पञ्चविंशब्राह्मणम्/अध्यायः १६
- अग्निष्टोम विकृतयः
16.1
प्रजापतिर्वा इदमेक आसीन्नाहरासीन्न रात्रिरासीत् सोऽस्मिन्नन्धे तमसि प्रासर्पत् स ऐच्छत् स एतमभ्यपद्यत ततो वै तस्मै व्यौच्छद्व्युष्टिर्वा एष आह्रियते यद्वै तज्ज्योतिरभवत् तत् ज्योतिषो ज्योतिष्ट्वम्
एष वाव प्रथमो यज्ञानां य एतेनानिष्ट्वाथान्येन यजते कर्त्तपत्यमेव तज्जीयते प्र वा मीयते
यथा वा इदमग्नेर्जातादग्नयो विह्रियन्त एवमेतस्मादध्यन्ये यज्ञा विह्रियन्ते
यो हि त्रिवृदन्यं यज्ञक्रतुमापद्यते स तं दीपयति यः पञ्चदशः स तं यः सप्तदशः स तं य एकविंशः स तम्
एतत् तद्यदाहुरेको यज्ञ इत्येतद्धि सर्वे ज्योतिष्टोमा भवन्ति
अस्थूरिर्वा एष सन्ततो यज्ञो द्वौ द्वौ हि स्तोमौ सवनं वहतस्त्रिवृत् पञ्चदशौ प्रातःसवनं पञ्चदशसप्तदशौ माध्यन्दिनं सवनं सप्तदशैकविंशौ तृतीयसवनम्
या मितदक्षिणैव स्यादेष एव कार्य इयं वै ज्योतिरियममितस्य यन्त्रिकैषा वा एतं यन्तुमर्हति
तस्य नवतिशतं स्तोत्रीयास्तासां या अशीतिशतं ताः षट्त्रिंशिन्यो विराजः षडृतव ऋतुष्वेव विराजा प्रतितिष्ठति
अथ या दशैषा वा आत्मन्या विराडेतस्यां वा इदं पुरुषः प्रतिष्ठितः
गौश्चाश्वश्चाश्वतरश्च गर्दभश्चाजाश्चावयश्च व्रीहयश्च यवाश्च तिलाश्च माषाश्चैतस्यामेव विराजि प्रतितिष्ठति
तस्य द्वादशं शतं दक्षिणाः
वीरहा वा एष देवानां यः सोममभिषुणोति याः शतं वैरं तद्देवानवदयतेऽथ या दश दश प्राणाः प्राणांस्ताभिः स्पृणोति यैकादश्यात्मानं तया या द्वादशी सैव दक्षिणा
श्लेष्म वा एतद्यज्ञस्य यद्दक्षिणा न वा अश्लेष्मा रथो वहत्यथ श्लेष्मवता यं कामं कामयते तमभ्यश्नुत एवमेतेन दक्षिणावता यं कामं कामयते तमभ्यश्नुते
शुभो वा एता यज्ञस्य यद्दक्षिणा यद्दक्षिणावता यजते शुभमेवास्मिन् दधाति
16.2
अथैष गौः
गवा वै देवा असुरानेभ्यो लोकेभ्योऽनुदन्तैभ्यो लोकेभ्यो भ्रातृव्यं नुदते य एवं वेद
यद्वै तद्देवा असुरानेभ्यो लोकेभ्यो गोवयंस्तद्गोर्गोत्वम्
गोवयति पाप्मानं भ्रातृव्यं य एवं वेद
तस्य पञ्चदशं बहिष्पवमानं वज्रो वै पञ्चदशो वज्रमेव तत् पुरस्तान्निदधाति तेन विजयते
पशुस्तोमो वा एष एवमिव वै पशुः समाहितः शिरः स्थवीयोऽणीयस्यो ग्रीवा पार्श्वाभ्यां वरीयांसक्थिभ्यां वरिष्ठः
यत् पञ्चदशं बहिष्पवमानं भवति त्रिवृन्त्याज्यानि सप्तदश माध्यन्दिनं सवनमेकविंशं तृतीयसवनं रूपेणैवैनं तत् समर्धयति
एका संस्तुतानां विराजमतिरिच्यते तस्मात् पशोः पश्चादतिरिक्तम्
16.3
अथैष आयुः
आयुषा वै देवा असुरानायुवतायुते भ्रातृव्यं य एवं वेद
स्वर्गकामो यजेत
ऊर्ध्वाः स्तोमा यन्त्यनपभ्रंशाय
एतेनैवामयाविनं याजयेदतिरात्रः कार्यः
स गायत्रीं संपद्यते प्राणो गायत्र्यायुरेष आयुश्चैवास्मिन् प्राणं चोभे समीची दधाति
स्वर्ग्या वा एते स्तोमा यत् ज्योतिर्भवति ज्योतिरेवास्मै स पुरस्ताद्धरत्यथैष गौरेकया विराजमतिरिक्त आरम्भणमेव तदथैष आयुरेकस्या विराज ऊन आसाद एव सोऽथो ऊनातिरिक्तौ स्तोमौ मिथुनौ प्रजात्यै
एते वै त्रिकद्रुकाः स्तोमा एतैर्वा इन्द्रः सर्वां तृप्तिमतृप्यत्
तृप्यति प्रजया पशुभिर्य एवं वेद
16.4
प्रजापतिः प्रजा असृजत ता अस्मै श्रैष्ठ्याय नातिष्ठन्त स आसां दिशां प्रजानां च रसं प्रवृह्य स्रजं कृत्वा प्रत्यमुञ्चत ततोऽस्मै प्रजाः श्रैष्ठ्यायातिष्ठन्त
तिष्ठन्तेऽस्मै समानाः श्रैष्ठ्याय य एवं वेद
सोऽकामयतेन्द्रो मे प्रजायां श्रेष्ठः स्यादिति तामस्मै स्रजं प्रत्यमुञ्चत् ततो वा इन्द्राय प्रजाः श्रैष्ठ्यायातिष्ठन्त तच्छिल्पं पश्यन्त्यो यत् पितर्यपश्यन्
तस्माद्यः पुत्राणां दायं धनतममिवोपैति तं मन्यन्तेऽयमेवेदं भविष्यतीति
ततो वा इदमिन्द्रो विश्वमजयद्यद्विश्वमजयत् तस्माद्विश्वजित्
सोऽकामयत यन्मेऽनभिजितं तदभिजयेयमिति स एतमभिजितमपश्यत् तेनानभिजितमभ्यजयत्
यदभिजिद्भवत्यनाभिजितस्याभिजित्यै
तौ वा एताविन्द्रस्तोमौ वीर्यवन्तौ शिल्पं वा एतौ नाम स्तोमावास्ताम्
पश्यते गृहे शिल्पं य एवं वेद
न वै यमौ नाम स्तोमौ स्तो यो यमाभ्यां यजेतैताभ्यां यजेत समृध्यै
पुनरभ्यावर्तं स्तोमा भवन्ति पुनरभ्यावर्तं ह्येताभ्यामिन्द्रोऽजितमजयत्
त्रींस्त्रिवृदभिजितः प्रणयति त्रीन् पञ्चदशः त्रीन् सप्तदशः त्रीनेकविंशस्ते द्वादश संपद्यन्ते द्वादश मासाः संवत्सरः प्रजापतिः प्रजापतिमेवाप्नोति
चतुरस्त्रिवृद्विश्वजितः प्रणयति चतुरः पञ्चदशश्चतुरः सप्तदशस्ते द्वादश संपद्यन्ते द्वादश मासाः संवत्सरः संवत्सरः प्रजापतिः प्रजापतिमेवाप्नोति
16.5
उप त्वा जामयो गिर"इत्युपवती प्रतिपद्भवति स्तोमस्य रूपम्
प्राणैर्वा एष व्यृध्यत इत्याहुर्यः सर्वं ददाति सर्वान् स्तोमान् सर्वाणि पृष्ठान्युपैतीति यद्वायव्या भवति प्राणानां समृध्यै
सरस्वतश्च सरस्वत्याश्चोत्तरे भवतः
मिथुनं वा एतद्यत् सरस्वांश्च सरस्वती च मिथुनमेवास्य यज्ञमुखे दधाति प्रजननाय
सावित्री चतुर्थी भवति
दुष्करं वा एष करोति यः सर्वं ददाति यत् सावित्री भवति सवितृप्रसृतं मे कर्मासदिति सवितृप्रसूतमेवास्य कर्म भवति
ब्राह्मणस्पत्या पञ्चमी भवति
ब्रह्म वै ब्रह्मणस्पतिर्ब्रह्मैवास्य यज्ञमुखे दधाति
आग्निपावमानी षष्ठी भवति
अग्निरेवैनं निष्टपति पवमानः पुनाति पूतमेवैनं यज्ञियं पृष्ठान्युपनयति
यन्ति वा एते पथ इत्याहुर्ये संभार्याः कुर्वते
पावमान उत्तमस्तृचो भवति तेन पथो नयन्ति
स तु वै पृष्ठैः स्तुवीतेत्याहुर्य एतानि बहिष्पवमाने युञ्ज्यादिति
उपवती प्रतिपद्भवत्युप वै रथन्तरं रथन्तरमेवास्मै तया युनक्ति
सरस्वती द्वितीया भवति स्वर्गो लोकः सरस्वान् स्वर्गो लोको बृहद्बृहदेवास्मै तया युनक्ति
सरस्वत्यास्तृतीया भवति वाग्वै सरस्वती वाग्वैरूपं वैरूपमेवास्मै तया युनक्ति
सावित्री चतुर्थी भवति प्रजापतिर्वै सविता प्रजापतिर्वैराजं वैराजमेवास्मै तया युनक्ति
ब्राह्मणस्पत्या पञ्चमी भवति ब्रह्म वै ब्रह्मणस्पतिर्ब्रह्म शक्वर्यः शक्वरीरेवास्मै तया युनक्ति
आग्निपावमानी षष्ठी भवति गायत्री वै रेवती गायत्रच्छन्दा अग्नी रेवतीरेवास्मै तया युनक्ति
न चत्वारि षड्भ्यो विभवन्ति यदनिरुक्तानि तेन विभवन्ति
सर्वाणि स्वाराण्याज्यानि तज्जामि नानादेवत्यैः स्तुवन्त्यजामितायै
सुषमिद्धो न आवह"इत्याप्रिय आज्यानि भवन्ति
प्रजापतिः प्रजा असृजत स दुग्धो रिरिचानोऽमन्यत स एतान्याप्रिय आज्यान्यपश्यत् तैरात्मानम् [थुस्Bई॑ Kष्षात्मनम्] आप्रीणाद्दुग्ध इव वा एष रिरिचानो यः सर्वं ददाति यदाप्रिय आज्यानि भवन्त्यात्मानमेवैतैराप्रीणाति
एतर्हि तु वै पृष्ठानि यथायतनं कल्पन्त इत्याहुर्यद्रथन्तरं प्रथमं बृहदुत्तमं मध्य इतराणीति
जामि वा एतद्यज्ञे क्रियत इत्याहुर्यत् सर्वाणि निधनवन्ति सह क्रियन्त इति यदन्तरा सोमा यन्त्यन्तरोक्थानि शस्यन्तेऽन्तरा वषट्कुर्वन्ति तेनाजामि
व्यत्यासमिडाश्च निधनानि चाहुस्तेनाजामि
च्यवन्ते वा एतद्रेवत्यः स्वादायतनादित्याहुर्यत् त्रयस्त्रिंशात् स्तोमाद्यन्तीति यद्गायत्र्यो भवन्ति तेनायतनान्न च्यवन्ते या हि का च गायत्री सा रेवती
16.6
पशुभिर्वा एष व्यृध्यत इत्याहुर्यः सर्वं ददाति तच्छवीं परिधत्ते पशुभिरेव समृध्यते
रोहिणी छवी भवत्येतद्वै पशूनां भूयिष्ठं रूपं यद्रोहितं साक्षादेवैनानवरुन्धे
अरण्ये तिस्रो वसत्यारण्यं ताभिरन्नाद्यमवरुन्धे
उदुम्बरे वसत्यूर्गुदुम्बर ऊर्जमेवावरुन्धे
खनित्रेण जीवत्यवृत्तिमपजयति
उभयतःक्ष्णुदभ्रिर्भवत्युभयत एवास्मा अन्नाद्यं रदत्यस्माच्च लोकादमुष्माच्च
निषादेषु तिस्रो वसत्यस्यां वा एते परीत्ता यदेवास्यामन्नाद्यं तदवरुन्धे
जने तिस्रो वसति जन्यं ताभिरन्नाद्यमवरुन्धे
समानजने तिस्रः समानजन्यं ताभिः
द्वादशैता रात्रयो भवन्ति द्वादशमासाः संवत्सरः संवत्सरमन्वन्नाद्यं प्रजायते तदेवाप्त्वावरुन्धे
संवत्सरं न याचेदामाद्यमिव वा एतद्यः सद्योदत्तं प्रत्यत्ति सद्यो वै देवानां संवत्सरः
नोदीयमानं प्रति नुदेन्नाद्यस्याप्रतिनोदाय
उष्णीषं बिभर्ति शिल्पत्वाय
न मृन्मयेन पिबेदाहुतिर्वा एषा यद्ब्राह्मणस्य मुखं न वै मृन्मयमाहुतिमानशेऽथ यदमृन्मयपो भवति स्व एव मुख आहुतिं जुहोति
16.7
पञ्चविंशोऽग्निष्टोमः
सर्वजिता वै देवाः सर्वमजयन् सर्वस्याप्त्यै सर्वस्य जित्यै सर्वमेवैतेनाप्नोति सर्वं जयति
तस्य महाव्रतं पृष्ठम्
अर्क्यं शस्यते
चतुर्विंशतिः संवत्सरस्यार्धमासाः संवत्सरः पञ्चविंशोऽन्नं व्रतं संवत्सरादेतेनान्नाद्यमवरुन्धे
अन्नादो भवति य एवं वेद
एतेन वै गौराङ्गिरसः सर्वं पाप्मानमतरत् सर्वं पाप्मानं तरत्येतेन स्तोमेन तुष्टुवानः
16.8
अथैष ज्योतिः
पराङ्वै त्रिरात्रोऽर्वाङग्निष्टोमो यस्त्रिरात्रे विभ्रंशते न तस्मिन् पुनरस्त्यथ योऽग्निष्टोमे प्रायश्चित्तिमत् तदपि ह्येतेनैकविंशतिदक्षिणेन पुनर्यजेत यस्मिन् ह्येव यज्ञक्रतौ विभ्रंशते सैव तस्य प्रायश्चित्तिः
उपसदि सहस्रं प्रातरनुवाकमन्वाह तदसौ लोकः सहस्रं दक्षिणास्तदन्तरिक्षं सहस्रमेतान्यक्षराणि तदयं लोक एषु लोकेषु प्रतितिष्ठति य एवं वेद
ऋक्स्था वा अन्यत् सहस्रमित्याहुरक्षरेस्था अन्यदिति यत् त्रिरात्रे दीयते तदृक्स्था। अथ यदग्निष्टोमे तदक्षरेस्था
यत् सहस्राक्षरासु ब्रह्मसाम भवति सहस्रस्यैव सा प्रतिष्टुतिः
यावद्वै सहस्रं गाव उत्तराधरा इत्याहुस्तावदस्मात् लोकात् स्वर्गो लोक इति तस्मादाहुः सहस्रयाजी वा इमान् लोकान् प्राप्नोति
पशुभिर्वा एष व्यृध्यत इत्याहुर्यः सद्यः सहस्रं ददातीति पङ्क्तिषु ब्रह्मसाम भवति पाङ्क्तो यज्ञः पाङ्क्ताः पशवो यज्ञ एव पशुषु प्रतितिष्ठति
त्रिवृतं स्तोमं संपद्यते विराजं छन्दः
प्राणो वै त्रिवृदन्नं विराट्न वै प्राण ऋतेऽन्नात् पारयति नान्नमृते प्राणात् प्राणेषु चैवान्नाद्ये च प्रतितिष्ठति
16.9
अथैष सर्वज्योतिः सर्वस्याप्तिः सर्वस्य जितिः सर्वमेवैतेनाप्नोति सर्वं जयति
परमो वा एष यज्ञः परमं सहस्रं परमतां गच्छति य एवं वेद
तस्य द्विशताः स्तोत्रीया अन्तो वै वाचो द्विशतमन्तः सहस्रमन्त एव तदन्तं प्रतिष्टापयति
कृतस्तोमो वा एष सर्वमेवैतेनाप्नोति सर्वं जयति सर्वं हि कृतेन जयति
विराजं संपद्यतेऽन्नं विराडन्नाद्यमेवावरुन्धे
एकविंशोऽग्निष्टोमो भवति प्रतिष्ठा वा एकविंशोऽन्तत एव यज्ञस्य प्रतितिष्ठति
16.10
अथैष विश्वज्योतिरुक्थ्यः
पशवो वा उक्थानि पशवो विश्वं ज्योतिर्विश्व एव ज्योतौ पशुषु प्रतितिष्ठति
अहर्भिर्वै त्रिरात्र इमान् लोकानाप्नोति सवनैरेष उत्तममुत्तरं त्रिरात्रस्याहर्वर्षीय उत्तरमुत्तरमेतस्य सवनं वर्षीयस्तेन त्रिरात्रमाप्नोत्युत्तर उत्तर एषां लोकानां ज्यायांस्तेनेमान् लोकानाप्नोति
अस्थूरिर्वा एष सन्ततो यज्ञो द्वौ द्वौ हि स्तोमौ सवनं वहतः
त्रिवृत्पञ्चदशौ प्रातःसवनं सप्तदशपञ्चविंशौ माध्यन्दिनं सवनं चतुर्विंशैकविंशौ तृतीयसवनम्
यद्वै युक्ते सन्तत आधीयते वहति तद्यथा युक्ते सन्तत आदध्यादेवमेतस्मिन् सहस्रमाधीयते
उभे बृहद्रथन्तरे भवतः
इयं वै रथन्तरं द्यौर्बृहदेवास्माल्लोकाद्गायत्येवामुष्मादुभयोरनयोर्लोकयोः प्रतितिष्ठति
अनुष्टुभ्याथर्वणं भवति
भेषजं वै देवानामथर्वाणो भेषजायैवारिष्ट्यै
उद्वंशीयमुक्थानामन्ततो भवति सर्वेषां वा एतत् पृष्ठानां रूपं सर्वेष्वेव रूपेषु प्रतितिष्ठति
उक्थो भवति पशवो वा उक्थानि पशवः सहस्रं पशुष्वेव तत् पशून् दधाति
16.11
यो वा अग्निष्टोमे त्रिरात्रं प्रोतं विद्यात् सोऽग्निष्टोमे सहस्रं दद्यात् त्रिरात्रायतनं हि सहस्रम्
उपास्मै गायता नरःऽऽऽऽुपोषु जातमप्तुरंऽऽऽऽपवस्व वाचो अग्रिय"इति प्रतिपदो भवन्त्येतद्वै त्रिरात्रमकः
पवमाने रथन्तरं करोति पवमानस्यान्त्यं वामदेव्यं बृहत् पृष्ठम्
इयं वै रथन्तरमन्तरिक्षं वामदेव्यं द्यौर्बृहदिमे लोकास्त्रिरात्रो यदेतानि सामानि सध्र्यञ्चि करोतीमानेव तल्लोकान् संदधाति तेन त्रिरात्रमाप्नोति
ककुभं प्राचीमुदूहति
पुरो ह्येतया सत्या अपशुवीर्यं करोति
तस्यामिडानां संक्षारः पुरुषो वै ककुप्पशव इडानां संक्षार आत्मन्येव तत् पशून् प्रतिष्ठापयति
प्रत्नं पीयूषं पूर्व्यं यदुक्थम्"इति सतोबृहत्यो भवन्ति
सतोबृहत्या वै देवा इमान् लोकान् व्याप्नुवन्निमानेवैताभिर्लोकान् व्याप्नोति
ता वा एता गायत्र्यो यत् त्रिपदास्तेन गायत्र्यस्ता वा एता जगत्यो यद्द्वादशाक्षराणि पदानि तेन जगत्यस्ता वा एता बृहत्यो यत् षट्त्रिंशदक्षरास्तेन बृहत्यः सर्वेषां वा एताश्छन्दसां रूपं सर्वाणि रूपाणि पशूनामवरुन्धे
एतद्वै प्रत्यक्षं महाव्रतं तस्य गायत्रं शिरो बृहद्रथन्तरे पक्षौ वामदेव्यमात्मा यज्ञायज्ञीयं पुच्छं दक्षिणा एवार्क्यमेष वाव प्रत्यक्षं महाव्रतेन स्तुवते य एतेन यजते
तस्य बृहत् पृष्ठं पङ्क्तिषु ब्रह्मसाम तदाहुश्छन्दो व्याधीयते यद्बृहत् पृष्ठं भवति पङ्क्तिषु ब्रह्मसामेति
श्रायन्तीयमेव कार्यं न छन्दो व्याधीयते
एषो सहस्रस्य प्रतिष्टुतिः
सहस्रमन्यमभितिष्ठतीत्याहुः सहस्रमन्योऽन्वातिष्ठतीति
ककुभं प्राचीमुदूहत्यथ यदेषा द्विपदा ककुभो लोके क्रियते सहस्रस्यैव सोऽन्वास्थायः
अनुष्टुभं संपद्यते वागनुष्टुब्वाक्त्रिरात्रस्तेन त्रिरात्रमाप्नोति
16.12
आदित्याश्चाङ्गिरसश्चादीक्षन्त ते स्वर्गे लोकेऽस्पर्धन्त तेऽङ्गिरस आदित्येभ्यः श्वः सुत्यां प्राब्रुवंस्त आदित्या एतमपश्यंस्तं [१]सद्यः परिक्रीयायास्यमुद्गातारं वृत्वा तेन स्तुत्वा स्वर्गं लोकमायन्नहीयन्ताङ्गिरसः
भ्रातृव्यवान् यजेत
भवत्यात्मना परास्य भ्रातृव्यो भवति य एवं वेद
तस्मा अमुमादित्यमश्वं श्वेतं कृत्वा दक्षिणामानयंस्ते प्रतिगृह्य व्यभ्रंशत स एतान्यायास्यान्यपश्यत् तैरात्मानं समश्रीणात्
तदायास्यानि भवन्ति भेषजायैव शान्त्यै
स्वर्गकामो यजेत
बृहतीं संपद्यते बृहत्या वै देवाः स्वर्गं लोकमायन् स्वर्गमेवैतेन लोकमाप्नोति
पशुकामो यजेत
पशवो वै बृहती पशुष्वेव प्रतितिष्ठति
16.13
एतस्यैवैकविंशमग्निष्टोमसाम कृत्वामयाविनं याजयेत्
प्राणो वै त्रिवृत् प्राण आदित्यः प्राणैरेष व्यृध्यते य आमयावी प्राणैरेवैनं समर्धयति [थुस्Bई॑ Kष्ष्सेएम्स्तो रेअद्समर्ङ्घयति]
विराजं संपद्यतेऽप वा एतस्मादन्नाद्यं क्रामति य आमयाव्यन्नं विराडन्नद्यमेवास्मिन् दधाति
एकविंशोऽग्निष्टोमो भवत्यप्रतिष्ठितो वा एष य आमयावी प्रतिष्ठैकविंशः प्रत्येव तिष्ठति
एतेनैवान्नाद्यकामो वा प्रतिष्ठाकामो वा यजेतान्नं विराट्प्रतिष्ठैकविंशोऽत्त्यन्नं प्रतितिष्ठति
उर्वरा वेदिर्भवत्येतद्वा अस्या वीर्यवत्तमं वीर्येणैव यज्ञं समर्धयति
खल उत्तरवेदिरत्र हि स रसः समवैति सरसमेव यज्ञं करोति
खलेवाली यूपो भवत्येतया हि तं रसमुत्कृषन्ति
त्रिवत्सः साण्डः सोमक्रयणः सेन्द्रत्वाय
सर्वा दिशोऽश्वरथाः सोमप्रवाका विधावन्ति
सर्वाभ्य एवास्मै दिग्भ्योऽन्नाद्यमवरुन्धे
योजने चतुर्वाहिणा प्राच्यां दिशि प्राहैवमिव वा अध्वानो विमिता यैवाध्वनो मात्रातां धावयन्ति त्रैपदे प्रष्ठिवाहिनोदीच्यां गव्यूतौ द्व्योगेन प्रतिच्यां क्रोशे स्थूरिणा दक्षिणैतद्वै दिशां रूपं यदैव दिशां रूपं तेन यज्ञं समर्धयन्ति
सक्षीरदृतयो रथा भवन्ति ततो यन्नवनीतमुदियात् तदाज्येऽपि कार्यं सद्यस्त्वाय
16.14
अथैषोऽङ्गिरसामनुक्रीः
एतेन वा अङ्गिरस आदित्यानाप्नुवन् यो हीन आनुजावर इव स्यात् स एतेन यजेताप्नोति पूर्वेषां प्रहामाप्नुवन् ह्येतेनाङ्गिरस आदित्यान्
तस्य चतुर्विंशौ पवमानौ
चतुर्विंशत्यक्षरा गायत्री गायत्र्या वै देवा इमान् लोकान् व्याप्नुवन्निमानेवैतेन लोकान् व्याप्नोति
तेजो ब्रह्मवर्चसं गायत्री तेज एव ब्रह्मवर्चसमवरुन्धे प्राणो गायत्री प्रजननं प्राणादेव गायत्र्याः प्रजायते
उभये स्तोमा युग्मन्तश्चायुजश्[थुस्Bई॑ Kष्ष्चार्युजश्] च तन्मिथुनं तस्मान्मिथुनात् प्रजायते
विराजं संपद्यतेऽन्नं विराडन्नाद्यमेवावरुन्धे
एकविंशोऽग्निष्टोमो भवति प्रतिष्ठा वा एकविंशोऽन्तत एव यज्ञस्य प्रतितिष्ठति
16.15
अथैष विश्वजिच्छिल्पः
शिल्पं वा एष स्तोमानां पश्यति गृहे शिल्पं य एवं वेद
तस्याष्टादशौ पवमानौ
चक्रीवान् वा एष यज्ञः कामाय यं कामं कामयते तमेतेनाभ्यश्नुते यत्र हि चक्रीवता कामयते तदभ्यश्नुते
स्वर्गकामो यजेत
स्वर्गो लोकः पृष्ठानि स्वर्गमेवैतेन लोकमाप्नोति
तेजो ब्रह्मवर्चसं पृष्ठानि यदेकधा पृष्ठानि भवन्त्येकधैवास्मिंस्तेजो ब्रह्मवर्चसं दधाति
अन्नं पशवः पृष्ठानि यदेकधा पृष्ठानि भवन्त्येकधैवास्मिन्नन्नाद्यं पशून् दधाति
तदाहुर्नानालोकानि पृष्ठानि यदेकस्मिन् यज्ञक्रतौ समवरुध्यन्त ईश्वरो यजमानोऽप्रतिष्ठातोरिति
एकविंशं होतुः पृष्ठं भवति प्रतिष्ठा वा एकविंशो मध्य एव यज्ञस्य प्रतितिष्ठत्येकविंशोऽग्निष्टोमो भवति प्रतिष्ठा वा एकविंशोऽन्तत एव यज्ञस्य प्रतितिष्ठति
द्वावेतावेकविंशौ भवतो द्विपाद्यजमानो यजमानमेव यज्ञे पशुषु च प्रतिष्ठापयति
16.16
अथैष एकत्रिकः प्रजापतेरुद्भित्
एतेन वै प्रजापतिरेषां लोकानामुदभिनत्
कृतस्तोमो वा एष उद्भिन्नं ह्येव कृतस्य
यदेकया स्तुवन्त्येको वै प्रजापतिः प्रजापतिमेवाप्नोत्यथ यत् तिसृभिस्त्रय इमे लोका एष्वेव लोकेषु प्रतितिष्ठति
ता उ चतस्रस्संपद्यन्ते चतुष्पादाः पशवः पशुष्वेव प्रतितिष्ठति
गायत्रीं संपद्यते तेजो ब्रह्मवर्चसं गायत्री तेज एव ब्रह्मवर्चसमवरुन्धे
प्राणो गायत्री प्रजननं प्राणादेव गायत्र्याः प्रजायते
अया रुचा हरिण्या पुनान"इत्यार्भवः पवमानः
सर्वेषां वा एषा छन्दसां रूपं सर्वेष्वेव छन्दःस्वार्भवं पवमानं प्रतिष्ठापयति
तस्यां गायत्रपार्श्वं न गायत्रादेति न साम्नो न निधनात्
- १६.१.१ ज्योतिः संज्ञानिर्व्वचनं
प्रजापतिर्वा इदं एक आसीन्नाहरासीन्न रात्रिरासीत्सोऽस्मिन्नन्धे तमसि प्रासर्पत्स ऐच्छत्स एतं अभ्यपद्यत ततो वै तस्मै व्यौच्छद्व्युष्टिर्वा एष आह्रियते यद्वै तज्ज्योतिरभवत्तत्ज्योतिषो ज्योतिष्ट्वम्
- १६.१.२ प्रथमानुष्ठान स्तुतिः
एष वाव प्रथमो यज्ञानां य एतेनानिष्ट्वाथान्येन यजते कर्त्तपत्यं एव तज्जीयते प्र वा मीयते
- १६.१.३ दृष्टान्तोपादानं
यथा वा इदं अग्नेर्जातादग्नयो विह्रियन्त एवं एतस्मादध्यन्ये यज्ञा विह्रियन्ते
- १६.१.४ स्तोमानां ज्योतीरूपत्वं
यो हि त्रिवृदन्यं यज्ञक्रतुं आपद्यते स तं दीपयति यः पञ्चदशः स तं यः सप्तदशः स तं य एकविंशः स तम्
- १६.१.५ तदभावत्वप्रतिपादनं
एतत्तद्यदाहुरेको यज्ञ इत्येतद्धि सर्वे ज्योतिष्टोमा भवन्ति
- १६.१.६ त्रिवृदादीनां ज्योतिष्टोमता
अस्थूरिर्वा एष सन्ततो यज्ञो द्वौ द्वौ हि स्तोमौ सवनं वहतस्त्रिवृत्पञ्चदशौ प्रातःसवनं पञ्चदशसप्तदशौ माध्यन्दिनं सवनं सप्तदशैकविंशौ तृतीयसवनम्
- १६.१.७ ज्योतिष्टोमस्य प्राथम्यं
या मितदक्षिणैव स्यादेष एव कार्य इयं वै ज्योतिरियं अमितस्य यन्त्रिकैषा वा एतं यन्तुं अर्हति
- १६.१.८ स्तोत्रीय संख्यायास्तुतिः
तस्य नवतिशतं स्तोत्रीयास्तासां या अशीतिशतं ताः षट्त्रिंशिन्यो विराजः षडृतव ऋतुष्वेव विराजा प्रतितिष्ठति
- १६.१.९ स्तोत्रीय संख्यायास्तुतिः
अथ या दशैषा वा आत्मन्या विराडेतस्यां वा इदं पुरुषः प्रतिष्ठितः
- १६.१.१० स्तोत्रीय संख्यायास्तुतिः
गौश्चाश्वश्चाश्वतरश्च गर्दभश्चाजाश्चावयश्च व्रीहयश्च यवाश्च तिलाश्च माषाश्चैतस्यां एव विराजि प्रतितिष्ठति
- १६.१.११ दक्षिणाविधानं
तस्य द्वादशं शतं दक्षिणाः
- १६.१.१२ दक्षिणाविधानं
वीरहा वा एष देवानां यः सोमं अभिषुणोति याः शतं वैरं तद्देवानवदयतेऽथ या दश दश प्राणाः प्राणांस्ताभिः स्पृणोति यैकादश्यात्मानं तया या द्वादशी सैव दक्षिणा
- १६.१.१३ दक्षिणाविधानं
श्लेष्म वा एतद्यज्ञस्य यद्दक्षिणा न वा अश्लेष्मा रथो वहत्यथ श्लेष्मवता यं कामं कामयते तं अभ्यश्नुत एवं एतेन दक्षिणावता यं कामं कामयते तं अभ्यश्नुते
- १६.१.१४ दक्षिणाविधानं
शुभो वा एता यज्ञस्य यद्दक्षिणा यद्दक्षिणावता यजते शुभं एवास्मिन्दधाति
- १६.२.१ अपरकाह विधानं
अथैष गौः
- १६.२.२ भ्रातृव्य जय हेतुता
गवा वै देवा असुरानेभ्यो लोकेभ्योऽनुदन्तैभ्यो लोकेभ्यो भ्रातृव्यं नुदते य एवं वेद
- १६.२.३ गौरिति संज्ञा निर्व्वचनं ।
यद्वै तद्देवा असुरानेभ्यो लोकेभ्यो गोवयंस्तद्गोर्गोत्वम्
- १६.२.४ तद्वेदन फलं
गोवयति पाप्मानं भ्रातृव्यं य एवं वेद
- १६.२.५ बहिष्पवमान स्तोमः
तस्य पञ्चदशं बहिष्पवमानं वज्रो वै पञ्चदशो वज्रं एव तत्पुरस्तान्निदधाति तेन विजयते
- १६.२.६ पञ्चदशस्य प्राथम्यं
पशुस्तोमो वा एष एवं इव वै पशुः समाहितः शिरः स्थवीयोऽणीयस्यो ग्रीवा पार्श्वाभ्यां वरीयांसक्थिभ्यां वरिष्ठः
- १६.२.७ ग्रीवादिसाम्यं
यत्पञ्चदशं बहिष्पवमानं भवति त्रिवृन्त्याज्यानि सप्तदश माध्यन्दिनं सवनं एकविंशं तृतीयसवनं रूपेणैवैनं तत्समर्धयति
- १६.२.८ पशुपुच्छस्थानीयता
एका संस्तुतानां विराजं अतिरिच्यते तस्मात्पशोः पश्चादतिरिक्तम्
- १६.३.१अपरैकाह विधानं
अथैष आयुः
- १६.३.२ आयु संज्ञा निर्व्वचनं
आयुषा वै देवा असुरानायुवतायुते भ्रातृव्यं य एवं वेद
- १६.३.३ अधिकारि निरूपणं
स्वर्गकामो यजेत
- १६.३.४ स्तोम क्लृप्तिः
ऊर्ध्वाः स्तोमा यन्त्यनपभ्रंशाय
- १६.३.५ अधिकारिणि संस्थान्तरं
एतेनैवामयाविनं याजयेदतिरात्रः कार्यः
- १६.३.६ अतिरात्रसंस्थानुकूल्यं
स गायत्रीं संपद्यते प्राणो गायत्र्यायुरेष आयुश्चैवास्मिन्प्राणं चोभे समीची दधाति
- १६.३.७ एकाह त्रयसंहतिः
स्वर्ग्या वा एते स्तोमा यत्ज्योतिर्भवति ज्योतिरेवास्मै स पुरस्ताद्धरत्यथैष गौरेकया विराजं अतिरिक्त आरम्भणं एव तदथैष आयुरेकस्या विराज ऊन आसाद एव सोऽथो ऊनातिरिक्तौ स्तोमौ मिथुनौ प्रजात्यै
- १६.३.८ एकाह त्रयसंहतिः
एते वै त्रिकद्रुकाः स्तोमा एतैर्वा इन्द्रः सर्वां तृप्तिं अतृप्यत्
- १६.३.९ तद्वेदन फलं
तृप्यति प्रजया पशुभिर्य एवं वेद
- १६.४.१ अभिजिद्विश्वजिदेकाहः
प्रजापतिः प्रजा असृजत ता अस्मै श्रैष्ठ्याय नातिष्ठन्त स आसां दिशां प्रजानां च रसं प्रवृह्य स्रजं कृत्वा प्रत्यमुञ्चत ततोऽस्मै प्रजाः श्रैष्ठ्यायातिष्ठन्त
- १६.४.२ तद्वेदितुः फलं
तिष्ठन्तेऽस्मै समानाः श्रैष्ठ्याय य एवं वेद
- १६.४.३ प्रजापति कर्म्म
सोऽकामयतेन्द्रो मे प्रजायां श्रेष्ठः स्यादिति तां अस्मै स्रजं प्रत्यमुञ्चत्ततो वा इन्द्राय प्रजाः श्रैष्ठ्यायातिष्ठन्त तच्छिल्पं पश्यन्त्यो यत्पितर्यपश्यन्
- १६.४.४ प्रजापति कर्म्म
तस्माद्यः पुत्राणां दायं धनतमं इवोपैति तं मन्यन्तेऽयं एवेदं भविष्यतीति
- १६.४.५ प्रजापति कर्म्म
ततो वा इदं इन्द्रो विश्वं अजयद्यद्विश्वं अजयत्तस्माद्विश्वजित्
- १६.४.६ अभिजित् संज्ञा निर्व्वचनं
सोऽकामयत यन्मेऽनभिजितं तदभिजयेयं इति स एतं अभिजितं अपश्यत्तेनानभिजितं अभ्यजयत्
- १६.४.७ अभिजिद्विश्वजिद्विधानं
यदभिजिद्भवत्यनाभिजितस्याभिजित्यै
- १६.४.८ अभिजिद्विश्वजिद्विधानं
तौ वा एताविन्द्रस्तोमौ वीर्यवन्तौ शिल्पं वा एतौ नाम स्तोमावास्ताम्
- १६.४.९ अभिजिद्विश्वजिद्विधानं
पश्यते गृहे शिल्पं य एवं वेद
- १६.४.१० प्रयोग प्रकारः ।
न वै यमौ नाम स्तोमौ स्तो यो यमाभ्यां यजेतैताभ्यां यजेत समृध्यै
- १६.४.११ स्तोमावृत्ति विधानं
पुनरभ्यावर्तं स्तोमा भवन्ति पुनरभ्यावर्तं ह्येताभ्यां इन्द्रोऽजितं अजयत्
- १६.४.१२ अभ्यावृत्ति विवरणं
त्रींस्त्रिवृदभिजितः प्रणयति त्रीन्पञ्चदशः त्रीन्सप्तदशः त्रीनेकविंशस्ते द्वादश संपद्यन्ते द्वादश मासाः संवत्सरः प्रजापतिः प्रजापतिं एवाप्नोति
- १६.४.१३ अभ्यावृत्ति विवरणं
चतुरस्त्रिवृद्विश्वजितः प्रणयति चतुरः पञ्चदशश्चतुरः सप्तदशस्ते द्वादश संपद्यन्ते द्वादश मासाः संवत्सरः संवत्सरः प्रजापतिः प्रजापतिं एवाप्नोति
- १६.५.१ बहिष्पवमान प्रथमस्तोत्रीया
ऽऽउप त्वा जामयो गिरऽऽ इत्युपवती प्रतिपद्भवति स्तोमस्य रूपम्
- १६.५.२ तत्प्रशंसनं
प्राणैर्वा एष व्यृध्यत इत्याहुर्यः सर्वं ददाति सर्वान्स्तोमान्सर्वाणि पृष्ठान्युपैतीति यद्वायव्या भवति प्राणानां समृध्यै
- १६.५.३ उत्तर विधानं
सरस्वतश्च सरस्वत्याश्चोत्तरे भवतः
- १६.५.४ उत्तर विधानं
मिथुनं वा एतद्यत्सरस्वांश्च सरस्वती च मिथुनं एवास्य यज्ञमुखे दधाति प्रजननाय
- १६.५.५ अपरस्तोत्रीया
सावित्री चतुर्थी भवति
- १६.५.६ अपरस्तोत्रीया
दुष्करं वा एष करोति यः सर्वं ददाति यत्सावित्री भवति सवितृप्रसृतं मे कर्मासदिति सवितृप्रसूतं एवास्य कर्म भवति
- १६.५.७ अपरस्तोत्रीया
ब्राह्मणस्पत्या पञ्चमी भवति
- १६.५.८ अपरस्तोत्रीया
ब्रह्म वै ब्रह्मणस्पतिर्ब्रह्मैवास्य यज्ञमुखे दधाति
- १६.५.९ अपरस्तोत्रीया
आग्निपावमानी षष्ठी भवति
- १६.५.१० उत्तमतृच विधानं
अग्निरेवैनं निष्टपति पवमानः पुनाति पूतं एवैनं यज्ञियं पृष्ठान्युपनयति
- १६.५.११ तत्परिहारः
यन्ति वा एते पथ इत्याहुर्ये संभार्याः कुर्वते
- १६.५.१२ तत्परिहारः
पावमान उत्तमस्तृचो भवति तेन पथो नयन्ति
- १६.५.१३ रथन्तरादि पृष्ठ योगः
स तु वै पृष्ठैः स्तुवीतेत्याहुर्य एतानि बहिष्पवमाने युञ्ज्यादिति
- १६.५.१४ रथन्तरादि पृष्ठ योगः
उपवती प्रतिपद्भवत्युप वै रथन्तरं रथन्तरं एवास्मै तया युनक्ति
- १६.५.१५ बृहतो योगः
सरस्वती द्वितीया भवति स्वर्गो लोकः सरस्वान्स्वर्गो लोको बृहद्बृहदेवास्मै तया युनक्ति
- १६.५.१६ वैरूप योगः
सरस्वत्यास्तृतीया भवति वाग्वै सरस्वती वाग्वैरूपं वैरूपं एवास्मै तया युनक्ति
- १६.५.१७ वैराजयोगः
सावित्री चतुर्थी भवति प्रजापतिर्वै सविता प्रजापतिर्वैराजं वैराजं एवास्मै तया युनक्ति
- १६.५.१८ शाक्वर सामयोगः
ब्राह्मणस्पत्या पञ्चमी भवति ब्रह्म वै ब्रह्मणस्पतिर्ब्रह्म शक्वर्यः शक्वरीरेवास्मै तया युनक्ति
- १६.५.१९ रैवत साम योगः
आग्निपावमानी षष्ठी भवति गायत्री वै रेवती गायत्रच्छन्दा अग्नी रेवतीरेवास्मै तया युनक्ति
- १६.५.२० रथन्तरादीनामन्तर्भावः
न चत्वारि षड्भ्यो विभवन्ति यदनिरुक्तानि तेन विभवन्ति
- १६.५.२१ दोष समाधानं
सर्वाणि स्वाराण्याज्यानि तज्जामि नानादेवत्यैः स्तुवन्त्यजामितायै
- १६.५.२२ दोष समाधानं
ऽऽसुषमिद्धो न आवह-ऽऽ इत्याप्रिय आज्यानि भवन्ति
- १६.५.२३ आप्रीणामाज्यत्वं
प्रजापतिः प्रजा असृजत स दुग्धो रिरिचानोऽमन्यत स एतान्याप्रिय आज्यान्यपश्यत्तैरात्मानं [थुस्Bी; KSSआत्मनम्] आप्रीणाद्दुग्ध इव वा एष रिरिचानो यः सर्वं ददाति यदाप्रिय आज्यानि भवन्त्यात्मानं एवैतैराप्रीणाति
- १६.५.२४ रथन्तरादीनां स्थानं
एतर्हि तु वै पृष्ठानि यथायतनं कल्पन्त इत्याहुर्यद्रथन्तरं प्रथमं बृहदुत्तमं मध्य इतराणीति
- १६.५.२५ दोष परिहारः
जामि वा एतद्यज्ञे क्रियत इत्याहुर्यत्सर्वाणि निधनवन्ति सह क्रियन्त इति यदन्तरा सोमा यन्त्यन्तरोक्थानि शस्यन्तेऽन्तरा वषट्कुर्वन्ति तेनाजामि
- १६.५.२६ अजामित्वोपपादनं
व्यत्यासं इडाश्च निधनानि चाहुस्तेनाजामि
- १६.५.२७ तत्समाधानं
च्यवन्ते वा एतद्रेवत्यः स्वादायतनादित्याहुर्यत्त्रयस्त्रिंशात्स्तोमाद्यन्तीति यद्गायत्र्यो भवन्ति तेनायतनान्न च्यवन्ते या हि का च गायत्री सा रेवती
- १६.६.१ यजमानव्रतप्रदर्शनं
पशुभिर्वा एष व्यृध्यत इत्याहुर्यः सर्वं ददाति तच्छवीं परिधत्ते पशुभिरेव समृध्यते
- १६.६.२ यजमान व्रत प्रदर्शनं
रोहिणी छवी भवत्येतद्वै पशूनां भूयिष्ठं रूपं यद्रोहितं साक्षादेवैनानवरुन्धे
- १६.६.३ यजमान व्रत प्रदर्शनं
अरण्ये तिस्रो वसत्यारण्यं ताभिरन्नाद्यं अवरुन्धे
- १६.६.४ यजमान व्रत प्रदर्शनं
उदुम्बरे वसत्यूर्गुदुम्बर ऊर्जं एवावरुन्धे
- १६.६.५ यजमान व्रत प्रदर्शनं
खनित्रेण जीवत्यवृत्तिं अपजयति
- १६.६.६ खणित्र विवरणं
उभयतःक्ष्णुदभ्रिर्भवत्युभयत एवास्मा अन्नाद्यं रदत्यस्माच्च लोकादमुष्माच्च
- १६.६.७ निषाद कुले निवासः
निषादेषु तिस्रो वसत्यस्यां वा एते परीत्ता यदेवास्यां अन्नाद्यं तदवरुन्धे
- १६.६.८ निषाद कुले निवासः
जने तिस्रो वसति जन्यं ताभिरन्नाद्यं अवरुन्धे
- १६.६.९ निषाद कुले निवासः
समानजने तिस्रः समानजन्यं ताभिः
- १६.६.१० रात्रिसंहति स्तुतिः
द्वादशैता रात्रयो भवन्ति द्वादशमासाः संवत्सरः संवत्सरं अन्वन्नाद्यं प्रजायते तदेवाप्त्वावरुन्धे
- १६.६.११ अपरव्रत प्रदर्शनं
संवत्सरं न याचेदामाद्यं इव वा एतद्यः सद्योदत्तं प्रत्यत्ति सद्यो वै देवानं संवत्सरः
- १६.६.१२ अपरव्रत प्रदर्शनं
नोदीयमानं प्रति नुदेन्नाद्यस्याप्रतिनोदाय
- १६.६.१३ उष्णीष धारणं
उष्णीषं बिभर्ति शिल्पत्वाय
- १६.६.१४ अन्य व्यवहार निषेधः
न मृन्मयेन पिबेदाहुतिर्वा एषा यद्ब्राह्मणस्य मुखं न वै मृन्मयं आहुतिं आनशेऽथ यदमृन्मयपो भवति स्व एव मुख आहुतिं जुहोति
- १६.७.१ अभिजित् स्तोमसंस्था
पञ्चविंशोऽग्निष्टोमः
- १६.७.२ अभिजित् स्तोम संस्था
सर्वजिता वै देवाः सर्वं अजयन्सर्वस्याप्त्यै सर्वस्य जित्यै सर्वं एवैतेनाप्नोति सर्वं जयति
- १६.७.३ प्रथमपृष्ठ स्तोत्रं
तस्य महाव्रतं पृष्ठम्
- १६.७.४ शस्त्रविधानं
अर्क्यं शस्यते
- १६.७.५ पञ्चविंशस्तोमः
चतुर्विंशतिः संवत्सरस्यार्धमासाः संवत्सरः पञ्चविंशोऽन्नं व्रतं संवत्सरादेतेनान्नाद्यं अवरुन्धे
- १६.७.६ तद्वेदितुः फलं
अन्नादो भवति य एवं वेद
- १६.७.७ तद्वेदितुः फलं
एतेन वै गौराङ्गिरसः सर्वं पाप्मानं अतरत्सर्वं पाप्मानं तरत्येतेन स्तोमेन तुष्टुवानः
- १६.८.१ ज्योतिरग्निष्टोमः
अथैष ज्योतिः
- १६.८.२ अग्निष्टोम संस्था
पराङ्वै त्रिरात्रोऽर्वाङग्निष्टोमो यस्त्रिरात्रे विभ्रंशते न तस्मिन्पुनरस्त्यथ योऽग्निष्टोमे प्रायश्चित्तिमत्तदपि ह्येतेनैकविंशतिदक्षिणेन पुनर्यजेत यस्मिन्ह्येव यज्ञक्रतौ विभ्रंशते सैव तस्य प्रायश्चित्तिः
- १६.८.३ प्रतिष्ठा हेतुता
उपसदि सहस्रं प्रातरनुवाकं अन्वाह तदसौ लोकः सहस्रं दक्षिणास्तदन्तरिक्षं सहस्रं एतान्यक्षराणि तदयं लोक एषु लोकेषु प्रतितिष्ठति य एवं वेद
- १६.८.४ प्रतिष्ठा हेतुता
ऋक्स्था वा अन्यत्सहस्रं इत्याहुरक्षरेस्था अन्यदिति यत्त्रिरात्रे दीयते तदृक्स्था । अथ यदग्निष्टोमे तदक्षरेस्था
- १६.८.५ प्रतिष्ठा हेतुता
यत्सहस्राक्षरासु ब्रह्मसाम भवति सहस्रस्यैव सा प्रतिष्टुतिः
- १६.८.६ प्रतिष्ठा हेतुता
यावद्वै सहस्रं गाव उत्तराधरा इत्याहुस्तावदस्मात्लोकात्स्वर्गो लोक इति तस्मादाहुः सहस्रयाजी वा इमान्लोकान्प्राप्नोति
- १६.८.७ पंक्तिछन्दस्काऋचः
पशुभिर्वा एष व्यृध्यत इत्याहुर्यः सद्यः सहस्रं ददातीति पङ्क्तिषु ब्रह्मसाम भवति पाङ्क्तो यज्ञः पाङ्क्ताः पशवो यज्ञ एव पशुषु प्रतितिष्ठति
- १६.८.८ आप्तुः स्तोत्रीयासम्पत्तिः
त्रिवृतं स्तोमं संपद्यते विराजं छन्दः
- १६.८.९ दशस्तोत्रीयाएकाविराट्
प्राणो वै त्रिवृदन्नं विराट्न वै प्राण ऋतेऽन्नात्पारयति नान्नं ऋते प्राणात्प्राणेषु चैवान्नाद्ये च प्रतितिष्ठति
- १६.९.१ साहस्रैकाहः
अथैष सर्वज्योतिः सर्वस्याप्तिः सर्वस्य जितिः सर्वं एवैतेनाप्नोति सर्वं जयति
- १६.९.२ सहस्र दक्षिणा
परमो वा एष यज्ञः परमं सहस्रं परमतां गच्छति य एवं वेद
- १६.९.३ सहस्र दक्षिणा
तस्य द्विशताः स्तोत्रीया अन्तो वै वाचो द्विशतमन्तः सहस्रमन्त एव तदन्तं प्रतिष्टापयति
- १६.९.४ सहस्र दक्षिणा
कृतस्तोमो वा एष सर्वं एवैतेनाप्नोति सर्वं जयति सर्वं हि कृतेन जयति
- १६.९.५ सहस्र दक्षिणा
विराजं संपद्यतेऽन्नं विराडन्नाद्यं एवावरुन्धे
- १६.९.६ सहस्र दक्षिणा
एकविंशोऽग्निष्टोमो भवति प्रतिष्ठा वा एकविंशोऽन्तत एव यज्ञस्य प्रतितिष्ठति
- १६.१०.१ विश्वज्योतिः संज्ञैकाहः
अथैष विश्वज्योतिरुक्थ्यः
- १६.१०.२ विश्वज्योतिः संज्ञैकाहः
पशवो वा उक्थानि पशवो विश्वं ज्योतिर्विश्व एव ज्योतौ पशुषु प्रतितिष्ठति
- १६.१०.३ विश्वज्योतिः संज्ञैकाहः
अहर्भिर्वै त्रिरात्र इमान्लोकानाप्नोति सवनैरेष उत्तमं उत्तरं त्रिरात्रस्याहर्वर्षीय उत्तरं उत्तरं एतस्य सवनं वर्षीयस्तेन त्रिरात्रं आप्नोत्युत्तर उत्तर एषां लोकानां ज्यायांस्तेनेमान्लोकानाप्नोति
- १६.१०.४ सवनानां उत्तरोत्तराधिक्यं
अस्थूरिर्वा एष सन्ततो यज्ञो द्वौ द्वौ हि स्तोमौ सवनं वहतः
- १६.१०.५ द्वौ द्वौ स्तोमौ
त्रिवृत्पञ्चदशौ प्रातःसवनं सप्तदशपञ्चविंशौ माध्यन्दिनं सवनं चतुर्विंशैकविंशौ तृतीयसवनम्
- १६.१०.६ सहस्र दानं
यद्वै युक्ते सन्तत आधीयते वहति तद्यथा युक्ते सन्तत आदध्यादेवं एतस्मिन्सहस्रं आधीयते
- १६.१०.७ समुच्चय विधानं
उभे बृहद्रथन्तरे भवतः
- १६.१०.८ समुच्चय विधानं
इयं वै रथन्तरं द्यौर्बृहदेवास्माल्लोकाद्गायत्येवामुष्मादुभयोरनयोर्लोकयोः प्रतितिष्ठति
- १६.१०.९ अन्यसाम विधानं
अनुष्टुभ्याथर्वणं भवति
- १६.१०.१० अन्यसाम विधानं
भेषजं वै देवानां अथर्वाणो भेषजायैवारिष्ट्यै
- १६.१०.११ अन्यसाम विधानं
उद्वंशीयं उक्थानां अन्ततो भवति सर्वेषां वा एतत्पृष्ठानां रूपं सर्वेष्वेव रूपेषु प्रतितिष्ठति
- १६.१०.१२ अन्यसाम विधानं
उक्थो भवति पशवो वा उक्थानि पशवः सहस्रं पशुष्वेव तत्पशून्दधाति
- १६.११.१ चतुर्थ साहस्रैकाहः
यो वा अग्निष्टोमे त्रिरात्रं प्रोतं विद्यात्सोऽग्निष्टोमे सहस्रं दद्यात्त्रिरात्रायतनं हि सहस्रम्
- १६.११.२ प्रतिपत् कर्त्तव्यता
ऽऽउपास्मै गायता नरःऽऽऽऽउपोषु जातं अप्तुरंऽऽऽऽपवस्व वाचो अग्रियऽऽ इति प्रतिपदो भवन्त्येतद्वै त्रिरात्रं अकः
- १६.११.३ पृष्ठसाम निरूपणं
पवमाने रथन्तरं करोति पवमानस्यान्त्यं वामदेव्यं बृहत्पृष्ठम्
- १६.११.४ संघात करणं
इयं वै रथन्तरं अन्तरिक्षं वामदेव्यं द्यौर्बृहदिमे लोकास्त्रिरात्रो यदेतानि सामानि सध्र्यञ्चि करोतीमानेव तल्लोकान्संदधाति तेन त्रिरात्रं आप्नोति
- १६.११.५ तृतीय सवन प्रयोगः
ककुभं प्राचीं उदूहति
- १६.११.६ तृतीय सवन प्रयोगः
पुरो ह्येतया सत्या अपशुवीर्यं करोति
- १६.११.७ कर्त्तृभिर्गेयं साम
तस्यां इडानां संक्षारः पुरुषो वै ककुप्पशव इडानां संक्षार आत्मन्येव तत्पशून्प्रतिष्ठापयति
- १६.११.८ स्तोत्रीया विधानं
ऽऽप्रत्नं पीयूषं पूर्व्यं यदुक्थम्ऽऽ इति सतोबृहत्यो भवन्ति
- १६.११.९ स्तोत्रीया विधानं
सतोबृहत्या वै देवा इमान्लोकान्व्याप्नुवन्निमानेवैताभिर्लोकान्व्याप्नोति
- १६.११.१० सर्व्व पशु साधनता
ता वा एता गायत्र्यो यत्त्रिपदास्तेन गायत्र्यस्ता वा एता जगत्यो यद्द्वादशाक्षराणि पदानि तेन जगत्यस्ता वा एता बृहत्यो यत्षट्त्रिंशदक्षरास्तेन बृहत्यः सर्वेषां वा एताश्छन्दसां रूपं सर्वाणि रूपाणि पशूनां अवरुन्धे
- १६.११.११ सर्व्व पशु साधनता
एतद्वै प्रत्यक्षं महाव्रतं तस्य गायत्रं शिरो बृहद्रथन्तरे पक्षौ वामदेव्यं आत्मा यज्ञायज्ञीयं पुच्छं दक्षिणा एवार्क्यं एष वाव प्रत्यक्षं महाव्रतेन स्तुवते य एतेन यजते
- १६.११.१२ ब्रह्मसाम विधानं
तस्य बृहत्पृष्ठं पङ्क्तिषु ब्रह्मसाम तदाहुश्छन्दो व्याधीयते यद्बृहत्पृष्ठं भवति पङ्क्तिषु ब्रह्मसामेति
- १६.११.१३ ब्रह्मसाम विधानं
श्रायन्तीयं एव कार्यं न छन्दो व्याधीयते
- १६.११.१४ सहस्र प्रतिष्टुतिः
एषो सहस्रस्य प्रतिष्टुतिः
- १६.११.१५ सहस्र प्रतिष्टुतिः
सहस्रं अन्यं अभितिष्ठतीत्याहुः सहस्रं अन्योऽन्वातिष्ठतीति
- १६.११.१६ सहस्र प्रतिष्टुतिः
ककुभं प्राचीं उदूहत्यथ यदेषा द्विपदा ककुभो लोके क्रियते सहस्रस्यैव सोऽन्वास्थायः
- १६.११.१७ सहस्र प्रतिष्टुतिः
अनुष्टुभं संपद्यते वागनुष्टुब्वाक्त्रिरात्रस्तेन त्रिरात्रं आप्नोति
- १६.१२.१ साद्यःक्राणां सद्योनुष्ठेयता
आदित्याश्चाङ्गिरसश्चादीक्षन्त ते स्वर्गे लोकेऽस्पर्धन्त तेऽङ्गिरस आदित्येभ्यः श्वः सुत्यां प्राब्रुवंस्त आदित्या एतं अपश्यंस्तं सद्यः परिक्रीयायास्यं उद्गातारं वृत्वा तेन स्तुत्वा स्वर्गं लोकं आयन्नहीयन्ताङ्गिरसः
- १६.१२.२ ?
भ्रातृव्यवान्यजेत
- १६.१२.३ तद्वेदितुः फलं
भवत्यात्मना परास्य भ्रातृव्यो भवति य एवं वेद
- १६.१२.४ दक्षिणा विधानं
तस्मा अमुं आदित्यं अश्वं श्वेतं कृत्वा दक्षिणां आनयंस्ते प्रतिगृह्य व्यभ्रंशत स एतान्यायास्यान्यपश्यत्तैरात्मानं समश्रीणात्
- १६.१२.५ आयास्य प्रयोगः
तदायास्यानि भवन्ति भेषजायैव शान्त्यै
- १६.१२.६ अधिकारि विशेषः
स्वर्गकामो यजेत
१६.१२.७ स्वर्गसाधनत्वोपपादनं
बृहतीं संपद्यते बृहत्या वै देवाः स्वर्गं लोकं आयन्स्वर्गं एवैतेन लोकं आप्नोति
- १६.१२.८ अधिकारि विशेषेपि विधिः
पशुकामो यजेत
- १६.१२.९ पशु साधनता
पशवो वै बृहती पशुष्वेव प्रतितिष्ठति
- १६.१३.१ द्वितीय साद्यःक्रैकाहः
एतस्यैवैकविंशं अग्निष्टोमसाम कृत्वामयाविनं याजयेत्
- १६.१३.२ व्याधिनिर्हरण हेतुता
प्राणो वै त्रिवृत्प्राण आदित्यः प्राणैरेष व्यृध्यते य आमयावी प्राणैरेवैनं समर्धयति [थुस्Bी; KSSसीम्स्तो रेअद्समर्ङ्घयति]
- १६.१३.३ आमयाव्यधिकारः
विराजं संपद्यतेऽप वा एतस्मादन्नाद्यं क्रामति य आमयाव्यन्नं विराडन्नद्यं एवास्मिन्दधाति
- १६.१३.४ आमयाविनः प्रतिष्ठाहेतुता
एकविंशोऽग्निष्टोमो भवत्यप्रतिष्ठितो वा एष य आमयावी प्रतिष्ठैकविंशः प्रत्येव तिष्ठति
- १६.१३.५ अपराधिकारिणौ
एतेनैवान्नाद्यकामो वा प्रतिष्ठाकामो वा यजेतान्नं विराट्प्रतिष्ठैकविंशोऽत्त्यन्नं प्रतितिष्ठति
- १६.१३.६ वेदि विधानं
उर्वरा वेदिर्भवत्येतद्वा अस्या वीर्यवत्तमं वीर्येणैव यज्ञं समर्धयति
- १६.१३.७ उत्तर वेदिस्थानं
खल उत्तरवेदिरत्र हि स रसः समवैति सरसं एव यज्ञं करोति
- १६.१३.८ यूपविधानं
खलेवाली यूपो भवत्येतया हि तं रसं उत्कृषन्ति
- १६.१३.९ सोमक्रय साधन द्रव्यविधानं
त्रिवत्सः साण्डः सोमक्रयणः सेन्द्रत्वाय
- १६.१३.१० सोमप्रवाकानां गमनं
सर्वा दिशोऽश्वरथाः सोमप्रवाका विधावन्ति
- १६.१३.११ सोमप्रवाकानां गमनं
सर्वाभ्य एवास्मै दिग्भ्योऽन्नाद्यं अवरुन्धे
- १६.१३.१२ सोमप्रवाकानां गमनं
योजने चतुर्वाहिणा प्राच्यां दिशि प्राहैवं इव वा अध्वानो विमिता यैवाध्वनो मात्रातां धावयन्ति त्रैपदे प्रष्ठिवाहिनोदीच्यां गव्यूतौ द्व्योगेन प्रतिच्यां क्रोशे स्थूरिणा दक्षिणैतद्वै दिशां रूपं यदैव दिशां रूपं तेन यज्ञं समर्धयन्ति
- १६.१३.१३ सोमप्रवाकानां गमनं
सक्षीरदृतयो रथा भवन्ति ततो यन्नवनीतं उदियात्तदाज्येऽपि कार्यं सद्यस्त्वाय
- १६.१४.१ अन्य साद्यःक्रैकाहः
अथैषोऽङ्गिरसां अनुक्रीः
- १६.१४.२ अधिकारि निर्णयः
एतेन वा अङ्गिरस आदित्यानाप्नुवन्यो हीन आनुजावर इव स्यात्स एतेन यजेताप्नोति पूर्वेषां प्रहां आप्नुवन्ह्येतेनाङ्गिरस आदित्यान्
- १६.१४.३ स्तोमक्लृप्तिः
तस्य चतुर्विंशौ पवमानौ
- १६.१४.४ स्तोमक्लृप्तिः
चतुर्विंशत्यक्षरा गायत्री गायत्र्या वै देवा इमान्लोकान्व्याप्नुवन्निमानेवैतेन लोकान्व्याप्नोति
- १६.१४.५ स्तोमक्लृप्तिः
तेजो ब्रह्मवर्चसं गायत्री तेज एव ब्रह्मवर्चसं अवरुन्धे प्राणो गायत्री प्रजननं प्राणादेव गायत्र्याः प्रजायते
- १६.१४.६ प्रजासाधनता
उभये स्तोमा युग्मन्तश्चायुजश्[थुस्Bी; KSSचार्युजश्] च तन्मिथुनं तस्मान्मिथुनात्प्रजायते
- १६.१४.७ प्रजासाधनता
विराजं संपद्यतेऽन्नं विराडन्नाद्यं एवावरुन्धे
- १६.१४.८ प्रजासाधनता
एकविंशोऽग्निष्टोमो भवति प्रतिष्ठा वा एकविंशोऽन्तत एव यज्ञस्य प्रतितिष्ठति
- १६.१५.१ चतुर्थ साद्यःक्रैकाहः
अथैष विश्वजिच्छिल्पः
- १६.१५.२ वेदितुः फलं
शिल्पं वा एष स्तोमानां पश्यति गृहे शिल्पं य एवं वेद
- १६.१५.३ स्तोम विधानं
तस्याष्टादशौ पवमानौ
- १६.१५.४ स्तोम विधानं
चक्रीवान्वा एष यज्ञः कामाय यं कामं कामयते तं एतेनाभ्यश्नुते यत्र हि चक्रीवता कामयते तदभ्यश्नुते
- १६.१५.५ अधिकारि निरूपणं
स्वर्गकामो यजेत
- १६.१५.६ स्वर्गफल साधनता
स्वर्गो लोकः पृष्ठानि स्वर्गं एवैतेन लोकं आप्नोति
- १६.१५.७ सर्व्व पृष्ठता स्तुतिः
तेजो ब्रह्मवर्चसं पृष्ठानि यदेकधा पृष्ठानि भवन्त्येकधैवास्मिंस्तेजो ब्रह्मवर्चसं दधाति
- १६.१५.८ सर्व्व पृष्ठता स्तुतिः
अन्नं पशवः पृष्ठानि यदेकधा पृष्ठानि भवन्त्येकधैवास्मिन्नन्नाद्यं पशून्दधाति
- १६.१५.९ स्तोम विधानं
तदाहुर्नानालोकानि पृष्ठानि यदेकस्मिन्यज्ञक्रतौ समवरुध्यन्त ईश्वरो यजमानोऽप्रतिष्ठातोरिति
- १६.१५.१० दोषपरिहारः
एकविंशं होतुः पृष्ठं भवति प्रतिष्ठा वा एकविंशो मध्य एव यज्ञस्य प्रतितिष्ठत्येकविंशोऽग्निष्टोमो भवति प्रतिष्ठा वा एकविंशोऽन्तत एव यज्ञस्य प्रतितिष्ठति
- १६.१५.११ तस्य स्तुतिः
द्वावेतावेकविंशौ भवतो द्विपाद्यजमानो यजमानं एव यज्ञे पशुषु च प्रतिष्ठापयति
- १६.१६.१ षष्ठ साद्यःक्रः
अथैष एकत्रिकः प्रजापतेरुद्भित्
- १६.१६.२ प्रजापतेरुद्भित्त्वं
एतेन वै प्रजापतिरेषां लोकानां उदभिनत्
- १६.१६.३ प्रजापतेरुद्भित्त्वं
कृतस्तोमो वा एष उद्भिन्नं ह्येव कृतस्य
- १६.१६.४ प्रजापतेरुद्भित्त्वं
यदेकया स्तुवन्त्येको वै प्रजापतिः प्रजापतिं एवाप्नोत्यथ यत्तिसृभिस्त्रय इमे लोका एष्वेव लोकेषु प्रतितिष्ठति
- १६.१६.५ प्रजापतेरुद्भित्त्वं
ता उ चतस्रस्संपद्यन्ते चतुष्पादाः पशवः पशुष्वेव प्रतितिष्ठति
- १६.१६.६ प्रजापतेरुद्भित्त्वं
गायत्रीं संपद्यते तेजो ब्रह्मवर्चसं गायत्री तेज एव ब्रह्मवर्चसं अवरुन्धे
- १६.१६.७ प्रजापतेरुद्भित्त्वं
प्राणो गायत्री प्रजननं प्राणादेव गायत्र्याः प्रजायते
- १६.१६.८ स्तोत्रीया विधानं
ऽऽअया रुचा हरिण्या पुनानऽऽ इत्यार्भवः पवमानः
- १६.१६.९ तस्याः स्तुतिः
सर्वेषां वा एषा छन्दसां रूपं सर्वेष्वेव छन्दःस्वार्भवं पवमानं प्रतिष्ठापयति
- १६.१६.१० तस्याः स्तुतिः
तस्यां गायत्रपार्श्वं न गायत्रादेति न साम्नो न निधनात्