← अध्यायः २३ पञ्चविंशब्राह्मणम् (ताण्ड्यब्राह्मणम्)
अध्यायः २४
[[लेखकः :|]]
अध्यायः २५ →
त्रयस्त्रिंशद्रात्रमारभ्य संवत्सरपर्य्यन्तानि सत्राणि।

24.1
अतिरात्रस्त्रयः पञ्चाहा विश्वजिदतिरात्र एकः पञ्चाहो द्वादशाहस्य दशाहान्यतिरात्रः
प्रजापतिः प्रजा असृजत ता न प्रत्यतिष्ठंस्ता एताभिः प्रत्यतिष्ठन्निमे लोका न प्रत्यतिष्ठंस्त एताभिः प्रत्यतिष्ठन् प्रत्यतिष्ठन् प्रतिष्ठाकामा उपेयुः प्रत्येव तिष्ठन्ति
अरूपेण वा एताः सरूपा अरूपेण प्रजाः सरूपा अरूपेणेमे लोकाः सरूपा यद्रथन्तरस्य लोकं बृहदापद्यते बृहतो रथन्तरमरूपेणैवैभ्यस्तत् सरूपं प्रजनयन्ति
लुप्यते वा एतत् षष्ठमहर्यत् पञ्चाहानुपयन्ति नर्तवः कल्पन्तेः यत् पृष्ठयः षडहस्तेन षष्ठमहर्न लुप्यते तेनर्तवः कल्पन्ते
अथ यानि द्वादशाहस्य दशाहानि तेन पञ्चाहेभ्यो न यन्ति
ऊधर्वा अन्तरिक्षं स्तनावभितोऽनेन वा एष देवेभ्यो दुग्धेऽमुना प्रजाभ्यः
इदं वा अन्तरिक्षं वियदिमौ स्तनावभितः
तदभ्यनूक्ता
त्रिंशति त्रयः परो ये देवा बर्हिरासत व्यन्नह द्विता तनेति
ऊधर्वै मध्यमोऽतिरात्रः स्तनावभितः
यदेषोऽनतिरात्रः स्यादूधः प्रतिहरेत्
तस्मादतिरात्रः कार्य ऊधसोऽप्रतिहाराय
त्रयस्त्रिंशद्देवता एताभिरार्ध्नुवंस्तेनर्धिस्तस्मादेताभिर्यजन्त ऋध्या एव
नाना ब्रह्मसामान्युपयन्त्यह्ना नाना वीर्यतायै नानैव वीर्याण्यवरून्धते
24.2
अतिरात्रोऽभिप्लवः षडहोऽतिरात्रोऽभिप्लवः षडहोऽतिरात्रोऽभिप्लवः षडहो द्वादशाहस्य दशाहानि महाव्रतं चातिराश्च
आदित्याश्चाङ्गिरसश्चैतत् सत्त्रं समदधतादित्यानामेकविंशतिरङ्गिरसां द्वादशाह आदित्या अस्मिंल्लोक ऋद्धा आदित्या अमुष्मिन्नङ्गिरसोऽस्मिन्नङ्गिरसोऽमुष्मिन् द्वयं सत्त्रं यावद्द्वयेन सत्त्रेणर्ध्नुवन्ति तावत्येतासामृद्धिः
24.3
अतिरात्रस्त्रयः पञ्चाहा विश्वजिदतिरात्रस्त्रयः पञ्चाहा अतिरात्रः
अपशव्यं वा एतत् सत्त्रं यदच्छन्दोमं यद्विश्वजिति छन्दोमानुपयन्ति तेन छन्दोमवत्यस्तेन पशव्याः
पक्षिण्यो वा एता रात्रयो यं कामं कामयन्ते तमेताभिरभ्यश्नुवते यत्र यत्र हि पक्षी कामयते तत् तदभ्यश्नुते
त्रिवृता प्रयन्ति त्रिवृतोद्यन्ति प्राणा वै त्रिवृत् स्तोमानां प्राणैरेव प्रयन्ति प्राणेषु प्रतितिष्ठन्ति
24.4
अतिरात्रो ज्योतिर्गौरायुस्त्र्यहस्त्रयोऽभिप्लवाः षडहा द्वादशाहस्य दशाहानि महाव्रतं चातिरात्रश्चर्धिकामा उपेयुः
एताभिर्वै प्रजापतिः सर्वामृद्धिमार्ध्नोत् सर्वामृद्धिमृध्नुवन्ति य एता उपयन्ति
यदेताश्चतुस्त्रिंशद्रात्रयो भवन्ति त्रयस्त्रिंशद्देवताः प्रजापतिश्चतुस्त्रिंशो देवतानां प्रजापतेरेवर्धिमृध्नुवन्ति
24.5
अतिरात्रो ज्योतिर्गौरायुः पञ्चाहस्त्रयोऽभिप्लवाः षडहा द्वादशाहस्य दशाहान्यतिरात्रः पशुकामा उपेयुः
यदेताः पञ्चात्रिंशद्रात्रयो भवन्ति पाङ्क्ताः पशवः पशूनेवैताभिरवरुन्धते
24.6
अतिरात्रश्चत्वारोऽभिप्लवाः षडहा द्वादशाहस्य दशाहान्यतिरात्रः पशुकामा उपेयुः
एताभिर्वै देवा आदित्यमस्तभ्नुवन्नादित्यलोकं जयन्ति य एता उपयन्ति
बृहती वा एता रात्रयः स्वाराज्यं छन्दसां बृहती यो वै पशूनां भूमानं गच्छति स स्वाराज्यं गच्छति प्र स्वाराज्यमाप्नुवन्ति य एता उपयन्ति
24.7
एता एव समहाव्रताः
एताभिर्वै प्रजापतिरुभौ कामाववारून्धान्नं व्रतं पशवो बृहत्युभावेवैताभिः कामाववरून्धते
24.8
अतिरात्रो गौश्चायुश्च द्वे अहनी चत्वारोऽभिप्लवाः षडहा द्वादशाहस्य दशाहान्यतिरात्रः पशुकामा उपेयुः स्पष्टोऽर्थः
यदेता अष्टात्रिंशद्रात्रयो भवन्त्यष्टाशफाः पशवः शफश एवैताभिः पशुनवरून्धते
24.9
अतिरात्रो ज्योतिर्गौरायुस्त्र्यहश्चत्वारोऽभिप्लवाः षडहा द्वादशाहस्य दशाहान्यतिरात्रः
एताभिर्वै प्रजापतिरनन्ता श्रियमजयदनन्ता वा एता या एकयानचत्वारिंशन्नेति वै वाचोऽनन्तम्
यदेता एकयानचत्वारिंशद्रात्रयो भवन्त्यनन्तामेवैताभिः श्रियं जयन्ति
24.10
एता एव समहाव्रताः
सर्वा वा एता विराजो दशिनी प्रथमा विंशिनी द्वितीया त्रिंशिनी तृतीयैषा वै परमा विराट्यच्चत्वारिंशद्रात्रयः पङ्क्तिर्वै परमा विराट्
परमायामेव विराजि प्रतितिष्ठन्ति
24.11
अतिरात्रस्त्रीणि त्रिवृन्त्यहान्यग्निष्टोममुखान्यतिरात्रो दश पञ्चदशा उक्थ्याः षोडशिमद्दशममहरतिरात्रो द्वादश सप्तदशा उक्थ्या अतिरात्रः पृष्ठयः षडहोऽतिरात्रो द्वादशैकविंशा उक्थ्या अतिरात्रः
प्रजापतिः प्रजा असृजत ता अविधृता असञ्जानाना अन्योन्यामादंस्तेन प्रजापतिरशोचत् स एता अपश्यत् ततो वा इदं व्यावर्तत गावोऽभवन्नश्वा अश्वाः पुरुषाः पुरुषा मृगा मृगाः
वि पाप्मना वर्तन्ते य एता उपयन्ति
यदतिरात्रा अन्तरा विधृत्यै तस्मान्नेतर इतरस्मिन् रेतो दधाति
यत् पृष्ठ्याः स्तोमाः स सृष्टास्तस्मादजावयः पशूनां सह चरन्ति तस्मादु गर्दभो वडवाया रेतो दधाति
अपशव्यं वा एतत् सत्त्रं यदच्छन्दोमं यत् सन्धिषामसु छन्दांस्युपयन्ति तेन छन्दोमवत्यस्तेन पशव्याः
गायत्रीषु जराबोधीयमुष्णिक्षु श्रुध्यमनुष्टुप्सु नानदं बृहतीषु रथन्तरं पङ्क्तिषु रायोवाजीयं त्रिष्टुप्स्वौशनं जगतीषु कावम्
ऊर्ध्वानि छन्दांस्युपयन्त्यनपभ्रंशाय
प्राणो वै स्वरो यत् स्वरावन्ततो भवतस्तस्मात् द्वावन्ततः प्राणौ
24.12
अतिरात्रौ द्वावभिप्लवौ षडहौ गौश्चायुश्चातिरात्रौ द्वावभिप्लवौ षडहावभिजिच्च विश्वजिच्चतिरात्रावेकोऽभिप्लवः षडहः सर्वस्तोमश्च नव सप्तदशश्चातिरात्रो द्वादशाहस्य दशाहानि महाव्रतं चातिरात्रश्च
आदित्यानां यमातिरात्राः
यमेवैषा श्रीर्भवति य एता उपयन्ति
एताभिर्वा आदित्या द्वन्द्वमार्ध्नुवन्मित्रश्च वरुणश्च धाता चार्यमा चांशश्च भगश्चेन्द्रश्च विवस्वाँश्चैतासामेव देवतानामृद्धिमृध्नुवन्ति य एता उपयन्ति
तदभ्यनूक्ता
अष्टौ पुत्रासो अदितेर्ये जातास्तन्वं परि देवा उपप्रैत् सप्तभिः परा मार्ताण्डमास्यदिति
आदित्या अस्मिंल्लोक ऋद्धा आदित्या अमुष्मिन्नुभयोरनयोर्लोकयोरृध्नुवन्ति देवलोके च मनुष्यलोके च य एता उपयन्ति
24.13
अतिरात्रश्चत्वारोऽभिप्लवाः षडहाः सर्वस्तोमोऽतिरात्रो द्वावभिप्लवौ षडहौ द्वादशाहस्य दशाहान्यतिरात्रः
प्रजापतिः प्रजा असृजत स रूक्षोऽभवत् तं रूक्षं नाजनन् स आ चाङ्क्ताभि चाङ्क्त
य आत्मानं नेव जानीरंस्त एता उपेयुर्यदा चाञ्जतेऽभि चाञ्जते शुभमेवात्मन् दधते जानन्त्येनान्
गौग्गुलवेन प्रातस्सवने सौगन्धिकेन माध्यन्दिने सवने पैतुदारवेण तृतीयसवने
अग्निर्वै देवानां हौत्रमुपैष्यञ्छरीरमधूनुत तस्य यन्मां समासीत् तद्गुग्गुल्वभवद्यत् स्नाव तत् सुगन्धितेजनं यदस्थि तत् पोतुदार्वेतानि वै देवसुरभीणि देवसुरभिभिरेव तदभ्यञ्जते
24.14
अतिरात्रश्चतुर्विंशं प्रायणीयमहस्त्रयोऽभिप्लवाः षडहा अभिजित् त्रयः स्वरसामानो दिवाकीर्त्यमहस्त्रयः स्वरसामानो विश्वजिदेकोऽभिप्लवः षडह आयुश्च गौश्च द्वे आहनी द्वादशाहस्य दशाहानि महाव्रतं चातिरात्रश्च संवत्सरसं मिता यावती संवत्सरस्यर्द्धिस्तावत्येतासामृद्धिः
तदाहुर्यच्चतुर्विंशमहः प्रयणीयं कुर्युः संवत्सरमारभ्य न समापयेयुरिति त्रिवृदेव कार्यं प्राणा वै त्रिवृत् प्राणानेवोपयन्ति
अथो खल्वाहुश्चतुर्विंशमेव कार्यं समृध्यै
अथैते स्वरसामानः शिरो वै दिवाकीर्त्यं प्राणाः स्वरसामानो यद्दिवाकीर्त्यमभितः स्वरसामानो भवन्ति शिरस्येव तत् प्राणा धीयन्ते
अथ यावन्त्यौ प्राणौ तौ विश्वजिदभिजितावथैते गोआयुषी मिथुनौ स्तोमावुपयन्ति प्रजात्यै
अथैतानि द्वादशाहस्य दशाहानि वाचमविच्छिन्नामुपयन्ति प्रजननाय
अथैतद्व्रतमन्नं वै व्रत न वा अन्यत्र मुखादन्नं धिनोति यदुपरिष्टाद्व्रतमुपयन्ति मुखत एव तदन्नाद्यं धीयते तस्मान्मुखे सदन्नं धिनोति
अथैतौ प्रायणीयोदयनीयावतिरात्रौ येनैव प्राणेन प्रयन्ति तमभ्युधन्ति
24.15
अतिरात्रो नव त्रिवृन्त्यहान्यग्निष्टोममुखष्षडहोऽथ यानि त्रीण्यहान्यग्निष्टोमावभित उक्थ्यं मध्यतो नव पञ्चदशान्यहान्यग्निष्टोममुखः षडहोऽथ यानि त्रीण्यहान्यग्निष्टोमावभित उक्थ्यं मध्यतो नव सप्तदशान्यहान्यग्निष्टोममुखः षडहोऽथ यानि त्रीण्यहान्यग्निष्टोमावभित उक्थ्यं मध्यतो नवैकविंशान्यहान्यग्निष्टोममुखः षडहोऽथ यानि त्रीण्यहान्यग्निष्टोमावभित उक्थ्यं मध्यतो द्वादशाहस्य दशाहानि महाव्रतं चातिरात्रश्च
एताभिर्वै सविता सर्वस्य प्रसवमगच्छत्
सर्वस्य प्रसवं गच्छन्ति य एता उपयन्ति
यद्गणशः स्तोमा बहव एव भवन्ति सह त्रिवृतः सह पञ्चदशाः सह सप्तदशाः सहैकविंशाः सवितुर्वा एताः ककुभः
ककुभः समानानां च प्रजानां च भवन्ति य एता उपयन्ति
24.16
अतिरात्रश्चत्वारोऽभिप्लवाः षडहा महाव्रतं द्वावभिप्लवौ षडहौ द्वादशाहस्य दशाहान्यतिरात्रः
ऋतवो न प्रत्यतिष्ठंस्त एताभिः प्रत्यतिष्ठन् प्रतिष्ठाकामा उपेयुः
प्रत्येव तिष्ठन्ति षड्वा ऋतव ऋतुष्वेवैताभिः प्रतितिष्ठन्ति यत् कॢप्तान् षडहानुपयन्ति कॢप्त्या एव
अथैतद्व्रतमन्नं वै व्रतं न वा अन्यत्र मध्यादन्नं धिनोति यद्व्रतं मध्यत उपयन्ति मध्यत एव तदन्नाद्यं धीयते तस्मान्मध्ये सदन्नं धिनोति
यत् कॢप्तौ षडहावुपयन्ति कॢप्त्या एव
अथैतानि द्वादशाहस्य दशाहानि वाचमविच्छिन्नामुपयन्ति प्रजननायाथैतौ प्रायणीयोदयनीयावतिरात्रौ येनैव प्राणेन प्रयन्ति तमभ्युद्यन्ति
24.17
अतिरात्रः षडभिप्लवाः षडहा द्वादशाहस्य दशाहानि महाव्रतं चातिरात्रश्च
एताभिर्वा इन्द्राग्नी अत्यन्या देवता अभवतामत्यन्याः प्रजा भवन्ति य एता उपयन्ति
इन्द्राग्नी वै देवानामोजिष्ठा ओजिष्ठा भवन्ति य एता उपयन्ति
यत् कॢप्तान् षडहानुपयन्ति कॢप्त्या एवाथैतानि द्वादशाहस्य दशाहानि वाचमविच्छिन्नामुपयन्ति प्रजननायाथैतद्व्रतमथैतौ प्रायणीयोदयनीयावतिरात्रौ येनैव प्राणेन प्रयन्ति तमभ्युधन्ति
24.18
अतिरात्रश्चतुर्विंशं प्रायणीयमहस्त्रयोऽभिप्लवाः षडहाः पृष्ठ्यः षडहोऽभिजित् त्रयस्स्वरसामानो दिवाकीर्त्यमहस्त्रयः स्वरसामानो विश्वजित् पृष्ठ्यः षडहस्त्रयस्त्रिंशारम्भण एकोऽभिप्लवः षडह आयुश्च गौश्च द्वे अहनी द्वादशाहस्य दशाहानि महाव्रतश्चातिरात्रश्च तदेतदेकषष्टिरात्रं दैवानां व्रात्यानाम्
दैवा वै व्रात्याः सत्त्रमासत बुधेन स्थपतिना ते ह वा अनिर्याच्य वरुणं राजानं देवयजनं दिदीक्षुस्तान् ह वा वरूणो राजानु व्याजहारान्तरेमि वो यज्ञियाद्भागधेयान्न देवयानं पन्थानं प्रज्ञास्यथेति तस्मात् तेभ्यो न हविर्गृह्णन्ति न ग्रहम्
अथ ह वै तर्हि नौषधीषु पय आसीन्न क्षीरे सर्पिर्न मांसे मेदो न त्वचि लोमानि न वनस्पतिषु पलाशानि तद्यत एतदेकषष्टिरात्रं दैवा व्रात्या उपायंस्ततो वै तानि भुतान्येतैर्वीर्यैः समसृज्यन्त तेजस्वन्त्येवासन् पयस्वन्ति
तदेष श्लोकोऽभ्यनूच्यते
किमकर्तेति यत् पुत्रान्मुहुर्दैवां अपृच्छत मही बुधस्यासीद्दीक्षा स क्षीरे सर्पिराहरत्
महीं दीक्षां सौमायनो बुधो यदुदयच्छदनन्दत् सर्वमाप्नोन्मन्मांसे मेदोऽधा इति
दरिद्रा आसन् पशवः कृशाः सन्तो व्यस्थकाः सौमायनस्य दीक्षायां समसृज्यन्त मेदसेति
तद्य एतदेकषष्टिरात्रमुपेयुस्ते देवयजनमध्यवसाय गार्हपत्य आहुतिं जुहयुर्देव वरुण देवयजनं नो देहि स्वाहेति ते दत्ते देवजने यजन्ते
ते सर्वामृद्धिमार्ध्नुवन् सर्वामृद्धिमृध्नुवन्ति य एतदुपयन्ति
24.19
अतिरात्रो ज्योतिर्गौरायुस्त्र्यहश्चतुर्दशाभिप्लवाः षडहा द्वादशाहस्य दशाहानि महाव्रतं चातिरात्रश्च
देवा वै मृत्योरबिभयुस्ते प्रजापतिमुपाधावंस्तेभ्य एतेन शतरात्रेणामृतत्वं प्रायच्छदेतद्वाव मनुष्यस्यामृतत्वं यत् सर्वमायुरेति वसीयान् भवति सर्वमायुर्यन्ति वसीयांसो भवन्ति य एतदुपयन्ति
अभिप्रयायमभिषुण्वन्त्यभिक्रान्त्यै समानत्राभिषुण्वन्ति प्रतिष्ठित्यै
24.20
अतिरात्रश्चतुर्विंशं प्रायणीयमहश्चत्वारोऽभिप्लवाः षडहाः पृष्ठ्यः षडहः स मासः स द्वितीयः स तृतीयः स चतुर्थः स पञ्चमस्त्रयोऽभिप्लवाः षडहाः पृष्ठ्यः षडहोऽभिजित् त्रयः स्वरसामानो दिवाकीर्त्यमहस्त्रयः स्वरसामानो विश्वजित् पृष्ठ्यः षडहस्त्रयस्त्रिंशारम्भणस्त्रयोऽभिप्लवाः षडहाः पृष्ठ्यः षडहस्त्रयस्त्रिंशारम्भणश्चत्वारोऽभिप्लवाः षडहाः स मासः स द्वितीयः स तृतीयः स चतुर्थस्त्रयोऽभिप्लवाः षडहा आयुश्च गौश्च द्वे अहनी द्वादशाहस्य दशाहानि महाव्रञ्चातिरात्रश्च
संवत्सरब्राह्मणं ब्राह्मणम्

२४.१.१ त्रयस्त्रिंशद्रात्रः

अतिरात्रस्त्रयः पञ्चाहा विश्वजिदतिरात्र एकः पञ्चाहो द्वादशाहस्य दशाहान्यतिरात्रः

२४.१.२ अधिकारि प्रदर्शनं

प्रजापतिः प्रजा असृजत ता न प्रत्यतिष्ठंस्ता एताभिः प्रत्यतिष्ठन्निमे लोका न प्रत्यतिष्ठंस्त एताभिः प्रत्यतिष्ठन्प्रत्यतिष्ठन्प्रतिष्ठाकामा उपेयुः प्रत्येव तिष्ठन्ति

२४.१.३ स्थानव्यत्ययेनानुष्ठानं

अरूपेण वा एताः सरूपा अरूपेण प्रजाः सरूपा अरूपेणेमे लोकाः सरूपा यद्रथन्तरस्य लोकं बृहदापद्यते बृहतो रथन्तरं अरूपेणैवैभ्यस्तत्सरूपं प्रजनयन्ति

२४.१.४ दोष परिहारः

लुप्यते वा एतत्षष्ठं अहर्यत्पञ्चाहानुपयन्ति नर्तवः कल्पन्तेः यत्पृष्ठयः षडहस्तेन षष्ठं अहर्न लुप्यते तेनर्तवः कल्पन्ते

२४.१.५ पञ्चाहविच्छेदाभावः

अथ यानि द्वादशाहस्य दशाहानि तेन पञ्चाहेभ्यो न यन्ति

२४.१.६ रूपकल्पनोपन्यासः

ऊधर्वा अन्तरिक्षं स्तनावभितोऽनेन वा एष देवेभ्यो दुग्धेऽमुना प्रजाभ्यः

२४.१.७ ऊधस्त्वादि कल्पनं

इदं वा अन्तरिक्षं वियदिमौ स्तनावभितः

२४.१.८ विसम्वादिनी ऋक्

तदभ्यनूक्ता

२४.१.९ अनुकूला ऋक्

त्रिंशति त्रयः परो ये देवा बर्हिरासत व्यन्नह द्विता तनेति

२४.१.१० सर्व्वसम्पादनं

ऊधर्वै मध्यमोऽतिरात्रः स्तनावभितः

२४.१.११ विश्वजिदभावबोधः

यदेषोऽनतिरात्रः स्यादूधः प्रतिहरेत्

२४.१.१२ कर्त्तव्योपसंहारः

तस्मादतिरात्रः कार्य ऊधसोऽप्रतिहाराय

२४.१.१३ समृद्धि हेतुता

त्रयस्त्रिंशद्देवता एताभिरार्ध्नुवंस्तेनर्धिस्तस्मादेताभिर्यजन्त ऋध्या एव

२४.१.१४ ब्रह्मसाम्नां नानाविधत्वं

नाना ब्रह्मसामान्युपयन्त्यह्ना नाना वीर्यतायै नानैव वीर्याण्यवरून्धते

२४.२.१ अपरत्रयस्त्रिंशद्रात्रः

अतिरात्रोऽभिप्लवः षडहोऽतिरात्रोऽभिप्लवः षडहोऽतिरात्रोऽभिप्लवः षडहो द्वादशाहस्य दशाहानि महाव्रतं चातिराश्च

२४.२.२ समान फल प्रशंसनं

आदित्याश्चाङ्गिरसश्चैतत्सत्त्रं समदधतादित्यानां एकविंशतिरङ्गिरसां द्वादशाह आदित्या अस्मिंल्लोक ऋद्धा आदित्या अमुष्मिन्नङ्गिरसोऽस्मिन्नङ्गिरसोऽमुष्मिन्द्वयं सत्त्रं यावद्द्वयेन सत्त्रेणर्ध्नुवन्ति तावत्येतासां ऋद्धिः

२४.३.१ तृतीय त्रयस्त्रिंशद्रात्रः

अतिरात्रस्त्रयः पञ्चाहा विश्वजिदतिरात्रस्त्रयः पञ्चाहा अतिरात्रः

२४.३.२ दोष परिहारः

अपशव्यं वा एतत्सत्त्रं यदच्छन्दोमं यद्विश्वजिति छन्दोमानुपयन्ति तेन छन्दोमवत्यस्तेन पशव्याः

२४.३.३ सर्व्वकाम प्राप्ति हेतुता

पक्षिण्यो वा एता रात्रयो यं कामं कामयन्ते तं एताभिरभ्यश्नुवते यत्र यत्र हि पक्षी कामयते तत्तदभ्यश्नुते

२४.३.४ त्रित्वसंख्या प्रशंसा

त्रिवृता प्रयन्ति त्रिवृतोद्यन्ति प्राणा वै त्रिवृत्स्तोमानां प्राणैरेव प्रयन्ति प्राणेषु प्रतितिष्ठन्ति

२४.४.१ चतुस्त्रिंशद्रात्रः

अतिरात्रो ज्योतिर्गौरायुस्त्र्यहस्त्रयोऽभिप्लवाः षडहा द्वादशाहस्य दशाहानि महाव्रतं चातिरात्रश्चर्धिकामा उपेयुः

२४.४.२ समृद्धिफलत्वं

एताभिर्वै प्रजापतिः सर्वां ऋद्धिं आर्ध्नोत्सर्वां ऋद्धिं ऋध्नुवन्ति य एता उपयन्ति

२४.४.३ संख्या प्रशंसा

यदेताश्चतुस्त्रिंशद्रात्रयो भवन्ति त्रयस्त्रिंशद्देवताः प्रजापतिश्चतुस्त्रिंशो देवतानां प्रजापतेरेवर्धिं ऋध्नुवन्ति

२४.५.१ पञ्चत्रिंशद्रात्रः

अतिरात्रो ज्योतिर्गौरायुः पञ्चाहस्त्रयोऽभिप्लवाः षडहा द्वादशाहस्य दशाहान्यतिरात्रः पशुकामा उपेयुः

२४.५.२ रात्रिसंख्या प्रशंसा

यदेताः पञ्चात्रिंशद्रात्रयो भवन्ति पाङ्क्ताः पशवः पशूनेवैताभिरवरुन्धते

२४.६.१ षट्त्रिंशद्रात्रः

अतिरात्रश्चत्वारोऽभिप्लवाः षडहा द्वादशाहस्य दशाहान्यतिरात्रः पशुकामा उपेयुः

२४.६.२ फलान्तर कथनं

एताभिर्वै देवा आदित्यं अस्तभ्नुवन्नादित्यलोकं जयन्ति य एता उपयन्ति

२४.६.३ फलान्तर कथनं

बृहती वा एता रात्रयः स्वाराज्यं छन्दसां बृहती यो वै पशूनां भूमानं गच्छति स स्वाराज्यं गच्छति प्र स्वाराज्यं आप्नुवन्ति य एता उपयन्ति

२४.७.१ सप्तत्रिंशद्रात्रः

एता एव समहाव्रताः

२४.७.२ रात्रीणां फलं

एताभिर्वै प्रजापतिरुभौ कामाववारून्धान्नं व्रतं पशवो बृहत्युभावेवैताभिः कामाववरून्धते

२४.८.१ अष्टात्रिंशद्रात्रः

अतिरात्रो गौश्चायुश्च द्वे अहनी चत्वारोऽभिप्लवाः षडहा द्वादशाहस्य दशाहान्यतिरात्रः पशुकामा उपेयुः स्पष्टोऽर्थः

२४.८.२ पशुसाधनता

यदेता अष्टात्रिंशद्रात्रयो भवन्त्यष्टाशफाः पशवः शफश एवैताभिः पशुनवरून्धते

२४.९.१ एकोनचत्वारिंशद्रात्रः

अतिरात्रो ज्योतिर्गौरायुस्त्र्यहश्चत्वारोऽभिप्लवाः षडहा द्वादशाहस्य दशाहान्यतिरात्रः

२४.९.२ अनन्तश्रीजयफलं

एताभिर्वै प्रजापतिरनन्ता श्रियं अजयदनन्ता वा एता या एकयानचत्वारिंशन्नेति वै वाचोऽनन्तम्

२४.९.३ यजमान फलं

यदेता एकयानचत्वारिंशद्रात्रयो भवन्त्यनन्तां एवैताभिः श्रियं जयन्ति

२४.१०.१ चत्वारिंशद्रात्रः

एता एव समहाव्रताः

२४.१०.२ रात्रीणां विराड्रूपता

सर्वा वा एता विराजो दशिनी प्रथमा विंशिनी द्वितीया त्रिंशिनी तृतीयैषा वै परमा विराट्यच्चत्वारिंशद्रात्रयः पङ्क्तिर्वै परमा विराट्

२४.१०.३ वैराज प्रतिष्ठाफलं

परमायां एव विराजि प्रतितिष्ठन्ति

२४.११.१ प्रथमैकोनपञ्चाशद्रात्रः

अतिरात्रस्त्रीणि त्रिवृन्त्यहान्यग्निष्टोममुखान्यतिरात्रो दश पञ्चदशा उक्थ्याः षोडशिमद्दशमं अहरतिरात्रो द्वादश सप्तदशा उक्थ्या अतिरात्रः पृष्ठयः षडहोऽतिरात्रो द्वादशैकविंशा उक्थ्या अतिरात्रः

२४.११.२ अर्थवाद कथनं

प्रजापतिः प्रजा असृजत ता अविधृता असञ्जानाना अन्योन्यां आदंस्तेन प्रजापतिरशोचत्स एता अपश्यत्ततो वा इदं व्यावर्तत गावोऽभवन्नश्वा अश्वाः पुरूषाः पुरूषा मृगा मृगाः

२४.११.३ पापव्यावृत्ति फलं

वि पाप्मना वर्तन्ते य एता उपयन्ति

२४.११.४ पृष्ठ्यषडहः प्रशंसा

यदतिरात्रा अन्तरा विधृत्यै तस्मान्नेतर इतरस्मिन्रेतो दधाति

२४.११.५ पृष्ठ्यषडहः प्रशंसा

यत्पृष्ठ्याः स्तोमाः स सृष्टास्तस्मादजावयः पशूनां सह चरन्ति तस्मादु गर्दभो वडवाया रेतो दधाति
२४.११.६ दोष परिहारः
अपशव्यं वा एतत्सत्त्रं यदच्छन्दोमं यत्सन्धिषामसु छन्दांस्युपयन्ति तेन छन्दोमवत्यस्तेन पशव्याः

२४.११.७ साम प्रयोगः

गायत्रीषु जराबोधीयं उष्णिक्षु श्रुध्यं अनुष्टुप्सु नानदं बृहतीषु रथन्तरं पङ्क्तिषु रायोवाजीयं त्रिष्टुप्स्वौशनं जगतीषु कावम्

२४.११.८ गायत्र्याद्यनुष्ठानं

ऊर्ध्वानि छन्दांस्युपयन्त्यनपभ्रंशाय

२४.११.९ गायत्र्यादि प्रशंसा

प्राणो वै स्वरो यत्स्वरावन्ततो भवतस्तस्मात्द्वावन्ततः प्राणौ

२४.१२.१ द्वितीयैकोनपञ्चाशद्रात्रः

अतिरात्रौ द्वावभिप्लवौ षडहौ गौश्चायुश्चातिरात्रौ द्वावभिप्लवौ षडहावभिजिच्च विश्वजिच्चतिरात्रावेकोऽभिप्लवः षडहः सर्वस्तोमश्च नव सप्तदशश्चातिरात्रो द्वादशाहस्य दशाहानि महाव्रतं चातिरात्रश्च

२४.१२.२ संज्ञा विशेषः

आदित्यानां यमातिरात्राः

२४.१२.३ संज्ञानुकूलं फलं

यमेवैषा श्रीर्भवति य एता उपयन्ति

२४.१२.४ संज्ञानुकूलं फलं

एताभिर्वा आदित्या द्वन्द्वं आर्ध्नुवन्मित्रश्च वरूणश्च धाता चार्यमा चांशश्च भगश्चेन्द्रश्च विवस्वाँश्चैतासां एव देवतानां ऋद्धिं ऋध्नुवन्ति य एता उपयन्ति

२४.१२.५ वचनावतारः

तदभ्यनूक्ता

२४.१२.६ वचनावतारः

अष्टौ पुत्रासो अदितेर्ये जातास्तन्वं परि देवा उपप्रैत्सप्तभिः परा मार्ताण्डं आस्यदिति

२४.१२.७ समृद्धिफलत्वं

आदित्या अस्मिंल्लोक ऋद्धा आदित्या अमुष्मिन्नुभयोरनयोर्लोकयोरृध्नुवन्ति देवलोके च मनुष्यलोके च य एता उपयन्ति

२४.१३.१ तृतीयैकोनपञ्चाशद्रात्रः

अतिरात्रश्चत्वारोऽभिप्लवाः षडहाः सर्वस्तोमोऽतिरात्रो द्वावभिप्लवौ षडहौ द्वादशाहस्य दशाहान्यतिरात्रः

२४.१३.२ स्तावकार्थवादः

प्रजापतिः प्रजा असृजत स रूक्षोऽभवत्तं रूक्षं नाजनन्स आ चाङ्क्ताभि चाङ्क्त

२४.१३.३ मन्त्रवर्जनाभ्यञ्जनं

य आत्मानं नेव जानीरंस्त एता उपेयुर्यदा चाञ्जतेऽभि चाञ्जते शुभं एवात्मन्दधते जानन्त्येनान्

२४.१३.४ अञ्जनादि द्रव्याणि

गौग्गुलवेन प्रातस्सवने सौगन्धिकेन माध्यन्दिने सवने पैतुदारवेण तृतीयसवने

२४.१३.५ गुग्गुल्याद्युत्पत्तिः

अग्निर्वै देवानां हौत्रं उपैष्यञ्छरीरं अधूनुत तस्य यन्मां समासीत्तद्गुग्गुल्वभवद्यत्स्नाव तत्सुगन्धितेजनं यदस्थि तत्पोतुदार्वेतानि वै देवसुरभीणि देवसुरभिभिरेव तदभ्यञ्जते

२४.१४.१ चतुर्थैकोनपञ्चाशद्रात्रः

अतिरात्रश्चतुर्विंशं प्रायणीयं अहस्त्रयोऽभिप्लवाः षडहा अभिजित्त्रयः स्वरसामानो दिवाकीर्त्यं अहस्त्रयः स्वरसामानो विश्वजिदेकोऽभिप्लवः षडह आयुश्च गौश्च द्वे आहनी द्वादशाहस्य दशाहानि महाव्रतं चातिरात्रश्च संवत्सरसं मिता यावती संवत्सरस्यर्द्धिस्तावत्येतासां ऋद्धिः

२४.१४.२ त्रिवृत् कार्य्यता

तदाहुर्यच्चतुर्विंशं अहः प्रयणीयं कुर्युः संवत्सरं आरभ्य न समापयेयुरिति त्रिवृदेव कार्यं प्राणा वै त्रिवृत्प्राणानेवोपयन्ति

२४.१४.३ पक्षनिराससिद्धान्तौ

अथो खल्वाहुश्चतुर्विंशं एव कार्यं समृध्यै

२४.१४.४ उभय स्वर सामत्वं

अथैते स्वरसामानः शिरो वै दिवाकीर्त्यं प्राणाः स्वरसामानो यद्दिवाकीर्त्यं अभितः स्वरसामानो भवन्ति शिरस्येव तत्प्राणा धीयन्ते

२४.१४.५ गौआयुषी त्र्यहः प्रशंसा

अथ यावन्त्यौ प्राणौ तौ विश्वजिदभिजितावथैते गोआयुषी मिथुनौ स्तोमावुपयन्ति प्रजात्यै

२४.१४.६ दशाहः प्रशंसा

अथैतानि द्वादशाहस्य दशाहानि वाचं अविच्छिन्नां उपयन्ति प्रजननाय

२४.१४.७ महाव्रत प्रशंसा

अथैतद्व्रतं अन्नं वै व्रत न वा अन्यत्र मुखादन्नं धिनोति यदुपरिष्टाद्व्रतं उपयन्ति मुखत एव तदन्नाद्यं धीयते तस्मान्मुखे सदन्नं धिनोति

२४.१४.८ आद्यन्ताहः प्रशंसा

अथैतौ प्रायणीयोदयनीयावतिरात्रौ येनैव प्राणेन प्रयन्ति तं अभ्युधन्ति

२४.१५.१ पञ्चमैकोनपञ्चाशद्रात्रः

अतिरात्रो नव त्रिवृन्त्यहान्यग्निष्टोममुखष्षडहोऽथ यानि त्रीण्यहान्यग्निष्टोमावभित उक्थ्यं मध्यतो नव पञ्चदशान्यहान्यग्निष्टोमं उखः षडहोऽथ यानि त्रीण्यहान्यग्निष्टोमावभित उक्थ्यं मध्यतो नव सप्तदशान्यहान्यग्निष्टोममुखः षडहोऽथ यानि त्रीण्यहान्यग्निष्टोमावभित उक्थ्यं मध्यतो नवैकविंशान्यहान्यग्निष्टोममुखः षडहोऽथ यानि त्रीण्यहान्यग्निष्टोमावभित उक्थ्यं मध्यतो द्वादशाहस्य दशाहानि महाव्रतं चातिरात्रश्च

२४.१५.२ रात्रि प्रशंसा

एताभिर्वै सविता सर्वस्य प्रसवं अगच्छत्

२४.१५.३ अधिकारि निरूपणं

सर्वस्य प्रसवं गच्छन्ति य एता उपयन्ति

२४.१५.४ त्रिवृदादि स्तोम संघः

यद्गणशः स्तोमा बहव एव भवन्ति सह त्रिवृतः सह पञ्चदशाः सह सप्तदशाः सहैकविंशाः सवितुर्वा एताः ककुभः

२४.१५.५ स्तोमसंघप्रयुक्त फलं

ककुभः समानानां च प्रजानां च भवन्ति य एता उपयन्ति

२४.१६.१ षष्ठैकोनपञ्चाशद्रात्रः

अतिरात्रश्चत्वारोऽभिप्लवाः षडहा महाव्रतं द्वावभिप्लवौ षडहौ द्वादशाहस्य दशाहान्यतिरात्रः

२४.१६.२ अधिकारि निर्णयः

ऋतवो न प्रत्यतिष्ठंस्त एताभिः प्रत्यतिष्ठन्प्रतिष्ठाकामा उपेयुः

२४.१६.३ रात्रि प्रशंसा

प्रत्येव तिष्ठन्ति षड्वा ऋतव ऋतुष्वेवैताभिः प्रतितिष्ठन्ति यत्क्ळ्प्तान्षडहानुपयन्ति क्ळ्प्त्या एव

२४.१६.४ महाव्रत मध्यमस्थानत्वं

अथैतद्व्रतं अन्नं वै व्रतं न वा अन्यत्र मध्यादन्नं धिनोति यद्व्रतं मध्यत उपयन्ति मध्यत एव तदन्नाद्यं धीयते तस्मान्मध्ये सदन्नं धिनोति

२४.१६.५ षडह द्वयं

यत्क्ळ्प्तौ षडहावुपयन्ति क्ळ्प्त्या एव

२४.१६.६ दशातिरात्र प्रशंसा

अथैतानि द्वादशाहस्य दशाहानि वाचं अविच्छिन्नां उपयन्ति प्रजननायाथैतौ प्रायणीयोदयनीयावतिरात्रौ येनैव प्राणेन प्रयन्ति तं अभ्युद्यन्ति

२४.१७.१ सप्तमैकोनपञ्चाशद्रात्रः

अतिरात्रः षडभिप्लवाः षडहा द्वादशाहस्य दशाहानि महाव्रतं चातिरात्रश्च

२४.१७.२ अधिकारि निरूपणं

एताभिर्वा इन्द्राग्नी अत्यन्या देवता अभवतां अत्यन्याः प्रजा भवन्ति य एता उपयन्ति

२४.१७.३ ओजोद्वारा प्रशंसा

इन्द्राग्नी वै देवानां ओजिष्ठा ओजिष्ठा भवन्ति य एता उपयन्ति

२४.१७.४ षडहादि प्रशंसा

यत्क्ळ्प्तान्षडहानुपयन्ति क्ळ्प्त्या एवाथैतानि द्वादशाहस्य दशाहानि वाचं अविच्छिन्नां उपयन्ति प्रजननायाथैतद्व्रतं अथैतौ प्रायणीयोदयनीयावतिरात्रौ येनैव प्राणेन प्रयन्ति तं अभ्युधन्ति

२४.१८.१ एकषष्टिरात्रः क्रतुः

अतिरात्रश्चतुर्विंशं प्रायणीयं अहस्त्रयोऽभिप्लवाः षडहाः पृष्ठ्यः षडहोऽभिजित्त्रयस्स्वरसामानो दिवाकीर्त्यं अहस्त्रयः स्वरसामानो विश्वजित्पृष्ठ्यः षडहस्त्रयस्त्रिंशारम्भण एकोऽभिप्लवः षडह आयुश्च गौश्च द्वे अहनी द्वादशाहस्य दशाहानि महाव्रतश्चातिरात्रश्च तदेतदेकषष्टिरात्रं दैवानां व्रात्यानाम्

२४.१८.२ होमार्थाख्यायिका

दैवा वै व्रात्याः सत्त्रं आसत बुधेन स्थपतिना ते ह वा अनिर्याच्य वरुणं राजानं देवयजनं दिदीक्षुस्तान्ह वा वरूणो राजानु व्याजहारान्तरेमि वो यज्ञियाद्भागधेयान्न देवयानं पन्थानं प्रज्ञास्यथेति तस्मात्तेभ्यो न हविर्गृह्णन्ति न ग्रहम्

२४.१८.३ सर्व्वनिधि साधनता

अथ ह वै तर्हि नौषधीषु पय आसीन्न क्षीरे सर्पिर्न मांसे मेदो न त्वचि लोमानि न वनस्पतिषु पलाशानि तद्यत एतदेकषष्टिरात्रं दैवा व्रात्या उपायंस्ततो वै तानि भुतान्येतैर्वीर्यैः समसृज्यन्त तेजस्वन्त्येवासन्पयस्वन्ति

२४.१८.४ ब्राह्मणोदाहरणं

तदेष श्लोकोऽभ्यनूच्यते

२४.१८.५ श्लोकत्रय कथनं

किं अकर्तेति यत्पुत्रान्मुहुर्दैवां अपृच्छत मही बुधस्यासीद्दीक्षा स क्षीरे सर्पिराहरत्

२४.१८.६ श्लोकत्रय कथनं

महीं दीक्षां स्ॐआयनो बुधो यदुदयच्छदनन्दत्सर्वं आप्नोन्मन्मांसे मेदोऽधा इति

२४.१८.७ श्लोकत्रय कथनं

दरिद्रा आसन्पशवः कृशाः सन्तो व्यस्थकाः स्ॐआयनस्य दीक्षायां समसृज्यन्त मेदसेति

२४.१८.८ होम विधानं

तद्य एतदेकषष्टिरात्रं उपेयुस्ते देवयजनं अध्यवसाय गार्हपत्य आहुतिं जुहयुर्देव वरुण देवयजनं नो देहि स्वाहेति ते दत्ते देवजने यजन्ते

२४.१८.९ अधिकारि निर्णयः

ते सर्वां ऋद्धिं आर्ध्नुवन्सर्वां ऋद्धिं ऋध्नुवन्ति य एतदुपयन्ति

२४.१९.१ शतरात्र सत्रं

अतिरात्रो ज्योतिर्गौरायुस्त्र्यहश्चतुर्दशाभिप्लवाः षडहा द्वादशाहस्य दशाहानि महाव्रतं चातिरात्रश्च

२४.१९.२ सार्थवाद फलं

देवा वै मृत्योरबिभयुस्ते प्रजापतिं उपाधावंस्तेभ्य एतेन शतरात्रेणामृतत्वं प्रायच्छदेतद्वाव मनुष्यस्यामृतत्वं यत्सर्वं आयुरेति वसीयान्भवति सर्वं आयुर्यन्ति वसीयांसो भवन्ति य एतदुपयन्ति

२४.१९.३ अनुष्ठान नियमः

अभिप्रयायं अभिषुण्वन्त्यभिक्रान्त्यै समानत्राभिषुण्वन्ति प्रतिष्ठित्यै

२४.२०.१ संवत्सरसत्रं

अतिरात्रश्चतुर्विंशं प्रायणीयं अहश्चत्वारोऽभिप्लवाः षडहाः पृष्ठ्यः षडहः स मासः स द्वितीयः स तृतीयः स चतुर्थः स पञ्चमस्त्रयोऽभिप्लवाः षडहाः पृष्ठ्यः षडहोऽभिजित्त्रयः स्वरसामानो दिवाकीर्त्यं अहस्त्रयः स्वरसामानो विश्वजित्पृष्ठ्यः षडहस्त्रयस्त्रिंशारम्भणस्त्रयोऽभिप्लवाः षडहाः पृष्ठ्यः षडहस्त्रयस्त्रिंशारम्भणश्चत्वारोऽभिप्लवाः षडहाः स मासः स द्वितीयः स तृतीयः स चतुर्थस्त्रयोऽभिप्लवाः षडहा आयुश्च गौश्च द्वे अहनी द्वादशाहस्य दशाहानि महाव्रञ्चातिरात्रश्च

२४.२०.२ गवामयनिक ब्राह्मणादेशः

संवत्सरब्राह्मणं ब्राह्मणम्