व्यूढद्वादशाहविधानं

10.1
अग्निना पृथिव्यौषधिभिस्तेनायं लोकस्त्रिवृद्वायुनान्तरिक्षेण वयोभिस्तेनैष लोकास्त्रिवृद्योऽयमन्तरादित्येन दिवा नक्षत्रैस्तेनासौ लोकस्त्रिवृदेतदेव त्रिवृत आयतनमेषास्य बन्धुता
आयतनवान् बन्धुमान् भवति य एवंव्वेद
तमु प्रतिष्ठेत्याहुस्त्रिवृद्ध्येवैषु लोकेषु प्रतिष्ठितः
अर्धमास एव पञ्चदशस्यायतनमेषास्य बन्धुता
आयतनवान् बन्धुमान् भवति य एवंव्वेद
तं चौजो बलमित्याहुरर्धमासशो हि प्रजाः पशव ओजो बलं पुष्यन्ति
संवत्सर एव सप्तदशस्यायतनं द्वादश मासाः पञ्चदर्तव एतदेव सप्तदशस्यायतनमेषास्य बन्धुता
आयतनवान् बन्धुमान् भवति य एवंव्वेद
तमु प्रजापतिरित्याहुः संवत्सरं हि प्रजाः पशवोऽनुप्रजायन्ते
आदित्य एवैकविंसस्यायतनं द्वादश मासाः पञ्चवर्तस्त्रय इमे लोका असावादित्य एकविंश एतदेवैकविंशस्यायतनमेषास्य बन्धुता
आयतनवान् बन्धुमान् भवति य एवंव्वेद
तमु देवतल्प इत्याहुः प्र देवतल्पमाप्नोति य एवंव्वेद
त्रिवृदेव त्रिणवस्यायतनमेषास्य बन्धुता
आयतनवान् बन्धुमान् भवति य एवंव्वेद
तमु पुष्टिरित्याहुस्त्रिवृद्ध्येवैष पुष्टः
देवता एव त्रयस्त्रिंशस्यायतनं त्रयस्त्रिंशद्देवताः प्रजापतिश्चतुस्त्रिंश एतदेव त्रयस्त्रिंशस्यायतनमेषास्य बन्धुता
आयतनवान् बन्धुमान् भवति य एवंव्वेद
तमु नाक इत्याहुर्न हि प्रजापतिः कस्मै चनाकम्
छन्दांस्येव छन्दोमानामायतनमेषैषां बन्धुता
आयतनवान् बन्धुमान् भवति य एवंव्वेद
तानु पुष्टिरित्याहुः पशवो हि छन्दोमाः
10.2
प्रजापतिः प्रजा असृजत सोऽताम्यत् तस्मै वाज्ज्योतिरुदगृह्णात् सोऽब्रवीत् को मेऽयं ज्योतिरुदगृह्णादिति स्वैव ते वागित्यब्रवीत् तामब्रवीद्विराजं त्वा च्छन्दसां ज्योतिष्कृत्वा यजान्ता इति
तस्माद्यो विराजं स्तोमं संपद्यते तं ज्योतिष्टोमोऽग्निष्टोम इत्याचक्षते विराड्ढि छन्दसां ज्योतिः
ज्योतिः समानानां भवति य एवंव्वेद
अनुष्टुप्च वै सप्तदशश्च समभवतां सानुष्टुप्चतुरुत्तराणि छन्दांस्यसृजत षडुत्तरान् स्तोमान् सप्तदशस्तावेतान्मध्यतः प्राजनयताम्
त्रिवृच्च त्रिणवश्च राथन्तरौ तावजश्चाश्वश्चान्वसृज्येतां तस्मात् तौ राथन्तरं प्राचीनं प्रधूनुतः
पञ्चदशश्चैकविंशश्च बार्हतौ तौ गौश्चाविश्चान्वसृज्येतां तस्मात् तौ बार्हतं प्राचीनं भास्कुरुतः
एवं वै विद्वांसमाहुरपि ग्राम्याणां पशूनां वाच आजानाति
10.3
प्रजापतिरकामयत बहु स्यां प्रजायेयेति स आत्मन्नृत्व्यमपश्यत् तत ऋत्विजोऽसृजत यदृत्व्यादसृजत तदृत्विजामृत्विक्त्वं तैरेतं द्वादशाहमुपासीदत् सोऽराध्नोत्
पिता नोऽरात्सीदिति मासा उपासीदंस्ते दीक्षयैवाराध्नुवन्नुपसत्सु त्रयोदशमदीक्षयन् सोऽ नुव्यमभवत् तस्मादुपसत्सु दिदीक्षाणोऽनुव्यं भवत्येव च हि त्रयोदशं मासं चक्षते नैव च
एको दीक्षेतैको हि प्रजापतिरराध्नोद्द्वादश दीक्षेरन् द्वादश हि मासा अराध्नुवंश्चतुर्विंशतिर्दीक्षेरंश्चतुर्विंशतिर्ह्यर्धमासा अराध्नुवन्
यदि पञ्चदशो दीक्षेतेमे पञ्चेमे पञ्चेमे पञ्चेमे पञ्चेमे चत्वारोऽसावेक इति निर्दिशेयुर्यस्मा अराद्धिकामाः स्युस्तमेवाराद्धिरन्वेति सर्व इतरे राध्नुवन्ति
यो वै देवानां गृहपतिं वेदाश्नुते गार्हपतं प्र गार्हपतमाप्नोति
संवत्सरो वै देवानां गृहपतिः स एव प्रजापतिस्तस्य मासा एव सह दीक्षिणः
विन्दते सह दीक्षिणोऽश्नुते गार्हपत्यं प्र गार्हपत्यं आप्नोति य एवंव्वेद ।
यो वै छन्दसां स्वराजं वेदाश्नुते स्वाराज्यं प्र स्वाराज्यं आप्नोति बृहती वाव छन्दसां स्वराडश्नुते स्वाराज्यं प्र स्वाराज्यं आप्नोति य एवंव्वेद
तामेतामन्नाद्याय व्यावृज्यासते यदेतं द्वादशाहं द्वादश दीक्षा स्वादशोपसदो द्वादश प्रसुतः षट्रिंशदेता रात्रयो भवन्ति षट्त्रिंशदक्षरा बृहती
जायते वाव दीक्षया पुनीत उपसद्भिर्देवलोकमेव सुत्ययाप्येति
एतावद्वाव संवत्सर इन्द्रियं वीर्यं यदेता रात्रयो द्वादश पूऋनमास्यो द्वादशैकष्टका द्वादशामावास्या यावदेव संवत्सर इन्द्रियं वीर्यं तदेतेनाप्त्वावरुन्धे द्वादशाहेन
त्रिंशदक्षरा वा एषा विराड्षडृतव ऋतुष्वेव विराजा प्रतितिष्ठत्यृतुभिर्विराजि
द्वात्रिंशदक्षरा वा एषानुष्टुब्वागनुष्टुप्चतुष्पादः पशवो वाचा पशून् दाधार तस्माद्वाचा सिद्धा वाचाहूता आयन्ति तस्मादु नाम जानते
10.4
भूतं पूर्वोऽतिरात्रो भविष्यदुत्तरः पृथिवी पूर्वोऽतिरात्रो द्यौरुत्तरोऽग्निः पूर्वोऽतिरात्र आदित्य उत्तरः प्राणः पूर्वोऽतिरात्र उदान उत्तरः
चक्षुषी अतिरात्रौ कनीनिके अग्निष्टोमौ यस्मादन्तरा अग्निष्टोमावतिरात्राभ्यां तस्मादन्तरे सत्यौ कनीनिके भुङ्क्तः
संवत्सरस्य वा एतौ दंष्ट्रौ यदतिरात्रौ तयोर्न स्वप्तव्यं संवत्सरस्य दंष्ट्रयोरात्मानं नेदपिदधानीति
तदाहुः कोऽस्वप्तुमर्हति यद्वाव प्राणो +जागार तदेव जागरितमिति
गायत्रीं वा एतां ज्योतिःपक्षामासते यदेतं द्वादशाहमष्टौ मध्य उक्था अग्निष्टोमावभितो मासा स्वर्ग्ं लोकमेत्याजरसं ब्रह्माद्यमन्नमत्ति दीप्यमानः
त्रिष्पुरस्ताद्रथन्तरं उपयन्ति त्र्यावृद्वै वाक्सर्वामेव वाचमवरुध्य सर्वमन्नाद्यं द्वादशाहं तन्वते
जामि वा एतद्यज्ञे क्रियत इत्याहुर्यत् त्रिष्पुरस्ताद्रथन्तरमुपयन्तीति सौभरमुक्थानां ब्रह्मसाम भवति तेनैव तदजामि
प्रत्नवत्यः प्रायणीयस्याह्नः प्रतिपदो भवन्ति तेनो एव तदजामि
त्रिर्वेवोपरिष्टाद्रथन्तरमुपयन्ति त्रावृद्वै वाक्सर्वामेव वाचमवरुध्य सर्वमन्नाद्यं द्वादशाहादुत्तिष्ठन्ति
10.5
त्रयो वा एते त्रिरात्रा यदेष द्वादशाहो गाय्त्रमुखः प्रथमो गायत्रमध्यो द्वितीयो गायत्रोत्तमस्तृतीयः
यस्माद्गायत्रमुखः प्रथमस्तस्मादूर्ध्वोऽग्निर्दीदाय यस्माद्गायत्रमध्यो द्वितीयस्तस्मात् तिर्यङ्वायुः पवते
तेजसा वै गायत्री प्रथमं त्रिरात्रं दाधार पदैर्द्वितीयमक्षरैस्तृतीयं
त्रिवृद्वै गायत्र्यास्तेजस्त्रिवृत्प्रायणीयमहस्तेन प्रथमस्त्रिरात्रो धृतस्त्रिपदा गायत्री त्रिरात्रो मध्ये तेन द्वितीयस्त्रिरात्रो धृतश्चतुर्विंशत्यक्षरा गायत्री चतुर्विंशं सप्तममहस्तेन तृतीयस्त्रिरात्रो धृतः
तेजसा वा एते प्रयन्ति तेजो मध्ये दधति तेजोऽभ्युद्यन्ति ज्योतिषा वा एते प्रयन्ति ज्योतिर्मध्ये दधति ज्योतिरभ्युद्यन्ति चक्षुषा वा एते प्रयन्ति चक्षुर्मध्ये दधति चक्षुरभ्युद्यन्ति प्राणेन वा एते प्रयन्ति प्राणं मध्ये दधति प्राणमभ्युद्यन्ति ये गायत्र्या प्रयन्ति गायत्रीं मध्ये दधति गायत्रिमभ्युद्यन्ति
तन्त्रं वा एतद्वितायते यदेष द्वादशाहस्तस्येतैर्(?) मयूखा यद्गायत्र्यसंव्याथाय
गिरिक्षिदौच्चामन्यवेति होवाचाभिप्रतारी काक्षसेनिः कथं द्वादशाह इति यथारान्नेमिः पर्येत्येवमेनं गायत्री पर्येति अविस्रंसाय यथारा नाभौ धृता एवमस्यां द्वादशाहो धृतः
अनुष्टुभं वा एतामन्नाद्याय व्यावृज्यासते यदेतं द्वादशाहम्
अष्टाभिर्वा अक्षैरनुष्टुप्प्रथमं द्वादशाहस्याहर्दुयच्छत्येकादशभिर्द्वितीयं द्वादशाभिस्तृतीयम्
अक्षरं त्र्यक्षरमुच्छिष्यते तदेवोत्तरं त्रिरात्रमनुविदधाति
छन्दांस्येवास्यास्तृतीयं त्रिरात्रं वहन्ति
तां वा एतां प्रतीचीं तिरश्चीं पराचीमासतेऽन्नाद्याय तस्मात् प्रत्यञ्चं तिर्यञ्चं पराञ्चं प्रजाः पशुमुपजीवन्ति
छन्दांसि वा अन्योऽन्यस्य लोकमभध्यायन् गायत्री त्रिष्टुभस्त्रिष्टुब्जगत्या जगती गायत्र्यास्तानि व्यौहन् यथालोकं ततो वै तानि यंयं काममकामयन्त तमसन्वन्
यत्कामो व्यूढच्छन्दसा द्वदशाहेन यजते सोऽस्मै कामः समृध्यते
ओको वै देवानां द्वादशाहो यथो वै मनुष्या इमं लोकमाविष्टा एवं देवता द्वादशाहमाविष्टा देवता ह वा एतेन यजते य एवंव्विद्वान् द्वादशाहेन यजते
गृहा वै देवानां द्वादशाहो नागृहताया भय्यम्
यो वै द्वादशाहमग्निष्टोमेन कल्पमानं वेद कल्पतेऽस्मै प्रातःसवनेनैव प्रथमस्त्रिरात्रः कल्पते माध्यन्दिनेन द्वितीयस्तृतीयसवनेन तृतीयोऽग्निष्टोमसाम्नैव दशममहः कल्पते
कल्पतेऽस्मै य एवंव्वेद
10.6
एति प्रेत्याशुमद्वीतिमद्रुक्मत् तेजस्वद्युञ्जानं प्रथमस्याह्नो रूपं त्रिवृतः स्तोमस्य गायत्रस्य छन्दसो रथन्तरस्य साम्नः
वृषवद्वृत्रवद्रयिमद्विश्ववदुपस्थितं द्वितीयस्याह्नो रूपं पञ्चदशस्य स्तोमस्य त्रैष्टुभस्य छन्दसो बृहतः साम्नः
उद्वत् त्रिवद्दिग्वत् गोमट्टषभवत् तृतीयस्याह्नो रूपं सप्तदशस्य स्तोमस्य जागतस्य छन्दसो वैरूपस्य साम्नः
राजन्वज्जनवद्वत् सूर्यवद्विराडनुतोदवच्चतुर्थस्याह्नो रूपमेकविंशस्य स्तोमस्यानुष्टुभस्य छन्दसो (?) राजस्य वै साम्नः
चित्रवच्छिशुमत् पङ्क्तिः शक्वरी द्यूनाक्षरा गोमदृषभवद्वज्र्यभिमत् पञ्चमस्याह्नो रूपं त्रिणवस्य स्तोमस्य पाङ्क्तेन छन्दसो शक्वरीणां साम्नः
परिवत् प्रतिवत् सप्तपदा द्विपदा विनाराशंसा गोमदृषभवत् षष्ठस्याह्नो रूपं त्रयस्त्रिंशस्य स्तोमस्य सर्वेषां छन्दसां रूपं (?) रेवतीनां साम्नः
यस्मादेषा समाना सती षडहविभक्तिर्नानारूपा तस्माद्विरूपः संव्वत्सरः
विरूपमेनमनुप्रजायते य एवंव्वेद
10.7
अग्न इति प्रथमस्याह्नो रूपमग्निविभक्तेरग्निमिति द्वितीयस्याग्निनेति तृतीयस्याग्निरिति चतुर्थस्य
देवा वै श्रियमैच्छंस्तान्न प्रथमेऽहन्यविन्दन्न द्वितीये न तृतीये ताञ्चतुर्थेऽहन्यविन्दन् विन्दते श्रियं य एवं वेदाग्नेरिति पञ्चमस्य तेनो श्रीः प्रत्युपोदितेत्याहुः
अप्रतिवाद्येनं भ्रातृव्यो भवति य एवं वेद
अग्न इति षष्ठस्य येनैव रूपेण प्रयन्ति तदभ्युद्यन्ति
यस्मादेषा समाना सत्यग्निव्भक्तिर्नानारूपा तस्माद्यथर्त्वादित्यस्तपति
10.8
इन्द्रेति प्रथमस्याह्नो रूपमिन्द्रविभक्तेरिन्द्रमिति द्वितीयस्येन्द्रेणेति तृतीयस्येन्द्र इति चतुर्थस्येन्द्रादिति पञ्चमस्येन्द्रेति षष्ठस्य येनैव रूपेण प्रयन्ति तदभ्युद्यन्ति यस्मादेषा समाना सतीन्द्रविभक्तिर्नानारूपा तस्माद्यथर्त्वोषधयः पच्यन्ते
10.9
यदृचा प्रस्तौति तत् प्रथमस्याह्नो रूपं स्वरविभक्तेर्यत् पुरस्तात् स्तोभं तद्द्वितीयस्य यदुभयतः स्तोभं तत् तृतीयस्य यदनुतुन्नं तच्चतुर्थस्य यदभ्यारब्धं तत् पञ्चमस्य यदिहकारेणाभ्यस्तं तत् षष्ठस्याह्नो रूपम्
स्वराणां यस्मादेषा समाना सती स्वरविभक्तिर्न्नानारूपा तस्माद्यथर्तु वायुः पवते
10.10
पदनिधनं प्रथमस्याह्नो रूपं निधनविभक्तेर्बहिर्णिधनं द्वितीयस्य निंनिधनं तृतीयस्येनिधनञ्चतुर्थस्याथकारणिधनं पञ्चमस्य यदिहाकारेणाभ्यस्तं तत् षष्ठस्याह्नो रूपं निधनानां यस्मादेषा समाना सती निधनविभक्तिर्न्नानारूपा तस्मादिमे लोकाः सह सन्तो नानैव
10.11
द्रवदिडं प्रथमस्याह्नो रूपमिडाविभक्तेरूर्ध्वेडं द्वितीयस्य परिष्टुब्धेडं तृतीयस्येडाभिरैडं चतुर्थस्याध्यर्धेडं पञ्चमस्य यदिहाकारेणाभ्यस्तं तत् षष्ठस्याह्नो रूपमिडानां यस्मादेषा समाना सतीडाविभक्तिर्न्नानारूपा तस्मात् समानाः सन्तः पशवो नानारूपाः
10.12
भरद्वाजायना वै सत्त्रमासत तानपृच्छन् किं प्रथमेनाह्ना कुरुतेति प्रैवैमेति किं द्वितीयेनेत्यवसमेवाकुर्महीति किं तृतीयेनेति पर्येवाप्लवामहीति किं चतुर्थेनेति सतैव सदप्यदध्मेति किं पञ्चमेनेति प्राणानेव विच्छिन्दन्त ऐमेति किं षष्ठेनेतीदमेवागच्छामेति इति
यस्य पदेन प्रस्तौत्यथ स्वारमभि वाव तेन देवाः पशूनपश्यन् यत् पुरस्तात् स्तोभं अथ स्वारमुदेव तेनासृजनत यदुभयतः स्तोभमथ स्वारमेभ्य एव तेन लोकेभ्यो देवाः पशुभ्योऽन्नाद्यं प्रायच्छन् यदनुतुन्नमथ स्वारमुपैव तेनाशिक्षन् यस्य मध्ये निधनमथ स्वारं गर्भांस्तेनादधत तानि हवतास्वारेण प्राजनयन्
इमं वाव देवा लोकं पदनिधनेनाभ्यजयन्नमुं बहिर्णिधनेनान्तरिक्षं दिङ्निधनेनामृतत्वमीनिधनेनागच्छन् ब्रह्मवर्चसमथनिधनेनावारुन्धतास्मिन्नेव लोक इहनिधनेन प्रत्यतिष्ठन्
इमं वाव देवा लोकं द्रवदिडेनाभ्यजयन्नमुमूर्ध्वेडेनान्तरिक्षं परिष्टुब्धेडेन प्रतिष्ठामिडाभिरैडेनावारुन्धत प्रतिष्ठायाध्यर्धेडेन व्यजयन्तास्मिन्नेव लोक इहेडेन प्रत्यतिष्ठन्
न वाक्संवत्सरमतिवदतीडैव संवत्सरमतिवदति गर्भेण संवत्सरे पर्यावृत्य प्रजायेते तेनातिवदति
ता वा एताश्चतस्रः षडहं पराच्य इडा अतियन्त्येषा नूतैषा विषूच्येषा प्रतीच्येतद्वीडम्
संवत्सरोऽग्निर्वाक्सम्वत्सरो यदग्निर्विभज्यते वाचमेव तद्विभजन्ति
द्वे द्वे अक्षरे विभजन्ति द्वौ द्वौ हि मासावृतुरथो मासानामेव तद्रूपं क्रियते
षडहानि विभजन्ति षडृतव ऋतूनां धृत्या ऋतूनां प्रतिष्ठित्या अथो ऋतूनामेव तद्रूपं क्रियते षडु पुरुषा यानग्निरनुविह्रियते
यदिदं बहुधाग्निर्विह्रियते तदसावादित्यः सर्वाः प्रजाः प्रत्यङ्तस्मादेते देवते विभक्तिमानशाते नातोऽन्या का चन

१०.१.१ प्रथमत्रिवृतः स्तुतिः

अग्निना पृथिव्यौषधिभिस्तेनायं लोकस्त्रिवृद्वायुनान्तरिक्षेण वयोभिस्तेनैष लोकास्त्रिवृद्योऽयं अन्तरादित्येन दिवा नक्षत्रैस्तेनासौ लोकस्त्रिवृदेतदेव त्रिवृत आयतनं एषास्य बन्धुता

१०.१.२ तद्वेदनफलं

आयतनवान्बन्धुमान्भवति य एवंव्वेद

१०.१.३ त्रिवृतः प्रतिष्ठोपपादनं

तं उ प्रतिष्ठेत्याहुस्त्रिवृद्ध्येवैषु लोकेषु प्रतिष्ठितः

१०.१.४ पञ्चदशस्तोमप्रशंसनं

अर्धमास एव पञ्चदशस्यायतनं एषास्य बन्धुता

१०.१.५ तद्वेदनप्रशंसा

आयतनवान्बन्धुमान्भवति य एवंव्वेद

१०.१.६ पञ्चदशस्य ओजोबलरूपत्वं

तं चौजो बलं इत्याहुरर्धमासशो हि प्रजाः पशव ओजो बलं पुष्यन्ति

१०.१.७ सप्तदशस्तोमप्रशंसा

संवत्सर एव सप्तदशस्यायतनं द्वादश मासाः पञ्चदर्तव एतदेव सप्तदशस्यायतनं एषास्य बन्धुता

१०.१.८ तद्वेदनप्रशंसनं

आयतनवान्बन्धुमान्भवति य एवंव्वेद

१०.१.९ सप्तदश प्रजापतिरूपत्वविधानं

तं उ प्रजापतिरित्याहुः संवत्सरं हि प्रजाः पशवोऽनुप्रजायन्ते

१०.१.१० एकविंशस्तोमप्रशंसा

आदित्य एवैकविंसस्यायतनं द्वादश मासाः पञ्चवर्तस्त्रय इमे लोका असावादित्य एकविंश एतदेवैकविंशस्यायतनं एषास्य बन्धुता

१०.१.११ तद्वेदनप्रशंसनं

आयतनवान्बन्धुमान्भवति य एवंव्वेद

१०.१.१२ अस्य देवताल्पत्वविधानं

तं उ देवतल्प इत्याहुः प्र देवतल्पं आप्नोति य एवंव्वेद

१०.१.१३ त्रिणवस्तोमप्रशंसा

त्रिवृदेव त्रिणवस्यायतनं एषास्य बन्धुता

१०.१.१४ तद्वेदनप्रशंसा

आयतनवान्बन्धुमान्भवति य एवंव्वेद

१०.१.१५ त्रिणवस्य पुष्टरूपत्वविधानं

तं उ पुष्टिरित्याहुस्त्रिवृद्ध्येवैष पुष्टः

१०.१.१६ त्रयस्त्रिंशस्तोमप्रशंसनं

देवता एव त्रयस्त्रिंशस्यायतनं त्रयस्त्रिंशद्देवताः प्रजापतिश्चतुस्त्रिंश एतदेव त्रयस्त्रिंशस्यायतनं एषास्य बन्धुता

१०.१.१७ तद्वेदनफलं

आयतनवान्बन्धुमान्भवति य एवंव्वेद

१०.१.१८ अस्य नाकरूपत्वोपपादनं

तं उ नाक इत्याहुर्न हि प्रजापतिः कस्मै चनाकम्

१०.१.१९ छन्दोमन्त्रप्रशंसा

छन्दांस्येव छन्दोमानां आयतनं एषैषां बन्धुता

१०.१.२० तद्वेदनप्रशंसनं

आयतनवान्बन्धुमान्भवति य एवंव्वेद

१०.१.२१ छन्दोमानां पुष्टिरूपत्वेन प्रशंसा

तानु पुष्टिरित्याहुः पशवो हि छन्दोमाः

१०.२.१ अग्निष्टोमस्य ज्योतिष्टोमतामाह

प्रजापतिः प्रजा असृजत सोऽताम्यत्तस्मै वाज्ज्योतिरुदगृह्णाथ्सोऽब्रवीत्को मेऽयं ज्योतिरुदगृह्णादिति स्वैव ते वागित्यब्रवीत्तां अब्रवीद्विराजं त्वा च्छन्दसां ज्योतिष्कृत्वा यजान्ता इति

१०.२.२ अग्निष्टोमस्य ज्योतिष्टोमत्वनिर्व्वचनं

तस्माद्यो विराजं स्तोमं संपद्यते तं ज्योतिष्टोमोऽग्निष्टोम इत्याचक्षते विराड्ढि छन्दसां ज्योतिः

१०.२.३ वेदितुः फलं

ज्योतिः समानानां भवति य एवंव्वेद

१०.२.४ त्रिवृदादिस्तोमानां गायत्र्यादिच्छन्दसाञ्च सृष्टिमाह

अनुष्टुप्च वै सप्तदशश्च समभवतां सानुष्टुप्चतुरुत्तराणि छन्दांस्यसृजत षडुत्तरान्स्तोमान्सप्तदशस्तावेतान्मध्यतः प्राजनयताम्

१०.२.५ स्तोमद्वयस्य पूर्व्वप्रयोज्यत्वं

त्रिवृच्च त्रिणवश्च राथन्तरौ तावजश्चाश्वश्चान्वसृज्येतां तस्मात्तौ राथन्तरं प्राचीनं प्रधूनुतः

१०.२.६ पश्चाद्भाविनोऽहर्व्विशेषस्य दीप्तिकथनं

पञ्चदशश्चैकविंशश्च बार्हतौ तौ गौश्चाविश्चान्वसृज्येतां तस्मात्तौ बार्हतं प्राचीनं भास्कुरुतः

१०.२.७ उक्तसृष्टिं जानंतः फलं

एवं वै विद्वांसं आहुरपि ग्राम्याणां पशूनां वाच आजानाति

१०.३.१ द्वादशाहस्य वृद्धिफलत्वमाह

प्रजापतिरकामयत बहु स्यां प्रजायेयेति स आत्मन्नृत्व्यं अपश्यत्तत ऋत्विजोऽसृजत यदृत्व्यादसृजत तदृत्विजां ऋत्विक्त्वं तैरेतं द्वादशाहं उपासीदत्सोऽराध्नोत्

१०.३.२ द्वादशदीक्षायाः समृद्धिफलत्वं

पिता नोऽरात्सीदिति मासा उपासीदंस्ते दीक्षयैवाराध्नुवन्नुपसत्सु त्रयोदशं अदीक्षयन्सोऽ नुव्यं अभवत्तस्मादुपसत्सु दिदीक्षाणोऽनुव्यं भवत्येव च हि त्रयोदशं मासं चक्षते नैव च

१०.३.३ तत्राधिकारिविशेषकथनं

एको दीक्षेतैको हि प्रजापतिरराध्नोद्द्वादश दीक्षेरन्द्वादश हि मासा अराध्नुवंश्चतुर्विंशतिर्दीक्षेरंश्चतुर्विंशतिर्ह्यर्धमासा अराध्नुवन्

१०.३.४ अधिकस्य दीक्षणं प्रतिषेधति

यदि पञ्चदशो दीक्षेतेमे पञ्चेमे पञ्चेमे पञ्चेमे पञ्चेमे चत्वारोऽसावेक इति निर्दिशेयुर्यस्मा अराद्धिकामाः स्युस्तं एवाराद्धिरन्वेति सर्व इतरे राध्नुवन्ति

१०.३.५ गृहपतित्वादिकामिनः प्राप्त्युपायकथनं

यो वै देवानां गृहपतिं वेदाश्नुते गार्हपतं प्र गार्हपतं आप्नोति

१०.३.६ गृहपतिं दीक्षिणश्च भेदेन दर्शयति

संवत्सरो वै देवानां गृहपतिः स एव प्रजापतिस्तस्य मासा एव सह दीक्षिणः

१०.३.७ एतस्योपसंहारः

विन्दते सह दीक्षिणोऽश्नुते गार्हपत्यं प्र गार्हपत्यं आप्नोति य एवंव्वेद ।

१०.३.८ द्वादशाहतुष्टुवानस्य स्वाराज्यप्राप्तिकथनं ।

यो वै छन्दसां स्वराजं वेदाश्नुते स्वाराज्यं प्र स्वाराज्यं आप्नोति बृहती वाव छन्दसां स्वराडश्नुते स्वाराज्यं प्र स्वाराज्यं आप्नोति य एवंव्वेद

१०.३.९ द्वादशाहप्रशंसनं

तां एतां अन्नाद्याय व्यावृज्यासते यदेतं द्वादशाहं द्वादश दीक्षा स्वादशोपसदो द्वादश प्रसुतः षट्रिंशदेता रात्रयो भवन्ति षट्त्रिंशदक्षरा बृहती

१०.३.१० दीक्षादिकस्य योगेन प्रशंसा

जायते वाव दीक्षया पुनीत उपसद्भिर्देवलोकं एव सुत्ययाप्येति

१०.३.११ अनेन इन्द्रियवीर्य्यप्राप्तिः

एतावद्वाव संवत्सर इन्द्रियं वीर्यं यदेता रात्रयो द्वादश पूऋनमास्यो द्वादशैकष्टका द्वादशामावास्या यावदेव संवत्सर इन्द्रियं वीर्यं तदेतेनाप्त्वावरुन्धे द्वादशाहेन

१०.३.१२ द्वादशाहस्य विराटसम्पत्तिः

त्रिंशदक्षरा वा एषा विराड्षडृतव ऋतुष्वेव विराजा प्रतितिष्ठत्यृतुभिर्विराजि

१०.३.१३ षट्त्रिंशत्संख्यास्तुतिः

द्वात्रिंशदक्षरा वा एषानुष्टुब्वागनुष्टुप्चतुष्पादः पशवो वाचा पशून्दाधार तस्माद्वाचा सिद्धा वाचाहूता आयन्ति तस्मादु नाम जानते

१०.४.१ द्वादशाहस्याद्यन्तयोरतिरात्रयोर्व्विधानं

भूतं पूर्वोऽतिरात्रो भविष्यदुत्तरः पृथिवी पूर्वोऽतिरात्रो द्यौरुत्तरोऽग्निः पूर्वोऽतिरात्र आदित्य उत्तरः प्राणः पूर्वोऽतिरात्र उदान उत्तरः

१०.४.२ तत्र द्वे अहनी विदधाति

चक्षुषी अतिरात्रौ कनीनिके अग्निष्टोमौ यस्मादन्तरा अग्निष्टोमावतिरात्राभ्यां तस्मादन्तरे सत्यौ कनीनिके भुङ्क्तः

१०.४.३ तत्र शयनं न कार्य्यमिति विधानं

संवत्सरस्य वा एतौ दंष्ट्रौ यदतिरात्रौ तयोर्न स्वप्तव्यं संवत्सरस्य दंष्ट्रयोरात्मानं नेदपिदधानीति

१०.४.४ पक्षान्तरकथनं

तदाहुः कोऽस्वप्तुं अर्हति यद्वाव प्राणो +जागार तदेव जागरितं इति

१०.४.५ अष्टाहःकर्त्तव्यताविधानं

गायत्रीं वा एतां ज्योतिःपक्षां आसते यदेतं द्वादशाहं अष्टौ मध्य उक्था अग्निष्टोमावभितो मासा स्वर्गं लोकं एत्याजरसं ब्रह्माद्यं अन्नं अत्ति दीप्यमानः

१०.४.६ विकल्पेन रथन्तरकर्त्तव्यताविधानं

त्रिष्पुरस्ताद्रथन्तरं उपयन्ति त्र्यावृद्वै वाक्सर्वां एव वाचं अवरुध्य सर्वं अन्नाद्यं द्वादशाहं तन्वते

१०.४.७ जामितादिदोषपरिहारः

जामि वा एतद्यज्ञे क्रियत इत्याहुर्यत्त्रिष्पुरस्ताद्रथन्तरं उपयन्तीति सौभरं उक्थानां ब्रह्मसाम भवति तेनैव तदजामि

१०.४.८ कथमजामित्वमित्याह

प्रत्नवत्यः प्रायणीयस्याह्नः प्रतिपदो भवन्ति तेनो एव तदजामि

१०.४.९ रथन्तरस्य त्रिरूपायनविधानं

त्रिर्वेवोपरिष्टाद्रथन्तरं उपयन्ति त्रावृद्वै वाक्सर्वां एव वाचं अवरुध्य सर्वं अन्नाद्यं द्वादशाहादुत्तिष्ठन्ति

१०.५.१ नवरात्रस्य त्रेधाविभागः

त्रयो वा एते त्रिरात्रा यदेष द्वादशाहो गायत्रमुखः प्रथमो गायत्रमध्यो द्वितीयो गायत्रोत्तमस्तृतीयः

१०.५.२ ततः किमित्यत आह

यस्माद्गायत्रमुखः प्रथमस्तस्मादूर्ध्वोऽग्निर्दीदाय यस्माद्गायत्रमध्यो द्वितीयस्तस्मात्तिर्यङ्वायुः पवते तस्माद्गायत्रोत्तमस्तृतीयस्तस्मादर्वाङादित्यस्तपति

१०.५.३ त्रिरात्राणां गायत्रीसम्बन्धः

तेजसा वै गायत्री प्रथमं त्रिरात्रं दाधार पदैर्द्वितीयमक्षरैस्तृतीयं

१०.५.४ तस्यास्तेजआदिकथनं

त्रिवृद्वै गायत्र्यास्तेजस्त्रिवृत्प्रायणीयमहस्तेन प्रथमस्त्रिरात्रो धृतस्त्रिपदा गायत्री त्रिरोत्रो मध्ये तेन द्वितीयस्त्रिरात्रो धृतश्चतुर्विंशत्यक्षरा गायत्री चतुर्विंशं सप्तममहस्तेन तृतीयस्त्रिरात्रो धृतः

१०.५.५ गायत्र्यास्त्रिरात्रत्रयव्याप्तिः

तेजसा वा एते प्रयन्ति तेजो मध्ये दधति तेजोऽभ्युद्यन्ति ज्योतिषा वा एते प्रयन्ति ज्योतिर्मध्ये दधति ज्योतिरभ्युद्यन्ति चक्षुषा वा एते प्रयन्ति चक्षुर्मध्ये दधति चक्षुरभ्युद्यन्ति प्राणेन वा एते प्रयन्ति प्राणं मध्ये दधति प्राणं अभ्युद्यन्ति ये गायत्र्या प्रयन्ति गायत्रीं मध्ये दधति गायत्रिं अभ्युद्यन्ति

१०.५.६ द्वादशाहस्य वस्त्रात्मकत्वेन तत्शङ्कुरूपगायत्रीस्तुतिः

तन्त्रं वा एतद्वितायते यदेष द्वादशाहस्तस्येतैर्(?) मयूखा यद्गायत्र्यसंव्याथाय

१०.५.७ द्वादशाहोगायत्र्यां प्रतिष्ठित इति प्रदर्शनं ।

गिरिक्षिदौच्चामन्यवेति होवाचाभिप्रतारी काक्षसेनिः कथं द्वादशाह इति यथारान्नेमिः पर्येत्येवं एनं गायत्री पर्येति अविस्रंसाय यथारा नाभौ धृता एवं अस्यां द्वादशाहो धृतः

१०.५.८ तस्यानुष्टुप् रूपत्वेन स्तुतिः

अनुष्टुभं वा एतां अन्नाद्याय व्यावृज्यासते यदेतं द्वादशाहम्

१०.५.९ द्वादशाहविभागकथनं

अष्टाभिर्वा अक्षैरनुष्टुप्प्रथमं द्वादशाहस्याहर्दुयच्छत्येकादशभिर्द्वितीयं द्वादशाभिस्तृतीयम्

१०.५.१० अक्षराणामहर्व्याप्तिः

अक्षरं त्र्यक्षरं उच्छिष्यते तदेवोत्तरं त्रिरात्रं अनुविदधाति

१०.५.११ तृतीयस्यानुष्टुभा व्याप्तिः

छन्दांस्येवास्यास्तृतीयं त्रिरात्रं वहन्ति

१०.५.१२ प्रतित्रिरात्रव्याप्तिवैलक्षण्यं

तां वा एतां प्रतीचीं तिरश्चीं पराचीं आसतेऽन्नाद्याय तस्मात्प्रत्यञ्चं तिर्यञ्चं पराञ्चं प्रजाः पशुं उपजीवन्ति

१०.५.१३ छन्दसां व्यूहनप्रकारः

छन्दांसि वा अन्योऽन्यस्य लोकं अभध्यायन्गायत्री त्रिष्टुभस्त्रिष्टुब्जगत्या जगती गायत्र्यास्तानि व्यौहन्यथालोकं ततो वै तानि यं-यं कामं अकामयन्त तं असन्वन्

१०.५.१४ व्यूहनान्तरं दर्शयति

यत्कामो व्यूढच्छन्दसा द्वदशाहेन यजते सोऽस्मै कामः समृध्यते

१०.५.१५ द्वादशाहस्य देवानां स्थानत्वं

ओको वै देवानां द्वादशाहो यथो वै मनुष्या इमं लोकं आविष्टा एवं देवता द्वादशाहं आविष्टा देवता ह वा एतेन यजते य एवंव्विद्वान्द्वादशाहेन यजते

१०.५.१६ तस्य गृहत्वेन प्रशंसा

गृहा वै देवानां द्वादशाहो नागृहताया भय्यम्

१०.५.१७ तद्वेदितुः फलं

यो वै द्वादशाहं अग्निष्टोमेन कल्पमानं वेद कल्पतेऽस्मै प्रातःसवनेनैव प्रथमस्त्रिरात्रः कल्पते माध्यन्दिनेन द्वितीयस्तृतीयसवनेन तृतीयोऽग्निष्टोमसाम्नैव दशमं अहः कल्पते

१०.५.१८ उक्तार्थवेदितुः फलं

कल्पतेऽस्मै य एवंव्वेद

१०.६.१ प्रथमस्याह्नस्तदीयस्तोमादेश्च रूपप्रदर्शनं

एति प्रेत्याशुमद्वीतिमद्रुक्मत्तेजस्वद्युञ्जानं प्रथमस्याह्नो रूपं त्रिवृतः स्तोमस्य गायत्रस्य छन्दसो रथन्तरस्य साम्नः

१०.६.२ द्वितीयस्याह्नः स्तोमादेश्च रूपविधानं

वृषवद्वृत्रवद्रयिमद्विश्ववदुपस्थितं द्वितीयस्याह्नो रूपं पञ्चदशस्य स्तोमस्य त्रैष्टुभस्य छन्दसो बृहतः साम्नः

१०.६.३ तृतीयस्याह्नः स्तोमादेश्च रूपविधानं

उद्वत्त्रिवद्दिग्वत्गोमट्टषभवत्तृतीयस्याह्नो रूपं सप्तदशस्य स्तोमस्य जागतस्य छन्दसो वैरूपस्य साम्नः

१०.६.४ चतुर्थस्याह्नः स्तोमादेश्च रूपविधानं

राजन्वज्जनवद्वत्सूर्यवद्विराडनुतोदवच्चतुर्थस्याह्नो रूपं एकविंशस्य स्तोमस्यानुष्टुभस्य छन्दसो (?) राजस्य वै साम्नः

१०.६.५ पञ्चमस्याह्नः स्तोमादेश्च रूपप्रदर्शनं

चित्रवच्छिशुमत्पङ्क्तिः शक्वरी द्यूनाक्षरा गोमदृषभवद्वज्र्यभिमत्पञ्चमस्याह्नो रूपं त्रिणवस्य स्तोमस्य पाङ्क्तेन छन्दसो शक्वरीणां साम्नः

१०.६.६ षष्ठस्याह्नः स्तोमादेश्च रूपप्रदर्शनं

परिवत्प्रतिवत्सप्तपदा द्विपदा विनाराशंसा गोमदृषभवत्षष्ठस्याह्नो रूपं त्रयस्त्रिंशस्य स्तोमस्य सर्वेषां छन्दसां रूपं (?) रेवतीनां साम्नः

१०.६.७ तेषां रूपाणां नानात्वप्रदर्शनं

यस्मादेषा समाना सती षडहविभक्तिर्नानारूपा तस्माद्विरूपः संव्वत्सरः

१०.६.८ तस्य प्रशंसनं

विरूपं एनं अनुप्रजायते य एवंव्वेद

१०.७.१ षष्ठे षडहे अग्निविभक्तिवैचित्र्यं

अग्न इति प्रथमस्याह्नो रूपं अग्निविभक्तेरग्निं इति द्वितीयस्याग्निनेति तृतीयस्याग्निरिति चतुर्थस्य

१०.७.२ पञ्चमस्याह्नोऽग्निविभक्तिः

देवा वै श्रियं ऐच्छंस्तान्न प्रथमेऽहन्यविन्दन्न द्वितीये न तृतीये ताञ्चतुर्थेऽहन्यविन्दन्विन्दते श्रियं य एवं वेदाग्नेरिति पञ्चमस्य तेनो श्रीः प्रत्युपोदितेत्याहुः

१०.७.३ तद्वेदितुः फलं

अप्रतिवाद्येनं भ्रातृव्यो भवति य एवं वेद

१०.७.४ सम्बोधनान्तं षष्ठस्याह्नोरूपं

अग्न इति षष्ठस्य येनैव रूपेण प्रयन्ति तदभ्युद्यन्ति

१०.७.५ विभक्तिनानात्वप्रशंसा

यस्मादेषा समाना सत्यग्निव्भक्तिर्नानारूपा तस्माद्यथर्त्वादित्यस्तपति

१०.८.१ विभक्तेर्नानात्वं प्रदर्श्य स्तौति

इन्द्रेति प्रथमस्याह्नो रूपं इन्द्रविभक्तेरिन्द्रं इति द्वितीयस्येन्द्रेणेति तृतीयस्येन्द्र इति चतुर्थस्येन्द्रादिति पञ्चमस्येन्द्रेति षष्ठस्य येनैव रूपेण प्रयन्ति तदभ्युद्यन्ति यस्मादेषा समाना सतीन्द्रविभक्तिर्नानारूपा तस्माद्यथर्त्वोषधयः पच्यन्ते

१०.९.१ षडहस्य स्वराश्रयाणि रूपाणि

यदृचा प्रस्तौति तत्प्रथमस्याह्नो रूपं स्वरविभक्तेर्यत्पुरस्तात्स्तोभं तद्द्वितीयस्य यदुभयतः स्तोभं तत्तृतीयस्य यदनुतुन्नं तच्चतुर्थस्य यदभ्यारब्धं तत्पञ्चमस्य यदिहकारेणाभ्यस्तं तत्षष्ठस्याह्नो रूपम्

१०.९.२ स्वरविभक्तेर्नानात्वप्रशंसा

स्वराणां यस्मादेषा समाना सती स्वरविभक्तिर्न्नानारूपा तस्माद्यथर्तु वायुः पवते

१०.१०.१ निधनविभक्तेर्नानात्वप्रदर्शनेन स्तुतिः

पदनिधनं प्रथमस्याह्नो रूपं निधनविभक्तेर्बहिर्णिधनं द्वितीयस्य निंनिधनं तृतीयस्येनिधनञ्चतुर्थस्याथकारणिधनं पञ्चमस्य यदिहाकारेणाभ्यस्तं तत्षष्ठस्याह्नो रूपं निधनानां यस्मादेषा समाना सती निधनविभक्तिर्न्नानारूपा तस्मादिमे लोकाः सह सन्तो नानैव

१०.११.१ इडाविभक्तेर्नानात्वप्रदर्शनेन स्तुतिः

द्रवदिडं प्रथमस्याह्नो रूपं इडाविभक्तेरूर्ध्वेडं द्वितीयस्य परिष्टुब्धेडं तृतीयस्येडाभिरैडं चतुर्थस्याध्यर्धेडं पञ्चमस्य यदिहाकारेणाभ्यस्तं तत्षष्ठस्याह्नो रूपं इडानां यस्मादेषा समाना सतीडाविभक्तिर्न्नानारूपा तस्मात्समानाः सन्तः पशवो नानारूपाः

१०.१२.१ अस्य षडहस्य विशिष्टफलहेतुताप्रदर्शनं

भरद्वाजायना वै सत्त्रं आसत तानपृच्छन्किं प्रथमेनाह्ना कुरुतेति प्रैवैमेति किं द्वितीयेनेत्यवसं एवाकुर्महीति किं तृतीयेनेति पर्येवाप्लवामहीति किं चतुर्थेनेति सतैव सदप्यदध्मेति किं पञ्चमेनेति प्राणानेव विच्छिन्दन्त ऐमेति किं षष्ठेनेतीदं एवागच्छामेति इति

१०.१२.२ पूर्व्वप्रदर्शितविभक्तेः स्तुतिः

यस्य पदेन प्रस्तौत्यथ स्वारं अभि वाव तेन देवाः पशूनपश्यन्यत्पुरस्तात्स्तोभं अथ स्वारं उदेव तेनासृजनत यदुभयतः स्तोभं अथ स्वारं एभ्य एव तेन लोकेभ्यो देवाः पशुभ्योऽन्नाद्यं प्रायच्छन्यदनुतुन्नं अथ स्वारं उपैव तेनाशिक्षन्यस्य मध्ये निधनं अथ स्वारं गर्भांस्तेनादधत तानि हवतास्वारेण प्राजनयन्

१०.१२.३ निधनविभक्तीनां अवयुज्य स्तोत्रं

इमं वाव देवा लोकं पदनिधनेनाभ्यजयन्नमुं बहिर्णिधनेनान्तरिक्षं दिङ्निधनेनामृतत्वं ईनिधनेनागच्छन्ब्रह्मवर्चसं अथनिधनेनावारुन्धतास्मिन्नेव लोक इहनिधनेन प्रत्यतिष्ठन्

१०.१२.४ इडाविभक्त्यनुवादेन स्तुतिः

इमं वाव देवा लोकं द्रवदिडेनाभ्यजयन्नमुं ऊर्ध्वेडेनान्तरिक्षं परिष्टुब्धेडेन प्रतिष्ठां इडाभिरैडेनावारुन्धत प्रतिष्ठायाध्यर्धेडेन व्यजयन्तास्मिन्नेव लोक इहेडेन प्रत्यतिष्ठन्

१०.१२.५ इडानिधनस्यातिशयत्वप्रदर्शनं

न वाक्संवत्सरं अतिवदतीडैव संवत्सरं अतिवदति गर्भेण संवत्सरे पर्यावृत्य प्रजायेते तेनातिवदति

१०.१२.६ ततः किमिति तत्र कथयति

ता वा एताश्चतस्रः षडहं पराच्य इडा अतियन्त्येषा नूतैषा विषूच्येषा प्रतीच्येतद्वीडम्

१०.१२.७ सम्पत्त्या वाङ्निधननिबन्धनाशीः कथनं

संवत्सरोऽग्निर्वाक्सम्वत्सरो यदग्निर्विभज्यते वाचं एव तद्विभजन्ति

१०.१२.८ अग्निशब्दगतसंख्यानुवादेन प्रशंसा

द्वे द्वे अक्षरे विभजन्ति द्वौ द्वौ हि मासावृतुरथो मासानां एव तद्रूपं क्रियते

१०.१२.९ षडहविभक्त्यनुवादेन स्तुतिः

षडहानि विभजन्ति षडृतव ऋतूनां धृत्या ऋतूनां प्रतिष्ठित्या अथो ऋतूनां एव तद्रूपं क्रियते षडु पुरुषा यानग्निरनुविह्रियते

१०.१२.१० अन्यासां देवतानां विभक्तिं कथं नोक्ता इत्याह

यदिदं बहुधाग्निर्विह्रियते तदसावादित्यः सर्वाः प्रजाः प्रत्यङ्तस्मादेते देवते विभक्तिं आनशाते नातोऽन्या का चन