतया {नोपलभ्यन्ते}। यावदभावस्वभावशून्यतया {नोपलभ्यन्ते}। सचेदेवं बह्गवन्
१५४११ भाष्यमाणो यो {बोधिसत्त्वो} महासत्त्वो नावलीयते न संलीयते न विप्रतिसारी भवति
१५४१२ नोत्रस्यति न सन्त्रस्यति न सन्त्रासमापद्यते, वेदितव्यमयं भगवन्निर्यास्यति
१५४१३ सर्वज्ञतायां सर्वाकारज्ञतामनुप्राप्स्यति॥ [इति तत्रैव नवमोऽशैक्समार्गप्रज्ञप्ति-
१५४१४ विकल्पः॥] [इति द्वितीयो ग्राहकविकल्पः॥]
१५४१५ अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत् । मा खलु भगवन्
१५४१६ नवयानसंप्रस्थितो {बोधिसत्त्वो} महासत्त्व इमं निर्देशं श्रुत्वा अवलीयते संलीयते
१५४१७ विप्रतिसारी भवेत् । उत्त्रस्येत्सन्त्रस्येत्सन्त्रासमापद्येत् भगवानाह्
१५४१८ सचेत्सुभूते नवयानसंप्रस्थितो {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरननुपाय-
१५४१९ कुशलो भवेन्न च कल्याणमित्रहस्तगतो भवेतुत्त्रस्येत्संत्रस्येत्सन्त्रासमापद्येत्
१५४२० सुभूतिराह् कतमद्भगवन् {बोधिसत्त्वस्य} महासत्त्वस्य प्रज्ञापारमितायाञ्चरत
१५४२१ उपायकौशल्यं यत्र चरन् {बोधिसत्त्वो} महासत्त्वो {नोत्त्रस्यति न सन्त्रस्यति न सन्त्रासमापद्यते}।
१५४२२ भगवानाह् इह सुभूते {बोधिसत्त्वो} महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन
१५४२३ रूपमनित्यमिति प्रत्यवेक्षते न चोपलभत् वेदनां {सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनानित्येति प्रत्यवेक्षते न चोपलभते}। संज्ञां {सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनानित्येति प्रत्यवेक्षते न चोपलभते}। संस्कारान्

१५५०१ {सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनानित्या इति प्रत्यवेक्षते न चोपलभते}। विज्ञानं {सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनानित्येति प्रत्यवेक्षते न चोपलभते}। इदं सुभूते {बोधिसत्त्वस्य} महासत्त्वस्य प्रज्ञापारमितायां चरत
१५५०२ उपायकौशल्यं वेदितव्यम्।
१५५०३ पुनरपरं सुभूते {बोधिसत्त्वो} महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन
१५५०४ रूपं दुःखमिति प्रत्यवेक्षते न चोपलभते
१५५०५ वेदनां सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन दुःखेति प्रत्यवेक्षते न चोपलभत् संज्ञां सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन दुःखेति प्रत्यवेक्षते न चोपलभत् संस्कारान् सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन दुःखा इति प्रत्यवेक्षते न चोपलभत् विज्ञानं सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन दुःखमिति प्रत्यवेक्षते न चोपलभत् इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत उपायकौशल्यं वेदितव्यम्। पुनरपरं सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन रूपं शून्यमिति प्रत्यवेक्षते न चोपलभते वेदनां सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन शून्येति प्रत्यवेक्षते न चोपलभत् संज्ञां सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन शून्येति प्रत्यवेक्षते न चोपलभत् संस्कारान् सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन शून्या इति प्रत्यवेक्षते न चोपलभत् विज्ञानं सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन शून्यमिति प्रत्यवेक्षते न चोपलभत् इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत उपायकौशल्यं वेदितव्यम्। पुनरपरं सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन रूपमनात्मेति प्रत्यवेक्षते न चोपलभते वेदनां सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनानात्मेति प्रत्यवेक्षते न चोपलभत् संज्ञां सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनानात्मेति प्रत्यवेक्षते न चोपलभत् संस्कारान् सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनानात्मा इति प्रत्यवेक्षते न चोपलभत् विज्ञानं सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनानात्ममिति प्रत्यवेक्षते न चोपलभत् इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत उपायकौशल्यं
वेदितव्यम्। पुनरपरं सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन रूपं शान्तमिति प्रत्यवेक्षते न चोपलभते वेदनां सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन शान्तेति प्रत्यवेक्षते न चोपलभत् संज्ञां सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन शान्तेति प्रत्यवेक्षते न चोपलभत् संस्कारान् सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन शान्ता इति प्रत्यवेक्षते न चोपलभत् विज्ञानं सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन शान्तमिति प्रत्यवेक्षते न चोपलभत् इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत उपायकौशल्यं वेदितव्यम्।
१५५०६ पुनरपरं सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन रूपं विविक्तमिति प्रत्यवेक्षते न चोपलभते वेदनां सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन विविक्तेति प्रत्यवेक्षते न चोपलभत् संज्ञां सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन विविक्तेति प्रत्यवेक्षते न चोपलभत् संस्कारान् सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन विविक्ता इति प्रत्यवेक्षते न चोपलभत् विज्ञानं सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन विविक्तमिति प्रत्यवेक्षते न चोपलभत् इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत उपायकौशल्यं वेदितव्यम्। पुनरपरं सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन रूपमनिमित्तमिति प्रत्यवेक्षते न चोपलभते वेदनां सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनानिमित्तेति प्रत्यवेक्षते न चोपलभत् संज्ञां सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनानिमित्तेति प्रत्यवेक्षते न चोपलभत् संस्कारान् सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनानिमित्ता इति प्रत्यवेक्षते न चोपलभत् विज्ञानं सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनानिमित्तमिति प्रत्यवेक्षते न चोपलभत् इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत उपायकौशल्यं वेदितव्यम्। पुनरपरं सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन रूपमप्रणिहितमिति प्रत्यवेक्षते न चोपलभते वेदनां सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनाप्रणिहितेति प्रत्यवेक्षते न चोपलभत् संज्ञां सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनाप्रणिहितेति प्रत्यवेक्षते न चोपलभत् संस्कारान् सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनाप्रणिहिता इति प्रत्यवेक्षते न चोपलभत् विज्ञानं सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनाप्रणिहितमिति प्रत्यवेक्षते न
चोपलभत् इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत उपायकौशल्यं वेदितव्यम्।
१५५०७ पुनरपरं सुभूते {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन् सर्वाकारज्ञताप्रति-
१५५०८ संयुक्तैर्मनसिकारैर्यां धर्मदेशनाङ्करोत्यनुपलम्भयोगेन इयं {बोधिसत्त्वस्य} महासत्त्वस्य
१५५०९ दानपारमिता। तेषामेव सर्वाकारज्ञताप्रतिसंयुक्तानां मनसिकाराणाम-
१५५१० परामर्षणता {इयं बोधिसत्त्वस्य महासत्त्वस्य} शील{पारमिता}। {या तेषामेव सर्वाकारज्ञताप्रतिसंयुक्तानां मनसिकाराणाम्} क्षमणारोचनप्रत्यवेक्षणता {इयं बोधिसत्त्वस्य महासत्त्वस्य}
१५५११ क्षान्ति{पारमिता}। {या तेषामेव सर्वाकारज्ञताप्रतिसंयुक्तानां मनसिकाराणाम्} अनुत्सृष्टिर्{इयं बोधिसत्त्वस्य महासत्त्वस्य} वीर्य{पारमिता}। {या तेषामेव सर्वाकारज्ञताप्रतिसंयुक्तानां मनसिकाराणाम्} च श्रावकप्रत्येक-
१५५१२ बुद्धप्रतिसंयुक्तानां मनसिकाराणामनवकाशदानता अन्येषामपि वाकुशलानां
१५५१३ धर्माणाम् {इयं बोधिसत्त्वस्य महासत्त्वस्य} ध्यान{पारमिता}। एवं हि सुभूते {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमिता-
१५५१४ याञ्चरन् {नोत्त्रस्यति न सन्त्रस्यति न सन्त्रासमापद्यते}।
१५५१५ पुनरपरं सुभूते {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन्नेवं प्रत्यवेक्षते न रूप-
१५५१६ शून्यतया रूपं शून्यं, रूपमेव शून्यता, शून्यतैव रूपम्। न वेदनाशून्यतया
१५५१७ वेदना शून्या, वेदनैव शून्यता, शून्यतैव वेदना,
१५५१८ न संज्ञाशून्यतया संज्ञा सून्या, संज्ञैव शून्यता, शून्यतैव संज्ञा। न संस्कारशून्यतया संस्काराः शून्याः, संस्कारा एव शून्यता, शून्यतैव संस्काराः। न विज्ञानशून्यतया विज्ञानं शून्यम्, विज्ञानमेव शून्यता, शून्यतैव विज्ञानम्। न चक्षुःशून्यतया चक्षुः शून्यम्, चक्षुरेव शून्यता, शून्यतैव चक्षुः। न श्रोत्रशून्यतया श्रोत्रं शून्यम्, श्रोत्रमेव शून्यता, शून्यतैव श्रोत्रम्। न घ्राणशून्यतया घ्राणं शून्यम्, घ्राणमेव शून्यता, शून्यतैव घ्राणम्। न जिह्वाशून्यतया जिह्वा शून्या, जिह्वैव शून्यता, शून्यतैव जिह्वा। न कायशून्यतया कायः शून्यः, काय एव शून्यता, शून्यतैव कायः। न मनःशून्यतया मनः शून्यम्, मन एव शून्यता, शून्यतैव मनः। न रूपशून्यतया रूपं शून्यम्, रूपमेव शून्यता, शून्यतैव रूपम्। न शब्दशून्यतया शब्दः शून्यः, शब्द एव शून्यता, शून्यतैव शब्दः। न गन्धशून्यतया गन्धो शून्यः, गन्ध एव शून्यता, शून्यतैव गन्धः। न रसशून्यतया रसः शून्यः, रस एव शून्यता, शून्यतैव रसः। न स्प्रष्टव्यशून्यतया स्प्रष्टव्यं शून्यम्, स्प्रष्टव्यमेव शून्यता, शून्यतैव स्प्रष्टव्यम्। न धर्मशून्यतया धर्मः शून्यः, धर्म एव शून्यता, शून्यतैव धर्मः। न चक्षुर्विज्ञानशून्यतया चक्षुर्विज्ञानं शून्यम्, चक्षुर्विज्ञानमेव शून्यता, शून्यतैव चक्षुर्विज्ञानम्। न श्रोत्रविज्ञानशून्यतया श्रोत्रविज्ञानं शून्यम्, श्रोत्रविज्ञानमेव शून्यता, शून्यतैव श्रोत्रविज्ञानम्। न घ्राणविज्ञानशून्यतया घ्राणविज्ञानं शून्यम्, घ्राणविज्ञानमेव शून्यता, शून्यतैव घ्राणविज्ञानम्। न जिह्वाविज्ञानशून्यतया जिह्वाविज्ञानं शून्यम्, जिह्वाविज्ञानमेव शून्यता, शून्यतैव जिह्वाविज्ञानम्। न कायविज्ञानशून्यतया कायविज्ञानं शून्यम्, कायविज्ञानमेव शून्यता, शून्यतैव
कायविज्ञानम्। न मनोविज्ञानशून्यतया मनोविज्ञानं शून्यम्, मनोविज्ञानमेव शून्यता, शून्यतैव मनोविज्ञानम्। न चक्षुःसंस्पर्शशून्यतया चक्षुःसंस्पर्शः शून्यः, चक्षुःसंस्पर्श एव शून्यता, शून्यतैव चक्षुःसंस्पर्शः। न श्रोत्रसंस्पर्शशून्यतया श्रोत्रसंस्पर्शः शून्यः, श्रोत्रसंस्पर्श एव शून्यता, शून्यतैव श्रोत्रसंस्पर्शः। न घ्राणसंस्पर्शशून्यतया घ्राणसंस्पर्शः शून्यः, घ्राणसंस्पर्श एव शून्यता, शून्यतैव घ्राणसंस्पर्शः। न जिह्वासंस्पर्शशून्यतया जिह्वासंस्पर्शः शून्यः, जिह्वासंस्पर्श एव शून्यता, शून्यतैव जिह्वासंस्पर्शः। न कायसंस्पर्शशून्यतया कायसंस्पर्शः शून्यः, कायसंस्पर्श एव शून्यता, शून्यतैव कायसंस्पर्शः। न मनःसंस्पर्शशून्यतया मनःसंस्पर्शः शून्यः, मनःसंस्पर्श एव शून्यता, शून्यतैव मनःसंस्पर्शः। न चक्षुःप्रत्ययवेदयितशून्यतया चक्षुःप्रत्ययवेदयितं शून्यम्, चक्षुःप्रत्ययवेदयितमेव शून्यता, शून्यतैव चक्षुःप्रत्ययवेदयितम्। न श्रोत्रप्रत्ययवेदयितशून्यतया श्रोत्रप्रत्ययवेदयितं शून्यम्, श्रोत्रप्रत्ययवेदयितमेव शून्यता, शून्यतैव श्रोत्रप्रत्ययवेदयितम्। न घ्राणप्रत्ययवेदयितशून्यतया घ्राणप्रत्ययवेदयितं शून्यम्, घ्राणप्रत्ययवेदयितमेव शून्यता, शून्यतैव घ्राणप्रत्ययवेदयितम्। न जिह्वाप्रत्ययवेदयितशून्यतया जिह्वाप्रत्ययवेदयितं शून्यम्, जिह्वाप्रत्ययवेदयितमेव शून्यता, शून्यतैव जिह्वाप्रत्ययवेदयितम्। न कायप्रत्ययवेदयितशून्यतया कायप्रत्ययवेदयितं शून्यम्, कायप्रत्ययवेदयितमेव शून्यता, शून्यतैव
कायप्रत्ययवेदयितम्। न मनःप्रत्ययवेदयितशून्यतया मनःप्रत्ययवेदयितं शून्यम्, मनःप्रत्ययवेदयितमेव शून्यता, शून्यतैव मनःप्रत्ययवेदयितम्। न स्मृत्युपस्थानशून्यतया स्मृत्युपस्थानानि शून्यानि, स्मृत्युपस्थानान्येव शून्यता, शून्यतैव स्मृत्युपस्थानानि।
१५५१९ एवं सम्यक्प्रहाणर्द्धि-
१५५२० पादेन्द्रियबलबोध्यङ्गानि। न मार्गशून्यतया मार्गः शून्यो, मार्ग एव शून्यता,
१५५२१ शून्यतैव मार्गः। न बलवैशारद्यावेणिकबुद्धधर्मशून्यतया बुद्धधर्माः शून्याः,
१५५२२ बुद्धधर्मा एव शून्यता शून्यतैव बुद्धधर्माः। इयं सुभूते {बोधिसत्त्वस्य} महासत्त्वस्य

१५६०१ प्रज्ञापारमिता, एवं हि सुभूते {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायाञ्चरन् {नोत्त्रस्यति न सन्त्रस्यति न सन्त्रासमापद्यते}
१५६०२ । [इत्युपायकौशल्यं प्रथमः सपरिग्रहः।]
१५६०३ सुभूतिराह् कतमानि भगवन् {बोधिसत्त्वस्य} महासत्त्वस्य कल्याणमित्राणि
१५६०४ यैः परिगृहीत इमं प्रज्ञापारमितानिर्देशं श्रुत्वा {नोत्त्रस्यति न सन्त्रस्यति न सन्त्रासमापद्यते}
१५६०५ भगवानाह् इह सुभूते {बोधिसत्त्वस्य} महासत्त्वस्य कल्याणमित्रानि यान्यस्य
१५६०६ रूपमनित्यमिति धर्मं देशयन्ति तच्चानुपलम्भयोगेन् तानि च कुशल-
१५६०७ मूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयन्ति अन्यत्र सर्वाकारज्ञतायाः।
१५६०८ वेदना संज्ञा संस्कारा विज्ञानमनित्यमिति धर्मं देशयन्ति तच्चानुपलम्भयोगेन् तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र
१५६०९ सर्वाकारज्ञतायाः। अमूनि सुभूते {बोधिसत्त्वस्य} महासत्त्वस्य कल्याणमित्राणि याण्यस्य
१५६१० रूपं दुःखमिति धर्मं देशयन्ति। रूपमनात्मेति शान्तमिति विविक्तमिति
१५६११ शून्यमिति अनिमित्तमिति अप्रणिहितमिति धर्मं देशयन्ति तच्चानुपलम्भयोगेन् तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र
१५६१२ सर्वाकारज्ञतायाः। वेदना संज्ञा संस्काराः यान्यस्य
१५६१३ विज्ञानं दुःखमिति धर्मं देशयन्ति। विज्ञानमनात्मेति शान्तमिति विविक्तमिति शून्यमिति अनिमित्तमिति अप्रणिहितमिति धर्मं देशयन्ति तच्चानुपलम्भयोगेन् तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः। अमूनि
१५६१४ सुभूते {बोधिसत्त्वस्य} महासत्त्वस्य कल्याणमित्राणि। पुनरपरं सुभूते {बोधिसत्त्वस्य} महा-
१५६१५ सत्त्वस्य कल्याणमित्रानि यान्यस्य चक्षुरनित्यमिति धर्मं देशयन्ति
१५६१६ तच्चानुपलम्भयोगेन् तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः। श्रोत्रं घ्राणं जिह्वा कायो मन अनित्यमिति धर्मं देशयन्ति तच्चानुपलम्भयोगेन् तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः। अमूनि सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि याण्यस्य चक्षुर्दुःखमिति धर्मं देशयन्ति। चक्षुरनात्मेति शान्तमिति विविक्तमिति शून्यमिति अनिमित्तमिति अप्रणिहितमिति धर्मं देशयन्ति तच्चानुपलम्भयोगेन् तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः। श्रोत्रं घ्राणं जिह्वा कायो मनो दुःखमिति धर्मं देशयन्ति। मन अनात्मेति शान्तमिति विविक्तमिति शून्यमिति अनिमित्तमिति अप्रणिहितमिति धर्मं देशयन्ति तच्चानुपलम्भयोगेन् तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः। अमूनि सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि। पुनरपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्रानि यान्यस्य चक्षुर्विज्ञानमनित्यमिति धर्मं देशयन्ति तच्चानुपलम्भयोगेन् तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः। श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्वाविज्ञानं कायविज्ञानं मनोविज्ञानमनित्यमिति धर्मं देशयन्ति तच्चानुपलम्भयोगेन् तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः। अमूनि सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि याण्यस्य चक्षुर्विज्ञानं दुःखमिति धर्मं देशयन्ति। चक्षुर्विज्ञानमनात्मेति शान्तमिति विविक्तमिति शून्यमिति अनिमित्तमिति अप्रणिहितमिति धर्मं देशयन्ति तच्चानुपलम्भयोगेन् तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः। श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्वाविज्ञानं कायविज्ञानं मनोविज्ञानं
दुःखमिति धर्मं देशयन्ति। मनोविज्ञानमनात्मेति शान्तमिति विविक्तमिति शून्यमिति अनिमित्तमिति अप्रणिहितमिति धर्मं देशयन्ति तच्चानुपलम्भयोगेन् तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः। अमूनि सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि।
१५६१७ पुनरपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्रानि यान्यस्य चक्षुःसंस्पर्शोऽनित्य इति धर्मं देशयन्ति तच्चानुपलम्भयोगेन् तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः। श्रोत्रसंस्पर्शो घ्राणसंस्पर्शो जिह्वासंस्पर्शो कायविज्ञानसंस्पर्शो मनःसंस्पर्शोऽनित्य इति धर्मं देशयन्ति तच्चानुपलम्भयोगेन् तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः। अमूनि सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि याण्यस्य चक्षुःसंस्पर्शो दुःख इति धर्मं देशयन्ति। चक्षुःसंस्पर्शो अनात्मेति शान्त इति विविक्त इति शून्य इति अनिमित्त इति अप्रणिहित इति धर्मं देशयन्ति तच्चानुपलम्भयोगेन् तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः। श्रोत्रसंस्पर्शो घ्राणसंस्पर्शो जिह्वासंस्पर्शो कायसंस्पर्शो मनःसंस्पर्शो दुःख इति धर्मं देशयन्ति। मनःसंस्पर्शोऽनात्मेति शान्त इति विविक्त इति शून्य इति अनिमित्त इति अप्रणिहित इति धर्मं देशयन्ति तच्चानुपलम्भयोगेन् तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः। अमूनि सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि। पुनरपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्रानि यान्यस्य चक्षुःसंस्पर्शप्रत्ययवेदयितमनित्यमिति धर्मं देशयन्ति तच्चानुपलम्भयोगेन् तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः। श्रोत्रसंस्पर्शप्रत्ययवेदयितं घ्राणसंस्पर्शप्रत्ययवेदयितं जिह्वासंस्पर्शप्रत्ययवेदयितं कायसंस्पर्शप्रत्ययवेदयितं मनःसंस्पर्शप्रत्ययवेदयितमनित्यमिति धर्मं देशयन्ति तच्
चानुपलम्भयोगेन् तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः। अमूनि सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि याण्यस्य चक्षुःसंस्पर्शप्रत्ययवेदयितं दुःखमिति धर्मं देशयन्ति। चक्षुःसंस्पर्शप्रत्ययवेदयितमनात्मेति शान्तमिति विविक्तमिति शून्यमिति अनिमित्तमिति अप्रणिहितमिति धर्मं देशयन्ति तच्चानुपलम्भयोगेन् तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः। श्रोत्रसंस्पर्शप्रत्ययवेदयितं घ्राणसंस्पर्शप्रत्ययवेदयितं जिह्वासंस्पर्शप्रत्ययवेदयितं कायसंस्पर्शप्रत्ययवेदयितं मनःसंस्पर्शप्रत्ययवेदयितं दुःखमिति धर्मं देशयन्ति। मनःसंस्पर्शप्रत्ययवेदयितमनात्मेति शान्तमिति विविक्तमिति शून्यमिति अनिमित्तमिति अप्रणिहितमिति धर्मं देशयन्ति तच्चानुपलम्भयोगेन् तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः। अमूनि सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि। पुनरपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्रानि यान्यस्य स्मृत्युपस्थानान्यनित्यान्यिति धर्मं देशयन्ति तच्चानुपलम्भयोगेन् तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः। अमूनि सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि याण्यस्य स्मृत्युपस्थानानि दुःखान्यिति धर्मं देशयन्ति। स्मृत्युपस्थानान्यनात्मान्यिति शान्तान्यिति विविक्तान्यिति शून्यान्यिति अनिमित्तान्यिति अप्रणिहितान्यिति धर्मं देशयन्ति तच्चानुपलम्भयोगेन् तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः। अमूनि सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि। पुनरपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्रानि यान्यस्य सम्यक्प्रहाणान्यनित्यान्यिति धर्मं देशयन्ति तच्चानुपलम्भयोगेन् तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र
सर्वाकारज्ञतायाः। अमूनि सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि याण्यस्य सम्यक्प्रहाणानि दुःखान्यिति धर्मं देशयन्ति। सम्यक्प्रहाणान्यनात्मान्यिति शान्तान्यिति विविक्तान्यिति शून्यान्यिति अनिमित्तान्यिति अप्रणिहितान्यिति धर्मं देशयन्ति तच्चानुपलम्भयोगेन् तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र
१५६१८ सर्वाकारज्ञतायाः। एवं सम्यक्प्रहाणानि ऋद्धिपादा इन्द्रियानि बलानि
१५६१९ बोध्यङ्गानि आर्याष्टाङ्गमार्गोऽनित्य इति धर्मं देशयन्ति तच्चानुपलम्भयोगेन् तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः।
१५६२० एवमप्रमाणध्यानारूप्यसमापत्तयोऽभिज्ञा अनित्या इति धर्मं देशयन्ति तच्चानुपलम्भयोगेन् तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः।
१५६२१ एवं वैशारद्यानि प्रतिसंविदो दश तथागतबलानि अष्टादशावेणिका बुद्धधर्मा
१५६२२ अप्यनित्या इति धर्मं देशयन्ति दुःखा इति धर्मं देशयन्ति तच्चानुपलम्भयोगेन् तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः। इमानि
१५६२३ सुभूते {बोधिसत्त्वस्य} महासत्त्वस्य कल्याणमित्राणि यैः परिगृहीत इमं प्रज्ञापारमिता-
१५६२४ निर्देशं श्रुत्वा {नोत्त्रस्यति न सन्त्रस्यति न सन्त्रासमापद्यते}

१५७०१ सुभूतिराह् कथं भगवन् {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायामनुपायकुशलो
१५७०२ भविष्यति पापमित्रहस्तगतश्च भविष्यति। य इमं प्रज्ञापारमितानिर्देशं श्रुत्वा
१५७०३ उत्त्रसिष्यति संत्रसिष्यति सन्त्रासमापत्स्यत्
१५७०४ भगवानाह् इह सुभूते {बोधिसत्त्वो} महासत्त्वोऽपगतसर्वाकारज्ञताप्रतियुक्तैः
१५७०५ मनसिकारैः प्रज्ञापारमितां भावयति उपलभत् तथा च प्रज्ञापारमितया
१५७०६ मन्यत्
१५७०७ ध्यानपारमितां भावयति उपलभत् तथा च ध्यानपारमितया मन्यत् वीर्यपारमितां भावयति उपलभत् तथा च वीर्यपारमितया मन्यत् क्षान्तिपारमितां भावयति उपलभत् तथा च क्षान्तिपारमितया मन्यत् शीलपारमितां भावयति उपलभत् तथा च शीलपारमितया मन्यत्
१५७०८ पुनरपरं सुभूते {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन् {अपगतसर्वाकारज्ञताप्रतिसंयुक्तैर्मनसिकारै} रूपमध्यात्म-
१५७०९ शून्यमिति मनसिकरोति। रूपं बहिर्धा{शून्यमिति मनसिकरोति} यावद्रूपमभावस्वभाव{शून्यमिति मनसिकरोति}
१५७१० वेदनाध्यात्मशून्येति मनसिकरोति। वेदना बहिर्धाशून्येति मनसिकरोति यावद्वेदनाभावस्वभावशून्येति मनसिकरोति। संज्ञाध्यात्मशून्येति मनसिकरोति। संज्ञा बहिर्धाशून्येति मनसिकरोति यावद्संज्ञाभावस्वभावशून्येति मनसिकरोति। संस्कारा अध्यात्मशून्या इति मनसिकरोति। संस्कारा बहिर्धाशून्या इति मनसिकरोति यावद्संस्कारा अभावस्वभावशून्या इति मनसिकरोति। विज्ञानमध्यात्मशून्यमिति मनसिकरोति। विज्ञानं बहिर्धाशून्यमिति मनसिकरोति यावद्विज्ञानमभावस्वभावशून्यमिति मनसिकरोति। {अपगतसर्वाकारज्ञताप्रतिसंयुक्तैर्मनसिकारैः} तां चाध्यात्मशून्यतां बहिर्धाशून्यतां
१५७११ अध्यात्मबहिर्धाशून्यतां यावदभावस्वभावशून्यतामुपलभते ताभिश्च शून्यताभि-
१५७१२ र्मन्यते उपलम्भयोगेन् चक्षुरध्यात्म{शून्यमिति मनसिकरोति} बहिर्धा{शून्यमिति मनसिकरोति} अध्यात्मबहिर्धा{शून्यमिति मनसिकरोति}
१५७१३ यावदभावस्वभावस्वभाव{शून्यमिति मनसिकरोति}। ताश्च शून्यता उपलभते तथा च मन्यते उपलम्भयोगेन्
१५७१४ एवं श्रोत्रं घ्राणं जिह्वा कायो मनोऽध्यात्म{शून्यमिति मनसिकरोति।}
१५७१५ श्रोत्रं घ्राणं जिह्वा कायो मनो बहिर्धाशून्यमिति मनसिकरोति। यावत्श्रोत्रं घ्राणं जिह्वा कायो मनोऽभावस्वभावशून्यमिति मनसिकरोति। रूपमध्यात्मशून्यमिति मनसिकरोति बहिर्धाशून्यमिति मनसिकरोति अध्यात्मबहिर्धाशून्यमिति मनसिकरोति यावदभावस्वभावस्वभावशून्यमिति मनसिकरोति। ताश्च शून्यता उपलभते तथा च मन्यते उपलम्भयोगेन् एवं शब्दो गन्धो रसः स्प्रष्टव्यं धर्मोऽध्यात्मशून्य इति मनसिकरोति। शब्दो गन्धो रसः स्प्रष्टव्यं धर्मो बहिर्धाशून्य इति मनसिकरोति। यावत्शब्दो गन्धो रसः स्प्रष्टव्यं धर्मोऽभावस्वभावशून्यमिति मनसिकरोति। चक्षुर्विज्ञानमध्यात्मशून्यमिति मनसिकरोति बहिर्धाशून्यमिति मनसिकरोति अध्यात्मबहिर्धाशून्यमिति मनसिकरोति यावदभावस्वभावस्वभावशून्यमिति मनसिकरोति। ताश्च शून्यता उपलभते तथा च मन्यते उपलम्भयोगेन् एवं श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्वाविज्ञानं कायविज्ञानं मनोविज्ञानमध्यात्मशून्यमिति मनसिकरोति। श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्वाविज्ञानं कायविज्ञानं मनोविज्ञानं बहिर्धाशून्यमिति मनसिकरोति। यावत्श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्वाविज्ञानं कायविज्ञानं मनोविज्ञानमभावस्वभावशून्यमिति मनसिकरोति। चक्षुःसंस्पर्शोऽध्यात्मशून्य इति मनसिकरोति बहिर्धाशून्य इति मनसिकरोति अध्यात्मबहिर्धाशून्य इति मनसिकरोति यावदभावस्वभावस्वभावशून्य इति मनसिकरोति। ताश्च शून्यता उपलभते तथा च मन्यते उपलम्भयोगेन् एवं श्रोत्रसंस्पर्शो घ्राणसंस्पर्शो जिह्वासंस्पर्शः कायसंस्पर्शो मनःसंस्पर्शोऽध्यात्मशून्य इति मनसिकरोति। श्रोत्रसंस्पर्शो घ्राणसंस्पर्शो जिह्वासंस्पर्शः कायसंस्पर्शो मनःसंस्पर्शो बहिर्धाशून्य इति मनसिकरोति। यावत्श्रोत्रसंस्पर्शो घ्राणसंस्पर्शो
जिह्वासंस्पर्शः कायसंस्पर्शो मनःसंस्पर्शोऽभावस्वभावशून्यमिति मनसिकरोति। चक्षुःसंस्पर्शप्रत्ययवेदयितमध्यात्मशून्यमिति मनसिकरोति बहिर्धाशून्यमिति मनसिकरोति अध्यात्मबहिर्धाशून्यमिति मनसिकरोति यावदभावस्वभावस्वभावशून्यमिति मनसिकरोति। ताश्च शून्यता उपलभते तथा च मन्यते उपलम्भयोगेन् एवं श्रोत्रसंस्पर्शप्रत्ययवेदयितं घ्राणसंस्पर्शप्रत्ययवेदयितं जिह्वासंस्पर्शप्रत्ययवेदयितं कायसंस्पर्शप्रत्ययवेदयितं मनःसंस्पर्शप्रत्ययवेदयितमध्यात्मशून्यमिति मनसिकरोति। श्रोत्रसंस्पर्शप्रत्ययवेदयितं घ्राणसंस्पर्शप्रत्ययवेदयितं जिह्वासंस्पर्शप्रत्ययवेदयितं कायसंस्पर्शप्रत्ययवेदयितं मनःसंस्पर्शप्रत्ययवेदयितं बहिर्धाशून्यमिति मनसिकरोति। यावत्श्रोत्रसंस्पर्शप्रत्ययवेदयितं घ्राणसंस्पर्शप्रत्ययवेदयितं जिह्वासंस्पर्शप्रत्ययवेदयितं कायसंस्पर्शप्रत्ययवेदयितं मनःसंस्पर्शप्रत्ययवेदयितमभावस्वभावशून्यमिति मनसिकरोति।
१५७१६ एवमविद्यायां यावज्जरामरणमध्यात्म{शून्यमिति मनसिकरोति} जरामरणं बहिर्धाशून्यमिति मनसिकरोति यावद्जरामरणमभावस्वभावशून्यमिति मनसिकरोति
१५७१७ पुनरपरं {सुभूति} {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन् {अपगतसर्वाकारज्ञताप्रतिसंयुक्तैर्मनसिकारैः} स्मृत्युपस्थानानि
१५७१८ भावयति तानि च स्मृत्युपस्थानानि उपलभते तैश्च मन्यते उपलम्भयोगेन्
१५७१९ एवं सम्यक्प्रहाणानि ऋद्धिपादानिन्द्रियाणि बलानि बोध्यङ्गानि मार्गान् प्रतिसंविदश्वैशारद्यानि अभिज्ञाः तथागतबलानि बुद्धधर्मान् भावयति। तांञ्च बुद्धधर्मानुपलभते
१५७२० तैश्च मन्यते उपलम्भयोगेन् एवं खलु सुभूते {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां
१५७२१ चरन्ननुपायकुशल इमं प्रज्ञापारमितानिर्देशं श्रुत्वा उत्त्रस्यति {सन्त्रस्यति सन्त्रासमापद्यते}
१५७२२ सुभूतिराह् कथं भगवन् {बोधिसत्त्वो} महासत्त्वः पापमित्रपरिगृहीतो भवति।

१५८०१ येन पापमित्रपरिग्रहणेनेमं प्रज्ञापारमितानिर्देशं श्रुत्वा उत्त्रस्यति {सन्त्रस्यति सन्त्रासमापद्यते}
१५८०२ भगवानाह् इह सुभूते {बोधिसत्त्वस्य} महासत्त्वस्य प्रज्ञापारमिताया विवेचयति
१५८०३ ध्यानपारमिताया विवेचयति वीर्यपारमिताया विवेचयति क्षान्तिपारमिताया विवेचयति शीलपारमिताया विवेचयति दानपारमिताया विवेचयति। नात्र शिक्षितव्यमिति
१५८०४ नैतत्तथागतेनार्हता सम्यक्संबुद्धेन भाषितमिति कविकृतान्येतानि
१५८०५ काव्यानि नैतानि श्रोतव्यानि नोद्ग्रहीतव्यानि न पर्यवाप्तव्यानि न
१५८०६ धारयितव्यानि न वाचयितव्यानि न मनसिकर्तव्यानि नापि परस्या-
१५८०७ देशयितव्यानि। इदं {सुभूते बोधिसत्त्वस्य महासत्त्स्य पापमित्रं वेदितव्यम्।}
१५८०८ पुनरपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य पापमित्रं योऽस्य न मारकर्मा-
१५८०९ ण्युपदिशति। न मारदोषानाचष्ट इति हि मारः पापीयान् बुद्धवेषेण विवेचयति
१५८१० {बोधिसत्त्वं} महासत्त्वमुपसंक्रम्यैवं ब्रवीति। किं ते कुलपुत्र प्रज्ञापारमितया भावितया
१५८११ किं ते ध्यानपारमितया भावितया। किं ते वीर्यपारमितया भावितया। किं ते क्षान्तिपारमितया भावितया। किं ते शीलपारमितया भावितया। किं ते दानपारमितया भावितया। इदं {सुभूते बोधिसत्त्वस्य महासत्त्स्य पापमित्रं वेदितव्यम्।}
१५८१२ पुनरपरं सुभूते मारः पापीयान् बुद्धवेषेण श्रावकभूमिप्रतिसंयुक्तानि सूत्राणि गेयं
१५८१३ व्याकरणं गाथोदानं निदानमितिवृत्तकं जातकानि वैपुल्यमद्भुतधर्मावदानोपदेश-
१५८१४ मुपदेक्ष्यति प्रकाशयिष्यति विभजिष्यति उत्तानीकरिष्यति संप्रकाशयिष्यति।
१५८१५ इमान्येवंरूपाणि मारकर्माणि चाख्यातानि नावबोधयति। इदमपि {सुभूते बोधिसत्त्वस्य महासत्त्स्य पापमित्रं वेदितव्यम्।}
१५८१६ {पुनरपरं} {सुभूते} {मारः पापीयान्} {बोधिसत्त्वम्} महासत्त्वमुपसंक्राम्यैवं वक्ष्यति। न ते कुलपुत्र किंचिद्बो-
१५८१७ धिचित्तं नापि त्वमविनिवर्तनीयो नापि त्वं शक्ष्यस्यनुत्तरां सम्यक्संबोधिमभि-
१५८१८ संबोद्धुम्। य इमान्येवंरूपाणि मारकर्माण्याख्यातानि नावबोधयति। इदमपि
१५८१९ {सुभूते बोधिसत्त्वस्य महासत्त्स्य पापमित्रं वेदितव्यम्।}
१५८२० {पुनरपरं} {सुभूते} {मारः पापीयान्} {बोधिसत्त्वस्य} महासत्त्वस्य बुद्धवेषेणोपसंक्रम्यैवं वक्ष्यति चक्षुः कुल-

१५९०१ पुत्र शून्यमात्मना चात्मीयेन च् एवं श्रोत्रं शून्यमात्मना चात्मीयेन च घ्राणं शून्यमात्मना चात्मीयेन च जिह्वा शून्यात्मना चात्मीयेन च कायः शून्य आत्मना चात्मीयेन च मनः शून्यमात्मना चात्मी-
१५९०२ येन च रूपं शून्यमात्मना चात्मीयेन च शब्दः शून्य आत्मना चात्मीयेन च गन्धः शून्य आत्मना चात्मीयेन च रसः शून्य आत्मना चात्मीयेन च स्प्रष्टव्यं शून्यमात्मना चात्मीयेन च धर्मः शून्य आत्मना चात्मीयेन च चक्षुर्विज्ञानं शून्यमात्मना चात्मीयेन च श्रोत्रविज्ञानं शून्यमात्मना चात्मीयेन च घ्राणविज्ञानं शून्यमात्मना चात्मीयेन च जिह्वाविज्ञानं शून्यमात्मना चात्मीयेन च कायविज्ञानं शून्यमात्मना चात्मीयेन च मनोविज्ञानं शून्यमात्मना चात्मीयेन च चक्षुःसंस्पर्शः शून्य आत्मना चात्मीयेन च श्रोत्रसंस्पर्शः शून्य आत्मना चात्मीयेन च घ्राणसंस्पर्शः शून्य आत्मना चात्मीयेन च जिह्वासंस्पर्शः शून्य आत्मना चात्मीयेन च कायसंस्पर्शः शून्य आत्मना चात्मीयेन च मनःसंस्पर्शः शून्य आत्मना चात्मीयेन च चक्षुःसंस्पर्शप्रत्ययवेदयितं शून्यमात्मना चात्मीयेन च श्रोत्रसंस्पर्शप्रत्ययवेदयितं शून्यमात्मना चात्मीयेन च घ्राणसंस्पर्शप्रत्ययवेदयितं शून्यमात्मना चात्मीयेन च जिह्वासंस्पर्शप्रत्ययवेदयितं शून्यमात्मना चात्मीयेन च कायसंस्पर्शप्रत्ययवेदयितं शून्यमात्मना चात्मीयेन च मनःसंस्पर्शप्रत्ययवेदयितं शून्यमात्मना चात्मीयेन च
१५९०३ दानपारमिता शून्यात्मना चात्मीयेन च शीलपारमिता शून्यात्मना चात्मीयेन च क्षान्तिपारमिता शून्यात्मना चात्मीयेन च वीर्यपारमिता शून्यात्मना चात्मीयेन च ध्यानपारमिता शून्यात्मना चात्मीयेन च प्रज्ञापारमिता शून्यात्मना चात्मीयेन च स्मृत्युपस्थानानि शून्यानि आत्मना
१५९०४ चात्मीयेन च एवं सम्यक्प्रहाणानि ऋद्धिपादाः इन्द्रियाणि बलानि बोध्य-
१५९०५ ङ्गानि मार्गा यावदावेणिका बुद्धधर्माः शून्या आत्मना चात्मीयेन च् किं
१५९०६ करिष्यत्यनुत्तरां सम्यक्संबोधिमभिसंबुध्य य इमान्येवंरूपाणि मारकर्माणि
१५९०७ नाचष्टे नोपदिशति। इदं {सुभूते बोधिसत्त्वस्य महासत्त्स्य पापमित्रं वेदितव्यम्।}
१५९०८ {पुनरपरं} {सुभूते} {मारः पापीयान्} {बोधिसत्त्वं} महासत्त्वं प्रत्येकबुद्धवेषेणोपसंक्रम्यैवं वक्ष्यति।
१५९०९ शून्यता कुलपुत्र पूर्वदिग्बुद्धैर्भगवद्भिर्बोधिसत्त्वैः श्रावकैश्च नात्र बुद्धो न बोधि-
१५९१० र्न बोधिसत्त्वो न श्रावकः। एवं समन्ताद्दशदिशः शून्या बुद्धैर्भगवद्भिः
१५९११ बोधिसत्त्वैः श्रावकैश्च नात्र बुद्धो न बोधिर्न बोधिसत्त्वो न श्रावकः। य
१५९१२ इमान्येवंरूपाणि मारकर्माणि नोपदेक्ष्यति। इमानि {सुभूते बोधिसत्त्वस्य महासत्त्स्य पापमित्राणि वेदितव्यानि।}
१५९१३ {पुनरपरं} {सुभूते} {मारः पापीयान्} श्रमणवेषेणोपसंक्रम्य {बोधिसत्त्वं} महासत्त्वं सर्वाकारज्ञता-
१५९१४ प्रतिसंयुक्तेभ्यो मनसिकारेभ्यो विवेच्य श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर्मनसिकारै-
१५९१५ रनुशासिष्यति अववदिष्यति। य इदमेवंरूपं मारकर्म नोपदेक्ष्यति। इदं
१५९१६ {सुभूते बोधिसत्त्वस्य महासत्त्स्य पापमित्रं वेदितव्यम्।}
१५९१७ {पुनरपरं} {सुभूते} {मारः पापीयान्} उपाध्यायाचार्यवेषेणोपसंक्रम्य {बोधिसत्त्वं} महासत्त्वं बोधि-
१५९१८ सत्त्वचर्याया विवेचयिष्यति सर्वाकारज्ञताप्रतिसंयुक्तेभ्यो मनसिकारेभ्यो विवे-
१५९१९ चयिष्यति। स्मृत्युपस्थानेषु नियोजयिष्यति सम्यक्प्रहाणेषु ऋद्धिपादेषु
१५९२० इन्द्रियेषु बलेषु बोध्यङ्गेषु मार्गेषु नियोजयिष्यति शून्यतायामनिमित्ते अप्रणिहिते
१५९२१ नियोजयिष्यति। इमान्येवंरूपान् धर्मान् साक्षत्कृत्य श्रावकभूमिं साक्षात्-
१५९२२ कुरुष्व, किं ते करिष्यत्यनुत्तरया सम्यक्संबोध्यभिसंबुद्धया य इमान्येवं-
१५९२३ रूपाणि मारकर्माणि नाचष्टे नोपदिशति। इदं {सुभूते बोधिसत्त्वस्य महासत्त्स्य पापमित्रं वेदितव्यम्।}

१६००१ {पुनरपरं} {सुभूते} {मारः पापीयान्} मातापितृवेषेणोपसंक्रम्य {बोधिसत्त्वं} महासत्त्वमेवं वक्ष्यति।
१६००२ एहि त्वं कुलपुत्र स्रोतआपत्तिफलसाक्षात्क्रियायै योगमापद्यस्व {सकृदागामिफलसाक्षात्क्रियायै योगमापद्यस्व, अनागामिफलसाक्षात्क्रियायै योगमापद्यस्व} अर्हत्त्व-
१६००३ फलसाक्षात्क्रियायै योगमापद्यस्व् किं तेऽनुत्तरया सम्यक्संबोध्याभि-
१६००४ संबुद्धया यस्याः कृतशोऽसंख्येयानप्रमेयान् कल्पान् संसारे संसरतो हस्त-
१६००५ च्छेदाः पादच्छेदाश्चानुभवितव्याः। य इमान्येवंरूपाणि मारकर्माणि
१६००६ नोपदेक्ष्यति नाख्यास्यति। इदं {सुभूते बोधिसत्त्वस्य महासत्त्स्य पापमित्रं वेदितव्यम्।}
१६००७ {पुनरपरं} {सुभूते} {बोधिसत्त्वो} महासत्त्वस्य {मारः पापीयान्} भिक्षुवेषेणोपसंक्रम्य रूपमनित्य-
१६००८ मिति देशयिष्याति उपलम्भयोगेन् रूपं दुःखमनात्मकं शान्तं विविक्तं
१६००९ शून्यमनिमित्तमप्रणिहितमिति देशयिश्यति उपलम्भयोगेन्
१६०१० वेदनानित्येति देशयिष्याति उपलम्भयोगेन् वेदना दुःखानात्मका शान्ता विविक्ता शून्यानिमित्ताप्रणिहितेति देशयिश्यति उपलम्भयोगेन् संज्ञानित्येति देशयिष्याति उपलम्भयोगेन् संज्ञा दुःखानात्मका शान्ता विविक्ता शून्यानिमित्ताप्रणिहितेति देशयिश्यति उपलम्भयोगेन् संस्कारा अनित्या इति देशयिष्याति उपलम्भयोगेन् संस्कारा दुःखा अनात्मकाः शान्ता विविक्ताः शून्या अनिमित्ता अप्रणिहिता इति देशयिश्यति उपलम्भयोगेन् विज्ञानमनित्यमिति देशयिष्याति उपलम्भयोगेन् विज्ञानं दुःखमनात्मकं शान्तं विविक्तं शून्यमनिमित्तमप्रणिहितमिति देशयिश्यति उपलम्भयोगेन् चक्षुरनित्यमिति देशयिष्याति उपलम्भयोगेन् चक्षुर्दुःखमनात्मकं शान्तं विविक्तं शून्यमनिमित्तमप्रणिहितमिति देशयिश्यति उपलम्भयोगेन् श्रोत्रमनित्यमिति देशयिष्याति उपलम्भयोगेन् श्रोत्रं दुःखमनात्मकं शान्तं विविक्तं शून्यमनिमित्तमप्रणिहितमिति देशयिश्यति उपलम्भयोगेन् घ्राणमनित्यमिति देशयिष्याति उपलम्भयोगेन् घ्राणं दुःखमनात्मकं शान्तं विविक्तं शून्यमनिमित्तमप्रणिहितमिति देशयिश्यति उपलम्भयोगेन् जिह्वानित्येति देशयिष्याति उपलम्भयोगेन् जिह्वा दुःखानात्मका शान्ता विविक्ता शून्यानिमित्ताप्रणिहितेति देशयिश्यति उपलम्भयोगेन् कायोऽनित्य इति देशयिष्याति उपलम्भयोगेन् कायो दुःखोऽनात्मकः शान्त विविक्तः शून्योऽनिमित्तोऽप्रणिहित इति देशयिश्यति उपलम्भयोगेन् मनो अनित्यमिति देशयिष्याति उपलम्भयोगेन् मनो दुःखमनात्मकं शान्तं विविक्तं शून्यमनिमित्तमप्रणिहितमिति देशयिश्यति उपलम्भयोगेन् रूपमनित्यमिति देशयिष्याति उपलम्भयोगेन् रूपं दुःखमनात्मकं शान्तं विविक्तं शून्यमनिमित्तमप्रणिहितमिति देशयिश्यति उपलम्भयोगेन् शब्दोऽनित्य इति
देशयिष्याति उपलम्भयोगेन् शब्दो दुःखोऽनात्मकः शान्त विविक्तः शून्योऽनिमित्तोऽप्रणिहित इति देशयिश्यति उपलम्भयोगेन् गन्धोऽनित्य इति देशयिष्याति उपलम्भयोगेन् गन्धो दुःखोऽनात्मकः शान्त विविक्तः शून्योऽनिमित्तोऽप्रणिहित इति देशयिश्यति उपलम्भयोगेन् रसोऽनित्य इति देशयिष्याति उपलम्भयोगेन् रसो दुःखोऽनात्मकः शान्त विविक्तः शून्योऽनिमित्तोऽप्रणिहित इति देशयिश्यति उपलम्भयोगेन् स्प्रष्टव्यमनित्यमिति देशयिष्याति उपलम्भयोगेन् स्प्रष्टव्यं दुःखमनात्मकं शान्तं विविक्तं शून्यमनिमित्तमप्रणिहितमिति देशयिश्यति उपलम्भयोगेन् धर्मोऽनित्य इति देशयिष्याति उपलम्भयोगेन् धर्मो दुःखोऽनात्मकः शान्त विविक्तः शून्योऽनिमित्तोऽप्रणिहित इति देशयिश्यति उपलम्भयोगेन् चक्षुर्विज्ञानमनित्यमिति देशयिष्याति उपलम्भयोगेन् चक्षुर्विज्ञानं दुःखमनात्मकं शान्तं विविक्तं शून्यमनिमित्तमप्रणिहितमिति देशयिश्यति उपलम्भयोगेन् श्रोत्रविज्ञानमनित्यमिति देशयिष्याति उपलम्भयोगेन् श्रोत्रविज्ञानं दुःखमनात्मकं शान्तं विविक्तं शून्यमनिमित्तमप्रणिहितमिति देशयिश्यति उपलम्भयोगेन् घ्राणविज्ञानमनित्यमिति देशयिष्याति उपलम्भयोगेन् घ्राणविज्ञानं दुःखमनात्मकं शान्तं विविक्तं शून्यमनिमित्तमप्रणिहितमिति देशयिश्यति उपलम्भयोगेन् जिह्वाविज्ञानमनित्यमिति देशयिष्याति उपलम्भयोगेन् जिह्वाविज्ञानं दुःखमनात्मकं शान्तं विविक्तं शून्यमनिमित्तमप्रणिहितमिति देशयिश्यति उपलम्भयोगेन् कायविज्ञानमनित्यमिति देशयिष्याति उपलम्भयोगेन् कायविज्ञानं दुःखमनात्मकं शान्तं विविक्तं शून्यमनिमित्तमप्रणिहितमिति देशयिश्यति उपलम्भयोगेन् मनोविज्ञानमनित्यमिति देशयिष्याति
उपलम्भयोगेन् मनोविज्ञानं दुःखमनात्मकं शान्तं विविक्तं शून्यमनिमित्तमप्रणिहितमिति देशयिश्यति उपलम्भयोगेन। एवं यावत्स्मृत्युपस्थानान्य-
१६०११ नित्यानि इति देशयिष्याति उपलम्भयोगेन् स्मृत्युपस्थानानि दुःखान्यनात्मकानि शान्तानि विविक्तानि शून्यान्यनिमित्तान्यप्रणिहितान्यिति देशयिश्यति उपलम्भयोगेन। एवं सम्यक्प्रहाणान्य्अनित्यान्यिति देशयिष्याति उपलम्भयोगेन् स्मृत्युपस्थानानि दुःखान्यनात्मकानि शान्तानि विविक्तानि शून्यान्यनिमित्तान्यप्रणिहितान्यिति देशयिश्यति उपलम्भयोगेन् ऋद्धिपादा अनित्या इति देशयिष्याति उपलम्भयोगेन् संस्कारा दुःखा अनात्मकाः शान्ता विविक्ताः शून्या अनिमित्ता अप्रणिहिता इति देशयिश्यति उपलम्भयोगेन् इन्द्रियाण्यनित्यान्यिति देशयिष्याति उपलम्भयोगेन् स्मृत्युपस्थानानि दुःखान्यनात्मकानि शान्तानि विविक्तानि शून्यान्यनिमित्तान्यप्रणिहितान्यिति देशयिश्यति उपलम्भयोगेन् बलान्यनित्यान्यिति देशयिष्याति उपलम्भयोगेन् स्मृत्युपस्थानानि दुःखान्यनात्मकानि शान्तानि विविक्तानि शून्यान्यनिमित्तान्यप्रणिहितान्यिति देशयिश्यति उपलम्भयोगेन् बोध्यङ्गान्यनित्यान्यिति देशयिष्याति उपलम्भयोगेन् स्मृत्युपस्थानानि दुःखान्यनात्मकानि शान्तानि विविक्तानि शून्यान्यनिमित्तान्यप्रणिहितान्यिति देशयिश्यति उपलम्भयोगेन् मार्गोऽ-
१६०१२ नित्यो ऽनित्य इति देशयिष्याति उपलम्भयोगेन् मार्गो दुःखोऽनात्मकः शान्त विविक्तः शून्योऽनिमित्तोऽप्रणिहित इति देशयिश्यति उपलम्भयोगेन् यावद्बुद्धधर्मा अपि अनित्या इति देशयिष्याति उपलम्भयोगेन् संस्कारा दुःखा अनात्मकाः शान्ता विविक्ताः शून्या अनिमित्ता अप्रणिहिता इति देशयिश्यति उपलम्भयोगेन
१६०१३ । य इमान्येवंरूपाणि मारकर्माणि नोपदेक्ष्यति नाख्यास्यति इद-
१६०१४ मपि सुभूते बोधिसत्त्वस्य महासत्त्स्य पापमित्रं वेदितव्यं विदित्वा च परिवर्जयितव्यम्॥ [इति कल्याण-
१६०१५ मित्रद्वितीयसंपरिग्रहः।] [इत्युक्तं निर्वेधाङ्गं चतुर्विधम्॥]
१६०१६ सुभूतिराह् बोधिसत्त्वो बोधिसत्त्व इति भगवन्नुच्यत् बोधिसत्त्व
१६०१७ इति भगवन् कः पदार्थः। भगवानाह् अपदार्थः सुभूते बोधिसत्त्वपदार्थः।
१६०१८ तत्कस्य हेतोः। न हि सुभूते बोधिरुत्पादास्तिता वा नास्तिता वा विद्यते वोप-
१६०१९ लभ्यत् तस्मादपदार्थः सुभूते बोधिसत्त्वपदार्थः॥ [इति गोत्रस्वरूपम्।] तद्
१६०२० यथापि नाम सुभूते आकाशे शकुनेः पदं न {विद्यते नोपलभ्यते} एवमेव सुभूते
१६०२१ बोधिसत्त्वपदार्थो न {विद्यते नोपलभ्यते}।
१६०२२ स्वप्नस्य पदं न विद्यते नोपलभ्यते एवमेव सुभूते बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यत् मायायाः पदं न विद्यते नोपलभ्यते एवमेव सुभूते बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यत् मरीच्याः पदं न विद्यते नोपलभ्यते एवमेव सुभूते बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यत्
१६०२३ प्रतिश्रुत्कायाः पदं न विद्यते नोपलभ्यते एवमेव सुभूते बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यत् प्रतिभासस्य पदं न विद्यते नोपलभ्यते एवमेव सुभूते बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यत् प्रतिबिम्बस्य पदं न विद्यते नोपलभ्यते एवमेव सुभूते बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यत् गन्धर्वनगरस्य पदं न विद्यते नोपलभ्यते एवमेव सुभूते बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यत् निर्मितस्य पदं न विद्यते नोपलभ्यते एवमेव सुभूते बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते ॥
१६१०१ [इत्युष्मगताधारः॥] {तद्यथापि नाम सुभूते} भूतकोट्याः पदं {न विद्यते नोपलभ्यत् एवमेव बोधिसत्त्वस्य पदार्थो न विद्यते नोपलभ्यते}। {तद्यथापि नाम सुभूते} तथतायाः पदं {न विद्यते नोपलभ्यत् एवमेव बोधिसत्त्वस्य पदार्थो न विद्यते नोपलभ्यते}।
१६१०२ एवमवितथताया अनन्यतथताया धर्मताया धर्मधातोर्धर्मस्थितिताया धर्म-
१६१०३ नियामतायाः सत्यतायाः पदं {न विद्यते नोपलभ्यत् एवमेव बोधिसत्त्वस्य पदार्थो न विद्यते नोपलभ्यते}॥ [इति मूर्धगताधारः॥]
१६१०४ {तद्यथापि नाम सुभूते} मायापुरुषस्य रूपस्य पदं न {विद्यते नोपलभ्यते}। एवमेव सुभूते {बोधिसत्त्वस्य} महासत्त्वस्य
१६१०५ प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न {विद्यते नोपलभ्यते}। एवं वेदना संज्ञा संस्काराः।
१६१०६ {तद्यथापि नाम सुभूते} मायापुरुषस्य विज्ञानस्य पदं न {विद्यते नोपलभ्यते}। एवमेव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यत्}
१६१०७ तद्यथापि नाम सुभूते मायापुरुषस्य चक्षुषः पदं न विद्यते नोपलभ्यत् एवमेव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यत् एवं श्रोत्रं घ्राणं जिह्वा कायः। तद्यथापि नाम सुभूते मायापुरुषस्य मनसः पदं न विद्यते नोपलभ्यत् एवमेव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यत् तद्यथापि नाम सुभूते मायापुरुषस्य रूपस्य पदं न विद्यते नोपलभ्यत् एवमेव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यत् एवं शब्दो गन्धो रसः स्प्रष्टव्यं। तद्यथापि नाम सुभूते मायापुरुषस्य धर्मस्य पदं न विद्यते नोपलभ्यत् एवमेव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यत् तद्यथापि नाम सुभूते मायापुरुषस्य चक्षुर्विज्ञानस्य पदं न विद्यते नोपलभ्यत् एवमेव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यत् एवं श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्व्विज्ञानं कायविज्ञानम्। तद्यथापि नाम सुभूते मायापुरुषस्य मनोविज्ञानस्य पदं न विद्यते नोपलभ्यत् एवमेव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते॥ [इति
१६१०८ क्षान्तिगताधारः॥]
१६१०९ {तद्यथापि नाम सुभूते} मायापुरुषस्य अध्यात्मशून्यतायां चरतो बोधिसत्त्वपदार्थो न
१६११० {विद्यते नोपलभ्यते}। एवमेव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यत्} तद्यथापि नाम सुभूते मायापुरुषस्य बहिर्धाशून्यतायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यत् एवमेव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते। अध्यात्मबहिर्धाशून्यता-
१६१११ यां चरतो बोधिसत्त्वपदार्थो न {विद्यते नोपलभ्यते}। एवमेव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}। यावद्विस्तरेण् {तद्यथापि नाम सुभूते}
१६११२ मायापुरुषस्य अभावस्वभावशून्यतायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यत् एवमेव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यत् {तद्यथापि नाम सुभूते} माया-
१६११३ पुरुषस्य पारमितासु स्मृत्युपस्थान्एषु सम्यक्प्रहाणेषु ऋद्धिपादेषु इन्द्रियेषु बलेषु बोध्यङ्गेषु मार्गेषु प्रतिसंवित्सु वैशारद्येषु अभिज्ञासु तथागतबलेषु बुद्धधर्मेषु स्कन्धेषु धातुषु आयत-
१६११४ नेषु प्रतीत्यसमुत्पादेषु ध्यानारूप्यसमापत्त्यभिज्ञासु चरतो बोधिसत्त्वपदार्थो
१६११५ न {विद्यते नोपलभ्यते}। एवमेव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}॥ [इत्यग्रधर्मगताधारः॥]
१६११६ {तद्यथापि नाम सुभूते} तथागतस्यार्हतः सम्यक्संबुद्धस्य रूपपदार्थो न {विद्यते नोपलभ्यते}। एवमेव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}
१६११७

१६२०१ एवं वेदना संज्ञा संस्काराः। तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य विज्ञानपदार्थो न विद्यते नोपलभ्यत् एवमेव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यत् तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य चक्षुःपदार्थो न विद्यते नोपलभ्यत् एवमेव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यत् एवं श्रोत्रं घ्राणं जिह्वा कायः। तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य मनःपदार्थो न विद्यते नोपलभ्यत् एवमेव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यत् तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य रूपपदार्थो न विद्यते नोपलभ्यत् एवमेव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यत् एवं शब्दो गन्धो रसः स्प्रष्टव्यं। तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य धर्मपदार्थो न विद्यते नोपलभ्यत् एवमेव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यत् तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य चक्षुर्विज्ञानपदार्थो न विद्यते नोपलभ्यत् एवमेव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यत् एवं श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्व्विज्ञानं कायविज्ञानम्। तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य मनोविज्ञानपदार्थो न विद्यते नोपलभ्यत् एवमेव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते। {तद्यथापि नाम सुभूते} तथागतस्यार्हतः सम्यक्संबुद्धस्य
१६२०२ अध्यात्मशून्यतायां यावदभावस्वभावशून्यतायां चरतो बोधिसत्त्वपदार्थो न
१६२०३ {विद्यते नोपलभ्यते}। एवमेव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}। {तद्यथापि नाम सुभूते} तथागतस्यार्हतः सम्यक्संबुद्धस्य सर्वबोधिपक्षधर्म-
१६२०४ बलवैशारद्यावेणिकबुद्धधर्मे चरतो बोधिसत्त्वपदार्थो न {विद्यते नोपलभ्यते}। एवमेव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}। {तद्यथापि नाम सुभूते}
१६२०५ असंस्कृतधातौ संस्कृतध्तुपदं न {विद्यते नोपलभ्यते}। संस्कृतधातौ असंस्कृतधातुपदं न
१६२०६ {विद्यते नोपलभ्यते}। एवमेव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}॥ [इति दर्शनमार्गाधारः॥]
१६२०७ {तद्यथापि नाम सुभूते} अनुत्पादपदार्थो न {विद्यते नोपलभ्यते}। एवमेव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}। {तद्यथापि नाम सुभूते} अनिरोधानभिसंस्कारा-
१६२०८ प्रादुर्भावानुपलम्भासंक्लेशपदार्थो न {विद्यते नोपलभ्यते}। एवमेव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}। {तद्यथापि नाम सुभूते} अव्यवदान-
१६२०९ पदार्थो न {विद्यते नोपलभ्यते}। एवमेव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}। तत्कस्य हेतोः। रूपस्य सुभूते उत्पाद-
१६२१० पदार्थो न {विद्यते नोपलभ्यत्} वेदनायाः सुभूते उत्पादपदार्थो न विद्यते नोपलभ्यत् संज्ञायाः सुभूते उत्पादपदार्थो न विद्यते नोपलभ्यत् संस्काराणां सुभूते उत्पादपदार्थो न विद्यते नोपलभ्यत् विज्ञानस्य सुभूते उत्पादपदार्थो न विद्यते नोपलभ्यते। तत्कस्य हेतोः।
१६२११ रूपस्य सुभूते निरोधाभिसंस्कारप्रादुर्भावोपलम्भसंक्लेश{पदार्थो न विद्यते नोपलभ्यते}।
१६२१२ वेदनायाः सुभूते निरोधाभिसंस्कारप्रादुर्भावोपलम्भसंक्लेशपदार्थो न विद्यते नोपलभ्यत् संज्ञायाः सुभूते निरोधाभिसंस्कारप्रादुर्भावोपलम्भसंक्लेशपदार्थो न विद्यते नोपलभ्यत् संस्काराणां सुभूते निरोधाभिसंस्कारप्रादुर्भावोपलम्भसंक्लेशपदार्थो न विद्यते नोपलभ्यत् विज्ञानस्य सुभूते निरोधाभिसंस्कारप्रादुर्भावोपलम्भसंक्लेशपदार्थो न विद्यते नोपलभ्यते। [तत्कस्य हेतोः। रूपस्य सुभूते अव्यवदान{पदार्थो न विद्यते नोपलभ्यते}]।
१६२१३ वेदनायाः सुभूते अव्यवदानपदार्थो न विद्यते नोपलभ्यत् संज्ञायाः सुभूते अव्यवदानपदार्थो न विद्यते नोपलभ्यत् संस्काराणां सुभूते अव्यवदान{पदार्थो न विद्यते नोपलभ्यत् विज्ञानस्य सुभूते अव्यवदानपदार्थो न विद्यते नोपलभ्यते। {तद्यथापि नाम सुभूते} व्यस्तसमस्तानां स्कन्धानां धातू-
१६२१४ नामायतनानां प्रतीत्यसमुत्पादस्य उत्पाद{पदार्थो न विद्यते नोपलभ्यते}। यावत्स्कन्धधात्वायतनप्रतीत्य-
१६२१५ समुत्पादेषु व्यवदान{पदार्थो न विद्यते नोपलभ्यते}। एवं सप्तत्रिंशद्बोधिपक्षधर्माप्रमाणध्यानारूप्य-
१६२१६ समापत्त्यभिज्ञाप्रतिसंविद्दशबलवैशारद्यावेणिकबुद्धधर्माणामुत्पाद{पदार्थो न विद्यते नोपलभ्यते}। एवं
१६२१७ यावद्व्यवदान{पदार्थो न विद्यते नोपलभ्यते}। एवमेव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}। {तद्यथापि नाम सुभूते} आवेणिकानां बुद्धधर्माणां यावत्
१६२१८ संक्लेशव्यवदान{पदार्थो न विद्यते नोपलभ्यते}। एवमेव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}।
१६२१९ {तद्यथापि नाम सुभूते} रूपस्यात्यन्तविविक्तत्वान्निमित्तपदं न {विद्यते नोपलभ्यते}। एवमेव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यत्}

१६३०१ वेदनाया अत्यन्तविविक्तत्वान्निमित्तपदं न विद्यते नोपलभ्यत् एवमेव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यत् संज्ञाया अत्यन्तविविक्तत्वान्निमित्तपदं न विद्यते नोपलभ्यत् एवमेव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यत् संस्काराणामत्यन्तविविक्तत्वान्निमित्तपदं न विद्यते नोपलभ्यत् एवमेव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यत् विज्ञानस्यात्यन्तविविक्तत्वान्निमित्तपदं न विद्यते नोपलभ्यत् एवमेव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते। {तद्यथापि नाम सुभूते} व्यस्तसमस्तानां स्कन्धधात्वायतन-
१६३०२ प्रतीत्यसमुत्पादानामत्यन्तविविक्तत्वान्निमित्तपदं न {विद्यते नोपलभ्यते}। एवमेव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}।
१६३०३ {तद्यथापि नाम सुभूते} स्मृत्युपस्थानानामत्यन्तविशुद्धत्वान्निमित्तपदं न {विद्यते नोपलभ्यते}। एवमेव
१६३०४ {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}। एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माणामत्यन्तविशुद्धत्वान्निमित्तपदं
१६३०५ न {विद्यते नोपलभ्यते}। एवमेव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}। {तद्यथापि नाम सुभूते} आत्मसत्त्वजीवपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यकानां विशुद्धौ
१६३०६ पदं न {विद्यते नोपलभ्यते} आत्मसत्त्वजीवपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यकासत्त्वामुपादाय् एवमेव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}
१६३०७ [इति भावनामार्गाधारः॥]
१६३०८ {तद्यथापि नाम सुभूते} आदित्यस्योदागच्छतः प्रभायाः पदं न {विद्यते नोपलभ्यते}। एवमेव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}॥ [इति
१६३०९ प्रतिपक्षाधारः॥]
१६३१० {तद्यथापि नाम सुभूते} कल्पोद्वाहे वर्तमाने सर्वसंस्कारे पदं न {विद्यते नोपलभ्यते}। एवमेव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}
१६३११ ॥ [इति विपक्षप्रहाणाधारः॥]
१६३१२ {तद्यथापि नाम सुभूते} तथागतस्यार्हतः सम्यक्संबुद्धस्य शीले दौःशील्यपदं न {विद्यते नोपलभ्यते}।
१६३१३ एवमेव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}। {तद्यथापि नाम सुभूते} तथागतस्यार्हतः सम्यक्संबुद्धस्य समाधौ विक्षेपपदं न {विद्यते नोपलभ्यते}।
१६३१४ तथागतप्रज्ञायां दौष्प्रज्ञपदं न {विद्यते नोपलभ्यते}। तथागतविमुक्तावविमुक्तिपदं न {विद्यते नोपलभ्यते}।
१६३१५ एवमेव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}। {तद्यथापि नाम सुभूते} तथागतस्यार्हतः सम्यक्संबुद्धस्य विमुक्तिज्ञानदर्शनपदं न
१६३१६ {विद्यते नोपलभ्यते}। एवमेव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}॥ [इति प्रतिपक्षविपक्षविकल्पप्रहाणाधारः॥]
१६३१७ {तद्यथापि नाम सुभूते} सूर्याचन्द्रमसोः प्रभायाः पदं न {विद्यते नोपलभ्यते}। एवमेव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}॥ [इति प्रज्ञा-
१६३१८ करुणाधारः॥]

१६४०१ {तद्यथापि नाम सुभूते} श्रावकप्रत्येकबुद्धग्रहनक्षत्रमणिरत्नज्योतिषां प्रभायाः पदं न {विद्यते नोपलभ्यते}।
१६४०२ एवमेव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}॥ [इत्यसाधारणगुणाधारः॥]
१६४०३ {तद्यथापि नाम सुभूते} चातुर्महाराजकायिकानां देवानां त्रयस्त्रिंशानां देवानां यामानां देवानां तुषितानां देवानां निर्माणरतयानां देवानां परनिर्मितवशवर्तिनां देवानां ब्रह्मपार्षद्यानां देवानां ब्रह्मपुरोहितानां देवानां
१६४०४ महाब्रह्माणां देवानां यावदकनिष्ठानां देवानां प्रभायाः पदं न {विद्यते नोपलभ्यते}। एवमेव
१६४०५ {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}॥ [इति परार्थानुक्रमाधारः।]
१६४०६ {तद्यथापि नाम सुभूते} तथागतस्यार्हतः सम्यक्संबुद्धस्य प्रभायाः पदं न {विद्यते नोपलभ्यते}। एवमेव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}।
१६४०७ तत्कस्य हेतोः। तथा हि सुभूते यया बोध्या बोधिसत्त्वपदार्थः यश्च बोधिसत्त्व-
१६४०८ पदार्थः सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिनोऽनिदर्शना अप्रतिघा एक-
१६४०९ लक्षणा यदुतालक्षणाः। सर्वधर्माणां हि सुभूते {बोधिसत्त्वेन} महासत्त्वेन असक्तताया-
१६४१० मसद्भूततायां शिक्षितव्यम्। अकल्पनतामकल्पनतां चोपादाय सर्वधर्माश्च सुभ्ते
१६४११ {बोधिसत्त्वेन} महासत्त्वेनावबोद्धव्याः॥ [इत्यनाभासे प्रवृत्तज्ञानाधारः॥] [इत्युक्तः प्रति-
१६४१२ पत्त्याधारः॥]
१६४१३ सुभूतिराह् कतमे भगवन् सर्वधर्माः। कथं भगवन् {बोधिसत्त्वेन} महासत्त्वेन सर्व-
१६४१४ धर्माणामसद्भूततायां शिक्षितव्यम्। कथं भगवन् {बोधिसत्त्वेन} महासत्त्वेन सर्वधर्मा
१६४१५ अवबोद्धव्याः। भगवानाह् सर्वधर्मा उच्यन्ते कुशलाश्चाकुशलाश्च व्याकृता-
१६४१६ श्चाव्याकृताश्च लौकिकाश्च लोकोत्तराश्च सास्रवाश्चानास्रवाश्च संस्कृताश्चासंस्कृताश्च
१६४१७ साधारणाश्चासाधारणाश्च् इम उच्यन्ते सुभूते सर्वधर्मा यत्र {बोधिसत्त्वेन} महासत्त्वेना-

१६५०१ सद्भूततायां शिक्षितव्यम्। इमे सुभूते {बोधिसत्त्वेन} महासत्त्वेन सर्वधर्मा अवबोद्धव्याः॥
१६५०२ [इत्यालम्बनस्वरूपम्॥]
१६५०३ सुभूतिराह् कतमे भगवन् कुशला लोकिका धर्माः। भगवानाह्
१६५०४ कुशला लौकिका धर्मा उच्यन्ते, मात्रेयता प्त्रेयता श्रामण्यता ब्रह्मण्यता
१६५०५ कुले ज्येष्ठापचायिता। दानमयं पुण्यक्रियावस्तु शीलमयं {पुण्यक्रियावस्तु}। भावनामयं {पुण्यक्रियावस्तु}।
१६५०६ वैयावृत्यसहगतमुपायकौशलम्। दशकुशलाः कर्मपथाः। लौकिका नवसंज्ञा।
१६५०७ आध्मातकसंज्ञा विपटुमकसंज्ञा विपूयकसंज्ञा विलोहितकसंज्ञा विनीलकसंज्ञा विखादितकसंज्ञा विक्षिप्तकसंज्ञास्थिसंज्ञा विदग्धकसंज्ञा।
१६५०८ लौकिकानि चत्वारि ध्यानानि चत्वार्यप्रमाणानि चतस्र आरूप्यसमापत्तयः।
१६५०९ लौकिक्यः पञ्चाभिज्ञाः लौकिक्यो दशानुस्मृतयः। यदुत बुद्धानुस्मृतिः
१६५१० धर्मानुस्मृतिः संघानुस्मृतिः शीलानुस्मृतिः त्यागानुस्मृतिर्देवतानुस्मृतिरानापानानुस्मृतिर्मरणानुस्मृतिर् उद्वेगानुस्मृतिः कायगतानुस्मृतिः॥
१६५११ [इम उच्यन्ते कुशला लौकिका धर्माः॥]
१६५१२ सुभूतिराह् कतमे भगवन् लौकिका अकुशला धर्माः। भगवानाह्
१६५१३ प्राणातिपातोऽदत्तादानं काममिथ्याचारो मृषावादः पैशुन्यं पारुष्यं सम्भिन्नप्रला-
१६५१४ पोऽभिध्या व्यापादो मिथ्यादर्शनं दश अकुशलकर्मपथाः क्रोधोपनाहौ
१६५१५ म्रक्षः प्रदाशो विहिंसा ईर्ष्या मात्सर्यं मानो मिथ्यामानः॥ [इम उच्यन्ते
१६५१६ लौकिका अकुशला धर्माः॥]

१६६०१ सुभूतिराह् कतमे भगवनव्याकृता धर्माः। भगवानाह् अव्याकृतं
१६६०२ कायकर्म् {अव्याकृतं} वाक्कर्म् {अव्याकृतं} मनःकर्म् {अव्याकृतानि} चत्वारि महाभूआनि।
१६६०३ {अव्याकृतानि} पञ्चेन्द्रियानि। {अव्याकृतानि} षडायतनानि। {अव्याकृतान्य्} अरूप्याणि स्कन्ध-
१६६०४ धात्वायतनानि। {अव्याकृताः} विआकाः॥ [सर्व इम उच्यन्ते अव्याकृता धर्माः।]
१६६०५ सुभूतिराह् कतमे भगवन् लौकिकाः कुशला धर्माः। भगवानाह्
१६६०६ पञ्च स्कन्धा द्वादशायतनानि अष्टादश धातवो दश कुशलाः कर्मपथाश्चत्वारि
१६६०७ ध्यानानि चत्वार्यप्रमाणानि चतस्र आरूप्यसमापत्तयः पञ्चाभिज्ञाः ये चान्ये
१६६०८ लौकिका धर्माः॥ [इम उच्यन्ते लौकिकाः कुशलधर्माः॥]
१६६०९ सुभूतिराह् कतमे भगवन् लोकोत्तराः कुशला धर्माः। भगवानाह्
१६६१० चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः
१६६११ पञ्चेन्द्रियाणि पञ्चबलानि सप्तबोध्यङ्गानि आर्याष्ठाङ्गो मार्गः। शून्यता-
१६६१२ विमोक्षमुखमनिमित्तविमोक्षमुखमप्रणिहितविमोक्षमुखमनाज्ञातमाज्ञा-
१६६१३ स्यामीन्द्रियमाज्ञेन्द्रियमाज्ञातावीन्द्रियम्। सवितर्कः सविचारः समाधिः।
१६६१४ अवितर्कोऽविचारः समाधिः। विद्या विमुक्तिः स्मृतिः सम्प्रजन्यं योनिशो
१६६१५ मनस्कारः। अष्टौ विमोक्षाः कतमे अष्टौ रूपी रूपाणि पश्यति। अयं
१६६१६ प्रथमो विमोक्षः। अध्यात्ममरूपसंज्ञी बहिर्धारूपाणि पश्यति। अयं द्वितीयो
१६६१७ विमोक्षः। शून्यतायामधिमुक्तो भवति। अयं तृतीयो विमोक्षः। सर्वशो
१६६१८ रूपसंज्ञानां समतिक्रमातु प्रतिघसंज्ञानामस्तङ्गमात्नानात्वसंज्ञानाममनसि-
१६६१९ कारादनन्तमाकाशमित्याकाशानन्त्यायतनमुपसंपद्य विहरति। अयं चतुर्थो
१६६२० विमोक्षः। सर्वश आकाशानन्त्यायतनसमतिक्रमादनन्तं विज्ञानमिति
१६६२१ विज्ञानानन्त्यायतनमुपसंपद्य विहरति। अयं पञ्चमो विमोक्षः। सर्वशो
१६६२२ विज्ञानानन्त्यायतनसमतिक्रमात्नास्ति किञ्चिदित्याकिञ्चन्यायतनमुपसंपद्य
१६६२३ विहरति। अयं षष्ठो विमोषः। सर्वश आकिञ्चन्यायतनसमतिक्रमात्नैव

१६७०१ संज्ञानासंज्ञायतनमुपसंपद्य विहरति। अयं सप्तमो विमोक्षः। सर्वशो नैव
१६७०२ संज्ञानासंज्ञायतनसमतिक्रमात्संज्ञावेदयितनिरोधमुपसंपद्य विहरति। अयम्
१६७०३ अष्टमो विमोक्षः। इम अष्टौ विमोक्षाः। नवानुपूर्वविहारसमापत्तयः।
१६७०४ चत्वारि ध्यानानि विविक्तं कामैर्विविक्तं पापकैरकुशलैर्धर्मैः सवितर्कं
१६७०५ सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् {उपसंपद्य विहरति}। वितर्कविचाराणां
१६७०६ व्युपशमादध्यात्मं सम्प्रसादाच्चेतस एकोतीभावादवितर्कमविचारं समाधिजं
१६७०७ प्रीतिसुखं द्वितीयं ध्यानम् {उपसंपद्य विहरति}। प्रीतेर्विरागादुपेक्षकश्च विहरति स्मृतिमान्
१६७०८ संप्रजानन् सुखञ्च कायेन प्रतिसंवेदयति यत्तदार्या आचक्षते उपेक्षकः स्मृतिमांश्च
१६७०९ सुखविहारीति तृतीयं ध्यानम् {उपसंपद्य विहरति}। सुखस्य च प्रहाणाद्दुःखस्य च प्रहाणात्
१६७१० पूर्वमेव सौमनस्यदौर्मनस्ययोरस्तङ्गमाददुःखासुखमुपेक्षास्मृतिपरिशुद्धं चतुर्थं
१६७११ ध्यानम् {उपसंपद्य विहरति}। स सर्वशो रूपसंज्ञानां समतिक्रमात्प्रतिघसंज्ञानामस्तङ्गमात्
१६७१२ नानात्वसंज्ञानाममनसिकारादनन्तमाकाशमिति आकाशानन्त्यायतनम् {उपसंपद्य विहरति}।
१६७१३ स सर्वश आकाशानन्त्यायतनसमतिक्रमादनन्तं विज्ञानमिति विज्ञानानन्त्याय-
१६७१४ तनम् {उपसंपद्य विहरति}। स सर्वशो विज्ञानानन्त्यायतनसमतिक्रमान्नास्ति किञ्चिदित्या-
१६७१५ किञ्चन्यायतनम् {उपसंपद्य विहरति}। स सर्वश आकिञ्चन्यायतनसमतिक्रमान्नैव संज्ञा-
१६७१६ नासंज्ञायतनम् {उपसंपद्य विहरति}। स सर्वशो नैवसंज्ञानासंज्ञायतनसमतिक्रमात्संज्ञावेदयित-
१६७१७ निरोधम् {उपसंपद्य विहरति}। एता नवानुपूर्वविहारसमापत्तयः। अध्यात्मशून्यता बहिर्धाशून्यता
१६७१८ अध्यात्मबहिर्धाशून्यता यावदभावस्वभावशून्यता। दशबलानि चत्वारि

१६८०१ वैशारद्यानि चतस्रः प्रतिसंविदः। अष्टादशावेणिका बुद्धधर्माः॥ [इम उच्यन्ते
१६८०२ लोकोत्तराः कुशलधर्माः॥]
१६८०३ सुभूतिराह् कतमे भगवन् सास्रवा धर्माः। भगवानाह् पञ्चस्कन्धा
१६८०४ द्वादशायतनानि अष्टादश धातवश्चत्वारि ध्यानानि चत्वार्यप्रमाणानि चतस्र
१६८०५ आरूप्यसमापत्तयः। [इम उच्यन्ते सास्रवा धर्माः॥]
१६८०६ सुभूतिराह् कतमे भगवननास्रवा धर्माः। भगवानाह् चत्वारि
१६८०७ स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि
१६८०८ पञ्चबलानि सप्त बोध्यङ्गानि आर्याष्टाङ्गमार्गः दशःतथागतबलानि चत्वारि
१६८०९ वैशारद्यानि चतस्रः प्रतिसंविदो यावदष्टादशावेणिका बुद्धधर्माः। [इम उच्यन्ते
१६८१० अनास्रवा धर्माः॥]
१६८११ सुभूतिराह् कतमे भगवन् संस्कृता धर्माः। भगवानाह् कामधातू
१६८१२ रूपधातुरारूप्यधातुर्येऽप्यन्ये केचित्त्रैधातुकपर्यापन्ना धर्माः। सप्तत्रिंशद्
१६८१३ बोधिपक्षादयो धर्माः। [इम उच्यन्ते संस्कृता धर्माः॥]
१६८१४ सुभूतिराह् कतमे भगवन्नसंस्कृता धर्माः। भगवानाह् येषां
१६८१५ धर्माणान्नोत्पादो न निरोधो नान्यथात्वं प्रज्ञायते रागक्षयो दोषक्षयो मोहक्षयश्च्
१६८१६ तथता अवितथता अनन्यतथता धर्मता धर्मधातुर्धर्मस्थितिता धर्मनियामता
१६८१७ भूतकोटिः। [इम उच्यन्ते असंस्कृता धर्माः॥]
१६८१८ सुभूतिराह् कतमे भगवन् साधारणा धर्माः। भगवानाह् चत्वारि
१६८१९ ध्यानानि चत्वार्यप्रमाणानि चतस्र आरूप्यसमापत्तयः पञ्चाभिज्ञाः॥ [इम
१६८२० उच्यन्ते साधारणा धर्माः॥]
१६८२१ सुभूतिराह् कतमे भगवन्नसाधारणा धर्माः। भगवानाह् सप्तत्रिंशद्
१६८२२ बोधिपक्षधर्मा दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदः त्रीणि
१६८२३ विमोक्षमुखानि अष्टादशावेणिका बुद्धधर्माः॥ [इम उच्यन्ते असाधारणा धर्माः॥]

१६९०१ तत्र {बोधिसत्त्वेन} महासत्त्वेन स्वलक्षणशून्येषु धर्मेषु न सक्तिः कार्या अद्वययोगेन
१६९०२ च सर्वधर्मा अवबोद्धव्याः। अवकल्पनतामनवकल्पनतां चोपादाय् [इत्युक्तं
१६९०३ प्रतिपत्त्यालम्बनम्।]
१६९०४ सुभूतिराह् यदुच्यते भगवन् बोधिसत्त्वो महासत्त्व इति। केन
१६९०५ कारणेन भगवन् {बोधिसत्त्वो} महासत्त्व इत्युच्यत् भगवानाह् इह सुभूते महतः
१६९०६ सत्त्वराशेर्महतः सत्त्वनिकायस्याग्रतां कारयिष्यति। तेन कारणेन सुभूते {बोधिसत्त्वो}
१६९०७ महासत्त्व इत्युच्यत्
१६९०८ सुभूतिराह् कतमो भगवन्महासत्त्वराशिर्महासत्त्वनिकायः यस्य
१६९०९ {बोधिसत्त्वो} महासत्त्वोऽग्रतां कारयिष्यति। भगवानाह् महासत्त्वराशि-
१६९१० र्महासत्त्वनिकाय इति सुभूते उच्यते यदुत गोत्रभूमिरष्टमकभूमिः
१६९११ स्रोतआपन्नः सकृदागामी अनागामी अर्हत्प्रत्येकबुद्धः प्रथमचित्तोत्पादमुपादाय
१६९१२ यावदविनिवर्तनीय इति। अयं महान् सत्त्वराशिः महासत्त्वनिकायः। अस्य
१६९१३ {बोधिसत्त्वो} महासत्त्वोऽग्रतां कारयिष्यति। अत्र सुभूते {बोधिसत्त्वेन} महासत्त्वेन वज्रोपमं
१६९१४ चित्तमुत्पाद्य महतः सत्त्वराशेर्महतः सत्त्वनिकायस्याग्रताः कारयितव्याः।
१६९१५ सुभूतिराह् कतमो भगवन् वज्रोपमश्चित्तोत्पादः। भगवानाह इह
१६९१६ सुभूते {बोधिसत्त्वो} महासत्त्व एवं चित्तमुत्पादयति। अपरिमिते मया संसारे सन्नाहं
१६९१७ सन्नह्य सर्वसत्त्वापरित्यागिना भवितव्यम्। सर्वसत्त्वानामन्तिके मया
१६९१८ समचित्तता उत्पादयितव्या। सर्वसत्त्वा मया त्रिभिर्यानैः परिनिर्वापयितव्याः।

१७००१ सर्वसत्त्वानपि मया परिनिर्वाप्य न कश्चित्सत्त्वः परिनिर्वापितो भवति।
१७००२ तत्कस्य हेतोः। अनुत्पादो मया सर्वधर्माणामवबोद्धव्यः। अव्यवकीर्णेन मया
१७००३ सर्वाकारज्ञताचित्तेन षाट्सु पारमितासु चरितव्यम्। सर्वत्रानुगतायां सर्वधर्म-
१७००४ प्रतिवेधपरिनिष्पत्त्यां मया शिक्षितव्यम्। एकतयाभिनिर्हारो मया सर्वधर्माणां
१७००५ प्रतिबोद्धव्यः यावत्पारमिताभिनिर्हार{प्रतिवेधाय मया सर्वधर्माणां शिक्षितव्यम्।} सप्तत्रिंशद्बोधिपक्षधर्माभिनिर्हार-
१७००६ {प्रतिवेधाय मया सर्वधर्माणां शिक्षितव्यम्}। अप्रमाणध्यानारूप्याभिज्ञाज्ञानाभिनिर्हार{प्रतिवेधाय मया सर्वधर्माणां शिक्षितव्यम्}। दशबलवैशारद्यावेणिक-
१७००७ बुद्धधर्माभिनिर्हार{प्रतिवेधाय मया सर्वधर्माणां शिक्षितव्यम्}। अयं सुभूते {बोधिसत्त्वस्य} महासत्त्वस्य वज्रोपमश्चित्तोत्पादः।
१७००८ यत्र प्रतिष्ठितो {बोधिसत्त्वो} महासत्त्वो महतः सत्त्वराशेर्महतः सत्त्वनिकायस्याग्रतां
१७००९ कारयिष्यति। तच्चानुपलम्भयोगेन्
१७०१० पुनरपरं सुभूते बोधिसत्त्वो महासत्त्व एवं चित्तमुत्पादयति। यावन्तः
१७०११ सत्त्वा नैरयिका वा तैर्यग्योनिका वा यमलौकिका वा दुःखां वेदनां वेदयन्ति
१७०१२ तां दुःखां वेदनां वेदयेयं। तत्र {बोधिसत्त्वेन} महासत्त्वेन एवं चित्त-
१७०१३ मुत्पादयितव्यम्। एकैकस्याप्यहं सत्त्वस्यार्थाय कल्पकोटीनियुतशतसहस्राणि
१७०१४ नैरयिकं वा तैर्यग्योनिकं वा यमलौकिकं वा दुःखमनुभवेयं यावन्न ते सत्त्वा
१७०१५ निरूपधिशेषनिर्वाणधातौ परिनिर्वृता भवेयुरिति। एतेनोपायेन सर्वसत्तानां
१७०१६ कृतशस्तन्नैरयिकादिकं दुःखमनुभवेयं यावन्न ते सत्त्वा निरूपधिशेषनिर्वाणधातौ परिनिर्वृता भवेयुर्
१७०१७ इति। पश्चादहमात्मनः कृतकुशलमवरोप्य कल्पकोटी-
१७०१८ नियुतशतसहस्रैरनुत्तरां सम्यक्संबोधिमभिसंबुद्धेयं। अयं सुभूते {बोधिसत्त्वस्य}
१७०१९ महासत्त्वस्य वज्रोपमश्चित्तोत्पादः यत्र प्रतिष्ठितो बोधिसत्त्वो महासत्त्वो महतः सत्त्वराशेर्महतः सत्त्वनिकायस्याग्रतां कारयिष्यति। तच्चानुपलम्भयोगेन् पुनरपरं सुभूते बोधिसत्त्वो महासत्त्व एवं चित्तमुत्पादयति। यावन्तः सत्त्वा नैरयिका वा तैर्यग्योनिका वा यमलौकिका वा दुःखां वेदनां वेदयन्ति तां दुःखां वेदनां वेदयेयं। तत्र बोधिसत्त्वेन महासत्त्वेन एवं चित्तमुत्पादयितव्यम्। एकैकस्याप्यहं सत्त्वस्यार्थाय कल्पकोटीनियुतशतसहस्राणि नैरयिकं वा तैर्यग्योनिकं वा यमलौकिकं वा दुःखमनुभवेयं यावन्न ते सत्त्वा निरूपधिशेषनिर्वाणधातौ परिनिर्वृता भवेयुरिति।
१७०२० पुनरपरं सुभूते {बोधिसत्त्वेन} महासत्त्वेन उदारचित्तेन भवितव्यं येन चित्तेन सर्व-
१७०२१ सत्त्वानामग्रता कारयितव्या। तत्रेयं {बोधिसत्त्वस्य} महासत्त्वस्योदारचित्तता यत्प्रथम-
१७०२२ चित्तोत्पादमुपादाय न रागचित्तमुत्पादयति। न दोष{चित्तमुत्पादयति}। न मोह{चित्तमुत्पादयति}।
१७०२३ न विहिंसा{चित्तमुत्पादयति}। न श्रावक{चित्तमुत्पादयति}। न प्रत्येकबुद्ध{चित्तमुत्पादयति}। इयं सुभूते {बोधिसत्त्वस्य}

१७१०१ महासत्त्वस्योदारचित्तता यया सर्वसत्त्वानामग्रतां कारयिस्यति। तेन च
१७१०२ चित्तेन न मन्यत्
१७१०३ {पुनरपरं} {सुभूते} {बोधिसत्त्वेन} महासत्त्वेन अकम्प्यचित्तेन भवितव्यम्। तत्रेयं
१७१०४ {बोधिसत्त्वस्य} महासत्त्वस्याकम्प्यचित्तता यत्सर्वाकारज्ञताप्रतिसंयुक्तमपि मनसिकारन्न
१७१०५ मन्यत् इयं सुभूते {बोधिसत्त्वस्य} महासत्त्वस्याकम्प्यचित्तता।
१७१०६ {पुनरपरं} {सुभूते} {बोधिसत्त्वेन} महासत्त्वेन सर्वसत्त्वानामन्तिके हितसुखचित्तेन भवितव्यम्।
१७१०७ तत्रेयं {बोधिसत्त्वस्य} महासत्त्वस्य हितसुखचित्तता या सर्वसत्त्वानां परित्राणना यः
१७१०८ सर्वसत्त्वानामपरित्यागः तेन च न मन्यत् इयं सुभूते {बोधिसत्त्वस्य} महासत्त्वस्य
१७१०९ हितसुखचित्तता। एवं हि सुभूते {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन्
१७११० सर्वसत्त्वानामग्रतां कारयिष्यति।
१७१११ {पुनरपरं} {सुभूते} {बोधिसत्त्वेन} महासत्त्वेन धर्मरागेण भवितव्यम्। धर्मस्तेन धर्मारागता-
१७११२ योगमनुयुक्तेन भवितव्यम्। तत्र कतमो धर्मो यदुत सर्वधर्माणामसम्भेदः
१७११३ अयमुच्यते धर्मः। तत्र कतमो धर्मरतिर्या धर्मेऽभिरतिरियमुच्यते धर्मरतिः।
१७११४ तत्र कतमा धर्मारामता या तस्य धर्मस्य भावना बहुलीकरणता इयमुच्यते
१७११५ धर्मारामता। एवं हि सुभूते {बोधिसत्त्वेन} महासत्त्वेन प्रज्ञापारमितायां चरता महतः
१७११६ सत्त्वराशेर्महतः सत्त्वनिकायस्याग्रता कारयितव्या अनुपलम्भयोगेन् पुनरपरं सुभूते
१७११७ {बोधिसत्त्वेन} महासत्त्वेन {प्रज्ञापारमितायां चरता} अध्यात्मशून्यतायां स्थित्वा बहिर्धाशून्यतायां स्थित्वा
१७११८ अध्यात्मबहिर्धाशून्यतायां स्थित्वा यावदभावस्वभावशून्यतायां स्थित्वा महतः
१७११९ सत्त्वराशेर्महतः सत्त्वनिकायस्याग्रता कारयितव्या अनुपलम्भयोगेन। {पुनरपरं} {सुभूते} {बोधिसत्त्वेन} महासत्त्वेन {प्रज्ञापारमितायां चरता} सप्तत्रिंशद्-
१७१२० बोधिपक्षेषु धर्मेषु स्थित्वा बलेषु वैशारद्येषु प्रतिसंवित्स्वष्टादशावेणिकेषु
१७१२१ बुद्धधर्मेषु स्थित्वा महतः सत्त्वराशेर्महतः सत्त्वनिकायस्याग्रता कारयितव्या अनुपलम्भयोगेन। {पुनरपरं} {सुभूते} {बोधिसत्त्वेन}

१७२०१ महासत्त्वेन {प्रज्ञापारमितायां चरता} वज्रोपमसमाधौ स्थित्वा यावदाकाशासङ्गैमुक्तिनिरुपलेप-
१७२०२ समाधौ स्थित्वा महतः सत्त्वराशेर्महतः सत्त्वनिकायस्याग्रतां कारयितव्या अनुपलम्भयोगेन। एतेषु सुभूते
१७२०३ धर्मेषु स्थित्वा {बोधिसत्त्वेन} महासत्त्वेन {प्रज्ञापारमितायां चरता} महतः सत्त्वराशेर्महतः सत्त्वनिकायस्याग्रता
१७२०४ कारयितव्या। तेनोच्यते बोधिसत्त्वो महासत्त्वः॥ [इति सर्वसत्त्वाग्रताचित्त-
१७२०५ महत्त्वम्॥]
१७२०६ अथ खल्वायुष्मान् शारिपुत्रो भगवन्तमेतदवोचत् । ममापि भगवन्
१७२०७ प्रतिभाति येनार्थेन {बोधिसत्त्वो} महासत्त्व इत्युच्यत् भगवानाह् प्रतिभातु ते
१७२०८ शारिपुत्र येनार्थेन {बोधिसत्त्वो} महासत्त्वः। शारिपुत्र आह् आत्मदृष्टेर्भगवन्
१७२०९ सत्त्वदृष्टेर्जन्तुजीवपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यकदृष्टेरुच्छेददृष्टेः शाश्वतदृष्टेरस्तिदृष्टे-
१७२१० र्नास्तिदृष्टेः स्कन्धदृष्टेर्धातुदृष्टेरायतनदृष्टेः प्रतीत्यसमुत्पाददृष्टेर्बोधिपक्ष-
१७२११ धर्मदृष्टेर्बलवैशारद्यदृष्टेरावेणिकबुद्धधर्मदृष्टेः सत्त्वपरिपाचनदृष्टेर्बुद्धक्षेत्रपरि-
१७२१२ शोधनदृष्टेर्बोधिसत्त्वदृष्टेर्बुद्धदृष्टेर्धर्मचक्रप्रवर्त्तनदृष्टेरिति। आसां सर्वासां
१७२१३ दृष्टीनां प्रहाणाय धर्म देशयति अनुपलम्भयोगेन् तेनार्थेन {बोधिसत्त्वो} महासत्त्व
१७२१४ इत्युच्यत्
१७२१५ सुभूतिराह् केन कारणेनायुष्मन् शारिपुत्र {बोधिसत्त्वस्य} महासत्त्वस्य रूपदृष्टि-
१७२१६ र्भवति वेदनादृष्टिर्भवति संज्ञादृष्टिर्भवति संस्कारदृष्टिर्भवति विज्ञानदृष्टिर्भवति। शारिपुत्र आह् इहायुष्मन् सुभूते {बोधिसत्त्वो}
१७२१७ महासत्त्वः प्रज्ञापारमितायाञ्चरननुपायकुशलो भवति। स रूपमुपलभ्य
१७२१८ दृष्टिमुत्पादयति उपलम्भयोगेन् एवं विस्तरेण व्यस्तसमस्तस्कन्धधात्वाय-
१७२१९ तनप्रतीत्यसमुत्पादं यावज्जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासामुपलभ्य
१७२२० दृष्टिम् {उत्पादयति उपलम्भयोगेन}। एवं स्मृत्युपस्थानप्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्ग-
१३००८ पारमिताऽभिज्ञाऽक्षराप्रमाणध्यानारूप्यसमापत्ती-
१७२२१ रुपलभ्य दृष्टिम् {उत्पादयति उपलम्भयोगेन}। एवं दशबलवैशारद्यप्रतिसंविदष्टादशावेणिकबुद्धधर्मानुपलभ्य दृष्टिम् {उत्पादयति उपलम्भयोगेन}॥
१७२२२ [इति प्रहाणमहत्त्वम्॥]
१७२२३ अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत् । ममापि भगवन् प्रतिभाति
१७२२४ येनार्थेन {बोधिसत्त्वो} महासत्त्व इत्युच्यत् भगवानाह् प्रतिभातु ते सुभूत्
१७२२५ सुभूतिराह् यदपि भगवन् बोधिचित्तमसमसमचित्तमसाधारणचित्तं सर्व-

१७३०१ श्रावकप्रत्येकबुद्धैः तत्रापि चित्तेऽसक्तः। तत्कस्य हेतोः। तथा हि तत्सर्वज्ञता-
१७३०२ चित्तमनास्रवमपर्यापन्नं त्रैधातुके तत्रापि चित्तेऽसक्तस्तेन {बोधिसत्त्वो} महासत्त्व इति
१७३०३ संख्यां गच्छति।
१७३०४ शारिपुत्र आह् कतमदायुष्मन् सुभूते {बोधिसत्त्वस्य} महासत्त्वस्य असमसम-
१७३०५ चित्तमसाधारणचित्तं सर्वश्रावकप्रत्येकबुद्धैः।
१७३०६ सुभूतिराह् इहायुष्मन् शारिपुत्र {बोधिसत्त्वो} महासत्त्वः प्रथमचित्तोत्पाद-
१७३०७ मुपादाय न कस्यचिद्धर्मस्य उत्पादं वा निरोधं वा समनुपश्यति
१७३०८ न हानिं न वृद्धिं नागतिं न गतिम्। न संक्लेशं न व्यवदानं यत्र
१७३०९ चायुष्मन् शारिपुत्र न संक्लेशो न व्यवदानं न गतिर्नागतिर्न हानिर्न
१७३१० वृद्धिर्नोत्पादो न निरोधः। तच्च न श्रावकचित्तं न प्रत्येकबुद्ध-
१७३११ चित्तम्। इदं शारिउत्र {बोधिसत्त्वस्य} महासत्त्वस्य असमसमचित्तमसाधारण-
१७३१२ चित्तं सर्वश्रावकप्रत्येकबुद्धैः॥
१७३१३ {शारिपुत्र} आह् यदायुष्मन् सुभूतिरेवमाह तत्रापि श्रावकप्रत्येकबुद्ध-
१७३१४ चित्तेऽसक्त इति। नन्वायुष्मन् सुभूते रूपमप्यसक्तं प्रकृतिशून्यता-
१७३१५ मुपादाय वेदनाप्यसक्ता संज्ञाप्यसक्ता संस्कारा अप्यसक्ता विज्ञानमप्यसक्तम्।
१७३१६ {सुभूतिर्} आह् एवमेतदायुष्मन् शारिपुत्र रूपमप्यसक्तं वेदनाप्यसक्ता संज्ञाप्यसक्ता संस्कारा अप्यसक्ता विज्ञानमप्य-
१७३१७ सक्तं यावद्व्यस्तसमस्ताः स्कन्धधात्वायतनप्रतीत्यसमुत्पादा
१७३१८ यावज्जरामरणमप्यसक्तम्। एवमप्रमाणध्यानारूप्यसमापत्तयोऽ-
१७३१९ प्यसक्ताः। यावत्सप्तत्रिंशद्बोधिपक्षा धर्मा बलानि वैशारद्यानि प्रतिसंविदः आवेणिकेषु बुद्धधर्मेषु आवेणिका
१७३२० बुद्धधर्मा अप्यसक्ताः।
१७३२१ {शारिपुत्र} आह् यद्यप्यायुष्मान् सुभूतिरिदमाह् यदपि तत्सर्वज्ञता-
१७३२२ चित्तमनास्रवमपर्यापन्न इति। नन्वायुष्मन् सुभूते बालपृथग्जना-

१७४०१ नामपि चित्तमनास्रवमपर्यापन्नं प्रकृतिशून्यतामुपादाय् ननु सर्व-
१७४०२ श्रावकप्रत्येकबुद्धसम्यक्संबुद्धानामपि चित्तम् {अनास्रवमपर्यापन्नं प्रकृतिशून्यतामुपादाय}।
१७४०३ {सुभूतिर्} आह् एवमेतदायुष्मन् शारिपुत्र्
१७४०४ {शारिउत्र} आह् रूपमपि सुभूते {अनास्रवमपर्यापन्नं प्रकृतिशून्यतामुपादाय्} वेदनापि सुभूते अनास्रवापर्यापन्ना प्रकृतिशून्यतामुपादाय् संज्ञापि सुभूते अनास्रवापर्यापन्ना प्रकृतिशून्यतामुपादाय् संस्कारा अपि सुभूते अनास्रवा अपर्यापन्नाः प्रकृतिशून्यतामुपादाय् विज्ञानमप्यायुष्मन्
१७४०५ सुभूते {अनास्रवमपर्यापन्नं प्रकृतिशून्यतामुपादाय}। नन्वायुष्मन् सुभूते सप्तत्रिंशद्बोधिपक्षा धर्मा दश
१७४०६ तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदः त्रीणि विमोक्षमुखानि अष्टादशावेणिका बुद्धधर्मा {अनास्रवा अपर्यापन्नाः प्रकृतिशून्यतामुपादाय}।
१७४०७ {सुभूतिर्} आह् एवमेतदायुष्मन् शारिपुत्र यथा वदसि बालपृथग्जनानामपि
१७४०८ चित्तम् {अनास्रवमपर्यापन्नं प्रकृतिशून्यतामुपादाय}। यावत्सर्वश्रावकप्रत्येकबुद्धसम्यक्संबुद्धानामपि
१७४०९ चित्तम् {अनास्रवमपर्यापन्नं प्रकृतिशून्यतामुपादाय}। यावत्सप्तत्रिंशद्बोधिपक्षा धर्मा दश तथागतबलानि
१७४१० चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदः त्रीणि विमोक्षमुखानि अष्टादशावेणिका बुद्धधर्मा {अनास्रवा अपर्यापन्नाः प्रकृतिशून्यतामुपादाय}।
१७४११ {शारिपुत्र} आह् यदपि तदायुष्मान् सुभूतिरेवमाह् अचित्तत्वात्तत्रापि
१७४१२ चित्ते असक्त इति। नन्वायुष्मन् सुभूते अरूपेऽपि रूपमसक्तम्
१७४१३ अवेदनायामपि वेदनासक्ता असंज्ञायामपि संज्ञासक्ता असंस्कारेष्वपि संस्कारा असक्ता अविज्ञानेऽपि विज्ञानमसक्तम्।
१७४१४ {सुभूतिर्} आह् एवमेतदायुष्मन् {शारिपुत्र}।
१७४१५ {शारिपुत्र} आह् नन्वायुष्मन् सुभूते अस्मृत्युपस्थानेष्वपि स्मृत्युपस्थानान्य-
१७४१६ सक्तानि। एवम् असम्यक्प्रहाणेष्वपि असम्यक्प्रहाणान्यसक्तान्यर्द्धिपादेष्वपि ऋद्धिपादा असक्ता ऐन्द्रियाणेष्वपि इन्द्रियाण्यसक्तानियबलानेष्वपि बलान्यसक्तानि अबोध्यङ्गानेष्वपि बोध्यङ्गान्यसक्तान्यमार्गेष्वपि मार्गा असक्ता अवैशारद्येष्वपि वैशारद्यान्यसक्तान्यप्रतिसंवित्स्वपि प्रतिसंविदोऽसक्ता अपारमितास्वपि पारमिता असक्ता अतथागतबलानेष्वपि तथागतबलान्यसक्तान्यनावेणिकबुद्धधर्मेष्वपि आवेणिका
१७४१७ बुद्धधर्मा असक्ताः।
१७४१८ {सुभूतिर्} आह् एवमेतदायुष्मन् शारिप्त्र यथा वदसि रूपेऽप्यायुष्मन्
१७४१९ रूपमसक्तं वेदनासंज्ञासंस्काराः विज्ञानेऽपि विज्ञानमसक्तम्। एवं व्यस्तसमस्ता
१७४२० अपि स्कन्धधातव आयतनानि सत्यानि प्रतीत्यसमुत्पादाऽप्रमाणध्यानारूप्य-
१७४२१ समापत्तयः। पारमिता अभिज्ञा बोधिपक्षा धर्मा बलानि वैशारद्यानि प्रति-
१७४२२ संविदः आवेणिकेषु बुद्धधर्मेषु आवेणिका बुद्धधर्मा असक्ताः। एवं ह्यायुष्मन्
१७४२३ {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरंस्तेनापि बोधिचित्तेन असमसम-

१७५०१ चित्तेन सर्वश्रावकप्रत्येकबुद्धैरसाधारणचित्तेन न मन्यते नाभिनिविशते सर्व-
१७५०२ धर्मानुपलम्भयोगेन् [इत्यधिगममहत्त्वम्॥] [इत्युक्तः प्रतिपत्त्युद्देशः।]
१७५०३ पूर्णो मैत्रायणीपुत्र आह् ममापि भगवन् प्रतिभाति येनार्थेन {बोधिसत्त्वो}
१७५०४ महासत्त्वः इत्युच्यत्
१७५०५ भगवानाह् रतिभातु ते पूर्ण्
१७५०६ पूर्ण आह् महासन्नाहसन्नद्धः स भगवन् सत्त्वो महायानसंप्रस्थितः
१७५०७ स सत्त्वो महायानसमारुढः स सत्त्वस्तेन भगवन् {बोधिसत्त्वो} महासत्त्व
१७५०८ इत्युच्यत्
१७५०९ {शारिपुत्र} आह् कियता आयुष्मन् पूर्ण {बोधिसत्त्वो} महासत्त्वो महासन्नाहसन्नद्ध
१७५१० इत्युच्यत्
१७५११ पूर्ण आह् इहायुष्मन् {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वो न प्रादेशिकानां सत्त्वानां
१७५१२ कृतेन बोधाय चरन् दानपारमितायां स्थित्वा दानं ददाति। अपि तु सर्वसत्त्वानां
१७५१३ कृतेन दानपारमितायां स्थित्वा दानं ददाति। एवं शील{पारमितायां} क्षान्तिपा{रमितायां}
१७५१४ वीर्य{पारमितायां} ध्यान{पारमितायां}। न प्रादेशिकानां सत्त्वानां कृतेन बोधाय चरन् प्रज्ञा{पारमितायां}
१७५१५ स्थित्वा प्रज्ञापारमितां भावयति। अपि तु सर्वसत्त्वानां कृतेन प्रज्ञापारमितां
१७५१६ भावयति। न सत्त्वपरिच्छेदेन {बोधिसत्त्वो} महासत्त्वो महासन्नाहः सन्नह्यत् इयतः
१७५१७ सत्त्वान् परिनिर्वापयिष्यामि इयतः सत्त्वान्न परिनिर्वापयिष्यामीति इयतः
१७५१८ सत्त्वान् बोधाय प्रतिष्ठापयिष्यामि इयतः सत्त्वान् बोधाय न प्रतिष्ठापयिष्या-
१७५१९ मीति। अपि तु खलु पुनः सर्वसत्त्वानां कृतेन सन्नाहः सन्नह्यते एवं चास्य
१७५२० भवति आत्मना च दानपारमितां परिपूरयिष्यामि सर्वसत्त्वांश्च दानपार-

१७६०१ मितायां नियोजयिष्यामीति एवं चास्य भवति आत्मना च शीलपारमितां परिपूरयिष्यामि सर्वसत्त्वांश्च शीलपारमितायां नियोजयिष्यामीति। एवं चास्य भवति आत्मना च क्षान्तिपारमितां परिपूरयिष्यामि सर्वसत्त्वांश्च क्षान्तिपारमितायां नियोजयिष्यामीति। एवं चास्य भवति आत्मना च ध्यानपारमितां परिपूरयिष्यामि सर्वसत्त्वांश्च ध्यानपारमितायां नियोजयिष्यामीति। एवं चास्य भवति आत्मना च प्रज्ञापारमितां परिपूरयिष्यामि सर्वसत्त्वांश्च प्रज्ञापारमितायां नियोजयिष्यामीति।
१७६०२ एवमप्रमाणध्यानारूप्यसमापत्तीः। आत्मना च भावयिष्यामि सर्वसत्त्वांश्च
१७६०३ तासु प्रतिष्ठापयिष्यामीति। यावत्सप्तत्रिंशद्बोधिपक्षेषु धर्मेषु दशबलवैशा-
१७६०४ रद्याष्टादशावेणिकेषु बुद्धधर्मेष्वात्मना च स्थास्यामि सर्वसत्त्वांश्च तेषु प्रतिष्ठा-
१७६०५ पयिष्यामीति। इयतायुष्मन् शारिपुत्र {बोधिसत्त्वो} महासत्त्वो महासन्नाहसन्नद्ध
१७६०६ इत्युच्यत् । [इति प्रतिपत्तिस्वरूपम्॥]
१७६०७ पुनरपरं शारिपुत्र {बोधिसत्त्वस्य} महासत्त्वस्य प्रज्ञापारमितायाञ्चरतो दानं ददतः
१७६०८ सर्वाकारज्ञताप्रतिसंयुक्तैर्मनसिकारैः या दानस्य सर्वसत्त्वसाधारणं कृत्वाऽनु-
१७६०९ त्तरायै सम्यक्संबोधये निर्यातना। अयं {बोधिसत्त्वस्य} महासत्त्वस्य प्रज्ञापारमितायां
१७६१० चरतो दानं ददतो दानपारमितासन्नाहः। पुनरपरं
१७६११ शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ्चरतो दानं ददतः सर्वाकारज्ञताप्रतिसंयुक्तैर्मनसिकारैः या श्रावकप्रत्येकबुद्धमनसिकाराणां परिवर्जनता। अयं {बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो}
१७६१२ शीलपारमितासन्नाहः। पुनरपरं
१७६१३ शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ्चरतो दानं ददतः सर्वाकारज्ञताप्रतिसंयुक्तैर्मनसिकारैः या तेषां क्षमणा रोचना व्युपपरीक्षणा। अयं {बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो} क्षान्तिपारमिता-
१७६१४ सन्नाहः। पुनरपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ्चरतो दानं ददतः सर्वाकारज्ञताप्रतिसंयुक्तैर्मनसिकारैः या वीर्यस्रंसनता तत्
१७६१५ कुशलमूलं {सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये} परिणामयति। अयं {बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो} वीर्यपारमिता-
१७६१६ सन्नाहः। पुनरपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ्चरतो दानं ददतः
१७६१७ यच्चित्तस्यैकाग्रता सर्वाकारज्ञताप्रतिसंयुक्तैर्मनसिकारैः श्रावकप्रत्येकबुद्धचित्त-
१७६१८ मनवकाशं दानता तत्कुशलमूलं {सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये} परिणामयति। अयं दानं
१७६१९ ददतः ध्यानपारमितासन्नाहः। पुनरपरं

१७७०१ शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ्चरतो दानं ददतः सर्वाकारज्ञताप्रतिसंयुक्तैर्मनसिकारैः या मायाकृतसंज्ञोपस्थिता च नैव दायकमुपलभते न प्रतिग्राहकं न देयम्।
१७७०२ अयं {बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो} प्रज्ञापारमितासन्नाहः। यदायुष्मन् {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वः सर्वाकार-
१७७०३ ज्ञताप्रतिसंयुक्तेन चित्तेन ताः षट्पारमिता न निमित्तीकरोति नोपलभत्
१७७०४ एवं ह्यायुष्मन् {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन्महासन्नाहसन्नद्धो
१७७०५ भवति॥ [इति दानपारमित्सन्नाहषट्कं प्रथमम्॥]
१७७०६ पुनरपरं {शारिपुत्र} {बोधिसत्त्वस्य} महासत्त्वस्य शीलपारमितायां चरतो {सर्वाकारज्ञताप्रतिसंयुक्तैर्मनसिकारैः}
१७७०७ दानं ददाति {सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये} परिणामयति अनुपलम्भयोगेन् इयं सुभूते {बोधिसत्त्वस्य}
१७७०८ महासत्त्वस्य शीलपारमितायां चरतो दानपारमिता। पुनरपरं
१७७०९ शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतो सर्वाकारज्ञताप्रतिसंयुक्तैर्मनसिकारैः या श्रावकप्रत्येकबुद्धभूम्यस्पृहणता प्रागेव पृथग्जनभूमे-
१७७१० रियं {बोधिसत्त्वस्य} महासत्त्वस्य शीलपारमितायां चरतः शीलपारमिता
१७७११ पुनरपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतो सर्वाकारज्ञताप्रतिसंयुक्तैर्मनसिकारैः या तेषां क्षमणा रोचना व्युपपरीक्षणा। इयं बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतः क्षान्तिपारमिता।
१७७१२ पुनरपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतो सर्वाकारज्ञताप्रतिसंयुक्तैर्मनसिकारैः या वीर्यस्रंसनतानवलीनता तत्कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति। इयं बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतो वीर्यपारमिता।
१७७१३ पुनरपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतो यच्श्रावकप्रत्येकबुद्धप्रतिसंयुक्तानां चित्तोत्पादानामनवकाशदानं तस्य कृतशः कुशलमूलस्य चित्तस्यैकाग्रता सर्वाकारज्ञताप्रतिसंयुक्तैर्मनसिकारैः श्रावकप्रत्येकबुद्धचित्तमनवकाशं दानता तत्कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति। इयं बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतो ध्यानपारमिता।
१७७१४ पुनरपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतः सर्वाकारज्ञताप्रतिसंयुक्तैर्मनसिकारैः या
१७७१५ मायाकृतसंज्ञा प्रत्युपस्ह्तिता भवति। तच्च शीलं न मन्यते नोपलभत् इयमायुष्मन्
१७७१६ {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वः शीलपारमितायाञ्चरतः प्रज्ञापारमिता। एवं हि {शारिपुत्र}
१७७१७ {बोधिसत्त्वो} महासत्त्वः शीलपारमितायां चरन् षट्पारमिताः परिगृह्णाति। तेन
१७७१८ महासन्नाहसन्नद्ध इति संख्यां गच्छति॥ [इति शीलपारमितासन्नाहषट्कं
१७७१८ द्वितीयम्॥]
१७७१९ पुनरपरं {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वः क्षान्तिपारमितायां चरन् दानं ददाति {सर्वाकारज्ञताप्रतिसंयुक्तैर्}
१७७२० {मनसिकारैर्} न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर्मनसिकारैस्तच्च कुशलमूलं {सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये}

१७८०१ परिणामयति। इयं {बोधिसत्त्वस्य} महासत्त्वस्य क्षान्तिपारमितायां चरतो दानपारमिता।
१७८०२ एवं क्षान्तिपारमितायां चरतः शील{पारमिता} क्षान्ति{पारमिता} वीर्य{पारमिता} ध्यान{पारमिता}। पुनरपर-
१७८०३ मायुष्मन् शारिपुत्र {बोधिसत्त्वो} महासत्त्वः क्षान्तिपारमितायां चरन् सर्वबुद्धधर्मसमु-
१७८०४ दानयनतायै सर्वसत्त्वपरिपाकाय च प्रयुज्यते प्रज्ञया सर्वाकारज्ञताप्रतिसंयुक्तैर्मनसिकारैर्न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर्मनसिकारैस्तच्च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति। इयं बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिपारमितायां
१७८०५ चरतः प्रज्ञापारमिता। एवं हि शारिपुत्र
१७८०६ {बोधिसत्त्वो} महासत्त्वः क्षान्तिपारमितायां चरन् षट्पारमिताः परिगृह्णाति। तेन महा-
१७८०७ सन्नाहसन्नद्ध इति संख्यां गच्छति॥ [इति क्षान्तिपारमितासन्नाहषट्कं तृतीयम्॥]
१७८०८ पुनरपरमायुष्मन् {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वो वीर्यपारमितायां चरन् दानं ददाति
१७८०९ सर्वाकारज्ञताप्रतिसंयुक्तैर्मनसिकारैर्न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर्मनसिकारैस्तच्च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति। इयं {बोधिसत्त्वस्य} महासत्त्वस्य
१७८१० वीर्यपारमितायां चरतो दानपारमिता। एवं वीर्यपारमितायां चरतः शील{पारमिता}
१७८११ क्षान्ति{पारमिता} वीर्य{पारमिता} ध्यान{पारमिता}। पुनरपरं {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वो वीर्यपार-
१७८१२ मितायां चरन् प्रज्ञापारमितां भावयन् सर्वधर्मेषु मायाकृतसंज्ञामुपस्थापयति।
१७८१३ सर्वाकारज्ञताप्रतिसंयुक्तैर्मनसिकारैर्न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर्मनसिकारैस्तच्च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति। इयं बोधिसत्त्वस्य महासत्त्वस्य वीर्यपारमितायां चरतः प्रज्ञापारमिता। एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः वीर्यपारमितायां चरन् षट्पारमिताः परिगृह्णाति। तेन महासन्नाहसन्नद्ध इति संख्यां गच्छति
१७८१४ ॥ [इति वीर्यपारमितासन्नाहषट्कं चतुर्थम्॥]
१७८१५ पुनरपरमायुष्मन् {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वो ध्यानपारमितायां चरन् दानं ददाति
१७८१६ सर्वाकारज्ञताप्रतिसंयुक्तैर्मनसिकारैर्न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर्मनसिकारैस्तच्च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति। इयं {बोधिसत्त्वस्य} महासत्त्वस्य
१७८१७ ध्यानपारमितायां चरतो दानपारमिता। एवं ध्यानपारमितायां चरतः
१७८१८ शील{पारमिता} क्षान्ति{पारमिता} वीर्य{पारमिता} ध्यान{पारमिता}। पुनरपरं {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वो
१७८१९ ध्यानपारमितायां चरन् प्रज्ञापारमितां भावयन् सर्वधर्मेषु मायाकृतसंज्ञामुप-
१७८२० स्थापयति। सर्वाकारज्ञताप्रतिसंयुक्तैर्मनसिकारैर्न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर्मनसिकारैस्तच्च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति। इयं बोधिसत्त्वस्य महासत्त्वस्य ध्यानपारमितायां चरतः प्रज्ञापारमिता। एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः ध्यानपारमितायां चरन् षट्पारमिताः परिगृह्णाति। तेन महासन्नाहसन्नद्ध इति
१७८२१ संख्यां गच्छति॥ [इति ध्यानपारमिता-
१७८२२ सन्नाहषट्कं पञ्चमम्॥]
१७८२३ पुनरपरमायुष्मन् {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरंस्त्रिमण्डल-
१७८२४ परिशुद्धं दानं ददाति सर्वाकारज्ञताप्रतिसंयुक्तैर्मनसिकारैर्न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर्मनसिकारैस्तच्च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये
१७८२५ परिणामयति। इयं {बोधिसत्त्वस्य} महासत्त्वस्य प्रज्ञापारमितायां चरतो दान{पारमिता}।
१७८२६ एवं प्रज्ञापारमितायां चरतः शील{पारमिता} क्षान्ति{पारमिता} वीर्य{पारमिता} ध्यान{पारमिता}।

१७९०१ पुनरपरमायुष्मन् {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन् प्रज्ञापारमितां
१७९०२ भावयति। तस्य सर्वपारमितासु सर्वधर्मेषु च मायास्वप्नप्रतिभासप्रतिश्रुत्क-
१७९०३ प्रतिबिम्बनिर्माणसंज्ञा प्रत्युपस्थिता भवति सर्वाकारज्ञताप्रतिसंयुक्तैर्मनसिकारैर्न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर्मनसिकारैस्तच्च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये
१७९०४ परिणामयति। एवं हि {शारिपुत्र} {बोधिसत्त्वो} महास्त्त्वः
१७९०५ प्रज्ञापारमितायां चरन् प्रज्ञापारमितां परिपूरयति। यदायुष्मन् {शारिपुत्र}
१७९०६ {बोधिसत्त्वो} प्रज्ञापारमितायां चरन्महासन्नाहसन्नद्धो भवति। एवं च
१७९०७ पुनरायुष्मन् {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वः एकैकस्यां पारमितायां स्थित्वा षट्-
१७९०८ पारमिताः परिपूरयति॥ [इति प्रज्ञापारमितासन्नाहषट्कं षष्ठम्॥]
१७९०९ पुनरपरं {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वो ध्यानानि च समापद्यते नैव ध्यानान्या-
१७९१० स्वादयति न च तैः संह्रियते न च तेषां वशेनोपपद्यत् एवमप्रमाणानि
१७९११ चारूप्यसमापत्तीश्च समापद्यते न च ता आस्वादयति न च ताभिः संह्रियते
१७९१२ न च तासां वशेनोपपद्यत् [इयं {बोधिसत्त्वस्य} महासत्त्वस्योपायकौशल्यगता प्रज्ञापारमिता]
१७९१३ वेदितव्या॥
१७९१४ पुनरपरं {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वो ध्यानारूप्यसमापत्तिषु विवेकदर्शनेन च
१७९१५ विहरति शून्यतानिमित्ताप्रणिहितदर्शनेन च विहरति न च भूतकोटिं साक्षात्-
१७९१६ करोति॥ [अयं {बोधिसत्त्वस्य} महासत्त्वस्य प्रज्ञापारमितायां चरत उपायकौशल्यसन्नाहः॥]
१७९१७ एवमायुष्मन् {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वो महासन्नाहसन्नद्धस्तेनोच्यते {बोधिसत्त्वो}
१७९१८ महासत्त्व इति। एवं महासन्नाहसन्नद्धस्यायुष्मन् शारिपुत्र {बोधिसत्त्वस्य} महा-
१७९१९ सत्त्वस्य दशसु दिक्षु बुद्धा भगवन्त उदानमुदानयति वर्णमुदीरयन्ति नामधेयं
१७९२० परिकीर्त्त्यमानास्तस्य {बोधिसत्त्वस्य} महासत्त्वस्य शब्दमनुश्रावयन्ति। घोष-
१७९२१ मुदीरयन्ति। अमुष्मिन् लोकधातुप्रसरे {बोधिसत्त्वो} महासत्त्वो महासन्नाहसन्नद्ध इति
१७९२२ सत्त्वांश्च परिपाचयति बुद्धक्षेत्रं च परिशोधयति॥ [इति सन्नाहषट्कोपसंहारः॥]
१७९२३ [इत्युक्ता सन्नाहप्रतिपत्तिः॥]

१८००१ {शारिपुत्र} आह् कियतायुष्मन् पूर्ण {बोधिसत्त्वो} महासत्त्वो महायानसंप्रतिस्थितो
१८००२ महायानसमारूढो भवति। पूर्ण आह् इहायुष्मन् {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वो
१८००३ दानपारमितायां चरन् विविक्तं कामैर्विविक्तं पापकैरकुशलैर्धर्मैः सवितर्कसविचारं
१८००४ विवेकजं प्रीतिसुखं प्रथमं ध्यानमुपसंपद्य विहरति। एवं द्वितीयं तृतीयं चतुर्थं ध्यानम्।
१८००५ एवमाकाशानन्त्यायतनं विज्ञानानन्त्यायतनमाकिञ्चन्यायतनं नैवसंज्ञानासंज्ञाय-
१८००६ तनमुपसम्पद्य विहरति। इमानि {बोधिसत्त्वस्य} महासत्त्वस्य ध्यानारूप्याणि यदा {बोधिसत्त्वो} महा-
१८००७ सत्त्व एतैश्च ध्यानैरेतैश्चारूप्यैर्दानपारमितायां चरनाकाशाकारलिङ्गनिमित्तैः
१८००८ समापद्यमानो व्युत्तिष्ठमानश्च तानि च कुशलमूलानि {सर्वसत्त्वसाधारणानि कृत्वा अनुत्तरायै सम्यक्संबोधये} परि-
१८००९ णामयति। इयं {बोधिसत्त्वस्य} महासत्त्वस्य दानपारमिता। एवं शील{पारमितायां} क्षान्ति{पारमितायां}
१८०१० वीर्य{पारमितायां} ध्यान{पारमितायां} वाच्यत् पुनरपरं {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां
१८०११ चरंश्चत्वारि ध्यानानि समापद्यते चतस्र आरूप्यसमापत्तीः समापद्यत् यदा
१८०१२ {बोधिसत्त्वो} महासत्त्व एतैश्च ध्यानैरेताभिश्चारूप्यसमापत्तिभिर्विहरति। स एता ध्याना-
१८०१३ रूप्यसमापत्तीः समापद्यमानो व्युत्तिष्ठमानश्चाकाशाकारलिङ्गनिमित्तानि मनसि-
१८०१४ करोति। प्रज्ञापारमितायां चरंस्तानि च कुशलमूलानि अन्यानि च सर्वाकारज्ञता-
१८०१५ प्रतिसंयुक्तमनसिकारैः {सर्वसत्त्वसाधारणानि कृत्वा अनुत्तरायै सम्यक्संबोधये} परिणामयति। इयं {बोधिसत्त्वस्य} महासत्त्वस्य
१८०१६ प्रज्ञापारमिता। एवं ह्यायुष्मन् {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वः षट्पारमितासु चरन्
१८०१७ महासन्नाहसन्नद्धः सत्त्वांश्च परिपाचयति बुद्धक्षेत्रं परिशोधयति। [इति ध्याना-
१८०१८ रूप्यसमापत्तिव्युस्थानप्रस्थानम्।]
१८०१९ पुनरपरं {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वो यत्{सर्वाकारज्ञताप्रतिसंयुक्तैर्मनसिकारैः} कारमुत्पाद्य क्लेशानां ध्वंसनाय
१८०२० सर्वसत्त्वानां धर्मं देशयिष्यामीति चित्तमुत्पादयति। इयं {बोधिसत्त्वस्य} महासत्त्वस्य
१८०२१ दानपारमिता। यद्{बोधिसत्त्वो} महासत्त्वस्तैरेव {सर्वाकारज्ञताप्रतिसंयुक्तैर्मनसिकारैः} प्रथमं ध्यानमाक्रामति
१८०२२ देशयति तत्र च प्रथमध्याने प्रतिष्ठते न चान्येषां चित्तोत्पादानामवकाशं ददाति

१८१०१ श्रावकप्रत्येकबुद्धप्रतिसंयुक्तानामियं {बोधिसत्त्वस्य} महासत्त्वस्य अपरामृष्टा शीलपार-
१८१०२ मिता। यद्{बोधिसत्त्वस्य} महासत्त्वस्य {सर्वाकारज्ञताप्रतिसंयुक्तैर्मनसिकारैर्} ध्यानारूप्यैर्विहरत एवं भवति
१८१०३ सर्वसत्त्वानां क्लेशक्षयाय धर्मं देशयिष्यामीति यावत्तेषां नमसिकाराणां
१८१०४ क्षमणा रोचना व्युपपरीक्षणा अवबोध उपनिध्यापनम्। इयं {बोधिसत्त्वस्य} महासत्त्वस्य
१८१०५ क्षान्ति{पारमिता}। पुनरपरं {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वः {सर्वाकारज्ञताप्रतिसंयुक्तैर्मनसिकारैः} सर्वकुशलमूलानि सर्वसत्त्वसाधारणानि
१८१०६ कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति वीर्यं च न स्रंसयति। इयं {बोधिसत्त्वस्य} महासत्त्वस्य
१८१०७ वीर्य{पारमिता}। यद्{बोधिसत्त्वो} महासत्त्वः {सर्वाकारज्ञताप्रतिसंयुक्तैर्मनसिकारैर्} ध्यानारूप्यसमापत्तीश्च समा-
१८१०८ पद्यते न चोपलभत् इयं {बोधिसत्त्वस्य} महासत्त्वस्य ध्यान{पारमिता}। यद्{बोधिसत्त्वो} महासत्त्वः
१८१०९ {सर्वाकारज्ञताप्रतिसंयुक्तैर्मनसिकारैः} प्रथमद्यानाङ्गानि द्वितीयानि तृतीयानि चतुर्थानि ध्यानाङ्गानि
१८११० अनित्याकारेण दुःखाकारेण अनात्माकारेण शान्ताकारेण शून्याकारेण
१८१११ अनिमित्ताकारेण अप्रणिहिताकारेण प्रत्यवेक्षते न चोपलभत् इयं {बोधिसत्त्वस्य} महा-
१८११२ सत्त्वस्य प्रज्ञा{पारमिता}। इदमायुष्मन् शारिपुत्र {बोधिसत्त्वस्य} महासत्त्वस्य महायानम्।
१८११३ [इति षट्पारमिताप्रस्थानम्।]
१८११४ पुनरपरमायुष्मन् {शारिपुत्र} {बोधिसत्त्वस्य} महासत्त्वस्य महायानम्। यत्सर्वाकारं
१८११५ सप्तत्रिंशद्बोधिपक्षान् धर्मान् भावयति। सर्वाकारं शून्यता-
१८११६ निमित्ताप्रणिहितविमोक्षमुखसमाधिं भावयति। सर्वाकारं बलानि वैशार-
१८११७ द्यानि अष्टादशावेणिकान् बुद्धधर्मान् भावयति। इदमायुष्मन् {शारिपुत्र} {बोधिसत्त्वस्य} महा-
१८११८ सत्त्वस्य महायानम्॥ [इत्यार्यमार्गप्रस्थानम्॥]
१८११९ पुनरपरं {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वो मैत्रीसहगतेन चित्तेन विपुलेन महोद्गतेना-
१८१२० द्वयेनाप्रमाणेनावैरेणासपत्नेनानावरणेनाव्यावाधेन सर्वत्रानुगतेन सुभाषितेन
१८१२१ धर्मधातुपरमे लोके आकाशधातुपर्यवसाने सर्वावन्तं लोकमेकां दिशं स्फुरि-
१८१२२ त्वोपसम्पद्य विहरति यावद्दशदिशः स्फुरित्वोपसम्पद्य विहरति। एवं करुणा-

१८२०१ सहगतेन मुदितासहगतेन उपेक्षासहगतेन चित्तेन विपुलेन महोद्गतेनाद्वयेनाप्रमाणेनावैरेणासपत्नेनानावरणेनाव्यावाधेन सर्वत्रानुगतेन सुभाषितेन धर्मधातुपरमे लोके आकाशधातुपर्यवसाने सर्वावन्तं लोकमेकां दिशं स्फुरित्वोपसम्पद्य विहरति यावद्दशदिशः स्फुरित्वोपसम्पद्य
१८२०२ विहरति। इमान्युच्यन्ते {बोधिसत्त्वस्य} महासत्त्वस्या-
१८२०३ प्रमाणानि। पुनरपरं {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वो मैत्रीसमाधिं समापद्यते मया
१८२०४ सर्वसत्त्वास्त्रातव्या इति निर्नामयति। करुणां च {समाधिं समापद्यते} क्लीवकारुण्यताञ्च
१८२०५ सत्त्वेषु {निर्णामयति}। मुदितां च {समाधिं समापद्यते} अहमेव मोदयिष्यामीति सत्त्वेषु {निर्णामयति}।
१८२०६ उपेक्षां च {समाधिं समापद्यते} आस्रवक्षयं च सत्त्वेषु {निर्णामयति}। इयं {बोधिसत्त्वस्य} महासत्त्वस्याप्रमाणेषु
१८२०७ चरतो दानपारमिता। यदा {बोधिसत्त्वो} महासत्त्वो ध्यानाप्रमाणाकारलिङ्गनिमित्तानि
१८२०८ समापद्यते च्युत्तिष्ठते च न च श्रावकप्रत्येकबुद्धभूमौ परिणामयत्यन्यत्र सर्वा-
१८२०९ कारज्ञतायाः। इयं {बोधिसत्त्वस्य} महासत्त्वस्याप्रमाणेषु चरतोऽपरामृष्टा शीलपारमिता।
१८२१० यदा {बोधिसत्त्वो} महासत्त्वस्ताभिर्ध्यानाप्रमाणारूप्यसमापत्तिभिरव्यवकीर्णो
१८२११ विहरति। आभ्यां द्वाभ्यां श्रावकभूमये वा प्रत्येकबुद्धभूमये वा न
१८२१२ स्पृहयते सर्वाकारज्ञतैवास्य क्षमते रोचते चेयं {बोधिसत्त्वस्य महासत्त्वस्याप्रमाणेषु चरतोऽपरामृष्टा} क्षान्ति{पारमिता}। यदा {बोधिसत्त्वो महासत्त्वो सर्वाकारज्ञताप्रतिसंयुक्तैः}
१८२१३ चित्तोत्पादैरनिक्षिप्तधुरो विहरति अकुशलधर्मप्रहाणाय कुशलधर्मोपसम्पद्
१८२१४ इयं {बोधिसत्त्वस्य महासत्त्वस्याप्रमाणेषु चरतोऽपरामृष्टा} वीर्य{पारमिता}। यदा बोधिसत्त्वो महासत्त्व एतानि च ध्यानान्येताश्चा-
१८२१५ प्रमाणारूप्यसमापत्तीश्च समापद्यत् न च ध्यानाप्रमाणारूप्यसमापत्ति-
१८२१६ वशेनोपपद्यत् न च ता आस्वादायति न च ताभिः संह्रियत् इयं {बोधिसत्त्वस्य महासत्त्वस्याप्रमाणेषु चरतोऽपरामृष्टा}
१८२१७ ध्यान{पारमिता}। यदा {बोधिसत्त्वो महासत्त्वो सर्वाकारज्ञताप्रतिसंयुक्तैर्} मनसिकारैस्ता ध्यानाप्रमाणारूप्यसमापत्तीः समा-
१८२१८ पद्यते च व्युत्तिष्ठते च ताश्चानित्याकारेण दुःखाकारेण अनात्माकारेण शान्ता-
१८२१९ कारेण शून्याकारेण अनिमित्ताकारेण अप्रणिहिताकारेण प्रत्यवेक्षते न च
१८२२० श्रावकन्यामं वा प्रत्येकबुद्धन्यामं वाभिक्रामति। इयं {बोधिसत्त्वस्य महासत्त्वस्याप्रमाणेषु चरतोऽपरामृष्टा} प्रज्ञा{पारमिता}।
१८२२१ इदमायुष्मन् {बोधिसत्त्वस्य} महासत्त्वस्य महायानम्॥ [इत्यप्रमाणप्रस्थानम्॥]

१८३०१ पुनरपरमायुष्मन् {शारिपुत्र} {बोधिसत्त्वस्य} महासत्त्वस्य महायानम्। यदध्यात्मशून्य-
१८३०२ तायां ज्ञानं न चोपलम्भयोगेन् यद्बहिर्धा{शून्यतायां ज्ञानं न चोपलम्भयोगेन}। यदध्यातमबहिर्धा{शून्यतायां ज्ञानं न चोपलम्भयोगेन}।
१८३०३ यद्{शून्यतायां ज्ञानं न चोपलम्भयोगेन}। इदं {बोधिसत्त्वस्य} महासत्त्वस्य महायानम्।
१८३०४ {पुनरपरमायुष्मन्} {शारिपुत्र} {बोधिसत्त्वस्य} महासत्त्वस्य महायानम्। यत्सर्वधर्मेषु न शिक्षिष्यते
१८३०५ चित्तं समाहितं तज्ज्ञानम्। इदमपि {बोधिसत्त्वस्य महासत्त्वस्य महायानम्}। पुनरपरं {शारिपुत्र} {बोधिसत्त्वस्य महासत्त्वस्य महायानम्}। यदस्य
१८३०६ न नित्यमिति ज्ञानं प्रवर्तते नानित्यमिति। न दुःखमिति नादुःखमिति
१८३०७ न सुखमिति नासुखमिति नात्मेति नानात्मेति न शान्तमिति नाशान्तमिति न शून्यमिति नाशून्यमिति न निमित्तमिति नानिमित्तमिति
१८३०८ न प्रणिहितमिति नाप्रणिहितमिति ज्ञानं प्रवर्तत् इदमपि सुभूते {बोधिसत्त्वस्य महासत्त्वस्य महायानम्}।
१८३०९ {पुनरपरमायुष्मन्} {शारिपुत्र} {बोधिसत्त्वस्य महासत्त्वस्य महायानम्}। यदतीतेऽध्वनि ज्ञानं न प्रवर्तत् अनागतेऽध्वनि {ज्ञानं न प्रवर्तते}।
१८३१० प्रत्युत्पन्नेऽध्वनि {ज्ञानं न प्रवर्तते}। न चास्य त्रिष्वध्वसु ज्ञानं प्रवर्तत् तच्चानुपलम्भयोगेन्
१८३११ इदमपि {शारिपुत्र} {बोधिसत्त्वस्य महासत्त्वस्य महायानम्}।
१८३१२ {पुनरपरमायुष्मन्} {शारिपुत्र} {बोधिसत्त्वस्य महासत्त्वस्य महायानम्}। यन्न कामधातौ ज्ञानं प्रवर्तते न रूप{धातौ ज्ञानं प्रवर्तते} नारूप्य{धातौ ज्ञानं प्रवर्तते}।
१८३१३ न चास्य कामरूपारूप्य{धातौ ज्ञानं प्रवर्तते} तच्चानुपलम्भयोगेन् इदमपि {शारिपुत्र} {बोधिसत्त्वस्य महासत्त्वस्य महायानम्}।
१८३१४ पुनरपरं {शारिपुत्र} {बोधिसत्त्वस्य महासत्त्वस्य महायानम्}। यन्न लौकिकेषु लोकोत्तरेषु धर्मेषु ज्ञानं प्रवर्तत् न
१८३१५ सास्रवेषु धर्मेषु नानास्रवेषु धर्मेषु न संस्कृतेषु नासंस्कृतेषु न चास्य लौकिक-
१८३१६ लोकोत्तरसास्रवानास्रवसंस्कृतासंस्कृतेषु धर्मेषु ज्ञानं प्रवर्तत् तच्चानुपलम्भयोगेन्
१८३१७ इदमायुष्मन् {शारिपुत्र} {बोधिसत्त्वस्य महासत्त्वस्य महायानम्}॥ [इति अनुपलम्भयोगेन प्रस्थानम्॥]
१८३१८ {शारिपुत्र} आह् कियतायुष्मन् पूर्ण {बोधिसत्त्वो} महासत्त्वो महायानसमारूढ
१८३१९ इत्युच्यत् पूर्ण आह् इहायुष्मन् {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां
१८३२० चरन् दानपारमितामारोहति। स नैव दानपारमितामुपलभते न दायकं
१८३२१ न प्रतिग्राहकं न दानमुपलभते अनुपलम्भयोगेन् एवं ह्यायुष्मन् {शारिपुत्र} {बोधिसत्त्वो}
१८३२२ महासत्त्वो दानपारमितासमारूढ इत्युच्यत् एवं शील{पारमितासमारूढः}, क्षान्ति{पारमितासमारूढः},

१८४०१ वीर्य{पारमितासमारूढः}, ध्यान{पारमितासमारूढः}। प्रज्ञापारमितायां चरन् प्रज्ञापारमितामारोहति, स नैव प्रज्ञा-
१८४०२ पारमितामुपलभते न बोधिसत्त्वं न मनसिकारमुपलभते अनुपलम्भयोगेन्
१८४०३ एवं ह्यायुष्मन् {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितासमारूढ इत्युच्यत् । [इति
१८४०४ त्रिमण्डलपरिशुद्धिप्रस्थानम्॥]
१८४०५ पुनरपरं {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वोऽव्यवकीर्णेन सर्वाकारज्ञताचित्तोत्पादेन
१८४०६ सप्तत्रिंशद्बोधिपक्षान् धर्मान् भावयति भावनाविभावनार्थेन तच्चानुपलम्भ-
१८४०७ योगेन् एवं ह्यायुष्मन् {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वो महायानसमारूढ इत्युच्यत्
१८४०८ {पुनरपरं शारिपुत्र बोधिसत्त्वो महासत्त्वोऽव्यवकीर्णेन सर्वाकारज्ञताचित्तोत्पादेन} शून्यतानिमित्ताप्रणिहितसमाधीन् {भावयति भावनाविभावनार्थेन तच्चानुपलम्भयोगेन् एवं ह्यायुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वो महायानसमारूढ इत्युच्यते}। {पुनरपरं शारिपुत्र बोधिसत्त्वो महासत्त्वोऽव्यवकीर्णेन सर्वाकारज्ञताचित्तोत्पादेन} दश तथागतबलानि
१८४०९ चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदोऽष्टादशावेणिकान् बुद्धधर्मान् {भावयति भावनाविभावनार्थेन तच्चानुपलम्भयोगेन् एवं ह्यायुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वो महायानसमारूढ इत्युच्यते}।
१८४१० पुनरपरं {शारिपुत्र} {बोधिसत्त्वो} महासत्त्व एवं सञ्जानाति व्यवहारमात्रमिदं यदुत बोधिसत्त्व
१८४११ इति सत्त्वानुपलब्धितामुपादाय् इदमपि नाममात्रं यदुत रूपं रूपानु-
१८४१२ पलब्धितामुपादाय वेदना संज्ञा संस्काराः। {नाममात्रं यदुत} विज्ञानं विज्ञानानु{पलब्धितामुपादाय}।
१८४१३ {नाममात्रं यदुत} चक्षुश्चक्षुषानु{पलब्धितामुपादाय}। एवं श्रोत्रं घ्राणं जिह्वा कायः। {नाममात्रं यदुत} मनो मनसा-
१८४१४ नु{पलब्धितामुपादाय}। एवं व्यस्तसमस्ताः स्कन्धा धातवः आयतनानि प्रतीत्यसमुत्पादः पारमिता अभिज्ञाः स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गवैशारद्यप्रतिसंविदावेणिका बुद्धधर्माः। {नाममात्रं यदुत}
१८४१५ बुद्धधर्मा बुद्धधर्मानु{पलब्धितामुपादाय}। अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता
१८४१६ यावदभावस्वभावशून्यता अभावस्वभावशून्यतानु{पलब्धितामुपादाय}। तथता धर्मधातुश्च
१८४१७ धर्मनियामता च भूतकोटिश्च भूतकोट्यनु{पलब्धितामुपादाय}। {नाममात्रं यदुत} बोधिर्बुद्धश्च बुद्धानु{पलब्धितामुपादाय}।
१८४१८ एवं ह्यायुष्मन् {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वो महायानसमारूढ इत्युच्यत् । [इत्युद्देश-
१८४१९ प्रस्थानम्॥]
१८४२० पुनरपरं {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वः प्रथमचित्तोत्पादमुपादाय यावद्

१८५०१ बोधिरत्रान्तरे {बोधिसत्त्वो} महासत्त्वोऽभिज्ञापरिपूर्णत्वात्सत्त्वांश्च परिपाचयति बुद्ध-
१८५०२ क्षेत्रेण च बुद्धक्षेत्रं संक्रामति। बुद्धक्षेत्रे बुद्धक्षेत्रे च बुद्धान् भगवतः सत्करोति
१८५०३ गुरूकरोति मानयति पूजयति। यो यस्य बुद्धस्य औपयिकपूजा सत्कारविधि-
१८५०४ स्तेभ्यश्च बुद्धेभ्यो भगवद्भ्यो धर्मं शृणोति यदुत इदमेव महायानं। स तत्र
१८५०५ बोधिसत्त्वयाने अभिरुह्य बुद्धक्षेत्रेण च बुद्धक्षेत्रं संक्रामति बुद्धक्षेत्रं च परिशोध-
१८५०६ यति सत्त्वांश्च परिपाचयति न चास्य बुद्धक्षेत्रसंज्ञा प्रवर्तते न सत्त्वसंज्ञा प्रवर्तत्
१८५०७ सोऽद्वयभूमौ स्थित्वा यादृशेनात्मभावेन सत्त्वानां शक्नोयर्थकरणाय तादृश-
१८५०८ मात्मभावं संचिन्त्य परिगृह्णाति। स न जातु तेन महायानेन विरहितो भवति
१८५०९ यावत्सर्वाकारज्ञतामनुप्राप्नोति॥ [इति अभिज्ञाप्रस्थानम्॥]
१८५१० सर्वाकारज्ञतामनुप्राप्य धर्मचक्रं प्रवर्तयति अप्रवर्तनीयं सर्वश्रावक-
१८५११ प्रत्येकबुद्धैर्देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यासुरेण लोकेन्
१८५१२ तस्यानुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य पूर्वस्यां दिशि गङ्गानदीवालु-
१८५१३ कोपमेषु लोकधातुषु बुद्धा भगवन्तो वर्णं भाषन्ते घोषमुदीरयन्ति यशः प्रकाश-
१८५१४ यन्ति। एषा अमुष्मिन् लोकधातुप्रसरेऽमुकेन {बोधिसत्त्वेन} महासत्त्वेन महायानम-
१८५१५ भिरुह्य सर्वाकारज्ञाताऽनुप्राप्ता सर्वाकारज्ञतामनुप्राप्य धर्मचक्रं प्रवर्तितम्।
१८५१६ एवं दक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तो वर्णं भाषन्ते घोषमुदीरयन्ति यशः प्रकाशयन्ति। एषा अमुष्मिन् लोकधातुप्रसरेऽमुकेन बोधिसत्त्वेन महासत्त्वेन महायानमभिरुह्य सर्वाकारज्ञाताऽनुप्राप्ता सर्वाकारज्ञतामनुप्राप्य धर्मचक्रं प्रवर्तितम्। एवं पश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तो वर्णं भाषन्ते घोषमुदीरयन्ति यशः प्रकाशयन्ति। एषा अमुष्मिन् लोकधातुप्रसरेऽमुकेन बोधिसत्त्वेन महासत्त्वेन महायानमभिरुह्य सर्वाकारज्ञाताऽनुप्राप्ता सर्वाकारज्ञतामनुप्राप्य धर्मचक्रं प्रवर्तितम्। एवमुत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तो वर्णं भाषन्ते घोषमुदीरयन्ति यशः प्रकाशयन्ति। एषा अमुष्मिन् लोकधातुप्रसरेऽमुकेन बोधिसत्त्वेन महासत्त्वेन महायानमभिरुह्य सर्वाकारज्ञाताऽनुप्राप्ता सर्वाकारज्ञतामनुप्राप्य धर्मचक्रं प्रवर्तितम्। एवमुत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तो वर्णं भाषन्ते घोषमुदीरयन्ति यशः प्रकाशयन्ति। एषा अमुष्मिन् लोकधातुप्रसरेऽमुकेन बोधिसत्त्वेन महासत्त्वेन महायानमभिरुह्य सर्वाकारज्ञाताऽनुप्राप्ता सर्वाकारज्ञतामनुप्राप्य धर्मचक्रं प्रवर्तितम्। एवं पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तो वर्णं भाषन्ते घोषमुदीरयन्ति यशः प्रकाशयन्ति। एषा अमुष्मिन् लोकधातुप्रसरेऽमुकेन बोधिसत्त्वेन महासत्त्वेन महायानमभिरुह्य सर्वाकारज्ञाताऽनुप्राप्ता सर्वाकारज्ञतामनुप्राप्य धर्मचक्रं प्रवर्तितम्। एवं दक्षिणपश्चिमायां दिशि
गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तो वर्णं भाषन्ते घोषमुदीरयन्ति यशः प्रकाशयन्ति। एषा अमुष्मिन् लोकधातुप्रसरेऽमुकेन बोधिसत्त्वेन महासत्त्वेन महायानमभिरुह्य सर्वाकारज्ञाताऽनुप्राप्ता सर्वाकारज्ञतामनुप्राप्य धर्मचक्रं प्रवर्तितम्। एवं पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तो वर्णं भाषन्ते घोषमुदीरयन्ति यशः प्रकाशयन्ति। एषा अमुष्मिन् लोकधातुप्रसरेऽमुकेन बोधिसत्त्वेन महासत्त्वेन महायानमभिरुह्य सर्वाकारज्ञाताऽनुप्राप्ता सर्वाकारज्ञतामनुप्राप्य धर्मचक्रं प्रवर्तितम्। एवमधस्ताद्दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तो वर्णं भाषन्ते घोषमुदीरयन्ति यशः प्रकाशयन्ति। एषा अमुष्मिन् लोकधातुप्रसरेऽमुकेन बोधिसत्त्वेन महासत्त्वेन महायानमभिरुह्य सर्वाकारज्ञाताऽनुप्राप्ता सर्वाकारज्ञतामनुप्राप्य धर्मचक्रं प्रवर्तितम्।
१८५१७ एवमूर्ध्वदिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तो वर्णं भाषन्ते घोषमुदीरयन्ति यशः प्रकाशयन्ति। एषा अमुष्मिन् लोकधातुप्रसरेऽमुकेन बोधिसत्त्वेन महासत्त्वेन महायानमभिरुह्य सर्वाकारज्ञाताऽनुप्राप्ता सर्वाकारज्ञतामनुप्राप्य धर्मचक्रं प्रवर्तितम्। एवं
१८५१८ ह्यायुस्मन् {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वो महायानसमारूढ इत्युच्यत् । [इति सर्वाकार-
१८५१९ ज्ञाताप्रस्थानम्॥] [इत्युच्यते प्रस्थानप्रतिपत्तिः॥]
१८५२० अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत् । महासन्नाहसन्नद्धो
१८५२१ महासन्नाहसन्नद्ध इति भगवन् {बोधिसत्त्वो} महासत्त्व इत्युच्यत् कियता भगवन्
१८५२२ {बोधिसत्त्वो} महासत्त्वो महासन्नाहसन्नद्ध इत्युच्यत् भगवानाह् इह सुभूते
१८५२३ {बोधिसत्त्वो} महासत्त्वो महायानं सन्नह्य यदुत दानपारमितासन्नाहं सन्नह्यते महायानं सन्नह्य यदुत शीलपारमितासन्नाहं सन्नह्यते महायानं सन्नह्य यदुत क्षान्तिपारमितासन्नाहं सन्नह्यते महायानं सन्नह्य यदुत वीर्यपारमितासन्नाहं सन्नह्यते महायानं सन्नह्य यदुत ध्यानपारमितासन्नाहं सन्नह्यते महायानं सन्नह्य यदुत प्रज्ञा-
१८५२४ पारमितासन्नाहं सन्नह्यत् स्मृत्युपस्थानसन्नाहं सन्नह्य सम्यक्प्रहाणर्द्धि-

१८६०१ पादेन्द्रियबलबोध्यङ्गमार्गसन्नाहं सन्नह्य समापत्तिसन्नाहं सन्नह्य
१८६०२ शून्यतासन्नाहं सन्नह्य वैशारद्यसन्नाहं सन्नह्य प्रतिसंवित्सन्नाहं सन्नह्य अष्टादशावेणिकबुद्धधर्मसन्नाहं सन्नह्य सर्वाकारज्ञतासन्नाहं सन्नह्य
१८६०३ बुद्धविग्रहं सन्नह्य त्रिसाहस्रमहासाहस्रं लोकधातुमवभासेन स्फुरति च षड्-
१८६०४ विकारं कम्पयति च सर्वस्मिन्नैरयिकभवने च तमग्निस्कन्धं निर्वाप्य नैरयि-
१८६०५ कानां सत्त्वानां दुःखानि प्रशाम्य तान् सर्वान्निर्वणाभिमुखान् विज्ञाय {बोधिसत्त्वो}
१८६०६ महासत्त्वः एवं शब्दमुदीरयति घोषमनुश्रावयति नमस्तथागतायार्हते सम्यक्-
१८६०७ सम्बुद्धायेति। ततस्ते नैरयिकाः सत्त्वास्तं बुद्धघोषं श्रुत्वा सुखं प्रतिलभन्त् ते
१८६०८ तेनैव सुखसौमनस्येन तेभ्यो निरयेभ्यो व्युत्थाय तत्र लोकधातावुपपद्यन्ते यत्र
१८६०९ बुद्धान् भगवतः पश्यन्ति आरागयन्ति देवमनुष्योपपत्तिञ्च परिगृह्णन्ति। एवं
१८६१० तिर्यग्योनितो यमलोकतो व्युत्थाय ते लोकधातावुपपद्यन्ते यत्र {बुद्धान् भगवतः पश्यन्ति आरागयन्ति देवमनुष्योपपत्तिञ्च}
१८६११ परिगृह्णन्ति। एवं पूर्वस्यां दिशि गङ्गानदीवालुकोपमांल्लोकधातूनवभासेन स्फुरति षड्विकारं कम्पयति च सर्वस्मिन्नैरयिकभवने च तमग्निस्कन्धं निर्वाप्य नैरयिकानां सत्त्वानां दुःखानि प्रशाम्य तान् सर्वान्निर्वणाभिमुखान् विज्ञाय बोधिसत्त्वो महासत्त्वः एवं शब्दमुदीरयति घोषमनुश्रावयति नमस्तथागतायार्हते सम्यक्सम्बुद्धायेति। ततस्ते नैरयिकाः सत्त्वास्तं बुद्धघोषं श्रुत्वा सुखं प्रतिलभन्त् ते तेनैव सुखसौमनस्येन तेभ्यो निरयेभ्यो व्युत्थाय तत्र लोकधातावुपपद्यन्ते यत्र बुद्धान् भगवतः पश्यन्ति आरागयन्ति देवमनुष्योपपत्तिञ्च परिगृह्णन्ति।
१८६१२ एवं दक्षिणस्यां दिशि गङ्गानदीवालुकोपमांल्लोकधातूनवभासेन स्फुरति षड्विकारं कम्पयति च सर्वस्मिन्नैरयिकभवने च तमग्निस्कन्धं निर्वाप्य नैरयिकानां सत्त्वानां दुःखानि प्रशाम्य तान् सर्वान्निर्वणाभिमुखान् विज्ञाय बोधिसत्त्वो महासत्त्वः एवं शब्दमुदीरयति घोषमनुश्रावयति नमस्तथागतायार्हते सम्यक्सम्बुद्धायेति। ततस्ते नैरयिकाः सत्त्वास्तं बुद्धघोषं श्रुत्वा सुखं प्रतिलभन्त् ते तेनैव सुखसौमनस्येन तेभ्यो निरयेभ्यो व्युत्थाय तत्र लोकधातावुपपद्यन्ते यत्र बुद्धान् भगवतः पश्यन्ति आरागयन्ति देवमनुष्योपपत्तिञ्च परिगृह्णन्ति। एवं पश्चिमायां दिशि गङ्गानदीवालुकोपमांल्लोकधातूनवभासेन स्फुरति षड्विकारं कम्पयति च सर्वस्मिन्नैरयिकभवने च तमग्निस्कन्धं निर्वाप्य नैरयिकानां सत्त्वानां दुःखानि प्रशाम्य तान् सर्वान्निर्वणाभिमुखान् विज्ञाय बोधिसत्त्वो महासत्त्वः एवं शब्दमुदीरयति घोषमनुश्रावयति नमस्तथागतायार्हते सम्यक्सम्बुद्धायेति। ततस्ते नैरयिकाः सत्त्वास्तं बुद्धघोषं श्रुत्वा सुखं प्रतिलभन्त् ते तेनैव सुखसौमनस्येन तेभ्यो निरयेभ्यो व्युत्थाय तत्र लोकधातावुपपद्यन्ते यत्र बुद्धान् भगवतः पश्यन्ति आरागयन्ति देवमनुष्योपपत्तिञ्च परिगृह्णन्ति। एवमुत्तरस्यां दिशि गङ्गानदीवालुकोपमांल्लोकधातूनवभासेन स्फुरति षड्विकारं कम्पयति च सर्वस्मिन्नैरयिकभवने च तमग्निस्कन्धं निर्वाप्य नैरयिकानां सत्त्वानां दुःखानि प्रशाम्य तान् सर्वान्निर्वणाभिमुखान् विज्ञाय बोधिसत्त्वो महासत्त्वः एवं शब्दमुदीरयति घोषमनुश्रावयति नमस्तथागतायार्हते सम्यक्सम्बुद्धायेति। ततस्ते नैरयिकाः सत्त्वास्तं बुद्धघोषं श्रुत्वा सुखं प्रतिलभन्त् ते
तेनैव सुखसौमनस्येन तेभ्यो निरयेभ्यो व्युत्थाय तत्र लोकधातावुपपद्यन्ते यत्र बुद्धान् भगवतः पश्यन्ति आरागयन्ति देवमनुष्योपपत्तिञ्च परिगृह्णन्ति। एवमुत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमांल्लोकधातूनवभासेन स्फुरति षड्विकारं कम्पयति च सर्वस्मिन्नैरयिकभवने च तमग्निस्कन्धं निर्वाप्य नैरयिकानां सत्त्वानां दुःखानि प्रशाम्य तान् सर्वान्निर्वणाभिमुखान् विज्ञाय बोधिसत्त्वो महासत्त्वः एवं शब्दमुदीरयति घोषमनुश्रावयति नमस्तथागतायार्हते सम्यक्सम्बुद्धायेति। ततस्ते नैरयिकाः सत्त्वास्तं बुद्धघोषं श्रुत्वा सुखं प्रतिलभन्त् ते तेनैव सुखसौमनस्येन तेभ्यो निरयेभ्यो व्युत्थाय तत्र लोकधातावुपपद्यन्ते यत्र बुद्धान् भगवतः पश्यन्ति आरागयन्ति देवमनुष्योपपत्तिञ्च परिगृह्णन्ति। एवं पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमांल्लोकधातूनवभासेन स्फुरति षड्विकारं कम्पयति च सर्वस्मिन्नैरयिकभवने च तमग्निस्कन्धं निर्वाप्य नैरयिकानां सत्त्वानां दुःखानि प्रशाम्य तान् सर्वान्निर्वणाभिमुखान् विज्ञाय बोधिसत्त्वो महासत्त्वः एवं शब्दमुदीरयति घोषमनुश्रावयति नमस्तथागतायार्हते सम्यक्सम्बुद्धायेति। ततस्ते नैरयिकाः सत्त्वास्तं बुद्धघोषं श्रुत्वा सुखं प्रतिलभन्त् ते तेनैव सुखसौमनस्येन तेभ्यो निरयेभ्यो व्युत्थाय तत्र लोकधातावुपपद्यन्ते यत्र बुद्धान् भगवतः पश्यन्ति आरागयन्ति देवमनुष्योपपत्तिञ्च परिगृह्णन्ति। एवं दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमांल्लोकधातूनवभासेन स्फुरति षड्विकारं कम्पयति च सर्वस्मिन्नैरयिकभवने च तमग्निस्कन्धं निर्वाप्य नैरयिकानां सत्त्वानां दुःखानि प्रशाम्य तान् सर्वान्निर्वणाभिमुखान् विज्ञाय बोधिसत्त्वो महासत्त्वः एवं शब्दमुदीरयति
घोषमनुश्रावयति नमस्तथागतायार्हते सम्यक्सम्बुद्धायेति। ततस्ते नैरयिकाः सत्त्वास्तं बुद्धघोषं श्रुत्वा सुखं प्रतिलभन्त् ते तेनैव सुखसौमनस्येन तेभ्यो निरयेभ्यो व्युत्थाय तत्र लोकधातावुपपद्यन्ते यत्र बुद्धान् भगवतः पश्यन्ति आरागयन्ति देवमनुष्योपपत्तिञ्च परिगृह्णन्ति। एवं पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमांल्लोकधातूनवभासेन स्फुरति षड्विकारं कम्पयति च सर्वस्मिन्नैरयिकभवने च तमग्निस्कन्धं निर्वाप्य नैरयिकानां सत्त्वानां दुःखानि प्रशाम्य तान् सर्वान्निर्वणाभिमुखान् विज्ञाय बोधिसत्त्वो महासत्त्वः एवं शब्दमुदीरयति घोषमनुश्रावयति नमस्तथागतायार्हते सम्यक्सम्बुद्धायेति। ततस्ते नैरयिकाः सत्त्वास्तं बुद्धघोषं श्रुत्वा सुखं प्रतिलभन्त् ते तेनैव सुखसौमनस्येन तेभ्यो निरयेभ्यो व्युत्थाय तत्र लोकधातावुपपद्यन्ते यत्र बुद्धान् भगवतः पश्यन्ति आरागयन्ति देवमनुष्योपपत्तिञ्च परिगृह्णन्ति। एवमधस्ताद्दिशि गङ्गानदीवालुकोपमांल्लोकधातूनवभासेन स्फुरति षड्विकारं कम्पयति च सर्वस्मिन्नैरयिकभवने च तमग्निस्कन्धं निर्वाप्य नैरयिकानां सत्त्वानां दुःखानि प्रशाम्य तान् सर्वान्निर्वणाभिमुखान् विज्ञाय बोधिसत्त्वो महासत्त्वः एवं शब्दमुदीरयति घोषमनुश्रावयति नमस्तथागतायार्हते सम्यक्सम्बुद्धायेति। ततस्ते नैरयिकाः सत्त्वास्तं बुद्धघोषं श्रुत्वा सुखं प्रतिलभन्त् ते तेनैव सुखसौमनस्येन तेभ्यो निरयेभ्यो व्युत्थाय तत्र लोकधातावुपपद्यन्ते यत्र बुद्धान् भगवतः पश्यन्ति आरागयन्ति देवमनुष्योपपत्तिञ्च परिगृह्णन्ति।
१८६१३ एवमूर्ध्वदिशि गङ्गानदीवालुकोपमांल्लोकधातूनवभासेन स्फुरति षड्विकारं कम्पयति च सर्वस्मिन्नैरयिकभवने च तमग्निस्कन्धं निर्वाप्य नैरयिकानां सत्त्वानां दुःखानि प्रशाम्य तान् सर्वान्निर्वणाभिमुखान् विज्ञाय बोधिसत्त्वो महासत्त्वः एवं शब्दमुदीरयति घोषमनुश्रावयति नमस्तथागतायार्हते सम्यक्सम्बुद्धायेति। ततस्ते नैरयिकाः सत्त्वास्तं बुद्धघोषं श्रुत्वा सुखं प्रतिलभन्त् ते तेनैव सुखसौमनस्येन तेभ्यो निरयेभ्यो व्युत्थाय तत्र लोकधातावुपपद्यन्ते यत्र बुद्धान् भगवतः पश्यन्ति आरागयन्ति देवमनुष्योपपत्तिञ्च परिगृह्णन्ति। एवं हि सुभूते {बोधिसत्त्वो} महासत्त्वो
१८६१४ महासन्नाहसन्नद्ध इत्युच्यत्
१८६१५ तद्यथापि नाम सुभूते दक्षो मायाकारो मायाकारान्तेवासी वा चतुर्महा-
१८६१६ पथे महतो जनकायस्य पुरतो निरयंस्तिर्यग्योनियमलोकञ्च निर्मिमीते निर्माय
१८६१७ तेषां सत्त्वानां बुद्धशब्दं धर्मशब्दं संघशब्दमनुश्रावयति। ततस्तेन बुद्धशब्देन
१८६१८ धर्मशब्देन संघशब्देन तेभ्यो निरयतिर्यग्योनियमलोकेभ्यो व्युत्थाय देव-
१८६१९ मनुष्येषूपपद्येरन्। अपि तु सुभूते तेन मायाकारान्तेवासिना वा कश्चित्सत्त्वो
१८६२० निरयतिर्यग्योनियमलोकगतिभ्यो व्युत्थापितः। सुभूतिराह् नो भगवन्।
१८६२१ भगवानाह् एवमेव सुभूते {बोधिसत्त्वेन} महासत्त्वेन असंरूयेयेष्वप्रमेयेष्वप्रमाणेषु
१८६२२ लोकधातुषु सत्त्वांस्त्रिभ्योऽपायेभ्यः परिमोच्य न कश्चित्सत्त्वः परिमोचितो
१८६२३ भवति। तत्कस्य हेतोः। धर्मस्तेषां सुभूते धर्माणां मायाधर्मतामुपादाय्
१८६२४ एवं हि सुभूते {बोधिसत्त्वो} महासत्त्वो महायानसमारूढो महासन्नाहसन्नद्ध इत्युच्यत् ।
१८६२५ [इति करुणासम्भारः॥]

१८७०१ पुनरपरं सुभूते {बोधिसत्त्वो} महासत्त्वो दानपारमितायां स्थित्वा महासन्नाहसन्नद्ध-
१८७०२ स्त्रिसाहस्रं महासाहस्रं लोकधातुं वैदूर्यमयं निर्मिमीते वैदूर्यमयं निर्माय चक्र-
१८७०३ वर्तिव्यूहं निर्मिमीते चक्रवर्तिव्यूहं निर्माय अन्नार्थिकेभ्योऽन्नं ददाति।
१८७०४ एवं यावद्वस्त्रयानगन्धमाल्यपुष्पधूपविलेपनचूर्णपरिष्कारं वासशयनासन-
१८७०५ प्रावरणजीवितोपकरणभैषज्यसुवर्णरूप्यमणिरत्नप्रवालशङ्खशिलामुक्ताभरणानि
१८७०६ यावदन्यतरान्यतरं परिष्कारं ददाति। सोऽन्नमन्नार्थिकेभ्यो दत्वा यावदन्य-
१८७०७ तरान्यतरं परिष्कारं दत्वा तेषां सत्त्वानां धर्मं देशयति यदुत इममेव षट्पार-
१८७०८ मिताप्रतिसंयुक्तम्। ते खलु पुनः सत्त्वास्तां धर्मदेशनां श्रुत्वा न जातु ताभिः
१८७०९ पारमिताभिर्विरहिता भवन्ति यावदनुत्तरां सम्यक्संबोधिमभिसंबुध्यन्त् एवं
१८७१० हि सुभूते {बोधिसत्त्वो} महासत्त्वो महासन्नाहसन्नद्ध इत्युच्यत् तद्यथापि नाम सुभूते
१८७११ दक्षो मायाकारो मायाकारान्तेवासी वा चतुर्महापथे स्थित्वा महतो जनकायस्य
१८७१२ पुरतो महान्तं जनकायमभिनिर्मिमीते निर्माय अन्नमन्नार्थिकेभ्यो दद्यादन्य-
१८७१३ तरान्यतरं परिष्कारस्तदर्थिकेभ्यो दद्यात् । तत्किं मन्यसे सुभूते अपि एतेन
१८७१४ मायाकारेण मायाकारान्तेवासिना वा कस्मैचित्किञ्चिद्दत्तं भवेत् । सुभूति-
१८७१५ राह् नो भगवन्। भगवानाह् एवमेव सुभूते {बोधिसत्त्वेन} महासत्त्वेन यावच्चक्र-
१८७१६ वर्तिव्यूहमभिनिर्माय अन्नमन्नार्थिकेभ्यो ददता यावदन्यतरान्यतरान्
१८७१७ मानुष्यकान् परिष्कारान् ददता कस्मैचित्सत्त्वाय यावदन्यतरान्यतरा
१८७१८ मानुष्यकाः परिष्कारा दत्त्वा भवन्ति। तत्कस्य हेतोः। धर्मतैषा सुभूते
१८७१९ धर्माणां मायाधर्मतामुपादाय् एवं हि सुभूते {बोधिसत्त्वो} महासत्त्वो महासन्नाह-
१८७२० सन्नद्ध इत्युच्यत् । [इति दानसम्भारः॥]
१८७२१ {पुनरपरं} {सुभूते} {बोधिसत्त्वो} {महासत्त्वो} शीलपारमितायां सञ्चिन्त्योपपत्तिपरिग्रहेण चक्रवर्तिकुले
१८७२२ प्रत्याजायत् स तत्र स्थित्वा सत्त्वान् दशकुशलेषु कर्मपथेषु प्रतिष्ठापयति।
१८७२३ चतुर्षु ध्यानेषु चतुर्ष्वप्रमाणानेषु चतसृष्वारूप्यसमापत्तिषु चतुर्षु स्मृत्युपस्हानेषु चतुर्षु सम्यक्प्रहाणेषु चतुर्ष्वृद्धिपादेषु पञ्चस्विन्द्रियेषु पञ्चसु बलेषु सप्तसु बोध्यङ्गेषु सप्तत्रिंशद्बोधिपक्षेषु धर्मेषु प्रतिष्ठापयति। यावदष्टादशस्वावेणिकेषु
१८७२४ बुद्धधर्मेषु प्रतिष्ठापयति। ते च सत्त्वा न जातु विरहिता भवन्ति तया

१८८०१ धर्मदेशनया यावदनुत्तरां सम्यक्संबोधिमभिसंबुध्यन्त् तद्यथापि नाम
१८८०२ सुभूते दक्षो {मायाकारो मायाकारान्तेवासी वा चतुर्महापथे महान्तं जनकायं निर्माय} दशकुशलेषु कर्मपथेषु प्रतिष्ठापयेत् । यावदष्टादशावेणि-
१८८०३ केषु बुद्धधर्मेषु प्रतिष्टापयेत्तेन तावतः सत्त्वान् यावद्बुद्धधर्मेषु प्रतिष्ठाप्य
१८८०४ न कश्चित्सत्त्वो यावद्बुद्धधर्मेषु प्रतिष्ठापितो भवति। एवमेव सुभूते
१८८०५ {बोधिसत्त्वेन} महासत्त्वेन तांस्तावतः सत्त्वान् दशकुशलेषु कर्मपथेषु प्रतिष्ठाप्य यावदष्टा-
१८८०६ दशस्वावेणिकेषु बुद्धधर्मेषु प्रतिष्ठाप्य न कश्चित्सत्त्वो यावद्बुद्धधर्मेषु
१८८०७ प्रतिष्ठापितो भवति। तत्कस्य हेतोः। धर्मतैषा {सुभूते धर्माणां मायाधर्मतामुपादाय् एवं हि सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्धमित्युच्यते}। [इति शीलसम्भारः।]
१८८०८ {पुनरपरं} {सुभूते} {बोधिसत्त्वो} {महासत्त्वः} क्षान्तिपारमितायां स्थित्वा सत्त्वान् क्षान्तौ समादापयति
१८८०९ निवेशयति प्रतिष्ठापयति। कथं च सुभूते {बोधिसत्त्वो} महासत्त्वः क्षान्तिपारमितायां
१८८१० स्थित्वा क्षान्तौ {समादापयति निवेशयति प्रतिष्ठापयति}। इह सुभूते {बोधिसत्त्वो} महासत्त्वः प्रथमचित्तोत्पाद-
१८८११ मुपादाय एवं सन्नाहं सन्नह्यते सचेत्मम सर्वसत्त्वा दण्डलोष्ट्रमुष्टिशस्त्रप्रहारान्
१८८१२ दद्युस्तत्र मया एकमपि क्षोभचित्तं नोत्पादयितव्यं सर्वसत्त्वाश्चैवंरूपायां
१८८१३ क्षान्तौ प्रतिष्ठापयितव्या इति। तद्यथापि नाम सुभूते दक्षो {मायाकारो मायाकारान्तेवासी वा चतुर्महापथे महान्तं जनकायं निर्माय} निर्मिमीते
१८८१४ तेऽपि सर्वे तस्य मायाकारस्य दण्डैर्लोष्ट्रैर्मुष्टिभिः शस्त्रैर्वा प्रहारं दद्युः। स
१८८१५ च तेषु एकमपि क्षोभचित्तं नोत्पादयेत्तांश्च सत्त्वान्निर्मितानेवंरूपायां क्षान्तौ
१८८१६ प्रतिष्ठापयेत् । तेन तावतः सत्त्वान् क्षान्तौ प्रतिष्ठाप्य न कश्चित्सत्त्वः प्रतिष्ठा-
१८८१७ पितो भवति। एवमेव सुभूते {बोधिसत्त्वेन} महासत्त्वेन तांस्तावतः सत्त्वान् क्षान्तौ
१८८१८ प्रतिष्ठाप्य न कश्चित्सत्त्वः क्षान्तौ प्रतिष्ठापितो भवति। तत्कस्य हेतोः।
१८८१९ धर्मतैषा {सुभूते धर्माणां मायाधर्मतामुपादाय् एवं हि सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्धमित्युच्यते}॥ [इति क्षान्तिसम्भारः॥]

१८९०१ {पुनरपरं} {सुभूते} {बोधिसत्त्वो} {महासत्त्वो} वीर्यपारमितायां स्थित्वा सर्वसत्त्वान् वीर्यपारमितायां
१८९०२ {समादापयति निवेशयति प्रतिष्ठापयति}। कथञ्च {सुभूते} {बोधिसत्त्वो} महासत्त्वो वीर्यपारमितायां स्थित्वा सर्वसत्त्वान् वीर्य-
१८९०३ पारमितायां {समादापयति निवेशयति प्रतिष्ठापयति}। इह {सुभूते} {बोधिसत्त्वो} महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैर्मन-
१८९०४ सिकारैः कायिकचेतसिकवीर्यप्रतिष्ठितः सवसत्त्वान् {कायिकचेतसिकवीर्ये} {समादापयति निवेशयति प्रतिष्ठापयति}। तद्यथापि
१८९०५ नाम सुभूते दक्षो {मायाकारो मायाकारान्तेवासी वा चतुर्महापथे महान्तं जनकायं} निर्माय सर्वाकारज्ञताप्रतिसंयुक्तैर्मनसिकारैः {कायिकचेतसिकवीर्ये}
१८९०६ प्रतिष्ठापयेत् । तेन तांस्तावतः सत्त्वान् {कायिकचेतसिकवीर्ये} प्रतिष्ठाप्य न कश्चित्सत्त्वः {कायिकचेतसिकवीर्ये}
१८९०७ प्रतिष्ठापितो भवति। एवमेव {सुभूते} {बोधिसत्त्वेन} महासत्त्वेन तांस्तावतः सत्त्वान्
१८९०८ {कायिकचेतसिकवीर्ये} प्रविष्ठाप्य न कश्चित्सत्त्वः {कायिकचेतसिकवीर्ये} प्रतिष्ठापितो भवति। तत्कस्य
१८९०९ हेतोः। धर्मतैषा {सुभूते धर्माणां मायाधर्मतामुपादाय् एवं हि सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्धमित्युच्यते}॥ [इति वीर्यसम्भारः॥]
१८९१० {पुनरपरं} {सुभूते} {बोधिसत्त्वो} {महासत्त्वो} ध्यानपारमितायां स्थित्वा सर्वसत्त्वान्
१८९११ ध्य्नपारमितायां {समादापयति निवेशयति प्रतिष्ठापयति}। कथं च {सुभूते} {बोधिसत्त्वो} महासत्त्वो ध्यानपार-
१८९१२ मितायां स्थित्वा सर्वसत्त्वान् ध्यानपारमितायां {समादापयति निवेशयति प्रतिष्ठापयति}। इह {सुभूते} {बोधिसत्त्वो}
१८९१३ महासत्त्वः सर्वधर्माणां समतायां स्थित्वा न कस्यचिद्धर्मस्य विक्षेपं वा
१८९१४ अविक्षेपं वा समनुपश्यति। एवं हि {सुभूते} {बोधिसत्त्वो} महासत्त्वो ध्यानपारमितायां
१८९१५ स्थितो भवति। स तथैव सर्वसत्त्वान् ध्यानपारमितायां {समादापयति निवेशयति प्रतिष्ठापयति}। ते च समा-
१८९१६ दापिता निवेशिताः प्रतिष्ठापिता भवन्ति। न जातु विरहिता भवन्ति ध्यान-
१८९१७ पारमितया यावदनुत्तरां सम्यक्संबोधिमभिसंबुद्धा इति। तद्यथापि नाम
१८९१८ सुभूते दक्षो {मायाकारो मायाकारान्तेवासी वा चतुर्महापथे महान्तं जनकायं} निर्माय जनकायं ध्यानपारमितायां प्रतिष्ठापयेत्तेन
१८९१९ तांस्तावतः सत्त्वान् ध्यानपारमितायां प्रतिष्ठाप्य न कश्चिदेकः सत्त्वोऽपि ध्यान-
१८९२० पारमितायां प्रतिष्ठापितो भवति। एवमेव {सुभूते} {बोधिसत्त्वेन} महासत्त्वेन सर्वसत्त्वान्
१८९२१ ध्यानपारमितायां प्रतिष्ठाप्य न कश्चित्सत्त्वो ध्यानपारमितायां प्रतिष्ठापितो
१८९२२ भवति। तत्कस्य हेतोः। धर्मतैषा {सुभूते धर्माणां मायाधर्मतामुपादाय् एवं हि सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्धमित्युच्यते}॥ [इति ध्यानसम्भारः॥]
१८९२३ {पुनरपरं} {सुभूते} {बोधिसत्त्वो} {महासत्त्वः} प्रज्ञापारमितायां स्थित्वा सर्वसत्त्वान् प्रज्ञापारमितायां
१८९२४ {समादापयति निवेशयति प्रतिष्ठापयति}। कथञ्च {सुभूते} {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां स्थित्वा सर्वसत्त्वान्
१८९२५ प्रज्ञाप्रमितायां {समादापयति निवेशयति प्रतिष्ठापयति}। यतः {सुभूते} {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन्

१९००१ न कस्यचिद्धर्मस्यापारं वा पारं वा उपलभत् एवं {बोधिसत्त्वो} महासत्त्वः प्रज्ञा-
१९००२ पारमितायां स्थितो भवति। स तथैव सर्वसत्त्वानपि तत्र {समादापयति निवेशयति प्रतिष्ठापयति}। तद्यथापि
१९००३ नाम सुभूते दक्षो {मायाकारो मायाकारान्तेवासी वा चतुर्महापथे महान्तं जनकायं निर्माय}
१९००४ जनकायं प्रज्ञापारमितायां प्रतिष्ठापयेत्तेन तांस्तावतः सत्त्वान् प्रज्ञापारमितायां प्रतिष्ठाप्य न कश्चिदेकः सत्त्वोऽपि प्रज्ञापारमितायां प्रतिष्ठापितो भवति। एवमेव सुभूते बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वान् प्रज्ञापारमितायां प्रतिष्ठाप्य न कश्चित्सत्त्वो प्रज्ञापारमितायां प्रतिष्ठापितो भवति। तत्कस्य हेतोः। धर्मतैषा सुभूते धर्माणां मायाधर्मतामुपादाय् एवं हि सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्धमित्युच्यते॥ [इति प्रज्ञासम्भारः॥]
१९००५ {पुनरपरं} {सुभूते} {बोधिसत्त्वो} {महासत्त्वो} महासन्नाहसन्नद्धः पूर्वस्यां दिशि गङ्गानदीवालुको-
१९००६ पमेषु लोकधातुषु यावन्तः सत्त्वांस्तान् सर्वान् यथैवात्मना दानपारमितायां
१९००७ स्थितस्तथा दानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति। एवं
१९००८ शीलपारमितायां क्षातिपारमितायां समादापयति निवेशयति प्रतिष्ठापयति। वीर्यपारमितायां समादापयति निवेशयति प्रतिष्ठापयति। ध्यानपारमितायांसमादापयति निवेशयति प्रतिष्ठापयति प्रज्ञापारमितायां {समादापयति निवेशयति प्रतिष्ठापयति} धर्मञ्च देशयति। यदुत
१९००९ इममेव षट्पारमिताप्रतिसंयुक्तम्। ते च तं श्रुत्वा न जातु भूयो विरहिता भवन्ति
१९०१० षद्भिः पारमिताभिर्यावदनुत्तरां सम्यक्संबोधिमभिसंबुद्धा इति। एवं दक्षिण-
१९०११ स्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु यावन्तः सत्त्वांस्तान् सर्वान् यथैवात्मना दानपारमितायां स्थितस्तथा दानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति। एवं शीलपारमितायां क्षातिपारमितायां समादापयति निवेशयति प्रतिष्ठापयति। वीर्यपारमितायां समादापयति निवेशयति प्रतिष्ठापयति। ध्यानपारमितायांसमादापयति निवेशयति प्रतिष्ठापयति प्रज्ञापारमितायां समादापयति निवेशयति प्रतिष्ठापयति धर्मञ्च देशयति। यदुत इममेव षट्पारमिताप्रतिसंयुक्तम्। ते च तं श्रुत्वा न जातु भूयो विरहिता भवन्ति षद्भिः पारमिताभिर्यावदनुत्तरां सम्यक्संबोधिमभिसंबुद्धा इति।ेवं पश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु यावन्तः सत्त्वांस्तान् सर्वान् यथैवात्मना दानपारमितायां स्थितस्तथा दानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति। एवं शीलपारमितायां क्षातिपारमितायां समादापयति निवेशयति प्रतिष्ठापयति। वीर्यपारमितायां समादापयति निवेशयति प्रतिष्ठापयति। ध्यानपारमितायांसमादापयति निवेशयति प्रतिष्ठापयति प्रज्ञापारमितायां समादापयति निवेशयति प्रतिष्ठापयति धर्मञ्च देशयति। यदुत इममेव षट्पारमिताप्रतिसंयुक्तम्। ते च तं श्रुत्वा न जातु भूयो विरहिता भवन्ति षद्भिः पारमिताभिर्यावदनुत्तरां सम्यक्संबोधिमभिसंबुद्धा इति। एवमुत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु यावन्तः सत्त्वांस्तान् सर्वान् यथैवात्मना दानपारमितायां स्थितस्तथा दानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति। एवं शीलपारमितायां
क्षातिपारमितायां समादापयति निवेशयति प्रतिष्ठापयति। वीर्यपारमितायां समादापयति निवेशयति प्रतिष्ठापयति। ध्यानपारमितायांसमादापयति निवेशयति प्रतिष्ठापयति प्रज्ञापारमितायां समादापयति निवेशयति प्रतिष्ठापयति धर्मञ्च देशयति। यदुत इममेव षट्पारमिताप्रतिसंयुक्तम्। ते च तं श्रुत्वा न जातु भूयो विरहिता भवन्ति षद्भिः पारमिताभिर्यावदनुत्तरां सम्यक्संबोधिमभिसंबुद्धा इति। एवमुत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु यावन्तः सत्त्वांस्तान् सर्वान् यथैवात्मना दानपारमितायां स्थितस्तथा दानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति। एवं शीलपारमितायां क्षातिपारमितायां समादापयति निवेशयति प्रतिष्ठापयति। वीर्यपारमितायां समादापयति निवेशयति प्रतिष्ठापयति। ध्यानपारमितायांसमादापयति निवेशयति प्रतिष्ठापयति प्रज्ञापारमितायां समादापयति निवेशयति प्रतिष्ठापयति धर्मञ्च देशयति। यदुत इममेव षट्पारमिताप्रतिसंयुक्तम्। ते च तं श्रुत्वा न जातु भूयो विरहिता भवन्ति षद्भिः पारमिताभिर्यावदनुत्तरां सम्यक्संबोधिमभिसंबुद्धा इति। एवं पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु यावन्तः सत्त्वांस्तान् सर्वान् यथैवात्मना दानपारमितायां स्थितस्तथा दानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति। एवं शीलपारमितायां क्षातिपारमितायां समादापयति निवेशयति प्रतिष्ठापयति। वीर्यपारमितायां समादापयति निवेशयति प्रतिष्ठापयति। ध्यानपारमितायांसमादापयति निवेशयति प्रतिष्ठापयति प्रज्ञापारमितायां समादापयति निवेशयति
प्रतिष्ठापयति धर्मञ्च देशयति। यदुत इममेव षट्पारमिताप्रतिसंयुक्तम्। ते च तं श्रुत्वा न जातु भूयो विरहिता भवन्ति षद्भिः पारमिताभिर्यावदनुत्तरां सम्यक्संबोधिमभिसंबुद्धा इति। एवं दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु यावन्तः सत्त्वांस्तान् सर्वान् यथैवात्मना दानपारमितायां स्थितस्तथा दानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति। एवं शीलपारमितायां क्षातिपारमितायां समादापयति निवेशयति प्रतिष्ठापयति। वीर्यपारमितायां समादापयति निवेशयति प्रतिष्ठापयति। ध्यानपारमितायांसमादापयति निवेशयति प्रतिष्ठापयति प्रज्ञापारमितायां समादापयति निवेशयति प्रतिष्ठापयति धर्मञ्च देशयति। यदुत इममेव षट्पारमिताप्रतिसंयुक्तम्। ते च तं श्रुत्वा न जातु भूयो विरहिता भवन्ति षद्भिः पारमिताभिर्यावदनुत्तरां सम्यक्संबोधिमभिसंबुद्धा इति। एवं पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु यावन्तः सत्त्वांस्तान् सर्वान् यथैवात्मना दानपारमितायां स्थितस्तथा दानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति। एवं शीलपारमितायां क्षातिपारमितायां समादापयति निवेशयति प्रतिष्ठापयति। वीर्यपारमितायां समादापयति निवेशयति प्रतिष्ठापयति। ध्यानपारमितायांसमादापयति निवेशयति प्रतिष्ठापयति प्रज्ञापारमितायां समादापयति निवेशयति प्रतिष्ठापयति धर्मञ्च देशयति। यदुत इममेव षट्पारमिताप्रतिसंयुक्तम्। ते च तं श्रुत्वा न जातु भूयो विरहिता भवन्ति षद्भिः पारमिताभिर्यावदनुत्तरां सम्यक्संबोधिमभिसंबुद्धा इति।
एवमधस्ताद्दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु यावन्तः सत्त्वांस्तान् सर्वान् यथैवात्मना दानपारमितायां स्थितस्तथा दानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति। एवं शीलपारमितायां क्षातिपारमितायां समादापयति निवेशयति प्रतिष्ठापयति। वीर्यपारमितायां समादापयति निवेशयति प्रतिष्ठापयति। ध्यानपारमितायांसमादापयति निवेशयति प्रतिष्ठापयति प्रज्ञापारमितायां समादापयति निवेशयति प्रतिष्ठापयति धर्मञ्च देशयति। यदुत इममेव षट्पारमिताप्रतिसंयुक्तम्। ते च तं श्रुत्वा न जातु भूयो विरहिता भवन्ति षद्भिः पारमिताभिर्यावदनुत्तरां सम्यक्संबोधिमभिसंबुद्धा इति।
१९०१२ एवमूर्ध्वदिशि गङ्गानदीवालुकोपमेषु लोकधातुषु यावन्तः सत्त्वांस्तान् सर्वान् यथैवात्मना दानपारमितायां स्थितस्तथा दानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति। एवं शीलपारमितायां क्षातिपारमितायां समादापयति निवेशयति प्रतिष्ठापयति। वीर्यपारमितायां समादापयति निवेशयति प्रतिष्ठापयति। ध्यानपारमितायांसमादापयति निवेशयति प्रतिष्ठापयति प्रज्ञापारमितायां समादापयति निवेशयति प्रतिष्ठापयति धर्मञ्च देशयति। यदुत इममेव षट्पारमिताप्रतिसंयुक्तम्। ते च तं श्रुत्वा न जातु भूयो विरहिता भवन्ति षद्भिः पारमिताभिर्यावदनुत्तरां सम्यक्संबोधिमभिसंबुद्धा इति।
१९०१३ तद्यथापि नाम सुभूते दक्षो {मायाकारो मायाकारान्तेवासी वा चतुर्महापथे महान्तं जनकायं} निर्माय षट्पारमितासु {समादापयति निवेशयति प्रतिष्ठापयति}। तत्
१९०१४ किं मन्यसे सुभूते अपि नु तेन मायाकारेण मायाकारान्तेवासिना वा कश्चित्
१९०१५ सत्त्वः षट्पारमितासु समादापितो भवति निवेशितो वा प्रतिष्ठापितो वा भवति।
१९०१६ सुभूतिराह् नो भगवन्। भगवानाह् एवमेव सुभूते {बोधिसत्त्वेन} महासत्त्वेन
१९०१७ तांस्तावतः सत्त्वान् षट्सु पारमितासु प्रतिष्ठाप्य न कश्चित्सत्त्वः षट्सु पार-
१९०१८ मितासु प्रतिष्ठापितो भवति। तत्कस्य हेतोः। धर्मतैषा {सुभूते धर्माणां मायाधर्मतामुपादाय् एवं हि सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्धमित्युच्यते}
१९०१९ {पुनरपरं} {सुभूते} {बोधिसत्त्वो} महासत्त्वो महासन्नाहं सन्नह्य सर्वाकारज्ञताप्रतिसंयुक्तेन
१९०२० चित्तेन विहरन्नान्येषां चित्तोत्पादानामवकाशं ददाति। इयन्तो मया सत्त्वा दान-
१९०२१ पारमितायां प्रतिष्ठापयितव्या इति। इयन्तो मया सत्त्वा शीलपारमितायां प्रतिष्ठापयितव्या इति। इयन्तो मया सत्त्वा क्षान्तिपारमितायां प्रतिष्ठापयितव्या इति। इयन्तो मया सत्त्वा वीर्यपारमितायां प्रतिष्ठापयितव्या इति। इयन्तो मया सत्त्वा ध्यानपारमितायां प्रतिष्ठापयितव्या इति। इयन्तो मया सत्त्वा प्रज्ञापारमितायां प्रतिष्ठापयितव्या इति।
१९०२२ इयन्तो मया सत्त्वा बोधिपक्षधर्मेषु प्रतिष्ठापयितव्या इति। इयन्तो मया सत्त्वा आवेणिकबुद्धधर्मेषु प्रतिष्ठापयितव्या इति। इयन्तो मया सत्त्वा स्रोतआपत्तिफले प्रतिष्ठापयितव्या इति। इयन्तो मया सत्त्वा सकृदागामिफले प्रतिष्ठापयितव्या इति। इयन्तो मया सत्त्वा अनागामिफले प्रतिष्ठापयितव्या इति। इयन्तो मया सत्त्वा अर्हत्त्वे प्रतिष्ठापयितव्या इति। इयन्तो मया सत्त्वा प्रत्येकबुद्धत्वे प्रतिष्ठापयितव्या इति।
१९०२३ इयन्तो मया सत्त्वा सर्वज्ञत्वे प्रतिष्ठापयितव्या इति। अपि तु खलु पुनरसंख्येयाः सत्त्वा अप्रमेयाः सत्त्वा षट्सु पारमितासु
१९०२४ प्रतिष्ठापयितव्याः। एवं सप्तत्रिंशद्बोधिपक्षेषु धर्मेषु दशसु तथागतबलेषु
१९०२५ चतसृषु प्रतिसंवित्सु अष्टादशस्वावेणिकेषु बुद्धधर्मेषु प्रतिष्ठापयितव्याः स्रोत-
१९०२६ आपत्तिफले सकृदागामिफले अनागामिफले अर्हत्त्वे असंख्येया अप्रमेयाः सत्त्वा
१९०२७ बुद्धत्वे प्रतिष्ठापयितव्याः॥ [इति शमथसम्भारः॥]

१९१०१ तद्यथापि नाम सुभूते दक्षो {मायाकारो मायाकारान्तेवासी वा चतुर्महापथे महान्तं जनकायं} निर्माय तं षट्सु पारमितासु प्रतिष्ठा-
१९१०२ पयेत् । यावत्सर्वाकारवरोपेते सर्वज्ञज्ञाने प्रतिष्ठापयेदेवमेव सुभूते {बोधिसत्त्वेन} महा-
१९१०३ महासत्त्वेन तांस्तावतः सत्त्वानसंख्येयानप्रमेयान् षट्सु पारमितासु प्रतिष्ठाप्य
१९१०४ यावत्सर्वाकारवरोपेते सर्वज्ञज्ञाने प्रतिष्ठाप्य न कश्चित्सत्त्वः षट्सु पारमितासु
१९१०५ प्रतिष्ठापितो भवति। तत्कस्य हेतोः। धर्मतैषा सुभूते धर्माणां यदिमां
१९१०६ मायाधर्मतामुपादाय्
१९१०७ सुभूतिराह् यथाहं भगवन् भगवतो भाषितस्यार्थमाजानामि तथा
१९१०८ असन्नाहसन्नद्धो वतायं {बोधिसत्त्वो} महासत्त्वो वेदितव्यः स्वलक्षणशून्यतामुपादाय्
१९१०९ तत्कस्य हेतोः। तथा हि भगवन् रूपं रूपेण शून्यं {वेदना वेदनया शून्या संज्ञा संज्ञया शून्या संस्काराः संस्कारैः शून्या} विज्ञानं विज्ञानेन
१९११० शून्यं, चक्षुश्चक्षुषा शून्यम्। श्रोत्रं श्रोत्रेण शून्यं घ्राणं घ्राणेन शून्यं जिह्वा जिह्वया शून्या कायः कायेन शून्यो मनो मनसा शून्यं रूपं रूपेण शून्यं शब्दः शब्देन शून्यो गन्धो गन्धेन शून्यो रसो रसेन शून्यो स्प्रष्टव्यं स्प्रष्टव्येन शून्यं धर्मो धर्मेण शून्यो
१९१११ चक्षुर्विज्ञानं चक्षुर्विज्ञानेन शून्यं श्रोत्रविज्ञानं श्रोत्रविज्ञानेन शून्यं घ्राणविज्ञानं घ्राणविज्ञानेन शून्यं जिह्वाविज्ञानं जिह्वाविज्ञानेन शून्यं कायविज्ञानं कायविज्ञानेन शून्यं मनोविज्ञानं मनोविज्ञानेन शून्यं चक्षुःसंस्पर्शप्रत्ययवेदयितं चक्षुःसंस्पर्शप्रत्ययवेदयितेन शून्यं श्रोत्रसंस्पर्शप्रत्ययवेदयितं श्रोत्रसंस्पर्शप्रत्ययवेदयितेन शून्यं घ्राणसंस्पर्शप्रत्ययवेदयितं घ्राणसंस्पर्शप्रत्ययवेदयितेन शून्यं जिह्वासंस्पर्शप्रत्ययवेदयितं जिह्वासंस्पर्शप्रत्ययवेदयितेन शून्यं कायसंस्पर्शप्रत्ययवेदयितं कायसंस्पर्शप्रत्ययवेदयितेन शून्यं मनःसंस्पर्शप्रत्ययवेदयितं मनःसंस्पर्शप्रत्ययवेदयितेन शून्यं दानपारमिता दानपारमितया शून्या शीलपारमिता शीलपारमितया शून्या क्षान्तिपारमिता क्षान्तिपारमितया शून्या वीर्यपारमिता वीर्यपारमितया शून्या ध्यानपारमिता ध्यानपारमितया शून्या प्रज्ञापारमिता प्रज्ञापारमितया शून्या अध्यात्मशून्यता अध्यात्मशून्यतया शून्या बहिर्धाशून्यता बहिर्धाशून्यतया शून्या अध्यात्मबहिर्धाशून्यता अध्यात्मबहिर्धाशून्यतया शून्या शून्यताशून्यता शून्यताशून्यतया शून्या महाशून्यता महाशून्यतया शून्या परमार्थशून्यता परमार्थशून्यतया शून्या संस्कृतशून्यता संस्कृतशून्यतया शून्या असंस्कृतशून्यता असंस्कृतशून्यतया शून्या अत्यन्तशून्यता अत्यन्तशून्यतया शून्या अनवराग्रशून्यता अनवराग्रशून्यतया शून्या अनवकारशून्यता अनवकारशून्यतया शून्या प्रकृतिशून्यता प्रकृतिशून्यतया शून्या सर्वधर्मशून्यता सर्वधर्मशून्यतया शून्या स्वलक्षणशून्यता स्वलक्षणशून्यतया शून्या अनुपलम्भशून्यता अनुपलम्भशून्यतया शून्या अभावस्वभावशून्यता अभावस्वभावशून्यतया शून्या भावशून्यता भावशून्यतया शून्या
अभावशून्यता अभावशून्यतया शून्या स्वभावशून्यता स्वभावशून्यतया शून्या परभावशून्यता परभावशून्यतया शून्या सप्तत्रिंशद्बोधिपक्षधर्माः सप्तत्रिंशद्बोधिपक्षधर्मैः शून्याः
१९११२ दशतथागतबलानि दशतथागतैः शून्यानि अष्टादशावेणिकबुद्धधर्माः अष्टादशावेणिकबुद्धधर्मैः शून्याः बोधिसत्त्वो बोधिसत्त्वेन शून्यः। महा-
१९११३ यानसन्नाहोऽपि भगवन्महायानसन्नाहेन शून्यः। अनेन भगवन् पर्यायेण
१९११४ असन्नाहसन्नद्धो बोधिसत्त्वो वेदितव्यः। एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतद-
१९११५ वोचत् । एवमेतत्सुभूते यथा वदसि। तत्कस्य हेतोः। अकृता हि सुभूते
१९११६ सर्वाकारज्ञता अविकृता अनभिसंस्कृता। तेऽपि सत्त्वा {अकृता अविकृता अनभिसंस्कृता} येषां कृतशो
१९११७ {बोधिसत्त्वेन} महासत्त्वेन महासन्नाहः सन्नद्धः।
१९११८ सुभूतिराह् केन कारणेन भगवन् सर्वाकारज्ञता {अकृता अविकृता अनभिसंस्कृता}।
१९११९ तेऽपि सत्त्वा {अकृता अविकृता अनभिसंस्कृता} येषां कृतशो {बोधिसत्त्वेन} महासत्त्वेन महा-
१९१२० सन्नाहसन्नद्धः। भगवानाह् कारकानुपलब्धितामुपादाय सुभूते सर्वाकार-
१९१२१ ज्ञता {अकृता अविकृता अनभिसंस्कृता}। तेऽपि सत्त्वा {अकृता अविकृता अनभिसंस्कृता}। तत्कस्य हेतोः। न हि सुभूते रूपं
१९१२२ करोति न विकरोति नाभिसंस्करोति। न वेदना करोति न विकरोति नाभिसंस्करोति। न संज्ञा करोति न विकरोति नाभिसंस्करोति। न संस्काराः कुर्वन्ति न विकुर्वन्ति नाभिसंस्कुर्वन्ति। न विज्ञानं करोति न विकरोति नाभिसंस्करोति। न चक्षुः करोति न विकरोति नाभिसंस्करोति। न श्रोत्रं करोति न विकरोति नाभिसंस्करोति। न घ्राणं करोति न विकरोति नाभिसंस्करोति। न जिह्वा करोति न विकरोति नाभिसंस्करोति। न कायः करोति न विकरोति नाभिसंस्करोति। न मनः करोति न विकरोति नाभिसंस्करोति।
१९१२३ न रूपं करोति न विकरोति नाभिसंस्करोति। न शब्दः करोति न विकरोति नाभिसंस्करोति। न गन्धः करोति न विकरोति नाभिसंस्करोति। न रसः करोति न विकरोति नाभिसंस्करोति। न स्प्रष्टव्यं करोति न विकरोति नाभिसंस्करोति। न धर्मः करोति न विकरोति नाभिसंस्करोति। न चक्षुर्विज्ञानं करोति न विकरोति नाभिसंस्करोति। न श्रोत्रविज्ञानं करोति न विकरोति नाभिसंस्करोति। न घ्राणविज्ञानं करोति न विकरोति नाभिसंस्करोति। न जिह्वाविज्ञानं करोति न विकरोति नाभिसंस्करोति। न कायविज्ञानं करोति न विकरोति नाभिसंस्करोति। न मनोविज्ञानं करोति न विकरोति नाभिसंस्करोति। न चक्षुःसंस्पर्शप्रत्ययवेदयितं करोति न विकरोति नाभिसंस्करोति। न श्रोत्रसंस्पर्शप्रत्ययवेदयितं करोति न विकरोति नाभिसंस्करोति। न घ्राणसंस्पर्शप्रत्ययवेदयितं करोति न विकरोति नाभिसंस्करोति। न जिह्वासंस्पर्शप्रत्ययवेदयितं करोति न विकरोति नाभिसंस्करोति। न कायसंस्पर्शप्रत्ययवेदयितं करोति न विकरोति नाभिसंस्करोति। न मनःसंस्पर्शप्रत्ययवेदयितं करोति
१९१२४ न विकरोति नाभिसंस्करोति। तत्कस्य हेतोः। तथा ह्यत्यन्ततया सर्व एते

१९२०१ न विद्यन्ते नोपलभ्यन्त् आत्मा सुभूते न {करोति न विकरोति नाभिसंस्करोति}। एवं न सत्त्वो न जीवो
१९२०२ न पोषो न पुरुषो न पुद्गलो न मनुजो न मानवो न कारको न वेदको न जानको न पश्यकः करोति न विकरोति नाभिसंस्करोति। तत्कस्य हेतोः। तथा हि अत्यन्ततया न विद्यन्ते नोपलभ्यन्त्
१९२०३ स्वप्नः सुभूते न {करोति न विकरोति नाभिसंस्करोति}। प्रतिश्रुत्कः प्रतिभासः प्रतिबिम्बं मरीचिर्न निर्माणं
१९२०४ करोति न विकरोति नाभिसंस्करोति। तत्कस्य हेतोः। तथा हि अत्यन्ततया न विद्यन्ते नोपलभ्यन्त्
१९२०५ अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता शून्यताशून्यता महाशून्यता परमार्थशून्यता संस्कृतशून्यता असंस्कृतशून्यता अत्यन्तशून्यता अनवराग्रशून्यता अनवकारशून्यता प्रकृतिशून्यता सर्वधर्मशून्यता स्वलक्षणशून्यता अनुपलम्भशून्यता अभावस्वभावशून्यता भावशून्यता अभावशून्यता स्वभावशून्यता न परभावशून्यता करोति न विकरोति नाभिसंस्करोति। तत्कस्य हेतोः। तथा हि अत्यन्ततया न विद्यन्ते नोपलभ्यन्ते। सप्तत्रिंशद्बोधिपक्षा धर्मा दश तथागतबलानि चत्वारि वैशा-
१९२०६ रद्यानि चतस्रः प्रतिसंविदोऽष्टादशावेणिका बुद्धधर्मा। तथता आकाशधातुर्भूतकोटिरचिन्त्यधातुर्बोधिः सर्वाकार-
१९२०७ ज्ञता सुभूते न करोति न विकरोति नाभिसंस्करोति। तत्कस्य हेतोः।
१९२०८ तथा हि अत्यन्ततया न विद्यन्ते नोपलभ्यत् अनेन सुभूते पर्यायेण सर्वा-
१९२०९ कारज्ञता {अकृता अविकृता अनभिसंस्कृता}। येषां कृतशो {बोधिसत्त्वेन} महासत्त्वेन महासन्नाहसन्नद्धः। एवं
१९२१० हि सुभूते {बोधिसत्त्वो} महासत्त्वो महासन्नाहसन्नद्ध इत्युच्यत् । [इति विदर्शना-
१९२११ सम्भारः॥]
१९२१२ सुभूतिराह् यथाहं भगवतो भाषितस्यार्थमाजानामि। रूपं भगवन्न-
१९२१३ बद्धममुक्तं वेदनासंज्ञासंस्कारा विज्ञानं भगवन्न {बद्धमुक्तम्}
१९२१४ पूर्णो मैत्रायणीपुत्र आह् रूपमायुष्मन् सुभूते अबद्धममुक्तमिति वदसि।
१९२१५ वेदनायुष्मन् सुभूते अबद्धामुक्तेति वदसि। संज्ञायुष्मन् सुभूते अबद्धामुक्तेति वदसि। संस्कारा आयुष्मन् सुभूते अबद्धा अमुक्ता इति वदसि। विज्ञानमायुष्मन् सुभूते अबद्धममुक्तमिति वदसि।
१९२१६ सुभूतिराह् एवमेतदायुष्मन् पूर्ण्
१९२१७ पूर्ण आह् कतमत्तदायुष्मन् सुभूते रूपं यद्{अबद्धममुक्तम्}। कतमा सायुष्मन् सुभूते वेदना याबद्धामुक्ता। कतमा सायुष्मन् सुभूते संज्ञा याबद्धामुक्ता। कतमाः ते आयुष्मन् सुभूते संस्कारा ये अबद्धा अमुक्ताः। कतमत्तदायुष्मन् सुभूते विज्ञानं यदबद्धममुक्तम्।
१९२१९ सुभूतिराह् यदेतदायुष्मन् पूर्ण स्वप्नोपमं रूपं तद्{अबद्धममुक्तम्}। य एते
१९२२० स्वप्नोपमा वेदना साबद्धामुक्ता। य एषा स्वप्नोपमा संज्ञा साबद्धामुक्ता। ये एते स्वप्नोपमाः संस्काराः तेऽबद्धा अमुक्ताः। यदेतत्स्वप्नोपमं विज्ञानं तदबद्धममुक्तम्। एवं प्रतिश्रुत्कोपमा मायोपमा मरीच्युपमा प्रति-
१९२२१ भासोपमा यदेतदायुष्मन् पूर्ण निर्मितोपमं रूपं तद्{अबद्धममुक्तम्}। य एते निर्मितोपमा

१९३०१ वेदना साबद्धामुक्ता। य एषा निर्मितोपमा संज्ञा साबद्धामुक्ता। ये एते निर्मितोपमाः संस्काराः तेऽबद्धा अमुक्ताः। यदेतत्निर्मितोपमं विज्ञानं तदबद्धममुक्तम्। एवमनागतं प्रत्युत्पन्नमायुष्मन् पूर्ण रूपम् {अबद्धममुक्तम्}। प्रत्युत्पन्ना
१९३०२ वेदना अबद्धामुक्ता। प्रत्युत्पन्ना संज्ञाबद्धामुक्ता। प्रत्युत्पन्नाः संस्कारा अबद्धा अमुक्ताः। प्रत्युत्पन्नं विज्ञानमबद्धममुक्तम्। तत्कस्य हेतोः। असत्त्वादायुस्मन् पूर्ण रूपस्य् एवं तद्रूपम् {अबद्धममुक्तम्}।
१९३०३ असत्त्वादायुष्मन् पूर्ण वेदनायाः संज्ञायाः संस्काराणाम्। असत्त्वादायुष्मन्
१९३०४ पूर्ण विज्ञानस्यैवं तद्विज्ञानम् {अबद्धममुक्तम्}। एवं विविक्तत्वाच्छान्तत्वाच्छून्यत्वादनिमित्त-
१९३०५ त्वादप्रणिहितत्वादसंस्कृतत्वादनुत्पन्नत्वात्कुशलमकुशलं संक्लेशन्निष्क्लेशं
१९३०६ सावद्यमनवद्यं सास्रवमनास्रवं लौकिकं लोकोत्तरं संक्लिष्टं व्यवदानमायुष्मन् पूर्णं
१९३०७ रूपम् {अबद्धममुक्तम्}। तत्कस्य हेतोः। असत्त्वाद्रूपस्यैवं तद्रूपम् {अबद्धममुक्तम्}। वेदना संज्ञा
१९३०८ संस्काराः। संक्लिष्टं व्यवदानमायुष्मन् पूर्ण विज्ञानम् {अबद्धममुक्तम्}। तत्कस्य हेतोः।
१९३०९ असत्त्वाद्विज्ञानस्य एवं तद्विज्ञानम् {अबद्धममुक्तम्}। सर्वधर्मा अप्यायुष्मन् पूर्ण {अबद्धा अमुक्ताः}।
१९३१० तत्कस्य हेतोः। असत्त्वादबद्धा अमुक्ताः। एवं विविक्तत्वाद्यावदनुत्पन्नत्वाद-
१९३११ बद्धा अमुक्ता। अध्यात्मशून्याता अप्यायुष्मन् पूर्ण अबद्धा अमुक्ताः। तत्कस्य हेतोः। असत्त्वादबद्धा अमुक्ताः। एवं विविक्तत्वाद्यावदनुत्पन्नत्वादबद्धा अमुक्ता। बहिर्धाशून्याता अप्यायुष्मन् पूर्ण अबद्धा अमुक्ताः। तत्कस्य हेतोः। असत्त्वादबद्धा अमुक्ताः। एवं विविक्तत्वाद्यावदनुत्पन्नत्वादबद्धा अमुक्ता। अध्यात्मबहिर्धाशून्याता अप्यायुष्मन् पूर्ण अबद्धा अमुक्ताः। तत्कस्य हेतोः। असत्त्वादबद्धा अमुक्ताः। एवं विविक्तत्वाद्यावदनुत्पन्नत्वादबद्धा अमुक्ता। शून्यताशून्याता अप्यायुष्मन् पूर्ण अबद्धा अमुक्ताः। तत्कस्य हेतोः। असत्त्वादबद्धा अमुक्ताः। एवं विविक्तत्वाद्यावदनुत्पन्नत्वादबद्धा अमुक्ता। महाशून्याता अप्यायुष्मन् पूर्ण अबद्धा अमुक्ताः। तत्कस्य हेतोः। असत्त्वादबद्धा अमुक्ताः। एवं विविक्तत्वाद्यावदनुत्पन्नत्वादबद्धा अमुक्ता। परमार्थशून्याता अप्यायुष्मन् पूर्ण अबद्धा अमुक्ताः। तत्कस्य हेतोः। असत्त्वादबद्धा अमुक्ताः। एवं विविक्तत्वाद्यावदनुत्पन्नत्वादबद्धा अमुक्ता। संस्कृतशून्याता अप्यायुष्मन् पूर्ण अबद्धा अमुक्ताः। तत्कस्य हेतोः। असत्त्वादबद्धा अमुक्ताः। एवं विविक्तत्वाद्यावदनुत्पन्नत्वादबद्धा अमुक्ता। अत्यन्तशून्याता अप्यायुष्मन् पूर्ण अबद्धा अमुक्ताः। तत्कस्य हेतोः। असत्त्वादबद्धा अमुक्ताः। एवं विविक्तत्वाद्यावदनुत्पन्नत्वादबद्धा अमुक्ता। अनवराग्रशून्याता अप्यायुष्मन् पूर्ण अबद्धा अमुक्ताः। तत्कस्य हेतोः। असत्त्वादबद्धा अमुक्ताः। एवं विविक्तत्वाद्यावदनुत्पन्नत्वादबद्धा अमुक्ता। अनवकारशून्याता अप्यायुष्मन् पूर्ण अबद्धा अमुक्ताः। तत्कस्य हेतोः। असत्त्वादबद्धा अमुक्ताः। एवं विविक्तत्वाद्यावदनुत्पन्नत्वादबद्धा अमुक्ता। प्रकृतिशून्याता अप्यायुष्मन् पूर्ण अबद्धा अमुक्ताः। तत्कस्य
हेतोः। असत्त्वादबद्धा अमुक्ताः। एवं विविक्तत्वाद्यावदनुत्पन्नत्वादबद्धा अमुक्ता। सर्वधर्मशून्याता अप्यायुष्मन् पूर्ण अबद्धा अमुक्ताः। तत्कस्य हेतोः। असत्त्वादबद्धा अमुक्ताः। एवं विविक्तत्वाद्यावदनुत्पन्नत्वादबद्धा अमुक्ता। स्वलक्षणशून्याता अप्यायुष्मन् पूर्ण अबद्धा अमुक्ताः। तत्कस्य हेतोः। असत्त्वादबद्धा अमुक्ताः। एवं विविक्तत्वाद्यावदनुत्पन्नत्वादबद्धा अमुक्ता। अनुपलम्भशून्याता अप्यायुष्मन् पूर्ण अबद्धा अमुक्ताः। तत्कस्य हेतोः। असत्त्वादबद्धा अमुक्ताः। एवं विविक्तत्वाद्यावदनुत्पन्नत्वादबद्धा अमुक्ता। अभावस्वभावशून्याता अप्यायुष्मन् पूर्ण अबद्धा अमुक्ताः। तत्कस्य हेतोः। असत्त्वादबद्धा अमुक्ताः। एवं विविक्तत्वाद्यावदनुत्पन्नत्वादबद्धा अमुक्ता। भावशून्याता अप्यायुष्मन् पूर्ण अबद्धा अमुक्ताः। तत्कस्य हेतोः। असत्त्वादबद्धा अमुक्ताः। एवं विविक्तत्वाद्यावदनुत्पन्नत्वादबद्धा अमुक्ता। अभावशून्याता अप्यायुष्मन् पूर्ण अबद्धा अमुक्ताः। तत्कस्य हेतोः। असत्त्वादबद्धा अमुक्ताः। एवं विविक्तत्वाद्यावदनुत्पन्नत्वादबद्धा अमुक्ता। स्वभावशून्याता अप्यायुष्मन् पूर्ण अबद्धा अमुक्ताः। तत्कस्य हेतोः। असत्त्वादबद्धा अमुक्ताः। एवं विविक्तत्वाद्यावदनुत्पन्नत्वादबद्धा अमुक्ता। परभावशून्याता अप्यायुष्मन् पूर्ण अबद्धा अमुक्ताः। तत्कस्य हेतोः। असत्त्वादबद्धा अमुक्ताः। एवं विविक्तत्वाद्यावदनुत्पन्नत्वादबद्धा अमुक्ता।
१९३१२ सप्तत्रिंशद्बोप्धिपक्षा धर्मा अप्यायुष्मन् पूर्ण अबद्धा अमुक्ताः। तत्कस्य हेतोः। असत्त्वादबद्धा अमुक्ताः। एवं विविक्तत्वाद्यावदनुत्पन्नत्वादबद्धा अमुक्ता। एवं दशबलानि चत्वारि वैशारद्यानि यावदष्टादशा-
१९३१३ वेणिकबुद्धधर्माः, सर्वाकारज्ञता, तथता धर्मधातुर् भूतकोटिः। एवं ह्यायुष्मन्
१९३१४ पूर्ण {बोधिसत्त्वो} महासत्त्वोऽबद्धोऽमुक्तः। एवं षडपि पारमिता अबद्धा अमुक्ताः।
१९३१५ यावत्सर्वाकारज्ञताप्य्{अबद्धामुक्ता}। सत्त्वानपि यान् परिनिर्वापयिष्यति ते अपि
१९३१६ {अबद्धा अमुक्ताः}। बुद्धक्षेत्राण्यपि यानि परिशोधयिष्यति तान्यप्य्{अबद्धान्यमुक्तानि}। यानपि बुद्धान्
१९३१७ भगवतः पर्युपासिष्यते तेऽप्य्{अबद्धा अमुक्ताः}। यमपि धर्मं श्रोष्यति सोऽप्यबद्धोऽमुक्तः।
१९३१८ बुद्धैर्भगवद्भिर्न जातु विरहितो भविष्यति अबद्धोऽमुक्तः। नाभिज्ञाभिर्{विरहितो भविष्यत्यबद्धोऽमुक्तः}
१९३१९ न पञ्चभिश्चक्षुर्भिर्{विरहितो भविष्यत्यबद्धोऽमुक्तः}। तथा नान्यैः समाधिभिर्{विरहितो भविष्यत्यबद्धोऽमुक्तः}। अबद्धाममुक्तां मार्गा-
१९३२० कारज्ञतामुत्पादयिष्यति। अबद्धाममुक्तां सर्वाकारज्ञतामवभोत्स्यत् अबद्ध-
१९३२१ ममुक्तं धर्मचक्रं प्रवर्तयिष्यति। अबद्धानमुक्तान् सत्त्वांस्त्रिभिर्यानैः परिनिर्वा-
१९३२२ पयिष्यत्यबद्धोऽमुक्तः। एवं ह्यायुष्मन् पूर्ण {बोधिसत्त्वो} महासत्त्वः षड्भिः पारमिताभिर-
१९३२३ बद्धोऽमुक्तः सर्वधर्मानभिसंभोत्स्यते असत्त्वामुपादाय् एवं विविक्तता याव-

१९४०१ दनुत्पन्नतामुपादाय् एवं ह्यायुष्मन् पूर्ण {बोधिसत्त्वस्य} महासत्त्वस्य अबद्धोऽमुक्तो
१९४०२ महायानसन्नाहो वेदितव्यः॥ [इति युगनद्धमार्गसम्भारः।]
१९४०३ अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत् । कतमद्भगवन् {बोधिसत्त्वस्य} महा-
१९४०४ सत्त्वस्य महायानम्। कथं भगवन् {बोधिसत्त्वो} महासत्त्वो महायानसंप्रस्थितो
१९४०५ वेदितव्यः। कुतस्तद्यानं निर्यास्यति। क्व वा तद्यानं स्थास्यति। को वा
१९४०६ तेन यानेन निर्यास्यति। एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत् । यत्
१९४०७ सुभूते एवं वदसि कतमद्{बोधिसत्त्वस्य} महासत्त्वस्य महायानमिति। षट्पारमिताः
१९४०८ सुभूते {बोधिसत्त्वस्य} महासत्त्वस्य महायानम्। कतमा षट्पारमिता। दान{पारमिता}
१९४०९ शील{पारमिता} क्षान्ति{पारमिता} वीर्य{पारमिता} ध्यान{पारमिता} प्रज्ञा{पारमिता}।
१९४१० सुभूतिराह् कतमा भगवन् {बोधिसत्त्वस्य} महासत्त्वस्य दान{पारमिता}।
१९४११ भगवानाह् इह सुभूते {बोधिसत्त्वो} महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तै-
१९४१२ श्चित्तोत्पादैर्दानं ददाति यदुताध्यात्मिकबाह्यानि वस्तूनि तानि च
१९४१३ सर्वसत्त्वसाधारणानि कृत्वानुत्तरायै सम्यक्संबोधये परिणामयति।
१९४१४ परांश्च तत्र समादापयति अनुपलम्भयोगेन् इयं सुभूते {बोधिसत्त्वस्य}
१९४१५ महासत्त्वस्य दान{पारमिता}।
१९४१६ {सुभूतिराह् कतमा भगवन् बोधिसत्त्वस्य महासत्त्वस्य शीलपारमिता}।
१९४१७ {भगवानाह् इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैश्चित्तोत्पादैर्} आत्मना च दश कुशलान् कर्मपथान् समादाय वर्त्तत् परांश्च
१९४१८ दशकुशले कर्मपथे {समादापयति अनुपलम्भयोगेन् इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य} अपरामृष्टा शील{पारमिता}।
१९४१९ {सुभूतिराह् कतमा भगवन् बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिपारमिता}।
१९४२० {भगवानाह् इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैश्चित्तोत्पादैर्} आत्मना च क्षान्तिसमापन्नो भवति परांश्च क्षान्तौ {समादापयति अनुपलम्भयोगेन् इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य} क्षान्ति{पारमिता}।
१९४२२ {सुभूतिराह् कतमा भगवन् बोधिसत्त्वस्य महासत्त्वस्य वीर्यपारमिता}।

१९५०१ {भगवानाह् इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैश्चित्तोत्पादैर्} पञ्चसु पारमितासु अनिक्षिप्तधूरो विहरति परांश्च तासु पञ्चसु पार-
१९५०२ मितासु {समादापयति अनुपलम्भयोगेन् इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य} वीर्य{पारमिता}।
१९५०३ {सुभूतिराह् कतमा भगवन् बोधिसत्त्वस्य महासत्त्वस्य ध्यानपारमिता}।
१९५०४ {भगवानाह् इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैश्चित्तोत्पादैर्} आत्मना चोपायकौशल्येन ध्यानानि समापद्यत् न च तेषां
१९५०५ वशेनोपपद्यते परांश्च ध्यानेषु {समादापयति अनुपलम्भयोगेन् इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य} ध्यान{पारमिता}।
१९५०६ {सुभूतिराह् कतमा भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता}।
१९५०७ {भगवानाह् इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैश्चित्तोत्पादैर्} सर्वधर्मानभिनिविशते सर्वधर्माणां च प्रकृतिं प्रत्यवेक्षते सर्वधर्म-
१९५०८ प्रकृतिप्रत्यवेक्षायां च सत्त्वांश्च {समादापयति अनुपलम्भयोगेन् इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य} प्रज्ञा{पारमिता}। इदं
१९५०९ सुभूते {बोधिसत्त्वस्य} महासत्त्वस्य महायानम्॥ [इत्युपायकौशल्यसम्भारः॥]
१९५१० {पुनरपरं} {सुभूते} {बोधिसत्त्वस्य} महासत्त्वस्य महायानं यदुत अध्यात्मशून्यता
१९५११ बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता शून्यताशून्यता महाशून्यता परमार्थशून्यता संस्कृतशून्यता अत्यन्तशून्यता अनवराग्रशून्यता अनवकारशून्यता प्रकृतिशून्यता सर्वधर्मशून्यता स्वलक्षणशून्यता अनुपलम्भशून्यता अभावस्वभावशून्यता भावशून्यता अभावशून्यता स्वभावशून्यता परभावशून्यता।
१९५१२ तत्र कतमा अध्यात्मशून्यता। आध्यात्मिका धर्मा उच्यन्ते चक्षुः
१९५१३ श्रोत्रं घ्राणं जिह्वा कायो मनः। तत्र चक्षुश्चक्षुषा शून्यमकूटस्थाविनाशितामु-
१९५१४ पादाय् तत्कस्य हेतोः। प्रकृतिरस्यैषा। श्रोत्रं श्रोत्रेण शून्यमकूटस्था-
१९५१५ विनाशितामुपादाय् तत्कस्य हेतोः। प्रकृतिरस्यैषा।
१९५१६ घ्राणं घ्राणेन शून्यमकूटस्थाविनाशितामुपादाय् तत्कस्य हेतोः। प्रकृतिरस्यैषा। जिह्वा जिह्वया शून्यामकूटस्थाविनाशितामुपादाय् तत्कस्य हेतोः। प्रकृतिरस्या एषा। कायः कायेन शून्योऽकूटस्थाविनाशितामुपादाय् तत्कस्य हेतोः। प्रकृतिरस्यैषा। मनो मनसा शून्यमकूटस्थाविनाशितामुपादाय् तत्कस्य हेतोः। प्रकृतिरस्यैषा। इयमुच्यते अध्यात्मशून्यता।
१९५१७ तत्र कतमा बहिर्धाशून्यता। ये बहिर्धा धर्मास्तद्यथा रूपशब्दगन्धरस-
१९५१८ स्प्रष्टव्यधर्माः। तत्र रूपं रूपेण शून्यमकूटस्थाविनाशितामुपादाय् तत्कस्य
१९५१९ हेतोः। प्रकृतिरस्यैषा, शब्दः शब्देन शून्योऽकूटस्थाविनाशितामुपादाय् तत्कस्य हेतोः। प्रकृतिरस्यैषा। गन्धो गन्धेन शून्योऽकूटस्थाविनाशितामुपादाय् तत्कस्य हेतोः। प्रकृतिरस्यैषा। रसो रसेन शून्योऽकूटस्थाविनाशितामुपादाय् तत्कस्य हेतोः। प्रकृतिरस्यैषा। स्प्रष्टव्यं स्प्रष्टव्येन शून्यमकूटस्थाविनाशितामुपादाय् तत्कस्य हेतोः। प्रकृतिरस्यैषा। धर्मो धर्मेण शून्योऽकूटस्थाविनाशितामुपादाय् तत्कस्य हेतोः। प्रकृतिरस्यैषा। इय-
१९५२० मुच्यते बहिर्दाशून्यता।
१९५२१ तत्र कतमा अध्यात्मबहिर्धाशून्यता। षडाध्यात्मिकान्यायतनानि षड्-
१९५२२ बाह्यान्यायतनानि। इयमुच्यते अध्यात्मबहिर्धाशून्यता।
१९५२३ तत्र कतमा आध्यात्मिका धर्मा बहिर्धाधर्मैः शून्याश्चक्षुःश्रोत्रघ्राण-

१९६०१ जिह्वाकायामनांसि आध्यात्मिकानि रूपशब्दगन्धरसस्पर्शधर्मैः शून्यानि {अकूटस्थाविनाशितामुपादाय् तत्कस्य हेतोः। प्रकृतिरेषामेषा}।
१९६०२ तत्र कतमे बहिर्धा धर्मा आध्यात्मिकैः धर्मैः शून्याः। रूपशब्दगन्धरसस्पर्श-
१९६०३ धर्माश्चक्षुःश्रोत्रघ्राणजिह्वाकायमनोभिः शून्या {अकूटस्थाविनाशितामुपादाय् तत्कस्य हेतोः। प्रकृतिरेषामेषा}॥ इयमुच्यते अध्यात्म-
१९६०४ बहिर्धाशून्यता।
१९६०५ {तत्र कतमा} शून्यताशून्यता। या सर्वधर्माणां शून्यता तया शूयतया शून्या
१९६०६ {अकूटस्थाविनाशितामुपादाय् तत्कस्य हेतोः। प्रकृतिरस्या एषा}॥ {इयमुच्यते} शून्यताशून्यता।
१९६०७ {तत्र कतमा} महाशून्यता। पूर्वा दिक्पूर्वया दिशा शून्या एवं दक्षिणा पश्चिमा
१९६०८ उत्तरा उत्तरपूर्वा पूर्वदक्षिणा दक्षिणपश्चिमा पश्चिमोत्तरा अधस्ताद् ऊर्ध्वा दिकूर्ध्वया दिशा शून्या {अकूटस्थाविनाशितामुपादाय् तत्कस्य हेतोः। प्रकृतिरस्या एषा}॥ {इयमुच्यते} महाशून्यता।
१९६०९ {तत्र कतमा} परमार्थशून्यता। परमार्थ उच्यते निर्वाणम्। तच्च निर्वाणेन शून्यम्
१९६१० {अकूटस्थाविनाशितामुपादाय् तत्कस्य हेतोः। प्रकृतिरस्या एषा}॥ {इयमुच्यते} परमार्थशून्यता।
१९६११ {तत्र कतमा} संस्कृतशून्यता। संस्कृत उच्यते कामधातुः रूपधातुरारूप्यधातुश्च्
१९६१२ तत्र कामधातुः कामधातुना शून्यो {अकूटस्थाविनाशितामुपादाय् तत्कस्य हेतोः। प्रकृतिरस्यैषा}॥ रूपधातूः रूपधातुना शून्यः {अकूटस्थाविनाशितामुपादाय् तत्कस्य हेतोः। प्रकृतिरस्यैषा}।
१९६१३ आरूप्यधातुरारूप्यधातुना शून्यो {ऽकूटस्थाविनाशितामुपादाय् तत्कस्य हेतोः। प्रकृतिरस्यैषा}॥ {इयमुच्यते} संस्कृतशून्यता।
१९६१४ {तत्र कतमा} असंस्कृतशून्यता। असंस्कृत उच्यते यस्य नोत्पादो न निरोधो
१९६१५ न स्थितिर्नान्यथात्वम्। इदमुच्यते असंस्कृतम्। असंस्कृतमसंस्कृतेन शून्यं
१९६१६ {अकूटस्थाविनाशितामुपादाय् तत्कस्य हेतोः। प्रकृतिरस्यैषा}॥ {इयमुच्यते} असंस्कृतशून्यता।
१९६१७ {तत्र कतमा} अत्यन्तशून्यता। यस्य अन्तो नोपलभ्यते तदत्यन्तमत्यन्तेन शून्यम्
१९६१८ {अकूटस्थाविनाशितामुपादाय् तत्कस्य हेतोः। प्रकृतिरस्यैषा}॥ {इयमुच्यते} अत्यन्तशून्यता।
१९६१९ {तत्र कतमा} अनवराग्रशून्यता। यस्य नैवाग्रं नावरमुपलभ्यत् तस्य मध्या-
१९६२० भावः। यस्य च नादिर्न मध्यं नावरमुपलभ्यते तस्य नागतिर्न गतिः। आदि-
१९६२१ मध्यावसानान्यपि आदिमध्यावसानैः शून्यान्य्{अकूटस्थाविनाशितामुपादाय् तत्कस्य हेतोः। प्रकृतिरेषामेषा}॥ {इयमुच्यते} अनवराग्रशून्यता।
१९६२२ {तत्र कतमा} अनवकारशून्यता। यस्य धर्मस्य न कश्चिदवकारः। अवकारं नाम

१९७०१ अविकिरणं छोरणमुत्सर्गः। अनवकारोऽनवकारेण शून्यो {अकूटस्थाविनाशितामुपादाय् तत्कस्य हेतोः। प्रकृतिरस्यैषा}॥ {इयमुच्यते}
१९७०२ अनवकारशून्यता।
१९७०३ {तत्र कतमा} प्रकृतिशून्यता। या सर्ववर्माणां प्रकृइः संस्कृतानां वा असंस्कृतानां वा
१९७०४ न श्रावकैः कृता न प्रत्येकबुद्धैः कृता न तथागतैरर्हद्भिः सम्यक्संबुद्धैः कृता
१९७०५ नापकृता। प्रकृतिः प्रकृत्या शून्या {अकूटस्थाविनाशितामुपादाय् तत्कस्य हेतोः। प्रकृतिरस्या एषा}। {इयमुच्यते} प्रकृतिशून्यता।
१९७०६ {तत्र कतमा} सर्वधर्मशून्यता। सर्वधर्मा उच्यन्ते रूपं वेदना संज्ञा संस्कारा विज्ञानं
१९७०७ चक्षुः श्रोत्रं घ्राणं जिह्वा कायो मनो रूपं शब्दो गन्धो रसः स्प्रष्टव्यं धर्मः चक्षुःसंस्पर्शः श्रोत्रसंस्पर्शो घ्राणसंस्पर्शो जिह्वासंस्पर्शः कायसंस्पर्शो मनःसंस्पर्शः चक्षुःसंस्पर्शप्रत्ययवेदना श्रोत्रसंस्पर्शप्रत्ययवेदना घ्राणसंस्पर्शप्रत्ययवेदना जिह्वासंस्पर्शप्रत्ययवेदना कायसंस्पर्शप्रत्ययवेदना
१९७०८ मनःसंस्पर्शप्रत्ययवेदना संस्कृता धर्मा असंस्कृता धर्माः। इमे उच्यन्ते सर्वधर्माः।
१९७०९ तत्र धर्माः धर्मैः शून्या {अकूटस्थाविनाशितामुपादाय् तत्कस्य हेतोः। प्रकृतिरेषामेषा}। {इयमुच्यते} सर्वधर्मशून्यता।
१९७१० {तत्र कतमा} स्वलक्षणशून्यता। रूपणलक्षणं रूपम्। अनुभवलक्षणा वेदना। उद्-
१९७११ ग्रहणलक्षणा संज्ञा। अभिसंस्कारलक्षणाः संस्काराः। विजाननलक्षणं विज्ञानं
१९७१२ विस्तरेण कर्तव्यं यच्च संस्कृतानां धर्माणां लक्षणालक्षणं यच्चासंस्कृतानां
१९७१३ धर्माणां लक्षणालक्षणं सर्व एते धर्माः स्वलक्षणशून्या {अकूटस्थाविनाशितामुपादाय् तत्कस्य हेतोः। प्रकृतिरेषामेषा}। {इयमुच्यते}
१९७१४ स्वलक्षणशून्यता।
१९७१५ {तत्र कतमा} अनुपलम्भशून्यता। ये धर्मा अतीतानागतप्रत्युत्पन्नास्ते नोपलभ्यन्त्
१९७१६ तत्कस्य हेतोः। नातीते अनागता उपलभ्यन्त् नाप्यनागते अतीताः। न
१९७१७ प्रत्युत्पन्नेऽतीतानागता उपलभ्यन्त् नाप्यतीता अनागते याः प्रत्युत्पन्ना
१९७१८ एषामियमनुपलब्धिरादिविशुद्धित्वात्{अकूटस्थाविनाशितामुपादाय् तत्कस्य हेतोः। प्रकृतिरेषामेषा}। {इयमुच्यते} अनुपलम्भशून्यता।
१९७१९ {तत्र कतमा} अभावस्वभावशून्यता। नास्ति सांयोजिकस्य धर्मस्य स्वभावः प्रतीत्य-
१९७२० समुत्पन्नत्वात् । संयोगः संयोगेन शून्यः {अकूटस्थाविनाशितामुपादाय् तत्कस्य हेतोः। प्रकृतिरस्यैषा}। {इयमुच्यते} अभावस्वभावशून्यता।
१९७२१ {तत्र कतमा} भावशून्यता। भाव उच्यते पञ्चोपादानस्कन्धाः। स च भावो भावेन
१९७२२ शून्यो {ऽकूटस्थाविनाशितामुपादाय् तत्कस्य हेतोः। प्रकृतिरस्यैषा}। {इयमुच्यते} भावशून्यता।

१९८०१ {तत्र कतमा} अभावशून्यता। अभाव उच्यते असंस्कृतम्। तच्चासंस्कृतमसंस्कृतेन
१९८०२ शून्यम् {अकूटस्थाविनाशितामुपादाय् तत्कस्य हेतोः। प्रकृतिरस्यैषा}। {इयमुच्यते} अभावशून्यता।
१९८०३ {तत्र कतमा} स्वभावशून्यता। स्वभावो हि प्रकृतिरविपरीतता तस्या या
१९८०४ तया शून्यता {अकूटस्थाविनाशितामुपादाय् तत्कस्य हेतोः। प्रकृतिरस्या एषा}। न सा ज्ञानेन दर्शनेन च कृता। तत्कस्य हेतोः।
१९८०५ प्रकृतिरस्यैषा। {इयमुच्यते} स्वभावशून्यता।
१९८०६ {तत्र कतमा} परभावशून्यता। या उत्पादाद्वा तथागतानामनुत्पादाद्वा स्थितै-
१९८०७ वैषा धर्माणां धर्मता धर्मस्थितिता धर्मनियामता भूतकोटिस्तस्या या तया शून्यता।
१९८०८ {अकूटस्थाविनाशितामुपादाय् तत्कस्य हेतोः। प्रकृतिरस्या एषा}। न सा परेण कृता। तत्कस्य हेतोः। प्रकृतिरस्यैषा।
१९८०९ इयमुच्यते परभावशून्यता। इदमुच्यते सुभूते {बोधिसत्त्वस्य} महासत्त्वस्य महायानम्॥
१९८१० [इति ज्ञानसम्भारः॥]
१९८११ {पुनरपरं} {सुभूते} {बोधिसत्त्वस्य} महासत्त्वस्य महायानम्। यदुत शूअर्ङ्गमो नाम समाधिः।
१९८१२ रत्नमुद्रो नाम समाधिः। सुचन्द्रो नाम समाधिः। चन्द्रध्वजकेतुर्नाम समाधिः। सर्वधर्ममुद्रो नाम समाधिः। अवलोकितमूर्द्धा नाम समाधिः। धर्मधातुनियतो नाम समाधिः। नियतध्वजकेतुः नाम समाधिः। वज्रोपमो नाम समाधिः। सर्वधर्मप्रवेशमुद्रो नाम समाधिः। समाहितावस्थाप्रतिष्ठानो नाम समाधिः। राजमुद्रो नाम समाधिः। बलवीर्यो नाम समाधिः। सर्वधर्मसमुद्गतो नाम समाधिः। निरुक्तिनियतप्रवेशो नाम समाधिः। आसेचनकप्रवेशो नाम समाधिः। दिगवलोकनो नाम समाधिः। धारणीमुद्रो नाम समाधिः। असंप्रमुषितो नाम समाधिः। समवसरणो नाम समाधिः। आकाशस्फारणो नाम समाधिः। वज्रमण्डलो नाम समाधिः। ध्वजाग्रकेतुराजो नाम समाधिः। इन्द्रकेतुः नाम समाधिः। स्रोतोऽनुगतो नाम समाधिः। सिंहविजृम्भितो नाम समाधिः। व्यत्यस्तसमापत्तिः नाम समाधिः। रणंजहो नाम समाधिः। वैरोचनो नाम समाधिः। निमिषो नाम समाधिः। निकेतस्थितो नाम समाधिः। निश्चितो नाम समाधिः। विपुलप्रतिपन्नो नाम समाधिः। अनन्तप्रभो नाम समाधिः। प्रभाकरो नाम समाधिः। वरधर्ममुद्रो नाम समाधिः। समन्तावभासो नाम समाधिः। शुद्धावासो नाम समाधिः। विमलप्रभो नाम समाधिः। अरतिकरो नाम समाधिः। अजयो नाम समाधिः। तेजोवती नाम समाधिः। क्षयापगतो नाम समाधिः। अनिर्जितो नाम समाधिः। विवृतो नाम समाधिः। सूर्यप्रदीपो नाम समाधिः। चन्द्रविमलो नाम समाधिः। शुद्धप्रतिभासो नाम समाधिः। आलोककरो नाम समाधिः। काराकारो नाम समाधिः। ज्ञानकेतुः नाम समाधिः।
चित्तस्थितो नाम समाधिः। समन्तावलोको नाम समाधिः। सुप्रतिष्ठितो नाम समाधिः। रत्नकोटिः नाम समाधिः। सर्वधर्मसमता नाम समाधिः। रतिजहो नाम समाधिः। धर्मङ्गतो नाम समाधिः। विकिरणो नाम समाधिः। सर्वधर्मपदप्रभेदो नाम समाधिः। समाक्षरावतारो नाम समाधिः। अनिगरो नाम समाधिः। प्रभाकरो नाम समाधिः। नामनियतप्रवेशो नाम समाधिः। अनिकेतचारी नाम समाधिः। वितिमिरापगतो नाम समाधिः। चारित्रवती नाम समाधिः। अचलो नाम समाधिः। विषमशान्तिः नाम समाधिः। सर्वगुणसंचयो नाम समाधिः। निश्चितो नाम समाधिः। शुभपुष्पितशुद्धो नाम समाधिः। बोध्यङ्गवती नाम समाधिः। अनन्तप्रभा नाम समाधिः। आगमसमो नाम समाधिः। विमतिविकिरणो नाम समाधिः। प्रतिच्छेदकरो नाम समाधिः। आकारानभिनिवेशनिर्हारो नाम समाधिः। आकारानवकारो नाम समाधिः। निरतिशयसर्वभवतलविकिरणो नाम समाधिः। संकेतरुतप्रवेशो नाम समाधिः। घोषवती नाम समाधिः। निरक्षरविमुक्तिः नाम समाधिः। तेजोवती नाम समाधिः। ज्वलनोल्का नाम समाधिः। रक्षानुपरिशोषणो नाम समाधिः। अनाविलक्षान्तिः नाम समाधिः। सर्वाकारावतारो नाम समाधिः। सर्वसुखदुःखनिरभिनन्दी नाम समाधिः। अक्षयाकारो नाम समाधिः। धारणीमतिः नाम समाधिः। सम्यकमिथ्यात्वसंग्रहो नाम समाधिः। रोषविरोषप्रतिरोषो नाम समाधिः। विमलप्रभो नाम समाधिः। शारवती नाम समाधिः। परिपूर्णविमलचन्द्रप्रभो नाम समाधिः।
विद्युत्प्रभो नाम समाधिः। महाव्यूहो नाम समाधिः। सर्वलोकप्रभाकरो नाम समाधिः। समाधिसरता नाम समाधिः। अनयविनयनयविमुक्तो नाम समाधिः। अनुसरणसर्वसमवसरणो नाम समाधिः। अनिलनियतो नाम समाधिः। तथतास्थितनिश्चितो नाम समाधिः। कायकलिसंप्रमथनो नाम समाधिः। वाक्कलिविध्वंसनो नाम समाधिः। गगनकल्पो नाम समाधिः। आकाशासङ्गविमुक्तिनिरुप-
१९८१३ लेपो नाम समाधिः। तत्र कतमः शूरङ्गमो नाम समाधिः, येन समाधिना सर्वसमाधीनां गोचरमनुभवत्ययमुच्यते शूरङ्गमो नाम समाधिः। तत्र कतमो रत्नमुद्रो नाम समाधिः। येन समाधिना सर्वसमाधयो मुद्रिता भवत्ययमुच्यते
१९८१४ रत्नमुद्रो नाम समाधिः। तत्र कतमः सिंहविक्रीडितो नाम
१९८१५ समाधिः॥ यत्र समाधौ स्थित्वा सर्वसमाधिभिर्विक्रीडति। अयमुच्यते
१९८१६ सिंहविक्रीडितो नाम समाधिः। तत्र कतमः सुचन्द्रो नाम समाधिः। यत्र
१९८१७ समाधौ स्थित्वा सर्वसमाधीनवभासयति। अयमुच्यते सुचन्द्रो नाम समाधिः।
१९८१८ {तत्र कतमः} चन्द्रध्वजकेतुर्{नाम समाधिः}। यः सर्वसमाधीनां ध्वजं धारयति। {अयमुच्यते चन्द्रध्वजकेतुर्नाम समाधिः}। {तत्र कतमः}
१९८१९ सर्वधर्मोद्गतो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधिभिरुद्गच्छति। {अयमुच्यते सर्वधर्मोद्गतो नाम समाधिः}। {तत्र कतमः} अवलोकित-

१९९०१ मूर्धा {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधीनां मुर्धानमवलोकयति। {अयमुच्यतेऽवलोकितमूर्धा नाम समाधिः}। {तत्र कतमः} धर्मधातुनियतो
१९९०२ {नाम समाधिः}। {यत्र समाधौ स्थित्वा} धर्मधातोर्निश्चयं गच्छति। {अयमुच्यते धर्मधातुनियतो नाम समाधिः}। {तत्र कतमः} नियतध्वजकेतुर्{नाम समाधिः}।
१९९०३ {यत्र समाधौ स्थित्वा} सर्वसमाधीनां नियतध्वजं धारयति। {अयमुच्यते नियतध्वजकेतुर्नाम समाधिः}। {तत्र कतमः} वज्रोपमो {नाम समाधिः}। {यत्र समाधौ स्थित्वा}
१९९०४ सर्वसमाद्भिर्न भिद्यत् {अयमुच्यते वज्रोपमो नाम समाधिः}। {तत्र कतमः} धर्मप्रवेशमुद्रो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधीनां
१९९०५ मुद्रां प्रविशति। {अयमुच्यते धर्मप्रवेशमुद्रो नाम समाधिः}। {तत्र कतमः} समाधिराजसुप्रतिष्ठितो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} समाधीनां
१९९०६ राजसुप्रतिष्ठानेन प्रतितिष्ठति। {अयमुच्यते समाधिराजसुप्रतिष्ठितो नाम समाधिः}। {तत्र कतमः} रश्मिप्रमुक्तो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमा-
१९९०७ धीनां रश्मीनवसृजति। {अयमुच्यते रश्मिप्रमुक्तो नाम समाधिः}। {तत्र कतमः} बलव्यूहो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधीनां
१९९०८ बलव्यूहं धारयति। {अयमुच्यते बलव्यूहो नाम समाधिः}। {तत्र कतमः} समुद्गतो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} समाधयः समुदागच्छन्ति।
१९९०९ {अयमुच्यते समुद्गतो नाम समाधिः}। {तत्र कतमः} निरुक्तिनिर्देशप्रवेशो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधीनां निरुक्तिनिर्देशं प्रविशति।
१९९१० {अयमुच्यते निरुक्तिनिर्देशप्रवेशो नाम समाधिः}। {तत्र कतमः} अधिवचनसंप्रवेशो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधीनामधिवचननाम-
१९९११ धेयानि प्रविशति। {अयमुच्यते अधिवचनसंप्रवेशो नाम समाधिः}। {तत्र कतमः} दिग्विलोकितो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधीनां
१९९१२ दिशो व्यवलोक्यन्त् {अयमुच्यते दिग्विलोकितो नाम समाधिः}। {तत्र कतमः} आधारणमुद्रो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधीनां मुद्रा
१९९१३ आधारयति। {अयमुच्यते आधारणमुद्रो नाम समाधिः}। {तत्र कतमः} असम्प्रमुषितो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधयो न प्रमुष्यन्त्
१९९१४ {अयमुच्यते असम्प्रमुषितो नाम समाधिः}। {तत्र कतमः} सर्वधर्मसमवसरणसागरमुद्रो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} तस्य सर्वसमाधयः
१९९१५ संग्रहं समवसरणतामुद्गच्छन्ति। {अयमुच्यते सर्वधर्मसमवसरणसागरमुद्रो नाम समाधिः}। {तत्र कतमः} आकाशस्फारणो {नाम समाधिः}।
१९९१६ {यत्र समाधौ स्थित्वा} सर्वसमाधीनामाकाशस्फरणतया स्फरति। {अयमुच्यते आकाशस्फारणो नाम समाधिः}। {तत्र कतमः} तेजोवती
१९९१७ {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधीनां तेजसा च धिया च ज्वलयति। तेनोच्यते तेजोवती
१९९१८ नाम समाधिः। {तत्र कतमः} अप्रमाणावभासो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} अप्रमाणमवभासते {तेनोच्यते अप्रमाणावभासो नाम समाधिः}।
१९९१९ {तत्र कतमः} असङ्गानावरणो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसङ्गरहिततामुपादाय निरावरणोऽवभासते
१९९२० {तेनोच्यते असङ्गानावरणो नाम समाधिः}। {तत्र कतमः} सर्वधर्मप्रवृत्तिसमुच्छेदो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वधर्मप्रवृत्तिं समुच्छिनत्ति

२०००१ {तेनोच्यते सर्वधर्मप्रवृत्तिसमुच्छेदो नाम समाधिः}। {तत्र कतमः} रणजहो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधीनां निमित्तान्यपि जहाति
२०००२ प्रागेवान्यानि निमित्तानि क्लेशानां {तेनोच्यते रणजहो नाम समाधिः}। {तत्र कतमः} वैरोचनो {नाम समाधिः}। {यत्र समाधौ स्थित्वा}
२०००३ सर्वसमाधीनवभासयति तपति विरोचते {तेनोच्यते वैरोचनो नाम समाधिः}। {तत्र कतमः} अनिमिषो {नाम समाधिः}। {यत्र समाधौ स्थित्वा}
२०००४ न कश्चिद्धर्ममेषति {तेनोच्यतेऽनिमिषो नाम समाधिः}। {तत्र कतमः} अनिकेतस्थितो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधिषु न
२०००५ कञ्चिद्धर्ममनिकेतं समनुपश्यति {तेनोच्यतेऽनिकेतस्थितो नाम समाधिः}। {तत्र कतमः} निश्चित्तो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} निहीनां-
२०००६ श्चित्तचैतसिकान् धर्मान्न प्रवर्तयति {तेनोच्यते निश्चित्तो नाम समाधिः}। {तत्र कतमः} विमलप्रदीपो {नाम समाधिः}। {यत्र समाधौ स्थित्वा}
२०००७ सर्वसमाधीनां प्रदीपं धारयति {तेनोच्यते विमलप्रदीपो नाम समाधिः}। {तत्र कतमः} अनन्तप्रभो {नाम समाधिः}। {यत्र समाधौ स्थित्वा}
२०००८ अनन्तां प्रभां करोति {तेनोच्यतेऽनन्तप्रभो नाम समाधिः}। {तत्र कतमः} प्रभाकरो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधीनां
२०००९ प्रभां करोति {तेनोच्यते प्रभाकरो नाम समाधिः}। {तत्र कतमः} समन्तावभासो {नाम समाधिः}। यस्य समाधेः सह प्रतिलम्भेन
२००१० समाधिमुखान्यवभासन्ते {तेनोच्यते समन्तावभासो नाम समाधिः}। {तत्र कतमः} शुद्धसारो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधीनां
२००११ शुद्धसमतामनुप्राप्नोति {तेनोच्यते शुद्धसारो नाम समाधिः}। {तत्र कतमः} विमलप्रभो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधीनां
२००१२ बलमाकर्षयति सर्वसमाधीन् प्रभावयति {तेनोच्यते विमलप्रभो नाम समाधिः}। {तत्र कतमः} रतिकरो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्व-
२००१३ समाधीनां रतिमनुभवति {तेनोच्यते रतिकरो नाम समाधिः}। {तत्र कतमः} विद्युत्प्रदीपो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधीनां
२००१४ प्रदीपं करोति {तेनोच्यते विद्युत्प्रदीपो नाम समाधिः}। {तत्र कतमः} अक्षयो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} समाधीनां नैवाक्षयं न क्षयं समनु-
२००१५ पश्यति {तेनोच्यतेऽक्षयो नाम समाधिः}। {तत्र कतमः} वज्रमण्डलो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधिमण्डलानि धारयति
२००१६ {तेनोच्यते वज्रमण्डलो नाम समाधिः}। {तत्र कतमः} अक्षयापगतो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधीनां क्षयं समनुपश्यति तथा च
२००१७ पश्यति यथा अणुमपि धर्मं न समनुपश्यति {तेनोच्यते अक्षयापगतो नाम समाधिः}। {तत्र कतमः} अनिञ्ज्यो {नाम समाधिः}। {यत्र समाधौ स्थित्वा}
२००१८ सर्वसमाधीन्नेञ्जयति न मन्यते न स्पन्दते न प्रपञ्चयति {तेनोच्यतेऽनिञ्ज्यो नाम समाधिः}। {तत्र कतमः} विवृतो
२००१९ {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधीन् विवृतान् समनुपश्यति {तेनोच्यते विवृतो नाम समाधिः}। {तत्र कतमः} सूर्यप्रदीपो
२००२० {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधीनां रश्मिमुखमवभासयति {तेनोच्यते सूर्यप्रदीपो नाम समाधिः}। {तत्र कतमः} चन्द्रविमलो {नाम समाधिः}।
२००२१ {यत्र समाधौ स्थित्वा} सर्वसमाधीनामन्धकारं विधमयति {तेनोच्यते चन्द्रविमलो नाम समाधिः}। {तत्र कतमः} शुद्धप्रभासो {नाम समाधिः}। {यत्र समाधौ स्थित्वा}
२००२२ सर्वसमाधीनां चतस्रः प्रतिसंविदः प्रतिलभते {तेनोच्यते शुद्धप्रभासो नाम समाधिः}। {तत्र कतमः} आलाककरो {नाम समाधिः}।

२०१०१ {यत्र समाधौ स्थित्वा} समाधिमुखानामालोकं करोति {तेनोच्यते आलाककरो नाम समाधिः}। {तत्र कतमः} काराकारो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्व-
२०१०२ समाधीनां कारणताङ्क्रियाङ्करोति {तेनोच्यते काराकारो नाम समाधिः}। {तत्र कतमः} ज्ञानकेतुर्{नाम समाधिः}। {यत्र समाधौ स्थित्वा} समाधीनां
२०१०३ ज्ञानकेतुं समनुपश्यति {तेनोच्यते ज्ञानकेतुर्नाम समाधिः}। {तत्र कतमः} वज्रोपमो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वधर्मान्निर्विध्यते
२०१०४ समाधिमपि न समनुपश्यति {तेनोच्यते वज्रोपमो नाम समाधिः}। {तत्र कतमः} चित्तस्थितिर्{नाम समाधिः}। {यत्र समाधौ स्थित्वा} चित्तं न
२०१०५ वर्णयति न विवर्तते न प्रतिभासते न विधातमापत्स्यते न चास्यैवं भवति
२०१०६ चित्तमिति {तेनोच्यते चित्तस्थितिर्नाम समाधिः}। {तत्र कतमः} समन्तालोको {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधीनां समन्तालोकं
२०१०७ समनुपश्यति {तेनोच्यते समन्तालोको नाम समाधिः}। {तत्र कतमः} सुप्रतिष्ठितो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधिषु प्रतिष्ठितो
२०१०८ भवति {तेनोच्यते सुप्रतिष्ठितो नाम समाधिः}। {तत्र कतमः} रत्नकोटिर्{नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधयः समन्ताद्रत्नकोटिरिव
२०१०९ सन्दृश्यन्ते {तेनोच्यते रत्नकोटिर्नाम समाधिः}। {तत्र कतमः} वरधर्ममुद्रो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधयो मुद्रिता भवन्ति
२०११० आदिमुद्रामुद्रितामुपादाय {तेनोच्यते वरधर्ममुद्रो नाम समाधिः}। {तत्र कतमः} सर्वधर्मसमता {नाम समाधिः}। {यत्र समाधौ स्थित्वा} न कञ्चिद्धर्मं
२०१११ समतानिर्मुक्तं समनुपश्यति {तेनोच्यते सर्वधर्मसमता नाम समाधिः}। {तत्र कतमः} रतिजहो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधिरतिः
२०११२ सर्वधर्मरतिर्जहाति {तेनोच्यते रतिजहो नाम समाधिः}। {तत्र कतमः} सर्वधर्मोद्गतपूर्णो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वधर्मै-
२०११३ श्चोद्गच्छति सर्वधर्मैश्चापूर्यते {तेनोच्यते सर्वधर्मोद्गतपूर्णो नाम समाधिः}। {तत्र कतमः} विकिरणो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधिभिः
२०११४ सर्वधर्मान् विकिरति विधमयति {तेनोच्यते विकिरणो नाम समाधिः}। {तत्र कतमः} सर्वधर्मपदप्रभेदो {नाम समाधिः}। {यत्र समाधौ स्थित्वा}
२०११५ सर्वसमाधीनां च सर्वधर्माणां च पदानि प्रभिनत्ति {तेनोच्यते सर्वधर्मपदप्रभेदो नाम समाधिः}। {तत्र कतमः} समाक्षरो {नाम समाधिः}।
२०११६ {यत्र समाधौ स्थित्वा} सर्वसमाधीनां समाक्षरतां प्रतिलभते {तेनोच्यते समाक्षरो नाम समाधिः}। {तत्र कतमः} अक्षरापगतो {नाम समाधिः}।
२०११७ {यत्र समाधौ स्थित्वा} सर्वसमाधीनामेकाक्षरमपि नोपलभते {तेनोच्यते अक्षरापगतो नाम समाधिः}। {तत्र कतमः} आलम्बनच्छेदो {नाम समाधिः}।
२०११८ {यत्र समाधौ स्थित्वा} सर्वसमाधीनामालम्बनं च्छिद्यते {तेनोच्यते आलम्बनच्छेदो नाम समाधिः}। {तत्र कतमः} अविकारो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्व-
२०११९ धर्माणां विकारं नोपलभते {तेनोच्यतेऽविकारो नाम समाधिः}। {तत्र कतमः} अप्रकारो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वधर्माणां प्रकार-
२०१२० मपि नोपलभते {तेनोच्यतेऽप्रकारो नाम समाधिः}। {तत्र कतमः} नामनिमित्ताप्रवेशो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधीनां नाम-
२०१२१ निमित्तानि नोपलभते {तेनोच्यते नामनिमित्ताप्रवेशो नाम समाधिः}। {तत्र कतमः} अनिकेतचारी {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधीनां
२०१२२ निकेतं नोपलभते {तेनोच्यतेऽनिकेतचारी नाम समाधिः}। {तत्र कतमः} तिमिरापगतो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधितिमिअं
२०१२३ विशोधयति {तेनोच्यते तिमिरापगतो नाम समाधिः}। {तत्र कतमः} चारित्रवतो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधीनां चारित्रं समनु-
२०१२४ पश्यति {तेनोच्यते चारित्रवतो नाम समाधिः}। {तत्र कतमः} अचलो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सत्त्वानां चलितं न समनु-

२०२०१ पश्यति {तेनोच्यतेऽचलो नाम समाधिः}। कतमो विषयतीर्णो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधीनां विषयमतिक्रामति
२०२०२ {तेनोच्यते विषयतीर्णो नाम समाधिः}। {तत्र कतमः} सर्वगुणसञ्चयोपगतो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वगुणानां सर्वसमाधीनाञ्च
२०२०३ सञ्चयतामनुप्राप्नोति {तेनोच्यते सर्वगुणसञ्चयोपगतो नाम समाधिः}। {तत्र कतमः} चित्तस्थितिनिश्चितो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमा-
२०२०४ धीनां चित्तं न प्रवर्तते {तेनोच्यते चित्तस्थितिनिश्चितो नाम समाधिः}। {तत्र कतमः} शुभपुष्पितशुद्धिर्{नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधिषु
२०२०५ शुभपुष्पितशुद्धिं प्रतिलभते {तेनोच्यते शुभपुष्पितशुद्धिर्नाम समाधिः}। {तत्र कतमः} बोध्यङ्ग्वान् {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सप्तबोध्यङ्गानि
२०२०६ प्रतिलभते {तेनोच्यते बोध्यङ्ग्वान्नाम समाधिः}। {तत्र कतमः} अनन्तप्रतिभासो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} अन्तद्वयं नोपलभते {तेनोच्यते अनन्तप्रतिभासो नाम समाधिः}।
२०२०७ {तत्र कतमः} असमसमो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधीनां समसमतां न प्रतिलभते {तेनोच्यतेऽसमसमो नाम समाधिः}।
२०२०८ {तत्र कतमः} सर्वधर्मातिक्रमणो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वत्रंधातुकं समतिक्रामति {तेनोच्यते सर्वधर्मातिक्रमणो नाम समाधिः}। {तत्र कतमः}
२०२०९ परिच्छेदकरो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधीनां सर्वधर्माणां च परिच्छेदं करिष्यति
२०२१० {तेनोच्यते परिच्छेदकरो नाम समाधिः}। {तत्र कतमः} विमतिविकिरणो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधिविमतिविकिरणमनु-
२०२११ प्राप्नोति {तेनोच्यते विमतिविकिरणो नाम समाधिः}। {तत्र कतमः} निरधिष्ठानो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वधर्माणां स्थानं समनुपश्यति
२०२१२ {तेनोच्यते निरधिष्ठानो नाम समाधिः}। {तत्र कतमः} एकव्यूहो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} न कस्यचिद्धर्मस्य द्वयतां समनुपश्यति
२०२१३ {तेनोच्यते एकव्यूहो नाम समाधिः}। {तत्र कतमः} आकाराभिनिर्हारो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधीनां सर्वधर्माणां
२०२१४ चाकाराभिनिर्हारं समनुपश्यति {तेनोच्यते आकाराभिनिर्हारो नाम समाधिः}। {तत्र कतमः} एकाकारव्यूहो {नाम समाधिः}। {यत्र समाधौ स्थित्वा}
२०२१५ सर्वसमाधीनामेकाकारतां समनुपश्यति {तेनोच्यत एकाकारव्यूहो नाम समाधिः}। {तत्र कतमः} आकारानवकारो
२०२१६ नाम समाधिः। {यत्र समाधौ स्थित्वा} सर्वधर्माणामद्वयतां समनुपश्यति {तेनोच्यत आकारानवकारो नाम समाधिः}।
२०२१७ {तत्र कतमः} निर्वेधिकसर्वभावतलाधिकारो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधीनां
२०२१८ निर्वेधिकं ज्ञानमनुप्राप्नोति यस्यानुप्राप्तितो न कञ्चिन्न प्रतिविध्यते
२०२१९ {तेनोच्यते निर्वेधिकसर्वभावतलाधिकारो नाम समाधिः}। {तत्र कतमः} संकेतरुतप्रवेशो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधीनां संकेतरुतानि प्रविशति {तेनोच्यते संकेतरुतप्रवेशो नाम समाधिः}।
२०२२० {तत्र कतमः} गीर्घोषोऽक्षरविमुक्तो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधीनक्षरविमुक्तान् समनुपश्यति
२०२२१ {तेनोच्यते गीर्घोषो नाम समाधिः}। {तत्र कतमः} ज्वलनोल्का {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधींस्तेजसा च भासयति तपति
२०२२२ विरोचते {तेनोच्यते ज्वलनोल्का नाम समाधिः}। {तत्र कतमः} लक्षणपरिशोधनो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वलक्षणानि परिशोधयति
२०२२३ {तेनोच्यते लक्षणपरिशोधनो नाम समाधिः}। {तत्र कतमः} अनभिलक्षितो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधीनभिलक्षयति {तेनोच्यतेऽनभिलक्षितो नाम समाधिः}। {तत्र कतमः}
२०२२४ सर्वाकारवरोपेतो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वाकारवरोपेतो भवति {तेनोच्यते सर्वाकारवरोपेतो नाम समाधिः}। {तत्र कतमः} सर्वसुखदुःख-
२०२२५ निरभिनन्दी {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधिषु सुखदुःखानि न समनुपश्यति {तेनोच्यते सर्वसुखदुःखनिरभिनन्दी नाम समाधिः}। {तत्र कतमः}

२०३०१ अक्षयाकारो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधीनां क्षयं न समनुपश्यति {तेनोच्यतेऽक्षयाकारो नाम समाधिः}। {तत्र कतमः} धारणी-
२०३०२ प्रतिपत्तिर्{नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधीनाधारयति {तेनोच्यते धारणीप्रतिपत्तिर्नाम समाधिः}। {तत्र कतमः} सर्वसम्यक्त्वमिथ्यात्व-
२०३०३ संग्रहो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} समाधीनां सम्यक्त्वमिथ्यात्वानि न समनुपश्यति {तेनोच्यते सर्वसम्यक्त्वमिथ्यात्वसंग्रहो नाम समाधिः}। {तत्र कतमः}
२०३०४ सर्वरोधनिरोधप्रशमनो नाम समाधिः। {यत्र समाधौ स्थित्वा} सर्वसमाधीनां रोधनिरोधान्न
२०३०५ समनुपश्यति {तेनोच्यते सर्वरोधनिरोधप्रशमनो नाम समाधिः}। {तत्र कतमः} अनुसारप्रतिसारो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधीनामनुसार-
२०३०६ प्रतिसारान्न समनुपश्यति {तेनोच्यतेऽनुसारप्रतिसारो नाम समाधिः}। {तत्र कतमः} विमलप्रभो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधीनां
२०३०७ प्रभामण्डलं नोपलभ्यते {तेनोच्यते विमलप्रभो नाम समाधिः}। {तत्र कतमः} सारवती {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधीना-
२०३०८ मसारतां नोपलभ्यते {तेनोच्यते सारवती नाम समाधिः}। {तत्र कतमः} परिपूर्णचन्द्रविमलो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} तस्य सर्व-
२०३०९ समाधयः परिपूर्णा भवन्ति तद्यथापि नाम चन्द्रः पूर्णमास्यां {तेनोच्यते परिपूर्णचन्द्रविमलो नाम समाधिः}। {तत्र कतमः}
२०३१० महाव्यूहो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} तस्य सर्वसमाधयो महाव्यूहेन समन्वागता भवन्ति {तेनोच्यते महाव्यूहो नाम समाधिः}।
२०३११ {तत्र कतमः} सर्वाकारप्रभाकरो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधीनां सर्वधर्माणां च प्रभां करोति
२०३१२ {तेनोच्यते सर्वाकारप्रभाकरो नाम समाधिः}। {तत्र कतमः} समाधिसमता {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधीनां न विक्षेपं नैकाग्रतां च
२०३१३ समनुपश्यति {तेनोच्यते समाधिसमता नाम समाधिः}। {तत्र कतमः} अरणसमवसरणो नाम समाधिः। {यत्र समाधौ स्थित्वा} सर्व-
२०३१४ समाधीनामरणसरणसर्वसमवसरणतामनुप्राप्नोति {तेनोच्यतेऽरणसमवसरणो नाम समाधिः}। {तत्र कतमः} अनिलानिकेतो {नाम समाधिः}।
२०३१५ {यत्र समाधौ स्थित्वा} सर्वसमाधीनामालयं न समनुपश्यति {तेनोच्यतेऽनिलानिकेतो नाम समाधिः}। {तत्र कतमः} तथतास्थितनिश्चितो {नाम समाधिः}।
२०३१६ {यत्र समाधौ स्थित्वा} सर्वसमाधीनां तथतां न व्यतिवर्तते {तेनोच्यते तथतास्थितनिश्चितो नाम समाधिः}। {तत्र कतमः} कायकलिसंप्रमथनो {नाम समाधिः}।
२०३१७ {यत्र समाधौ स्थित्वा} सर्वसमाधिकायं नोपलभते {तेनोच्यते कायकलिसंप्रमथनो नाम समाधिः}। {तत्र कतमः} वाक्कलिविध्वंसनो {नाम समाधिः}। {यत्र समाधौ स्थित्वा}
२०३१८ सर्वसमाधीनां वाक्कर्मणोपलभते {तेनोच्यते वाक्कलिविध्वंसनो नाम समाधिः}। {तत्र कतमः} गगनकल्पो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} गगन-
२०३१९ वदवभासते {तेनोच्यते गगनकल्पो नाम समाधिः}। {तत्र कतमः} आकाशासङ्गविमुक्तिनिरुपलेपो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वधर्मा-
२०३२० णामाकाशासङ्गविमुक्तिनिरुपलेपनामनुप्राप्नोति {तेनोच्यते आकाशासङ्गविमुक्तिनिरुपलेपो नाम समाधिः}। इदं सुभूते {बोधिसत्त्वस्य} महा-
२०३२१ सत्त्वस्य प्रज्ञापारमितायाञ्चरतो महायानम्। [इति पुण्यसम्भारः।]
२०३२२ {पुनरपरं} {सुभूते} {बोधिसत्त्वस्य} महासत्त्वस्य महायानम्। यदुत चत्वारि स्मृत्युपस्थानानि।
२०३२३ कतमानि चत्वारि। काय{स्मृत्युपस्थानानं} वेदना{स्मृत्युपस्थानानं} चित्त{स्मृत्युपस्थानानं} धर्म{स्मृत्युपस्थानानं}।

२०४०१ तत्र कतमत्काय{स्मृत्युपस्थानानं}। एवं यावत्कतमद्धर्म{स्मृत्युपस्थानानं}। इह {सुभूते} {बोधिसत्त्वो}
२०४०२ महासत्त्वोऽध्यात्मकाये कायानुपाश्यी विहरति। न च कायसहगतान् वितर्कान्
२०४०३ वितर्कयति तच्चानुपलम्भयोगेन् बहिर्धाकाये कायानुपश्यी विहरति। न च कायसहगतान् वितर्कान् वितर्कयति तच्चानुपलम्भयोगेन्
२०४०४ अध्यात्मबहिर्धाकाये कायानुपश्यी विहरति। न च कायसहगतान् वितर्कान् वितर्कयति तच्चानुपलम्भयोगेन् आतापी संप्रजानन्
२०४०५ स्मृतिमान् विनीयलोकेऽभिध्यादौमनस्य् एवमध्यात्मं वेदनासु चित्ते
२०४०६ अध्यात्मं धर्मेषु धर्मानुपश्यी विहरति। न च धर्मसहगतान् वितर्कान् वितर्कयति तच्चानुपलम्भयोगेन् आतापी संप्रजानन् स्मृतिमान् विनीयलोके
२०४०७ऽभिध्यादौर्मनस्य्
२०४०८ कथञ्च {सुभूते} {बोधिसत्त्वो} महासत्त्वोऽध्यात्मं काये कायानुपश्यी विहरति। इह सुभूते
२०४०९ {बोधिसत्त्वो} महासत्त्वश्चरंश्चरामीति प्रजानाति। स्थितः स्थितोऽस्मीति {प्रजानाति}। निषण्णो
२०४१० निषण्णोऽस्मीति {प्रजानाति}। शयानः शयितोऽस्मीति {प्रजानाति}। यथा यथास्य कायः स्थितो
२०४११ भवति प्रणीतमप्रणीतं वा तथा तथैनं {प्रजानाति}। एवं हि सुभूते {बोधिसत्त्वो} महासत्त्वोऽ-
२०४१२ ध्यात्मं काये कायानुपश्यी विहरति आतापी संप्रजानन् स्मृतिमान् विनीयलोके
२०४१३ऽभिध्यादौर्मनस्य् पुनरपरं {सुभूते} {बोधिसत्त्वो} महासत्त्वोऽध्यात्मं काये कायानुपश्यी
२०४१४ विहरति। अभिक्रामन् वा प्रतिक्रामन् वा संप्रजानचारी भवति आलोकिते
२०४१५ विलोकिते समिञ्जिते प्रसारिते संघातीपटपात्रचीवरधारणे अशिते पीते खादिते
२०४१६ शयिते निद्राक्लमप्रतिविनोदने आगते गते स्थिते निषण्णे सुप्ते जागरिते भाषिते
२०४१७ तुष्णीम्भावे प्रतिसंलयने एवं संप्रजानचारी भवति। एवं हि {सुभूते} {बोधिसत्त्वो}
२०४१८ महासत्त्वः प्रज्ञापारमितायां चरनध्यात्मं काये कायानुपश्यी विहरति।
२०४१९ आतापी संप्रजानन् स्मृतिमान् विनीयलोकेऽभिध्यादौर्मनस्ये तच्चानुलम्भयोगेन् पुनरपरं {सुभूते} {बोधिसत्त्वो}
२०४२० महासत्त्वः स्मृत आश्वसन् स्मृत आश्वसामीति यथाभूतं प्रजानाति। स्मृतः
२०४२१ प्रश्वसन् स्मृतः प्रश्वसामीति {यथाभूतं प्रजानाति}। दीर्घं वा आश्वसन् दीर्घं वा आश्वसामीति
२०४२२ {यथाभूतं प्रजानाति}। दीर्घं वा प्रश्वसन् दीर्घं वा प्रश्वसामीति {यथाभूतं प्रजानाति}। ह्रस्वं वा आश्वसन् ह्रस्वं वा

२०५०१ आश्वसामीति {यथाभूतं प्रजानाति}। ह्रस्वं वा प्रश्वसन् ह्रस्वं वा प्रश्वसामीति {यथाभूतं प्रजानाति}। तद्यथापि
२०५०२ नाम {सुभूते} चक्रं भ्रामयेत्कुम्भकारः कुम्भकारान्तेवासी वा दीर्घमाविध्यन्
२०५०३ दीर्घमाविध्यामीति {यथाभूतं प्रजानाति}। ह्रस्वमाविध्यं ह्रस्वमाविध्यामीति {यथाभूतं प्रजानाति}। एवमेव {सुभूते}
२०५०४ {बोधिसत्त्वो} महासत्त्वः स्मृत आश्वसन् स्मृत आश्वसामीति यथाभूतं प्रजानाति। स्मृतः प्रश्वसन् स्मृतः प्रश्वसामीति यथाभूतं प्रजानाति। दीर्घं वा आश्वसन् दीर्घं वा आश्वसामीति यथाभूतं प्रजानाति। दीर्घं वा प्रश्वसन् दीर्घं वा प्रश्वसामीति यथाभूतं प्रजानाति। ह्रस्वं वा आश्वसन् ह्रस्वं वा आश्वसामीति यथाभूतं प्रजानाति। ह्रस्वं वा प्रश्वसन् ह्रस्वं वा प्रश्वसामीति यथाभूतं प्रजानाति।
२०५०५ एवं हि {सुभूते} {बोधिसत्त्वो} महासत्त्वः काये कायानुपश्यी विहरति आतापी संप्रजानन् स्मृतिमान् विनीयलोकेऽभिध्यादौर्मनस्ये तच्चानुलम्भयोगेन्
२०५०६ पुनरपरं {सुभूते} {बोधिसत्त्वो} महासत्त्वः इममेव कायं धातुशो यथाभूतं प्रत्यवेक्षत् अस्त्य-
२०५०७ स्मिन् काये पृथिवीधातुरब्धातुस्तेजोधातुर्वायुधातुः। तद्यथापि नाम {सुभूते}
२०५०८ गोघातको वा गोघातकान्तेवासी वा तीक्ष्णेन शस्त्रेण गां हन्यात्गां हत्वा
२०५०९ चत्वारि फलानि कुर्यात् । चत्वारि फलकानि कृत्वा प्रत्यवेक्षेत स्थितो
२०५१० वा निषण्णः। एवमेव {सुभूते} {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायाञ्चरन्निममेव कायं
२०५११ धातुशो यथाभूतं प्रत्यवेक्षत् अस्त्यस्मिन् काये पृथिवीधातुरब्धातु-
२०५१२ स्तेजोधातुर्वायुधातुः। एवं हि {सुभूते} {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन्न-
२०५१३ ध्यात्मं काये कायानुपश्यी विहरति आतापी संप्रजानन् स्मृतिमान् विनीयलोकेऽभिध्यादौर्मनस्ये
२०५१४ तच्चानुपलम्भयोगेन् पुनरपरं {सुभूते} {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन्निममेव
२०५१५ कायमूर्ध्वपादतलादधः केशमस्तकान्नखरोमत्वक्पर्यन्तं पूर्णं नानाप्रकारस्या-
२०५१६ शुचेर्यथाभूतं प्रत्यवेक्षते सन्त्यस्मिन् काये केशरोमाणि नखा दन्तास्त्वक्चर्म
२०५१७ मांसस्जायवः शोणितमस्थिमज्जाहृदयं वृक्कायकृत्क्लोमप्लीहा आममन्त्राणि
२०५१८ अन्त्रगुणा उदरं पुरीषं मूत्रमश्रुस्वेदो मेदः खेटः सिंहानकं पूयं लोहितं
२०५१९ पित्तं श्लेष्मा वसा मलो मस्तकलुङ्गमक्षिगूथकं कर्णगूथकमित्यस्मिन् काये
२०५२० यथाभूतं प्रत्यवेक्षत् तद्यथापि नाम {सुभूते} कर्मकारस्य मुतोडिः पूर्णो
२०५२१ नानाधान्यानां शालीनां व्रीहीनां तिलानां तण्डुलानां मुद्गानां माषाणां
२०५२२ यवानां गोधूमानां मसूराणां सर्षपाणामप्यन्यश्चक्षुष्मान् पुरुषो मुक्तो

२०६०१ प्रत्यवेक्षमाणः एवं जानीयादयं शालिः, अयं व्रीही, अमी तिलाः, अमी
२०६०२ तण्डुलाः, अमी मुद्गाः, अमी माषाः, अमी यवाः, अमी गोधूमाः,
२०६०३ अमी समूराः, अमी सर्षपा इति। एवमेव {सुभूते} {बोधिसत्त्वो} महासत्त्व इममेव कायमूर्ध्वं
२०६०४ पादतलादधः केशमस्तकात्नखरोमत्वक्पर्यन्तं पूर्णं नानाप्रकारस्याशुचेर्यथाभूतं प्रत्यवेक्षते सन्त्यस्मिन् काये केशरोमाणि नखा दन्तास्त्वक्चर्म मांसस्जायवः शोणितमस्थिमज्जाहृदयं वृक्कायकृत्क्लोमप्लीहा आममन्त्राणि अन्त्रगुणा उदरं पुरीषं मूत्रमश्रुस्वेदो मेदः खेटः सिंहानकं पूयं लोहितं पित्तं श्लेष्मा वसा मलो मस्तकलुङ्गमक्षिगूथकं
२०६०५ कर्णगूथकं। एवं हि {सुभूते} {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायाञ्चरनध्यात्मं काये
२०६०६ कायानुपश्यी विहरति आतापी संप्रजानन् स्मृतिमान् विनीयलोकेऽभिध्यादौर्मनस्य्
२०६०७ पुनरपरं {सुभूते} {बोधिसत्त्वो} महासत्त्वो यदा श्मशानगतः पश्यति नानारूपाणि श्मशाने
२०६०८ऽपविद्धानि शिवपथिकायामुज्झितानि एकाहमृतानि वा द्व्यहमृतानि त्र्यह-
२०६०९ मृतानि वा चतुरहमृतानि वा पञ्चाहमृतानि वा आध्मातकानि विनीलकानि वा
२०६१० विपूयकानि वा विखादितकानि वा विज्ञप्तकानि वा स इममेव कायं तत्रोपसंहरति।
२०६११ अयमपि काय एवं धर्मा एवं स्वभाव एतां धर्मतामव्यतिवृत्तः। एवं हि {सुभूते}
२०६१२ {बोधिसत्त्वो} महासत्त्वो बहिर्धाकाये कायानुपश्यी विहरति आतापी संप्रजानन् स्मृतिमान् विनीयलोकेऽभिध्या-
२०६१३ दौर्मनस्य् पुनरपरं {सुभूते} {बोधिसत्त्वो} महासत्त्वो यदा मृतशरीराणि पश्यति श्मशान
२०६१४ उत्सृष्टानि षडात्रमृतानि वा सप्तरात्रमृतानि वा तानि काकैर्वा खाद्यमानानि
२०६१५ कुररैर्वा गृध्रैर्वा शृगालैर्वा वृकैर्वा श्वभिर्वा तदन्यैर्वा नानाविधैः प्राणकजातैः
२०६१६ खाद्यमानानि स इममेव कायं तत्रोपसंहरति अयमपि काय एवं धर्मा एवं स्वभाव एतां धर्मतामव्यतिवृत्तः। एवं हि सुभूते बोधिसत्त्वो महासत्त्वो बहिर्धाकाये कायानुपश्यी विहरति आतापी संप्रजानन् स्मृतिमान् विनीयलोकेऽभिध्यादौर्मनस्ये।
२०६१७ पुनरपरं {सुभूते} {बोधिसत्त्वो} महासत्त्वो यानि तानि पश्यति मृतशरीराणि श्मशान उज्झि-
२०६१८ तानि खादितकानि अशुचीनि विपूतीनि दुर्गन्धीनि स इममेव कायं तत्रोप-
२०६१९ संहरति अयमपि काय एवं धर्मा एवं स्वभाव एतां धर्मतामव्यतिवृत्तः। एवं हि सुभूते बोधिसत्त्वो महासत्त्वो बहिर्धाकाये कायानुपश्यी विहरति आतापी संप्रजानन् स्मृतिमान् विनीयलोकेऽभिध्यादौर्मनस्ये। {पुनरपरं} {सुभूते} {बोधिसत्त्वो} महासत्त्वो यदा पश्यति
२०६२० शिवपथिकायामस्थिसंकुलां मांसशोणितम्रक्षितां स्नायुविनिबद्धान्तां दृष्ट्वा स
२०६२१ इममेव कायं तत्रोपसंहरति अयमपि काय एवं धर्मा एवं स्वभाव एतां धर्मतामव्यतिवृत्तः। एवं हि सुभूते बोधिसत्त्वो महासत्त्वो बहिर्धाकाये कायानुपश्यी विहरति आतापी संप्रजानन् स्मृतिमान् विनीयलोकेऽभिध्यादौर्मनस्ये। {पुनरपरं} {सुभूते} {बोधिसत्त्वो} महासत्त्वो
२०६२२ यानि तानि पश्यति मृतशरीराणि शिवपथिकायामस्थिसंकलामपगतमांसशोणित-

२०७०१ स्नायुवन्धनान्तां दृष्ट्वा इममेव कायं तत्रोपसंहरति अयमपि काय एवं धर्मा एवं स्वभाव एतां धर्मतामव्यतिवृत्तः। एवं हि सुभूते बोधिसत्त्वो महासत्त्वो बहिर्धाकाये कायानुपश्यी विहरति आतापी संप्रजानन् स्मृतिमान् विनीयलोकेऽभिध्यादौर्मनस्य् {पुनरपरं} {सुभूते} {बोधिसत्त्वो} महासत्त्वो
२०७०२ यदा पश्यति शिवपथिकायामस्थिसंकलां विग्रहवन्धनविप्रयुक्तां विसंयुक्तां
२०७०३ यथासंख्याः पृथिव्यां विक्षिप्ताः स इममेव कायं तत्रोपसंहरति अयमपि काय एवं धर्मा एवं स्वभाव एतां धर्मतामव्यतिवृत्तः। एवं हि सुभूते बोधिसत्त्वो महासत्त्वो बहिर्धाकाये कायानुपश्यी विहरति आतापी संप्रजानन् स्मृतिमान् विनीयलोकेऽभिध्यादौर्मनस्य् {पुनरपरं} {सुभूते} {बोधिसत्त्वो}
२०७०४ महासत्त्वो यदा पश्यति शिवपथिकायामस्त्ःीनि दिग्विदिशो विक्षिप्तानि यदुतान्येन
२०७०५ पादास्थीनि {अन्येन} जंघास्थीनि {अन्येन} उर्वस्थीनि {अन्येन} श्रोणीकटाहास्थीनि {अन्येन}
२०७०६ पृष्ठवंशास्थीनि {अन्येन} पार्श्वकास्थीनि {अन्येन} ग्रीवास्थीनि {अन्येन} वाह्वस्थीनि {अन्येन}
२०७०७ शिरःकपालास्थीनि स इममेव कायं तत्रोपसंहरति अयमपि काय एवं धर्मा एवं स्वभाव एतां धर्मतामव्यतिवृत्तः। एवं हि सुभूते बोधिसत्त्वो महासत्त्वो बहिर्धाकाये कायानुपश्यी विहरति आतापी संप्रजानन् स्मृतिमान् विनीयलोकेऽभिध्यादौर्मनस्य् {पुनरपरं} {सुभूते} {बोधिसत्त्वो}
२०७०८ महासत्त्वो यदा पश्यति शिवपथिकायामस्थीनि अनेकवार्षिकाणि अनेक-
२०७०९ वर्षशतानि वातातपपरीतानि श्वेतानि शङ्खसन्निभानि स इममेव कायं तत्रोपसंहरति अयमपि काय एवं धर्मा एवं स्वभाव एतां धर्मतामव्यतिवृत्तः। एवं हि सुभूते बोधिसत्त्वो महासत्त्वो बहिर्धाकाये कायानुपश्यी विहरति आतापी संप्रजानन् स्मृतिमान् विनीयलोकेऽभिध्यादौर्मनस्य्
२०७१० {पुनरपरं} {सुभूते} {बोधिसत्त्वो} महासत्त्वो यदा पश्यति शिवपथिकायामस्थीनि
२०७११ तिरोवार्षिकाणि नीलानि कपोतवर्णानि पूतीनि चूर्णकजातानि पृथिव्यां पांशुना
२०७१२ समसमीभूतानि स इममेव कायं तत्रोपसंहरति अयमपि काय एवं धर्मा एवं स्वभाव एतां धर्मतामव्यतिवृत्तः। एवं हि सुभूते बोधिसत्त्वो महासत्त्वो बहिर्धाकाये कायानुपश्यी विहरति आतापी संप्रजानन् स्मृतिमान् विनीयलोकेऽभिध्यादौर्मनस्य् एवं वेदनायां चित्ते धर्मे
२०७१३ धर्मानुपश्यी विहरति आतापी संप्रजानन् स्मृतिमान् विनीयलोके अभिध्या-
२०७१४ दौर्मनस्ये तच्चानुपलम्भयोगेन् इदं {सुभूते} {बोधिसत्त्वस्य} महासत्त्वस्य महायानम्।
२०७१५ {पुनरपरं} {सुभूते} {बोधिसत्त्वस्य} महासत्त्वस्य महायानम्। यदुत चत्वारि सम्यक्प्रहाणानि।
२०७१६ कतमानि चत्वारि। इह {सुभूते} {बोधिसत्त्वो} महासत्त्वोऽनुत्पन्नानां पापकानामकुशलानां
२०७१७ धर्माणामनुत्पादाय छन्दं जनयति व्यायच्छते वीर्यमारभते चित्तं प्रतिगृह्णाति
२०७१८ सम्यक्प्रणिदधाति उत्पन्नानां पापकानामकुशलानां धर्माणां प्रहाणाय छन्दं
२०७१९ {जनयति व्यायच्छते चित्तं प्रतिगृह्णाति सम्यक्प्रणिदधाति}। अनुत्पन्नानां कुशलानां धर्माणामुत्पादाय छन्दं {जनयति व्यायच्छते चित्तं प्रतिगृह्णाति सम्यक्प्रणिदधाति}। उत्पन्नानां
२०७२० कुशलानां धर्माणां स्यितये भूयो भवाय असंप्रमोषाय अपरिहाणाय छन्दं
२०७२१ {जनयति व्यायच्छते चित्तं प्रतिगृह्णाति सम्यक्प्रणिदधाति}। तच्चानुपलम्भयोगेन् इदमपि {सुभूते} {बोधिसत्त्वस्य} महासत्त्वस्य महायानम्।
२०७२२ {पुनरपरं} {सुभूते} {बोधिसत्त्वस्य} महासत्त्वस्य महायानं यदुत चत्वार ऋद्धिपादाः।
२०७२३ कतमे चत्वारः। इह {सुभूते} {बोधिसत्त्वो} महासत्त्वश्छन्दसमाधिप्रहाणं संस्कारसमन्वागत-
२०७२४ मृद्धिपादं भावयति विवेकनिश्रितं विरागनिश्रितं निरोधनिश्रितं व्यवसर्गे
२०७२५ परिगतमेवं वीर्यसमाधिश्चित्तसमाधिर्मीमांसासमाधिप्रहाणसंस्कारसमन्वागतमृद्धिपादं भावयति विवेकनिश्रितं विरागनिश्रितं निरोधनिश्रितं व्यवसर्गे

२०८०१ परिगतं तच्चानुपलम्भयोगेन् इदमपि {सुभूते} {बोधिसत्त्वस्य} महा-
२०८०२ सत्त्वस्य महायानम्।
२०८०३ {पुनरपरम्} {सुभूते} {बोधिसत्त्वस्य} महासत्त्वस्य महायानं यदुत पञ्चेन्द्रियाणि। कतमानि
२०८०४ पञ्च् श्रद्धेन्द्रियं वीर्येन्द्रियं स्मृतीन्द्रियं समाधीन्द्रियं प्रज्ञेन्द्रियम्। तच्चा-
२०८०५ नुपलम्भयोगेन् इदमपि {सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्}। पुनर्{अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं}। यदुत पञ्चबलानि। कत-
२०८०६ मानि पञ्च् श्रद्धाबलं वीर्यबलं स्मृतिबलं समाधिबलं प्रज्ञाबलं तच्चानुपलम्भ-
२०८०७ योगेन् इदमपि {सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्।}
२०८०८ पुनर्{अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं} यदुत सप्तबोध्यङ्गानि। कतमानि सप्त् स्मृति{संबोध्यङ्गं}
२०८०९ धर्मप्रविचय{संबोध्यङ्गं} वीर्य{संबोध्यङ्गं} प्रीति{संबोध्यङ्गं} प्रस्रब्धि{संबोध्यङ्गं} समाधि{संबोध्यङ्गं} उपेक्षा{संबोध्यङ्गं}। तत्र कतमत्
२०८१० स्मृति{संबोध्यङ्गं} यावदुपेक्षा{संबोध्यङ्गं}। इह {सुभूते} {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायाञ्चरन्
२०८११ स्मृति{संबोध्यङ्गं} यावदुपेक्षा{संबोध्यङ्गं} भावयति विवेकनिश्रितं विरागनिश्रितं निरोधनिश्रितं
२०८१२ व्यवसर्गपरिगतं तच्चानुपलम्भयोगेन् इदमपि {सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्।}
२०८१३ पुनर्{अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं} यदुत आर्याष्टाङ्गमार्गः। कतम आर्याष्टाङ्गो मार्गः। यदुत
२०८१४ सम्यग्दृष्टिः {सम्यक्}संकल्पः {सम्यक्}कर्मान्तः {सम्यग्}आजीवः {सम्यग्}व्यायामः {सम्यक्-}
२०८१५ स्मृतिः {सम्यक्}समाधिः। तच्चानुपलम्भयोगेन् इदमपि {सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्}।
२०८१६ पुनर्{अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं}। यदुत त्रयः समाधयः। कतमे त्रयः समाधयः शून्यता-
२०८१७ निमित्ताप्रणिहितः। तत्र कतमः शून्यतासमाधिः। स्वलक्षणेन शून्यान्
२०८१८ सर्वधर्मान् प्रत्यवेक्षमाणस्य या चित्तस्य स्थितिः शून्यताविमोक्षमुखमयमुच्यते
२०८१९ शून्यतासमाधिः। अनिमित्तान् सर्वधर्मान्
२०८२० प्रत्यवेक्षमाणस्य या चित्तस्य स्थितिः अनिमित्तविमोक्षमुखमयमुच्यते अनिमित्तसमाधिः। अप्रणिहितान् सर्वधर्मान् प्रत्यवेक्षमाणस्य या चित्तस्य
२०८२१ स्थितिः अप्रणिहितविमोक्षमुखमयमुच्यते अप्रणिहितसमाधिः। इमानि त्रीणि विमोक्षमुखानि।
२०८२२ त्रयः समाधयः। इदमपि {सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्}। एतेषु त्रिषु विमोक्षमुखेषु शिक्षितव्यम्।
२०८२३ पुनर्{अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं}। यदुत दुःखज्ञानं समुदयज्ञानं निरोधज्ञानं मार्गज्ञानं
२०८२४ क्षयज्ञानमनुत्पादज्ञानं धर्मज्ञानमन्वयज्ञानं संवृत्तिज्ञानं परिजयज्ञानं

२०९०१ यथारुतज्ञानं। तत्र कतमद्दुःखज्ञानं। यद्दुःखस्यानुत्पादज्ञानमिदं दुःख-
२०९०२ ज्ञानं। {तत्र कतमत्} समुदय{ज्ञानं}। यत्समुदयस्य प्रहाणज्ञानं। {तत्र कतमद्} निरोध{ज्ञानं}। यद्दुःख-
२०९०३ निरोधज्ञानं। {तत्र कतमद्} मार्ग{ज्ञानं}। यन्निरोधसाक्षात्करणज्ञानं। {तत्र कतमत्} क्षय{ज्ञानं}। यद्रागदोष-
२०९०४ मोहक्षयज्ञानं। {तत्र कतमद्} अनुत्प्द{ज्ञानं}। यदनुत्पादे अनुत्पादज्ञानं। {तत्र कतमद्} धर्म{ज्ञानं}। यत्
२०९०५ पञ्चानां स्कन्धानां धर्मोपच्छेदज्ञानं। {तत्र कतमद्} अन्वय{ज्ञानं}। चक्षुरनित्यं श्रोत्रं घ्राणं
२०९०६ जिह्वा कायो मनोऽनित्यं। एवं यावद्व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्य-
२०९०७ समुत्पादेषु च ज्ञानं। {तत्र कतमत्} संवृत्ति{ज्ञानं}। यत्परसत्त्वानां परपुद्गलानां चेतसैव
२०९०८ चेतसो ज्ञानं। {तत्र कतमत्} परिजय{ज्ञानं}। यत्प्रतिपत्परिजयज्ञानं। {तत्र कतमद्} यथारुत{ज्ञानं}। यत्तत्
२०९०९ तथागतस्य सर्वाकारज्ञताज्ञानं तच्चानुपलम्भयोगेन् इदमपि {सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्}
२०९१० पुनर्{अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं}। यदिदं त्रीणीन्द्रियानि। कतमानि त्रीणि। अनाज्ञातमा-
२०९११ ज्ञास्यामीन्द्रियमाज्ञेन्द्रियमाज्ञातावीन्द्रियं। {तत्र कतमत्} अनाज्ञातमाज्ञास्यामी-
२०९१२ न्द्रियं। यच्छैक्षाणां पुद्गलानामनभिसमितानामनवभासं यदविनयं
२०९१३ श्रद्धेन्द्रियं वीर्येन्द्रियं स्मृतीन्द्रियं समाधीन्द्रियं प्रज्ञेन्द्रियमिदमुच्यते अना-
२०९१४ ज्ञातमाज्ञास्यामीन्द्रियं। {तत्र कतमद्} आज्ञेन्द्रियं। यच्छैक्षाणां पुद्गलानामाज्ञातवतां
२०९१५ श्रद्धेन्द्रियं वीर्येन्द्रियं स्मृतीन्द्रियं समाधीन्द्रियं प्रज्ञेन्द्रियमिदमुच्यते आज्ञेन्द्रियं। {तत्र कतमद्} आज्ञातावीन्द्रियं
२०९१६ यदुताशैक्षाणां पुद्गलानामर्हतां प्रत्येकबुद्धानां बोधिसत्त्वानां तथागतानामर्हतां
२०९१७ सम्यक्संबुद्धानां श्रद्धेन्द्रियं वीर्येन्द्रियं स्मृतीन्द्रियं समाधीन्द्रियं प्रज्ञेन्द्रियमिदमुच्यते आज्ञातावीन्द्रियं।
२०९१८ इदमपि {सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्} अनुपलम्भयोगेन्
२०९१९ पुनर्{अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं}। यदुत सवितर्कः सविचारः समाधिरवितर्कोऽविचारमात्रः
२०९२० समाधिः। {तत्र कतमः} सवित्र्कः सविचारः समाधिः। इह {सुभूते} {बोधिसत्त्वो} महासत्त्वो विविक्तं
२०९२१ कामैर्विविक्तं पापकैरकुशलैर्धर्मैः सवितर्कसविचारं विवेकजं प्रीतिसुखं प्रथमं
२०९२२ ध्यानमुपसम्पद्य विहरति। अयमुच्यते सवितर्कः सविचारः समाधिः। {तत्र}

२१००१ कतमोऽवितर्कोऽविचारमात्रः समाधिः। यः प्रथमस्य ध्यानस्य द्वितीयस्य ध्यान-
२१००२ स्यान्तरिकोऽयमुच्यते अवितर्कोऽविचारमात्रः समाधिः। तत्र कतमोऽवितर्को
२१००३ऽविचारः समाधिर्यद्द्वितीयं ध्यानं विस्तरेण कर्तव्यं यावन्नैव संज्ञानासं-
२१००४ ज्ञायतनसमापत्तिरयमुच्यतेऽवितर्कोऽविचारः समाधिः। इदमपि {सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्} अनु-
२१००५ पलम्भयोगेन्
२१००६ पुनर्{अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं}। यदुत दशानुस्मृतयः। कतमा दश् यदुत बुद्धानुस्मृतिर्धर्मानु{स्मृतिर्}
२१००७ अंघानु{स्मृतिः} शीलानु{स्मृतिः} त्यागानु{स्मृतिर्} देवतानु{स्मृतिर्} ऊर्ध्वगानु{स्मृतिर्} मरणानु{स्मृतिः} कायानु{स्मृतिर्}
२१००८ आनापानानु{स्मृतिः}। इदमपि {सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्} अनुपलम्भयोगेन्
२१००९ पुनर्{अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं} यदुत चत्वारि ध्यानानि चत्वार्यप्रमाणानि चतस्र आरूप्य-
२१०१० समापत्तयोऽष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः। इदमपि {सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्}
२१०११ पुनर्{अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं}। दश तथागतबलानि। कतमानि दश् यदुत इह {बोधिसत्त्वो}
२१०१२ महासत्त्वः स्थानञ्च स्थानतोऽस्थानञ्चास्थानतो यथाभूतं प्रजानाति।
२१०१३ अतीतानागतप्रत्युत्पन्नानां च कर्मणां कर्मसमादानानां च स्थानतो हेतुतो
२१०१४ विपाकञ्च यथा{भूतं प्रजानाति}। नानाधातुकं यथा{भूतं प्रजानाति}। परसत्त्वानां परपुद्गलानां नानाधि-
२१०१५ मुक्तिकतां यथा{भूतं प्रजानाति}। परसत्त्वानां परपुद्गलानामिन्द्रियपरापरज्ञानतां यथा{भूतं प्रजानाति}।
२१०१६ सर्वत्रगामिनीं प्रतिपदं यथा{भूतं प्रजानाति}। परसत्त्वानां परपुद्गलानां ध्यानविमोक्ष-
२१०१७ समाधिसमापत्तिसंक्लेशव्यवदानव्युत्थानं यथा{भूतं प्रजानाति}। सोऽनेकविधं पूर्वनिवास-
२१०१८ मनुस्मरति। स च दिव्येन चक्षुषा सत्त्वानां च्युतोपपादं यथा{भूतं प्रजानाति}। स आस्र-
२१०१९ वाणां क्षयादनास्रवां चेतोविमुक्तिं प्रज्ञाविमुक्तिं दृष्ट एव धर्मे स्वयमभिज्ञाय
२१०२० साक्षात्कृत्वा उपसम्पद्य विहरति क्षीना मे जातिरुषितं ब्रह्मचर्यं कृतं
२१०२१ करणीयं नापरमिथ्यात्वमिति यथा{भूतं प्रजानाति}। इदमपि {सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्} अनुपलम्भ-
२१०२२ योगेन्

२११०१ पुनर्{अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं}। यदुत चत्वारि वैशारद्यानि। कतमानि चत्वारि। यदुत सम्यक्-
२११०२ संबुद्धस्य वत मे प्रतिजानतः इमे धर्मा अभिसंबुद्धा इति अत्र च मे कश्चिच्छ्रमणो
२११०३ वा देवो वा मारो वा ब्रह्मा वा कश्चिद्वा पुनर्लोके सह धर्मेण चोदयेदिति निमित्त-
२११०४ मेतन्न समनुपश्यामि। इदमत्र निमित्तमसमनुपश्यन् क्षेमप्राप्तोऽभयप्राप्तो
२११०५ विहरामि आर्षभं स्थानं प्रजानामि पर्षदि सम्यक्सिंहनादं नदामि ब्राह्मं
२११०६ चक्रं प्रवर्तयामि अप्रवर्तितं श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा ब्रह्मणा
२११०७ वा केनचिद्वा पुनर्लोके सह धर्मेणेति। क्षीणाश्रवस्य वत मे प्रतिजानतः इमे
२११०८ आस्रवा अपरिक्षीणा इति नैतत्स्थानं विद्यत् अत्र च मे कश्चिच्छ्रमणो
२११०९ वा ब्राह्मणो वा पेयालं यावद्ब्राह्मं चक्रं प्रवर्तयामि अप्रवर्तितं श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा ब्रह्मणा वा केनचिद्वा पुनर्लोके सह धर्मेणेति।
२१११० ये खलु पुनरिमे मया आन्तरायिका धर्मा आख्यातास्तान् प्रतिषेवमाणस्य
२११११ नालमन्तरायायेति नैतत्स्थानं विद्यत् अत्र मे {कश्चिच्छ्रमणो वा ब्राह्मणो वा पेयालं यावत्केनचिद्वा पुनर्लोके सह धर्मेणेति}। या मया प्रतिपदा-
२१११२ ख्याता आर्या नैर्याणिकी निर्याति तत्करस्य सम्यग्दुःखक्षयाय तां प्रतिपद्य-
२१११३ मानो न निर्यायात्सम्यग्दुःखक्षयायेति नैतत्स्थानं विद्यत् अत्र
२१११४ च मे {कश्चिच्छ्रमणो वा ब्राह्मणो वा पेयालं यावत्केनचिद्वा पुनर्लोके सह धर्मेणेति।} इमानि चत्वारि वैशारद्यानि। इदमपि {सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्} अनुपलम्भ-
२१११५ योगेन्
२१११६ पुनर्{अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं}। यदुत चतस्रः प्रतिसंविदः। कतमाश्चतस्रः। धर्म{प्रतिसंविद्}
२१११७ अर्थ{प्रतिसंविद्} निरुक्ति{प्रतिसंवित्} प्रतिभान{प्रतिसंवित्}। इदमपि {सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्} अनुपलम्भयोगेन्
२१११८ पुनर्{अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं}। यदुताष्टादशावेणिका बुद्धधर्माः। कतमे अष्टादश् यदुत
२१११९ याञ्च रात्रिं सुभूते तथागतोऽर्हन् सम्यक्संबोधिमभिसंबुद्धः याञ्च रात्रिमुपादाय
२११२० परिनिर्वास्यति एतस्मिन्नन्तरे सुभूते नास्ति तथागतस्य स्खलितं नास्ति २११२१ चवितं नास्ति मुषितस्मृतिता नास्ति नानात्वसंज्ञा नास्त्यसमाहितं चित्तं नास्त्य-

२१२०१ प्रतिसंख्या चोपेक्षा नास्ति छन्दपरिहाणिर्नास्ति वीर्य{परिहाणिर्} नास्ति स्मृति{परिहाणिर्}
२१२०२ नास्ति समाधि{परिहाणिर्} नास्ति प्रज्ञा{परिहाणिर्} नास्ति विमुक्ति{परिहाणिः}। सर्वकायकर्मज्ञानपूर्वङ्गम-
२१२०३ ज्ञानानुपरिवर्त्ति। सर्ववाक्कर्मज्ञानपूर्वङ्गमज्ञानानुपरिवर्त्ति। सर्वमनस्कर्म-
२१२०४ ज्ञानपूर्वङ्गमज्ञानानुपरिवर्त्ति। अतीतेऽध्वन्यप्रतिहतमसङ्गज्ञानन् दर्शनञ्च् अनागते
२१२०५ऽध्वन्य्अप्रतिहतमसङ्गज्ञानन् दर्शनञ्च। प्रत्युत्पन्नेऽध्वन्य्अप्रतिहतमसङ्गज्ञानन् दर्शनञ्च
२१२०६ प्रवर्त्तत् इमे अष्टादशावेणिका बुद्धधर्माः। इदं पि {सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्} अनु-
२१२०७ पलम्भयोगेन् [इति मार्गसम्भारः॥]
२१२०८ पुनर्{अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं}। यदुत धारणीमुखानि। यदुताक्षरनयसमताक्षरमुखमक्षर-
२१२०९ प्रवेशः। कतमोऽक्षरनयसमता अक्षरमुखमक्षरप्रवेशः। अकारो मुखः सर्वधर्मा-
२१२१० णामाद्यनुत्पन्नत्वात् । रेफो मुखः {सर्वधर्माणां} रजोऽपगतत्वात् । पकारो मुखः
२१२११ {सर्वधर्माणां} परमार्थनिर्देशात् । चकारो मुखः {सर्वधर्माणां} च्यवनोपपत्त्यनुपलब्धित्वात् ।
२१२१२ न{कारो मुखः} {सर्वधर्माणां} नामापगतत्वात् । ल{कारो मुखः} {सर्वधर्माणां} लोकोत्तीर्णत्वात्तृष्णा-
२१२१३ लताहेतुप्रत्ययसमुद्घातित्वात्च् द{कारो मुखः} {सर्वधर्माणां} दान्तदमथपरिच्छिन्नत्वात् ।
२१२१४ ब{कारो मुखः} {सर्वधर्माणां} बन्धनविमुक्तत्वात् । ड{कारो मुखः} {सर्वधर्माणां} डमरापगतत्वात् । स{कारो मुखः} {सर्वधर्माणां}
२१२१५ सङ्गानुपलब्धित्वात् । व{कारो मुखः} {सर्वधर्माणां} वाक्पथघोषसमुच्छिन्नत्वात् । त{कारो मुखः} {सर्वधर्माणां}
२१२१६ तथताऽचलितत्वात् । य{कारो मुखः} {सर्वधर्माणां} यथावदनुत्पादत्वात् । स्त{कारो मुखः} {सर्वधर्माणां}
२१२१७ स्तम्भानुपलब्धित्वात् । क{कारो मुखः} {सर्वधर्माणां} कारकानुपलब्धित्वात् । स{कारो मुखः} {सर्वधर्माणां}
२१२१८ समतानुपलब्धित्वात् । म{कारो मुखः} {सर्वधर्माणां} ममकारानुपलब्धित्वात् । ग{कारो मुखः} {सर्वधर्माणां}
२१२१९ गगनानुपलब्धितः। स्थ{कारो मुखः} {सर्वधर्माणां} स्थानानु{पलब्धितः}। ज{कारो मुखः} {सर्वधर्माणां} जात्यनु{पलब्धितः}। श्व{कारो मुखः}
२१२२० {सर्वधर्माणां} श्वासानु{पलब्धितः}। ध{कारो मुखः} {सर्वधर्माणां} धर्मधात्वनु{पलब्धितः}। श{कारो मुखः} {सर्वधर्माणां} शमथानु{पलब्धितः}। ख{कारो मुखः}
२१२२१ {सर्वधर्माणां} खसमतानु{पलब्धितः}। क्ष{कारो मुखः} {सर्वधर्माणां} क्षयानु{पलब्धितः}। त{कारमुखाः} {सर्वधर्माः} तच्चानुपलब्धितः।

२१३०१ ज्ञ{कारमुखाः} {सर्वधर्माः} सर्वज्ञानानु{पलब्धितः}। ह{कारमुखाः} {सर्वधर्माः} हेतोरनु{पलब्धितः}। च्छ{कारमुखाः} {सर्वधर्माः} छवेरप्यनु{पलब्धितः}।
२१३०२ स्म{कारमुखाः} {सर्वधर्माः} स्मरणानु{पलब्धितः}। द्ध{कारमुखाः} {सर्वधर्मा} आद्धानापगतत्वात् । स{कारमुखाः} सर्वधर्मा
२१३०३ उत्साहानु{पलब्धितः}। घ{कारमुखाः} {सर्वधर्माः} घनानु{पलब्धितः}। ठ{कारमुखाः} {सर्वधर्माः} विठपनानु{पलब्धितः}। ण{कारमुखाः} {सर्वधर्माः} रण-
२१३०४ विगतत्वात् । फ{कारमुखाः} {सर्वधर्माः} फलानु{पलब्धितः}। स्क{कारमुखाः} {सर्वधर्माः} स्कन्धानु{पलब्धितः}। ज{कारमुखाः} {सर्वधर्माः}
२१३०५ जरानु{पलब्धितः}। च{कारमुखाः} {सर्वधर्माः} चरणानु{पलब्धितः}। ट{कारमुखाः} {सर्वधर्माः} ठंकारानु{पलब्धितः}। ढ{कारो मुखः} {सर्वधर्माः}
२१३०६ डंकारानु{पलब्धितः}।
२१३०७ नास्ति अत उत्तरि अक्षयव्यवहारः। तत्कस्य हेतोः। तथा हि
२१३०८ न कस्यचिन्नामास्ति येन संव्यवह्रियेत येन वाभिलप्येत येन निर्दिश्येत येन
२१३०९ लक्ष्येत येन पश्येत् । तद्यथापि नाम सुभूते आकाशम्। एवमेव सर्वधर्मा
२१३१० अनुगन्तव्याः। अयं {सुभूते} धारणीप्रवेशोऽकाराद्यक्षरनिर्देशप्रवेशः। यः कश्चित्
२१३११ {सुभूते} {बोधिसत्त्वो} महासत्त्वः इदमकाराद्यक्षरकौशल्यप्रवेशं ज्ञास्यति न स क्वचिद्रुते प्रति-
२१३१२ हन्यत् सर्वं तं धर्मतया समाधयिष्यति रुतज्ञानकौशल्यञ्च प्रतिलप्स्यत्
२१३१३ यो हि कश्चित्{सुभूते} {बोधिसत्त्वो} महासत्त्व इमामकाराद्यक्षरमुद्रां श्रोष्यति श्रुत्वा चोद्-
२१३१४ ग्रहीष्यति धारयिष्यति वाचयिष्यति परेषां देशयिष्यति रमयति तया सन्तत्या
२१३१५ तस्य विंशतिरनुशंसाः प्रतिकांक्षितव्याः। कतमा विंशतिः। स्मृतिमांश्च
२१३१६ भविष्यति। मतिमांश्च {भविष्यति}। गतिमांश्च {भविष्यति}। धृतिमांश्च {भविष्यति}। ह्रीमांश्च
२१३१७ प्रज्ञावांश्च प्रतिभानवांश्च सत्यकुशलश्च {भविष्यति}। इदं धारणीमुखमल्पकृच्छ्रेण प्रतिल-
२१३१८ प्स्यते न च कथंकथी {भविष्यति}। विमतिश्चास्य न {भविष्यति}। न च श्लक्ष्णां वाचं श्रुत्वा
२१३१९ परेष्वनुनीतो {भविष्यति}। न च परुषया वाचा प्रतिहन्यत् न चोन्नतो {भविष्यति} नावनतः।
२१३२० यथास्थित एव {भविष्यति} रुतकुशलश्च भविष्यति। स्कन्ध{कुशलश्च भविष्यति} धातु{कुशलश्च भविष्यति}। आयतन{कुशलश्च भविष्यति}
२१३२१ सत्य{कुशलश्च भविष्यति} प्रतीत्यसमुत्पाद{कुशलश्च भविष्यति}। हेतु{कुशलश्च भविष्यति} प्रत्यय{कुशलश्च भविष्यति}। धर्म{कुशलश्च भविष्यति}। इन्द्रियपरिपूर्ण-

२१४०१ ज्ञान{कुशलश्च भविष्यति}। परचित्तज्ञान{कुशलश्च भविष्यति} ऋद्धिविधिज्ञान{कुशलश्च भविष्यति}। दिव्यश्रोत्रज्ञान{कुशलश्च भविष्यति}। पूर्व-
२१४०२ निवासानुस्मृतिज्ञान{कुशलश्च भविष्यति}। च्युतोपपत्तिज्ञान{कुशलश्च भविष्यति}। आस्रवक्षयज्ञान{कुशलश्च भविष्यति}। स्थाना-
२१४०३ स्थाननिर्देश{कुशलश्च भविष्यति}। अतिक्रमण{कुशलश्च भविष्यति} इर्यापथ{कुशलश्च भविष्यति}। इमाननुशंसान् प्रतिलप्स्यते
२१४०४ इति। इदमपि सुभूते धारणीमुखमक्षरमुकमकारमुखं {बोधिसत्त्वस्य} महासत्त्वस्य
२१४०५ महायानम्। [इति धारणीसम्भारः॥]
२१४०६ यदपि तत्सुभूतिरेवमाह् कथं {बोधिसत्त्वो} महासत्त्वो महायानसम्प्रस्थितो
२१४०७ भवतीति। इह सुभूते {बोधिसत्त्वो} महासत्त्वः षट्सु पारमितासु चरन् भूमेर्भूमिं
२१४०८ संक्रामति। कथं च सुभूते {बोधिसत्त्वो} महासत्त्वो भूमेर्भूमिं संक्रामति यदुता-
२१४०९ संक्रान्त्या सर्वधर्माणाम्। तत्कस्य हेतोः। न हि स कश्चिद्धर्मो य आगच्छति
२१४१० वा गच्छति वा संक्रामति वा उपसंक्रामति वा। अपि तु या धर्माणां भूमि-
२१४११ स्तान्न मन्यते न चिन्तयति भूमिपरिकर्म च करोति न च भूमिं समनुपश्यति।
२१४१२ कतमच्च {बोधिसत्त्वस्य} महासत्त्वस्य भूमिपरिकर्म् प्रथमायां भूमौ वर्तमानेन
२१४१३ {बोधिसत्त्वेन} महासत्त्वेन दशभूमिपरिकर्माणि करणीयानि। कतमानि दश् अध्या-
२१४१४ शयपरिकर्म अनुपलम्भयोगेन् हितवस्तुता{परिकर्म} निमित्ततानुपलम्भतामुपादाय्
२१४१५ सर्वसत्त्वसमचित्तता{परिकर्म} सत्त्वानुपलब्धितामुपादाय् त्याग{परिकर्म} दायकदेय-
२१४१६ परिग्राहकानु{पलब्धितामुपादाय}। कल्याणमित्रसेवा{परिकर्म} तैरसंस्तापनतामुपादाय् सद्धर्म-
२१४१७ पर्येष्टि{परिकर्म} सर्वधर्मानु{पलब्धितामुपादाय}। अभीक्ष्णं नैष्क्रम्य{परिकर्म} गृहानु{पलब्धितामुपादाय}। बुद्धकायस्पृहा{परिकर्म}
२१४१८ लक्षणानुव्यञ्जननिमित्तानु{पलब्धितामुपादाय}। धर्मविवरण{परिकर्म} धर्मभेदानु{पलब्धितामुपादाय}। सत्यवचन{परिकर्म}
२१४१९ वचनानु{पलब्धितामुपादाय}। इमानि {सुभूते} {बोधिसत्त्वानां} महासत्त्वानां प्रथमाया भूमेर्दश परिकर्माणि यानि
२१४२० प्रथमायां भूमौ वर्तमानेन {बोधिसत्त्वेन} महासत्त्वेन दश परिकर्माणि करणीयानि।

२१५०१ {पुनरपरं} {सुभूते} {बोधिसत्त्वो} महासत्त्वो द्वितीयायां भूमौ वर्तमानोऽष्टौ धर्मान्मनसि-
२१५०२ करोति तेषु च प्रतिपद्यत् कतमानष्टौ। यदुत शीलविशुद्धिं कृतज्ञतां कृत-
२१५०३ वेदितां क्षान्तिबलप्रतिष्ठानं प्रामोद्यप्रत्यनुभवतां सर्वसत्त्वापरित्यागितया
२१५०४ महाकरुणाया आमुखीकर्म् गुरूणां श्रद्धया गौरवं शास्तृसंज्ञाया गुरुशुश्रूषां
२१५०५ पारमितास्तद्योगपर्येष्टिम्। इमान् सुभूते बोधिसत्त्वेन महासत्त्वेन द्वितीयायां
२१५०६ भूमौ वर्तमानेनाष्टौ धर्मान्मनसिकृत्वा प्रतिपत्तव्यम्।
२१५०७ {पुनरपरं} {सुभूते} {बोधिसत्त्वेन} महासत्त्वेन तृतीयायां भूमौ वर्तमानेन पञ्चसु धर्मेषु
२१५०८ स्थातव्यम्। कतमेषु पञ्चसु। यदुत बाहुश्रुत्येऽतृप्ततायां तत्र चाक्षरानभि-
२१५०९ निवेशे निरामिषधर्मदानविवरणतायां तया चामन्यनतया बुद्धक्षेत्रपरिशोधन-
२१५१० कुशलमूलपरिणामनतायां तया चामन्यनतया अमितसंसारापरिखेदनतायां तया
२१५११ चामन्यनतया ह्रीरपत्राप्यव्यवस्थाने तेन चामन्यनतया एषु {सुभूते} {बोधिसत्त्वेन}
२१५१२ महासत्वेन पञ्चसु धर्मेषु तृतीयायां भूमौ वर्तमानेन स्थातव्यम्।
२१५१३ {पुनरपरं} {सुभूते} {बोधिसत्त्वेन} महासत्त्वेन चतुर्थ्यां भूमौ वर्तमानेन दशसु धर्मेषु
२१५१४ स्थातव्यम्। ते च न परित्यक्तव्याः। कतमेषु दशसु। यदुत अरण्यवासो
२१५१५ऽल्पेच्छता सन्तुष्ठिर्धूतगुणसंलेखानुत्सर्जनं शिक्षाया अपरित्यागः कामगुण-
२१५१६ विजुगुप्सनं निर्वित्सहगतश्चित्तोत्पादः सर्वास्तिपरित्यागिता अनवलीनचित्तता
२१५१७ सर्ववस्तुनिरपेक्षता। इमे {सुभूते} दश धर्मा {बोधिसत्त्वेन} महासत्त्वेन चतुर्थ्यां भूमौ वर्तमानेन
२१५१८ न परित्यक्तव्या। एषु च स्थातव्यम्।
२१५१९ {पुनरपरं} {सुभूते} {बोधिसत्त्वेन} महासत्त्वेन पञ्चम्यां भूमौ वर्तमानेन दश धर्मा परिवर्ज-
२१५२० यितव्याः। कतमे दश् यदुत गृहिप्रब्रजितसंस्तवः परिवर्जयितव्यः। कुलमात्-
२१५२१ सर्यं {परिवर्जयितव्यम्}। संगणिकास्थानं {परिवर्जयितव्यम्}। आत्मोत्कर्षणं {परिवर्जयितव्यम्}। परपंसनं {परिवर्जयितव्यम्}। दशा-
२१५२२ कुशलाः कर्मपथाः {परिवर्जयितव्याः}। अधिमानस्तम्भौ {परिवर्जयितव्यौ}। विपर्यासाः {परिवर्जयितव्याः}। विविकित्सा
२१५२३ {परिवर्जयितव्या}। रागद्वेषमोहाधिवासनाः {परिवर्जयितव्याः}। इमे {सुभूते} दश धर्मा {बोधिसत्त्वेन} महासत्त्वेन
२१५२४ पञ्चम्यां भूमौ वर्तमानेन {परिवर्जयितव्याः}।

२१६०१ {पुनरपरं} {सुभूते} {बोधिसत्त्वेन} महासत्त्वेन षष्ट्यां भूमौ वर्तमानेन षड्धर्मा परिपूरयितव्याः।
२१६०२ कतमे षट् । यदुत षट्पारमिताः परिपूरयितव्याः। अपरे षड्धर्माः परिवर्ज-
२१६०३ यितव्याः। कतमे षट् । श्रावकचित्तं {पर्वर्जयितव्यं}। प्रत्येकबुद्धचित्तं {पर्वर्जयितव्यं}। परितसनाचित्तं
२१६०४ {पर्वर्जयितव्यं}। याचनकं दृष्ट्वा नावलीयत् सर्ववस्तूनि च त्याज्यानि न च दौर्मनस्य-
२१६०५ चित्तमुत्पादयितव्यं न च याचनकविक्षेपः कर्तव्यः। इमे {सुभूते} षड्धर्मा {बोधिसत्त्वेन}
२१६०६ महासत्त्वेन षष्ट्यां भूमौ वर्तमानेन परिपूरयितव्याः। अपरे षड्धर्माः
२१६०७ परिवर्जयितव्याः।
२१६०८ {पुनरपरं} {सुभूते} {बोधिसत्त्वस्य} महासत्त्वस्य सप्तम्यां भूमौ वर्तमानस्य विंशतिः धर्मा न
२१६०९ भवन्ति। कतमे विंशतिः। यदुत आत्मग्राहोऽस्य न भवति सत्त्वग्राहो
२१६१० जीवग्राहः पुद्गलग्राह उच्छेदग्राहः शाश्वतग्राहः। निमित्तसंज्ञा हेतुदृष्टिः
२१६११ स्कन्धाभिनिवेशो धात्वभिनिवेशः। आयतनमृद्धिस्त्रैधातुके प्रतिष्ठानं त्रैधातु-
२१६१२ काध्यवसानं त्रैधातुके आलयो बुद्धनिश्रयदृष्ट्यभिनिवेशो धर्म{निश्रयदृष्ट्यभिनिवेशः} संघ{निश्रयदृष्ट्यभिनिवेशः}
२१६१३ शील{निश्रयदृष्ट्यभिनिवेशः} शून्या धर्मा इति विवादः शून्यताविरोधश्चास्य न भवति। इमे {सुभूते}
२१६१४ विंशतिर्धर्मा {बोधिसत्त्वस्य} महासत्त्वस्य सप्तम्यां भूमौ वर्तमानस्य न भवन्ति। तेन
२१६१५ विंशतिरेव धर्माः सप्तम्यां भूमौ स्थितेन परिपूरयितव्याः। कतमे विंशतिः।
२१६१६ यदुत शून्यतापरिपूरिता निमित्तसाक्षत्क्रिया अप्रणिहितज्ञानं त्रिमण्डलपरि-
२१६१७ शुद्धिः कृपाकारुण्यञ्च सर्वसत्त्वेषु तेष्वनवमन्यना सर्वधर्मसमतादर्शनं तत्र चानभि-
२१६१८ निवेशः। भूतनयप्रतिवेधस्तेन चामन्यना अनुत्पादक्षान्तिरनुत्पादज्ञानमेकनय-
२१६१९ निर्देशः। सर्वधर्माणां कल्पनासमुद्घातः। संज्ञादृष्टिविवर्त्तः क्लेशविवर्त्तः
२१६२० शमथनिध्यप्तिः विपश्यनाकौशल्यं दान्तचित्तता सर्वत्राप्रतिहतज्ञानचित्तता
२१६२१ अनुनयस्याभुमिर्यत्रेच्छाक्षेत्रगमनं तत्र च बुद्धपर्षन्मण्डले स्थित्वात्मभाव-
२१६२२ सन्दर्शनम्। इमे विंशतिर्धर्मा {बोधिसत्त्वेन} महासत्त्वेन सप्तम्यां भूमौ वर्तमानेन परि-
२१६२३ पूरयितव्याः।

२१७०१ {पुनरपरं} {सुभूते} {बोधिसत्त्वेन} महासत्त्वेन अष्टम्यां भूमौ वर्तमानेन चत्वारो धर्माः
२१७०२ परिपूरयितव्याः। कतमे चत्वारः। यदुत सर्वसत्त्वचित्तानुप्रवेशोऽभिज्ञाविक्रीडनं
२१७०३ बुद्धक्षेत्रदर्शनन् तेषाञ्च बुद्धक्षेत्राणां यथादृष्टिनिष्पादनता बुद्धपर्युपासनता बुद्ध-
२१७०४ काययथाभूतप्रत्यवेक्षणता। इमे {सुभूते} चत्वारो धर्मा {बोधिसत्त्वेन} महासत्त्वेनाष्टम्यां
२१७०५ भूमौ वर्तमानेन परिपूरयितव्याः।
२१७०६ {पुनरपरं} {सुभूते} {बोधिसत्त्वेन} महासत्त्वेनाष्टम्यां भूमौ वर्तमानेन चत्वारो धर्माः परिपूर-
२१७०७ यितव्याः। कतमे चत्वारः। यदुत इन्द्रियपरापरज्ञानं बुद्धक्षेत्रपरिशोधनं
२१७०८ मायोपमस्य समाधेरभीक्ष्णं समापत्तिर्यथा च सत्त्वानां कुशलमूलनिष्पत्ति-
२१७०९ स्तथा तथात्मभावमभिनिर्मिमीते संचिन्त्यभवोत्पादनता। इमे {सुभूते} {बोधिसत्त्वेन} महा-
२१७१० सत्त्वेन अष्टम्यां भूमौ वर्तमानेन चत्वारो धर्माः परिपूरयितव्याः।
२१७११ {पुनरपरं} {सुभूते} {बोधिसत्त्वेन} महासत्त्वेन नवम्यां भूमौ वर्तमानेन द्वादश धर्माः परिपूरयि-
२१७१२ तव्याः। कतमे द्वादश् यदुत अनन्तप्रणिधानपरिग्रहः। स यथा यथा प्रणि-
२१७१३ दधाति तथा तथास्य समृध्यते देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगरुतज्ञानं
२१७१४ प्रतिभाननिर्देशज्ञानं गर्भावक्रान्तिसम्पत्कुशल{सम्पद्} जाति{सम्पद्} गोत्र{सम्पत्} परि-
२१७१५ वार{सम्पद्} जन्म{सम्पद्} नैष्क्रम्य{सम्पद्} बोधिवृक्ष{सम्पत्} सर्वगुणपरिपूरण{सम्पत्}। इमे सुभूते
२१७१६ {बोधिसत्त्वेन} महासत्त्वेन नवम्यां भूमौ वर्तमानेन द्वादश धर्माः परिपूरयितव्याः।
२१७१७ दशम्यां पुनः {सुभूते} बोधिसत्त्वभूमौ वर्तमानो {बोधिसत्त्वो} महासत्त्वस्तथागत एवेति
२१७१८ वक्तव्यः।
२१७१९ सुभूतिराह् कतमद्भगवन् {बोधिसत्त्वस्य} महासत्त्वस्याध्याशयपरिकर्म् भगवानाह्
२१७२० या सर्वाकारज्ञताप्रतिसंयुक्तैर्मनसिकारैः सर्वकुशलमूलसमुदानयनता इदं सुभूते
२१७२१ {बोधिसत्त्वस्य} महासत्त्वस्याध्याशयपरिकर्म् तत्र {कतमद्बोधिसत्त्वस्य महासत्त्वस्य} हितवस्तुतापरिकर्म यद्{बोधिसत्त्वो} महा-
२१७२२ सत्त्वः सर्वसत्त्वानामर्थाय महायानज्ञानपर्येष्टिमापद्यत् इदं {बोधिसत्त्वस्य} महासत्त्वस्य
२१७२३ हितवस्तुतापरिकर्म् तत्र {कतमद्बोधिसत्त्वस्य महासत्त्वस्य} सर्वसत्त्वसमचित्ततापरिकर्म् यत्सर्वाकारज्ञताप्रति-
२१७२४ संयुक्तैर्मनसिकारैश्चतुरप्रमाणाभिनिर्हरण मैत्रीकरुणामुदितोपेक्षणमिदम् {उच्यते सर्वसत्त्वसमचित्ततापरिकर्म}।

२१८०१ तत्र {कतमद्बोधिसत्त्वस्य महासत्त्वस्य} त्यागपरिकर्म् यत्सर्वसत्त्वेभ्योऽविकल्पितं दानं ददाति इदम् {उच्यते त्यागपरिकर्म}। तत्र
२१८०२ {कतमद्बोधिसत्त्वस्य महासत्त्वस्य} कल्याणमित्रसेवनापरिकर्म् यानि {बोधिसत्त्वस्य} महासत्त्वस्य कल्याणमित्राणि
२१८०३ सर्वाकारज्ञतायां समादापयन्ति तेषां मित्राणां सेवना भजना पर्युपासना
२१८०४ शुश्रूषा इदम् {उच्यते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्रसेवनापरिकर्म}। तत्र {कतमद्बोधिसत्त्वस्य महासत्त्वस्य} धर्मपर्येष्टिपरिकर्म् यत्सर्वाकारज्ञता-
२१८०५ प्रतिसंयुक्तेन मनसिकारेण धर्मं पर्येषते न च श्रावकप्रत्येकबुद्धभूमौ पतति इदं
२१८०६ {उच्यते बोधिसत्त्वस्य महासत्त्वस्य धर्मपर्येष्टिपरिकर्म}। तत्र {कतमद्बोधिसत्त्वस्य महासत्त्वस्य} अभीक्ष्णं नैष्क्रम्यपरिकर्म् यत्सर्वजातिष्वव्यवकीर्न्नोऽभि-
२१८०७ निष्क्रामति तथागतशासने प्रव्रजति न चास्य कश्चिदन्तरायो भवति इदं
२१८०८ {सुभूते} {उच्यते बोधिसत्त्वस्य महासत्त्वस्य अभीक्ष्णं नैष्क्रम्यपरिकर्म}। तत्र {कतमद्बोधिसत्त्वस्य महासत्त्वस्य} बुद्धकायस्पृहापरिकर्म् यद्बुद्धविग्रहं दृष्ट्वा न जातु बुद्ध-
२१८०९ मनसिकारेण विरहितो भवति यावत्सर्वाकारज्ञताऽनुप्राप्तो भवति। इदं {सुभूते}
२१८१० {उच्यते बोधिसत्त्वस्य महासत्त्वस्य बुद्धकायस्पृहापरिकर्म}। तत्र {कतमद्बोधिसत्त्वस्य महासत्त्वस्य} धर्मविवरणपरिकर्म् यद्{बोधिसत्त्वो} महासत्त्वः सम्मुखीभूतस्य तथा-
२१८११ गतस्य परिनिर्वृतस्य वा सत्त्वानां धर्मं देशयति आदौ कल्याणं मध्ये
२१८१२ कल्पाणं पर्यवसाने कल्याणं स्वर्थं सुव्यञ्जनं केवलं परिपूर्णं परिशुद्धं पर्यवदातं
२१८१३ ब्रह्मचर्यं सम्प्रकाशयति यदुत सूत्रं गेयं व्याकरणमितिवृत्तकं जातकं
२१८१४ निदानमवदानं तथा वैपुल्याद्भुतधर्मोपदेशाः। इदं {उच्यते बोधिसत्त्वस्य महासत्त्वस्य धर्मविवरणपरिकर्म}। तत्र {कतमद्बोधिसत्त्वस्य महासत्त्वस्य} सत्यवचन-
२१८१५ परिकर्म् यदुत यथावादितथाकारिता इदं {उच्यते बोधिसत्त्वस्य महासत्त्वस्य सत्यवचनपरिकर्म}। इमानि {सुभूते} {बोधिसत्त्वस्य} महा-
२१८१६ सत्त्वस्य प्रथमायां भूमौ वर्तमानस्य दश परिकर्माणि।
२१८१७ तत्र सुभूते कतमानि {बोधिसत्त्वस्य} महासत्त्वस्य द्वितीयायां भूमौ वर्त्तमानस्याष्टौ
२१८१८ परिकर्माणि। इह सुभूते {बोधिसत्त्वस्य} महासत्त्वस्य शीलपरिशुद्धिर्यदुत श्रावक-
२१८१९ प्रत्येकबुद्धचित्तानाममनसिकारता येऽप्यन्ये दौःशील्यकरा बोधिपरिपन्थन-
२१८२० करा धर्मास्तेषाममनसिकारः। इयं {उच्यते बोधिसत्त्वस्य महासत्त्वस्य शीलपरिशुद्धिर् ।} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} कृतज्ञता कृत-

२१९०१ वेदिता यद्{बोधिसत्त्वो} महासत्त्वो बोधिसत्त्वचर्यां चरनल्पमपि कृतमासंसारान्
२१९०२ न नाशयति प्रागेव बहु इयं {उच्यते बोधिसत्त्वस्य महासत्त्वस्य कृतज्ञता कृतवेदिता।} तत्र {कतमद्बोधिसत्त्वस्य महासत्त्वस्य} क्षान्तिबलप्रतिष्ठानम्।
२१९०३ यत्सर्वसत्त्वानामन्तिके अव्यापादाविहिंसाचित्तता इदं {उच्यते बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिबलप्रतिष्ठानम्।} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य}
२१९०४ प्रामोद्यप्रतीत्यनुभवनता। यत्सर्वसत्त्वपरिपाचनता इयं {उच्यते बोधिसत्त्वस्य महासत्त्वस्य प्रामोद्यप्रतीत्यनुभवनता।} तत्र {कतमो बोधिसत्त्वस्य महासत्त्वस्य}
२१९०५ महाकरुणाया आमुखीभावः। यद्{बोधिसत्त्वस्य} महासत्त्वस्य बोधिसत्त्वचारिकां चरत
२१९०६ एवं भवति एकैकस्य सत्त्वस्यार्थाय गङ्गानदीवालुकोपमान् कल्पान्निरये
२१९०७ पचेयं यावन्न स सत्त्वो बुद्धज्ञाने प्रतिष्ठापित इति। एवमेकैकस्य कृतशः
२१९०८ सत्त्वस्य य उत्साहो योऽपरिखेदोऽयमुच्यते {बोधिसत्त्वस्य महासत्त्वस्य महाकरुणाया आमुखीभावः।} तत्र {कतमद्बोधिसत्त्वस्य महासत्त्वस्य} श्रद्धागौरवम्।
२१९०९ यद्{बोधिसत्त्वस्य} महासत्त्वस्य सर्वत्र निहतमानतया सश्रद्धता इदमुच्यते {बोधिसत्त्वस्य महासत्त्वस्य श्रद्धागौरवम्।}
२१९१० तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} गुरुशुश्रूषाश्रद्धानता। यद्गुरूणामन्तिके शास्तृसंज्ञा इयमुच्यते
२१९११ {बोधिसत्त्वस्य महासत्त्वस्य गुरुशुश्रूषाश्रद्धानता}। तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} पारमितास्तद्योगपर्येष्टिः। या अनन्यकर्मतया पारमिता-
२१९१२ पर्येषणता इयमुच्यते {बोधिसत्त्वस्य महासत्त्वस्य पारमितास्तद्योगपर्येष्टिः}। तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} बाहुश्रुत्यतृप्तता। यत्किञ्चिद्बुद्धैर्भग-
२१९१३ वद्भिर्भाषितमिह वा लोकधातौ समन्ताद्वा दशदिशि लोके तत्सर्वमाराधयि-
२१९१४ ष्यामीति या अतृप्तता इयं {उच्यते बोधिसत्त्वस्य महासत्त्वस्य बाहुश्रुत्यतृप्तता}। तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} निरामिषधर्मदानविवरणता। यद्{बोधिसत्त्वो}
२१९१५ महासत्त्वो धर्मं देशयति। स तेन धर्मदानकुशलेनात्मनो बोधिमपि न प्रतिकां-
२१९१६ क्षति इयं {उच्यते बोधिसत्त्वस्य महासत्त्वस्य निरामिषधर्मदानविवरणता।} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} बुद्धक्षेत्रपरिशोधनकुशलमूलपरिणामना यैः कुशल-
२१९१७ मूलैर्बुद्धक्षेत्रं परिशोधयनात्मपरचित्तं परिशोधयति तेषां कुशलमूलानां
२१९१८ या परिणामना इयमुच्यते {बोधिसत्त्वस्य महासत्त्वस्य बुद्धक्षेत्रपरिशोधनकुशलमूलपरिणामना।} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} अपरिमितसंसारापरिखेदिता या
२१९१९ कुशलमूलोपस्तम्भता यैः कुशलमूलैरुपस्तब्धः सत्त्वानाञ्च परिपाचयति बुद्धक्षेत्रं
२१९२० च परिशोधयति न च जातु खेदमापद्यते यावन्न सर्वधर्मान् सर्वाकारज्ञतां च
२१९२१ परिपूरयति इयं {उच्यते बोधिसत्त्वस्य महासत्त्वस्य अपरिमितसंसारापरिखेदिता}। तत्र {कतमद्बोधिसत्त्वस्य महासत्त्वस्य} ह्रीरपत्राप्यव्यवस्थानम्। या सर्वश्रावकप्रत्येक-

२२००१ बुद्धचित्तजुगुप्सनता इदं {उच्यते बोधिसत्त्वस्य महासत्त्वस्य ह्रीरपत्राप्यव्यवस्थानम्।} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} अरण्यवासापरित्यागिता। या
२२००२ सर्वश्रावकप्रत्येकबोधिसमतिक्रमणता इयं {उच्यते बोधिसत्त्वस्य महासत्त्वस्य अरण्यवासापरित्यागिता।} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} अल्पेच्छता।
२२००३ यद्{बोधिसत्त्वो} महासत्त्वो बोधिमपि नेच्छति इयं {उच्यते बोधिसत्त्वस्य महासत्त्वस्य अल्पेच्छता।} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} सन्तुष्ठिः।
२२००४ यद्{बोधिसत्त्वो} महासत्त्वः सर्वाकारज्ञतामपि न मन्यते इयं {उच्यते बोधिसत्त्वस्य महासत्त्वस्य सन्तुष्ठिः}। तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} धूतगुण-
२२००५ संलेखानुत्सर्जनता। या गम्भीरेषु धर्मेषु निध्यप्तिः क्षान्तिरियं {उच्यते बोधिसत्त्वस्य महासत्त्वस्य धूतगुणसंलेखानुत्सर्जनता}। तत्र
२२००६ {कतमा बोधिसत्त्वस्य महासत्त्वस्य} शिक्षाया अपरित्यागिता। यः सर्वशिषाणामप्रचारः इयं {उच्यते बोधिसत्त्वस्य महासत्त्वस्य शिक्षाया अपरित्यागिता।} तत्र
२२००७ {कतमा बोधिसत्त्वस्य महासत्त्वस्य} कामगुणजुगुप्सनता। यः कामचित्तस्यानुत्पाद इयं {उच्यते बोधिसत्त्वस्य महासत्त्वस्य कामगुणजुगुप्सनता।} तत्र
२२००८ {कतमो बोधिसत्त्वस्य महासत्त्वस्य} निर्वित्सहगतश्चित्तोत्पादः। यः सर्वधर्माणामनभिसंस्कारोऽयं {उच्यते बोधिसत्त्वस्य महासत्त्वस्य निर्वित्सहगतश्चित्तोत्पादः।}
२२००९ तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} सर्वास्तिपरित्यागिता। या आध्यात्मिकबाह्यानां धर्माणाम-
२२०१० ग्रहणता इयं {उच्यते बोधिसत्त्वस्य महासत्त्वस्य सर्वास्तिपरित्यागिता।} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} अनवलीनचित्तता या विज्ञानस्थितिष्वस्य
२२०११ चित्तं नावलीयते इयं {उच्यते बोधिसत्त्वस्य महासत्त्वस्य अनवलीनचित्तता।} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} सर्ववस्तुनिरपेक्षता। या सर्ववस्तू-
२२०१२ नाममनसिकारता इयं {उच्यते बोधिसत्त्वस्य महासत्त्वस्य सर्ववस्तुनिरपेक्षता}। तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} गृहिसंस्तवपरिवर्जनता। या बुद्ध-
२२०१३ क्षेत्राद्बुद्धक्षेत्रं संक्रमणता उपपादुकताप्रतिलाभमुण्डकाषायप्रावरणता इयं {उच्यते बोधिसत्त्वस्य महासत्त्वस्य गृहिसंस्तवपरिवर्जनता}
२२०१४ तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} भिक्षुभिक्षुणीसंस्तवपरिवर्जनता। यद्भिक्षुणा वा भिक्षुण्या सह
२२०१५ अच्छटिकासंघातमात्रमपि न तिष्ठति न च तैर्विना परितसनाचित्तमुत्पादयति
२२०१६ इयं {उच्यते बोधिसत्त्वस्य महासत्त्वस्य भिक्षुभिक्षुणीसंस्तवपरिवर्जनता।} तत्र कथं {बोधिसत्त्वेन महासत्त्वेन} कुलमात्सर्यं परिवर्जयितव्यम्। इह {सुभूते} {बोधिसत्त्वेन महासत्त्वेन}
२२०१७ एवं चित्तमुत्पादयितव्यम्। यन्मया सत्त्वानां सर्वसुखोपधानं कर्तव्यं तत्र ते
२२०१८ सत्त्वाः स्वपुण्यैरेव सुखिता नात्र मया मात्सर्यचित्तमुत्पादयितव्यम्। इदं
२२०१९ {उच्यते बोधिसत्त्वस्य महासत्त्वस्य} कुलमात्सर्यपरिवर्जनता। तत्र कथं {बोधिसत्त्वेन महासत्त्वेन} सङ्गणिकास्थानं परिवर्जयितव्यम्।
२२०२० यत्र {बोधिसत्त्वस्य} महासत्त्वस्य सङ्गणिकास्थानस्थितस्य श्रावकप्रत्येकबुद्धप्रतिसंयुक्ता
२२०२१ कथा स्यात्तत्प्रतिसंयुक्तं वा चित्तोत्पादमुपादयेन्न तत्र {बोधिसत्त्वेन} महासत्त्वेन
२२०२२ स्थातव्यम्। इयं {उच्यते बोधिसत्त्वस्य महासत्त्वस्य सङ्गणिकास्थानपरिवर्जनता।} तत्र कथं {बोधिसत्त्वेन} महासत्त्वेन आत्मोत्कर्षणा

२२१०१ परिवर्जयितव्या। या आध्यात्मिकानां धर्माणामसमनुपश्यना इयं {बोधिसत्त्वेन महासत्त्वेन आत्मोत्कर्षणा परिवर्जयितव्या}
२२१०२ तत्र {कतमा} {बोधिसत्त्वस्य} महासत्त्वस्य परपंसनापरिवर्जनता। यदुत बाह्यानां धर्माणाम-
२२१०३ समनुपश्यना। इयं {उच्यते बोधिसत्त्वस्य महासत्त्वस्य परपंसनापरिवर्जनता।} तत्र कथं {बोधिसत्त्वेन} महासत्त्वेन दशाकुशलाः कर्मपथाः
२२१०४ {परिवर्जयितव्याः}। तथा ह्येते आर्यमार्गस्यान्तरायकराः सुगतेर्वा प्रागेव संबोधेः। एवं
२२१०५ हि {सुभूते} {बोधिसत्त्वेन महासत्त्वेन दशाकुशलाः कर्मपथाः परिवर्जयितव्याः।} तत्र कथं {बोधिसत्त्वेन} महासत्त्वेन अधिमानः {परिवर्जयितव्यः}। तथा हि स न
२२१०६ कञ्चिद्धर्मं समनुपश्यति कुतः पुनरधिकं येनाधिमंस्यत् एवं हि {सुभूते} {बोधिसत्त्वेन महासत्त्वेन अधिमानः परिवर्जयितव्यः।}
२२१०७ तत्र कथं {सुभूते} {बोधिसत्त्वेन} महासत्त्वेन स्तम्भः {परिवर्जयितव्यः}। तथा हि तद्वस्तु न समनुपश्यति यत्र
२२१०८ स्तम्भमुत्पादयेदेवं हि {सुभूते} {बोधिसत्त्वेन महासत्त्वेन स्तम्भः परिवर्जयितव्यः।} तत्र कथं {सुभूते} {बोधिसत्त्वेन} महासत्त्वेन विपर्यासाः
२२१०९ {परिवर्जयितव्याः}। सर्ववस्तूनामनुपलब्धितामुपादाय् एवं हि {सुभूते} {बोधिसत्त्वेन महासत्त्वेन विपर्यासाः परिवर्जयितव्यः।} तत्र कथं {सुभूते}
२२११० {बोधिसत्त्वेन} महासत्त्वेन विचिकित्सा {परिवर्जयितव्या}। तथा हि सन्देहापगतान् सर्वधर्मान् समनु-
२२१११ पश्यति। एवं हि {सुभूते} {बोधिसत्त्वेन महासत्त्वेन विचिकित्सा परिवर्जयितव्या}। तत्र कथं {सुभूते} {बोधिसत्त्वेन} महासत्त्वेन रागद्वेषमोहा-
२२११२ नामधिवासना {परिवर्जयितव्या}। तथा हि रागद्वेषमोहानां वस्तु न समनुपश्यति। एवं
२२११३ हि {सुभूते} {बोधिसत्त्वेन महासत्त्वेन रागद्वेषमोहानामधिवासना परिवर्जयितव्या।} तत्र कथं {बोधिसत्त्वेन} महासत्त्वेन षड्धर्माः परिपूरयितव्याः। यदुत
२२११४ षट्पारमिता दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता इमाः षट्पारमिताः परि-
२२११५ पूरयितव्याः। तत्र कथं {बोधिसत्त्वेन} महासत्त्वेन षड्धर्माः {परिवर्जयितव्याः}। यदुत श्रावकचित्तं
२२११६ {परिवर्जयितव्यम्}। तत्कस्य हेतोः। तथा हि नैष मार्गो बोधय् प्रत्येकबुद्धचित्तं
२२११७ {परिवर्जयितव्यम्}। {तत्कस्य हेतोस्तथा हि} {नैष मार्गो बोधाये}। परितसनाचित्तं न कर्तव्यम्। {तत्कस्य हेतोस्तथा हि} {नैष मार्गो बोधाये}। याचनकं दृष्ट्वा
२२११८ नावलीनचित्तमुत्पादयितव्यम्। {तत्कस्य हेतोस्तथा हि} {नैष मार्गो बोधाये}। सर्वस्वमपि परित्यज्य न दुर्मनस्को
२२११९ भवति। {तत्कस्य हेतोस्तथा हि} {नैष मार्गो बोधाये}। याचनकविक्षेपो न कर्तव्यः। {तत्कस्य हेतोस्तथा हि} {नैष मार्गो बोधाये}। तत्र कथं {बोधिसत्त्वेन}
२२१२० महासत्त्वेन आत्मग्राहो न कर्तव्यः। तत्कस्य हेतोः। तथा हि अत्यन्ततया
२२१२१ आत्मा न संविद्यते एवं {बोधिसत्त्वेन} महासत्त्वेन आत्मग्राहो न कर्तव्यः। एवं
२२१२२ सत्त्वग्राहो जीवग्राहः पुद्गल{ग्राहो न कर्तव्यः}। {तत्कस्य हेतोस्तथा हि} एते अत्यन्ततया न संविद्यन्त् एवं
२२१२३ सत्त्वजीवपुद्गल{ग्राहो न कर्तव्यः}। तत्र कथं {बोधिसत्त्वेन} महासत्त्वेन उच्छेद{ग्राहो न कर्तव्यः}। {तत्कस्य हेतोस्तथा हि} न कश्चिद्धर्म

२२२०१ उच्छिद्यत् अत्यन्ततयानुत्पन्नत्वात्सर्वधर्माणां नोच्छेदः एवमुच्छेद{ग्राहो न कर्तव्यः}।
२२२०२ तत्र {कथं बोधिसत्त्वेन महासत्त्वेन} शाश्वत{ग्राहो न कर्तव्यः}। {तत्कस्य हेतोस्तथा हि} यो धर्मो नोत्पद्यते स न शाश्वतो भवति। एवं
२२२०३ शाश्वत{ग्राहो न कर्तव्यः}। तत्र {कथं बोधिसत्त्वेन महासत्त्वेन} निमित्तसंज्ञा नोत्पादयितव्या। {तत्कस्य हेतोस्तथा हि} अत्यन्ततया
२२२०४ संक्लेशो न संविद्यते एवं निमित्तसंज्ञा नोत्पादयितव्या। तत्र {कथं बोधिसत्त्वेन महासत्त्वेन} हेतुदृष्टिर्न
२२२०५ कर्तव्या। {तत्कस्य हेतोस्तथा हि} स तां दृष्टिं न समनुपश्यति। एवं हेतुदृष्टिर्न कर्तव्या। एवं
२२२०६ स्कन्धेषु धातुष्वायतनेष्वभिनिवेशो न {कर्तव्यः}। {तत्कस्य हेतोस्तथा हि} ते धर्माः स्वभावेन न
२२२०७ संविद्यन्त् एवं स्कन्धधात्वायतनेष्वभिनिवेशो न {कर्तव्यः}। तत्र {कथं बोधिसत्त्वेन महासत्त्वेन} त्रैधातुकेऽ-
२२२०८ भिनिवेशो न {कर्तव्यः}। {तत्कस्य हेतोस्तथा हि} त्रैधातुकस्वभावो न संविद्यत् एवं त्रैधातुकेऽभिनिवेशो
२२२०९ न {कर्तव्यः}। तत्र {कथं बोधिसत्त्वेन महासत्त्वेन} त्रैधातुकेऽध्यवसानं न {कर्तव्यः}। {तत्कस्य हेतोस्तथा हि} तद्वस्तु नोपलभ्यत्
२२२१० एवं त्रैधातुकेऽध्यवसानं न {कर्तव्यः}। तत्र {कथं बोधिसत्त्वेन महासत्त्वेन} त्रैधातुके आलयो न {कर्तव्यः}। {तत्कस्य हेतोस्तथा हि}
२२२११ निःस्वभावत्वादेवं त्रदिहातुके आलयो न {कर्तव्यः}। तत्र {कथं बोधिसत्त्वेन महासत्त्वेन} बुद्धधर्मसंघनिश्रयो
२२२१२ न {कर्तव्यः}। {तत्कस्य हेतोस्तथा हि} न बुद्धधर्मसंघदृष्टिनिश्रयात्बुद्धधर्मसंघदर्शनं। एवं बुद्ध-
२२२१३ धर्मसंघदृष्टिनिश्रयो न {कर्तव्यः}। तत्र {कथं बोधिसत्त्वेन महासत्त्वेन} शीलदृष्टिनिश्रयो न {कर्तव्यः}। {तत्कस्य हेतोस्तथा हि} न
२२२१४ शीलदृष्टिनिश्रयाच्छीलपरिशुद्धिर्भवत्येवं {शीलदृष्टिनिश्रयो न कर्तव्यः।} तत्र {कथं बोधिसत्त्वेन महासत्त्वेन} शून्यतायां विवादो
२२२१५ न {कर्तव्यः}। {तत्कस्य हेतोस्तथा हि} सर्वधर्माः स्वभावेन शून्या न शून्यतया। एवं शून्यतायां विवादो
२२२१६ न {कर्तव्यः}। तत्र {कथं बोधिसत्त्वेन महासत्त्वेन} शून्यताविरोधो न {कर्तव्यः}। {तत्कस्य हेतोस्तथा हि} सर्वधर्माः शून्या न शून्यता
२२२१७ शून्यतां विरोधयति। एवं {शून्यताविरोधो न कर्तव्यः।} तत्र {कथं बोधिसत्त्वेन महासत्त्वेन} शून्यता परिपूरयितव्या। स्वलक्षण-
२२२१८ शून्यतामुपादाय परिपूरिर्{बोधिसत्त्वस्य} महासत्त्वस्य शून्यतापरिपूरिरेवं {शून्यता परिपूरयितव्या।}
२२२१९ तत्र कतमा {बोधिसत्त्वस्य} महासत्त्वस्य अनिमित्तासाक्षात्क्रिया। यदुत सर्वनिमित्ता-
२२२२० नाममनसिकारता। इयं {बोधिसत्त्वस्य महासत्त्वस्य अनिमित्तासाक्षात्क्रिया।} तत्र कतमद्{बोधिसत्त्वस्य} महासत्त्वस्य अप्रणिहित-
२२२२१ ज्ञानम्। यत्सर्वत्रैधातुके चित्तस्याप्रतिष्ठानम्। इदम् {बोधिसत्त्वस्य महासत्त्वस्य अप्रणिहितज्ञानम्।} तत्र कतमा {बोधिसत्त्वस्य}

२२३०१ महासत्त्वस्य त्रिमण्डलपरिशुद्धिः। यदुत दशकुशलकर्मपथपरिशुद्धिरेवं {बोधिसत्त्वस्य महासत्त्वस्य त्रिमण्डलपरिशुद्धिः}
२२३०२ तत्र {कथं बोधिसत्त्वेन महासत्त्वेन} सर्वसत्त्वेषु कृपाकरुणापरिपूरिः कर्तव्या। यो महाकरुणायाः
२२३०३ प्रतिलाभः। एवं {सर्वसत्त्वेषु कृपाकरुणापरिपूरिः कर्तव्या।} तत्र {कथं बोधिसत्त्वेन महासत्त्वेन} सर्वसत्त्वा नावमन्तव्याः। यदुत मैत्री-
२२३०४ परिपूर्या। एवं {सर्वसत्त्वा नावमन्तव्याः।} तत्र {कतमद्बोधिसत्त्वस्य महासत्त्वस्य} समतादर्शनम्। यदुतानुत्क्षेपोऽप्रक्षेपः
२२३०५ सर्वधर्माणामिदं {बोधिसत्त्वस्य महासत्त्वस्य समतादर्शनम्।} तत्र {कतमो बोधिसत्त्वस्य महासत्त्वस्य} भूतनयप्रतिवेधः। यः सर्वधर्मानामप्रतिवेधः।
२२३०६ अयं {बोधिसत्त्वस्य महासत्त्वस्य भूतनयप्रतिवेधः।} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} अनुत्पादक्षान्तिः। या सर्वधर्माणामनुत्पादाय अनिरोधाय
२२३०७ अनभिसंस्काराय क्षान्तिरियं {बोधिसत्त्वस्य महासत्त्वस्य अनुत्पादक्षान्तिः।} तत्र {कतमद्बोधिसत्त्वस्य महासत्त्वस्य} अनुत्पादज्ञानम्। यन्नामरूपा-
२२३०८ नुत्पादज्ञानमिदं {बोधिसत्त्वस्य महासत्त्वस्य अनुत्पादज्ञानम्।} तत्र {कतमो बोधिसत्त्वस्य महासत्त्वस्य} एकनयनिर्देशः। या अद्वयसमुदचारता अयं
२२३०९ {बोधिसत्त्वस्य महासत्त्वस्य एकनयनिर्देशः।} तत्र {कतमो बोधिसत्त्वस्य महासत्त्वस्य} कल्पनासमुद्घातः। या सर्वधर्माणां कल्पना अयं {बोधिसत्त्वस्य महासत्त्वस्य कल्पनासमुद्घातः।}
२२३१० तत्र {कतमो बोधिसत्त्वस्य महासत्त्वस्य} संज्ञादृष्टिविवर्तः। या सर्वश्रावकप्रत्येकबुद्धभूमेः संज्ञादृष्टिविवर्तनता
२२३११ अयं {बोधिसत्त्वस्य महासत्त्वस्य संज्ञादृष्टिविवर्तः।} तत्र {कतमो बोधिसत्त्वस्य महासत्त्वस्य} क्लेशविवर्तः। यः सर्ववासनानुसन्धिक्लेशोत्सर्गः। अयं
२२३१२ {बोधिसत्त्वस्य महासत्त्वस्य क्लेशविवर्तः।} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} शमथविपश्यनाभूमिः। या सर्वाकारज्ञताज्ञानमियं {बोधिसत्त्वस्य महासत्त्वस्य शमथविपश्यनाभूमिः।} तत्र
२२३१३ {कतमा बोधिसत्त्वस्य महासत्त्वस्य} दान्तचित्तता। या त्रैधातुकेऽनभिरतिः। इयं {बोधिसत्त्वस्य महासत्त्वस्य दान्तचित्तता।} तत्र {कतमद्बोधिसत्त्वस्य महासत्त्वस्य} अप्रतिहत-
२२३१४ ज्ञानम्। यो बुद्धचक्षुःप्रतिलम्भः। इदं {बोधिसत्त्वस्य महासत्त्वस्य अप्रतिहतज्ञानम्।} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} अनुनयापसरणज्ञता।
२२३१५ या षडायतनिका उपेक्षा। इयं {बोधिसत्त्वस्य महासत्त्वस्य अनुनयापसरणज्ञता।} तत्र {कतमद्बोधिसत्त्वस्य महासत्त्वस्य} यत्रेच्छाक्षेत्रगमनम्। यदेकबुद्धक्षे-
२२३१६ त्रान्न चलति सर्वबुद्धक्षेत्रेषु संदृश्यते न चास्य बुद्धक्षेत्रसंज्ञोत्पद्यत् इदं {बोधिसत्त्वस्य महासत्त्वस्य यत्रेच्छाक्षेत्रगमनम्}
२२३१७ तत्र {कतमद्बोधिसत्त्वस्य महासत्त्वस्य} सर्वत्रात्मभावदर्शनम्। यद्यथापर्षन्मण्डले आत्मभावदर्शनम्। इदं
२२३१८ {बोधिसत्त्वस्य महासत्त्वस्य सर्वत्रात्मभावदर्शनम्।} तत्र {कतमो बोधिसत्त्वस्य महासत्त्वस्य} सर्वसत्त्वचित्तचरितानुप्रवेशः। यदेकचित्तेन सर्वसत्त्वचित्त-
२२३१९ चरितज्ञानम्। अयं {बोधिसत्त्वस्य महासत्त्वस्य सर्वसत्त्वचित्तचरितानुप्रवेशः।} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} अभिज्ञाविक्रीडना याभिरभिज्ञाभिवि-
२२३२० क्रीडमानो बुद्धक्षेत्राद्बुद्धक्षेत्रं संक्रामति बुद्धदर्शनाय न च बुद्धसंज्ञो भवति।
२२३२१ इयं {बोधिसत्त्वस्य महासत्त्वस्य अभिज्ञाविक्रीडना।} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} यथादृष्टबुद्धक्षेत्रपरिनिष्पादनता। या त्रिसाहस्रमहासाहस्र-
२२३२२ लोकधात्वीश्वरचक्रवर्तिभूतिस्थितस्य सर्वलोकधातुपरित्यागस्यामन्यनता। इयं

२२४०१ {बोधिसत्त्वस्य महासत्त्वस्य यथादृष्टबुद्धक्षेत्रपरिनिष्पादनता।} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} बुद्धपर्युपासनता या बुद्धपर्युपासनता सर्वसत्त्वानुग्रहं प्रति।
२२४०२ इयं {बोधिसत्त्वस्य महासत्त्वस्य बुद्धपर्युपासनता।} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} बुद्धकाययथ्भूतप्रत्यवेक्षणता। या धर्मकाययथाभूतप्रत्य-
२२४०३ वेक्षणता। इयं {बोधिसत्त्वस्य महासत्त्वस्य बुद्धकाययथ्भूतप्रत्यवेक्षणता।} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} इन्द्रियपरापरज्ञानता। या दशसु बलेषु स्थित्वा
२२४०४ सर्वसत्त्वानामिन्द्रियपरिपूरिप्रज्ञाज्ञानता। इयं {बोधिसत्त्वस्य महासत्त्वस्य} इन्द्रियपरापरज्ञानता।} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} बुद्धक्षेत्रपरि-
२२४०५ शोधनता। या सर्वसत्त्वचित्तपरिशोधनता। इयं {बोधिसत्त्वस्य महासत्त्वस्य बुद्धक्षेत्रपरिशोधनता।} तत्र {कतमो बोधिसत्त्वस्य महासत्त्वस्य} मायोपम-
२२४०६ समाधिः। यत्र समाधौ स्थित्वा सर्वाः क्रियाः करोति न चास्य चित्तप्रचारो
२२४०७ भवति। अयं {बोधिसत्त्वस्य महासत्त्वस्य मायोपमसमाधिः।} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} अभीक्ष्णसमापत्तिः। या {बोधिसत्त्वस्य} महासत्त्वस्य
२२४०८ विपाकजः समाधिरियं {बोधिसत्त्वस्य महासत्त्वस्य अभीक्ष्णसमापत्तिः।} तत्र {कतमो बोधिसत्त्वस्य महासत्त्वस्य} संचिन्त्यात्मभावपरिग्रहः यद्{बोधिसत्त्वो}
२२४०९ महासत्त्वो यथा यथा सत्त्वानां कुशलमूलपरिनिष्पत्तिर्भवति तथा तथा
२२४१० सञ्चिन्तयात्मभावस परिगृह्णाति। अयं {बोधिसत्त्वस्य महासत्त्वस्य संचिन्त्यात्मभावपरिग्रहः।} तत्र कथं {बोधिसत्त्वस्य} महासत्त्वस्यानन्त-
२२४११ प्रणिधानम्। यद्{बोधिसत्त्वो} महासत्त्वः षण्णां पारमितानां परिपूर्णत्वाद्यथा यथा
२२४१२ प्रणिधिं प्रणिदधाति तथा तथा समृध्यत् इदं {बोधिसत्त्वस्य महासत्त्वस्यानन्तप्रणिधानम्।} तत्र {कतमद्बोधिसत्त्वस्य महासत्त्वस्य} सर्वसत्त्वरुत-
२२४१३ ज्ञानं यद्{बोधिसत्त्वो} महासत्त्वो निरुक्तिप्रतिसंविदादेवादीनां रुतं प्रतिसंविध्यति। इयं
२२४१४ {बोधिसत्त्वस्य महासत्त्वस्य सर्वसत्त्वरुतज्ञानम्।} तत्र {कतमद्बोधिसत्त्वस्य महासत्त्वस्य} परिपूर्णप्रतिभानम्। यद्{बोधिसत्त्वो} महासत्त्वः प्रतिभानप्रति-
२२४१५ संविदापरिपूर्णप्रतिभाननिर्देशज्ञानं प्रतिविध्यति। इदं {बोधिसत्त्वस्य महासत्त्वस्य परिपूर्णप्रतिभानम्।} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} गर्भाव-
२२४१६ क्रान्तिसम्पत् । इह {बोधिसत्त्वो} महासत्त्वः सर्वासु जातिषु उपपादुक उपपद्यत् इयं
२२४१७ {बोधिसत्त्वस्य महासत्त्वस्य गर्भावक्रान्तिसम्पत् ।} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} कुलसम्पत् । यद्{बोधिसत्त्वो} महासत्त्वः क्षत्रियमहाशालकुलेषु ब्राह्मण-
२२४१८ महाशालकुलेषु वा प्रत्याजायत् इयं {बोधिसत्त्वस्य महासत्त्वस्य कुलसम्पत् ।} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} गोत्रसम्पत् । यद्{बोधिसत्त्वो}
२२४१९ महासत्त्वो यस्माद्गोत्रात्पूर्वका बोधिसत्त्वा अभूवंस्तत्र गोत्रे प्रत्याजायत्
२२४२० इयं {बोधिसत्त्वस्य महासत्त्वस्य गोत्रसम्पत् ।} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} परिवारसम्पत् । यद्{बोधिसत्त्वो} महासत्त्वो बोधौ सत्त्वान्
२२४२१ प्रतिष्ठाप्य बोधिसत्त्वपरिवार एवं भवतीयं {बोधिसत्त्वस्य महासत्त्वस्य परिवारसम्पत् ।} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} जन्मसम्पत् ।
२२४२२ यज्जातमात्र एव {बोधिसत्त्वो} महासत्त्वः सर्वलोकधातूनवभासेन स्फरति तांश्च
२२४२३ सर्वान् षड्विकारान् कम्पयति। इयं {बोधिसत्त्वस्य महासत्त्वस्य जन्मसम्पत् ।} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} अभिनिष्क्रमणसम्पत् ।

२२५०१ यद्{बोधिसत्त्वो} महासत्त्वः प्रव्रजितोऽनेकैः सत्त्वकोटीनियुतशतसहस्रैः सार्धमभि-
२२५०२ निष्क्रामति गृहातियं {बोधिसत्त्वस्य महासत्त्वस्य अभिनिष्क्रमणसम्पत् ।} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} बोधिवृक्षव्यूहसम्पत् । यद्{बोधिसत्त्वस्य}
२२५०३ महासत्त्वस्य बोधिवृक्षस्य मूलं सौवर्णं भवति स्कन्धो वैदूर्यमयो भवति
२२५०४ सर्वरत्नमयाः शाखाः पत्राणि सर्वरत्नमयानि तस्य वृक्षस्य पुष्पङ्गन्धोऽव-
२२५०५ भासश्च अनन्तान् लोकधातूनवभासेन स्फुरति इयं {बोधिसत्त्वस्य महासत्त्वस्य बोधिवृक्षव्यूहसम्पत् ।} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} सर्वगुण-
२२५०६ परिपूरिसम्पत् । या {बोधिसत्त्वस्य} महासत्त्वस्य सत्त्वपरिपाकेन बुद्धक्षेत्रपरि-
२२५०७ शुद्धिरियम् {बोधिसत्त्वस्य महासत्त्वस्य सर्वगुणपरिपूरिसम्पत् ।}
२२५०८ तत्र कथं {बोधिसत्त्वो} महासत्त्वो दशम्यां भूमौ स्थितः संस्तथागत एवेति वक्तव्यः।
२२५०९ यदा {बोधिसत्त्वस्य} महासत्त्वस्य दश पारमिताः परिपूर्णा भवन्ति यावदष्टादशावेणिका
२२५१० बुद्धधर्माः परिपूर्णा भवन्ति सर्वाकारज्ञताज्ञानञ्च सर्ववासनानुसन्धिक्लेशप्रहाणं
२२५११ भवति महाकरुणा च सर्वबुद्धधर्माः परिपूर्णा भवन्ति। एवं हि सुभूते {बोधिसत्त्वो}
२२५१२ महासत्त्वो दशम्याः पुनर्बोधिसत्त्वभूमेः परन् तथागत एवेति वक्तव्यः।
२२५१३ तत्र कतमा {बोधिसत्त्वस्य} महासत्त्वस्य दशभूमयः। यद्{बोधिसत्त्वो} महासत्त्व उपायकौशल्येन
२२५१४ सर्वासु पारमितासु चरन् सप्तत्रिंशद्बोधिपक्षेषु धर्मेषु शिक्षितोऽप्रमाणध्यानारूप्य-
२२५१५ समापत्तिषु चरन् दशतथागतबलप्रतिसंवित्स्वष्टादशावेणिकेषु बुद्धधर्मेषु चरन्
२२५१६ गोत्रभूमिमष्टमकभूमिं दर्शनभूमिं तनुभूमिं वीतरागभूमिं कृताविभूमिं श्रावक-
२२५१७ भूमिं प्रत्येकबुधभूमिं बोधिसत्त्वभूमिं {बोधिसत्त्वो} महासत्त्वोऽतिक्रम्य एता नवभूमीरति-
२२५१८ क्रम्य बुद्धभूमौ प्रतिष्ठते इयं {बोधिसत्त्वस्य} महासत्त्वस्य दशमी भूमिरेवं हि {सुभूते} {बोधिसत्त्वो}
२२५१९ महासत्त्वो महायानसंप्रस्थितो भवति॥ [इति भूमिसम्भारः॥]
२२५२० यत्पुनः सुभूतिरेवमाह् कुतस्तद्यानं निर्यास्यतीति त्रैधातुकान्नि-
२२५२१ र्यास्यति येन सर्वाकारज्ञता तेन स्थास्यति तत्पुनरद्वययोगेन् तत्कस्य
२२५२२ हेतोः। तथा हि यच्च महायानं या च सर्वाकारज्ञता उभावेतौ धर्मौ न
२२५२३ संयुक्तौ न विसंयुक्तौ अरूपिणौ अनिदर्शनौ अप्रतिघौ एकलक्षणौ यदुता-
२२५२४ लक्षणौ। तत्कस्य हेतोः। न हि सुभूते अलक्षणौ धर्मौ निर्यातौ वा

२२६०१ निर्यातो वा निर्यास्यतो वा धर्मधातोः। स सुभूते निर्याणमिच्छेत्तथतायाः
२२६०२ योऽलक्षणानां धर्माणां निर्याणमिच्छेदेवं भूतकोटेरचिन्त्यधातोराका-
२२६०३ शधातोः प्रहाणधातोर्विरागकोटेरनुत्पादस्यानिरोधस्याभावस्य स
२२६०४ निर्याणमिच्छेद्योऽलक्षणानां धर्माणां निर्याणमिच्छेत्रूपशून्यतायाः
२२६०५ स सुभूते निर्याणमिच्छेद्योऽलक्षणानां धर्माणां निर्याणमिच्छेत् । एवं
२२६०६ वेदनाशून्यतायाः संज्ञाशून्यतायाः संस्कारशून्यतायाः विज्ञानशून्यतायाः स {सुभूते निर्याणमिच्छेद्योऽलक्षणानां धर्माणां निर्याणमिच्छेत् ।} तत्कस्य हेतोः। न हि
२२६०७ सुभूते रूपशून्यता त्रैधातुकान्निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति न वेदना-
२२६०८ शून्यता संज्ञाशून्यता संस्कारशून्यता विज्ञानशून्यता त्रैधातुकात्निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति। तत्कस्य
२२६०९ हेतोः। तथा हि सुभूते रूपं रूपेण शून्यम्
२२६१० वेदना वेदनया शून्या संज्ञा संज्ञया शून्या संस्काराः संस्कारैः शून्याः। चक्षुःशून्यतायाः स {सुभूते निर्याणमिच्छेद्योऽलक्षणानां धर्माणां निर्याणमिच्छेत् ।} एवं श्रोत्रशून्यतायाः घ्राणशून्यतायाः जिह्वाशून्यतायाः कायव्यशून्यतायाः मनःशून्य-
२२६११ तायाः स {सुभूते निर्याणमिच्छेद्योऽलक्षणानां धर्माणां निर्याणमिच्छेत् ।} एवं रूपशून्यतायाः शब्दशून्यतायाः गन्धशून्यतायाः रसशून्यतायाः स्प्रष्टव्यशून्यतायाः धर्मशून्यतायाः।
२२६१२ चक्षुर्विज्ञानशून्यतायाः श्रोत्रविज्ञानशून्यताया घ्राणविज्ञानशून्यताया जिह्वाविज्ञानशून्यतायाः कायविज्ञानशून्यताया मनोविज्ञानशून्यतायाः चक्षुःसंस्पर्शशून्यतायाः श्रोत्रसंस्पर्शशून्यताया घ्राणसंस्पर्शशून्यताया जिह्वासंस्पर्शशून्यतायाः कायसंस्पर्शशून्यताया मनःसंस्पर्शशून्यतायाः चक्षुःसंस्पर्शवेदयितशून्यतायाः श्रोत्रसंस्पर्शवेदयितशून्यतायाः घ्राणसंस्पर्शवेदयितशून्यतायाः जिह्वासंस्पर्शवेदयितशून्यतायाः कायसंस्पर्शवेदयितशून्यतायाः
२२६१३ मनःसंस्पर्शजवेदयितशून्यतायाः स {सुभूते निर्याणमिच्छेद्योऽलक्षणानां धर्माणां निर्याणमिच्छेत् ।} तत्कस्य हेतोः। न हि सुभूते
२२६१४ चक्षुःशून्यता {त्रैधातुकान्निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति}। एवं न श्रोत्रशून्यता न घ्राणशून्यता न जिह्वाशून्यता न कायशून्यता न मनःशून्यता {त्रैधातुकान्निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति}।
२२६१५ एवं न रूपशून्यता न शब्दशून्यता न गन्धशून्यता न रसशून्यता न स्प्रष्टव्यशून्यता न धर्मशून्यता त्रैधातुकान्निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति। एवं न चक्षुर्विज्ञानशून्यता न श्रोत्रविज्ञानशून्यता न घ्राणविज्ञानशून्यता न जिह्वाविज्ञानशून्यता न कायविज्ञानशून्यता न मनोविज्ञानशून्यता त्रैधातुकान्निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति। एवं न चक्षुःसंस्पर्शशून्यता न श्रोत्रसंस्पर्शशून्यता न घ्राणसंस्पर्शशून्यता न जिह्वासंस्पर्शशून्यता न कायसंस्पर्शशून्यता न मनःसंस्पर्शशून्यता त्रैधातुकान्निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति। एवं न चक्षुःसंस्पर्शवेदयितशून्यता न श्रोत्रसंस्पर्शवेदयितशून्यता न घ्राणसंस्पर्शवेदयितशून्यता न जिह्वासंस्पर्शवेदयितशून्यता न कायसंस्पर्शवेदयितशून्यता
२२६१६ न मनःसंस्पर्शजवेदयितशून्यता {त्रैधातुकान्निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति}। तत्कस्य हेतोः। तथा हि सुभूते चक्षुश्च-
२२६१७ क्षुषा शून्यं श्रोत्रं श्रोत्रेण शून्यं घ्राणं घ्राणेन शून्यं जिह्वा जिह्वया शून्या कायः कायेन शून्यो मनो मनसा शून्यं
२२६१८ रूपं रूपेण शून्यं शब्दः शब्देन शून्यो गन्धो गन्धेन शून्यो रसो रसेन शून्यो स्प्रष्टव्यं स्प्रष्टव्येन शून्यं धर्मो धर्मेण शून्यो चक्षुर्विज्ञानं चक्षुर्विज्ञानेन शून्यं श्रोत्रविज्ञानं श्रोत्रविज्ञानेन शून्यं घ्राणविज्ञानं घ्राणविज्ञानेन शून्यं जिह्वाविज्ञानं जिह्वाविज्ञानेन शून्यं कायविज्ञानं कायविज्ञानेन शून्यं मनोविज्ञानं मनोविज्ञानेन शून्यं चक्षुःसंस्पर्शः चक्षुःसंस्पर्शेन शून्यः श्रोत्रसंस्पर्शः श्रोत्रसंस्पर्शेन शून्यो घ्राणसंस्पर्शो घ्राणसंस्पर्शेन शून्यो जिह्वासंस्पर्शो जिह्वासंस्पर्शेन शून्यः कायसंस्पर्शः कायसंस्पर्शेन शून्यो मनःसंस्पर्शो मनःसंस्पर्शेन शून्यः चक्षुःसंस्पर्शजा वेदना चक्षुःसंस्पर्शजया वेदनया शून्या श्रोत्रसंस्पर्शजा वेदना श्रोत्रसंस्पर्शजया वेदनया शून्या घ्राणसंस्पर्शजा वेदना घ्राणसंस्पर्शजया वेदनया शून्या जिह्वासंस्पर्शजा वेदना जिह्वासंस्पर्शजया वेदनया शून्या कायसंस्पर्शजा वेदना कायसंस्पर्शजया वेदनया शून्या मनःसंस्पर्शजा वेदना
२२६१९ मनःसंस्पर्शजया वेदनया शून्या।
२२६२० स्वप्नस्य स {सुभूते निर्याणमिच्छेद्योऽलक्षणानां धर्माणां निर्याणमिच्छेत् ।} विस्तरेण कर्तव्यम्। एवं मरीच्या मायायाः
२२६२१ प्रतिश्रुत्कायाः प्रतिभासस्य प्रतिबिम्बस्य गन्धर्वनगरस्य तथागतनिर्मितस्य स
२२६२२ {सुभूते निर्याणमिच्छेद्योऽलक्षणानां धर्माणां निर्याणमिच्छेत् ।} तत्कस्य हेतोः। न हि सुभूते स्वप्नस्य स्वभावस्त्रैधातुकान्निर्यास्यति
२२६२३ न सर्वाकारज्ञतायां स्थास्यति। एवं न मरीच्याः स्वभावः न मायायाः स्वभावः न प्रतिश्रुत्कायाः स्वभावः न प्रतिभासस्य स्वभावः न प्रतिबिम्बस्य स्वभावः न गन्धर्वस्य स्वभावः न तथा-
२२६२४ गतनिर्मितस्य स्वभावस्त्रैधातुकात्{निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति।} तत्कस्य हेतोः।

२२७०१ तथा हि सुभूते स्वप्नस्वभावः स्वप्नस्वभावेन शून्यः मरीचिस्वभावः मरीचिस्वभावेन शून्यः मायास्वभावः मायास्वभावेन शून्यः प्रतिश्रुत्कास्वभावः प्रतिश्रुत्कास्वभावेन शून्यः प्रतिभासस्वभावः प्रतिभासस्वभावेन शून्यः प्रतिबिम्बस्वभावः प्रतिबिम्बस्वभावेन शून्यः गन्धर्वस्वभावः गन्धर्वस्वभावेन शून्यः तथागतनिर्मित-
२२७०२ स्वभावस्तथागतनिर्मितस्वभावेन शून्यः। [इति दर्शनमार्गे प्रथमग्राह्यविकल्प-
२२७०३ प्रतिपक्षः॥]
२२७०४ दानपारमितायाः स {सुभूते निर्याणमिच्छेद्योऽलक्षणानां धर्माणां निर्याणमिच्छेत् ।} एवं शीलपारमितायाः क्षान्तिपारमितायाः वीर्यपारमितायाः ध्यानपारमितायाः प्रज्ञापार-
२२७०५ मितायाः स {सुभूते निर्याणमिच्छेद्योऽलक्षणानां धर्माणां निर्याणमिच्छेत् ।} तत्कस्य हेतोः। तथा हि सुभूते यो दानपारमितायाः
२२७०६ स्वभावो न स {त्रैधातुकान्निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति}। एवं शील{पारमितायाः} क्षान्ति{पारमिताया} वीर्य{पारमिताया} ध्यान{पारमितायाः}। तथा हि
२२७०७ यः प्रज्ञा{पारमितायाः} स्वभावो न स {त्रैधातुकान्निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति}। तत्कस्य हेतोः। तथा हि {सुभूते} दानपारमिता-
२२७०८ स्वभावो दानपारमितास्वभावेन शून्यः।
२२७०९ शीलपारमितास्वभावो शीलपारमितास्वभावेन शून्यः। क्षान्तिपारमितास्वभावो क्षान्तिपारमितास्वभावेन शून्यः। वीर्यपारमितास्वभावो वीर्यपारमितास्वभावेन शून्यः। ध्यानपारमितास्वभावो ध्यानपारमितास्वभावेन शून्यः।
२२७१० अध्यात्मशून्यतायाः स सुभूते निर्याणमिच्छेत्योऽलक्षणानां धर्माणां
२२७११ निर्याणमिच्छेत् । तत्कस्य हेतोः। तथा हि योऽध्यात्मशून्यतायाः
२२७१२ स्वभावो न स त्रैधातुकान्निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति।
२२७१३ तत्कस्य हेतोः। तथा हि सुभूते अध्यात्मशून्यता अध्यात्मशून्यतया
२२७१४ शून्या।
२२७१५ बहिर्धाशून्यता बहिर्धाशून्यतया शून्या अध्यात्मबहिर्धाशून्यता अध्यात्मबहिर्धाशून्यतया शून्या यावत्
२२७१६ अभावस्वभावशून्यता अभावस्वभावशून्यतया शून्या स्मृत्युपस्थानानि स्मृत्युपस्थानैः शून्यानि सम्यक्प्रहाणानि सम्यक्प्रहाणैर्शून्यानि ऋद्धिपादा ऋद्धिपादैः शून्याः
२२७१७ इन्द्रियाणि इन्द्रियैः शून्यानि बलानि बलैः शून्यानि बोध्यङ्गानि बोध्यङ्गैः शून्यानि मार्गः मार्गेण शून्यो अप्रमाणध्यानारूप्यसमापत्तयः अप्रमाणध्यानारूप्यसमापत्तिभिः शून्याः
२२७१८ दशतथागतबलानि दशतथागतबलैः शून्यानि चतुर्वैशारद्यानि चतुर्वैशारद्यैः शून्यानि चतस्रः प्रतिसंविदः चतसृभिः प्रतिसंविद्भिः शून्याः
२२७१९ तथा हि सुभूते बुद्धधर्मा बुद्धधर्मैः शून्याः॥ [इति दर्शनमार्गे
२२७२० द्वितीयग्राह्यविकल्पप्रतिज्पक्षः॥]
२२७२१ अर्हतः स सुभूते निर्याणमिच्छेत्योऽलक्षणानां धर्माणां निर्याणमिच्छेत् ।
२२७२२ तत्कस्य हेतोः। तथा हि सुभूते योऽर्हतः स्वभावो न स त्रैधातुकान्निर्यास्यति
२२७२३ न सर्वाकारज्ञतायां स्थास्यति। तत्कस्य हेतोः। तथा हि सुभूते अर्हत्-
२२७२४ स्वभावोऽर्हतः स्वभावेन शून्यः।
२२७२५ प्रत्येकबुद्धस्य स सुभूते निर्याणमिच्छेत्योऽलक्षणानां धर्माणां निर्याणमिच्छेत् । बोधिसत्त्वस्य महासत्त्वस्य स सुभूते निर्याणमिच्छेत्योऽलक्षणानां धर्माणां निर्याणमिच्छेत् । तथागतस्य स सुभूते निर्याणमिच्छेत्योऽलक्षणानां धर्माणां निर्याणमिच्छेत् । स्रोत-

२२८०१ आपत्तिफलस्य स {सुभूते निर्याणमिच्छेद्योऽलक्षणानां धर्माणां निर्याणमिच्छेत् ।} एवं सकृदागामिफलस्य अनागामिफलस्य अर्हत्त्वस्य
२२८०२ प्रत्येकबोधेर्मार्गज्ञतायाः सर्वाकारज्ञतायाः स {सुभूते निर्याणमिच्छेद्योऽलक्षणानां धर्माणां निर्याणमिच्छेत् ।} तत्कस्य हेतोः। तथा हि
२२८०३ सुभूते यः स्रोतआपत्तिफलस्य स्वभावो न स {त्रैधातुकान्निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति}। तत्कस्य हेतोः। तथा हि
२२८०४ स्रोतआपत्तिफलस्वभावः स्रोतआपत्तिफलस्वभावेन शून्यः। एवं सकृदागामि-
२२८०५ फलस्य यः स्वभावोऽनागामिफलस्य यः स्वभावोऽर्हत्त्वस्य यः स्वभावः प्रत्येक-
२२८०६ बुद्धत्वस्य यः स्वभावो मार्गज्ञताया यः स्वभावः सर्वाकारज्ञताया यः स्वभावो
२२८०७ न स {त्रैधातुकान्निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति}। तत्कस्य हेतोः। तथा हि सर्वाकारज्ञतायाः स्वभावः सर्वाकारज्ञता-
२२८०८ स्वभावेन शून्यः॥ [इति दर्शनमार्गे प्रथमग्राहकविकल्पप्रतिपक्षः॥]
२२८०९ नाम्नः स {सुभूते निर्याणमिच्छेद्योऽलक्षणानां धर्माणां निर्याणमिच्छेत् ।} एवं निमित्तस्य सङ्केतस्य व्यवहारस्य प्रज्ञप्तेः स {सुभूते निर्याणमिच्छेद्योऽलक्षणानां धर्माणां निर्याणमिच्छेत् ।}
२२८१० तत्कस्य हेतोः। तथा हि सुभूते यो नाम्नः स्वभावो न स {त्रैधातुकान्निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति}। तत्कस्य
२२८११ हेतोः। तथा हि सुभूते नामस्वभावो नामस्वभावेन शून्यः। एवं सङ्केतस्य यः
२२८१२ स्वभावो व्यवहारस्य यः स्वभावः प्रज्ञप्तेर्यः स्वभावो न स त्रैधातुकान्निर्यास्यति
२२८१३ न सर्वाकारज्ञतायां स्थास्यति। तत्कस्य हेतोः। तथा हि प्रज्ञप्तिस्वभावः प्रज्ञप्ति-
२२८१४ स्वभावेन शून्यः। अनुत्पादस्वभावोऽनुत्पादस्वभावेन शून्यो
२२८१५ अनिरोधस्वभावोऽनिरोधस्वभावेन शून्यः तथा हि अनभिसंस्कारस्वभावोऽनभि-
२२८१६ संस्कारस्वभावेन शून्यः। एवं हि सुभूते महायानम्। न स त्रैधातुकान्निर्यास्यति
२२८१७ न सर्वाकारज्ञतायां स्थास्यति। अचलितं तद्यानम्॥ [इति दर्शनमार्गे
२२८१८ द्वितीयग्राहकविकल्पप्रतिपक्षः॥]
२२८१९ यत्पुनः सुभूतिरेवमाह् क्व तद्यानं स्थास्यतीति। न तद्यानं क्वचित्

२२९०१ स्थास्यति। तत्कस्य हेतोः। तथा हि {सुभूते} अस्थिताः सर्वधर्माः। अपि तु {सुभूते}
२२९०२ अस्थानं न स्थानयोगेन तद्यानं स्थास्यति। तद्यथापि नाम {सुभूते} धर्म-
२२९०३ धातुर्न {स्थितो नास्थितः}। एवमेव {सुभूते} तत्महयानं न {स्थितं नास्थितम्}। तद्यथापि नाम सुभूते
२२९०४ अनुत्पादोऽनिरोधोऽसंक्लेशोऽव्यवदानमनभिसंस्कारो न {स्थितो नास्थितः}। एवमेव {सुभूते}
२२९०५ तत्महायानं न {स्थितं नास्थितम्}। तथा हि {सुभूते} धर्मध्तुर्धर्मधातुना शून्यः। तत्
२२९०६ कस्य हेतोः। न हि {सुभूते} धर्मधातुस्वभावः स्थितो वा अस्थितो वा।
२२९०७ तत्कस्य हेतोः। तथा हि {सुभूते} धर्मधातुस्वभावो धर्मधातुस्वभावेन शून्यः।
२२९०८ एवमनुत्पादोऽनिरोधोऽसंक्लेशोऽव्यवदानमनभिसंस्कारोऽनभिसंस्कारेण शून्यः।
२२९०९ तत्कस्य हेतोः। न हि {सुभूते} अनभिसंस्कारस्वभावः स्थितो वा अस्थितो
२२९१० वा। तत्कस्य हेतोः। तथा हि {सुभूते} अनभिसंस्कारस्वभावोऽनभिसंस्कार-
२२९११ स्वभावेन शून्यः। एवं हि {सुभूते} तद्यानं न क्वचित्स्थास्यति अस्थितमस्थानयोगेन
२२९१२ अचाल्ययोगेन् । [इति भावनामार्गे प्रथमग्राह्यविकल्पप्रतिपक्षः॥]
२२९१३ यत्पुनः सुभूतिरेवमाह् कस्तेन यानेन निर्यास्यतीति। न कश्चित्तेन
२२९१४ यानेन निर्यास्यति। तत्कस्य हेतोः। तथा हि {सुभूते} यच्च तद्यानं येन च
२२९१५ निर्यास्यति यश्च निर्यास्यति यतश्च निर्यास्यति सर्व एते धर्मा न संविद्यन्ते
२२९१६ एवमसंविद्यमानानां सर्वधर्माणां कतमो धर्मः कतमेन धर्मेण निर्यास्यति। तत्
२२९१७ कस्य हेतोः। तथा हि {सुभूते} नात्मा उपलभ्यते न सत्त्वो न जीवो न पोषो न पुरुषो न पुद्गलो न मनुजो न मानवो न कारको न वेदको न जानको न
२२९१८ पश्यक उपलभ्यते आत्मनोऽत्यन्तविशुद्धितामुपादाय् एवं यावत्
२२९१९ पश्यकस्यात्यन्तविशुद्धितामुपादाय धर्मधातुर्{नोपलभ्यते अत्यन्तविशुद्धितामुपादाय}। एवमनुत्पादो ऽनिरोधोऽसंक्लेशोऽव्यवदानम्
२२९२० अनभिसंस्कारो {नोपलभ्यते अत्यन्तविशुद्धितामुपादाय}। स्कन्धधात्वायतनानि {नोपलभ्यन्ते अत्यन्तविशुद्धितामुपादाय}। प्रतीत्यसमुत्पादो {नोपलभ्यते अत्यन्तविशुद्धितामुपादाय}।
२२९२१ दानपारमिता {नोपलभ्यते अत्यन्तविशुद्धितामुपादाय}। एवं शील{पारमिता} क्षान्ति{पारमिता} वीर्य{पारमिता} ध्यान{पारमिता} प्रज्ञा{पारमिता}
२२९२२ {नोपलभ्यते अत्यन्तविशुद्धितामुपादाय}। अध्यात्मशून्यता {नोपलभ्यते अत्यन्तविशुद्धितामुपादाय}।
२२९२३ यावदभावस्वभावशून्यता नोपलभ्यते अत्यन्तविशुद्धितामुपादाय् स्मृत्युपस्थानानि नोपलभ्यन्ते अत्यन्तविशुद्धितामुपादाय् सम्यक्प्रहाणानि नोपलभ्यन्ते अत्यन्तविशुद्धितामुपादाय् ऋद्धिपादा नोपलभ्यन्ते अत्यन्तविशुद्धितामुपादाय् इन्द्रियाणि नोपलभ्यन्ते अत्यन्तविशुद्धितामुपादाय् बलानि नोपलभ्यन्ते अत्यन्तविशुद्धितामुपादाय् बोध्यङ्गानि नोपलभ्यन्ते अत्यन्तविशुद्धितामुपादाय् मार्गः नोपलभ्यते अत्यन्तविशुद्धितामुपादाय् अप्रमाणध्यानारूप्यसमापत्तयः नोपलभ्यन्ते अत्यन्तविशुद्धितामुपादाय् दशतथागतबलानि नोपलभ्यन्ते अत्यन्तविशुद्धितामुपादाय् चतुर्वैशारद्यानि नोपलभ्यन्ते अत्यन्तविशुद्धितामुपादाय् चतस्रः प्रतिसंविदः नोपलभ्यन्ते अत्यन्तविशुद्धितामुपादाय् अष्टादशावेणिकबुद्धधर्मा नोपलभ्यन्ते अत्यन्तविशुद्धितामुपादाय् अर्हन्नोपलभ्यते अत्यन्तविशुद्धितामुपादाय् प्रत्येकबुद्धो नोपलभ्यते अत्यन्तविशुद्धितामुपादाय् बोधिसत्त्वो महासत्त्वो नोपलभ्यन्ते अत्यन्तविशुद्धितामुपादाय् तथागतो नोपलभ्यते अत्यन्तविशुद्धितामुपादाय् स्रोतआपत्तिफलो नोपलभ्यते अत्यन्तविशुद्धितामुपादाय् सकृदागामिफलो नोपलभ्यते अत्यन्तविशुद्धितामुपादाय् अनागामिफलो नोपलभ्यते अत्यन्तविशुद्धितामुपादाय् अर्हत्त्वं नोपलभ्यते अत्यन्तविशुद्धितामुपादाय् प्रत्येकबोधिर्नोपलभ्यते अत्यन्तविशुद्धितामुपादाय् मार्गज्ञता नोपलभ्यते अत्यन्तविशुद्धितामुपादाय्
२२९२४ सर्वाकारज्ञाता {नोपलभ्यते अत्यन्तविशुद्धितामुपादाय}। प्रमुदिता भूमिर्{नोपलभ्यते अत्यन्तविशुद्धितामुपादाय}। एवं विमला प्रभाकरी

२३००१ अर्चिष्मती सुदुर्जया अभिमुखी दुरङ्गमा अचला साधुमती धर्ममेघा भूमि-
२३००२ र्{नोपलभ्यते अत्यन्तविशुद्धितामुपादाय}। पूर्वान्तो {नोपलभ्यते अत्यन्तविशुद्धितामुपादाय}। अपरान्तो {नोपलभ्यते अत्यन्तविशुद्धितामुपादाय}। प्रत्युत्पन्नो {नोपलभ्यते अत्यन्तविशुद्धितामुपादाय}। एवमगतिर्{नोपलभ्यते}
२३००३ गतिर्{नोपलभ्यते}। स्थितिर्{नोपलभ्यते} च्युतिर्{नोपलभ्यते} उपपत्तिर्{नोपलभ्यते} हानिर्{नोपलभ्यते} ऋद्धिर्{नोपलभ्यते}
२३००४ अत्यन्तविशुद्धितामुपादाय्
२३००५ कस्यानुपलब्ध्या {नोपलभ्यते}। धर्मधातोरनुपलब्ध्या {नोपलभ्यते}। तत्कस्य हेतोः।
२३००६ न हि {सुभूते} धर्मधातुरुपलभ्यते अनुपलब्ध्या नोपलभ्यत् अनुत्पादस्या-
२३००७ निरोधस्यासंक्लेशस्य अव्यवदानस्य अनभिसंस्कारस्यानुपलब्ध्या नोपलभ्यते
२३००८ अभिसंस्कारः। स्कन्धधात्वायतनानुपलब्ध्या नोपलभ्यन्ते स्कन्धधात्वायतनानि।
२३००९ प्रतीत्यसमुत्पादानुपलब्ध्या नोपलभ्यते प्रतीत्यसमुत्पादः। दानपारमिता-
२३०१० नुपलब्ध्या नोपलभ्यते दानपारमिता
२३०११ शीलपारमितानुपलब्ध्या नोपलभ्यते शीलपारमिता क्षान्तिपारमितानुपलब्ध्या नोपलभ्यते क्षान्तिपारमिता वीर्यपारमितानुपलब्ध्या नोपलभ्यते वीर्यपारमिता ध्यानपारमितानुपलब्ध्या नोपलभ्यते ध्यानपारमिता प्रज्ञापारमितानुपलब्ध्या नोपलभ्यते प्रज्ञापारमिता अध्यात्मशून्यतानुपलब्ध्या नोपलभ्यते अध्यात्मशून्यता बहिर्धाशून्यतानुपलब्ध्या नोपलभ्यते बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यतानुपलब्ध्या नोपलभ्यते अध्यात्मबहिर्धाशून्यता यावतभावस्वभावशून्यतानुपलब्ध्या नोपलभ्यते अभावस्वभावशून्यता स्मृत्युपस्थानानुपलब्ध्या नोपलभ्यन्ते स्मृत्युपस्थानानि सम्यक्प्रहाणानुपलब्ध्या नोपलभ्यन्ते सम्यक्प्रहाणानि ऋद्धिपादानुपलब्ध्या नोपलभ्यन्ते ऋद्धिपादाः इन्द्रियानुपलब्ध्या नोपलभ्यन्ते इन्द्रियाणि बलानुपलब्ध्या नोपलभ्यन्ते बलानि बोध्यङ्गानुपलब्ध्या नोपलभ्यते बोध्यङ्गानि मार्गानुपलब्ध्या नोपलभ्यते मार्गः अप्रमाणध्यानारूप्यसमापत्त्यनुपलब्ध्या नोपलभ्यन्ते अप्रमाणध्यानारूप्यसमापत्तयः दशतथागतबलानुपलब्ध्या नोपलभ्यन्ते दशतथागतबलानि चतुर्वैशारद्यानुपलब्ध्या नोपलभ्यन्ते चतुर्वैशारद्यानि प्रतिसंविदनुपलब्ध्या नोपलभ्यन्ते चतस्रः प्रतिसंविदः। बुद्धधर्मानुपलब्ध्या
२३०१२ अष्टादशावेणिका बुद्धधर्मा नोपलभ्यन्त् । [इति भावनामार्गे द्वितीयग्राह्य-
२३०१३ विकल्पप्रतिपक्षः॥]
२३०१४ स्रोतआपन्नः स्रोतआपन्नानु{पलब्ध्या नोपलभ्यते}। तत्कस्य हेतोः। न हि सुभूते स्रोत-
२३०१५ आपन्न उपलभ्यते अत्यन्तविशुद्धितामुपादाय् एवं सकृदागाम्यनागाम्यर्हन्न-
२३०१६ र्हदनु{पलब्ध्या नोपलभ्यते} प्रत्येकबुद्धः प्रत्येकबुद्धानु{पलब्ध्या नोपलभ्यते} यावत्तथागतस्तथागतानु{पलब्ध्या नोपलभ्यते}। तत्कस्य
२३०१७ हेतोः। न हि सुभूते तथागत उपलभ्यते अत्यन्तविशुद्धितामुपादाय् । [इति
२३०१८ भावनामार्गे प्रथमग्राहकविकल्पप्रतिपक्षः॥]
२३०१९ स्रोतआपत्तिफलं स्रोतआपत्तिफलानु{पलब्ध्या नोपलभ्यते}। एवं सकृदागामिफलमना-
२३०२० गामिफलमर्हत्त्वं प्रत्येकबुद्धत्वं बोधिसत्त्वत्वं बुद्धत्वं बुद्धानु{पलब्ध्या नोपलभ्यते}। एवं प्रमुदिता
२३०२१ भूमिर्भूम्यनु{पलब्ध्या नोपलभ्यते} विमला प्रभाकरी अर्चिष्मती सुदुर्जया अभिमुखी दुरङ्गमा अचला साधुमती
२३०२२ धर्ममेघा भूमिर्भूम्यनु{पलब्ध्या नोपलभ्यते} अत्यन्तविशुद्धितामुपादाय्
२३०२३ पुनरपरं सुभूते दशभूमयो भूम्यनु{पलब्ध्या नोपलभ्यते}। कतमा दश् शुक्लविदर्शना भूमि-
२३०२४ र्गोत्रभूमिरष्टमकभूमिर्दर्शनभूमिस्तनुभूमिः वीतरागभूमिः कृताविभूमिः प्रत्येक-
२३०२५ बुद्धभूमिर्बोधिसत्त्वभूमिर्बुद्धभूमिः। अध्यात्मशून्यतया प्रथमा भूमिर्नोपलभ्यत्

२३१०१ बहिर्धा{शून्यतया प्रथमा भूमिर्नोपलभ्यते}। अध्यात्मबहिर्धा{शून्यतया प्रथमा भूमिर्नोपलभ्यते}। यावदभावस्वभाव{शून्यतया प्रथमा भूमिर्नोपलभ्यते}। यावद्दशमी भूमिः
२३१०२ अध्यात्मशून्यतया दशमी भूमिर्नोपलभ्यते
२३१०३ बहिर्धाशून्यतया दशमी भूमिर्नोपलभ्यत् अध्यात्मबहिर्धाशून्यतया दशमी भूमिर्नोपलभ्यत् यावदभावस्वभावशून्यतया दशमी भूमिर् नोपलभ्यते अत्यन्तविशुद्धितामुपादाय् अध्या-
२३१०४ त्मशून्यतया सत्त्वपरिपाको नोपलभ्यते
२३१०५ बहिर्धाशून्यतया सत्त्वपरिपाको नोपलभ्यत् अध्यात्मबहिर्धाशून्यतया सत्त्वपरिपाको नोपलभ्यत् यावदभावस्वभावशून्यतया सत्त्वपरिपाको नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय् अध्यात्मशून्यतया बुद्धक्षेत्र-
२३१०६ परिशुद्धिर्नोपलभ्यते बहिर्धाशून्यतया बुद्धक्षेत्रपरिशुद्धिर्नोपलभ्यत् अध्यात्मबहिर्धाशून्यतया बुद्धक्षेत्रपरिशुद्धिर्नोपलभ्यत् यावदभावस्वभावशून्यतया बुद्धक्षेत्रपरिशुद्धिर्नोपलभ्यते अत्यन्तविशुद्धितामुपादाय।
२३१०७ अध्यात्मशून्यतया पञ्चचक्षूंषि नोपलभ्यन्ते
२३१०८ बहिर्धाशून्यतया पञ्चचक्षूंषि नोपलभ्यन्त् अध्यात्मबहिर्धाशून्यतया पञ्चचक्षूंषि नोपलभ्यन्त् यावदभावस्वभावशून्यतया पञ्चचक्षूंषि नोपलभ्यन्ते अत्यन्तविशुद्धितामुपादाय। एवं हि {सुभूते} {बोधिसत्त्वो} महासत्त्वोऽनुपलम्भयोगेन सर्व-
२३१०९ धर्माणां महायानेन सर्वाकारज्ञतायां निर्यास्यति॥ [इति भावनामार्गे द्वितीय-
२३११० ग्राहकविकल्पप्रतिपक्षः॥] [इत्युक्ता सम्भारप्रतिपत्तिः॥]
२३१११ अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत् । महायानं महायान-
२३११२ मितीदं भगवन्नुच्यत् सदेवमानुषासुरं लोकमभिभूय निर्यास्यति तेनोच्यते
२३११३ महायानमिति। आकाशसमं तद्यानम्। तद्यथापि नाम भगवन्नाकाशे
२३११४ऽप्रमेयाणामसंख्येयानमपरिमाणानां सत्त्वानामवकाशः। एवमेव
२३११५ भगवन्नस्मिन्महायाने अप्रमेयाणामसंख्येयानामपरिमाणानां सत्त्वानाम्
२३११६ अवकाशः। एवं हि भगवन्न् बोधिसत्त्वस्य महायानम्। तद्{यथापि नाम भगवन्न्} आकाशस्य
२३११७ नाप्यागमो दृश्यते न निर्गमो न स्थानं दृश्यत् एवम् {एवास्य भगवन्महायानस्य} नाप्यागमो दृश्यते न निर्गमो न स्थान-
२३११८ मुपलभ्यत् तद्{यथापि नाम भगवन्न्} आकाशस्य नापि पूर्वान्त उपलभ्यते नापरान्त उप-
२३११९ लभ्यते न मध्य उपलभ्यते अध्वसमतामुपादाय् एवम् {एवास्य भगवन्महायानस्य} नापि पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्य उपलभ्यते अध्वसमताम्
२३१२० उपादाय् एवमिदं भगवन्महायानं महायानमित्युच्यत् भगवानाह्
२३१२१ एवमेतत्{सुभूते} {बोधिसत्त्वस्य} महासत्त्वस्य महायानम्। यदिमाः षड्पारमिता दान-

२३२०१ पारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता इदं {सुभूते} {बोधिसत्त्वस्य} महासत्त्वस्य महायानम्।
२३२०२ पुनरपरं {सुभूते} {बोधिसत्त्वस्य} महासत्त्वस्य महायानं यदुत सर्वधारणीमुखानि सर्वसमाधि-
२३२०३ मुखानि शूरंगमः समाधिर्विस्तरेण कार्यः यावदसङ्गाकाशविमुक्तिनिरुपलेपः
२३२०४ समाधिः। इदं {सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्}। पुनर्{अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्} यदुत अध्यात्मशून्यता बहिधाशून्यता
२३२०५ अध्यात्मबहिर्धाशून्यता यावदभावस्वभावशून्यता इदं {सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्।} पुनर्{अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्} यदुत
२३२०६ चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चतुर ऋद्धिपादान् पञ्चेन्द्रियाणि पञ्च बलानि सप्त बोध्यङ्गानि आर्याष्टांगमार्गा चतस्रः प्रतिसंविदश्चत्वारि वैशारद्यानि षडभिज्ञा दशतथागतबलानि अष्टादशावेणिका
२३२०७ बुद्धधर्मा इदं {सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्।}
२३२०८ यत्पुनः सुभूतिरेवमाह् सदेवमानुषासुरं लोकमभिभूय तद्यानं
२३२०९ निर्यास्यतीति। कतमश्च सदेवमानुषासुरो लोको यदुत कामधातू
२३२१० रूपधातुरारूप्यधातुः। सचेत्सुभूते कामधातुस्तथता अवितथता अनन्य-
२३२११ तथता अविपरीतं भूतं तत्त्वं यथावन्नित्यो ध्रुवः शाश्वतोऽविपरिणामधर्मी
२३२१२ भावो भविष्यन्नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकमभिभूय
२३२१३ निरयास्यत् । यस्मात्तर्हि सुभूते कामधातुः कल्पितो विठपितः सन्दर्शितोऽ-
२३२१४ यथावत्सर्वमनित्यमध्रुवमशाश्वतं विपरिणामधर्मि अभावस्तस्मादिदं
२३२१५ महायानं सदेवमानुषासुरं लोकमभिभूय निर्यास्यति।
२३२१६ सचेत्सुभूते रूपधातुस्तथता अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं यथावन्नित्यो ध्रुवः शाश्वतोऽविपरिणामधर्मी भावो भविष्यन्नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकमभिभूय निरयास्यत् । यस्मात्तर्हि सुभूते रूपधातुः कल्पितो विठपितः सन्दर्शितोऽयथावत्सर्वमनित्यमध्रुवमशाश्वतं विपरिणामधर्मि अभावस्तस्मादिदं महायानं सदेवमानुषासुरं लोकमभिभूय निर्यास्यति। सचेत्सुभूते आरूप्यधातुस्तथता अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं यथावन्नित्यो ध्रुवः शाश्वतोऽविपरिणामधर्मी भावो भविष्यन्नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकमभिभूय निरयास्यत् । यस्मात्तर्हि सुभूते आरूप्यधातुः कल्पितो विठपितः सन्दर्शितोऽयथावत्सर्वमनित्यमध्रुवमशाश्वतं विपरिणामधर्मि अभावस्तस्मादिदं महायानं सदेवमानुषासुरं लोकमभिभूय निर्यास्यति।
२३२१७ सचेत्सुभूते रूपं तथता अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं यथावन्नित्यो ध्रुवः शाश्वतोऽविपरिणामधर्मी भावो भविष्यन्नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकमभिभूय निरयास्यत् । यस्मात्तर्हि सुभूते रूपं कल्पितं विठपितं सन्दर्शितमयथावत्सर्वमनित्यमध्रुवमशाश्वतं विपरिणामधर्मि अभावस्तस्मादिदं महायानं सदेवमानुषासुरं लोकमभिभूय निर्यास्यति। एवं वेदना संज्ञा संस्काराः। सचेत्सुभूते विज्ञानं तथता अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं यथावन्नित्यो ध्रुवः शाश्वतोऽविपरिणामधर्मी भावो भविष्यन्नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकमभिभूय निरयास्यत् । यस्मात्तर्हि सुभूते विज्ञानं कल्पितं विठपितं सन्दर्शितमयथावत्सर्वमनित्यमध्रुवमशाश्वतं विपरिणामधर्मि अभावस्तस्मादिदं महायानं सदेवमानुषासुरं लोकमभिभूय निर्यास्यति। सचेत्सुभूते चक्षुः तथता अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं यथावन्नित्यो ध्रुवः शाश्वतोऽविपरिणामधर्मी भावो भविष्यन्नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकमभिभूय निरयास्यत् । यस्मात्तर्हि सुभूते चक्षुः कल्पितं विठपितं सन्दर्शितमयथावत्सर्वमनित्यमध्रुवमशाश्वतं विपरिणामधर्मि अभावस्तस्मादिदं महायानं सदेवमानुषासुरं लोकमभिभूय निर्यास्यति। एवं श्रोत्रं घ्राणं जिह्वा कायः। सचेत्सुभूते मनः तथता अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं यथावन्नित्यो
ध्रुवः शाश्वतोऽविपरिणामधर्मी भावो भविष्यन्नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकमभिभूय निरयास्यत् । यस्मात्तर्हि सुभूते मनः कल्पितं विठपितं सन्दर्शितमयथावत्सर्वमनित्यमध्रुवमशाश्वतं विपरिणामधर्मि अभावस्तस्मादिदं महायानं सदेवमानुषासुरं लोकमभिभूय निर्यास्यति। सचेत्सुभूते रूपं तथता अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं यथावन्नित्यो ध्रुवः शाश्वतोऽविपरिणामधर्मी भावो भविष्यन्नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकमभिभूय निरयास्यत् । यस्मात्तर्हि सुभूते रूपं कल्पितं विठपितं सन्दर्शितमयथावत्सर्वमनित्यमध्रुवमशाश्वतं विपरिणामधर्मि अभावस्तस्मादिदं महायानं सदेवमानुषासुरं लोकमभिभूय निर्यास्यति। एवं शब्दो गन्धो रसः स्प्रष्टव्यम्। सचेत्सुभूते धर्मः तथता अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं यथावन्नित्यो ध्रुवः शाश्वतोऽविपरिणामधर्मी भावो भविष्यन्नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकमभिभूय निरयास्यत् । यस्मात्तर्हि सुभूते धर्मः कल्पितो विठपितः सन्दर्शितोऽयथावत्सर्वमनित्यमध्रुवमशाश्वतं विपरिणामधर्मि अभावस्तस्मादिदं महायानं सदेवमानुषासुरं लोकमभिभूय निर्यास्यति। सचेत्सुभूते चक्षुर्विज्ञानं तथता अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं यथावन्नित्यो ध्रुवः शाश्वतोऽविपरिणामधर्मी भावो भविष्यन्नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकमभिभूय निरयास्यत् । यस्मात्तर्हि सुभूते चक्षुर्विज्ञानं
कल्पितं विठपितं सन्दर्शितमयथावत्सर्वमनित्यमध्रुवमशाश्वतं विपरिणामधर्मि अभावस्तस्मादिदं महायानं सदेवमानुषासुरं लोकमभिभूय निर्यास्यति। एवं श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्वाविज्ञानं कायविज्ञानं। सचेत्सुभूते मनोविज्ञानं तथता अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं यथावन्नित्यो ध्रुवः शाश्वतोऽविपरिणामधर्मी भावो भविष्यन्नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकमभिभूय निरयास्यत् । यस्मात्तर्हि सुभूते मनोविज्ञानं कल्पितं विठपितं सन्दर्शितमयथावत्सर्वमनित्यमध्रुवमशाश्वतं विपरिणामधर्मि अभावस्तस्मादिदं महायानं सदेवमानुषासुरं लोकमभिभूय निर्यास्यति। सचेत्सुभूते चक्ष्ःसंस्पर्शः तथता अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं यथावन्नित्यो ध्रुवः शाश्वतोऽविपरिणामधर्मी भावो भविष्यन्नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकमभिभूय निरयास्यत् । यस्मात्तर्हि सुभूते चक्षुःसंस्पर्शः कल्पितो विठपितः सन्दर्शितोऽयथावत्सर्वमनित्यमध्रुवमशाश्वतं विपरिणामधर्मि अभावस्तस्मादिदं महायानं सदेवमानुषासुरं लोकमभिभूय निर्यास्यति। एवं श्रोत्रसंस्पर्शः घ्राणसंस्पर्शः जिह्वासंस्पर्शः कायसंस्पर्शः। सचेत्सुभूते मनःसंस्पर्शः तथता अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं यथावन्नित्यो ध्रुवः शाश्वतोऽविपरिणामधर्मी भावो भविष्यन्नाभावो नैवेदं महायानं
सदेवमानुषासुरं लोकमभिभूय निरयास्यत् । यस्मात्तर्हि सुभूते मनःसंस्पर्शः कल्पितो विठपितः सन्दर्शितोऽयथावत्सर्वमनित्यमध्रुवमशाश्वतं विपरिणामधर्मि अभावस्तस्मादिदं महायानं सदेवमानुषासुरं लोकमभिभूय निर्यास्यति।
२३२१८ सचेत्सुभूते चक्षुःसंस्पर्शजा वेदना तथता अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं यथावन्नित्यो ध्रुवः शाश्वतोऽविपरिणामधर्मी भावो भविष्यन्नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकमभिभूय निरयास्यत् । यस्मात्तर्हि सुभूते चक्षुःसंस्पर्शजा वेदना कल्पिता विठपिता सन्दर्शिताऽयथावत्सर्वमनित्यमध्रुवमशाश्वतं विपरिणामधर्मि अभावस्तस्मादिदं महायानं सदेवमानुषासुरं लोकमभिभूय निर्यास्यति। एवं श्रोत्रसंस्पर्शजा वेदना घ्राणसंस्पर्शजा वेदना जिह्वासंस्पर्शजा वेदना कायसंस्पर्शजा वेदना। सचेत्सुभूते मनःसंस्पर्शजा वेदना तथता अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं यथावन्नित्यो ध्रुवः शाश्वतोऽविपरिणामधर्मी भावो भविष्यन्नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकमभिभूय निरयास्यत् । यस्मात्तर्हि सुभूते मनःसंस्पर्शजा वेदना कल्पिता विठपिता सन्दर्शिताऽयथावत्सर्वमनित्यमध्रुवमशाश्वतं विपरिणामधर्मि अभावस्तस्मादिदं महायानं सदेवमानुषासुरं लोकमभिभूय निर्यास्यति।
२३२१९ सचेत्सुभूते धर्मधातुर्भावो भविष्यन्नाभावो नैवेदं महायानं सदेवमानुषा-
२३२२० सुरं लोकमभिभूय निर्यास्यत् । यस्मात्तर्हि सुभूते धर्मधातुरभावो न भाव-
२३२२१ स्तस्मात्महायानं सदेवमानुषासुरं लोकमभिभूय निर्यास्यति। एवं तथता
२३२२२ भूतकोटिः सचेत्सुभूते अचिन्त्यधातुर्भावो भविष्यन्नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकमभिभूय निर्यास्यत् । यस्मात्तर्हि सुभूते अचिन्त्यधातुरभावो न भावस्तस्मात्महायानं सदेवमानुषासुरं लोकमभिभूय निर्यास्यति।

२३३०१ सचेत्सुभूते दानपारमिता भावो भविष्यन्नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकमभिभूय निर्यास्यत् । यस्मात्तर्हि सुभूते दानपारमिता अभावो न भावस्तस्मात्महायानं सदेवमानुषासुरं लोकमभिभूय निर्यास्यति। सचेत्सुभूते शीलपारमिता भावो भविष्यन्नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकमभिभूय निर्यास्यत् । यस्मात्तर्हि सुभूते शीलपारमिता अभावो न भावस्तस्मात्महायानं सदेवमानुषासुरं लोकमभिभूय निर्यास्यति। सचेत्सुभूते क्षान्तिपारमिता भावो भविष्यन्नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकमभिभूय निर्यास्यत् । यस्मात्तर्हि सुभूते क्षान्तिपारमिता अभावो न भावस्तस्मात्महायानं सदेवमानुषासुरं लोकमभिभूय निर्यास्यति। सचेत्सुभूते वीर्यपारमिता भावो भविष्यन्नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकमभिभूय निर्यास्यत् । यस्मात्तर्हि सुभूते वीर्यपारमिता अभावो न भावस्तस्मात्महायानं सदेवमानुषासुरं लोकमभिभूय निर्यास्यति। सचेत्सुभूते ध्यानपारमिता भावो भविष्यन्नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकमभिभूय निर्यास्यत् । यस्मात्तर्हि सुभूते ध्यानपारमिता अभावो न भावस्तस्मात्महायानं सदेवमानुषासुरं लोकमभिभूय निर्यास्यति। सचेत्सुभूते प्रज्ञापारमिता भावो भविष्यन्नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकमभिभूय निर्यास्यत् । यस्मात्तर्हि सुभूते प्रज्ञापारमिता अभावो न भावस्तस्मात्महायानं सदेवमानुषासुरं लोकमभिभूय निर्यास्यति। सचेत्सुभूते अध्यात्मशून्यता भावो भविष्यन्नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकमभिभूय निर्यास्यत् । यस्मात्तर्हि सुभूते
अध्यात्मशून्यता अभावो न भावस्तस्मात्महायानं सदेवमानुषासुरं लोकमभिभूय निर्यास्यति। सचेत्सुभूते बहिर्धाशून्यता भावो भविष्यन्नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकमभिभूय निर्यास्यत् । यस्मात्तर्हि सुभूते बहिर्धाशून्यता अभावो न भावस्तस्मात्महायानं सदेवमानुषासुरं लोकमभिभूय निर्यास्यति। सचेत्सुभूते अध्यात्मबहिर्धाशून्यता भावो भविष्यन्नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकमभिभूय निर्यास्यत् । यस्मात्तर्हि सुभूते अध्यात्मबहिर्धाशून्यता अभावो न भावस्तस्मात्महायानं सदेवमानुषासुरं लोकमभिभूय निर्यास्यति। याबत्सचेत्सुभूते अभावस्वभावशून्यता भावो भविष्यन्नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकमभिभूय निर्यास्यत् । यस्मात्तर्हि सुभूते अभावस्वभावशून्यता अभावो न भावस्तस्मात्महायानं सदेवमानुषासुरं लोकमभिभूय निर्यास्यति।
२३३०२ सचेत्सुभूते स्मृत्युपस्थानानि भावो भविष्यन्नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकमभिभूय निर्यास्यत् । यस्मात्तर्हि सुभूते स्मृत्युपस्थानानि अभावो न भावस्तस्मात्महायानं सदेवमानुषासुरं लोकमभिभूय निर्यास्यति। एवं चत्वारि सम्यकप्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि
२३३०३ पञ्चबलानि सप्त बोध्यङ्गानि। सचेत्सुभूते आर्याष्टाङ्गमार्गो भावो भविष्यन्नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकमभिभूय निर्यास्यत् । यस्मात्तर्हि सुभूते आर्याष्टाङ्गमार्गोऽभावो न भावस्तस्मात्महायानं सदेवमानुषासुरं लोकमभिभूय निर्यास्यति।
२३३०४ सचेत्सुभूते अप्रमाणध्यानारूप्यसमापत्त्यो भावो भविष्यन्नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकमभिभूय निर्यास्यत् । यस्मात्तर्हि सुभूते अप्रमाणध्यानारूप्यसमापत्त्योऽभावो न भावस्तस्मात्महायानं सदेवमानुषासुरं लोकमभिभूय निर्यास्यति।
२३३०५ एवं दशबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदः सचेत्
२३३०६ सुभूते अष्टादशावेणिका बुद्धधर्मा भावः भविष्यन्नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकमभिभूय निर्यास्यत् । यस्मात्तर्हि सुभूते अष्टादशावेणिका बुद्धधर्माऽभावो न भावस्तस्मात्महायानं सदेवमानुषासुरं लोकमभिभूय निर्यास्यति। [इति अग्रहता-
२३३०७ निर्याणम्॥]
२३३०८ सचेत्सुभूते गोत्रभूधर्मा भावो भविष्यन्नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकमभिभूय निर्यास्यत् । यस्मात्तर्हि सुभूते गोत्रभूधर्माऽभावो न भावस्तस्मात्महायानं सदेवमानुषासुरं लोकमभिभूय निर्यास्यति। सचेत्सुभूते
२३३०९ अष्टमकधर्मा भावो भविष्यन्नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकमभिभूय निर्यास्यत् । यस्मात्तर्हि सुभूते अष्टमकधर्माऽभावो न भावस्तस्मात्महायानं सदेवमानुषासुरं लोकमभिभूय निर्यास्यति। एवं स्रोतआपन्नधर्माः सकृदा-
२३३१० गामिधर्मा अनागामिधर्मा अर्हद्धर्माः प्रत्येकबुद्धधर्मा बोधिसत्त्वधर्माः। सचेत्
२३३११ सुभूते बुद्धधर्मा भावो भविष्यन्नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकमभिभूय निर्यास्यत् । यस्मात्तर्हि सुभूते बुद्धधर्माऽभावो न भावस्तस्मात्महायानं सदेवमानुषासुरं लोकमभिभूय निर्यास्यति। सचेत्सुभूते गोत्रभूमिर्भावो
२३३१२ भविष्यन्नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकमभिभूय निर्यास्यत् । यस्मात्तर्हि सुभूते गोत्रभूमिरभावो न भावस्तस्मात्महायानं सदेवमानुषासुरं लोकमभिभूय निर्यास्यति। एवमष्टमकः स्रोतआपन्नः सकृदागाम्यनागाम्यर्हत्-
२३३१३ प्रत्येकबुद्धबोधिसत्त्वः। सचेत्सुभूते बुद्धो भावो भविष्यन्नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकमभिभूय निर्यास्यत् । यस्मात्तर्हि सुभूते बुद्धोऽभावो न भावस्तस्मात्महायानं सदेवमानुषासुरं लोकमभिभूय निर्यास्यति। सचेत्
२३३१४ सुभूते मानुषासुरलोको भावो भविष्यन्नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकमभिभूय निर्यास्यत् । यस्मात्तर्हि सुभूते मानुषासुरलोकोऽभावो न भावस्तस्मात्महायानं सदेवमानुषासुरं लोकमभिभूय निर्यास्यति। [इति प्रहाणनिर्याणम्॥]
२३३१५ सचेत्सुभूते प्रथमचित्तोत्पादमुपादाय {बोधिसत्त्वस्य} महासत्त्वस्य यावदा बोधि-
२३३१६ मण्डादेतस्मिन्नन्तरे ये चित्तोत्पादास्ते भावः भविष्यन्नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकमभिभूय निर्यास्यत् । यस्मात्तर्हि सुभूते चित्तोत्पादा अभावो न भावस्तस्मात्महायानं सदेवमानुषासुरं लोकमभिभूय निर्यास्यति।
२३३१७ सचेत्सुभूते {बोधिसत्त्वस्य} महासत्त्वस्य वज्रोपमं ज्ञानं भावो भविष्यन्नाभावो
२३३१८ नैव {बोधिसत्त्वो} महासत्त्वः सर्ववासनानुसन्धिक्लेशान् भावान् विदित्वा सर्वाकारवरो-
२३३१९ पेतं सर्वज्ञज्ञानमनुप्राप्नुयात् । यस्मात्सुभूते {बोधिसत्त्वस्य} महासत्त्वस्य वज्रोपमं

२३४०१ ज्ञानमभावो न भावस्तस्माद्{बोधिसत्त्वो} महासत्त्वः सर्ववासनानुसन्धिक्लेशान-
२३४०२ भावानिति विदित्वा सर्वाकारवरोपेतं सर्वज्ञज्ञानमनुप्राप्नोति। एवं महायानं
२३४०३ सदेवमानुषासुरं लोकमभिभूय निर्यास्यति।
२३४०४ सचेत्सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य द्वात्रिंशत्महापुरुष-
२३४०५ लक्षणानि भावो भविष्यन्नाभावो नैव तथागता अर्हन्तः सम्यक्संबुद्धाः सदेव-
२३४०६ मानुषासुरं लोकं तेजसा च श्रिया चाभ्यभविष्यत् । यस्मात्सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य द्वात्रिंशत्महापुरुषलक्षणान्यभावो न भावस्तस्मात्तथागता अर्हन्तः सम्यक्संबुद्धाः सदेवमानुषासुरं लोकं तेजसा च श्रिया अभि-
२३४०७ भवन्ति।
२३४०८ सचेत्सुभूते तथागतोऽर्हन् सम्यक्संबुद्धो गङ्गानदीवालुकोपमान् लोक-
२३४०९ धातूनवभासेनास्फारिष्यत् । यस्मात्तर्हि {सुभूते} तथागतस्यार्हतः सम्यक्संबुद्धस्य अवभासोऽभावो न भावस् तस्मात्तथागतोऽर्हन् सम्यक्संबुद्धो गङ्गानदीवालुकोपमान् लोकधातूनवभासेन स्फारति।
२३४१० सचेत्सुभूते तथागतस्य षष्ठ्यङ्गोपेतः स्वरो भावो भविष्यन्नाभावो नैव
२३४११ तथागतोऽर्हन् सम्यक्संबुद्धो दशसु दिक्षु अप्रमेयासंख्येयान् लोकधातून् स्वरेणा-
२३४१२ भिव्यज्ञापयिष्यत् । यस्मात्तर्हि सुभूते तथागतस्य षष्ठ्यङ्गोपेतः स्वरो अभावो न भावस्तस्मात्तथागतोऽर्हन् सम्यक्संबुद्धो दशसु दिक्षु अप्रमेयासंख्येयान् लोकधातून् स्वरेण अभिविज्ञापयति।
२३४१३ सचेत्सुभूते तथागतस्य त्रिपरिवर्तं द्वादशाकारधर्मचक्रं भावो
२३४१४ भविष्यन्नाभावो नैव तथागतस्त्रिपरिवर्तद्वादशाकारं धर्मचक्रं प्रावर्तयिष्यत्
२३४१५ अप्रवर्तनीयं श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा ब्रह्मणा वा केन-
२३४१६ चिद्वा पुनर्लोके सह धर्मेण् यस्मात्तर्हि सुभूते तथागतस्य त्रिपरिवर्तं द्वादशाकारधर्मचक्रमभावो न भावो तस्मात्त्रिपरिवर्तद्वादशाकारं धर्मचक्रमप्रवर्तनीयं श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा ब्रह्मणा वा केनचिद्वा पुनर्लोके सह धर्मेण तथागतेन प्रवर्तितम्।
२३४१७ सचेत्सुभूते सत्त्वा भावो भविष्यन्नाभावो येषां कृतशस्तथागतेन
२३४१८ धर्मचक्रं प्रवर्तितं नैव ते सत्त्वा अनुपधिशेषनिर्वाणधातौ परिनिर्वास्यत्य-
२३४१९ स्मात्तर्हि सत्त्वा अभावो न भावो येषां कृतशस्तथागतेन धर्मचक्रं प्रवर्तितं तस्मात्ते सत्त्वा अनुपधिशेषनिर्वाणधातौ परिनिर्वास्यन्ति॥ [इत्यधिगमनिर्याणमिति त्रिविधमुद्देश-
२३४२० निर्याणम्॥]
२३४२१ यत्पुनः सुभूतिरेवमाह् आकाशसमं तद्यानमिति। एवमेतत्
२३४२२ सुभूते एवमेतताकाशसमं तद्यानम्। यथाकाशस्य न पूर्वा दिक्प्रज्ञायते
२३४२३ न दक्षिणा न पश्चिमा नोत्तरा न विदिशो नाधो नोर्ध्वा दिक्प्रज्ञायते एवमेव

२३५०१ सुभूते तस्य यानस्य न पूर्वा दिक्प्रज्ञायते न दक्षिणा न पश्चिमा नोत्तरा न विदिशो नाधो नोर्ध्वा दिक्प्रज्ञायते {तेनोच्यते आकाशसमं तद्यानमिति}। तद्यथापि नाम सुभूते
२३५०२ आकाशं न दीर्घं न ह्रस्वं न वृत्तं न चतुरस्रं न समं न विषमं न नीलं न
२३५०३ पीतं न लोहितं नावदातं न मञ्जिष्ठं न स्फटिकरजतवर्णम्। एवमेव सुभूए
२३५०४ तत्महायानं न दीर्घं न ह्रस्वं न वृत्तं न चतुरस्रं न समं न विषमं न नीलं न पीतं न लोहितं नावदातं न मञ्जिष्ठं न स्फटिकरजतवर्णम्। {तेनोच्यते आकाशसमं तद्यानमिति}। तद्यथापि नाम सुभूते
२३५०५ आकाशं नातीतं नानागतं न प्रत्युत्पन्नम्। एवमेव सुभूते तत्महायानं
२३५०६ नातीतं नानागतं न प्रत्युत्पन्नम्। {तेनोच्यते आकाशसमं तद्यानमिति}। तद्यथापि नाम सुभूते आकाशस्य न हानिः
२३५०७ न वृद्धिरेवमेव सुभूते तस्य महायानस्य न हानिः न वृद्धिः। {तेनोच्यते आकाशसमं तद्यानमिति}।
२३५०८ तद्{यथापि नाम सुभूते} आकाशस्य न संक्लेशो न व्यवदानम्। एवमेव सुभूते तस्य महायानस्य न संक्लेशो न व्यवदानम्। {तेनोच्यते आकाशसमं तद्यानमिति।} तद्{यथापि नाम सुभूते}
२३५०९ आकाशस्य नोत्पादो न निरोधो न स्थितिन विष्ठितिर्न स्थितेरन्यथात्वम्।
२३५१० एवमेव सुभूते तस्य महायानस्य नोत्पादो न निरोधो न स्थितिन विष्ठितिर्न स्थितेरन्यथात्वम्। {तेनोच्यते आकाशसमं तद्यानमिति}। तद्{यथापि नाम सुभूते} आकाशं न कुशलं नाकुशलं न व्याकृतं नाव्याकृतम्।
२३५११ एवमेव सुभूते तद्महायानं न कुशलं नाकुशलं न व्याकृतं नाव्याकृतम्। {तेनोच्यते आकाशसमं तद्यानमिति}। तद्{यथापि नाम सुभूते} आकाशं न दृष्टं न श्रुतं न मतं न विज्ञातम्। एवमेव
२३५१२ सुभूते तद्महायानं न दृष्टं न श्रुतं न मतं न विज्ञातम्। {तेनोच्यते आकाशसमं तद्यानमिति}। तद्{यथापि नाम सुभूते} आकाशं न ज्ञेयं नाज्ञेयं न परिज्ञेयं न परिज्ञातव्यं न
२३५१३ प्रहातव्यं न साक्षात्कर्तव्यं न भावयितव्यम्। एवमेव सुभूते तद्महायानं न ज्ञेयं नाज्ञेयं न परिज्ञेयं न परिज्ञातव्यं न प्रहातव्यं न साक्षात्कर्तव्यं न भावयितव्यम्। {तेनोच्यते आकाशसमं तद्यानमिति}। तद्{यथापि नाम सुभूते}
२३५१४ आकाशं न विपाको न विपाकधर्मि। एवमेव सुभूते तद्महायानं न विपाको न विपाकधर्मि। {तेनोच्यते आकाशसमं तद्यानमिति}। तद्{यथापि नाम सुभूते} आकाशं न काम-
२३५१५ धातुपर्यापन्नं न रूपधातुपर्यापन्नं नारूप्यधातुपर्यापन्नम्। एवमेव सुभूते तद्महायानं न कामधातुपर्यापन्नं न रूपधातुपर्यापन्नं नारूप्यधातुपर्यापन्नम्। {तेनोच्यते आकाशसमं तद्यानमिति}।
२३५१६ तद्{यथापि नाम सुभूते} आकाशं न प्रथमचित्तोत्पादो न द्वितीयो न तृतीयो न चतुर्थो न पञ्चमो
२३५१७ न षष्ठो न सप्तमो नाष्टमो न नवमो न दशमश्चित्तोत्पादः। एवमेव सुभूते तद्महायानं न प्रथमचित्तोत्पादो न द्वितीयो न तृतीयो न चतुर्थो न पञ्चमो न षष्ठो न सप्तमो नाष्टमो न नवमो न दशमश्चित्तोत्पादः। {तेनोच्यते आकाशसमं तद्यानमिति}।
२३५१८ तद्{यथापि नाम सुभूते} आकाशे न शुक्लविदर्शनाबूमिर्न गोत्रभूमिर्नाष्टमकभूमिर्न दर्शनभूमिर्न
२३५१९ तनुभूमिर्न वीतरागभूमिर्न कृताविभूमिः। एवमेव सुभूते तस्मिन्महायाने न शुक्लविदर्शनाबूमिर्न गोत्रभूमिर्नाष्टमकभूमिर्न दर्शनभूमिर्न तनुभूमिर्न वीतरागभूमिर्न कृताविभूमिः। {तेनोच्यते आकाशसमं तद्यानमिति}। तद्{यथापि नाम सुभूते} आकाशे न
२३५२० स्रोतआपत्तिफलं न सकृदागामिफलं नानागामिफलं नार्हत्त्वं न प्रत्येकबुद्धत्वं
२३५२१ न बुद्धत्वम्। एवमेव सुभूते तस्मिन्महायाने न स्रोतआपत्तिफलं न सकृदागामिफलं नानागामिफलं नार्हत्त्वं न प्रत्येकबुद्धत्वं न बुद्धत्वम्। {तेनोच्यते आकाशसमं तद्यानमिति}। तद्{यथापि नाम सुभूते} आकाशे न श्रावकभूमिर्न प्रत्येकबुद्ध-
२३५२२ भूमिर्न सम्यक्संबुद्धभूमिः। एवमेव सुभूते तस्मिन्महायाने न श्रावकभूमिर्न प्रत्येकबुद्धभूमिर्न सम्यक्संबुद्धभूमिः। {तेनोच्यते आकाशसमं तद्यानमिति}। तद्{यथापि नाम सुभूते} आकाशं न रूपि नारूपि

२३६०१ न सनिदर्शनं नानिदर्शनं न सप्रतिघं नाप्रतिघं न संयुक्तं न विसंयुक्तम्। एवमेव
२३६०२ सुभूते तद्महायानं न रूपि नारूपि न सनिदर्शनं नानिदर्शनं न सप्रतिघं नाप्रतिघं न संयुक्तं न विसंयुक्तम्। {तेनोच्यते आकाशसमं तद्यानमिति}। तद्{यथापि नाम सुभूते} आकाशं न नित्यं नानित्यं न सुखं न दुःखं नात्मा नानात्मा
२३६०३ न शान्तं नाशान्तं। एवमेव सुभूते तद्महायानं न नित्यं नानित्यं न सुखं न दुःखं नात्मा नानात्मा न शान्तं नाशान्तं। {तेनोच्यते आकाशसमं तद्यानमिति}। तद्{यथापि नाम सुभूते} आकाशं न शून्यं नाशून्यं न
२३६०४ निमित्तं नानिमित्तं न प्रणिहितं नाप्रणिहितम्। एवमेव सुभूते तद्महायानं न शून्यं नाशून्यं न निमित्तं नानिमित्तं न प्रणिहितं नाप्रणिहितम्। {तेनोच्यते आकाशसमं तद्यानमिति}। तद्{यथापि नाम सुभूते} आकाशं
२३६०५ न विविक्तं नाविविक्तं नालोको नान्धकारः। एवमेव सुभूते तद्महायानं न विविक्तं नाविविक्तं नालोको नान्धकारः। {तेनोच्यते आकाशसमं तद्यानमिति}। तद्{यथापि नाम सुभूते} आकाशं
२३६०६ न लभ्यते नोपलभ्यत् एवमेव सुभूते तद्महायानं न लभ्यते नोपलभ्यत् {तेनोच्यते आकाशसमं तद्यानमिति}। तद्{यथापि नाम सुभूते} आकाशं न प्रव्याहारो
२३६०७ नाप्रव्याहारः। एवमेव सुभूते तद्महायानं न प्रव्याहारो नाप्रव्याहारः। {तेनोच्यते आकाशसमं तद्यानमिति}॥ [इति समतानिर्याणम्॥]
२३६०८ यत्पुनः सुभूतिरेवमाह् यथाकाशेऽप्रमेयाणामसंख्येयानामपरिमाणानां
२३६०९ सत्त्वानामवकाशः। एवमेव तस्मिन्महायानेऽप्रमेयाणामसंख्येयानामपरि-
२३६१० माणानां सत्त्वानामवकाश इति। एवमेतत्सुभूते एवमेतत् । यथा
२३६११ आकाशेऽप्रमेयाणामसंख्येयानामपरिमाणानां सत्त्वानामवकाशः। एवमेव तस्मिन्महायानेऽप्रमेयाणामसंख्येयानामपरिमाणानां सत्त्वानाम् अवकाश इति। तत्कस्य हेतोः।
२३६१२ सत्त्वासत्तया हि सुभूते आकाशासत्ता वेदितव्या। आकाशासत्तया महा-
२३६१३ यानासत्ता वेदितव्या। अनेनापि सुभूते पर्यायेण तस्मिन्महायानेऽप्रमेया-
२३६१४ णामसंख्येयानामपरिमाणानां सत्त्वानामवकाशः। तत्कस्य हेतोः। तथा हि
२३६१५ सुभूते ये च सत्त्वा यच्चाकाशं यच्च महायानं सर्वमेतन्नोपलभ्यत्
२३६१६ पुनरपरं सुभूते सत्त्वासत्तया आकाशासत्ता वेदितव्या आकाशासत्तया
२३६१७ महायानासत्ता वेदितव्या। महायानासत्तया अप्रमेयासत्ता वेदितव्या। एवं
२३६१८ हि सुभूते तस्मिन् महायानेऽप्रमेयाणामसंख्येयानामपरिमाणानां सत्त्वानामवकाशः। तथा हि सुभूते ये च सत्त्वा यच्चाकाशं यच्च
२३६१९ महायानं यच्चाप्रमेयं सर्वमेवं नोपलभ्यत्
२३६२० पुनरपरं सुभूते सत्त्वासत्तया आकाशासत्ता
२३६२१ वेदितव्या आकाशासत्तया महायानासत्ता वेदितव्या। महायानासत्तया असंख्येयासत्ता वेदितव्या। एवं हि सुभूते तस्मिन्महायानेऽप्रमेयाणामसंख्येयानामपरिमाणानां सत्त्वानामवकाशः। तथा हि सुभूते ये च सत्त्वा यच्चाकाशं यच्च महायानं यच्चासंख्येयं सर्वमेवं नोपलभ्यत्

२३७०१ पुनरपरं सुभूते सत्त्वासत्तया तथागतासत्ता वेदितव्या तथागतासत्तयां
२३७०२ अपरिमाणासत्ता वेदितव्या। एवं हि सुभूते तस्मिन्महायानेऽप्रमेयाणामसंख्येयानामपरिमाणानां सत्त्वानामवकाशः। तथा हि सुभूते ये च सत्त्वा यच्चाकाशं यच्च महायानं यच्चापरिमाणं सर्वमेवं नोपलभ्यते।
२३७०३ पुनरपरं सुभूते सत्त्वासत्तया आकाशासत्ता वेदितव्या आकाशासत्तया महायानासत्ता
२३७०४ वेदितव्या। महायानासत्तया असंस्कृतासत्ता वेदितव्या असंस्कृतासत्तयाप्रमेया-
२३७०५ सत्ता वेदितव्या अप्रमेयासत्तया असंख्येयासत्ता वेदितव्या असंख्येयासत्तया
२३७०६ अपरिमाणासत्ता वेदितव्या अपरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या। एवं
२३७०७ हि सुभूते तस्मिन् महायानेऽप्रमेयाणामसंख्येयानामपरिमाणानां सत्त्वानामवकाशः। तत्कस्य हेतोः। तथा हि सुभूते ये च सत्त्वा यश्च
२३७०८ तथागतो यच्चाकाशं यच्च महायानं यच्चासंस्कृतं यच्चाप्रमेयं यच्चासंख्येयं
२३७०९ यच्चापरिमाणं ये च सर्वधर्माः सर्व एते नोपलभ्यन्त्
२३७१० पुनरपरं सुभूते आत्मसत्त्वासत्तया सत्त्वजीवपोषपुरुषपुद्गलमनुजमानव-
२३७११ कारकवेदकजानकपश्यकासत्ता वेदितव्या। जानकपश्यकासत्तया भूतकोट्यसत्ता
२३७१२ वेदितव्या। भूतकोट्यसत्तया अप्रमेयासंख्येयापरिमाणासत्ता वेदितव्या।
२३७१३ अप्रमेयासंख्येयापरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या। एवं हि {सुभूते} तस्मिन्
२३७१४ महायानेऽप्रमेयाणामसंख्येयानामपरिमाणानां सत्त्वानामवकाशः। तत्कस्य हेतोः। तथा हि सुभूते यश्चात्मा यश्च यावज्जानकपश्यको या च
२३७१५ भूतकोटिः यच्चाप्रमेयमसंख्येयमपरिमाणं ये च सर्वधर्माः सर्व एते नोपलभ्यन्त्
२३७१६ पुनरपरं सुभूते आत्मसत्त्वासत्तया यावज्जानकपश्यकासत्ता वेदि-
२३७१७ तव्या। यावज्जानकपश्यकासत्तया अचिन्त्यधात्वसत्ता वेदितव्या। अचिन्त्य-
२३७१८ धात्वसत्तया रूपस्कन्धासत्ता वेदितव्या। रूपस्कन्धासत्तया वेदना-
२३७१९ स्कन्धासत्ता वेदितव्या। वेदनास्कन्धसत्तया संज्ञास्कन्धासत्ता वेदितव्या। संज्ञास्कन्धासत्तया संस्कारस्कन्धासत्ता वेदितव्या। संस्कारस्कन्धासत्तया विज्ञानस्कन्धासत्ता वेदितव्या। विज्ञानस्कन्धासत्तया आकाशासत्ता
२३७२० वेदितव्या। आकाशासत्तया महायानासत्ता वेदितव्या। महायानासत्तया अप्र-
२३७२१ मेयासंख्येयापरिमाणासत्ता वेदितव्या। अप्रमेयासंख्येयारिमाणासत्तया
२३७२२ सर्वधर्मासत्ता वेदितव्या। एवं हि सुभूते तस्मिन् महायानेऽप्रमेयाणामसंख्येयानामपरिमाणानां सत्त्वानामवकाशः। तत्कस्य हेतोः।
२३७२३ तथा हि सुभूते यश्चात्मा यावद्ये च सर्वधर्माः सर्व एते नोपलभ्यन्त्

२३८०१ पुनरपरं सुभूते आत्मसत्त्वासत्तया यावज्जानकपश्यकासत्ता वेदितव्या।
२३८०२ यावज्जानकपश्यकासत्तया चक्षुरसत्ता वेदितव्या। चक्षुरसत्तया श्रोत्रघ्राण-
२३८०३ जिह्वाकायमनोऽसत्ता वेदितव्या। मनोऽसत्तया आकाशासत्ता वेदितव्या।
२३८०४ आकाशासत्तया महायानासत्ता वेदितव्या। महायानासत्तया अप्रमेयासंख्येया-
२३८०५ परिमाणासत्ता वेदितव्या। अप्रमेयासंख्येयापरिमाणासत्तया सर्वधर्मासत्ता
२३८०६ वेदितव्या। एवं हि सुभूते तस्मिन्महायाने अप्रमेयाणामसंख्येयानामपरिमाणानां
२३८०७ सत्त्वानामवकाशः। तत्कस्य हेतोः। तथा हि सुभूते यश्चात्मा यावद्ये
२३८०८ च सर्वधर्माः सर्व एते नोपलभ्यन्त्
२३८०९ पुनरपरं सुभूते आत्मसत्त्वासत्तया यावज्जानकपश्यकासत्ता वेदितव्या। यावज्जानकपश्यकासत्तया
२३८१० दानपारमितासत्ता वेदितव्या दानपारमितासत्तया शीलपारमितासत्ता वेदितव्या शीलपारमितासत्तया क्षान्तिपारमितासत्ता वेदितव्या क्षान्तिपारमितासत्तया वीर्यपारमितासत्ता वेदितव्या वीर्यपारमितासत्तया
२३८११ ध्यानपारमितासत्ता वेदितव्या ध्यानपारमितासत्तया प्रज्ञापारमितासत्ता वेदितव्या। प्रज्ञापारमितासत्तया आकाशासत्ता
२३८१२ वेदितव्या। आकाशासत्तया महायानासत्ता वेदितव्या। महायानासत्तया अप्रमेयासंख्येयापरिमाणासत्ता वेदितव्या। अप्रमेयासंख्येयापरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या। एवं हि सुभूते तस्मिन्महायाने अप्रमेयाणामसंख्येयानामपरिमाणानां सत्त्वानामवकाशः। तत्कस्य हेतोः। तथा हि सुभूते यश्चात्मा यावद्ये च सर्वधर्माः सर्व एते नोपलभ्यन्त्
२३८१३ पुनरपरं सुभूते आत्मसत्त्वासत्तया यावज्जानकपश्यकासत्ता वेदितव्या। यावज्जानकपश्यकासत्तया
२३८१४ अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावदभावस्वभाव-
२३८१५ शून्यतासत्ता वेदितव्या। अभावस्वभावशून्यतासत्तया आकाशासत्ता वेदितव्या। आकाशासत्तया महायानासत्ता वेदितव्या। महायानासत्तया अप्रमेयासंख्येयापरिमाणासत्ता वेदितव्या। अप्रमेयासंख्येयापरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या। एवं हि सुभूते तस्मिन्महायाने अप्रमेयाणामसंख्येयानामपरिमाणानां सत्त्वानामवकाशः। तत्कस्य हेतोः। तथा हि सुभूते यश्चात्मा यावद्ये च सर्वधर्माः सर्व एते नोपलभ्यन्त्
२३८१६ पुनरपरं सुभूते आत्मसत्त्वासत्तया यावज्जानकपश्यकासत्ता वेदितव्या। यावज्जानकपश्यकासत्तया
२३८१७ स्मृत्युपस्थानासत्ता वेदितव्या स्मृत्युपस्थानासत्तया सम्यक्प्रहाणासत्ता
२३८१८ वेदितव्या सम्यक्प्रहाणासत्तया ऋद्धिपादासत्ता वेदितव्या।
२३८१९ ऋद्धिपादासत्तया इन्द्रियासत्ता वेदितव्या इन्द्रियासत्तया बलासत्ता वेदितव्या बलासत्तया बोध्यङ्गासत्ता वेदितव्या बोध्यङ्गासत्तया मार्गासत्ता वेदितव्या मार्गासत्तया वैशारद्यासत्ता वेदितव्या वैशारद्यासत्तया प्रतिसंविदासत्ता वेदितव्या प्रतिसंविदासत्तया पारमितासत्ता वेदितव्या पारमितासत्तया तथागतबलासत्ता वेदितव्या तथागतबलासत्तया आवेणिकबुद्धधर्मासत्ता वेदितव्या
२३८२० आवेणिकबुद्धधर्मासत्तया आकाशासत्ता वेदितव्या। आकाशासत्तया महायानासत्ता वेदितव्या। महायानासत्तया अप्रमेयासंख्येयापरिमाणासत्ता वेदितव्या। अप्रमेयासंख्येयापरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या। एवं हि सुभूते तस्मिन्महायाने अप्रमेयाणामसंख्येयानामपरिमाणानां सत्त्वानामवकाशः। तत्कस्य हेतोः। तथा हि सुभूते यश्चात्मा यावद्ये च सर्वधर्माः सर्व एते नोपलभ्यन्त्
२३८२१ पुनरपरं सुभूते आत्मसत्त्वासत्तया यावज्जानकपश्यकासत्ता वेदितव्या। यावज्जानकपश्यकासत्तया गोत्रभूम्यसत्ता वेदितव्या। गोत्रभूम्यसत्तया
२३८२२ अष्टमकभूम्यसत्ता वेदितव्या
२३८२३ अष्टमकभूम्यसत्तया दर्शनभूम्यसत्ता वेदितव्या दर्शनभूम्यसत्तया तनुभूम्यसत्ता वेदितव्या तनुभूम्यसत्तया वीतरागभूम्यसत्ता वेदितव्या वीतरागभूम्यसत्तया कृताविभूम्यसत्ता वेदितव्या कृताविभूम्यसत्तया
२३८२४ आकाशासत्ता वेदितव्या। आकाशासत्तया महायानासत्ता वेदितव्या। महायानासत्तया अप्रमेयासंख्येयापरिमाणासत्ता वेदितव्या। अप्रमेयासंख्येयापरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या। एवं हि सुभूते तस्मिन्महायाने अप्रमेयाणामसंख्येयानामपरिमाणानां सत्त्वानामवकाशः। तत्कस्य हेतोः। तथा हि सुभूते यश्चात्मा यावद्ये च सर्वधर्माः सर्व एते नोपलभ्यन्त्

२३९०१ पुनरपरं सुभूते आत्मसत्त्वासत्तया यावज्जानकपश्यकासत्ता वेदितव्या। यावज्जानकपश्यकासत्तया स्रोतआपन्नासत्ता वेदितव्या स्रोतआपन्ना-
२३९०२ सत्तया सकृदागाम्यसत्ता वेदितव्या सकृदागाम्यसत्तया अनागाम्यसत्ता वेदितव्या अनागाम्यसत्तया अर्हदसत्ता वेदितव्या अर्हदसत्तया प्रत्येकबुद्धासत्ता वेदितव्या
२३९०३ प्रत्येकबुद्धासत्तया आकाशासत्ता वेदितव्या। आकाशासत्तया महायानासत्ता वेदितव्या। महायानासत्तया अप्रमेयासंख्येयापरिमाणासत्ता वेदितव्या। अप्रमेयासंख्येयापरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या। एवं हि सुभूते तस्मिन्महायाने अप्रमेयाणामसंख्येयानामपरिमाणानां सत्त्वानामवकाशः। तत्कस्य हेतोः। तथा हि सुभूते यश्चात्मा यावद्ये च सर्वधर्माः सर्व एते नोपलभ्यन्त्
२३९०४ पुनरपरं सुभूते आत्मसत्त्वासत्तया यावज्जानकपश्यकासत्ता वेदितव्या। यावज्जानकपश्यकासत्तया श्रावकयानासत्ता वेदितव्या श्रावकयानासत्तया
२३९०५ प्रत्येकबुद्धयानासत्ता वेदितव्या प्रत्येकबुद्धयानासत्तया तथागतासत्ता वेदितव्या
२३९०६ तथागतासत्तया सर्वाकारज्ञतासत्ता वेदितव्या। सर्वाकारज्ञतासत्तया आकाशा-
२३९०७ सत्ता वेदितव्या। आकाशासत्तया महायानासत्ता वेदितव्या। महायानासत्तया अप्रमेयासंख्येयापरिमाणासत्ता वेदितव्या। अप्रमेयासंख्येयापरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या। एवं हि सुभूते तस्मिन्महायाने अप्रमेयाणामसंख्येयानामपरिमाणानां सत्त्वानामवकाशः। तत्कस्य हेतोः। तथा हि सुभूते यश्चात्मा यावद्ये च सर्वधर्माः सर्व एते नोपलभ्यन्त्
२३९०८ तद्यथापि नाम सुभूते निर्वाणधातावप्रमेयाणामसंख्येयानामपरि-
२३९०९ माणानां सत्त्वानामवकाशः। एवमेव सुभूते तस्मिन्महायाने {अप्रमेयाणामसंख्येयानामपरिमाणानां सत्त्वानामवकाशः}। तद्
२३९१० यथापि नाम सुभूते आकाशे {अप्रमेयाणामसंख्येयानामपरिमाणानां सत्त्वानामवकाशः}। एवमेव सुभूते तस्मिन्महायाने {अप्रमेयाणामसंख्येयानामपरिमाणानां सत्त्वानामवकाशः}॥
२३९११ [इति सत्त्वार्थनिर्याणम्॥]
२३९१२ यदपि सुभूतिरेवमाह् नापि तस्य महायानस्य आगतिर्दृश्यते नापि
२३९१३ गतिर्न स्थानं दृश्यत इति। एवमेतत्सुभूते तस्य महायानस्यागतिर्न दृश्यते
२३९१४ नापि गतिर्न स्थानं दृश्यत् तत्कस्य हेतोः। अचला हि सुभूते सर्वधर्मास्ते
२३९१५ न क्वचिद्गच्छन्ति न कुतश्चिदागच्छन्ति न क्वचित्तिष्ठन्ति। तत्कस्य
२३९१६ हेतोः। न हि सुभूते रूपस्य प्रकृतिः कुतश्चिदागच्छति न क्वचिद्गच्छति न
२३९१७ क्वचित्तिष्ठति। वेदनायाः संज्ञायाः संस्काराणाम्। न हि सुभूते विज्ञानस्य
२३९१८ प्रकृतिः कुतश्चिदागच्छति न क्वचित्तिष्ठति।
२३९१९ न हि सुभूते रूपस्य तथता कुतश्चिदागच्छति न क्वचिद्गच्छति न क्वचित्तिष्ठति। वेदनायाः संज्ञायाः संस्काराणाम्। न हि सुभूते विज्ञानस्य तथता कुतश्चिदागच्छति न क्वचित्तिष्ठति। न हि सुभूते रूपस्य स्वभावः कुतश्चिदागच्छति न क्वचिद्गच्छति न क्वचित्तिष्ठति। वेदनायाः संज्ञायाः संस्काराणाम्। न हि सुभूते विज्ञानस्य स्वभावः कुतश्चिदागच्छति न क्वचित्तिष्ठति। न हि सुभूते रूपस्य लक्षणं कुतश्चिदागच्छति न क्वचिद्गच्छति न क्वचित्तिष्ठति। वेदनायाः संज्ञायाः संस्काराणाम्। न हि सुभूते विज्ञानस्य लक्षणं कुतश्चिदागच्छति न क्वचित्तिष्ठति। न सुभूते चक्षुषः
२३९२० प्रकृतिर्न तथता न स्वभावो न लक्षणं कुतश्चिदागच्छति न क्वचिद्गच्छति न
२३९२१ क्वचित्तिष्ठति। एवं न श्रोत्रस्य न घ्राणस्य न जिह्वाया न कायस्य न सुभूते
२३९२२ मनसः प्रकृतिर्न तथता न स्वभावो न लक्षणं कुतश्चिदागच्छति न क्वचिद्
२३९२३ गच्छति न क्वचित्तिष्ठति। न सुभूते पृथिवीधातोः प्रकृतिर्न तथता न स्वभावो न लक्षणं कुतश्चिदागच्छति न क्वचिद्गच्छति न क्वचित्तिष्ठति। एवं न अब्धातोर्न तेजोधातोर्न वायुधातोर्
२३९२४ न सुभूते आकाशधातोः प्रकृतिर्न तथता न स्वभावो न लक्षणं कुतश्चिदागच्छति न क्वचिद्गच्छति न क्वचित्तिष्ठति। न सुभूते धर्मधातोः प्रकृतिर्न तथता न स्वभावो न लक्षणं कुतश्चिदागच्छति न क्वचिद्गच्छति न क्वचित्तिष्ठति। एवं न तथताया न भूतकोटेर्न सुभूते अचिन्त्य-

२४००१ धातोः प्रकृतिर्न तथता न स्वभावो न लक्षणं कुतश्चिदागच्छति न क्वचिद्गच्छति न क्वचित्तिष्ठति। न सुभूते दानपारमितायाः प्रकृतिर्न तथता न स्वभावो न लक्षणं कुतश्चिदागच्छति न क्वचिद्गच्छति न क्वचित्तिष्ठति। एवं न शीलपारमितायाः न क्षान्तिपारमितायाः न वीर्यपारमितायाः न ध्यानपारमितायाः न सुभूते प्रज्ञापारमितायाः प्रकृतिर्न तथता न स्वभावो न लक्षणं कुतश्चिदागच्छति न क्वचिद्गच्छति न क्वचित्तिष्ठति। न सुभूते स्मृत्युपस्थानानां प्रकृतिर्न तथता न स्वभावो न लक्षणं कुतश्चिदागच्छति न क्वचिद्गच्छति न क्वचित्तिष्ठति। एवं न सम्यक्प्रहाणानां न ऋद्धिपादानां न इन्द्रियाणां न बलानां न बोध्यङ्गानां न सुभूते मार्गस्य प्रकृतिर्न तथता न स्वभावो न लक्षणं कुतश्चिदागच्छति न क्वचिद्गच्छति न क्वचित्तिष्ठति।
२४००२ न सुभूते अप्रमाणध्यानारूप्यसमापत्तीनां प्रकृतिर्न तथता न स्वभावो न लक्षणं कुतश्चिदागच्छति न क्वचिद्गच्छति न क्वचित्तिष्ठति। एवं न तथागतबलानां न वैशारद्यानां न प्रतिसंविदां न सुभूते अष्टादशावेणिकानां बुद्धधर्मानां न तथता न स्वभावो न लक्षणं कुतश्चिदागच्छति न क्वचिद्गच्छति न क्वचित्तिष्ठति।
२४००३ न सुभूते बोधेः प्रकृतिर्न तथता न स्वभावो न लक्षणं कुतश्चिदागच्छति न क्वचिद्गच्छति न क्वचित्तिष्ठति। न सुभूते असंस्कृतस्य न तथता न स्वभावो न लक्षणं कुतश्चिदागच्छति न क्वचिद्गच्छति न क्वचित्तिष्ठति॥ [इत्यनाभोगनिर्याणम्॥]
२४००४ यदपि तत्सुभूतिरेवमाह् नास्य यानस्य पूर्वान्त उपलभ्यते नापरान्त
२४००५ {उपलभ्यते} मध्य {उपलभ्यते} त्र्यध्वसमं तद्यानं तस्मात्महायानं महायानमित्यु-
२४००६ च्यत् एवमेतत्सुभूते एवमेतत् । नास्य यानस्य पूर्वान्त {उपलभ्यते}
२४००७ नापरान्त उपलभ्यते मध्य उपलभ्यते त्र्यध्वसमं तद्यानं तस्मात्महायानं महायानमित्य् उच्यत् तत्कस्य हेतोः। तथा हि सुभूते अतीतोऽध्वा-
२४००८ तीतेनाध्वना शून्यः। अनागतोऽध्वा अनागतेनाध्वना शून्यः। प्रत्युत्-
२४००९ पन्नोऽध्वा प्रत्युत्पन्नेनाध्वना शून्यः। त्र्यध्वसमता त्र्यध्वसमतया शून्या।
२४०१० महायानं महायानेन शून्यं बोधिसत्त्वो बोधिसत्त्वेन शून्यः। न सुभूते
२४०११ शून्यता एका वा द्वे वा तिस्रो वा चतस्रो वा पञ्च वा षट्वा सप्त वा अष्ट वा
२४०१२ नव वा दश वा तस्मात्त्र्यध्वसम्तया सममिदं यानं {बोधिसत्त्वस्य} महासत्त्वस्य
२४०१३ नापि तत्र सममुपलभ्यते न विषमं नापि तत्र वा राग उपलभ्यते न विरागः।
२४०१४ न दोष {उपलभ्यते} नादोषः। न मोह {उपलभ्यते} नामोहः। न नाम {उपलभ्यते} नानाम् यावन्न
२४०१५ कुशलम् {उपलभ्यते} नाकुशलम्। न सास्रवम् {उपलभ्यते} नानास्रवम्। न सावद्यम् {उपलभ्यते} नानवद्यम्।
२४०१६ न क्लेश {उपलभ्यते} नाक्लेशः। न क्लेशक्षय {उपलभ्यते} नाक्लेशक्षयः। न लौकिकम् {उपलभ्यते} न
२४०१७ लोकोत्तरम्। न संक्लेश {उपलभ्यते} न व्यवदानम्। न संसार {उपलभ्यते} न निर्वाणम्।
२४०१८ नाप्यत्र नित्यम् {उपलभ्यते} नानित्यम्। न सुखम् {उपलभ्यते} न दुःखम्। नात्मा {उपलभ्यते} नानात्मा।
२४०१९ न शान्तम् {उपलभ्यते} नाशान्तम्। न कामधातुर्{उपलभ्यते} न कामधातुसमतिक्रमः। न रूप-
२४०२० धातुर्{उपलभ्यते} न रूपधातु{समैक्रमः}। नारूप्यधातुर्{उपलभ्यते} नारूप्यधातु{समैक्रमः}। तत्कस्य
२४०२१ हेतोः। तथा हि तस्य स्वभावो नोपलभ्यते अतीतं सुभूते रूपमतीतेन रूपेण
२४०२२ शून्यम्। अनागतं रूपमनागतेन रूपेण शून्यम्। प्रत्युत्पन्नं रूपं प्रत्युत्पन्नेन रूपेण शून्यं। एवमतीता वेदना
२४०२३ संज्ञा संस्काराः। अतीतं विज्ञानमतीतेन विज्ञानेन शून्यम्।
२४०२४ अनागतं विज्ञानमनागतेन विज्ञानेन शून्यम्। प्रत्युत्पन्नं विज्ञानं प्रत्युत्पन्नेन विज्ञानेन शून्यम्।। तत्कस्य हेतोः। न शून्यतायामतीतं रूपमुप-

२४१०१ लभ्यते शून्यतैव तावच्छून्या शून्यतायां नोपलभ्यते कुतः पुनः शून्यतायामतीतं
२४१०२ रूपमुपलप्स्यत् न शून्यतायामतीता वेदना उपलभ्यत् {शून्यतैव तावच्छून्या शून्यतायां नोपलभ्यते}। {कुतः पुनः शून्यतायां}
२४१०३ अतीता वेदना उपलप्स्यत्
२४१०४ न शून्यतायामतीता संज्ञा उपलभ्यत् शून्यतैव तावच्छून्या शून्यतायां नोपलभ्यत् कुतः पुनः शून्यतायामतीता संज्ञा उपलप्स्यत् न शून्यतायामतीताः संस्कारा उपलभ्यत् शून्यतैव तावच्छून्या शून्यतायां नोपलभ्यत् कुतः पुनः शून्यतायामतीताः संस्कारा उपलप्स्यत् न शून्यतायामतीतं विज्ञानमुपलभ्यत् शून्यतैव तावच्छून्या शून्यतायां नोपलभ्यत् कुतः पुनः शून्यतायामतीतं विज्ञानमुपलप्स्यते। एवं न शून्यतायामनागतं रूपं वेदनासंज्ञासंस्कारा व्ज्ञानमुपलभ्यत्
२४१०५ न शून्यतायां प्रत्युत्पन्नं रूपमुपलभ्यत् {शून्यतैव तावच्छून्या शून्यतायां नोपलभ्यते}। {कुतः पुनः शून्यतायां} प्रत्युत्पन्नं रूपमुपलप्स्यत्
२४१०६ न शून्यतायां प्रत्युत्पन्ना वेदना उपलभ्यत् शून्यतैव तावच्छून्या शून्यतायां नोपलभ्यत् कुतः पुनः शून्यतायां प्रत्युत्पन्ना वेदना उपलप्स्यत् न शून्यतायां प्रत्युत्पन्ना संज्ञा उपलभ्यत् शून्यतैव तावच्छून्या शून्यतायां नोपलभ्यत् कुतः पुनः शून्यतायां प्रत्युत्पन्ना संज्ञा उपलप्स्यत् न शून्यतायां प्रत्युत्पन्नाः संस्कारा उपलभ्यत् शून्यतैव तावच्छून्या शून्यतायां नोपलभ्यत् कुतः पुनः शून्यतायां प्रत्युत्पन्नाः संस्कारा उपलप्स्यत् न शून्यतायां प्रत्युत्पन्नं विज्ञानमुपलभ्यत् शून्यतैव तावच्छून्या शून्यतायां नोपलभ्यत् कुतः पुनः शून्यतायां प्रत्युत्पन्नं विज्ञानमुपलप्स्यते। न शून्यतायामतीतानागत-
२४१०७ प्रत्युत्पन्नं रूपमुपलभ्यत् {शून्यतैव तावच्छून्या शून्यतायां नोपलभ्यते}। {कुतः पुनः शून्यतायां} अतीतानागतप्रत्युत्पन्नं रूपमुपलप्स्यत्
२४१०८ न शून्यतायाम्
२४१०९ अतीतानागतप्रत्युत्पन्ना वेदना उपलभ्यत् शून्यतैव तावच्छून्या शून्यतायां नोपलभ्यत् कुतः पुनः शून्यतायामतीतानागतप्रत्युत्पन्ना वेदना उपलप्स्यत् न शून्य्तायामतीतानागतप्रत्युत्पन्ना संज्ञा उपलभ्यत् शून्यतैव तावच्छून्या शून्यतायां नोपलभ्यत् कुतः पुनः शून्यतायामतीतानागतप्रत्युत्पन्ना संज्ञा उपलप्स्यत् न शून्य्तायामतीतानागतप्रत्युत्पन्नाः संस्कारा उपलभ्यत् शून्यतैव तावच्छून्या शून्यतायां नोपलभ्यत् कुतः पुनः शून्यतायां} अतीतानागतप्रत्युत्पन्नाः संस्कारा उपलप्स्यत् न शून्य्तायामतीतानागतप्रत्युत्पन्नं विज्ञानमुपलभ्यत् शून्यतैव तावच्छून्या शून्यतायां नोपलभ्यत् कुतः पुनः शून्यतायामतीतानागतप्रत्युत्पन्नं विज्ञानमुपलप्स्यते। {शून्यतैव तावच्छून्या शून्यतायां नोपलभ्यते} {कुतः पुनः शून्यतायां}।
२४११० पूर्वान्ततः सुभूते दानपारमिता नोपलभ्यत् अपरान्ततोऽपि {सुभूते} दान{पारमिता नोपलभ्यते}।
२४१११ प्रत्युत्पन्नतोऽपि {सुभूते} दान{पारमिता नोपलभ्यते}। अध्वसमतया दान{पारमिता नोपलभ्यते}। न {सुभूते} अध्वसमताया-
२४११२ मतीताध्वा उपलभ्यते समतैव तावत्समतायां नोपलभ्यत् कुतः पुनः समताया-
२४११३ मतीतानागतप्रत्युत्पन्ना दानपारमितोपलप्स्यत् एवं पूर्वान्तापरान्तप्रत्युत्पन्नेष्व-
२४११४ ध्वसु शील{पारमिता नोपलभ्यते}। {पूर्वान्तापरान्तप्रत्युत्पन्नेष्वध्वसु} क्षान्ति{पारमिता नोपलभ्यते}। {पूर्वान्तापरान्तप्रत्युत्पन्नेष्वध्वसु} वीर्य{पारमिता नोपलभ्यते}। {पूर्वान्तापरान्तप्रत्युत्पन्नेष्वध्वसु} ध्यान{पारमिता नोपलभ्यते}। पूर्वान्ततः {सुभूते}
२४११५ प्रज्ञा{पारमिता नोपलभ्यते} अपरान्ततोऽपि सुभूते प्रज्ञापारमिता नोपलभ्यत् प्रत्युत्पन्नतोऽपि सुभूते प्रज्ञापारमिता नोपलभ्यत् अध्वसमतया प्रज्ञापारमिता नोपलभ्यत् न सुभूते अध्वसमतायामतीताध्वा उपलभ्यते समतैव तावत्समतायां नोपलभ्यत् कुतः पुनः समतायामतीतानागतप्रत्युत्पन्ना प्रज्ञापारमितोपलप्स्यत्
२४११६ पुनरपरं सुभूते {पूर्वान्तापरान्तमध्येषु} स्मृत्युपस्थानानि नोपलभ्यन्त् त्र्यध्वसमतायां
२४११७ स्मृत्युपस्थानानि नोपलभ्यन्त् न {सुभूते} समतायामतीतानागतप्रत्युत्पन्ना
२४११८ऽध्वान उपलभ्यन्त् समतैव समतायां नोपलभ्यत् कुतः पुनः समतायामती-

२४२०१ तानागतप्रत्युत्पन्नानि स्मृत्युपस्थानानि उपलप्स्यन्त् एवं सम्यकप्रहाणानि
२४२०२ {पूर्वान्तापरान्तप्रत्युत्पन्नेष्वध्वसु} {नोपलभ्यन्ते}। ऋद्धिपादाः {पूर्वान्तापरान्तप्रत्युत्पन्नेष्वध्वसु} {नोपलभ्यन्ते}।
२४२०३ इन्द्रियाणि पूर्वान्तापरान्तप्रत्युत्पन्नेष्वध्वसु नोपलभ्यन्त् बलानि पूर्वान्तापरान्तप्रत्युत्पन्नेष्वध्वसु नोपलभ्यन्त् बोध्यङ्गानि पूर्वान्तापरान्तप्रत्युत्पन्नेष्वध्वसु नोपलभ्यन्त् मार्गः पूर्वान्तापरान्तप्रत्युत्पन्नेष्वध्वसु नोपलभ्यत् अप्रमाणध्यानारूप्यसमापत्तयः पूर्वान्तापरान्तप्रत्युत्पन्नेष्वध्वसु नोपलभ्यन्त् तथागतबलानि पूर्वान्तापरान्तप्रत्युत्पन्नेष्वध्वसु नोपलभ्यन्त् वैशारद्यानि पूर्वान्तापरान्तप्रत्युत्पन्नेष्वध्वसु नोपलभ्यन्त् प्रतिसंविदः पूर्वान्तापरान्तप्रत्युत्पन्नेष्वध्वसु नोपलभ्यन्त् कुतः पुनः समतायामतीतानागतप्रत्युत्पन्ना
२४२०४ अष्टादशावेणिका बुद्धधर्मा उपलप्स्यन्त्
२४२०५ पुनरपरं सुभूते पूर्वान्ततः पृथग्जनो नोपलभ्यते अपरान्ततः {पृथग्जनो नोपलभ्यते}। प्रत्युत्-
२४२०६ पन्नतः {पृथग्जनो नोपलभ्यते}। त्र्यध्वसमतया {पृथग्जनो नोपलभ्यते}। तत्कस्य हेतोः। सत्त्वानुपलधितामुपा-
२४२०७ दाय् एवं श्रावकप्रत्येकबुद्धबोधिसत्त्वाः। पूर्वान्ततः {तथागतो नोपलभ्यते}। अपरान्ततः {तथागतो नोपलभ्यते}।
२४२०८ मध्यतः {तथागतो नोपलभ्यते}। त्र्यध्वसमतया {तथागतो नोपलभ्यते}। तत्कस्य हेतोः। सत्त्वानुपलब्धितामुपा-
२४२०९ दाय् एवं हि {सुभूते} {बोधिसत्त्वेन} महासत्त्वेन प्रज्ञापारमितायां स्थित्वा त्रिष्वध्वसु
२४२१० शिक्षित्वा सर्वाकारज्ञता परिपूरैतव्या। इदं {सुभूते} {बोधिसत्त्वस्य} महासत्त्वस्य त्र्यध्व-
२४२११ समतया महायानम्। अत्र स्थितो {बोधिसत्त्वो} महासत्त्वः सदेवमानुषासुरं लोकमभि-
२४२१२ भवन् सर्वाकारज्ञतायां निर्यास्यति॥ [इत्यन्तनिर्याणम्॥]
२४२१३ अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत् । साधु साधु भगवन्
२४२१४ सुभाषितमिदं भगवतो {बोधिसत्त्वानां} महासत्त्वानां महायानम्। अत्र भगवन्महायाने
२४२१५ शिक्षमाणैरतीतेऽध्वनि {बोधिसत्त्वैर्} महासत्त्वैः सर्वाकारज्ञता अनुप्राप्ता। अनागता अपि
२४२१६ {बोधिसत्त्वा} महासत्त्वा अत्र महायाने शिक्षमाणाः सर्वाकारज्ञतामनुप्राप्स्यन्ति।
२४२१७ येऽपि भगवन् दशदिशि लोकेऽसंख्येयेषु लोकधातुषु {बोधिसत्त्वा} महासत्त्वाः प्रत्युत्पन्ना-
२४२१८ स्तेऽप्यत्र महायाने शिक्षित्वा सर्वाकारज्ञतामनुप्राप्नुवन्ति। तस्मात्तर्हि
२४२१९ भगवन्महायानमिदं {बोधिसत्त्वानां} महासत्त्वानां यदुत त्र्यध्वसमतानाम्। अथ
२४२२० खलु भगवानायुष्मन्तं सुभूतिमेतदवोचत् । एवमेतत्सुभूते एवमेतत् । अत्र
२४२२१ महायाने शिक्षित्वा अतीतानागतप्रत्युत्पन्ना {बोधिसत्त्वा} महासत्त्वाः सर्वाकारज्ञता-
२४२२२ मनुप्राप्ता अनुप्राप्स्यन्ति अनुप्राप्नुवन्ति च्
२४२२३ अथ खलु पूर्णो मैत्रायणीपुत्रो भगवन्तमेतदवोचत् । अयं भगवन्

२४३०१ सुभूतिः स्थविरस्तथागतेन प्रज्ञापारमितायाः कृतशोऽधीष्टो महायानमुपदेष्टाअव्यं
२४३०२ मन्येत्
२४३०३ अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत् । मा हैवाहं भगवन् प्रज्ञा-
२४३०४ पारमितां व्यतिक्रम्य महायानमुपदिशामि।
२४३०५ भगवानाह् न हि सुभूते अनुलोमत्वं प्रज्ञापारमितायां महायानमुपदिशसि।
२४३०६ तत्कस्य हेतोः। तथा हि सुभूते ये केचित्कुशला बोधिपक्षा
२४३०७ धर्माः श्रावकधर्मा वा प्रत्येकबुद्धधर्मा बोधिसत्त्वधर्मा वा बुद्ध-
२४३०८ धर्मा वा सर्वे ते प्रज्ञापारमितायां संग्रहं समवसरणं गच्छन्ति।
२४३०९ सुभूतिराह् कतमे भगवन् कुशला बोधिपक्षा धर्माः श्रावकधर्माः
२४३१० वा प्रत्येकबुद्धधर्मा बोधिसत्त्वधर्मा वा बुद्धधर्मा वा सर्वे ते प्रज्ञापारमितायां संग्रहं समवसरणं गच्छन्ति।
२४३११ भगवानाह् तद्यथा चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि
२४३१२ चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्च बलानि सप्त बोध्यङ्गानि
२४३१३ आर्याष्टाङ्गमार्गाः। शून्यतानिमित्ताप्रणिहितविमोक्षमुखं चत्वार्य-
२४३१४ प्रमाणानि चत्वारि ध्यानानि चतस्र आरूप्यसमापत्तयः। दान{पारमिता}
२४३१५ शील{पारमिता} क्षान्ति{पारमिता} वीर्य{पारमिता} ध्यान{पारमिता} प्रज्ञा{पारमिता}। दश तथागत-
२४३१६ बलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो महामैत्री महा-
२४३१७ करुणा अष्टादशावेणिका बुद्धधर्माः। असंप्रमुषितधर्मता सदो-
२४३१८ पेक्षाविहारिता। इमे {सुभूते} कुशला बोधिपक्षा धर्माः श्रावकधर्माः
२४३१९ प्रत्येकबुद्धधर्माः बोधिसत्त्वधर्मा वा बुद्धधर्मा वा सर्वे ते प्रज्ञापारमितायां संग्रहं समवसरणं गच्छन्ति।
२४३२० यच्च {सुभूते} महायानं या च ध्यान{पारमिता} या च वीर्य{पारमिता} या च
२४३२१ क्षान्ति{पारमिता} या च शील{पारमिता} या च दान{पारमिता} यच्च रूपं या च वेदना या च
२४३२२ संज्ञा ये च संस्कारा यच्च विज्ञानं यच्च चक्षुर्यच्च श्रोत्रं
२४३२३ यच्च घ्राणं या च जिह्वा यश्च कायो यच्च मनो यच्च रूपंं यश्च शब्दो यश्च गन्धो यश्च रसो यच्च स्प्रष्टव्यं यश्च धर्मो यच्च चक्षुर्विज्ञानं यच्च श्रोत्रविज्ञानं यच्च घ्राणविज्ञानं यच्च जिह्वाविज्ञानं यच्च कायविज्ञानं यच्च मनोविज्ञानं यश्च चक्षुःसंस्पर्शो यश्च श्रोत्रसंस्पर्शो यश्च घ्राणसंस्पर्शो यश्च जिह्वासंस्पर्शो यश्च कायसंस्पर्शो यश्च मनःसंस्पर्शो या च चक्षुःसंस्पर्शजा वेदना या च श्रोत्रसंस्पर्शजा वेदना या च घ्राणसंस्पर्शजा वेदना या च जिह्वासंस्पर्शजा वेदना या च कायसंस्पर्शजा वेदना या च मनःसंस्पर्शजा वेदना
२४३२४ यानि च चत्वारि स्मृत्युपस्थानानि यानि च चत्वारि सम्यक्प्रहाणानि ये च चत्वार ऋद्धिपादाः यानि च पञ्चेन्द्रियाणि यानि च पञ्च बलानि यानि च सप्त बोध्यङ्गानि यश्च आर्याष्टाङ्ग-
२४३२५ मार्गो यानि चाप्रमाणानि यानि च ध्यानानि याश्चारूप्यसमापत्तयो यानि

२४४०१ च तथागतबलानि यानि च वैशारद्यानि याश्च चतस्रः प्रतिसंविदो यानि च
२४४०२ शून्यतानिमित्ताप्रणिहितानि ये चासंस्कृता धर्मा यच्च दुःखं यश्च समुदयो
२४४०३ यश्च निरोधो यश्च मार्गो यश्च कामधातुर्यश्च रूपधातुर्यश्चारूप्यधातुर्या
२४४०४ चाध्यात्मशून्यता या च बहिर्धाशून्यता या चाध्यात्मबहिर्धाशून्यता या च
२४४०५ यावदभावस्वभावशून्यता ये च समाधयो यानि च धारणीमुखानि ये च
२४४०६ यावदष्टादशावेणिका बुद्धधर्मा यश्च तथागतप्रवेदितो धर्मविनयो यश्च धर्मधातु-
२४४०७ र्या च तथता या च भूतकोटिः यश्चाचिन्त्यधातुर्यच्च निर्वाणं सर्व एते धर्मा न
२४४०८ संयुक्ता न विसंयुक्ता अरूपिणोऽनिदर्शना अप्रतिघा एकलक्षणा यदुतालक्षणाः।
२४४०९ अनेन पर्यायेण सुभूते अनुलोमत्वं प्रज्ञापारमितायां महायानं व्यपदिशसि।
२४४१० तत्कस्य हेतोः। न हि सुभूते अन्यत्महायानमन्या प्रज्ञापारमिता अन्या
२४४११ ध्यान{पारमिता} अन्या वीर्यपारमिता अन्या क्षान्तिपारमिता अन्या शीलपारमिता अन्या दान{पारमिता}। इति हि महायानञ्च प्रज्ञा{पारमिता} ध्यानवीर्य-
२४४१२ क्षान्तिशीलदान{पारमिता} चाद्वयमेतदद्वैधीकारं न सुभूते अन्यत्महायानमन्यानि
२४४१३ स्मृत्युपस्थानानि इति हि महायानं स्मृत्युपस्थानानि चाद्वयमेतदद्वैधीकारम्।
२४४१४ एवं नान्यत्महायानमन्यानि सम्यक्प्रहाणानि इति हि महायानं सम्यक्प्रहाणानि चाद्वयमेतदद्वैधीकारम्। नान्यत्महायानमन्ये ऋद्धिपादा इति हि महायानमृद्धिपादाः चाद्वयमेतदद्वैधीकारम्। नान्यत्महायानमन्यानि इन्द्रियानि इति हि महायानमिन्द्रियानि चाद्वयमेतदद्वैधीकारम्। नान्यत्महायानमन्यानि बलानि इति हि महायानं बलानि चाद्वयमेतदद्वैधीकारम्। नान्यत्महायानमन्यानि बोध्यङ्गानि इति हि महायानं बोध्यङ्गानि चाद्वयमेतदद्वैधीकारम्। नान्यत्महायानमन्ये मार्गा इति हि महायानं मार्गाः चाद्वयमेतदद्वैधीकारम्। नान्यत्महायानमन्यानि अप्रमाणध्यानानि इति हि महायानमप्रमाणध्यानानि चाद्वयमेतदद्वैधीकारम्।
२४४१५ नान्यत्महायानमन्या आरूप्यसमापत्तयः इति हि महायानमारूप्यसमापत्तयः चाद्वयमेतदद्वैधीकारम्। नान्यत्महायानमन्यानि दशबलानि इति हि महायानं दशबलानि चाद्वयमेतदद्वैधीकारम्। नान्यत्महायानमन्यानि वैशारद्यानि इति हि महायानं वैशारद्यानि चाद्वयमेतदद्वैधीकारम्। नान्यत्महायानमन्याः प्रतिसंविदाः इति हि महायानं वैशारद्यानि चाद्वयमेतदद्वैधीकारम्। नान्यत्महायानमन्ये अष्टादशावेणिका बुद्धधर्मा इति हि महायानमष्टादशावेणिका बुद्धधर्मा चाद्वयमेतदद्वैधीकारम्।
२४४१६ अनेन कारणेन सुभूते अनुलोमत्वं प्रज्ञापारमितायां महायानं व्यपदिशसि॥
२४४१७ [इति प्राप्तिनिर्याणम्॥]
२४४१८ सुभूतिराह् अपि तु खलु पुनर्भगवन् पूर्वान्ततो बोधिसत्त्वो नोपैति।
२४४१९ अपरान्ततो {बोधिसत्त्वो नोपैति}। मध्यतो {बोधिसत्त्वो नोपैति}। रूपापर्यन्ततया बोधिसत्त्वापर्यन्तता
२४४२० वेदितव्या। एवं वेदनासंज्ञासंस्कारविज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता
२४४२१ वेदितव्या। रूपं बोधिसत्त्व इति। एवमपि न विद्यते नोपलभ्यत् एवं
२४४२२ {वेदनासंज्ञासंस्काराः} विज्ञानं बोधिसत्त्व इति। एवमपि न विद्यते नोपलभ्यत् एवं हि
२४४२३ भगवन् सर्वेण सर्वं सर्वथा सर्वं बोधिसत्त्वमनुपलभमानोऽसमनुपश्यन्
२४४२४ कतमं बोधिसत्त्वं कतमस्यां प्रज्ञापारमितायामववदिष्याम्यनुशासिष्यामि।

२४५०१ अपि तु खलु पुनर्भगवन्नामधेयमात्रमेतद्यदुत बोधिसत्त्व इति। यथा आत्मा
२४५०२ आत्मेति चोच्यते अत्यन्ततया चानभिनिवृत्त आत्मा। एवमभावस्वभावानां
२४५०३ धर्माणां कतमद्रूपं यदनभिनिवृत्तम्। एवं कतमे ते {वेदनासंज्ञासंस्काराः} कतम्त्तद्वि-
२४५०४ ज्ञानं यदनभिनिवृत्तम्। ये चानभिनिवृत्ता न ते {वेदनासंज्ञासंस्काराः}। यच्चानभिनिवृत्तं न
२४५०५ तद्विज्ञानं तत्किमनभिनिवृत्तिमनभिनिवृत्तौ प्रज्ञापारमितायामवव-
२४५०६ दिष्याम्यनुशासिष्यामि। न चान्यत्रानभिनिवृत्तेर्बोधिसत्त्व उपलभ्यते यो
२४५०७ बोधाय चरेत् । सचेदेवं निर्दिश्यमाने {बोधिसत्त्वस्य} महासत्त्वस्य चित्तं नावलीयते
२४५०८ न संलीयते न विप्रतिसारी भवति मानसं नोत्त्रस्यति न संत्रस्यति न
२४५०९ सन्त्रासमापद्यते चरति {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायाम्।
२४५१० शारिपुत्र आह् केन कारणेनायुष्मन् सुभूते एवं वदसि पूर्वान्ततो बोधि-
२४५११ सत्त्वो नोपैति अपरान्ततो बोधिसत्त्वो नोपैति। मध्यतो बोधिसत्त्वो नोपैति। {केन कारणेनायुष्मन् सुभूते एवं वदसि} रूपापर्यन्ततया बोधि-
२४५१२ सत्त्वापर्यन्तता वेदितव्या एवं वेदनासंज्ञासंस्कारविज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या। {केन कारणेनायुष्मन् सुभूते एवं वदसि} रूपं बोधिसत्त्व
२४५१३ इति। एवमपि न विद्यते नोपलभ्यत् एवं वेदनासंज्ञासंस्काराः विज्ञानं बोधिसत्त्व इति। एवमपि न विद्यते नोपलभ्यत् एवं हि भगवन् सर्वेण सर्वं सर्वथा सर्वं बोधिसत्त्वमनुपलभमानोऽसमनुपश्यन् कतमं बोधिसत्त्वं कतमस्यां प्रज्ञापारमितायामववदिष्याम्यनुशासिष्यामि। {केन कारणेनायुष्मन् सुभूते एवं वदसि} यावदेव
२४५१४ नामधेयमात्रमेतत्यदुत बोधिसत्त्व इति। यथा आत्मा आत्मेति चोच्यते अत्यन्ततया चानभिनिवृत्त आत्मा। एवमभावस्वभावानां धर्माणां कतमद्रूपं यदनभिनिवृत्तम्। एवं कतमे ते वेदनासंज्ञासंस्काराः कतम्त्तद्विज्ञानं यदनभिनिवृत्तम्। ये चानभिनिवृत्ता न ते वेदनासंज्ञासंस्काराः। यच्चानभिनिवृत्तं न तद्विज्ञानं तत्किमनभिनिवृत्तिमनभिनिवृत्तौ प्रज्ञापारमितायामववदिष्याम्य् अनुशासिष्यामि।
२४५१५ {केन कारणेनायुष्मन् सुभूते एवं वदसि} न चान्यत्रानभिनिवृत्तेर्बोधिसत्त्व उपलभ्यते यो बोधाय चरेत् । {केन कारणेनायुष्मन् सुभूते एवं वदसि} स-
२४५१६ चेदेवमुपदिष्यमाने बोधिसत्त्वस्य महासत्त्वस्य चित्तं नावलीयते न संलीयते न विप्रतिसारी भवति मानसं नोत्त्रस्यति न संत्रस्यति न सन्त्रासमापद्यते चरति बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाम्।
२४५१७ सुभूतिराह् सत्त्वासत्तया आयुष्मन् शारिपुत्र पूर्वान्ततो बोधिसत्त्वो
२४५१८ नोपैति। सत्त्वशून्यतया {आयुष्मन् शारिपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति}। सत्त्वविविक्ततया {आयुष्मन् शारिपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति}। सत्त्वास्वभाव-
२४५१९ तया {आयुष्मन् शारिपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति}। एवमपरान्ततो मध्यतश्च वक्तव्यम्। तत्कस्य हेतोः। सत्त्वासत्तया
२४५२० शून्यताविविक्ततास्वभावतापूर्वान्तादीनामनुपलब्धेः। न चान्यत्र सत्त्वा-

२४६०१ सत्ताशून्यताविविक्ततास्वभावता अन्यो बोधिसत्त्वोऽन्यत्पूर्वान्तादि इति हि
२४६०२ या च सत्त्वासत्ता यावद्यच्च मध्यं सर्वमेतदद्वैधीकारम्। रूपासत्तया
२४६०३ पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो नोपैति। रूपशून्यतया रूपविविक्ततया
२४६०४ रूपास्वभावतया पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो नोपैति। एवं
२४६०५ वेदना संज्ञा संस्काराः। विज्ञानासत्तया पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो नोपैति। विज्ञानशून्यतया विज्ञानविविक्ततया विज्ञानास्वभावतया पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो नोपैति।
२४६०६ एवमायतनेषु धातुषु प्रतीत्यसमुत्पादाङ्गेषु च पूर्वान्तापरान्त-
२४६०७ मध्यतो बोधिसत्त्वो नोपैतीति वक्तव्यम्।
२४६०८ दानपारमितासत्तया पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो नोपैति। दानपारमिताशून्यतया दानपारमिताविविक्ततया दानपारमितास्वभावतया पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो नोपैति। एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता। प्रज्ञापारमितासत्तया पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो नोपैति। प्रज्ञापारमिताशून्यतया प्रज्ञापारमिताविविक्ततया प्रज्ञापारमितास्वभावतया पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो नोपैति।
२४६०९ तत्कस्य हेतोः। न ह्यायुष्मन् शारिपुत्र दानशीलक्षान्तिवीर्यध्यानप्रज्ञा-
२४६१० पारमितासत्तायां शून्यतायां विविक्ततायामस्वभावतायां पूर्वान्तापरान्तमध्यान्यु-
२४६११ पलभ्यन्त् न च शारिपुत्र अन्या असत्ता अन्या शून्यता अन्या विविक्तता
२४६१२ अन्या अस्वभावता अन्यो बोधिसत्त्वः अन्या दानपारमिता अन्या शीलपारमिता अन्या क्षान्तिपारमिता अन्या वीर्यपारमिता अन्या ध्यानपारमिता
२४६१३ अन्या प्रज्ञापारमिता अन्यानि पूर्वान्तापरान्तमध्यानि। इति ह्यायुष्मन्
२४६१४ शारिपुत्र या चासत्ता यावदभावस्वभावता याश्च षट्पारमिता यश्च बोधिसत्त्वो
२४६१५ यानि च पूर्वान्तापरान्तमध्यानि सर्वमेतदद्वैधीकारम्। एवं ह्यायुष्मन् शारि-
२४६१६ पुत्र पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति। अध्यात्मशून्यतासत्तया शून्य-
२४६१७ तया विविक्ततया अस्वभावतया पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो नोपैति।
२४६१८ एवं यावदभावस्वभावशून्यतासत्तया विविक्ततया अस्वभावतया पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो
२४६१९ नोपैति।
२४६२० तत्कस्य हेतोः। न ह्यायुष्मन् शारिपुत्र अध्यात्मशून्यतासत्तायां शून्यतायां
२४६२१ विविक्ततायामस्वभावतायां च अभावस्वभावशून्यतासत्तायां शून्यतायां
२४६२२ विविक्ततायामस्वभावतायां पूर्वान्तापरान्तमध्यान्युपलभ्यन्त् न च शारि-
२४६२३ पुत्र अन्या असत्ता अन्या शून्यता अन्या विविक्तता अन्या अस्वभावता
२४६२४ अन्यो बोधिसत्त्वोऽन्यानि पूर्वान्तापरान्तमध्यानि। इति ह्यायुष्मन् शारिपुत्र

२४७०१ या चाध्यात्मशून्यता असत्ता शून्यता विविक्तता अस्वभावता यावदभाव-
२४७०२ स्वभावशून्यता असत्ता शून्यता विविक्तता अस्वभावता यश्च बोधिसत्त्वो
२४७०३ यानि च पूर्वान्तापरान्तमध्यानि सर्वमेतदद्वैधीकारम्। अनेनायुष्मन् शारि-
२४७०४ पुत्र पर्यायेण पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति।
२४७०५ पुनरपरमायुष्मन् शारिपुत्र स्मृत्युपस्थानासत्तया शून्यतया विविक्ततया
२४७०६ अस्वभावतया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति।
२४७०७ सम्यक्प्रहाणासत्तया शून्यतया विविक्ततया अस्वभावतया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति। ऋद्धिपादानासत्तया शून्यतया विविक्ततया अस्वभावतया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति। इन्द्रियासत्तया शून्यतया विविक्ततया अस्वभावतया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति। बलासत्तया शून्यतया विविक्ततया अस्वभावतया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति। बोध्यङ्गासत्तया शून्यतया विविक्ततया अस्वभावतया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति। मार्गासत्तया शून्यतया विविक्ततया अस्वभावतया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति। अप्रमाणध्यानारूप्यसमापत्त्यसत्तया शून्यतया विविक्ततया अस्वभावतया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति। अप्रमाणध्यानासत्तया शून्यतया विविक्ततया अस्वभावतया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति। आरूप्यसमापत्त्यसत्तया शून्यतया विविक्ततया अस्वभावतया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति। तथागतबलासत्तया शून्यतया विविक्ततया अस्वभावतया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति। वैशारद्यासत्तया शून्यतया विविक्ततया अस्वभावतया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति। प्रतिसंविदसत्तया शून्यतया विविक्ततया अस्वभावतया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति। बुद्धधर्मासत्तया शून्यतया विविक्ततया अस्वभावतया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति।
२४७०८ तत्कस्य हेतोः। न ह्यायुष्मन् शारिपुत्र स्मृत्युपस्थानासत्तयां शून्यतायां विविक्ततायामस्वभावतायां च बुद्धधर्मासत्तायां शून्यतायां विविक्ततायामस्वभावतायां पूर्वान्तापरान्तमध्यान्युपलभ्यन्त् न च शारिपुत्र अन्या असत्ता अन्या शून्यता अन्या विविक्तता अन्या अस्वभावता अन्यो बोधिसत्त्वोऽन्यानि पूर्वान्तापरान्तमध्यानि। इति ह्यायुष्मन् शारिपुत्र यानि च स्मृत्युपस्थानान्यसत्ता शून्यता विविक्तता अस्वभावता यावद्बुद्धधर्मा असत्ता शून्यता विविक्तता अस्वभावता यश्च बोधिसत्त्वो यानि च पूर्वान्तापरान्तमध्यानि सर्वमेतदद्वैधीकारम्। अनेनायुष्मन् शारिपुत्र पर्यायेण पूर्वान्ता-
२४७०९ परान्तमध्येषु बोधिसत्त्वो नोपैति।
२४७१० पुनरपरमायुष्मन् शारिपुत्र सर्वसमाध्यसत्तया सर्वधारणीमुखासत्तया
२४७११ धर्मधात्वसत्तया तथतासत्तया भूतकोट्यसत्तया भूतकोटिशून्यतया भूतकोटि-
२४७१२ विविक्ततया भूतकोट्यस्वभावतया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति।
२४७१३ तत्कस्य हेतोः। न ह्यायुष्मन् शारिपुत्र समाध्यसत्तायां यावद्भूतकोट्यसत्तायां
२४७१४ शून्यतायां विविक्ततायामस्वभावतायां पूर्वान्तापरान्तमध्यान्युपलभ्यन्त् न च शारिपुत्र अन्या असत्ता अन्या शून्यता अन्या विविक्तता अन्या अस्वभावता अन्यो बोधिसत्त्वोऽन्यानि पूर्वान्तापरान्तमध्यानि।
२४७१५ इति ह्यायुष्मन् शारिपुत्र ये च समाधयः असत्ता शून्यता विविक्तता अस्वभावता यावद्भूतकोटिरसत्ता शून्यता विविक्तता अस्वभावता यश्च बोधिसत्त्वो यानि च पूर्वान्तापरान्तमध्यानि सर्वमेतदद्वैधीकारम्। अनेनायुष्मन् शारिपुत्र पर्यायेण पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति।
२४७१६ पुनरपरमायुष्मन् शारिपुत्र श्रावकासत्तया शून्यतया विविक्ततया अस्वभाव-
२४७१७ तया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति। प्रत्येकबुद्धासत्तया बोधि-
२४७१८ सत्त्वासत्तया सर्वज्ञासत्तया सर्वज्ञशून्यतया सर्वज्ञविविक्ततया सर्वज्ञास्वभाव-
२४७१९ तया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति। तत्कस्य हेतोः। न
२४७२० ह्यायुष्मन् शारिपुत्र श्रावकासत्तायां यावद्सर्वज्ञतासत्तायां शून्यतायां विविक्ततायामस्वभावतायां पूर्वान्तापरान्तमध्यान्युपलभ्यन्त् न च शारिपुत्र अन्या असत्ता अन्या शून्यता अन्या विविक्तता अन्या अस्वभावता अन्यो बोधिसत्त्वोऽन्यानि पूर्वान्तापरान्तमध्यानि।
२४७२१ इति ह्यायुष्मन् शारिपुत्र यश्च श्रावकोऽसत्ता शून्यता विविक्तता अस्वभावता यावद्सर्वज्ञता असत्ता शून्यता विविक्तता अस्वभावता यश्च बोधिसत्त्वो यानि च पूर्वान्तापरान्तमध्यानि सर्वमेतदद्वैधीकारम्। अनेनायुष्मन् शारिपुत्र पर्यायेण पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति॥ [इति प्राप्तिनिर्याणप्राप्यप्रतिषेधः॥]
२४७२२ यत्पुनरायुष्मन् शारिपुत्र एवं वदसि केन कारणेन रूपापर्यन्ततया
२४७२३ बोधिसत्त्वापर्यन्तता वेदितव्या। वेदनासंज्ञासंस्कारविज्ञानापर्यन्ततया
२४७२४ बोधिसत्त्वापर्यन्तता वेदितव्येति। रूपमायुष्मन् {शारिपुत्र} आकशसमम्। {वेदनासंज्ञासंस्काराः}
२४७२५ आकाशसमं विज्ञानमायुष्मन् {शारिपुत्र} आकाशसमम्। तत्कस्य हेतोः। तद्

२४८०१ यथापि नाम आयुष्मन् {शारिपुत्र} यथा आकाशस्य न पूर्वान्त उपलभ्यते नापरान्त
२४८०२ {उपलभ्यते} न मध्य {उपलभ्यते} अनन्तापर्यन्ततया आकाशमिति च व्यवह्रियते एव-
२४८०३ मेवायुष्मन् {शारिपुत्र} रूपस्य नैव पूर्वान्त {उपलभ्यते} नापरान्त {उपलभ्यते} न मध्यम् {उपलभ्यते}। तत्
२४८०४ कस्य हेतोः। रूपशून्यतामुपादाय् न च शून्यतायाः पूर्वान्तो वा अपरान्तो
२४८०५ वा मध्यं नोपलभ्यत् वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य नैव पूर्वान्त
२४८०६ {उपलभ्यते} नापरान्त {उपलभ्यते} मध्यम् {उपलभ्यते}। तत्कस्य हेतोः। विज्ञानशून्यतामुपादाय्
२४८०७ न च शून्यतायाः पूर्वान्तो वा अपरान्तो वा मध्यं वोपलभ्यत् शून्यतेति च
२४८०८ व्यवह्रियत् अनेनायुष्मन् शारिपुत्र पर्यायेण रूपापर्यन्ततया बोधिसत्त्वा-
२४८०९ पर्यन्तता वेदितव्या। {वेदना संज्ञा संस्काराः।} विज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या।
२४८१० एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु यावज्जरामरणशोक-
२४८११ परिदेवदुःखदौर्मनस्योपायासेषु। स्मृत्युपस्थानानि सम्यक्प्रहाणान्यृद्धिपादा इन्द्रियानि बलानि बोध्यङ्गानि मार्गा अप्रमाणध्यानानि आरूप्यसमापत्तयो दशबलानि वैशारद्यानि प्रतिसंविदाः अष्टादशावेणिका बुद्धधर्मा आयुष्मन्
२४८१२ {शारिपुत्र} आकाशसमाः। तत्कस्य हेतोः। तद्यथापि नामायुष्मन् {शारिपुत्र}
२४८१३ आकाशस्य नैवादिर्नान्तो न मध्यमुपलभ्यते अनन्तापर्यन्ततया आकाश-
२४८१४ मिति च व्यवह्रियते एवमेवायुष्मन् {शारिपुत्र} बुद्धधर्माणां नादिर्नान्तो न मध्य-
२४८१५ मुपलभ्यत् बुद्धधर्मशून्यतामुपादाय् न च शून्यतायाः पूर्वान्तो वा अपरान्तो
२४८१६ वा मध्यं नोपलभ्यत् अनेआयुष्मन् {शारिपुत्र} पर्यायेण बुद्धधर्मापर्यन्ततया
२४८१७ बोधिसत्त्वापर्यन्तता वेदितव्या।
२४८१८ यत्पुनरायुष्मन् {शारिपुत्र} एवं वदसि। केन कारणेन रूपं बोधिसत्त्वैत्येव-
२४८१९ मपि न विद्यते नोपलभ्यत् {वेदना संज्ञा संस्कारा} विज्ञानं बोधिसत्त्व इत्येवमपि न
२४८२० {विद्यते नोपलभ्यते} इति। रूपमायुष्मन् शारिपुत्र रूपेण शून्यम् {वेदनासंज्ञासंस्कारा} विज्ञानमायुष्मन्
२४८२१ {शारिपुत्र} विज्ञानेन शून्यम्। तत्कस्य हेतोः। न ह्यायुष्मन् {शारिपुत्र} शून्यतायां रूपं
२४८२२ संविद्यत् नापि शून्यतायां बोधिसत्त्वः संविद्यत् {वेदना संज्ञा संस्काराः}। न शून्यतायां

२४९०१ विज्ञानं संविद्यते नापि शून्यतायां बोधिसत्त्वः संविद्यत् अनेनायुष्मन् शारिपुत्र
२४९०२ पर्यायेण रूपं बोधिसत्त्व इति एवमपि न {विद्यते नोपलभ्यते}। {वेदना संज्ञा संस्काराः} विज्ञानं बोधिसत्त्व इति
२४९०३ एवमपि न {विद्यते नोपलभ्यते}।
२४९०४ पुनरपरमायुष्मन् {शारिपुत्र} दानपारमिता दानपारमितया शून्या शीलपारमिता शीलपारमितया शून्या क्षान्तिपारमिता क्षान्तिपारमितया शून्या वीर्यपारमिता वीर्यपारमितया शून्या ध्यानपारमिता ध्यानपारमितया शून्या
२४९०५ प्रज्ञापारमिता प्रज्ञापारमितया शून्या। तत्कस्य हेतोः। न हि शून्यतायां
२४९०६ दानपारमिता विद्यते न शून्यतायां बोधिसत्त्वो विद्यते एवं शील{पारमिता} क्षान्तिपारमिता वीर्यपारमिता
२४९०७ ध्यान{पारमिता}। न शून्यतायां प्रज्ञापारमिता विद्यते न शून्यतायां बोधिसत्त्वो
२४९०८ विद्यत् अध्यात्मशून्यता {आयुष्मन्} {शारिपुत्र} अध्यात्मशून्यतया शून्या एवं यावद-
२४९०९ भावस्वभावशून्यता अभावस्वभावशून्यतया शून्या। स्मृत्युपस्थानानि
२४९१० स्मृत्युपस्थानैः शून्यानि एवं सम्यक्प्रहाणानि ऋद्धिपादाः इन्द्रियानि बलानि बोध्यङ्गानि मार्गा अप्रमाणध्यानानि आरूप्यसमापत्तयो दशबलानि वैशारद्यानि प्रतिसंविदाः अष्टादशा-
२४९११ वेणिका बुद्धधर्मा अष्टादशावेणिकैः बुद्धधर्मैः शून्या। धर्मधातुर्धर्मधातुना शून्यः
२४९१२ समाधिः समाधिना शून्यः धारणीमुखानि धारणीमुखैः शून्यानि सर्वज्ञता सर्वज्ञतया शून्या
२४९१३ मार्गज्ञता मार्गज्ञतया शून्या सर्वाकारज्ञता सर्वाकारज्ञतया शून्या श्रावकयानं श्रावकयानेन शून्यं प्रत्येकबुद्धयानं प्रत्येकबुद्धयानेन शून्यं बुद्धयानं बुद्धयानेन शून्यं।
२४९१४ श्रावकत्वेन श्रावकः शून्यः प्रत्येकबुद्धत्वेन प्रत्येकबुद्धः शून्यस्तथागतत्वेन
२४९१५ तथागतः शून्यः। तत्कस्य हेतोः। न हि शून्यतायां तथागतो विद्यते न
२४९१६ शून्यतायां बोधिसत्त्वो विद्यत् अनेनायु{ष्मन्} {शारिपुत्र} पर्यायेण रूपं बोधिसत्त्व
२४९१७ इति एवमपि न {विद्यते नोपलभ्यते}। {वेदना संज्ञा संस्काराः} विज्ञानं बोधिसत्त्व इति एवमपि न {विद्यते नोपलभ्यते}।
२४९१८ यदप्य्{आयुष्मान्} {शारिपुत्र} आह् केन कारणेनैवं वदसि। एवमहं {बोधिसत्त्वं} महासत्त्वं
२४९१९ सर्वेण सर्वं सर्वथा सर्वमनुपलभमानोऽसमनुपश्यन् कतमं बोधिसत्त्वं कतमस्यां
२४९२० प्रज्ञापारमितायामववदिष्याम्यनुशासिष्यामीति। रूपम् {आयुष्मन्} {शारिपुत्र} रूपे न
२४९२१ {संविद्यते नोपलभ्यते}। रूपं वेदनायां न {संविद्यते नोपलभ्यते}। वेदना वेदनायां न {संविद्यते नोपलभ्यते}। वेदना रूपे न {संविद्यते नोपलभ्यते}।
२४९२२ रूपं वेदना च संज्ञायां न {संविद्यते नोपलभ्यते}। संज्ञा संज्ञायां न {संविद्यते नोपलभ्यते}। संज्ञा रूपे न {संविद्यते नोपलभ्यते}
२४९२३ संज्ञा रूपवेदनयोर्न {संविद्यते नोपलभ्यते}। रूपं वेदनासंज्ञासंस्कारेषु न {संविद्यते नोपलभ्यते}। संस्काराः संस्कारेषु
२४९२४ न {संविद्यन्ते नोपलभ्यन्ते}। संस्कारा रूपवेदनासंज्ञासु न {संविद्यते नोपलभ्यते}। रूपवेदनासंज्ञासंस्कारा विज्ञाने न

२५००१ {संविद्यन्ते नोपलभ्यन्ते}। विज्ञानं विज्ञाने न {संविद्यते नोपलभ्यते}। विज्ञानं रूपवेदनासंज्ञासंस्कारेषु न {संविद्यते नोपलभ्यते}।
२५००२ चक्षुः चक्षुसि संविद्यते नोपलभ्यते श्रोत्रं श्रोत्रे संविद्यते नोपलभ्यते घ्राणं घ्राणे संविद्यते नोपलभ्यते जिह्वा जिह्वायां संविद्यते नोपलभ्यते कायः काये संविद्यते नोपलभ्यते मनो मनसि संविद्यते नोपलभ्यत् तत्रापीतरान्यितरेषु च न संविद्यन्ते नोपलभ्यन्त् रूपं रूपे संविद्यते नोपलभ्यते शब्दः शब्दे संविद्यते नोपलभ्यते गन्धो गन्धे संविद्यते नोपलभ्यते रसो रसे संविद्यते नोपलभ्यते स्प्रष्टव्यं स्प्रष्टव्ये संविद्यते नोपलभ्यते धर्मो धर्मे संविद्यते नोपलभ्यत् तत्रापीतरे इतरेषु च न संविद्यते नोपलभ्यत् चक्षुर्विज्ञानं चक्षुर्विज्ञाने संविद्यते नोपलभ्यते श्रोत्रविज्ञानं श्रोत्रविज्ञाने संविद्यते नोपलभ्यते घ्राणविज्ञानं घ्राणविज्ञाने संविद्यते नोपलभ्यते जिह्वाविज्ञानं जिह्वाविज्ञाने संविद्यते नोपलभ्यते कायविज्ञानं कायविज्ञाने संविद्यते नोपलभ्यते मनोविज्ञानं मनोविज्ञाने संविद्यते नोपलभ्यत् तत्रापीतरान्यितरेषु च न संविद्यन्ते नोपलभ्यन्त्
२५००३ चक्षुःसंस्पर्शः चक्षुःसंस्पर्शे संविद्यते नोपलभ्यते श्रोत्रसंस्पर्शः श्रोत्रसंस्पर्शे संविद्यते नोपलभ्यते घ्राणसंस्पर्शो घ्राणसंस्पर्शे संविद्यते नोपलभ्यते जिह्वासंस्पर्शः जिह्वासंस्पर्शे संविद्यते नोपलभ्यते कायसंस्पर्शः कायसंस्पर्शे संविद्यते नोपलभ्यते मनःसंस्पर्शः मनःसंस्पर्शे संविद्यते नोपलभ्यत् तत्रापीतर इतरस्मिन् च न संविद्यते नोपलभ्यत् चक्षुःसंस्पर्शजा वेदना चक्षुःसंस्पर्शजायां वेदनायां संविद्यते नोपलभ्यते श्रोत्रसंस्पर्शजा वेदना श्रोत्रसंस्पर्शजायां वेदनायां संविद्यते नोपलभ्यते घ्राणसंस्पर्शजा वेदना घ्राणसंस्पर्शजायां वेदनायां संविद्यते नोपलभ्यते जिह्वासंस्पर्शजा वेदना जिह्वासंस्पर्शजायां वेदनायां संविद्यते नोपलभ्यते कायसंस्पर्शजा वेदना कायसंस्पर्शजायां वेदनायां संविद्यते नोपलभ्यते मनःसंस्पर्शजा वेदना मनःसंस्पर्शजायां वेदनायां संविद्यते नोपलभ्यत् तत्रापीतर इतरस्मिन् च न संविद्यते नोपलभ्यत्
२५००४ तत्रापीतरा इतरासु च
२५००५ सा न {संविद्यन्ते नोपलभ्यन्ते}। स्मृत्युपस्थानानि स्मृत्युपस्थानेषु न {संविद्यन्ते नोपलभ्यते}। एवं
२५००६ सम्यक्प्रहाणानि ऋद्धिपादाः इन्द्रियानि बलानि बोध्यङ्गानि मार्गा अप्रमाणध्यानानि आरूप्यसमापत्तयो दशबलानि वैशारद्यानि प्रतिसंविदाः अष्टादशावेणिका बुद्धधर्मा अष्टादशा-
२५००७ वेणिकेषु बुद्धधर्मेषु न {संविद्यन्ते नोपलभ्यन्ते}। तत्रापीतरे इतरेषु च ते न {संविद्यन्ते नोपलभ्यन्ते}।
२५००८ अध्यात्मशून्यता अध्यात्मशून्यतायां न संविद्यते नोपलभ्यते यावदभावस्वभावशून्यता अभावस्वभावशून्यतायां न संविद्यते नोपलभ्यते
२५००९ समाधिः समाधौ न संविद्यते नोपलभ्यते धारणी धारणीयां न संविद्यते नोपलभ्यते। पृथग्जनभूमिः गोत्रभूमिरष्टमकभूमिर्दर्शनभूमिस्तनु-
२५०१० भूमिर्वीतरागभूमिः कृताविभूमिः प्रत्येकबुद्धभूमिर्बोधिसत्त्वभूमिस्तथागतभूमिः
२५०११ सवज्ञताभूमिः। स्रोतआपन्न स्रोतआपन्नत्वे न {संविद्यते नोपलभ्यते}। एवं सकृदागामी
२५०१२ अनागामी अर्हन् प्रत्येकबुद्धः प्रत्येकबुद्धत्वे न {संविद्यते नोपलभ्यते}। बोधिसत्त्वो बोधिसत्त्वत्वे
२५०१३ न {संविद्यते नोपलभ्यते}। तथागतस्तथागतत्वे न {संविद्यते नोपलभ्यते}। प्रज्ञापारमिता प्रज्ञापारमितायां न {संविद्यते नोपलभ्यते}।
२५०१४ प्रज्ञापारमितायामववादानुशासनी न {संविद्यते नोपलभ्यते}। अववादानुशासन्यां प्रज्ञापारमिता
२५०१५ न {संविद्यते नोपलभ्यते}। एवं ह्य्{आयुष्मन्} {शारिपुत्र} सर्वधर्मा संविद्यमानत्वेन अनुपलम्भेन बोधि-
२५०१६ सत्त्वो न {संविद्यते नोपलभ्यते}॥ [इति प्राप्तिनिर्याणे प्रापकप्रतिषेधः॥]
२५०१७ यत्पुनर्{आयुष्मन्} {शारिपुत्र} एवं वदसि। केन कारणेन नामधेयमात्रमेतत्यदुत
२५०१८ बोधिसत्त्व इति। केन कारणेन्{आयुष्मन्} सुभूते एवं वदसि आगन्तुकमेतन्नाम-
२५०१९ धेयं प्रक्षिप्तं यदुत बोधिसत्त्व इति। तथा ह्य्{आयुष्मन्} {शारिपुत्र} नाम दशभ्यो
२५०२० दिग्भ्यो न कुतश्चिदागच्छति न क्वचिद्गच्छति न क्वचित्तिष्ठति सर्वधर्माणामेव
२५०२१ बोधिसत्त्वानां नामापि न कुतश्चिदेति न क्वचिद्गच्छति न क्वचित्तिष्ठति।
२५०२२ आगन्तुकमेतन्नामधेयं तथा हि यद्रूपं यद्वेदना यत्संज्ञा यत्संस्कारा यद्विज्ञान-
२५०२३ मिति नामधेयं न तद्रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानम्। तत्कस्य
२५०२४ हेतोः। तथा हि नाम शून्यं नामस्वभावेन यच्च शून्यं न तन्नाम् तेन कारणेन

२५१०१ नोच्यते बोधिसत्त्व इति नामधेयमात्रमेतदिति। पुनरपरम् {आयुष्मन्} {शारिपुत्र} नामधेयमात्र-
२५१०२ मेतद्यदुत दानपारमितेति। न च दानपारमितायां नाम न च नाम्नि दानपार-
२५१०३ मिता। तत्कस्य हेतोः। यच्च नाम या च दानपारमिता उभयमेतन्न {संविद्यते नोपलभ्यते}।
२५१०४ तस्मान्नामधेयमात्रमेतद्यदुत बोधिसत्त्व इति। एवं नामधेयमात्रमेतद्यदुत
२५१०५ शील{पारमिता} क्षान्ति{पारमिता} वीर्य{पारमिता} ध्यान{पारमिता} नामधेयमात्रमेतद्यदुत प्रज्ञा{पारमिता}
२५१०६ इति न च प्रज्ञापारमितायां नाम न च नाम्नि प्रज्ञापारमिता। तत्कस्य हेतोः। यच्च नाम या च प्रज्ञापारमिता उभयमेतन्न संविद्यते नोपलभ्यत् तस्मान्नामधेयमात्रमेतद्यदुत बोधिसत्त्व इति।। {आगन्तुकमेतन्नामधेयमात्रमेतद्} यदुत बोधिसत्त्व इति।
२५१०७ नामधेयमात्रमेतद्यदुत अध्यात्म{शून्यता} बहिर्धा{शून्यता} अध्यात्मबहिर्धा{शून्यता} यावद-
२५१०८ भावस्वभाव{शून्यता}। न चाध्यात्मन्यतायां नाम न च नाम्नि अध्यात्म{शून्यता}
२५१०९ बहिर्धा{शून्यता} अध्यात्मबहिर्धा{शून्यता} यावद्भावस्वभाव{शून्यता}। तत्कस्य हेतोः।
२५११० तथा हि यच्च नाम या चाध्यात्म{शून्यता} या च बहिर्धा{शून्यता} या चाध्यात्मबहिर्धा{शून्यता}
२५१११ या च यावद्भावस्वभाव{शून्यता} सर्व एते न {संविद्यन्ते नोपलभ्यन्ते}। अनेन्{आयुष्मन्} {शारिपुत्र} पर्यायेण
२५११२ नामधेयमात्रमेतत्यदुत बोधिसत्त्व इति। {आगन्तुकमेतन्नामधेयमात्रमेतद्} यदुत स्मृत्युपस्थानानि न
२५११३ च स्मृत्युपस्थानेषु नाम न च नाम्नि स्मृत्युपस्थानानि
२५११४ तत्कस्य हेतोः। तथ हि यच्च नाम यानि च स्मृत्युपस्थानान्युभयमेतन्न संविद्यन्ते नोपलभ्यन्त् आगन्तुकमेतन्नामधेयमात्रमेतद्यदुत सम्यक्प्रहाणानि न च सम्यक्प्रहाणेषु नाम न च नाम्नि सम्यक्प्रहाणानि। तत्कस्य हेतोः। तथ हि यच्च नाम यानि च स्मृत्युपस्थानान्युभयमेतन्न संविद्यते नोपलभ्यत् आगन्तुकमेतन्नामधेयमात्रमेतद्यदुत ऋद्धिपादा न च ऋद्धिपादेषु नाम न च नाम्नि ऋद्धिपादाः। तत्कस्य हेतोः। तथ हि यच्च नाम ये च ऋद्धिपादाः उभयमेतन्न संविद्यते नोपलभ्यत् आगन्तुकमेतन्नामधेयमात्रमेतद्यदुत इन्द्रियानि न च इन्द्रियेषु नाम न च नाम्नि इन्द्रियानि। तत्कस्य हेतोः। तथ हि यच्च नाम यानि च इन्द्रियान्युभयमेतन्न संविद्यते नोपलभ्यत् आगन्तुकमेतन्नामधेयमात्रमेतद्यदुत बलानि न च बलेषु नाम न च नाम्नि बलानि। तत्कस्य हेतोः। तथ हि यच्च नाम यानि च बलान्युभयमेतन्न संविद्यते नोपलभ्यत् आगन्तुकमेतन्नामधेयमात्रमेतद्यदुत बोध्यङ्गानि न च बोध्यङ्गेषु नाम न च नाम्नि बोध्यङ्गानि। तत्कस्य हेतोः। तथ हि यच्च नाम यानि च बोध्यङ्गान्युभयमेतन्न संविद्यते नोपलभ्यत् आगन्तुकमेतन्नामधेयमात्रमेतद्यदुत मार्गा न च मार्गेषु नाम न च नाम्नि मार्गाः। तत्कस्य हेतोः। तथ हि यच्च नाम ये च मार्गा उभयमेतन्न संविद्यते नोपलभ्यत् आगन्तुकमेतन्नामधेयमात्रमेतद्यदुत अप्रमाणध्यानानि न च अप्रमाणध्यानेषु नाम न च नाम्नि अप्रमाणध्यानानि। तत्कस्य हेतोः। तथ हि यच्च नाम यानि च अप्रमाणध्यानान्युभयमेतन्न संविद्यते नोपलभ्यत् आगन्तुकमेतन्नामधेयमात्रमेतद्यदुत आरूप्यसमापत्तयो न च आरूप्यसमापत्तिषु नाम न च नाम्नि आरूप्यसमापत्तयः। तत्कस्य हेतोः। तथ हि यच्च नाम याश्च आरूप्यसमापत्तय उभयमेतन्न संविद्यते नोपलभ्यत् आगन्तुकमेतन्नामधेयमात्रमेतद्यदुत दशबलानि न च
दशबलेषु नाम न च नाम्नि दशबलानि। तत्कस्य हेतोः। तथ हि यच्च नाम यानि च दशबलान्युभयमेतन्न संविद्यते नोपलभ्यत् आगन्तुकमेतन्नामधेयमात्रमेतद्यदुत वैशारद्यानि न च वैशारद्येषु नाम न च नाम्नि वैशारद्यानि। तत्कस्य हेतोः। तथ हि यच्च नाम यानि च वैशारद्यान्युभयमेतन्न संविद्यते नोपलभ्यत् आगन्तुकमेतन्नामधेयमात्रमेतद्यदुत प्रतिसंविदा न च प्रतिसंविदासु नाम न च नाम्नि प्रतिसंविदाः। तत्कस्य हेतोः। तथ हि यच्च नाम याश्च प्रतिसंविदा उभयमेतन्न संविद्यते नोपलभ्यत्
२५११५ आगन्तुकमेतन्नामधेयमात्रमेतद्यदुत अष्टादशावेणिका बुद्धधर्मा न च अष्टादशावेणिकेषु बुद्धधर्मेषु नाम न च नाम्नि अष्टादशावेणिका बुद्धधर्माः। तत्कस्य हेतोः। तथ हि यच्च नाम ये च अष्टादशावेणिका बुद्धधर्मा उभयमेतन्न संविद्यते नोपलभ्यते।
२५११६ {आगन्तुकमेतन्नामधेयमात्रमेतद्} यदुत समाधिरिति यावत्सर्वज्ञतेति। न च सर्वज्ञतायां नाम
२५११७ न च नाम्नि सर्वज्ञता। तत्कस्य हेतोः। तथा हि यच्च नाम या च सर्वज्ञता
२५११८ उभयमेतन्न {संविद्यते नोपलभ्यते}।
२५११९ यत्पुनर्{आयुष्मन्} {शारिपुत्र} एवं वदसि केन कारणेनोच्यते यथा आत्मात्मेति
२५१२० चोच्यते अत्यान्ततया चानभिनिवृत्त आत्मेति। आत्मा {शारिपुत्र} अत्यन्ततया न {संविद्यते नोपलभ्यते}।
२५१२१ कुतः पुनरस्याभिनिवृत्तिर्भविष्यति। अत्यन्ततया {आयुष्मन्} {शारिपुत्र} सत्त्वो जीवः
२५१२२ पोषः पुरुषः पुद्गलो मनुजो मानवः कारको वेदको जानकः पश्यको न {संविद्यते नोपलभ्यते}। {कुतः पुनरस्याभिनिवृत्तिर्भविष्यति}। अत्यन्ततया {आयुष्मन्} {शारिपुत्र} रूपं न {संविद्यते नोपलभ्यते}।
२५१२३ {कुतः पुनरस्याभिनिवृत्तिर्भविष्यति}। वेदना संज्ञा संस्कारा अत्यन्ततया {आयुष्मन्} {शारिपुत्र} विज्ञानं न {संविद्यते नोपलभ्यते}।
२५१२४ {कुतः पुनरस्याभिनिवृत्तिर्भविष्यति}। अत्यन्ततया आयुष्मन् शारिपुत्र चक्षुर्न संविद्यते नोपलभ्यत् कुतः पुनरस्याभिनिवृत्तिर्भविष्यति। एवं श्रोत्रं घ्राणं जिह्वा कायः। अत्यन्ततया आयुष्मन् शारिपुत्र मनो न संविद्यते नोपलभ्यत् कुतः पुनरस्याभिनिवृत्तिर्भविष्यति। अत्यन्ततया आयुष्मन् शारिपुत्र रूपं न संविद्यते नोपलभ्यत् कुतः पुनरस्याभिनिवृत्तिर्भविष्यति। एवं शब्दो गन्धो रसः स्प्रष्टव्यम्। अत्यन्ततया आयुष्मन् शारिपुत्र धर्मो न संविद्यते नोपलभ्यत् कुतः पुनरस्याभिनिवृत्तिर्भविष्यति। अत्यन्ततया आयुष्मन् शारिपुत्र चक्षुर्विज्ञानं न संविद्यते नोपलभ्यत् कुतः पुनरस्याभिनिवृत्तिर्भविष्यति। एवं श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्वाविज्ञानं कायविज्ञानम्। अत्यन्ततया आयुष्मन् शारिपुत्र मनोविज्ञानं न संविद्यते नोपलभ्यत् कुतः पुनरस्याभिनिवृत्तिर्भविष्यति। अत्यन्ततया आयुष्मन् शारिपुत्र चक्षुःसंस्पर्शो न संविद्यते नोपलभ्यत् कुतः पुनरस्याभिनिवृत्तिर्भविष्यति। एवं श्रोत्रसंस्पर्शो घ्राणसंस्पर्शो जिह्वासंस्पर्शः कायसंस्पर्शः। अत्यन्ततया आयुष्मन् शारिपुत्र मनःसंस्पर्शो न संविद्यते नोपलभ्यत् कुतः पुनरस्याभिनिवृत्तिर्भविष्यति।

२५२०१ अत्यन्ततया आयुष्मन् शारिपुत्र चक्षुःसंस्पर्शजा वेदना न संविद्यते नोपलभ्यत् कुतः पुनरस्या अभिनिवृत्तिर्भविष्यति। एवं श्रोत्रसंस्पर्शजा वेदना घ्राणसंस्पर्शजा वेदना जिह्वासंस्पर्शजा वेदना कायसंस्पर्शजा वेदना। अत्यन्ततया आयुष्मन् शारिपुत्र मनःसंस्पर्शजा वेदना न संविद्यते नोपलभ्यत् कुतः पुनरस्या अभिनिवृत्तिर्भविष्यति। अत्यन्ततया आयुष्मन् शारिपुत्र दानपारमिता न संविद्यते नोपलभ्यत् कुतः पुनरस्या अभिनिवृत्तिर्भविष्यति। एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता। अत्यन्ततया आयुष्मन् शारिपुत्र प्रज्ञापारमिता न संविद्यते नोपलभ्यत् कुतः पुनरस्या अभिनिवृत्तिर्भविष्यति। अत्यन्ततया आयुष्मन् शारिपुत्र अध्यात्मशून्यता न संविद्यते नोपलभ्यत् कुतः पुनरस्या अभिनिवृत्तिर्भविष्यति। एवं शीलपारमिता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता। यावदत्यन्ततया आयुष्मन् शारिपुत्र अभावस्वभावशून्यता न संविद्यते नोपलभ्यत् कुतः पुनरस्या अभिनिवृत्तिर्भविष्यति। अत्यन्ततया आयुष्मन् शारिपुत्र स्मृत्युपस्थानानि न संविद्यन्ते नोपलभ्यन्त् कुतः पुनरेषामभिनिवृत्तिर्भविष्यति। एवं सम्यक्प्रहाणान्यृद्धिपादा इन्द्रियानि बलानि बोध्यङ्गानि मार्गा अप्रमाणध्यानानि आरूप्यसमापत्तयो दशबलानि वैशारद्यानि प्रतिसंविदाः।
२५२०२ अत्यन्ततया आयुष्मन् शारिपुत्र अष्टादशावेणिका बुद्धधर्मा न संविद्यन्ते नोपलभ्यन्त् कुतः पुनरेषामभिनिवृत्तिर्भविष्यति। अत्यन्ततया समाधयो धारणीमुखानि न {संविद्यन्ते नोपलभ्यन्ते}। {कुतः पुनरेषामभिनिवृत्तिर्भविष्यति}। अत्यन्ततया
२५२०३ श्रावकः प्रत्येकबुद्धो बोधिसत्त्वस्तथागतोऽर्हन् सम्यक्संबुद्धो न {संविद्यते नोपलभ्यते}। {कुतः पुनरस्याभिनिवृत्तिर्भविष्यति}।
२५२०४ अनेन्{आयुष्मन्} {शारिपुत्र} पर्यायेण आत्मात्मेति चोच्यते अत्यन्ततया चानभिनिवृत्त
२५२०५ आत्मा।
२५२०६ पुनरपरं यद्{आयुष्मान्} {शारिपुत्र} एवमाह् अभावस्वभावाः सर्वधर्मा इति।
२५२०७ एवमेतत् । तत्कस्य हेतोः। तथा ह्य्{आयुष्मन्} {शारिपुत्र} नास्ति सांयोगिकः स्वभावः।
२५२०८ {शारिपुत्र} आह् कस्य्{आयुष्मन्} {सुभूते} नास्ति सांयोगिकः स्वभावः।
२५२०९ {सुभूतिर्} आह् रूपस्य्{आयुष्मन्} {शारिपुत्र} नास्ति सांयोगिकः स्वभावः। वेदनायाः
२५२१० संज्ञायाः संस्काराणां विज्ञानस्य्{आयुष्मन्} {शारिपुत्र} नास्ति सांयोगिकः स्वभावः।
२५२११ चक्षुस आयुष्मन् शारिपुत्र नास्ति सांयोगिकः स्वभावः। श्रोत्रस्य घ्राणस्य जिह्वायाः कायस्य मनस आयुष्मन् शारिपुत्र नास्ति सांयोगिकः स्वभावः। रूपस्यायुष्मन् शारिपुत्र नास्ति सांयोगिकः स्वभावः। शब्दस्य गन्धस्य रसस्य स्प्रष्टव्यस्य धर्मस्यायुष्मन् शारिपुत्र नास्ति सांयोगिकः स्वभावः। चक्षुर्विज्ञानस्यायुष्मन् शारिपुत्र नास्ति सांयोगिकः स्वभावः। श्रोत्रविज्ञानस्य घ्राणविज्ञानस्य जिह्वाविज्ञानस्य कायविज्ञानस्य मनसोविज्ञानस्यायुष्मन् शारिपुत्र नास्ति सांयोगिकः स्वभावः। चक्षुःसंस्पर्शस्यायुष्मन् शारिपुत्र नास्ति सांयोगिकः स्वभावः। श्रोत्रसंस्पर्शस्य घ्राणसंस्पर्शस्य जिह्वासंस्पर्शस्य कायसंस्पर्शस्य मनःसंस्पर्शस्यायुष्मन् शारिपुत्र नास्ति सांयोगिकः स्वभावः। चक्षुःसंस्पर्शप्रत्ययवेदनाया आयुष्मन् शारिपुत्र नास्ति सांयोगिकः स्वभावः। श्रोत्रसंस्पर्शप्रत्ययवेदनाया घ्राणसंस्पर्शप्रत्ययवेदनाया जिह्वासंस्पर्शप्रत्ययवेदनायाः कायसंस्पर्शप्रत्ययवेदनाया मनःसंस्पर्शप्रत्ययवेदनाया आयुष्मन् शारिपुत्र नास्ति सांयोगिकः स्वभावः।
२५२१२ दानपारमिताया आयुष्मन् शारिपुत्र नास्ति सांयोगिकः स्वभावः। शीलपारमितायाः क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमितायाः। नास्ति प्रज्ञापारमिताया सांयोगिकः
२५२१३ स्वभावः। अनेन्{आयुष्मन्} {शारिपुत्र} पर्यायेणास्वभावाः सर्वधर्माः।
२५२१४ पुनरपरम् {आयुष्मन्} {शारिपुत्र} अनित्याः सर्वधर्मा न कस्यचिद्विगमेन्
२५२१५ {शारिपुत्र} आह् कतमे ते {आयुष्मन्} {सुभूते} अनित्याः सर्वधर्मा न कस्यचिद्विगमेन्
२५२१६ {सुभूतिर्} आह् रूपम् {आयुष्मन्} {शारिपुत्र} अनित्यं न कस्यचिद् विगमेन् {वेदना संज्ञा संस्कारा} विज्ञान-
२५२१७ म् {आयुष्मन्} {शारिपुत्र} अनित्यं न कस्यचिद्विगमेन् तत्कस्य हेतोः। तथा ह्य्{आयुष्मन्} {शारिपुत्र}
२५२१८ यदनित्यं सोऽभावः क्षयश्च एवं दुःखाः अनात्मानः शान्ताः शून्या अनिमित्ता
२५२१९ अप्रणिहिता न कस्यचिद्विगमेन सर्वधर्माः कुशला अनवद्या अनास्रवा
२५२२० निःक्लेशा लोकोत्तरा अव्यवदाना असंस्कृताः। तत्कस्य हेतोः। तथा
२५२२१ ह्य्{आयुष्मन्} {शारिपुत्र} योऽसंस्कृतः सोऽभावः क्षयश्चाने{आयुष्मन्} {शारिपुत्र} पर्यायेण निःस्वभावाः
२५२२२ सर्वधर्मा न कस्यचिद्विगमेन्
२५२२३ पुनरपरं {शारिपुत्र} अकूटस्था अविनाशिनः सर्वधर्माः।
२५२२४ {शारिपुत्र} आह् केन कारणेन्{आयुष्मन्} {सुभूते} अकूटस्थाऽविनाशिनः सर्वधर्माः।

२५३०१ {सुभूतिर्} आह् रूपम् {आयुष्मन्} {शारिपुत्र} अकूटस्थमविनाशि। तत्कस्य हेतोः।
२५३०२ प्रकृतिरस्यैषा। {वेदना संज्ञा संस्कारा} विज्ञानम् {आयुष्मन्} {शारिपुत्र} {अकूटस्थमविनाशि}। {तत्कस्य हेतोः}। {प्रकृतिरस्यैषा}। एवं कुशलमकुशलं
२५३०३ सावद्यमनवद्यं सास्रवमनास्रवं संक्लेशं निःक्लेशं लौकिकं लोकोत्तरं संस्कृतम-
२५३०४ संस्कृतं संक्लेशो व्यवदानं संसारो निर्वाणं {अकूटस्थमविनाशि}। {तत्कस्य हेतोः}। {प्रकृतिरस्यैषा}। अनेन्{आयुष्मन्} {शारिपुत्र}
२५३०५ पर्यायेणाभावस्वभावाः सर्वधर्माः।
२५३०६ यत्पुनर्{आयुष्मन्} {शारिपुत्र} एवमाह् केन कारणेन रूपमनभिसंस्कृतमेवं {वेदना संज्ञा संस्काराः} केन
२५३०७ कारणेन विज्ञानमनभिसंस्कृतमिति।
२५३०८ {सुभूतिर्} आह् तथा ह्य्{आयुष्मन्} {शारिपुत्र} रूपमनभिनिवृत्तं {वेदना संज्ञा संस्कारा} विज्ञानमनभि-
२५३०९ निवृत्तम्। तत्कस्य हेतोः। तथा ह्य्{आयुष्मन्} {शारिपुत्र} अभिसंस्कर्त्ता नास्ति। चक्षु-
२५३१० र्{आयुष्मन्} {शारिपुत्र} अनभिसंस्कृतम्। तत्कस्य हेतोः। तथा ह्य्{आयुष्मन्} {शारिपुत्र} अभि-
२५३११ संस्कर्त्ता नास्ति। एवं श्रोत्रम् घ्राणं जिह्वा कायो मनोऽनभिसंस्कृतम्
२५३१२ तत्कस्य हेतोः। तथा ह्यायुष्मन् शारिपुत्र अभिसंस्कर्त्ता नास्ति। पुनरपरं {शारिपुत्र} रूपम् शब्दो गन्धो रसः स्प्रष्टव्यं धर्मा अनभिसंस्कृताः। तत्कस्य हेतोः।
२५३१३ तथा ह्यभिसंस्कर्त्ता नोपलभ्यते यावत्सर्वधर्मा अनभिसंस्कृताः। तत्कस्य
२५३१४ हेतोः। तथा ह्यभिसंस्कर्त्ता नोपलभत् अनेन्{आयुष्मन्} {शारिपुत्र} पर्यायेण रूपवेदनासंज्ञासंस्कार-
२५३१५ विज्ञानान्यनभिनिवृत्तानि।
२५३१६ यत्पुनर्{आयुष्मन्} {शारिपुत्र} एवं वदसि केन कारणेन यदनभिनिवृत्तं न तद्रूपं न
२५३१७ वेदना न संज्ञा न संस्कारा न विज्ञानमिति।
२५३१८ {सुभूतिर्} आह् तथा ह्य्{आयुष्मन्} {शारिपुत्र} रूपं प्रकृतिशून्यम्। यच्च प्रकृतिशून्यं न
२५३१९ तस्योत्पादो न व्ययः। यस्य च नोत्पादो न व्ययो न तस्यान्यथात्वं प्रज्ञायत्
२५३२० {वेदना संज्ञा संस्कारा} विज्ञानं प्रकृतिशून्यं यच्च प्रकृतिशून्यं न तस्योत्पादो न व्ययः। यस्य च नोत्पादो न व्ययो न तस्यान्यथात्वं प्रज्ञायत् एवं यावत्सर्वधर्माः
२५३२१ प्रकृतिशून्या ये च प्रकृतिशून्या न तेषामुत्पादो न व्ययः। येषां च नोत्पादो न व्ययो न तेषामन्यथात्वं प्रज्ञायत् अनेन्{आयुष्मन्} {शारिपुत्र} पर्यायेण
२५३२२ यदनभिनिवृत्तं न तद्रूपं वेदना संज्ञा संस्कारा न विज्ञानम्।

२५४०१ यत्पुनर्{आयुष्मन्} {शारिपुत्र} एवमाह् केन कारणेनैवं वदसि। तत्किमनभि-
२५४०२ निवृत्तिमनभिनिवृत्तौ प्रज्ञापारमितायामववदिष्याम्यनुशासिष्यामीति। यथा
२५४०३ ह्य्{आयुष्मन्} {शारिपुत्र} या अनभिनिवृत्तिः सा प्रज्ञापारमिता या प्रज्ञापारमिता सा
२५४०४ अनभिनिवृत्तिः। इति हि प्रज्ञापारमिता चानभिनिवृत्तिश्चाद्वयमेतदद्वैधीकारम्।
२५४०५ अनेन्{आयुष्मन्} {शारिपुत्र} पर्यायेणैवं वदामि। तत्किमनभिनिवृत्तिमनभिनिवृत्तौ प्रज्ञापारमितायामववदिष्याम्यनुशासिष्यामीति।
२५४०६ यत्पुनर्{आयुष्मन्} {शारिपुत्र} एवमाह् न चान्यत्रानभिनिवृत्तेर्बोधिसत्त्व उपलभ्यते
२५४०७ यो बोधाय चरेदिति। तथा ह्य्{आयुष्मन्} {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायाञ्चरन्
२५४०८ नान्यामनभिनिवृत्तिमन्यं बोधिसत्त्वं समनुपश्यति। इति ह्यनभिनिवृत्तिश्च बोधि-
२५४०९ सत्त्वश्चाद्वयमेतदद्वैधीकारं नान्यत्रानभिनिवृत्तेः रूपं समनुपश्यति
२५४१० इति ह्यनभिनिवृत्तिश्च रूपं चाद्वयमेतदद्वैधीकारं। इति ह्यनभिनिवृत्तिश्च वेदना चाद्वयमेतदद्वैधीकारं। इति ह्यनभिनिवृत्तिश्च संज्ञा चाद्वयमेतदद्वैधीकारं। इति ह्यनभिनिवृत्तिश्च संस्काराश्चाद्वयमेतदद्वैधीकारं। इति ह्यनभिनिवृत्तिश्च विज्ञानं चाद्वयमेतदद्वैधीकारं।
२५४११ इति ह्यनभिनिवृत्तिश्च चक्षुश्चाद्वयमेतदद्वैधीकारम्।
२५४१२ इति ह्यनभिनिवृत्तिश्च श्रोत्रं चाद्वयमेतदद्वैधीकारम्। इति ह्यनभिनिवृत्तिश्च घ्राणं चाद्वयमेतदद्वैधीकारम्। इति ह्यनभिनिवृत्तिश्च जिह्वा चाद्वयमेतदद्वैधीकारम्। इति ह्यनभिनिवृत्तिश्च कायश्चाद्वयमेतदद्वैधीकारम्। इति ह्यनभिनिवृत्तिश्च मनश्चाद्वयमेतदद्वैधीकारम्। इति ह्यनभिनिवृत्तिश्च रूपं चाद्वयमेतदद्वैधीकारम्। इति ह्यनभिनिवृत्तिश्च शब्दश्चाद्वयमेतदद्वैधीकारम्। इति ह्यनभिनिवृत्तिश्च गन्धश्चाद्वयमेतदद्वैधीकारम्। इति ह्यनभिनिवृत्तिश्च रसश्चाद्वयमेतदद्वैधीकारम्। इति ह्यनभिनिवृत्तिश्च स्प्रष्टव्यं चाद्वयमेतदद्वैधीकारम्। इति ह्यनभिनिवृत्तिश्च धर्मश्चाद्वयमेतदद्वैधीकारम्। इति ह्यनभिनिवृत्तिश्च चक्षुर्विज्ञानं चाद्वयमेतदद्वैधीकारम्। इति ह्यनभिनिवृत्तिश्च श्रोत्रविज्ञानं चाद्वयमेतदद्वैधीकारम्। इति ह्यनभिनिवृत्तिश्च घ्राणविज्ञानं चाद्वयमेतदद्वैधीकारम्। इति ह्यनभिनिवृत्तिश्च जिह्वाविज्ञानं चाद्वयमेतदद्वैधीकारम्। इति ह्यनभिनिवृत्तिश्च कायविज्ञानं चाद्वयमेतदद्वैधीकारम्। इति ह्यनभिनिवृत्तिश्च मनोविज्ञानं चाद्वयमेतदद्वैधीकारम्। इति ह्यनभिनिवृत्तिश्च चक्षुःसंस्पर्शश्चाद्वयमेतदद्वैधीकारम्। इति ह्यनभिनिवृत्तिश्च श्रोत्रसंस्पर्शश्चाद्वयमेतदद्वैधीकारम्। इति ह्यनभिनिवृत्तिश्च घ्राणसंस्पर्शश्चाद्वयमेतदद्वैधीकारम्। इति ह्यनभिनिवृत्तिश्च जिह्वासंस्पर्शश्चाद्वयमेतदद्वैधीकारम्। इति ह्यनभिनिवृत्तिश्च कायसंस्पर्शश्चाद्वयमेतदद्वैधीकारम्। इति ह्यनभिनिवृत्तिश्च मनःसंस्पर्शश्चाद्वयमेतदद्वैधीकारम्। इति ह्यनभिनिवृत्तिश्च चक्षुःसंस्पर्शप्रत्ययवेदना चाद्वयमेतदद्वैधीकारम्। इति ह्यनभिनिवृत्तिश्च श्रोत्रसंस्पर्शप्रत्ययवेदना चाद्वयमेतदद्वैधीकारम्। इति ह्यनभिनिवृत्तिश्च घ्राणसंस्पर्शप्रत्ययवेदना चाद्वयमेतदद्वैधीकारम्। इति ह्यनभिनिवृत्तिश्च जिह्वासंस्पर्शप्रत्ययवेदना चाद्वयमेतदद्वैधीकारम्। इति ह्यनभिनिवृत्तिश्च कायसंस्पर्शप्रत्ययवेदना चाद्वयमेतदद्वैधीकारम्। इति ह्यनभिनिवृत्तिश्च मनःसंस्पर्शप्रत्ययवेदना
चाद्वयमेतदद्वैधीकारम्।
२५४१३ इति ह्यनभिनिवृत्तिश्च सम्यक्प्रहाणानि चाद्वयमेतदद्वैधीकारम्। इति ह्यनभिनिवृत्तिश्च ऋद्धिपादाश्चाद्वयमेतदद्वैधीकारम्। इति ह्यनभिनिवृत्तिश्च इन्द्रियानि चाद्वयमेतदद्वैधीकारम्। इति ह्यनभिनिवृत्तिश्च बलानि चाद्वयमेतदद्वैधीकारम्। इति ह्यनभिनिवृत्तिश्च बोध्यङ्गानि चाद्वयमेतदद्वैधीकारम्। इति ह्यनभिनिवृत्तिश्च मार्गाश्चाद्वयमेतदद्वैधीकारम्। इति ह्यनभिनिवृत्तिश्च अप्रमाणध्यानारूप्यसमापत्तयश्चाद्वयमेतदद्वैधीकारम्।
२५४१४ इति ह्यनभिनिवृत्तिश्च दानपारमिता चाद्वयमेतदद्वैधीकारम्। इति ह्यनभिनिवृत्तिश्च शीलपारमिता चाद्वयमेतदद्वैधीकारम्। इति ह्यनभिनिवृत्तिश्च क्षान्तिपारमिता चाद्वयमेतदद्वैधीकारम्। इति ह्यनभिनिवृत्तिश्च वीर्यपारमिता चाद्वयमेतदद्वैधीकारम्। इति ह्यनभिनिवृत्तिश्च ध्यानपारमिता चाद्वयमेतदद्वैधीकारम्। इति ह्यनभिनिवृत्तिश्च प्रज्ञापारमिता चाद्वयमेतदद्वैधीकारम्। इति ह्यनभिनिवृत्तिश्च दशबलवैशारद्याष्टादशावेणिका बुद्ध-
२५४१५ धर्माश्चाद्वयमेतदद्वैधीकारम्। यावदिति ह्यनभिनिवृत्तिश्च सर्वधर्माश्चाद्वयमेतदद्वैधी-
२५४१६ कारम्। अनेन्{आयुष्मन्} {शारिपुत्र} पर्यायेण नान्यत्रानभिनिवृत्तेर्बोधिसत्त्व उपलभ्यते यो
२५४१७ बोधाय चरेत् ।
२५४१८ यत्पुनर्{आयुष्मन्} {शारिपुत्र} एवमाह् केन कारणेनैवं वदसि। सचेद्{बोधिसत्त्वस्य}
२५४१९ महासत्त्वस्य एवमुपदिश्यमाने चित्तं नावलीयते न संलीयते न विप्रतिसारी भवति
२५४२० मानसं नोत्रस्यति न सन्त्रस्यति न सन्त्रासमापद्यते चरति {बोधिसत्त्वो} महासत्त्वः
२५४२१ प्रज्ञापारमितायामिति। तथा ह्य्{आयुष्मन्} {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वः सर्वधर्मान्
२५४२२ निरीहान् समनुपश्यति मायोपमान् स्वप्नोपमान्मरीच्युपमान् प्रतिश्रुत्-
२५४२३ कोपमान् प्रतिबिम्बोपमान् प्रतिभासोपमान्निर्मितकोपमान् गन्धर्वनगरो-
२५४२४ पमान् समनुपश्यति। अनेन्{आयुष्मन्} {शारिपुत्र} पर्यायेण {बोधिसत्त्वस्य} महासत्त्वस्य एवमु-
२५४२५ पदिश्यमाने चित्तं नावलीयते न संलीयते न विप्रतिसारी भवति मानसं नोत्रस्यति न सन्त्रस्यति न सन्त्रासमापद्यते चरति बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायामिति।

२५५०१ अथ खल्व्{आयुष्मान्} {सुभूतिर्} भगवन्तमेतदवोचत् । यस्मिन् समये भगवन् {बोधिसत्त्वो}
२५५०२ महासत्त्वः प्रज्ञापारमितायां चरन्निमान् धर्मानुपपरीक्षत् तस्मिन् समये
२५५०३ रूपं नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति रूपमेत-
२५५०४ दिति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्निमान् धर्मानुपपरीक्षत् तस्मिन् समये वेदनां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति वेदना एषा इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्निमान् धर्मानुपपरीक्षत् तस्मिन् समये संज्ञां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति संज्ञा एषा इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्निमान् धर्मानुपपरीक्षत् तस्मिन् समये संस्कारान्नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति संस्कारा एते इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्निमान् धर्मानुपपरीक्षत् तस्मिन् समये विज्ञानं नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति विज्ञानमेतदिति।
२५५०५ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्निमान् धर्मानुपपरीक्षत् तस्मिन् समये चक्षुर्नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति चक्षुरेतदिति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्निमान् धर्मानुपपरीक्षत् तस्मिन् समये श्रोत्रं नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति श्रोत्रमेतदिति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्निमान् धर्मानुपपरीक्षत् तस्मिन् समये घ्राणं नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति घ्राणमेतदिति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्निमान् धर्मानुपपरीक्षत् तस्मिन् समये जिह्वां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति जिह्वा एषा इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्निमान् धर्मानुपपरीक्षत् तस्मिन् समये कायं नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति काय एष इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्निमान् धर्मानुपपरीक्षत् तस्मिन् समये मनो नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति मन एतदिति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्निमान् धर्मानुपपरीक्षत् तस्मिन् समये रूपं नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति रूपमेतदिति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्निमान् धर्मानुपपरीक्षत् तस्मिन् समये शब्दं नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति शब्द एष इति।
यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्निमान् धर्मानुपपरीक्षत् तस्मिन् समये गन्धं नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति गन्ध एष इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्निमान् धर्मानुपपरीक्षत् तस्मिन् समये रसं नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति रस एष इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्निमान् धर्मानुपपरीक्षत् तस्मिन् समये स्प्रष्टव्यं नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति स्प्रष्टव्यमेतदिति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्निमान् धर्मानुपपरीक्षत् तस्मिन् समये धर्मं नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति धर्म एष इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्निमान् धर्मानुपपरीक्षत् तस्मिन् समये चक्षुर्विज्ञानं नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति चक्षुर्विज्ञानमेतदिति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्निमान् धर्मानुपपरीक्षत् तस्मिन् समये श्रोत्रविज्ञानं नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति श्रोत्रविज्ञानमेतदिति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्निमान् धर्मानुपपरीक्षत् तस्मिन् समये घ्राणविज्ञानं नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति घ्राणविज्ञानमेतदिति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्निमान् धर्मानुपपरीक्षत् तस्मिन् समये जिह्वाविज्ञानं नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति जिह्वाविज्ञानमेतदिति। यस्मिन् समये
भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्निमान् धर्मानुपपरीक्षत् तस्मिन् समये कायविज्ञानं नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति कायविज्ञानमेतदिति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्निमान् धर्मानुपपरीक्षत् तस्मिन् समये मनोविज्ञानं नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति मनोविज्ञानमेतदिति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्निमान् धर्मानुपपरीक्षत् तस्मिन् समये दानपारमितां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति दानपारमिता एषा इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्निमान् धर्मानुपपरीक्षत् तस्मिन् समये शीलपारमितां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति शीलपारमिता एषा इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्निमान् धर्मानुपपरीक्षत् तस्मिन् समये क्षान्तिपारमितां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति क्षान्तिपारमिता एषा इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्निमान् धर्मानुपपरीक्षत् तस्मिन् समये वीर्यपारमितां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति वीर्यपारमिता एषा इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्निमान् धर्मानुपपरीक्षत् तस्मिन् समये ध्यानपारमितां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति ध्यानपारमिता एषा इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्निमान् धर्मानुपपरीक्षत् तस्मिन् समये प्रज्ञापारमितां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति प्रज्ञापारमिता
एषा इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्निमान् धर्मानुपपरीक्षत् तस्मिन् समयेऽध्यात्मशून्यतां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयत्यध्यात्मशून्यता एषा इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्निमान् धर्मानुपपरीक्षत् तस्मिन् समये बहिर्धाशून्यतां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति बहिर्धाशून्यता एषा इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्निमान् धर्मानुपपरीक्षत् तस्मिन् समयेऽध्यात्मबहिर्धाशून्यतां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयत्यध्यात्मबहिर्धाशून्यता एषा इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्निमान् धर्मानुपपरीक्षत् तस्मिन् समये शून्यताशून्यतां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति शून्यताशून्यता एषा इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्निमान् धर्मानुपपरीक्षत् तस्मिन् समये महाशून्यतां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति महाशून्यता एषा इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्निमान् धर्मानुपपरीक्षत् तस्मिन् समये परमार्थशून्यतां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति परमार्थशून्यता एषा इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्निमान् धर्मानुपपरीक्षत् तस्मिन् समये संस्कृतशून्यतां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति संस्कृतशून्यता एषा इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्निमान् धर्मानुपपरीक्षत् तस्मिन् समयेऽत्यन्तशून्यतां
नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयत्यत्यन्तशून्यता एषा इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्निमान् धर्मानुपपरीक्षत् तस्मिन् समयेऽनवराग्रशून्यतां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयत्यनवराग्रशून्यता एषा इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्निमान् धर्मानुपपरीक्षत् तस्मिन् समये प्रकृतिशून्यतां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति प्रकृतिशून्यता एषा इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्निमान् धर्मानुपपरीक्षत् तस्मिन् समये सर्वधर्मशून्यतां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति सर्वधर्मशून्यता एषा इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्निमान् धर्मानुपपरीक्षत् तस्मिन् समये स्वलक्षणशून्यतां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति स्वलक्षणशून्यता एषा इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्निमान् धर्मानुपपरीक्षत् तस्मिन् समयेऽनुपलम्भशून्यतां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयत्यनुपलम्भशून्यता एषा इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्निमान् धर्मानुपपरीक्षत् तस्मिन् समयेऽभावस्वभावशून्यतां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयत्यभावस्वभावशून्यता एषा इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्निमान् धर्मानुपपरीक्षत् तस्मिन् समये भावशून्यतां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति भावशून्यता एषा इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः
प्रज्ञापारमितायां चरन्निमान् धर्मानुपपरीक्षत् तस्मिन् समयेऽभावशून्यतां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयत्यभावशून्यता एषा इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्निमान् धर्मानुपपरीक्षत् तस्मिन् समये स्वभावशून्यतां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति स्वभावशून्यता एषा इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्निमान् धर्मानुपपरीक्षत् तस्मिन् समये परभावशून्यतां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति परभावशून्यता एषा इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्निमान् धर्मानुपपरीक्षत् तस्मिन् समये स्मृत्युपस्थानानि नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति स्मृत्युपस्थानान्येतानीति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्निमान् धर्मानुपपरीक्षत् तस्मिन् समये सम्यक्प्रहाणानि नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति सम्यक्प्रहाणान्येतानीति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्निमान् धर्मानुपपरीक्षत् तस्मिन् समये ऋद्धिपादान्नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति ऋद्धिपादा एत इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्निमान् धर्मानुपपरीक्षत् तस्मिन् समय इन्द्रियानि नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयतीन्द्रियान्येतानीति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्निमान् धर्मानुपपरीक्षत् तस्मिन् समये बलानि नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति बलान्येतानीति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्निमान् धर्मानुपपरीक्षत् तस्मिन् समये बोध्यङ्गानि नोपैति नोपाददाति
नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति बोध्यङ्गान्येतानीति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्निमान् धर्मानुपपरीक्षत् तस्मिन् समये मार्गान्नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति मार्गा एत इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्निमान् धर्मानुपपरीक्षत् तस्मिन् समयेऽप्रमाणध्यानानि नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयत्यप्रमाणध्यानानि एतानीति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्निमान् धर्मानुपपरीक्षत् तस्मिन् समये आरूप्यसमापत्तीर्नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयत्यारूप्यसमापत्तय एता इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्निमान् धर्मानुपपरीक्षत् तस्मिन् समये दशबलानि नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति दशबलान्येतानीति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्निमान् धर्मानुपपरीक्षत् तस्मिन् समये वैशारद्यानि नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति वैशारद्यान्येतानीति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्निमान् धर्मानुपपरीक्षत् तस्मिन् समये प्रतिसंविदाः नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति प्रतिसंविदा एता इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्निमान् धर्मानुपपरीक्षत् तस्मिन् समयेऽष्टादशावेणिकबुद्धधर्मान्नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयत्यष्टादशावेणिकबुद्धधर्मा एत इति।
२५५०६ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्निमान् धर्मानुपपरीक्षत् तस्मिन् समये समाधिधारणीमुखानि नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति समाधि-
२५५०७ धारणीमुखानीमानि। तत्कस्य हेतोः। तथा हि भगवन् {बोधिसत्त्वो} महासत्त्वः
२५५०८ प्रज्ञापारमितायां चरन् रूपं न समनुपश्यति यावद्व्यस्तसमस्तानि स्कन्ध-
२५५०९ धात्वायतनानि प्रतीत्यसमुत्पादं न {समनुपश्यति}। सप्तत्रिंशद्बोधिपक्षान् धर्मान्
२५५१० न {समनुपश्यति}। पारमितां न {समनुपश्यति}। अप्रमाणध्यानारूप्यसमापत्तिदशबलवैशारद्यप्रति-
२५५११ संविदष्टादशावेणिकबुद्धधर्मान् यावत्सर्वाकारज्ञतां न {समनुपश्यति}। तत्कस्य हेतोः।
२५५१२ तथा हि भगवन् यो रूपस्यानुत्पादो न तद्रूपम्। यो वेदनायाः संज्ञायाः संस्काराणां
२५५१३ यो विज्ञानस्यानुत्पादो न तद्विज्ञानमिति हि विज्ञानं चानुत्पादश्चाद्वयमेतद-
२५५१४ द्वैधीकारम्। यो भगवन् चक्षुरोऽनुत्पादो न तद्चक्षुः। यो श्रोत्रस्य घ्राणस्य जिह्वायाः कायस्य यो मनसोऽनुत्पादो न तद्मन इति हि मनश्चानुत्पादश्चाद्वयमेतदद्वैधीकारम्। यो भगवन् रूपस्यानुत्पादो न तद्रूपम्। यो शब्दस्य गन्धस्य रसस्य स्प्रष्टव्यस्य यो धर्मस्यानुत्पादो न स धर्म इति हि धर्मश्चानुत्पादश्चाद्वयमेतदद्वैधीकारम्। यो भगवन् चक्षुर्विज्ञानस्यानुत्पादो न तद्चक्षुर्विज्ञानम्। यो श्रोत्रविज्ञानस्य घ्राणविज्ञानस्य जिह्वाविज्ञानस्य कायविज्ञानस्य यो मनोविज्ञानस्यानुत्पादो न तद्मनोविज्ञानमिति हि मनोविज्ञानं चानुत्पादश्चाद्वयमेतदद्वैधीकारम्। यो भगवन् दानपारमिताया अनुत्पादो न सा दानपारमिता। यो शीलपारमितायाः क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमिताया यः प्रज्ञापारमिताया अनुत्पादो न सा प्रज्ञापारमिता इति हि प्रज्ञापारमिता चानुत्पादश्चाद्वयमेतदद्वैधीकारम्। यो भगवनध्यात्मशून्यताया अनुत्पादो न तदध्यात्मशून्यता। यो बहिर्धाशून्यताया अध्यात्मबहिर्धाशून्यतायाः शून्यताशून्यताया महाशून्यतायाः परमार्थशून्यतायाः संस्कृतशून्यताया अत्यन्तशून्यताया अनवराग्रशून्यताया अनवकारशून्यतायाः प्रकृतिशून्यतायाः सर्वधर्मशून्यतायाः स्वलक्षणशून्यताया अनुपलम्भशून्यताया अभावस्वभावशून्यताया भावशून्यताया अभावशून्यतायाः स्वभावशून्यताया यः परभावशून्यताया अनुत्पादो न सा परभावशून्यता इति हि परभावशून्यता चानुत्पादश्चाद्वयमेतदद्वैधीकारम्।
२५५१५ यो भगवन् स्मृत्युपस्थानानामनुत्पादो न तानि स्मृत्युपस्थानानि। यो सम्यक्प्रहाणानामृद्धिपादानामिन्द्रियानां बलानां बोध्यङ्गानां मार्गानामप्रमाणध्यानानामारूप्यसमापत्तीनां दशबलानां वैशारद्यानां प्रतिसंविदानां योऽष्टादशावेणिकानां बुद्धधर्मानामनुत्पादो न ते बुद्धधर्मा इति हि बुद्धधर्माश्चानुत्पादश्चाद्वयमेतद-
२५५१६ द्वैधीकारम्। यो भगवन् धर्मधातोरनुत्पादो न स धर्मधातुः। यस्तथताया
२५५१७ आकाशधातोर्भूतकोटेरचिन्त्यधातोर्बोधेर्यः सर्वाकारज्ञताया अनुत्पादो न
२५५१८ सा सर्वाकारज्ञतेति हि सर्वाकारज्ञता चानुत्पादश्चाद्वयमेतदद्वैधीकारम्। तत्
२५५१९ कस्य हेतोः। तथा हि अनुत्पादो नैको न द्वौ न बहवो न पृथक् । तस्माद्
२५५२० यः सर्वाकारज्ञताया अनुत्पादो न सा सर्वाकारज्ञता।
२५५२१ यो भगवन् रूपस्य व्ययो न तद्रूपम्। या वेदनायाः संज्ञायाः संस्काराणां
२५५२२ यो विज्ञानस्य व्ययो न तद्विज्ञानम्। इति हि स्कन्धाश्च व्ययश्चाद्वयमेतद-
२५५२३ द्वैधीकारम्। तत्कस्य हेतोः। तथा हि व्ययो न एको न द्वौ न बहवो न
२५५२४ पृतह्क् । तस्माद्यः पञ्चानां स्कन्धानां व्ययो न ते पञ्च स्कन्धाः। यो भगवन्

२५६०१ दानपारमिताया व्ययो न सा दानपारमिता। यो भगवन् शीलपारमिताया व्ययो न सा दानपारमिता। यो भगवन् क्षान्तिपारमिताया व्ययो न सा दानपारमिता। यो भगवन् वीर्यपारमिताया व्ययो न सा दानपारमिता। यो भगवन् ध्यानपारमिताया व्ययो न सा दानपारमिता। यो भगवन् प्रज्ञापारमिताया व्ययो न सा दानपारमिता।
२५६०२ यो भगवनध्यात्मशून्यताया व्ययो न सा अध्यात्मशून्यता। यो भगवन् बहिर्धाशून्यताया व्ययो न सा बहिर्धाशून्यता। यो भगवनध्यात्मबहिर्धाशून्यताया व्ययो न सा अध्यात्मबहिर्धाशून्यता। यो भगवन् शून्यताशून्यताया व्ययो न सा शून्यताशून्यता। यो भगवन्महाशून्यताया व्ययो न सा महाशून्यता। यो भगवन् परमार्थशून्यताया व्ययो न सा परमार्थशून्यता। यो भगवन् संस्कृतशून्यताया व्ययो न सा संस्कृतशून्यता। यो भगवनत्यन्तशून्यताया व्ययो न सा अत्यन्तशून्यता। यो भगवननवराग्रशून्यताया व्ययो न सा अनवराग्रशून्यता। यो भगवननवकारशून्यताया व्ययो न सा अनवकारशून्यता। यो भगवन् प्रकृतिशून्यताया व्ययो न सा प्रकृतिशून्यता। यो भगवन् सर्वधर्मशून्यताया व्ययो न सा सर्वधर्मशून्यता। यो भगवन् स्वलक्षणशून्यताया व्ययो न सा स्वलक्षणशून्यता। यो भगवननुपलम्भशून्यताया व्ययो न सा अनुपलम्भशून्यता। यो भगवनभावस्वभावशून्यताया व्ययो न सा अभावस्वभावशून्यता। यो भगवन् भावशून्यताया व्ययो न सा भावशून्यता। यो भगवनभावशून्यताया व्ययो न सा अभावशून्यता। यो भगवन् स्वभावशून्यताया व्ययो न सा स्वभावशून्यता। यो भगवन् परभावशून्यताया व्ययो न सा परभावशून्यता। यो भगवन् स्मृत्युपस्थानानां व्ययो न तानि स्मृत्युपस्थानानि। यो भगवन् सम्यक्प्रहाणानां व्ययो न तानि सम्यक्प्रहाणानि। यो भगवनृद्धिपादानां व्ययो न ते ऋद्धिपादाः। यो भगवनिन्द्रियानां व्ययो न तानीन्द्रियानि। यो भगवन् बलानां व्ययो न तानि बलानि। यो भगवन् बोध्यङ्गानां व्ययो न तानि बोध्यङ्गानि। यो भगवन्मार्गानां व्ययो न ते मार्गाः। यो भगवनप्रमाणध्यानानां व्ययो न तान्यप्रमाणध्यानानि। यो भगवनारूप्यसमापत्तीनां व्ययो न ता आरूप्यसमापत्तयः। यो भगवन् दशबलानां व्ययो न तानि दशबलानि। यो भगवन् वैशारद्यानां व्ययो न तानि वैशारद्यानि। यो भगवन् प्रतिसंविदानां व्ययो न ताः प्रतिसंविदाः। यो भगवन् स्मृत्युपस्थानानां व्ययो न तानि स्मृत्युपस्थानानि। यो भगवनष्टादशावेणिकानां बुद्धधर्मानां व्ययो न ते
बुद्धधर्माः। इति हि बुद्धधर्माश्च व्ययश्चाद्वयमेतदद्वैधीकारम्। तत्कस्य हेतोः। तथा हि व्ययो न एको न द्वौ न बहवो न पृथक् । तस्माद्यो
२५६०३ बुद्धधर्माणां व्ययो न ते बुद्धधर्माः।
२५६०४ यत्पुनर्भगवनुच्यत् रूपमित्यद्वयस्यैषागणनाकृता। वेदना संज्ञा संस्कारा
२५६०५ यत्पुनरुच्यते विज्ञानमित्यद्वयस्यैषागणनाकृता। यत्कस्येति पुनरुच्यते
२५६०६ रूपं यावत्सर्वाकारज्ञतेत्यद्वयस्यैषागणनाकृता॥ [इति प्राप्तिनिर्याणे
२५६०७ प्राप्यप्रापकसम्बन्धप्रतिषेधः॥]
२५६०८ अथ खल्व्{आयुष्मन्} {शारिपुत्र} आयुष्मन्तं सुभूतिमेतदवोचत् । कथम् {आयुष्मन्} {सुभूते} {बोधिसत्त्वो}
२५६०९ महासत्त्वः प्रज्ञापारमितायां चरनिमान् धर्मानुपपरीक्षत् कतम {आयुष्मन्} {सुभूते}
२५६१० बोधिसत्त्वः। कतमा प्रज्ञापारमिता। कतमा उपपरीक्षमाणा।
२५६११ {सुभूतिर्} आह् यद्{आयुष्मन्} {शारिपुत्र} एवं वदसि। कतमो बोधिसत्त्व इति। बोधि-
२५६१२ रेव सत्त्वस्तेनोच्यते बोधिसत्त्व इति। तया च बोध्या सर्वधर्माणामाकारं
२५६१३ जानाति। न चात्राभिनिविशत्
२५६१४ कतमेषां धर्माणामाकारान् जानाति। रूपस्याकारान् जानाति न
२५६१५ चात्राभिनिविशत् वेदनाया आकारान् जानाति न चात्राभिनिविशत् संज्ञाया आकारान् जानाति न चात्राभिनिविशत् संस्कारानामाकारान् जानाति न चात्राभिनिविशत् विज्ञानस्याकारान् {जानाति न चात्राभिनिविशते}। एवं
२५६१६ व्यस्तसमस्तानां स्कन्धधात्वायतनानां प्रतीत्यसमुत्पादस्य सप्तत्रिंशद्बोधि-
२५६१७ पक्षाणां धर्माणामाकारान् {जानाति न चात्राभिनिविशते}। एवमप्रमाणध्यानारूप्यसमापत्तीनां
२५६१८ पारमितानां बलानां वैशारद्यानां प्रतिसंविदामावेणिकानां बुद्धधर्माणामाकारान्
२५६१९ {जानाति न चात्राभिनिविशते}।
२५६२० {शारिपुत्र} आह् कतमे ते सुभूते सर्वधर्माणामाकाराः।
२५६२१ {सुभूतिर्} आह् यैर्{आयुष्मन्} {शारिपुत्र} आकारैर्यैर्लिङ्गैर्यैर्निमित्तैः रूपशब्दगन्धर-
२५६२२ सस्प्रष्टव्यधर्मा वा आध्यात्मिकबाह्या वा धर्माः संस्कृता असंस्कृता वा आकारैर्यैर्
२५६२३ ते इम उच्यन्ते सर्वधर्माणामाकाराः।
२५६२४ यत्पुनर्{आयुष्मन्} {शारिपुत्र} एवं वदसि। कतमा प्रज्ञापारमितेति।

२५७०१ आरता आरमितैषा {आयुष्मन्} {शारिपुत्र} तेनोच्यते प्रज्ञापारमितेति। कुत आरता
२५७०२ आरमिता। स्कन्धेभ्यो धातुभ्य आयतनेभ्य प्रतीत्यसमुत्पादाद्दानपारमितायाः
२५७०३ शील{पारमितायाः} क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमितायाः प्रज्ञापारमिताया आरता आरमिता। अध्यात्मशून्यताया
२५७०४ बहिर्धाशून्यताया अध्यात्मबहिर्धाशून्यताया यावदभावस्वभावशून्यताया आरता आरमिता। स्मृत्युपस्थानेभ्य
२५७०५ आरता आरमिता। सम्यक्प्रहाण्एभ्य ऋद्धिपादेभ्य इन्द्रियेभ्यो बलेभ्यो बोध्यङ्गेभ्यो मार्गेभ्योऽप्रमाणध्यानेभ्य आरूप्यसमापत्तिभ्यो दशबलेभ्यो वैशारद्येभ्यः प्रतिसंविद्भ्योऽष्टादशावेणिकेभ्यो बुद्धधर्मेभ्य आरता आरमिता।
२५७०६ यावत्सर्वज्ञताया आरता आरमिता। एषा तेनोच्यते प्रज्ञापारमितेति। अने-
२५७०७ न्{आयुष्मन्} {शारिपुत्र} पर्यायेण आरता आरमिता एषा यदुत प्रज्ञापारमिता।
२५७०८ यत्पुनर्{आयुष्मन्} {शारिपुत्र} एवं वदसि। कतमा उपपरीक्षणेति। इह्{आयुष्मन्} {शारिपुत्र} {बोधिसत्त्वो}
२५७०९ महासत्त्वः प्रज्ञापारमितायां चरन् रूपं न नित्यमित्युपपरीक्षते नानित्यमिति
२५७१० न सुखमिति न दुःखमिति नात्मेति नानात्मेति न शान्तमिति नाशान्तमिति
२५७११ न शून्यमिति नाशाउन्यमिति न निमित्तमिति नानिमित्तमिति न प्रणिहितमिति
२५७१२ नाप्रणिहितमिति उपपरीक्षत् न विविक्तमिति नाविविक्तमित्युपपरीक्षत्
२५७१३ न वेदनां न संज्ञां न संस्कारान्न विज्ञानं नित्यमित्युपपरीक्षत् नानित्यमिति
२५७१४ न सुखमिति न दुःखमिति नात्मेति नानात्मेति न शान्तमिति नाशान्तमिति न शून्यमिति नाशाउन्यमिति न निमित्तमिति नानिमित्तमिति न प्रणिहितमिति नाप्रणिहितमित्युपपरीक्षत् न विविक्तमिति नाविविक्तमित्युपपरीक्षत् एवं चक्षुः श्रोत्रं घ्राणं जिह्वां कायं मनो न नित्यमिति
२५७१५ उपपरीक्षत् नानित्यमिति न सुखमिति न दुःखमिति नात्मेति नानात्मेति न शान्तमिति नाशान्तमिति न शून्यमिति नाशाउन्यमिति न निमित्तमिति नानिमित्तमिति न प्रणिहितमिति नाप्रणिहितमित्युपपरीक्षत् न विविक्तमिति नाविविक्तमित्युपपरीक्षत् एवं रूपशब्दगन्धरसस्प्रष्टव्यधर्मा न नित्या इति
२५७१६ उपपरीक्षन्त् नानित्या इति न सुखा इति न दुःखा इति नात्मान इति नानात्मान इति न शान्ता इति नाशान्ता इति न शून्या इति नाशाउन्या इति न निमित्ता इति नानिमित्ता इति न प्रणिहिता इति नाप्रणिहिता इत्युपपरीक्षन्त् न विविक्ता इति नाविविक्ता इत्युपपरीक्षन्त् एवं चक्षुर्विज्ञानं न नित्यमित्युपपरीक्षत् नानित्यमिति न सुखमिति न दुःखमिति नात्मेति नानात्मेति न शान्तमिति नाशान्तमिति न शून्यमिति नाशाउन्यमिति न निमित्तमिति नानिमित्तमिति न प्रणिहितमिति नाप्रणिहितमित्युपपरीक्षत् न विविक्तमिति नाविविक्तमित्युपपरीक्षत् न श्रोत्रविज्ञानं न घ्राणविज्ञानं न जिह्वाविज्ञानं न कायविज्ञानं न मनोविज्ञानं नित्यमित्युपपरीक्षत् नानित्यमिति न सुखमिति न दुःखमिति नात्मेति नानात्मेति न शान्तमिति नाशान्तमिति न शून्यमिति नाशाउन्यमिति न निमित्तमिति नानिमित्तमिति न प्रणिहितमिति नाप्रणिहितमित्युपपरीक्षत् न विविक्तमिति नाविविक्तमित्युपपरीक्षत्
२५७१७ एवं चक्षुःसंस्पर्शो न नित्य इत्युपपरीक्षत् नानित्य इति न सुख इति न दुःख इति नात्मेति नानात्मेति न शान्त इति नाशान्त इति न शून्य इति नाशाउन्य इति न निमित्त इति नानिमित्त इति न प्रणिहित इति नाप्रणिहित इत्युपपरीक्षत् न विविक्त इति नाविविक्त इत्युपपरीक्षत् न श्रोत्रसंस्पर्शो न घ्राणसंस्पर्शो न जिह्वासंस्पर्शो न कायसंस्पर्शो न मनःसंस्पर्शो नित्य इत्युपपरीक्षत् नानित्य इति न सुख इति न दुःख इति नात्मेति नानात्मेति न शान्त इति नाशान्त इति न शून्य इति नाशाउन्य इति न निमित्त इति नानिमित्त इति न प्रणिहित इति नाप्रणिहित इत्युपपरीक्षत् न विविक्त इति नाविविक्त इत्युपपरीक्षत्
२५७१८ एवं चक्षुःसंस्पर्शप्रत्ययवेदना न नित्येत्युपपरीक्षत् नानित्येति न सुखेति न दुःखेति नात्मेति नानात्मेति न शान्तेति नाशान्तेति न शून्येति नाशाउन्येति न निमित्तेति नानिमित्तेति न प्रणिहितेति नाप्रणिहितेत्युपपरीक्षत् न विविक्तेति नाविविक्तेत्युपपरीक्षत्
२५७१९ न श्रोत्रसंस्पर्शप्रत्ययवेदना न घ्राणसंस्पर्शप्रत्ययवेदना न जिह्वासंस्पर्शप्रत्ययवेदना न कायसंस्पर्शप्रत्ययवेदना न मनःसंस्पर्शप्रत्ययवेदना नित्येत्युपपरीक्षत् नानित्येति न सुखेति न दुःखेति नात्मेति नानात्मेति न शान्तेति नाशान्तेति न शून्येति नाशाउन्येति न निमित्तेति नानिमित्तेति न प्रणिहितेति नाप्रणिहितेत्युपपरीक्षत् न विविक्तेति नाविविक्तेत्युपपरीक्षत् एवं दानपारमिता न नित्येत्युपपरीक्षत् नानित्येति न सुखेति न दुःखेति नात्मेति नानात्मेति न शान्तेति नाशान्तेति न शून्येति नाशाउन्येति न निमित्तेति नानिमित्तेति न प्रणिहितेति नाप्रणिहितेत्युपपरीक्षत् न विविक्तेति नाविविक्तेत्युपपरीक्षत्
२५७२० न शीलपारमिता न क्षान्तिपारमिता न वीर्यपारमिता न ध्यानपारमिता न प्रज्ञापारमिता नित्येत्युपपरीक्षत् नानित्येति न सुखेति न दुःखेति नात्मेति नानात्मेति न शान्तेति नाशान्तेति न शून्येति नाशाउन्येति न निमित्तेति नानिमित्तेति न प्रणिहितेति नाप्रणिहितेत्युपपरीक्षत् न विविक्तेति नाविविक्तेत्युपपरीक्षत् एवमध्यात्मशून्यता न नित्येत्युपपरीक्षत् नानित्येति न सुखेति न दुःखेति नात्मेति नानात्मेति न शान्तेति नाशान्तेति न शून्येति नाशाउन्येति न निमित्तेति नानिमित्तेति न प्रणिहितेति नाप्रणिहितेत्युपपरीक्षत् न विविक्तेति नाविविक्तेत्युपपरीक्षत्
२५७२१ न बहिर्धाशून्यता नाध्यात्मबहिर्धाशून्यता न शून्यताशून्यता न महाशून्यता न परमार्थशून्यता न संस्कृतशून्यता नात्यन्तशून्यता नानवराग्रशून्यता नानवकारशून्यता न प्रकृतिशून्यता न सर्वधर्मशून्यता न स्वलक्षणशून्यता नानुपलम्भशून्यता नाभावस्वभावशून्यता न भावशून्यता नाभावशून्यता न स्वभावशून्यता न परभावशून्यता नित्येत्युपपरीक्षत् नानित्येति न सुखेति न दुःखेति नात्मेति नानात्मेति न शान्तेति नाशान्तेति न शून्येति नाशाउन्येति न निमित्तेति नानिमित्तेति न प्रणिहितेति नाप्रणिहितेत्युपपरीक्षत् न विविक्तेति नाविविक्तेत्युपपरीक्षत् एवं स्मृत्युपस्थानानि न नित्यानीति उपपरीक्षन्त् नानित्यानीति न सुखानीति न दुःखानीति नात्मानीति नानात्मानीति न शान्तानीति नाशान्तानीति न शून्यानीति नाशाउन्यानीति न निमित्तानीति नानिमित्तानीति न प्रणिहितानीति नाप्रणिहितानीत्युपपरीक्षन्त् न विविक्तानीति नाविविक्तानीत्युपपरीक्षन्त्
२५७२२ एवं सम्यक्प्रहाणानि ऋद्धिपादा इन्द्रियानि बलानि बोध्यङ्गानि मार्गा अप्रमाणध्यानानि आरूप्यसमापत्तयो दशबलानि वैशारद्यानि प्रतिसंविदा अष्टादशावेणिका बुद्धधर्माः। समाधयः सर्व-
२५७२३ धारणीमुखानि सर्वज्ञता न नित्येति उपपरीक्षत् नानित्येति न सुखेति न दुःखेति नात्मेति नानात्मेति न शान्तेति नाशान्तेति न शून्येति नाशाउन्येति न निमित्तेति नानिमित्तेति न प्रणिहितेति नाप्रणिहितेत्युपपरीक्षत् न विविक्तेति नाविविक्तेत्युपपरीक्षत् एवं ह्य्{आयुष्मन्} {शारिपुत्र}
२५७२४ {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरनिमान् धर्मानुपपरीक्षत्
२५७२५ {शारिपुत्र} आह् केन कारणेन्{आयुष्मन्} {सुभूते} एवं वदसि यो रूपस्यानुत्पादो न तद्रू-
२५७२६ पम्। यो वेदनायाः संज्ञायाः संस्काराणां यो विज्ञानस्यानुत्पादो न तद्विज्ञानम्।
२५७२७ एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु पारमितासु सर्वशून्य-
२५७२८ तासु सर्वबोधिपक्षेषु धर्मेषु अप्रमाणध्यानारूप्यसमापत्तिषु बलेषु वैशारद्येषु

२५८०१ प्रतिसंवित्सु समाधिधारणीमुखेष्वभिज्ञासु अष्टादशावेणिकेषु बुद्धधर्मेषु यः
२५८०२ सर्वाकारज्ञताया अनुत्पादो न सा सर्वाकारज्ञतेति।
२५८०३ {सुभूतिर्} आह् रूपम् {आयुष्मन्} {शारिपुत्र} शून्यं रूपेण् या च्{आयुष्मन्} {शारिपुत्र} शून्यता न
२५८०४ तद्रूपं नोत्पादः। अनेन्{आयुष्मन्} {शारिपुत्र} पर्यायेण यो रूपस्यानुत्पादो न तद्रूपं वेदना
२५८०५ संज्ञा संस्कारा विज्ञानं शून्यं विज्ञानेन् या च्{आयुष्मन्} {शारिपुत्र} शून्यता न तद्विज्ञानं नोत्-
२५८०६ पादः। अनेन्{आयुष्मन्} {शारिपुत्र} पर्यायेण यो विज्ञानस्यानुत्पादो न तद्विज्ञानम्। दान-
२५८०७ पारमिता {आयुष्मन्} शारिपुत्र शून्या दानपारमिता। या चायुष्मन् शारिपुत्र शून्यता न सा दानपारमिता नोत्पादः। अनेनायुष्मन् शारिपुत्र पर्यायेण यो दानपारमिताया अनुत्पादो न सा दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता शून्या प्रज्ञापारमितया। या चायुष्मन् शारिपुत्र शून्यता न सा प्रज्ञापारमिता नोत्पादः। अनेनायुष्मन् शारिपुत्र पर्यायेण यो प्रज्ञापारमिताया अनुत्पादो न सा प्रज्ञापारमिता। अध्यात्मशून्यता आयुष्मन् शारिपुत्र शून्या अध्यात्मशून्यता। या चायुष्मन् शारिपुत्र शून्यता न सा अध्यात्मशून्यता नोत्पादः। अनेनायुष्मन् शारिपुत्र पर्यायेण यो अध्यात्मशून्यताया अनुत्पादो न सा अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता शून्यताशून्यता महाशून्यता परमार्थशून्यता संस्कृतशून्यता अत्यन्तशून्यता अनवराग्रशून्यता अनवकारशून्यता प्रकृतिशून्यता सर्वधर्मशून्यता स्वलक्षणशून्यता अनुपलम्भशून्यता अभावस्वभावशून्यता भावशून्यता अभावशून्यता स्वभावशून्यता परभावशून्यता शून्या परभावशून्यतया। या चायुष्मन् शारिपुत्र शून्यता न सा परभावशून्यता नोत्पादः। अनेनायुष्मन् शारिपुत्र पर्यायेण यो परभावशून्यताया अनुत्पादो न सा परभावशून्यता।
२५८०८ स्मृत्युपस्थानान्यायुष्मन् शारिपुत्र शून्यानि स्मृत्युपस्थानानि। या चायुष्मन् शारिपुत्र शून्यता न तानि स्मृत्युपस्थानानि नोत्पादः। अनेनायुष्मन् शारिपुत्र पर्यायेण यो स्मृत्युपस्थानानामनुत्पादो न तानि स्मृत्युपस्थानानि सम्यक्प्रहाणान्यृद्धिपादा इन्द्रियानि बलानि बोध्यङ्गानि मार्गा अप्रमाणध्यानान्यारूप्यसमापत्तयो दशबलानि वैशारद्यानि प्रतिसंविदा अष्टादशावेणिका बुद्धधर्माः सर्वाकारज्ञता शून्या सर्वाकारज्ञतया। या चायुष्मन् शारिपुत्र शून्यता न सा सर्वाकारज्ञता नोत्पादः। अनेन्{आयुष्मन्} {शारिपुत्र}
२५८०९ पर्यायेण यः सर्वाकारज्ञताया अनुत्पादो न सा सर्वाकारज्ञता।
२५८१० {शारिपुत्र} आह् किं कारणम् {आयुष्मन्} {सुभूते} एवं वदसि। यो रूपस्य व्ययो
२५८११ न तद्रूपम्। यो वेदनायाः संज्ञायाः संस्काराणां यो विज्ञानस्य व्ययो न तद्विज्ञान-
२५८१२ मिति। एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु पारमितासु सर्वशून्यतासु सर्वबोधिपक्षेषु धर्मेषु अप्रमाणध्यानारूप्यसमापत्तिषु बलेषु वैशारद्येषु
२५८१३ प्रतिसंवित्स्वष्टादशस्वावेणिकेषु बुद्धधर्मेषु यः सर्वाकारज्ञताया व्ययो न सा
२५८१४ सर्वाकारज्ञता।
२५८१५ {सुभूतिर्} आह् तथा ह्य्{आयुष्मन्} {शारिपुत्र} यश्च व्ययो यच्च रूपं यच्चाद्वैधीकारं या च
२५८१६ वेदना या च संज्ञा ये च संस्कारा यच्च विज्ञानं सर्व एते धर्मा न संयुक्ता न वि-
२५८१७ संयुक्ता अरूपिणोऽनिदर्शना अप्रतिघा एकलक्षणा यदुतालक्षणाः। एवं
२५८१८ व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु पारमितासु सर्वशून्यतासु सर्वबोधिपक्षेषु धर्मेषु अप्रमाणध्यानारूप्यसमापत्तिषु बलेषु वैशारद्येषु प्रतिसंवित्सु बुद्धधर्म-
२५८१९ समाधिधारणीमुखेषु यश्च व्ययो यावत्सर्वाकारज्ञता यच्चाद्वैधीकारं सर्व एते
२५८२० धर्मा न संयुक्ताः अरूपिणोऽनिदर्शना अप्रतिघा एकलक्षणा यदुतालक्षणाः। अनेन्{आयुष्मन्} {शारिपुत्र} पर्यायेण यो रूपस्य व्ययो
२५८२१ न तद्रूपम्। एवं वेदनायाः संज्ञायाः संस्काराणां यो विज्ञानस्य व्ययो न तद्वि-
२५८२२ ज्ञानम्। एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादशून्यतासु समाधि-
२५८२३ धारणीमुखेषु यावद्यः सर्वाकारज्ञताया व्ययो न सा सर्वाकारज्ञता।
२५८२४ {शारिपुत्र} आह् केन कारणेन्{आयुष्मन्} {सुभूते} एवं वदसि यदिदमुच्यते रूपमित्यद्वय-
२५८२५ स्यैषा गणना कृतेति। वेदना संज्ञा संस्काराः। यदिदमुच्यते विज्ञानमित्य-
२५८२६ द्वयस्यैषा गणना कृतेति यावद्यदिदमुच्यते सर्वाकारज्ञतेत्यद्वयस्यैषा गणना
२५८२७ कृतेति।
२५८२८ {सुभूतिर्} आह् तथा ह्य्{आयुष्मन्} {शारिपुत्र} नान्योऽनुत्पादोऽन्यद्रूपम्। अनुत्पाद एव

२५९०१ रूपम्। रूपमेवानुत्पादः। {वेदना संज्ञा संस्काराः}। नान्योऽनुत्पादोऽन्यद्विज्ञानम्। विज्ञानमेवा-
२५९०२ नुत्पादोऽनुत्पाद एव विज्ञानम्। अनेन्{आयुष्मन्} {शारिपुत्र} पर्यायेण यदेतदुच्यते रूपमित्य-
२५९०३ द्वयस्यैषा गणना कृता। {वेदना संज्ञा संस्काराः}। यदेतदुच्यते विज्ञानमित्यद्वयस्यैषा गणना कृता।
२५९०४ एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु पारमितासु सर्वशून्यतासु सर्वबोधिपक्षेषु धर्मेषु अप्रमाणध्यानारूप्यसमापत्तिषु बलेषु वैशारद्येषु प्रतिसंवित्सु
२५९०५ समाधिधारणीमुखेषु तथा ह्य्{आयुष्मन्} {शारिपुत्र} नान्योऽनुत्पादोऽन्या सर्वाकारज्ञता
२५९०६ अनुत्पाद एव सर्वाकारज्ञता। सर्वाकारज्ञतैवानुत्पादः। अनेन्{आयुष्मन्} {शारिपुत्र} पर्यायेण
२५९०७ यदेतदुच्यते सर्वाकारज्ञतेत्यद्वयस्यैषा गणना कृता।
२५९०८ पुनरपरम् {आयुष्मान्} {सुभूतिर्} भगवन्तमेतदवोचत् । यस्मिन् समये भगवन् {बोधिसत्त्वो}
२५९०९ महासत्त्वः प्रज्ञापारमितायां चरन्निमान् धर्मानुपपरीक्षते तस्मिन् समये रूप-
२५९१० स्यानुत्पादं समनुपश्यति अत्यन्तविशुद्धितामुपादाय् {वेदना संज्ञा संस्काराः}। विज्ञानस्यानु{त्पादं समनुपश्यति अत्यन्तविशुद्धितामुपादाय}।
२५९११ आत्मनोऽनु{त्पादं समनुपश्यति अत्यन्तविशुद्धितामुपादाय}। एवं सत्त्वजीवपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यकस्यानु{त्पादं समनुपश्यति अत्यन्तविशुद्धितामुपादाय}। एवं व्यस्तसमस्तानां
२५९१२ स्कन्धधात्वायतनप्रतीत्यसमुत्पादाभिज्ञानामनु{त्पादं समनुपश्यति अत्यन्तविशुद्धितामुपादाय}। दानपारमिताया अनु{त्पादं समनुपश्यति अत्यन्तविशुद्धितामुपादाय}
२५९१३ शीलपारमिताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धितामुपादाय् क्षान्तिपारमिताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धितामुपादाय् वीर्यपारमिताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धितामुपादाय् ध्यानपारमिताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धितामुपादाय् प्रज्ञापारमिताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धितामुपादाय् अध्यात्मशून्यताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धितामुपादाय् बहिर्धाशून्यताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धितामुपादाय् अध्यात्मबहिर्धाशून्यताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धितामुपादाय् शून्यताशून्यताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धितामुपादाय् महाशून्यताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धितामुपादाय् परमार्थशून्यताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धितामुपादाय् संस्कृतशून्यताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धितामुपादाय् अत्यन्तशून्यताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धितामुपादाय् अनवराग्रशून्यताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धितामुपादाय् अनवकारशून्यताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धितामुपादाय् प्रकृतिशून्यताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धितामुपादाय् सर्वधर्मशून्यताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धितामुपादाय् स्वलक्षणशून्यताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धितामुपादाय् अनुपलम्भशून्यताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धितामुपादाय् अभावस्वभावशून्यताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धितामुपादाय् भावशून्यताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धितामुपादाय् अभावशून्यताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धितामुपादाय् स्वभावशून्यताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धितामुपादाय् परभावशून्यताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धितामुपादाय। स्मृत्यु-
२५९१४ पस्थानानामनु{त्पादं समनुपश्यति अत्यन्तविशुद्धितामुपादाय}। एवं सम्यक्प्रहाणसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाप्रमाणध्यानारूप्यसमापत्तिदशबलवैशारद्यप्रतिसंविदष्टादशावेणिकबुद्धधर्माणां सर्वाकारज्ञताया
२५९१५ अनु{त्पादं समनुपश्यति अत्यन्तविशुद्धितामुपादाय}। पृथग्जनस्यानु{त्पादं समनुपश्यति अत्यन्तविशुद्धितामुपादाय}। पृथग्जनधर्माणामनु{त्पादं समनुपश्यति अत्यन्तविशुद्धितामुपादाय}। एवं स्रोतआपन्नस्य
२५९१६ स्रोतआपन्नधर्माणां सकृदागामिनः सकृदागामिधर्माणामनागामिनोऽनागामिधर्माणाम् अर्हतो अर्हद्धर्माणां प्रत्येकबुद्धस्य प्रत्येकबुद्ध-
२५९१७ धर्माणां बोधिसत्त्वस्य बोधिसत्त्वधर्माणां बुद्धस्यानु{त्पादं समनुपश्यति अत्यन्तविशुद्धितामुपादाय}। बुद्धधर्माणामनु{त्पादं समनुपश्यति अत्यन्तविशुद्धितामुपादाय}।
२५९१८ {शारिपुत्र} आह् यथाहमायुष्मतः सुभूतेर्भाषितस्यार्थमाजानामि तथा रूप-
२५९१९ मनुत्पादो वेदना संज्ञा संस्कारा विज्ञानमनुत्पादो यावद्व्यस्तसमस्ता स्कन्धा
२५९२० अनुत्पादा धातवोऽनुत्पादाः।
२५९२१ आत्मानुत्पाददः सत्त्वोऽनुत्पादो जीवोऽनुत्पादो पोषोऽनुत्पादो पुरुषोऽनुत्पादो पुद्गलोऽनुत्पादो मनुजोऽनुत्पादो मानवोऽनुत्पादो कारकोऽनुत्पादो वेदकोऽनुत्पादो जानकओऽनुत्पादो पश्यकोऽनुत्पादो। एवं व्यस्तसमस्ताः स्कन्धधात्वायतनप्रतीत्यसमुत्पादाभिज्ञा अनुत्पादाः। दानपारमितानुत्पादः शीलपारमितानुत्पादः क्षान्तिपारमितानुत्पादो वीर्यपारमितानुत्पादो ध्यानपारमितानुत्पादः प्रज्ञापारमितानुत्पादो। अध्यात्मशून्यतानुत्पादो बहिर्धाशून्यतानुत्पादोऽध्यात्मबहिर्धाशून्यतानुत्पादः शून्यताशून्यतानुत्पादो महाशून्यतानुत्पादः परमार्थशून्यत्नुत्पादः संस्कृतशून्यतानुत्पादोऽत्यन्तशून्यतानुत्पादोऽनवराग्रशून्यतानुत्पादोऽनवकारशून्यतानुत्पादः प्रकृतिशून्यतानुत्पादः सर्वधर्मशून्यतानुत्पादः स्वलक्षणशून्यतानुत्पादोऽनुपलम्भशून्यतानुत्पादोऽभावस्वभावशून्यतानुत्पादो भावशून्यतानुत्पादोऽभावशून्यतानुत्पादः स्वभावशून्यतानुत्पादः परभावशून्यतानुत्पादः। स्मृत्युपस्थानान्यनुत्पादाः सम्यक्प्रहाणान्यनुत्पादा ऋद्धिपादा अनुत्पादाः इन्द्रियान्यनुत्पादाः बलान्यनुत्पादाः बोध्यङ्गान्यनुत्पादाः मार्गा अनुत्पादा अप्रमाणध्यानान्यनुत्पादा आरूप्यसमापत्तयोऽनुत्पादा दशबलान्यनुत्पादा वैशारद्यान्यनुत्पादाः प्रतिसंविदा अनुत्पादा अष्टादशावेणिका बुद्धधर्मा अनुत्पादाः सर्वाकारज्ञताअनुत्पादः। पृथग्जनोऽनुत्पादः पृथग्जनधर्मा अनुत्पादाः स्रोतआपन्नोऽनुत्पादः स्रोतआपन्नधर्मा अनुत्पादाः सकृदागाम्यनुत्पादः सकृदागामिधर्मा अनुत्पादा अनागाम्यनुत्पादोऽनागामिधर्मा अनुत्पादा अर्हननुत्पादोऽर्हद्धर्मा अनुत्पादा प्रत्येकबुद्धोऽनुत्पादः प्रत्येकबुद्धधर्मा अनुत्पादा बोधिसत्त्वोऽनुत्पादो बोधिसत्त्वधर्मा अनुत्पादाः
२५९२२ बुद्धोऽनुत्पादो बुद्धधर्मा अनुत्पादाः। यदि च्{आयुष्मन्} {सुभूते} रूपमप्यनुत्पादो यावद्बुद्ध-
२५९२३ धर्मा अप्यनुत्पादाः। नन्व्{आयुष्मन्} {सुभूते} प्राप्तैव श्रावकेण श्रावकबोधिः प्रत्येकबुद्ध-
२५९२४ यानिकेन प्रत्येकबुद्धबोधिः। बोधिसत्त्वेन प्राप्तैव सर्वाकारज्ञता भवति।
२५९२५ पञ्चानाञ्च गतीनां भेदो न भविष्यति। प्राप्तैव भवति बोधिसत्त्वेन महासत्त्वेन
२५९२६ पञ्चविधा बोधिर्यदि च्{आयुष्मन्} {सुभूते} सर्वधर्मा अनुत्पादाः। किमर्थं स्रोतआपन्नेन

२६००१ त्रयाणां संयोजनानां प्रहाणाय मार्गो भावयितव्यः। सकृदागामिना रागदोष-
२६००२ मोहानां तनुतायै मार्गो भावयितव्यः। अनागामिना पञ्चानामवरभागीयानां
२६००३ संयोजनानां प्रहाणाय मार्गो भावयितव्यः। अर्हता पञ्चोर्ध्वभागीयानां संयोज-
२६००४ नानां प्रहाणाय मार्गो भावयितव्यः। प्रत्येकबुद्धयानिकैः प्रत्येकबोधिप्राप्तये
२६००५ मार्गो भावयितव्यः। किं कारणं बोधिसत्त्वो दुष्करचारिकां चरति यानि
२६००६ तानि सत्त्वानां कृतशो दुःखानि प्रत्यनुभवति। किं कारणं तथागतेनार्हता सम्यक्-
२६००७ संबुद्धेनानुत्तरा सम्यक्संबोधिरभिसंबुद्धा। किं कारणं तथागतेनार्हता सम्यक्-
२६००८ संबुद्धेन धर्मचक्रं प्रवर्तितम्।
२६००९ {सुभूतिर्} आह् नाहम् {आयुष्मन्} {शारिपुत्र} अनुत्पन्नस्य धर्मस्य प्राप्तिमिच्छामि नाप्यभि-
२६०१० समयं नाहमनुत्पादस्य स्रोतआपन्नमिच्छामि। न स्रोतआपत्तिफलं न सकृदागामिनं न सकृदागामिफलं नानागामिनं नानागामिफलं
२६०११ नार्हत्वं नार्हत्वफलं नानुत्पादस्य प्रत्येकां बोधिमिच्छामि न प्रत्येकबुद्धत्वं नाह-
२६०१२ म् {आयुष्मन्} {शारिपुत्र} इच्छामि बोधिसत्त्वं दुष्करचारिकां चरन्तं नापि बोधिसत्त्वो दुष्कर-
२६०१३ संज्ञया चरति। तत्कस्य हेतोः। न हि शक्य {आयुष्मन्} {शारिपुत्र} दुष्करसंज्ञायां स्थित्वा
२६०१४ अप्रमेयाणामसंख्येयानामपरिमाणानां सत्त्वानामर्थं कर्तुम्। अपि तु खलु पुन-
२६०१५ र्{आयुष्मन्} {शारिपुत्र} मातृसंज्ञां सर्वसत्त्वेषु जनयित्वा पितृसंज्ञां भ्रातृसंज्ञां पुत्रसंज्ञामात्मसंज्ञां
२६०१६ जनयित्वा शक्योऽप्रमेयाणामसंख्येयानामपरिमाणानां सत्त्वानामर्थं कर्तुम्।
२६०१७ अपि तु खलु पुनर्{आयुष्मन्} {शारिपुत्र} {बोधिसत्त्वेन} महासत्त्वेन एवं चित्तमुत्पादयितव्यम्। यथा
२६०१८ आत्मा आत्मेति चोच्यते अत्यन्ततया अनुत्पन्न आत्मा एवं सर्वेष्वाध्यात्मिक-
२६०१९ बाह्येषु धर्मेषु संज्ञोत्पादयितव्या। सचेदेवं संज्ञामुत्पादयिष्यति न दुष्करसंज्ञां
२६०२० भविष्यति। तत्कस्य हेतोः। तथा हि ते बोधिसत्त्वाः सर्वेण सर्वं सर्वथा सर्वं
२६०२१ कञ्चिद्धर्मं नोत्पादयन्ते नोपलभन्त् नाहम् {आयुष्मन्} {शारिपुत्र} अनुत्पादतथागत-
२६०२२ मिच्छामि नाप्यनुत्तरां सम्यक्संबोधिं नापि धर्मचक्रप्रवर्तनं नापीच्छामि
२६०२३ अनुत्पन्नेन धर्मेणानुत्पन्नां प्राप्तिं प्राप्यमाणाम्।
२६०२४ {शारिपुत्र} आह् किं पुनर्{आयुष्मन्} {सुभूते} अनुत्पन्नेन धर्मेण उत्पन्ना प्राप्तिः प्राप्यत्
२६०२५ अथ उत्पन्नेन धर्मेण अनुत्पन्ना प्राप्तिः प्राप्यत्

२६१०१ {सुभूतिर्} आह् नाहम् {आयुष्मन्} {शारिपुत्र} उत्पन्नेन धमेणानुत्पन्नां प्राप्तिं प्राप्य-
२६१०२ माणामिच्छामि नाप्यनुत्पन्नेनोत्पन्नां प्राप्तिं प्राप्यमाणाम्।
२६१०३ {शारिपुत्र} आह् किं पुनर्{आयुष्मन्} {सुभूते} अनुत्पन्नेन धर्मेण प्राप्तिमिच्छसि।
२६१०४ अथ वोत्पन्नेन धर्मेण प्राप्तिमिच्छसि।
२६१०५ {सुभूतिर्} आह् नाहम् {आयुष्मन्} {शारिपुत्र} अनुत्पन्नेन धर्मेण प्राप्तिमिच्छामि।
२६१०६ नाप्युत्पन्नेन धर्मेण प्राप्तिमिच्छामि।
२६१०७ {शारिपुत्र} आह् किं पुनर्{आयुष्मन्} {सुभूते} नास्ति प्राप्तिर्नास्त्यभिसमयः।
२६१०८ {सुभूतिर्} आह् अस्त्य्{आयुष्मन्} {शारिपुत्र} प्राप्तिरस्त्यभिसमयो न पुनर्द्वयम्। अपि तु
२६१०९ खलु पुनर्{आयुष्मन्} {शारिपुत्र} लोकव्यवहारेण प्राप्तिश्चाभिसमयश्च प्रज्ञप्यते लोकव्यवहारेण
२६११० स्रोतआपन्नो वा सकृदागामी वा अनागामी वा अर्हन् वा प्रत्येकबुद्धो वा
२६१११ बोधिसत्त्वो वा बुद्धो वा प्रज्ञप्यते न पुनः परमाथेन प्राप्तिर्नाभिसमयो
२६११२ न स्रोतआपन्नो न सकृदागामी नानागामी नार्हन्न प्रत्येकबुद्धो न बोधि-
२६११३ सत्त्वो न बुद्धः।
२६११४ {शारिपुत्र} आह् अनुत्पन्नो धर्म इत्य्{आयुष्मन्} {सुभूते} प्रतिभाति मन्त्रयितुम्।
२६११५ {सुभूतिर्} आह् अनुत्पन्नो धर्मोऽनुत्पन्नो धर्म इत्य्{आयुष्मन्} {शारिपुत्र} यद्वदसि प्रतिभाति
२६११६ मन्त्रयितुमिति। अनुत्पादोऽपि ये {आयुष्मन्} {शारिपुत्र} प्रतिभाति मन्त्रयितुम्।
२६११७ तत्कस्य हेतोः। तथा ह्य्{आयुष्मन्} {शारिपुत्र} यश्चानुत्पन्नो धर्मो यच्च प्रतिभानं ये च मन्त्रा
२६११८ या चानुत्पत्तिः सर्वे एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणोऽनिदर्शना
२६११९ अप्रतिघा एकलक्षणा यदुतालक्षणाः।
२६१२० {शारिपुत्र} आह् अनुत्पादोऽप्य्{आयुष्मन्} {सुभूते} मन्त्रः। अनुत्पादः प्रतिभान-
२६१२१ मनुत्पादो धर्मस्तेऽपि धर्मा अनुत्पन्ना यानारभ्य प्रतिभाति मन्त्रयितुम्।
२६१२२ {सुभूतिर्} आह् एवमेतद्{आयुष्मन्} {शारिपुत्र} अनुत्पादो मन्त्रः।
२६१२३ अनुत्पादः प्रतिभानमनुत्पादो धर्मस्तेऽपि धर्मा अनुत्पन्ना यानारभ्य प्रतिभाति मन्त्रयितुम्। तत्कस्य हेतोः। तथा ह्य्{आयुष्मन्} {शारिपुत्र}
२६१२४ रूपमनुत्पादः। एवं {वेदना संज्ञा संस्काराः}। विज्ञानमनुत्पादः। एवं व्यस्तसमस्ताः स्कन्धधातवः
२६१२५ आयतनानि प्रतीत्यसमुत्पादाः पारमिताः सर्वशून्यताः सर्वबोधिपक्षा धर्मा अप्रमाणध्यानारूप्यसमापत्तयो बलानि वैशारद्यानि प्रतिसंविदः समाधिधारणीमुखान्यभिज्ञा अष्टादशावेणिका बुद्धधर्मा अनुत्पादाः।

२६२०१ स्रोतआपन्नः सकृदागाम्यनागाम्यर्हन् प्रत्येकबुद्धो बोधिसत्त्वः सर्वज्ञः सर्वाकारज्ञः सर्वाकारज्ञता
२६२०२ऽप्यनुत्पादः।
२६२०३ {शारिपुत्र} आह् एवमेतद्{आयुष्मन्} {सुभूते} अनुत्पादो मन्त्रः
२६२०४ अनुत्पादः प्रतिभानमनुत्पादो धर्मस्तेऽपि धर्मा अनुत्पन्ना यानारभ्य प्रतिभाति मन्त्रयितुम्। यावत्स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः पारमिताः सर्वशून्यताः सर्वबोधिपक्षा धर्मा अप्रमाणध्यानारूप्यसमापत्तयो बलानि वैशारद्यानि प्रतिसंविदः समाधिधारणीमुखान्यभिज्ञा अष्टादशावेणिका बुद्धधर्माः। पेयालम्।
२६२०५ यावत्सर्वाकारज्ञताप्यनुत्पादः।
२६२०६ {शारिपुत्र} आह् किं पुनर्{आयुष्मन्} {सुभूते} यथैव लोकव्यवहारेण प्राप्तिश्चाभिसमयश्च
२६२०७ एवं पञ्चाणां गतीनां संभेदो भवति लोकव्यवहारेण परमार्थतो न भवति।
२६२०८ {सुभूतिर्} आह् एवमेतद्{आयुष्मन्} {शारिपुत्र} एवमेतत् । यथैव
२६२०९ लोकव्यवहारेण प्राप्तिश्चाभिसमयश्च एवं पञ्चाणां गतीनां संभेदो भवति लोकव्यवहारेण परमार्थतो न भवति। नात्र खलु पुनः परमार्थेन् तत्
२६२१० कस्य हेतोः। तथा ह्य्{आयुष्मन्} {शारिपुत्र} परमार्थे न कर्म न विपाको नोत्पादो न निरोधो
२६२११ न संक्लेशो न व्यवदानम्।
२६२१२ {शारिपुत्र} आह् किं पुनर्{आयुष्मन्} {सुभूते} अनुत्पन्नो धर्म उत्पद्यते उताहो
२६२१३ उत्पन्नो धर्म उत्पद्यत्
२६२१४ {सुभूतिर्} आह् नाहम् {आयुष्मन्} {शारिपुत्र} उत्पन्नस्य धर्मस्य उत्पादमिच्छामि नाप्य-
२६२१५ नुत्पन्नस्य धर्मस्य उत्पादमिच्छामि।
२६२१६ {शारिपुत्र} आह् कतमस्य्{आयुष्मन्} {सुभूते} अनुत्पन्नस्य धर्मस्योत्पादं नेच्छामि।
२६२१७ {सुभूतिर्} आह् रूपस्याहम् {आयुष्मन्} {शारिपुत्र} अनुत्पन्नस्य धर्मस्य स्वभावशून्योत्पादं
२६२१८ नेच्छामि। {वेदनया संज्ञया संस्कारानाम्}। विज्ञानस्याहम् {आयुष्मन्} {शारिपुत्र} अनुत्पन्नस्य धर्मस्य स्वभावशून्योत्-
२६२१९ पादं नेच्छामि। एवं व्यस्तसमस्तानां स्कन्धधात्वायतनानां
२६२२० प्रतीत्यसमुत्पादानां पारमितानां सर्वशून्यतानां सर्वबोधिपक्षानां धर्माणामप्रमाणध्यानारूप्यसमापत्तीनां बलानां वैशारद्यानां प्रतिसंविदां समाधिधारणीमुखानामभिज्ञानामष्टादशावेणिकानां बुद्धधर्माणां बोधेरप्यहम् {आयुष्मन्} {शारिपुत्र}
२६२२१ अनुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि।
२६२२२ {शारिपुत्र} आह् किं पुनर्{आयुष्मन्} {सुभूते} उत्पाद उत्पद्यते अथानुत्पाद उत्पद्यत्
२६२२३ {सुभूतिर्} आह् न ह्य्{आयुष्मन्} {शारिपुत्र} उत्पाद उत्पद्यते नाप्यनुत्पाद उत्पद्यत् तत्
२६२२४ कस्य हेतोः। तथा हि {आयुष्मन्} {शारिपुत्र} यश्चोत्पादो यश्चानुत्पादो द्वावप्येतौ धर्मौ न
२६२२५ संयुक्तौ न विसंयुक्तौ अरूपिणौ अनिदर्शनौ अप्रतिघौ एकलक्षणौ यदुता-
२६२२६ लक्षणौ। अनेन्{आयुष्मन्} {शारिपुत्र} पर्यायेण नोत्पाद उत्पद्यते नाप्यनुत्पाद उत्पद्यत्
२६२२७ अनेन्{आयुष्मन्} {शारिपुत्र} पर्यायेण अनुत्पादो मन्त्रोऽनुत्पादः प्रतिभानम्। अनुत्पादो
२६२२८ धर्मस्तेऽपि धर्मा अनुत्पन्ना यानारभ्य प्रतिभाति मन्त्रयितुम्।

२६३०१ {शारिपुत्र} आह् धर्मकायिकानामायुष्मान् सुभूतिरग्रतायां स्थापयितव्यः। तत्
२६३०२ कस्य हेतोः। तथा हि {आयुष्मान्} सुभूतिर्यद्यदेव परिप्रश्नीक्रियते ततस्तत एव
२६३०३ निःसरति।
२६३०४ {सुभूतिर्} आह् धर्मतैषा {आयुष्मन्} {शारिपुत्र} तथागतश्रावकाणामनिश्रितसर्व-
२६३०५ धर्माणां ते यतो यत एव परिपृच्छ्यन्ते ततस्तत एव निःसरन्ति। तत्कस्य
२६३०६ हेतोः। यथापि नामानिश्रितत्वात्सर्वधर्माणाम्।
२६३०७ {शारिपुत्र} आह् कथम् {आयुष्मन्} {सुभूते} अनिश्रिताः सर्वधर्माः।
२६३०८ {सुभूतिर्} आह् रूपम् {आयुष्मन्} {शारिपुत्र} प्रकृतिशून्यं तं नाध्यात्मनिश्रितं न बहिर्धा-
२६३०९ निश्रितं नोभयमन्तरेणोपलभ्यत् {वेदना संज्ञा संस्काराः}। विज्ञानम् {आयुष्मन्} {शारिपुत्र} प्रकृतिशून्यं तं
२६३१० नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयमन्तरेणोपलभ्यत्
२६३११ चक्षुरायुष्मन् शारिपुत्र प्रकृतिशून्यं तं नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयमन्तरेणोपलभ्यत् श्रोत्रं घ्राणं जिह्वा कायः। मन आयुष्मन् शारिपुत्र प्रकृतिशून्यं तं नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयमन्तरेणोपलभ्यत् रूपमायुष्मन् शारिपुत्र प्रकृतिशून्यं तं नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयमन्तरेणोपलभ्यत् शब्दो गन्धो रसः स्प्रष्टव्यम्। धर्म आयुष्मन् शारिपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयमन्तरेणोपलभ्यत् चक्षुर्विज्ञानमायुष्मन् शारिपुत्र प्रकृतिशून्यं तं नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयमन्तरेणोपलभ्यत् श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्वाविज्ञानं कायविज्ञानम्। मनोविज्ञानमायुष्मन् शारिपुत्र प्रकृतिशून्यं तं नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयमन्तरेणोपलभ्यत् स्मृत्युपस्थानान्यायुष्मन् शारिपुत्र प्रकृतिशून्यानि तानि नाध्यात्मनिश्रितानि न बहिर्धानिश्रितानि नोभयमन्तरेणोपलभ्यन्त् सम्यक्प्रहाणान्यृद्धिपादा इन्द्रियानि बलानि बोध्यङ्गानि मार्गा अप्रमाणध्यानान्यारूप्यसमापत्तयो दशबलानि वैशारद्यानि प्रतिसंविदाः।
२६३१२ अष्टादशावेणिका बुद्धधर्मा आयुष्मन् शारिपुत्र प्रकृतिशून्याः ते नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयमन्तरेणोपलभ्यन्ते। अनेन्{आयुष्मन्} {शारिपुत्र} पर्यायेण सर्वधर्मा अनिश्रिताः प्रकृतिशून्यतामुपादाय्
२६३१३ एवं हि {आयुष्मन्} {शारिपुत्र} {बोधिसत्त्वेन} महासत्त्वेन षट्सु पारमितासु चरतो रूपं परि-
२६३१४ शोधयितव्यम्। {वेदना संज्ञा संस्काराः}। विज्ञानं परिशोधयितव्यम्। एवं व्यस्तसमस्ताः स्कन्धधातवः
२६३१५ आयतनानि प्रतीत्यसमुत्पादाः पारमिताः सर्वशून्यताः सर्वबोधिपक्षानि धर्मा अप्रमाणध्यानारूप्यसमापत्तयो बलानि वैशारद्यानि प्रतिसंविदः समाधिधारणीमुखान्यभिज्ञा अष्टादशावेणिका बुद्धधर्माः परिशोध-
२६३१६ यितव्याः। यावत्सर्वाकारज्ञता परिशोधयितव्या॥ [इति सर्वाकारज्ञता-
२६३१७ निर्याणम्॥]
२६३१८ {शारिपुत्र} आह् कथम् {आयुष्मन्} {सुभूते} {बोधिसत्त्वो} महासत्त्वः षट्सु पारमितासु चरन्
२६३१९ बोधिसत्त्वमार्गं परिशोधयति।
२६३२० {सुभूतिर्} आह् अस्ति {आयुष्मन्} {शारिपुत्र} दानपारमिता लौकिकी अस्ति लोकोत्तरा।
२६३२१ एवं शील{पारमिता} लौकिकी अस्ति लोकोत्तरा क्षान्तिपारमिता लौकिकी अस्ति लोकोत्तरा वीर्यपारमिता लौकिकी अस्ति लोकोत्तरा ध्यानपारमिता लौकिकी लोकोत्तरा अस्ति प्रज्ञा{पारमिता} लौकिकी अस्ति लोकोत्तरा।
२६३२२ {शारिपुत्र} आह् कतमा {आयुष्मन्} {सुभूते} दान{पारमिता} लौकिकी कतमा लोकोत्तरा।
२६३२३ {सुभूतिर्} आह् लौकिकी {आयुष्मन्} {शारिपुत्र} दान{पारमिता} इह {बोधिसत्त्वो} महासत्त्वो दायको भवति
२६३२४ दानपतिः। श्रमणब्राह्मणकृपणवनीपकाध्वगेभ्यो याचनकेभ्यो दाता भवति।
२६३२५ अन्नार्थिकेभ्योऽन्नं ददाति। पानयानवसनगन्धमाल्यविलेपनपुष्पधूपचूर्णवासो-

२६४०१ पाश्रयप्रतिश्रयजीवितपरिष्कारोपकरणशयनासनभैषज्यार्थिकेभ्योऽन्नपानयानवसनगन्धमाल्यविलेपनपुष्पधूपचूर्णवासोपाश्रय-
२६४०२ प्रतिश्रयान्यतरान्यतरजीवितपरिष्कारोपकरणभैषज्यदाता भवति। पुत्रार्थिकेभ्यः
२६४०३ पुत्रं ददाति। दुहित्र्यर्थिकेभ्यो दुहितरं ददाति। भार्यार्थिकेभ्यो भार्यां ददाति।
२६४०४ राष्ट्रार्थिकेभ्यो राज्यानि ददाति। शिरोर्थिकेभ्यः शिरो ददाति। अङ्गार्थिकेभ्यो
२६४०५ऽङ्गानि ददाति। मांसशोणितमज्जार्थिकेभ्यो मांसशोणितमज्जानो ददाति।
२६४०६ तच्च सन्निश्रितं परित्यजति। तस्यैवं भवति अहं ददामि एष परिगृह्णीते
२६४०७ इदं दानमहं निर्मत्सरः सर्वस्वं परित्यजामि। अहं बुद्धाज्ञां करोमि।
२६४०८ अहं दानपारमितायां चरामि। अहमेतद्दानं सर्वसत्त्वसाधारणं कृत्वा
२६४०९ अनुत्तरायै सम्यक्संबोधये परिणामयामि तच्चानुपलम्भयोगेन् अनेन
२६४१० च दानेन दानफलेन च सर्वसत्त्वा दृष्ट एव धर्मे सुखिता भवन्तु अनुपादाय
२६४११ परिनिर्वान्तु। स त्रिभिः सङ्गैः सक्तो दानं ददाति। कतमैस्त्रिभिर्यदुत आत्म-
२६४१२ संज्ञया परसंज्ञया दानसंज्ञया च एभिस्त्रिभिः सङ्गैः सक्तो दानं ददाति॥ [इयमुच्यते
२६४१३ लौकिकी दानपारमितेति॥]
२६४१४ तथा हि {आयुष्मन्} {शारिपुत्र} लोकतो न चलति नोच्चलति न संक्रामति।
२६४१५ तेनोच्यते लौकिकी दानपारमिता इति।
२६४१६ तत्र कतमा लोकोत्तरा दानपारमिता यदुत त्रिमण्डलपरिशुद्धिः। तत्र कतमा
२६४१७ त्रिमण्डलपरिशुद्धिः। इह {बोधिसत्त्वो} महासत्त्वो दानं ददत्नात्मानमुपलभते प्रतिग्राहकं
२६४१८ {नोपलभते}। दानञ्च {नोपलभते}। तद्विपाकञ्च {नोपलभते}। इयम् {आयुष्मन्} {शारिपुत्र} {बोधिसत्त्वस्य} महासत्त्वस्य त्रिम-
२६४१९ ण्डलपरिशुद्धिः। पुनरपरम् {आयुष्मन्} {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वो दानं ददत्न सर्वसत्त्वेभ्य-
२६४२० स्तद्दानं निर्यातयति। सत्त्वांश्च {नोपलभते}। आत्मानं च {नोपलभते}। तच्च दानमनुत्तरायै
२६४२१ सम्यक्संबोधये परिणामयति। न च बोधिमुपलभत् । [इयमुच्यते लोकोत्तरा
२६४२२ दानपारमितेति॥]

२६५०१ केन कारणेनोच्यते लोकोत्तरा दानपारमितेति। तथा ह्य्{आयुष्मन्} {शारिपुत्र}
२६५०२ लोकाच्चलति उच्चलति संक्रामति। तेन कारणेनोच्यते लोकोत्तरा दानपार-
२६५०३ मितेति। एवं शील{पारमिता} क्षान्ति{पारमिता} वीर्य{पारमिता} ध्यान{पारमिता}।
२६५०४ {शारिपुत्र} आह् कतमा {आयुष्मन्} {सुभूते} प्रज्ञा{पारमिता} लौकिकी। कतमा
२६५०५ लोकोत्तरा।
२६५०६ {सुभूतिर्} आह् लौकिकी {आयुष्मन्} {शारिपुत्र} प्रज्ञापारमिता। इह {बोधिसत्त्वो} महासत्त्वो
२६५०७ दानं ददाति उपलम्भनिश्रितो मात्सर्यचित्तं मया निग्रहीतव्यमिति। तच्चात्म-
२६५०८ सत्त्वदानसंज्ञानिश्रितः सर्वस्वं परित्यजति बाह्यं वा आध्यात्मिकं वा
२६५०९ वस्तु उपात्तं वा अनुपात्तं वा नास्ति किञ्चिद्यत्न परित्यजति। तच्च कुशल-
२६५१० मूलं बोधये परिणामयति सर्वसत्त्वसाधारणं कृत्वा उपलम्भनिश्रितः। स
२६५११ शीलं सेवते धूतगुणप्रतिष्ठितः। कायवाक्चित्तोपलम्भनिश्रितस्तांश्च दशकुशलान्
२६५१२ कर्मपथान् सेवमानः आत्मदृष्ट्यां सत्त्वदृष्ट्यां कुशलदृष्ट्यां निश्रितः
२६५१३ बोधिमुपलभ्य सर्वसत्त्वसाधारणानि शीलानि बोधये परिणामयति तच्चोपल-
२६५१४ म्भेन् आत्मानमुत्कर्षयति परान् पंसयति स सर्वसत्त्वानां दुष्कृतानि क्षमत्
२६५१५ आत्मसत्त्वक्षान्तिदृष्टिनिश्रितस्तच्च कुशलमनुत्तरायै सम्यक्संबोधये परिणाम-
२६५१६ यति सर्वसत्त्वसाधारणं कृत्वा उपलम्भयोगेन् स वीर्यमारभते कायमुपलम्भ-
२६५१७ मानः चित्तम् {उपलम्भमानः} पुण्यसम्भारम् {उपलम्भमानो} ज्ञानसम्भारम् {उपलम्भमान} आत्मानम् {उपलम्भमानो} बोधिम् {उपलम्भमानः}
२६५१८ तेन च वीर्यारम्भेन मन्यत् तच्च सर्वसत्त्वसाधारणं कृत्वा उपलम्भयोगेना-
२६५१९ नुत्तरायै सम्यक्संबोधये परिणामयति। स मैत्रीकरुणामुदितोपेक्षां भावयति
२६५२० ध्यानसमापत्तीः समापद्यते व्युत्तिष्ठते च ता आस्वादयति। ता आस्वादयन्
२६५२१ मन्यत् सर्वसत्त्वसाधारणानि च कुशलमूलानि उपलम्भदृष्टिको बोधये परि-
२६५२२ णामयति॥ [इयमुच्यते लौकिकी प्रज्ञापारमिता॥]
२६५२३ स शून्यतां भावयन् रूपं शून्यमिति उपलभत् {वेदना संज्ञा संस्काराः}। विज्ञानं शून्यमिति
२६५२४ उपलभत् यावद्बुद्धबोधिं चोपलभते उपलम्भयोगेन् तानि कुशलमूलानि
२६५२५ सर्वसत्त्वसाधारणानि कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति। तं

२६६०१ चोपलम्भयोगेन् सर्वपापं प्रतिदेशयत्युपलम्भयोगेन आत्मनश्च परेषां च
२६६०२ पुण्यमनुमोदत् आत्मनश्च परस्य चार्थाय उपलभमानः सर्वबुद्धानध्येषयत्
२६६०३ अनुपायेन त्रिःकृत्वः पुण्यं सर्वज्ञतायै परिणामयति सर्वसत्त्वसाधारणं कृत्वा॥
२६६०४ [इयमुच्यते लौकिकी प्रज्ञापारमिता॥]
२६६०५ तत्र कतमा लोकोत्तरा प्रज्ञापारमिता। आत्मसत्त्वदेयबोध्यनुपलब्ध्या
२६६०६ त्रिमण्डलपरिशुद्ध्या दानपारमितां परिशोधयति। बोधाय आत्मसत्त्वशील-
२६६०७ बोध्य्{अनुपलब्ध्या त्रिमण्डलपरिशुद्ध्या} शीलपारमितां {परिशोधयति}। बोधाय आत्मसत्त्वक्षमाबोध्य्{अनुपलब्ध्या त्रिमण्डलपरिशुद्ध्या} क्षान्ति-
२६६०८ पारमितां {परिशोधयति}। बोधाय चात्मकायचित्तवीर्यपुण्यज्ञानबोध्य्{अनुपलब्ध्या त्रिमण्डलपरिशुद्ध्या} वीर्यपार-
२६६०९ मितां {परिशोधयति}। बोधाय आत्मसत्त्वध्यानसमाधिसमापत्तिबोध्य्{अनुपलब्ध्या त्रिमण्डलपरिशुद्ध्या} ध्यान-
२६६१० पारमितां {परिशोधयति}। बोधाय आत्मसत्त्वसर्वधर्मा{नुपलब्ध्या त्रिमण्डलपरिशुद्ध्या} प्रज्ञापारमितां {परिशोधयति}।
२६६११ बोधाय सर्वकुशलमूलानि चानुत्तरायै सम्यक्संबोधये परिणामयति निर्विशेष-
२६६१२ परिणामेनानुत्तरपरिणामेन असमसम{परिणामेन} अचिन्त्यातुल्य{परिणामेन} अप्रमेय{परिणामेन}॥
२६६१३ [इयमुच्यते लोकोत्तरा प्रज्ञापारमिता॥]
२६६१४ केन कारणेन लौकिकी। लोको याभिर्भवति। लोकं वा याभिर्निवर्तयति।
२६६१५ लोकेन वा याः समाः। लोकाय वा याभिर्दीयत् लोकात्वा याभिर्निःसरति।
२६६१६ लोकस्य वा या भवाय् लोके वा भवा यास्ता लौकिक्यः।
२६६१७ तत्र कतमा लोकोत्तरा। लोको याभिरुत्तारयति। लोकं याभिरुत्तारयति।
२६६१८ लोकेन वा याभिरुत्तार्यत् आलोकाय वा या भवति। लोकात्वा याभिर् निः-
२६६१९ सरति। लोकस्य वा या उत्तरणाय् लोके वा या उत्तरास्ता लोकोत्तरा इति।
२६६२० एवं ह्य्{आयुष्मन्} {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वः षट्सु पारमितासु चरन् बोधिमार्गं
२६६२१ परिशोधयति।
२६६२२ {शारिपुत्र} आह् कतम {आयुष्मन्} {सुभूते} {बोधिसत्त्वस्य} महासत्त्वस्य बोधिमार्गः।

२६७०१ {सुभूतिर्} आह् चत्वार्य्{आयुष्मन्} {शारिपुत्र} स्मृत्युपस्थानानि {बोधिसत्त्वस्य} महासत्त्वस्य बोधि-
२६७०२ मार्गः। चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्चबलानि
२६७०३ बोध्यङ्गानि आर्याष्टाङ्गो मार्गः शून्यता{विमोक्षमुखम्} अनिमित्त{विमोक्षमुखम्} अप्रणिहित{विमोक्षमुखम्}
२६७०४ अध्यात्म{शून्यता} बहिर्धा{शून्यता} अध्यात्मबहिर्धा{शून्यता} यावदभावस्वभाव{शून्यता} सर्वसमाधयः
२६७०५ सर्वधारणीमुखानि चत्वार्यप्रमाणानि चत्वारि ध्यानानि चतस्र आरूप्यसमा-
२६७०६ पत्तयो दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदोऽष्टादशा-
२६७०७ वेणिका बुद्धधर्मा महाकरुणा अयमुच्यते {आयुष्मन्} {शारिपुत्र} {बोधिसत्त्वस्य} महासत्त्वस्य
२६७०८ बोधिमार्गः।
२६७०९ {शारिपुत्र} आह् कतमस्या {आयुष्मन् सुभूते} पारमिताया अयं पुरुषकारः।
२६७१० {सुभूतिर्} आह् प्रज्ञापारमिताया {आयुष्मन्} {शारिपुत्र} अयं पुरुषकारः। तत्कस्य
२६७११ हेतोः। तथा ह्य्{आयुष्मन्} {शारिपुत्र} प्रज्ञापारमिता जनयित्री सर्वेषां कुशलानां धर्माणां
२६७१२ श्रावकप्रत्येकबुद्ध{धर्माणां} बोधिसत्त्व{धर्माणां} बुद्ध{धर्माणाम्}। प्रज्ञापारमिता {आयुष्मन्} {शारिपुत्र}
२६७१३ प्रतिग्राहिका सर्वेषां कुशलानां {धर्माणां} श्रावकप्रत्येकबुद्ध{धर्माणां} बोधिसत्त्व{धर्माणाम्}। प्रज्ञापार-
२६७१४ मितायाम् {आयुष्मन्} {शारिपुत्र} शिक्षित्वा तैः पौर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैरनुत्तरा
२६७१५ सम्यक्संबोधिरभिसंबुद्धा। अनागता अप्य्{आयुष्मन्} {शारिपुत्र} तथागता अर्हन्तः
२६७१६ सम्यक्संबुद्धा इहैव प्रज्ञापारमितायां शिक्षित्वानुत्तरां सम्यक्संबोधिमभिसंभोत्-
२६७१७ स्यन्त् येऽप्येतर्हि {आयुष्मन्} {शारिपुत्र} दशसु दिक्षु लोके तथागता अर्हन्तः सम्यक्-
२६७१८ संबुद्धास्तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं देशयन्ति तेऽपि सर्वे इहैव
२६७१९ प्रज्ञापारमितायां शिक्षित्वा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः।
२६७२० सचेत्पुनर्{आयुष्मन्} {शारिपुत्र} अस्यां प्रज्ञापारमितायां भाष्यमाणायां {बोधिसत्त्वस्य}
२६७२१ महासत्त्वस्य न भवति कांक्षायितत्वं न भवति धन्वायितत्वं वेदितव्यमेतद्{आयुष्मन्}
२६७२२ {शारिपुत्र} विहरत्ययं {बोधिसत्त्वो} महासत्त्वोऽनेन विहारेणाविरहितश्चानेन मनसिकारेण
२६७२३ यदुत सर्वसत्त्वपरित्राणाय सर्वसत्त्वापरित्यागमनसिकारेण महाकरुणामनसि-
२६७२४ कारेण्
२६७२५ {शारिपुत्र} आह् यद्{आयुष्मान्} {सुभूतिर्} एवमाह् विहरत्ययं {बोधिसत्त्वो} महासत्त्वोऽनेन
२६७२६ विहारेणाविरहितश्चानेन मनसिकारेणेति। एवं सत्य्{आयुष्मन्} {सुभूते} सर्वसत्त्वा अपि

२६८०१ बोधिसत्त्वा भविष्यन्ति। तत्कस्य हेतोः। तथा ह्य्{आयुष्मन्} {सुभूते} सर्वसत्त्वा
२६८०२ अविरहिता मनसिकारेण्
२६८०३ {सुभूतिर्} आह् साधु साधु {आयुष्मन्} {शारिपुत्र} उपालप्स्ये त्वामर्थ एवायुष्मता
२६८०४ शारिपुत्रेण भूतपदाभिधानेन परिगृहीतः। तत्कस्य हेतोः। सत्त्वासत्तय्{आयुष्मन्}
२६८०५ {शारिपुत्र} मनसिकारासत्ता वेदितव्या। सत्त्वशून्यतया मनसिकारशून्यता {वेदितव्या}।
२६८०६ सत्त्वास्वभावतया मनसिकारास्वभावता {वेदितव्या}। सत्त्वविविक्ततया मनसिकार-
२६८०७ विविक्तता {वेदितव्या}। सत्त्वानभिसंबोधनतया मनसिकारानभिसंबोधनता
२६८०८ {वेदितव्या}। रूपासत्तया रूपशून्यतया रूपास्वभावतया रूपविविक्ततया
२६८०९ रूपानभिसंबोधनतया मनसिकारानभिसंबोधनता {वेदितव्या}। वेदना संज्ञा
२६८१० संस्काराः। विज्ञानासत्तया विज्ञानशून्यतया विज्ञानास्वभावतया विज्ञानविविक्ततया विज्ञानानभिसंबोधनतया मनसिकारानभिसंबोधनता {वेदितव्या}। एवं व्यस्तसमस्तेषु
२६८११ स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु पारमितासु सर्वशून्यतासु सर्वबोधिपक्षेषु धर्मेषु अप्रमाणध्यानारूप्यसमापत्तिषु बलेषु वैशारद्येषु प्रतिसंवित्सु समाधिधारणीमुखेष्वभिज्ञासु अष्टादशावेणिकेषु बुद्धधर्मेषु सर्वाकारज्ञतासत्तया सर्वाकारज्ञता-
२६८१२ शून्यतया सर्वाकारज्ञतास्वभावतया सर्वाकारज्ञताविविक्ततया सर्वाकारज्ञतानभिसंबोधनतया मनसिकारानभिसंबोधनता {वेदितव्या}। अनेन्{आयुष्मन्} {शारिपुत्र} विहारेणानेन च
२६८१३ मनसिकारेण अविरहितो बोधिसत्त्वो महासत्त्व इति।
२६८१४ अथ खलु भगवानायुष्मते स्हूतये साधुकारमदात् । साधु साधु सुभूत्
२६८१५ एवं हि सुभूते {बोधिसत्त्वानां} महासत्त्वानां प्रज्ञापारमितोपदेष्टव्या यथा त्वमुपदिशसि
२६८१६ यथापि नाम तथागतानुभावेनैवं बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां
२६८१७ चरितव्यं यथा त्वमुपदिशसि।
२६८१८ अस्मिन् खलु पुनः प्रज्ञापारमितापरिवर्ते आयुष्मता सुभूतिना भाष्यमाणे
२६८१९ त्रिसाहस्रमहासाहस्रो लोकधातुः षड्विकारं प्रकम्पितो यावत्पूर्वोत्तरदक्षिण-
२६८२० पश्चिमायां विदिश्युन्नामावनामं गच्छति स्म्
२६८२१ अथ खलु भगवांस्तस्यां वेलायां स्मितमकरोत् । अथ खल्व्{आयुष्मान्}
२६८२२ {सुभूतिर्} भगवन्तमेतदवोचत् । को भगवन् हेतुः कः प्रत्ययः स्मितस्य
२६८२३ प्रादुर्भावाय् भगवानाह् यथैव सुभूते इह लोकधातौ तथागतः
२६८२४ प्रज्ञापारमितां निर्दिशति तथैव पूर्वस्यां दिश्यसंख्येयेष्वप्रमेयेषु लोकधातुषु
२६८२५ तथागता अर्हन्तः सम्यक्संबुद्धा बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां
२६८२६ भ्गाषन्त् एवं समन्ताद्दशसु दिक्ष्वसंख्येयेष्वप्रमेयेषु

२६९०१ लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धा बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां निर्दिशन्ति। अस्मिन् खलु पुनः सुभूतिना प्रज्ञापारमितानिर्देशे निर्दिश्यमाने
२६९०२ द्वादशानामयुतानां देवमानुषिकायाः प्रजाया अनुत्पत्तिकधर्मक्षान्तिप्रतिलम्भो
२६९०३ऽभूत् । तेषामपि बुद्धानां भगवतां समन्ताद्दशसु दिक्षु लोकधातुषु इमां
२६९०४ प्रज्ञापारमितां बोधिसत्त्वानां महासत्त्वानां भाषमाणानामसंख्येयानाम-
२६९०५ परिमाणानां सत्त्वानामनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पन्नानि॥ [इति
२६९०६ मार्गनिर्याणमित्युक्ता निर्याणप्रतिपत्तिरित्युक्ता सर्वाकारज्ञता॥]
२६९०७ आर्यपञ्चविंशतिसाहस्रिकायां बोधिसत्त्वधर्माणां भवत्यां प्रज्ञापारमितायामभि-
२६९०८ समयालङ्कारानुसारेण संशोधितायां सर्वाकारज्ञताधिकारः सुभूतिपरिवर्तः प्रथमः॥

"https://sa.wikisource.org/w/index.php?title=पञ्चविंशतिसाहस्रिका&oldid=370128" इत्यस्माद् प्रतिप्राप्तम्